विवाहप्रकाशः

सनातनधर्मप्रदीपः

<MISSING_FIG href="../books_images/U-IMG-1694269354Screenshot2023-09-09195226.png"/>

(४) विवाहप्रकाशः।

मातामहमहाशैलं महस्तदपितामहम्।
कारणं जगतां वन्दे कण्ठादुपरि वारणम्॥

[ उपोद्घातः ] यत्किलेदानीं समाजसंस्कारप्रियाणामत्यन्तमावश्यकं प्रतिभाति स किल विधवानामुद्वाहः।सुप्रथितञ्च सुविदिसञ्चैतदिदानीं सर्वेषां यद्ग्रन्थिज्वरादिभिर्नानाविधैरामयैर्नामशेषत्वमुपयाति नारीणां सौभाग्यमिति।कः पुनरत्राभ्युपायो येन सौभाग्यमेतदेतासामविच्छिन्नं स्यादित्येतद्विचिन्तयद्भिश्चामीभिः समाजसंस्कारप्रणयिभिर्महीयसा प्रयासेनानुसंहितोऽयमभ्युपाय इति यत्सत्यं धन्यवादार्हाएवैते सनातनधर्मीयाणां तनया इति नात्र सन्देहः ? अनेन च प्रयासेन प्रकाममेव नन्देयुर्दिव्यमीषां मातर इत्यत्रापि नास्ति संशयावसरः ? किमधिकं यदि समनुभूय वैधव्यं प्राप्ता दिवमेतास्तदा नूनं वञ्चितमेव मन्येरन् कालेनात्मानम्। किन्तु ये किलाभिमन्यन्ते सनातनं धर्मं येषां वा विद्यते तत्र विश्वासो येषां च प्रमाणमयं येषां वा मते विद्यते किमपि दुरितमिति त एते सुदूरादेव परिहरेयुर्मतमेतदेतेषामिति नात्र सन्देहः।

यानि चात्र प्रदर्श्यन्तेप्रमाणान्येतैर्याश्च प्रकाश्यन्ते युक्तयो न किलतत्र सारलेशोऽपीत्युपेक्षणीयाएवविद्वद्भिः। अत एव चनात्र किमपि केनाप्यावश्यकं वक्तुम्। तथापि येषां नास्ति प्रगाढः परिचयो धर्मशास्त्रप्रबन्धेषु, तेषां किलमतिः समाकर्ण्यामीभिः समुपन्यस्तान् प्रमाणाभासानवश्यं स्वधर्माद्विचलेदिति सम्भाव्यतेऽस्माभिः। अत एव चैतानमीषां प्रमाणाभासांश्च युक्तीश्चेदानीं परीक्षणचक्रमारोपयितुमिच्छामः।

[पूर्वपक्षोपन्यासः] तत्र तावद्यदेतेषां कल्पद्रुमायमाणं वचनं तदेतत् ‘नष्टे मृतेप्रव्रजिते क्लीबे चपतिते पतौ। पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते” इति। एतच्च वचनं पराशरस्येवनारदादीनामपि स्मृतिषूपलभ्यते। वचनं चैतद्यथाश्रुतमेव व्याचक्षते च पूर्वापरसङ्गतिमस्योपेक्षन्ते च समाजसंस्कारप्रिया नव्याः।साधयन्ति चैते वचनत एतस्मान्मृतेभर्तरि स्त्रीणां पुनरुद्वाहम्।यानि हि पत्यन्तरकरणे निदानानि तत्रास्य मृतत्वमपि सङ्गृहीतमवेति। सम्यगेव समभ्यस्यतांवचनमेतदुपर्युपरिदर्शिभिर्नातिसमभ्यस्त संस्कृतैश्छात्रैरिति समुपनिवेशितं संस्कृतपुस्तक आत्मीये विदुषा श्रीमता रामकृष्णगोपालभाण्डारकरमहाशयेन। तदेतदुचितमनुचितं वेति छात्राणां राजकीयचर्चायामनधिकारं ब्रवाणौःस्वयमेव तावद्विचिन्त्यतां नव्यैः । वयन्तु नैतदमीषामनुकूलं वचनमित्येवेदानीं समर्थयितुमिच्छामः।

[ पूर्वपक्षखण्डनपूर्वकविधवाविवाहाशास्त्रीयत्वम् ] तत्र तावन्न क्वचिदप्युपनिबद्धः केनापि सूत्रकृता विधवोद्वाहविधिः।आश्वलायनादयो हिसूत्रकृतो ‘मृते भर्तरि ब्रह्मचर्यं तदन्वारोहणं वा’

इति सूत्रयामासुः । ततश्च मृते भर्तरि साध्वीनां द्वयी गति र्ब्रह्मचर्यं वा तदनुगमनं वेति। प्रशंसितञ्च ब्रह्मचर्यं श्रीमता मनुना -

मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता।
स्वर्गं गच्छत्यपुत्रापि यथा ते ब्रह्मचारिणः॥ इति ॥

सहगमनमपि श्रीमता मनुनेव व्यासादिभिरपि विधीयते - मृतं भर्तारमादाय ब्राह्मणी वह्निमाविशेत् - इति । यथा पुनर्मृते भर्तरि ब्रह्मचर्यं तदन्वारोहणं वेत्यनुशिष्यते, नैवं मृते भर्तरि पत्यन्तकरणं विधीयते क्वापि।प्रत्युत सविशेषमेवैतन्निषिद्ध्यते -न तु नामापि गृह्णीयात्पत्यौ प्रेतेपरस्य तु - इत्यादिना मन्वादिभिः।न केवलमेतावत् किन्तु विवाहविधौनास्त्येव क्वापि विधवायाः पुनरुद्वाहवचनमिति प्रतिज्ञायते मनुना - न विवाहविधावुक्तं विधवावेदनं पुनः - इति। न केवलं स्मृतिष्वेव निषिद्धो विधवोद्वाहः, किन्तु साक्षाच्छ्रुतावेव प्रतिषिद्धोऽयम्। यथा – यदेकस्मिन् यूपे द्वेरशने परिव्ययति, तस्मादेको द्वे जाये विन्दते। यन्नैकां रशनां द्वयोर्यूपयोः परिव्ययति, तस्मान्नैका द्वौ पती विन्दते (तै० सं० प्र० ५ कां० ६ अ० ४ ) - इति हि श्रूयते। याजुषी चेयं श्रुतिः।ॠचापि प्रतिषिद्ध एव पुनरुद्वाहः। ’तस्मादेकस्य बव्ह्योजाया भवन्ति नैकस्यबहवः सहपतयः’ इति ।

[ऋग्गतसहपदविवेचनम्] यत्त्वत्र सहेति युगपदित्यर्थ इति व्याचक्षते केचिदर्वाचीनास्तत्प्रामादिकमेव, याजुषश्रुतिविरोधापत्तेः। तत्र हि यूपरशनादृष्टान्तस्वारस्येन स्त्रीणां पुरुषान्तरसम्बन्धयोग्यतापि नास्तीति गम्यते। अयम्भावः - अत्र सहेत्यस्य युगपदित्यर्थग्रहणेन किंवा सिषाधयितम्? यदि कालान्तरे स्त्रीणां पुरुषान्तरसम्बन्धो न दोषायेति ? किम्भवन्तः कुत्रापि श्रुतवन्तो

रशनायास्तस्या एव कालान्तरे यूपान्तरसम्बन्धयोग्यता वर्तत इति नहीदं सम्भवति। तथाच प्रकृतदृष्टान्तस्वारस्यं रशनानां एकयूपसम्बन्धवत् स्त्रीणामप्येकपुरुषसम्बन्धयोग्यतैव वर्तते इत्यभिप्रायमेव समुचितं भवति। वस्तुतस्तु रशनानामपि बहुपशुके यागे नयुगपदेकयूपसम्बन्धः, किन्तु क्रमेणैवेति सहेति युगपदिति वाविवक्षणमप्रमाणिकमेव। अनेन हि दृष्टान्तेनेदमेव सूच्यते - यत्प्रथमरशनासम्बन्धकाल एव रसनान्तरसम्बन्धवत् प्रथमस्त्रीसम्बन्धकाल एव पुरुषस्यापि स्त्र्यन्तरसम्बन्धयोग्यतापि। स्त्र्यन्तरसम्बन्धश्च साक्षाद्वाऽग्निद्वारा वेत्यन्यदेतत्। अत एव द्वितीयस्त्रीविवाहोऽपि स्त्रियाः प्रथमाया अनुमतावेवभवतीत्येव शास्त्रसिद्धान्तः। तथैवेदानीमाचारोऽपि वर्तते। अत एव विना सहपदं याजुषश्रुतिप्रवृत्तिरुपपते। अत्र याजुषश्रुतौ दृष्टान्तस्य विद्यमानत्वात्प्राबल्यमूरीकर्तव्यम्। तथाच यत्र द्वितीयस्य पत्युर्निषेधस्तत्र तृतीयादीनां विधिर्नैव सङ्गच्छत इति सर्वथा प्रतिषिद्ध एव श्रुतिषु पुनरुद्वाह इत्यनिच्छतापि स्वीकरणीयं भवति। एवञ्च श्रुत्यनुगतः स्मृतिषु च प्रतिपादितो विधवानां पुनरुद्वाहनिषेधः। कण्ठतश्चायं प्रतिषेधो न पुनरानुमानिको निर्दिष्टोऽस्माभिः।अस्ति चानुमानिको निषेधः। तथाहि श्रूयते - मह्यं त्वादुर्गार्हपत्याय देवाः - इति। सर्वञ्च वाक्यं सावधारणं भवति। ततश्च देवास्त्वां मह्यमेवादुरित्यर्थो निष्पद्यते। अतश्च प्रतीयते नास्ति श्रुतिषु विधवोद्वाहाभ्यनुज्ञानमिति।अवधारणं ह्येतदन्यस्मै प्रदानं प्रतिषेधतीति।

*[ श्रुत्यन्तरेणापि विधवाहस्यअशास्त्रीयता ]*अस्ति च श्रुत्यन्तरं येन विधवोद्वाहस्य प्रतिषेध एव प्रतीयते। तथाहि ‘सोमो ददद्गन्धर्वाय गन्धर्वो दददग्नये। रयिञ्चपत्रांश्चातादग्निर्महामशोनमाम"

इति। एतच्च देवा अदुरिति पूर्वोक्तश्रुतिश्रुतवचनविवरणमेव। अन्यच्च श्रूयते – सोमः प्रथमो विविदे गन्धर्वो विविद उत्तर;।तृतीयोअनिष्टेपति स्तुरीयस्तेमनुष्यजः - इति। अत्र मनुष्यजस्य तुरीयत्वप्रतिपादनात् पञ्चमादिः पतिरर्थान्मानुषो द्वितीयादिः पतिर्नास्त्येवेति प्रतीयते। अन्यथा हि तुरीय इति वैयर्थ्यमापद्येत। तदेवं सर्वथा प्रतिषिद्ध एव श्रुतिषुपुनरुद्वाहो विधवानामिति सिद्धम्। अत एव च – नष्टे मृते प्रव्रजिते - इत्यादीनां पराशरादिवचनानां विधवाद्यूढोद्वाहविषयत्वमिति केषाञ्चिद्वचनमेकान्तत एवान्याय्यम्।वचनानामेषामूढा्पुनरुद्वाहविषयत्वे त्याज्यतापातात्। तद्धि त्याज्यमेव स्मृतिवचनं यच्छ्रुतिविरुद्धं भवति। श्रुतिस्मृतिविरोधे तु श्रुतिरेत्र बलीयसी" - इति स्मरणात्।जैमिनिरप्याचार्यो ‘विरोधे त्वनपेक्ष्यंस्यादसति ह्यनुमानम्” इति सूत्रेणश्रुतिविरुद्धत्वे स्मृतिवचनानामनपेक्षणीयत्वमेवाह। अतश्च यथैतच्छ्रुत्यविरोधेनैव संगमयितुं शक्येत, तथैव योजनीयमित्यापतितम्। अस्ति च वचसोऽस्य श्रृत्यविरोधेनैव सङ्गतिसम्भवः। तथाहि - ‘नैका द्वौ पती विन्दते’ इत्यादिषु श्रुतिवचनेषु नार्याः पत्यन्तरकरणं निषिध्यते। मुख्यञ्च पतित्वं तदा भवति यदा सप्तपदीपरिक्रमणंनिष्पद्यते; न तु ततः प्राक्। तदाहुः- नोदकेन न वा वाचा कन्यायाः पतिरुच्यते। पाणिग्रहणसंस्कारात् पतित्वं सप्तमे पदे - इति। मनुरपि सप्तपदीपरिक्रमणमेव भार्यात्वं निष्पादयतीत्याह - पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम्। तेषां निष्ठा तु विद्वद्भिः सप्तमे पदे – इति। इत्थं वाचा प्रदत्तायामपि सप्तपदीपरिक्रमणाप्राक्भार्यात्वानिष्पत्तेस्तां पुनरन्यस्मै दद्याद्यदि पतिर्म्रियते इत्युक्तं स्मृतिषु - अद्भिर्वाचा च दत्तायां म्रियेतादौ वरो यदि । नच

मन्त्रोपनीता स्यात्कुमारी पितुरेव सा - इति। आदौसप्तपदीपरिक्रमणात्प्रागित्यर्थः। पितुरेवेति षष्ठ्यातस्याः प्रदानादिषु पितुरधिकार इति द्योत्यते।अतश्च वग्दानोत्तरं सप्तपदीपरिक्रमणतः प्राक्पतिमरणेतददर्शने तस्य क्लीबत्वादिज्ञाने वा नार्याः पत्यन्तरणंविधीयते पराशरेण ‘नष्टे मृते’ इत्यादिनेत्येतदेव कल्पनं न्याय्यम्, न पुनः सप्तपदीपरिक्रमणोत्तरम्।प्रोक्तपूर्वश्रुत्यादि वचनविरोधापातादिति द्रष्टव्यम्। अद्भिर्वाचा च दत्तायामिति प्रभृतिवचनानुरोधेन ‘नष्टे मृते’ इत्यादि वचने विद्यमानं पतिपदं गौणपतिपरमेवेति प्रकल्प्यते। गौणश्च पतिर्यस्मै वाचा प्रदीयते कन्या स एव। वाचापि हि प्रदत्तायां कन्यायां प्राहुरयमेवमेतस्याःपतिरिति। पताविति पदमपिगौणपतिवाचकत्वेआत्मनःप्रमाणम्। पतिः समास एवेति हि समास एवपतिशब्दस्य घिरिति संज्ञा प्रोच्यते वैयाकरणैः। ततश्च समास एवपतावितिरूपं स्थान्नान्यथा। घित्वमन्तरा तथाविधरूपानिष्पत्तेः। घित्वाभावे पुनः पत्याविति रूपमेव स्यात्। तेनात्र पराशरवचने गौणएव पति शब्दः कल्प्यते। पतिरिव पतिसदृशः, वाचा निर्वृत्तप्रदान इत्यर्थः। पतिः समास एवेत्यनुशासनञ्च मुख्य एवपतिशब्दे प्रवर्तते। गौणमुख्ययोर्मख्ये कार्यसम्प्रत्यय इति न्यायात्। अतश्च वाग्दानोत्तरं सप्तपदीपरिक्रमणात्प्रागेव वरे नष्टे मृतेप्रवृजिते क्लीबेपतितेऽपि वा कन्याया अन्यस्मैप्रदानं न्याय्यमिति संसिद्धम्। ततः परं पुनः श्रुतिविरोधान्निषिद्धमेवेति द्रष्टव्यम्।यत्तूक्तंमाधवेन नष्टे मृते इत्यादिना पराशरेण विहितः पुनरुद्वाहो युगान्तरविषय इति। तन्न; पराशरस्मृतेः कलिविषयत्वेन युगान्तरीयोद्वाहस्यतत्रोपनिबन्धनेन प्रोजनाभावात्। अत एव पराशरस्मृतिं

व्याचक्षणा नन्दपण्डिता विद्वन्मनोहरायां प्राहुः -वाग्दानानन्तरंपाणिग्रहणात्प्राक्पतावुत्पत्स्यमानपतित्ववति पूर्वस्मिन् वरे नष्टे दूरदेशगमने परिज्ञातवृत्तान्ते, मृते लोकान्तरं गते, प्रव्रजिते क्लीबे वा सति एवंविधासु पञ्चस्वापत्तिषु नारीणां कन्यानामन्यः पतिर्विधीयत इत्यर्थ - इति। एतेन - नष्टे मृते इत्यनेन वचनेनाक्रमोढायाः पुनरुद्राहं प्रकल्पयन्तः - परास्ताः।

[ प्रकारान्तरेणशङ्कासमाधाने ] अत्रेयंस्वत एव शङ्का समुद्भवति – यद्यदि वाचा दत्ताया एव पुनरुद्वाहो न तूढायास्तदा - स तु यद्यन्यजातीयः क्लीबः पतित एव वा। विकमस्थः सगोत्रो वा दासो दीर्घामयोऽपि वा। ऊठापि देयासान्यस्मै सहाभरणभूषिता इत्यादि वचनेषु यदूढाया अपि प्रदानं प्रसङ्गविशेषेऽभ्यनुज्ञायते, तस्य का गतिरिति। तत्रोच्यते - ऊढापीत्यत्रापिः सम्भावनार्थकः। स च कैमुतिकन्यायेन वाग्दत्ताया एव प्रदानं द्रढयति। न पुनरुढायाःपुनरुद्वाहम्।स्वार्थे तात्पर्याभावात्।यथा अपि गिरिं शिरसा भिन्द्यात्। अत्रापिना न शिरसागिरिभेदनं प्रोच्यते, किन्तुशिरसो दार्ढ्यातिशय एव । यथा “वाऽनुत्तमो रसो ह्येष प्रमीतमपि चेतयेत्" इत्यत्रापिना। न हि प्रमीतस्य (मृतस्य) प्रत्युज्जीवनं प्रोच्यते, किन्तु जीवतोऽवश्यमारोग्यापादनमेव। एवमूढापीत्यत्राप्यपिशब्दो द्रष्टव्यः। धर्मशास्त्रेकैमुतिकन्यायो नाश्रीयते इति त्वाग्रहमात्रम; गौरीतृतीयादिनिर्णयेषु तदङ्गीकारस्थानेकशो दृश्यमानत्वात्। यदि च ऊढापि देयेत्यत्र न कैमुतिकन्यायाङ्गीकारस्तदा सगोत्रेणोढाया अपि पुनरन्यस्मै प्रदानं प्राप्नुयात्। न चैतद्युक्तम; ‘भोगतस्तां परित्यज्य पालयेज्जननीमिव" इत्युक्तेः। तदेवमूढापीत्यनेन वाग्दत्तायाः पतिमरणाद्यापत्सु सप्तपदीपरिक्रम-

णतःप्राक् पुनरन्यस्मै प्रदाने न दोष इत्येव प्रतिपाद्यते, न तु सप्तपदीपरिक्रमणोत्तरम्।सप्तपदीपरिक्रमणोत्तरं हि विवाहस्य प्रतिष्ठिततया कन्यात्वक्षतेः पुनर्विवाहो निषिद्ध इत्यन्यत्राप्युक्तम्। ‘पाणिग्रहणसंस्कारः कन्यास्वेव प्रतिष्ठितः। नाकन्यासु क्वचिन्नृणांलुप्तधर्मक्रिया हि ताः, इति।

[दानेनापि तदशास्त्रीयता] किञ्च दानञ्चात्मनः स्वत्वं निवर्त्यान्यदीयस्वत्वस्यापादनम्। यथा ब्राह्मणाय दत्ता दक्षिणेत्यादौ दक्षिणाभूते द्रव्ये यत्प्रागासीद्दातुः स्वत्वं तन्निराकृत्य तेन ब्राह्मणस्य स्वत्वमापादितमित्यर्थः। एवञ्च दत्तायां दक्षिणायां ब्राह्मणस्वत्वस्योत्पत्तौ तत्प्रदाने पुनर्न दातुरधिकारः। एवं कन्यादानेऽपि कन्यानिष्ठं यत्पितुः स्वत्वं तस्य विवाहपूर्वतनेन प्रदानविधिना निवृत्तिः पतिस्वत्वस्य चोत्पत्तिर्भवति। ततश्च दत्तायाः कन्यायाः पुनः प्रदाने न पितुरधिकारः इति द्रष्टव्यम्। न च मृते पत्यौ भार्यागतं तदीयं स्वत्वं निवर्तते। यदि हि निवर्तेत, तदा विधवाधर्माणां तिलाञ्जलिप्रदानापत्तिः। भार्यात्वमेव ह्येतेषामाचरण हेतुः। स्वत्वस्य च निवृत्त्या भार्यात्वनिवृत्तिरर्थादेवायाता। ततश्च तत्प्रयुक्तधर्माणां मृतेभर्तरि वैयर्थ्यं दुष्परिहरमेवेति जानीयुरेव विद्वांसः। अत एव च ‘सकृत्प्रदीयते कन्या’ इति भारतम्, ‘सकृत्कन्या प्रदीयते’ इति मनुः, ‘दत्ता कन्या न दोयते, इति क्रत्वादयश्च सङ्गच्छन्ते।

[“नष्टेमृते” इतिवचनस्य नियोगपरत्वम्] नारदस्मृतौ तु नष्टे मृते इत्यादिवचनं नियोगपरमेवेति स्कुटीभवति। उपक्रमोपसंहाराभ्यां तत्र तस्य नियोगपरतयैवावगम्यमानत्वात्। नियोगश्च वंशक्षयापत्तौ श्वशुरादिभिर्नियुक्तायाः स्त्रियो देवरादिभ्यः पुत्रोत्पादनम्।

सच युगान्तरविषयः। ‘देवराच्चसुतोत्पत्तिः कलौ पञ्च विवर्जयेत्, इत्यादि निषेधस्यपरःशतेषु विद्यमानत्वात्।

तदेवं नष्टे मृत इत्यादिवचनस्य सप्तपदोपरिक्रमणतः प्रागेव प्रवृत्तिर्न तु तदुत्तरमिति निर्विशङ्कमेव स्फूटीभवति। तत एव च ‘विद्यत एव धर्मशास्त्रेविधवोद्वाहविधि’ रिति वचनं प्रतारणमात्रमेव बोद्धव्यमिति केचित्।

[“नष्टेमृते” इति वचनस्य परिवेदनविषयत्वम्]

अन्ये तु -नष्टे मृते प्रव्रजिते इति वचनं परिवेदनप्रकरणे पराशराचार्यैरुपनिबद्धम् । इयमत्र प्रकरणशद्धिः क्रियते। तथथा -

परिवित्तिः परिवेत्ता च यया च परिविद्यते।
सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः॥
द्वौ कृच्छ्रौ परिवित्तेस्तु कन्यायाःकृच्छ्र एव च।
कृच्छ्रातिकृच्छ्रे दातुस्तु होता चान्द्रायणं चरेत्॥
कुब्जवामनषण्डेषु गद्गदेषु जडेषु च।
जात्यन्धे बधिरे मूके न दोषः परिविन्दतः॥
पितृव्यपुत्रः सापत्नः परनारीसुतस्तथा।
दाराग्निहोत्रसंयोगे न दोषः परिवेदने।
ज्येष्ठो भ्राता यदा तिष्ठेदाधानं नैव कारयेत्।
अनुज्ञातस्तु कुर्वीत शङ्खस्य वचनं तथा॥
नष्टे मृते प्रव्रजिते क्लीबेच पतिते पतौ।
पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥ इति॥

अत्र यदि ‘परिविन्दानःकृच्छ्रातिकृच्छ्रौ चरित्वा तस्मै दत्वापुनर्विशेत ताञ्चैवोपयच्छतेति’ वसिष्ठवचनोक्तरीत्यातस्मै ज्येष्ठाय तामूढां कन्यां निवेद्य तदनुज्ञातः पुनस्तामेवोद्वहेत्परिवेत्तुरेव

विवाहः पुनः परिविद्यमानया साकं यः शात्रसम्मतः, तस्मिन् परिवेतृरूपस्य पत्युः पुनर्विवाहात्पूर्वः नष्टत्वमृतत्वादौ पत्यन्तरविधानमिति विवक्ष्यते, तर्हि—

यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः।
तामनेन विधानेन निजो विन्देत देवरः॥
इति॥

मनुवचनानुसारेण वाग्दत्ताया अपि तस्याः परिवित्तिरूपेणदेवरेण विवाहस्यैव युगान्तरसिद्धस्य निषेधेन यः कश्चिदन्योविधीयते पतिरित्यर्थो भवति। अत्र परिवित्तिविवाहोऽपि पुनः विवाहे वाग्दानानन्तरकालिकत्वाभिप्राय एवेति न दोषः। तत्र चयुगान्तरे पुनर्विवाहोऽसौ वाग्दानानन्तरं देवरमात्राधिकारिकः,नत्वन्याधिकारिकः। कलौ तु देवराञ्च सुतोत्पत्तिरिति देवराधिकारिकोक्तपुनर्विवाहस्य निषेधात् अन्याधिकारिकत्वमुपद्यत एव।एवञ्च देवराच्च सुतोत्पत्तिरिति कलिवर्ज्यप्रकरणगतवाक्यस्येयंपराशरस्मृतिरेव मूलमित्यपि सिद्धं भवति।

[ उक्तार्थेकृष्णम्भष्युपष्टम्भः ]

अयञ्चाशयो निर्णयसिन्धुव्याख्यायां कृष्णम्भदृ्यामपि व्यक्तः। तत्र ह्येवमुक्तम्—देवराच्च सुतोत्पत्तिरिति च वाग्दानोत्तरं मृते पत्यौ देवरपरम्।

यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः।
तामनेन विधानेन निजो विन्देत देवरः॥

अनेन विधानेन—

घृताभ्यङ्गादिवन्नियोगविधानेन।
यथाविध्यभिगम्यैनां शुक्लवस्त्रां शुचिव्रताम्।
मिथो भजेताप्रसवात् सकृत्सकृदृतावृतौ॥
इति मनुना, अपुत्रां गुर्वनुज्ञातो देवरः पुत्रकाम्यया।
सपिण्डो वा सगोत्रो वा घृताभ्यक्त ऋतावियात्॥

इति याज्ञवल्क्येन च तदनुज्ञानात्। न तु विवाहानन्तरंविधवायाम्।नान्यस्मिन् विधवा नारी नियोक्तिव्या द्विजातिभिः– इति मनुना विवाहानन्तरविधवानियोजननिषेधात्। नचैवं भारतेकथं सत्यवत्या कनिष्ठभातृजायायां विधवायां व्यासो नियुक्तइति वाच्यम्; तत्र धनेनोपतोष्य कश्चन ब्राह्मणो नियोज्य इतिभीष्मानुज्ञया सत्यवत्यास्तथाकरणेन निषेधगतान्यपदस्य ब्राह्मणोतरान्यपरत्वात्। अन्यथा ब्रह्मक्षत्रियदेवक्षत्रियभेदो न स्यात्। महाप्रभावतयादोषकल्पनाविरहेणान्यपदस्प यथाश्रुतार्थकत्वाद्वा ।देवराच्चेति चकारादनुज्ञातसपिण्डसगोत्रयोरपि परिग्रहः।

[कलिविषयत्वेऽपिदेवरातिरिक्तस्यैबदानेनष्टेमृते इत्यस्य तात्पर्यम् ]

ननु पराशरेण कलावनुष्ठेयान् धर्मान् वक्ष्यामीति प्रतिज्ञाय नष्टे मृते इति वचनात् वाग्दत्तायाः कलौ पत्यन्तरमस्तीति कथं वाग्दत्तापहारः कलिवर्ज्य इति चेत्, वाग्दानानन्तरं तन्मरणे पराशरवचनात्तस्या वरान्तरेण विवाहः कार्यः।

कन्यायां शुल्कदत्तायां म्रियेत यदि शुल्कदः।
देवराय प्रदातव्या यदि कन्याऽनुमन्यते॥

इत्युक्तवाक्ये कन्याया अननुमतौ पुरुषान्तरदानलाभात्। इयांस्तु विशेषः—यत् युगान्तरे कन्यानुमतौ देवराय दातव्या कलौ तु कन्यानुमतावपि देवराय सा न देया; नियोगसाम्यात्, देवराच्चसुतोत्पत्तिरिति सामान्यतो निषेधात्–इति। तथा च परिवेदनाद्यक्रमप्राप्ते विवाहे पूर्वतनस्य वरस्यनाशादौ परिवित्तेर्विवाहनिषेधपरमेवेदं प्रकरणमिति प्रकरणशुद्धिरपि सम्यगेव वर्तते । माधवाचार्याणामध्ययमेवाशयः।इमानि हि तदीयान्येतच्छोकप्रकरणगतानि वाक्यानि। तद्यथा—

“परिदेवनपर्याधानयोरिव स्त्रीणां पुनरुद्वाहस्योपि प्रसंगात् क्वचिदभ्यनुज्ञां दर्शयति— नष्टे मृत इति। अयञ्च पुनरुद्वाहो युगान्तराविषयः। तथा चादित्यपुराणम्– ऊढायाः पुनरुद्वाहं ज्येष्ठांशं गोवधं तथा। कलौ पञ्च न कुर्वीत भ्रातृजायां कमण्डलुम्। इति॥ अत्रोढाशद्वोन विधिवदूढा ग्राह्या। अन्यत्रेव पुनरुद्वाहस्यात्राप्यङ्गीकृतत्वात्— इति। अयम्भावः– परिवेदनं पर्याधानञ्च पुंसां प्रायश्चित्तपूर्वकं यथाऽभ्यनुज्ञातम्। एवं स्त्रीणां पुनरुद्वाहोऽपि परिवेदनाङ्गभूतः क्वचिदवस्थायां देवरं विहायान्यकर्तृ कोऽपि भवतीत्यवतरणिकया विवक्षितम्। तथा च देवरान्धकर्तृ कोऽयं विवाहो न युगान्तरविषयः; युगान्तरे देवरकर्तृकस्यैव विवाहस्य मन्वादिना विधानात्। यत्त्वत्र मुद्रितपुस्तकेषु ‘अयञ्च पुनरुद्वाहो युगान्तरविषयः, इतिपाठो दृश्यते। तत्रात्र विधीयमानस्य देवरान्यकर्तृकस्य पुनर्विवाहस्य युगान्तविषयत्वाभावाद्यु गान्तराविषय इत्येवयोजनीयम्। तथा सति हि कलावनुष्ठेयान् धर्मान् वक्ष्यामीति पराशरप्रतिज्ञाप्यनुल्लङ्घिता माधवाचार्यैर्भवति। यथा चात्र कलिनिषिद्धस्यैव युगान्तरधर्मस्य पुनर्विवाहस्य पराशरेण प्रतिपादनं न स सम्भवति, तथा चतुर्विंशतिमतसंग्रह व्यक्तम्। तदुक्तं’न च कलिनिषिद्धस्यापि युगान्तरीयधर्मस्यैव नष्टे मृते इत्यादि पराशरवाक्यं प्रतिपादकमस्त्विति प्रतिज्ञाय तद्ग्रन्थप्राणयनात्’– इति। तथाचास्य पुनर्विवाहस्य युगान्तरविषयत्वप्रतिपादनं न माधवाचार्यसम्भतम्।माधवाचार्याअपि हि नष्टे मते इति श्लोकस्य परिवेदनाद्य क्रमप्राप्तेविवाहे देवराज्यकर्तृकत्वबाधकत्वमेवाभिप्रयन्ति। तदुक्तम्प्रायश्चित्ताध्यायस्योपसंहारावसरे ‘नष्टे मृते इति पुनर्विवाहविधिःपरिवेदनाद्यक्रमप्राप्तविवाहविषयत्वे-नान्यथासिद्ध’ इति । तथा

चोक्तोपसंहारवाक्यानुसारेण परिवेदनाद्यक्रमविवाह एव यद्यत्र विवक्ष्यते, तर्हितदङ्गभूतपुनर्विवाहोऽन्यकर्तृकः कथं युगान्तरविषय इति भवेत्। न हि युगान्तरेऽपि कन्यानुमतौ देवरान्यकर्तृक विवाहो वैधः, न वा ऊढायाः पुनरुद्वामित्यादित्यपुराणं देवरान्यकर्तृकविवाहपरमेव। अत एव हि देवराच्च सुतोत्पत्तिरिति वचनान्तरैकवाक्यता भवति। ननु कथं न देवरान्यकर्तृकविवाहोऽपियुगान्तरविषय इत्यत आह—तथाचेति (माधवीये) तथा चोक्तादिव्यपुराणे देवरकर्तृकपुनर्विवाहस्यैव कलौ निषेधात् युगान्तरविषयत्वम्, नान्यकर्तृकस्येति न दोषः। यद्यपि–प्रतिगृह्यतुयः कन्यां नरो देशान्तरं व्रजेत्। श्रीन् ऋतून् समतिक्रम्य कन्याऽन्यं वरयेद्वरम्॥

प्रदाय शुल्कं कन्याया गच्छेद्यः स्त्रीधनं तथा।
धार्या सा वषमेकन्तु देयान्यस्मै विधानतः॥
नारदः ॥
स तु यद्यन्य जातीयः पतितः क्लीब एव बा॥
विकर्मस्थःसगोत्रो वा दोसो दीर्घामयोऽपिवा॥
ऊढापि देया सान्यस्मै सहाभरणभूषिता॥
कात्यायनः)

इत्यादिवचनैर्वाग्दत्ताया युगान्तरेऽप्यन्यकर्तृको विवाहो विहितो वर्तते। तथापि नेमोनि वचनानि कन्याया देवरकर्तृ कविवाहानुमतावपि अन्यकर्तृ कविवाहबोधकानि, किन्तु तदननुमतावेव तत्पराणि अत एव—

कन्यायां शुल्कदत्तायां म्रियेत यदि शुल्कदः।
देवराय प्रदातव्या यदि कन्याऽनुमन्यते॥
इति—

कन्यानुमत्यां देवरायैव देयत्वव्यवस्थापनमुपपद्यते। तथाच कन्यानुमतावपि देवरकर्तृकत्वनिषेधार्थमिदं वचनमित्येव युक्त-

मिति तदानीमन्यकर्तृकविवाहस्य युगान्तरेऽप्यप्राप्तत्वात् ‘अयं चपुनरुद्वाहो युगान्तरविषयः, इतिपाठोऽसङ्गत एव। अन्यथोढायाः पुनरुद्धाहः कलौ निषिद्ध एव पराशरेण व्यवस्थापितः स्यादितिसर्वसम्मतकलिधर्मनिरूपणं न परराशराचार्यैःकृतं स्यादिति प्रतिज्ञाविरोध आपद्येत। यथा च ‘कलौपाराशराः स्मृताः’ इति वचनस्य व्रतविशेषमात्रविषयत्वं तथा माधवाचार्यैरुपक्रम एव व्यवस्थापितमिति स्मृत्यन्तरादित्यपुराणादिप्राप्तपुनर्विवाहाधर्मत्वं नपराशरस्मृत्या बाधयितुं शक्यम्। तथा च कन्यानुमतावपि अन्यस्मा एव कन्यापरिवेदनेऽन्यत्र वा दानं भवतीत्येवमाशया एवमाधवाचार्याः। एवं सति हि पतिरन्यो न विद्यते इति पाठान्तरमप्युपपन्न भवति। अत्र ह्यन्यपदेन देवर एवेति विवक्षितमिति नार्थभेदः। तथाचायं पुनरुद्वाह इत्यनेनात्र पक्षेनिषिध्द्यमानपुनर्विवाह इत्यर्थः। कुत्र निषेध इति शङ्कायां च तथाचेति ग्रन्थ इत्यादि सर्वमुपपन्नम्। अत्रोढापदेन च सप्तपदीपूर्वतनसंस्कारसंस्कृताया विवक्षणमित्यङ्गोकारेऽपि न क्षतिः। तस्याअपि देवरमात्रोद्देश्यकदेयतानिषेधेनोक्तवाक्ययोजनसम्भवात्। तथा च माधवाचार्याणामपि कृष्णम्भट्टीसमादृतपक्ष एवतात्पर्यमित्येव गम्यते।एवं सति हि नन्दपण्डितानां विद्वन्मनोहरापि पराशरस्मृति-व्याख्याऽविरुद्धा भवति। एतान्यत्र तदीयानि वाक्यानि सर्वेषाम्पुरतउपस्थाप्यन्ते। तद्यथाः–नन्वस्तु परिवेदने कन्याया ज्येष्ठसमर्पणानन्तरं पुनस्तेनैव विवाहः, वाग्दानानन्तरमनिष्पन्ने विवाहे तुवरवैगुण्ये ज्ञाते कथमित्यत आह—

नष्टे मृते प्रवजिते क्लीबे च पतिते पतौ।
पञ्चखापत्सु नारीणां पतिरन्यो विधीयते॥
इति॥

वाग्दानानन्तरं पाणिग्रहात् प्राक पतौ उत्पत्स्यमानपतित्वे पूर्वस्मिन् वरे नष्टे नारीणां कन्यानामन्यः पतिर्विधीयते। नन्वस्तु वाग्दत्तायां नष्टे पत्यौ पत्यन्तरविधानम्, मृते तु तन्नोपपद्यते। ‘यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः तामनेन विधानेन निजो विन्देत देवरः’ इति मानवे देवरेण तदुद्वहनस्मरणात्। नचैतावतापि समीहितसिद्धिः; देवरान्न सुतोत्पत्तिरिति कलौ तन्निषेधात्। न च निषेधस्य विवाहानन्तरविधवाविषयत्वमस्तु। तस्य– नान्यस्मिन् विधवा नारी नियोक्तव्या द्विजातिभिः–इत्यनेन मनुनैव पूर्वं साधारणतया निषिद्धत्वेन कलौ विशिष्य तन्निषेधानुपपत्तेः। तस्माद्वाग्दानानन्तरं मृते पत्यौ पत्यन्तरविधानमनुपपन्नमिति चेत्सत्यम् तादृशविवाहस्य वाचनिकत्वेन देवरस्य पतित्वानुपतेर्विशेषनिषेधाच्च। इति। एतैरपि वाक्यैः स्पष्टमिदमेवावगम्यते यद्वाग्दानानन्तरं देवरकर्तृकविवाहनिषेध एवोक्तवाक्यस्य तात्पर्यमिति। अयमत्र निष्कर्षः— युगान्तरे वाग्दानानन्तरं देवरकर्तृकत्वमन्यकर्तृकत्वञ्च। तत्र च कन्यानुमत्यतनुमती निमित्ते।कलौ त्वन्यमात्रकर्तृकत्वमिति पराशरस्मृतिरियं न कथमपि विवाहानन्तरविधवाविषया। गत्यन्तराभावे खलु तथा वक्तव्यम्। पूर्वोक्तरीत्या गत्यन्तरे च सति किमर्थं तत्कल्पनम्। यदा तु मृते इत्यस्य विद्वन्मनोहरोक्तरीत्या दीर्घामये इत्यर्थो विवक्ष्यते, तदा तु न कापि हानिः। अन्यथा मरणानन्तरमिव देशान्तरगमनानन्तरमपि पत्यन्तरविधानापत्तिरिति दीर्घामयानां पतीनां जीवनकाल एव पुनर्विवाहकल्पनापत्तिः। नचेष्टापत्तिः। पत्युदीर्घामयत्व इव दासत्वेऽपि—

विकर्मस्थः सगोत्रो वा दासो दीर्घामयोऽपि वा।
ऊढापि देया सान्यस्मै सहाभरणभूषिता॥

इति पुनर्दानविधानात् सर्वेषामपीदानीन्तनानां प्रायेण दासस्वात् सर्वासामपि पुनर्विवाह आपद्येत। अत्र ह्यूढापदेन वाग्दत्तैवा वश्यं ग्रहीतव्या।अन्यथा हि पुनर्दानविधिरत्यन्तमेवासङ्गतस्यात्। किञ्च नष्टे मृते इति वाक्यस्य विवाहानन्तरपतिनाशादिविषयत्वे धार्या सा वर्षमेकन्तु देयाऽन्यस्मै विधानतः—इति केनचन निमित्तेन देशान्तरं गत्वा स्ववत्तान्तो यैर्वत्सरं यावन्न निवेदितस्तदीया भार्याः सर्वा अप्यन्यस्मै देया इति विवक्षणीयम्। तथाच पत्युःप्रोषितस्याविदितवृत्तान्तस्य द्वादशवर्षपर्यन्तं प्रतीक्षणं संस्कारादिकरणार्थं कर्तव्यमित्यादिसिद्धान्ता व्याकुप्येरन्। तथा च नष्टे मृते इति वाक्यं न कथमपि पुनर्विवाहस्य विधवानामूढानांप्रोषितभर्तृकाणां वा साधकम्। एवं व्याख्यानेन हि उत्तरश्लोकयोरपि समन्वयोऽतिस्वरसो भवति। ताविमावुत्तरश्लोकौ—

मृते भर्तरि या नारी ब्रह्मचर्यव्रते स्थिता।
सा मृता लभते स्वर्ग यथा ते ब्रह्मचारिणः॥
तिस्रः कोट्योऽर्धकोटी च यानि लोमानि मानुषे।
तावत्कालं वसेत्स्वर्गे भर्तारं याऽनुगच्छति॥

इति। अत्र श्लोकद्वय एव मृतभर्तृकाया ब्रह्मचर्यानुगमनाभ्यामेव फलविशेषाम्नानम्, न तु पूर्वस्मिन श्लोके प्रत्यन्तरविधानेन फलविशेषोऽपि। तथा च मृतभर्तृकायाःकर्तव्यद्वयमेव फलववनतास्पर्येरणावगम्यते, न तु कर्तव्यत्रयमपि, पूर्वत्र फलाश्रवणात्।अन्यथा देशान्तरगमनेऽपि मृतत्व इव ब्रह्मचर्यव्रतं न स्यात् इतिप्रोषितभर्तुकाया अब्रह्मचर्यमपि न दोषाय स्यात्। अस्मन्प्तते तु वाग्दत्ताया ब्रह्मचर्यव्रतभङ्गस्यैवाप्रौढा या असम्भवान्न कोऽपिदोषः । यथा चर्तुमतीविवाहो न शास्त्रीयस्तथाऽवसरान्तरे निरू-

पयिष्यामः। यदित्वत्र मृढेभर्तरोष्टिनष्टत्वादीनामुपलक्षणमितिमन्यते, तर्हि तु मृते भर्तरीति व्यर्थमापद्येत। प्रकरणेनैव लाभात्।तथाच पूर्ववाक्यस्य नष्टत्वादिनिमित्तकपत्यन्तरविधानपरत्वमुत्तरवाक्यद्वयस्य मृतभर्तृकत्वनिमित्तकसफल-ब्रह्मचर्यादिविधिपरत्वमित्यङ्गीकर्तव्यमिति पूर्वत्र पतिशब्दस्योत्तरत्र भर्तृशब्दस्येति शब्दप्रयोगसार्थक्यार्थमपि वाग्दानानन्त पतिविषयत्वं पूर्ववाक्यस्योत्तरात्र मुख्यपतिविषयकत्वमित्येवोङ्गीकृते संभवति। एवञ्च जीवानन्दविद्यासागरमहोदयैः श्लोकत्रयेण कर्तव्यत्रयं बोधितमितिविवाहानन्तरविधवाया विवाहोऽपि पराशरस्मृतिसम्मत इति यव्द्यवास्थापितं तदिदं स्मृत्यक्षराननुगुणमिति मन्तव्यम्। इदमेवाभिप्रेत्य विद्वन्मनोहरायाम्–नन्वस्तु वाग्दाननन्तरं विवाहात् प्राक्पूर्वपतिनाशे पत्यन्तरविधानम्, विवाहानन्तरं तु तन्नाशे कथं कार्यमित्यत आह—मृते इति इत्युक्तश्लोकावतरणं कृतम्। माधवीये – पुनरुद्वाहमकृत्वा ब्रह्मचर्यव्रतानुष्ठाने श्रेयोतिशयं दर्शयति मृते भर्तरि—इति। मृतग्रहणं नष्टादीनामुपलक्षणमितिवर्णितम्। तस्य विवाहानन्तरं पत्युर्देशान्तरगमनाभिप्रायत्वमेवयुक्तम्। अन्यथा भर्तरीतिपदान्तरप्रयोगवैयर्थ्यात्। एतेन–अन्यत्रेव पुनरुद्वाहस्यात्राप्यङ्गीकृतत्वादिति पूर्वतनश्लोकोपसंहारोऽपिव्याख्यातः।तस्यापि वाग्दानोत्तरविवाहपरत्वात्। नह्येकोऽपिनिबन्धकारः प्राचीनो विवाहानन्तरं विधवायाः पुनरुद्वाहं साधयति। प्रत्युत सर्व एव मन्वादिव्याख्यानेषु तत्तत्स्मृतिषु च बहुशोनिन्दन्तीति विवाहानन्तरविधवापुनरुद्वाहो न प्रामाणिकः। एतञ्च माधवीयवाक्ये युगान्तराविषय इति पाठं कल्पयित्वैव सङ्गच्छतइति।

[‘युगान्तरविषयः’ इतिमाधवीयपाठस्यपर्यालोचनम् ]

माधवीयवाक्यस्य युगान्तरविषयः इत्येवमाकरत्वमादाय केचित्पुनरुद्वाहोऽयं युगान्तरविषयः तथा चादित्यपुराणमिति यथाश्रुतरीत्यैव योजयन्ति। एतेषां मतन्तु न समीचीनमिति जीवानन्दविद्यासागरमहोदया वर्णयन्ति। अयमेषामाशयः– पराशराचार्यो हि कलियुगधर्मानेव वक्ष्यामीति प्रतिज्ञाय स्वग्रन्थं प्रवर्तयामास। तथाच पराशरोक्तस्यापि युगान्तरविषयत्वे तदीय प्रतिज्ञाविरोधोऽपरिहरणीय आपद्येत। न च कलिनिषिद्धस्यैव युगान्तरीयधर्मस्य कलिधर्मत्वमपि स्थापयितुं उक्तपराशरवाक्यमिति कल्पनं सम्भवति। तथासति युगान्तरसाधारणकलिधर्मव्यवस्थापनमनेन वाक्येन क्रियतइत्येव समापद्यते। न च युगान्तरीयधर्मस्यापि कलिधर्मत्वमपिविवाहादेरिवसम्भवति। तथा च कलावनुष्ठेयान् धर्मान् वक्ष्यामीति प्रतिज्ञाया अपि न विरोधः। यत्तु चतुर्विंशतिमतसङ्ग्रहगतम्– न च कलिनिषिद्धस्यापि युगान्तरीयधर्मस्यैव नष्टे मृतेइत्यादिपराशरवाक्यं प्रतिपादकमिति वाच्यम्; कलावनुष्ठेयान् धर्मान् वक्ष्यामीति प्रतिज्ञाय तद्ग्रन्थप्रणयनात्—इति वाक्यम्, तस्य हि कलिनिषेध्यप्रतियोगिसमर्पणपरत्वमस्य वाक्यस्य नेत्येवाशयः।न त्वादित्यपुराणादिप्राप्तविवाह-निषेधप्रतिप्रसवाभावेऽपि तथा च पञ्चस्वापत्सु नोक्तनिषेधप्रवृत्तिरित्येव माधवाचार्याशय इति सिद्ध्यति। उक्तंह्येतद्विद्यासागरमहोदयैरेव – यदादित्यपुराणादिगतानां निषेधानां सामान्यतः प्रवृत्तानामापद्विशेषं निमित्तीकृत्य विवाहविधिपरेण वाक्येन नष्टे मृते इत्यनेन न हिंस्यादित्यस्याग्निषोमीयं पशुमालभेतेति वाक्येनेवावस्थाविशेषे बाधइति। तथा च ‘तथाचादित्यपुराणम्’ इति माधवाचार्यवाक्यन्तु

पुराणवचनस्य सामान्यविषयत्वबोधनार्थमेव प्रवृत्तमिति एतेषांमतरीत्या योजनं सम्भवति। अत्रेदमेवास्माकं वक्तव्यम् यत्— सामान्यविशेषन्यायस्य नात्र प्रवृत्तिः सम्भवति। स हि न्यायःविशेषविषयातिरिक्तविषये सामान्यशास्त्र-साबकाशत्व एव सम्भवति नान्यथा।तत्र च—

नष्टे मृते प्रव्रजिते क्लीबेच पतिते पतौ।
पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते॥
स तु यद्यन्यजातीयः पतितः क्लीब एव वा।
विकर्मस्थः सगोत्रो वा दासो दीर्घामयोऽपि वा॥
ऊढापि देया सान्यस्मै सहाभरणभूषणा॥
इत्यादि—

विशेषवचनातिरिक्त विषये ‘उढायाःपुनरुद्वाहमिति’ निषेधस्य कलौप्रवृत्तिरिति खलु भवतां मतं भवति। तत्र च युगान्तरे सर्वलक्षणलक्षितोकदोषलवशून्यस्य पत्युर्जीवनकालेऽपि ऊढायाः प्राप्तंविवाहं निषेधति कलिवर्ज्यप्रकरणगतं वाक्यमिति यदि भवतांमतम्, तर्हि युगान्तरे विनाप्यापदमूढाविवाहविधिः कोऽपि भवद्भिः प्रदर्शनीयः॥ यत्तु जीवानन्दविद्यासागरैः—

अद्यप्रभृति मर्यादा मया लोके प्रतिष्ठिता।
एक एव पतिर्नार्या यावज्जीवं परायणम्॥
मृते जीवति वा तस्मिन् नापरं प्राप्नुयान्नरम्।
अभिगम्य परं नारी पतिष्यति न संशयः॥
इतिमहाभा—

रतवचनानुसारेण दीर्घतमोमहर्षिकाले जीवतोऽपि पत्युर्भार्यायः पत्यन्तरस्वीकरणं सम्प्रदाय आसीदित्यनुमीयते इति वर्णितम्।तत्रवयमिदमेव सूचयामः यन्महाभारतगतविद्यासागरसङ्गृहीतवचनेषु ‘अहं त्वा भरणं कृत्वा जात्यन्धं ससुतं सुतम्’ इति वचनेन

दीर्घतमसो जात्यन्धत्ववर्णनेन नात्पदाद्यवस्थाविशेषराहित्यं तस वर्तत इति गम्यत इति जात्यन्धत्वादिदीर्घामयविशिष्टानां पतीनजीवनकाले पत्यन्तरविधानसम्प्रदायकल्पनमेव सम्भवतीति न युगान्तरे कथमपि विनाऽण्यापदमुढाविवाहस्य विधेयता समर्थयितुशक्यते। अत्र हि प्रकारणे दीर्घतमसि महर्षौतत्पत्न्यां वैराग्यनिमित्तं जात्यन्धत्वं तत्प्रयुक्ततद्भरणाशक्तिर्वेति स्पष्टमेव वर्णितम्।तथा च जात्यन्धत्वादिकं पत्युरुपरि पत्न्या वैगग्यकारणं भवतीतिभक्तिविशेषस्तत्रासम्भावित इति जात्यन्धानां भार्याणां युगान्तरेमन्त्रसंस्कारतः पूर्वमन्यस्मै दानाभ्यनुज्ञानं यदासीत्, तस्यैवनिषेधो दीर्घतमसा कृत इत्यवम्यते इत्युक्तं प्रकरणमपि ‘उदायाः पुनरुद्वाहम्’ इति कलिवर्ज्यप्रकरणगतवाक्यमुलमित्येव सिद्ध्यति । यत्तु—

या पत्या वा परित्यक्ता विधवा वा स्वयेच्छया।
उत्पादयेत् पुनर्भूत्वा स पौनर्भव उच्यते॥
सा चेदक्षतयोनिः स्योद्गतप्रत्यागतापि वा।
पौनर्भवेण भर्त्रा सा पुनः संस्कारमर्हति॥

इति मनुनोक्तम्। तत्र हि व्यवस्था वीरमित्रोदये एवमुक्ता।सा यथा—तत्र चाक्षतयोन्याः पुनर्विवाह पौनर्भवण भर्त्रैत्यन्वयकरणात् गतप्रत्यागतसंस्कारे च कौमारेण भवत्यन्वयात् द्वितीयस्यैव पत्युःपौनर्भवत्वम्, न प्रथमस्येति सिद्ध्यति। तेन च पौनर्भवश्चकाणश्चेति श्राद्धे, तथा पौनर्भवेद्विजे इति दाने च परपूर्वापतिस्त्वथेत्यादिना प्रतिषेधोऽपि द्वितीयस्य पत्युस्तदुत्पन्नानां पुत्राणाञ्चेति सर्वनिबन्धसम्मतम्। न क्वापि प्रथमस्य पत्युः पौनर्भवत्वेन तदपत्यानां वा निषेधो गम्यते—इति। अनया च व्यवस्थ-

येदमवगम्यते यत्पुनः संस्कारे विधवायास्तत्पतेस्तस्याः पुत्राणां चपृथक्संस्थैव, न धार्मिकदानव्यवहागदिसम्बन्धयोग्यतेति। तथाच नोक्तं वचनं विधवाविवाहसाधुत्वव्यबस्थापरम्, किन्तु तदसाधुत्वव्यवस्थापनपरमेव। एतेन— मृते भर्तरि या नारीव्यक्तवत्यथ तंस्वयम्। सवर्णाज्जायते ? भर्तुःपौनर्भवं सुतम्॥ यदि सा बालविधवा बलात्त्यक्ताऽथवा क्वचित्। तदा भूयस्तु संस्कार्या गृहीतायेन केनचित्— इति ब्रह्मपुराणवचनमपि व्याख्यातम्। तथाच युगान्तरेऽपि धर्म्मो विधवाविवाहो नासोदनापदि वरस्य कन्याया वाऽदुष्टत्वे इति सिद्धम्। तदुक्तं वीरमित्रोदयेः—मृतभर्तृका यदिबालविधवाऽक्षतयोनिः, तथा त्यक्तभर्तृका, भर्त्रापि बलान्निभेर्त्स्यत्यक्ता तदैव संस्कार्या नान्यथा।तेन च क्षतयोन्या भर्त्राऽपरित्यक्तायाश्च व्यावृत्तिः। तत्र गर्भस्य कुण्डगोलकत्वपरिहारायाह—भर्तुःपौनर्भावमिति। इति। अत्र च पुनर्भूविवाहोऽप्यक्षतयोनित्व एव, न क्षतयोनित्वादाविति विवेचनेन हिः अधर्मस्याप्यस्य विवाहस्याभ्यनुज्ञानमक्षतहोनित्व एव, न क्षतयोनित्वादाविति विवेचितम्। युगान्तरे विनापदं ऊढाविवाहोऽसिद्ध एवेतिकथमूढायाःपुनरुद्वाहमिति वचनं सामान्यवचनतामर्हति। तथा चोढायाः पुनरुद्धाहमिति कलिवर्ज्यप्रकरणगतवाक्याविरोधेनैव नष्टमृते प्रव्रजिते इत्यस्योपपत्तिर्वणनीयेति युगान्तर मात्र विषयत्वं माधवाचार्योपवणितमुपपन्नमेव।माधवाचार्या हि प्रायश्चित्ताध्यायोपसंहारे स्पष्टमेव पराशरोक्तानामपि केषाञ्चित् कलावनुष्ठानमपि योग्यमेव यत्रानन्यथासिद्धप्रतिप्रसवविध्युन्नयनरूपदृष्टानुपपत्तिनं मूलमिति वर्णनपूर्वकं नष्टेमृते इति पुनरुद्वाहविधिः परिवेदनाद्यक्रमविवाहविषयत्वेनान्यथासिद्ध इति बर्णनेन

नष्टेमृते इत्यत्रापि उक्तदृष्टान्तानुपपत्त्यभावमननुष्ठानञ्च विवेचयन्ति। तथा च कलिनिषिद्धस्यैवात्र विवक्षणेऽपि न दोष इति पूर्वोक्तचतुर्विंशतिमतसंग्रहमवलम्ब्यकृतस्य दूषणस्य नात्रावसरःइदमेवाभिप्रेत्यवीरमित्रोदयकाराः– ऊढायाः पुनरुद्वाहमिति स्वपरकर्तृकसर्वविवाहपरत्वं वर्णयन्ति। युक्तञ्चैतत्–पराशराचार्यो हि कलौधर्मान् वक्ष्यामीति प्रतिजानन्नेव ‘युगे युगे तुसामर्थ्यं शेषं मुनिविभाषितम्’ इति वदन् ऋष्यन्तरैः कलिधर्मत्वेनोक्तानामपि सङ्ग्रहणमावश्यकं प्रतिपादयतीति कलिवर्ज्यप्रकरणान्तरबाधनं न पराशराचार्यसम्मतम्।यथा चैवं सत्यपि नष्टे मृते इत्यस्योपयोगस्तथा पूर्वमेव सूचितम्। एवञ्च नष्टे मृते इति वाक्यं देवरादिमात्रकर्तृकेविवाहनिषेधार्थमेव प्रवृत्तमितिवाग्दत्ताविषयकत्वमेवोक्तवचनस्य । एतदेवाभिप्रेत्य वीरमित्रोदयेः—

पराशरः—

नष्टे मृते प्रव्रजिते क्लीबेच पतिते पतौ।
पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते॥

वसिष्ठवोधायनौ—

बलादपहृता कन्या मन्त्रैर्यदि न संस्कृता।
अन्यस्मै विधिवद्देया यथा कन्या तथैव सा॥

याज्ञवल्क्योऽपि—

दत्तामपि हरेत् पूर्वाच्छ्रेयांश्चैद्वर आव्रजेत्। इति। एतच्च वाग्दत्ताविषयम्। तथा च मन्त्रसंस्काराभाव एव पुनः कन्याया दानम्, नान्यथा संस्कृतायान्तु न कस्यापि दानाधिकारः। तथाच—

अद्भिर्वाचा च दत्तायां म्रियेतादौवरोयदि।
न च मन्त्रोपनीता स्यात्कुमारी पितुरेव सा॥
वरयित्वा तु यः कश्चित् प्रणश्यन् पुरुषो यदा।
ऋत्वागमांस्त्रीनतीत्य कन्याऽन्यं वरयेद्वरम्—

इत्यादिवचनान्यपि व्याख्यातानि । अत्र प्रकरण एवोढापि देया साऽन्यस्मै सप्रावरणभूषितेतिवाक्यस्यापि वाग्दत्तापरत्वं वीरमित्रोदयेऽप्युक्तम्। तथाच नष्टे मृते इतिवचनानुसारेण विवाहानन्तरविधवाविवाहव्यवस्थापनं विद्यासागर-महोदयानामप्रामाणिकमेव।

[उक्तार्थेचतुर्विंशतिमतसङ्ग्रहः ]

तदत्रावसरे नष्टे मृते इति श्लोकश्चतुर्विंशतिमतसङ्ग्रहे यथा व्याख्यातस्तस्यापि सङ्ग्रहणमुचितम्पश्यामः। तद्यथा—दुष्टेतु पूर्ववरे वाग्दत्तापि वरान्तरायदेया। तथाच पराशरः—

नष्टे मृते प्रव्रजिते क्लीवेच पतिते पतौ।
पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते॥

अस्यार्थः—वाग्दानानन्तरं पाणिग्रहणात् प्राक्पतौ सम्भावितोत्पत्तिकपतित्वे पूर्वस्मिन् वरे नष्टे सति लक्षणया दूरदेशगमनेनापरिज्ञातवृत्तान्ते सति। तथाच नारदः —परिगृह्य तु यः कन्यांनरो देशान्तरं व्रजेत्।त्रीनृतून समतिकम्य कन्धाऽन्यं वरयेद्वरम्॥ स्त्रीपुंसयोस्तु सम्बन्धाद्वरणं प्राग्विधीयते। वरणाद्ग्रहणं पाणेः संस्कारोऽपि विचक्षणैः। तयोरनियतं प्रोक्तं वरणं दोषदर्शनात्॥ इति। परिगृह्यवाचा दात्तां स्वीकृत्य। त्रीनृतुनिति। इदञ्च कन्यायो अधार्यत्वे बोध्यम् । धार्यत्वे तु ‘प्रदाय शुल्कं कन्यायागच्छेद्यः स्त्रीधनं तथा।धार्या सा वर्षमेकन्तु देयान्यस्मै विधानतः’इति नारदेनैव वर्षं प्रतीक्षाया अभिधानात्। स्त्रीपुंसयोरित्यादेरयमर्थः—स्त्रीपुंसयोः संसर्गात् प्राक् त्रितयं क्रियते। वरणम्, पाणिग्रहणम्, सप्तपदीप्रक्रमश्चेति। तत्र वरणं नाम वरस्य सम्प्रदानत्वाय कन्याया दात्रा प्रार्थनम्। तदेव च वाग्दानम्। एवं स्थिते तयोः पाणिग्रहणसप्तपदप्रक्रमणयोः पूर्वभावियद्वरणं तद-

नियतम्।अनियामकमित्यर्थः। तयोरेव भार्यात्वोत्पादकत्वादिति भावः। तथा च मनुः—

पाणिग्रहणमन्त्रास्तु नियतं दारलक्षणम्।
तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे॥
इति।

दोषदर्शनादिति वाक्यशेषस्थायमर्थः। वरणस्यानियामकत्वमपि पूर्ववरस्य दोषे सत्येव।यदि त्वन्यस्मै दत्तायां पूर्ववरोऽप्यायाति, तदाऽनूढां तां लभते। ऊढायान्तु स्वदत्तं द्रव्यमेव लभते। न तु कन्याम्।तदाह कात्यायनः—अनेक्तेभ्योऽपि दत्तायामनूढायान्तु तत्र वै। पुनरागतस्तु सर्वेषां लभते तदिमां सुताम्॥ अथागच्छेत वोढायां दत्तं पूर्ववरो हरेत्। तदैवं नष्टे इति व्याख्यातम्। एवं मृतेऽपि तथाच वसिष्ठः—अद्भिर्वाचा च दत्तायां म्रियेतादौ वरो यदि। न च मन्त्रोपनीतास्यात्कुमारी पितुरेव सेति॥ मन्त्रोपनयनं पाणिग्रहणादिकं विना वाचा दानमिवाद्भिरपि दानंन भार्यात्वोत्पादकमित्यर्थः। अतएवयमः—नोदकेन न वावाचा कन्यायाः पतिरुच्यते। पाणिग्रहणसंस्कारात्पतित्वं सप्तमे। पदे—इति । तथा प्रव्रजिते–कृतसंन्यासे ।क्लीते चेति।चकारादन्यजातीयादेर्ग्रहणम्। तथा च कात्यायनः— न तु यद्यन्थजातीयः पतितः क्लीब एव च। विक्रमस्थः सपोत्रो वा दासो दीर्घामयोऽपिवा। ऊढापि देयासान्यस्मै सहाभरणभूषितेति॥ अत्रोढापीत्यपिशब्दः कैमुतिकन्यायेन वाग्दत्ताया एवान्यस्मैदानमाचष्टे,न तूढायाः। अन्यथा सगोत्रोढाया अपि पुनर्विवाहप्रसक्तौमातृवत्पात्नयेदिति शास्त्रं विरुध्येत। यत्तु—यस्याम्रियेत कन्याया वाचासत्ये कृते पतिः। तामनेन विधानेन निजो विन्देत देवरः —इतिमनुनोक्तम्। यच्च—अपुत्रां गुर्वनुज्ञातो देवरः पुत्रकाम्यया । स-

