०५ मन्त्रविचारः

विश्वास-प्रस्तुतिः

[१८] अथ शूद्रस्य मन्त्रविचारः । तत्र अविद्यत्वाद् वेदमन्त्रे नाधिकारः । व्यासो ऽपि ।

शूद्रो वर्णश् चतुर्थो ऽपि वर्णत्वाद् धर्मम् अर्हति ।
वेदमन्त्रस्वधास्वाहावषट्कारादिभिर् विना ॥ इति । [१.६]

नृसिंहतापनीये

सावित्रीं प्रणवं यजुर् लक्ष्मीं स्त्रीशूद्राय नेच्छति ।

**पराशरभाष्ये **ऽप्य् एवम् । रामतापनीये

सावित्रीं लक्ष्मीं यजुः प्रणवं यदि जानीयात् स्त्रीशूद्रः स मृतो ऽधो गच्छति ।

(लक्ष्मीं श्रीबीजम्) व्याहरणे [१९] जिह्वाच्छेद इति श्रुतेश् च । गौडनिबन्धे तिथितत्त्वे स्कान्दे

स्वाहाप्रणवसंयुक्तं शूद्रे मन्त्रं ददद् द्विजः ।

शूद्रो निरयम् आप्नोति ब्राह्मणः शूद्रताम् इयात् ॥

एवं पुराण-विष्णुसहस्रनाम-चण्डीस्तोत्रादिपाठे ऽप्य् अनधिकारः, श्रवणमात्रे ऽधिकारेण पाठाप्रसक्तेः । तद् उक्तं हरिवंशे “सुगतिम् इयाच् छ्रवणाच् च शूद्रजातिः” इति । अत एव भारते विष्णुसहस्रनामसु ।

वेदान्तगो ब्राह्मणः स्यात् क्षत्रियो विजयी भवेत् ।
वैश्यो धनसमृद्धः स्याच् छूद्रः सुखम् अवाप्नुयात् ॥

इत्य् अत्र शूद्राः श्रवणेनैवेति शङ्कराचार्यैर् व्याख्यातम् । किं बहुना शूद्रकर्तृकस्नानदानश्राद्धादौ विप्रस्यैव पौराणमन्त्रपाठः शूद्रस्य तु श्रवणमात्रम् । श्रावयेच् चतुरो वर्णान् इत्यस्य निषादस्थपतिं याजयेद् इतिवच् छृणुयुर् इत्य् अर्थेन शूद्रं प्रति श्रवणजन्यज्ञानस्यैव कर्मभिर् ग्रहणात् पुराणपाठाभावेन तन्मन्त्रेषु पाठाप्रसङ्गाच् च । वाराहे ऽपि ।

अयम् एव विधिः प्रोक्तः शूद्राणां मन्त्रवर्जितः ।
अमन्त्रस्य तु शूद्रस्य विप्रो मन्त्रेण गृह्यते ॥

अस्य श्राद्धप्रकरणपाठे ऽपि इयं परिभाषा । न च सा वाक्यरूपा प्रकरणेन नियन्तुं शक्या । अतः शूद्रकर्तृकदानश्राद्धादौ अर्थप्रकाशनार्थं सर्वत्र विप्रेण मन्त्रपाठः कार्य इति शूलपाणिः । वैदिको ऽपि विप्रेण पठनीय इत्य् आचार्यचूडामणिःमाधवीये ऽप्य् एवम् । श्राद्धे यस्यां शाखायां विप्रस्य मन्त्रपाठ उक्तः । स शूद्रश्राद्धे ऽपि स्याद् एवेति स्मृतिकौमुद्याम्मदनपारिजातव्याख्या त्व् अयुक्ता विषयाभावात् । अमन्त्रस्येति विशेषणात् स्त्रीणां तत्तुल्यानां चेति शूलपाणिः । यत् तु तेनोक्तम्, मन्त्रजन्यनियमादृष्टसिद्धिस् तु नमस्कारेणैवानुज्ञातो ऽस्य नमस्कारो मन्त्र इति गौतमोक्तेर् इति, तच् चिन्त्यम् ।

मूलम्

मराठी

त्याम्त अविद्यत्वास्तव वैदिक मन्त्राधिकार नाही. याविषयी व्यासही ह्मणतो की, यद्यपि शूद्र हा चवथा1 वर्ण आहे, तथापि त्यास जसें वर्णत्व आहे, तसेच धर्म, असणे योग्य आहे. “परन्तु तो धर्म, वेदमन्त्र, स्वधा2, स्वाहा3, वषट्कार4, इत्यादि कांवाञ्चून असावा."

