विश्वास-प्रस्तुतिः
**[३९]**तथा व्रतोपवासादाव् अपि शूद्रस्याधिकारः । श्रवणविधिसिद्धविद्यत्वाद् वैदिकमन्त्राभावाच् च ।
प्राच्यास् तु वैश्यशूद्रयोर् द्विरात्राधिकोपवासनिषेधः,
वैश्याः शूद्राश् च ये मोहाद् उपवासं प्रकुर्वते ।
त्रिरात्रं पञ्चरात्रं वा तेषां व्युष्टिर् न् विद्यते ॥
इति हेमाद्रौ भविष्योक्तेर् इत्य् आहुः ।
तत्वं तु प्रक्रमान् महातपोविषयो ऽयं निषेध इति । नवरात्रे तु भवत्य् एव नवरात्रोपवासतः
इत्य् उक्त्वा,
ब्राह्मणैः क्षत्रियैर् वैश्यैः शूद्रैर् अन्यैश् च मानवैः ।
स्त्रीभिश् च कुरुशार्दूल तद्विधानम् इदं शृणु ॥
इति भविष्येशूद्रस्याप्य् उक्तेः । एवं प्रायश्चित्तं शूद्रे जपहोमरहितं देयम् ।
तस्माच् छूद्रं समासाद्य सदा धर्मपथे स्थितम् ।
प्रायश्चित्तं प्रदातव्यं जपहोमविवर्जितम् ॥
इति मिताक्षरायाम् अङ्गिरसोक्तेः । अत्र जपहोमवर्जप्रायश्चित्तदानतीर्थयात्रादौ न शूद्रसम्बन्धविधेर् उपसंहारः हविरुभयत्वतद् विशिष्टोद्देशे वाक्यभेदे द्विजानां तदभावापत्तेश् च । किं तु शूद्रसम्बन्धिप्रायश्चित्तोद्देशेन जपहोमवर्जत्वविधिलाघवात् ।
मूलम्

मराठी
जसा देवपूजेविषयीं शूद्रास अधिकार आहे, तसाच व्रतेम्, व उपवास इत्यादि कांविषयींहि आहे. कारण, शूद्रास, मन्त्रश्रवणविधीनेच सिद्धविद्यत्व आहे, व वैदि कमन्त्राञ्चा उपवासादिकाम्त अभाव आदे. पूर्वदेशान्तील पण्डित “वैश्य, व शूद्राम्स २ रा त्रीहून अधिक रात्री उपवास करण्याचा निषेध आहे, कारण “जे वैश्य, व शूद्र अज्ञा नानेम्, ३ किंवा ५ व याहून अधिक रात्री उपवास करितात त्याम्स शुद्धिच नाही." अशी हेमादीम्त भविष्यपुराणोक्ति आहे, यावरून, निषेध आहे." असें ह्मणतात;-यान्तील तत्व तर, पूर्वीच्या उपक्रमावरून, पूर्वोक्तवचन, मोठ्या तपाविषयी निषेधक आहे. सामान्य व्रताविषयीं नाही. असे वाटते. “नवरात्राम्त तर ९ रात्र उपवास करावा, हे मुख्य आहे. याकरितां शूद्रान्नी ९ रात्र उपवास करावाच.” असे साङ्गून ब्राह्मण, क्षत्रिय, वैश्य, शूद्र, व अन्य मनुष्यान्नी, व स्त्रियान्नी उपवास करावा. त्याचे विधान हे मी साङ्गतो, “तेश्रवणकर.” असें भविष्यपुराणांत शूद्रांसहि उपोषण साङ्गितले आहे. यावरून शूद्रान्नी सामान्य व्रतेम्, व तदङ्ग उपोषणे करावी. बहुकालपर्यम्त तप मात्र आचरूं नये असे सिद्ध होते. याप्रमाणे ज सा उपवासादिकांविषयी अधिकार आहे, तसेम्च शूद्रास जप, व होमरहित प्रायश्चित्त द्यावेम्, कारण “नेहमीं धर्माने वागणाऱ्या शूद्रास, प्रायश्चित्त देण्याचा प्रसङ्ग आल्यास जप, व होमावाञ्चून द्यावेम्" असें मिताक्षरेत अङ्गिराऋषीचें वचन आहे. येथे जप, व होम रहित प्रायश्चित्त, दान, तीर्थ यात्रादिकाञ्चे ठायीं शूद्रसम्बन्धविधीचा उपसंहार होत नाही. जसे हवि (होमद्रव्या) चे उभयत्व (२ देवतांत १ द्रव्य) असते तद्वत् विशेष उद्दे शाविषयी वाक्यभेद आहे, यावरून द्विनाम्स प्रायश्चित्त दान तीर्थादिविधीञ्च्या अभावाची प्राप्ति होईल; अर्थात् विधि नाहीसा होईल, तर शूदसम्बन्धी प्रायश्चित्ताच्या उद्देशाने तदं गभूत जप होमाचे वय॑त्व केल्याने विधीचे लाघव होते.
