०९ संस्काराः

विश्वास-प्रस्तुतिः

[४८]

अथ शूद्रस्य संस्काराः

यमः ।

शूद्रो ऽप्य् एवंविधः कार्यो विना मन्त्रेण संस्कृतः ।
न केनचित् समसृजच् छन्दसा तं प्रजापतिः ॥

छन्दसा मन्त्रेण । व्यासो ऽपि ।

गर्भाधानं पुंसवनं सीमन्तो जातकर्म च ।
नामक्रिया निष्क्रमो ऽन्नप्राशनं वपनक्रिया ॥
कर्णवेधो व्रतादेशो वेदारम्भक्रियाविधिः ।
केशान्तः स्नानम् उद्वाहो विवाहाग्निपरिग्रहः ॥
त्रेताग्निसङ्ग्रहश् चैव संस्काराः षोडश स्मृताः ।

इत्य् उक्त्वाह ।

नवैताः कर्णवेधान्ता मन्त्रवर्जं क्रियाः स्त्रियः ।
विवाहो मन्त्रतस् तस्याः शूद्रस्यामन्त्रतो दश ॥

यत् तु स्मृतिकौमुद्यां मदनपालेनोक्तम्

ब्राह्मणक्षत्रियवैश्यानां गर्भाधानसीमन्तजातकर्मनामकरणाऽन्न-प्राशनचूडोपनयनव्रतचर्याध्ययनसमावर्तनविवाहयज्ञदानानि समानानीति सुमन्तूकौ द्विजानाम् एवोक्तेः । विवाहमन्त्रसंस्कारं शूद्रो ऽपि लभतां सदेति ब्राह्माच् च । न शूद्रस्य जातकर्मादि । एवं चौलाभावः, “चूडाकर्म द्विजातीनां सर्वेषाम् एव धर्मतः” इति मनूक्तेः ।

इति । तच् चिन्त्यम् । सौमन्तवचनस्योपनयनादिसाम्यार्थत्वात् । अन्यथा दाने ऽप्य् अनधिकारापत्तेः1मानवीये च धर्मत इत्य् उक्तेः शूद्रे होमादिनिषेधात् । तद् आह मनुः

बैजिकैर् गार्भिकैर् होमैश् चूडामौञ्जीनिबन्धनैः ।
बैजिकं गार्भिकं चैनो द्विजानाम् अपमृज्यते ॥ इति ।

अत एव मदनरत्ने हिरण्यगर्भदाने ।

गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा ।
कुर्युर् हिरण्यगर्भस्य ततस् ते द्विजपुङ्गवाः ॥

इत्य् उक्त्वा ।

जातकर्मादिकाः कुर्यात् क्रियाः षोडश चापराः ।

इत्य् अत्र मात्स्ये

स्त्रिया जातकर्मनामकरणनिष्क्रमणान्नप्राशनचूडाविवाहाः षट्संस्काराः । शूद्राणां तु षड् एते पञ्चमहायज्ञाश् चेत्य् एकादश ।

इत्य् उक्तम् । रूपनारायण-हरिहरभाष्ययोर् अप्य् एवम् । शूद्रस्योपनयनवर्जा गर्भादानादिविवाहान्ताः नव संस्कारा इति जयपालःशार्ङ्गधरस् तु,

द्विजानां षोडशैव स्युः शूद्राणां द्वादशैव हि ।
पञ्चैव मिश्रजातीनां संस्काराः कुलधर्मतः ॥ १ ॥
वेदव्रतोपनयनं महानाम्नी महाव्रतम् ।
विना द्वादश शूद्राणां संस्कारा नाममन्त्रतः ।

इत्य् आह । [४९] अपरार्कस् तु “गर्भाधानम् ऋतौ पुंसः” इत्य् अत्र आह -

एतद् चातुर्वर्ण्यपरं न द्विजातिमात्रपरम् । तथा सत्य् उपनयनं विधाय वाच्यं स्यात् ।

इति । तेन तन्मते गर्भाधानपुंसवनसीमन्तजातकर्मनामकरणनिष्क्रमणान्नप्राशन-चौलाख्याः अष्टौ भवन्ति । कल्पतरौ ब्राह्मे तु -