नृसिंहतापिनीयोपनिषदाम्त असे साङ्गितले आहे की, “गायत्री, ओङ्कार, यजु, श्रीबीज ही स्त्रीशूद्राम्स देऊ नयेत. अर्थात् त्याञ्चा उपदेश करूं नये.” पराशरभाष्यान्तही असेम्च साङ्गितले आहे. तसेम्च रामतापिनीयोपनिषदाम्त " गाय त्री, श्रीबीन, यजु, प्रणव, याम्स स्त्रिया, किंवा शूद्र, जर जाणतील तर ते मेल्यावर अधोगतीस जातील’ असे साङ्गितले आहे. कारण, " वेदमन्त्रादिकाञ्चा उच्चार केल्या स त्याची (शूद्राची) जीभ कापावी," अशी श्रुति आहे. गौडनिबन्धाम्त व तिथितत्त्वाम्त स्कन्दपुराणाम्त " स्वाहा, प्रणव, यांहीं युक्त मन्त्र, जर ब्राह्मण शूद्रास देईल, तर शू द्रास नरकप्राप्ति होऊन, ब्राह्मणास शूद्रत्व प्राप्त होईल,’ असे साङ्गितले आहे. या प्रमाणे पुराणे, विष्णुसहस्रनाम, सप्तशतीपाठ, व इतर स्तोत्रे वगैरे, याञ्चा पाठ कर ण्याविषयीही शूद्रास अधिकार नाही. कारण, पुराणादिकाञ्च्या श्रवणापुरताच अधिका र आहे, त्यावरून पाठाविषयीं अधिकार प्राप्त होत नाही. तेम्च हरिवंशाम्त साङ्गि तले आहे- " ह्या हरिवंशाच्या श्रवणेकरून शूद्र उत्तम गतीस जाईल." याकरितां च महाभारताम्त विष्णुसहस्रनामाम्त " हे विष्णुसहस्रनाम ब्राह्मण पठण करील तर वेदाचा अम्त पावेल, अर्थात् साङ्ग अध्ययन होईल, क्षत्रिय विजयी होईल, वैश्य द्रव्य सम्पन्न होईल, व शूद्र सुख पावेल, " असे साङ्गितले आहे. या वाक्यान्त– " शूद्रास श्रवणानेच सुख प्राप्त होईल." असे त्याचे भाप्यकर्त्या शङ्कराचार्याने व्याख्यान केले आहे. याविषयीं .फार साङ्गून काय ? शूद्रकर्तृक स्नान, दान, श्राद्ध, इत्यादिकां त ब्राह्मणाला पौराण मन्त्र पठण करण्याचा अधिकार आहे, शूद्राला श्रवण करण्यापु रताच आहे. कारण, “ब्राह्मणास पुढे करून चारही वर्णाङ्कडून पुराण श्रवण करवावेम्” या वाक्याचा, “निषाद, व स्थपति (सुतार) याङ्करवीं यजन करवावेम्, " या वाक्याम्त असा अर्थ केल्याने शूद्रास श्रवणापासून झालेल्या ज्ञानाचेम्च कर्मानी ग्रहण केले आहे, यास्तव मुळीच पुराणपाठाचा अभाव असल्याने, तत्सम्बन्धी (पुराणसम्बन्धी ) मन्त्राचा पाठ करण्याचा प्रसङ्ग नाही. वराहपुराणान्त, “ हाच5 विधि मन्त्ररहित शूद्राम्स साङ्गितला आहे. मन्त्ररहित अशा शूद्राचें ब्राह्मण, मन्त्रपाठ करून ग्रहण6 करितो,” असे साङ्गितले आहे. यद्यपि हे वचन श्राद्धप्रकरणाम्त आहे; तथापि हे परिभाषारूप आहे, ह्मणूनच हे सर्वत्र ग्रहण करण्यास योग्य आहे. ही परिभाषा वाक्यरूप आहे ह्मणून तिचे प्रक रणाने नियमन करण्यास योग्य नाही. अर्थात् ती श्राद्धप्रकरणापुरतीच असें ह्म णतां येत नाही.

याकरितां “शूद्रकर्तृक दान, श्राद्ध, इत्यादिकाम्त अर्थाच्या स्पष्टी करणार्थ, सर्वत्र विप्राने मन्त्रपाठ करावा" असें शूलपाणीने झटले आहे व “वैदिक मन्त्रहि. ब्राह्मणानेच पठण करावा” असें आचार्यचूडामणि ह्मणतो. माधवीयान्तहि याचप्रमाणे आहे, “श्राद्धाम्त ज्या शाखेत ब्राह्मणास ज्या मन्त्राचा पाठ साङ्गितला आहे; तो शूद्रश्राद्धान्तही होईलच," असें स्मृतिकौमुदीम्त साङ्गितले आहे. मदनपारिजाताची व्याख्या तर, अयुक्त आहे; कारण तशी व्याख्या करण्यास विषयाचा अभाव आहे. " अमन्त्रस्य, " असें विशषेण आहे, यास्तव स्त्रियांस, व त्यांशी समान असलेले शूद्र याञ्चे ग्रहण करावे, असे शूलपाणि ह्मणतो. जे त्याने (शूलपाणीने) साङ्गितले आहे, की " मन्त्रापासून होणाऱ्या नियमाची अदृष्टसिद्धि7 तर; नमस्कारानेच होती; कारण, याला ( शूद्राला ) नमस्कारमन्त्र अनुज्ञात आहे. अशी गौतमाची उक्ति आहे, ह्मणून अदृष्टफलसिद्धि होते.” तें विचारार्ह आहे.

विश्वास-प्रस्तुतिः

[२१] दृष्टद्वारैव हि तत्प्राप्तिर् न स्वातन्त्र्येण न च मन्त्रनिषेधे नियमादृष्टप्राप्तिः नमस्कारेणैव तत्सिद्धिश् च न हि सः न मन्त्रः अन्यथा नखावपूते (?) ऽप्य् अवघातजन्यादृष्टार्थं सो ऽपि क्रियेत । कल्पतरुस् तु पौराणकर्मणां स्त्रीशूद्रान् प्रति विशिष्य विधानात् तेषां च मन्त्रविशिष्टानाम् उत्पत्त्या तथैव नियोगात् पौराणमन्त्रपाठो भवत्य् एवेत्य् आह । तन् न नमस्कारेण बाधाद् वाराहविरोधाच् च । वैदिकमन्त्रस्थाने नमःशब्द इत्य् अन्ये । तत्त्वं त्व् अमन्त्रकेष्व् एव सः तेन पितॄणां नामगोत्रत इत्यादौ यत्र द्विजानाम् अपि नाममन्त्र उक्तस् तत्र शूद्रस्य सर्वमन्त्रनिषेधे प्राप्ते प्रतिप्रसवमात्रार्थं गौतमीयम् । न तु तिलावपनादाव् अपि । अन्ये तु,

आवाहनादि कर्तव्यं यथा शूद्रेण तच् छृणु ।
देवानां देवनाम्ना तु पितॄणां नामगोत्रतः ॥