विश्वास-प्रस्तुतिः
**[४०]**अत्र केचित् प्रधानभूतयोर् जपहोमयोर् निषेधो न त्व् अङ्गभूतयोः । अत एव महार्णवे लौकिकाग्नौ स्त्रीशूद्रयोः प्रायश्चित्ताङ्गव्याहृतिहोमो विप्रद्वारोक्त इत्य् आहुः ।
तन् न,
आरम्भे सर्वकृच्छ्राणां समाप्तौ च विशेषतः ।
आज्येनैव च शालाग्नौ जुहुयाद् व्याहृतीः पृथक् ॥
श्राद्धं कुर्याद् व्रतान्ते तु गोहिरण्यादिदक्षिणम् ।
स्त्रीणां होमो न कर्तव्यः पञ्चगव्यं तथैव च ।
इति जाबालिना गृह्याग्निनियमात् । न चाग्नेः प्रतिनिधिर् अस्तीत्य् उक्तं नवमे । न वा लौकिकाग्नेर् वचनम् अस्ति तेनाविशेषाद् उभयोर् निषेधः अतो महादानेष्व् अप्य् अधिकारः । तथा च हिरण्यगर्भदाने मात्स्ये ।
शूद्रस्यैकादशसंस्काराः स्त्रीणां च षट् ।
नमोमन्त्रश्च्
इति मदनरत्नादिसर्वग्रन्थाः ।

येथे कित्येक “प्रधानभूत जप, व होम याञ्चा निषेध होतो, अङ्गभूत असलेल्याञ्चा होत नाही, यावरून प्रायश्चित्तांत अङ्गभूत असलेल्या जपहोमाचा निषेध होत नाही. अतएव मदनमहार्णवाम्त लौकिकाग्नीचे ठायीं स्त्रीशूद्रसम्बन्धी प्रायश्चित्ताङ्ग व्याहृतिहोम साङ्गितला आहे" असें ह्मणतात ते योग्य नाही, कारण, “सर्व प्रायश्चित्ताञ्च्या आरम्भी, व विशेषतः शेवटीं शालाग्नीचे1 ठायीं आज्य द्रव्याने पृथक् पृथक् व्याहृतिहोम करावा. आणि व्रताच्या शेवटीं गाई, व सुवर्ण इत्यादि दक्षिणा ज्याम्त आहे असें श्राद्ध2 करावें; स्त्रीकर्तृक3 प्रायश्चि त्तांत व्याहृतिहोम, व पञ्चगव्य करूं नयेत." असा जाबालीने प्रायश्चित्ताङ्गहोम गृह्याग्नीत करावा असा नियम केला आहे. यावरून व्याहृतिहोम लौकिकाग्नीत होत नाही. कदाचित् गृह्याग्नीस दुसरा प्रतिनिधि करावा असें झटले तर इतरांला प्रतिनिधि4 आहे, परन्तु “अग्नीला प्रतिनिधि नाही’ असें पूर्वमीमांसेच्या नवव्या अध्यायांत साङ्गितले आहे. आणि लौकि काग्नीचे ग्रहण करण्याविषयीं वचनप्रामाण्यहि नाहीम्; ह्मणून अविशेषास्तव दोन्हीहि अग्नीञ्चा निषेध होतो. ज्या हेतूस्तव जपहोमरहित प्रायश्चित्त घेण्याचा शूद्राम्स अधिकार आहे, त्या हेतूस्तव तुलादिमहादानांविषयींहि अधिकार आहे. असम्च मत्स्यपुराणांत हिरण्यगर्भदान प्रकरणांत साङ्गितले आहे. “शूद्राम्स ११ व स्त्रियाम्स ६ संस्कार, व नमः हा मन्त्र विहित आहे " असें मदनरत्नादि सर्व ग्रन्थकर्ते ह्मणतात.
विश्वास-प्रस्तुतिः
[४१] महादानेषु मात्स्ये ऽपि ।
स्त्रीणां कुण्डानि विप्रेन्द्र योन्याकाराणि कारयेत् ।
शारदातिलके ऽपि ।
वैश्यानाम् अर्धचन्द्राभं शूद्राणां च त्रिकोणकम् ।
इति शूद्राणां कुण्डोक्तेः, स्त्रीशूद्रयोः सधर्मत्वाच् च । अत एव मात्स्ये हिरण्यगर्भे ।
नरो वा यदि वा नारी सर्वब्रह्मात्मसम्भवम् ।
यः करोति महापुण्यं शृणु तस्यापि तत् फलम् ॥
इत्य् उक्तम् । कामधेनुदाने प्य् आग्नेये ।
ब्रह्मविट्क्षत्रशूद्राणां कर्तव्या यत्नतो नृप ।
इति । भविष्योत्तरे हलपङ्क्तिदाने ऽपि ।
प्रयत्नेन महीपाल दानम् एतन् नृपोत्तम ।
दातव्यं भक्तियुक्तेन स्त्रिया वा पुरुषेण वा ॥
ब्रह्माण्डे सप्तद्वीपदाने ।
सप्तद्वीपाह्वयं दानम् एवं कृत्वा तु मानवः ।
नारी वा पुरुषो वापि वैरिञ्चिं लोकम् आप्नुयात् ॥
धान्यपर्वते ऽपि ।
दिव्यं विमानम् आरुह्य नारी वा पुरुषो ऽपि वा ।
तत्रैव कार्पासाचले ऽपि । इत्य् उच्चार्य
नरो दद्यान् नारी वा विधिपूर्वकम् ।
तिलपर्वते ऽपि ।
पुण्यक्षयाद् इहागत्य राजा भवति धार्मिकः ।
नारी वा तस्य पत्नी च सुभगा रूपसंयुता ॥
तथा मान्धात्रा युवानश्वेन कार्तवीर्येण चैव हि ।
दानम् एतत् पुरा दत्तं तत्पत्नीभिस् तथैव च ॥
न च वचनात् तावन्मात्रे ऽधिकारः अनुवादेन फलार्थत्वात् । यद्य् अपि नरेन्द्रे विप्रेन्देत्यादिसामान्यस्य विद्वद्विषयत्वात् द्विजपरत्वम् एवार्हम् । तथापि क्वचिच् चतुर्वर्णग्रहणात् क्वचिच् छूद्रस्य क्वचिच् च स्त्रियाः परामर्शः । स्त्रीशूद्रयोः समानधर्मत्वाच् छ्रवणविधिसिद्धविद्यत्वात् कामित्वाच् च शूद्रस्याप्य् अधिकारः । तद् उक्तम्,
अधिकारी भवेच् छूद्रः पूर्तधर्मे न वैदिके ।
इति । मोक्षधर्मे ऽपि ।
मन्त्रवर्जं न दुष्यन्ति कुर्वाणाः पौष्टिकीं क्रियाम् ।
इति ।

महादानाविषयी मत्स्यपुराणांत असे साङ्गितले आहे की हे ब्राह्मणश्रेष्ठा, स्त्रीकर्तृकम हादानादिकर्माम्त * * आकाराची (त्रिकोण) कुण्डे करावी5" शारदातिलकान्तहि " अर्धचन्द्राकार वैश्याचे, व त्रिकोणाकार शूद्राचे कुण्ड असावें " असे येथे शूद्रास कुण्ड करण्याविषयी साङ्गितले आहे, व पूर्वोक्त मत्स्यपुराणवचनांत स्त्रियाम्स त्रिकोणाकृति कुण्ड साङ्गितले आहे, परन्तु स्त्रिया, व शूद्र समानधर्मे आहेत या हेतूस्तव शूद्रासहि त्रिकोणच विहित आहे; अतएव मत्स्यापुराणांत हिरण्यगर्भदान प्रकरणांत " पुरुष अथवा स्त्री स्वयमेव सर्व ब्रह्मात्मक अशा हिरण्यगर्भ पुरुषाचे दान भक्तिपूर्वक करील त्याचे पुण्य मी साङ्गतों तें ऐक’ असे साङ्गितले आहे.