पिण्डो वा सगोत्रो वा घृताम्यक्त ऋतावियात्॥ आगर्भसम्भवाद्गच्छेत् अन्यथा पतितो भवेत्— इति याज्ञवल्क्योक्तम्। तद्देवराच्चसुतोत्पत्तिरिति कलिनिषिद्धेषु प्रागेव गणितम्। यदपि—उद्वाहितापि सा कन्या न चेत्सम्प्राप्तमैथुना। पुनः संस्कारमर्हेत यथाकन्या तथैवसेति नारदेनोक्तम्। तदपि कलौ निषिद्धम्— ऊढायाःपुनरुद्वाहमिति॥ न च कलिनिषिद्धस्यापि युगान्तरीयधर्मस्यैव नष्टेमृते इति पराशरवाक्यं प्रतिपादकमस्त्विति वाच्यम्; कलावनुष्ठेयान् धर्मानेव वक्ष्यामोति प्रतिज्ञाय तद्ग्रन्थप्रणयनादिति दिक—इति।

[उक्तसंग्रहतात्पर्येण बिद्यासागरमतखण्डनम् ]

अनेन हि चतुर्विंशतिमतसङ्ग्रहविवरणेनस्पष्टमिदं ज्ञायते—यत् नष्टे मृते इति वाक्यंवाग्दत्ताविषयमेवेति। अत्र हि नारदवाक्यव्याख्यानावसरे धार्यत्वएवप्रतीक्षणम्, नाधार्यत्व इति विवरणेन स्पष्टमिदं सूच्यते यत्यत्र कुत्रापि पत्यन्तरविधानमष्टवर्षानन्तरं यदि श्रुतम्, तर्हि तत्रापि धार्यत्व एव प्रतीक्षणं नाधार्यत्व इति।
एतेन—

अष्टौ वर्षाणयुदीक्षेत ब्राह्मणी प्रोषितं पतिम्।
अप्रसूता तु चत्वारि परतोऽन्यं समाश्रयेत्
—इति ॥

वचनमपि– व्याख्यातम्। अस्यापि वचनस्य—द्विवर्षात्प्राग्विवाहश्चेत्कन्यकामरणं यदि। खननं नैव कर्तव्यं मन्त्रसंस्कारमाचरेत्—इतिवचनेनाभ्यनुज्ञातत्वादतिबाल्यविवाहस्य तत्र वाग्दानानन्तरं देशान्तरगमनेऽष्टवर्षपर्यन्तं प्रतीक्षणप्रतिपादन एवतात्पर्यम्। अप्रसूता तु चत्वारि परतोऽन्यं समाश्रयेदिति वचनन्तु युगान्तरविषयमिति प्रकृतचतुर्विंशतिसंग्रह एव सूचितम्। उक्तं हि तत्र—यत्तु– उद्वाहितापि सा कन्या न चेत्सम्प्रप्तमैथुना।

पुनः संस्कारमर्हेत यथा कन्या तथैव सा—इति नारदोक्तम्, तदपिकलौ निषिद्धम्– इति। तथाच यस्यानारदस्मृतेः कलिवर्ज्यप्रकरणविषयत्वयोग्यत्वं प्रकृतग्रन्थे विवेचितम्, कथं तस्याः स्मृत्याअनुसारेण नष्टे मृते इत्यस्या अन्यथानयनं विद्यासागरमहोदयानामुपपद्यते ? एवं चोक्तेन प्रकारेण नष्टे मृते इत्यस्य वाग्दत्ताविषयत्वमेक भट्टोजिदीक्षितानां मत्तमिति स्थिते भट्टोजीदीक्षितस्यापि नष्टे मृते इत्यस्य कलिकाले विधवाविवाहयोग्यतायामेवाशयइति विद्यासागरमहोदयानां विवरणमप्रमाणिकमेव। अत्र हिस्पष्टमेव नष्टे मृते इत्यस्य युगान्तरीयोढाविवाहपरत्वं नास्तिकिन्तु कलियोग्यवाग्दत्ता-विवाहपरत्वमेवेति विविच्यत इति बालिशस्यापीदं नाविदितम्। तथा च नष्टे मुते इति वाक्यस्य कलिकाले-ऽनिषिद्धविवाहपरत्वमित्येव भट्टोजीदीक्षिताशय इति वाग्दत्ताविवाहस्य कलावनिषेधात् युगान्तरसाधारण-वाग्दत्ताविवाहपरत्वमुक्तपराशरस्मृतेरित्येव भट्टोजीदीक्षितानामपि मतम्। तथाच अयञ्च पुनर्विवाहो युगान्तरविषय—इति माधवाचार्यवाक्यं चतुर्विंशतिमतसंग्रहानुसार्येव, न तद्विरोधीति, विद्यासागरमहोदयैःअयं च पुनर्विवाहो युगान्तरविषयः इत्येतत्खण्डनार्थं उक्तचतुर्विंशतिमतसंग्रहवाक्यावलम्बनं यत्कृतम्, तदिदं पूर्वोत्तरसन्दर्भविरुद्धमिति न कोऽपि विरोधः।

[ उक्तविवेचनतात्पर्यम् ]

अयमत्र निष्कर्षः—युगान्तरेऽसम्प्राप्तमैथुनायापुनर्विवाहोऽप्यभ्यनुज्ञात आसीत्। एवंवाग्दत्तायाः कन्यायाः स्वानुमतौ देवरेण विवाह्यत्वमन्यथाऽन्येनविवाह्यत्वम् यस्मै वाचा दत्ता तस्यनष्टत्वादावित्यासीत्।कलौतूद्वाहानन्तरमसम्प्राप्तमैथुनाया अपि न विवाहः, न वा स्वा-

नुमतावपि देवरेण विवाह्यत्वम्, किन्त्वन्यविवाह्यत्वमेवेत्येव चतुर्विंशतिमतम् तत्र च यदि नष्टे मृते इतिश्लोकगतस्य पतिरन्यइत्यन्यपदस्य देवरान्यपरत्वम्, पतिशब्दस्य च गौणपतिपरत्वम्, तदा कन्यानुमतावपि वाग्दत्ताया एव कन्यायाः देवरान्यविवाह्यत्वमेवेति नियमः। तथा च यदाऽयञ्च पुनरुद्वाहो युगान्तराविषयइति माधवाचार्यवाक्यस्य योजनम् । तदा ‘तथाचादित्य पुराणमि’त्यस्य सन्दर्भस्य मुख्यपति विवक्षोऽसम्भवपरतायामुपष्टम्भकत्वेनयोजनं भवति । यदि त्वन्यपदेन देवरस्य ग्रहणम्, पतिशब्देन चमुख्यपतेर्ग्रहणम्, तदा तु युगान्तरविषय इत्येव पाठः। अत्र चपूर्वोकप्रकारेणास्य पुनर्विवाहस्यान्यथासिद्धत्वात्कलिधर्मत्वे पराशराचार्याणां तात्पर्यमिति मन्तव्यम्। तथा च शेषं मुनि-विभाषितमितिवचनोक्तरीत्या कलिवर्ज्यप्रकरणस्यापि पगशरस्मृतौ गुणोपसंहारन्यायेनानुकर्षणस्य युक्तत्वादेत-द्विषये आदित्यपुराणानुसारिण्येव व्यवस्था युक्तेति बोधनार्थं ‘तथाचादित्यपुराण’ मित्यादिमाधवग्रन्थसन्दर्भ-प्रवृत्तिरिति सर्वेषामपि निबन्धनकाराणां विवाहानन्तरं विधवाविवाहायोग्यता-यामेवैकमत्यमिति सिद्धम्। एवंसति हि “देवरान्न स्तोत्पत्तिः, ऊढायाः पुनरुद्वाहः, इति वचनद्वयस्यापि भिन्नविषयत्वेऽपि न कापि क्षतिरित्यपि सिध्यति। न हि माधवाचार्योक्तं सर्वमपि प्रामाणिकमेवेति दुराग्रहोऽस्माकमपि,किंतु यत्प्रामाणाविरुद्धं तदेव सर्वस्यापि प्रामाणिकमिति। तथाच माधवाचार्यसिद्धान्तानां कुत्र कुत्र चान्यत्र विषये बहुभिराचार्यैनिरासः कृतः इति यत् विद्यासागरमहोदयैः सोदाहरणं प्रदर्शितम्, तदिदमत्रानवसरमेव। यथा चायं पुनरुद्वाहो युगान्तरविषय इति पाठस्यापि न कलिधर्मान् प्रवक्ष्यामीति प्रतिज्ञा-

विरोधः, न वा पूर्वोक्तचतुर्विंशतिग्रन्थस्थापि तन्तिरासे तात्पर्यम्,तथा पूर्वमेव विवेचितम्। एतेन– कलौ पाराशराः स्मृताः–इत्यपि व्याख्यातम्। नहि पराशरोक्तमेव कलिधर्म इति; कलिवर्ज्यप्रकरणस्यादित्यपुराणादिगतस्य बाधो विवक्षित इति वाऽत्रसिद्धान्त इति– कलौ पाराशराः स्मृताः—इति सिद्धान्तेऽपि विद्यासागरसम्मते नास्माकमनैकमत्यम्। यत्तु मन्वादिस्मृतिषु पौनर्भवस्यापि पुत्रकोटौ सङ्कलनम, न तत्प्रकृतसिद्धान्तविरुद्धम्नहि वयमपि पौनर्भवपुत्रस्य पौनर्भवत्वं वारयामः। इदमेवास्माकमतम्, यत्पौनर्भवो न दानादिधर्मव्यवहारयोग्य इति। व्यक्तचैतद्वीरमित्रोदयमनुसृत्य पूर्व विवेचितम्। तथा च नष्टे मृते इत्यस्य परराशरवचनस्यापि ‘न विवाहविधायुक्त’ विधवावेदनं पुनः इत्यादिमन्वादिसिद्धान्तबाधेन तात्पर्यमिति स्मृत्यन्तरैकवाक्यतयैवात्र सिद्धान्तो युक्त इत्येव माधवाचार्याणां नन्दपण्डितादीनाञ्चाशय इति सर्वेषां निबन्धनकाराणां कलाबूटाविवाहासाधुताव्यवस्थापनं कथमपि नान्याय्यम्।

[विवाहस्यदानपूर्वकत्वं विधेचनम् ]

अत्रेदमालोचनीयम्– यत्पुनर्विवाहोऽयं विधवानामभिप्रेतो दानपूर्वको वोत तदपूर्वको वेतिअत्र केचिन्मन्यन्ते न पुनर्विवाहे दानमपेक्षितमिति। तेषामयमाशयः—पुनर्विवाहो हि द्वेधा भवितुमर्हति। एकः स्वपूर्वजायया अपरो नवीनकन्यया। तत्र प्रथमे प्रमाणं यथाः– त्यक्त्वा भर्तृगृहं गच्छेद्यदि दोषं विना पुनः।भर्त्रा सा संस्कर्तव्या चप्रायश्चित्तादिभिः क्रमात्— इति ब्रह्मपुराणवचनम्। ‘जीवन्यदिसमागच्छेत् घृतकुम्भे नियोज्य तम्।उद्धृत्य स्नापयित्वास्य जातकर्मादि कारयेत्। द्वादशाहं व्रतं च स्यास्त्रिरात्रमथवाऽस्य तु।

स्नात्वोद्वहेततां भार्यामन्यां वा तर्दभावतः, इतिवृद्धमनुवचनम्।यद्यागच्छेत् पुमान् जीवन् पैतृमेधिकसंस्कृतः। घृतकृम्भे स्नापयित्वा तमुत्थाप्य शुभे क्षणे।संस्कृतं जातकर्माद्यैरुपनीतं विधानतः। द्वादशाहं त्रिरात्रं वा विहितोपोषणव्रतम्। गिरावागत्य पूर्वांवा तदभावे परां स्त्रियम्। उढवन्तं च संस्कुर्याच्चरुणाऽऽयुष्मतेनच–इति कालादर्शवचनम्। विवाहमपि कुर्वीत भार्यया पूर्वयासहेति शौनकवचनञ्च।अन्यश्च पुनर्विवाहः पूर्वजायावियोगानन्तरंपुंसो नूतनभार्यया सह। पतिमरणानन्तरं स्त्रिया विवाहस्तु विवादास्पद इति न तस्यापि विभागः सिद्धवत्कृत्य सम्पादितः। तत्र पूर्वजायथा साकं पुनर्विवाहे यो विधिः, स एव विधिः पतिमरणनन्तरविधवाविवाहेऽपि सम्पादनीय इत्यवश्यमूरीकर्तव्यम्। तत्र च पुनर्विवाहे न दानं न वा वरणम्। तदुक्तं स्मृत्यन्तरे वैद्यनाथदीक्षितोद्धृते—

**न दानं नैव वरणं न प्रतिग्रहणन्तथा।
त्रिरात्रञ्च व्रतं न स्यात्पुनरुद्वाहकर्मणि।**इति ॥

तथा चात्र पुनर्विवाहे यथा न दानमपेक्षितम्, एवं विवाहानन्तरविधवाविवाहेऽपि न दानमपेक्षितमिति। अस्मिन् पक्षे इदमेव प्रष्टव्यम्—किं विवाहस्य कन्यादानप्रतिग्रहनियतपूर्वकत्वमपेक्षितं वा न वेति? यदि नापेक्षितं तर्हि कन्यादानस्य नित्यत्वंशास्त्रावगतं बाध्येत। गतप्रत्यागतपुनःसंस्कारे तु दानप्रतिग्रहावेकाधिकारिकौपूर्वमेव सञ्जाताविति नोक्तनियमविरोधः। अत्र कन्यादानवरणयोर्बाधे खल्वर्थलोप एव निमित्तम्। यतः स्वं प्रत्येव स्वयमेवदाने स्वस्वत्वनिवृत्तिपूर्वकपरस्वत्वापादनरूपदानस्वरूपमेव न सेत्स्यति। अकृतेऽपि दाने स्वयं प्रतिगृहीताया एवं स्व-

वाग्दत्ताविषयमेव, न तु विवाहानन्तरविधवाविषयमिमि। यदितु—दत्ताक्षतायाः कन्यायाः पुनर्दानं परस्य च– इति बृहन्नारदीयवचनं पर्यालोच्यते, तदा दानस्य विवाहानङ्गत्वेऽपि न दानसंभव इति स्पष्टमेव गम्यते।

[ विवाहेन स्वत्वोत्पतौ पतिमरणेन तदनाशेच विधवोद्वाहशंकासमाध्युपष्ठंभः ]

यथा च विवाहेन भार्यायां स्वत्वमुत्पद्यते, तस्य च पतिमरणानन्तरं न विनाशस्तथा विधवोद्वाहशङ्कासमाधौ स्पष्टं विवेचितम् तद्यथाः—

“यथाहि–स्वत्वान्तरमिव विवाहप्रयोज्यं स्वत्वं पतिनिष्ठेन क्लीबत्वादिना दोषेण न विनश्यति। न वा नोत्पद्यते। क्लीबत्वपातित्ययोर्दार्या-निमित्तकस्वत्वातिरिक्तस्वत्वनाशकत्वे तथाविधस्वत्वोत्पत्तिप्रतिबन्धकत्वे च मानाभावात्। लोके क्रयप्रतिग्रहादिभिः कलीबपतितयोरपिस्वत्वोत्पत्तिदर्शनात्। न चैवं सति क्लीबाय वाद्गत्ताया अन्यस्मै दानमसङ्गतं स्यादिति वाच्यम; न हि तत्रान्यस्मै दानं क्लीबादिस्वत्वोत्पत्त्यभावात्, किन्तु दात्रनुशयजन्यप्रतिग्रहीतृस्वत्वनाशात्। यथाक्रीतानुशयादौ। अनुशयेन स्वत्वनाशे च प्रतिग्रहीतृदोषज्ञानं सहकारीति नादुष्टाय दानस्थलीयानुशयात् स्वत्वनाशः। अत एवदुष्टाय प्रतिश्रुत्यादान इवादुष्टाय बुद्धिपूर्व दाने दण्डविधानं नास्ति। दुष्टाय दाने सप्तपद्युत्तरन्तु न दात्रनुशयः। तत्र देवानां दातृत्वात्। तेषां च सर्वज्ञतयाऽनुशयासम्भवात्। देवकर्तृकदानभावनमात्रस्य स्वत्वप्रयोजकत्वाङ्गीकारेऽपि च स्वस्वत्वनिवर्तकस्वानुशयासम्भवात्। एवं प्रव्रज्ययापि न विवाहप्रयोज्यं स्वत्वं नश्यति किन्तु स्वत्वप्रयुक्तानि स्पर्शनभाषणादीनि निवर्तन्ते। अत एव प्रव्रजितविशेषस्य पुत्रा-

द्यन्नग्रहणे दोष उक्तः। अत एव च प्रव्रजितत्वमात्रेण तत्पत्न्यासौभाग्यचिन्हत्यागाभावः। मरणोत्तरमेव तत्त्यागस्तदौर्ध्वदेहिकाद्याचरणाधिकारश्च युज्यते। नष्ट विषये तु स्वत्वनाशप्रयोजकसामध्यवात्स्वत्वनाशाभावः प्रसिद्ध एव। मरणमपि विवाहप्रयोज्यस्वत्वातिरिक्तस्वत्वनाशं प्रत्येव प्रयोजकम्। पिण्डदानप्रयोजकानां पितृपुत्र-भावादिसम्बन्धानां मरणाविनाश्यत्वदर्शनेन पतिपत्नीभावस्यापि तथाविधस्य मरणाविनाश्यत्वकल्पनौचित्यात्। एतदर्थोपष्टम्भकानि मुनिवचनानि च वक्ष्यमाणव्यवस्थायामनुसन्धेयानि ” इति ॥

[उक्तार्थेदोषाभासनिरासोपष्टम्भः]

अत्रैव दोषाभासनिरासनामकं तिलकमपि उपयुक्तत्वात् संगृण्हीमः। तद्यथाः— “समाधास्यमानविधवोद्वाहशङ्कायाः पूर्वपरिणेतृदोषप्रयोज्यस्वस्वनाशतदनुत्पत्तिप्राणिततया प्रथमं तत्परीक्षा प्रस्तूयते। वक्ष्यमाणोत्यादिना।मानाभावादिति। यत्तु ‘नष्टे मृते’ " स तु यद्यन्यजातीयः” इत्यद्यनेकवचनैर्दोषाणां दानपदार्थतावच्छेदकस्वरूपफलानुत्पादकत्वम् उत्पन्नतादृशस्वत्वनाशकत्वं च बोध्यते। अन्यथा पत्यन्तरविधानस्यानुपपत्तेरिति कश्चिद्वदति। तदशुद्धम्,तेषां वचनानां विवाहान्तरविधायकत्वस्याद्ययावदसिद्ध्या वैधविवाहान्तरस्यैवासिद्धेः। वर्ज्यत्वेन परिगणनमपि दुष्टवरसम्प्रदानकदानस्य सन्ततिद्वारा स्वपुरुषसन्तारणरूपदानफलाजनकत्वमेव बोधयति, न पुनः स्वस्वत्वनिवृत्तिपरस्वत्वोत्पत्ति-रूपफलाजननम्। यथा सर्वस्वचान्वये सतीति। अन्यथा दानरूपप्रतिषेधस्यैवाभावेन तस्य प्रतिषेधकत्वानुपपत्तेः। न ब्राह्मणं हन्यादिति हि हिंसाया नरकसाधनतां बोधयति, न खलु हन्त्यर्थतावच्छेदकप्राणवि-

योगरूफलानुत्पत्तिमिति।स्वस्वोत्पत्तिदर्शनादिति। यत्तु (१) वैवाहिकं स्वत्त्वं सोपधिकम्। तदुपधिविगमे स्वत एव विनश्येत्। उपधिश्च धर्म्यप्रजोत्पादनयोग्यता क्लीवादीनां धर्म्यप्रजोत्पादनयोग्यता विरहेण च क्लैब्यपातित्यादिदोषोत्पत्तावुचित एव तत्स्वत्वनाशः। अतो नात्र क्रयादिनिमित्तकस्वत्वेन तौल्यम्। सोपधिकत्वादेव विवाहकाले दोषसत्त्वे युक्ताऽनुत्पत्तिरेव स्वत्वस्येत्यभिधायात्रोपोब्दलकतया (२) राजदत्तद्रव्यस्य प्रतिग्रहीतृतद्वंशजानां नाशे दातुरेव राज्ञः स्वत्वसित्यभिधाय (३) तथाकन्यादानं स्वत्वविवृत्तिपर्वकपरस्वत्वोत्पत्तिरूपदानलक्षणाक्रान्तम् । तथा सति पितृस्वत्वस्य सर्वथैव निबृत्या ‘कुलशीलविहीनाय” “वरश्चेत्कुलशीलाभ्यां” इत्यादि वशिष्ठशातातपाभ्यां उढकन्याया हरणसमाच्छेदने न सङ्गच्छेयाताम् । (४) अत एव कन्यादानवाक्ये न ममेति प्रयोगाभावः (५) परिवेदनस्थले पुनर्दानम् (६) दौहित्रस्यानपत्पप्नतामहचर्थाधिकारः (७) पुत्रिकाधर्मः (८) विवाहाःकन्यायाःपराशरबोधितः पितृगृहे वासञ्चसङ्गच्छन्ते। पितृस्वत्वनाशे तु तदसङ्गतरितिचाभिधाय (९) अदुष्टपत्यन्तरस्वत्वाभावविशिष्टाया अदुष्टस्वसम्प्रदानकदानस्य स्वस्वत्वं प्रति कारणत्वं व्यवस्थापितम्। इत्थञ्च विवाहकालिकानां क्लेव्यादिदोषाणां स्वत्वानुत्पादकत्वमेव। विवाहोत्तरोत्पन्नदोषतज्ज्ञानपूर्वकद्वितीयविवाहयोरुत्पन्न पूर्वपतिस्वत्वनाशकत्वम्, अदुष्टपुरुष-स्वस्वस्थ पुरुषान्तरस्वत्वोत्पतिं प्रति प्रतिबन्धकत्वमिति निष्कर्ष प्रापितञ्च। (१०) किञ्च समवायातिरिक्तसम्ब-न्धमात्रस्यानित्यतया स्वत्वस्याप्यनित्यत्वेन दोषज्ञानपूर्वकान्यविवाह-जन्यस्वत्वोत्पत्त्यव्यवहितपूर्वक्षणे तन्नाश एवो-

चितः। (११) अपरञ्च भवदभिमताविनाशिस्वत्वप्रयोजकतावच्छेदकं यदि विवाहत्वं तर्हि भीष्मेन बलादाहृतासु तिसृषु कन्यासु राक्षसविवाहेनोत्पन्नस्य स्वत्वस्य त्यागेनैकस्यां कथं नाशः ? यदि ब्राह्मविवाहेत्वं तर्हि कथं दुष्यन्तस्य शकुन्तलायां गान्धर्वविवाहेन स्वत्वमिति प्रलपति। तदशुद्धम्। (११) वैवाहिकस्वत्वे सोपधिकत्वस्य कथमपि वक्तुमशक्यत्वात्। दानस्थलेउपधिर्हि न केवलं यदिच्छाधीना दानेच्छा सोऽपि तु यस्य दानेच्छाकारणीभूतेच्छाविषयस्याभिसन्धीमानस्य सम्प्रदानं स्वस्वत्वोत्पत्तिस्थितिप्रयोजकत्वं दात्रिच्छादिवशादङ्गीकुर्यात्सः। उपपादनीयं चेदमुपरिष्टात्। न हि विवाहे, वरो यद्यहं धर्म्यप्रजोत्पादनयोग्यताविशिष्टो न भवामि भविष्यामि वा तर्हि नेयं ममेत्यङ्गीकुरुते। येन क्लैब्याभावादेरुपधित्वं स्यात्। किञ्च तस्योपधित्वे वन्ध्यायां प्रजोत्पादनस्य कर्तुमशक्यतया तद्योग्यतायाः कस्मिन्नपि पुरुषे वक्तुमशक्यतया सा कस्यापि पत्नी न स्यात्। अतश्च न सोपधिकत्वमस्येति तुल्यमेवेदं क्रयादिनिमित्तकेन स्वत्वेन। वस्तुतो विवाहस्य क्रपलब्धविजितेष्वेवान्तर्भावाद्गान्धर्वेऽपि दानस्यावश्यकताया वक्ष्यमाणत्वाद्वित्तागमेषु पृथग् विवाहस्यापरिगणनाञ्च न क्रयादिनिमित्तकस्वत्वेन तुल्यं वैवाहिकं स्वत्वमपि तु क्रयादिनिमित्तकमेव। (२) राजदत्तद्रव्ये प्रतिग्रहीतृतद्वंराजानां नाशे यद्राज्ञः स्वत्वम् तन्न प्रतिग्रहीतृतद्वंराजान्यतरस्थितिरूपोपधिविगमात्, किन्तु ‘सर्वस्यादायिकं राजा हरेत्’ इति नारदवचनेन राज्ञोऽपि दायहरत्वबोधनाद्दायादत्वप्रयुक्तमेव। तदप्यब्रह्मणधन एव। “अहार्यं ब्राह्मणद्रव्यं राज्ञा नित्यमिति स्थितिः । इतरेषान्तु वर्णानां सर्वाभावे हरेन्नृपः" इति मनुवचनात्। ब्राह्मणेतरस्यापि प्रतिग्रहलब्धमस्तीत्युपपादयि-

ष्यते। यदि च राज्ञा प्रतिग्रहीतृतद्वंराजान्यतरस्थितिरूपेणोपधिना दत्तं राज्ञ एवेत्युच्यते, तर्ह्यन्येनाप्येवमुपधिना दत्तमन्यस्यैवेति नात्र निरुपधिके वैवाहिके तदृृष्टान्तभूतं भवितुमर्हति। यदि च निरुपधिकमपि राजदत्तत्वमात्रेण राज्ञ इति वैयात्यादुच्यते, तर्हि निरुपधिकमप्यन्येन दत्तमन्य एव गृह्णीयान्न तु राज्ञस्तत्राधिकारः स्यादिति महान् शास्त्रव्यवहारविरोधः। (३) कन्यादानमपि दानलक्षणाक्रान्तमेव। हरणसमाच्छेदने यथा सङ्गच्छेते तथा मूल एव स्पष्टम्।कन्यादानवाक्ये न ममेति प्रयोगाभावस्तु न सर्वसम्मतः। अत एव प्रयोगरत्ने स केषाञ्चिन्मतत्वेनोपन्यस्तः। सर्वेष्वेव च दानेषु नैकान्तिको न ममेति प्रयोगो येन केषाञ्चिदनुमतोपि तदभावो दानान्तरेभ्यः कन्यादाने वैलक्षण्यमादधीत। ददातिनैव त्यागस्याभिधानान्न ममेत्युक्तौ पौनरूक्त्यापत्या तन्न प्रयोक्तव्यमिति हि केषाञ्चिदभिप्रायः (५) परिवेदनस्थले पुनर्दानन्तु प्रत्युत पितुः स्वत्वनिवृत्तौलिङ्गम्। “परिविविदानः कृच्छ्रातिकृच्छ्रौ चरित्वा तां तस्मै दत्वा पुनर्निवेशेत्’ इति वसिष्ठेन परिवित्तेर्दातृत्वस्य बोधनात् पितुः स्वत्वनिवृत्तिमन्तरा तस्य दातृत्वायोगात्। (६) रिक्थाधिकारे स्वत्वस्थ क उपयोगो येन दुहितृद्वारकं दौहित्रेस्वत्वमाक्षिप्यते। एवं हि सति गुरोर्बन्धूनां राज्ञश्चापि रिक्थाधिकारात्तेष्वपि स्वत्वं भवादृशः परमाक्षिपेत्। (७) पुत्रिकारूपे पुत्रेतु नैव स्वत्वस्योपयोगः। नहि पुत्रत्वं स्वत्वव्याप्यं येन तदाक्षिपेत्; गर्भदासादौ पुत्रत्वनिरूपकस्वत्वादर्शनात्। पुत्रिकायाः पुत्रे तु “अस्मां यो जायते पुत्रः स मे पुत्रो भवेदिति’ दात्रभिसन्धीयमानं पुत्रग्रहणमङ्गीकृत्यैव सम्प्रदानेन कन्याया प्रतिग्रहाद्युक्तमेव तत्पुत्रे मातामहस्वत्वम्। परन्तु तत्र कन्यायां

दातृस्वत्वं नैवास्ति प्रमाणाभावात्। (८) विधवायाः पितृगृहे वासं विदधतः पराशरस्यायमाशयो यत्तत्रत्यानां पिताभात्रादीनां विश्वसनीयतयाऽन्येषाञ्च तथाऽनिश्चयाव्द्यभिचारसम्भावनया ब्रह्मचर्यपरिरक्षणं निष्टङ्कं यथा भवेदिति। नैतावता पितुः स्वत्वमुत्प्रेक्ष्यम्। नहि यो यस्य स्वं स एव तस्य गृहे वसतीति नियमः। न हि पथिकब्राह्मणस्य कुलालगृहे वासस्य विहितत्वेऽपि कुलालस्य तस्मिन् स्वत्वम् भवादृशान्महा पिण्डतादृते कश्चिदुत्प्रेक्षेत (९) “नष्टे मृते” इत्यादेर्विवाहान्तर विधायकत्वस्य सिद्धौ दोषाणां स्वत्वानुत्पादकत्वादि कल्पयितुं शक्यम्। तदेव वक्ष्यमाणरीत्या न सिध्द्यतीति सर्वमिदं मनोराज्यविजृम्भणमेव । प्रत्युत “यद्यर्थिता तु दारैः स्थात्क्लीबादीनां कथञ्चन। तेषामुत्पन्नतन्तूनां अपत्यं दायमर्हति” इति क्लीबादीनामपि दारपरिग्रहेण तदपत्यानां दायहरत्वं वदता मनुना क्लैब्यादीनां स्वत्वनाशकत्वतदुत्पत्ति-प्रतिबन्धकत्वयोरभाव एव स्पष्ट बोध्यते। किञ्च दुष्टेन परिणीतायां दुष्टस्वत्वानुपगमेऽपि “कन्यैवाक्षतयोनिर्या पाणिग्रहदूषिता। पुनर्भूः प्रथमा प्रोक्ता” इति नारदप्रदर्शितपुनर्भूत्वं दुरुद्धरमेव । अधिकन्तु कन्यात्वनिर्वचनादवसेयम्। (१०) क्व वयं स्वत्वस्य नित्यतां वदामो यत्रायं तदनित्यत्वोपपादनाय महान् फटाटोपः। दोषाविनाश्यत्वं परं वदामः। तत्र किमनित्यत्वोपवर्णनेन। अस्तु वोऽनित्यं स्वत्वम्। तावतापि भवदभिमतक्षणविशेष एव तन्नाशः किमित्युचितः। समवायातिरिक्ता अपि गगनभेदादीनां प्रतियोग्यनुयोगिभावादयः सम्बन्धाः किं न नित्याः, यत्कूपमण्डूकेन समवायस्यैव नित्यत्वं ज्ञायते इति न किञ्चिदेतत्। (११) कुत्र विधवोद्वाहशङ्कासमाधौ स्वत्वस्याविनाशित्वस्याभिमतत्वे लिङ्गम्,

यत्रायं व्यर्थः प्रलापः। भीष्मेण बलादपहृतायामम्बाख्यायां कन्यायां भीष्मस्वत्वावरुद्धत्वेनैव परपूर्वात्वप्रयुक्तस्त्यागः शाल्वेन कृत इति कस्मान्न भवान् सम्भावयति, स्वत्वनाशञ्च केन निश्चिनोति । इति।

अङ्गीकारेऽपीति। अयमभ्युपगमवादः। वस्तुतो “देवदतां पतिर्भार्यां विन्दते नेच्छयात्मनः” इतिप्रभृतिवचन-स्वारस्याद्देवकर्तृकं दानमेव स्वत्वापादकं न तद्भावनेति बोध्यम्।

स्वस्वत्वनिवर्तकस्वानुशयासम्भवादिति। स्वं भावयिता वरः। तस्यैव सोमो दददित्यादिमन्त्रपाटकर्तृत्वेन भावयितृत्वात्। तस्य च स्वत्वनाशकोऽनुशयो न सम्भवति। पित्रादेरनुशयसम्भवेऽपि न भावयितृत्वम्। कथञ्चिद्भावयितुस्तत्सम्भवेऽपि दानादिजन्यस्वत्वनाशकत्वस्यैवानुशये प्रमाणप्रमितत्वेन भावनाजन्यस्वत्वनाशकत्वे मानाभावादिति भावः। यत्तु स्वानुशयस्य स्वकर्तृकदानजन्यस्वत्वनिवर्तकत्व-बद्देवकर्तृकदानजन्यस्वत्वनाशकत्वमप्यवश्यं वाव्यम्। अन्यथा तद्दानोत्तरं कुत्रापि वरे दोषनिश्चये देवानां सर्वज्ञत्वभङ्गापत्तिः। वस्तुतस्तु विवाहस्य प्राशस्त्यसम्पादनार्थं देवकर्तृकदानभावनामात्रम्। दानन्तु पितुरेव। अतस्तदनुशयस्यैव स्वत्वनाशकत्वमिति। तदशुद्धम्; अदात्रनुशयस्यै स्वत्वनाशकत्वे मानाभावात्। तस्या जन्मान्तरकृतपापविपाकोद्देशेन बुद्धिपूर्वमेव दुष्टाय देवैर्दत्तेत्येवमपि सम्भावयितुं शक्यत्वेन सर्वज्ञत्वभङ्गप्रसङ्ग लेशस्याप्यप्रसङ्गात्। प्रदर्शितदेवदत्तामितिवचनेन प्रदर्शयिष्यमाणप्रमाणैश्च देवकर्तृकदानस्यैव विवाहघटकत्वलाभात्। पितुरनुशयस्य तन्नाशकत्वाभ्युपगमेऽपि “पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम्” इति सप्तपदीप्रक्रमप्राक्कालिकानु-शयस्यैव तन्नाशक-

त्वौचित्यात्। “दशैकपञ्चसप्ताहमासत्र्यहार्धमासिकम्। बीजायोब्राह्मरत्नस्त्रीदासपुंसां परीक्षणम्” इत्यादिना क्रोतानुशये कालविशेषावच्छिन्नस्यैव तस्य स्वत्वनाशकताया दृष्टत्वेनात्रापि तथैवोचित्याच्चेति।

एवं प्रव्रज्ययापीति। ननु सर्वत्यागमन्तरा प्रव्रज्यैव न सम्भवतीति कथं प्रव्रज्यया विवाहप्रयोज्यस्वत्वानिवृत्तिरिति चेन्न; सर्वविधबन्धमूलरागत्यागस्यैवप्रव्रज्याप्रयोजकत्वस्य श्रुत्यादिसिद्धत्वेन स्वत्वनिवर्तकत्यागस्य तद्धेतुत्वे मानाभावात् रागत्यागेनैव सर्वविधोद्वेगापगमेन फलाभावाच्च। अत एव भगवता गीतायां “काम्यानां कर्मणा” मित्यादिना संन्यासतत्त्वविषयकाण्येकदेशिमतान्युक्त्वा “निश्चयं श्रृणु मे तत्र त्यागे भरतसत्तम। त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः॥ यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत्। यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्। एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च। कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम्” इति स्वमतप्रदर्शनावसरे रागहेतोः सङ्गस्यैव त्याज्यत्वमुक्तम्। बृहदारण्यकेऽपि “एवमेवैतमात्मानं विदित्वा ब्राह्मणः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थाय” इत्यनेनैषणात्याग एव प्रव्रज्याहेतुत्वेन स्पष्टमुक्तः। योऽपि बाष्कलादिभिः “कुटुम्बं पुत्रदारांश्च वेदाङ्गानि च सर्वशः। यज्ञं यज्ञोपवीतञ्च त्यक्त्वा गूढश्चरेन् मुनिः” इत्यादीना कुटुम्बपुत्रादित्याग उक्तः, तस्थापि प्रदर्शितवचनैकवाक्यतयैषणात्याग एवाभिप्रायः। स्वत्वनाशोपयोगिनस्त्यागस्य स्वत्वाभावप्रकारकेच्छारूपस्य तथात्वे तस्य वेदाङ्गे यज्ञे चासम्भवेन तत्रान्यादृशस्यैव त्यागस्य वक्तव्यतथैकरूपेणोभयोरसङ्ग्रहत्सकृच्छृतेनोभयोरलाभेन विधिवैरूप्या-

द्वाक्यभेदापत्तेः। मम तूद्वेगाभावरूपस्य सर्वविधत्यागफलस्य संन्यासिभिरवश्यसम्पाद्यस्य सर्वत्यागशिरोमणि-नैषणात्यागेनैव सुसम्पादतया तस्यैव विधेयत्वेनाभिप्रेतत्वमिति न दोषः। एतेन— यत्प्रव्रज्यामूलकविवाहान्तरेणापि स्वत्वं नश्यत्येवेत्युद्दिश्य स्पर्शभाषणादिनिषेधैः स्वत्वाभावमेवोक्षिप्य सर्वस्वत्यागमन्तरा प्रवज्यैव न सिध्यतीति प्रवज्यायां स्वत्वनाशकत्वमावश्यकमेवेत्युपसंहृतम्, तदपि— अपास्तम्। प्रव्रज्यायां स्वत्वनाशकत्वं सिद्धान्तयता प्रव्रज्यामूलक विवाहान्तरेण स्वत्वं नश्यतीत्युद्देश्यमपि विस्मृतमित्यत्रैकमतिचित्रमिति।

तत्त्याग इति। मरणोत्तरं तत्त्यागविधानेन पतिस्वत्वस्य सौभाग्यचिह्रधारणप्रयोजकत्वोन्नयनादिति भावः। एतेन वाचनिकत्वं तस्योत्प्रेक्ष्यन्तोऽर्वाग्दृशः परास्ताः। अत एव भर्तृकर्तृकमङ्गलसूत्रबन्धनमन्त्रे मम जीवनहेतुनेति दृश्यते।

औचित्यादिति। यत्तु नाशमरणयोरपि स्वत्वनाशकविवाहोपयोगित्वं तुल्यन्यायात् एकत्र तथाऽऽश्रयणमपरत्र नेत्यर्धजरतीयस्थानौचित्यादित्युक्तम्। तत्तु प्रदर्शितदिशा क्लीबत्वादीनां स्वत्वनाशकत्वतदुत्पत्तिप्रतिबन्धकत्वयोर्भावस्य निष्टङ्कं सिध्या दत्तोत्तरम्। यदपि भर्तृस्वत्वस्य प्रजोत्पत्तिमुख्यफलकत्वात्तदनुत्पत्तिप्रयोजकानां श्रुतिस्मृत्यनुरोधेनैव स्वत्वनाशकत्वमिति ग्रन्थेन वैवाहिकस्वत्वस्य सोपधिकत्वं पुनरुक्त्वा मनुस्मृतिगृह्यसूत्रवैवाहिकमन्त्रस्थैर्विवाहस्य प्रजोत्पत्तिफलकत्वबोधकैलिङ्गैस्तदुपोद्बलितम्। तदप्युपपादितरीत्या तत्र सोपधिकत्वस्य सम्भावयितुमशक्यत्वेन निरस्तमेव चर्वितचर्वणम्। यदपि भार्यापुत्रकन्यासु स्वत्वमेव नेति विश्वजिति सर्वस्वदाने भार्यादि न देयमिति षाष्ठसिद्धान्तविरो-

धाब्द्यवहारमयूखेऽपि भार्यादिषु तदभावस्य व्यवस्थापितत्वाच्च सिद्धान्तितम्, तदपि न किञ्चित्। न हि स्वत्वाभावप्रयुक्तं पुत्रादेरदानं षाष्ठसिद्धान्तविषयः अपि तु पित्रादेः। तत्र हि स्वपदेनात्मीयत्वपुरस्कारेण पित्रादिग्रहणं प्राप्नोतीति पूर्वपक्षो ददातिसमभिव्याहारात् स्वपदस्य धनपरतां निर्णीय समाहितः। माधवाचार्यैरपि पित्रादिपदमेवोपात्तम्। पुत्रादेरदानन्तु ‘देयं दारसुतादृते” इत्यस्यानारभ्याधीतत्वेन सकल सर्वस्वदानशेषभूतात् प्रतिषेधादेव, न पुनः स्वत्वाभावात् तथा सति श्रुतिस्मृतिसदाचारेतिहासादिविरोधप्रसङ्गात्। तथाहि— एतरेयब्राह्मणेऽजीगर्तकृतः शुनःशेपाख्यपुत्रस्य विक्रयो हारिश्चन्द्रिणा रोहितेन तस्य क्रय इति’ श्रूयते। क्रीतपुत्रोदाहरणे बासिष्ठादावपि शुनःशेपोदाहरणां स्मर्यते। तत्रैव “शोणितशुक्रसम्भवः पुरुषो मातापितृनिमित्तकस्तस्य प्रदानविक्रयत्यागेषु मातापितरौ प्रभवतः इति दत्तकप्रस्तावे। तत्रैव सप्तदशे क्षेत्रजे बीजिनः स्वत्वंक्षेत्रिणो वेति चिन्तायाम “तत्रोभयथाप्युदाहरन्ति “यद्यन्यगोषु वृषभो वत्सान् जनयते सुतान्। गोमिनामेव ते वत्सा मोघं स्यन्दनमार्षभम्” इति। अत्र च गोनिष्ठस्वत्वप्रयुक्तं तद्वत्सेषु स्वत्वं दृष्टान्ततयाभिदधतो भार्यायां पुत्रे च स्वत्वं स्पष्टमेवोक्तम्। महाभारते आदिप० १०५ अध्याये “मातापित्रोः प्रजायन्ते पुत्राः साधारणाः कवे १२९ तेषां पिता यथा स्वामी तथा माता न संशयः” इति। नन्दपण्डितकृत दानकौतुके च महाभारतकात्यायनादिवचनाभ्यां भार्यादानमुक्तम्। तथाहि— “राजा मित्रसहश्चापि वसिष्ठाय महात्मने। मदयन्तीं प्रियां दत्त्वा तथा सह दिवं गतः” इत्यादिना। भार्यादिषु स्वत्वाभावे तु सर्वमेतदसङ्गतं स्यात्। आपामरं प्रसिद्धं हि भार्यादिषु

स्वत्वम्। मनुः— मङ्गलार्थं स्वस्त्ययनं यशश्चासां प्रजापतेः। प्रयुज्यते विवाहेषु प्रदानं स्वाम्यकारणम्– इति। एवं स्थिते गवादा विव भार्यायां स्वत्वाभावं तत एव तस्यामुत्पन्नेऽपत्येऽपि स्वत्वाभावमुपगच्छन् तत्र हेतुतया क्षत्रियादीनां प्रतिग्रहाभावेन तद्भार्यासु स्वत्वाभावात्तदपत्येषु च तदभावं प्रदर्शयन् मयुखस्तु चिन्त्य एव। प्रदर्शितवसिष्ठप्रभृतिवचनैः स्पष्टमेव भार्यापुत्रेषु स्वत्वस्य प्रतीतेः। भार्यायां क्रयादेः पुत्रेऽधिगमादेश्चार्जनस्य सत्त्वात्। क्षत्रियादेरपि प्रतिग्रहस्य स्वत्वोत्पादकत्वमस्त्येव। ब्राह्मणस्याधिकं लब्धं क्षत्रियस्य विजितमित्यादिगौतमोक्तो नियमस्त्वदृष्टार्थः। स्वत्बस्य तदुपायानाञ्च लौकिकत्वादिति मिताक्षराकारादिभिरुक्तत्वात्। अत एव प्रीत्या क्षत्रियवैश्यशूद्रेभ्यो दाने दत्ते तेषां स्वत्वं ब्राह्मणादेशच भृत्यर्जिते स्वत्वञ्च पासुलपादपर्यन्तं प्रसिद्धं सङ्गच्छते। अत एव भगवतो भार्गवस्य विजितपृथ्व्यां स्वत्वमुपपन्नम्। तस्य च ब्राह्मणस्य विजितत्वस्थ प्रकृतगौतमवचनेन गर्हितत्वात् “यद्गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम्। तस्योत्सर्गेण शुध्द्यन्ति” इति गर्हिताजितस्य त्यागबोधनात् कश्यपाय तेन तन्निष्कृत्यै पृथ्वी दत्तेत्यन्यदेतत्। स्वत्वेतु न सन्देहः। अत एवं क्षत्रियस्य ब्राह्मादिर्न प्रशस्तो विवाहः, तस्मै दानस्याधर्म्यत्वादित्यभिप्रेत्य राज्ञः प्रति भीष्मवाक्यं महाभारते आदि० १०२ अध्याये” स्वयं वरन्तु राजन्याः प्रशंसन्त्त्युपयान्ति च। प्रमथ्य तु हृतामाहुर्ज्यायसीं ब्रह्मवादिनः” इति। तत्रैव— २१९, २२०, २२१ अध्यायेषु सुभद्राहरणप्रस्तावेऽपिस्पष्टपिदम्। प्रसह्य हरणे तु विजितत्वप्रयुक्तमेव स्वत्वम्, तत्तु धर्म्यमेव क्षत्रियस्थेति तदाशयः। इत्थञ्च भार्यादिष स्वत्वं निष्टङ्कं सिध्द्यतीत्यलं विस्तरेण॥ इति ।

अथ यथावसरं विधवोद्वाहसमाधिनामकोऽयं ग्रन्थो योऽयं काशीगतानां बहूनां प्रसिद्धतमानां पण्डितानां आशयमनुसृत्य सङ्गृहीतः तस्य यथावदेवात्र प्रकाशनमपि समुचितं पश्यामः। येन हि विधवाविवाहविषये शास्त्रार्थस्वारस्यं बहुन्यायानुगृहीतं सर्वेऽपि निष्पक्षपातिनो ज्ञातुं प्रभवन्ति। अत्र हि ग्रन्थे विद्यासागरमहोदयानां ग्रन्थोऽक्षरशः खण्डित इति विद्यासागर महोदयाशयः शास्त्रसम्प्रदायादिविरुद्ध इति सम्यगेव स्फुटीभवति। अत्र हि ग्रन्थे विस्तरशो विचारितानां सङ्ग्रहोऽपि ग्रन्थान्ते सङ्ग्रहीत इति नोक्तग्रन्थतात्पर्यसङ्कलने कस्यापि क्लेशः स्यादिति विश्वसिमः। अत्र पूर्वोक्तप्रकारापेक्षया कुत्र कुत्र च प्रकारवैलक्षण्यमपि दृश्यते चेदपि फलतो न विशेष इति तु सर्वैरपि ज्ञातव्यम्। अत्रास्मदीयात्समालोचनात्पूर्वं ग्रन्थसङ्ग्रहं प्रथमतः सम्पादयामः—

तद्यथाः—

[ उक्तार्थे विवाहोद्वाहशङ्कासमाधिः ]

वङ्गदेशीयैः कैश्चिन्महाधीभिः स्वकृतव्यवस्थापत्रे विधवानां विवाहः कलियुगे धर्म इति ब्यवस्थापितम् तदिदं सदसद्वेति विविच्यते। तथा हि ‘परिवेदनपर्याधानयोरिव स्त्रीणां पुनरुद्वाहस्याऽपि प्रसङ्गात्ववचिदभ्यनुज्ञां दर्शयति।

“नष्टे मृते प्रव्रजिते क्लीबे च पतिते पतौ ।
पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते॥
” इति ॥

नष्टो देशान्तरगमनेनापरिज्ञातवृत्तान्तः। अयं च पुनरुद्वाहो युगान्तरविषयः। तथा चादित्यपुराणम्—

ऊढायाः पुनरुद्वाहं ज्येष्ठाशं गोवधं तथा।
कलौ पञ्च न कुर्वीत भ्रातृजायां कमण्डलुम्॥

पुनरुद्वाहमकृत्वा ब्रह्मचर्यव्रतानुष्ठाने श्रेयोतिशयं दर्शयत।

मृते भर्तरि या नारी ब्रह्मचर्यव्रते स्थिता।
सा मृता लभते स्वर्गम् ॥

इति माधवाचार्यैः पराशर माधवीये प्रायश्चित्तप्रकरण उक्तम्। विद्वन्मनोहरायां पराशरस्मृतिव्याख्यायां नन्दपण्डितैस्तु “नन्वस्तु परिवेदने कन्याया ज्येष्ठसमर्पणानन्तरं पुस्तेनैव विवाहः, वाग्दानानन्तरमनिष्पन्ने विवाहे तु वरवैगुण्ये ज्ञाते कथमित्यत आह— नष्टे मृत इति। वाग्दानानन्तरं पाणिग्रहणात्प्राक् पतावुत्पत्स्य मानपतित्वे पूर्वस्मिन्वरे नष्टे दूरदेशगमनेनापरिज्ञतवृत्तान्ते नारीणां कन्यानामन्यः पतिर्विधीयते। तदाह नारदः॥

परिगृह्य तु यः कन्यां नरो देशान्तरं ब्रजेत्।
त्रीनृतून्समतिक्रम्य कन्यान्यं वरयेद्वयम्॥
स्त्रीपुंसयोस्तु सम्बन्धाद्वारणं प्राग्विधीयते।
वरणाद्ग्रहणं पाणेः संस्कारोऽपि विचक्षणैः॥
तयोरनियतं प्रोक्तं वरणं दोषदर्शनात्॥
इति ॥

इति व्याख्यातम् । अग्रे च—

अद्भिर्वाचा च दत्तायां म्रियेतादौ वरो यदि।
न च मन्त्रोपनीता स्यात्कुमारी पितुरेव सा॥
इति ॥
नोदकेन न वाचा वा कन्यायाः पतिरुच्यते।
पाणिग्रहण संस्कारात् पतित्वं सप्तमे पदे॥
इति ॥
पाणिग्रहणसंस्कारा नियतं दारलक्षणम्।
तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे॥

इति क्रमाद्वसिष्ठयममनुवचनान्युपन्यस्य ‘नष्टे मृते, इति वाक्यस्थचकारेणान्यजातीयादेर्ग्रहणम्। तथा च कात्यायन।

स तु यद्यन्यजातीयः क्लीबः पतित एव वा।
विकर्मस्थः सगोत्रो वा दासो दीर्घामयोऽपि वा॥
उढाऽपि देया साऽन्यस्मै सहावरणभूषणा॥

इति। अत्राऽपीत्य पिशब्दः कैमुतिकन्यायेन वाग्दत्ताया एवान्यस्मै दानमाचष्टे, न तूढायाः, तथात्वे सगोत्राया अपि पुनर्विवाहः प्रसज्येत, तथा सति च मातृवत्परिपालयेदिति विरुध्येत। पञ्चस्विति प्रचयशिष्टसंख्यानुवादो न परिसंख्या। नन्वेवं ‘वाचा दत्ता मनोदत्ताऽग्निं परिगता सप्तमं पदं नीता भुक्ता गृहीतगर्भा प्रसूताचेति सप्तविधा पूनर्भूस्तां गृहीत्वा न प्रजां न धर्मं विन्देत” इति बौधायनवचोविरोधः स्यादिति चेन्मैवम्; तस्य निर्दुष्टवरविषयत्वात्। अतएव नारदः—

दत्तां न्यायेन यः कन्यां वराय न ददाति ताम् ।
अदुष्टश्चेद्वरो राजा स दण्ड्यस्तत्र चोरवत्॥

इति तत्र दण्डं विधत्ते। तस्मादेवंविधेषु विषयेषु कृतेऽपि वाग्दाने वरान्तराय दानं भवतीति सिद्धमित्युक्त्वा स्वकृतव्याख्यायां बीजत्वेन कलिवर्ज्यप्रतिपादकवचनविरोध उक्तः। चतुर्विंशतिमतव्याख्यायां भट्टोजीदिक्षिता अप्येवमेवाहुः॥

तदेतन्मतद्वयमपि न साधु। पुनरुद्वाहो न भवतीत्यत्र प्रमाणाभात्। प्रमाणत्वेनाभिमतानां कलिवर्ज्यवचनानामाचारविरोधेन कलियुगैकविषयकपराशरस्मृतिरोधेन चाप्रामाण्यावधारणात्। किंच माधवाचार्यैः पुराणवचनविरोधात् स्मृतेर्युगान्तरविषयत्वमुक्तम्, तन्न सङ्गतम्, स्मृतिपुराणयोर्विरोधे पुराणवचनानां दौर्बल्यात्। कलिवर्ज्यवचनानां सामान्यविषयकत्वेन बाध्यतायाः पराशरस्मृतिवचनस्य च विशेषविषयकत्वेन बाधकताया आ-

वश्यकत्वात्। पुनरुद्वाहब्रह्मचर्ययाः कलियुगीयधर्मत्वाभावे पूर्वस्मात्परस्मिन्श्रेयोतिशयोक्तः स्वीयाया असङ्गतेः। उपक्रमोपसंहाराभ्यां पराशस्मृतेः कलियुगानुष्ठेयधर्मबोधकत्वे सिद्धे तद्वाक्यस्य युगान्तरीयधर्मबोधकताकल्पनस्या-सङ्गतेश्च। एवं नन्दपण्डितैरूढापदस्य लाक्षणिकत्वमुक्तम्, तन्न साधु; बीजाभावेन लक्षणाया अन्याय्यत्वात्, नष्टे मृते इत्यादि स्यादेष द्विगुणो विधिरित्यन्तनारदसंहिताविरोधाच्च। तथाच विधवानां विवाहः कलियुगे धर्मशास्त्राऽनुमत एवेति केचिद्वङ्गदेशीया वदन्ति॥ तत्र यदेभिर्नंष्टादिपतिकानां पुनरुद्वाहाभावेप्रमाणं नास्तोत्युक्तम्, तन्न; तासां पुनरुद्वाहप्रापकस्यैव कस्याप्यभावे तदभवस्यार्थतः सिद्धेः। तथाहि— अलङ्कृत्य कन्यामुदकपूर्वां दद्यात; बुद्धिमते कन्यां प्रयच्छेत्, कन्यामुपयच्छेत, इत्याद्याश्वलायनबौधायनादिकल्पवाक्यसमुदाये तादृशीमुद्वाहेत्कन्यामित्यादि-शातातपादिस्मृतिवाक्यसमुदाये च सर्वत्र कन्यापदोपादानात् कन्यात्वं विवाहदानयोः कर्मताप्रयोजकमिति लभ्यते। तत्र कन्यात्वस्य स्वरूपं ग्राहयितुमनन्यपूर्विकामित्याद्याः स्मृतयः प्रवृत्ताः। तत्रानन्यपूविकात्वमदुष्टपुरुषान्तर-सम्प्रदानकदानकर्मत्वाभावे सति पुरुषान्तरेणऽकृतसंस्कारत्वम्। अन्यत्वं चात्र सर्वत्रैतदुद्वाहं चिकीर्षुव्यक्तिप्रतियोगिकं ग्राह्यम्। एवमदुष्टत्वमपि सप्तपद्याः प्राग्दुष्टनिश्चयविषयत्वविशिष्टो यस्तद्भिन्नत्वम्। एतदेव च कन्यात्वं विधिवाक्यादौ विवक्षितम्। अतएव कन्यां सम्प्रदद इत्याद्येव गौरी रोहिण्यादिदानादिवाक्यम्। दशवर्षात्वरूपं यमपरिभाषितं कन्यात्वं तु दातुर्ब्रह्मलोकावाप्तिफलकमेव, न तु विवाहनिमित्तम्। ऋतुत्रयमुपास्यैव कन्या कुर्यात् स्वयं वरम्” इति विष्णस्मतेः

“त्रिंशद्वर्षोद्वहेत्कन्यां हृद्यांद्वादशवार्षिकम्” इति मनुस्मतेश्च यमपरिभाषितकन्यात्वस्याभावेऽप्युक्तकन्यात्ववलेन विवाहबोधकत्वात् । “रौखंतु रजस्वलाम्” इति मरीचिवचनं तु प्रायश्चित्तमकृत्वा रजस्वलादानं कुर्वतो दोषबोधकमिति बोध्यम् ।तत्र “वाचा दत्ता मनोदत्ता” इत्यादिनोक्तबौधायनवचसा,

यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः।
तामनेन विधानेन निजो विन्देत देवरः
॥” इति

मनुवचनेन, “दत्तां न्यायेन यः कन्याम्” इति दण्डप्रकरणस्थनारदोक्त्या चादुष्टाय वाचा दत्तायाः पतितप्रतिनिध्यन्येन विवाहाभावबोधनात्तस्याः कन्यात्वाभावलाभाय प्रथमदलम्। उक्तवचने पतिः पतित्वयोग्योऽदुष्ट इति यावत्। “परिगृह्य तु यः कन्याम्” इत्यादिभिर्वचनंदुष्टाय वाचा दत्ताया विवाहात्पूर्वं वरदोषदर्शने वरान्तराय दानस्य विधानात्तत्रत्यपतिशब्दस्यैतदर्थकतायाएवौचित्यात्। एवं नियतं दारलक्षणमित्यादिमन्वादिवचनैःपत्युर्दुष्टत्वेऽपि सप्तपदोत्तरं पतिपत्नीभावो न परावर्तत इति तत्र स्त्रिया विवाहान्तराभावो बोध्यते, तथाच दुष्टेन परिणीताया बलादपहृत्य परिणीतायाश्च कन्यात्वाभावलाभायोत्तरदल निवेशः। अतएव।

बलाच्चेत्प्रहृता कन्या मन्त्रैर्यदि न संस्कृता।
अन्यस्मै विधिवद्देया यथा कन्या तथैव सो॥
” इति

बौधायनवचनेन—

अभ्दिर्वाचा च दत्तायां म्रियेतादौ वरो यदि ।
न च मन्त्रोपनीता स्यात्कुमारी पितुरेव सा
॥”

इत्यनेन दुष्टदत्ताविषयकेण वसिष्ठवचनेन चादुष्टं यत्पुरुषा-

न्तरं तत्सम्प्रदानकर्मत्वाभावस्येव मन्त्रसंस्कराभावस्याऽपि विवाहकर्मतानियामककन्यात्वघटकत्वं प्रदर्शितम्। अस्य वसिष्ठवचनस्य दुष्टदत्तापरत्वं तु ‘स तु यद्यन्यजातीय’ इत्याद्युदाहृतकात्यायनवचनैकवाक्यत्वाऽनुरोधात्। अदुष्टदत्तायानियोगबोधनेन पितुरेव सेत्यनेन विरोधाच्च। न चैवं सति कात्यायनवचनस्थोढापदस्यलक्षणया वाग्दत्तापरत्वं वक्तव्यम्, नच्च न युक्तं, लक्षणायां बीजाभावादिति वाच्यम्; ऊढापदस्य प्रापरणार्थकवहधातुप्रकृतिकत्वेनादि-कर्मार्थकक्तान्तत्वेन वा वाग्दत्तायां मुख्यत्वेन लक्षणाऽनङ्गीकारात्। अत एव कात्यायनवचने सगोत्रो वेति सङ्गछते।अत एव चैतत्समानाथ—

कुलशील विहीनस्य षण्डादिपतितस्य चः ।
अपस्मारिविधर्मस्थरोगिणां वेषधारिणाम्॥
दत्तामपि हरेत्कन्यां सगोत्रोढां तथैव च॥

इत्यादिवसिष्ठवचने दत्तामित्येव निर्देशः। तत्र सगोत्रोढामित्यस्य तु सगोत्रमूढां प्रापितामित्यर्थः। वार्तावह इतिवत्सम्बन्धार्थको वहधातुः। स चात्र स्वत्वरूपः, साधनं कृतेति समासः। यद्वा सगोत्रेणोढां परिगृहीतामित्यर्थः। आदिकर्मणिक्तः। तच्चात्र सप्तमपदप्रक्रमप्राक्कालिकव्यापाररूपम्। किंचोढापदस्योढापरत्वेऽपूर्वविधित्वकल्पनप्रयुक्त गौरवम्। न चैतद्वचनबलाद्विधिवाक्यार्थघटककन्यात्वशरीरेऽदुष्टसंस्कृतत्वाभाव एवनिवेश्यत इति वाच्यम्; एवं संकोचकल्पनापेक्षयोढापदस्य वाग्दत्तापरत्वकल्पनस्यैवोचितत्वात् वक्ष्यमाणदूषणगणग्रासात्। वरणस्य नियतत्वाभावः सप्तपद्यास्तु नियतत्वमिति बोधकस्य ‘तयोरनियतं प्रोक्तंवरणं दोषदर्शनात्’ इति “पारिणग्रहण मन्त्रास्तु

नियतं दारलक्षणम्” इति वचनद्वयस्य विहोधाच्च। तत्रनियतमित्यस्य दुष्टाऽदुष्टुरूपत्वयभेऽपि नियमेन

संपादकमित्यर्थः। वरणमित्यनेन सप्तमदप्रक्रमप्राक्कालिकं कर्म ग्राह्यम् ।पाणिग्रहणमन्त्रा इत्यनेन च सप्तमपदप्रक्रमान्तं कर्म बोध्यम् ।दोषदर्शनादित्यस्य वरदोषदर्शनादित्यर्थः। “नोदकेन नवा वाचा " “यस्या म्रियेत कन्याया” इत्यादिभिः संवादात्॥

