विश्वास-प्रस्तुतिः
[१४] तथा वेदमूलत्वात् स्मृतिपुराणाद्यध्ययनं निषिद्धम्,
पुराणं पञ्चमो वेदः पुराणं वेदसम्मितम् ।
इति स्मृतेः ।
तस्माद् इदं वेदविद्भिर् अध्येतव्यं प्रयत्नतः ।
शिष्येभ्यश् च प्रवक्तव्यं सद्वृत्तेष्व् एव धर्मतः ॥
इति स्मृतिकौमुद्याम् अत्रिस्मृतेः । मनुर् अपि ।
निषेकादिः श्मशानान्तो मन्त्रैर् यस्योदितो विधिः ।
तस्य शास्त्रे ऽधिकारो ऽस्मिन् ज्ञेयो **[१५] **नान्यस्य कस्यचित् ॥
एवं स्मृत्यादिश्रवणम् अपि ।
नाध्येतव्यम् इदं शास्त्रं वृषलस्य तु सन्निधौ ।
यो ऽधीते चैव मोहात्मा स यात् नरकान् बहून् ॥
इति कौर्मोक्तेः । वायुसंहितायाम् अपि ।
नावेदविद्भ्यः कथनीयम् एतत् पुराणरत्नं पुरशासनस्य ।
नाभक्तशिष्याय च नास्तिकेभ्यो दत्तं हि यत् तन् नरकं ददाति ॥
भविष्यपुराणे ।
यान्य् एतानि त्वयोक्तानि धर्मशास्त्राणि सुव्रत ।
नेच्छामि श्रोतुं विप्रेन्द्र गुह्यान्य् एतानि हि द्विज ॥ १ ॥
त्रयाणाम् एव वर्णानां प्रोक्तान्य् एतानि पण्डितैः ।
श्रेयसे न तु शूद्राणाम् अत्र मे वचनं शृणु ॥ २ ॥
ब्राह्मणादिषु वर्णेषु त्रिषु वेदाः प्रतिष्ठिताः ।
मन्वादीनि च शास्त्राणि तथाङ्गानि च सर्वशः ॥ ३ ॥
अत्र श्रवणस्य वाचनस्य च शूद्रप्राधान्येन साक्षान् निषेधः, न तु विप्रद्वारा । तद् उक्तं महाभारते ।
श्रावयेच् चतुरो वर्णान् कृत्वा ब्राह्मणम् अग्रतः । इति ।
नारदीये ऽपि ।
ये च धर्मपरा राजन् वेदद्विजपरायणाः ।
तेषां मध्ये हरेर् अग्रे पठनीयं द्विजातिभिः ॥ इति ।
मूलम्

मराठी
तसेम्च वेदास मूलाधारभूत धरून मन्वादिकान्नी स्मृति, पुराणे, उपपुराणे, व पुरा. णसंहिता इत्यादिक रचलीं आहेत, ह्मणून त्याञ्चेही अध्ययन निषिद्ध आहे. कारण,-“पु राणे हा पाञ्चवा वेद1 आहे, अतएव ही वेदतुल्य होत.” अशी स्मृति आहे.
तसेञ्च - “तस्मात् हे शास्त्र2 (स्मृति) प्रयत्नपूर्वक वेदवेत्त्यान्नी अर्थात् द्विजान्नी अध्ययन करावेम्. व स द्वर्त्तन करणाऱ्या शिष्यांसच द्यावे.’ अशी स्मृतिकौमुदीत अत्रिस्मृति आहे.
मनुहि “गर्भाधानापासून स्मशानापर्यम्त सर्व विधि वैदिक मन्त्रान्नी करण्याचा ज्यास अधिकार आहे, त्याचा, या शास्त्राचे-(मनुस्मृतीचे ) ठायीं अधिकार आहे अन्य कोणाचाही नाही, असे समजावें.” असें ह्मणतो. यावरून पुराणे व मन्वादि3 स्मृति इत्यादिकाञ्च्या पठणाविषयीं शूद्रास अधिकार नाही हे जसे सिद्ध होते तसेच त्याचे श्रवणहि शूद्रास निषिद्ध आहे.
कारण - “हे शास्त्र4 ‘पुराण ’ शूद्राच्या सन्निध पढू नये. जो मोहाविष्ट होऊन पढतो तो बहुत नरकाम्स जातो” अशी कूर्मपुराणोक्ति आहे.
