विश्वास-प्रस्तुतिः
अथ शूद्रस्य कर्माधिकारः
तत्र कामश्रुतयो यथाध्ययनविधिसिद्धविद्यद्विजपरा इति न शूद्रस्य विद्याक्षेपेण श्रौतकर्माधिकारः तथा स्मार्तपौराणाः ग्रहयज्ञमहादानपूर्तश्राद्धादिविधयः फलकामित्वाच् छ्रवणविधिसिद्धविद्यत्वाच् च चतुर्वर्णपरा इति शूद्रस्यापि तेष्व् अधिकारः न1 म्लेच्छादीनां विद्याक्षेपाभावात् ।
नन्व् एवं तत्रोक्तमहारुद्रलक्षहोमादिष्व् अप्य् अधिकारः शूद्रस्य स्याद् इति चेन्, न, तत्र वैदिकमन्त्राणाम् अङ्गत्वेन शूद्रस्य सर्वाङ्गोपसंहाराभावेनान्धादीनाम् इवानधिकारात् सर्वाङ्गोपसंहारेण हि प्रधानविधिप्रवृत्तिर् इति षष्ठे वर्णितम् ।
कथं तर्हि शूद्रस्य वैदिकमन्त्रयुक्ते गृह्योक्तहोमाङ्गकुशकण्डिकापेक्षे च तुलादाव् अधिकारः ।
उच्यते न्यायतो निषिद्धो ऽप्य् अधिकारः कर्मविशेषेषु तत् तद् वचनैः प्रतिप्रसूयते निषादस्थपतिर् इव रौद्रेष्टौ, न च शूद्रस्य गृह्योक्ताङ्गज्ञानाभावे त्र्यंशभावना-ज्ञानाभावाद् अनधिकारः,
वेदान् अधीत्य वेदौ वा वेदं वापि यथाक्रमम् ।
इति स्मृतेर् एकवेदाध्ययनपक्षे वेदान्तरीयहौत्रौद्गात्रादिकस्यैव श्रवणोपदेशादिना तद् धि सम्भवाद् आर्त्विज्यत्वाद् वा नियमानपेक्षणात् नियमस् तु प्रधानमात्रे । उक्तं चैतत् सवितरं दानकमलाकरे ऽस्माभिः । अत्रापि च [२९] वक्ष्यते । यत्र तु न वैदिकमन्त्राङ्गं तत्र तु वचनाभावे ऽप्य् अधिकारः श्रवणविधिसिद्धज्ञानत्वात् कामित्वाच् च यथा विनायकशान्त्यादौ यत्र वा मन्त्रान्तरं विकल्पः यथा ग्रहयज्ञे स्मृतिसङ्ग्रहे ।
नाममन्त्रेण शूद्रस्य कुर्याद् धोमादिकं बुधः ।
इति । तत्र वैकल्पिकमन्त्रान्तरेणापि सर्वाङ्गोपसंहारात् सो ऽयं कुत्रास्ति कुत्र नास्तीति विविच्यते ।
मूलम्

मराठी
यानन्तर शूद्रास कर्माधिकार साङ्गतो.
त्याविषयीं “ज्योतिष्टोमेन स्वर्गकामो यजेत” इत्यादि कामश्रुति2 जशा, अध्ययनवि धीनेम्, सिद्धविद्य झालेल्या द्विजपर आहेत. शूद्रास अध्ययनविधीने सिद्धविद्यत्वाचा अ भाव असल्यामुळे त्यास वैदिककर्माचा अधिकार नाही.