वरश्चेत् कुलशीलाभ्यां न युज्येत कदाचन।
न मन्त्राः कारणं तत्र न च कन्याऽनृतं भवेत्॥
समाच्छिद्य तुतां कन्यां बलोदक्षतयोनिकाम्।
पुनर्गुणवते दद्यादिति शातातपोऽब्रवीत्॥

इति वीरमित्रधृतशातातपवचने मन्त्रा इत्यस्य पाणिग्रहणात्प्राग्दानादिप्रयोजका मन्त्रा इत्यर्थ।अक्षतयोनिकामित्यर्थःकन्यापदस्वरसात्। “पतित्वं सप्तमे पदे,, “नियतं दारलक्षणम्इत्याभ्यां विरोधाच्च ।

देशधर्मानवेक्ष्यस्त्री गुरुभिर्या प्रदीयते ।
उत्पन्नसाहसाऽन्यस्मै सा द्वितीया प्रकीर्तिता॥

इति पुनर्भूप्रकरणे नारदवचनम्, तत्र देशधर्मानवेक्ष्येति तादृशदानस्याऽशास्त्रीयताबोधनाय।“अन्यस्मै” साहसोत्पादयितृपुरुषव्यतिरिक्ताय या दीयते सा पुनर्भूरित्यर्थः। अस्या विवाहेशास्त्रीयत्वाभावप्रयोजकस्य कन्यात्वाभावस्य लाभाय परेणाऽभुक्तत्वमपि निरुक्तकन्यात्वशरीरे निवेश्यम् । तत्राऽपि—

सकामायां तु कन्यायां संगमे नास्त्यतिक्रमः।
किं त्वलंकृत्य सत्कृत्य स एवैनां समुद्वहेत्॥

इति दण्डप्रकरणस्थनारदवचनेन स्वयमुपभुक्तायाः स्वेन

विवाहो युक्त इति बोधनात्। तस्याः कन्यात्वलाभाय परेणेति। अत एव “या गर्भिणो संस्क्रियते इत्याद्युपपन्नम्। गान्धर्वादिविवाहश्चोपपन्नः।तस्या अपि गर्भाधानकर्तृपुरुषसम्प्रदानकदानोपयोगिकन्यात्वसद्भावात्। परोपभुक्तायास्तूक्त-नारदवचनेन क्षतपुनर्भूत्वं प्रसिद्धमेव। एवं “बलाच्चेत् प्रहृता कन्या मन्त्रैर्यंदि न संस्कृता अन्यस्मै विधिवद्देया” इति वसिष्ठवौधायनवचनेन बलात्परोपभुक्ताया अन्यस्मै दानं विधीयत इति तस्याः कन्यात्वसम्पत्तयेबलं विनेत्यपि परोपभोगविशेषणं ग्राह्यम्। बलादपहृता कन्येत्येवंतद्वाक्यपाठस्तु न साधुः।बौधायनवसिष्ठस्मृतिपुस्तकेषु अनुपलब्धेः। बलापहरणमात्रस्यकन्यादूषणत्वाभावेन तत्र कन्यात्वस्याक्षततया यथा कन्या तथैव साइत्यस्य नैरर्थक्यात्। ‘प्रहृता’ क्षता तथाच बलप्रहारस्याऽपि दोषत्वान्न तस्मै दानमित्यन्यस्मा इत्युक्तम्। अभुक्ताया इवबलादुपभुक्ताया अपि भोक्रन्यपुरुषसम्प्रदानकदानोपयोगिकन्यात्वमस्त्यतः कन्यात्वशरीरप्रविष्टोपभोगे बलंविनेति निवेशनीयमिति विधिवाक्यतात्पर्यग्रहार्थं यथा कन्या तथैवसेति। यथाऽनुपभुक्ता तथैवेयं बलादुपभुक्ताऽपि विवाहार्हेत्यर्थःतेन सकामा येनोपभुक्ता तस्मै दातव्या, निष्कामा तु भुक्ताऽन्यस्यै दातव्येति। सकामाया उपभुक्ताया अन्यस्मै दत्तायाःपुनर्भूत्वं च सङ्गतमिति। एवं स्वेन बलादनुपभुक्तत्वमपि निवेशनीयम्। तेन स्वयं बलादुपभुक्तायाः स्वस्मै दत्तायाः पुनर्भूत्वंसिद्ध्यति। तथाच दानेन भोगेन वाऽन्यपूर्वकत्वं तदभावोऽनन्यपूर्वकत्वमिति मिताक्षराकारमाधवादीनामुक्तिरप्यनुगृहीता भवति।न चाभ्यामनन्यपूर्वकत्वशरीरेऽन्यसंस्कृतत्वाभावो न निवेशित इतिबाच्यम्; दानपदेन मनुष्यकर्तृकवहेवकर्तृकस्याऽपि ग्रहणेन

तन्निवेशबोधनात्। “तेषां निष्ठा तु विज्ञेया विद्वद्भिःसप्तमेपदे” इत्यादिवचनबलेन सप्तमपदप्रक्रमपर्यन्त-कर्मसमूहस्वरूपपाणिग्रहणसंस्कारस्यदेवकर्तृकदानप्रयोज्यप्रतिग्रहप्रकाशकर्मत्वेन दानपदेनैव ग्रहणसूचनात्। सात्म्यकरणरूपसरूपख्यस्य चात्यन्तस्वीकाररूपत्वात्। एतद्दानस्य च नियतत्वोक्त्यादुष्टाऽदुष्टविषयभेदेन व्यवस्थाया अनाकांक्षितत्वात्, मनुष्यकर्तृकदानापेक्षया कन्यात्वशरीरे तु पृथगेव निवेश आवश्यकः। यदि च कन्यायाबलात्प्रहारो न दोष इत्येवानेन बोध्यते, अन्यस्मा इति तु प्रहर्त्रन्यस्मा अपि दानस्य वैधत्वे सुतरां प्रहर्त्रेदानस्यवैधत्वमितिसूचनाय। प्रहर्तुर्वरस्याऽपकारित्वान्न दानमिति त्वन्यत्, प्रहर्त्रेदानेऽपि पुनर्भस्तु न भवतीत्युच्यते, तदा स्वेनाऽनुपभुक्तत्वं कन्यात्वशरीरे न देयमेवेति तत्त्वम्।

एवं निरूपितकन्यात्वस्य विवाहकर्मताप्रयोजकत्वकल्पने चबहून्युक्तान्यान्यनुग्राहकाणि उच्यन्ते। तथा हि मनुः—

यस्मै दद्यात्पिता त्वेनां भ्राता वाऽनुमते पितुः।
तं शुश्रूषेत जीवन्त सस्थितं च न लङ्घयेत्॥”

न तु नामाऽपि गृह्णीयात्पत्यौ प्रेते परस्य तु” इति।
देवदत्तां पतिर्भार्यां विन्दते नेच्छयात्मनः” इति।

“सकृत्कन्या प्रदीयते” इति च॥ एवंविधान्यन्यान्यपि मृतपत्युल्लङ्घननिषेधकानि मुनिवचनान्यनुसन्धेयानि।

ननु—मृते भर्तरि या नारी व्यक्तवत्यथ तं स्वयम्।
सवर्णाज्जनयेद्गर्भ भर्तुः पौनर्भवं सुतम्॥
यदि सा बालविधवा बलात् त्यक्ताऽथवा क्वचित्।
त्यक्त्वा भर्तृगृहंगछेत् यदि दोषं विना पुनः॥

भर्त्रा सा संस्कर्तव्या च प्रायश्चित्तादिभिः क्रमात।
स्त्रीणां पुनर्विवाहस्तु देवरात्पुत्रसन्ततिः॥
स्वातन्त्र्यं वा कलियुगे न कर्तव्यं कदाचन।”

इति ब्रह्मपुराणवचनेन कश्चिदुद्धृतेन—

या पत्या वा परित्यक्ता विधवा स्वेच्छयाऽपि वा।
उत्पादयेत्पुनर्भूत्वा स पौनर्भव उच्यते॥
सा चेदक्षतयोनिः स्याद्गतप्रत्यागताऽपि वा।
पौनर्भवेन भर्त्रासा पुनः संस्कारमर्हति॥”

इति मनुवचनसमानार्थकेन पतिकर्तृकः पुरुषान्तरकर्तृकश्चेति संस्कारद्वयं विधीयते, द्वितीयस्तत्र नोपपन्नः विवाहकर्मताप्रयोजकोक्तकन्यात्वघटकस्यानन्यसंस्कृतत्वस्याभावेन पुरुषान्तरकर्तृकविवाहासम्भवादिति चेन्न; अस्य विध्यन्तरतया कन्यात्वानपेक्षत्वोनादोषात्। अस्य च न भार्यात्वसम्पादकत्वम्, किन्तुखौरिणीगमनदोशेषादेतद्गमने दोषन्यूनतासम्पादकत्वमेव।तस्याःपूर्वं क्षतत्वाभावात् संस्कारकरणेन नियतपुंस्कत्वाच्च । अत एवश्राद्धादौ तन्निषेध उपपद्यते।

अन्ये त्ववौधमेव पुरुषान्तरकर्तृकं संस्कारकर्म, तादृशकर्मबोधकविधेरभावात्।उक्तब्रह्मपुराणवचनस्य तु येन केन चिद्गृहीत्वा पुनःसंस्कार्यत्पादतर्थमृते भर्तेरिया नारीत्यादिपूर्वश्लोकार्थाऽनन्वयत्। किन्तु भर्तरि मृतेसति त्यक्तवति वा यानारी स्वयं सवर्णाद्चतुर्धारयितु गर्भं जनयेत् तं तस्य पौनर्भवं सुतं जातयत्। इदं कदेत्यकांक्षायामाह, सा बालविधवाबलात् त्यक्ता वा तदा वैधव्यक्तत्वान्यनरावस्थायां येन केनचित्समानवार्णत्रापिंडादिना माहवशात्पनरपि संस्कृत्य गृहीता यदि

स्यात् तर्हि तं पौनर्भवंजानीयादित्यर्थः। एतादृशस्यैवाऽर्थस्यस्वारसिकमनुवचनार्थंसंवादोऽपि। तथाहि—या पत्या स्वेच्छया परित्यक्ता विधवा वा केनचित्संस्कृता भूत्वायं पुत्रमुत्पादयेत्स पौनर्भव उच्यते, या यद्यक्षतयोनिःस्यात् इत्येकं वाक्यम्उत्तरवाक्येऽपि वाशब्दःक्षतयोनिरिति सम्बध्यते। तथा च सायदि पौनर्भवेन पुरुषान्तरेण सह गता सती अक्षतयोनिरेव प्रत्यागता भवति। तदा भर्त्रा कृतं संस्कारमर्हतीत्यर्थस्य स्वारस्यतो मनुवाक्यात्प्रतीतेः। अत एव मोहात्परपूर्वां संस्कुर्वस्तस्याः परित्यागं प्रायश्चित्तं चाहाश्वलायनः—

अज्ञातश्च द्विजो यस्तु विधवामुद्वहेद्यदि ।
परित्यज्य च तां चैव प्रायश्चित्तं समाचरेत्॥
इति ॥

अत एव

पाणिग्राहे मृते बाला केबलं मन्त्रसंस्कृता ।
सा चेदक्षतयोनिः स्यात्पुनः संस्कारमर्हति॥

इतिवासिष्ठवचने केवलमिति सङ्गच्छते। तस्य च मन्त्रैःसंस्कृता न तु क्षतयोनिरित्यर्थबोधकत्वं न;सा चेदक्षतयोनिस्यादित्यनेन पौनरुक्त्यापत्तः किं तु केवलं मन्त्रसंस्कृता मन्त्रसंस्कार्यताऽवच्छेदककन्यात्वविरहेऽपि केनचिन्मन्त्रप्रयोगपूर्वं गृहीतपाणिरित्येवार्थः। अत्राऽमृते इति छेदः; वीरमित्रनन्दपण्डितधृत “कृत” इतिपाठेनार्थानुगुण्यात् । पुनः संस्कारश्च पूर्वपतिकर्तृकः।तथा चास्य परकर्तृकसंस्कारस्यावैधत्वमेव सिद्धमित्याहुः।

इत्थं च न क्वाऽप्यकन्याविवाहः शास्त्रेण सिध्यति। पतित्वसम्पादकं कर्म च विवाह एव शास्त्रेण विहितः।तस्य च नष्टादिपतिकासु उक्तयुक्त्याकन्यात्वाऽभावेनाभावात् पत्यन्तराभावएव तासामिति सिद्धम्। पुनर्भ्वाःपूर्वपतिकर्तृकसंस्कारस्थले च

पूर्वसंस्कारस्य स्वेनैव कृतत्वात् तस्या अप्यन्यासंस्कृतत्वादिघटितं कन्यात्वमस्त्येवेति न तत्राप्यकन्याविवाहः। अपतिकाया नियोगस्थले च नियुक्तस्य देवरादेर्ॠत्विगादिवन्मुख्यपति प्रतिनिधित्वात् तत्कर्तृकसंस्कारस्य तद्वारा मुख्यकर्तृकत्वात् न तत्राऽप्यन्यस्मै दत्तत्वमिति सोऽपि कन्याया एव विवाहः। एतेन ब्रह्मपुराणवचनस्येव नष्टे मृत इत्यस्याऽपि विध्यन्तरत्वमिति परास्तम्; ब्रह्मपुराणवचनव्यवस्थाया उक्तत्वेन तस्य दृष्टान्तत्वासम्भवात्। इत्थं च यस्या म्रियेत कन्याया इत्याद्याभिर्नियोगबोधकत्वाद्वाग्दत्ताया अन्येनोद्वाहाभावबोधिकाभिर्वाचा दत्ता मनोदत्तेत्याद्याभिः पुनर्भूत्वबोधकत्वात् तस्या अन्येनोद्वाहाभावबोधिकाभिस्तयोरनियतं प्रोक्तं वरणमिति नोदकेन न वाचेति ‘अद्भिर्वाचा च दत्तायां म्रियेतेति’ तेषां निष्ठा तु विज्ञया विद्वद्भिः सप्तमे पदे, इत्यादिभिस्तस्या एव वरान्तरोद्वाहबोधिकाभिः स्मृतिभिश्च अदुष्टश्चेदरो राज्ञेतिदण्डबोधकस्मृत्यादिसहकारेण दुष्टाऽदुष्टभेदेन व्यवस्थामास्थायविधिघटककन्यात्वशरीरेऽदुष्टपुरुषान्तरसम्प्रदान-कदानकर्मत्वभावरूपविशेषणस्य निवेशो बोधितः। तत्र च तदन्तःपातिसम्प्रदानरूपवरविशेषणीभूताभावप्रतियोगिनां दोषाणामनुगतस्वरूपजिज्ञासायां वक्ष्यमाणरीत्याऽनुगतरूपेण वरदोषबोधनेन परिक्षीणानां नष्टे मृत इत्यादीनां पराशर-कात्यायनादिस्मृतीनामर्थान्तरबोधने सामर्थ्याभावाद्विधित्वासम्भव एव। एवं विद्वद्भिः सप्तमे पद इत्यादिस्मृत्यनभिमतस्य दुष्टपरिणीताविवाहस्यापत्तेस्तदवस्थत्वेन तत्स्मृतिवैयर्थ्यापत्तिः। वक्ष्यमाणरीत्या नष्टे मृत इत्यस्य सर्वदुष्टोपलक्षणत्वात्। भवद्रीत्या नारदस्मृतिसंवादित्वेनास्य कलियुगैकविषयताया वक्तुमशक्यत्वादिति सिद्धम्।

अपिच पतित्वसम्पादकं कर्म विवाहरूपमेव वक्तव्यमन्यस्य तत्सम्पादकस्य क्वचिदप्यनुक्तेः नामधेयैक्याच्च। विवाहादिपदार्थश्च स्वत्वविशेषोत्पत्यनुकूलव्यापार एव। अत एवोपाद्यमः स्वकरणे इति पाणिनिस्मरणमुपयच्छत इत्याद्युदाहृत्योद्वहतीति विवरणं च वृत्तिकाराणां सङ्गच्छते। उद्वाहविवाहशब्दघटको वहधातुः परिणायशब्दघटको नीधातुश्च स्वीकारार्थक इत्यमरटीकाकारराजमुकुटोऽपि। तत्र धात्वर्थस्वत्वविशेषे उद्विपरिभिः स्वत्वान्तरात्प्रकर्षो बोध्यते। स च स्वनिरूपकतावच्छेदकावच्छिन्ननाशादिदोषैरनश्वरत्वस्वरूपः। अत एव ‘संस्थितं च न लङ्घयेत्’।

मङ्गलार्थं स्वस्त्ययनं यज्ञश्चासां प्रजापतेः।
प्रयुज्यते विवाहेषु प्रदानं स्वाम्यकारणम्॥

“न निष्क्रियविसर्गाभ्यां” इति च सद्गच्छते। एवं च यत्र विवाहोत्तरं पत्युदर्दोषोत्पत्तिः पुरुषान्तरेण व सह भवदभिमतविवाहो न कृतस्तत्र दैववशात् क्लोबत्वादिदोषनाशे सर्वसम्मततत्पत्नीत्वानिवृत्तिरेव। अन्यथा तदानीं पुनः पत्नीत्वोत्पादककारणस्यानुक्तत्वेन तन्नोपपद्येत। भोक्तृत्वभोग्यत्वादिकार्य विशेषस्तु संस्कारोत्पादकतावच्छेदक-संस्कारावच्छेदकैतदुभयान्यतरशरीरावच्छेदेनैव। अत एव तं शुश्रूषेतं जीवन्तमिति मनुवचने तं स्वत्वनिरूपकं संस्कारोत्पादकतावच्छेदकशरीरविशिष्टमित्यर्थकं जीवन्तमिति सङ्गच्छते। अन्यथा तद्वैयर्थ्यं स्पष्टमेव। एवं स्थिते यदि वैयात्यादेव दोषाणां संस्कारनाशकत्वमङ्गीकियेत, भूतकालिकतत्कृतसंस्कारस्यैव चौर्ध्वदैहिकादिप्रयोजकत्वं स्वीक्रियेंत, तथाऽपि “न च मन्त्रोपनीतास्यात् " “मन्त्रैर्यदि न संस्कृते” त्यादिवचनेषु भूतकालार्थकक्तप्रत्ययनिर्देशेन भूतकालिक-संस्कारस्यैव भोगवद्विवाहप्रतिबन्धकत्व

पूर्वसंस्कारस्य स्वेनैव कृतत्वात् तस्या अप्यन्यासंस्कृतत्वादिघटितं कन्यात्वमस्त्येवेति न तत्राप्यकन्याविवाहः। अपतिकाया नियोगस्थले च नियुक्तस्य देवरादेर्ऋत्विगादिवन्मुख्यपति प्रतिनिधित्वात तत्कर्तृकसंस्कारस्य तद्वारा मुख्यकतृकत्वात् न तत्राऽप्यन्यस्मै दत्तत्वमिति सोऽपि कन्याया एव विवाहः। एतेन ब्रह्मपुराणवचनस्येव नष्टे मृत इत्यस्याऽपि विध्यन्तरत्वमिति परास्तम्; ब्रह्मपुराणवचनव्यवस्थाया उक्तत्वेन तस्य दृष्टान्तत्वासम्भवात्। इत्थं च यस्या म्रियेत कन्याया इत्याद्याभिर्नियोगबोधकत्वाद्वाग्दत्ताया अन्येनोद्वाहाभावबोधिकाभिर्वाचा दत्ता मनोदत्तेत्याद्याभिः पुनर्भूत्वबोधकत्वात् तस्या अन्येनोद्वाहाभावबोधिकाभिस्तयोरनियतं प्रोक्तं वरणमिति नोदकेन न वाचेति ‘अद्भिर्वाचा च दत्तायां म्रियेतेति’ तेषां निष्ठा तु विज्ञेया विद्वद्भिः सतमे पदे, इत्यादिभिस्तस्या एव वरान्तरोद्वाहबोधिकाभिः स्मृतिभिश्च अदुष्टश्चेद्वरो राज्ञेतिदण्डबोधकस्मृत्यादिसहकारेण दुष्टाऽदुष्टुभेदेन व्यवस्थामास्थायविधिघटककन्यात्वशरीरेऽदुष्टपुरुषान्तरसम्प्रदान-कदानकर्मस्वाभावरूपविशेषणस्य निवेशो बोधितः। तत्र च तदन्तः पातिसम्प्रदानरूपवरविशेषणीभूताभावप्रतियोगिनां दोषाणामनुगतस्वरूपजिज्ञासायां वक्ष्यमाणरीत्याऽ-नुगतरूपेण वरदोषबोधनेन परिक्षीणानां नष्टे मृत इत्यादीनां पराशरकात्यायनादिस्मृतीनामर्थान्तरबोधने सामर्थ्याभावाद्विधित्वासम्भव एव। एवं विद्वद्भिः सप्तमे पद इत्यादिस्मृत्यनभिमतस्य दुष्टपरिणीताविवाहस्यापत्तेस्तदवस्थत्वेन तत्स्मृतिवैयर्थ्यापत्तिः। वक्ष्यमाणरीत्या नष्टे मृत इत्यस्य सर्वदुष्टोपलक्षणत्वात्। भवद्रीत्या नारदस्मृतिसंवादित्वेनास्य कलियुगैकविषयताया वक्तुमशक्यत्वादिति सिद्धम्।

अपिच पतित्वसम्पादकं कर्म विवाहरूपमेव वक्तव्यमन्यस्य तत्सम्पादकस्य क्वचिदप्यनुक्तेः नामधेयैक्याच्च। विवाहादिपदार्थश्च स्वत्वविशेषोत्पत्यनुकूलव्यापार एव। अत एवोपाद्यमः स्वकरणे इति पाणिनिस्मरणमुपयच्छत इत्याद्युदाहृत्योद्वहतीति विवरणं च वृत्तिकाराणां सङ्गच्छते। उद्वाहविवाहशब्दघटको वहधातुः परिणायशब्दघटको नीधातुश्च स्वीकारार्थक इत्यमरटीकाकारराजमुकुटोऽपि। तत्र धात्वर्थस्वरत्वविशेषे उद्विपरिभिः स्वत्वान्तरात्प्रकर्षो बोध्यते । स च स्वनिरूपकतावच्छेदकावच्छिन्ननाशादिदोषैरनश्वरत्वस्वरूपः। अत एव ‘संस्थितं च न लङ्घयेत्’।

मङ्गलार्थं स्वस्त्ययनं यज्ञश्चासां प्रजापतेः।
प्रयुज्यते विवाहेषु प्रदानं स्वाम्यकारणम्॥

“न निष्क्रियविसर्गाभ्यां” इति च सद्गच्छते । एवं च यत्र विवाहोत्तरं पत्युर्दोषोत्पत्तिः पुरुषान्तरेण च सह भवदभिमतविवाहो न कृतस्तत्र दैववशात् क्लोबत्वादिदोषनाशे सर्वसम्मततत्पत्नीत्वानिवृत्तिरेव। अन्यथा तदानीं पुनः पत्नीत्वोत्पादककारणस्यानुक्तत्वेन तन्नोपपद्येत। भोक्तृत्वभोग्यत्वादिकार्यविशेषस्तु संस्कारोत्पादकतावच्छेदकसंस्कारा-वच्छेदकैतदुभयान्यतरशरीरावच्छेदेनैव। अत एव तं शुश्रूषेत जीवन्तमिति मनुवचने तं स्वत्वनिरूपकं संस्कारोत्पादकता-वच्छेदकशरीरविशिष्टमित्यर्थकं जीवन्तमिति सङ्गच्छते। अन्यथा तद्वैयर्थ्यं स्पष्टमेव। एवं स्थिते यदि वैयात्यादेव दोषाणां संस्कारनाशकत्वमङ्गीक्रियेत, भूतकालिकतत्कृतसंस्कारस्यैव चौर्ध्वदैहिकादिप्रयोजकत्वं स्वीक्रियेत, तथाऽपि “न च मन्त्रोपनीतास्यात्” “मन्त्रैर्यदि न संस्कृते” त्यादिवचनेषु भूतकालार्थकक्तप्रत्ययनिर्देशेन भूतकालिकसंस्कारस्यैव भोगवद्विवाहप्रतिबन्धकत्व-

लाभादन्यकृतसंस्कारावच्छेदकशरीराविशिष्टत्वादेव कन्यात्वघटकत्वमिति न दोषः। अतएव “नियतं दारलक्षण"मिति न विरुध्यते। सोऽयं विवाह एताद्वेधिविषये न सम्भवति।

सोमः प्रथमो विविदे गन्धर्वो विवद उत्तरः।
तृतीयो अग्निः पतिस्तुरीयस्ते मनुष्यजः।

इतिमन्त्रविरोधात्, तस्य मनुष्ये पत्यौ तुरीयत्वबोधकत्वात्, मनुष्यरूपपत्यन्तरस्य पञ्चमत्वेन मन्त्रप्रकाश्यतुरीयत्वा-भावात्। एवं

“—सोमोददङ्गन्धर्वाय गन्धर्वो दददग्नये।
रयिं च पुत्रांश्चादादग्निर्मह्यमथो इमाम्॥
” इति।

कन्याया अग्निदत्तत्वबोधकमन्त्रविरोधः। एकस्मा अग्निना प्रदत्ता या अन्यस्मै दानासम्भवात्। एवं “गृभ्णामि ते सौभगत्वाय हस्तं मया पत्याजरदष्टिर्यथा सः। भगो अर्यमा सविता पुरन्धिर्माह्यं त्वाऽदुर्गार्हपत्याय देवाः” इति पाणिग्रहणमन्त्रविरोधश्च। अर्थविरोधाच्चै तेषां मन्त्राणां निवृत्तौ तत्प्रकाश्यकर्मणां प्रधानपाणिग्रहणादीनां निवृत्तौ चास्य कर्मणो विवाहस्वरूपताभङ्गेन तद्विधित्वस्य दुरुपपादत्वात्। इदं च देवकर्तृकदानं मनुरप्याह—

देवदत्तां पतिर्भार्यां विन्दते नेच्छयात्मनः” इति।
मङ्गलार्थं स्वस्त्ययनं यज्ञश्चासां प्रजापतेः।
प्रयुज्यते विवाहेषु प्रदानं स्वाम्य कारणम्”।

इति च। तत्र देवकर्तृकदानप्रकाशकव्यापारोऽतीन्द्रिय इत्यन्यत् मन्त्रे दानतदुत्तरप्रतिग्रहलिङ्गमदुर्गृभ्णामीति च श्रूयते। प्रतिग्रहप्रकाशकव्यापारश्च पुच्छाद्यवच्छेदेन गवादिग्रहणवत्पाण्यवच्छेदेन कन्याग्रहणरूपः। अत एव तन्मत्रे हस्तमित्युक्तम्। देवकर्तुकं दानं नैवास्तीति मतेऽपि दत्तामदुरित्याद्युक्तेर्दानत्वेन समाख्याबलाम््म

न्त्रोच्चारणस्वोद्देश्यकदानभावनाभ्यामेव स्वत्वोत्पत्तेरावश्यकत्वेन प्रथमभावयितृनिरूपितसंस्कार-रूपस्वत्वविशेषोत्पत्तौ सत्यां पुनर्मन्त्रोच्चारणभावनाभ्यामन्यपुरुषनिरूपितस्वस्तोत्पत्तेरयोगोस्त्येवेति बोध्यम्। न च धर्मप्रजोत्पादप्रयोजक-भार्यात्वसम्पत्त्यर्थमेव दानमिति तत्सोपधिकं जातमित्युपधिविगमे विवाहोत्तरमपि तत्परावर्तनं भविष्यतीति वाच्यम्; तादृशोपधिविगमे पित्रादिदानप्रयोज्यस्वत्वनाशसम्भवेऽपि संस्कारे उत्पन्ने सति पुनःसंस्कारोत्पत्त्ययोगेनानुशयस्या-प्रयोजकत्वात् परावृत्तेरन्याय्यत्वात्। “नियतं दारलक्षणम्” “न च मन्त्रोपनीता स्यात्” इत्यादिवचनबलेनोपधिविगमस्य संस्काररूपस्वत्वनाशप्रयोजकत्वानङ्गीकारात्। विवाहात्पूर्वं भावितादृशोपधिविगमनिश्चये तु पित्रादिदानप्रयोज्य-वरस्वत्वनाश इति त्वन्यत्। तथाचानुशयप्रकरणे “यस्तु दोषवतीं कन्यामनाख्याय प्रयच्छति” इत्यादिना विवाहप्रतिबन्धकदोषाननाख्याय कन्यां दत्तवत्तो “अकन्येति तु यः कन्यां ब्रूयोद्वेषेण मानवः” इत्यादिना विवाहप्रतिबन्धक-दोषान्मिथ्याभिशंसतश्च दण्डमुपक्रम्य मनुः—

“पाणिग्रहण का मन्त्रा कन्यास्वेव प्रतिष्ठिताः।
नाकन्यासु क्वचिन्नृणां लुप्तधर्माक्रया हिताः “

इत्यनेन कन्यात्वाभावे पाणिग्रहणमन्त्रनिवृत्तिमाह। तत्र लुप्त धर्मक्रियेत्यादेरयमर्थः। लुप्ता धर्माः मन्त्रोपात्तकन्यात्वतुरीयवरसंप्रदानकचिकीर्षितदानकर्मत्वादयः क्रिया दानप्रतिग्रहादयो यासां ताः तदेवोत्तरकारिकया प्रकाश्यते।“पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम्” इति। अकन्यात्वादिदोषानाख्यानेन दाने विवाहे च सति वरानभीप्सितकन्यायाः परावृत्त्यभावेन संस्कृतत्वक्षतत्वादि दोषारोपे च सति विवाहाभावप्रसंगेन दण्ड उचित एवेति भावः।

इत्थं च पाणिग्रहणमन्त्रेषु कन्यात्वादिश्रवणेनाकन्यानां दानेन तद्भावनेन वा स्वत्वरूपसंस्कारानुत्पत्तेरेव सिद्धतया स्त्रीणां द्वितीयविवाहाभाव एवेति सिद्धम्। किंच नष्टादिपतिकायाः पुनः संस्कारे तस्या भवदनभिमतपुनर्भूत्वापत्तिः। उक्तविधान्यपूर्वत्वे सति संस्कृतत्वस्य पुनर्भूलक्षणत्वात्। “अक्षता वा क्षता वाऽपि पुनर्भूः संस्कृतापुनः” इति याज्ञवल्क्यवचने पुनरित्यादेर्विवाहाभावप्रयोजककन्यात्वाभावसंपत्त्यन्तरं संस्कृता गृहीतपाणिरित्यर्थः। पुनभूर्दि-घिषूरूढाद्विरित्यमरस्तु प्रायोवादः। अत एव देशधर्मानवेक्ष्य स्त्रीतिनारदवचनेन “सकामायां तु कन्यायामि” त्यत्रैवकारेण च बोधितं संस्कारात् पूर्वं क्षताया अन्येन पाणिग्रहणे पुनर्भूत्वं सङ्गच्छते। तदाह वसिष्ठः— “या वा क्लीबं पतितमुन्मत्तं वा भर्तारमुत्सृज्यान्यं पतिं विन्दते मृते वा सा पुनर्भूर्भवतीति। एतेन पुनर्भूलक्षणघटकसंस्कार-विशेषणीभूतांन्यांशेन नष्टादिपत्यन्यत्वनिवेश एव क्रियते इत्यपास्तम्; अक्षतविधवायाः पुनर्भूत्वाऽनुपपत्तेश्च। किंचास्य विधित्वे ब्रह्मचर्येण सहास्य गुरुतरस्य विकल्पस्य श्रेयोतिशयस्य वाकल्पनायामतिगौरवम्। तच्च सति गत्यन्तरेऽयुक्तमेवेति ध्येयम्।

यत्तु “तस्मादेकस्य बव्ह्यो जाया भवन्ति नैकस्यै बहवः सहपतयः, इति श्रुतौ सहपदस्वारस्यात्क्रमिक-बहुपतित्त्वमनुमतम्, तद्वलादेवास्य स्वतन्त्रविधित्वं सत्यऽपि दोषे कल्प्यत इति; तन्न साधु; युगपन्नानापुरुषेभ्य एककन्यादानप्रसक्तौ तन्निषेधाय सह पतयो नेत्यस्य प्रवृतेस्तस्य क्रमिकबहुपतिसत्त्वाऽकल्पकत्वात्। प्रत्युत विधिवाक्यीयसंप्रदानबोधकपदोत्तरैकवचनार्थ-विवक्षार्थाऽनुवादकत्वात् ।

यस्मै दद्यात्पिता त्वेनां भ्राता वाऽनुमते पितुः।
तं शुश्रूषेत जीवन्तं संस्थितं च न लङ्घयेत्॥
इति

सूत्रयित्वा उभयथाऽपि तल्लङ्घनाभावस्य कारणतया तत्स्वामित्वमुक्त्वा जीवल्लङ्घनाभावं चोक्त्वा मृतपतिलङ्घनाभा-वव्याख्याने “न तु नामाऽपि गृह्णीयापत्यौ प्रेते परस्य तु " इति “न द्वितीयश्च साध्बीनां क्वचित्भर्तोपदिश्यते” इति च मृतपतिव्यतिरिक्तपुरुषगमनादिनिषेधं कुर्वता मनुनोपष्टब्धायास्तस्मान्नैका द्वौ पत्ती विन्दते इति श्रुतेविरोधाच्च। तथा च मृतलङ्घनाभावप्रयोजकं मृतस्याऽपि स्वत्वमस्तीति सिद्धम्। नियोगस्थले तु नियुक्तस्य मृतप्रतिनिधितया तदभिन्नत्वात्पुत्रोत्पादकत्वेन तद्भोगे मृतस्वत्वस्याप्रतिवन्धकत्वमेवेति न दोषः। पत्यप्रतिनिधिगमने तु दोष एव। अनन्यपूर्वकत्वेन च नियुक्ताया न पुनर्भूत्वम्॥ किञ्च नष्टादिपतिकायाः पुनर्विवाहविधाने तां गृह्वतोऽस्वभोगजन्यपातक-प्रसङ्गः। न च पूर्वपतिस्वत्वनाशात्तस्यामौपादानिकमेव स्वत्वं तथा च न दोष इति वाच्यम्; प्रदानं स्वाम्यकारणमिति मनूक्तेर्मृतस्याऽपि पत्युः स्वत्वसत्त्वात्। अत एव क्षेत्रिणोपत्यं न बीजिन इति प्रकरणे “न निष्क्रय विसर्गाभ्यां भर्तुर्भार्या विमुच्यते” इत्यनेन स्त्रीणां यावज्जीवं मृते जीवति वा पत्यौ तत्स्वत्वाक्रान्ततया तासां विवाहोत्तरं केनाऽपि दानमशक्यमित्युपकम्य “सकृदंशो निपतति सकृत्कन्या प्रदीयते” इति मनुनोक्तम्। तन्नाशस्वीकारेऽपि च रक्षकपरम्परान्तर्गतस्य पारतन्त्र्यनिरूपकस्य कस्याऽप्यवश्यं सत्त्वेन क्रमश उत्पद्यमानेन तस्य तस्य स्वत्वेनावरोधात्। पित्रादिकर्तृकदाने सति तु भर्तुः स्वत्वस्य नावरोधः। दातुः स्वत्वस्य दानीयस्वत्वजनकत्वात्। अत एव जन्मादिभिः पुत्रादिस्वत्वमुपपद्यते।

न च यत्र कन्याया मातापित्रादिर्नश्यति तत्र तस्यां राजादीनां स्वत्वं दानप्रयोजकमस्ति। तद्वदत्राऽपि यस्य कस्य चित्स्वत्वसत्वेतन स तामन्यस्मै दातुं शक्नुयादिति वाच्यम्; तत्र पित्रादेर्दानाधिकारिणोऽसत्वेऽन्येन दानाधिकारिणाऽदत्त कन्यादानस्य युक्तत्वात्। इह तु तस्या एकवारं दत्तत्वेन कन्यात्वाभावाद्दानविधि-विषयत्वविरहेण पुनस्तद्दाने राजादीनामनधिकारात्। न च दुष्टवरस्थले “सकृत्कन्या प्रदीयते इति विरुध्यते, तत्र तस्या अन्यस्मै दानादिति वाच्यम्; सप्तपदीप्राग्वत्येप्रामाण्ययज्ञानानास्कन्दितदोषनिश्चयविषयीभूत-सम्प्रदानकत्वाभावरूप-प्रकर्षविशिष्टस्यैव कत्यात्वोपलक्षितकर्मकदानस्य सकृत्त्वबोधनात्। दुष्टवरस्थले च तादृशनिश्चयस्य तन्निरूपितस्वत्वनाशकत्वात् कन्यात्वोपलक्षितकर्मकदानस्य सकृत्त्वबोधना “न्न निष्क्रय-विसर्गाभ्यां” इत्युक्तसङ्गतिः। प्रदर्शितप्रकर्षस्यैव तु विवक्षणे मानानि तु गदितप्रायाणीति नेहोपन्यस्यन्ते। एतेन सत्कृत्कन्येति वाक्यं कन्यात्वविशिष्टायाः पुनर्दानाभाववोधकमित्यपास्तम् ; प्रदर्शितोपक्रमविरोधात्, कन्यात्वसत्त्वे दानावश्यंभावाच्च। तस्माद्विवाहितां पुनरुदुह्य गृह्णतोऽस्वभोगजन्यपातकप्रसङ्गः॥ एवं तस्यां पित्रादिदानजन्यस्वत्वाभावेन मृतपतिकृतसंस्कारस्य च सत्तत्वात्पूर्वोक्तमनुवचनेन यावज्जीवस्थायिताया बोधनेन च साङ्गस्तत्संस्कारोऽप्यनुपपन्नः; प्रदानस्य विवाह-प्रकरणपठितत्वेन विवाहाङ्गत्वात्, संस्कारान-न्तरोत्पत्तिप्रतिबन्धकपतिकृतसंस्कारस्य च सत्वात्। अत एव तन्नियोगजपुत्रत्वोपयोगि तत्क्षेत्रत्वं तदुद्देशेनौ-र्ध्वंदेहिकाचरणं तद्दायहरणं पत्न्याः, पत्नीपापपुण्याभ्यां पत्युर्निरयस्वर्गौचापपद्यन्ते। तत्संस्कारनाशंश्चो भयनाशादेव। संस्कारप्रयोज्यशुश्रूषादिरूपकार्यविशेषस्तु तत्सं-

स्कारोत्पत्त्यवच्छेदकशरीरावच्छेदेनैव भवति॥ न च विवाहोत्तरमपि मरणादिदोषाणां स्वत्वादि नाशकत्वं स्वीक्रियते, तादृशदानजन्यत्वाभावसत्त्वेन च कन्यात्वसत्वात् कन्यामुद्वहेदिति विधिप्राप्तौ तदनुष्ठानेन पुरुषान्तरस्वत्त्वमुत्पत्स्यत इति वाच्यम्; नष्टे मृते इत्यादेः स्मृत्यन्तरक्लृप्तत्वावश्यकत्वाभ्यां वाग्दत्ता- नियोगान्यतरपरत्वेनोत्तरं दोषाणां स्वत्वनाशकल्पकत्वाभावेन मानाभावात् नियतं दारलक्षणमित्यादिभि-विरोधाच्च। देयात्यादेव तथा स्वीकारेऽपि अनन्यपूर्विकामित्यत्र पूर्वग्रहणात् भोगनिवेशवददुष्टसम्प्रदान- कदानजन्यस्वत्वावच्छेदकशरीराविशिष्टस्यैव तत्र भवद्भिरपि निवेशनीयतयोद्वाहोत्तरं तद्विधिप्राप्तेरयो-गाद्विवाहविधित्वस्वत्वनाशकत्वबोधकत्वैतदुभयासम्भवाच्च। तथा च प्रकृतसंस्कारस्वत्वयोः सकृदु-त्पत्तौतच्छरीरावच्छेदेन पुनः पुरुषान्तरीये ते नोत्पद्येते इति सिद्धमित्युक्तम्। न चेदं दानं वाचनिकमेव, न तु स्वत्वोत्पादकं, तथा चास्वामिनाऽपि केनचिदिदं विधिनिर्वाहाय कर्तुं शक्यमिति वाच्यम्; प्रदानं स्वाभ्यकारणमितिमनूक्तोवेरोधात्। न चर्तुमत्याः स्वयंवरणविधौ प्रदानाभावेन पतिस्वत्वाभावात् संस्कारो भोगश्च न स्यादिति वाच्यम् ; तत्राऽपि यथाक्रमं पित्रादिराजान्तानुमत्यैव वरसंयोगस्य नारदादि-सम्मतत्वात्। न च नियोगस्थले प्रदानस्याभावान्नियोगकर्तृकभोगसंस्कारयोरनुपपत्तिरिति वाच्यम्; तत्स्थ-लीयभोगसंस्कारकर्तुर्मुख्यपतिप्रतिनिधि-तयामुख्यस्वत्वबलाद्भोगसंस्कारयोरुपपन्नतया तादृशप्रतिनिधि-स्वत्वानपेक्षणात्। अयं च नियुक्तकर्तृकसंस्कारो यथाविध्युपगम्यैनामित्यादिना मन्वादिषूक्तः। मिताक्षरा-कारकुल्लकभट्टाभ्यामपिपरिणयेदित्युक्त्या सूचितः। भार्यात्वं तु मुख्यनिरूपितमेवेति

बोध्यम्।न चासुरराक्षसादिविवाहे प्रदानाभावेन साङ्गसंस्कारानुपपत्तिरिति वाच्यम्; प्रदानस्य ब्राह्मादि- विवाहाङ्गत्ववद्रुदतीं रुदद्रुभ्यो हरेत् स राक्षसः इति विधिबलादपहरणस्यैव तत्र स्वत्वोत्पादकतया विवा-हाङ्गत्वात्। “ब्राह्मादिषु विवाहेषु पञ्चस्वेष विधिः स्मृतः। गुणापेक्षं भवेद्दानमासुरादिषु च त्रिषु " इति नार-दवचनात्तत्राऽपि दानसत्वाच्च। न च ब्राह्मणेन बलादपहृत्य परिणीताया विवाहे प्रदानाभावेन साङ्गसं-स्कारानुपपत्तिरिति वाच्यम्; इष्टत्वात्। अङ्गाभावेऽपि प्रधानमात्रात् संस्कारोत्पत्तौ प्रतिबन्धकाभावात्। उक्तविधकन्यात्वस्याऽपि तत्र सत्त्राच्च। स्वपरश्वः श्रेयसार्थं च पश्चात् सा पित्रादिभिर्देयैवेत्यन्यत्। प्रकृते च पूर्वपतिकृतसंस्कार एव सजातीयसंस्कारोत्पत्तिप्रतिबन्धको वर्तते कन्यात्वविरहश्चेति साङ्गसंस्कारा-नुपपत्तिः स्पष्टैव। न चैवमपि पुनर्भूपतेरस्वभोगसंस्कारयोरनौचित्यापत्तिर्वर्तत एवेति वाच्यम्; इष्टत्वात्। अत एव “सप्तविधा पुनर्भूस्तां गृहीत्वा न प्रजां न धर्मं विन्देत’ इति बौधायनवचनं संगच्छते।

ननु एवं विधवायां नागकन्यायामर्जुनादुत्पन्नस्य पुत्रस्यार्जुंनौरसत्वं महाभारते कथितं तस्य का गति-रिति चेत्, तस्यौरसपदयोगार्थत्वेनादोषात् तस्य चार्जुनपुत्रत्वाभावात्। तथाहि-महाभारते भीष्मपर्वणि चतुरशीतितमाध्याये-

“ऐरावतेन सा दत्ता अनपत्या महात्मना।
पत्यौ हृते सुपर्णेन कृपणा दीनचेतना॥
भार्यार्थं तां च जग्राह पार्थः कामवशानुगः।
एवमेष समुत्पन्नः परक्षेत्रेऽर्जुनात्मजः॥” इति ॥

अत्र परक्षेत्र इत्युक्त्यापत्यौ हृतेऽनपत्या दत्तेत्युक्त्याव
.

तस्य नियोगधर्मजत्वस्य स्पष्टत्वात्। किञ्च भवद्भिर्नष्टे मृत इत्यनेन स्वविषय ऊढायाः पुनरुद्वाहमिति कलिवज्यस्य बाधः उच्यते, सोऽपि न सम्भवति। तथाहि — “स तु यद्यन्यजातीयः पतितः क्लीब एव वा " इति कात्यायनवचने पतितक्लीब- रूपैकदेशप्रहणान्नष्टेमृत इत्यादिवाक्योपात्तानां सर्वेषामेव तुल्यन्यायेन ग्रहणमावश्यकम्। “कुलशोत्तविहीनस्य षण्डा-दिपतितस्य च” इति वसिष्ठवचने आदिपदेन वाक्यान्तरैरुपस्थितानां वृद्धत्वोन्मत्तत्वादीनां च सर्वेषामेव दोषाणां सत्प्रजोत्-पादनप्रयोजकरतीच्छापुंंस्त्वसान्निध्यैतन्त्रितयाभावव्याप्यधर्मत्वेन रूपेण ग्रहणस्य सिद्धतयाऽस्याऽपि तत्समानार्थकत्वात्, तथा सति च सकलदोषविषये कलिवर्ज्येन कात्यायनवचनं बाध्यते, कलिवर्ज्यं च नष्टे मृतं इत्यनेन स्वोपात्तदोषपञ्चव्य-क्तिविषयेण बाध्यत इति वक्तव्यम्। तथा चान्यजातीयदीर्घामयादिस्त्रीणां पुनर्विवाहो न भवेत् नष्टादिपञ्चान्य तमपति-कानां तु भवेदिति वैषम्यं स्यात्। तच्चायुक्तम्। सर्वासामेवोक्तरूपवद्दोषकस्त्रीत्वसाम्यात्। अतो नष्टे मृत इत्यत्राऽपि मुन्यन्तरवचनोक्तदोष-समुच्चयार्थकचकारसत्त्वात्सर्वासामेव तादृशदोषवत्स्त्रीणां ग्रहणं कर्तव्यम्। लाघवाच्च पूर्वोक्ता-ऽनुगतरूपेण तद्वाक्यार्थे निवेशः कर्तव्यः। तथा व विधिनिषेधयोः सर्वा शसाम्ये किं केन बाध्यताम्। निषेध एव स्वयमन्य-बाधस्वरूपत्वाद्विधेश्च परबाधनरूपत्वाभावात् विधिं बाधेत ; निषेधाश्च बलीयांस इति न्यायत्। स्वस्य च कलियुगैकविषय-त्वेन युगान्तरे विधेरवकाशं बोधयेत्। तथा च स तु यद्यन्यजातीय इत्यनेनास्यैकवाक्यत्वमपि भवति। नच स्मृतिपुराणयो-र्विरोध स्मृतिरेव बलीयसीति वाच्यम्; पुराणवचनानां दौर्बल्येऽपि निरवकाशे सावकाश-

स्मृतिबाधकत्वात्। दुर्बलप्रमाणानामपि निरवकाशत्वे सावकाशप्रबलप्रमाणबाधकत्वं स्मृत्यनवकाशदोषप्रसङ्ग इत्य-धिकरणे शारीरकसूत्रभाष्ये च स्पष्टम्। क्रतुबौधायनादिस्मृतीनामपि कलिवर्ज्यविषयकपुराणवचनसमानार्थकानां सत्वाच्च। अस्य पराशरवचनस्य पूर्वोक्तदोषैः स्वतन्त्रविधित्त्रासम्भवाद्वाग्दत्तापरत्वमेवेति त्वन्यत्। ननु वाग्दत्तापरत्वेऽपि क्लीबेचेत्यत्र चकारेण मुन्यन्तरोक्तदोषवतां समुच्चयो वक्तव्यस्तथाच पञ्चस्वापत्स्वित्यसंगतमिति चेन्न, तस्य समुच्चेय- गतदोषनिष्ठप्रकारपञ्चकबोधनार्थत्वात्। तथाहि मरणाप्रयोज्यो यः सत्प्रजोत्पादप्रयोजकानां विवाहेच्छापुंस्त्वविवाह-प्रयोजकसान्निध्यानां त्रितपस्याभावो नष्टप्रव्रजितक्लीबपतितानामनुगतो दोषः, स च त्रितयाभावस्तेषु प्रत्येकं भिन्नभिन्ना-भावप्रयोज्य इति चत्वारो दोषप्रकाराः, मृतस्य चैकः स्वतन्त्र इति मिलित्वा पञ्च दोषप्रकारास्तानेवाह पञ्चस्विति, पञ्चप्रकारास्वित्यर्थः। अयं पञ्चशब्दः प्रकारगतसङ्ख्याभिधायी, नवद्रव्याणि चतुर्विंशतिंर्गुणा इत्यादिवत्। आपत्सु स्वदुःखजनकवरदोषेष्वित्यर्थः। तत्र नष्टे तत्त्रितयाभावः सान्निध्याभावप्रयुक्तः, तेन दुष्टबोधकं नष्टपद राजबद्धादीनामुप-लक्षणम् ; त्रितयाभावप्रयोजकनिमित्तसाम्यात्। प्रव्रजितस्यैतस्त्रियाभावो विवाहेच्छाभावप्रयुक्तः, तेन प्रव्रजितपदं परि-त्यागिनां मत्तोन्मत्तानां चोपलक्षणम्, त्रितयाभावप्रयोजकनिमित्तसाम्यात्। अत एव “शूराणां निर्वृतानां च न देया कन्यका बुधैः” इति कात्यायनवचनं संगच्छते। क्लीबे पुंस्त्वाभावादेतत्र्त्रितयाभावः तेन क्लीबपदं वृद्धादीनामुपलक्षणम्, त्रित-याऽभावप्रयोजकनिमित्तसाम्यात्। पतितस्य प्रजायां स्वस्वाभावात् स्वत्त्वविशिष्टप्रजोत्पत्तिप्रयोजकतत् त्रितयाभा-

वोवर्तते। तेन पतितपदं सगोत्रान्यजातीयरोग्याश्रमान्तरगतदासादीनामुपलक्षणम्; प्रजायां स्वत्वाभावरूपस्य तत्र्त्रिया-भावप्रयोजकस्य साम्यात्। ननु मृतग्रहणं व्यर्थम्, दुष्टे मृते वरान्तरायदानस्य दोषान्तरेण सिद्धत्वात्, अदुष्टे तु मृते नो-स्त्येव वरान्तरोयदानम्, “यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः” इति मनुवचनादिति चेन्न; मत इत्यस्याचिरभा-वित्वेन निश्चितमरणक इत्यर्थात्, यस्यां म्रियेत कन्याया इति वचनस्य चाचिरभावित्वेनानिश्चितवरमरणविषयत्वेन विरो-धाभावात्। तेन मृतपदमचिरभावितया निश्चितविविधदोषवतां दीर्घामयादीनामुपलक्षणम्। तथाचोक्तरीत्या चतुरो दोष-प्रकारानुक्तरूपेणानुगमय्य तद्विशिष्टान्यत्वमचिरभावितया निश्चितसत्प्रजानुत्पादप्रयोजकधर्मकान्यत्वं च कन्यात्वशरीरे सम्प्रदानविशेषणतया निवेशनीयम्। तादृशधर्मश्च सत्प्रजोत्पादकानि यानि पुंस्त्वरतीच्छासान्निध्यानि तत्र्त्रितयाभावरूपो मरणादिसाधारणो बोध्यः। अत्रैतादृशदोषग्रहणबोधनाय प्रकारगतसंख्याबोधकं पञ्चस्विति। अन्यथा तस्य सकारस्य च वैयर्थ्यापत्तिः स्पष्टैव। एवमनुगमय्य दोषाणां निवेशे मानं तु “अलंकृत्य कन्यामुदकपूर्वां दद्यादेष ब्राह्मो विवाहस्तस्यां जातो द्वादशावरान् द्वादशपरान् पुरुषान् पुनात्युभयतः’ इत्यादिकल्पसूत्रवाक्ये दत्तायां दानीयोत्पादितद्वारकपवनस्य दानविवा-हफलत्वोक्तिः। अत एवोत्पादयिष्यमाणसन्तत्या द्वादशांवरान् द्वादशपरान् पुरुषान् पवित्रीकर्तुंमिति दानसंकल्पे धर्मप्र-जासिद्धयर्थं विवाहं करिष्ये इति विवाहसंकल्पश्च सर्वस्मार्तानां सङ्गच्छते। अधर्मप्रजायाश्च पातहेतुत्वं तत्र तत्र स्मृतिषु स्पष्टमेव। तथाच विवाहविधिवाक्यस्यो क्तार्थतात्पर्यग्राहकमेवैतत्। विधीयते इत्यस्य-

अष्टौ वर्षाण्युदीक्षेत ब्राह्मणी प्रोषितं पतिम्।
अप्रसूता तु चत्वारि परतोन्यं समाश्रयेत्॥
क्षत्रिया षट् समास्तिष्ठेदप्रसूता समास्त्रयः।
वैश्या प्रसूता चत्वारि द्वे वर्षे त्वितरा वसेत्॥
न शूद्रायाः स्मृतः काल एष प्रोषितयोषिताम्।
जीवति श्रयमाणे तु स्यादेष द्विगुणो विधिः॥
अप्रवृत्तौ तु भूतानां दृष्टिरेषा प्रजायते।
अतोन्यगमने स्त्रीणामेष दोषो न विद्यते॥

इति नारद स्मृतेः का गतिः। प्रतिपादितदोषाणां तत्राऽपि सत्त्वात्, अप्रसूता चेत्याद्युक्त्या तस्या वाग्दत्तापरत्वसम्भ-वाच्चेति चेन्न; तस्या विवाहस्वरूपताभङ्गमन्वादिवचनविरोधगौरवादिभि रुक्तदोषैर्नियोक्तव्येत्युपक्रमाच्चान्यगमन इत्युपसंहाराद्वदयमाणवसिष्ठस्मृतिसंवादाच्च नियोगपरत्वात्। तथाहि नान्यमाश्रिताबन्धुसत्वेऽन्याश्रिता स्वयं न भवेदि-त्यर्थः, किं तु बन्धुभिः सा नियोक्तव्या, निर्बन्धुश्चेज्ज्ञात्याद्याज्ञया नियोगधर्मेण स्वयमाश्रयेत्। दोषस्वरूपं वक्तुमाह, नष्टे मृत इति। समाश्रयेन्नियोगधर्मेणाश्रयेदित्यर्थः। ब्राह्मण्यादीनां प्रतीक्षाकालतारतम्यं तु सत्वरजआदिगुणन्यूनाधिकभाव- निबन्धनम्। जीवन्त्वश्रवणे प्रतीक्षाकालद्वैगुण्यं च तदागमनप्रत्याशया। सर्वत्राऽप्रसूताया न्यूनप्रतीक्षाकालोक्तिस्तु तस्याः पुरुषागमनजन्यरोगादिशंकया एवं प्रसूताया अपि नियोगोक्तिः पुत्ररहितापरा।

“द्वितीयमेके प्रजनं मन्यन्ते स्त्रीषु तद्विदः”

इति मनुस्मरणादेकपुत्रापरा वा। अप्रवृत्ताविति। धर्मार्थप्रतिबन्धवशात्पतिसकाशं गमनाप्रवृत्तौ त्वित्यर्थः। “दृष्टिदर्श-

नम्। “एषा” परसमाश्रयणरूपा। “अतः” धर्मार्थप्रतिबन्धप्रयुक्तप्रवृत्त्यभावात्। “एषः’ लोके व्यभिचारित्वेन प्रसिद्धः। तथाच दायप्रकरणे “नियुज्यादित्येके” इत्यनेन नियोगमुक्त्वा तदकरणे प्रत्यवायसूचनाय पुत्रोत्पादप्रतिबन्धे दोषं बोधयन् पतिक-रणे वक्ष्यमाणकालप्रतीक्षामुद्देष्टुं च “कुमार्या” इत्युक्त्वा वसिष्ठोऽप्येनमेव परतोन्यं समाश्रयेदित्यादिनारदवचनार्थमनु-गृह्णाति। “प्रोषितपत्नी पञ्चवर्षाण्युदीक्षेतोर्ध्वं पञ्चभ्यो वर्षेभ्यो भर्तृसकाशं गच्छेद्यदि धर्मार्थाभ्यां प्रवासमनुकामा न स्याद्यथा मृत एवं वर्तितव्यं स्यात्। एवं ब्राह्मणी पञ्च प्रजाताऽप्रजाता चत्वारि, राजन्या प्रजाता पञ्चाप्रजाता त्रीणि, वैश्या प्रजाता चत्वार्यप्रजा द्वे, शूद्रा प्रजाता त्रीण्यप्रजातैकमत ऊर्ध्वं समानार्षजन्मपिण्डोदकगोत्राणां पूर्वः पूर्वोगरीयान् न खलु विद्यमा-ने कुलीने परगामिनी स्यादस्य पूर्वेषां षण्णां न कश्चिद्दायादः स्यात्सपिण्डाः पुत्रस्थानीया वा तस्य धनं विभजेरन् " इत्यनेन। इदं च नियोगपरम्। औरसादिपुत्राणामंशमुक्त्वा मृतपत्नीविषयेऽशभाक्त्वाय नियोगजन्त्रुकथनेन नष्टविषयेऽपि तादृश-तात्पर्यकत्वकल्पनस्यैवावश्यकत्वात्। परगामिनीत्यक्षरस्वरसाच्च। अत्र परत्वं चातिदेशा नपेक्षं बोध्यम्। वसिष्ठनारदयोः कालभेदस्तु अवस्थाभेदाभिप्रायेण योजनीयः। अत्र पतिग्रहणन्तु तस्य मृतस्य कृतशलाशविधेः पत्न्या नियोगसूचनाय। पञ्चस्विति तु नष्टे मृत इत्यादीनां मिथो विशेषणविशेष्याभावशङ्का निवारणाय। अत्र चकारेण पूर्वोक्त सूत्राऽनुरोधादनुगत-रूपेण दोषमात्रग्रहणं बोध्यम्। अत एव नारदेनैतत्समानार्थेऽज्ञातदोषेणोढाया इत्यत्र दोषत्वेन दोषोरन्यासः कृतः। अथ नष्टे मृत इत्यादेः पराशीयस्य वाग्दत्तापर-

त्वेऽवान्तरप्रायश्चित्तप्रकरणसंगतिः कथमिति चेच्छ्रुण। तथा हि परिवेदनस्थले ज्येष्ठभ्रात्रे दत्वा पुनः कन्याग्रहणं कर्त-व्यमित्ययुक्तम्, दत्ताया ग्रहणायोगादिति वक्तुमयोग्यम्। तस्याः कन्याया दानयोग्यताप्रयोजकस्योदूढत्वरूपदोषस्य सत्त्वेन सा दत्ताऽप्यदत्तेवेति पुनः संस्कारेण तद्ग्रहणस्योचितत्वात्। ज्येष्ठाय दानं तु परिवेदनदोषनिवारणाय तथा भाव-नामात्रमेवेति वस्तुस्थितिः। तथा च परिवेदनस्थले वसिष्ठाद्युक्तम् पुनर्विवाहं सूचयितुं देयदोषे दत्तस्याऽप्यदत्तत्वं च सूचयितुमूढाऽपि देया चान्यस्मा इत्यादिवचनसिद्धस्य वाग्दत्तास्थले सम्प्रदानदोषे दत्तस्याऽप्यदतत्वस्य दृष्टान्तविधया-ऽनुवादः कृत इति संगतिः स्पष्टैव। अपुत्राऽपि दिवं व्रजेदिति एवं पतिं समुद्धृत्येति च पराशरोक्तः पत्युः स्वस्य च नर-कपतनप्रयोजकदोषध्वंसकतया जन्मजन्मान्तरीयवैधव्यप्रयोजकपातकनाशकतया च प्रायश्चित्तरूपं ब्रह्मचर्यं प्रकरण-प्राप्तत्वाद्विधवानां विधत्त इत्युत्तरग्रन्थसंगतिः। अत्र ब्रह्मचर्यं ब्रह्मणि वेदे गृह्यमाणे यच्चर्यते, तच्च -

“एकाहारः सदा कार्यो न द्वितीयः कदाचन।
पर्यङ्कशायिनी नारी विधवा पातयेत्पतिम्॥”

इत्यादिगोतमाद्युक्तं ग्राह्यम्। ब्रह्मचर्यस्य प्रायश्चित्तत्वं तु पुन्नामनरकप्रयोजकपापनिवर्तकत्वात्। मिताक्षरायामपि प्रायश्चित्तप्रकरणे “गोष्ठे वसन्ब्रह्मचारी मासमेकं पयोव्रतः” इत्यनेनान्यत्र ब्रह्मचर्यस्य प्रायश्चित्तत्वं स्पष्टमेवोक्तम्। तदेव-मुक्तरीत्या नारदस्मृतेर्नियोगपरत्वे सिद्धे तत्समानश्रुतिकत्वान्नियोगानुवादकत्वेन लाघवाच्च पराशरस्मृत्यन्तर्गतस्याऽपि नष्टे मृत इत्यस्य नियोगबोधकत्वमेव माधवस्य मतम्। एतन्मते च पतिः पतिकार्य-