कामधेनुदान विषयीं आग्नेयपुराणांत साङ्गितले आहे ते असे की, “ब्राह्मण, क्षत्रिय, वैश्य आणि शूद्र6 यान्नी अवश्यमेव ही कामधेनु ब्राह्मणास द्यावी.” भविष्योत्तरपुराणांत हलपङ्क्ति (नाङ्गराची ओळ) दानाविषयींहि “हे राजश्रेष्ठा भक्तियुक्त असलेल्या स्त्रियेनेम्, अथवा पुरुषांने7 हे दान मोठ्या प्रयत्नाने द्यावें.” असे साङ्गितले आहे. ब्रह्माण्डपुराणांत सप्तद्वीपदानाविषयीं असे साङ्गितले आहे की, “हें सप्तद्वीप नांवाचें दान पूर्वी साङ्गितल्याप्रमाणे जो मनुष्य करील तो स्त्री, किंवा पुरुष असला तरी सत्यलोकाला पावेल." आणखी तेथेच धान्यपर्वतदानाविषयी असे साङ्गितले आहे की, “जो मनुष्य हे धान्यपर्वतदान करील तो स्त्री, अथवा पुरुष कोणी असला तरी दिव्य विमानांत बसून उत्तम लोकास जाईल.” आणि त्याच ब्रह्माण्डपुराणांत कार्पासाचल (कापसाचा पर्वत) दानाविषयीं असें साङ्गितले आहे की, “स्त्रीने, अथवा पुरुषाने पूर्वी साङ्गितल्याप्रमाणे मन्त्राचा उच्चार करून विधिपूर्वक हे दान द्यावें.” तिलपर्व तदानाविषयींहि “हें दान देणारा स्वर्गलोकाम्त परम सौख्याचा उपभोग करितो. कदा चित् पुण्यक्षय होऊन इहलोकीं आला तर परमधार्मिक असा राजा होतो. दान देणारी स्त्री असेल तर ती इहलोकी उत्तम रूपवती, व सौभाग्ययुक्त अशी राजपत्नी होते.” असें साङ्गून आणखी - “मान्धाता, युवनाश्व[^८], व कार्तवीर्य यान्नी, व त्याञ्च्या स्त्रियान्नी पूर्वी हे तिलपर्वतदान दिले होते." असे साङ्गितले आहे. यावरून ज्या ज्या दानाविषयी विधिवचन असेल तेवढ्यापुरताच शूद्रास अधिकार आहे; असें ह्मणूं नये.
[^८] येथे मळाम्त “मान्धात्रा युवनाश्वेन” असे दोघाञ्चे ग्रहण केले आहे, परन्तु पुस्तकान्तरी “यौव नाश्वेन” असे आढळते, व युवनाश्व हा मान्धात्याचा पिता होय; याकरितां हंहि पाठान्तर योग्य आहे.
कारण, अनुवाद केल्याने फलार्थत्व आहे, यद्यपि “हे नरेन्द्र” इत्यादि शब्दांवरून ज्या वाक्यांत वर्णविशेषाचा नि यम केला नाही त्या सामान्य वचनास विद्वद्विषयत्वास्तव8 ब्राह्मणादिवर्णत्रयपरत्वच असणे योग्य आहे; तथापि क्वचित्स्थली चारहि वर्णाञ्चे ग्रहण केले आहे, व कोठे शूद्राञ्चा, व कोठे स्त्रियाञ्चा, व क्वचित् उभयताञ्चा अर्थतः स्वीकार केला आहे, व स्त्रीशूद्राञ्चे स मानधर्मत्व आहे, व त्याम्स श्रवणविधिसिद्धविद्यत्व असून फलकामित्व आहे, ह्मणूनं शूद्रा सहि पूर्वोक्त दानादिकांविषयी अधिकार आहे. तेम्च ग्रन्थान्तरी साङ्गितले आहे. जसे “शूद्र पूर्तधर्माविषयीं9 अधिकारी होईल, परन्तु वैदिक धर्माविषयीं होणार नाही.’ महाभारतांत मोक्षधर्मातहि “स्त्रिया, व शूद्र वैदिकमन्त्ररहित पौष्टिककर्म10 केल्यास दोषी होत नाहीत.” असे साङ्गितले आहे.