विवाहमात्रं संस्कारं शूद्रो ऽपि लभतां सदा ।

इत्य् उक्तम् । अत्र सदसच्छूद्रगोचरत्वेन देशभेदाद् वा व्यवस्थेति तत्वम् ।

यत् तु मनुः,

न शूद्रे पातकं किञ्चिन् न च संस्कारम् अर्हति ।

इति, तदर्थम् आह मेधातिथिः

यत् सामान्यतो निषिद्धं स्तेयानृतादि न तद् अतिक्रमे ऽस्य तथा पापं यथा द्विजानाम् । उपनयनरूपं संस्कारं च नार्हति ।

इति । ते च तूष्णीं कार्याः पूर्वोक्तयमाद्य्उक्तेर् इति दिक् ।

मूलम्

मराठी

यानन्तर शूद्राचे संस्कार साङ्गतो.

यांविषयीं यम ह्मणतो की, “याप्रकारचा स्वधर्माने वागणारा शूद्र मन्त्रावाञ्चून संस्कारयुक्त करावा. कारण, ब्रह्मदेवानें सृष्टिसमयीं ब्राह्मणादि तीन वर्ण वेदमन्त्रांहीङ्करून उत्पन्न केले. परन्तु ह्या शूद्रास कोणत्याही वेदमन्त्रेकरून उत्पन्न केलें नाहीं2.” व्यासही ह्मणतो की, “गर्भा धान, पुंसवन, सीमन्तोन्नयन, जातकर्म, नामकर्म, निष्क्रमण, अन्नप्राशन, चौल, कर्ण वेध, महानाम्न्यादिवते, उपनयन, वेदारम्भक्रियाविधि, समावर्तन, विवाह, स्मार्ताग्निस्वीकार, आणि अग्निहोत्र घेणे हे सोळा संस्कार होत.” असे साङ्गून पुढे ह्मणतो की, “यान्तून गर्भाधान, पुंसवन, सीमन्तोन्नयन, जातकर्म, नामकर्म, निष्क्रमण, अन्नप्राशन, चौल, व कर्णवेध हे नऊ संस्कार स्त्रियाम्स वैदिकमन्त्रावाञ्चून करावे, व दहावा संस्कार विवाह हा मात्र समन्त्रक करावा.

आणि शूद्राचे, हे दहाही संस्कार अमन्त्रक करावे.” जे स्मृति कौमुदीम्त मदनपालाने साङ्गितले आहे की, “ब्राह्मण, क्षत्रिय, वैश्य याम्स गर्भाधान, सीमं तोन्नयन, जातकर्म, नामकरण, अन्नप्राशन, चौल, उपनयन, व्रतचर्या, वेदाध्ययन, समावर्तन, विवाह, यज्ञ, व दाने ही तिहीं वर्णास समान आहेत3.” सुमन्तुवचनांत हे संस्कार द्विजांसच साङ्गितले आहेत, ह्मणून ‘केवळ विवाह मात्र संस्कार शूद्रासहि नेहमी मिळावा,’ ह्या ब्रह्मपुराणवचनावरून शूद्रास जातकर्मादि संस्कार करूं नयेत.

असाच चौलाचाही अभाव आहे, कारण, “सर्व द्विजातीसच धर्मतः चौलकर्म विहित आहे." अशी मनूची उक्ति आहे." ह्मणून ते मदनपालाचे मत चिन्तनीय आहे. कारण, सुमन्तूच्या वचनास उपनयनादि साम्यार्थत्व आहे, नाही तर सुमन्तूने घेतलेल्या गर्भाधानादि सर्वाञ्चा निषेध मानिल्यास दानाविषयींहि शूद्रास अनधिकार प्राप्त होईल4, व पूर्वोक्त मनुवचनांत “धर्मतः” असें मटले आहे, ह्मणून शूद्राविषयी चौलादिसंस्काराङ्गभूत होमा दिकाञ्चा निषेध आहे; परन्तु त्या संस्काराचा निषेध नाही.