कारीत्यर्थः। पताविति तु पतित्वेनाख्याते। पतित्वकार्यकारिणीत्यर्थकम्। शेषं पूर्ववत्। यद्यपि अपूर्वविधित्वेऽपि पूर्वो-क्तरीत्या कलिवर्ज्यवचनेनैतस्य बाधः सम्भवति, तथाऽप्यवान्तरप्रकरणासंगत्या पूर्वोक्तदोषजातेन च नैतन्माधवस्या-भिमतम्। नचैवमवान्तरमहाप्रकरणयोरसंगतिरिति वाच्यम् ; पूर्वं परिवेदनस्थले प्रायश्चित्तत्योक्ततया तत्र वासिष्ठादि-बोधितपुनर्विवाहप्राप्तौ कलियुगे तदभावसूचनार्थं कलियुगेऽनभिमतस्य नियोगस्य दृष्टान्तविधयाऽनुवादात्। तस्य च दृष्टान्ततया दार्ष्टान्तिकपुनर्विवाहाभावविशिष्टपरिवेदनप्रायश्चित्तवाक्यैकवाक्यत्वादवान्तरप्रकरणे सम्बन्धे तद्वारा महा-प्रकरणसम्बन्धात्। पर्याधानस्य मध्ये उक्तिस्तु परिवेदनप्रायश्चित्तसाम्यात्। माधवाचार्यास्तु निषिद्धयोरपि परिवेदन- पर्याधानयोर्ज्येष्ठाभ्यनुज्ञया कर्तव्यतां निषिद्धस्य गुर्वाद्यभ्यनुज्ञावशात्कर्तव्यस्य नियोगस्य दृष्टान्तेन कथयन्तीति प्राहुः। अत एवाभ्यनुज्ञां दर्शयतीत्युक्तम्। विधित्क्तात्पर्ये तु पुनरुद्वाहं वदेत्। गुर्वाद्यभ्यनुज्ञा च नारीभिरित्यनुक्त्या सूचितेति प्रागेवोक्तुं न विस्मर्तव्यम्। नियोगस्वाभ्यनुज्ञाधीनत्वं तु नियुक्ता गुरुभिर्गच्छेदिरयादिना स्मृतिषु स्पष्टमेव। औरसः क्षेत्रजश्चैवत्या दिवाक्येन क्षेत्रज औरस एवेति नियमकरणात्। कलियुगे नियोगः पराशरेण निषिद्ध इति त्वन्यत्। ननु नारदस्मृत्युक्तो नियोग एवा नेन कलियुगेऽस्तीति बोध्यताम्, अव्यवधानाच्च परिवित्तिस्थिले वसिष्ठायुक्तः पुनर्विवाहो-ऽप्यस्तीति बोध्यतामिति चेन्न; अव्यवधानमात्रण तत्र विवाहसच्चाबोधनात्, साक्षान्महाप्रकरणसम्बन्धेऽबान्तरप्रकरणद्वारा तत्सम्बन्धे चावृत्तिप्रसङ्गात्, तद्वारैव महाप्रकरणसम्बन्धे नियोगे कलिसम्बन्धबोधनायोगात् कथं चि-

त्कलौ तेन नियोगस्य प्राप्तावपि भवच्चिकीर्षितविधवाविवाहस्यासिद्धेः। किञ्च कलियुगे नियोगोऽपि न सिध्यति, येन भिक्षुपादप्रसरणन्यायेन विधवाविवाहो भवद्भिः कर्तुं शक्यते; तस्य कलौ निषेधात्। तथाच क्रतुः-

“देवरेण सुतोत्पत्तिर्दत्ता कन्या न दीयते।
न यज्ञे गोवधः कार्ये कलौ न च कमण्डलः॥”

अत्र देवरेण सुतोत्पत्तिरित्यनेन नारदवसिष्ठोक्तो विधवानियोगो निषिध्यते। दत्ता कन्या न दीयत इत्यनेन तु यस्या म्रियेत कन्याया इत्यादिमनुवचनसिद्धो नियोगो निषिध्यते। बौधायनोऽपि-

” विधिर्योऽनुष्ठितः पूर्वं क्रियते नेह साम्प्रतम्।
पुराकल्पे स एतच्च विधवाया नियोजनम्॥”

इति। एवमूढायाः पुनरुद्वाहमिति वचनमप्यूह्यम्। तत्रोढापदं वाग्दत्तापरं पूर्वोक्तयुक्त्या बोध्यम्। पुनरुद्वाहपदं पुनःसंस्कारपुनरुपनयनपुनराधानादिशब्दवद्रूढ्या नियोगबोधकम्। ऊढायाः पुनरुद्वाहमित्यत्र पुनःपदोपादानात्। तथाच नियोगविधेर्नियोगनिषेधस्य च समविषयतायां निषेधाश्च वलीयांस इति न्यायाद्यगान्तरे चरितार्थं विधिं निषेधः स्वयमचरितार्थत्वाद्युगान्तरविषयकत्वासम्भवाच्च बाधते। नन्वेवं पुनरुद्वाहमकृत्वा ब्रह्मचर्यव्रतानुष्ठाने श्रेयोऽतिशयं दर्शयतीत्येतन्नोपपद्यते; कलियुगे नियोगस्याऽनभिमतत्वेन नियोगरूपपुनरुद्वाहब्रह्मचर्योपयस्य कलियुगेऽप्रसक्त्या ब्रह्मचर्यस्य कलियुगप्रसक्तापेक्षया श्रेयोऽतिशयाभावायुगान्तरप्रसक्तापेक्षया च श्रेयोऽतिशयप्रदर्शने उपयोगाभावा-दिति चेन्न; युगान्तरे यत्रोभयं प्राप्तं तत्र नियोगरूपपुनरुद्वाहो नातिश्रेयस्करः,

किं तु ब्रह्मचर्यमेव। तथाच यो धर्मो युगान्तरेऽप्यतिशयितश्रेयोहेतुत्वेन सिद्धः स एव कलावनुष्ठेय इति बोधाय तथोक्तेः। दृष्टान्ततयोपन्यस्तस्य नष्टादिपतिकानियोगस्य युगोन्तरविषयत्वात्कलौ नष्टादिपतिकाभिः किं कर्तव्यमिति चिन्तायां युगान्तरातिशयितत्वेन सिद्धस्य ब्रह्मचर्यस्य विधानमित्यभिप्रायः। न च परिवेदनस्थले पुनर्विवाहाभावस्याचार्याभिमतत्वे “प्रायश्चित्ताचरणान्तरं परिवेत्तुः कर्तव्यमाह वसिष्ठः” इति माधवोक्तिर्न सङ्गतेति वाच्यम्; विवाहप्राप्त्यभावेऽनभिमत-त्वसूचनायोगेन तत्प्राप्तिबोधनायैव तथोक्तेरिति माधवमतनिष्कर्षः। एवं पराशरीयनष्टेमृत इत्यस्य व्याख्याभेदेऽपि फलतो नन्दपण्डितमाधवयोरैक्यमेव। माधवमते ‘स तु यद्यन्यजातीयः, इति ‘कन्याया’ इति कात्यायनादिस्मृतिभिर्वाग्द-त्तास्थले दोषस्वरूपबोधनान्नन्दपण्डितमते च नारदादिस्मृतिभिर्नियोगस्य बोधनाद्दोषस्वरूपनियोगैतदुभयबोधनस्यो-भयोरपि सिद्धत्वात्। एतेन कन्यात्वशरीरेऽन्यसंस्कृतत्वाभावघटकान्यांशे क्लीबाद्यतिरिक्तत्वनिवेशतात्पर्यग्राहकमे-वेदम, तेन नापूर्वविधिप्रयुक्तं गौरवमिति परास्तम्। वाग्दत्ताया विवाहतदभावविधायकस्मृतीनां दण्डविधायक नारद-स्मृतिसहकारेण दुष्टादुष्टभेदेन व्यवस्थाया वक्तव्यतया तत्र चानुगत रूपेण दोषस्वरूपाणां जिज्ञासितत्वाल्लाघवाच्च तत्स्वरूपबोधकत्वकल्पनस्यैवौचित्यात्तदुबोधनेन माधवमते क्लृप्तनियोगाऽनुवादेन च नष्टे मृत इत्यस्योपक्षीणतया तादृशसंकोचकल्पने मानाभावात्। नियतं दारलक्षणमित्यादिस्मृतिवैयर्थ्यापत्तेश्च। ‘संस्थितं च न लङ्घयेत्, सकृत्कन्या प्रदीयते, इत्याद्युपोद्वलिततया ‘नैका हौ पती विन्दते’ इति श्रुत्या विरोधाच्च क्लीबादिविषये “यस्तल्पजः प्रमीतस्य क्लीब-

स्य व्याधितस्य च” इत्यादिना मन्वादिषु नियोगस्यापि श्रवणात् स्वत्वसंस्कारनाशयोः सामग्र्या इच्छाघटितत्वस्य वक्त-व्यत्वापत्तेश्च, क्लीबोन्मत्ताद्यूढस्त्रीणामन्यपुरुषपरिग्रहे पुनर्भूत्वप्रतिपादकोक्तवसिष्ठस्मृतिविरोधाच्च, सप्तपद्युत्तरं प्रव्रजितत्वादिदोषोत्पत्तिस्थले सप्तपद्याः प्राग्वर्तिदोषवद्भिन्नसम्प्रदानकदानकर्मत्वसत्त्वेन भवदभिमत-पुनर्विवाहानुपपत्तेश्च दोषे सप्तपदी प्राग्वर्तित्वानिवेशे प्रव्रजितत्वादिभावित्वनिश्चये पत्युरप्रव्रजितत्वादौ सति सप्तपद्युत्तरं विवाहापत्तेश्च। एवं विवाहोत्तरं क्षतयोनेर्नष्टादिपतिकोया भवदभिमतविवाहानुपपत्तिश्च। विवाहात्पूर्वं केनचित्क्षते तस्मिंश्च प्रव्रजिते ततोऽन्येन विवाहे तस्याःपुनर्भूत्वाऽनुपपत्तिश्च। प्रव्रजितादिपत्यन्यत्वं तु निवेशयतुमशक्यमेव ; क्षतपुनर्भ्वाः पत्युरेवाभावेन प्रव्रजित-पत्यन्यस्याप्रसिद्धतया त्वदुक्तत्वस्यासम्भवादित्यलम्। तस्मात्पूर्व विधेरप्राप्ते-र्विध्यन्तराभावादुक्तवचनविशेषाच्च नष्टादि-पतिकानां विवाहः शास्त्रासिद्धो विरुद्धश्च। अत एव न क्वापि धर्मशास्त्रे दायप्रकरणे पत्यन्तरपरिगृहीतानां दायनिषेधः कीर्तितो, न वा तदुत्पन्नापत्यानामेकमातृ-कत्वादिसम्बन्धप्रयुक्तो नामविशेषः सापत्नभ्रातेतिवत्, न च क्वापि पुराणेति-हासकाव्यादावेवंविधाः स्त्रियः श्रूयन्ते, न चाप्यनादिपारम्पर्यायातैतिह्यमध्ये तथाविधस्त्रीविषयकमैतिह्यमेकमप्यस्तीति व्यर्था एव तत्प्रसाधनाय पुनर्विवाहाभावे प्रमाणाभावादित्याद्याः प्रलापाः॥ इति ॥

[उक्तप्रबन्धसमालोचनम्]

अत्र नष्टे मृते इत्यस्य वाग्दत्तापरत्वमिति नन्दपण्डितरीत्या, नियोगपरत्वमिति च माधवाचार्य-
रीत्या यद्वर्णितम्, तत्र पूर्वमस्माभिः कृष्णम्भट्टीयानुसारेण माध-

वाचार्यस्यैव प्रायश्चित्ताध्यायोपसंहारगतवाक्यस्यानुसारेण च माधवाचार्याणामपि नन्दपण्डितानामेवाऽऽशय इति विवे-चितमित्येकं वैलचण्यम्। अत्र हि नियोगपरत्वमेव विवक्षितमित्यत्र हि निमित्तमूढायाः पुनरुद्वाह इतिवचनोपष्टम्भ एव ग्रन्थकाराणामभिमतः। अस्य तु वचनस्य दत्तायाः पुनर्दानपरत्वस्य विवक्षायामपि नानुपपत्तिः। वस्तुतस्तु – युगान्त-रीयविवाहानन्तरविधवाविवाहस्यैव पुनरुद्वाहपदेनात्र विवक्षायामपि पराशराचार्येणात्र कलिधर्मो न विवचित इत्येव माधवाचार्यसम्मतमिति पूर्वमेव विवेचितमिति न दोषः। यथा हि नियोगपरत्वेऽपि तस्य कलिवर्ज्यत्वेन युगान्तरवि-षयत्वमेव साध्यते, एवमक्षतयोनिपुनर्विवाहोऽपि कलिवर्ज्योऽत्र विवक्ष्यत इति वर्णने न कोऽपि दोषः। विद्यासागर-महोदया अपि हि नियोगस्य विवाहरूपत्वमङ्गीकुर्वाणाः मन्वादिभिरपि नियोग एव निषिद्धो न तु विधवाविवाह इत्येव खलु वदन्ति। तथा चोढाया पुनरुद्वाह इत्यादीनामपि नियोगपरत्वे विधवाविवाहस्यापि कथं न निषेधः कलौ ? नहि युगान्तरे नियोग एव शास्त्रप्राप्त आसीत् नान्यकर्तृकविवाहोऽपीति व्यवस्था समुचिता भवति। अन्यथा हि — ऊढायाः पुनरुद्वाहं ज्येष्ठांशं गोवधं तथा। कलौ पञ्च न कुर्वीत भ्रातृजायां कमण्डलुम्’ इत्यादित्यपुराणे भ्रातृजायामित्यस्यस्य पौनरुक्त्यमापद्येत। व्यवस्थापितं हि वीरमित्रोदयेऽन्यकर्तृकोऽपि विधवाविवाहो युगान्तरसिद्ध इति। तत्र तदनुकूलत-याऽभिमतानि प्रमाणानि यथाः-

मृते भर्तरि या नारी त्यक्तवत्यथ तं स्वयम्
सवर्णाज्जनयेद्गर्भं भर्तुः पौनर्भवं सुतम्।
यदि सा बालविधवा बलान्यक्ताऽथवा क्वचित्

तदा भूयस्तु संस्कार्या गृहीता येन केन चित्।
स्त्रीणां पुनर्विवाहस्तु देवरात् पुत्रसन्ततिः
स्वातन्त्र्यं वा कलियुगे न कर्तव्यं कदाचन॥

इति ब्रह्मपुराणवचनानि। अत्र कलिवर्ज्यप्रकरणगतानिदत्ताक्षतायाः कन्यायाः पुनर्दानं परस्य च - इति बृहन्नारदी-यवचनम्, “बालिकाक्षतयोन्योश्च वरेणाऽन्येन संस्कृतिः” इति धर्मसमयगतं वचनञ्चान्यथाऽनुपपन्नं सदप्यत्र प्रमाणता- मर्हति। तथा च पुनर्विवाहो नियोगातिरिक्तोऽपि युगान्तरे आसीदिति कल्पनं कथमपि विद्यासागरमहोदयानामपि न दुष्टम्। इदमेवात्र विचारणीयम् - युगान्तरीयधर्मस्य कलिधर्मत्वमपि सम्भवति वा न वेति ? यथा च पराशरस्मतेरपि कलिवर्ज्यप्रकरणबाधकत्वं न सम्भवति, तथा पूर्वमेव विवेचितम्। एतेन- नारदादिस्मृत्यन्तरगतानि अष्टवर्षप्रतीक्ष-णादिपराण्यपि वाक्यानि – व्याख्यातानि। यद्यपि पूर्वं तस्यान्यथोपपत्तिरुपवर्णिता, तथापि यथाश्रुतयोजनायामपि न काऽप्यनुपपत्तिरित्यत्रोपवर्ण्यते। यदा हि पराशर स्मृतेरपि कलिवज्येप्रकरणाबाधकत्वं तदा कैव कथा नारदस्मृतेः। न हीदानीन्तना अपि नियोगस्य यथाशास्त्रमनुष्ठेयत्वमभिप्रयन्ति। अभिप्रयन्तोवाऽपि शक्नुवन्ति। तथा च विधवोद्वाहशा-स्त्रीयताव्यवस्थापनमभिलषतां विद्यासागरमहोदयानामपि नियोगधर्मत्वस्थापनेन तात्पर्यम्। स्पष्टं हि तैरेव नियोगा-धर्मत्वं तदनुष्ठानाशक्तिश्च बृहस्पतिवचनानुसारेण निरूपितम्। तानीमानि बहस्पतिवचनानि।
तद्यथाः-

उक्तो नियोगो मनुना निषिद्धः स्वयमेव तु।
युगह्रासादशक्योऽयं कर्तुमन्यैर्विधानतः॥

तपोज्ञानसमायुक्ताः कृतत्रेतादिके नगः।
द्वापरे च कलौ नृणां शक्तिहानिर्हि निर्मिता॥
अनेकधा कृताः पुत्रा ऋषिभिर्ये पुरातनैः।
न शक्यास्तेऽधुना कर्तुं शक्तिहीनैरिदन्तनैः॥ इति ॥

आर्यसमाजीयास्तु नियोगविधीनपि विधवाविवाहधर्मतायाः प्रमाणतायां मन्यन्ते। तदिदन्तु विद्यासागरमहोदयैरेव
खण्डितम्।

[नियोगस्य द्विजे तरविषयक्त्वे बोल क्रीड़ा]

अत्रावसरे प्रसङ्गात् नियोगोऽयं द्विजेतरविषय एव, न द्विजविषयोऽपीत्यत्र याज्ञवल्क्यस्मृति व्याख्याया विश्वरूपाचार्यकृताया बालक्रोड़ाया अपि वाक्यानि सर्वेषां पुरत उपस्थापयामः। तद्यथा- “अत्र चोदयन्ति- नायं नियोगपक्षः श्रेयान्; स्मृत्याचारविरोधात्। तथा च मनु- नान्यस्मिन् विधवानारी नियोक्तव्या द्विजातिभिः। अन्यस्मिन् हि नियुञ्जाना धर्म हन्युः सनातनम् - इति। पुराकल्पे चोपन्यस्योपसंहृतम् – तदा प्रभृति यो मोहात् प्रमीतप-तिकां स्त्रियम्। नियोजयत्यपत्यार्थे तं विगर्हन्ति साधवः। इति॥ अतो नास्ति नियोगः। तथा च शिष्टाचारः। नन्वियमपि स्मृतिरेव अपुत्रां गुर्वनुज्ञातामिति। मानवेऽपि - देवराद्वा सपिण्डाद्वा स्त्रिया सम्यङ् नियुक्तया – इत्यादि। न चेयं लोभादि-मूलिकेति शक्यते वक्तुम् ; सर्वथा विकारप्रतिषेधात्। तदुक्तम्- घृताभ्यक्तः- इति। मनुनापि च – विधवायां नियुक्तस्तु घृताक्तो वाग्यतो निशि– इति। अतो नेयमपस्मृतिः। अथ श्वशुरधनादीच्छया लोभ आशङ्क्यते, तदपि - प्रजेप्सिताऽधि-गन्तव्या सन्तानस्य परि क्षये-इत्यनेनैव निरस्तम्। तथा चोक्तम्– पतितौ भवतो गत्वा

नियुक्तावप्यनापदि- इति। वसिष्ठेनापि – धनलोभान्नास्ति नियोगः- इति। अतो निर्दोषः। शास्त्रविशेषात्तु प्रतिषेधो विकल्-पाय भवति। अतो न विरोधः। अन्ये तु प्राग्विवाहादुपरते भर्तरि नियोगाधिकारं वर्णयन्ति सामान्यविशेषोपसंहृतिन्यायात्। यथाह मनुः – यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः। तामनेन विधानेन निजो विन्देत देवरः - इति। तत्तु - विधवायां नियुक्तस्तु इत्यनेनैव निरस्तम्। ननु च सापि विधवेति वक्तुम् शक्यम् ? न; स्मृत्यन्तरविरोधात्। यथाह वसिष्ठः- प्रेतपत्नी षण्मासं व्रतचारिणीत्युपक्रम्य ‘पित्रा भात्रा वा नियोगं कारयेदिति। नन्वनूढापि प्रेतेपत्यौ प्रोतप-त्न्येव, नैवम्; नहि प्राग्विवा-हात् पत्नीशब्दप्रवृत्तिरिति। एवं हि भगवतः पाणिनेः स्मरणम् - पत्युर्नो यज्ञसंयोगे- इति, अतोऽसत्कलपनम् ; उपक्रमोप-संहारात्। कथन्तर्हि – यस्याः म्रियेत कन्यायाः – इत्ययं श्लोकः। आसुरविवाहविषयतया व्याख्येयः। यस्याः कन्यायाः शुक्लं दत्वा शुलकदो म्रियते, सा यदीच्छेत्, ततो देवराय पूर्ववत् प्रदातव्या। न चेन्नियोगं देवरेण न कारयेत्। यद्वा निजो विन्देत देवरः इति निजग्रहणात् सोदर्यो देवरोऽनेनैव विधिना नैयोगिकेन वैवाहिकेन वा विन्देतैव। सापत्नस्तु कन्यानुमतः। तथा चाह – कन्यायां दत्तशुल्कायां म्रियेत यदि शुल्कदः। देवराय प्रदातव्या यदि कन्याऽनुमन्यते - इति। यदा त्वदत्त-शुल्क एव म्रियेत, तदा तस्मिन् प्रते कुमार्येव सतीच्छयाऽन्यस्मै पित्रा विधिवद्दया। यथा- ह वसिष्ठः – अद्भिर्वाचा च दत्तायां म्रियेतादौ वरो यदि। न च मन्त्रोपनीता स्यात्कुमारी पितुरेव सा - इति। आदाविति वचनात् विवाहसन्निधौ वाग्दत्ताऽप्यकन्यकेति ज्ञायते। अतो न कन्या-

विषया नियोगस्मृतिः। कस्तर्हि विषयः। प्रते पत्यौ \। सन्तानपरिक्षये च। प्रतिषेधसामर्थ्याच्च विकल्पः। तथा चाम्नायः -
तस्मादेवस्थ बह्व्यो जाया भवन्ति, नैकस्यै वहवः सहपतयः- इति। सहप्रतिषेधाच्च

क्रमेण भवन्तीति ज्ञायते। तथा - यस्मै मां पिता दद्यात् नैवाहं तं जीवन्तं हास्यामीति जीवन्नहानवचनाच्च मृते भर्तरिनियोगोऽस्तीति ज्ञायते। “को वा शयुत्रा विधवेव देवरं मर्यं न योषा कृणुते सधस्थ " इत्यस्मान्मन्त्रवर्णात् स्पष्टतरो नियोगः। एवं हीन्द्रेण दृष्टावश्विनावुक्तौ– “दुर्दशौ युवां क्व पुनर्विधवेव योषां देवरं मर्यं मनुष्यभावं शयने। हर्षस्थाने आपादयन्ती कश्चिदाकुरुते वाम्,, उपचरतीत्यर्थः। अनेन नियोगं स्पष्टोकरोति। तथाच वसिष्ठः- प्राजापत्ये मुहूर्ते पाणिग्रहणदुपचरेत् इति। अतोऽनव- द्यो नियोगः। अत्रोच्यते नैवं नियोगस्मृतिर्व्याख्येया; समाचारविरोधात्, विकल्पस्य चान्याय्यत्वात्। कथन्तर्हि ? शूद्राविषया नियोगस्मृतिः। कुत एतत् ? मनुवचनात्। “नान्यस्मिन् विधवा नारी नियोक्तव्या द्विजातिभिः” इति द्विजातिसम्बद्धः प्रतिषेधः। सामान्यतः शूद्र- सम्बन्धितया विधिः। तस्मादविकल्पः। तथाः चोक्तम् “अयं द्विजैर्हि विद्वद्भिः पशुधर्मो विगर्हितः। मनुव्याणामपि प्रोक्तो वेने राज्यं प्रशासति” इति॥ मनुष्याणामपि शद्राणामपीत्यर्थः। तथाच समाचारः। यत्पुनर्व्यासेन विचित्रवीर्यभार्यास्वपत्यो-त्पादनम्, तदुद्रौपदीविवाहवदनादरणीयम्। अथवा क्षत्रियाणामप्यन्वयक्षये राज्यपरिपालनाय नियोगोऽभ्यनुज्ञायते। सच राज्ञामेव कार्यानुरोधात्, व्यासवचनाच्च। राज्ञां

नियुक्तावप्यनापदि - इति। वसिष्ठेनापि – धनलोभान्नास्ति नियोगः– इति। अतो निर्दोषः। शास्त्रविशेषात्तु प्रतिषेधो विक-ल्पाय भवति। अतो न विरोधः। अन्ये तु प्राग्विवाहादुपरते भर्तरि नियोगाधिकारं वर्णयन्ति सामान्यविशेषोपसंहृतिन्यायात्। यथाह मनुः – यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः। तामनेन विधानेन निजो विन्देत देवरः- इति। तत्तु -विधवायां नियुक्तस्तु इत्यनेनैव निरस्तम्। ननु च सापि विधवेति वक्तुम् शक्यम् ? न; स्मृत्यन्तरविरोधात्। यथाह वसिष्ठः- प्रेतपत्नी षण्मासं व्रतचारिणीत्युपक्रम्य ‘पित्रा भात्रा वा नियोगं कारयेदिति। नन्वनूढापि प्रेतेपत्यौ प्रेतपत्न्येव, नैवम् ; नहि प्राग्विवा-हात् पत्नीशब्दप्रवृत्तिरिति। एवं हि भगवतः पाणिनेः स्मरणम्- पत्युर्नो यज्ञसंयोगे- इति, अतोऽसत्कल्पनम्; उपक्रमोपसं-हारात्। कथन्तर्हि – यस्याः म्रियेत कन्यायाः- इत्ययं श्लोकः। आसुरविवाहविषयतया व्याख्येयः। यस्याः कन्यायाः शुक्लं दत्वा शुलकदो म्रियते, सा यदीच्छेत्, ततो देवराय पूर्ववत् प्रदातव्या। न चेन्नियोगं देवरेण न कारयेत्। यद्वा निजो विन्देत देवरः इति निजग्रहणात् सोदर्यो देवरोऽनेनैव विधिना नैयोगिकेन वैवाहिकेन वा विन्देतैव। सापत्नस्तु कन्यानुमतः। तथा चाह – कन्यायां दत्तशुलकायां म्रियेत यदि शुल्कदः। देवराय प्रदातव्या यदि कन्याऽनुमन्यते– इति। यदा त्वदत्तशुल्क एव म्रियेत, तदा तस्मिन् प्रते कुमार्येव सतीच्छयाऽन्यस्मै पित्रा विधिवद्देया। यथाह वसिष्ठः – अद्भिर्वाचा च दत्तायां म्रिये-तादौ वरो यदि। न च मन्त्रोपनीता स्यात्कुमारी पितुरेव सा - इति। आदाविति वचनात् विवाहसन्निधौ वाग्दत्ताऽप्यकन्य-केति ज्ञायते। अतो न कन्या-

विषया नियोगस्मृतिः। कस्तर्हिविषयः। प्रेते पत्यौ। सन्तानपरिक्षये च। प्रतिषेधसामर्थ्याच्च विकल्पः। तथा चाम्नायः तस्मादेकस्थ बव्ह्यो जाया भवन्ति, नैकस्यै वहवः सहपतयः - इति। सहप्रतिषेधाच्च क्रमेण भवन्तीति ज्ञायते। तथा - यस्मै मां पिता दद्यात् नैवाहं तं जीवन्तं हास्यामीति जीवन्नदानवचनाच्च मृते भर्तरिहनियोगोऽस्तीति ज्ञायते। “को वा शयुत्रा विधवेव देवरं मयं न योषा कृणुते सधस्थ " इत्यस्मान्मन्त्रवर्णात् स्पष्टतरो नियोगः। एवं हीन्द्रेण दृष्टावश्विनावुक्तौ – “दुर्दशौ युवां क्व पुनर्विधवेव योषा देवरं मर्यं मनुष्यभावं शयने। हर्षस्थाने आपादयन्ती कश्चिदाकुरुते वाम्,, उपचर-तीत्यर्थः। अनेन नियोगं स्पष्टोकरोति। तथाच वसिष्ठः- प्राजापत्ये मुहूर्ते पाणिग्रहणदुपचरेत् इति। अतोऽनवद्यो नियोगः। अत्रोच्यते— नैवं नियोगस्मृतिर्व्याख्येया; समाचारविरोधात्, विकल्पस्य चान्याय्यत्वात्। कथन्तर्हि ? शूद्राविषया नियोग-स्मृतिः। कुत एतत् ? मनुवचनात्। “नान्यस्मिन् विधवा नारी नियोक्तव्या द्विजातिभिः” इति द्विजातिसम्बद्धः प्रतिषेधः। सामान्यतः शूद्र सम्बन्धितयां विधिः। तस्मादविकल्पः। तथाः चोक्तम् “अयं द्विजैर्हि विद्वद्भिःपशुधर्मो विगर्हितः। मनु-ष्याणामपि प्रोक्तो वेने राज्यं प्रशासति” इति॥ मनुष्याणामपि शद्राणामपीत्यर्थः। तथाच समाचारः। यत्पुनर्व्यासेन विचित्रवीर्यभार्यास्वपत्योत्पादनम्, तद्द्रौपदीविवाहवदनादरणीयम्। अथवा क्षत्रियाणामप्यन्वयक्षये राज्यपरिपालनाय नियोगोऽभ्यनुज्ञायते। सच राज्ञामेव; कार्यानुरोधात्, व्यासवचनाच्च। राज्ञां ब्राह्मणेनैव कारयितव्यम्। एवं च सत्याम्नाया अपि क्षत्रियविष-

याः। एवं “नैवाहं जीवन्तं हास्यामि” इति। “नैकस्यै बहवः सहपतयः” इति तु पुनःसंस्कारविषयम्। तत्र मुख्यः पतिशब्दः। मन्त्रवर्णस्तु शूद्रविषय एव व्याख्येयः। एवं देवरादिवाक्यान्यन्यान्यपि व्याख्येयानि। तथाच वृद्धमनुः — शूद्राणामप्यधर्मोऽ

यंःपत्यौ प्रेतेऽन्यसंश्रयः। लोभान्मूढैरविद्वद्भिः क्षत्रियैरपि चर्यते— इत्युक्त्वाह— वायुप्रोक्तां तथा गाधां पठन्त्यत्र मनीषिणः। विप्राणां न नियोगोऽस्ति प्रेते पत्यौ न वेदनम् – इति। इयं सा गाधा— अकार्यमेतद्विप्राणां विधवा यन्नियुज्यते। ऊह्यते वा मृते पत्यो देवरेण विशेषतः— इति। कथमिदानीमेतद्वसिष्ठवचनम्— भ्रातर्यव्यपदेशेन नाध्येतव्यं कदाचन— इति। अनेन ह्यध्यापनसम्बन्धात् ब्राह्मणानामपि नियोगाधिकारोऽस्ति इति गम्यते। उच्यते – नैतद्युक्तम्; उक्तं त्वाम्ना-यस्य। भूयसामनन्यपराणां चानर्थक्याद्वरमेकस्यान्यपरस्य च बाधकल्पना। क्षत्रियविषयं चैतद्वाक्यम्। तेषां ह्यापदि नियोगाधिकारात्, स च ब्राह्मणेनैवेत्युक्तम्। तेनैवं योजना - भ्रातर्य

ध्पापयत्यपि नाध्येयम्। केन ? अन्यपदेशेन। न व्यपदिश्यतेऽनेनेत्यव्यपदेशः। अन्यजातीय इत्यर्थः। किमर्थम् ? बोद्धव्यं गुरुतल्पस्यनिमित्तम्। भ्रातुः शिष्यभार्यागमनात्। भर्ता ह्यापत्सु देवरः। भर्तेति भरणयोगात् श्रैष्ठ्याच्च ब्राह्मणः, स यस्मादापत्सु देवरो भवति नियोज्य इत्यर्थः। तस्मात्ततो नाध्येतव्यम्। एवन्तावच्छूद्राणां नियोगाधिकार उक्त इति। इति ॥

उक्तार्थतात्पर्यपूर्वकार्यसमाजीय मतखण्डनम्

अनेन हि ग्रन्थेनापूर्वोऽयमेव विषयः सूचितः यन्मन्त्रवर्णानामपि शूद्राधिकारकनियोग एव तात्पर्यमिति। अनेन च— न विवाहविधावुक्तं विधवावेदनं पुनः

—इति मनुवाक्यस्यापि न पूर्वापरविरोधः, न वा मनुवाक्यस्यास्य मन्त्रवर्णविरोधः इति च सूच्यते। एतेन—नियोगसाधकतयाऽभिमतानि मन्त्रलिङ्गान्तराण्यप्यार्यसमाजाभिमतानि व्याख्यातानि। मन्त्रलिङ्गानि हि न वयमप्यप्रमाणं मन्यामहे, किन्तु पूर्वोक्तविधयाऽधिकारिविशेषविषयाणीति। अत्र स्मर्तॄणामभिप्राय एव गमकः। न हि मन्त्रप्रतिपाद्यः सर्वोऽपि धर्म इति संभवति, क्वचित् प्रकृतानुपयोगिनोऽपि मन्त्रेष्वाम्नानं दृश्यते। यथा—देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां निर्वपामि-इति दर्शपू

र्णमासाङ्गमन्त्रे पूषादिदेवतानामाम्नानम्। अन्यथा पूषदेवतायाअपि प्रकृतदर्शपूर्णमाससम्बन्धेऽभ्युपगम्यमाने पूषानुमन्त्रणमन्त्राणां पूषदेवताके यागे उत्कर्षो लिङ्गावष्टम्भेन प्रकरणबाधेन समाख्यया व्यवस्थापितो मीमांसकानामसङ्गतः स्यात्। अतः कुत्र मन्त्रे मन्त्रलिङ्गं विवक्षितम्, कुत्र च नेत्यादिनिर्णयार्थमेव स्मृतीनां प्रवृत्तिरिति कुमारिलपादोक्तरीतिरेवात्रालम्बनीयेति न कोऽपि विरोधः। अन्ये च विशेषा नियोगमधिकृत्यैवात्रोपपादिताः प्रकृतविषयानुपयुक्ता इति तु नात्र समालोच्यन्ते। तथा च सर्वेषामपि निबन्धकाराणां विद्यासागरमहोदयस्य च नियोगस्य विवाहात् पृथक्त्वे एवं संमते सति नियोगपरमन्त्रवर्णानुसारेण तत्परस्मृत्यन्तरवचनानुसारेण चार्यसमाजीयानां विधवाविवाहशास्त्रीयताव्यवस्थापनं कथमिवोपपपद्यते। यश्चात्र बालक्रीडागतोऽपरो विशेषः, स तु केनापि न विस्मर्तव्यः स यथा—नैकस्या बहवः सहपतयः—इतिवाक्यस्य युगपत्पतिबहुत्वनिरासपरस्यापि विधवाविवाहसाधुतायां न तात्पर्यम्;किन्तु पतिमरणानन्तरं नियोगविधान एवेति। अनेनच— विद्यासागरमहोदयाना-

मेतद्वचनानुसारेणैतदर्थनिरूपणपरादिपर्वगतमहाभारत व्याख्यानुसारेण च विधवाविवाहस्य शास्त्रीयतावचनमपि—परास्तम्। सर्वथा तु न पुनरुद्वाहस्य शास्त्रीयत्वम्। यथा च लोकदृष्ट्यापि विचारणायां विधवाविवाहोऽयमपि नामान्तरेण प्रकाशव्यभिचार एव, तथा सूनृतवादिन्यां विस्तरशोऽप्पाशर्मविद्यावाचस्पतिमहोदया उपापीपदन् इति प्रियपाठकानां केषाञ्चनोत्साहमनुसृत्य सूनृतवादिन्येव यथावत्सङ्गृह्य प्रकाश्यते। तद्यथा—

पुनरुद्वाहस्य प्रकाश व्यभिचारत्वे सुनृतवादिनी

“नैका द्वौ पती विन्दते”इति श्रुतिमनुवदन्नेव श्रीमान्मनुः—“न द्वितीयश्च साध्वीनां कश्चिद्भर्तोपदिश्यते”इत्याह।

मृतस्याऽपि पत्युर्विप्रियं नाचरणीयमित्यपि तेनैवोक्तम्—

पाणिग्राहस्य साध्वी स्त्री जीवतो वा मृतस्य वा ।
पतिलोकमभीप्सन्ती नाचरेत्किंचिदप्रियम् ॥ इति ॥

न हि स्वीयभार्यायाः पत्यन्तरकरणं कस्याऽपि महात्मनः प्रियं भवति। मन्यामहे वाचा प्रलपन्तः समाजसंस्कारप्रिया अपि नैनमर्थमनुमोदेरन्निति। न किल प्राणान्मुञ्चता केनाऽपि महात्मना स्वीये निर्वाणपत्रे समुल्लिखितं कदाचिदपि ‘मृते मयि परिणयतु पुरुषान्तरं मे भार्या इति। अविषह्यो हि भवति भार्यायाः पुरुषान्तरपरिग्रहः पत्युरिति। एष एव च व्यभिचार इत्यभिधीयते लोकैः। व्यभिचारो हि पुरुषान्तरपरिग्रह एव। पुरुषान्तरं च पतिभिन्नः पुरुषः। पतिश्च पाणौ ग्रहीता। पाणिग्रहणस्य च निष्ठा सप्तपदविधिनिर्वृत्तौ भवतीत्याचक्षते मुनयः। पाणिग्रहणसंस्कारात्पतित्वं सप्तमे पदे, इति। नहि विधवानां परिग्रहीतुः कस्याऽपि तत्पतित्वं व्यपदिश्यते कापि। संस्कारत्वाभावाद्विधवापरिग्रहस्य

असंस्कारश्च न विवाहो भवति। विवाहस्य चाभावे कुतः पतित्वोत्पत्तिः। पतित्वोत्पत्तिमन्तरा च केनाऽपि परिणीतपूर्वाया नार्याः परिग्रहो व्यभिचार एवेति नैतद्वक्तुमावश्यकम्। अत एव ब्रूमो व्यभिचार एवायं विधवापुनरुद्वाहो नामेति।

अत्राऽपरे प्रत्यवतिष्ठमानाः प्राहुः – ‘न किल विधवोद्वाहो व्यभिचारः। व्यभिचारो ह्यनियतपुरुषासक्तिः। पुनरुद्वाहः पुनरेकमात्रपुरुषासक्तिरेव इति ॥ अयं चैतेषामभिप्रायो यत्स्वैरिणोभिः किल यथाभिलाषं नानाविधाः पुरुषा आसेव्यन्ते। पुनःपरिणयन्त्या पुनर्विधवया केवलमेकमात्रः समासेव्यते पुरुषः। तत एव च नास्ति विधवोद्वाहस्य व्यभिचारत्वमिति।

तत्त्वदर्शिनः पुनरत्र प्राहुः ‘आस्तान्नामायमेतावान्भेदस्तथाऽपि नहि पुनरुद्वाहस्य व्यभिचारत्वमपाकर्तुं शक्यम्। पतिभिन्नश्च पुरुषो विधवायाः परिणेता ॥ इति ॥ न किलस्वैरिणीनमप्ययं नियमो यत्ताभिरनेका एव पुरुषा आसेव्यन्त इति। दृश्यन्ते ह्येकमात्रमेवात्मनोऽभीष्टं पुरुषमवलम्बमानाः साध्व्य इव व्यवहरन्त्यो वेश्याश्च स्वैरिण्यश्चापराः काश्चित्। तत्किमुता एताः साध्व्य इत्येव व्यपदिश्येरन् केनोऽपि महाभागेन ? यथा च वयं पश्यामस्तथा नैतदेवं सुघटम्। न किल कश्चिदपि महात्मा वेश्यां वाऽपरामपि वा स्वैरिणीं साध्वीमेव ब्रूयात्। पाणिग्रहीतारमन्तराऽन्यस्य पतित्वाभावात्। पाणिग्रहश्च शास्त्रीयो विधिः। न चाऽसौ स्वैरिणीभिर्वेश्याभिरपि वा समाचर्यते। एवमेव विधवाभिरपि। अनुपदेशाद्विधवायाः पाणिग्रहणस्य। तत एव च यदि न विषह्यते पतिभिन्ने पुरुषे समनुरक्ताया विधवायाः स्वैरिणीति पदम्,यदि च

नाङ्गीक्रियते तथाविधस्यानुरागस्य व्यभिचारत्वम् तदा तथाविधावेश्या अपि साध्वीपदमेव प्राप्यन्तां महाभागैः।

किंच पुनरुद्वाह एकमात्र एव पुरुष आसक्तिरिति नैतत्सत्यम्। यथा मृते भर्तरि पुरुषान्तरस्य स्वीकारः—एवं तस्मिन्नपि मते तदन्यस्य तत्राऽपि निधनं गते तद्विभिन्नस्य, तत्र च पञ्चत्वमापन्ने तदपरस्येति यावदभिलाषं पुरुषपरिग्रहस्य दुर्वारत्वात्। न चाप्येतन्न सम्भवति। यासु हि जातिषु विद्यते विधवापरिग्रहस्य आचास्तास्ववश्यं विद्यन्ते तथाविधा नार्यो याभिर्यथाक्रमं भूयांस एव पुरुषा आसेविताः। नहीदं सम्भवति यत्कापि नारी विनैव क्रमं सकृदेव बहुभिः पुरुषैरुपभोक्तुं प्रभूयत इति। प्रतिपादितं चैतच्चिकागोनगरं प्रयातवता केनाऽप्यस्मद्देशीयेन सभायां कस्यांचित् आसीत्किलामेरिकायां निवसतो मे सखी काऽपि यया ख

ल्वंष्टाविंशतिः पुरुषाः यथाक्रमं परिणीताः !!! इति। न खल्वेकमासेवमानयापरोऽपि नाम समासेवितोऽनया पुरुषः। किंतु तमेतं पतित्वनिरयात्समुद्धृत्यैव। तथापि नैवात्र जानीमः को वात्र व्यभिचारतो विशेष इति। वेश्या अपि नन्वपरित्यज्यैकं नान्यमासेवन्ते, तथाऽपि यावन्नास्ति साध्वीत्वव्यपदेशस्तावन्न पतिविभिन्नमेकमपि पुरुषमासेवमानाया विधवायाः स्वैरिणीत्वाभावः शक्यत उपपादयितुम्। तत एव च नास्ति व्यभिचारतः कोऽपि विशेषो विधवोद्वाह इति।

अत्राहुः केचिन्नव्यमताऽनुयायिनः ‘संदृश्यते युवतीनां कासांचिद्दुर्दैववशाद्दिवं गते पत्यौ कामवेगं धारयितुमप्रभवन्तीनामपथे प्रवर्तनम्। तदपेक्षया च वरमेकमात्रस्य कस्याऽपि पुरुषस्यालम्बनम्॥ इति ॥

एवं तर्हि प्रकाशोऽयं व्यभिचार इत्याख्यातं भवति। स्मर्यन्ते

किल द्विविधाःस्तेनाः स्मृतिकृद्भिः। प्रकाशाश्चाप्रकाशाश्चेति। तेन स्तेयमपि द्विविधं भवति प्रकाशमप्रकाशं च। अप्रकाशं तावत्संधिभेदादिकं प्रकाशं पुनरुत्कोचग्रहणादिकमेवेति। न पुनव्यभिचारस्य द्वैविध्यमभिहितं क्वाऽपि। तदिदानीं प्रतिपादयति कुलकोमिनीनाम् !पुनरुद्वाह इति यत्सत्यं भाग्यमेवैतच्छास्त्रस्य।

यदि कामावेगं धारयितुमप्रभवन्तीनां पुनर्विवाहो युक्तश्चाविगर्हितश्चेत्यभिप्रेयते, तदा जीवत्यपि भर्तरि पुरुषान्तरपरिग्रहो न्याय्य एव स्यात्। कामवेगधारणेऽप्रभविष्णुत्वमेव हि मूलं तत्रेति तेन यासामेकमात्रेण पुरुषेण न प्रशाम्पति कामस्ताभिरपि नारीभिः परिग्राह्यं पुरुषान्तरमिति प्रतिपाद्यतामेतन्महामतिना ! अत्र कदाचिदुच्येत केनाऽपि कामावेगं धारयितुमसमर्थानां विधवानां पुनरुद्वाहस्याऽभ्यनुज्ञाभावेऽवश्यं ता व्यभिचरेयुः। अत एव चावश्यकस्तासां पुनरुद्वाहः इति, किं तु निःसारतममेवैतेषां वचनम्, सधवास्वपि कासुचिन् यायस्योऽस्य तुल्यत्वात्। कामवेगातिशयव्याकुला हि सधवा अपि पतिविभिन्नपुरुषपरिग्रहानभ्यनुज्ञानेऽवश्यं व्यभिचरेयुरिति। यदि तु ‘दृश्यते क्वाऽपि विधवासु अप्रकाशो व्यभिचार इत्युच्यते, तदा दृश्यते एव तादृशः सधवास्वपि कासुचिद्व्यभिचारः इत्युभयत्राऽपि तुल्यमेवेदम्। यत्तु—विधवानां व्यभिचारे भ्रूणहत्याः सम्पद्यन्ते सधवानां पुनर्नैवम्, जीवति ह्येतासां भर्ता, इत्युच्यते। तन्न वितथम्। अस्ति किल व्यभिचारिण्याः सधवायाः पत्युरनायाससाध्यं पितृत्वमिति। तत एव न स्युर्भ्रूणहत्या इति नात्र सन्देहः। किं तु नैतावता पुरुषान्तरपरिग्रहस्य व्यभिचारत्वं वारयितुं शक्यम् ।यदि च भ्रूणहत्यैव विधवानां पुरुषान्तरपरिग्रहाभ्यनुज्ञाने हेतुस्तदा विद्यत एवात्र

सुकरमुपायान्तरम्। तदेव चालम्ब्यतां विधवोद्वाहपक्षपातिना भवता। तच्च विधवानां भ्रूणहत्यायां दोषाभाव इति। यद्वा विधवानां व्यभिचारो निर्दुष्ट एव। एवं हि नानुभूयेतैताभिरेकमात्रपुरुषासक्तिलक्षणा नियन्त्रणापीति। अत्र वयमिदं पर्यनुयुञ्जमहे— यत्पुरुषान्तरासक्तचित्ता एता स्वीयसमुदाचारान्तरायोऽयमिति मत्वा कदाचन स्वपतिमपि विषान्नप्रदानादिना कथं न हन्युः ? एवं भ्रूणहत्यापरिहारमभिलषतां पतिहत्यादोषः कथं परिहरणीयः ? इति।

विधवोद्वाहश्च न व्यभिचारं ह्रासयेत्। प्रत्युत वर्धयेदेव। यावद्धि न विज्ञातः पदार्थान्तरस्यास्वादस्तावदेकस्मिन्नेव पदार्थ आसक्तिः सम्भवति। सम्भवति चान्यत्र परित्याज्यताबुद्धिः। यद्धि येन नास्वाद्यते, न किल तत्र तस्य प्रवृत्तिः स्वयं भवति। न नास्वादितमद्यस्य कस्याऽपि ब्राह्मणस्य मद्यपाने प्रवृत्तिर्दृष्टा। नाऽपिवाऽभक्षितमांसस्य मांसभक्षणेऽपीति ।अविज्ञातो ह्येतस्य रस एतेनेति। अस्ति चात्रामुष्य त्याज्यताबुद्धिः। एतच्च विशदीकृतं महाभारते शान्तिपर्वणि। तदपि नाप्रासङ्गिकमिति दिङ्मात्रेणैवाऽत्रोदाहर्तुमिच्छामः ।केनाऽपि धनमदावलिप्तेन वैश्येनावपातितं शोचन्तं कमपि काश्यपं नाम ब्राह्मणमुपगतः श्रृगालवेषधरः शतक्रतुः प्रसङ्गवशादेनमाचष्टे।

न खल्वप्यरसज्ञस्य कामः क्वचन जायते।
संस्पर्शादर्शनाद्वापि श्रवणाद्वाऽपि जायते॥
न त्वं स्मरसि वारुण्या लट्वाकानां च पक्षिणां।

इत्यादि। वारुणी मद्यम् ।लट्वाका ग्रामचटकाः। एवं नास्वादितः परपुरुषास्वादो नारीभिर्यावच्च न व्यपगता दूषणीयोऽय-

मिति बुद्धिरेतासां तावन्न खलु व्यपेतेष्वपि प्राणेषु स्वीकुर्युरेताः परं पुरुषम्। यदा तु पुनर्विवाहछद्मनाऽपि वा स्वीक्रियेपुरुषान्तरमेताभिस्तदा विज्ञातपरपुरुषास्वादतयाऽवश्यं ततोऽप्यपरस्मिन्पुरुषेऽभिलाषः प्रवर्तेत ? ततश्च निरर्गलाय व्यभिचारायैव करावलम्बो दत्तः स्यात्।

किंच न खल्वस्यैव लोकस्य कृते समासेव्यते पतिः साध्वीभिः, किं तु परस्याऽपि लोकस्यार्थमिति। भवति ह्येतासां विश्वासो यज्जीवतो मृतस्याऽपि वा पत्युरनुवर्तनं परस्मिन्लोके श्रेयसे भवतीति। अत एव च जीवितनिर्विशेषं जीवितादप्यधिकं वा पश्यन्ति पाणिग्रहीतारं साध्व्यः। यदि चेह लोकिकस्यैव सुखस्य हेतोः पतिकरणमिति स्यादमूषां बुद्धिस्तदाऽवश्यमेता व्यभिचारे प्रवर्तेरन्। ऐहिकं हि सुखं यथाभिलषितमास्वादनीयं मन्यते प्राणिन इति। यश्च पारलौकिकसुखावाप्तिलक्षणो नियन्त्रणे हेतुरेतस्य, स तु सुदूरमुत्क्षिप्तः पुनरुद्वाहेनेति। अतश्चावश्यं न्यूनीभवेत्प्रेम दम्पत्योः। तथाहि—येषु किल नास्ति प्रचारः पुनरुद्वाहस्य, तेषु वर्णेषु पतिमेव दैवतं मन्वाना अनन्याऽवलम्बमेव चात्मानमाकलयन्त्योऽनुवर्तन्ते पतिं नार्यः। यदि त्वेताः पश्येयुर्गत्यन्तरम्, यदि च जानीयुमृतेऽप्येकस्मिन्सुलभ एवाऽपरः पतिरिति, तदा नूनं शिथिलीभवेत्पतिप्रेमैतासाम्। नचाप्येता विप्रियमपि प्रोक्तं पत्या विषहेरन्। अनतिप्रियं चैनं रुग्णशय्यासंल्लग्नमुपेक्षेरन्। यश्चाऽप्येतोः पुनः परिणयति। तत्राऽपि नूनमेवंविधमेवैतासामाचरितं स्यात्। कामवेगप्रशम एव फलं पतिकरणस्येति समुदयेत पुनरुद्वाहेन बुद्धिरेतासु । तेन च कष्टमय्येव स्याल्लोकयात्रा मनुजानाम्। न चाप्येतन्न श्रद्धेयम्। यासु हि जातिषु सुप्रचारः पुन-

रुद्वाहो नारीणाम् तासुशिथिलप्रायमेव संदृश्यते पतिगतं प्रेमैतासामिति ।

इतश्च न विनिवर्तयेद्व्यभिचारं विधवोद्वाहः। तथाहि—यत्किल यतो नियतं निष्पद्यते, तदेव तस्य कारणं भवति। यथा घटस्य मृत्तिका, पटस्य तन्तवो, भूषणानां वा सुवर्णमित्यादि। यत्पुनर्यस्मान्न सम्पद्यते, न तत्तस्य कारणं यथा पटस्य मृत्तिका घटस्य तन्तव इत्यादि। अत एव चान्वयव्यतिरेकविशिष्टस्यैव कारणत्वं तार्किका मन्यन्ते। एकस्य सत्तायामपरस्य सत्ताऽन्वयः। एकस्याऽभावेऽपरस्याऽभावो व्यतिरेक इति। ततश्च विधवोद्वाहश्चेद्व्यभिचारनिवृत्तेः कारणम्, तदा यत्र विधवोद्वाहस्तत्र व्यभिचाराभाव आवश्यकः। नचैतदस्ति दृश्यते हि तास्वपि जातिषु व्यभिचारो यासु विद्यते निरर्गलः पुनरुद्वाहः। अस्ति च तासु व्यभिचाराभावो यासु नास्ति प्रचारः पुनरुद्वाहस्य। ततश्च नास्ति विधवोद्वाहस्य व्यभिचा- रनिवृत्तिजनकत्वमित्यवश्यम युपेतव्यम् । अत एव च नास्ति कामवासनातोऽन्यत्किमपि बीजं पुनरुद्वाह इति द्रष्टव्यम्।

यत्तु ‘पुनरुद्वाहो देशोन्नतेर्हेतुः। सन्दृश्यते हि पाश्चात्येषु प्रचारः पुनरुद्वाहस्य। समुन्नताश्चैते। अत एव चावश्यकः पुनरुद्वाहः, इति कैश्चिदुच्यते, तत्केवलमुपहासास्पदमेव प्रेक्षावताम्। समुन्नत्यासमंविधवोद्वाहस्य सम्बन्धाभावात्। यदि च स्याद्विधवोद्वाहस्य समुन्नतिप्रयाजकता, तदा किमिति वा व्यतीतेष्वप्यसंख्येषु वर्षेषु नाद्याऽपि समुन्नता जघन्यजातीया भारतवर्षीयाः। अस्ति खल्वेतेषु सार्वत्रिकः प्रचारी विधवोद्वाहस्येति। किंच पाश्चात्येष्वपि नाङ्गीकुर्वते विधवोद्वाहशिष्टा इति किल श्रूयतेऽस्माभिः। तथाऽपि न खल्वेते न समुन्नता इति शक्यते मन्तुं नव्यैः। यदि चैवंविध-

एवं कार्यकारणभावस्तदा सर्वमेव सर्वस्य कारणं सम्पद्येत। तन्नांशतोऽप्युचितमेवमालपितुम्।

यत्तूच्यते कैश्चित्—यदि न पुनःपरिणेतव्यं नारीभिस्तदा किमिति वा पुरुषैः पौर्विक्या भार्याया मरणेपुनःपरिणीयते ? समानश्च पुरुषैः स्त्रीणामधिकारः। तन्नोचितमेवंविधं वैषम्यमिति।

अत्रोच्यते—एतेषां तावन्मते पुनरुद्वाहो नामायमपराध एवेति नात्र सन्देहः। किंतु सोऽयं पुरुषैराचर्यत इत्यत एव स्रीभिरप्याचरणीय इति। परंतु नह्येकेनापराद्धमित्यपरेणापि तथैवानुष्ठेयमिति न्याय्यमिदम्। न चाप्ययं पुनरुद्वाहनिवृत्तेरभ्युपायो दृष्टः। न हि चैत्रो मद्यमास्वादयतीत्यहमपि तदास्वादयामीति वदन्मैत्रःप्रशस्येत धीमद्भिः। प्रत्युतोपहस्येतैव। एवमेवैतदपि। यदि नेष्यते पुंसां पुनर्दारपहिग्रहस्तदा निवर्त्यतामसौ कामम्। न पुनरेते पुनर्दारान्गृह्णन्तीति नारीभिरपि पुनः पुरुषान्तरमासेव्यताम्; अन्याय्यत्वात्तथाविधस्याचरणस्येति।

यत्तूच्यते पुनरुद्वाहाभावे गरीयसी किल व्यथाऽनुभूयते कामेन क्लेश्यमानाभिर्नारीभिः। अतश्च नियन्त्र

णामात्रमेतासां वैधव्यऽनुपालनम्। न चाप्येतासां नियन्त्रणा न्याय्येति। तदपि न मनोरमम्। सुखोदर्का हि निय

न्त्रणा न नियन्त्रणा भवति। न हि रोगिणः पथ्यासेवनं नियन्त्रणेत्यभिधीयते क्वाऽपि केनाऽपि। तद्धि कियन्तं कालं क्लेशमपि संजनयदन्ततोऽवश्यं सुखमेव संजनयतीति। एवं च नामैतत्। अयमेव च पशुभ्यो विशेषो मनुजानां यदेतेषां केचिद्विधयः परिछिन्ना एव भवन्ति। ते च सम्भोगादयः। एतेभ्यश्चावभासमाना नियन्त्रणा न विनियन्त्रणा । एषा

हि विपुलस्यैव श्रेयसो मूलमिति। अतश्च विनियन्त्रणामात्रभीरुणाऽपि नानुष्ठेयः पुनरुद्वाहः। इति ॥

विधवाकेशवपनस्यशास्त्रीयत्वम् ।

अन्ते च वयमिदमेव सूचयामो यद्विधवानां केशवपनादिकमन्यद्वा विकारसम्पादनं सर्वं धर्मबुद्ध्यैव क्रियते, न घृणाबुद्ध्या। तासां स्वधर्मानुरागिणीनां नायं विचार इदानीमपि समस्ति यदेता प्रतार्यन्ते शास्त्रकारैरिति। यत्पुनरपराण्यपि व्यसनानि विधवानामुपवर्णयन्ति नव्यसंस्कारवासनावासिताः, तेन वयं मन्यामहे—विद्रवतीव नितान्तमन्तःकरणमेतासां निरवधिकं दुःखमालोकमानामेतेषाम्। कदा पुनरमीषां नयनगोचरत्वमापद्यते दुःखमेतासामिति तु नांशतोऽप्यवगन्तुंप्रभवामः। न खल्वेतद्वितथं यद्दुस्सहतमेन दयितविप्रयोगेणैवादितः परिप्लुष्यत्यन्तरङ्गमेतासाम्, तत्र च व्यसनान्तरपातनमेतास्वयुक्ततममेवेति। यथा च वयं पश्यामस्तथा नैतासु दुःखमेवंविधं पात्यते केनाऽपि क्वाऽपि। न चैतास्वालम्ब्यते परुषतरा वृत्तिः। प्रत्युत स्निग्धतमामेवैनामवलम्बन्ते भारत-वर्षीयाः। वैदेशिकाचारविलोकनविकृतदृष्टयस्तु विपरीतमैवात्र पश्यन्तीति किंवाऽत्र विधीयतां भारतवर्षायैः ?