बायुसं हितेतही - “वेद न जाणणाऱ्याम्स (शूद्रादिकांस,) हे पुराणरत्न कथन करूं नये, तसेम्च वेद वेत्ता असून ज्यास भक्ति नाही अशा शिष्यास, व वेदनिन्दकास हे देऊ नये; जर दिले तर नरकप्रद होते.” असे साङ्गितले आहे. भविष्यपुराणान्त-“हे सुव्रता विपेन्दा जी ही धर्म शास्त्रे साङ्गितलीस ती मी श्रवण करण्यास इच्छीत नाहीम्; कारण ही अतिगुह्य आहेत, व ती ब्राह्मणादि तीनवर्णासच श्रेयस्कर होत इतराम्स नाहीत असे पण्डितान्नी साङ्गितले आहे. ब्राह्मणादि तीन वर्णाञ्चेठायीं वेद प्रतिष्ठित आहेत, अर्थात् त्यांसच वेदाधिकार आहे, तशीच मन्वादि धर्मशास्त्रे व व्याकरणादिक 5अङ्गेंहि त्यांसच विहित आहेत.’ असे साङ्गितले आहे. येथे पुराणादिकाञ्चे श्रवण, व वाचन निषेधिलें आहे, तें शूद्रास मुख्य करून इतरान्नी, व साक्षात् शूद्रानेच करण्याविषयी आहे असे समजावेम्, ब्राह्मणद्वारा निषिद्ध नाही. तेम्च महा भारताम्त साङ्गितले आहे.
5 या शब्दाने शिक्षा, कल्पसूत्र, पाणिनीयसूत्रपाठ, निरुक्त, ज्योतिष, व छन्दःशास्त्र या सहा वेदाङ्गाञ्चे ग्रहण होते.
जसें - “ब्राह्मणाम्स पुढे करून चारही वर्णान्नी पुराणादि श्रवण करावेम्. नारदीय पुराणान्तही-‘जे जन धर्मतत्पर व देवब्राह्मणपूजक असतील, त्याम्मध्ये विष्णुप्रतिमेच्या अग्रभागी ब्राह्मणान्नी हे पुराण पठण करावें.” असे साङ्गितले आहे.
विश्वास-प्रस्तुतिः
[१६] भागवते पि ।
स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा ।
कर्मश्रेयसि मूढानां श्रेय एवं भवेद् इह ॥ १ ॥
इति भारतमाख्यानं कृपया मुनिना कृतम् इति । (द्विजाच् छूद्रायां जातो द्विजबन्धुर् व्रात्यो वा) । भविष्ये ।
चतुर्णाम् अपि वर्णानां यानि प्रोक्तानि श्रेयसे ।
धर्मशास्त्राणि राजेन्द्र शृणु तानि नृपोत्तम ॥ १ ॥विशेषतस् तु शूद्राणां पावनानि मनीषिभिः ।
अष्टादशपुराणानि चरितं राघवस्य च ॥ २ ॥
वायवीये ।
एतानि नृपशार्दूल धर्मशास्त्राणि पण्डितैः ।
साधारणानि प्रोक्तानि वर्णानां श्रेयसे सदा ॥ १ ॥चतुर्णाम् इह राजेन्द्र श्रोतुम् अर्हाणि सुव्रत ।
स्कान्दे सूतसंहितायाम्।
अन्ये च ब्राह्मणा विष्णो राजानश् च तथैव च ।
वैश्याश् च तारतम्येन ज्ञानाभ्यासे ऽधिकारिणः ॥ १ ॥द्विजस्त्रीणाम् अपि श्रौतज्ञानाभ्यासे ऽधिकारिता ।
तथा5 शूद्रस्य शुश्रूषा पुराणेनैव वेदनम् ॥ २ ॥
वदन्ति केचिद् विद्वांसः स्त्रीणां शूद्रसमानताम् ।