तेम्च मनु ह्मणतो की, “बीजसं बन्धी व गर्भसम्बन्धी चौल, व मौञ्जी, यान्तील होमांहीं बैजिक, व गार्भिक पाप द्विजाचें नाश पावतेम्; अतएव मदनरत्नांत हिरण्यगर्भदानवर्णनप्रसङ्गी “गर्भाधान, पुंसवन, तसेम्च सीम न्तोन्नयन हे संस्कार; ते ब्राह्मणश्रेष्ठ त्या हिरण्यगर्माचे करते जाहले,” असे साङ्गून “जा तकर्मादि सोळा संस्कार करावेत.” असें मत्स्यपुराणाम्त साङ्गितले आहे; ह्मणून “स्त्रीचे जातकर्म, नामकरण, निष्क्रमण, अन्नप्राशन, चौल, व विवाह हे सहा संस्कार, व शूद्गाचे तर, हे .पूर्वोक्त सहा, आणि पञ्चमहायज्ञ मिळून अकरा करावेत.” असे साङ्गितले आहे. रूपनारायणीय, व हरिहरभाष्यान्तही असेम्च साङ्गितले आहे. “शूद्रास उपनयनावाञ्चून गर्भाधानापासून विवाहपर्यम्त नऊ संस्कार करावेत." असें जयपाल ह्मणतो. शार्ङ्गधर तर “द्विजाम्स सोळा, शूद्राम्स बारा, व मिश्रजातीम्स पाञ्चच संस्कार, कुलपरम्परागत धर्मानुसार करावेत; सोळा संस्कारान्तून वेदव्रत, उपनयन, महानाम्नी, व महाव्रत हे चार वर्ण्य करून राहिलेले बारा संस्कार शूद्रास नाममन्त्राने करावेत.’’ असें ह्मणतो. अपरार्क तर “गर्भा धानमृतौ०” “हे वाक्य चारही वर्णपर आहे. केवळ द्विजातिमात्रपर नाही. तसें जाह ल्यास उपनयन करून वाच्य होईल.” यावरून अपराकाञ्च्या मते गर्भाधान, पुंसवन, सी मन्तोन्नयन, जातकर्म, नामकरण, निष्क्रमण, अन्नप्राशन आणि चौल हे आठ संस्कार साम्स सारखे होतात असे सिद्ध होते. कल्पतरूत ब्रह्मपुराणाम्त “विवाहमात्र5 संस्कार निरन्तर शूद्रासही प्राप्त होवो.” असे साङ्गितले आहे. येथे सच्छूद्र, व असच्छूद्र एतद्विषयत्वेकरून अथवा देशभेदावरून व्यवस्था6 जाणावी, हे यान्तील तत्व आहे. जे मनु ह्मणतो की, “शूद्राचे ठायीं किञ्चितही पातक नाहीम्, व तो संस्कारास योग्य होत नाही.” याचा अर्थ मेधातिथीने साङ्गितला आहे तो असा की, “में चोरी, अनृतभाषण इत्यादि सामान्यतः सर्वाम्स निषिद्ध आहे7, त्याचे कदाचित् शूद्राने अतिक्रमण केल्यास जसें द्विजास अतिक्रम णनिमित्तक पाप आहे, तसे त्यास नाही, व उपनयनरूप संस्कारास तो योग्य नाही.” यावरून उपनयनाचाच निषेध होतो. शूद्रास जे संस्कार करावयाचे ते तूष्णी ( अमन्त्रक) करावे; कारण, पूर्वोक्त यमादिकाञ्ची उक्ति तसीच आहे ह्मणून, हे येथे केवल दिग्दर्शन मात्र केले आहे.

विश्वास-प्रस्तुतिः

[५१] शूद्रस्य चौले च न पञ्चचूडतादिपक्षः, तस्य गोत्रचिह्नत्वाच् छूद्रे च तदभावात् । यद्य् अपि “तस्माद् आहुः सर्वाः प्रजाः काश्यप्य” इति शतपथश्रुतेर् गोत्रनाशे तु काश्यप इति हेमाद्रौ व्याघ्रपादोक्तेश् च काश्यपं गोत्रम् अस्ति । अत एव,