नव्याः खल्वाहुःसर्वथा नृशंसप्रायोऽयमाचारो विधवानां वपनमिति ! न ह्यतः परं निर्दयं नामापरं किमप्यस्तीति। न पुनरेतद्युक्तम्। को हि नाम विधवानां वपनस्य निदयत्वेन सम्बन्धः। ये किल शास्त्रतः परिप्राप्ता विधयो नैतेषामनुष्ठापनं निर्दयत्वाय प्रकल्पेत। स्यान्नामातो नियन्त्रणमिव किमपि। तथाऽपि न हि तावता वात्सल्यशून्यत्वं निर्दयत्वमपि वा गुरुजनप्रभृतीनामनुमातुं युक्तम्। ते हि नितान्तमेवास्यां स्निह्यन्ति। समवेक्षमाणाश्च

दुःखमेतस्याः प्रकाममेव दुःखायन्ते। तथाऽपि न ह्येतद्दुःखं कारुण्यं वात्सल्यमपि वशास्त्रप्रतिषिद्धे वर्त्मनि प्रवर्तयत्येतान्। न च नास्त्येव विधवानां वपने प्रमाणभूतं शास्त्रं किमपीति भ्रमितव्यम्। विद्यते ह्येतत्। तथा ह्युक्तं भगवता व्यासेन—

मृतं भर्तारमादाय ब्राह्मणी वन्हिमाविशेत् ॥
जीवन्ती चेत्त्यक्तकेशा तपसा शोषयेद्वपुः॥ इति ॥

काशीखण्डेऽपि—

विधवाकबरीबन्धो भर्तृबन्धाय जायते ॥
शिरसो वपनं कार्यं तस्माद्विधवया सदा ॥ इति ॥

आदित्यपुराणेऽप्येवम् । उदाहृतं च वचनमेतद्धर्मशास्त्रप्रबन्धेषु। न च न प्रप्राणं भगवतो व्यासस्य वचनं धर्मशास्त्रकृद्भिरनुदाहरणादिति वक्तव्यम्;तत्समानार्थकस्यादित्यपुराणीयवचनस्य प्रामाण्यस्वीकारेण तत्प्रामाण्यस्वीकारस्यार्थतः प्राप्तत्वात्, शिंशपावोद्यन्यायेन च यस्य कस्याप्युपनिबन्धने बाधकाभावात्। यत्र कुत्राऽपि वा वने प्रवेष्टव्ये यदिप्रवेष्टुकामः शिंशपावनं प्रविशेत्, तदा नैष प्रश्नः समुदेति कुतो वा शिंशपावनमेवाऽसौ प्रविष्ट इति॥ एवं विधवानां केशवपने प्रमाणतयोपन्यसनीये वचने नैष प्रश्न आत्मलाभं लभते कुतो वा वचनमेतदेव प्रमाणतयोपन्यस्तम्, कुतश्च नैतदिति। यस्य कस्याऽपि हि समुपनिबन्धने समानमेव योगक्षेममिति। समानमेव ह्यशेषाणां प्रामाण्यम्। अनुपलब्धा ह्येतद्विषयिणी श्रुतिर्वचनतोऽस्मादनुमेया। अनुमितश्रुतिमूलकानां च वचनानामेतेषां समानमेव प्रामाण्यम्। यत्र चैवं समानमेव प्रामाण्यं तत्रान्यतमस्योपन्यासेन चरितार्थतयाऽपरस्योपन्यासपक्षाभावः। अत एव च निर्णयाऽब्धिप्रभृतिषु नोपलभ्यते

व्यासवचनम् । यत्तूच्यते गृह्यसूत्रेष्वविद्यमानो वपनविधिः स्मृतिषु लभ्यमानोऽपि विरुद्धत्वादुपेक्ष्य एवेति तदेतद्विरोधस्वरूपाज्ञानादुपेक्षणीयमेवेति ब्रूमः। तत्र हि विरोधो भवति यत्रैकस्मिन् क्रियमाणेऽपरं वैफल्यमोपद्यते। यथोच्यते ‘औदुम्बरी सर्वा वेष्टयितव्या’इति। अन्यत्र च प्रोच्यते ‘औदुम्बरीं स्पृष्ट्वोद्गायेत्, इति। औदुम्बरी चोदुम्बरशाखा। एषा चेत्सर्वैव वाससा वेष्ट्येत नैव शक्येत स्प्रष्टुम्। यदि स्पृश्येत नैव शक्येत सर्वतः परिवेष्टयितुम्। तदत्रैकतरस्य विधेराश्रयणेऽपरस्य वैफल्यापत्तिरिति स्फुटएवात्र विशेषः। एकत्राऽनुक्तस्य पुनरन्यत्रोक्तौसमुच्चयो भवति। विरोधाभावात्।

अत एव च सूत्रेष्वनुक्तोऽपि विधवानां वपनविधिः स्मृतिषु संदृश्यमानः प्रमाणमेवेति। तत एव च विधिरसौ नैव निष्करुणत्वमवबोधयतीति। सर्वथा हि प्रमाणं भारतीयानां शास्त्रमेव कार्याकार्यविचारे। तदाहुः ‘तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ’ इति सुखमेव वापयन्त्यात्मनः शीर्षं कुलीना विधवा इति नैतदविदितं कस्याऽपि। अत्र च विषये विधवासु हठात्कारो भवतीति केषां चिद्दयाध्वजानामाक्षेपः सर्वथा निर्मूलः।

अपरे पुनः प्राहुः—अवमन्यन्ते विधवा भारतवर्षीयैः। एते हि कस्मैचित्कार्याय विनिर्गच्छन्तः पुरतः समापतन्तीं विधवामवेक्षमाणा अनिमित्तमिदमित्याकलयन्तीति। अहो पराकाष्ठा मौर्ख्यस्य, यदेवमसम्बद्धमेव प्रलप्यते किमपि। न ह्यपशकुनतया समाकलनं नाम मानहानये भवति। न च तावताऽपशकुनतया समाकलिते मानुषे गतः आदरो हीयते। नापि सुशकुनतया परिगणितमितिभवति सर्वथा समादरणीयं संमाननीयं वा किमपि। पति-

व्रताऽपि सधवाऽपि च वन्ध्या सर्वथैवापशकुनतया गण्यते शाकुनिकैः। सुशकुनतया पुनर्वाराङ्गनां वदन्त्येते। न ह्येतावता पतिव्रतापेक्षया वाराङ्गनासु बहुमान इति शक्यमभिधातुंकेनाऽप्यनुन्मत्तेन। गमनावसरे किलैकाकी पुरः समापतन्ब्राह्मणोऽपशकुनतया स्वीक्रियते यद्यपि पारङ्गतो वेदवेदाङ्गेषु। अन्त्यावसायिष्वपि पुनः परिगणितो रजकः सह निर्णिक्तैर्वसनैः पुरः पतन् शुभशकुनतया स्वीक्रियते। सुराऽपि ननु गमनसमये पुरः सन्दृश्यमाणा शुभशकुनतां भजते। ‘यथा सुराणाममृतं सुखाय तथा नराणां भुवितक्रमाहुः’ इति बहुधोपवर्ण्यमानमप्यायुर्वेदविदां प्रवरैः प्रयाणकाले सन्दृष्टं तक्रमशुभशकुनतया स्वीक्रियते। तत्किमु ब्राह्मणापेक्षया श्रेयान् रजकः, किंवा मदिरापेक्षया जघन्यं तक्रमित्यभिप्रेयते भारतवर्षीयैरिति मन्येत मतिमत्तरः कोऽपि ? नचैतच्छक्यतेऽस्माभिः सम्भावयितुम्। न चास्ति शकुनविषये मानावमानादिविचारस्याऽवसरः। नाऽपि प्रदीयते करावलम्बोऽस्मै विचाराय केनोऽपि। तन्न जानीमः कुतो वा नव्यानामेव मस्तिष्के घूर्णतेऽसौमानावमानविचार इति।

प्रकारान्तरेण विधवोद्वाहस्यायुक्तत्वम्

व्यवस्थापितमेतावता, इदानीं पुनरस्मा

दपरस्याऽपि महीयसो व्यसनस्य समुत्पत्तिरिति साधयितुमिच्छामः।

विदितमेव तावद्युष्माभिर्यन्नास्ति खलु भारतीयेषून्नतश्रेणीयेषु प्रथा विधवोद्वाहस्येति। सकृदेवात्र स्त्रियः परिणीयन्ते। पुरुषास्तु द्विस्त्रिश्चतुरपि वा परिणयन्तीति। यद्येवं तदावश्यं दुर्लभाभिरेव भवितव्यं कन्याभिः। अनेकशो हि सम्पद्यते पुंसामुद्वाह इति। न पुनरेतदेवं सन्दृष्टम्। सम्प्रति हि सप्रयासम-

प्यन्विच्छता भूयसा समयेन कष्टेनैव यथाकथमप्यासाद्यते पित्रा वरः कन्यायाः। भूयांसः पुनः पितरः प्रयासेनाप्यनधिगच्छन्तो वरं वीक्षमाणाश्च बाल्यात्परस्मिन्वयसि प्रगाढं प्रवेशमेतासां नितान्तमेव क्लेशमनुविन्दन्ति। भारायेव मन्यन्ते जीवितमा

त्प्रीयम्। वरं तावदनपत्यत्वमेव, न पुनः कन्यापितृत्वमित्यपि समु

द्रिरन्ति वचनान्येते। कथं वाऽधिगम्यते कन्याया भर्तेति चिन्तयानिरन्तरमेवाक्रान्तान्यमीषां हृदयानि। यथा यथा ह्यपक्रामति शैशवं कन्यायास्तथा तथा समेधतेऽस्वास्थ्यं पितुरिति न स्वल्वेतत्तिरोहितम्। सर्वतो ह्येतत्प्रत्यक्षीभवति। किं तावदत्र निदानम् ? अत्र किलाविलम्बितमेव प्रतिवदेयुः समाजसंस्कारप्रिया नव्याः —वरदक्षिणाबाहुल्यमेवैनं कन्यायाः पितरं क्लेशयति। तत एव दुष्करः कन्यानामुद्वाहः। यदि तु वरदक्षिणायाः प्रथैव सुदूरमुत्सार्यते, तर्ह्यवश्यं सम्पद्येरन् सर्वासामपि कन्यानामुद्वाहाः इति। आपाततस्ता वद्रमणीयमेवेदमेतेषां प्रतिवचनम्। यथायथमेतद्विचारचक्रमारोपितम्, तथा तथा निःसारत्वमेव केवलमात्मनः प्रादुष्कुर्यात्। तथाहि आस्तां तावद्वरदक्षिणाया प्राशस्त्यमप्राशस्त्यंवा। न किल तद्विचार इदानीं किमपि। तथाऽपि वरदक्षिणात्एव न भवति कन्यानां विवाह इति नेतच्छ्रद्धेयम्। यदि हि सौवात्र हेतुः स्याद्यदा चन तां प्रदातुं प्रभवन्ति कन्यानां पितरस्तदा यैः प्रार्थ्यन्ते वरदक्षिणा तेषां विवाहेनैव न भवितव्यम्। वरदक्षिणाप्रदाने समर्थस्य कन्यापितुरेवाभावात्। नत्वेवं दृश्यते। प्रत्युत ये नाभ्यथयन्ते स्तोकामपि वरदक्षिणां ये वा विनैव विचारं समुत्सुकाः कन्याः परिणतुम् ‘तदपेक्षया भूयिष्ठां वरदक्षिणामर्थयमानानामेव परिणयाः सत्वरं सम्पद्यन्ते। अत एव च वरदक्षिणा प्रथैव कन्यानां विवाहस्य दुष्करत्व-

मापादयतीति नैतच्चतुरम् । यद्यपि निराकृता वरदक्षिणाप्रदानप्रथा, तथाऽपि न हि युगपदेव भार्याद्वयं भार्यात्रयं वा विधीयते श्रीलैः । येन सर्वासामेव कन्यानां विवाहः सम्भवत्येव । वरदक्षिणाया निराकरणे सम्प्रति यैर्न शक्यते प्रदातुं वरदक्षिणा, तेषां युवतीनां कन्यानां स्यान्नामोद्वाहः, किन्तु ये तावत्प्रभवन्ति प्रदातुमिमां तेषां कन्या विनैव विवाहमवतिष्ठरेन्कष्टमेव वा परिणीयेरन् यावन्तो हि वरास्तावतीनामेव कन्यानामुद्वाहः सम्भवति । न पुनस्ततोऽप्यधिकानाम् । न हि वरदक्षिणाया अभावो नाम वरानेवाभिनवान् सञ्जनयेत् इति। ततश्च यासामुद्वाहो न भवति तासां स वराभावादेव न भवतीति विनाऽपि वाञ्छामवश्यं स्वीकरणीयम् । वराणामभावश्च कन्यासृष्टेराधिक्यादेवेति नात्र संदेहः । अन्यथा हि द्विस्त्रिरपि वा ततोऽपि वाऽधिकान्वारान्परिणयत्सु पुरुषेषु सकृदेव च व्यवस्थापिते स्त्रीणामुद्वाहे कन्यानामेव दौ

र्लभ्यं सन्दृश्येत । तत एव च प्रतीयते । भूयस्येवात्र क

न्यासृष्टिः, पुरुषसर्गः, पुनस्ततस्तोक एवेति । अत एव चानुभूयते कष्टं
कन्यानां पितृभिः ॥

प्रियपाठकमहाभागाः—यद्येवं कन्यानां भूयस्त्वं वराणां चाल्पत्वंनिःसन्देहमेव स्थिरीभवति, तदा स्वयमेव तावद्विचार्यतामिदं श्रीमद्भिर्युक्तो वा विधवानां पुनरुद्वाह इति। आपातयेद्वा न वायं महीयसीमापदं कन्यास्विति। सदृशमसदृशं वा पुंसामनेकशः परिणयनमिति च यदि तु सावहितेन चेतसा निपुणं विचारयेयुः श्रीमन्तस्तदावश्यं प्रतिपद्येरन् यन्नैव समुचितो विधवानामुद्वाहः । एष हि नूनमापातयेद्गरीयसीमापदं कन्यासु । युक्त एव चानेकशः पुंसां विवाह इति। तथाहि— विधवास्तावदङ्कुरितयौवनाः । एतासां च प-

यथा च वैकल्पिकत्वेनाप्यन्वारोहणं विधीयते, न पुनरेवमन्वारोपणम्। अतश्च मृते भर्तरि तत्सम्बन्धिन एव तत्स्त्रियमन्वारोपयामासुरित्यर्वाचीनानां कोलाहलो निर्मूल एवेत्यवबोध्यम् । प्रतिषिद्धा च प्रथेयं सम्प्रति दयावशंवदैः साम्प्रतिकैरनुशास्तृभिरिति नात्र विषये किमपीदानीं वक्तुमावश्यकम् । तद्धि केवलं तुषपेषणमेवेति । प्रतिषिध्यतां नामेयं प्रथा फिरङ्गैरनुशास्तृभिः, तथाऽपि विशुद्धं पतिप्रेम भारतीयवनितानां क्वचित्क्वचिदर्पयति पदमनुगमनाध्वनीति नात्र सन्देहः । एता हि मृते भर्तरि क्षणमपि वियोगमदसीयं विसोढुमप्रभवन्त्यः सपदि विजहति प्राणानिति । न चैतत्परोक्षं कस्याऽपि। श्रूयते प्रतिवत्सरं हि द्वित्राणामपि भारतीयसाध्वीनां चरितमेतादृशमिति। एता हि मृते भर्तरि निःसारमिव शून्यमिव जीर्णमरण्यमिव निरालोकमिव निरुत्साहमिव च जगदेवक्षन्ते। मन्यन्ते च त्याज्यानेव पतिविरह आत्मनः प्राणानिति। एवं च दयितप्रेमपाशसन्दानितानां नारीणां स्वेच्छया प्राणपरित्यागे प्रवर्तमानानां स्वाभीष्टाऽनुष्ठाने तत्सम्बन्धिषु नृशंसत्वाद्यारोपोऽज्ञानमात्रमूलक एवेति नात्र सन्देहः ।

ब्रह्मचर्यमपि सम्प्रति साध्वीभिरनुष्ठीयमानमुत्कोपयति केषाचिन्नव्यभव्यानां शिरःशूलम्। एते हि संभावयन्तः सुदुःसहत्वमेतासां कामवेगस्य ‘नोचितं ब्रह्मचर्यम्’इत्यपि प्रलपन्ति। उपन्यस्यते चात्र युक्तिवादोऽप्येतैः। तथाहि—यदि तावन्मृतायां सहधर्मिण्यां पुनः परिणीयते पुरुषैस्तदा किमिति दिवं गते भर्तरि ब्रह्मचर्यमनुपाल्यतां नारीभिरिति। साधयन्ति च युक्त्याऽनया नारीणां ब्रह्मचर्याभावस्यैव न्याय्यत्वम् । अपरे पुनः प्रशंसन्ति ब्रह्म-

चर्यमेतासाम् । किं तु तत्र चेन्न सामर्थ्यं तदा निर्विशङ्कमेवाऽनुष्ठेयः पुनरुद्वाह इत्याहुः ।

प्रमाणपरतन्त्राः सङ्करभीरुकास्तु नैतासां ब्रह्मचर्याभावं कथंचिदप्यनुमन्यन्ते ‘न तु नामाऽपि गृह्णीयात्पत्यौ प्रेते परस्य तु’इति मन्वादिभिर्विधवायाः पत्यन्तरकरणं प्रतिषिद्धम्। ‘अनन्यपूर्विकां कान्तां’इति कन्यां विशेषयद्भिश्च याज्ञवल्क्यादिभिश्च विधवायाः पाणिग्रहणं प्रत्याख्यातम्। एवं च विधवायाः पुनरुद्वाहे पुनरूढा च पुनर्विवाहयिता चेति द्वावपि शास्त्रातिक्रमकारिणौ निरयगामिनावेवेति संसिद्धम् । प्रपञ्चितं चैतत्प्रागेवास्माभिः। यस्य च प्रमाणं शास्त्रम्, नासौ पुंसां बहुविवाहे प्रत्यवतिष्ठेत; शास्त्रस्यैवं विधेषु विषयेषु निर्णायकत्वात्। उक्तंहि ‘तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ।’ इति। येषां तु नास्ति शास्त्रे विश्वासस्तेऽपि कन्यास्सृष्टेर्भूयिष्ठत्वमवेक्षमाणाः पुंसां चाल्पत्वं प्रतिपद्यमाना निगृह्णन्त्वभिनिवेशमात्मीयमिति प्रोच्यतेऽस्माभिः । यथा चैतत्तथा विशदीकृतमेव प्रागस्माभिः ।

न च नारीणां ब्रह्मचर्यानुष्ठानं दुष्करमेवेति भ्रमितव्यम् । शास्त्रोदितेनाध्वना प्रवर्तमानानामेतासां ब्रह्मचर्याऽनुपालनस्यातिमात्रसुकरत्वात्। तथैव किल विहिताः शास्त्रेषु विधवानां धर्माः, यथा ब्रह्मचर्याऽनुपालनं नैतासां दुष्करं स्यात्। कामवेग एव हि ब्रह्मचर्यं विघातयति। कामश्च रजोगुणसमुद्भव एव । तथाह्युक्तं भगवता ‘काम एष क्रोध एष रजोगुणसमुद्भवः’इति। ततश्च रजोगुणप्रतीकार एव कामं क्षपयेदित्यवश्यमभ्युपेतव्यम्। सत्त्वगुणस्य चाभिवृद्धौरजोगुणः स्वयमेव तिरोभवति। तदेतदेवाऽनुविचिन्त-

यद्भिः शास्त्रकृद्भि सत्त्वगुणोत्पादनक्षमा एव विहिता विधवानां धर्माः समाचर्यन्ते सम्प्रति साध्वीभिः। यत्र च सलक्ष्यते रजोगुणोद्भासस्तत्र केवलं स्वधर्माऽनुष्ठानमेवैतासां बीजम्। अतश्च संल्लक्ष्यते क्वचिद्विधवानां स्खलितमिति नोचितं ब्रह्मचर्यमेतासामिति वचनमनर्हतममेवेति बोद्धव्यम्। स्खलितं च संल्लक्ष्य ब्रह्मचर्यप्रत्याख्यानमेकान्तत एवान्याय्यम्। अन्यद्धि निदानं स्खलितस्यान्यश्चात्र प्रतीकार इति ॥ अज्ञात्वा च निदानमनारम्भः प्रतीकारस्येति नैतद्विस्मरणीयम्। यच्चात्र निदानं तदेव चेत् सुदूरतः परित्यक्ष्येत, तदा नैव पुनः संल्लक्ष्येरन् स्खलितानि विधवानामिति। निदानं चैतत्स्वधर्माऽननुष्ठानमेवेति। तदेव सुदूरतः परिहरणीयम्। अर्थादनुपालनीयाः स्वीया धर्मा विधवाभिः। ततश्चावश्यं शक्येत विसोढुं दुर्विषहोऽपि कामवेग एताभिः। अथवा स्वधर्मानुष्ठानेन सत्त्वगुणोद्रेके काम एवैतासां मनसि नोत्पद्येत। ततश्च विनैव प्रयासं दूरीभवेयुः स्खलितान्येतासामिति।

सम्प्रति पुनः कलिकालवशाद्वा शास्त्रगौरवस्य व्यपगतप्रायत्वाद्वा विरलविरलमेवालक्ष्यते विधवानां स्वधर्माऽनुष्ठानम्। विशेषतश्च नव्यमताऽनुयायिनामेव। एते हि नेष्ठुर्यमेवेत्यात्कलयन्तो नैतासां स्वधर्मानुष्ठानमनुमन्यन्ते। अत एव न केवलं न मुण्डयन्ति मूर्धानं प्रत्युत वेश्या इव सविशेषमेव प्रसाधयन्ति केशानेताः, “विधवाकबरीबन्धो भर्तृबन्धाय जायते, इत्यादीनि च शास्त्रवचनानि तृणाय मन्वानाः समारचयन्ति कामिजनमनोविमोहनान्ध

म्मिल्लान्। परिदधति तलिनतलिनानि स्वैरिणीमात्रोचितानि वसनानि। न किल न धारयन्त्याभरणानि, प्रविशन्ति यात्रासु ।संलपन्ति परैः पुरुषैः। समाचरन्ति च घन-

तरममीभिः संसर्गम् । अक्षरमुखत्वमापन्नाश्च पठन्ति निगूढं वा प्र

कोशमपि वा शृङ्गारैकरसानुपन्यासात्। पश्यन्ति रूपकाणि। श्रृण्वन्ति सङ्गीतम्। आसेवन्ते ताम्बूलम्। भुञ्जते मिष्टान्नम्। रोहते हंसतूलमृदुलासु शय्यासु। आजिघ्रन्ति कुसुमानि। बहु मन्यन्ते पुरुषसम्वासम्, सत्येवं कुतो वा भवतु सुसहत्वमेतासां कामवेगस्य ? आचरितं ह्येवंविधं क्लीबानामपि मनसि कामं जनयेत्। किमु पुनरपरेषाम् । न चैतन्निष्प्रमाणमेवेति भ्रमितव्यम्। एवं हि प्रोच्यते आयुर्वेदविदां प्रवरैः। तथाह्युक्तम् श्रीमता लोलिम्बराजेन-

ताम्बूलं मधु कुसुमस्रजो विचित्राः
कान्तारं सुतनु ? न वा विलासवत्यः।
गीतानि श्रवणहराणि मिष्टमन्नम्
क्लीबानामपि जनयन्ति पञ्चबाणम् ॥ इति ॥

अत एव चानुचिन्तयद्भिरिदं विहिता विधवानां तथाविधा धर्माः शास्त्रेषु परेशेन, यथा नैताः कथंचिदपि स्खलितं विन्देयुरिति।

एवं च स्वधर्माननुष्ठानमेव विधवानां स्खलिते निदानं नैव पुनर्विधवानां धर्माः, नापि वा तदीय आचार इति निःशङ्कमेव स्थिरीभवति। अतः परं विधवानां धर्मानभिधाय तेषां युक्तायुक्तत्वमालोचयिष्यामः, तत्रेदानीं प्रवर्तामहे।

यदा किल नांशतोऽपि प्राविशन्नव्यसंस्कारसमीरणोऽस्मिन् धर्मैकजीविते, भारते वर्षेन किल तदा विधवानां स्वैराचारः प्राधान्यमवाप । प्रतिषिद्धं हि तासां स्वातन्त्र्यं धर्मशास्त्रेण । न चासीत्पुरा धर्मशास्त्रप्रतिषिद्धार्थे प्रवृत्तिः कस्याऽपि भारतवर्षीयस्येति। प्रतिषेधति किल धर्मशास्त्रं भर्तृविप्रयुक्तानां नारीणां पित्राद्यन्यतमवियोगम्। यथा याज्ञवल्क्यः—

पितृमातृसुतभातृश्वश्रूश्वशुरमातुलैः ।
हीना न स्याद्विना भर्त्रा गर्हणीयाऽन्यथा भवेत् ॥’ इति ।

भर्त्रा विना पतिशून्या विधवेत्यर्थः। पित्रादिभिर्हीना वियुक्ता न स्यात्। पित्राद्यन्यतमस्य सन्निधौ वर्तेतेति भावः। अन्यथा गर्हणीया निन्द्या भवेत्। एष खलु पित्रादिवियोगनिषेधे हेतुः। यथा पतिरात्मनो भार्यायाः स्वैरिणीत्वं न कामयते, एवं पित्रादयोऽप्यात्मनः कन्यादीनां पांसुलात्वं नाभिलष्यन्ति। स्वैरिणीत्वमेव च नारीणां प्राधान्येन गर्हाहेतुः। तत्परिहारश्च न हि विधवानां सर्वथा स्वातन्त्र्ये सुघटः। अत एव चानुशिष्यते पित्रादिसान्निध्यमेतासां मुनिभिः। पित्रादिसान्निध्ये तदाज्ञानुपालनं स्त्रीणामावश्यकं भवति। अनुपालितायां च पित्रादीनामाज्ञायां न हि स्वैरिणीत्वमेतासां कदाचिदपि घटेतेति । सम्प्रति पुनर्विपरीतमेवैतदालक्ष्यते। न खल्विदानीं विधवानां पित्रादिसान्निध्यमभीप्सितं भवति। स्वातन्त्र्यमेव ह्येताः कामयन्ते। अक्षरमुखत्वमापन्नाश्च प्रायेण तृणाय मन्यन्ते गुरुजनानेताः ।का पुनः कथा कनीयसां भ्रात्रादीनां पितरमपि नन्वेता अवहेलयंत्येव। यद्यत्किल प्रतिहन्ति मनोरथमात्मीयं तत्तत्सुदूरतः परिहर्तुमीहन्ते। तत एव च न रोचते गुरुजनादेश एताभ्यः। नचापि सुहृज्जनोपदेश एतासां स्वदते। स्पृहयन्ति खल्वेताः परपुरुषसंल्लापाय। अनुशासति किल भारतवर्षीया नीतयः

‘घृतकुम्भसमा नारी तप्ताङ्गारसमः पुमान्।

तस्माद्घृतं च वह्निं च नैकत्र स्थापयेद्बुधः।’ इति।

न केवलं विधवानाम्, अपितु, सभर्तृकाणामपि स्त्रीणां परपुरुषसम्पर्कं प्रतिषेधति नीतिगतमिदं वचनम्। नास्ति किल तथाविधोऽनाचारसम्भवः सभर्तृकासु यथाऽयं भर्तृशून्यासु। तथाऽपि निरा-

क्रियत एतासां परपुरुषसंसर्गो नीतिग्रन्थैः। विधवानां पुनश्चिरमेव भर्तृविप्रयुक्तानां नांशतोऽप्युचितः परपुरुषसंसर्ग इति नैतद्वक्तुमावश्यकम्। चिराय ह्यनधिगतविषयाणि प्रक्षुभ्यन्तीन्द्रियाणि पुनस्तद्विषयाधिगम इति। अतः सुतरामेव प्रतिषेध्य एतासां परपुरुषसम्पर्क इति। न च विद्वांस इति श्रद्धयाऽपि कस्यापि पित्रादिभिन्नस्य सविधेऽवस्थापनीया विधवा केनाऽपि, बलवानिन्द्रियग्रामो विद्वांसमपि कर्षतीति हि प्राहुः। सम्प्रति पुनःप्रेते पत्यौ प्रविशन्ति विद्यामन्दिराणि काश्चित्स्वतन्त्राप्राया विधवाः। अधर्मश्चायमेतासाम्। न खलु वयं ब्रूमो निरक्षराभिरेव नारीभिर्भवितव्यमिति। किं तु विद्यामन्दिरप्रवेशं विशेषतश्च परपुरुषसंसर्गमेतासां नाभिनन्दामः। स चायं विद्यामन्दिरेष्ववश्यंभावी। प्रतिषिद्धश्चैतासां विद्या- मन्दिरप्रवेशो धर्मशास्त्रेण। तद्धि एतासामध्यापकविशेषत एवाध्ययनमनुशास्ति। तथाहि यमः—‘पतिः पिता वा भ्राता वा नैनामध्यापयेत्परः’इति। न चैतद्विद्यामन्दिरेषु संघटते । तत एव च नेष्यते तत्र प्रवेश एतसां धर्मैकप्राणैः। जानीमः किल वयं मतमेतदस्माकमवलोकमाना समुदञ्चेयुः स्मितं नव्यसंस्कारप्रिया इति। तथाऽपि न किल तावता परमार्थमपह्रोतुमिच्छामः। प्रार्थयामहे च दूरतस्तावत्प्रक्षिप्यतां दृष्टिरमीभिरिति। येनावगम्येत प्राचां मुनीनां मतरहस्यम्। न किल मुनयो नामास्मादृशो लौकिकाः। नाप्यमीषां स्त्रीषु प्रद्वेषः समभूत्। प्रत्युतासीद्गरीयानादर एव। तत एव च ता इव जगतश्च हितमभिलष्यन्तः समादिशन्नेते ‘न किल स्वतन्त्राभिर्भवितव्यं नारीभिरिति’। पित्रादिभिरधिष्ठितानां पुनर्विधवानां नास्ति घनतरस्य संम्भवः। तत एव चानुशिष्टं शास्त्रेण ‘पितृमातृसुतेत्यादि।

सम्प्रति खलु नांशतोऽपि विषह्यते नव्यशिक्षितैर्विधवानां वपनम् । एतद्धि क्रौर्यमित्याच्क्षत एते। तत एव च सुदूरमेव परिहर्तुमीहन्ते तद्विधायकानि वचनान्येते। तद्धि परित्याज्यमेवैतेषां यन्नात्मनो मनोरथस्याऽनुकूलं भवति। धार्मिकाः पुनः शास्त्रैकजीविताः स्मरन्तश्च ‘तस्माच्छास्त्रं प्रमाणं ते कार्याऽकार्यव्यवस्थितौ,इति भगवतो वचनं विदधत्येव विधवानां वपनम्। न खल्वेते न जानन्ति सौन्दर्ये विशेषाधायक एव नारीणां केशपाश इति ॥ एतेन हि स्वमनोरथाऽनुकूलं प्रसाधितेन हृदयापहारितामापद्यते सौन्दर्यं नारीणामिति। तथाऽपि नेष्यते केशकलाप एतासां शास्त्रैकजीवितैर्भारतवर्षीयैरुन्नतजातीयैः। नार्योऽपि भारतवर्षीया विशेषतश्च नव्यमतानुयायिभिरसंसृष्टा “प्रियेषु सौभाग्यफला हि चारुता, इत्येवावगच्छन्ति। न चाप्येतासां भर्तारमन्तराऽन्यः कोऽपि प्रियो भवति। तत्किंवा चारुतापादकेन केशकलापेनेत्याकलयन्त्यः स्वयमेव परित्यजन्त्येनम्। सति ह्यस्मिन् समुत्पद्येत कदाचिदेतत्प्रसाधनाभिलाषो मनसि। प्रसाधितेषु चैतेषु सविशेषमेव समुद्भासेत मुखसरोजम्। उद्भासितं चैतत्कामिजनलोभनीयतामापद्येत। विकिरेयुश्चात्र दुराशयगर्भितां दृशं कामिनः पुरुषाः। भूयो भूयो विकीर्यमाणा चेयमसत्यप्यभिलाषे दूषयेन्मनः स्त्रीणाम्। यदर्थं च प्रसाध्य केशानुद्भासनीयं मुखकमलमापादनीयं च हृदयहारि सौन्दर्यंस एष दयित एतासां दिवं गतो भवति। तत एव च न केवलमकिंचित्करः प्रत्युतानर्थावह एव केशपाश इत्यवधारयन्त्यः स्वयमेव परित्यजन्त्येनं साध्व्यः। तदत्र स्वयमेव तावत् पृच्छ्यन्तां धर्मानुगामिन्यः काश्चिदपि वि-

धवा एतैरित्येव संसूच्यतेऽस्माभिः। अत्र च प्रसङ्गात् विचात्रव्यपिसंगृह्यते।

“आचार्याय प्रियं धनमाहृत्य प्रजातन्तु मा व्यवच्छेत्सी’रिति प्रजातन्तवे सति विवाहे तन्मूलानीति मन्यन्ते विधवायास्त्रीणि दुःखानि पतिपुत्रान्यतरानाश्रयत्वं निर्धनत्वं कामपीडा चेति स्पष्टं दृश्यन्ते। तत्र प्रजाद्रविणदुःखावकाशो नास्तीति श्रुतिराह। यथा तैत्तिरीयारण्यके षष्ठाध्याये मन्त्रौ सहगमनप्रकरणे और्ध्वदेहिककर्मकर्तृदेवरशिष्यजरद्दासान्यतमवक्तव्यौ ‘इयं नारी पतिलोकं वृणाना निपद्यत उपत्वा मर्त्य

प्रेतम्। विश्वं पुराणमनुपालयन्ती तस्यै प्रजांद्रविणं चेह धेहि॥ १ ॥ उदीर्ष्व नार्यभिजीवलोकमितासुमेतमुपशेष एहि। हस्तग्राभस्य दिधिषोस्त्वमेतत्पत्युर्जनित्वमभिसंबभूव ॥ २ ॥ विवृतिः—इयं त्वया सह जिगमिषन्ती नारीनरस्य धर्म्या विवाहप्राप्तधर्मेभ्योऽनपेताऽत एव पतिलोकं वृणाना पत्या कर्मयोगिना संपादितं लोकं लब्धुकामा

हिमर्त्य मरणधर्मन्, प्रेतं परलोकं गच्छन्तं त्वा त्वां उप अनुनिपद्यते म्रियते समीपं गतेति वा॥ तत्र हेतुः—विश्वं सम्पूर्णं पुराणं पुरातनंविवाहप्राप्तं धर्म

भिडूर्ग्रायस्पोषमायोभव्यप्रजाऋतुसंख्येति सप्तविधं साप्तपदीनं धर्ममनु त्वां परम्परां चानुसृत्य पालयन्ती अनुव्रतत्वादतस्त्वामनु निपद्यत इत्यभिप्रायः। तस्मै नारीत्वात्पतिलोककामायै प्रजां त्वत्संपादितां द्रविणं च तथाविधमिहास्मिन्नेव लोके धेहि देहि। अयमेवावकाशः प्रजाधिपत्यरायस्पोषयोः प्रतिज्ञा-तयोविवाहे साफल्यस्य। अस्मिन्नेव लोके पतिसंपादितप्रजाद्रविणलाभे पतिलोकः संपादित एवेत्यभिप्रायः। तदस्य धर्म्यामत्यधिकारे '

अतोऽञिति’ सू

त्रवालिकं ‘नराश्चेति वक्तव्यमि’ति तत्रादा-

हृतं नरस्य धर्म्या नारीति ॥ १ ॥ इत्थं पत्नीं प्रशंसापूर्वकं पत्युरनुज्ञया प्रजाधने भुञ्जानायाः पतिलोकवास एवेति प्रतिलोभ्य पतिप्रेतसमीपसुप्तां तामाह्वयति उदीर्ष्वेति। हे नारि नरधर्म्ये, इतासुंगतासुमेतं पतिमुपशेषे पाणिग्रहणसंप्रतिपन्नमैक्यं स्मरन्ती अंतः परमुदीर्ष्व उत्तिष्ठोत्थापनाय प्रेरय वा अभिजीवमाम्रियस्व लोकं पतिसंपादितमेवेममेहि त्वां पालयिष्यामि जीवनसामग्रीमतीमित्यभिप्रायः। परावर्तने हेतुः—त्वं परावृत्य सहगमनाज्जीवन्त्यपि हस्तग्राभस्य गृहीतहस्तस्य दिधिषोः पालयितुमिच्छोः पत्युरेवासि न पतिमृतिः स्वत्वनिवृत्तिहेतुः पिपालयिषाया अनिवृत्तेरिति। तत्र हेतुमाह। एतत्ते जनित्वं जन्मजनिरेव जनित्वं देवताजनतादिवत् पत्युः अभिसर्वप्रकारैः संबभूव विवाहकाल एव। ‘न निष्क्रयविसर्गाभ्यां भर्तुर्भार्या विमुच्यते, ‘यो भर्ता सा स्मृताऽङ्गनेति’च स्मृतेः। मरणमपि विसर्गसदृशम्। पत्या सहाभेदमापन्नायास्ते जीवनं पत्युरेव रूपान्तरमापन्नस्य। अतस्तवात्र निवासो न परलोकविच्छेदहेतुः ; यतः पत्युः तत्र निवसतोऽप्यत्र वासः, तवात्र निवसन्त्या अपि तत्रैव वास उभाभ्यां रूपाभ्यां लोकद्वयसंपादितमयमपि परोपि लोकः पत्युरेव यदि ते जीवितेच्छा तर्हि जीवेत्यभिप्रायः। अथवा जनित्वं पत्नीत्वं; एतत् तद्वितीर्णप्रजाधनादिभोगरूपं संपन्नं बभूव। अथवा एतत् अत्र शयनान्तं कर्म यत्तत्ते पत्नीत्वमभिसंबभूवेति ते जीवनं न पत्नीत्वविरोधीत्यभिप्रायः। न रूढ्यर्थस्य दिधिषोरत्रोपस्थितिस्तदानीमेतस्या दिधिषूत्वाभावात्। भाविवृत्त्याश्रयणे मानाभावाच्च। सहगमनान्यथानुपपत्त्याकामपरीक्षाविनियुक्तयोर्मन्त्रयोर्नोत्थापनविधिपरत्वम्। अतएव न पुनर्विवाहपरता। अत एव दिधिषोरपांक्तत्वमिति दिक्।

नन्वुदीर्ष्वेति लोटोत्थापनं विधीयत इति चेदनुत्थापनफललेखवैयर्थ्यापत्तेः। अनुज्ञा तु व्यज्यते। नारीति संबोधनान्नरस्योपस्थितस्य पत्युर्धर्म्येति व्युत्पत्तेर्नानुपस्थितदिधिषो रूढार्थस्य स्वत्वं युक्तं रागप्राप्तत्वादधिकाराच्च। प्रथमोपस्थितनारीशब्दगर्भेण बलीयसा दिधिषुशब्दगर्भो रूढ्यर्थोविस्रंसितः। नच दिधिषुशब्दानुरोधेन नारीशब्देलक्षणा वक्तुं शक्या । शब्दशक्त्यारूढ्या वानुरुध्यमानस्य दिधिषोरप्रवेशान्नारीशब्दे धर्म्यांशत्यागे मानाभावात्। पुंयोगप्रत्यये तु नरीत्येव। जातिवाचकत्वे प्रजाद्रविणप्रार्थनायां न बलम्। तस्मान्नरस्य धर्मेत्येवार्थोऽत्र मन्त्रयोः। ‘डुधाञ् धारणपोषणयो’ रित्यस्मादिच्छायामेव सन्। अत एव ‘नोद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्यते क्वचित्। न विवाहविधावुक्तंविधवावेदनं पुनरिति’मनुः। तस्माद्दिधिषुशब्दबलात्पुनर्विवाहकल्पना निरस्तेति दिक्।

नन्वयमर्थोऽस्तु मनुसम्मतः, पुनः पतिविधानवक्तुः पराशरस्य तु न संमतस्तस्मान्मन्त्रद्वयं दिधिषुस्वत्वविधायकमेवेति चेन्न ; असंभवार्थापत्तेः। नहि सहागमनसमये तस्यादिधिषुस्वत्वसंभवः। न च दिधिषुरेवानेन विधीयत इति वाच्यम्; मृते भर्तरि दिधिषुविधानेऽपि नष्टे प्रव्रजिते क्लीबेपतिते च पत्यौ दिधिषुविधानादर्शनात्स्वयं विधातुमशक्यत्वादिदंवचनं काल्पनिकमित्येव युक्तम्। ‘यद्वैमनुरवदत्तद् भेषजमिति श्रुतिं जानन् पराशरः सर्वज्ञो भूत्वा धर्मं कथयन् श्रुतेरसंभवार्थं स्मृत्यन्तरविरुद्धं कथं ब्रूयादिति विचार्यम्॥ ननु स्वतन्त्रा ऋषय इति चेत्स्वतः प्रामाण्यापत्तेः। तस्मान्मनुवच्छ्रुतिमनुसरता पराशरेण वक्तव्ये कथं प्रसिद्धदिधिषुपरता ? अनयैव श्रुत्या पिपालयिषौ शक्तो द्वितीयपतौ निरूढो

दिधिषुशब्द इति विज्ञेयम् । नष्टे मृते इत्यादिकारिकाभिनिवेशे सत्यपि ‘यस्या म्रियेत कन्यया वाचा सत्ये कृते पतिः। तामनेन विधानेन निजो विन्देत देवरः, इति मनूक्तिमनुसृत्य व्याख्येया। नष्टेमृत इत्यत्र पतिशब्दो वाचाङ्गोकृतपरो विज्ञेयः। तस्मान्न पुनर्विवाहगन्धोपीत्यलं विपश्चितस्तुष्यन्तु ॥

ननु प्रथमविवाहसंकल्पसिध्यर्थं पुनर्विवाहस्तत्रास्यां जनिष्यमाणसन्ततेः कुलोद्धारकत्व-ब्रह्मलोकहेतुत्वोल्लेखात्सन्तत्युत्पादनार्थं पुनर्विवाहस्तेन निर्दिष्टफलद्वयसिद्धिरिति चेत्तस्मिन्नेव कन्यादानसंकल्पेऽस्यां जनिष्यमाणसन्तत्येति यथोहस्तथास्मादित्यप्यूहो वेद्यः। अतएव तुभ्यमहं संप्रदद इति संकलप्यते, नहि कस्मैचिद्वरायेति। एतेनास्मात्संकल्पात्कन्याया वन्ध्यात्वे वा दातुस्तुल्यं फलम्।यस्मात्पत्युराज्ञायां वा दत्तकपुत्रग्रहणाधिकारोनिर्बाधः पुत्रग्रहणाधिकारः पत्युरपि विवाहमूलः॥ ननु श्रुतौदिधिषुशब्दो व्यर्थ इति चेद्भवन्मते नारीशब्दो व्यर्थस्तस्माद्दिधिषुशब्दस्य पोषकपतिपरत्वेन कृतार्थत्वान्नारीशब्दस्य नरधर्म्यपरत्वं युक्तम् । ननु न सामान्यायाः सहगमनं युक्तम्, सामान्यात्वात्तस्माद्धर्म्यायामेव दिधिषुविधानं मन्त्रार्थ इति चेदुच्यतां किमनेन सामान्यात्वं विधीयते धर्म्याया अपि ? यदि विधीयत इति ते मतम्, तदा दिधिषूत्वमनङ्गीकुर्वाणायाः किं प्रायश्चित्तंशास्त्रदृष्टम् ? विवाहेतु तादात्म्यापादनसंपादितं नारीत्वं संपादयिष्यमाणं रागप्राप्तं दुर्बलं दिधिषूत्वं बाधेत न वा। तस्मात्तादात्म्येनाढा नारो यथाकथञ्चिदूढा नारीति व्यवस्थितम् ॥

जातिवाचकस्तूढानूढसाधारणोऽत्र मन्त्रेऽप्रयोजकः। वैदिकानामेष विवाहक्रम; सप्तपद्य-धिकारदानाधिकारसिद्धयर्थं तादा-

त्म्यापादनमृक्सामवत्, इतरेषां विवाहस्तु सप्तपदीरहितस्ततोऽधिकाररहितस्तादात्म्याभावादतस्तेषु पुनर्विवाहो युक्तः। अवैदिका अपि केचिच्छिष्टा विवाहो नाम तादात्म्यापादनं पतिरेव परायणमिति जानन्तो नसंमन्वते पुनर्विवाहम् । येषां दिधिषूत्वं संमतः, तेपि विवाहमण्डपे न प्रवेशयन्ति ताम्। तद्बीजं त एव वर्णयन्ति नानुव्रतेयमिति। यैरनुव्रतोह्यते, तैः प्रतिज्ञायते धर्मे चार्थे च कामे च नातिचरामीति तां प्रतिज्ञां बलभावे स्थापयित्वाऽनुव्रता भवति पिण्डस्य छायेव तं पिण्डं कथमुत्सृजेत् धर्मे वैधेऽर्थेदाये कामे प्रजायाम् ? यद्येतेषामतिचारः, किं विवाहेनातो मृतोपि प्रार्थ्यतेऽस्या एतावानधिकार इति। अत्र प्रजां द्रविणं च धेहि परलोकं चागमिष्यति कालेन यतोनुव्रता ।पतिकर्तव्यमेतावदेव पत्नीविषये पश्चादपि प्रजाद्रविणवती यावता स्यादिति तदेव पतित्वम् । अतएव सूत्रे ‘बुद्धिमते कन्यां प्रयच्छेदि’ति पठ्यते।अनिष्टपरिहारकुशलता बुद्धिः। ये तु विधवानां प्रजाद्रविणाधिकारो नास्तीति वदन्ति तैरबला वञ्चिता न वेति प्रष्टव्या याज्ञिकाः। अत एव भ्रातृमतीमुपयच्छेत्। भ्राता हि दायप्रतिबन्धनिवृत्तिहेतुः। विवाहसमये निर्बन्धः कः परिणामे सिद्धान्तः कः । उपक्रमोपसंहारान्वितं शास्त्रं भवति। पत्नीं दायादिनीं मत्वैव द्वितीयविवाहसमयेऽनुज्ञा प्रार्थ्यते लोके तदभावे तदभावः। सप्तपद्यानुव्रतत्वं विधीयते। यथा “इष एकपद्यूर्जे द्विपदी रायस्पोषाय त्रिपदी मायोभव्याय चतुष्पदी प्रजाभ्यः पञ्चपद्यृतुभ्यः षट्पदी सखा सप्तपदी भव सा ममानुव्रता भव। पुत्रान्विन्दावहै बहूंस्ते सन्तु जरदष्टयः” इति। इडन्नमूर्ग्बलं रैर्धनं मायोभव्यमारोग्यं प्रजा यथाशास्त्रमुत्पादिताः सुता ऋतवस्तत्तत्कालप्राप्तकर्माणि क्रतव

इति यावत् । सखा कथनमनपेक्ष्य हितकर्ता सर्वान्तरङ्गः। एते सप्ताधिकारास्तव यदि मामनुव्रता तस्मात्तथा भवेति विधिः । तस्याऽनुव्रतत्वस्य फले पुत्रान्विन्दावहा इत्यादि । पुत्रो नाम सशास्त्रः सन्कुलोद्धर्ता। पुंनाम्नोनरकात्त्रातापुत्र इत्यभिधीयत’ इति स्मृतेः। इदं मुख्यं प्रयोजनंविवाहस्य। तत्र मामशङ्किष्ठा इत्याह ते सन्तु जरदष्टय इति। जरन्त्योऽष्टयः शरीरसंघाताः। ‘अशू संघाते’। अनयाशिषैतव्द्यज्यते पुत्रसंपादनं विवाहफलं यथाशक्ति यतेहं मत्पञ्चादपि जरदष्टिरपि पुत्रं संपादय दत्तकादिनाःअतएव प्रजाधिकारः सफल इत्याशीरर्थः। अत एवानुसूयाऽत्रेः परोक्षमपि पुत्रीकृत्य त्रीनपि दत्तदूर्वासश्चन्द्रान्नापराधं भेजे तादर्थ्यविज्ञानादात्मनः। वन्ध्यात्वं च निवृत्तं तस्याः। गोत्रप्रवरान्वितः पुत्रः कुलमुद्धरति तस्मादुपदिष्टं गुरुभिः प्रजातन्तुं माव्यवच्छेत्सीरिति। तदुपदेशसिद्धं मदभिन्ना मद्गोत्रप्रवरान्वितपुत्रसंकल्पं पालय तेन मम तवापि कुलमुद्धृतं भवेदिति विवाहसमय एव निर्बन्धाद्दिधिषुर्दुर्बलो गच्छतु शूद्रादिषु श्राद्धरहितेषु इति ॥ किञ्च—

विवाहादिरनादिर्मानुषधर्मः। अविवाहादिरनादिः पशुधर्मः। तथा पुरुषपारतन्त्र्यं स्त्रियो मानुषधर्मः, स्वातन्त्र्यं सममिति प्रत्यक्षः पशुधर्मः। धर्मार्थं स्त्रीति मानुषः, रत्यर्थमिति पाशवः। प्रजा धर्म इति मानुषः, सहजेति पाशवः। आस्मृति संबन्धो मानुषः, आकार्यं संबन्धः पाशवः। अतो मानुषसंबधो दुस्त्यजो मानुषाणामिति न भवितुमर्हति मानुषेषु पुनर्विवाहो मानुषेतरसंमतः। अनवच्छिन्नपरम्पराप्राप्तशिक्षावत्वं मानुषत्वं धर्मनीतिरक्षासमर्थमिति

लोकतन्त्रशास्त्रतन्त्रौ मिथः संभाष्य तुष्टौ प्राप्तकालनिरीक्षणविस्मृतचित्तौ सर्वज्ञो व्यास इति स्मरन्तौ जग्मतुर्यथेष्टम्॥

न च्यावयेच्छास्त्रमार्गादनादेर्मान्यसंमतात् ॥
नवं न रचयेन्मार्गमसर्वज्ञत्वनिश्चयात्॥

श्रुतोऽयं धर्मो नयश्च। तथापि विधवानां दुर्जयकामपीडितानां का गतिः, यया तासां दुर्दशा निवर्तेतेति चेत्, अयं प्रश्नो दातुः प्रतिगृहीतुर्विधवाया वा ? आद्ये न दानाधिकारः, द्वितीये न प्रतिग्रहाधिकारोऽन्यस्वत्वेन प्रतिबद्धत्वात् उभयोस्तस्या अपि। किंच किमयं धर्मप्रश्न उत कामप्रश्न ? आद्ये न धर्मः पुनर्दानानुपलब्धेः। द्वितीये न प्रश्नसंभवः। कया कामवत्या पतिसंख्येयत्तीकृता, संपादितेपि पुनः पत्यावपर्याप्तेः सुस्थत्वात्। अत एव पतयो रुदन्ति कुलटानां । ययैका संख्या बाधिता सान्यामपि बाधेत; कामतृप्तेर्दुरूहत्वात् ॥ ननु पुरुषवदातृप्ति विवाहक्रम इति चेत्॥ उक्तं पूर्वं परस्वत्वप्रतिबन्धादिति स न पुरुषेऽन्तो बहुपत्नीकः॥ ननु “पतिरन्यो विधीयते” इति स्पष्टमुपलब्धं पुनर्दानम्, ततः पूर्वपतिस्वत्वं निवृत्तमिति चेत्, मृतपतिकानां दायाभावप्रसङ्गः। दायार्थं स्वत्वाङ्गीकारे न पत्यन्तरलाभः। यद्युभयमिष्टम्, तर्हि गोप्यं पत्यन्तरम्, प्रकटः पतिः पूर्वगोत्रं छिनत्ति तथा संबन्धं, ततो न दायलाभः। यदि गोत्रानङ्गीकारस्तदा तु सुतरां दूरे दायः; अपिण्डदत्वात्। यासां न दानं तासां निर्बन्धानुरूपो दायः। कन्यानां पतिस्वत्वाय दानं तन्निवृत्त्यै घटस्फोटः। तस्मान्निवृत्तस्वत्वायाः पतिरपि तादृशो योग्यः। कोऽङ्गीकुर्यात्तादृशीं शिष्टः। तस्मात्पातित्यैकपद्धतिः पुनर्विवाहः। अथ तद्दुःखनिवृत्त्युपायश्चिन्त्यते। दुःखं कस्मात् विवाहादुत पतिमरणात् ? आद्ये विवाहो धर्मादुत

कामात् । आद्ये धर्ममूलदुःखस्य धर्मार्थत्वात् प्रतिक्षणमभीष्टसिद्धेः सर्वं सुखम् । द्वितीये विवाहमन्तरापि कामसिद्धिबहुषु स्थस्लेषु ततस्तत्राप्रयोजको विवाहः । दायार्थं चेत्, किं धनार्थिन्योपि दायमर्हन्त्यतिप्रसङ्गात् । मरणाच्चेत्, नास्त्युपायः ; शीलप्रतिबन्धात् ॥

किंच स्त्रियस्त्रिविधाः स्वकीयाः परकीयाः सामान्या इति ॥ स्वकीयात्वहानिः कामहानिर्धनहानिरिति तासां दुःखत्रयम् । क्रमात्स्वकीयात्वरक्षणमुपायः, यतो दायो धर्मः प्रतिष्ठेति सुखत्रयं प्रथमायाः; द्वितीयाया गुप्तपुरुषान्तरम्, यतो दायः कामश्च, तृतीयायाः स्वातन्त्र्यं, यस्माद्विपुलं धनं कामश्चेति त्रय उपायाः । यदि कश्चित् सामान्यायै दायं बलाद्दापयेत् तर्हिसामान्यातुष्टस्य बलात्कारोऽयं न न्यायः । यदि न्यायस्तर्हि सामान्यात्वं दायभाक्त्वं च नैकत्रधनस्वत्वस्य पतिस्वत्वमूलत्वात्तदभावात्स्वत्वाभावः । तस्माच्छीलरक्षणंविधवानां सधवानां वा सुखोपायःप्रसिद्धतमो निर्णीतः । तच्छीलरक्षणं पुरुषाणामपि सुखोपायः । अतएव गीतायाम् -

“स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः ।
संकरो नरकायैव कुलघ्नानां कुलस्य च ॥
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥
दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः ॥
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ।
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दनः ॥
नरके नियतं वासो भवतीत्यनुशुश्रुम” ॥

तस्मात्स्त्रीपुरुषाणां दुःखोपस्थापनाय पुनर्विवाहस्थापनपुरुषा

र्थाः

किमुदात्ताः किमनुदात्ताः किं स्वरिताः । त्रयोपि पुनर्विवाहे संमतिं न दातुमर्हन्ति नायकत्वात्पोषणसमर्थाः । तस्मात्प्रचयसामान्यासंमतः पुनर्विवाहो वर्णसंकराद्यनर्थहेतुः । तस्मात्संस्मरतु भगवान् स्वोक्तम्—

“यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहं ॥
परित्राणाय साधूनां विनाशाय च दुष्कृतां ।
धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥”

इति वचनम् । श्रीशंकरश्च -

“धर्मग्लानौसत्यां क्रन्दन्त्यां गवि सुरेषु चलितेषु ।
धर्मस्थापनदीक्षादक्षस्त्वमतो वृषारुढः ॥”

इति धर्मरूपवृषवाहनत्वहेतुं स्वाभिप्रेतम् । राजानोपि संस्मरन्तु सिंहासनारोहणपद्धतिम्, इतरेऽपि स्वस्वपरम्परामार्गम् ।येन सुखभूयांसः शान्ता नन्दतु । इति ॥

सर्वथा तु न विधवापुनर्विवाहोऽयं शास्त्रसम्मतः, न वा युक्ति

सम्मतः, नापि वा लोकसम्मत इत्येवास्माकं प्रतिभाति । शास्त्राणि

सर्वाणि तासामपि हि प्रेषणयैव तत्तादृशान् धर्मान् व्यवस्थापय

न्तीति नात्र कस्याप्यनाश्वासः समुचितः । यथा च शास्त्रं न परि

स्थितिमूलकं तथा पूर्वमेव व्यवस्थापितम् । इतिहासेन तु सत्यं

पूर्वतनकाले कदापि विवाहोऽप्यासीदित्यवगम्यते । को नाम वदति नविधवाविवाहः पूर्वं संवृत्तः, न वा संवर्तते, न संवर्त्स्यतीतिवेति । तत्रेदमेवास्माकं वक्तव्यम्—यन्नायमाचारः शुभाचार इति नामान्तरेण प्रकाशव्यभिचार एवेति च । नहि कोऽपि कमपि धर्माधर्मयोर्निग्रहीतुं पारयति । उक्तं हि भगवता—प्रकृतिं यान्ति

भूतानि निग्रहः किं करिष्यतीति । अत्र यद्यपि बहव एव वादिनः प्रतिवादिनश्च दृश्यन्ते । बहवश्च ग्रन्था अपि मुद्रापिता अमुद्रापिताश्च दृश्यन्ते । तथापि सर्वेषामपि विचाराणां विचारणीयविषयवाक्यं प्राधान्येन—नष्टे मृते प्रव्रजिते क्लीबे च पतिते पतौ, पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते—इति पराशरवचनमेव । तत्त्वद्ययावदप्रकाशितकृष्णम्भट्ट्यादिदर्शने न कथमपि तच्छास्त्रीयतावादिनामनुकूलम्, किन्तु तदशास्त्रीयतावादिनामेवेति वयं पश्यामः । इतः परन्तु युक्तायुक्तविवेकनिपुणाः प्रियपाठकमहोदया एव प्रमाणमिति ग्रन्थविस्तरभयादत्रैव समाप्यते । समापनञ्च मधुरेणैव कृतं सहृदयहृदयाल्हादकमिति मत्वाऽत्रावसरे सहृदयहृदयाल्हादकानि श्रवणसुन्दराणि च विचारत्रयीगतान्येतदर्थपराणि वाक्यानि केवलं सङ्गृह्णीमः। तद्यथाः—कथमपि पुनर्विवाहो न प्रसज्यते; उक्तप्रतिबन्धात् । को नाम भुञ्जीतान्यस्मै परिविष्टं तेन च स्वीकृतं श्वमार्जारमन्तरा ? दात्रा जलपूर्वं दत्तं प्रतिग्रहीत्रा सप्तपद्या गृहीतं परिषेचितान्नमिव नान्यभोग्यमिति न्यायः । किं भोक्त्रा त्यक्तमन्नमन्येऽपीच्छन्ति मनुष्याः सन्तः ? अतस्तद्भोगस्य सर्वासम्मतत्वात् पत्युरनन्तरं सौभाग्यपरित्यागो गृहमात्रसंस्थितिश्च सम्मता सम्भावितानां सभ्यानाम् । अत एव पत्या सहगमनं प्रशंसन्ति स्म वृद्धाः । पुनः पतिविधानवचनं सप्तपद्याः प्रागस्तु यथाकथञ्चिच्चरितार्थम् ? स्वस्वत्वापादकप्रतिग्रहसंस्कारस्य सप्तपद्यन्तत्वात् । वर्णस्वरयोरिव सम्पादिता सप्तपद्या मैत्री केन भेत्तुं शक्या केन वा वोढुम् । तस्मात् विवाहस्वरसमजानद्भिः पशुप्रायैः कामतन्त्रैरङ्गीकृतः पुनर्विवाहो विवेकशैथिल्यमूलः । किं सम्पादितं मानुषजनुष्मता, किंहान्यैसमर्पितं पशुभिः, प्रवृत्तितारतम्येऽपि

विवेकसाम्यात् । एवं स्थिते न्यायपथे कः काचपात्रं पुनरुद्वाहस्येति वदतु भवान् । अथवा “पतिरन्यो विधीयते”इत्यत्रान्यशब्दो देवरपरः । “द्वितीयो वरो देवरः” इति निरुक्तात् । स च पत्युरनुजे रूढः । स च कलिवर्ज्यः । एतेनैतद्वचनं युगान्तरविषयम् । कथमपि नैतद्वचनं पुनर्विवाहप्रतिपादकम् ।दत्तदानायोगादविभागेनाङ्गीकृतत्यागायोगाल्लज्जाभारस्थगितत्वादद्यपर्यन्तं निरुद्धः पुनरुद्वाहः ।

न ग्राह्यत्वं न देयत्वं स्त्रियः पत्युरनन्तरम् ।
न दाता न ग्रहीता वा न पाणिग्रहणं पुनः ॥

विधवामुद्दिश्य स्नातकोपस्थानप्रसङ्गेदत्तादानप्रसङ्गे स्वीकृतत्यागप्रसङ्गे लज्जावार्तादूरसङ्गे च भविष्यति पुनरुद्वाहः शिक्षकाभावात् । यतः -

सकृज्जल्पन्ति राजानः सकृज्जल्पन्ति पण्डिताः
सकृत्कन्याः प्रदीयन्ते त्रीण्येतानि सकृत्सकृत् ॥
किं मृतेनापि संत्यक्तः पाणिर्विधिनिपीडितः
किं छद्मिनौ दुर्बलौ वा वक्तारौ राजपण्डितौ ॥

शिक्षाकालमपेक्ष्याष्टमादिद्वादशान्तं च प्रवृत्तो दानकालोऽतिगम्भीरः प्राक्तनव्यवहारो धर्मरूप इदानीन्तनैर्ह्रसितविवैकैर्दुर्विज्ञेयोऽप्यनुसर्तव्य एव ।

‘क्वधर्मो बहुगम्भीरः क्वोत्तरत्राविवेकिता ।
अतः परम्पराप्राप्तमार्गो धर्मः सनातनः ॥ १ ॥
क्व भूरिमतयः पूर्वे मन्वाद्याः पारदर्शिनः
तद्बुध्द्यालम्बसञ्चाराः क्वेदानीन्तनपण्डिताः ॥ इति ।

साधकबाधकवचनविचारः

तदत्रान्ते विधवाविवाहसाधकानि बाधकानि च सर्वाणि वचनानि संगृह्य तदाशयनिष्कर्षमुपपाद-

यामः। तत्र तत्साधकतामर्हन्ति वचनानि प्रथममधो निर्दिश्यन्ते—

( १) उदीर्ष्वनार्यभिजीवलोकमितासुमेतमुपशेष एहि । हस्तग्राभस्य दिधिषोस्त्वमेतत् पत्युर्जनित्वमभिसंबभूव ॥

(२) कुहस्विद्दोषा कुह वस्तोरश्विना कुहाभिपित्वं करतः कुहोषितुः । को वा शयुत्रा विधवेव देवरं मर्यं न योषा वृणुते सधस्थ आ ॥ इति ।

मन्त्रलिङ्गेतु न विधवाविवाहसाधके । तत्र प्रथममन्त्रेदिधिषोः पाणिग्राभस्य एतत् जनित्वमित्येतेषां पदानां सार्थक्यं हि विधवाया जन्मान्तरे उक्तपतिनैव सपतित्वमित्येतत्सिद्धान्त एव संभवति, नान्यथा । न हि अत्र दिधिषुपदेन विधवापतिर्निघण्टुसिद्धो विवक्षितुं शक्यते । यतः चिताशयनादुत्थानात्पूर्वं न तस्याः पतिः कोऽपि सम्भवति । ततश्च पुनर्विवाहेच्छोरित्येव दिधिषोरित्यस्य विवरणं योग्यम् । तत्र चैतज्जन्मसंबन्ध्येवपुनर्विवाहेच्छुरपरःकिमत्र विवक्षितः, उत जन्मान्तरसंबन्धी तादृशोऽयमेवेति विचारे त्वस्माकमिदमेव प्रतिभाति—यत् प्रथमपक्षेपाणिग्राभस्येतिपदवैयर्थ्यमापततीति द्वितीय एव पक्षोऽत्राभिमत इति ।

यदि तु अवश्यं मन्त्रस्य मुख्यार्थ एव ग्रहीतव्यः, न तु गौणार्थ इत्याग्रहः, एवमपीदमेव स्वीकर्तव्यमुक्तमन्त्रवर्णस्वारस्येन—यत् विधवापतिरेवापरो विधवायाः पतिर्भवितुमर्हति, न तु शुद्धोऽन्यः पतिरिति । तथा च “पौनर्भवेन भर्त्रासा पुनः संस्कारमर्हति”इति विधवापतेः पौनर्भवत्वप्रतिपादनमपि व्याख्यातम् । सर्वथा तूक्तमन्त्रवर्णानुसारेणापीदमेवावगम्यते—यत् विधवाविवाहोऽयं निन्द्यधर्मेष्वेकतम इति । अत एव -

अज्ञातस्तु द्विजो यस्तु विधवामुद्वहेद्यदि ।

परित्यज्य च तां चैव प्रायश्चित्तं समाचरेत् ॥

इत्याश्वलायनवचनम्,—

“यस्मै दद्यात् पिता त्वेनां भ्राता वानुमते पितुः ।
तं शुश्रूषेत जीवन्तं संस्थितं च न लङ्घयेत् ॥
कामन्तु क्षपयेद्देहं पुष्पमूलफलैः शुभैः ।
न तु नामापि गृह्णीयात् पत्यौ प्रेते परस्य तु ॥
न द्वितीयश्च साध्वीनां क्वचिद्भर्तोपदिश्यते ।
न विवाहविधावुक्तं विधवावेदनं पुनः ॥
सकृदंशो निपतति सकृत्कन्या प्रदीयते ।
सकृदाह ददानीति त्रीण्येतानि सकृत्सकृत् ॥
ब्रह्मचर्यं चरेद्वापि प्रविशेद्वा हुताशनम् ।
पाणिग्रहणिका मन्त्राः कन्यास्वेव प्रतिष्ठिताः ।
नाकन्यासु क्वचिन्नृणां लुप्तधर्मक्रिया हि ताः ॥
पाणिग्रहणमन्त्रास्तु नियतं दारलक्षणम्”

इति मनुवचनानि,—

“मृते जीवति वा पत्यौ या नान्यमुपगच्छति ।
सेह कीर्तिमवाप्नोति मोदते चोमया सह”

इतियाज्ञवल्क्यवचनम्, -

“मृतं भर्तारमादाय ब्राह्मणी वन्हिमाविशेत् ।
न विशेच्चेत्त्यक्तकेशातपसा शोषयेद्वपुः ॥”

इति व्यासवचनम्, -

“मृते भर्तरि ब्रह्मचर्यं तदन्वारोहणं वा”
मृते भर्तरि या साध्वी ब्रह्मचर्ये व्यवस्थिता ।
स्वर्गं गच्छत्यपुत्रापि यथा ते ब्रह्मचारिणः ॥

इति विष्णुवचने,

एक एव पतिर्नार्या यावज्जीवं परायणम् ।
मृते जीवति वा तस्मिन् नापरं प्राप्नुयाद्वरम् ॥
अधिगम्य परं नारी पतिष्यति न संशयः ॥