इति हेमाद्रौ भविष्योक्तेः, सर्वत्र दैवे देवेभ्यो नमः पित्र्ये पितृभ्यो नम इति नाममन्त्रम् आहुः । केवलस्य नाम्नः प्रयोगानर्हत्वात् तेन नम इत्य् एतावान् एव मन्त्र इति आचार्यचूडमणि-मदनपारिजातोक्तिः परास्ता । नमस्कारः पञ्चमहायज्ञमात्रपुरःसर इति हरदत्तादयः । तन् न श्राद्धादौ नमोविधानस्य मूलान्तरकल्पनावृत्त्या सर्वार्थत्वात् । अत एव **विज्ञानेश्वरेण **कृच्छ्रादौ नमोमन्त्रजप उक्तः । अस्मत्पितृचरणास् तु “नमस्कारेण मन्त्रेण पञ्चयज्ञान् न हापयेद्” इति याज्ञवल्क्योक्तौ यज्ञशब्देन शूद्रकर्ममात्रोद्देशेन नमस्कारविधानं यज्ञानाम् उद्देश्यानां पञ्चत्वेन विशेषणे ग्रहैकत्वविवक्षावद् वाक्यभेदापत्तेः तेन शूद्रकर्तृकतुलादानादिपूर्तेषु शूद्रस्य नमस्कारो मन्त्र इत्य् आहुः । पौराणस् तु विप्रस्येत्य् अविरोधः । एतेन नमस्कारस्य पञ्चयज्ञेष्व् एव विधानात् शूद्रस्य न विवाहहोमादीति मदनपारिजातोक्तिः परास्ता । अत एव यो नमसा स्वध्वर इति श्रुतेर् नमस्कारेण वै खल्व् अपि [२२] न वै देवा नमस्कारम् इति यज्ञो वै नम इति हि ब्राह्मणं भवतीत्य् **आश्वलायनोक्तेश् **च । नमस्कारस्यापि सर्वकर्माङ्गत्वं तच् च तथा8 द्विजानां तत्र तत्र वैदिकमन्त्रोक्त्या बाधितं यच् 9चैत्ययज्ञादौ प्रवर्तते ।

दृष्टद्वाराच त्याची प्राप्ति आहे, स्वतन्त्रतेने नाही. आणि मन्त्रनिषेधाविषयी नियम व अदृष्टिप्राप्ति नाही, आणि नमस्कारानेच त्याची सिद्धि आहे ह्मणून तो ( नमस्कार ) नाहीं व मन्त्रही नाही. नाहीपेक्षां नग्वान्नी तान्दूळ झाले असतांहि 8अवघाता( काण्डणा )पा सून होणाऱ्या अदृष्टफलाकरतां अवघातही करील. अर्थात् पूर्वी नग्वान्नी तान्दुळ झाले अस तांही पुनः काण्डण केले जाईल. कल्पतरु तर, “पुराणोक्त कर्माचे स्त्रीशूद्राम्स विशेषेकरून विधान आहे, व पौराणमन्त्रसहित त्या कर्माच्या उत्पत्तीने तसाच नियोग ( आज्ञावचन ) आहे, तस्मात् स्त्रीशूद्राम्स पुराणोक्त मन्त्राचा पाठ करण्यास अधिकार आहेच असें ह्मणतो,” तें योग्य नाहीम्; कारण, “गौतमाने नमः मन्त्राचे विशेषेकरून विधान केल्याने," सामान्यतः प्राप्त असलेल्या पौराणमन्त्राचा बाध होतो, व वराहपुराणवचनाशी विरोध होतो. या हेतूस्तव " वैदिक मन्त्रस्थानी नमः शब्द योजावा,” असें अन्य ग्रन्थकर्ते ह्मण तात. आतां यान्तील तत्व तर, जेथें मन्त्र मुळीच नाही तेथे नमः मन्त्राचा उपयोग करावा. तेणेकरून पितराम्स नाम, व गोत्रोच्चारपूर्वक उपचार द्यावे." इत्यादि वाक्याम्त जेथें द्विजां महि केवळ नाममन्त्र साङ्गितला आहे, तेथे शूद्रास सर्वच मन्त्राचा निषेध प्राप्त झाला असतां

नमः मन्त्राचा प्रतिप्रसव करण्याकरितां गौतमाचे वचन आहे असें जाणावेम्. प्रकृत अर्थात् जेथें द्विजादिक मन्त्र साङ्गितला आहे तेथे शूद्राने पुराण मन्त्र व जेथे ह्याम्स पौराण असेल तेथे शूद्राम्स नाममन्त्र विहित आहे असे सिद्ध होते. तिलावपनादिकान्तहि नाही. अन्य ग्रम्थ कर्ते तर, “शूद्राने आवाहनादि कसे करावें तें श्रवण कर. देवांस, त्याञ्च्या नावाने व पित राम्स त्याञ्च्या नामगोत्रान्नी" अशी भविष्यपुराणोक्ति आहे, तस्मात् सर्वत्र देवसम्बन्धी क मात, “देवेभ्यो नमः" व पितृसम्बन्धी कर्मात “पितृभ्यो नमः” असा नाममन्त्र ह्मणावा, असें ह्मणतात. कारण केवळ नांवाचा प्रयोग अयोग्य होतो. या मतानें “केवळ ‘नमः’ एवढाच मन्त्र “ह्मणावा असें ह्मणणारे आचार्यचूडामणि, व मदनपारिजात, याञ्चे वचन खं डित झाले. “नमस्कार हा पञ्चमहायज्ञमात्रपुरःसर अर्थात् तेवढ्यापुरता, “असें हरदत्ताचार्यादिक मणतात ते योग्य नाही. कारण श्राद्धादिकाम्त ‘नमः’ या मन्त्राच्या विधानाचें मूल अन्य आहे या कल्पनेच्या आवृत्तीने सर्व अर्थ सिद्ध होतात, याकरितां विज्ञानेश्व राने कृच्छ्रादिकाम्त नमः मन्त्राचा जप साङ्गितला आहे. आमचे (ग्रन्थकर्त्याचे) पितृचरण (वडील) रामकृष्णभट्ट तर, नमस्कारमन्त्राने पञ्चमहायज्ञ करावे, ते चुकवू नयेत या या ज्ञवल्क्योक्तीम्त यज्ञशब्दानें शूद्राच्या कर्ममात्राचा उद्देश केल्याने नमः याचे विधान उ द्देश्य (ज्याञ्चा उद्देश करावयाचा ते) यज्ञाञ्च्या पञ्चत्वरूप विशेषणाम्त ग्रहाञ्च्या एक त्वाच्या विवक्षेसारखे वाक्यभेदाची प्राप्ति होणार आहे. त्यावरून " शूद्रकर्तृक तुलादानादि पूर्तकर्मात शूद्रास नमस्कार मन्त्र आहे,’ असें ह्मणतात. पौराण मन्त्र तर ब्राह्मणाने पठण करावा, अशाने विरोधपरिहार होतो. या वाक्याने “नमस्काराचे पञ्चमहायज्ञातच विधान आहे तस्मात् शूद्रास विवाहहोमादिक नाही,’ अशी मदनपारिजाताची उक्ति खण्डित झाली अतएव “ जो नमस्काराने यज्ञ होतो तो उत्तम ” अशी श्रुति आहे, ह्मणून, नमस्कारानेच सर्व निश्चयाने होते. देवनमस्कारानेच यज्ञ पूर्ण होतो, असें मानितात, व “न मस्कारमन्त्र हाच यज्ञ होय” असें ऐतरेय ब्राह्मण आहे अशी आश्वलायनोक्ति आहे ह्मणून, जसे इतर मन्त्राम्स कर्माङ्गत्व आहे ह्मणजे कर्मागभूत आहेत तसे नमस्कारासहि आहे. ते जसें द्विजांस, ठिकठिकाणीं वैदिक मन्त्रपाठविधानाने बाधित जे चैत्य यज्ञादिकांत प्रवृत्त होते.

