विश्वास-प्रस्तुतिः
[३३]
अथ शूद्रस्य देवस्थापनम्
कल्पतरौ देवीपुराणे ।
वर्णाश्रमविभेदेन देवाः स्थाप्यास् तु नान्यथा ।
ब्रह्मा तु ब्राह्मणैः स्थाप्यो गायत्रीसहितः प्रभुः ॥चतुर्वर्णैस् तथा विष्णुः प्रतिष्ठाप्यः सुखार्थिभिः ।
भैरवो ऽपि चतुर्वर्णैर् अन्त्यजानां तथा मतः ॥मातरः सर्वलोकैश् तु स्थाप्याः पूज्याः सुरोत्तमः ।
लिङ्गं गृही यतिर् वापि संस्थाप्य तु वसेत् सदा ॥
त्रिस्थलीसेतौ पितामहचरणास् तु देवप्रतिष्ठायां शूद्रादीनां नाधिकारः ।
स्त्रीणाम् अनुपनीतानां शूद्राणां च नरेश्वर ।
स्थापने1 नाधिकारो ऽस्ति विष्णोर् वा शङ्करस्य च ॥
यः शूद्रसंस्कृतं लिङ्गं विष्णुं वापि नमेन् नरः ।
इह वात्यन्तदुःखानि पश्यत्य् आमुष्मिके किम् उ ॥शूद्रो वानुपनीतो वा स्त्रियो वा पतितो ऽपि वा ।
केशवं वा शिवं वापि स्पृष्ट्वा नरकम् अश्नुते ॥
इति बृहन्नारदीये । स्कान्दाद्युक्तेर् इत्य् आहुः । चतुर्वर्णैर् इति पूर्ववचनाद् विष्ण्वादिप्रतिष्ठायां शूद्रस्य विकल्प इति तु युक्तम् ।
मूलम्

मराठी
यानन्तर देवस्थापनाधिकार साङ्गतो.
याविषयी कल्पतरूम्त देवीपुराणाम्त साङ्गितले आहे की, " ब्राह्मणादि चार वर्ण व ब्रह्मचर्यादि चार आश्रम याञ्च्यां भेदाने ज्याम्स जे विहित असतील ते देव स्थापावे, अ न्यथा स्थापू नयेत. ते असे की-ब्राह्मणान्नी गायत्रीसहित ब्रह्मदेव व सुखाची इच्छा करणाऱ्या चारहि वर्णान्नीं विष्णु, चार वर्ण व अन्त्यज1 यानी भैरव, व सर्व लोकान्नी देवी, ह्या देवता स्थापन कराव्या, व आपल्यास विहित असेल त्याप्रमाणे त्याञ्चे पूजन करावेम्. हा वर्णभेदाचा प्रकार साङ्गितला आहे. गृहस्थाने, व सन्न्याशानेंहि2 शिव लिङ्गाची स्थापना करून त्याचे नेहमीं पूजन करावे.” असे साङ्गितले आहे.
1 परीट, चाम्भार (जिनगरहि यान्तीलच आहे), नटवा, बरूड, कोळी, मेद, व भिल्ल या साताम्स अम्. त्यज असें ह्मणतात.
2 येथे “लिङ्गाची स्थापना सन्न्याशाने करावी" असे साङ्गितले आहे, याविषयी काहीसा संशय येतो; कारण, सन्न्याशास कोणत्याहि कर्माचा अधिकार नाही, व अग्निसिद्ध कौ तर सर्वथा वयं आहेत, आणि देवप्रतिष्ठा तर अग्निसिद्ध आहे.
त्रिस्थलीसेतु नामक ग्रन्थाम्त आमचे (कमलाकरभट्टाचे) पितामहचरण (आजे नाराय णभट्ट) ह्मणतात की, “देवप्रतिष्ठेविषयीं शूद्रादिकाम्स अधिकार नाही, कारण, ‘स्त्रिया. उपनयन3 न झालेले द्विजपत्र. व शद्र याम्स विष्ण, अथवा शङ्कर याञ्च्या स्थापनेविषयी अधिकार नाही, व जो शूद्रस्थापितशिवलिङ्गास, अथवा विष्णुमूर्तीस नमस्कार करील तो इहलोकीच अत्यम्त दुःखें पाहतो; मग परलोकी पाहील हे साङ्गावयास नको. शूद्र, व मुम्ज न झालेला द्विज, स्त्रिया आणि धर्मश्रेष्ठ हे विष्णूला, अथवा शिवाला स्पर्श करतील तर ते नरकाचा उपभोग घेतील.’ अशी बृहन्नारदीय, व स्कन्दपुराण याञ्ची वचने आहेत, ह्म णून शूद्रादिकाम्स देवप्रतिष्ठेविषयी अधिकार नाही.” वस्तुतः वरील देवीपुराणवचनाम्त “चतुर्वर्णैः०” असे मटले आहे, त्यावरून विष्णु इत्यादिकाञ्च्या प्रतिष्ठेचे ठायीं शूद्राम्स वैकल्पिक अधिकार आहे; असें ह्मणणे युक्त आहे.