पिण्डादि निर्वपेद् वीर नामतो गोत्रतस् तथा ।

इति हेमाद्रौ शूद्रश्राद्धे भविष्यवचनम् । तथापि श्राद्धे एव तत् । न तु प्रवरप्राप्तौ प्रमाणम् अस्ति ऋष्यपत्यत्वाभावाच् च । अत एव मनुना “द्विजानां धर्मतः” इत्य् उक्तम् । अर्थप्राप्तं शूद्रस्य केशवपनं तु न वार्यत इति मेधातिथिः । अत्र चौले विकल्पेन शूद्राणां सर्वमुण्डनं शिखाधारणं वा, “शूद्रस्यानियताः केशवेशाः” इति वसिष्ठोक्तेः । अत एव हारीतः,

स्त्रीशूद्रौ तु शिखां छित्त्वा क्रोधाद् वैराग्यतो ऽपि वा ।
प्राजापत्यं प्रकुर्यातां निष्कृतिर् नान्यथा भवेत् ॥ इति ।

तच् छूद्रे प्रायश्चित्तम् आह । अत एव गौडस्त्रीणां विधवानां शिखा दृश्यते । यत् तु पाद्मे,

न शिखी नोपवीती स्यान्
नोच्चरेत् संस्कृतां गिरम् ।
मध्यपत्रे न भुञ्जीत
ब्रह्मवृक्षस्य भामिनि8

इति ।

तन् मुण्डित्व-परिग्रहपक्षे इति दिक् । विशेषस् तु मत्कृते निर्णयसिन्धौ ज्ञेयः ।

शूद्राच्या चौलाम्त पाञ्च, तीन इत्यादि शिखा (शेण्ड्या) राखण्याचा पक्ष9 नियमित नाही.

कारण, त्या शिखा गोत्रचिन्हभूत आहेत, व शूद्रास गोत्राचा अभाव आहे; यद्यपि “तस्मात् सर्व प्रजा काश्यपी (कश्यपगोत्रोत्पन्न) आहेत, असे प्राचीन ऋषि ह्मणतात,” ह्या शत पथब्राह्मणवचनावरून, व “गोत्राचा नाश अर्थात् विस्मरण जाहले असेल तर काश्य पगोत्र घ्यावें.” अशी हेमाद्रीम्त व्याघ्रपादाची उक्ति आहे; ह्मणून शूद्रास काश्यपगोत्र आहे. अतएव " हे वीरा, शूद्राने नामगोत्रोच्चारपूर्वक पिण्डदानादि करावें." असे हेमाद्रीत शूद्रश्राद्धप्रकरणाम्त भविष्यपुराणवचन आहे. यावरून शूद्रास गोत्र आहे असे सिद्ध होते. तथापि तें केवल श्राद्धाचे ठायीम्च उपयोगी आहे. प्रवरप्राप्तीविषयीं तर प्रमाण नाही. कारण, शूद्र हे गोत्रप्रवर्तक ऋषीञ्चे10 मुलगे नव्हत.

याकरिताम्च मनूने “द्विजानां धर्मतः” असें मटलें आहे; “अर्थतः प्राप्त झालेले केशवपन (जायवळ काढणे) तर निवृत्त करीत नाहीं,” असें मेधातिथि ह्मणतो. त्यान्तून चौलामध्ये शूद्रास सर्वकेशमुण्डन, अथवा शेड्या राखणे हे विकल्पेङ्करून आहे. कारण, “शूद्रास केशवेश (शिखा) अ नियमित आहेत." अशी वसिष्ठाची उक्ति आहे. अतएव हारीत ह्मणतो की, “स्त्री, व शूद्र रागाने अथवा वैराग्याने शिखाछेदन करतील तर; दोषपरिहारार्थ त्यान्नी प्राजापत्य प्रायश्चित्त करावेम्, अन्यथा त्याञ्ची दोषनिवृत्ति होणार नाही.” असें शूद्रास शिखाछेदननिमित्तक प्रायश्चित्त साङ्गितले आहे, व याकरिताम्च गौडस्त्रिया विधवा अ सल्या तथापि त्याम्स शिखा11 असल्याचे आढळते. जे पद्मपुराणाम्त “शूद्राने शिखा, व उप वीत धारण करूं नये, व संस्कृतवाणी उच्चारूं नये, आणि पळसाच्या मधल्या पानावर भोजन करूं नये.” असा शिखाधारणाविषयी निषेध साङ्गितला आहे; तो मुण्डित्वपरिग्रह पक्षाचेठायी आहे.