विश्वास-प्रस्तुतिः
[४३] पञ्चगव्ये तु स्त्रीणां विकल्पः ।
स्त्रीशूद्रस्य विशुद्ध्यर्थं प्राजापत्यं समादिशेत् ।
पञ्चगव्यं तु कुर्वीत स्नात्वा पीत्वा शुचिर् भवेत् ॥
इति पराशरोक्तेः । शूद्रे तु न निषेधः । यत् त्व् अत्रिः,
पञ्चगव्य्म् पिबेच् छूद्रो ब्राह्मणस् त्व् सुरां पिबेत् ।
उभौ तौ तुल्यकर्माणौ पुमाख्ये नरके वसेत् ॥
इति, तत् प्रायश्चित्तं विना ज्ञेयम् । विशेषः प्रायश्चित्तरत्ने ज्ञेयः । एवं पूर्ते ऽपि जलाशयोत्सर्गप्रासादप्रतिष्ठामहादानादिष्व् अपि शूद्रस्याधिकारः ।
अधिकारी भवेच् छूद्रः पूर्ते1 धर्मे न वैदिके ।
इति व्यास-जातूकर्ण्योक्तेः । पूर्तम् आह हेमाद्रौ मदनरत्ने च जातूकर्ण्यः ।
वापीकूपतडागादि देवतायतानि च ।
अन्नप्रदानम् आरामः पूर्तम् इत्य् अभिधीयते ॥
तत्रैव नारदः ।
ग्रहोपरागे यद् दानं सूर्यसङ्क्रमणेषु च ।
बहिर् वेद्याम् च यद् दानं तत् पौर्तिकम् उदाहृतम् ॥
तेन कर्मविपाकोक्तदानादाव् अप्य् अधिकारः । मनुः ।
दानधर्मं2 निषेवेत नित्यम् ऐष्टिकपौर्तिकम् ।
श्रौतस्मार्ताग्निकर्माङ्गं दानम् इष्टं तु पौर्तिकम् ॥
व्यासो ऽपि ।
वर्णानाम् आश्रमाणां च चातुर्वर्ण्ये युधिष्ठिर ।
दानधर्मं प्रवक्ष्यामि यथा व्यासेन भाषितम् ॥
विशेषस् तु मत्कृते दानकमलाकरे ज्ञेयः ।

पञ्चगव्याविषयीं तर स्त्रियाम्स वैकल्पिक अधिकार आहे; कारण, “स्त्री, व शूद्र याम्स देहशुद्ध्यर्थ प्राजापत्यप्रायश्चित्त साङ्गावे. पञ्चगव्य तर करावेच. स्नान, व पञ्चगव्यप्राशन केल्याने त्याञ्ची शुद्धि होईल.” अशी पराशराची उक्ति आहे. शूद्राविषयीं तर, पञ्चगव्याचा निषेध मुळीच नाही. में अत्रि ह्मणतो की, “जर शूद्र पञ्चगव्य, व ब्राह्मण सुरा, प्राशन करितील तर, ते दोघेहि एकसारखेच दोषी होतात. अर्थात् ब्राह्मणास सुरा प्राशन केल्याने में पातक लागते, तेम्च शूद्रास पञ्चगव्यप्राशनाने लागते; आणि ते दोघेहि पुमान्11 नांवाच्या नरकाम्त बहुकाल वास करितात” तें प्रायश्चित्तावाञ्चून पञ्चगव्यप्राशन केल्यास निषेधक होय, असे समजावेम्. एतत्सम्बन्धी विशेष निर्णय प्रायश्चित्तरत्ननामक ग्रन्थावरून जाणावा. याप्रमाणे पूर्तकर्माविषयीं ह्मणजे-विहिरी, तलाव इत्यादिकाञ्चा उत्सर्ग[^१३], देवप्रतिष्ठा, तुलादि महादानें इत्यादिकाञ्चे ठायींहि शूद्रास अधिकार आहे.
[^१३] “उत्सर्ग” झणजे कोणत्याहि एखाद्या लोकोपयोगी स्थावर वस्तूवरील आपला अधिकार सोडणे:-उदा. हरणार्थ सार्वजनिक रस्त्यावर, अथवा अन्यत्र विहीर, धर्मशाळा इत्यादि बान्धून सर्व लोकान्नी त्याचा उपभोग घ्यावा एतदर्थ त्याचा शास्त्ररीत्या उत्सर्ग करणे झणजे, ‘त्यांवर आपला हक नाही, व त्याञ्चा उपभोग सर्वान्नी घ्यावा.” असा सङ्कल्प करून त्यांवरील सलाचा त्याग करणे. याप्रकारचा उत्सर्ग न केला असल्यास “ल्या विहीर इत्यादिकाञ्चा उपभोग इतरान्नी करूं नये.” असे धर्मशास्त्रकाञ्चं मत आहे, कारण की, त्याम्पासून पर. स्वोपभोगरूप दोष प्राप्त होतो.
कारण, “शूद्र पूर्तधर्माचे ठायीं अधिकारी होईल परन्तु वैदिकधर्माविषयी होणार नाही” अशी व्यास, व जातूक ये याञ्ची उक्ति आहे. पूर्तकर्म कोणतें तें हेमाद्रीन्त, व मदनरत्नांत जातूकये साङ्गतो जसे-तळ्या, विहिरी, तलाव, देवालये इत्यादि बान्धणे; व अन्नदान, आराम ( बाग ) इत्यादि करणे यास पूर्तकर्म असें ह्मणतात." तेथेच ( हेमा० मद०) नारद ह्मणतो की, “चन्द्रसूर्यग्रहणप्रसङ्गी, व सूर्यसङ्क्रान्तिदिवसी, व द्वादशी इत्यादिकाञ्चे ठायीं में दान दिले जातें त्याला पूर्त असें ह्मणतात.” शङ्ख ह्मणतो की, “रोग्याञ्ची सेवा करणे वगैरे यासहि पूर्त ह्मणतात.” तेथेम्च ( हेमा० मद० ) अन्य स्मृतीम्त “चन्द्रसूर्यग्रहण, व सङ्क्रान्ति या पर्वकाळी, व वेदीच्या बाहेर जे दान देतात त्याम्स पौर्तिक असें ह्मणतात.” यावरून कर्म विपाक नांवाच्या ग्रन्थाम्त साङ्गितलेल्या दानादिकांविषयींहि अधिकार आहे. मनु ह्मणतो की, “नित्य ऐष्टिक म०-ग्रहयज्ञादि, व पौर्तिक मतलाव विहिरी इत्यादि करणे, अशा दानधर्माचे आचरण करावें.” श्रौत, व स्मार्त अग्नि ज्याम्त अङ्गभूत असतात, त्याम्स इष्ट, व पूर्वोक्तदानादिकास पूर्त असें ह्मणावेम्. “व्यासही ह्मणतो की, हे युधिष्ठिरा, चारही वर्णात त्या त्या वर्णाचा, व आश्रमाञ्चा दानधर्म तुला साङ्गतो, हे माझें वचन प्रमाण होय.” एत सम्बन्धी विशेष विचार मत्कृत दानकमलाकरावरून जाणावा.