अतएव स्पर्शने नाधिकारोस्तीत्यन्यत्र पाठः ।
अतएव ग्रन्थान्तरी वरील बृहन्नारदीयवचनाचा, “स्थापने०” याठिकाणी “स्पर्शने " असा पाठ4 घेतला आहे.- इति शूद्रस्य देवप्रतिष्ठापनाधिकारनिर्णयः.
विश्वास-प्रस्तुतिः
[३४]
अथ शूद्रस्य देवपूजा
शिवसर्वस्वे भविष्ये ।
यस् तु पूजयते लिङ्गे देवादिं मां जगत्पतिम् ।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा मत्परायणः ॥तस्य प्रीतः प्रदास्यामि शुभांल् लोकान् अनुत्तमान् ।
गौडतिथितत्त्वे स्कान्दे ।
शूद्रः कर्माणि यो नित्यं स्वीयानि कुरुते प्रिये ।
तस्याहम् अर्चां गृह्णामि चन्द्रखण्डविभूषिते ॥
लैङ्गे ।
अथ रुद्रो महादेवो मण्डलस्थ उवाच ह ।
पूज्यो ऽहं ब्राह्मणानां च क्षत्रियाणां विशेषतः ॥
[३५] वैश्यानां चैव शूद्राणां शुश्रूष्यः पूजकस्य च ।
स्त्रीणां चैवाधिकारो ऽस्ति पूजादिषु न संशयः ॥
नृसिंहपुराणे ।
ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्रान्यजातयः ।
सम्पूज्य तं सुरश्रेष्ठं नरसिंहवपुर्धरम् ॥
मुच्यन्ते चाशुभैर् भावैर् जन्मकोटिसमुद्भवैः ।
अपिपालधृते तत्रैव पुराणे ।
अयाचितप्रदाता स्यात् कृषिं वृत्त्यर्थम् आश्रयेत् ।
पुराणं शृणुयाद् विप्रान् नरसिंहस्य पूजनम् ॥
सूतसंहितायाम् पञ्चाक्षरेण पूजाम् उक्त्वाह ।
ब्रह्मचारी गृहस्थो वा वानप्रस्थश् च सुव्रतः ।
एवं दिने दिने देवं पूजयेद् अम्बिकापतिम् ॥नमोन्तेन शिवेनैव स्त्रीणां पूजा विधीयते ।
विरक्तानां च शूद्राणाम् एवं पूजा प्रकीर्तिता ॥
पञ्चाक्षरस्य श्रुतौ नम आदित्वे ऽपि स्त्रीशूद्रयोर् नमोन्तत्वम् । अन्ये त्व् अन्ते भिन्नं नमःशब्दम् आहुः ।
अन्येषाम् अपि सर्वेषां नराणां मुनिपुङ्गवाः ।
पूजा देवालयं दृष्ट्वा प्रणामस् तस्य कीर्तितः ॥
एवं पूजा कृता येन सफलं तस्य जीवितम् ।

यानन्तर शूद्रास देवपूजाधिकार साङ्गतो. याविषयी शिवसर्वस्वस्थ भविष्यपुराणाम्त सां गितले आहे की;“जो ब्राह्मण, क्षत्रिय, अथवा वैश्य मलाच अनन्य भावाने भजणारा असा होऊन देवाञ्चा आदिपुरुप, व जगताचा पति असा जो मी याचे लिङ्गाचे ठायीं पूजन करील, त्यास मी प्रसन्न होत्साता शुभकारक अत्युत्तम लोक देईन.” गौडतिथितत्वाम्त स्कन्दपुराणाम्त “हे प्रिये, जो शूद्र नित्य स्वकीय कर्मे करीत असून माझी (शिवाची) पूजा करितो, त्याने केलेली ती पूजा मी स्वीकार करितो[^५].” असे साङ्गितले आहे. आणखी लिङ्गपुराणाम्त “यानन्तर ऋषिमण्डलाम्त बसलेला महादेव बोलता जाहला; की मी ब्राह्मण, क्षत्रिय, व वैश्य “याम्स विशेषतः पूज्य आहे, व शूद्राम्स सेवन करण्यास योग्य आहे, आणि पूजादिकांविषयी स्त्रियांसहि अधिकार आहे, याविषयी संशय नाही’ असे साङ्गितले आहे. नृसिंहपुराणाम्त ब्राह्मण, क्षत्रिय, वैश्य, स्त्रिया, शूद्र व अन्त्यज इत्यादि हे, सर्व देवाम्त श्रेष्ठ अशा नरसिंहरूप धारण करणाऱ्या त्या देवास पूजन केल्याने कोट्यावधि जन्मार्जित अशुभ भावापासून मुक्त होतात, असे साङ्गितले आहे. अपिपालनामक ग्रन्थकर्त्याने घेतलेल्या त्याच नृसिंहपुराण वचनाम्त “शूद्राने अयाचित[^६] द्यावे, व उदरनिर्वाहार्थ शेती करावी, ब्राह्मणापासून पुराण श्रवण • करावेम्, व नरसिंहाचे पूजन करावेम्” असे साङ्गितले आहे.
[^५] येथे " प्रिये " हे सम्बोधन शिवाने पार्वतीस दिले आहे “जो शूद्र नित्य स्वकर्मे करीत असून माझी पूजा करितो ती पूजा मी स्वीकारितों.” असे झटले आहे. यावरून स्वधर्मनिष्ठ शूद्राने केलेली पूजा देवास प्रिय आहे, व ह्मणूनच शूद्रास तिजविषयी अधिकार आहे; आणि तो स्वधर्माने वागणारे, व न वागणारे याञ्च्या तारतम्याने आहे असे वाटते.
[^६] येथे “अयाचित” देण्यास साङ्गितले आहे, कारण शुद्राजवळ ब्राह्मणाने याचना करूं नये, परन्तु न मागतां त्याने काही दिले तर घ्यावे, व तेंहि उत्तम शद्राकडचेच ध्यावेम्. असा निबम्ध आहे. व ब्राह्मणास य. थाशक्ति कांही दिल्याशिवाय शद्रास गत्यन्तर नाही, याकरितां “अयाचित” द्यावे अशी व्यवस्था कला आहे. याविषयीं ह्याच ग्रन्थाम्त ठिकठिकाणी बराच विचार केला आहे.
मृतसंहितेत पञ्चाक्षर मन्त्रानें पूजा साङ्गून पुढे, - “ब्रह्मचारी, गृहस्थ, अथवा वानप्रस्थ यान्नी उत्तम व्रतस्थ असून पूर्वी साङ्गितल्याप्रमाणे महादेवाची प्रतिदिवशी पूजा करावी. नमःशब्द अन्ती लावून ह्मणजे “शिवायनमः’ या मन्त्राने स्त्रियान्नी शिवपूजा करावी असे ब्राह्मी वि धान करितोम्; व वैराग्यशील शूद्रासहि याचप्रमाणे पूजा विहित आहे.” येथे शिवपञ्चाक्षरमन्त्र प्रतिपादकश्रुतीम्त मन्त्रास नमःशब्दादित्व आहे ह्मणजे,-“नमःशिवाय” असा मन्त्र आहे, तथापि वरील वचनाने स्त्रिया, व शूद्र याम्स “शिवायनमः” असा मन्त्र विहित आहे. अन्य कित्येक ग्रन्थकर्ते “शिवाय” असें ह्मणून निराळा " नमः “शब्द उच्चारावा.” असें ह्मणतात. “हे ऋषिश्रेष्ठहो, अन्य सर्व मनुष्याम्स देवाचे मन्दिर पाहून त्यास भक्तिपूर्वक नमस्कार करणे एवढीच पूजा विहित आहे. ज्याने पूर्वोक्तप्रकारें पूजा केली असेल त्याचे वाचणे सफल होय " असे साङ्गितले आहे.