हे येथे केवल दिग्दर्शनमात्र केले आहे. एतत्सम्बन्धी विशेष मत्कृत निर्णयसिन्धूत पहावा.

  1. इ फ़ोल्लोw प्; निर्णय रेअद्स्- अधिकारापत्तेः ↩︎ ↩︎

  2. याविषयी पृष्ठ २ टीप २ री व पृष्ठ ४ टीप १ ली याम्त बरेम्च विवेचन केले आहे. ↩︎

  3. ह्या वाक्याम्त मुख्यत्वेकरून उपनयनादिसंस्कार जसे ब्राह्मणाम्स विहित आहेत, तसेच क्षत्रियाम्स व वै श्याम्स विहित आहेत. अर्थात् पूर्वोक्तसस्कारांविषयी तीनही वर्णीचे साम्य आहे; इतकेच साङ्गितले आहे. अतएव हे साम्यार्थ आहे असे वाटते. ↩︎

  4. वरच्या टिपेत साङ्गितल्याप्रमाणे सुमन्तुवचनाची व्यवस्था तशी न मानिल्यास इतर संस्काराम्प्रमाणे त्या, व अन्य वचनाने विहित असलेल्या दानाविषयीही अनधिकार प्राप्त होईल असा अभिप्राय. ↩︎

  5. येथे “विवाहमात्रम्” असें मटले आहे. यावरून शूद्रास विवाहावाञ्चून इतर संस्कार विहित ना हीत, असे सिद्ध होते. कारण, “मात्र” हा शब्द निश्चयार्थक आहे. ↩︎

  6. येथे शदास संस्कार किती असावेत? याविषयी निरनिराळ्या ग्रन्थकाञ्चा मतभेद होतो. पहा की मद नपालाच्या मते शद्रास केवल विवाहरूप एकच संस्कार होतो. मत्स्यपुराणावरून अकरा संस्कार करा वेत असे सिद्ध होते. जयपालाच्या मते उपनयन वयं नऊ संस्कार, व शाइधराच्या मते बारा, अप. रााञ्च्या मते आठ, कल्पतरूच्या मते केवळ विवाह मात्र संस्कार शूद्रास करावा असे आहे. या सर्वाची मतेम्, सयुक्तिक व सप्रमाण असल्याकारणाने सर्वही बलवत्तर आहेत. यामुळे सर्वाची एकत्र प्रवृत्ति असल्या वरून त्याञ्ची सदसच्छूद्रत्वेकरून, अथवा देशभेदाने व्यवस्था करावी; हेच सयुक्तिक दिसते. ↩︎

  7. मनुष्यमात्राचा साधारण धर्म नारदाने धर्मराजाला साङ्गितला आहे. तो असा की, “सत्यं दया तपः शौचं तितिक्षेक्षा शमो दमः ॥ अहिंसा ब्रह्मचर्यं च त्यागः स्वाध्याय आर्जवम् ॥ १ ॥ सन्तोषः समदृक्सेवा ग्राम्येहोपरमः शनैः ॥ नृणां विपर्ययेहेक्षा मौनमात्मविमर्शनम् ॥ २ ॥ अन्नाद्यादेः संविभागो भूतेभ्यश्च यथार्हतः ॥ तेष्वात्मदेवताबुद्धिः सुतरां नृषु पाण्डव ॥ ३ ॥ श्रवणं कीर्तनं चास्य स्मरणं महतां गतेः ॥ सेवेज्याऽवनतिर्दास्यं सख्यमात्मसमर्पणम् ॥ ४ ॥ नृणामयं परो धर्मः सर्वेषां समुदाहृतः ॥ त्रिंशल्लक्षणवान्राजन् सर्वात्मा येन तुष्यति” ॥ ५ ॥ अर्थ, - सत्यभाषण १ सर्व प्राणिमात्रांवर दया २ एकादश्यादि उपवासरूप तप ३ शुद्धता ४ दुस च्याच्या अन्यायाचे सहन ५ युक्तायुक्तविचार ६ मनाचा निग्रह ७ बाह्यइन्द्रियाञ्चा निग्रह ८ अहिंसा ९ ब ह्मचर्य १० दान ११ आपल्यास विहित असेल त्याप्रमाणे कांही जपजाप्य १२ आर्जव १३ सन्तोष १४ सर्वत्र समदृष्टि ठेवणाऱ्या साधूञ्ची सेवा १५ स्वर्गादिफलाञ्ची इच्छा धरून कर्म न करणं १६ मनुष्य व्यर्थ कर्म करितात त्याञ्चे अवलोकन १७ व्यर्थभाषणाचा त्याग १८ देहादि जडाहून निराळा असणाऱ्या आत्म्याचा शोध करणे १९ सर्व प्राणिमात्राम्स आपल्याजवळ असलेल्या अन्नादिकाञ्चा यथायोग्य विभाग देणे २० प्रा णिमात्रांवर, व विशेषतः मनुष्यांवर आत्मबुद्धि, व देवताबुद्धि ठेवणे २१ हरिगुणाञ्चे श्रवण २२ कीर्तन २३ म्मरण २४ हरीची सेवा २५ पूजा २६ नमस्कार २७ त्याचे दास्य २८ सख्य २९. आत्मनिवेदन ३० या प्रकारच्या तीस लक्षणान्नी युक्त असा हा धर्म सर्वास आवश्यक आहे. यावरून सिद्ध होते की, वर साङ्गि तले त्याच्या विरुद्ध वागणे हा अधर्म होय, तो सर्व मनुष्यमात्राम्स निषिद्ध आहे. ↩︎