विश्वास-प्रस्तुतिः
[४४] अत्र यत्र महादानजलाशयोत्सर्गादौ वैदिकमन्त्रयुक्ते वचनाद् रथकारस्येव दानादाव्12 अधिकारः शूद्रस्योक्तः तत्र द्वयी गतिः । वैदिकमन्त्ररहितं विप्रैः कार्यम् इत्य् एकः पक्षः । मन्त्रवर्जं न दुष्यन्ति कुर्वाणाः पौष्टिकीं क्रियाम् इति मोक्षधर्मेषु व्यासोक्तेः । मनुर् अपि ।
धर्मेप्सवस् तु धर्मज्ञाः सतां धर्मम् अनुव्रताः ।
मन्त्रवर्जं न दुष्यन्ति प्रशंसां प्राप्नुवन्ति च ॥
यत् तु मेधातिथिनोकं यानि मन्त्ररहितानि व्रतोपवासादीनि तान्य् अनुतिष्ठन्तः **[४५]**शूद्रा न दुष्यन्ति, न पुनः समन्त्राण्य् अपि मन्त्रवर्जम् अनुतिष्ठन्तो न दुष्यन्तीति समन्त्रकविधौ शूद्रान् प्रत्य् अप्रवृत्तत्वेन मन्त्रवर्जानुष्ठाने शब्दानुष्ठानं स्याद् इति, तन् न, स्थपतीष्टिवच् छृङ्गग्राहिकयाविधाने मन्त्रवर्जताविधानात् । अन्यथा मन्त्रहीने व्रतोपवासादाव् अनधिकारप्रसक्त्या विधिवैयर्थ्यात् । तस्मात् सन्निधानार्थकम् एवैतत् ।

येथे ज्या तुलादि महादाने, व विहिरी इत्यादिकाञ्चा उत्सर्ग इत्यादि वैदिकमन्त्रयुक्त13 कर्माचे ठायीं अधिकारविधायक वचनास्तव जसा रथकारास12 (सुतारास) अग्निहोत्र घेण्याविषयी अधिकार साङ्गितला आहे14, तद्वत् शूद्रास अधिकार साङ्गितला आहे, तेथें दोन प्रकारची गति आहे.
ती अशी की,-वैदिकमन्त्ररहित सर्वे कर्म ब्राह्मणाकडन हा एक पक्ष होय; कारण, “वैदिकमन्त्ररहित पौष्टिककर्म शूद्रान्नी केल्यास ते दोषी लोग नाहीत.” अशी महाभारतान्तर्गत शान्तिपर्वाम्त मोक्षधर्मप्रकरणीं व्यासाची उक्ति आहे. व मनुहि ह्मणतो की, “धर्माचरणाची इच्छा करणारे, व स्वतः धर्मज्ञ असून साधूनी आचरितधर्मास अनुसरणारे शूद्र, मन्त्ररहित पौष्टिककर्म करतील तर दोषी होत नाहीत; तर उलट प्रशंसेप्रत पावतात.’ या वचनाची व्याख्या करणारा मेधातिथि “जी व्रतोप वासादिक, मुळीम्च मन्त्ररहित आहेत त्याम्प्रत आचरण करणारे शूद्र दोषी होत नाहीत, परन्तु मुळीच समन्त्रक असलेली तुलादानादि कर्मे आचरण केल्यास शूद्र दोषी होत नाहीत असें नाहीम्; कारण मूलवचनांत “मन्त्रवर्जे न दुष्यन्ति” असें झटले आहे अतएव सम्मन्त्रक विधि तो शूद्राम्प्रत प्रवृत्त नसल्याकारणाने त्याचा अधिकार नाही.” असें ह्मणतो; परन्तु ते योग्य नाही. कारण, स्थपतीच्या15 इष्टीसारखें शृङ्गग्रोहिकेनें16 विधान केले असतां मन्त्रवl त्वाचे विधान होते; नाहीपेक्षा मन्त्रहीन अशा व्रतोपवासादिकांविषयीं शूद्राम्स अनधिकार प्राप्त होऊन तत्सम्बन्धी विधीला व्यर्थत्व येईल; तस्मात् हे वचन सन्निधानार्थत्व17 आहे.