( महाभारते आदिपर्वणि १०८ अध्याये ) वचनम् ।

अत्र विधवाविवाहयोग्यतापक्षपातिभिर्निकर्षणीया विषया इमे एवे । यथाः—( १ ) विधवाविवाहः सर्ववर्णसाधारणः, उत शूद्रमात्रविषयः । ( २ ) एवं तत्रापि स किं तत्तत्सामजान्तर्गतसमाजमात्रविषयः, उत सर्वसमाजसाधारणः । (३) विधवाया दानं संभवति वोतनेति । (४) विधवाविवाहे मन्त्रप्रयोगाः सन्ति वोत न सन्तीति । तत्र शूद्रविषयत्वे तत्रापि तत्समाजस्य पृथक्संस्थात्वे चोक्तमन्त्रगतदिधीषुपदं पूर्वोद्धृतव्यासवचनगतं ब्राह्मणीपदं चानुगुणं वर्तते इत्युभाभ्यामिदमवगम्यते, शूद्राणामेव तत्रापि समाजविशेष एव विधवाविवाहो नायोग्य इति । “सकृदंशो निपतति”इत्यादिवचनानि तु तस्याः पुनर्दानासंभवगमकानि वर्तन्ते । तत्र समाजविशेषेऽपि विना दानमवव्यवस्थाविशेषपुरःसरमेव स सम्पादनीय इति गम्यत एव ।“पाणिग्रहणिका मन्त्राः”इत्यादिवचनैरिदमवगम्यतेयत्—नतत्र मन्त्रसंस्कारार्हतेति । अनेन चेदं सिद्धं भवति—यत् विधवाविवाहोऽयं ब्राह्मणानां दानपूर्वकं मन्त्रसंस्कारपूर्वकं च कथमपि न सम्भवतीति । अत्र ब्राह्मणपदं मन्त्रसंस्कारार्हजातिमात्रोपलक्षणमिति त्रैवर्णिकानां मध्ये विधवाविवाहप्रचारोऽयंसर्वथाऽयोग्य इति सिद्धम् । एवं च “नष्टे मृते”इत्यादीनि सर्वाणि वचनानि त्रैवर्णिकेतरविषयाण्येव—इति केचित् ॥ अन्ये—तूक्तवचनस्य त्रैवर्णिकपरत्वेऽपि मन्त्रसंस्कारपूर्वकालप-

र्यन्तं पितृस्वत्वानिवृत्तिपरतायामेव उक्तवचनतात्पर्यात् न मन्त्रसंस्कृतायाः पत्न्याः पुनर्विवाहे किमपि प्रमाणमस्तीति—मन्यन्ते ।

मतद्वयेऽपि—विवाहानन्तरपतिमरणादौ निमित्ते त्रैव

र्णिकानां पुनर्विवाहप्रचारोऽयोग्य—इति तु समानम् । अत्र च न केवलं स्मृतिवचनान्येवावलम्बः, किन्तु तैत्तिरीत्यादिश्रुतिरपि । सा यथा—

“एकस्मिन् यूपे द्वे रशने परिव्ययति, तस्मादेकोद्वे जाये विन्दते, यन्नैकां रशनां द्वयोर्यूपयोः परिव्ययति, तस्मान्नैका द्वौपती विन्दते”इति ॥

नियोगविषयकवचनविचारः

एतेन—“कुहस्विद्दोषा”इति मन्त्रोऽपि व्याख्यातः । सत्यम्, अत्र मन्त्रे नियोगः प्रतिपाद्यते, परन्तु सोऽपि न सर्ववर्णसाधारणः, किन्तु

शूद्रामात्रविषयः । व्यवस्थापितं चैतत् प्रमाणप्रकाशे उद्धृतायां कलिवर्ज्यप्रकरणव्याख्यायां कृष्णभट्टीयायाम् । याज्ञवल्क्यस्मृतिव्याख्या बालक्रीडाप्यत्रानुकूला ।सा यथा—

“नन्वेवं अपुत्रस्य मरणात् सन्तत्युच्छेदप्रसङ्गः । अस्तु । का नः पीडा । अथवा—

अपुत्रां गुर्वनुज्ञानात् देवरः पुत्रकाम्यया ।
सपिण्डो वा सगोत्रो वा घृताभ्यक्त ऋतावियात् ॥ ६८ ॥

घृताभ्यञ्जनवचनं कामप्रवृत्तिनिरोधार्थम् । ततश्चालिङ्गनादि वैकारिकत्वात् दूरापेतम् । ऋतुग्रहणं त्वन्यदा दर्शनाद्यपि कथं न स्यादित्येवमर्थम् ॥ ६८ ॥

किं सकृदेव गमनम् ? न;अदुष्टार्थत्वप्रसङ्गात् । अपत्यार्थं ह्येतद्गमनम् । अतस्तु—

आगर्भसंभवाद्गच्छेत् पतितस्त्वन्यथा भवेत् ।

प्राक् गर्भसंभूतेः परित्यागात् ।तु शब्दश्चैवकारार्थः ।

यद्वैवंयोजना ।नन्वयं नियोगपक्षोदुःश्लिष्टः ।पातकप्रसङ्गात्। न;

अनेन विधिना जातः क्षेत्रिणः स भवेत्सुतः ।

अनेन नियोगविधिना जातः क्षेत्रिणो भ्रात्रादेरौरसवत् पुत्रो भवतीत्ययं विधिः ।नात्र विचिकित्सा कार्येत्यर्थः । न चैवंवृत्तः पतितो भवति । कथं तर्हि पतितस्त्वन्यथा भवेदिति । तदनियुक्तेर्विकाराद्वा गच्छन्नित्यभिप्रायः । अयं पुनः परोपकाराय प्रवृत्तेरभ्युदयभागित्यनवद्यो नियोगः ।

अत्र चोदयन्ति—नायं नियोगपक्षःश्रेयान्; स्मृत्याचारविरोधात् । तथा चाह मनुः—

नान्यस्मिन् विधवा नारी नियोक्तव्या द्विजातिभिः ।
अन्यस्मिन् हि नियुञ्जाना धर्मं हन्यु सनातनम् ॥ इति ॥

पुराकल्पं चोपन्यस्योपसंहृतम् -

तदा प्रभृति यो मोहात् प्रमीतपतिकां स्त्रियम् ।
नियोजयत्यपत्यार्थे तं विगर्हन्ति साधवः ॥ इति ॥

अतो नास्ति नियोगः । तथा च शिष्टसमाचारः । नन्वियमपि स्मृतिरेव “अपुत्रां गुर्वनुज्ञानादि”त्यादि । मानवेऽपि—

देवराद्वा सपिण्डाद्वा स्त्रिया सम्यङ् नियुक्तया ॥”

इत्यादि । न चेयं लोभादिमूलेतिशक्यं वक्तुम; सर्वथा विकारप्रतिषेधात् । तदुक्तं—घृताभ्यक्त—इति । मनुनापि च—

“विधवायां नियुक्तस्तु घृताक्तोवाग्यतो निशि”इति । अतो नेयमपस्मृतिः । अथ श्वशुरधनादीच्छया लोभ आशङ्क्येत् । तदपि

प्रजेप्सिताधिगन्तव्या सन्तानस्य परिक्षये—इत्यनेनैव निरस्तम् । तथा चोक्तम्—

“पतितौ भवतो गत्वा नियुक्तावप्यनापदि”इति । वसिष्ठेनापि “धनलोभान्नास्ति नियोगः”इति । अतो निर्दोषः । शास्त्राविशेषात्तुप्रतिषेधो विकल्पाय भवति । अतो न विरोधः । अन्ये तु प्राक्विवाहादुपरते भर्तरि नियोगाधिकारं वर्णयन्ति सामान्यविशेषोपसंहृतिन्यायात् । यथाह मनुः—

यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः ।
तामनेन विधानेन निजो विन्देत देवरः ॥ इति ॥

तत्तु विधवायां नियुक्तस्त्वित्यनेनैव निरस्तम् । ननु च सापि विधवेतिशक्यं वक्तुम् । न; स्मृत्यन्तरविरोधात् । यथाह वसिष्ठः—‘प्रेतपत्नीषण्मासं व्रतचारिणी’ इत्युपक्रम्य “पित्रा भ्रात्रा वा नियोगं कारयेत्” इत्यादि । नन्वनूढापि प्रेते पत्यौप्रेतपत्न्येव । मैवम्; नहि प्राग् विवाहात् पत्नीशब्दप्रवृत्तिरिति । एवं हि भगवतः पाणिनेः स्मरणम्—“पत्युर्नोयज्ञसंयोगे” इति । अतोऽसत्कल्पम्; उपक्रमोपसंहारात् । “कथं तर्हि “यस्या म्रियेते” त्ययं श्लोकः ? आसुरविवाहविषयतया व्याख्येयः ।यस्याः कन्यायाः शुल्कं दत्त्वाशुल्कदो म्रियेत, सा यदीच्छेत्, ततो देवराय पूर्ववत् प्रदातव्या । न चेत्, नियोगं देवरेणैव कारयेत् । यद्वा ‘निजो विन्देते’ ति निजग्रहणात् सोदर्यो देवरः अनेन विधिना नैयोगिकेन वैवाहिकेन वा विन्देतैव ।सापत्नस्तु कन्यानुमतः । तथा चाह—

“कन्यानां दत्तशुल्कायां म्रियेत यदि शुल्कदः ।
देवराय प्रदातव्या यदि कन्यानुमन्यते ॥”

इति । यदा त्वदत्तशुल्क एव म्रियेत, तदा तस्मिन् प्रेते कुमार्येव सतीच्छयान्यस्मै पित्रा विधिवत् देया । यथाह वसिष्ठः—

अद्भिर्वाचा च दत्तायां म्रियेतादौ वरो यदि ।
न च मन्त्रोपनीता स्यात् कुमारी पितुरेव सा ॥

इति । आदाविति वचनात् विवाहसन्निधौ वाग्दत्ताप्यकन्यकेति ज्ञायते । ‘बलाच्चेत् प्रहृता कन्ये’त्यस्य पुनरयमर्थः—प्रहृता दूषिता, प्रशब्दसामर्थ्यात् । क्षात्राच्च विधेरन्यत्रैव द्रष्टव्यम्, तत्र दूषणासम्भवात् । यदि मन्त्रैर्न संस्कृता, ततोऽन्यस्मै विधिवत् प्रायश्चित्तं कारयित्वा देया । कृतप्रायश्चित्ता च यथा कन्या तथेव सेति मन्तव्यम् । इदं तु कल्पानन्तरम्—

“पाणिग्राहे मृते बाला केवलं मन्त्रसंस्कृता इति । अस्यार्थः—ग्रामधर्मेण पूर्वमपि विवाहात् पाणिग्रहणम्, तस्मिन् पाणिग्राहे मृते कन्याहुतेर्वा प्राक् पाणिग्रहणात् । यद्यक्षतयोनिः; तथाप्यन्येन भर्त्रा पुनर्विवाहसंस्कारमर्हतीति । सर्वथा परिणीतायाः पुनः परिणयनाभावः । तदुक्तम्—

“न विवाहविधावुक्तं विधवावेदनं क्वचित्” इति । तथा च बौधायनः—

“निसृष्टायां हुते वापि यस्यै भर्ता म्रियेत सः ॥”

इति । अपि निसृष्टायाम्, अपि हुते, न परिणीतायामित्यर्थः “सा चेदक्षतयोनिः स्यादि”त्येतदेव स्पष्टीकरोति, यदुपवर्णितमस्माभिः । अतो न कन्याविषया नियोगस्मृतिः । कस्तर्हि विषयः ? प्रेते पत्यौ सन्तानपरिक्षये च । प्रतिषेधसामर्थ्याच्च विकल्पः । तथाचाम्नायः—“तस्मादेकस्य बव्ह्योजाया भवन्ति, नैकस्यै बहवः सहपतयः”इति । सहप्रतिषेधाच्च क्रमेण भवन्तीति ज्ञायते ।

तथा “यस्मै मां पिता दद्यात्, नैवाहं तं जीवन्तं हास्यामि”इति जीवन्नहानवचनाच्च मृते भर्तरिनियोगोऽस्तीति ज्ञायते । “कौ वां शयुत्रा विधवेव देवरं मर्यं न योषा कृणुते सधस्थ आ”इत्यस्मात्पुनर्मन्त्रवर्णात् स्पष्टतरो नियोगः । एवं हीन्द्रेण चिराद् दृष्टावश्विनावुक्तौ ‘दुर्दर्शौयुवां क्व पुनर्विधवेव योषा देवरं मर्यं मनुष्यभावं शयने हर्षस्थाने आपादयन्ती कच्चिदा कुरुते वाम्” उपचरतीत्यर्थः । अनेन नियोगं स्पष्टीकरोति । तथाच वसिष्ठः—“प्रजापत्ये मुहूर्ते पाणिग्राहवदुपचरेत्” इति । अतोऽनवद्यो नियोगः ।

अत्रोच्यते—नैवं नियोगस्मृतिर्व्याख्येया; समाचारविरोधात्, विकल्पस्य चान्याय्यत्वात् । कथं तर्हि ? शूद्राविषया नियोस्मृतिः । कुत एतत् ? मनुवचनात् । “नान्यस्मिन् विधवा नारीं नियोक्तव्या द्विजातिभिः” इति द्विजातिसम्बद्धः प्रतिषेधः । सामान्यतः शूद्रसंबन्धितया विधिः । तस्मादविकल्पः । तथा चोक्तम्—

अयं द्विजैर्हि विद्वद्भिः पशुधर्मो विगर्हितः ।
मनुष्याणामपि प्रोक्तो वेने राज्यं प्रशासति ॥

इति । मनुष्याणामपि शूद्राणामपीत्यर्थः । तथा च समाचारः यत्पुनर्व्यासेन विचित्रवीर्यभार्यास्वपत्योत्पादनम्, तद् द्रौपदीविवाहवदनादृत्यम् । अथवा क्षत्रियाणामप्यन्वयक्षये राज्यपरिपालनाय नियोगोऽभ्यनुज्ञायते । स च राज्ञामेव; कार्यानुरोधात्, व्यासवचनाच्च । राज्ञां ब्राह्मणेनैव कारयितव्यम् । एवं च सत्याम्नाया अपि क्षत्र्त्रियविषया एव “नैवाहं जीवन्तं तं हास्यामी”त्यादि । जीवनसमर्थो न हातव्य इत्याम्नायार्थः । “नैकस्यै बहवः सहपतयः” इति तु पुनः संस्कारविषयम् । तत्र मुख्यः पतिशब्दः । मन्त्रवर्णस्तु

शूद्रविषय एव व्याख्येयः । एवं देवरादिवाक्यान्यन्यान्यपि व्याख्येयानि । तथाच वृद्धमनुः—

शूद्राणामेव धर्मोऽयं पत्यौ प्रेतेऽन्यसंश्रयः ।
लोभान्मूढैरविद्वद्भिः क्षत्रियैरपि चर्यते ॥

इत्युक्त्वाह—

वायुप्रोक्तां तथा गाथां पठन्त्यत्र मनीषिणः ।
विप्राणां न नियोगोऽस्ति प्रेते पत्यौन वेदनम् ॥

इयं सा गाथा—

अकार्यमेतद्विप्राणां विधवा यन्नियुज्यते ।
उह्यते वा मृते पत्यौ देवरेण विशेषतः ॥

इति । कथमिदानीमेतद्वसिष्ठवचनम्—

“भ्रातर्यव्यपदेशेन नाध्येतव्यं कदाचन”

इति । अनेन ह्यध्यापनसम्बन्धाद्ब्राह्मणानामपि नियोगाधिकारोऽस्तीति गम्यते ? उच्यते; नैतद्युक्तम्; उक्तत्वान्न्यायस्य;भूयसामनन्यपराणां चानर्थक्यात् वरमेकस्यान्यपरस्य च बाधकल्पना । क्षत्रियविषयं चैतद्वाक्यम् । तेषां ह्यापदि नियोगाधिकारात् । स च ब्राह्मणेनैवेत्युक्तम् । तेनैवं योजना— भ्रातर्यध्यापयत्यपि नाध्येतव्यम् । केन ? अव्यपदेशेन । न व्यपदिश्यतेऽनेनेत्यव्यपदेशः अन्यजातीय इत्यर्थः । किमर्थम् ? बोद्धव्यं गुरुतल्पस्य निमित्तम् । भ्रातुः शिष्यभार्यागमनात् । भर्ता ह्यापत्सु देवरः । भर्तेति भरणयोगात् श्रैष्ठ्याच्च ब्राह्मणः, स यस्मादापत्सु देवरो भवति नियोज्यत इत्यर्थः । तस्मात्ततो नाध्येतव्यम् । आपत्स्विति चैकस्यामेवापदि । बहुवचनं गौरवार्थम् । सन्तानपरिक्षयलक्षणैवापद् यथा स्यात् । नाध्यापयितव्य इति च वक्तव्ये नाध्येतव्यमित्युक्तं क्षेत्रिणः पुत्र

इति ज्ञापनार्थम् । कथं वास्य ब्राह्मणविषयत्वोपपत्तिः । न हि सोदर्ययोर्नियोगसम्भवः । कथं कृत्वा ? यदि तावन्नियोज्योऽप्यपुत्रः, तदात्मन एवोत्पादयेत् । अथ तस्य पुत्रोऽस्ति, तदा—

भ्रातृणामेकजातानां यद्येकः पुत्रवान् भवेत् ।
सर्वे ते तेन पुत्रेण पुत्रिणो मनुरब्रीत् ॥

इति वचनादक्षीणत्वात् सन्तानस्य कुतो नियोगः । क्षत्रियविषयत्वे तु नैष विरोधः । अथ सापत्नविषयतोच्येत । तत् क्षत्रियेऽपि समानम् । यदा त्वेकजातानामित्यस्यैकवर्णजातानामित्यर्थः, तदा स्पष्टैव क्षत्रियविषयता । यत्तुब्राह्मण्याः प्रोषिते भर्तरि कालप्रतीक्षणवचनम, तद्भर्तुरन्तिकगमनार्थम्, न तु नियोगार्थमिति विविच्य वचनीयम् । तस्मात्सूक्ता नियोगवाक्यानां विषयकल्पना एवं तावच्छूद्राणां नियोगाधिकार उक्तः ॥ इति ॥

कन्यालक्षणविषयकवचनविचारेणापिविधवोद्वाहस्याशाशास्त्रीयता

एतदेवाभिप्रेत्योक्तं याज्ञवल्क्येन “अनन्यपूर्विकां कान्ताम्” इति । अत्र ‘अनन्यपूर्विकां कान्तामसमानार्षगोत्रजाम्’ इति न पर्युदासः ; किन्तु प्रसज्यप्रतिषेध एव । अत एव सगोत्राया ऊढायामातृवत् परिपालनीयत्वमेव तत्र तत्रोक्तम्, न तु तस्या उपभोगयोग्यत्वमपि । तथा च यदि कश्चिदज्ञानेन सगोत्रामिवान्यपूर्विकामपि विवहेत् । तर्हि तत्परित्यागपूर्वकं प्रायश्चित्तमाचरेदित्येव धर्मशास्त्ररहस्यम् ।

अत एव—

अज्ञानस्तु द्विजो यस्तु विधवामुद्वहेद्यदि ।
परित्यज्य च तां चैव प्रायश्चित्तं समाचरेत् ॥

इत्याश्वलायनवचनमुपपद्यते । अत्रेदमनुसन्धेयम्—यत्

विवाहप्रकरणे वर्जनीयतयोक्ताः कन्या द्विविधा वर्तन्ते यथाऽऽजानसिद्धापरिहरणीयदोषयुक्ताः, कादाचित्कपरिहरणीयदोषयुक्ताश्च । तत्र द्वितीयासूक्तदोषपरिहारानन्तरं तादृशदोषसंभवतः पूर्वं वा विवाहः कर्तव्यः। प्रथमासूक्तदोषपरिहारासंभवात् ब्राह्मण्यादिद्विजत्वोत्पत्तिमात्रोपयोगी विवाहो भवितुमर्हति, न तु धर्मप्रजासंपत्त्युपयोगी सः । विवाहेन स्त्रिया द्विजत्वं पत्नीत्वं च, पत्या सहाधिकारः, इत्यादिकं फलम् । पुरुषस्यतु गृहस्थत्वं ऋणत्रयापाकरणाधिकारः फलम् । तत्र पत्नीत्वं सप्रतियोगिकं स्त्रीणामदुष्टानां भवति । दुष्टानां तु द्विजत्वमात्रनिष्पत्तिः । अत एव—स्त्रीणामुपनयनस्थाने विवाहं मनुरब्रवीत्—इति द्विजत्वोत्पत्तिसाधकतायां स्त्रीत्वमेव सामान्यं विवक्षितम्, न तु दोषविशेषराहित्यादिकमपि ।गृहस्थः सदृशीं भार्यामित्यादिस्थल एवयत्र भार्यात्वोत्पादकतया विवाहो विवक्षितस्तत्रैव विशेषणविशेषाणां विवक्षा ।तथाच दोषविशेषविशिष्टानां नाविवाह्यत्वं कस्यापि सम्मतम्, किन्तु धर्मानधिकार एव तासां विवक्षितः । तथाच परपुरुषाधिगमेन स्त्रियाः पातित्यं भवतीति धर्मशास्त्रसिद्धान्तः । तदुक्तं महाभारते आदिपर्वणि १०४ तमेऽध्याये—

“अभिगम्य परं नारी पतिष्यति न संशयः”

इति । तदयं निष्कर्षः—आजानसिद्धदोषाणां मूकभावादिदूषितानां द्विजत्वमात्रनिष्पादनोपयोगी विवाहः, अपरिहरणीयदोषाणान्तु सकृद्विवाहितानां न तन्मात्रोपयोग्यपि स संभवतीति ।

वीरमित्रोदयोपष्टम्भः

अत्र वीरमित्रोदयो यथा—तत्र याज्ञवल्क्यः—

अनन्यपूर्विकां कान्तामसपिण्डां यवीयसीम् ।
अरोगिणीं भ्रातृमतीमसमानार्षगोत्रजाम् ॥ इति ॥

अन्यः पूर्वो यस्याः साऽन्यपूर्वा । अन्यपूर्वैवान्यपूर्विका, न अन्यपूर्विका तां अनन्यपूर्विकां सा च द्विविधा । पुनर्भूःस्वैरिणीच ।पुनर्भूरपि द्विविधा । क्षता अक्षता चेति । तथा स एव—

अक्षता च क्षता चैव पुनर्भूः संस्कृता पुनः ।
स्वैरिणी या पतिं हित्वा सवर्णं कामतः श्रयेत् ॥ इति ॥

अस्यार्थः—पुनःसंस्कृता पुनर्भूः,सा च संस्कारद्वैविध्याद्विविधा । तत्र विहितविवाहमात्रसंस्कृताऽनुपभुक्ता अक्षतेत्युच्यते । क्षता पुनर्विवाहात्प्रागेव निषिद्धपुरुषसम्बन्धदूषिता । या तु कौमारं पतिमुत्सृज्य पुरुषान्तरं श्रयति सा स्वैरिणी । एतासामेव किञ्चिदवान्तरभेदेन सप्तविधत्वमाह कश्यपः—

सप्त पौनर्भवाः कन्या वर्जयित्वा कुलाधमाः ।
वाचा दत्ता मनोदत्ता कृतकौतुकमङ्गला ॥
उदकस्पर्शिता या च या च पाणिगृहीतिका ।
अग्निंपरिगता या च पुनर्भूप्रसवा च या ॥
इत्येताः कश्यपेनोक्ता दहन्ति कुलमग्निवत् ॥इति ॥

बोधायनोऽपि, ‘वाचा दत्ता मनोदत्ताऽग्निं परिगता सप्तमं पदं नीता भुक्ता गृहीतगर्भा प्रसूता चेति सप्तविधा पुनर्भूः, तांगृहीत्वा न प्रजां न धर्मं विन्देदिति । नारदस्तु पुनर्भूत्रैविध्यं स्वैरिणीचातुर्विध्यं चाह—

परपूर्वाः स्त्रियस्त्वन्याः सप्त प्रोक्ता यथाक्रमम् ।
पूनर्भूस्त्रिविधा तासां स्वैरिणी तु चतुर्विधा ।
कन्यैवाक्षतयोनिर्या पाणिग्रहणदूषिता ।
पुनर्भूःप्रथमा प्रोक्ता पुनःसंस्कारकर्मणि ॥
देशधर्मानवेक्ष्यस्त्री गुरुभिर्या प्रदीयते ।

उत्पन्नसाहसान्यस्मै सा द्वितीया प्रकीर्तिता ॥
उत्पन्नसाहसा उत्पन्नव्यभिचारा ।
असत्सु च देवरेषु बान्धवैर्या प्रदीयते ॥
सवर्णायसपिण्डाय सा तृतीया प्रकीर्तिता ॥
स्त्री प्रसूताऽप्रसूता वा पत्यावेव तु जीवति ।
कामात्समाश्रयेदन्यं प्रथमा स्वैरिणी तु सा ॥
कौमारं पतिमुत्सृज्य या त्वन्यं पुरुषं श्रिता ।
पुनः पत्युर्गृहं यायात्सा द्वितीया प्रकीर्तिता ॥
मृते भर्तरि तु प्राप्तान्देवरादीनपास्य या ।
उपगच्छेत्परं कामात्सा तृतीया प्रकीर्तिता ॥
प्राप्ता देशाद्धनक्रीता क्षुत्पिपासातुरा च या ।
तवाहमित्युपगमात्सा चतुर्थी प्रकीर्तिता ॥ इति ॥
एतासां सर्वासामविवाह्यत्वेऽप्यतिक्रान्तनिषेधेन परिगृहीत्रा ऋणं द्वयोरेव देयम् । तथा च स एव—
अन्तिमा स्वैरिणीनां या प्रथमा च पुनर्भुवाम् ।
ऋणं तयोः पतिकृतं दद्याद्यस्ते उपाश्रुतः ॥ इति ॥
अथान्यथापरिणयने प्रतिप्रसवः । तत्र याज्ञवल्क्यः—
अपुत्रां गुर्वनुज्ञातो देवरः पुत्रकाम्यया ।
सपिण्डो वा सगोत्रो वा घृताभ्यक्त ऋतावियात् ॥इति ॥
यद्यप्यत्र गमनमात्रमेव श्रूयते, तथाऽपि परिणयनपूर्वकमेव तद्द्रष्टव्यम् ।
यस्या म्रियेत कन्याया वाचा सत्येकृते पतिः ।
तामनेन विधानेन निजो विन्देत देवरः ॥

यथाविध्यधिगम्यैनां शुक्लवस्त्रां शुचिव्रताम् ।
मिथोभजेताप्रसवात्सकृत्सकृदृतावृतौ ॥

इति मनुस्मरणात् । अयं च विवाहो वाचनिको मृतस्यैव भार्यात्वोत्पादकः । न वोढुः ।
अनेन विधिना जातः क्षेत्रजोऽस्य भवेत्सुतः ।
इति इदमा मृतस्यैव परामर्शात् । स च वाग्दत्ताविषयो नोढाविषयः । ‘यस्या म्रियेत कन्याया’इति
पूर्वोत्तमनुवचनात् । तथा—

“देवराद्वा सपिण्डाद्वा स्त्रिया सम्यङ्नियुक्तया ।
प्रजोप्सिताऽधिगन्धव्यासन्तानस्य परिक्षये ॥
विधवानां नियुक्तस्तु घृताक्तो वाग्यतो निशि ॥
एकमुत्पादयेत्पुत्रं न द्वितीयं कथंचन ॥

इत्येवं नियोगमुपन्यस्य मनुः स्वयमेव निषेधति—

नान्यस्मिन्विधवा नारी नियोक्तव्या द्विजातिभिः ।
अन्यस्मिन्हि नियुञ्जानाः धर्मं हन्युः सनातनम् ॥
नोद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्यते क्वचित् ।
न विवाहविधावुक्तं विधवावेदनं पुनः ॥
अयं द्विजैर्हि विद्वद्भिः पशुधर्मो विगर्हितः ।
मनुष्याणामपि प्रोक्तो वेने राज्यं प्रशासति ॥
स महीमखिलां भुञ्जन् राजर्षिप्रवरः पुरा ॥
वर्णानां सङ्करं चक्रे कामोपहतचेतनः ॥
ततः प्रभृति यो मोहात्प्रमीतपतिकां स्त्रियं ।
नियोजयत्यपत्यार्थे गर्हन्ते तं हि साधवः ॥
विधवायां नियुक्तस्त्वित्यत्र विधवाशब्दो वाग्दानान-

न्तरं विवाहात्प्राङ्मृतपतिकाविषयः; वाचा सत्ये कृतेपतिरित्युपक्रमात् । नान्यस्मिन्विधवा नारीत्यत्र तु
विधवाशब्दो विवाहानन्तरं मृतपतिकाविषयः; नोद्वाहिकेषु मन्त्रेष्वितिहेतूपन्यासात् । ततश्च विषयभेदान्न मिताक्षरोक्तविकल्पशङ्कावसरः । तथाचाहपराशरः—

नष्टे मृते प्रव्रजिते क्लीबे च पतिते पतौ ।
पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥

वसिष्ठबोधायनावपि—

बलादपहृता कन्या मन्त्रैर्यदि न संस्कृता ।
अन्यस्मै विधिवद्देया यथा कन्था तथैव सा ॥ इति ॥

याज्ञवल्क्योऽपि—दत्तामपि हरेत्पूर्वाच्छ्रेयांश्चेद्वर आव्रजेत् । एतच्च वाग्दत्ताविषयम् । वाग्दत्ताऽपि वरदोषेज्ञाते गुणवतेऽन्यस्मै देयेत्यर्थः । तथाच गौतमः—प्रतिश्रुत्याऽप्यधर्मसंयुक्ताय न दद्यादिति । वरदोषास्तु प्रागुक्ताः । शातातपोऽपि—

वरश्चेत्कुलशीलाभ्यां न युज्येत कथंचन ।
न मन्त्राः कारणं तत्र न च कन्यानृतं भवेत् ॥
समाच्छिद्य तु तां कन्यां बलादक्षतयोनिकाम् ।
पुनर्गुणवते दद्यादिति शातातपोऽब्रवीत् ॥
हीनस्य कुलशीलाभ्यां हरन्कन्यां न दोषभाक् ।
न मन्त्राः कारणं तत्र न च कन्यानृतम् भवेत् ॥ इति ॥
स तु यद्यन्यजातीयः पतितः क्लीब एव वा ।
विकर्मस्थः सगोत्रो वा दासो दीर्घामयोऽपि वा इति

ऊढाऽपि देया सान्यस्मै सप्रावरणभूषणा ॥ इति ॥
वागुदकदत्तायामप्यसंकृतायां वरमरणे न कन्यात्वहानिः । तथाच वसिष्ठः—
अद्भिर्वाचा च दत्तायां म्रियेतादौ वरो यदि ।
न च मन्त्रोपनीता स्यात् कुमारी पितुरेव सा ॥ इति ॥
वरणानन्तरं देशान्तरगमने विशेषमाह कात्यायनः—
वरयित्वा तु यः कश्चित्प्रणश्येत्पुरुषो यदि ।
ऋत्वागमांस्त्रीनतीत्य कन्यान्यं वरयेद्वरम् ॥ इति ॥
नारदोऽपि—
प्रतिगृह्य तु यः कन्यां वरो देशान्तरं व्रजेत् ।
त्रीनृतून्समतिक्रम्य कन्यान्यं वरयेद्वरम् ॥ इति ॥
शुल्कदानानन्तरं वरमरणे विशेषमाह मनुः—
कन्याया दत्तशुल्काया म्रियेत यदि शुल्कदः ।
देवराय प्रदातव्या यदि कन्यानुमन्यते ॥
शुल्कदानानन्तरं देशान्तरगमने विशेषमाह कात्यायनः
प्रदाय शुल्कं गच्छेद्यः कन्यायाः स्त्रीधनं तथा ।
धार्या सा वर्षमेकं तु देयान्यस्मै विधानतः ॥
अनेकेभ्यो वाग्दत्तायां विशेषमाह स एव—
अनेकेभ्यो हि दत्तायां अनूढायां तु यत्र वै ।
प्रत्यागतश्च सर्वेषां लभ्येतादिवरः सुताम् ॥
अथागच्छेयुरूढायां दत्तपूर्ववरो हरेत् ॥ इति ॥
योऽयं पुनरुद्वाहो विहितः सोऽक्षतयोन्या एव ।
पौनर्भवेन भर्त्रा सा पुनः संस्कारमर्हति ।
इति मनुवचनात् ।

अत्र सेति तच्छब्देन पूर्वप्रकान्ता पुनर्भूरुच्यते ।

यद्यपि—

या पत्या वा परित्यक्ता विधवा स्वेच्छयापि वा ।
उत्पादयेत्पुनर्भूत्वा स पौनर्भत्र उच्यते । इति ।

स्मृत्यन्तरवाक्यैकवाक्यतया पुनर्भूमात्रजातस्य पौनर्भवत्वेन पुनर्भू सामान्यस्यैव प्रक्रमोऽभिप्रेत इति ध्येयम् । तस्याश्चाक्षतयोनित्वलक्षणगुणविशेषपुरस्कारेण पुनःसंस्कारो विधीयते । तत्र कुल्लूकभट्टव्याख्या—

सा यद्यक्षतयोनिः सती अन्यमाश्रयेत, तदा तेन पौनर्भवेन भर्त्रा पुनर्विवाहाख्यं संस्कारमर्हतीति । तत्र चाक्षतयोन्याःपुनर्विवाहे पौनर्भवेन भर्त्रेत्यन्वयकरणात् गतप्रत्यागतासंस्कारे च कौमारेण भर्त्रेत्युपादानात् द्वितीयस्यैव पौनर्भवत्वं न पूर्वस्येति सिद्ध्यति । तेन च “पौनर्भवश्च काणश्चेति श्राद्धे, तथा पौनर्भवे द्विजे इति दाने च, परपूर्वापतिस्तथेत्यादिना च प्रतिषेधोऽपि द्वितीयस्य पत्युस्तदुत्पन्नानां पुत्राणां चेति सर्वनिबन्धसंमतम्, न क्वापि प्रथमस्य पत्युः पौनर्भवत्वेन तदपत्यानां वा निषेधो गम्यते । यद्यपि पुनर्भ्वाअयमिति सम्बन्धसामान्यविवक्षया पूर्वापरयोर्द्वयोरपि पत्योः पौनर्भवत्वं प्रतीयते, तथापि पुनर्भवतीतिव्युत्पत्तावन्यथानुपपत्त्या भार्येति शेषस्याऽवश्यकतया यत्प्रतियोगिकभार्यात्वेनास्याः पुनर्भूत्वं तस्योपस्थितस्य विशेषस्य परित्यागे कारणाभावात् बुद्धिस्थतया चायमिति सर्वनाम्ना परामर्शसम्भवात्तस्यैव पौनर्भवत्वं युक्तम् ।

यत्तु अपरार्केणोभयोरपि पत्योः पौनर्भवत्वमुक्तम्, तदुक्तयुक्त्या बाधितमिति ध्येयम् । यद्यप्यस्मिन्व्याख्याने गतप्रत्त्या-

गतायां क्षताक्षतात्वविशेषो न प्रतीयते, तथापि नारायणसर्वज्ञमेधातिथिभ्यां तस्यामप्यक्षतयोनि-पदानुषङ्गकरणादक्षतात्वमेव सिध्यति । युक्तं चैतत् ।त्यक्त्वा भर्तृगृहं गच्छेद्यदि दोषं विना पुनः ॥

भर्त्रा सा संस्कर्तव्या च प्रायश्चित्तादिभिः क्रमात् ॥ इति ॥ दोषश्च क्षतयोनित्वम् ।यथाह वसिष्ठः—पाणिग्राहे कृते कन्या केवलं मन्त्रसंस्कृता । सा चेदक्षतयोनिः स्यात्पुनः संस्कारमर्हति ॥ इति ॥ नारदोऽपि—उद्वाहिताऽपि या कन्या न चेत् संप्राप्तमैथुना । पुनः संस्कारमर्हेत यथा कन्या तथैव सा ॥ इति ॥ अतएव मनुः—पाणिग्रहणिका मन्त्राः कन्यास्वेव प्रतिष्ठिताः । नाकन्यासु क्वचिन्नृणां लुप्तधर्मक्रिया हि ताः ॥ इत्यक्षतयोनीनामेव कन्याशब्दाभिधेयानां मन्त्रसंस्कारमाह, कन्या अग्निमयक्षतेति मन्त्रलिङ्गात्, एतेनापरार्कीयमपि गतप्रत्यागतायां क्षतात्वव्याख्यानं परास्तम् ।

यच्च ‘पुनर्भूर्या कौमारं भर्तारमुत्सृज्यान्यैः सह चरित्वा पुनस्तस्यैव गृहमाविशति सा पुनर्भूर्भवति’ इत्युपक्रम्य पुनः संस्कारबोधकं वसिष्ठवाक्यमत्रोदाहृतम्, तत्रापि चरित्वेत्यत्र नैकान्ततः सुरतमेव कर्मतयोपतिष्ठते । सप्तपदीं चरित्वेत्यस्यापि सम्भवात् । बहूनामनुग्रहो न्याय्य इति न्यायेनानेकवाक्यानुरोधाच्च । वस्तुतस्तु धात्वर्थमर्यादयापि सप्तपदीचरणमेव मुख्यार्थो गम्यते, न सुरतमिति ध्येयम् ।नन्वेवमक्षतयोन्या एव संस्कारविधाने ‘यागर्भिणी संस्क्रियते ज्ञाताऽज्ञाताऽपि वा सती । वोढुःसगर्भो भवति सहोढ इति चोच्यते’इति मनुवचनं विरुध्येत । गर्भिण्याःसंस्कार विधानादिति चेत्, मैवं; सहोढस्य वोढुः पुत्रत्वान्यथानुपपत्यातादृशसंस्काराभ्युपगमात् । तस्मादक्षतयोनिश्चेद्गतप्रत्यागता तदापूर्वभर्त्रापुनः संस्कृत्य परिग्राह्येति । अत्राहुः—न संग्राह्येति ।

पुनस्संस्कारस्य कलौ निषेधात् । यथा ‘ऊढायाः पुत्ररुद्वाहं ज्येष्ठांशं गोवधं तथा । कलौ पञ्च न कुर्वीत भ्रातृजायां कमण्डलुम् ॥ इति । तदपरे न क्षमन्ते । वरान्तरकर्तृकस्यैव पुनर्विवाहस्य कलौनिषेधो न स्वकर्तृकस्य ।‘दत्ताक्षतायाः कन्यायाः पुनर्दानं परस्य च’इति बृहन्नारदीयवाक्येनास्योपसंहारात् । अत एव—बालिकाऽक्षतयोन्याश्च वरणेनान्येन संस्कृतिः— इति धर्मज्ञसमये स्पष्टमेवाभ्यधायि ।अन्यथा चिरप्रोषितस्य जीवद्वार्तानाकर्णने कृतोर्ध्वदेहिकस्य पुनः प्रत्यागमनेपि स्त्रियाः पुनः संस्कारो निषिध्येत । तस्मान्नास्य निषेधस्यायं विषय इति न पूर्वेण भर्त्रा तस्याः परिग्रहे विरोध इति ॥ तन्न साधु, स्वपरकर्तृकस्य द्विविधस्यापि पुनः संस्कारस्य कलौ निषेधात् । यथा ब्रह्मपुराणे—

मृते भर्तरि या नारी त्यक्तवत्यथ तं स्वयम् ।
सवर्णाज्जनयेद्गर्भं भर्तुः पौनर्भवं सुतम् ।
यदि सा बालविधवा बलात्यक्ताथवा क्वचित् ॥
तदा भूयस्तु संस्कार्या गृहीता येन केनचित् ।
त्यक्त्वा भर्तृगृहं गच्छेद्यदि दोषं विना पुनः ॥
भर्त्रा सा संस्कर्तव्या च प्रायश्चित्तादिभिः क्रमात् ॥
स्त्रीणां पुनर्विवाहस्तु देवरात्पुत्रसंततिः ।
स्वातन्त्र्यं वाकलियुगे न कर्तव्यं कदाचन ॥ इति ॥

अत्र यत्तच्छब्दोपादानादेकवाक्यत्वम् । तच्चैवम्—या मृतभर्तृका या च जीवन्तमेव भर्तारं स्वयं त्यक्त्वा सवर्णादन्यस्मात्पुरुषाद्गर्भं जनयेज्जनयितुं प्रवर्तते, तदा सा येन केनचिद्गृहीता स्वीकृता भूयः संकार्या ।तत्र मृतभर्तृकायास्त्यक्तभर्तृकायाश्चाविशेषप्राप्तावाह—यदि सा बालविधवेत्यादि । मृतभर्तृका यदि

बालविधवाऽक्षतयोनिस्तथा त्यक्तभर्तृका भर्त्राऽपि बलान्निर्भर्त्स्यत्यक्ता भवति, तदैव संस्कार्या नान्यथा । अनेन च—या पत्या वा परित्यक्ता विधवा स्वेच्छयापि वा—इति मनुवाक्येऽपि पत्या स्वेच्छया परित्यक्तेत्येवान्वयः सिद्धः । तेन च क्षतयोन्याः भर्तृपरित्यक्तायाश्च व्यावृत्तिः । तत्र गर्भस्य कुण्डगोलकत्वपरिहारायाह । ‘भर्तुः पौनर्भवं सुत’मिति । भर्तुर्द्वितीयस्य भर्तुः पौनर्भवं ( ४ )पुनर्भ्वामुत्पादितं सुतं पुनस्संकृतायामुत्पन्नस्यैव पौनर्भवत्वात् । एवं पुनर्भूसंस्कारमुक्त्वा गतप्रत्यागतासंस्कारमाह त्यक्त्वेति । यदि सैवपुनर्भूःपौनर्भवं भर्तारं त्यक्त्वा दोषं पुरुषसम्बन्धं विना पुनः भर्तुः पूर्वस्य पत्युर्गृहं गच्छेत्तदा सा भर्त्रा पूर्वेण प्रायश्चित्तादिभिः संस्कार्येति । तदेवमुभयविधमपि संस्कारं कलौ निषेधति ।स्त्रीणामिति पुनर्विवाह उक्तविषयः । स्वातन्त्र्यं विधवायाः पित्रादिपरिहारेण स्थितिरिति । अत्र तदा भूयस्तुसंस्कार्येति परकर्तृकस्य भर्त्रा सा संस्कर्तव्या चेति स्वकर्तृकस्य च पुनस्संस्कारस्य पुनः प्रक्रमात् स्त्रीणां पुनर्विवाहस्त्विति सामान्यनिषेधो द्वावपि विषयीकरोति; विशेषेविनिगमकाभावात् । यदि सन्निधिर्विनिगमकस्तदा सुतरामस्मदभीष्टसिद्धिः , स्वकर्तृकस्यैव संनिहितत्वात् । न च सामान्यरूपस्यास्य विशेषेणोपसंहार इति वाच्यम् ; संनिधिलक्षणप्रकरणोपात्तविशेषद्वयान्वयेन विशेषरूपतयैवास्य नैराकाङ्क्ष्यात् , ग्रन्थान्तरीयस्य विशेषस्य विलम्बोपस्थितिकतयाऽनन्वयात् । तस्मात्पुनर्भूर्गतप्रत्यागताचेत्युभेअपि

असंग्राह्येइति ।

चतुर्विंशतिमतसंग्रहः

चतुर्विंशतिमतसंग्रहेप्ययमेवार्थ उपपादितः । स यथाः—

अनन्येति । या दानेनोपभोगेन वा पुरुषान्तरपूर्विका न भवति ताम् । अनेन सप्त पुनर्भूवो व्यावर्त्यन्ते । तथाचाह बोधायनः— वाग्दत्ता मनोदत्ताऽग्निं परिगता सप्तमं पदं नीता भुक्ता गृहीतगर्भा प्रसूता चेति सप्तविधा पुनर्भूस्तां गृहीत्वा न प्रजां न धर्मं विन्देदिति । अत्र वाग्दत्तामनोदत्तयोर्निषेधः पूर्वस्य निर्दोषत्वे बोध्यम् । अत एव नारदः—

दत्तां न्यायेन यः कन्यां वराय न ददाति तां ।
अदुष्टश्चेद्वरो राज्ञा स दण्ड्यस्तत्र चोरवत् ॥ इति ॥

तत्रव दण्डं विधत्ते । दुष्टे तु पूर्ववरे वाग्दत्ताऽपि वरान्तराय देया ।तथाच पराशरः— नष्टेमृते प्रव्रजिते क्लीबे च पतिते पतौ । पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥ इति ॥

अस्यार्थः— वाग्दानानन्तरं पाणिग्रहणात्प्राक् पतौ संभावितोत्पत्तिकपतित्वे पूर्वस्मिन्वरे नष्टे सति लक्षणया दूरदेशगमनेनापरिज्ञातवृत्तान्ते सति । तथा च— नारदः—

परिगृह्य तुयः कन्यां नरो देशान्तरं व्रजेत् ।
त्रीनृतून्समतिक्राम्य कन्याऽन्यं वरयेद्वरम् ॥
स्त्रीपुंसयोस्तु संबन्धात् वरणं प्राग्विधीयते ।
वरणात् ग्रहणं पाणेः संस्कारोऽपि विचक्षणैः ॥
तयोरनियतं प्रोक्तं वरणं दोषदशनात् ॥ इति ॥
परिगृह्य वाचा दत्तां स्वीकृत्य ।त्रीनृतूनिति । इदं च
कन्याया अधार्यत्वे बोध्यम् । धार्यत्वे तु—
प्रदाय शुल्कं कन्याया गच्छेद्यस्त्रीधनं तथा ।
धार्या सा वर्षमेकं तु देयाऽन्यस्मै विधानतः ॥

इति नारदेनैव वर्षं प्रतीक्षाया अभिधानात् । स्त्रीपुंसयोरि-

त्यादेरयमर्थः । स्त्रीपुंसयोः संसर्गात्प्राक्त्रितयं क्रियते—वरणं, पाणिग्रहणं, सप्तपदीप्रक्रमश्चेति । तत्र वरणं नाम वरस्य संप्रदानत्वाय कन्याया दात्रा प्रार्थनम् । तदेव च वाग्दानम् । एवं स्थिते तयोः पाणिग्रहणसप्तपदप्रक्रमणयोः पूर्वभावियद्वरणं तदनियतं अनियामकमित्यर्थः । तयोरेव भार्यात्वोत्पादकत्वादिति भावः । तथाच मनुः—

पाणिग्रहणमन्त्रास्तु नियतं दारलक्षणम् ।
तेषां निष्ठा तु विज्ञेया विद्वद्भिःसप्तमे पदे ॥इति ॥

दोषदर्शनादिति वाक्यशेषस्यायमर्थः । वरणस्यानियामकत्वमपि पूर्ववरस्य दोषेसत्येवेति ।यदि तु अन्यस्मै दत्तायां पूर्ववरोप्यायाति, तदाऽनूढांतां लभते । ऊढायां तु स्वदत्तं द्रव्यमेव लभते, न तुकन्याम् । तदाह कात्यायनः—

अनेकेभ्योऽपि दत्तायां अनूढायां तु तत्र वै ।
पुरागतश्च सर्वेषां लभते तदिमां सुताम् ॥
अथागच्छेत वोढायां दत्तं पूर्ववरो हरेदिति ।

तदैवं नष्ट इति व्याख्यातम् । एवं मृतेऽपि । तथाचवसिष्ठः—

अद्भिर्वाचा च दत्तायां म्रियेतादौ वरो यदि ।
न च मन्त्रोपनीता स्थात्कुमारी पितुरेव सा ॥ इति ॥

मन्त्रोपनयनं पाणिग्रहणादिकं विना वाचा दानमिवाद्भिरपि दानं न भार्यात्वोत्पादकमित्यर्थः । अतएव यमः—

नोदकेन न वा वाचा कन्यायाः पतिरुच्यते ।

पाणिग्रहणसंस्कारात्पतित्वं सप्तमे पदे॥ इति ॥

तथा प्रव्रजिते कृतसंन्यासे । क्लीबे चेति चकारादन्यजातीयादेर्ग्रहणम् । तथाच कात्यायनः —

स तु यद्यन्यजातीयः पतितः क्लीबएव वा ॥
विकर्मस्थः सगोत्रो वा दासो दीर्घामयोऽपि वा ॥
ऊढाऽपि देया सान्यस्मै सप्रावरणभूषणा ॥ इति ॥

अत्रोढाऽपीत्यपिशब्दः कौमुतिकन्यायेन वाक्दत्ताया एवान्यस्मै दानमाचष्टे न तूढायाः ।अन्यथासगोत्रोढाया अपि पुनर्विवाहप्रसक्तौ मातृवत्परिपालयेदिति शास्त्रं विरुध्यते ।तदयं संग्रहः—अनन्यपूर्विकामिति दानेनोपभोगेन पुरुषान्तरागृहीतामित्यर्थः । अनेन पुनर्भूर्व्यावर्त्यते । अत एव
काश्यपः—

सप्त पौनर्भवाः कन्याः वर्जनीयाः कुलाधमाः ॥
वाचा दत्ता मनोदत्ता कृतकौतुकमङ्ग

ली॥
उदकस्पर्शिता या च या च पाणिगृहीतिका ॥
अग्निं परिगता या च पुनर्भूप्रसवा च या ॥
इत्येता काश्यपेनोक्ता दहन्ति कुलमग्निवत् ।

बोधायनः—वाग्दत्ता मनोदत्ताऽग्निं परिगता सप्तमंपदं नीता भुक्ता गृहतिगर्भा प्रसूता चेति सप्तविधा
पुनर्भूः । तां गृहीत्वा न प्रजां न धर्मं विन्देत् । इति ।नारदोऽपि—

कन्यैवाक्षतयोनिर्या पाणिग्रहणदूषिता ।

पुनर्भूःप्रथमा प्रोक्ता पुनः संस्कारकर्मणि ॥ इति ॥

अयं भावः—ब्राह्मादिषु विवाहेषु यद्दानमुक्तंतत्सकृदेव । तथाच याज्ञवल्क्यः—

‘सकृत्प्रदीयते कन्या हरंस्तां चोरदण्डभाक् ।’इति ॥

मनुरपि—

सकृदंशो निपतति सकृत्कन्या प्रदीयते ।
सकृदाह ददानीति त्रीण्येतानि सतां सकृत् ॥ इति ॥

एतच्चादुष्टवराभिप्रायम् । यदाह नारदः—

दत्त्वा न्यायेन यः कन्यां वराय न ददाति ताम् ।
अदुष्टश्चेद्वरो राज्ञा स दण्ड्यस्तत्र चोरवत् ॥ इति ॥

किमयमुत्सर्गः ? नेत्याह याज्ञवल्क्यः—

‘दत्तामपि हरेत्पूर्वाच्छ्रेयांश्चेद्वर आव्रजेत् ॥ इति ॥

एतद्वाग्दानाभिप्रायम् । यस्मै वाचा दत्ता ततोऽन्यश्चेत्प्रशस्ततरो लभ्यते ततस्तस्मै देया न तु दुष्टाय
पूर्वस्मै । तथाच गौतमः — ‘प्रतिश्रुत्याप्यधर्मसंयुक्ताय न दद्यादि’ति । वरदोषास्तु कात्यायनेनोक्ताः—

उन्मत्तः पतितः कुष्ठी तथा षण्डः सगोत्रजः ।
चक्षुःश्रोत्रविहीनश्च तथापस्मारदूषितः ॥
वरदोषास्तथैवैते कन्यादोषाः प्रकीर्तिताः ॥ इति ॥

यस्तु ऊढायाः पुनरुद्वाहो यमशातातपाभ्यां दर्शितः—

“वरश्चेत्कुलशीलाभ्यां न युज्येत कथंचन ।
न मन्त्राः कारणं तत्र न च कन्यानृतं भवेत् ॥
समाच्छिद्य तु तां कन्याबलादक्षतयोनिकाम् ।
पुनर्गुणवते दद्यादिति शातातपोऽब्रवीत् ॥

हीनस्य कुलशीलाभ्यां हरन्कन्यां न दोषभाक्।
न मन्त्राः कारणं तत्र न च कन्यानृतं भवेत् ॥ इति ॥

कात्यायनोऽपि—

स तु यद्यन्यजातीयः पतितः क्लीब एव वा ।
विकर्मस्थःसगोत्रो वा दासो दीर्घामयोऽपि वा ॥
ऊढाऽपि देया सान्यस्मै सप्रावरणभूषणा ॥ इति ॥

मनुरपि—

नष्टे मृते प्रव्रजिते क्लीबे च पतिते तथा ।
पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥ इति ॥

सोऽयं पुनरुद्वाहो युगान्तरविषयः। तथाचादित्यपुराणम्

“ऊढायाः पुनरुद्वाहं ज्येष्ठाशं गोवधं तथा ।
कलौ पञ्च न कुर्वीत भ्रातृजायां कमण्डलुम् ॥इति ॥

यस्तु कन्यादोषमनभिधाय प्रयच्छति स राज्ञा दण्डयितव्य इत्याह नारदः—

यस्तु दोषवतीं कन्यामनाख्याय प्रयच्छति ।
तस्य कुर्यान्नृपो दण्डं पूर्वसाहसचोदितम् ॥ इति ॥

याज्ञवल्क्योऽपि—

अनाख्याय ददद्दोषं दण्ड्य उत्तमसाहसम् ॥ इति ॥

कन्यादोषास्तु नारदेन दर्शिताः ।
दीर्घकुत्सितरोगार्ता व्यङ्गा संसृष्टमैथुना ।
दुष्टान्यगतभावा च कन्यादोषाः प्रकीर्तिताः ॥ इति ।

न केवलं दोषमनाख्याय ददतो दण्डः , अपि तुसाऽपि परित्याज्येत्याह मनुः—

विधिवत्प्रतिगृह्यापि त्यजेत्कन्यां विगर्हिताम् ।

व्याधितां विप्रदुष्टां वा छद्मना चोपपादिताम् ॥ इति ॥

नारदोऽपि—

नादुष्टां दूषयेत्कन्यां नादुष्टं दूषयेद्वरम् ।
दोषे सति न दोषः स्यादन्योन्यं त्यजतस्तयोः ॥ इति ॥

एतच्च सप्तपदाभिक्रमणादर्वाग्वेदितव्यम् ; तत्रैव भार्यात्वस्योत्पत्तेः। अत एव मनुः —

पाणिग्रहणिका मन्त्रा नियतं द्वारलक्षणम् ।
तेषां निष्ठा तु विज्ञेयाविद्वद्भिः सप्तमे पदे ॥ इति ॥

यमोऽपि—

नोदकेन न वा वाचा कन्यायाः पतिरिष्यते ।
पाणिग्रहणसंस्कारात्पतित्वं सप्तमे पदे ॥ इति ।

पाणिग्रहणसंस्कारात्पूर्वं परिणेतुर्मरणेऽपि न कन्यात्वं हीयते । तथा च वसिष्ठः—

अद्भिर्वाचा च दत्तायां म्रियेतादौ वरो यदि ।
न च मन्त्रोपनीता स्यात्कुमारी पितुरेव सा ॥ इति ॥

वरणानन्तरं देशान्तरगमने विशेषमाह कात्यायनः —

वरयित्वा तु यः कश्चित् प्रणश्येत्पुरुषो यदा ।
त्रीनृतून्समतिक्रम्य कन्याऽन्यं वरयेद्वरम् ॥ इति ॥

शुल्कं दत्वा यदि वरो म्रियेत तदा किं कर्तव्यमित्यत आह मनुः—

कन्यायां दत्तशुल्कायां म्रियेत यदि शुल्कदः ।
देवराय प्रदातव्या यदि कन्यानुमन्यते ॥ इति ॥

देशान्तरगमने तु विशेषः कात्यायनेनोक्तः ।
प्रदाय शुल्कं गच्छेद्यः कन्यायाः स्त्रीधनं तथा ॥

धार्या सा वर्षमेकन्तु देयान्यस्मै विधानतः ॥ इति ॥

एवं च वाग्दानादारभ्य सप्तपदाभिक्रमणात् प्राग्दोषदर्शने मरणादौ वा कन्यामन्यस्मै दद्यादित्युक्तम्
भवति ॥

यत्तु साचेदक्षतयोनिरितिमनुवचनं तद्युगान्तरविषयम् । उक्तवचननिचयात् । अत एव तादृश्या
मनूक्तेस्त्यागोऽपि सांप्रतविषय एव । यथा —

विधिवत्प्रतिगृह्यापि त्यजेत्कन्यां विगर्हिताम् ।
व्याधितां विप्रदुष्टां वा च्छद्मना चोपपादिताम् ॥

विगर्हितां पूर्वं प्रतिगृहीतामक्षतयोनिमपीति मेधातिथिः । विप्रदुष्टामन्यगतभावामिति ।
नारदोऽपि—

नादुष्टां दूषयेत्कन्यां नादुष्टं दूषयेद्वरम् ।
दोषेसति न दोषः स्यादन्योन्यं त्यजतो द्वयोः ॥ इति ॥

तदयं निष्कर्षः—अथ कन्यागुणदोषौ । तत्र याज्ञवल्क्यः —

अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियमुद्वहेत् ।
अनन्यपूर्विकां कान्तां असपिण्डां यवयसीम् ॥
अरोगिणीं भ्रातृमतीमसमानार्षगोत्रजाम् ।

अविप्लुतब्रह्मचर्योऽस्खलितब्रह्मचर्यः । एतच्च प्राशस्त्यार्थम् । अन्यथा ‘भार्यायै पूर्वमारिण्यै दत्वाग्नीनन्त्यकर्मणि । पुनर्दारक्रियां कुर्यात्पुनराधानमेव च’इति मनुवचने पुनर्दारक्रियाकरणोपदेशानुपपत्तेः । लक्षण्यां लक्षणे साध्वीं प्रशस्तलक्षणामित्यर्थः । तथा च काशीखण्डम्—सदा गृही सुखं भुङ्क्तेस्त्री लक्षणवती यदि ।

ततः सुखसमृध्यर्थमादौ लक्षणमीक्षयेत् ॥ लक्षणवती प्रशस्तलक्षणा, प्रशंसयां मत्वर्थविधानात् । अनन्यपूर्विकां नास्ति अन्यः पूर्वोयस्यास्तां पुरुषान्तराया वाग्दत्तां पुरुषान्तरेणापरिगृहीतामभुक्तां चेत्यर्थः । कान्तां कमनीयां मनश्चक्षुषोरानन्दकरीम् । तथाचापस्तम्बः— यस्यां मनश्चक्षुषोर्निबन्धस्तस्यामृद्धिरिति । यवीयसीं कनिष्ठाम् । आरोगिणीमतिशयितरोगरहिताम् । अतिशयने मत्वर्थविधानात् । भ्रातृमतीमिति पुत्रिकात्वशङ्काव्युदासार्थम् । तथा च मनुः—

यस्यास्तु न भवेद् भ्राता न विज्ञायेत वा पिता ।
नोपयच्छेत तां प्राज्ञः पुत्रिकाधर्मशङ्कया ॥

पितरि ज्ञाते तद्वाक्यादेव पुत्रिकात्वाशंकानिरासः संभवतीति न विज्ञायेत वा पितेत्युक्तम् । अथवा यस्या भ्राता न भवति तां पुत्रिकाशङ्कया नोपयच्छेत् । यस्यास्तु पिता न ज्ञायतेऽयमस्या जनयितेति, तां गूढोत्पन्नां अधर्मशङ्कया नोपयच्छेदित्यर्थः । कन्यापितुः पुत्रिकात्वाभिसन्धेरभावे त्वभ्रातृकापि विवाह्यैव ।

यत्र कन्यापितुर्नास्ति पुत्रिकाधर्मयाचना ।
तत्राभ्रातृमतीं चापि कन्यां सद्यः समुद्वहेत् ॥
इति शङ्करवचनात् । व्यासः—
अनन्यपूर्विकां लघ्वींशुभलक्षणसंयुताम् ।
धृताधोवसनां गौरीं विख्यातदशपूरुषाम् ।
ख्यातनाम्नः पुत्रवतः सदाचारवतः सतः ॥
दातुमिच्छोर्दुहितरम् प्राप्य धर्मेण चोद्वहेत् ॥
धृताधोवसनामनग्नाम् किञ्चिदुपजातलज्जामिति यावत् । स्तनयोरनुद्रेकादधोधृतोत्तरीया-

मिति द्योतयितुमधःपदम् । अत एव गौरीम् ।अत एव स्मरन्ति —

एष्टव्या बहवः पुत्रा यद्यप्येकोऽपि गयां व्रजेत् ।
गौरीं वाप्युद्वहेद्भार्यां नीलं वा वृषमुत्सृजेत् ॥
यजेत वाऽश्वमेधेनेति तृतीयचरणे पाठान्तरम् ।

यस्याः पितृकुले पञ्च मातृकुले च पञ्चेत्येवंदशपुरुषाविख्यातास्ताम् । तदसम्भवे ख्यातनाम्न इति । स्मृतिः—

धर्मार्थकाममोक्षाणां दाराः संप्राप्तिहेतवः ।
परीक्ष्यन्ते प्रयत्नेन पूर्वमेव करग्रहात् ॥ इति ॥

दृष्टार्थश्चायं निषेधः । हीनक्रियादिकुलात्कन्याग्रहणे हि न पित्र्यमनुवर्तन्ते । मातृकं द्विपदा इति स्मरणात् । सर्वे संक्रामिणो रोगा वर्जयित्वा प्रवाहिकामिति वैद्यकोक्तेश्चापत्यमपि तथैव स्यादिति दृष्ट एव दोषः । तथा पुराणे —

मातुलान्भजते पुत्रः कन्याका भजते पितॄन् ।
यथाशीला भवेन्माता तथाशीला भवेत्सुता ॥

माधवीये मनुः —

पितुर्वा भजते शीलं मातुर्वोभयमेव वा ।
न कथंचन दुर्योनिः प्रकृतिं स्वां विमुञ्चति ॥