विश्वास-प्रस्तुतिः

[२३] तथा शूद्रेऽपि कर्मोक्तौ मन्त्रानुक्तौ च प्रवर्तत एव । अत एव शूद्रस्य कातीयसूत्रोक्ता अष्टौ संस्कारा विवाहश् चोक्तो हरिहरेण । अत एवानुमतो ऽस्य नमस्कारो मन्त्रः इति गौतमीयः शूद्रे ऽपि प्रतिप्रसवः तस्य चानुष्ठेयाप्रकाशत्वे ऽपि वचनात् त्व् अयथार्थम् ऐन्द्री स्याद् इति न्यायेनाङ्गत्वम् । एतेन देवताभ्यः पितृभ्यश् चेत्य् अयं वा नमस्कारो मन्त्र इति कृत्वा विज्ञानेश्वर-मदनपारिजाताद्युक्तिर् मानाभावात् परास्ता । अत्र केचित्, विप्रो मन्त्रेण गृह्यते इत्य् अत्र वैदिको मन्त्रो विप्रस्य पौराणस् तु शूद्रैः पठनीयः । न वेदेष्व् अधिकारो हि कश्चिच् छूद्रस्य विद्यते । “पुराणेष्व् अधिकारो मे दर्शितो ब्राह्मणैर् इह” इति शूलपाणौ पाद्मोक्तेः । श्रीदत्तो ऽप्य् एवम् । तिथितत्त्वे स्मार्तस् तु वैदिकेतरमन्त्रप्ठे शूद्रस्याप्य् अधिकारः । वेदमन्त्रवर्जं शूद्रस्येत्य् आचारचिन्तामणौछन्दोगाह्निके10 वचनाद् वेदेति विशेषणात् श्रोतव्यम् एव शूद्रेण नाध्येतव्यं कदाचनेति निषेधो मन्त्रेतरपुराणपरः । पञ्चयज्ञस्नानश्राद्धेषु तु पौराणो ऽपि न नमस्कारेण मन्त्रेणेति पञ्चयज्ञेषु ब्रह्मक्षत्रविशां त्व् एवं मन्त्रवत् स्नानम् इष्यते । तूष्णीम् एव हि शूद्रस्य सनमस्कारकं मतम् इति योगियाज्ञवल्क्येन । स्नाने ।

अयम् एव विधिः प्रोक्तः शूद्राणां मन्त्रवर्जितः । इति ।

श्राद्धे च वाराहे विशिष्योक्तेर् इत्य् आह । “अनुमतो ऽस्य नमस्कारो मन्त्रः” [ग्ध् १०.६४] इति गौतमो ऽप्य् एतत्परो वैदिकमन्त्रपरश् चेत्य् आह । तन् न, “नाध्येतव्य्म् इदं शास्त्रं वृषलस्य तु [२४] सन्निधौ” इति कौर्मे पुराणनिषेधेन वेदस्य दूरापास्तत्वात्,

अध्येतव्यं ब्राह्मणेन वैश्येन क्षत्रियेण च ।
श्रोतव्यम् एव शूद्रेण नाध्येतव्यं कदाचन ॥

श्रौतं स्मार्तं च वै धर्मं प्रोक्तम् अस्मिन् नृपोत्तम ।
तस्माच् छूद्रैर् विना विप्रं न श्रोतव्यं कदाचन ॥

इति शूलपाणौ पुराणाधिकारे भविष्योक्तेश् च । अत एव विप्रो मन्त्रेण गृह्यते इति सर्वार्थेन श्राद्धमात्रपरम् इति शूलपाणिः एतेन नाध्येतव्यम्11 इति निषेधो मन्त्रेतरपुराणपर इति श्रीदत्तादिमैथिलमतम् अपास्तम् । विना विप्रम् इत्य् उक्तेर् विप्रद्वारैव श्रवणम् उक्तम् । धर्मशब्दः “तानि धर्माणि” इतिवत् क्लीबः । विशेषस् तु निर्णयसिन्धौ ज्ञेयः ।

तसे शूद्राविषयी त्यास कर्माधिकार असून ज्या कर्मास जे विहित, ते मन्त्र साङ्गितले नाहीत, त्या ठिकाणी प्रवृत्त होतेच अतएव “शूद्रास कातीयमूत्रोक्त आठ संस्कार व विवाह करावे’ असें हरिहराने साङ्गितले आहे. याकरिताम्च “अनुमतोस्य” हा गौतम वाक्याचा शूद्राविषयी प्रतिप्रसव आहे. त्यास अनुष्ठेयाचे ( अनुष्ठान करण्यास योग्य अस लेल्याचे ) अप्राकट्य असतांहि विधिवचनास्तव “अयथार्थ ऐन्द्री इष्टि होईल’ या न्यायाने, अङ्गत्व सिद्ध होते यावरून, “देवताभ्यः पितृभ्यश्च” हा अथवा नमस्कारमन्त्र विहित आहे, अशी विज्ञानेश्वर, मदनपारिजातादिकाञ्ची उक्ति प्रमाणाभावास्तव खण्डित आहे. येथे कित्येक ह्मणतात की-“विप्रो मन्त्रेण०” येथे वैदिक मन्त्र ब्राह्मणाम्स व पौराण मन्त्र शूद्राम पाठ करण्यास योग्य आहे. कारण, “शूद्राम्स वेदाविषयी काही अधिकार नाही परन्तु पुराणाविषयी त्याम्स अधिकार आहे, असे मला ब्राह्मणान्नीम्च 9दाखविलें आहे,” अशी शूलपाणीत पद्मपुराणोक्ति आहे.