तशीच स्मृत्युक्त व पुराणोक्त ग्रहयज्ञतुलादि महादानेम्, वापी, कूप इत्यादि पूर्त कर्मे, व श्राद्धादिकाञ्चे विधि शूद्रास फलकामित्व असल्यावरून, व श्रवणविधीने सिद्धविद्यत्वास्तव विहित आहेत. अर्थात् ग्रहयज्ञादिविधिप्रयुक्त कर्मे ब्राह्मण, क्षत्रिय, वैश्य व शूद्र या चारही वर्णाम्स सारखी ला गू आहेत ह्मणून ते ग्रहयज्ञादिक विधि चार वर्णपर आहेत, ह्मणून शूद्रास ती करण्या विषयी अधिकार आहे, यावरून, म्लेञ्छादिकांसहि अधिकार असेल, अशी कल्पना क रूं नये. कारण, त्याम्स अध्ययन अथवा श्रवण, याम्पैकी किंवा अन्यरीतीनें विद्येचा मु ळीम्च आक्षेप नाही. यास्तव त्याम्स अधिकार नाही. यावर शङ्का-जर स्मृति व पुरा णोक्त ग्रहयज्ञादिविधीविषयीम्, शूद्रास अधिकार आहे. तर रुद्रयामलादि3 तन्त्राम्त सां गितलेले महारुद्र, लक्षहोम, इत्यादिकाञ्चे ठायींहि शूद्रास अधिकार होईल असें ह्य णसील तर, होत नाही. कारण, महारुद्र व लक्षहोमाम्त वैदिकमन्त्राञ्चे अङ्गत्व आहे, ते णेकरून शूद्रास, सर्वाङ्गाच्या उपसंहाराच्या अभावेङ्करून, अन्धादिकाञ्चेपरी अनधिकार आहे. व याविषयी सर्वाङ्गाच्या उपसंहारेकरून, मुख्यविधीची4 प्रवृत्ति होते, असे पूर्वमीमांसेच्या सहाव्या अध्यायांत वर्णन केले आहे.
यावर पूर्वपक्षी ह्मणतो, जर असे आहे तर, शूद्रास वैदिकमन्त्रयुक्त व गृह्यसूत्रान्त, साङ्गितलेल्या होमाच्या अङ्गभूत दर्भकण्डिका इत्यादिकाञ्ची अपेक्षा करणाऱ्या तुलादानादिकांविषयी अधिकार कसा होईल ? कारण तुम च्या ह्मणण्याप्रमाणे, वैदिकमन्त्राङ्गत्व नसून तदङ्गत्व आहे, व सर्वाङ्गोपसंहारन्यायासहि बाधा येईल. त्यावर सिद्धान्ती ह्मणतात, एक वेळ न्यायतः, शूद्रास वैदिकमन्त्राधिकार निषिद्ध आहे, तथापि कित्येक कर्माम्मध्ये त्या त्या कर्माच्या विधायक वचनांहीं अधिकाराचा पुनः प्रतिप्रसव केला जातो. जसा निषाद व म्थपति याञ्चा रौद्रेष्टीम्त विशेष वचनान्नी, पूर्वी निषेध अमतांहि अधिकाराचा प्रतिप्रसव5 होतो, तद्वत् येहि होईल.
शूद्रास गृह्यसूत्रोक्त, अङ्ग ज्ञानाचा अभाव आहे. ह्मणून, व्यंशभावनाज्ञानाच्या अभावास्तव, अधिकार नाही. “चार, तीन, दोन व एक वेदाञ्चा यथानुक्रमें अभ्यास करून, समावर्त्तन करावें.’ अशी स्मृति आहे. यास्तव एकच वेदाध्ययनपक्षीं अन्य वेदान्तील, हौत्र व उद्गात्र मन्त्राच्या श्रवणोपदेशादि केङ्करून त्याचा सम्भव आहे. यास्तव, अथवा आविज्यत्वास्तव, नियमाची अपेक्षा नाही. तो नियम तर प्रधानापुर्ताच आहे. हे आह्मीं दानकमलाकराम्त सविस्तर साङ्गितले आहे. व येथेहि साङ्गतो. ज्या स्थली वैदिकमन्त्राङ्ग असेल, तेथे वचन नसतांहि श्रवणविधीने सिद्ध ज्ञानत्वास्तव व फलकामित्वास्तव शूद्रास अधिकार आहे. जसे, विनायकशान्त्यादिकाम्त आहे, तद्वत् . व जेथें अन्यमन्त्र साङ्गितल्यामुळे वैदिकमन्त्राङ्गाचा विकल्प आहे. जसा उदाह रणार्थ ग्रहयज्ञादिकाम्त स्मृतिसङ्ग्रहान्त-“शूद्राचे ग्रहयज्ञसम्बन्धि होमादि कर्म ज्ञात्याने नाममं त्रांहीं करावेम्” अमें माङ्गितले आहे. तेथें वैकल्पिक अन्यमन्त्रानेंहि सर्वाङ्गाचा उपसंहार आहे. तो हा उपमंहार, कोठे आहे व कोटें नाहीं त्याचे विवेचन करितोम्.