तत्रैव हारीतः—

कुलानुरूपाः प्रजाः सम्भवन्ति ।

माधवाचार्योऽपि—

एतच्च हीनक्रियादिवर्जनं ।

तथाविधापत्यपरिहारार्थमित्याह । मनुभाष्येऽपिपूर्वैर्व्याख्यातृभिर्दृष्टमूलताऽस्य प्रतिषेधस्य वर्णितेत्युक्तम् ।

एवञ्च, ये दृष्टार्थास्ते तत्रैव प्रमाणम्, येत्वदृष्टार्थास्तत्र वैदिकशब्दानुमानमिति स्मृत्यधिकरणे मीमांसाभाष्यकारैरुक्तत्वान्नात्र वेदानुमानमिति हीनक्रियादिकुलजाया विवाहः सिध्यत्येव । तद्वोढुः प्रायश्चित्तमपि न भवति, निषेधस्य दृष्टमूलतया वैदिकत्वाभावेन दृष्टदोषमात्रभागित्वाद्दुरितापूर्वकल्पनानुपपत्तेः । तथाच भविष्यपुराणे—

दृष्टार्था च स्मृतिः काचिददृष्टार्था तथापरा ।
दृष्टादृष्टार्थका काचिन्न्यायमूला तथापरा ॥
अनुक्तवादिनी चान्या स्मृतिः पञ्चविधा मता ।
सर्वा एता वेदमूला दृष्टार्थाः परिहृत्य तु ॥
अत एव कुलेन हीनापि विवाहनीयेत्युक्तम् ।
मनुरपि—
श्रद्दधानः शुभां विद्यामाददीतावरादपि ।
अन्त्यादपि परं धर्मं स्त्रीरत्नं दुष्कुलादपि ॥
इति दुष्कुलादपि स्त्रीरत्नमादेयमाह ।

न च प्रदानं स्वाम्यकरणमिति मनुवचनेन वरस्य स्वाम्योत्पत्तेः कथमन्यस्मै तस्यादानमिति वाच्यम् ; उत्सर्गस्यापवादेतरविषयत्वोपपत्तेः ।प्रदानमिति प्रशब्दस्यार्थवत्वोपपत्तेश्च । नच वाग्दानव्यावर्तकतयैव तस्यार्थवत्त्वमिति वाच्यम् ; तावन्मात्रपरत्वे प्रमाणाभावात् । तस्माद्वाग्दानवदेतद्व्यावर्तनेनापि तस्यार्थवत्त्वंवाच्यम् । विशेषहेतोरभावात् । किञ्च भार्यात्वार्थं किल सा दत्ता, भार्यात्वं च पाणिग्रहणात् । तस्मिंश्चानुत्पद्यमाने प्रदानमपि निवर्तते । यद्धि यदर्थं दत्तम्, तस्यानिष्पत्तौ तद्दानस्य निवर्तनीयत्वाभिधानात् । तथाच मनुः—

धर्मार्थं येन दत्तं स्यात्कस्मैचिद्याचते धनम् ।
पश्चाच्चन तथा तत्स्यान्न दत्तं तेन तद्भवेत् ॥

अन्यस्मै तस्या दानोपदेशाच्चैतदेवं प्रतिपत्तव्यम् । पुनः मनुः—

पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम् ।
तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे ॥

तेषां पाणिग्रहणमन्त्राणां निष्ठा परिसमाप्तिः । सप्तपदीगमनं पाणिग्रहणस्याङ्गमित्यभिप्रायः । तथा यमः—

नोदकेन न वाचा च कन्यायाः पतिरिष्यते ।
पाणिग्रहणसंस्कारात्पतित्वं सप्तमे पदे ॥

तुल्यन्यायात्सप्रतियोगिकत्वाच्च भार्यात्वमपि तदैव भवति । भार्याशब्दस्य यूपाहवनीयादिवदलौकिकसंस्कारयुक्तवचनत्वात् । न च यमवचनं पाणिग्रहणात्पूर्वं वरमरणमात्रविषयमिति तत्त्वकारोक्तं युक्तमिति वाच्यम् ; तावन्मात्रपरत्वे प्रमाणाभावात्, उत्तरार्द्धासंगतेश्च । लघुहारीतः—तत्रापि न पाणिग्रहणे जायापतित्वं कृत्स्नं हि जायापतित्वं सप्तमे पद इति’।

यत्तु निष्ठा भार्यात्वस्य समाप्तिरूपा इति तत्त्वकृद्भिर्व्याख्यातम्, तच्चिन्त्यम् ; तेषामिति प्रत्यक्षमन्वयप्रतियोगिनमुपेक्ष्यभार्यात्वस्येत्यध्याहारे मानाभावात् । हरिवंशेपि ‘पाणिग्रहणमन्त्राणां निष्ठा स्यात्सप्तमे पदे’इत्युक्तम् ।

तत्र चाक्षतयोन्याः पुनर्विवाहे पौनर्भवेन भर्त्रेत्यन्वयकरणाद्गतप्रत्यागतासंस्कारे च कौमारेण भर्त्रेत्युत्पादनात् द्वितीयस्यैव पौनर्भवत्वं न पूर्वस्येति सिध्यति । तेन च पौनर्भवश्च काणश्चेति श्राद्धे, तथा पौनर्भवे द्विजे इति दाने च परपूर्वापतिस्तथेत्यादिना च प्रतिषेधोऽपि द्वितीयस्य पत्युस्तदुत्पन्नानां पत्राणां चेति सर्व-

निबन्धसंमतम् । न क्वापि प्रथमस्य पत्युः पौनर्भवत्वेन तदपत्यानां वा निषेधो गम्यते । यद्यपि पुनर्भ्वाअयमिति संबन्धसामान्यविवक्षया पूर्वापरयोर्द्वयोरपि पत्योः पौनर्भवत्वं प्रतीयते, तथापि पुनर्भवतीतिव्युत्पत्तावन्यथानुपपत्त्या भार्येति शेषस्यावश्यकतया यत्प्रतियोगिकभार्यात्वेनास्याः पुनर्भूत्वं तस्योपस्थितस्य विशेषस्य परित्यागे कारणाभावात् बुद्धिस्थतया चायमितिसर्वनाम्ना परामर्शसंभवात्तस्यैवपौनर्भवत्वं युक्तम् ।

विकर्मस्थः सगोत्रो वा दासो दीर्घामयोऽपि वा ।
ऊढाऽपि देया सान्यस्मै सप्रावरणभूषणा”॥

किंतु तासां पौनर्भवत्वाद्विवाहो जघन्यः । न च मातृवदेनां परित्यज्य बिभृयादिति भरणोपदेशो नोपपद्यत इति वाच्यम् ; अन्येन विवाहिताया अपि मातृवद्भरणेऽनुपपत्त्यभावात् । अयं च पुनरुद्वाहः कलौ न भवति ।

ऊढायाः पुनरुद्वाहं ज्येष्ठांशं गोवधं तथा ।
कलौ पञ्च न कुर्वीत भ्रातृजायां कमण्डलुम् ॥

इत्यादिपुराणवचनात् । कलौ त्वाञ्जस्येनैव तस्योपपत्तिः । नारदः—

दीर्घकुत्सितरोगार्ता व्यङ्गा संसृष्टमैथुना ।
दुष्टाऽन्यगतभावा च कन्यादोषाः प्रकीर्तिताः ॥

काश्यपः—

सप्त पौनर्भवाः कन्या वर्जनीयाः कुलाधमाः ।
वाचा दत्ता मनोदत्ता कृतकौतुकमङ्गला ॥
उदकस्पर्शिता या च या च पाणिगृहीतिका ।
अग्निं परिगता या च पुनर्भूप्रसवा च या ॥
इत्येताः काश्यपेनोक्ता दहन्ति कुलमग्निवत् ।

कृतकौतुकमङ्गला कृतं कौतुकसूत्रेण मङ्गलं यस्याः सा

तथा बद्धकौतुकसूत्रेत्यर्थः । उदकस्पर्शिता उदकेनोदककरणदानेन स्पर्शिता प्रतिग्राहितो । कृतकौतुकमङ्गला बद्धकङ्कणा, उदकस्पर्शिता उदकस्पर्शपूर्वकं दत्तेति रत्नाकरः ।पाणिगृहीता कृतपाणिग्रहणा ता खल्वेता अन्यपूर्वाः । आसामपि विवाहो भवत्येव ॥ इति॥

न च गोत्रप्रवरयोर्मिलितयोः पर्युदासनितित्तत्वं शङ्क्यम्; प्रत्येकं दोषाभिधानात् । तदाह बोधायनः—सगोत्रां चेन्मत्योपयच्छेन्मातृवदेनां बिभृयादिति । गौतमश्च असमानप्रवरैर्विवाह इति । शातातपोऽपि - परिणीय सगोत्रां तु समानप्रवरां तथा ।

कृत्वा तस्याः समुत्सर्गंमतिकृच्छ्रं विशोधनम् ॥ इति ॥

आपस्तम्बः—समानगोत्रप्रवरां कन्यामूद्वोपगम्य च ।तस्यामुत्पाद्य चण्डालं ब्राह्मण्यादेव हीयते ॥ सङ्ग्रहे—सगोत्रां समानप्रवरां कामतः परिणीय प्रजामुत्पाद्य गुरुतल्पगव्रतं चरेत् । प्रजां चण्डालेषु निक्षिपेत् । अकामतस्तप्तकृच्छ्रं प्रजाया भरद्वाजगोत्रान्तर्भावः । प्रजानुत्पादने चान्द्रायणम् । विवाहमात्रे कृच्छ्रं सर्वत्र व्रतान्तेऽष्टोत्तरशतं होमः । परित्यक्तां तां जननीवद्रक्षेत् । स्मृत्यर्थसारेऽपि -

इत्थं सगोत्रसंबन्धिविवाहविषये स्थिते ।
यदि कश्चिज्ज्ञानतस्तां कन्यामूढ्वोपगच्छति ॥
गुरुतल्पव्रताच्छुद्ध्येद्गर्भस्तज्जोऽन्त्यतां व्रजेत् ।
भोगतस्तां परित्यज्य पालयेज्जननीमिव ॥
अज्ञानाच्चेदैन्दवैस्तु शुद्ध्येद्गर्भस्तु कश्यपः ॥ इति ॥

वीरमित्रोदये तु पालनमथवाऽन्येन विवाह इति पालनविवाहयोर्विकल्पः प्रतिपादितः । अनेनेदं सूच्यते—यत् सगोत्रात्वदोष इव-

परिहरणीयदोषे सत्येव पुनर्विवाहपक्षोऽपि संभवति, अन्यथा तु मातृवत्परिपालनमेवेति । एतेन—अव्यङ्गाङ्गीमित्यादयोऽपि—व्याख्यातः ।

ऋतुमति विवाहविचारः

एतेन ऋतुमतीविवाहोऽपि—व्याख्यातः । ऋतुमत्या अपि विवाहो भवत्येव, किंत्वसौ जघन्यः । तथाच गृह्यसंग्रहः -

नग्निकां तु वदेत्कन्यां यावन्नर्तुमती भवेत् ।
ऋतुमती त्वनग्निका तां प्रयच्छेत्त्वनग्निकाम् ॥

तुकारः पक्षान्तरे ।नग्निका तु श्रेष्ठेति सूत्रयता गोभिलेन नग्निकायाः श्रेष्ठत्वमुक्तम् । तत्पुत्रस्तु अनग्निकां प्रयच्छेदिति पक्षान्तरमाह :—श्रेष्ठपक्षादन्योऽयं पक्षो जघन्य इत्यर्थः । एवंचर्तुमत्या विवाहनिन्दावचनानि नग्निकाया विवाहप्राशस्त्यतात्पर्यकानि । मीमांसाभाष्यकारैरप्युक्तं—‘न निन्दा निन्द्यं निन्दितुं’ प्रवर्ततेऽपि तु इतरत् स्तौतीति । अन्यदुपरिष्टाद्वक्ष्यामः । तथा नारदः—

कन्या नर्तुमुपेक्षेत बान्धवेभ्यो निवेदयेत् ।
ते चेन्न दद्युस्तां भर्त्रे ते स्युर्भ्रूणहभिः समाः ॥
यावन्तश्चर्तवस्तस्याः समतीयुः पतिं विना ।
तावत्यो भ्रूणहत्याःस्युस्तस्य यो न ददाति ताम् ॥
अतः प्रवृत्ते रजसि कन्यां दद्यात्पिता सकृत् ।
महदेनः स्पृशेदेनमन्यथैष विधिः सताम् ।
ऋतोः परमपि दानं दर्शयति । भ्रूणहत्यावचनं
निन्दार्थं ।मनुः—
त्रीणि वर्षाण्युदीक्षेत कुमार्य्यृतुमती सती ।
उर्ध्वं तु कालादेतस्माद्विन्देत सदृशं पतिम् ॥

उदीक्षेत प्रदातारमपेक्षेत । बोधायनः—
त्रीणि वर्षाण्युतुमती काङ्क्षेत पितृशासनम् ।
ततश्चतुर्थे वर्षे तु विन्देत सदृशं पतिम् ॥
अविद्यमाने सहशे गुणहीनमपि श्रयेत् ।
यत्तु विष्णुनोक्तम्—
‘ऋतुत्रयमुपास्यैव कन्या कुर्यात्स्वयं वरम्’ इति ।
तद्गुणवद्वरलाभे सति द्रष्टव्यमिति माधवाचार्याः ।
मनुः—
अदीयमाना;भर्तारमधिगच्छेद्यदि स्वयम् ।
नैनः किञ्चिदवाप्नोति न च यं साधिगच्छति ॥
यमधिगच्छति सोऽपि न पापमाप्नोतीत्यर्थः ।
यमः—
एवं चोपनतां पत्नीं नावमन्येत्कदाचन ।
न तु तां बन्धकीं विद्यान्मनुः स्वायंभुवोऽब्रवीत् ॥
आश्वलायनः—
कन्यामृतुमतीं शुद्धां कृत्वा निष्कृतिमात्मनः ।
शुद्धिं च कारयित्वा तामुद्वहेदानृशंस्यधीः ॥
पिता ऋतून् स्वपुत्र्यास्तु गणयेदादितः सुधीः ।
दानावधि गृहे यत्नात्पालयेच्च रजोवतीम् ॥
दद्यात्तदृतुसंख्या गाः शक्तः कन्यापिता यदि ।
दातव्यैकापि निःस्वेन दाने तस्या यथाविधि ॥
दद्याद्वाब्राह्मणेष्वन्नं अतिनिस्वः सदक्षिणम् ।
तस्यातीतर्तुसंख्येषु वराय प्रतिपादयेत् ॥
उपोष्यत्रिदिनं कन्या रात्रौ पीत्वा गवां पयः ।

अदृष्टरजसे दद्यात्कन्याय रत्नभूषणम् ॥
तामुद्वहन्वरश्चापि कूष्माण्डैर्जुहुयाद्घृतम् ।

शुद्धां निर्दोषामव्यभिचारिणीमिति यावत् । दाने दाननिमित्तम् । तस्यातीतेति विसर्गलोपे सन्धिरार्षः । अतीतर्तुसंख्येष्विति ब्राह्मणेष्वित्यनेनान्वेति । कन्याया यावन्त ऋतवोऽतीतास्तावत्संख्येषु ब्राह्मणेषु सदक्षिणमन्नं दत्त्वा तां वराय प्रतिपादयेदित्यर्थः । कन्यायाः शुद्धिप्रकारमाह—उपोष्येत्यादिना ।कूष्माण्डैःकूष्माण्डमन्त्रैः। ते च मन्त्राः ‘यद्देवा देवहेलनमि’त्यादयस्तैत्तरीयारण्यके पठिताः । एवं चर्तुमतीविवाहनिन्दावचनानि अन्यकृतप्रतीकारविषयाणि पर्यवस्यन्ति । मनुः—

अलंकारं नाददीतपित्र्यं कन्या स्वयंवरा ।
मातृकं भ्रातृदत्तं वा स्तेना स्याद्यदि तं हरेत् ॥
पित्रेन दद्याच्छुल्कन्तु कन्यामृतुमतीं हरन् ।
स हि स्वाम्यादतिक्रामेदृतूनां प्रतिरोधनात् ॥
अत्र लक्षण्यादिकन्यागुणानभिधायाह याज्ञवल्क्यः—
एतैरेव गुणैर्युक्तः सवर्णः श्रोत्रियो वरः ।
यत्नात्परीक्षितः पुंस्त्वे युवा धीमाञ्जनप्रियः ॥
एतदपि प्राशस्त्यार्थम् ।
ब्राह्मणक्षत्रियविशां शूद्राणां च परिग्रहे ।
सजातिः श्रेयसी भार्या सजातिश्च पतिःस्त्रियाः ॥
इति नारदवचनम् ।
दद्याद्गुणवते कन्यां नग्निकाम् ब्रह्मचारिणे ।
अपि वा गुणहीनाय नोपरुन्ध्याद्रजस्वलाम् ॥

इति बोधायनवचनाच्च । नग्निका अनागतार्तवा । यत्तुमनुवचनम्, “काममामरणत्तिष्ठेद् गृहे कन्यर्तुमत्यपि । नचैवैनाम् प्रयच्छेत्तु गुणहीनाय कर्हिचित्”इति, तद्गुणवते दद्यादित्यस्य प्रशंसार्थम्, न तु ऋतुमत्या गृहावस्थानार्थम् । ‘नोपरुन्ध्याद्रजस्वलामिति’बोधायनविरोधात् । वक्ष्यमाणवचनजाताच्च ।

इदं हि पूर्वमुक्तम्—
उत्कृष्टायाभिरूपाय वराय सदृशाय च ।
अप्राप्तामपि तां कन्यां तस्मै दद्याद्यथाविधि ॥

इति । न हि काममामरणादित्यनेन ऋतुमत्या गृहे स्थितिर्विधीयते । किन्तु वरमृतुमत्यपि कन्या आमरणाद्गृहे तिष्ठेन्नचैवैनां निर्गणाय दद्यादिति गुणवते दानं स्तूयते । यथा—

वरम् भक्ष्यमभक्ष्यं च पिबेद्वा गर्हितं च यत् ।
वर्जनीयं प्रयत्नेन मूलकं मदिरासमम् ॥

इत्यभक्ष्यभक्षणादिकं न विधीयते, किन्त्वभक्ष्यभक्षणादितोऽपि मूलकभक्षणं गर्हितमिति मूलकभक्षणं निन्द्यते । तथा ऋतुमत्या गृहेऽवस्थानादपि गुणहीनाय दानं गर्हितमित्यनेन गुणवते दानमेव स्तूयते । एवं च गुणहीनाय न दद्यादित्यपि गुणवत्प्रशंसार्थम् ।अपि गुणहीनायेति स्मरणात् । नोपरुन्ध्याद्रजस्वलामित्यपि नग्निकादानप्रशंसार्थम् । तथा च गुणवते देया नग्निका देयेति मनुबोधायनवचनयोरर्थः ।

अथैवं “वरश्चेत्कुलशीलाभ्यां न युज्येत कथञ्चन ।
न मन्त्राः कारणं तत्र न च कन्याऽनृतं भवेत् ॥
समाच्छिद्य तु तां कन्याम् बलादक्षतयोनिकां ।
पुनर्गुणवते दद्यादिति शातातपोऽब्रवीत् ॥”

इति शातातपेन,—
‘हीनस्य कुलशीलाभ्यां हरन्कन्यां न दोषभाक् ।
न मन्त्राःकारणं तत्र न च कन्यानृतं भवे ॥

इति यमेन च गुणहीनाय दत्तां पुनराच्छिद्य गुणवते दद्यादित्युक्तं कथं सङ्गच्छत इति चेदेवं तर्हि मतभेदोऽस्तु । तथाचवरमृतुमत्यपि देया, तथापि गुणहीनायन दातव्येति मनोर्मतम्, गुणहीनाय दत्ताऽप्याच्छिद्य पुनर्गुणवते देयेति शातातपादीनाम्मतम्, वरम् गुणहीनाय देया न जात्वपिऋतुमती दातव्येति बोधायनस्य मतम् । अनन्यगतेर्वचनानाम्मुनीनां मतभेदस्य च बहुलमुपलम्भात् । मनोर्मतेऽपि ऋतुमत्या गृहेऽवस्थितिर्दोषायैवेति तद्वचनभङ्ग्यावगम्यते । परन्तु गुणहीनाय दाने ततोऽपि दोषातिशय इति तस्य मतं लक्ष्यते । विष्णुः—

यावच्च कन्यामृतवः स्पृशन्ति तुल्यैः सकामामपि याच्यमानाम् । तावन्ति भूतानि हतानि ताभ्याम् मातापितृभ्यामिति धर्मवादः ॥ सकामां तुल्यैर्याच्यमानामिति विशिंषन् व्यतिरेकेनैष दोष इत्यभिप्रैतीत्यवगम्यते ।

अथ विवाहकालः—सम्वर्तः।
रोमदर्शनसंप्राप्ते सोमो भुङ्क्तेऽथ कन्यकाम् ।
रजो दृष्ट्वा तु गन्धर्वः कुचौदृष्ट्वा तु पावकः ॥
अष्टवर्षा भवेद्गौरी नव वर्षा तु रोहिणी ।
दशवर्षा भवेत्कन्या अत ऊर्ध्वं रजस्वला ॥
माताचैव पिता चैव ज्येष्ठो भ्राता तथैव च ।
त्रयस्ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम् ॥
तस्मादुद्वाहयेत्कन्यां यावन्नर्तुमती भवेत् ।

विवाहोऽष्टमवर्षायाः कन्यायास्तु प्रशस्यते ॥
अष्टावर्षा भवेद्गौरीति वचनं यमाङ्गिरसोरपि ।
मरीचिः - गौरीं ददन्नाकपृष्टं वैकुण्ठं रोहिणीं ददत् ।
कन्यां ददद्ब्रह्मलोकं रौरवं तु रजस्वलाम् ॥ स्मृतिः -
सर्वेषामेव दानानामेकजन्मानुगंफलम् ।
हाटकगृहगौरीणां सप्तजन्मानुगं फलम् ॥

भट्टभाष्ये स्मृतिः -

यावन्न लज्जयाङ्गानि कन्या पुरुषसंनिधौ ।
योन्यादीन्यवगूहेत तावद्भवति नग्निका ॥

आचारमाधवीयेऽप्येतत्, किंतु तत्र नग्निकेत्यत्र कन्यकेति पाठः । संग्रहकारोऽपि—

यावच्चेलं न गृह्णाति यावत्क्रीडति पांसुभिः ।
यावद्दोषं न जानाति तावद्भवति कन्यका ॥

माधवीये स्मृतिः—जन्मतो गर्भधानाद्वा पञ्चमाब्दात्परं शुभम् । कुमारीवरणं दानं मेखलाबन्धनं तथा ॥ ज्योतिर्निबन्धे—षडब्दमध्ये नोद्वाह्या कन्या वर्षद्वयं यतः । सोमो भुङ्क्त ततस्तद्वद्गन्धर्वश्चतथानलः ॥ यतः प्रथमं वर्षद्वयं सोमो द्वितीयं वर्षद्वयं गन्धर्वस्तृतीयं वर्षद्वयं अनलो भुङ्क्ते, अतः षडब्दमध्ये नोद्वाह्येत्यर्थः ।

नचैवं सोमादिभोगकालबोधकं रोमदर्शनसंप्राप्त इत्यादि संवर्तवाक्यं विरुध्यत इति वाच्यम्; द्वयोरप्यर्थवादरूपतया विरोधाभावात् । ज्योतिर्निबन्धे तावत् षडब्दमध्ये नोद्वाह्येत्यस्थार्थवादतयावर्षद्वयं यत इत्येवमादिकमुक्तम् । संवर्तेनापि रोमदर्शनसंप्राप्तेइत्याद्यर्थवादमभिधाय, तस्माद्विवाहयेत्कन्यां यावन्नर्तुमतीभवेदित्युपसंहृतम् ।

उभयत्रैव विधेयत्वेनाभिमतोऽर्थस्तदनुगुणार्थवादोपन्यासेन समर्थ्यत इति न किंचिदनुचितम् । गृह्यसंग्रहः—

अप्राप्ता रजसो गौरी प्राप्ते रजसि रोहिणी ।
अव्यञ्जिता भवेत्कन्या कुचहीना च नग्निका ॥
व्यञ्जनैस्तु समुत्पन्नैः सोमो भुञ्जीत कन्यकाम् ।
पयोधरैस्तु गन्धर्वो रजसाग्निः प्रकीर्तितः ॥
तस्मादव्यञ्जनोपेतामरजामपयोधराम् ।
अभुक्तां चैव सोमाद्यैः कन्यकां तु प्रशस्यते ॥

रजस इति शैषिके षष्ठी । भुञ्जति भुङ्क्ते। अरजामरजस्कां ईदृशीं कन्यामभिप्रेत्य प्रशस्यते प्रशंसा क्रियते । “नग्निका श्रेष्ठेति सूत्रयता गोभिलेनेति वाक्यशेषः । सकर्मकादपि भावे लट् । अत्र च विवाहकर्त्रा तावद्धृताधोवसनाया गौर्याः प्राप्तौ यतनीयम्; तत्रैव तस्याभ्युदयविशेषोपदेशात् । रोहिणीकन्ययोस्तु ततोऽपकर्षः । पञ्चाब्दषडब्दोत्तरकल्पावापद्विषयो । सप्तसंवत्सरादूर्ध्वंविवाहः सार्ववर्णिकः । कन्यायाः शस्यते राजन्नन्यथा गर्भगर्हितः इति महाभारतवचनात् । दातुस्तु निर्वसनाया दानं प्रशस्तमित्यूहनीयम् । पैठीनसिः -

यावन्नोद्भिद्यते स्तनौ तावदेव देयाऽथर्तुमती भवति दाता प्रतिगृहीता च नरकमाप्नोति पितृपितामहप्रपितामहाश्च विष्ठायां जायन्ते तस्मान्नग्निका दातव्या । नग्निकाऽनागतार्तवा ।
माधवीये वसिष्ठः -

प्रयच्छेन्नग्निकां कन्यां ऋतुकालभयात्पिता ।
ऋतुमत्यां हि तिष्ठन्त्यां दोषः पितरमृच्छति ॥

अङ्गिराः—

प्राप्ते तु द्वादशे वर्षे यदा कन्या न दीयते ।
तदा तस्यास्तु कन्यायाः पिता पिबति शोणितम् ॥
यमः—कन्या द्वादशवर्षाणि याऽप्रदत्ता गृहे वसेत् ।
भ्रूणहत्या पितुस्तस्याः सा कन्या वरयेत्स्वयम् । तथा -
प्राप्ते द्वादशमे वर्षे यः कन्यां न प्रयच्छति ।
मासि मासि रजस्तस्याः पिता पिबति शोणितम् ॥
माता चैव पिता चैव ज्येष्ठो भ्राता तथैव च ।
त्रयस्ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम् ॥
यस्तां विवाहयेत्कन्यां ब्राह्मणो मदमोहितः ।
असंभाष्यो ह्यपांक्तेयः स विप्रो वृषलीपतिः ॥
वन्ध्या तु वृषली ज्ञेया वृषली तु मृतप्रजा ।
शूद्री तु वृषली ज्ञेया कुमारी तु रजस्वला ।

प्रायेणैतावता कालेनर्तुमती भवतीति द्वादशवर्षोपादानम्, सर्वथा त्वनागतार्तवा दातव्येत्यत्र तात्पर्यम् ।

अत एवात्रिकाश्यपौ—

पितुर्गृहे तु या कन्या रजः पश्यत्यसंस्कृता ।
भ्रूणहत्या पितुस्तस्याः सा कन्या वृषली स्मृता ॥
यस्तु तां वरयेत्कन्यां ब्राह्मणो ज्ञानदुर्बलः ।
अश्राद्धेयमपांक्तेयं तं विद्याद्वृषलीपतिम् ॥

द्वादशवर्णग्रहणं न कुर्वाते । अत एव पूर्वलिखितवचनेष्वपि नाग्नकाया दानमुपदिष्टम् । तथा महाभारते—

त्रिंशद्वर्षः षोडशवर्षां भार्यां विन्देत कन्यकाम् ।
अतोऽप्रवृत्तेरजसि कन्यां दद्यात्पिता सकृत् ॥
महदेनः स्पृशेदेनमन्यथैष विधिः सताम् ।

अन्यथा प्रवृत्ते रजसि ।

यत्तु मनुवचनं “त्रिंशद्वर्षो वहेत्कन्यांहृद्यांद्वादशवार्षिकीम् । त्र्यष्टवर्षोऽष्टवर्षां वा धर्मे सीदति सत्वरः” इति ॥ इयता कालेन यवीयसी कन्या वोढव्या न पुनरेतावद्वयस एव विवाह इति तस्यार्थः । तथाच शिष्टसमाचारो न विरोत्स्यते । मृतभार्यस्य पुनर्दारकरणे नैष वयोनियमः संभवतीति पुनर्दारकरणोपदेशोऽन्यथा न स्यात् । विवाहप्रकरणमतिक्राम्याभिधानाच्चैतदेवं प्रतिपत्तव्यम् । मेधातिथिरप्येवम् - पूर्वोक्तमहाभारतवचनस्वरसादप्येषैव व्याख्या समादर्तव्या भवति । मन्वर्थमुक्तावल्यामप्युक्तम् - एतच्च योग्यकालप्रदर्शनपरं । न तु नियमार्थम् । प्रायेणैतावता कालेन गृहीतवेदो भवति, त्रिभागवयस्का कन्या वोढुर्यूनो योग्येति गृहीतवेदश्चोपकुर्वाणको गृहस्थाश्रमं प्रति न विलम्बेतेति सत्वर इत्यस्यार्थ इत्यन्तेन । विष्णुपुराणम् -

वर्षेणैकगुणांभार्यां उद्वहेत्त्रिगुणः पुमान् ॥ इति । एतदपि प्राशस्त्यार्थम् । कन्याया यवीयस्त्वमात्रेणैव विवाहेतात्पर्यम् । विवाहतत्त्वार्णवेऽप्येषैव व्यवस्था । अत एव यवीयसीमित्यवरवयस्कामिति च तत्रोक्तम् । अत एव मनुना त्रिंशद्वर्षस्य द्वादशवर्षाया, महाभारतेन च षोड़शवर्षाया विवाहोऽभिहित इति ध्येयम् ॥

ऋतुमत्या विवाहे सति तद्धर्माधिकारविचारः

तत्र चेदमालोचनीयम् - यत् ऊढा ऋतुमत्यपिविधवेव किं परित्याज्या, उत प्रायश्चित्ताचरणपूर्वकं धर्माधिकारमप्यर्हति वा नवेति । तत्र केचिन्मन्यन्ते - यत् ऋतुमत्यप्यूढा न परित्याज्या, किन्तु प्राय

श्चित्ताचरणपूर्वकं धर्माधिकारमप्यर्हत्येवेति । अयमाशयः – यथाहि सगोत्राया विधवा-

याश्च परित्यागो विहितः, न तथा ऊढाया ऋतुमत्याः परित्यागः, कुत्रापि विहितः, प्रत्युत तस्याः स्वीकारार्हतैव प्रायश्चित्तानन्तरं सर्वत्र प्रतिपाद्यते । अयमत्र निष्कषः - विधवात्वं हि स्त्रीणां न पातित्यापादकम्, किन्तु सम्यक् परिपालितं श्रेयस एव भवति । नहि कुत्रापि वैधव्यमपि पातित्यापादकतया विहितमिति तस्मिन् निमित्ते कस्यापि प्रायश्चित्तस्याविधानात्, प्रायश्चित्तशतेनाप्यपरिहरणीयत्वात्, अनन्यपूर्विकात्वांशस्य विवाहाधिकारप्रयोजकस्यसंपादनं न संभवति । ऋतुमत्यां रजोदर्शनं हि विवाहानन्तरं न केवलमस्पृश्यत्वादिप्रयोजकम्, न वा विवाहात्पूर्वं तस्या वृषलीत्वस्य तत्पित्रादीनां भ्रूणहत्यादिपापस्य च प्रयोजकम् । किंतु तत्पतेरपि वृषलीपतित्वसंपादकमिति पातित्यप्रयोजकम् । एवं रजोदर्शने निमित्ते प्रायश्चित्तस्य विधानात् शास्त्रप्रामाण्येन तद्दोषनिर्हरणेकृते विवाहाधिकारयोग्यता सिद्ध्यति । तदिदं सिद्धम् - विधवाविवाहो न विधवायाः संस्कारार्थो न वा धर्मप्रजार्थः । ऋतुमतीविवाहस्तु सर्वार्थो भवतीति ।

ऋतुमतीविवा

हस्यब्राह्मणेतरविषयत्वम् इयान् विशेषः - विधवाविवाहः शूद्रेषु समाजविशेषमात्रसाधारणः, ऋतुमतीविवाहस्तु ब्राह्मणेतरविषयः । अत एव -

पितृगृहे तु या कन्या रजः पश्यत्यसंस्कृता ।
सा कन्या वृषली ज्ञेया तत्पतिर्वृषलीपतिः ॥
माता चैव पिता चैव ज्येष्ठो भ्राता तथैव च ।
त्रयस्ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम् ॥
उद्वहेद्यस्तु तां कन्यां ब्राह्मणो मदमोहितः ।
असंभाष्यो ह्यपाङ्क्तेयः स विप्रो वृषलीपतिः -

इत्यादि लघुशातातपलध्वाश्वलायनप्रजापत्यादिवचनेषु ब्राह्मणपदप्रयोग उपपद्यते । अयं भावः - विवाहस्त्वष्टवर्षायाः कन्यायाश्च प्रशस्यते — इत्यादिवचनानुसारेणष्टवर्षायाः कन्याया विवाहे प्रशस्तत्वम्, रजोदर्शनतः पूर्वं नववर्षादेर्गौणत्वम्, रजोदर्शने तु व्याध्यादिप्रयुक्तेआकस्मिके आपत्कल्पनया द्वादशादिवयस्काया अपि विवाहयोग्यता वर्तते, परन्तु सापि ब्राह्मणीतरविषयैव, न तु सर्वसाधारणी । तथाच रजोदर्शनतः पूर्वमेव ब्राह्मणैः स्त्रीणां विवाहः संपादनीयः । अन्यैस्त्वापत्कल्पनया रजोदर्शनान्तरमपि विवाहः कर्तुं शक्यते ।

कन्या विवा

हस्यगौणकालविचारः अयं भावः – “स्त्रीणामुपनयमस्थाने विवाहं मनुरब्रवीत्” इति वचनेनोपनयनकाल एव विवाहस्य मुख्यः कालः, तत्र ‘चाष्टवर्षं ब्राह्मणमुपनयीते’ त्यादिना ब्राह्मणानामष्टमवयस एव मुख्यकालत्वात् स एव प्रशस्तः । “आषोडशाद्ब्राह्मणस्य सावित्री नातिवर्तते” इति मनुवचनेन षोडशवयः पर्यन्तं कालोऽभ्यनुज्ञायते ।

तदुक्तं – पराशरमाधवीये यमः -

स्त्रीणामुपनयस्थाने विवाहं मनुरब्रवीत् ॥
गर्भाष्टमेऽष्टमे वाब्दे ब्राह्मणस्योपनायनम् ॥
राज्ञामेकादशे सैके विशामेके यथाकुलम् ॥
( या० स्मृ० १-१४ )
आषोडशादाद्वाविंशादाचतुर्विंशाच्च वत्सरात् ॥
ब्रह्मक्षत्रविंशां काल औपनायनिकः स्मृतः ॥
अत उर्ध्वं भवन्त्येते सर्वधर्मबहिष्कृताः ॥
सावित्रीपतिता व्रात्या नात्यस्तोमादृते क्रतोः ॥

इतिवचनानुसारेण दशमवय आरभ्यापि ऋतुकालस्य संभवात् “दशवर्षा भवेत्कन्या अत उर्ध्वं रजस्वला” इति स्मृतिवचन न कथमपि विरुद्धम् । तत्र च का वा किम्प्रकृतिरिति निर्णयादिकमतिक्लेशसाध्यमिति एकादशवय आरभ्यैव रौरवप्राप्तेः फलस्य वर्णनात् अनिष्टफलत्वेन निन्दनाच्च ततः पूर्वमेव विवाहो योग्यः । यत्तु -

ऊनषोडशवर्षायामप्राप्तः पञ्चविंशतिम् ।
यद्याधत्ते पुमान् गर्भं गर्भस्थः स विपद्यते ॥
जातो वा न चिरं जीवेत् जीवेद्वा दुर्बलेन्द्रियः ।
तस्मादत्यन्तबालायां गर्भाधानं न कारयेत् ॥
इति (सुश्रुते १०)
पूर्णषोडशवर्षा स्त्री पूर्णविंशेन संगता ।
शुद्धेगर्भाशये मार्गे रक्तेशुद्धेऽनिले हृदि ॥
वीर्यवन्तं सुतं सूते ततो न्यूनाब्दायाः पुनः ।
रोग्यल्पायुरधन्यो वा गर्भो भवति नैव वा ॥

इति (अष्टाङ्गशारी० १०८-९) सुश्रुतादिवचनजातम्, तदिदमपि दारुणप्रकृतिस्त्रीविषयमेव, न वातादिप्रकृतिस्त्रीविषयम् । अत एव - प्रायिकं चैतत्, अर्वागपि साधुगर्भदर्शनात् इति अष्टाङ्गहृदयव्याख्यायामरुणदत्तकृतायामुक्तश्लोकगतं विवरणमुपपद्यते । तथाच दशमवयसः पूर्वमेव विवाहो योग्यः, न तु द्वादशादिवयसि । एतदेवाभिप्रेत्योक्तम् -

कन्या द्वादशमे वर्षे प्रदातुर्न गृहे वसेत् ।
भ्रूणहत्या पितुस्तस्याः सा कन्या वरयेत्स्वयम् ॥
( यमः )

कन्या द्वादशवर्षाणि याऽप्रदत्ता गृहे वसेत् ।
ब्रह्महत्या पितुस्तस्या ……. (निर्णय० यमः)
प्राप्ते तु द्वादशे वर्षे यः कन्यां न प्रयच्छति ।
मासि मासि रजस्तस्याः पिबन्ति पितरोऽनिशम् ॥
(पराशरः)
अष्टमे तु भवेद्गोरी नवमे नग्निका भवेत् ।
दशमे कन्यका प्रोक्ता द्वादशे वृषली स्मृता ॥
(संवर्तः)
गौरीं ददत् नाकलोकं वैकुण्ठं रोरिणीं ददत् ।
कन्यां ददत् ब्रह्मलोकं रौरवं तु रजस्वलाम् ॥
( मरीचिः )

एवं वर्णयतामस्माकं न द्वादशवयसि रजोदर्शने कन्याया विवाहायोग्यतेत्याशयः, किन्तु तयासाकं पित्रादीनां संबन्धविच्छित्तिबोधन एव । अत एव पूर्वोदाहृते “कन्या द्वादशमे वर्षेइति वचने “सा कन्या वरयेत्स्वयम्”इति स्वयंवरणाधिकारः प्रतिपादित उपपद्यते । अयं भावः —ब्राह्मविवाहादिषु हि -

आच्छाद्यार्चयित्वा च श्रुतिशीलवते स्वयम् ।
आहूय दानं कन्याया ब्राह्मो धर्मः प्रकीर्तितः ॥
यज्ञे तु वितते सम्यगृत्विजे कर्म कुर्वते ।
अलङ्कृत्य सुतादानं दैवं धर्मं प्रचक्षते ॥ २८ ॥
एकं गोमिथुनं द्वे वा वरादादाय धर्मतः ।
कन्याप्रदानं विधिवदार्षो धर्मः स उच्यते ॥
सहोभौ चरतां धर्ममिति वाचाऽनुभाष्य च ।
कन्याप्रदानमभ्यर्च्य प्राजापत्यो विधिः स्मृतः ॥

ज्ञातिभ्यो द्रविणं दत्वा कन्यायैचैव शक्तितः ।
कन्याप्रदानं स्वाच्छन्द्यादासुरो धर्म उच्यते ॥

इत्यादिवचनविहितेषु दानपूर्वकत्वं यदपेक्षितम् तदिदमृतुमत्याः स्वयंवरणार्थं प्रवृत्ताया अन्यकर्तृकदानाभावेऽपि स्वकर्तृकदानेनैव संपादनीयम्, न तु तस्या दाने ॠत्वनन्तरं पित्रादीनामप्यधिकारोऽस्तीति स्वयंवरविधिनाऽवगम्यते । तदिदं च ऋतुमत्याः कन्यायाः पित्रादिस्वत्वनिषेधतात्पर्यकमित्येव गमयतीति पित्रादिसम्बन्धविच्छित्तिः स्पष्टमवगम्यते । यस्तु —

इच्छयाऽन्योन्यसंयोगः कन्यायाश्च वरस्य च ।
गान्धवः स तु विज्ञेयो मैथुन्यः कामसंभवः ॥

इति विहितो गान्धर्वविवाहः स स्वयंवरणपर्वकश्चेत् ऋतुमत्या अपि पूर्वोक्तरीत्या न दोषाय ।परंतु नात्र पित्रादिसम्बन्धरक्षणसम्भवः । वस्तुतस्तु रजोदर्शनतः पूर्वमपि अनुरागो द्वादशे वयसि चतुर्दशे वा यस्याः कस्याश्चन दारुणप्रकृत्याः संभवतीति नायं विवाहो रजोदर्शनानन्तरमेव भवतीति गान्धर्वविवाहविधिर्न रजोदर्शनानन्तरमेव विवाहसाधको भवितुमर्हति । तथा च यदि पित्रादिदत्तां पितृस्वत्वमात्मनोऽभिमन्यमानां च दृष्टरजस्कां कन्यामुद्वहेत्, स सर्वात्मनाऽपाङ्क्तेयोवृषलतुल्यत्वादिति सिद्धम् । एतदेवाभिप्रेत्योक्तम्—

पितुर्गेहे तु या कन्या रजः पश्यत्यसंस्कृता ।
सा कन्या वृषली ज्ञेया तत्पतिर्वृषलीपतिः ॥
यस्तां समुद्वहेत् कन्यां ब्राह्मणो मदमोहितः ।
अश्राद्धेयमपाङ्क्तेयं तं विद्याद्वृषलीपतिम् ॥
या कन्या पितृवेश्मस्था यदि पुष्पवती भवेत् ।

असंस्कृता परित्याज्या न पश्येत्तां कदाचन ॥
विवाहेच न योग्या स्यात् लोकद्वयविगर्हिता ।
पितृवेश्मनि या कन्या रजः पश्यत्यसंस्कृता॥
तस्यां मृतायां नाशौचं कदाचिदपि शाम्यति ।
यत्तु पुनः—

“काममामरणात्तिष्ठेत् गृहेकन्यर्तुमत्यपि ।
न चैबैनां प्रयच्छेत्तु गुणहीनाय कर्हिचित् ॥

इति मनुवचनम्, तदिदं ऋतुमत्यपीत्यपिशब्दयोगात् गुणवद्वरस्तुत्यर्थमित्येवावगन्तव्यम् । तथा च गुणवद्वरालाभेऽपि ऋतोः प्रागेव कन्यादानं योग्यम्, न तु ततः परम् । “त्रीणि वर्षाण्यृतुमती कांक्षेत पितृशासनम्” इति वाक्यं तु वयं मन्यामहे वाचा दत्तस्य गुणवतो वरस्य देशान्तरगमने पुनरागमनसंभावनायां वर्षत्रयप्रतीक्षणपरमिति । अत एव—

प्रतिगृह्य तु यः कन्यां नरो देशान्तरं व्रजेत् ।
त्रीनृतून् समतिक्रम्य कन्यान्यं वरयेद्वरम् ॥

इति वचनमुपपद्यते। साधितमिदं पूर्वमेव विधवाविवाहविचारावसरे यत्- “नष्टे मृते प्रव्रजिते क्लीबेच पतिते पतौ” इति वचनं वाग्दत्ताविषयमिति । तथाच वाचादत्तस्यापि मरणे दिनत्रयमाशौचविधायकवाक्यानुसारेण वाचा प्रतिग्रहीतुरपि पतित्वात् तमुल्लङ्घ्य पत्यन्तरवरणं पितृशासनसत्त्वे वर्षत्रयपर्यन्तं न कर्तव्यमित्येवोक्तवचनतात्पर्यम् । एतेनेदमपि सूच्यते—पितुरपि शासनं स्वयंवरणविरोधेन तदैव भवितुंयोग्यम्, यदि गुणवान् वरः पूर्ववाचा कश्चन निर्णीतः स्यात् । तथाच वाचापि पूर्वंकन्यायाअ–

न्यस्मा अदाने ऋतुमत्याः स्वयं वरण एवाधिकारः, न तस्या दाने पित्रादीनामधिकार इति सिद्धम् । एतेन—

त्रीणिवर्षाण्युदीक्षेत कुमार्यृतुमती सती ।
ऊर्ध्वंं तु कालादेतस्माद्विन्देत सदृशं पतिम् ॥ ६०॥
अदीयमामा भर्तारमधिगच्छेद्यदि स्वयम् ।
नैनः किञ्चिदवाप्नोति न च यं साधिगच्छति ॥
अलङ्कारं नाददीत पित्र्यं कन्या स्वयंवरा ।
मातृकं भ्रातृदत्तं वा स्तेना स्याद्यदि तं हरेत् ।
पित्रे न दद्याच्छुल्कं तु कन्यामृतुमतीं हरन् ॥
स हि स्वाम्यादतिक्रामदृतूनां प्रतिरोधनात् ॥

( मनु० ६० - ६३ )

ऋतुत्रयमुपास्यैव कन्या कु

र्यात्स्वयंवरम् ।
ऋतुत्रये व्यतीते तु प्रभवत्यात्मनस्तथा ॥

( हेमाद्रो परिशेषखण्डे विष्णुः )

इदं गुणवद्वरालाभे सति द्रष्टव्यमिति पराशरमाधवीये २ - १३ ।
वरयित्वा तु यः कश्चित् प्रणश्येत्पुरुषो यदा ।
ऋत्वागमांस्त्रीनतीत्य कन्याऽन्यं वरयेत्पतिम् ॥

( निर्ण० सि० ३ प० वि० ८४० पृ० वैद्य० आचा० कात्या० : १३४ पृ० )
त्रीनृतूनतीत्य स्वयं युज्येत ( गौतमः )

कुमारी ऋतुमती त्रीणि वर्षाण्युपासीत, ऊर्ध्व
त्रिवर्षेभ्यः पतिं विन्देत तुल्यम् वसि० ७ अ ।
पितादद्यात्स्वयं कन्यां भ्राता वानुमते पितुः ।
.

मातामहो मातुलश्च सकुल्योबान्धवास्तथा ॥
माता त्वभावे सर्वेषां प्रकृतौ यदि वर्तते ।
तस्यामप्रकृतिस्थायां कन्यां दद्युर्द्विजातयः ॥
यदा तु नैव कश्चित्स्यात्कन्या राजानमाव्रजेत् ।
अनुज्ञया तस्य वरं प्रतीक्ष्य वरयेत्स्वयम् ॥

( परा० मा० नारदः पृ० ११२ )

गृहस्थोऽसमानार्षीमस्पृष्टमैथुनां कनीयसीं सदृशीं भार्याविन्देत । कुमारी ऋतुमती त्रीणि वर्षाण्युपासीत। ऊर्ध्वंत्रिभ्यो वर्षेभ्यः पतिं विन्देत तुल्यम् ॥ वसि० ७ अध्या० )

त्रीणि वर्षाण्युदीक्षेत कुमार्यृतुमती सती ।
चतुर्थेत्वथ सम्प्राप्ते स्वयं भर्तारमाव्रजेत् ॥१६ ॥
प्रजा न हीयते तस्या रतिश्च भरतर्षभ ।
अतोऽन्यथा वर्तमाना भवेद्वाच्या प्रजापतेः ॥१७॥
( महाभा० आनु० प० अ० ४७ – १७ )
इत्यादीनि वचनानि व्याख्याताति ।

उक्तविवेचनस्यनिष्कर्षः

अयमत्र निष्कर्षः—
अलंकृत्य पिता कन्यां भूषणाच्छादनाशनैः ।
दत्त्वास्वर्गमवाप्नोति पूजितस्तु सुरादिषु ॥
रोमदर्शनसंप्राप्तौसोमो भुङ्क्तेऽथ कन्यकाम् ।
रजो दृष्ट्वा तु गन्धर्वः कुचौदृष्ट्वा तु पावकः॥
अष्टवर्षा भवेद्गौरी नववर्षा तु रोहिणी ।
दशवर्षा भवेत्कन्या अत उर्ध्वं रजस्वला ।
माता चैव पिता चैव ज्येष्ठो भ्राता तथैव च ।

त्रयस्ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम् ॥
तस्मादुद्वाहयेत्कन्यां यावन्नर्तुमती भवेत् ।
विवाहोऽष्टमवर्षायाः कन्यायास्तु प्रशस्यते ॥

इति संवर्तेन दानप्रशंसाप्रसङ्गे,—

अष्टवर्षा भवेद्गौरी नववर्षा तु रोहिणी ।
दशवर्षा भवेत्कन्या अत ऊर्ध्वं रजस्वला ॥
प्राप्तेतु द्वादशे वर्षे यः कन्यां न प्रयच्छति ।
मासि मासि रजस्तस्याः पिबन्ति पितरः स्वयम् ॥

इति पराशरेण शुद्धिप्रसङ्गे,

अष्टमे तु भवेद्गौरी नवमे रोहिणी भवेत् ।
दशमे कन्यका प्रोक्ता द्वादशे वृषली स्मृता ॥

इति संवर्तान्तरेण चोक्तेषु वचनेष्वादौ“अत-ऊर्ध्वं रजस्वला”इत्युक्तेदशवर्षादूर्ध्वं रजस्वलात्वमुक्तम् । एवम्—

गौरीं ददन्नाकपृष्ठं वैकुण्ठंरोहिणीं ददत् ।
कन्यां ददद्ब्रह्मलोकं गैरवं तु रजस्वलाम् ॥

इति मरीचिना रजस्वलादाने रौरवनरकप्रतिपादनात् \।

ऊर्ध्वं दशाब्दाद्या कन्या प्राग्रजोदर्शनात्तु सा \।
गान्धारी स्यात्समुद्वाह्या चिरं जीवितुमिच्छता ॥

इति प्रयोगपारिजाते आश्वलायनोक्त्यादशवर्षादूर्ध्वं रजोदर्शनात् प्रागेव तस्या गान्धारीशब्दव्यवहार्यताप्रतिपादनपुरस्सरं दीर्घायुष्यमिच्छता विवाह्यतावगमात् रजोदर्शनतः प्रागेव विवाहो युक्तः ।

अत्रद्वादशवर्षग्रहणं प्रायिकम्; कस्याश्चित् तत्रापि तद्दर्शनाभावात् । अतो रजोदर्शनं न विवाहात् पूर्वंयथा स्यात्, तथा विवाहं दानं कुर्यादित्युक्तम् भवति । अत एव—

‘त्रिंशद्वर्षो वहेत्कन्यां हृद्यां द्वादशवार्षिकीम्’इति मनूक्तं सङ्गच्छते। अत एव —

‘त्रिंशद्वर्षः षोडशाब्दां भार्यां विन्देत नाग्निकाम्’इति व्यासोक्तौ दृष्टरजस्काया दानं प्रतिग्रहश्च निषिध्यत इति तद्भिन्नाया एव दानं प्रतिग्रहश्च कार्य इत्यर्थानुवादकतयानग्निकापदं स्वरसत उपपन्नम्। अत एव ऋतुदर्शनकालमुपलक्षयितुं ‘द्वादशे वर्षे’इत्युक्तम् । अत एव गौतमेन ‘प्रदानम् प्रागृतोः’इत्युक्तम् । यमोऽप्येतदेवाह—तस्माद्विवाहयेत्कन्यां यावन्नर्तुमती भवेत् । इति । अतश्च ऋतुदर्शनात्प्राग्यो न ददाति, स प्रत्यवायी स्यात् । एवं चअसति ऋतुदर्शने द्वादशेऽपि वर्षे कन्यादानप्रतिग्रहौन निषिद्धौ ॥ तत्र – सप्तमाद्वत्सरादूर्ध्वं विवाहः सार्ववर्णिकः ।

कन्यायाः शस्यते राजन् अन्यथा दोषगर्हितः ॥

( निण० म० भा० ) इति वचनेन—
“उपायनोदितः कालः स्त्रीणामुद्वाहकर्मणि”इति वचनेन— “तस्माद्गर्भाष्टमः श्रेष्ठो जन्मतो वाष्टवत्सरः”

इति वचनेन चाष्टमं वयः दानयोग्यतया शस्यते यथा, तथा ‘कन्यायास्तु प्रशस्यते’इत्यनेन दशमं वयः ऋतुप्रादुर्भावात्प्राक्तनं वयो वा दानयोग्यतया प्रशस्यत इति विवेकः । तत्र प्राक्तने वचने शस्यते स्तुयत इत्युक्त्या शिष्टस्तुत्यत्वमुच्यते, अत्र तु ‘प्रशस्यते’इत्युक्तेरतिप्रशस्तत्वमुच्यते इति न विरोधलेशावसरः । अत एव—

अष्टवर्षा भवेद्गौरी नववर्षा तु रोहिणी ।
दशवर्षा भवेत्कन्या अत ऊर्ध्वं रजस्वला ॥
प्राप्तेतुद्वादशे वर्षे यः कन्यां न प्रयच्छति ।
मासि मासि रजस्तस्याः पिबन्ति पितरोऽनिशम् ॥
माता चैव पिता चैव ज्येष्ठो भ्राता तथैव च ।
त्रयस्ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम् ॥
यस्तां समुद्वहेत् कन्यां ब्राह्मणो मदमोहितः ।
स भैक्ष्यभुग्जपन्नित्यं त्रिभिर्वर्षैर्व्यपोहति ॥

इति पराशरेण (७ \।८) द्वादशवयस्काया वराय दानाकरणे प्रत्यवाय उक्तः । एतेन—

कन्या द्वादशवर्षाणि याऽप्रदत्ता वसेद्गृहे \।
भ्रूणहत्या पितुस्तस्याः सा कन्या वरयेत्स्वयम् ॥
एवं चोपलतांपत्नीं नावमन्येत्कदाचन ।
न तु तां बन्धकीं विद्यान्मनुः स्वायम्भुवोऽब्रवीत् ॥

इति (निर्ण० यम०) पितुर्दोषापादकं यमवचनमपि व्याख्यातम् । तदिदं फलितं यत्—

कुलं च शीलं च वपुर्वयश्च ।
विद्यां वित्तं च सनाथतां च ॥
एतान् गुणान् सत्यपरीक्ष्य देया ।
कन्या बुधैः शेषमचिन्तनीयम् ॥

इत्युक्तकुलशीलादियुक्तद्वादशवार्षिकब्रह्मचर्यानुष्ठानरूपगुणवद्वरलाभे तस्मै वराय दाताआसन्नार्तवां कन्यां दद्यात् । तथा प्राक् तादृशगुणवद्वरालाभेन दाता यदि तमन्विष्यन् ऋतुप्रादुर्भावं जानाति, तदा ऋतुप्रादुर्भावकालादारभ्य वर्षत्रयाभ्यन्तरे उक्तव—

राय तां दद्यात् । यदि ऋतुप्रादुर्भावादूर्ध्वमुक्तगुणवद्वरान्वेषणे प्रवृत्तोऽप्रवृत्तो वा दाता स्यात्, तथा ऋतुप्रादुर्भावाद्व

र्षत्रयमतिक्रान्तं च स्यात्, तदा गुणवन्तमगुणवन्तं वा वरं स्वयमेव कन्या वृणुयात् । अत एव—

अष्टवर्षा भवेद्गौरी नववर्षा तु रोहिणी ।
दशवर्षा भवेत्कन्या अत ऊर्ध्वं रजस्वला ।
प्राप्तेतु द्वादशे वर्षे यः कन्यां न प्रयच्छति ।
मासि मासि रजस्तस्याः पिबन्ति पितरोऽनिशम् ॥

इति कलियुगीयधर्मविशेषनिर्णयार्थंप्रवृत्तेन पराशरेण ‘त्रिंशद्वर्षो वहेत्कन्यां हृद्यां द्वादशवार्षिकीम्’इति मनुना च द्वादशवार्षिकायाः कन्यकाया विवाहविधानं सङ्गच्छते । अत्र द्वादशेत्युपलक्षणंऋतोः प्राक्तनस्य वयसः । स चाग्रे स्पष्टीक्रियते । अत एव—द्वादशवर्षग्रहणं प्रायिकं कस्याश्चित्तत्रापि दर्शनाभावात् । अतो रजोदर्शनं न विवाहात्पूर्वं यथा स्यात्तथा कार्यम्—इति पराशरवचनाशयं वणितुंप्रवृत्तेन संस्कारमयूखे नीलकण्ठभट्टेनोक्तं सङ्गच्छते । न च—

अष्टमे तु भवेद्गौरी नवमे नग्निका भवेत् ।
दशमे कन्यका प्रोक्ता द्वादशे वृषली स्मृता ।

आपस्तम्बः-

दशवर्षा भवेत्कन्या अत ऊर्ध्वं रजस्वला ।
प्राप्ते तु द्वादशे वर्षे रजः स्त्रीणां प्रवर्तते ॥

एतच्च प्रायिकाभावं न पुनर्द्वादश एव रजस्वला भवतीति कासांचिदर्वागपि रजोदर्शनसंभवात् । अत एव यमसंवर्तौ—

दशवर्षा भवेत्कन्या अत ऊर्ध्वं रजस्वला । इति ( स्मृ० मु०

पूर्णषोडशवर्षा स्त्री पूर्णविंशेन सङ्गता ।
शुद्धे गर्भाशये मार्गे रक्ते शुक्रेऽनिले हृदि ॥ ७ ॥
वीर्यवन्तः सुतं सूतेततो न्यूनाब्दयोः पुनः ।
रोग्यल्पायुरधन्यो वा गर्भो भवति नैव वा ॥ ८ ॥

इति “ऋतुस्तु द्वादशनिशा पूर्वास्तिस्रस्तु निन्दिताः”

इति च । तथा पञ्चदशाध्याये—

यदा बाल्यमतिक्रम्य तारुण्यं याति योषितः ।
कायश्च मानसो भावस्तदा तासां विवर्तते ॥ १ ॥
स्तनौ पीनोन्नतौ स्यातां योनिश्च परिवर्धते ।
समुद्भवन्ति लोमानि बस्तिदेशो समन्ततः ॥ २ ॥
जरायुकेशान्तन्वच्छं शोणितं च प्रवर्तते ।
तदार्तवं रजश्चेति पुष्पनाम्ना च गद्यते ॥ ३ ॥
मासि मासि स्रवेद्रक्तंशशशोणितसंन्निभम् ।
लाक्षारसनिभं वापि तददोषं विनिर्दिशेत् ॥ ४ ॥
तिस्रश्चतस्त्रो वा पञ्चाप्यनुबध्नाति तन्निशाः ।
अतोऽन्यथा रजः स्त्रीणां जानीयाद्दोषवद्भिषक् ॥ ५॥
अरुणानामशोकानां प्रायशश्च प्रवर्तते ।
द्वादशाद्वत्सरादूर्ध्वं याति पञ्चाशतः क्षयम् ॥ ६ ॥
आर्तवस्त्रावदिवसादृतुः षोडश रात्रयः ।
गर्भग्रहणयोग्यस्तु स एव समयः स्मृतः ॥ ७ ॥
नारीणां प्रकृतेर्भेदादृतुकालस्य चान्यथा ।
गर्भग्रहणकालस्य कीर्तितं देहवेदिभिः ॥ ८ ॥
दिने व्यतीते नियतं संकुचत्यम्बुजं यथा ॥ इति,

वयस्त्वाषोडशाद्बाल्यं तत्र धात्विन्द्रियौजसाम् ।

वृद्धिरासप्ततेर्मध्यं तत्रावृद्धिः परं क्षयः ॥ १०५ ॥

कालनिर्णयदीपिकायामपीदमेवोक्तम् । तद्यथा—

ऋतुकाल इति प्रोक्तंगार्ग्यादिमुनिसत्तमैः ।
स्त्रीचिन्हं यौवनं प्राप्य षोडशे वत्सरे सदा ॥
कृत्रिमा दशमादूर्ध्वमौषधस्य निषेवणात् ।
एकादशे द्वादशे वा ऋतुकालं वदन्ति हि ॥
अनुरागाद् द्वादशाब्दे त्रयोदशे तु केचन
चतुर्दशे पञ्चदशे स्त्रीचिन्हं तु भविष्यति ॥
वातजा पित्तजा चेति दारुणा त्रिविधा स्मृता ।
वातजा द्वादशे वर्षे पित्तजा च चतुर्दशे ॥
दारुणा षोडशे वर्षे शोणितं पतति ध्रुवम् ॥

‘त्रिंशद्वर्षः षोडशब्दां भार्यां विन्देत नग्निकाम्’इति प्रागुक्तवचनात् षोडशवर्षवयस्काया अपि दानेन प्रतिग्रहस्योक्तेस्तु ऋतोः प्राग्देयेत्यर्थ एव सर्वेषामैक्यावगतिरिति यस्याः षोडशवयः पर्यन्तमपि रोगादिना कारणान्तरेण वा ऋतुप्रादुर्भावो नाभूत्तादृशकन्याया दाने दोषाभाव इत्येवाशयः । इदमेवाभिप्रेत्योक्तम्—

तस्माद्विवाहयेत्कन्यां यावन्नर्तुमती भवेत् ।

विवाहस्त्वष्टवर्षायाः कन्यायास्तु प्रशस्यते ॥ इति ।

एवं च ऋतुमतीत्वं हि नाजानसिद्धो दोष इति तद्दोषप्रसङ्गात्पूर्वमेव विवाहो योग्यः ।यदि तु कृतेऽपि प्रयत्ने वरालाभादिनाऽकस्मादेव व्याध्यादितो रजोदर्शनं सञ्जातम् तदा तु प्रायश्चित्ताचरणपूर्वकं तस्या अपि नायोग्यः । न हि षोडशवयोऽनन्तरमनुपनयनेऽपि आतृतीयकालपर्यन्तमुपनयनं व्रात्यस्तोमानन्तरं शास्त्रेऽभ्यनुज्ञातमिति वृद्धानामप्युपनयनं गौणकल्पः । किन्त्वापत्कल्प