श्रीमद्भागवतान्तही - “स्त्रिया, शूद्र, द्विजबन्धु6 (द्विनापासून शूद्रीचेठायीं झालेला अथवा गर्भाधानादिसंस्कारहीन) याम्स ऋग्वेद, यजुर्वेद व सामवेद श्रवण करण्याचा अधिकार नाहीम्; कर्मरूप श्रेयःसाधनाविषयीं मूढ असलेल्या त्या शूद्रादिकाञ्चें असें (भारतश्रवणाने) श्रेय होवो! या हेतूने त्याञ्च्यावर कृपा करून व्यासाने महाभारताल्यान केलें.” असें साङ्गितले आहे. भविष्यपुराणान्त -“हे राजेन्द्रा!7 चारही वर्णास कल्याणाची साधने जी धर्मशास्त्रे साङ्गितली आहेत ती मजपासून श्रवण कर - ज्ञात्यान्नी जी विशेषतः शूद्राम्स पवित्र करणारी साङ्गितली ती साङ्गतों- अष्टादश8 पुराणे व रामाचे चरित्र9 (वाल्मीकि रामायण) ही धर्मशास्त्रे त्यान्नी श्रवण करावी.” असे साङ्गितले आहे. वायुपुराणान्त-“हीं (पुराणे) पण्डितान्नी सर्व वर्णास साधारण्येङ्करून कल्याणकारक अशी साङ्गितली आहेत, ह्मणून हे राजेन्द्रा! ही चारही वर्णाला ऐकण्यास योग्य आहेत.” स्कन्दपुराणाम्त सुतसंहितेत “अन्य-ब्राह्मण, राजे व वैश्य हे तारतम्याने ज्ञानाभ्यासाविषयी अधिकारी आहेत. द्विन स्त्रियांसही वेदाचें अर्थज्ञान व अभ्यासाविषयी अधिकार10 आहे, तसेम्च शूद्राम्स द्विजसेवा व पुराणावरून ज्ञानसम्पादन विहित आहे. कित्येक विद्वान् स्त्रियाम्स शूद्रसमानत्व आहे असे ह्मणतात.” असे साङ्गितले आहे.
विश्वास-प्रस्तुतिः
[१७] तथा।
सिद्धान्तश्रवणं प्राहुर् द्विजानां मुनिसत्तमाः ।
शूद्राणां च विरक्तानां तथा स्त्रीणां महामुने ॥ १ ॥सिद्धान्तश्रवणं प्रोक्तं पुराणश्रवणं बुधैः ।
(सिद्धान्तः स्मृत्यर्थः) । रामायणे ऽपि ।
पठन् द्विजो वागृषभत्वम् ईयात् स्यात् क्षत्रियो भूमिपतित्वम् ईयात् ।
वणिग्जनः पुण्यफलत्वम् ईयाच् छृण्वंश् च शूद्रो ऽपि महत्वम् ईयात् ॥ १ ॥
इदम् अपि विप्रादिद्वारैव । तद् उक्तं भविष्ये ।
देवार्चां पुरतः कृत्वा ब्राह्मणांश् च नृपोत्तम ।
श्रोतव्यम् एव शूद्रेण तथान्यैश् च द्विजातिभिः ॥ १ ॥
पुराणश्रवणविधानाद् एव तदन्तर्गतवैदिकमन्त्रश्रवणे ऽपि न दोषः । तद् उक्तं वार्तिके ।
तान् एव वैदिकान् मन्त्रान् भारतादिनिवेशितान् ।
विहाय मन्त्रनियमं लोकबुद्ध्या प्रयुञ्जते ॥ इति ।