ह्मणून पूर्वोक्त रीतीने मन्त्रपाठ करावा. श्रीदत्तहि असेम्च ह्मणतो. तिथितत्त्वाम्त स्मार्त तर, “वैदिकभिन्न मन्त्रपाठावि षयी शूद्रांसहि अधिकार आहे” असें ह्मणतो. " वेदमन्त्रवर्ण्य शूद्रास सर्वत्र अधिकार आहे” असें आचारचिन्तामणीम्त छन्दोगाहिकाम्त वचन आहे व त्याम्त मन्त्रशब्दास वेद हे विशेषण आहे. तस्मात् “शूद्राने ऐकावेञ्च, अध्ययन कदापि करूं नये” हा निषेध मन्त्रभिन्नपुराणविषयक आहे. पञ्चमहायज्ञ, स्नान, व श्राद्धादिकाञ्चे ठायीं तर, पौराण मन्त्रहि ह्मणूं नयेत. कारण, “नमस्कारमन्त्राने पञ्चयज्ञ नेहमी करावे” हे व ब्राह्मण, क्षत्रिय, वैश्याम्स असें ( पूर्वी साङ्गितल्याप्रमाणे ) समन्त्रक स्नान इष्ट होते व शूदास तूष्णीं अथवा नमस्कारमन्त्रसहित स्नान विहित आहे असें योगी याज्ञवल्क्याने स्नानाचे ठायीं व “हाच विधि मन्त्ररहित शूदाम्स उक्त आहे” असें श्राद्धाविषयीं वरा हपुराणान्तील विशेषविधायक वचन आहे ह्मणून, पूर्वोक्त योग्य आहे असें ह्मणतो.“अनु मतोस्य हैं गौतमवचनहि एतत्पर व वैदिक मन्त्रपरहि आहे” असें ह्मणतो ते योग्य नाही. कारण “हे शास्त्र शूद्रसन्निध10 अध्ययन करूं नये” ह्या कूर्मपुराणस्थ वचनाने पुराणाचा निषेध केला आहे. मग वेदांविषयीं अनुज्ञा असणे तर दुरापास्त आहे. ब्राह्मण, क्षत्रिय, वैश्य यान्नी हे अध्ययन करावें व शूद्राने केवळ ऐकावेम्, अध्ययन कधीच करूं नये, याम्त श्रौत व स्मार्त धर्म साङ्गितला आहे; तस्मात् ब्राह्मणावाञ्चून शूद्रान्नी श्रवणही करूं नये असें शूलपाणीम्त पुराणाधिकारप्रकरणाम्त भविष्यपुराणोक्ति आहे अतएव “विमो मन्त्रेण हे वचन सर्वत्र ग्राह्य आहे. केवळ श्राद्धपरच11 नाही” असें शूलपाणी ह्मणतो. याने “नाध्येतव्यमिदम्० हा निषेध मन्त्रव्यतिरिक्त पुराणपर आहे” याने ( या वचनाने ) श्रीदत्तादिमैथिलाञ्चे मत दूर टाकले आहे. पूर्वोक्त भविष्यपुराणवचनाम्त “विना विप्रं०” असें ह्मटले आहे. ह्मणून शूद्रास ब्राह्मणद्वाराच पुराण श्रवण करण्यास साङ्गितले आहे. तसेच त्याच वचनाच्या पूर्वार्धात, धर्म असें ह्मटले आहे, तो शब्द आर्षत्वास्तव “तानि धर्माणि’ यासारखा12 नपुंसक आहे. एतत्सम्बन्धी विशेष विचार निर्णयसिन्धूत पहावा.

विश्वास-प्रस्तुतिः

** [२५]** किं च यथा द्विजानाम् अध्ययनविधौ अधीतैर् मन्त्रैर् अर्थस्मृतिं कुर्याद् इत्य् अर्थेन कर्मसु मन्त्रपाठस्यैवाङ्गत्वं न तु स्मृतेः मन्त्राणाम् अक्रियात्वेन स्वतः कर्माग्रहणात् यथा12 शूद्राणां श्रावयेद् इति श्रवणविधौ श्रुतैर् विधिभिः प्रवृत्तिं कुर्यात् श्रुतैर् मन्त्रैर् अर्थस्मृतिं कुर्याद् इत्य् अर्थेन शूद्रस्य तुलादिमहादानादिकर्मसु मन्त्रश्रवणस्यैवाङ्गत्वं न पाठस्य ।

नन्व् एवं श्रवणविधौ “श्रावयेच् चतुरो वर्णान्” इत्य् उक्तेर् द्विजानाम् अपि तुलादौ मन्त्रश्रवणम् एव स्यान् न पाठ इति चेत् –

अत्र ब्रूमः । “अध्येतव्यं ब्राह्मणेन वैश्येन क्षत्रियेण च” इति भविष्योक्तेः । “निषेकादिः स्मशानान्तः” इत्यादिवचनाद् अध्ययनस्यैव कर्माङ्गत्वम् ।

विदुषा ब्राह्मणेनेदम् अध्येतव्यं प्रयत्नतः ।

इति मनूक्तेः । अन्यथा

वेदाथर्वपुराणानि सेतिहासानि शक्तितः ।
जपयज्ञप्रसिद्ध्यर्थं विद्यां चाध्यात्मकीं जपेत् ॥

गाथानाराशंसीर् इतिहासपुराणानि यद् ब्राह्मणानीतिहासान्पुराणानि कल्पान् इत्यादिब्रह्मयज्ञविध्युच्छेदापत्तेः ।

पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः ।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ (या. स्मृ. १.३)

इति याज्ञवल्कीये। ज्ञानार्थत्वाच् च श्रवणं तु फलविशेषार्थं

य इदं शृणुयान् नित्यं यश् चापि परिकीर्तयेत् ।
नाशुभं प्राप्नुयात् किञ्चित् सो ऽमुत्रेह च मानवः ॥