विश्वास-प्रस्तुतिः
[४६] अन्ये त्व् आहुः विप्रैर् वैदिकमन्त्रेणैव होमादि कार्यम् । वक्ष्यमाणपराशरोक्तेः । माधवीये ऽप्य् एवमेव । पौराणमन्त्रेष्व् आचार्यकर्तृकेषु पाठ एव । याजमानेषु पाठ एवेति कल्पतरु-स्मार्तगौडादयः । युक्तं तु श्रवणविधिवशात् तेषां श्रवणमात्रम् उक्तयुक्तेः श्रवणजन्यज्ञानस्यैवाङ्गत्वात् । वैदिके तु याजमाने नमस्कारमात्रम् । अनुमतो ऽस्य नमस्कारो मन्त्र इति गौतमोक्तेः । गौडा मैथिलाश् चैवम् । एवम् उभयतोमुखीदाने नमोमन्त्रेण होमः । “यज्ञो वै नम” इति श्रुतेश् च । अस्येति षष्ठीश्रुत्या यजमानस्य याज्येतिवत् तत्सम्बन्धित्वात् पौराणो विप्रस्य । अमन्त्रस्य तु शूद्रस्य विप्रो मन्त्रेण गृह्यत इति पूर्वोक्तवाराहोक्तेः । यत् तु समन्त्रकहोमस्य पुत्रप्रतिग्रहाङ्गत्वाद् व्याहृत्यादिमन्त्रपाठे च स्त्रीशूद्रयोर् अनधिकारात् तयोर् दत्तकः पुत्रो न भवत्य् एवेति शुद्धिविवेके रुद्रधरेणोक्तम् ।
तन् न, भर्त्रनुज्ञया स्त्रिया अपि प्रतिग्रहोक्तेः । तद् आह वसिष्ठः । “न स्त्री पुत्रं दद्यात् प्रतिगृह्णीयाद् वान्यत्रानुज्ञानाद् भर्तुर्” इति । इदं तज्जीवने, तदूर्ध्वं तु स्वातन्त्र्यान् नानुज्ञापेक्षा । यद्य् अपि मेधातिथिना भार्यात्ववद् अदृष्टरूपं दत्तकत्वं होमसाध्यम् उक्तम् । स्त्रियाश् च होमासम्भवस् तस्यापि व्रतादिवद् विप्रद्वारा होमादि कारयेद् इति हरिनाथादयः । गौडनिबन्धतत्वेऽप्य् एवम् । एवं शूद्रस्याद्भुतरोगशान्तिकर्म-विपाकतुलादाव् अपि । स्त्रीशूद्राश् च सधर्माण इति स्मृतेः । अत एव शूद्रकर्तृकहोमो विप्रद्वारैव पराशरेणोक्तः ।
दक्षिणार्थं तु यो विप्रः शूद्रस्य जुहुयाद् धविः ।
ब्राह्मणस् तु भवेच् छूद्रः शूद्रस् तु ब्राह्मणो भवेत् ॥ इति ।
अत्र माधवाचार्यः। यो विप्रः शूद्रदक्षिणाम् आदाय तदीयं हविः शान्तिपुष्ट्यादिसिद्धये वैदिकैर् मन्त्रैर् जुहोति तत्र विप्रस्यैव दोषः शूद्रस् तु होमफलं लभेतैवेति व्याचक्षे । एतच् चास्माभिर् निर्णयसिन्धौ सविस्तरम् उक्तम् । तेन सर्वत्र शूद्राणां वैदिकमन्त्रहोमे द्वौ पक्षौ । विप्रद्वारा समन्त्रको अमन्त्रको नाम्ना चेति ।

अन्य कित्येक तर असें ह्मणतात की, " ब्राह्मणान्नी वैदिकमन्त्रानेच होमादि करावेम्, कारण पुढे येणारी पराशरोक्ति याला आधारभूत आहे.” पराशरमाधवीयान्तहि असेम्च साङ्गितले आहे. जेथे कर्म आचार्याने करण्याचे असून त्याम्त पुराणोक्तमन्त्र विहित असतील, तेथेंहि त्या मन्त्राञ्चा पाठच केला पाहिजे; व “यजन करवीत असतां मन्त्राचा पाठच केला पाहिजे.” असें कल्पतरू स्माते गौड, इत्यादि ह्मणतात. याम्त युक्ततर, शूद्रांला श्रवण विधि आहे, ह्मणून त्याम्स पौराणमन्त्राचे श्रवणमात्र विहित आहे. कारण पूर्वोक्त युक्ती वरून श्रवणजन्यज्ञानाचेच अङ्गत्व आहे. जेथें वैदिकमन्त्रान्नी कर्म साङ्गितले असेल तेथे यज मानाविषयी केवल नमः मन्त्र मात्र विहित आहे, कारण " याला प्रमाण, शूद्राला नमस्कार मन्त्रच अनुमत आहे.” अशी गौतमोक्ति आहे. गौड व मैथिलहि असेच ह्मणतात. याचप्रकारे उभयतोमुखी दानाचेठायीं नमोमन्त्रानेच होम करावा. कारण, “यज्ञोवै नमः” अशी श्रुति आहे. अस्य ह्या पष्ठीश्रवणाने यजमानाचा याचेठायीं जसा सम्बंध असावा तद्वत् सम्बन्धित्वास्तव पौराणमन्त्रपाठही ब्राह्मणाने करावा, कारण “ मन्त्ररहित अशा शूद्राचे ब्राह्मण मन्त्राने ग्रहण करितो" अशी पूर्वोक्त वराहपुराणाची उक्ति आहे. याकरिता ब्राह्मणान्नी केलेल्या मन्त्रपाठाने त्याचे शूद्राचे ग्रहण होते, अर्थात् त्यांला मन्त्रपाठाचे फल मिळते. जे “समन्त्रकहोम पुत्रस्वीकाराचा अङ्गभूत आहे, व व्याहृत्यादिमन्त्रपाठाचेठायीं स्त्रीशूद्राम्स अधिकार नाहीं18; या हेतूस्तव स्त्रीशूद्राम्स दत्तकपुत्र होतच नाही" असें शुद्धि विवेकाम्त रुद्रधराने साङ्गितले आहे, ते योग्य नाहीम्; कारण भर्त्याच्या अनुज्ञेनें स्त्रियेलाहि पुत्र घेण्यास अधिकार साङ्गितला आहे, व तेम्च वसिष्ठाने साङ्गितले आहे. जसे “ स्त्रीने भत्याञ्च्या आज्ञेवाञ्चून पुत्र दुसन्यास देऊ नये, व घेऊ नये." हे वचन पति जिवन्त असतां मात्र लागू आहे; पति मेल्यावर तर स्वतन्त्रतेने दत्तकपुत्र घेण्यास, व देण्यास स्त्रियाम्स अधिकार आहे. भर्त्याच्या आज्ञेची अपेक्षा नाही. यद्यपि मेधातिथीनें “जसे भार्यात्व अदृष्टरूप19 आहे. तद्वत् दत्तकत्वहि अदृष्टरूप होमसाध्य आहे." असे साङ्गितले आहे; व स्त्रीलाही होमाचा असम्भव आहे; तथापि “व्रतादिकाञ्चेपरी20 ब्राह्मणद्वारा होमादि करावें." अमें हरिनाथादिक ह्मणतात.