विश्वास-प्रस्तुतिः
[३६] यत् तु मनुः,
जपस् तपस् तीर्थसेवा प्रव्रज्या मन्त्रसाधनम् ।
देवताराधनं चैव स्त्रीशूद्रपतनानि षट् ॥ इति ।
तद् विहितभिन्नपरं स्पर्शयुक्तपूजापरं वा । एतच् च पुराणप्रसिद्धजीर्णलिङ्गपूजाविषयम् । यानि तु त्रिस्थलीसेतौ नारदीये।
यः शूद्रेणार्चितं लिङ्गं विष्णुं वा प्रणमेन् नरः ।
न तस्य निष्कृतिर् दृष्टा प्रायश्चित्तायुतैर् अपि ॥नमेद् यः शूद्रसंस्पृष्टं शङ्करं हरिम् एव वा ।
स सर्वयातनाभोगी यावद् आचन्द्रतारकम् ॥पाखण्डपूजितं लिङ्गं नत्वा पाखण्डतां व्रजेत् ।
आभीरपूजितं लिङ्गं नत्वा नरकम् अश्नुते ॥योषिद्भ्यः पूजितं लिङ्गं विष्णुं वापि नमेत् तु यः ।
स कोटिकुलसंयुक्तम् आकल्पं रौरवं वसेत् ॥
इत्यादीनि तानि नूतनस्थापितलिङ्गविषयानि,
यदा प्रतिष्ठितं लिङ्गं मन्त्रविद्भिर् यथाविधि ।
तदाप्रभृति शूद्रश् च योषिद् वापि न संस्पृशेत् ॥
इति तत्रैवोक्तेः ।

में मनु ह्मणतो कीं;- “जप, तप, तीर्थसेवा, सन्न्यास, मन्त्रसाधन, देवताराधन ही ६ कमें स्त्री शूद्राम्स पतित होण्यास कारणीभूत आहेत, " ते ज्या शिवपूजादिकांविषयी विशेष विधान केले आहे, त्यावाञ्चून अन्य ह्मणजे, सन्न्यासादिक करण्याविषयीम्, अथवा लिङ्गाची स्पर्शयुक्त पूजा करण्याविषयी निषेधक आहे. ही स्पर्शयुक्त पूना पुराण प्रसिद्ध जीर्णलिङ्गाची मात्र निषिद्ध आहे. आधुनिक लिङ्गाविषयी निषेध नाही. जी त्रिस्थ लीसेतु नारदपुराणवचनें “जो मनुष्य शूद्रानें पूजिलेल्या लिङ्गास, किंवा विष्णुप्रतिमेस नमस्कार करील, त्यास हजारों प्रायश्चित्तें केली तरी दोषमुक्तता होईलशी वाटत नाही. जो शूद्राने स्पर्श केलेल्या शिवलिङ्गास, व विष्णुप्रतिमेस नमस्कार करील, तो यावच्चन्द्रसूर्य पर्यम्त सर्व यातना भोगील. पाखण्ड्यानें पूजिलेल्या लिङ्गास नमस्कार केल्यास, पाखण्डी हो ईल. गवळ्यान्नी पूनिलेल्या लिङ्गास नमस्कार केल्यास नरकास जाईल. स्त्रियान्नी पूजन केलेल्या लिङ्गास, व विष्णुप्रतिमेस जो नमस्कार करील, तो कोट्यावधि पुरुषांसह कल्प पर्यम्त रौरव नरकास जाईल.” इत्यादि आहेत, ती नवीन स्थापित लिङ्गाविषयीं नमस्कार पूजादिकाञ्ची निषेधक आहेत. कारण, “ज्या वेळी मन्त्रवेत्त्या ब्राह्मणान्नी यथाविधि लिङ्ग स्थापना केली असेल त्या दिवसापासून, स्त्री शूद्रान्नी स्पर्श करूं नये.” असे तेथेच साङ्गि तले आहे. यावरून पूर्वोक्त वचनें नूतन स्थापित लिङ्गाविषयीं आहेत, असे सिद्ध होते.