इत्यादौ चण्डीपाठादौ च फलश्रुतेः । याज्ञवल्क्यो ऽपि ।

य इदं श्रावयेद् विद्वान् द्विजान् पर्वसु पर्वसु ।
अश्वमेधफलं तस्य तद् भवान् **[२६]**अनुमन्यताम् ॥ इति ।

तेन द्विजानां यथा वेदाध्ययनं ज्ञानकरणद्वारा कर्मार्थत्वात् पारायणाद्यर्थम् अक्षरग्रहणार्थत्वाच् च दृष्टार्थम्, न हि सिद्धान्ते ऽक्षरग्रहणस्य भाव्यत्वं त्यज्यते । पारायणार्थत्वेन दृष्टार्थत्वात्, तन्मात्रार्थत्वं तु नेष्यते यद्य् अत्र सर्वं फलम् इष्यते इति तथा पुराणाद्यध्ययनश्रवणयोर् द्वयोर् विधाने ऽप्य् अध्य्यनं ज्ञानद्वारा कर्मार्थत्वाद् दृष्टार्थं श्रवणं त्व् अदृष्टार्थम् एव, शूद्राणां तु विपरीतं श्रवणं ज्ञानद्वारा कर्मार्थत्वाद् दृष्टार्थं फलार्थत्वाद् अदृष्टार्थं च अध्ययनं तु नास्त्य् एव,

श्रोतव्यम् एव शूद्रेण नाध्येतव्यं कदाचन ।

इति वचनात् । यद्य् अपि वार्तिके राणके च,

धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ ।

इति भारतोक्तेर् धर्मादेश् चकारैर् अधर्मादेश् च ज्ञानम् उपादानपरित्यागाङ्गभूतं फलं तेन दृष्टार्थम् एव श्रवणम् इत्य् उक्तम्, तद् अपि शूद्रमात्रपरं ज्ञेयम् । द्विजानां तु पाठ एव ज्ञानार्थः । यद् वास्तु द्विजानां श्रवणं दृष्टार्थं पाठश्रावणयोर् अन्यतरस्यापि ज्ञानार्थत्वे नियामकाभावात् मन्त्रपाठस् तु भविष्यवचनाद् एवेति ज्ञेयम्, अन्यथा श्रावयेद् इत्य् अस्य शूद्रमात्रपरत्वे शूद्रस्य तदनादरश्रवणाद् इत्य् उत्तरमीमांसान्यायेन मोक्षे तस्यानधिकारात् मोक्षग्रहणं विरुध्येत ।

नन्व् आद्यपक्षे श्रवणविधौ शूद्रे ज्ञानार्थत्वेन दृष्टार्थत्वान् नियमविधिः, द्विजे च फलार्थत्वाद् अपूर्वविधिर् इति वैरूप्यं स्यात् ।

मैवम् । अध्ययनविधिवत् यच् छक्यत इत्य् उपबन्धेन सर्वग्रहात् सर्वत्रापूर्वविधिस् तत्त्वं फलतो नियमादिव्यपदेश इति वार्तिकोक्तरीत्या परिहाराच् च, सर्वश् चाध्ययनविधिन्यायस् तत्स्थानापन्ने श्रवणविधौ सञ्चारणीयः । एतच् च एवं भारतादिवाक्यान्य् अपि योज्यानीत्यादिना वार्तिके ऽपि सूचितम् । तद् इदं मदुक्तं सुधीभिर् दूरं विभावनीयम् । तस्माच् छूद्रस्य पूर्तादिकर्मसु पौराणमन्त्राणाम् एव विप्रस्य पाठो न वैदिकानाम् इति सिद्धम् ।

आणखी जसे, द्विजाम्स अध्ययनविधीचे ठायीं “अध्ययन केलेल्या मन्त्राच्या अर्थाचे स्मरण करावें[१३]” या अर्थाच्या वचनाने प्रत्येक कर्मात मन्त्रपाठासच काङ्गत्व आहे, अर्थस्मृतीला नाहीम्; कारण, मन्त्राम्स अक्रियात्व आहे.

तेणेकरून, स्वतः कर्माचं ग्रहण होत नाही, जसे शूद्रांस, “श्रावयेत्” या श्रवणविधीम्त एकिलेल्या विधीनी कर्मप्र वृत्ति करावी, “व ऐकलेल्या मन्त्रान्नी अर्थस्मरण करावेम्” या वाक्याने, शूद्रास 13तुलादि महादानादिकर्मात मन्त्रश्रवणाचेंच14 अङ्गत्व आहे, पाठाचेम्च नाही.

यावर शङ्का श्रवणविधीन्त, “श्रावयेच्चतुरो०” असें झटले आहे, तस्मात् द्विजांसहि तुलादाना दिकाम्त मन्त्रश्रवणच विहित होईल, पठण योग्य होणार नाही, असें ह्मणसील तर, त्या वर समाधाने येथे साङ्गतो. “ अध्येतव्यं०” अशी भविष्यपुराणोक्ति आहे; या हेतूम्तव, “गर्भाधानादि स्मशानान्तविधि, वैदिकमन्त्रान्नी ज्यास विहित आहे, त्याने हैं अध्ययन करावेम्” इत्यादि वचनांवरून, अध्ययनासच कर्माङ्गत्व आहे, व " विद्वान् ब्राह्मणाने हे शास्त्र (मनुस्मृति) मोठ्या प्रयत्नाने शिकावेम्" असी मनूक्ति आहे. अन्यथा “वेद, आथर्वणमन्त्र, पुराणे इतिहास इत्यादि व आध्यात्मिकी15 विद्या, यथाशक्ति ब्रह्मयज्ञसिध्यर्थ, प्रतिदिवशी जपावी." व गाथाग्रम्थ “नाराशंसी, इतिहास, पुराणे, ब्राह्मणे” इत्यादि न मटल्यास, ब्रह्मयज्ञाचा विच्छेद प्राप्त होईल. " पुराणे, न्याय, मीमांसा, धर्मशास्त्र, व्याकरणादि वेदाङ्गें व चार वेद ही १४ चवदा अनेकप्र कारच्या विद्याञ्ची व धर्माञ्ची स्थाने होत,” असें याज्ञवल्क्यस्मृतीन्त, ज्ञानार्थत्व आहे, पणून याञ्चा पाठच आवश्यक आहे, व त्याञ्चे श्रवण तर, काही विशेषफलप्राप्त्यर्थ16 आहे.