गौडनिबन्धतवाम्त असेम्च साङ्गितले आहे. याचप्रमाणे अद्भुतशान्ति21, रोगशान्ति, कर्मविपाकसम्बन्धीङ्कृत्ये, व तुलादिमहादाने इत्यादिकाञ्चे ठायींही शूद्रास अधिकार आहे. “स्त्रिया व शूद्र समानधर्मे आहेत” या स्मृतीवरून जसा स्त्रियाम्स ब्राह्म णद्वारा होमादि करून पूर्वोक्तक करण्याचा अधिकार आहे, तसाच शूद्रासही तत्समान धर्मत्वामुळे अधिकार आहे असे सिद्ध होते. अतएव “शूद्रकर्तृकहोम ब्राह्मणद्वारा करावा." अमें पराशराने साङ्गितले आहे. जसे -“जो ब्राह्मण दक्षिणा मिळण्याकरितां शूद्राचे होम द्रव्य घेऊन हवन करितो; तो शूद्र22 होतो’, व शूद्र ब्राह्मण23 होतो.” येथे ह्या स्मृतीचे व्याख्याकार माधवाचार्य ह्मणतात की, “ जो ब्राह्मण शूद्रापासून दक्षिणा घेऊन त्याचे हवि शान्ति पुष्टि इत्यादि सिध्यर्थ वैदिकमन्त्रान्नी हवन करितो; तेथे ब्राह्मणासच दोष आहे, शूद्राम्स तर केलेल्या होमाचे फळ अवश्यमेव मिळेलच." हे आमी निर्णयसिन्धूत सवि स्तर साङ्गितले आहे. ह्यावरून सर्वत्र शूद्राञ्च्या वैदिकमन्त्रहोमाचे ठायीं दोन पक्ष आहेत ब्राह्मणद्वारा समन्त्रक करावा. हा एक, व अमन्त्रक अथवा नाममन्त्रयुक्त हा दुसरा; या दो होन्तून पाहिजे तो पक्ष स्वीकारावा.
-
या शब्दाने विवाहाम्त जो अग्नि सिद्ध केलेला असतो त्याचे ग्रहण होते. याच अग्नीला गृह्याग्नि, अथवा स्मार्ताग्नि असं ह्मणतात. हा ज्याला वेदाध्ययन करण्याचा अधिकार आहे त्यासच विहित आहे; शूद्रा दिकाम्स त्याचा अधिकार नाही. ↩︎ ↩︎ ↩︎
-
येथे “गाई व सुवर्ण ज्याम्त दक्षिणा आहे असे श्राद्ध” करण्यास साङ्गितले आहे त्यावरून प्रायश्चित्ताङ्ग श्राद्ध करावयाचे ते द्रव्यद्वारा करावे असे सिद्ध होते. ज्याला विष्णुधाद्ध ह्मणतात तं हेच असावे. प्रकृत स्थली जरी व्रतान्तीं श्राद्ध करावे असे साङ्गितले आहे, तरी आदि, व अन्ती अशी दोन करण्याविषयी अ न्यत्र प्रामाण्य असून शिष्टाचारही तसाच आहे. ↩︎ ↩︎ ↩︎
-
येथे स्त्रीकर्तकप्रायश्चित्तान्तच होम, व पञ्चगव्याचा निषेध केला आहे, परन्तु येथे स्त्रियाञ्चं ग्रहण केवळ उपलक्षणार्थ आहे यावरून शूद्राचेहि ग्रहण होतेम्, व स्त्रीशूद्राञ्चे धर्मसाम्य आहे, आणि पूर्वोक्त अङ्गिरसवच नांत शूद्रकर्तकप्रायश्चित्तांत जप व होम वर्ण्य केले आहेत. ↩︎
-
‘प्रतिनिधि’ ह्मणजे एकाच्या ऐवजी पुढे केलेला दुसरा; प्रकृतस्थलीं गृह्याग्नीच्या ऐवजी लौकिकाग्नि प्रतिनिधिभूत करावा, याकरितां याचे ग्रहण केले आहे. इतराम्स प्रतिनिधि होतो परन्तु अग्नीस प्रतिनिधि होत नाही याविषयी त्रिकाण्डमण्डनाने साङ्गितले आहे की, - “न स्यात्प्रतिनिधिमन्त्रस्वामिदेवाग्निकर्मसु ॥ सदेशकालयोर्नास्ति नारेणराग्निरेवसा ॥ १ ॥” आणखी पूर्वमीमांसेच्या नवव्या अध्यायांत सविस्तर साङ्गितले आहे; परन्तु विस्तारभयास्तव ते येथे दिले नाही. ↩︎
-
ह्या वाक्यांत एखाद्या महादानाविषयीञ्चा उल्लेख नाही. तथापि महादानसम्बन्धी हवनादि करण्यास अ ग्निकुण्डे कशी करावी ते साङ्गितले आहे. यावरून स्त्रियाम्स ती दानादिकम करण्याचा अधिकार आहे असे अर्थात् सिद्ध होते. व मूळाम्त स्त्रियाञ्चे ग्रहण केले आहे. त्यावरून समानधर्मवास्तव शदाचेंहि ग्रहण होते, व हा एक साधारण नियम वाचकान्नी अवश्य लक्षाम्त टेविला पाहिजे की, ज्या ज्या आर्षवचनांत केवळ शूद्र, अथवा स्त्रियाञ्चे ग्रहण करून एखादें कर्म वगैरे साङ्गितले असते तेथें तें वचन स्त्रिया, व शूद्र ह्या दोघाम्स समानच असते; कारण दोघेहि समानधर्मी आहेत ह्मणन त्याञ्चे पृथक ग्रहण करीत नाहीत. ↩︎
-
येथेहि शूद्रशब्दाने स्त्रियाञ्चे ग्रहण होतेम्. ↩︎
-