विश्वास-प्रस्तुतिः
[३७] अन्ये तु जगदुः । लिङ्गनमस्कर्तुर् दोषो ऽस्तु शूद्रस्य पूजायां फलम् अस्त्य् एव । नूतनलिङ्गार्चाशालग्रामादौ तु स्पर्शरहिता पूजा शूद्राद्यैः कार्या ।
शूद्रो वानुपनीतो वा स्त्रियो वा पतितो ऽपि वा ।
केशवं वा शिवं वापि स्पृष्ट्वा नरकम् अश्नुते ॥ब्राह्मण्य् अपि हरं विष्णुं न स्पृशेच् छ्रेय इच्छती ।
या तु पूजयते लिङ्गं विष्णुं वा शिवम् एव वा ॥सनाथा मृतनाथा वा तस्या नास्तीह निष्कृतिः ।
स्त्रीणाम् अनुपनीतानां शूद्राणां च जनेश्वर ॥
स्पर्शने नाधिकारो ऽस्ति विष्णोर् वा शङ्करस्य च ।
इति स्कान्दोक्तेः ।
चत्वारो ब्राह्मणैः पूज्यास् त्रयो राजन्यजातिभिः ।
वैश्यैर् द्वाव् एव सम्पूज्यौ तथैकः शूद्रजातिभिः ॥
इति स्कान्दोक्तेः । वाराहे तु शालग्रामे स्पर्शनिषेधो न प्रतिमादाव् इत्य् उक्तम् ।
शालग्रामं न स्पृशेत् तु हीनवर्णो वसुन्धरे ।
स्त्रीशूद्रकरसंस्पर्शो वज्रस्पर्शाधिको मतः ॥मोहाद् यः संस्पृशेच् छूद्रो योषिद् वापि कदाचन ।
स 2पतेन् नरके घोरे यावद् आभूतसम्प्लवम् ॥
यदि भक्तिर् भवेत् तस्याम् स्त्रीणां वापि वसुन्धरे ।
दूराद् एवास्पृशन् पूजां कारयेत् सुसमाहितः ॥सर्ववर्णैस् तु सम्पूज्याः प्रतिमाः सर्वदेवताः ।
लिङ्गान्य् अपि तु पूज्यानि मणिभिः कल्पितानि च ॥
इति विष्णुपुराणेपि ।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्च पृथिवीपते ।
स्वधर्मतत्परो विष्णुम् आराधयति नान्यथा ॥
यत् तु प्रयोगपारिजाते विष्णुधर्मोत्तरे,
शालग्रामशिलां वापि चक्राङ्कितशिलां तथा ।
ब्राह्मणः पूजयेन् नित्यं क्षत्रियादिर् न पूजयेत् ॥
इति, तत् स्पर्शसहितपूजापरम् । अदीक्षितपरम् इत्य् अन्ये । विशेषस् तु मत्कृते पूर्तकमलाकरे निर्णयसिन्धौ च ज्ञेयः ।

अन्य कित्येक ग्रन्थकर्ते तर, असें ह्मणतात कीम्; " लिङ्गास नमस्कार करणाराला पूर्वोक्त वचनावरून दोष असो, परन्तु शूद्रास केलेल्या पूजेचें फल मिळेलच.” नवीन लिङ्गाची अर्चा, व शालग्रामादिकाञ्ची पूजा शूद्रादिकान्नी त्यास स्पर्श केल्यावाञ्चून करावी. कारण, “ शूद्र आणि मुम्ज न झालेला द्विज, स्त्रिया, किंवा धर्मभ्रष्ट हे किंवा अन्य कोणीहि शिवविष्णूम्स स्पर्श केल्यास नरक भोगतात. जरी ब्राह्मणी असली तरी तिला स्वकल्याणाची इच्छा असल्यास तिने शिवविष्णूम्स स्पर्श करूं नये. जी त्याञ्ची स्पर्श करून पूजा करिते, ती सुवासिनी अ सेल तर विधवा होते. व विधवा असेल तर, ज्यास प्रायश्चित्त नाही असा दोष पावते. स्त्रिया व अनुपनीत द्विज, व शूद्र याम्स शिवविष्णूस स्पर्श करण्याचा अधिकार नाही. अशी स्कन्दपुराणोक्ति आहे. " ब्राह्मणान्नी ४ , क्षत्रियान्नी ३, वैश्यान्नी २, व शूद्रानें १ , शालग्राम पूजावे’ असें स्कन्दपुराणाम्त साङ्गितले आहे. वराहपुराणाम्त