विश्वास-प्रस्तुतिः
[३०] तत्रादौ विहितानि अगस्त्यसंहितायाम् ।
शुचिव्रततमाः शूद्रा धार्मिका द्विजसेवकाः ।
स्त्रियः पतिव्रताश् चान्ये प्रतिलोमानुलोमजाः ॥
लोकाश् चाण्डालपर्यन्तं सर्वे ऽप्य् अत्राधिकारिणः ।
अत्र राममन्त्रे । तथा ।
श्रुतिर् ब्रह्माह षड्वर्णं स्मृतिवर्णद्वयात्मकम् ।
षड्वर्णं ब्राह्मणादीनां त्रयाणां यद् द्विवर्णकम् ॥
तद् अन्येषां दैशिकेन वक्तव्यं तारकम्परम् ।
तत्रैव ।
मन्त्रो ऽयम् उपदेष्टव्यो ब्राह्मणाद्यनुरूपतः ।

त्याम्त प्रथम शूद्राम्स विहित कर्मे कोणती ती साङ्गतो. याविषयी अगस्त्यसंहितेत शुद्ध व्रताचरण करणारे, धार्मिक व द्विजसेवा करणारे शूद्र, आणि अशाच पतिव्रता स्त्रिया, व अन्य प्रतिलोम6 व अनुलोमजातीय7 चाण्डालापर्यम्त सर्व लोक, या राममन्त्रजपाविषयीं8 अधिकारी आहेत, तसेम्च श्रुतीने षड्वर्ण9 धैर्ण अथवा (ॐ नमः शिवाय) व स्मृतीने, वर्णाचें (राम अथवा शिव) ब्रह्म साङ्गितले आहे. त्यान्तून पहिले षडर्ण ब्राह्मण, क्षत्रिय आणि वैश्य यांस, व दुसरें शूद्रादिकाम्स विहित आहे. यास्तव उपदेशकानेम्, शूद्रादिकाम्स त्या तारक ब्रह्माचा उपदेश करावा. आणि तेथेच हा मन्त्र ब्राह्मणादिवर्णानुरूप उपदेश करावा.
विश्वास-प्रस्तुतिः
**[३१]**ब्रह्मोत्तरखण्डे शिवपञ्चाक्षरं प्रक्रम्य,
मन्त्रराजाधिराजो ऽयं सर्ववेदान्तशेखरः ।
सर्वज्ञाननिधानं च सो ऽयं चैव षडक्षरः ॥कैवल्यमार्गदीपो ऽयम् अविद्यासिन्धुवाडवः ।10
महापातकदावाग्निः सो ऽयं मन्त्रः षडक्षरः ॥
प्रणवेन विना मन्त्रः सो ऽयं पञ्चाक्षरो मतः ।
स्रीभिः शूद्रैश् च सङ्कीर्णैर् धार्यते मुक्तिकाङ्क्षिभिः ॥नास्य दीक्षा न होमश् च न संस्कारो न तर्पणम् ।
न कालनियमश् चात्र जप्यः सर्वैर् अयं मनुः11 ॥
एतद्दीक्षा तत्रैव परकृतिरूपेणोक्ता ।
पुण्यतीर्थजले स्नानं राजानं समुपोषितम् ।
प्राङ्मुखं चोपविश्याग्रे नत्वा शिवपदाम्बुजम् ॥
तन्मस्तके करं न्यस्य ददौ मन्त्रं शिवात्मकम् ।
इति स्मृतिकौमुद्यां वाराहे ।
ब्राह्मणक्षत्रियविशां पञ्चरात्रं विधीयते ।
शूद्रादीनां च तच्छ्रोत्रे पदवीम्12 उपयास्यति ॥
अत एवाग्रे उक्तम् ।
अथ शूद्रस्य शृणु माधवि ।
दम्पती मम भक्तौ च मम कर्मपरायणौ ।
नमस्कारप्रियो नित्यं मम चिन्ताव्यवस्थितः ॥
शुद्धकर्माणि वै देवि यो नित्यं तु समाचरेत् ।
त्यक्त्वा ऋषिसहस्राणि शूद्रम् एव तु याम्य् अहम् ॥

ब्रह्मोत्तरखण्डाम्त शिवपञ्चाक्षरमन्त्रास आरम्भ करून साङ्गितले आहे की, “हा मन्त्र ब्रह्महत्यादि महापातकाञ्चा13 नाश करणारा वणवा आहे, ॐकारयुक्त हटल्यास सहा अक्षराञ्चा (ॐ नमः शिवाय) व ॐकारावाञ्चून पञ्चाक्षर (नमः शिवाय) होतो.