यद्य् अप्य् अदृष्टहेतुत्वं न वैदिकत्वं विनास्ति । तेन स्तोत्रादेर् अपि वेदे क्वचित् सत्त्वं कल्प्यते । तथापि वचनाद् दोषाभावः । अनित्यस्यापि प्रवाहानादितया कल्पसूत्रादिवन् नित्यविधिविषयत्वम् । यानि6 शङ्खेन विद्यास्थानान्य् उक्त्वा “एतानि ब्राह्मणो ऽधिकुरुते स च वृत्तिं दर्शयतीतरेषाम्” इति बहुवचनेन ज्ञानोपदेशो विप्रद्वारेणैवेति7 शूद्रस्याधिकार उक्तः सो ऽपि श्रवणपर एव । अत्र शूद्राणां विहितनिषिद्धाश् च धर्माः शूद्रसमानानाम् अनुपनीतद्विजस्त्रीकुण्डगोलकसङ्करजात्यादीनाम् अपि ज्ञेयाः । ते चाग्रे वक्ष्यन्ते । तत् सिद्धं शूद्रस्य विप्रद्वारा पुराणश्रवणेन ज्ञानम् इति ।

तसेम्च वैदिक अथवा शास्त्रीय सिद्धान्ताचे11 श्रवण ब्राह्मणादि तीन वर्णास विहित आहे, व विरक्त शूद्रांस, आणि स्त्रियाम्स स्मृत्यर्थ, व पुराणश्रवण विहित आहे. वाल्मीकि रामायणान्तही “हे ब्राह्मण जर पठण करील तर वाचस्पतित्व पावेल, क्षत्रिय हे पठण करील तर भूमिपतित्व पावेल, वैश्य पुण्यफल पावेल, व शूद्राने श्रवण केल्यास तो महत्व पावेल’ असे साङ्गितले आहे; हेही ब्राह्मणद्वाराच शूद्रास विहित आहे; तेम्च भविष्यपुराणाम्त साङ्गितले आहे-” देवपूजा व ब्राह्मणास पुढे करून अन्य ब्राह्मणादि तीन वर्णान्नी, व शूद्राने पुराण श्रवण करावेम्” येथे पुराणश्रवणाचे विधान केले आहे, तेणेकरूनच पुराणान्तर्गत वैदिक मन्त्र श्रवण केले असतां दोष नाही. तेम्च वार्तिकाम्त साङ्गितले आहे-" जे वैदिक मन्त्र शूद्राम्स श्रवण करण्याविषयी अयोग्य आहेत तेच महाभारतादिकाम्त असतील, व त्याञ्चा जर मन्त्राचा नियम12 सोडून लौकिकबुद्धीने प्र योग केला असेल तर त्याञ्च्या श्रवणाचा दोष शूद्रास नाही." यद्यपि अदृष्टफलहेतुत्व वैदिकत्वा वाञ्चून नाही व तेणेकरून कित्येक वेदभागाम्त स्तोत्रादिकही आहेत अशी कल्पना होते तथापि पूर्वोक्त वचनास्तव दोष नाही. अनित्य अशाहि पूर्वोक्त मन्त्राच्या अवैदिकत्वास प्रवाहाच्या अनादित्वेकरून कल्पसूत्रादिकाञ्चेपरि नित्यविधिविषयत्व आहे. जी शङ्खाने विद्यास्थाने13 साङ्गून “याञ्च्या अभ्यासाविषयीं ब्राह्मण अधिकारी आहे, व तो इतर वर्णाची वृत्ति दाख वितो" असें “इतरेषाम्” या बहुवचनाने ज्ञानोपदेश ब्राह्मणद्वरानेच इतर वर्णाम्स होतो असे साङ्गितल्यावरून शूद्रास उपदेशाधिकार साङ्गितला आहे तोही श्रवणपरच आहे. येथे शूद्राचे विहितनिषिद्ध धर्म साङ्गितले आहेत तेच शूद्रसमान इतर जातीस14, व अनुपनीत द्विन, स्त्रिया, कुण्ड, गोलक, सङ्करजातीय यांसही लागू आहेत असें जाणावेम्; ते पुढे (तिसऱ्या प्रकरणाम्त) साङ्गू. तस्मात् शूद्राम्स ब्राह्मणद्वारा पुराणश्रवणेकरून ज्ञान सम्पाद ण्याचा अधिकार सिद्ध झाला.