तर, “शालग्रामाला शिवण्याविषयी मात्र निषेध आहे, प्रतिमादिकांविषयी निषेध नाही.” असे साङ्गितले आहे. जसे-“हे पृथ्वी, शालग्रामाला हीनवर्ण पुरुषाने स्पर्श करूं नये; स्त्री शूद्राञ्च्या हाताचा स्पर्श वज्रस्पर्शापेक्षांहि अधिक मानला आहे. जो शूद्र, व जी स्त्री मोहाने, कदाचित् शाल ग्रामास स्पर्श करील, तो व ती प्रलयपर्यम्त नरकाम्त राहतील. स्त्रीची शालग्राम शिलेवरच जर भक्ति असेल तर, तिने स्पर्श न करितां दूर बसून पूजा करावी. व शूद्रान्नीहि असेम्च करावेम्. विष्णूच्या प्रतिमा व रत्नादिकाञ्ची शिवलिङ्गें सर्व वर्णान्नी पुनावीं.” असे साङ्गितले आहे. विष्णुपुराणाम्त ही “ब्राह्मण, क्षत्रिय, वैश्य, व शूद्र यान्नी ते स्वधर्मतत्पर अस तील तर, शिवविष्णूञ्ची पूजा करावी. नाही तर करूं नये" असे साङ्गितले आहे. जे प्रयोग पारिजातान्त, विष्णुधर्मोत्तरान्तील वचन आहे की, “ शालग्राम अथवा, चक्राङ्किताची ब्राह्मणान्नी पूजा करावी. क्षत्रियादिकान्नी करूं नये, " ते स्पर्शयुक्त पूजानिषेधक आहे “ज्याला दीक्षा नाही त्यास पूजा निषेधक आहे." असेम्, अन्य कित्येक ह्मणतात. एतत्सम्बन्धी विशेष निर्णय पूर्तकमलाकर, व निर्णयसिन्धु याम्त पहावा.
विश्वास-प्रस्तुतिः
[३८] एवं पार्थिवलिङ्गपूजने ऽप्य् अधिकारः ।
मृद्भस्मगोशकृत्पिष्टताम्रकांस्यमयं तु वा ।
कृत्वा लिङ्गं सकृत्3 पूज्य वसेत् कल्पायुतं दिवि ॥
इति तिथितत्त्वे भविष्योक्तेः वैदिकमन्त्राभावाच् च । तद् उक्तं तत्रैव स्कान्दे ।
मृदाहरणसङ्घट्टे प्रतिष्ठाह्वानम् एव च ।
स्थापनं पूजनं चैव विसर्जनम् अतः परम् ॥हरो महेश्वरश् चैव शूलपाणिः पिनाकधृक् ।
पशुपतिः शिवश् चैव महादेव इति क्रमः ॥
भविष्ये ।
शर्वाय क्षितिमूर्तये नमः । भवाय जलमूर्तये नमः । रुद्राय अग्निमूर्तये नमः । उग्राय वायुमूर्तये नमः । भीमाय आकाशमूर्तये नमः । पशुपतये यजमानमूर्तये नमः । महादेवाय सोममूर्तये नमः । ईशानाय सूर्यमूर्तये नमः ।
मूर्तयोष्टौ भवस्यैताः पूज्याः पूर्वादितः क्रमात् ।
आग्नेय्यान्तं प्रपूज्यास् तु वेद्यां लिङ्गे शिवं जयेत् ॥
अत्र न प्राचीम् अग्रतः शम्भोर् इति रुद्रयामले निषेधान् नान्तरालं प्राची किं तु प्रसिद्धैव । एवं नवरात्रे देवीपूजादौ । एवं च विन्ध्यवासिन्यां नवरात्रोपवासत इत्य् उपक्रम्य वैश्यैः शूद्रैर् भक्तियुक्तैर् म्लेच्छैर् अन्यैश् च मानवैर् इति हेमाद्रौ भविष्योक्तेः ।
एवं नानाम्लेच्छगणैः पूजयते सर्वदस्युभिः ।
विना मन्त्रैस् तामसी स्यात् किरातानां तु सम्मता ॥
इति रूपनारायणीये भविष्योक्तेश् च ।