मोक्षाची इच्छा करणारे स्त्रिया, शूद्र, व सङ्करयोनि इत्यादिकान्नी हा शिवपञ्चाक्षरमन्त्र जपावा, याला दीक्षा होऊन संस्कार14 व तर्पण व कालनियम इत्यादि नाहीत. हा स वान्नी जपण्यास योग्य आहे.”
ह्या मन्त्राची दीक्षा अन्यकृतिरूपाने तेथेम्च (ब्रह्मोत्तर खण्डाम्त) साङ्गितली आहे ती-” पुण्यकारक तीर्थोदकाम्त स्नान करून उपोषित अ सून भक्तियुक्त अशा राजास आपल्या अग्रभागी पूर्वाभिमुख बसवून शिवाच्या चरण कमलास नमस्कार करवून राजाच्या मस्तकावर हस्त ठेवून तो ऋषिश्रेष्ठ शिवात्मक मन्त्र, राजास देता झाला.” स्मृतिकौमुदीन्त, वराहपुराणाम्त “ब्राह्मण, क्षत्रिय, व वैश्य याम्स पाम्च रात्रीपर्यम्त विधान केले जाते. शूद्रादिकाम्स त्याञ्च्या कानाम्स ऐकू येई पर्यम्त विहित आहे. अतएव पुढे साङ्गितले आहे की–..” यानन्तर हे माधवि शूद्रा चे धर्म मी साङ्गत असतां श्रवण कर. शूद्रजातीय स्त्रीपुरुषान्नी माझी (विप्णूची ) भक्ति करावी. व मला प्रिय असलेली कर्मे करण्याविषयी तत्पर असावेम्. शूद्राने नेहमी माझें चिन्तन करावे, व नमस्कारमन्त्रप्रिय असावे; हे देवि, पूर्वोक्त प्रकारे जो शूद्र नेहमीं शुद्धकर्माचरण करील त्याजवळ हजारों ऋषीञ्चा त्याग करून मी जाईन; अर्थात् त्यावर कृपा करीन’’ असे साङ्गितले आहे.
विश्वास-प्रस्तुतिः
**[३२] **तथा तत्रैव ।
चातुर्वर्ण्यस्य वक्ष्यामि दीक्षाम् अद्य यशस्विनीम् ।
इत्य् उपक्रम्य, द्विजानां दीक्षाम् उक्त्वा,
शूद्रस्यापि च वक्ष्यामि मद्भक्तस्य वराङ्गने ।
इत्यादिना शूद्रदीक्षोक्ता । वामनपुराणे ।
ततश् चकार भगवांश् चातुर्वर्ण्यं हरार्चने ।
इत्य् उक्त्वा, वसिष्ठपुत्रस्य शक्तेस् तच्छिष्यादीनां वा शिवदीक्षाम् उक्त्वा, ऊर्णोदरस्य शूद्रस्य दीक्षाम् उक्त्वोक्तम् ।
एवं स भगवान् ब्रह्मा पूजनाय शिवस्य तु ।
कृत्वा तु चातुराश्रम्यं स्वयं च भवनं गतः ॥
इति ।
भविष्ये ऽपि ।
ब्राह्मणं क्षत्रियं वैश्यं कुलीनं शूद्रम् एव च ।
पुरुषं वा स्त्रियं वापि दीक्षयेत् सूर्यमण्डले ॥
एवं यत्र विशेषवचनं तत्र शूद्रस्याधिकारः । स्मृतिकौमुद्यां तु शूद्रादीनां च तच्छ्रोत्रपदवीम् उपयास्यतीति पाठं वाराहे उक्त्वा पञ्चरात्रोक्तवैष्णवशैवसौर-शाक्तवैनायकेषु मन्त्रेष्व् अधिकार उक्तः ।
इति मन्त्रदीक्षा

तसेंच त्या वराहपुराणांत “हे यशस्विनि, साम्प्रत चारहि वर्णाञ्ची दीक्षा साङ्गतो” असा उपक्रम करून ब्राह्मणादि तीन वर्णाञ्ची दीक्षा साङ्गून “हे वराङ्गने, माझी (विष्णूची) भक्ति करणाऱ्या शूद्राचीहि दीक्षा साङ्गतो.” इत्यादि वचनान्नी शूद्रदीक्षाप्र चार साङ्गितला आहे. वामनपुराणाम्त “नन्तर तो भगवान् (ब्रह्मदेव) शिवाची पूजा करण्याकरितां चारहि वर्णाम्स उत्पन्न करिता जाहला.” असे साङ्गून वसिष्ठऋषीचा पुत्र शक्ति व त्याच्या शिष्यादिकाञ्ची शिवदीक्षा वगैरे साङ्गून पूर्णोदर नामक शूद्राची दीक्षा साङ्गून पुढे मटले आहे की, “या प्रकारे तो भगवान् ब्रह्मदेव शिवाच्या पूजेक रितां चार वर्ण व आश्रम करून आपण गृहास गेला. " भविष्यपुराणान्तहि " सूर्य15 ग्रहणकाली ब्राह्मण, क्षत्रिय, वैश्य व कुलीनशूद्र यान्तील पुरुषास अथवा स्त्रियेला मं त्रदीक्षा द्यावी. " असे साङ्गितले आहे.