“जो हे नित्य श्रवण व पठण करील, त्यास इहपरलोकीं कांहीं अशुभ प्राप्त होणार नाही’ इत्यादि वचनान्त, व चण्डीपागदिकाञ्चे विशेष फल साङ्गितलेले श्रवण आहे. व याज्ञवल्क्यहि ह्मणतो की, “जो हैं ( याज्ञवल्क्यस्मृति ) द्विजांस, पर्वपर्वाचे ठायीं ऐकवील, त्यास अश्वमेधफल प्राप्त होईल.” त्यावरून, द्विजाम्स जसे वेदाध्ययन, ज्ञान साधनद्वारा, कर्मार्थत्वास्तव व पारायणादिकाकरितां अक्षरग्रहणार्थत्वास्तव, तें (अक्ष रग्रहण) दृष्टार्थ आहे; सिद्धान्ती, अक्षरग्रहणाचे भाव्यत्व त्याग केले जात नाही. कारण पारायणार्थत्वेकरून, त्यास दृष्टार्थत्व आहे, तन्मात्रार्थत्व तर, इष्ट नाही, हे न्यायर नमालेत स्पष्ट साङ्गितले आहे. “केवळ, अर्थविज्ञानसिद्धि हे याचे प्रयोजन दृ. ष्टार्थ दिसत नाहीम्, जर येथे सर्व फल इष्ट असेल” तर. तसेम्च पुराणादिकाञ्चे अध्य यन व श्रवण या दोहोम्, यद्यपि विधान आहे, तथापि अध्ययन ज्ञानद्वारा कमोथत्वा स्तव, दृष्टार्थ आहे, व श्रवण तर अदृष्टार्थच आहे. शूद्राम्स तर याच्या उलट ह्मणने, पुराणादिश्रवण ज्ञानद्वारा कर्मार्थत्वास्तव दृष्टार्थ आहे, व तज्जन्यफलार्थत्वा स्तव, अदृष्टार्थ आहे, अध्ययन तर मुळीच नाहीम्; कारण “शूद्राने ऐकावेञ्च, अध्य यन कदापि करूं नये” असे वचन आहे. जरी वार्तिकान्त, व राणकान्त, “धर्म, अर्थ, काम, व मोक्ष, याञ्च्याठायीं अधिकार आहे, असी भारतोक्ति आहे. या वरून धर्मादिकाञ्चे, व त्यान्त, चकार आहेत त्यान्नी अधर्मादिकाञ्चेंहि ग्रहण होते. तस्मात् ज्ञान हे धर्माचा स्वीकार, व अधर्माचा परित्याग इत्याचङ्गभूत ज्ञान, हेच, त्याचे फल होय. त्यावरून, श्रवण हे दृष्टार्थच आहे असे साङ्गितले आहे, परन्तु, तेंहि शूद्राम्पुरतेच आहे, असें जाणावेम्. द्विजाम्स तर. मन्त्रादिकाञ्चा पाठन ज्ञानार्थ आहे. अथवा, द्विजाम्स मन्त्रश्रवण हे दृष्टार्थ असो. कारण, पठण व श्रवण, या दोहोन्तून अमुक एकच ज्ञानार्थ आहे असा त्याञ्चा नियम करणाऱ्या वचनाचा अभाव आहे. मन्त्राचा पाठ तर, पूर्वोक्त भविष्यपुराणस्थ वचनारूनच योग्य आहे असें जाणावेम्. नाहीपेक्षा, “श्रावयेत्” या वाक्याचें शूद्रमात्रपरत्व घेतल्यास, “शूद्रस्य तदनादरः श्रवणात् " या उत्तरमीमांसेन्तील न्यायाने, मोक्षाविषयीं शूद्राम्स अ धिकार नाही, ह्मणून, “धर्मे च अर्थे च.” या भारतस्थ वचनान्त, मोक्षशब्दाचें ग्रह ण केले आहे, विरुद्ध ते होईल. यावर शङ्का-~-प्रथमपक्षी ह्मणने शूद्राम्स श्रवणच ह ष्टार्थ व द्विजाम्स पाठच ज्ञानार्थत्वेकरून दृष्टार्थ. या पक्षी श्रवणविधीन्त, शूद्राविषयीं ज्ञानार्थत्वेकरून दृष्टार्थत्वास्तव · ‘श्रावयेत्’ हा नियमविधि17 होईल, व द्विजांविषयी फला र्थत्वास्तव अपूर्वविधि18 होईल.

असे झाल्यास, वैरुप्य होईल, असें ह्मणशील तर, ह्मणूं नको; कां की अध्ययनविधीमारखें में “ करता येईल तितकेम्च करावें या " उपबन्धाने, सर्वाचे ग्रहण होईल. यास्तव सर्वत्र अपूर्वविधि, हेच यान्तील तत्व आहे. “ फलतः नियमादिकाञ्चा व्यपदेश होतो. " असं वार्तिकाम्त साङ्गितलेल्या रीतीतें पूर्वोक्त वैरू प्याचा परिहार होतो. यावरून सर्वहि अध्ययनविधिन्याय, शूद्रांविषयी त्याम्स अध्य यनस्थानी विहित में श्रवण त्याच्या विधीचेठायीं योजावा. हे, “ भारतादि वाक्ये व अन्यहि वाक्ये, अशीम्च योजावी ” इत्यादि वाक्यान्नी वार्तिकान्तहि सुचविले आहे, ते हैं मी माङ्गितलेले सुज्ञान्नी दूरवर विचार करून स्वीकारावम्. तस्मात् शूद्राच्या, पूर्ता दि कर्मामध्ये ब्राह्मणाने पौराणमन्त्राञ्चाच पाठ करावा, व त्याण्णी श्रवण करांव. वैदिक मन्त्राचा पाठ करूं नये, व शूद्रानें तो श्रवण19 करूं नये, हे सिद्ध झाले.