ह्या वाक्यांत वर्णविशेषाचे ग्रहण न करितां सर्व साधारण स्त्रीपुरुषाञ्चे ग्रहण केले आहे; यावरून चा रीहि वर्णास हे दान विहित आहे असे सिद्ध होते. यावर कोणी अशी शङ्का करील की, स्त्रीपुरुषमात्रग्रहणाने अन्त्यजादिकांसहि ह्या दानाविषयी अधिकार का नसावा? यावर असे उत्तर आहे की, ज्यान्ना सिद्धविद्यत्व असेल त्यांसच कर्माधिकार आहे; जरी शूद्राम्स द्विजांसारिखा विद्याधिकार नाहीं तरी श्रवणविधिसिद्धविद्यत्व आहे, व अन्त्यजादिकाम्स त्याचा अभाव आहे. याविषयी पूर्वी पृ० १७ येथे विचार केला आहे तो पहा. ↩︎
-
यथाविधि ज्यान्नी वेदाचें अध्ययन केले असेल त्याम्स विद्वान् ह्मणतात; “तद्विषयकल” ह्मणजे त्याम्स लागू असणे, अर्थात् पूर्वी साङ्गितलेली हिरण्यगर्भादि दाने विद्वानान्नीम्च देण्यास योग्य आहेत असा अभिप्राय. ↩︎
-
विहिरी, तलाव, धर्मशाला इत्यादि धर्मार्थ करणे याला पतं ह्मणतात. याविषयी विशेष विचार मू. ळान्तच येईल. ↩︎
-
पूर्तधर्मे न वैदिके इति पाठान्तरम्. ↩︎
-
यमलोकाम्त जे अनेक नरक साङ्गितले आहेत त्यान्तील एकाचें हें नाम्व आहे. ↩︎
-
येथें असें ह्मणण्याचे कारण इतकेच की, पूर्वोक्त कम वैदिकमन्त्रसहितच ब्राह्मणादिकाम्स विहित आहेत, याकरिता त्याञ्चा शूद्रांविषयी काही व्यवस्था करून उपयोग करावयाचा आहे. ↩︎
-
सुतार हा वेदाधिकारी नसतांही त्यास अग्निहोत्र घेण्याचा अधिकार साङ्गितला आहे. परन्तु इतर वैदिक कर्मातून कोणत्याही कर्माचा अधिकार नाही. याविषयी विशेष कातीयश्रौतसूत्र, व पूर्वमी मांसेत पाहावा. ↩︎
-
शिल्पकाम करणारा अर्थात् सुतार याला स्थपति ह्मणतात. ↩︎
-
“ग्राहिका” ह्मणजे शिङ्ग धरणें-अर्थात एखाद्या पशुचे शिङ्ग धरल्याने जसें सर्व शरीराचे ग्रहण केलसें होते; तद्वत् एकाच्या ग्रहणाने इतर सर्वाञ्चेही ग्रहण होते असा अभिप्राय. ↩︎
-
“सन्निधानार्थ” ह्मणजे मुळी वैदिकमन्त्रयुक्त असलेल्या महादानादि कर्मात शूद्राने सनिध असून ब्राह्मणाकडून वैदिकमन्त्ररहित ती कर्मे करवावीं एतदर्थ हे वाक्य आहे असा अभिप्राय. ↩︎
-
दत्तकत्व् होमसाध्य आहे, व व्याहृतिहोम स्त्रीशूद्राम्स करण्याचा अधिकार नाहीम्; यामुळे दत्तक घेण्या सच अधिकार नाही असा अभिप्राय. ↩︎
-
यद्यपि इतर सर्व. विधि झाले तथापि विवाहसम्बन्धी होम झाल्यावाञ्चून स्त्रील ( भार्यापण ) सिद्ध होत नाही. तसेच दत्तकत्वहि अङ्गभूत व्याहृतिहोम झाल्यावाञ्चन सिद्ध होत नाही असा अभिप्राय आहे. ↩︎
-
एखादे व्रत स्त्रियान्नी घेतले असेल तर, त्याचे उद्यापन वगैरे जे करावयाचे त्याम्त सङ्कल्प मात्र स्वतः करून अन्य होमादि सर्व कर्म आचार्यद्वारा करवावेम्, असें आहे. तद्वत् पुत्रप्रतिग्रहाङ्ग व्याहृतिहोमहि ब्राह्म णद्वारा करवावा, असा अभिप्राय आहे. ↩︎
-
अरण्यान्तील पशु घराम्त शिरल्यास, व घराम्त वारूळ उत्पन्न जाहल्यास, जाते, अथवा घिरट इत्यादिक विनाकारण फुटल्यास याम्स अद्भुत ह्मणतात. हीं व अन्य कित्येक अद्भुतें शान्तिग्रन्थाम्त साङ्गितली आहेत. ती त्या त्या ग्रन्थाम्त पहावी. ही अद्भुतें जाहल्यास दोषपरिहारार्थ शान्ति करावी लागते; तिलाच अद्रत शान्ति असं ह्मणतात. ↩︎
-
येथे “ब्राह्मण शूद्र होतो” असे झटले आहे, यावरून दक्षिणा घेऊन शूद्राचे घरीं वैदिकमन्त्राने हवन करूम्, नये, व तसं केल्यास तो दोषी होतो इतकेच घेतले पाहिजे; नाही पेक्षा तसे हवन करणारा ब्रा ह्मण शूद्र होतो असे समजं नये. या प्रकारची वाक्ये स्मृत्यादिकाम्त बहुत उपलब्ध होतात, परन्तु त्याञ्चा अर्थ तें कर्म आचरण केल्यास दोषी होतो इतकाच घेण्याचा सम्प्रदाय आहे-उदाहरणार्थ “मासेन शूद्रो भवति ब्राह्मणः क्षीरविक्रयात्” दूध विकणारा ब्राह्मण एक महिन्याने शूद्र होतो. येथे ब्राह्मणाने दूध विकू नये, व विकल्यास दोष आहे. इतकाच अर्थ घेणे इष्ट आहे. उलट ब्राह्मण शूद्र होतो. असा मुळीच इष्ट नाही. याविषयी भाट्टदिनकर अध्याय १ पाद १ पहा. प्रकृतस्थलीही असाच अर्थ घ्यावा. व माधवा चार्यानीही याचप्रमाणे केला आहे. ↩︎
-
येथेही “शूद्र ब्राह्मण होतो, " याचा अर्थ वरच्या टिपेत साङ्गितल्याप्रमाणे घ्यावा. ह्मणजे- शूद्रास दोष नाही असे समजावें. ↩︎