याप्रमाणे जेथें विशेषवचन असेल तेथे शूद्राचा अधिकार आहे. स्मृतिको मुदीम्त तर, [ पृष्ठ १५ पङ्क्ति १५ ] येथे साङ्गितलेले वराहपु राणस्थ वचन घेऊन पञ्चरात्रागमोक्त वैष्णव, शैव, सौर, शाक्त, व वैनायक मन्त्राविषयी शूद्राचा अधिकार साङ्गितला आहे :- इति मन्त्रदीक्षाधिकारनिर्णयः.
-
स्वर्गलोकाची इच्छा करणान्याने ज्योतिष्टोम यज्ञ करावा असे साङ्गितले आहे. याचप्रमाणे अमुकाला अमक लोकाची अथवा अन्य कोणत्या प्रकारची इच्छा असल्यास त्याणे अमुक यज्ञ कराया. इच्छा न क. रणाऱ्यास तो न केल्यास दोष नाही असे आहे ह्मणून त्याम्स कामश्रुति अस मटले आहे. ↩︎
-
कर्मकाण्डाम्त वेदिक, तान्त्रिक, व उभयमिश्र असे तीन मार्ग आहेत त्याम्त रुद्रयामलादि तन्त्रप्रतिपा. दकाम्स तान्त्रिक ह्मणतात. ती तन्त्रे चौसष्ट आहेत. त्याम्त रुद्रयामल हैं फार मोठे आहे, व त्याम्त अनेक दे. वताञ्चे मन्त्र व त्याञ्ची पुरश्चरणे वगैरे साङ्गितली आहेत. ↩︎
-
ह्या पूर्वमीमांसेच्या सहाव्या अध्यायान्तील न्यायाचा अभिप्राय असा आहे की, जेथे सर्व अङ्गसहित कोणत्याही कर्माचा निषेध होतो तेथे दुसऱ्या प्रधानविधीची प्रवृत्ति होते, प्रकृतस्थली महारुद्रलक्षहोमादि तन्त्रोक्त कर्मात शूद्रास अधिकार नसण्याविषयीं याची योजना केली आहे. जसे तन्त्रोक्त कर्मात वैदिक मत्र हे अगभूत आहेत, व शूद्राम्म वेदाधिकार नाहीं अतएव ती त्याम्स विहित नाहीत. परन्तु वैदिक मन्त्र वर्दी करून तेथं पौराणमन्त्राची योजना कल्यास ती कर्मे शूद्रास करता येतील. यावरून केवळ वैदिक मन्त्ररूप अङ्गाचाच उपसंहार होतो, सर्व कर्मच शुद्राम विहित नाहीं अमें होन नाही व तमें जाहलें असतं तरच पर्वोक्तन्यायाने शहाचा या कर्माविषयी अधिकार सिद्ध झाला असता. ↩︎
-
भिल्ल व सुतार याञ्चा प्रथम आक्षेप करून त्याम्स अग्निमिद्धकर्माचा अधिकार नाही असे सिद्ध करून पुढे राष्टीचे विधान करण्याच्या प्रसङ्गी पूर्वी निषेध केलेल्या विषयी पुनः विधीचा प्रतिप्रसव केला आहे, या. विषयी पूर्वमीमांसा पहा. ↩︎
-
उत्तम वर्णाच्या स्त्रीचे ठायीं अधमवर्ण पुरुषापासून झालेल्या सन्ततीस प्रतिलोमज असे ह्मणतात. या. विषयी पुढे जातिप्रकरणाम्त सविस्तर विचार केला जाईल. ↩︎
-
पुरुष उत्तमवर्णाचा असून नीचवर्ण स्त्रीचेठायीं झालेल्या सन्ततीस अनुलोमज ह्मणतात. “याविषयीहि पुढे विचार केला जाईल. ↩︎
-