-
येथे पुराणाम्स पाञ्चवा वेद असें मटले आहे, तर-वेदाम्त जशी निरनिराळी सूक्तै, मधुछंहा, परा शर इत्यादि ऋषीन्नी गाइली आहेत, तशीच पुराणेहि पराशर, मैत्रेय, वसिष्ठ इत्यादिकान्नी रचून आपल्या शिष्याम्स पढविली आहेत, व वेदाचा अर्थ याम्त वर्णन केला आहे. वेद जसा स्वतःप्रमाण आहे; तशी हीं पुराणेहि स्वतःप्रमाण आहेत. याविषयीं जैमिनीय न्यायमालाविस्तराम्त माधवाचार्यानी बरेम्च विवेचन केले आहे. ↩︎
-
या शब्दाचा व्युत्पत्त्यर्थ-शास्तीति शास्त्रम् ; शिक्षण करते ते शास्त्र असा आहे. सम्बन्धावरून धर्मा दिकाञ्चे शिक्षण करिते जे ते असा अर्थ घेता येईल. माधवाचार्यान्नी “प्रवृत्ति, नित्येन कृतकेन वा ॥ पुंसां येनोपदिश्येत तच्छास्त्रमभिधीयते” ॥१॥ अर्थ-प्रवृत्ति (यज्ञादि काम्य कमेम्) व निवृत्ति (ईश्वरसेवनादि निष्काम कर्म) नित्य अथवा नैमित्तिक रूपाने पुरुषास. ज्याने उपदेशिली जातात त्यास शास्त्र ह्मणावेम्, व मन्वादिस्मतीत प्रवृत्तिनिवृत्तिलक्षण धर्माचे प्रतिपादन केले आहे ह्मणन ही शास्त्रे होत. ↩︎
-
या स्मृति मुख्यत्वेकरून धर्मप्रतिपादक आहेत, व याञ्चा वैदिकमन्त्रांशी निकट सम्बम्ध असत शुद्रान्नी त्याञ्चे श्रवण करूं नये असा अभिप्राय असावा. ↩︎
-
पूर्वी साङ्गितल्याप्रमाणे उभयविध धर्मप्रतिपादकवास्तव पुराणेही शास्त्रशब्दाभिधेय आहेत. ↩︎
-
हा शब्द कमलाकरभट्टानें ज्याञ्चा वाचक केला आहे ते वर कौंसाम्त लिहिले आहेत, परन्तु भाग वताचे टीकाकार श्रीधरस्वामी या शब्दाने ब्राह्मणादि तीन वर्णातील नीच असलेल्याञ्चे प्रहण करितात. [भा० स्कं० अ० ४ श्लो. २५ टीका पहा.] ↩︎ ↩︎ ↩︎
-
हे सम्बोधन धर्मराजास दिले आहे. भविष्यपुराणाम्त मुख्यत्वेकरून कृष्णाचा व धर्माचा संवाद आहे. ↩︎ ↩︎ ↩︎
-
मात्स्य, मार्कण्डेय, भागवत, भविष्य, ब्राह्म, ब्रह्मवैवर्त, ब्रह्माण्ड, वैष्णव, वामन, वायव्य, वाराह, आग्नेय, नारद, पान, लैङ्ग, कौर्म, स्कान्द, आणि गारुड. यांशिवाय देवीभागवत, नारदीय, पाराशरीय, इत्यादि उपपुराणे वगैरे आहेत. ↩︎
-
रामाचे चरित्र प्रत्येक पुराणाम्त व महाभारतादिकाम्त थोडेबहुत वर्णन केले आहे, परन्तु तें मुख्यत्वे. करून वर्णन केलें नसून अङ्गभूत आहे, व वाल्मीकीनें तें मुख्यत्वेकरून वर्णन केले आहे ह्मणून ‘राघव. चरित’ शब्दाने त्या रामायणाचेम्च प्रहण करावे. हे युक्त आहे. ↩︎
-
याविषयी पृ. ९ टीप ३ पहा. ↩︎
-
सिद्धाम्त ह्मणजे शेवटचा ठराव असा अर्थ घेता येईल. येथे मूलवचनाम्त अमक्याचा सिद्धाम्त असे स्पष्ट नाही परन्तु कमलाकरभट्ट या शब्दाने येथे स्मृत्यर्थाचें ग्रहण करितात. ↩︎
-
उदात्त, अनुदात्त, स्वरित इत्यादिकाञ्चा यथास्थान उच्चार करणे, व शिरःकम्पादि वर्ण्य करणे इत्यादि वेदपाठाचे नियम आहेत ते शिक्षा, व प्रातिशाख्य इत्यादिकाम्त वर्णिले आहेत. ↩︎
-
याज्ञवल्क्याने अठरा पुराणे, न्यायशास्त्र, मीमांसाशास्त्र, धर्मशास्त्र, व्याकरणादि सहा वेदाङ्गेम्, आणि चार वेद ही चवदा विद्या व धर्मस्थाने साङ्गितली आहेत. ↩︎
-
याविषयी जातिनिर्णयप्रकरणाम्त सविस्तर विचार होईल, व कुण्डगोलकादिकाञ्ची लक्षणे वगैरे तेथेच साङ्गितली जातील. ↩︎