असाच, पार्थिवलिङ्गपूजेविषयींहि शूद्रास अधिकार आहे. “ मृत्तिका, भस्म, गोमय, पीठ, ताम्बेम्, व कांस्य याञ्चे लिङ्ग करून, त्याची १ वेळ पूजा केल्यास, तो हजारों कल्पपर्यम्त स्वर्गी सु ख भोगील." असें तिथितखाम्त भविष्यपुराणवचन आहे, या वचनाम्त स्वर्गवासरूप फल साङ्गितले आहे. व शूद्रास त्याची इच्छा आहे. व हे कर्म वैदिकमन्त्रांवाञ्चून होते, अतएव त्यास पार्थिवलिङ्गपूजेचा अधिकार आहे. ते त्याच तिथितखाम्त स्कन्दपुरा णान्त.-“लिङ्गाकरितां माती आणणे, व ती कुटणे, तिचे लिङ्ग करून प्रतिष्ठा करणे, त्याचे आवाहन, स्थापन, पूजन व विसर्जन, याम्स हर, महेश्वर, शूलपाणि, पिनाकधूक, पशुपति, शिव व महादेव हे नाममन्त्र अनुक्रमें योजावे’ असे साङ्गितले आहे. भविष्यपुरा णाम्त “शर्वाय क्षितिमूर्तये नमः, भवाय जलमूर्तये नमः, रुद्राय अग्रिमूर्तये नमः, उग्राय वायुमूर्तये नमः, भीमाय आकाशमूर्तये नमः, पशुपतये यजमानमूर्तये नमः, महादेवाय सोममूर्तये नमः, ईशानय मूर्यमूर्तये नमः या मन्त्रान्नी, पूर्व, पश्चिम, दक्षिण, उत्तर, व कोण दिशांस, पूर्वपासून आग्नेयीपर्यम्त ८ मूर्तीचे स्थापन, व पूजन करून मध्ये वेदीवर5 लिङ्ग स्थापून त्याची पूजा करावी.” असे साङ्गितले आहे. येथे “शिवपूजेस प्रथम पूर्वेपासून आरम्भ न करितां लिङ्गाच्या पुढील मध्यभागास पूर्व मानून पूजा करावी.” असें रुद्रयामलाम्त साङ्गितले आहे.
ह्मणून मध्यभागास पूर्व मानूं नये. तर, प्रसिद्ध अस लेल्या पूर्वेपासूनच आरम्भ करावा. असाच नवरात्राम्त देवीपूजनाविषयींहि निर्णय घ्यावा. याविषयीम्, “आणखी असेम्च विध्याद्रिवासिनी देवीच्या नवरात्राम्त उपवास करून, येथून आरम्भ करून,-वैश्य, व भक्तियुक्त शूद्र, म्लेञ्छ, व अन्य मनुष्य यान्नी देवीची पूजा करावी. व अशीच अनेक प्रकारचे म्लेञ्छगण, व दस्यु, (भिल्लादि चोर) व किरात, याण्णीं अमन्त्रक तामसी पूजा करावी.” असें रूपनारायणी याम्त भविष्यपुराणवचन आहे.
-
येथे मुळाम्त “अनुपनीतानाम्” असे मोघम हटलं आहे; यावरून ब्राह्मण, क्षत्रिय व वैश्य या तिघाञ्चं ग्रहण केले पाहिजे, कारण, उपनयन त्यांसच विहित आहे, व तद्रहित स्त्रिया, व शूद्राञ्चं ग्रहण केले आहे. व “अनुपनीतानाम्” एवढे ह्मणून ब्राह्मणादिकाम्च ग्रहण करें नाहीम्: तेव्हां क्रमाप्रमाणं तसं घेणं आवश्यक आहे. ↩︎ ↩︎ ↩︎
-
येथे मानलेले पाठान्तर फार आवश्यक आहे, कारण “चतुर्वर्णस्तथा विष्णुः०” या देवीपुराणवचनाचा “स्थापने नाधिकारोऽस्ति” या वहनारदीय, व स्कन्द पगणवचनाशी विरोध यईल; आणि सामान्य व चन, व विशेष वचन न्यायाने विरोध परिहार करता येणार नाही, कारण “विष्णुप्रतिष्ठापनेविषयी चारहि वर्णास अधिकार आहे” असे देवीपुराणाम्त साङ्गितले असून, चूहन्नारदीयवचनाम्त नियादिकाञ्चा अधिकार निषिद्ध केला आहे. अस्तु याविषयी विशेष विचार वाचकच करतील. ↩︎
-
यज्ञाम्त पात्रे वगैरे टेवण्याकरितां चौकोनी अवथा अन्य प्रकारची मातीची जी ओटी करितात तिला वेदि ह्मणतात. ↩︎