हा मन्त्र तेरा अक्षराञ्चा ( श्रीराम जयराम जयजयराम ) असा सम्प्रदायाप्रमाणे उपदेश्य, व दोन दोन अक्षराञ्चा आहे. ↩︎
-
ज्यास सहा अक्षरं आहेत ते अर्थात् शिवषडक्षरमन्त्र याचा उद्धार वगैरे रुद्रयामलाम्त शिवपटलाम्त साङ्गितला आहे. ↩︎
-
न कालो नोपदेशश्च सर्वः शुचिरयं मनुः इत्यपि पाठान्तरम् ॥ ३ अन्यैस्तु न तच्छ्रोत्रेति पाठो लिखितः ॥ ↩︎ ↩︎
-
सुराप्राशन, सुवर्णाची चोरी, ब्राह्मणास मारणे, व गुरुपत्नीशी सङ्ग करणे ही चार व असली पातकें करणा-यांशी संसर्ग करणे हे एक, मिळून ही पाम्च महापातकें होत. येथे ह्या पातकरूप तृणाचा नाश कर. याविषयीं शिवषडक्षरमन्त्र हा केवळ वणव्यासारखा आहे. असे साङ्गितले आहे हैम्. वाक्य त्या मन्त्राचे स्तावक अथवा प्राशस्त्यबोधक आहे. ह्मणन अर्थवादरूप आहे असे वाटते. नाहीतर वरील पापाञ्चा नाश होण्याकरिता हे सुलभ प्रायश्चित्त सोडून मोठमोठी अशक्य प्रायश्चित्तं धर्मशास्त्रकान्नी कां साङ्गितली असती? ↩︎ ↩︎
-
“दीक्षा" ह्मणजे एखाद्या कर्माचा नियमपूर्वक स्वीकार. ही दीक्षा अनेक प्रकारची आहे; परन्तु प्रकृत स्थली तन्त्रमार्गोक्त मन्त्रदीक्षा घ्यावयाची आहे. शिव, विष्णु, शक्ति इत्यादि देवताञ्चे जे निरनिराळे मन्त्र आ हेत त्याञ्चा जप करणम्, तर पूर्वी दीक्षा घेतली पाहिजे, एतदङ्गभूत पूर्णाभिषेक वगैरे करावी लागतात.यावि षयी विशेष विचार कुलार्णव, दीपिका व तन्त्रसार इत्यादि ग्रन्थाम्त साङ्गितला आहे. कित्येकाञ्च्या मते दीक्षा कलियुगाम्त वज आहे, व तत्स्थानी उपदेश विहित आहे. कारण, “युगे युगे तु दीक्षासीदुपदेशः” अन्ययुगाम्त दीक्षा होती, परन्तु कलियुगाम्त तिच्या ऐवजी उपदेश आहे. “उपदेश” ह्मणजे अङ्गभूत पूर्णाभिषेकादि न करिता केवल मन्त्रमात्र ग्रहण करणे हे वचन धर्मसिन्धुकल्नहि घेतले आहे. [धर्मसिन्धु. ५० १ ग्रहणनिर्णय पहा.] ↩︎
-
कोणताही मन्त्रजप करीत असून तदुक्त फलप्राप्ति जाहली नाही तर, त्या मन्त्रास तारण इत्यादि संस्का र करावे असे तान्त्रिकाञ्चे मत आहे. हे संस्कार गीतमीय तन्त्राम्त साङ्गितले आहेत. ↩︎
-
मन्त्रदीक्षा घेण्यास व पुरश्चरण करण्यास ग्रहणपर्वकाल फार योग्य साङ्गितला आहे परन्तु चन्द्रग्रहणाम्त दीक्षा घेतल्यास दारिद्यादि दोष साङ्गितले आहेत, व सूर्यग्रहणाची विशेष फलश्रुति साङ्गितली आहे. प्रासादि मुक्तीपर्यम्त जप्य मन्त्राचा जप केल्यास पुरश्चरण होते इत्यादि प्रकार पुरश्चरणचन्द्रिकेम्त सविस्तर साङ्गितला आहे. ↩︎