  1. येथे ‘चवथा वर्ण असे हटले आहे’ याचे कारण इतकेच की ज्यास वर्णत्व आहे त्यास नियमानें कांहीं तरी धर्म असलाच पाहिजे अशी त्याची आवश्यकता दर्शविणे हेच होय. ↩︎

  2. हा शब्द पितराम्स उद्देशून जे अन्नादिक अर्पण करितात त्याचा त्याग करतेवेळी यौजितात:- जसं “ पितृभ्यः स्वधा." आणखी पौराणी कथाहि अशी आहे की ‘स्वधा’ या नांवाची दक्षप्रजापतीची कन्या [ भा० स्कम्ध ४ अ० १ पहा ] होती व ती पितर नांवाच्या देवगणाची स्त्री झाली ह्मणन तिचे नाम्व घेऊन त्याग केलेले कव्य (पितराञ्चें अन्न) पितर त्वरित खीकार करितात ह्मणन ‘स्वधा’ शब्दाचा प्रयोग करितात. ↩︎

  3. वरील शब्दासारखाच याचाही दैविक कमाम्त उपयोग करावा लागतो. देवाम्स ज्या आहुति द्यावयाच्या असतात त्याम्स पूर्वी मन्त्र उच्चार करून त्याच्या शेवटी हा शब्द लावला पाहिजे. आणखी असे आहे की, ‘स्वाहा’नांवाची दक्षप्रजापतीची कन्या तीच अमीची पत्नी होय [अ० काण्ड २ व ७ श्लो० २१ पहा ]. तिचे नाम्व घेउन आहति दिली झणजे तो मोठ्या प्रीतीनं घेतो, च देवाम्स त्वरित पोहञ्चवितो, असा उद्देश असावा. ↩︎

  4. हा वषट् शब्द बहुतकरून यज्ञामध्य उपयुक्त असतो. वास्तविक पाहतां ह्या शब्दाचा अर्थ मुळीच नाही; परन्तु त्याच्या उच्चारापासून कांहीं फलविशेष आहे, व याच अभिप्रायान पूर्वमीमांसाकत्यान्नी अ. सल्या शब्दाम्स जपोपयोगी असे म्हटले आहे. ↩︎

  5. येथे हाच विधि असें ह्मटलें आहे यावरून पूर्वीच्या वाक्याम्त समन्त्रक विधि ब्राह्मणादिकाम्स विहित असलेला साङ्गितला असावा असे वाटते. ↩︎

  6. ह्या वचनाचा अभिप्राय असा आहे की, मन्त्राचा पाठाधिकार नसलेल्या शूद्रास ब्राह्मणाने पठण केले. ल्या मन्त्राञ्चे त्याने श्रवण केलें ह्मणजे त्यास पाठ केल्याचें फळ मिळतेम्; अर्थात् कर्म साङ्ग होते. ↩︎

  7. अदृष्टसिद्धि म० मन्त्रपाठाने साङ्ग होणऱ्या यज्ञादि कर्माचे फल अदृष्ट आहे. उदाहरणार्थ “ज्यो तिष्टोमेन स्वर्गकामो यजेत " ज्योतिष्टोमयज्ञ खर्गेच्छने करावा. ह्या विधिवचनाप्रमाणे तो यज्ञ करणाऱ्यास खर्गलोकप्राप्तिरूप में फल मिळते, तें प्रत्यक्ष दिसत नाही व इतर व्यावहारिक कर्माची फले प्रत्यक्ष अ सतात तसे हैं नाही ह्मणन या कर्मास अदष्टफल असें ह्मणतात. वरील शब्दाम्त ‘फल’ शब्द गाळून के. वळ अदृष्टसिद्धि असेच झटले आहे त्याचा अर्थ अदृष्टफलाची सिद्धि असा आहे. ↩︎

  8. प्- यथा ↩︎ ↩︎ ↩︎

  9. प्- सच् ↩︎ ↩︎ ↩︎

  10. प् अद्द् च ↩︎ ↩︎ ↩︎

  11. यावरून पूर्वी “प्रकरणाने नियमित करण्याम योग्य आहे” असें मतान्तर साङ्गितले होते तें खण्डित झाले. ↩︎ ↩︎ ↩︎

  12. वरील भविष्यपुराणवचनाम्त “धर्म” असा, धर्मशब्द पुंलिङ्गी असतां नपुंसक पाठ घेतला आहे, तो पुराणग्रम्थ हे ऋषिप्रणीत असल्यामुळे, जसे वेदाम्त " तानि धर्माणि" येथे धर्मशब्द नपुंसक घेतला आहे तसाच हाहि समजावा. ↩︎ ↩︎ ↩︎

  13. हे दान लोकाम्त प्रसिद्ध आहे, तुला, मणजे कोणत्याहि द्रव्याने आपली तुलना करणं हा होय. या तुलेत सुवर्णतुला उत्तम साङ्गितली आहे. त्याच्या खाली रौप्य, ताम्र, इत्यादि आहेत, याचा विधि “दानचं द्रिका व दानसमलाकर” याम्त सविस्तर आहे. ↩︎

  14. जसं द्विजाम्म अर्थस्मरण केले तथापि मन्त्रपाठ आवश्यक आहे, तसम्च शम्स पौराणमन्त्रश्रवणच आव. श्यक आहे, पाठ आवश्यक नाही. ↩︎

  15. उत्तरमीमांसा, उपनिषदें इत्यादि आत्मविचारविषयक ग्रन्थाम्त आध्यात्मिकी विद्या असें ह्मणतात. ↩︎

  16. ही विद्येची स्थाने असल्याकारणाने याञ्च्या श्रवणाने ज्ञानरूप विशेषफलाची प्राप्ति होईल असा आशय. ↩︎

  17. याविषयी पृ. २५ पहा. ↩︎

  18. “ज्योतिष्टोमेन स्वर्गकामो यजेत” इत्यादि वाक्ये ही, अपूर्वविधिबोधक होत. ↩︎

  19. शूद्राने वेदश्रवण केल्यास त्याच्या कानाम्त कथिलाचा रस ओतावा इन्यादि साङ्गितले आहे याविषयी पृ. २५ पहा. ↩︎