  8. प्- भामिनी ↩︎ ↩︎

  9. ब्राह्मणाम्स चौल करतेवेळीं शिखा राखण्याचे पक्ष निरनिराळे आहेत यांविषयी अपराकात, व मद नरत्नांत लौगाक्षीने साङ्गितले आहे की, “दक्षिणतः कमुञ्जा वासिष्ठानामुभयतोऽत्रिकश्यपानाम् ॥ मुण्डाभृगवः वाजिमेके मङ्गलार्थं शिखिनोऽन्ये यथाकुलधर्मं वा.” वसिष्ठगोत्रोत्पन्नांस उजव्या बाजूस; अत्रि, व कश्यपगोत्रोत्पन्नाम्स उजव्या, व डाव्या बाजूस शिखा राखणे विहित आहे. भृगुकुलोत्पन्नाम्स सर्वमुण्डन, आङ्गिरसाम्स पाम्च शिखा, व मङ्गलार्थ इतर सर्वाम्स आपल्या कुलधर्मानुसार शिखा राखणे विहित आहे. यावरून सिद्ध होते की, पश्चचूडतादिकपक्षाम्स गोत्रसम्बन्धाची अपेक्षा आहे, व शूद्रास त्याचा अभाव आहे एतदर्थ वर साङ्गितलेल्यान्तून कोणचाही पक्ष न घेता इच्छेनुसार पाहिजे तशी शेण्डी राखावी. ↩︎

  10. विश्वामित्र, जमदग्नि, भरद्वाज, गौतम, अत्रि, वसिष्ट, कश्यप, हे सात व अगस्त्य हे आठ ऋषी गोत्राञ्चे प्रवर्तक होत. ↩︎

  11. पति मेल्यानन्तर स्त्रियान्नी केशवपन अवश्य केले पाहिजे, याविषयी विशेष विचार याच ग्रन्थाच्या तिस या प्रकरणाम्त येईल. ही चाल आपल्या महाराष्ट्र वगैरे देशाम्त ब्राह्मणलोकाम्त तर आहेच; परन्तु इतर ह्मणजे सोनार, सुतार इत्यादिकान्तही आहे. उत्तरहिन्दुस्थानाम्त कित्येक ब्राह्मणजातीच्या पोटभेदाम्त वपन करण्याची चाल आढळत नाही. व येथे मुळाम्त स्त्रियाम्स शिखा छेदण्याचा जो निषेध केला आहे; तो तिन पति जिवम्त असतां रागाने अथवा, वैराग्याने शिखाछेदन केल्यास तिला लागू आहे; परन्तु पति मेल्यानन्तर केशवपन के ल्यास तेथे ह्या निषेधाची प्रवृत्ति होत नाही. व तसे न केल्यास ती अशुची होते. असें बहुत दिवसाम्पासून चालत आलेल्या शिष्टाचारावरून सिद्ध होते. ↩︎