एव । अनेन न्यायेन चर्तुमत्याअपि विवाह आपत्कल्पतयैवाभ्यनुज्ञायते शास्त्रेण प्रायश्चित्तपूर्वकम् । अत एव ऋतुमत्याअविवाहितायास्तत्र तत्र वृषलीत्वं प्रतिपादितमुपपद्यते । वचनानि तु प्रमाणपट्टिकातोऽनुसन्धेयानि । अत्रेयंसंस्काररत्नमाला — तत्र याज्ञवल्क्यः—

पिता पितामहो भ्राता सकुल्यो जननी तथा ।
कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः ॥
अप्रयच्छन् समाप्नोति भ्रूणहत्यामृतावृतौ ।
गम्यं त्वभावे दातृणां कन्या कुर्यात्स्वयं वरम् ॥

इति । भ्राता कन्यायाः ।

मनुः—

यदा तु नैव कश्चित्स्यात्कन्या राजानमाव्रजेत् ।

इति । उक्तसकलाधिकार्यभावे स्वयं वरयेत् ।

“गम्यं त्वभावे दातृणां कन्या कुर्यात्स्वयं वरम्”

इति वचनात् ।

पुत्रि प्रदानकालस्ते न च कश्चिद्वृणोति माम् ।
स्वयमन्विच्छ भर्तारं गुणैःसदृशमात्मनः ॥

इति भारते सावित्र्युपाख्याने पित्र्यनुज्ञयापि

स्वयं वरणमुक्तम्, तत्क्षत्रियाधिकारत्वात्तद्विषयम् ।

गम्यं गमनार्हंसावर्ण्यादिगुणयुक्तमित्यर्थः ।

अनाथायाः कन्याया धर्मार्थविवाहकरणं तत्फलं

चोक्तंपुराणान्तरे—

आत्मीकृत्य सुवर्णेन परकीयां तु कन्यकाम् ।
धर्म्येण विधिना दातुमसगोत्रोऽपि युज्यते ॥

अनाथां कन्यकां दृष्ट्वा यो दद्यात्सदृशे वरे । ।
द्विगुणं फलमाप्नोति कन्यादाने यदीरितम् ॥

इति । अतोऽन्यदीया कन्याऽन्येनापि धर्मार्थं देया ।कन्याया रजःप्राप्त्यनन्तरं दाने दोषमाह शाट्यायनिः—

माता च जनकश्चैव जेष्ठो भ्राता तथैव च ।
त्रयस्ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम् ।

इति । मरीचिरपि -

यस्तां विवाहयेत्कन्यां ब्राह्मणो मदमोहितः ।
असंभाष्यो ह्यपाङ्क्तेयः स उक्तो वृषलीपतिः ॥

इति । हारितोऽपि -

पितुर्गेहे तु या कन्या रजः पश्यत्यसंस्कृता ।
सा कन्या वृषलो ज्ञेया तत्पतिर्वृषलीपतिः ॥

असंस्कृताऽविवाहिता । तत्र प्रायश्चित्पूर्वकं विवाहमाह शौनकः-

कन्यामृतुमतीं शुद्धां कृत्वा निष्कृतिमात्मनः ।
पिता ऋतून् स्वपुत्र्यास्तु गणयेदादितः सुधीः ॥
दानावधि गृहेयत्नात्पालयेच्च रजोवतीम् ।
दद्यात्तदृतुसंख्या गाः शक्तः कन्यापिता यदि ॥
दातव्यैकापि यत्नेन दाने तस्या यथाविधि ।
दद्याद्वा ब्राह्मणेष्वन्नं अतिनिस्वःसदक्षिणम् ॥
तस्यातीतर्तुसंख्येषु वराय प्रतिपादयेत् ।
उपोष्यत्रिदिनं कन्या रात्रौ पीत्वा गवां पयः ॥
अदृष्टरजसे दद्यात् कन्यायैरत्नभूषणम् ।

तामुद्वहन् वरश्चापि कूष्माण्डैर्जुहुयाद्घृतम् ॥

इति । निष्कृतिमात्मनः कृत्वा कन्यां चर्तुमतींशुद्धां कृत्वा वराय प्रतिपादयेदित्यन्वयः ।स्वपुत्र्याः कन्यायाः ।तस्या कन्याया दाने कर्तव्ये यथाविधि गोदानविधिना शक्तेन तदृतुसंख्या गावोदातव्याः, अशक्तेन त्ववश्यमेकापि गौर्गोदानविधिना देयेत्यर्थः ।उपोष्येतिश्लोकेन दृष्टरजस्ककन्याया उपवासत्रयान्ते गव्यपयः-पानपूर्वकं गोदानं विधीयते । अदृष्टरजसे कुमार्यै सरत्नभूषणदानेन विवाहयोग्यतोच्यते । तामुद्वहन्नित्यनेन वरस्य कूष्माण्डहोमेन तदुद्वाहयोग्यता प्रतिपाद्यते । कन्याया गोदानोत्तरं पादकृच्छ्रमपि कर्तव्यम् ।

कन्यका तु विवाहात् प्राक् रजसा चेत्परिप्लुता ।
पादकृच्छ्रेणशुद्धा स्यात्पाणिग्रहणकर्मणि ॥

इति हेमाद्रौ स्मृत्यन्तरोक्तेः। बौधायनस्तु —

अथ यदि कन्योपसाद्यमाना वाह्यमाना वा रजस्वला स्यात्तामनुमन्त्रयते—पुमांसौमित्रावरुणौ पुमांसावश्विनावुभौ । पुमानिन्द्रश्च सूर्यश्च पुमांसं वर्धयत्वियमित्यथ द्वादशरात्रमलंकृत्य प्राशयेत् पञ्चगव्यम् । ततः शुद्धा भवति - इत्याह । उपसाद्यमाना दात्रा दीयमाना ।उह्यमाना वरेण पाणिग्रहणेन । वाशब्दद्वयमुभयोः प्राधान्यं द्योतयितुम् ।तस्या उपसाद्यमानाया उह्यमानाया वा पतने सएवाह – अथ यदि कन्योपसाद्यमाना वोह्यमाना वा पतेत्, तामुत्थापयेत् “उदस्थाद्देव्यदितिविश्वरू

प्यायुर्यज्ञपतावधात् । इन्द्राय कृण्वती भागं मित्राय वरुणाय च”- इति ।

होमकाले रजोदर्शने तु यज्ञपार्श्वः-

विवाहे वितते तन्त्रेहोमकाल उपस्थिते ।

कन्यामृतुमतीं दृष्ट्वा कथं कुर्वन्ति याज्ञिकाः ॥
स्नापयित्वा तु तां कन्यामर्चयित्वा यथाविधि ।
युञ्जानामाहुतिंहुत्वा ततस्तन्त्रं प्रवर्तयेत् ॥

इति । “युञ्जानः प्रथमं मनः”इत्येकेन ऋङ्मन्त्रेण साध्याऽऽहुतिर्युञ्जानाडुतिस्तां हुत्वेत्यर्थः । यदा तु दात्रभावेन रजोदर्शनम्, तदा विशेषमाह बौधायनः-

त्रीणि वर्षाण्यृतुमती काङ्क्षेत पितृशासनम् ।
ततश्चतुर्थे वर्षे तु विन्देत सदृशं पतिम् ॥
अविद्यमाने सदृशे गुणहीनमपि श्रयेत् ॥ इति ।

मनुरपि — त्रीणि वर्षाण्युदक्षेत नारी ऋतुमती सती ।

ऊर्ध्वं तु कालादेतस्माद्विन्देत सदृशं पतिम् ॥
अदीयमाना भर्तारमधिगच्छेद्यदि स्वयम् ।
नैनः किञ्चिदवाप्नोति न च यं साधिगच्छति ॥

इति । अदीयमाना दात्रभावाद् दात्रुपेक्षणाञ्च ।सा यं भर्तारमधिगच्छति, सोऽपि नैनोऽधिगच्छतीति माधवेन व्याख्यातम् । यत्तु विष्णुवचनम्—

ऋतुत्रयमपास्यैव कन्या कुर्यात्स्वयं वरम् ।

इति, तद्गुणवद्वरलाभे वेदितव्यम् । स्वयं वरणे विशेषमाह मनुः

अलंकारं नाददीत पितृदत्तं स्वयंवरा
मातृदत्तं भ्रातृदत्तं स्तेयं स्याद्यदि तं हरेत् ॥ इति ॥

अनेन ह्रीदं स्पष्टमवगम्यते—यत् त्रीणि वर्षाणिऋतुमत्याःप्रतीक्षणमपि दात्रभावे दातुरुपेक्षणेवैव योग्यम् । तथाच यदिदानींतना अपि उपेक्षया कन्यां न ददते, तर्हि सत्यं वर्षत्रयमध्ये दातुं शक्यते, तथापि तत्रापि प्रायश्चित्तविधानादापत्करूपनैव युक्ता

सर्वथा तु जघन्योऽपि ऋतुमतीविवाह आपत्कल्पतयैवाभ्यनुज्ञायत इति नेदं कस्यापि विप्रतिपन्नम् ।

ऋतुमतीविवाहविषयेप्रसिद्धप्रबन्धसमालोचनम् ।

ऋतुमतीविवाहविषये हि बहोःकालादारभ्य खण्डनमण्डनादिकं प्रवृत्तमेव वर्तते । तत्र प्रथमंश्रीनिवासशास्त्रिभिर्ऋतुमतीविवाहशास्त्रीयतासमर्थनपर एको ग्रन्थो विरचितः । तदनन्तरं तु महामहोपाध्यायवेदान्तकेसरि—श्रीगणपतिशास्त्रिभिस्तत्खण्डनपरं वयोनिर्णयाभिधानमेकं पुस्तकं विरचितम् । तदनन्तरं तु मद्रपुरसंस्कृतकलाशालाध्यापकैः श्रीश्रीनिवासशास्त्रिभिर्विवाहकालविमर्शाभिधमेकं पुस्तकं विरचितम्, यत्र श्रीनिवासशास्त्रिणां मतमेव रक्षितम् । तदनन्तरं च तिरवादीपरिषद्धृतान्तप्रदर्शिन्यां पुस्तिकायां तत्समर्थनपराः केचन प्रबन्धाः प्रकाशिताः । ततश्च विवाहसमयमीमांसाऽस्माभिः परिणयमीमांसा श्रीनटेशशास्त्रिभिश्च सम्पाद्येते स्म । तदयं सारांशः—

उपोद्धातः

यथा पुंसां जातिब्राह्मण्यानां उपनयनं विना न कर्मब्राह्मण्यसिद्धिः, एवं स्त्रीणामपि तादृशीनां विवाहं विना न तादृशब्राह्मण्यसिद्धिरित्यवश्यकर्तव्येषु कृत्येषु विवाहमपि मुख्यंमन्वानाः सर्वेऽपि कन्यापितरस्तन्निर्वर्तने महान्तमेव क्लेशमनुभवन्ति । तत्र च कारणं बहुशतपरिमितवरदक्षिणानिमित्तनिर्बन्ध एव । तत्प्रसक्तिश्च स्त्रीमात्रविषयेऽदुष्टरजःकालनियमेनैव सम्पद्यते । तत्र यदि पुंसामिव स्त्रीणामपि विषये विवाहकालनियमो नास्तीति समयो भविष्यति, तर्हि वरदक्षिणानिमित्तनिर्बन्धस्यापि नावसरः स्यात् । यत्र तु शूद्रादिविषये नैतादृशकालनियमः, नैतादृशनिर्बन्धस्तत्र दृश्यते, इत्युपाय एवेदं समयान्तरपरिकल्पनमुक्त—

निर्बन्धपरिहारे । तत्रापि सर्वथापि कालनियमाभावे पञ्चाशद्वयः - पर्यन्तमपि विवाहं विनाऽवस्थानं स्यादिति शास्त्रे गौणकालत्वेन प्रतिपादितं षोडशादिवय एव परमावधिरिति कल्पने नदोष इति मन्यामहे ।

इदानीन्तनस्तु रजोदर्शनतः पूर्वमेव विवाह इति समयोऽन्धपरम्परान्यायप्राप्तकेवलाचारमूलको न प्रमाणमिति पश्यामः । कल्पयितव्ये च समये रजोदर्शनानन्तरमपि वर्षत्रयं न दोषाय इत्येव समयः साधीयान् । येन बाल्यवैधव्यादिदुःखान्यपि निरवकाशानि भवन्ति । महर्षयोऽपि समे कलिवर्ज्यप्रकरणे अक्षतकन्यापुनर्विवाहमपि समामनन्तो रजोदर्शनानन्तरविवाहसमयकल्पनमप्यावश्यकमित्यभिप्रयन्ति । एवञ्च रजोऽनन्तरविवाहनिषेधपराणां सर्वेषामपि वचनानां युगान्तरविषयत्वेनोपपत्तिवर्णनमेव साधीयः । युगान्तरे ह्यक्षतकन्यापुनर्विवाहोऽपि धर्मज्ञसंमत इति न बाल्यवैधव्यदोषः समापतित इति ऋत्वनन्तरविवाहनिषेधवचनानि यथार्थान्येवेति युक्तम् ।

अथवा एवं मन्यामहे - सर्वेषामपि निषेधवचनानां ऋतुसमनन्तरवर्षत्रयसमनन्तरदानगोचरत्वेनोपपत्तिरिति, इति वदतां बोधायनाचार्याणामप्यत्रैवाशय इति कल्पयामः । यतो हि सर्वस्मृत्येकवाक्यतयैवार्थवर्णनं युक्तमिति “त्रीणि वर्षाण्यृतुमती काङ्क्षेतपितृशासनम्”इति मनुवचनाविरोधेनैवार्थबोधने बोधायनस्मृतेरपि सामर्थ्यम् । न च शङ्कनीयम्— बोधायनैकवाक्यतया मनुस्मृतेरेव “कालेऽदाता पिता वाच्यः”इत्यादिरूपाया रजस्वलादाननिषेधपरत्वेऽवगन्तव्ये त्रीणि वर्षाणीत्यादिवचनानामापत्कल्पतया तदभ्यनुज्ञानतात्पर्यकत्वमेव युक्तमिति; “मन्वर्थविप—

रीता तु या स्मृतिः सा न शस्यते” इति वचनानुसारेण बोधायनादिवचनापेक्षया मनुस्मृतेरेव प्राबल्यमिति सिद्धत्वेन तदविरोधेन वचनान्तरनयनस्यैव युक्तत्वात् । एवञ्च रजोनन्तरं विवाहोऽपि धर्म इत्यवकल्पनीयः समयः । तथा सति हि कन्या स्वाभिमतमेव वरं वृणुयादिति परस्परकलहादयः तन्निबन्धनात्महत्यादिकं वापि न पदमधितिष्ठेत् । अभिसरणादिदोषस्तु वासनाविशेषनिबन्धनः इदानीन्तनसमयेऽपि दुष्परिहर इति रजोऽनन्तरविवाहसमयकल्पनं लोकहितैषिणां धर्मज्ञानामावश्यकमेवेत्यधुनातनाः केचन महाशया मन्यते ।

अन्ये तु — उक्तविधसमयकल्पनायामपि वरदक्षिणानिर्बन्धपरिहारो न भविष्यति । नापि वा वधूवरयोः कलहात्महत्यापातकादिपरिहारः ।नहि सकृदसकृद्वा दर्शनसम्भाषणादिमात्रेण पुरुषहृदयमिदमेवेति निश्चेतुंरजोदर्शनमात्रेण कन्या प्रभवति । प्रभवति चेदपि न वर्षत्रयपर्यन्तं स्वतन्त्रतया स्वाभिमतपुरुषवरणं पित्राऽन्यस्मिन् निर्णीते गुणवति वरे पितृवशंवदायाः सम्भवदुक्तिकम् । वर्षत्रयानन्तरमेव खलु स्वयंवरकालः तदर्थमेव तत्समयकल्पने च सर्वेषां कन्यापित्रादीनां पातित्यं सम्पादितमिति न लोकोपकारोऽनेन समयेनेति भक्षितेऽपि लशुने न रोगशान्तिरिति सम्पद्यते ।

शास्त्रंयद्यपि स्त्रीणां विषये षोडशादिवयो गौणकाल इति बोधयति “विवाहं चोपनयनं स्त्रीणामाह”वैवाहिको विधिः स्त्रीणामौपनायनिकः स्मृतः” इत्यादिरूपम्, तथापि रजोदर्शनाभावविशिष्टोपनयनकाल एव विवाहकाल इत्यकामेनाप्यभ्युपगमनीयम्, “प्रदानं प्रागृतो” “कालेऽदाता पिता वाच्यः”“अपि वा

गुणहीनाय नोपरुन्ध्याद्रजस्वज्ञाम्” इत्यादिवचनाविराधेनैवोक्तशास्त्रोपपत्तेर्वर्णनीयत्वात् । उत्तरत्र चैतद्विस्तरेणैवोपपादयिष्यामः ।

त्रीणिव

र्पाण्यतुमतीत्यादिवचनानामपियथाऽऽपत्कल्पतयारजो-ऽनन्तरविवाहाभ्यनुज्ञान एव तात्पर्यम्, तथोत्तरत्र स्फुटीकरिष्याम इति नोक्तानुपपत्तेरवकाशः ।

एवं कलिवर्ज्यप्रकरणेऽक्षतकन्यापुनर्विवाहसमाम्नानमपि न रजोदर्शनानन्तरविवाहसमयकल्पने लिङ्गम् ; येन निषेधवचनानि युगान्तरं गोचरीकुर्युः ।अक्षतकन्यापुनर्विवाहो हि न संस्कारार्थः;संस्कारस्य प्रथमविवाहेनैव निष्पन्नत्वादिति कामाद्यर्थत्वेन कलिवर्ज्यप्रकरणे तदाम्नानं कामार्थविवाहनिषेधाभिप्रायेणेत्येव कल्पना साधीयसी । शूद्रस्त्रीणां तु न धर्मार्थो विवाहः , किंतु कामाद्यर्थएवेति यदा कामस्तदा विवाह इति रजोदर्शनानन्तरमपि विवाह, इति युक्तम्, नैवं ब्राह्मणकन्यानामपि तद्दृष्टान्तेन रजोऽनन्तरविवाहसमयकल्पनं साधीयः । ब्राह्मणकन्यानान्तु धर्मार्थएव विवाहः कलौ युगे धर्मार्थ एव विवाहः, अष्टवर्षादिबालिकामेव संस्कुर्यादित्युत्तरत्र विस्तरेणोपपादयिष्यामः । एवञ्च समयान्तरकलपनायासो निष्प्रयोजन इति पश्यामः ।

यदपि युवतिविवाहपक्षेतावान्नात्महत्यादिः, यावन् बाल्यविवाह इति लोकोपकारार्थं समयान्तरकल्पनं युक्तमेव । पूर्वतनाश्चापि लोकोपकारार्थंशास्त्रमप्यन्यथय्य समयविशेषानचीक्लपन्निति हि स्मृतिपुराणेतिहासादिभ्योऽवगम्यते । एवमिदानीन्तनैरपि धर्मज्ञैःसमयविशेषकल्पने न दोष इति शङ्क्यते, तत्र प्रतिब्रूमः— एवं चेत्सर्वथाऽऽत्महत्यादिदोषो यथा न प्रसरेत्, तादृशसमयकल्पनार्थमेव यतितव्यम् । स चाङ्ग्लस्त्रीणामिव बहुकालं

यथेष्टसहासनसहशयनादिभिः पुरुषाशयविनिश्चयानन्तरमेव विवाहः समाचरणीय इति ।

ननु पूर्वस्मिन् समये “यस्यां मनश्चक्षुषोर्निर्बन्धः” “त्रिरात्रं ब्रह्मचर्यम्” इति सूत्रस्वारस्यम्, सुप्रजास्त्वायेतिमन्त्रलिङ्गस्वारस्यं च विद्यते इति चेत्, विपरीतमेतत् प्रथमं हि सूत्रंद्वितीयस्मिन्नेव समये विशेषतः स्वरसम् । तत्र हि सूत्रे मनश्चक्षुषोर्यस्यां नितरां बन्धः सा कन्या विवा

ह्येति बोद्ध्यते । तत्र चक्षु निर्वन्धः सुतरां यद्यपि रूपादिदर्शनमात्रेण संभवेत्, मनोनिर्बन्धस्तु सुतरां न सहासनसहशयनादिकलापमन्तरा सम्भवेदिति सर्वानुभवसिद्धमिदम् । तत्रैवं सत्युभयनिबन्धनमपि नियतं सूत्रयन्नापस्तम्बाचार्यो हि द्वितीयसमयपक्षपातीति कल्पनैव साधीयसी। एतेन द्वितीयसूत्रमपि व्याख्यातं भवति । विवाहदिनत्रयं हि सङ्गमो निषिद्ध्यमानो विवाहतः पूर्वंसङ्गमं निर्वृत्तं ज्ञापयतीति द्वितीयसमयकल्पनायामेव गमकत्वात् । एवं चतुर्थरात्रसमावेशनमपीत्यादिस्वयमेवोहनीयम्। सुप्रजास्त्वायेति मन्त्रलिङ्गंद्वितीयसमय एव लिङ्गम् ।सञ्जातगर्भामेव युवतिमुद्दिश्य सुप्रजास्त्वं प्रार्थ्यते लोके, न त्वसंस्पृष्टमैथुनामपीति द्वितीयसमयकल्पनार्थमेव कुतो न यतितमिति पर्यनुयुञ्ज्महे ।ततः

किंचिद्वर्णस्वारस्यं मनसि निधाय स्वाशयविरुद्धशास्त्राणां अन्यथानयने महदेवानर्थजातं लोकस्य भवेदिति लोकोपकारार्थंप्रवृत्तैर्लोकापकार एव कृतः स्यादिति, विनायकं प्रकुर्वाणो रचयामास वानरमितिवचनगोचरतापत्तिरित, साधुजनक्षुण्णमार्गेणैव धर्मशास्त्रविचारः कर्तव्य इति । तथा विचारे न रजोऽनन्तरविवाहशास्त्रीयतासिद्धिरिति, रजोऽनन्तरविवाहधर्मतावादोऽसम्भवदुक्तिक एव । बाल्यवैधव्यापेक्षया युवतिवैधव्य —

मेव महतेऽनर्थाय भवतीत्यत्र च लोकज्ञा एव प्रमाणमिति विस्तरभयादुपरम्यते । एवञ्च समयान्तराकल्पनेन पूर्वतनसमयानुपालनमेव लोकोपकाराय भवतीति तत्रैव सर्वैरप्यास्तिकवर्यैर्यतितव्यमिति वर्णयन्ति । तत्र कीदृशं मतं युक्तमिति विमृश्यते । यद्यपि पण्डितवर्यैर्गणपतिशास्त्रिभिरेतद्विषयमधिकृत्य कश्चन ग्रन्थो वयोनिर्णयाख्यो निरमायि । यद्यपि च तादृशैः श्रीनिवासशास्त्रिभिस्तदुपरि कश्चन ग्रन्थो विवाहकालविमर्शाख्योऽग्रन्थि । प्रथमग्रन्थकृतस्तु रजोदर्शनात् पूर्वमेव ब्राह्मणस्त्रीणां विवाह इत्याशयः । उत्तरग्रन्थकृतस्तु रजोदर्शनानन्तरमपि नासां विवाहोऽयुक्तस्तथैव धर्मशास्त्रेभ्योऽवगमात् इत्याशयः । तत्रादौ विवाहपदार्थंनिरूपयामः।

समावेशनस्य विवाहाङ्गत्वविचारः ।

विवाहो नाम विजातीयसंस्कारप्रयोजकं ग्रहणम् ॥ग्रहणं च ममेयमिति स्वत्वास्पदीभूततया ज्ञानम् । स्वत्वं च प्रतिग्रहजन्यं विवक्षितम्। संस्कारश्च पाणिग्रहणमन्त्रावधिसप्तपदीगमनविहितमन्त्रान्तमन्त्र-समुदायकरणकक्रियाकलापजन्यादृष्टविशेषः। तथाविधोक्तसंस्कारप्रयोजकप्रतिग्रहजन्यस्वत्वास्पदी-भूतज्ञानमेवविवाहपदार्थः । एतादृशे च विवाहे समावेशनं नाम अङ्गंन किमपि शास्त्रचोदितम् ।” शेषं समावेशने जपेत्” इत्यापस्तम्बसूत्रन्तु ऋतुसमावेशन एव ‘आरोहोरुमि’ति मन्त्रं विदधाति । एवञ्च चतुर्थदिने समावेशनविधानान्यथानुपपत्त्या न रजोऽनन्तरविवाहधर्मतासिद्धिरिति केचित् वर्णयन्ति । इममेव पक्षंवयः कालनिर्णायका अप्यनुवर्तन्ते ।

अन्ये तु—पाणिग्रहणमन्त्रान्तमन्त्रसमुदायकरणक-क्रियाकलापजन्यादृष्टविशेष एव विवाहपदार्थः । ऋतसमावेशनादतिरिक्तं

विवाहचतुर्थदिनेऽनुष्ठेयं समावेशनान्तरमपि विद्यते । तदन्यथानुपपत्त्यारजोदर्शनानन्तरविवाहोऽपि शास्त्रीय इति सिद्ध्यतीति मन्यन्ते । अमुमेव पक्षं विवाहकालविसर्शकारा अप्यनुवर्तन्ते ।

परे तु— यद्यपि समावेशनमन्त्रान्तमन्त्रसमुदायकरणकक्रियाकलापजन्यादृष्टविशेष एव विवाहः, यद्यपि च ऋतुसमावेशनातिरिक्तंवधूवरयोः परस्परमिथुनीभावलक्षणं समावेशनं शास्त्रेणचोद्यते, तथापि तादृशसमावेशनान्यथानुपपत्त्या रजोऽनन्तरविवाहः परं न सेत्स्यति । तत्र च युक्तिरुपरिष्टाद्वदक्ष्याम इति च प्रतिपादयन्ति ।

तत्र च कीदृशं वा मतं युक्तमिति विचारणायां न तावत्प्राथमिकं समीचीनम् । वयोनिर्णयकारा हिएवं वदन्ति— नहि कुत्रापि चतुर्थदिनेऽपि समावेशनमनुष्ठेयतया विधीयते ।आपस्तम्बाचार्यैस्तु “शेषं समावेशने जपेत्” इति सूत्रेण चतुर्थदिने तद् विधीयत इति प्रतीयते । तथापि तादृशसूत्रस्य क्रमविशिष्टमन्त्रजपविधान एवतात्पर्यमभ्युपगमनीयम्, न तुसमावेशनविधानेपि; तस्य निमित्तत्वेनात्र निवेशात् । नहि निमित्तानामपि चन्द्रोपरागादीनां “उपरागे स्नायात्” इति विधिविषयत्वं कस्यापि सम्मतम् । समावेश्येति मुक्तकण्ठमेव “तिस्रोऽपि जपित्वा” इतिवत्सूत्रयितव्ये “समावेशने जपेत्” इत्येवंरूपेण सूत्रयतामाचार्याणामुक्ततात्पर्यकलपनस्यैवस्वरसत्वात् । दृश्यते हि प्रायेण सप्तम्यन्तपदोपात्तानां निमित्तत्वेनान्वयः’उपरागे स्नायात्’ इत्यादिस्थले । तत्सामान्यादत्रापि “समावेशने” इति सप्तम्यन्तपदोपात्तस्य निमित्तत्वेनान्वयवर्णनमेव युक्तम् । निमित्तत्वेनोपात्तस्य च समावेशनस्य स्वरूपं किमिति चेत्, समावेशनपदस्य वधूवरसम्मेलन एव शक्तत्वात् वधूवरसम्मेलनमेव निमित्तत्वेन प्रतीयते, तथापि सुद—

र्शनाचार्यभाष्यपर्यालोचनया ऋतुसमावेशनमेव तदिति ब्रूमः \। इत्थं हि तदीयाभिप्रायः—अत्र समावेशनपदेन वधूवरयोः परस्परमिथुनीभावनिमित्तसहशयनमेव विवक्ष्यते, “रजःप्रादुर्भावात् स्नातां ऋतुसमावेशने उत्तराभिरभिमन्त्रयते” इत्यनन्तरं तृतीयसूत्रेऋतुशब्देन साकं समावेशनपदं प्रयुञ्जानानामाचार्याणां सूत्रद्वयगतसमावेशनपदयोरुभयोरपि एकार्थकताकल्पनस्य युक्तत्वात् । एवञ्च पूर्वत्र केवलसमावेशनपदप्रयोगेऽपि तस्यार्थान्तरपरत्वापत्त्योक्तविधार्थसिद्धिर्न स्यादिति उत्तरसूत्रे"ऋतुसमावेशने” इति ऋतुशब्दोऽपि प्रयुज्यते । अयं च— समावेशनं नाम वध्वा सह मैथुनार्थं शयनम्, उत्तरत्र ऋतुसमावेशन इति ऋतुलिङ्गात्— इति वाक्यबलेन लभ्यते । इदं हि वाक्यं समावेशनपदार्थनिर्णयद्वारा तत्स्वरूपनिर्णयार्थमेव प्रवृत्तम् । यदि समावेशनपदस्य व्यवायार्थकत्वं लोकतः सिद्धम्, तर्हि अनन्तरतृतीयसूत्रेऽपि केवलसमावेशनपदमेव आचार्याः प्रयुञ्जीरन् । नैतदस्ति, एवं च तादृशं समावेशनं निमित्तीकृत्य “शेषं समावेशने जपेत्” इति सूत्रे मन्त्रजपो विधीयत इत्येवमापस्तम्बाचार्याणामाशयः । एवं च चतुर्थदिने समावेशनविधानं कुत्रापि नोपलभ्यत इति तदन्यथानुपपत्त्या ऋतुमतीविवाहसाधनं न युक्तमिति ।

अन्ये तु— “शेषं समावेशने जपेत्’ इति सूत्रयतामापस्तम्बाचार्याणां समावेशनविधानेऽपि तात्पर्यमभ्युपगमनीयमेव । समावेशनस्य हि विधेयनिमित्तत्वेनोपादानं न युक्तम् । नहि विधिविषयाणां कुत्रापि निमित्तत्वेनादरणं दृश्यते । अनिष्टानामेव तूपरागादीनां निमित्तत्वेनान्वयः, न त्विष्टानामपि इति समावेशनस्येप्सितस्य निमित्तत्वेनान्वयवर्णनं न सम्भवति । एतेन— रागप्राप्तस्वतन्त्रस-

मावेशनमपि न निमित्तत्वेनान्वेतीति- सूचितम् । यदि हि “शब्दक्रमादर्थक्रमो बलीयान्” इति न्यायेन “रजःप्रादुर्भावात् स्नातां ऋतुसमावेशने उत्तराभिरभिमन्त्रयते” इति समनन्तरतृतीयसूत्रार्थ एव प्रथमतो वक्तव्य इति तत्सूत्रविहितं समावेशनमनूद्यैवानेन क्रममन्त्रजपयोर्विधानमित्युपपाद्येत, तथापि प्राप्तकर्मोद्देशेनानेकगुणविधानेन वाक्यभेद इति “यदाग्नेयोऽष्टाकपालोऽमावास्यायां पौर्णमास्यां चाच्युतो भवति” इति वाक्यस्येव विशिष्ट विधिपरत्वमङ्गीकरणीयमिति क्रममन्त्रजपसमावेशनानां सर्वेषां विधिरित्येव भवति । एवं च समावेशनविधानेऽपि “शेषं समावेशने जपेत्” इति सूत्रतात्पर्यंसिद्धं भवति ।

यदपि चोक्तं – समावेशनपदस्य वधूवरसम्मेलनमात्रशक्तिकस्योत्तरसूत्रे व्यवायपरत्वव्यवस्थापकसुदर्शनाचार्याशयविरोधप्रसङ्गः तद्वारणार्थं च समावेशनपदयोरुभयोरपि रजोऽनन्तरगर्भधारणोपयोगिपरस्परमिथुनभावनिमित्तसहशयनपरत्वमेवाङ्गीकरणीयम् । तादृशं च समावेशनं विवाहाङ्गंन भवत्येवेति तदप्यापातरमणीयम् ;केवलसमावेशनपदानामपि व्यवायपरत्वेन तत्र तत्र निर्देशात् । तथा च गौतमः - षोडशर्तुनिशाः स्त्रीणां तासु युग्मासु संविशेत्—इति । तत्र यदि केवलसंवेशनादिपदानां व्यवायार्थकत्वं न लोकसिद्धमिति स्यात् तदा उक्तस्मृतिषु प्रयुक्तानां संवेशनादिपदानां कथमर्थनिर्णयः संभविष्यतीति भवन्त एव विवेचयन्तु ।

एवं च सुदर्शनाचार्या अपि न समावेशनपदार्थनिर्णयार्थंप्रवृत्ताः, किन्तु ऋतुसमावेशनात् विवाहाङ्गं समावेशनं भिन्नरूपमिति उपपादयितुम् । इदं हि तस्य वाक्यम्—समावेशनं नाम

वध्वा सह मैथुनार्थं सहशयनमिति । यद्यपि मैथुनार्थं शयनं भार्यया साकमेव ऋतुकाल एव युक्तम्, नत्वन्ययाऽन्यकाले, “स्वदारनिरतश्चैव” इत्यादिवचनैः परिसंख्याविधया स्वदारेतरोपगमनादिनिषेधात्, तथापि “किमिव वचनं न कुर्यात्, नास्ति वचनस्यातिभारः” इति न्यायेन वध्वासहापि चतुर्थदिने समावेशनस्य विहितत्वात् तद्दिनमात्रेतदनुष्ठानमपि युक्तमेव । एवञ्चात्र भार्यया साकं समावेशनं ऋतुकालिकं न विवक्षितमेव; उत्तरत्र तस्य विद्यमानत्वादिति ।

अयमाशयः—चतुर्थीकर्मसमाप्त्यनन्तरमेव भार्यात्वसम्पत्तिरिति पारस्करहरिहरभाष्येउक्तत्वात् तत्पूर्वंभार्यात्वमेव नास्ति । एवं ऋतुकाल एव समावेशनस्य विहितत्वात् ऋतुकालिकत्वमपि नास्तीति कथं व्यवायार्थशयनं कन्यया साकं विवाहचतुर्थदिने प्रयुक्तमित्याशंकायां विवाहाङ्गसमावेशनमात्रविषये वचनात् भार्यात्वसिद्धितः पूर्वमपि तत्सिद्ध्यर्थं व्यवायार्थंसहशयनं युक्तमेवेति केचित् वर्णयन्ति । एतेषां च मते यद्यपि ऋतुसमावेशनादतिरिक्तमेव विवाहाङ्गं समावेशनमिति सिद्ध्यति, तथापि रागतः प्राप्तसमावेशनमाश्रित्येति सुदर्शनाचार्यभाष्यविरोधः परं प्रतीयते; तैः समावेशनस्य रागप्राप्तवर्णनादिति भवति शङ्का; सा चैवं परिहरणीया—रागप्राप्तं समावेशनमिति वदन्तः सुदर्शनाचार्या नास्य समावेशनस्यावैधत्वमभिप्रयन्ति; लोकतः पूर्वप्राप्तविधिविषयस्यापि समावेशनस्य रागतः प्राप्तियोग्यत्वमपि विद्यत एवेति बोधनमेव; रागतः प्राप्तानामपि अवहननादीनां विधिविषयत्वदर्शनात् । एवं चावहननादिविषये विधिप्रवृत्तेः प्रयोजनं यथा नियमः, एवमत्रापि समावेशनं कर्तव्यमेवेति नियम एव विधिप्र-

नात् रागस्य च प्रौढायामेव संभवात् प्रौढाविवाहसिद्धिरप्रत्यूहैवायेषां तु पुनर्वयोनिर्णयकाराणां विवाहाङ्गसमावेशनान्तरासंभवः, तेषां मते “आरोहोरुम्” इति मन्त्रो विवाहाङ्गमिति न सिद्धयेत् । इष्टापत्तौ च अधिकाराख्यप्रकरणविरोधः । यदप्युक्तवयोनिर्णयकारैः ऋतुसमावेशनाश्रितमन्त्रस्य विवाहाङ्गत्वं नानुपपन्नम्, प्रायत्यार्थं क्रियमाणमेवाचमनमाश्रित्य तदीयास्वप्सुप्राणोपासनाङ्गतया प्राणावासस्त्वादिबुद्धिविधानानुसारेण कर्माङ्गोद्गीथाश्रयणेन स्वतन्त्रतया बहुविधोपासनाविध्यनुसारेण चात्रापि समावेशनाश्रयेण विवाहाङ्गमन्त्रजपविधानेनादोषात्। कालान्तरभाविन्यपि समावेशने करिष्यमाणस्य मन्त्रजपस्य इदानीन्तनविवाहाङ्गत्वमपि एवमेव नानुपपन्नम् । कालान्तरेऽनुष्ठीयमानस्य बृहस्पतिसवस्य कालान्तरानुष्ठितवाजपेयाङ्गत्वमिव। अयमेव चार्थो “वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेत” इति वाक्यबलेन लभ्यते। सुदर्शनाचार्या अपि विवाहकमार्थं क्रमजपयोर्विधानमिति ब्रुवाणाः करिष्यमाणसमावेशनाश्रयेणैव मन्त्रजपविधानमभिप्रयन्ति। अन्यथा मन्त्रजपसमावेशनानां विधिरित्येव ब्रूयुरिति। एवं च समावेशनान्तरानङ्गीकारेऽपि विवाहाङ्गत्वं नानुपपन्नमेवेति। न चैतद्युक्तमिव प्राणोपासनाङ्गतयापि सामान्यवचनेनाचमनस्य प्राप्तस्य अनुवादेन विशिष्य तदीयास्वप्सु प्राणवासस्त्वबुद्धिविधानवत् ऋतुसमावेशनानुवादेन मन्त्रजपविधानसंभवस्य पूर्वमुपपादितत्वेन कार्याख्यानात् तदपूर्वमिति न्यायो न प्रसरति । एवं कर्माङ्गोद्गीथाश्रयणेन स्वतन्त्रतया विधीयमानोपासनानामिव समावेशनाश्रितमन्त्रजपस्य स्वतन्त्रफलार्थत्वाभावात् तादृशन्यायोऽपि नावसरं लभते। किञ्च तत्रैवाश्रयशब्दप्रयोगः, यत्र श्रुतिबोधितस्वस्वरूपसम्पत्तिः तत्स—

म्बन्धेनैव भवति । यथा दधिकरणत्वं होमसम्बन्धेनैव, यथा वा अवधिकरणकप्राणवासस्त्वादिबुद्धिरप्सम्बन्धेनैव । अत्र च मन्त्रजपस्वरूपसिद्धिर्न समावेशनसम्बन्धेनैवेति वैषम्यात् समावेशनमाश्रित्येति वचनस्य समावेशनकालिकत्वबोधन एव तात्पर्यम् । एवं च समावेशनकालिकमन्त्रजप इव सन्दंशन्यायेन समावेशनमपि विवाहाङ्गमित्येवाङ्गीकरणीयमिति विवाहप्रयोगमध्यपातित्वेनैव उपपत्तिर्वर्णनीया । रागप्राप्तसमावेशनमाश्रित्य विवाहकर्मार्थं क्रमजपयोर्विधानमिति सुदर्शनाचार्यभाष्यमप्येवं सत्येवोपपद्यते । “प्रजापते तन्वम्” इत्यादिमन्त्रत्रयानन्तरं बहुषु मन्त्रेष्वाम्नायमानेष्वपि शेषमिति शेषपदेन चारोहोरुमिति मन्त्रमात्रस्य ग्रहणमपि तन्मन्त्रजपो विवाहाप्रयोगान्तःपातीति ज्ञापयतीति चतुर्थदिने समावेशनाचरणादिकमप्यावश्यकमेवेति मन्तव्यम् । एवं च वैधऋतुसमावेशनाश्रयेण विवाहाङ्गत्वनिर्वाहः समावेशनान्तरस्य विवाहान्तर्गतत्वनिर्वाहश्च न वयोनिर्णयकाराणां सेत्स्यति । एवं चापस्तम्बाचार्याणां तद्भाष्यकाराणाञ्च समावेशनान्तरविधान एवतात्पर्यमिति तत्सूत्रटीकापर्यालोचनेन सिद्ध्यति । वयोनिर्णयकाराणान्तु बौधायनीयसमावेशनानुवादशङ्कातत्परिहारादिकं चास्थान एव । अतो हि आपस्तम्बाचार्याणामेव तत्राभिप्रायं निरूपयामः । यदपि तैरेवोक्तम्—विवाह्याया वध्वा बालिकात्वेन रागहेतोर्दृष्टार्थस्य व्यवायकर्मणस्तदसम्भव इति । तदपि न रमणीयम् ; विवाह्याया बालिकात्वमेवेत्येतावताऽनिर्णयात् । उक्तसमावेशनान्यथानुपपत्त्यैव रजोऽनन्तरविवाहस्यापि साधनात् । बालिकाविवाहेषु समावेशनरूपाङ्गलोपेऽपि न वैगुण्यम्; विवाहस्य नित्यकर्मत्वेन नित्यकर्मसु अङ्गविशेषलोपेऽपि साद्गुण्यसम्भवस्य

पूर्वमीमांसायां उपपादितत्वेनादोषात् । न हि अस्मादृशा इव महर्षयोऽपि सर्वज्ञा अनर्थकान्यसङ्गतानि च वाक्यानि प्रब्रुवीरन् । एवं चार्थापत्तिप्रमाणमपि सुस्थितमत्र प्रवर्तते । ऋतुमतीविवाहो न शास्त्रीय इति तु वचनमसङ्गतमेव ।समावेशनशब्दार्थविचारणायामपि अयमर्थः स्फुटीभवति । न च समावेशनपदस्य बहुजनसम्मेलनमात्रशक्तिकत्वात्कथं तदनुसारेण रजोऽनन्तरविवाहसिद्धिरिति शङ्कनीयम्, पूर्वोक्त्तरीत्या गोतमादिस्मृतिपर्यालोचनया संविशेदित्यादिपदानां परस्परमिथुनीभावलक्षणव्यवायपरत्वनिर्णयेन तस्य च प्रौढायामेव संभवात् प्रौढाविवाहसिद्धेरप्रत्यूहत्वात् । समावेशनमन्त्रपर्यालोचनायामपि स्फुटं प्रतीयते । तेन हि मन्त्रेण उर्वारोहणालिङ्गनादिव्यवायव्यापार एवप्रकाश्यते । मन्त्राणां च प्रयोगसमवेतार्थस्मारकत्वेनैव प्रामाण्यमिति च मन्त्राधिकरणे पूर्वतन्त्रे निर्णीतम् । तत्र यदि मन्त्रप्रतिपादितार्थस्य प्रयोगस्य च सम्भवो न स्यात्, तदा तादृशमन्त्राणामन्यत्रोत्कर्ष एव स्यात् । पूषानुमन्त्रणमन्त्राणामिव पूषादेवताके कर्मणि । स च मन्त्रो दर्शपूर्णमासाधिकारगतः तत्प्रयोगसमवेताग्न्यादिदेवताप्रकाशनासमर्थः सन् पूषदेवताके क्रियान्तरे उत्कृष्यते इति पूर्वतन्त्रे निरूपितम् । एवं च समावेशनमन्त्रस्य अन्यत्रोत्कर्ष एव स्यात् । एवं चव्यवायप्रकाशकत्वमप्यवश्यमङ्गीकरणीयम् । “उद्बुद्ध्यस्वाग्ने”इत्यादिमन्त्राणामपि बुधोपासनादौ विनियुक्तानां लक्षणया बुधदेवताप्रकाशकत्वमेवेति न कुत्रापि मन्त्राणामनुष्ठीयमानपदार्थेन साकमसम्बन्ध इति मन्त्रार्थपर्यालोचनानुसारेण समावेशनपदार्थो व्यवाय एवेति निश्चिनुमः । एवं च तदभ्यथानुपपत्त्या रजोऽनन्तरविवाहोऽपि शास्त्रीय एवेति सिद्ध्यतीति

तदशास्त्रीयतावादोऽसङ्गतएवेति वर्णयन्ति। विवाहकालविमर्शकाराणामपि पर्यवसिताशयोऽयमेवेति मन्यामहे । परन्तु यद्यपि समावेशनान्तरं विवाहाङ्गमापस्तम्बाचार्याणां सुदर्शनाचार्याणां च सम्मतम्, तथापि तदन्यथाऽनुपपत्त्या रजोऽनन्तरविवाहसाधनं परं न युक्तिसहम् । तथाहि—समावेशनमपि विवाहाङ्गमितिवदतामापस्तम्बाचार्याणां नियतमेव तदनुष्ठानमावश्यकमित्यभिप्रायो वर्णनीयः । नत्वङ्गाननुष्ठानेऽङ्गिफललाभः संभवति । अन्यथेतराङ्गाणामप्यननुष्ठानप्रसङ्गात् । एवं चेदपि गोभिले गृह्येकेचिच्चतुर्थदिने समावेशनमिच्छन्ति इति केचित्पदप्रयोगात् समावेशनतदभावयोरुभयोरपि ग्रहणाग्रहणयोरिव विकल्पएव पर्यवसानात् वैकल्पिकेषु च यथाकाममेवानुष्ठानस्य शास्त्रसिद्धत्वात् यदारागतः समावेशनरूपं तदा तदाश्रित्यक्रमजपयोर्विधानमित्यभिप्रायेणैव सुदर्शनाचार्या रागतः प्राप्तं समावेशनमाश्रित्य विवाहकर्मार्थंक्रमजयोर्विधानमिति वर्णयामासुः । नियमेनैवेति तट्टीकावचनानामप्ययमेवाभिप्रायः ।

न च शङ्कनीयम्—रागप्राप्तपदेन लोकतः पूर्वंशास्त्रप्रवृत्याविधिविषयो रागप्राप्तत्वयोग्यं चसमावेशनमेव विवक्षणीयम्, तच्च पूर्वोत्तरीत्या रजोऽनन्तरमेव संभवतीति ; पूर्वोत्तरवाक्यपर्यालोचनया रजोदर्शनतः पूर्वमेवेदं समावेशनं सुदर्शनाचार्यैर्विवक्षितमिति स्पष्टमेव प्रतीतेः । उत्तरत्र चैतस्पष्टीभविष्यति । नापि वा अवैधमनिषिद्धं च समावेशनमेवात्र विवक्षितमिति प्रकारान्तरानुसरणमपि साधु; यद्यप्यस्मिन् पक्षेभोजनपर्यायव्रतदृष्टान्ते विशेषतः स्वारस्यम्, तथापि अवैधानिषिद्धरूपस्य समावेशनस्य विवाहानङ्गत्वेन तस्य विवाहाङ्गत्वसिद्धान्तासाङ्गत्यप्रसङ्गान्नात्र ग्रह-

णमितिविज्ञेयम् । न हि भोजनपर्यायव्रतं रागतः प्राप्तं क्रत्वङ्गमिति कस्यापि सम्मतम् ।न चानङ्गत्वमेवास्तामिति शङ्कनीयम् ; सन्दंशन्यायेन तदङ्गत्वस्य साधितत्वात् । एवं च वैधमेवेदं समावेशनमित्येवाङ्गीकरणीयम् । वैधानां चाङ्गजालानां प्रधानफलेनैव नैराकाङ्क्ष्यान्नस्वतन्त्रफलापेक्षेति इतराङ्गानीव समावेशनमपि स्त्रीसंस्कारकमित्येवाङ्गीकरणीयम् । स च संस्कारोऽदृष्टविशेष एवेति सर्वैरपि वादिभिरभ्युपगतमेव । एवञ्च सति समावेशनेनापि तादृशसंस्कारः किं दृष्टद्वारैव भवति, उताहो साक्षादेवेति विचारणायां दृष्टफलद्वारैव तादृशफलसिद्धिरिति विवाहकालविमर्शकाराणामाशय इति तद्ग्रन्थपर्यालोचनेन प्रतीयते । उपपत्तिश्च तेऽत्र समावेशनपदार्थान्यथानुपपत्तिमेवाभिप्रयन्तीति मन्यामहे । समावेशनपदं च पूर्वोक्त्तरीत्या व्यवायकर्मैव बोधयति । तत्र यथा “यूपमष्टाश्रीकरोति”इतिवाक्यविहिताष्टाश्रीकरणादीनां यादृशौदुम्बरादिखण्डसम्पादनेनैव सिद्धिः, तादृशौदुम्बरादिखण्डसम्पादनमेवावश्यकमिति पूर्वतन्त्रेनिरूपितम् । एवं यादृशस्त्रीव्यक्तिसम्पादनेन समावेशनस्वरूपसिद्धिः, तादृशसमावेशनयोग्यस्त्रीव्यक्तिसम्पादनमेवावश्यकमिति समावेशनविधिपराणामाचार्याणां रजोऽनन्तरविवाह एव तात्पर्यमिति गम्यते । साक्षादेव संस्कारफलकत्वपक्षे तु न केवलं समावेशनपदार्थ एव परित्यक्तो भवति, अपि तु दृष्टद्वारकत्वसम्भवेऽदृष्टफलकत्वमिति “व्रीहीनवहन्ती”ति वाक्यविचारावसरे पूर्वतन्त्रेउपपादितत्वात् तन्न्यायभङ्गोऽपि समादृतो भवति । एवं च समावेशनान्यथानुपपत्त्यारजोऽनन्तरविवाहसाधनं युक्तमेवेति वर्णयन्ति ।

वयं तु पश्यामः—साक्षादेव समावेशनमदृष्टमुपजनयतीति ।

तत्र हि दृष्टफलद्वारादृष्टफलम्, यत्र दृष्टफलमपि प्रकृतोपयोगि भवेत् । यथाऽवहननजन्यवैतुष्यं विना न पुरोडाशनिष्पत्तिरिति वैतुष्यमपि प्रकृतोपयोगि भवति । अन्यथा “वीहीन् प्रोक्षति”इत्यत्रापि दृष्टद्वारैव संस्कारप्रयोजकत्वापत्तेरित्यन्यत्र विस्तरः ।

एवं चात्र दृष्टफलस्य प्रयोगोपयोगित्वाभावेन नोक्तन्यायविरोधो भवति । एवञ्चादृष्टार्थमेवेदं समावेशनमित्येवाङ्गीकरणीयम् । न च समावेशनपदस्य तृप्तिविशेषोत्पादकव्यापारविशेषबोधकत्वात् प्रयोगानुपयोग्यपि तृप्तिविशेषस्तदनुष्ठानतः सम्भवत्येव ।तथाच दृष्टार्थो वा भवतु, अदृष्टार्थो वा भवतु, सर्वथापि तु यादृशस्त्रीव्यक्तिसम्पादनेन समावेशनस्वरूपसिद्धिः, तादृशस्त्रीव्यक्ति-सम्पादनमेवावश्यकमिति युवतिविवाहसिद्धिरप्रत्यूहैवेतिवाच्यम् ; यथा हि “कृष्णलं श्रपयति”इत्यत्र श्रपिधातोर्विक्लृत्त्यनुकूलव्यापारशक्तस्यापि विक्लृत्तिबाधाददृष्टार्थाधिश्रयणादिव्यापारमात्रबोधकत्वमिति पूर्वतन्त्रे निरूपितम्, तद्वदत्रापि समावेशनपदेनादृष्टार्थव्यापारविशेषमात्रबोधने न दोषात् । युक्तं चैतत् । यथा हि “उपसद्भिश्चरित्वा मासमग्निहोत्रं जुहोति” इतिवाक्यविहितोऽग्निहोत्रहोमो “अग्निहोत्रं जुहोतीति”वाक्यविहितादग्निहोत्रहोमात् भिन्नरूपोऽपि तत्प्रयोगेणैवानुष्ठीयते, नामातिदेशेन तद्धर्माणां प्राप्तेः, फलविशेषे परं भेद एव ; फलातिदेशासम्भवात् । एवं नामैक्येन ऋतुसमावेशनधर्ममात्रातिदेशेन तद्धर्मणामेव प्राप्तिः, फलविशेषेपरं भेद एवेत्यङ्गीकरणीयम् । एवं च तादृशसमावेशनस्य अष्टवर्षबालिकाविवाहेऽपि संभाव्यमानतयान रजोऽनन्तरविवाहसिद्धिर्भविष्यति । तदयं निर्गलितोऽर्थः—यथा हि “वाजपेयेन यजेत”इत्यत्र तत्प्रकरणपठितानां सर्वे-

षामपि वाजपेयशब्देन स्वाराज्यफलसम्बन्धो बोध्यते, एवं पाणिग्रहणसप्तपदीसमावेशनादीनां बहूनामेव क्रियाकलापानां संस्कारूपफलसम्बन्धो बोध्यते । तत्र पाणिग्रहणफलं यथा स्त्रीसंस्कारः, एवं समावेशनफलमपि स्त्रीसंस्कार एव, स च कन्यायामपि सम्भवतीति न तदन्यथानुपपत्तिप्रमाणावसरः ।यदि तु पाणिग्रहणमेव विवाहः, तदङ्गन्तु सप्तपदीगमनादिकम्, तदापि “द्रव्यसंस्कारकर्मसु फलश्रुतिरर्थवादः स्यात्” इति न्यायेन प्रयाजाद्यर्थवाद एव फलसमर्पको न भवतीति प्रयाजादीनामिव अदृष्टार्थत्वमेव ।न च स्वतन्त्रमेव समावेशनं विवाहचतुर्थदिने विधीयते इति वाच्यम् ; तस्य दृष्टाथत्वे विधिवैयर्थ्यम्, अदृष्टार्थत्वे न प्रौढाविवाहसिद्धिरिति घट्टकुट्ट्यामेव प्रभातम् । यत्तु कामसूत्रे समावेशनपदं अभ्यन्तरव्यवायपरत्वेन व्यवस्थापितम् तदपि ऋतुसमावेशनाभिप्रायेणैव, नतु तत्सदृशचतुर्थदिनसमावेशनाभिप्रायेणापि । किञ्च चतुर्थदिनसम्बन्धिसमावेशनान्यथाऽनुपपत्त्या कथं प्रौढाविवाहसिद्धिरिति विवेचनीयम् । तत्र न तावत् यथा “स्रुवेणावद्यति स्वधितिना अवद्यति”इत्यादिस्थलेषु स्रुवकरणकावदानयोग्यत्वं आज्यस्यैव, एवं स्वधितिकरणकावदानयोग्यत्वं मांसादेरेवेति अर्थसामान्यात् निर्णयः कृतः, तथात्रापि वध्वा सह व्यवायार्थंसह शयनात्मकं समावेशनमपि तद्योग्यामेव काञ्चन स्त्रियमाक्षिपतीति प्रकारेण तदुपपादनं संभवति । आज्यपुरोडाशमांसादीनामिवात्र कन्यायुवत्योरुभयोरपि विवाहसंस्कार्यत्वस्यैतावताऽप्रसिद्धत्वेन वैषम्यादुक्तन्यायाप्रवर्तनात् । प्रमाणान्तरविचारणायाञ्च कन्याविवाह एव साधीयानित्येव भविष्यतीति तदनुसारेण युवतिविवाहसाधनं न संभवतीत्युपरिष्टादुपपादयिष्यामः । एवं चादृ-

र्थमेवेदंसमावेशनमिति तादृशफलस्य कन्यायामपि संभवादर्थवाधादपि समावेशनबाधो न भविष्यति । एतेन—कन्याविवाहे समावेशनरूपाङ्गवैगुण्येऽपि संस्कारसिद्धिर्भविष्यतीत्येवेति यदुक्तम् , तदपि— परास्तम् । तथा हि—किं समावेशतं प्रौढाविवाहमात्राङ्गं विवक्षितम्, उत विवाहसामान्याङ्गमिति ? नाद्यः ; प्रमाणाभावात् । समावेशनविधानानुपपत्तिरेव प्रमाणं न संभवति; निरस्तत्वात् । न द्वितीयः, कन्याविवाहाङ्गत्वस्य भवतैवोपपाद्यत्वेन पूर्वापरविरोधात् ।

किञ्च नित्यकर्मसु प्रधानकर्मवैगुण्येऽपि फलसिद्धिरिति न कस्यापि संमतम् । समावेशनञ्च प्रधानकर्मैव प्रयाजादिवदिति पूर्वमेव निरूपितम् । एवं च समावेशनरूपाङ्गलोपे संस्कारस्यैव लोपः स्यादिति कन्याविवाहपक्षमपि शास्त्रीयं मन्वानानां भवतां मतेकीदृशं वा समावेशनमनुष्ठाप्येत । कथं वा तादृशस्य समावेशनस्यापि आपस्तम्बाचार्यादिसंमतत्वमुपपद्येत ? तत्र यादृशयुक्तिः युष्माकमर्थसाधिका, तादृशयुक्तिरेवास्माकमप्यर्थसाधिका । यावता समावेशनमुभयसाधारणं युष्माभिरुपपाद्यते, तावता कथमन्यथानुपपत्तिप्रमाणावसर इति भवन्त एव विदांकुर्वन्तु । यदि तु ऋतुसमावेशनातिरिक्तमेव स

मावेशनं “शेषं समावेशने जपेत्” इत्यत्र विवक्ष्यते, एवमपि निषेकापरपर्यायमपि समावेशनं ऋतुसमावेशनतः पूर्वमनुष्ठेयतया स्मृतिज्यौतिषशास्त्रादिपर्यालोचनयाऽवगम्यते, तदेव समावेशनं विवक्षितमिति । अयमाशयः — निषेको हि पुण्यदिनेऽनुष्ठेयतया शास्त्रेण चोद्यते । चतुर्थरात्रसमावेशनमपि जैमिन्यादिभिः पारस्करादिभिश्च चतुर्थरात्रेपञ्चमादिपुण्यरात्रे वा अनुष्ठेयतया प्रतिपादितम् । एवञ्च पु-

णयदिनानुष्ठेयत्वसामान्यात् चतुर्थरात्रसमावेशनमपि निषेके एव निश्चीयते, चतुर्थरात्रत्वेन पुण्यदिनत्वं तु सर्वेषामपि सम्मतमिति न दोष इति केषांञ्चिदभिप्रायः परिगृह्यते तदापि नर्तुमतीविवाहसिद्धिः । शेषपदस्वारस्यभङ्गः परं दुःपरिहरः । यथा च निषेकपदेन बाह्यसंयोग एव विवक्षितः, तथा कामसूत्रादौ व्यक्तम् ।

“स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् \।
संकल्पोऽभ्यवसायश्च क्रियानिर्वृतिरेव च ॥
एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः ॥”

इति वचनप्रतिपादितेषु बहूनामाङ्गनां कन्यायामपि संभवात् नकथञ्चिदपि समावेशनान्यथानुपपत्त्या युवतिविवाहसिद्धिः । यदा तु " ब्रह्मचर्यंनाम गुह्येन्द्रियाविकारः” इति योगसूत्रानुसारेण गुह्येन्द्रियाविकारस्य ब्रह्मचर्यपदार्थतया कन्यकादिस्त्रीव्यक्तिदर्शनमात्रेण अधीरचित्तस्य कामुकवर्यस्य गुह्येन्द्रियविकारस्य संभाव्यमानतया सहशयनादीनामपि कलापानां विद्यमानत्वे नितरां तस्य संभाव्यमानतया च मुख्यसमावेशनमपि कन्यायामपि संभवेदेव ।

“असंस्कृतां पुष्पहीनां कन्यकां वा द्विजाधमः ।
गन्तुमिच्छति पापात्मा नरकं याति दारुणम् ॥”

इति वदतां मार्कण्डेयाचार्याणामप्यत्रैवानुकूलत्वादिति विभाव्यने, तदा दृष्टार्थसमावेशनाङ्गीकारादपि न युवतिविवाहसिद्धिरिति मन्तव्यम् । व्यवायो नाम गुह्येन्द्रियविकार एवेति तु न विवादास्पदम् ।

एतेन — समावेशनपदस्य दृष्टार्थव्यापारविशेषशक्तत्वात् दृष्टफलस्य च प्रौढायामेव संभवात् समावेशनं नाम वध्वा सह मैथु-

नार्थंशयनमिति वदतां सुदर्शनाचार्याणां युवतिविवाह एव तात्पर्यमिति शङ्कापि—परास्ता । एवं च चतुर्थदिनसंबन्धिसमावेशनान्यथानुपपत्त्यान युवतिविवाहसाधनं युक्तमिति वर्णयन्ति । तत्सिद्धम् — समावेशनमन्त्रान्तमन्त्रसमुदायकरणकक्रियाकलाप एव विवाहपदार्थः, समावेशनं च विवाहाङ्गमेव, स चादृष्टार्थव्यापारविशेष एव, तदन्यथानुपपत्त्या च न युवतिविवाहसिद्धिरिति चापस्तम्बीयसमावेशनविधिपर्यालोचनेन निश्चीयते । एतेन — गृह्यान्तरगतसमावेशनविधयोऽपि व्याख्याताः ।

अत्रेदं विचारणीयम्—विवाहकालविमर्शकारैः समावेशनाद्यन्यथानुपपत्त्याकिं रजोऽनन्तरविवाहः शास्त्रीय इति प्रतिपाद्यते, उताहो अशास्त्रीयस्यापि तस्य वृषलीत्वनिवर्तकप्रायश्चित्तानुष्ठानानन्तरमपि अनुष्ठाने न दोष इत्यापत्कल्पतयाऽभ्यनुज्ञामात्रमिति ? आद्ये “रातां वर्जयेत्” इत्यादिनिषेधे जाग्रति समावेशनानुपपत्तिप्रमाणानवसरेण शास्त्रीयत्वसमर्थनासंभवः; संभवे तु प्रायश्चित्तानुष्ठानव्यवस्थापनं भवतामसङ्गतमेव सम्पद्यते । नहि शास्त्रीयकर्मानुष्ठाने प्रायश्चित्तापेक्षा । अशुद्धिनिवर्तनार्थंखलु प्रायश्चित्तानुष्ठानम् । तत्र यदि ऋत्वनन्तरवर्षत्रयपर्यन्तं विवाहकालइति स्यात्, तदा तावत्पर्यन्तं विवाहाननुष्ठानेऽपि नाशुद्धिः स्यादिति प्रायश्चित्तानुष्ठानं वितथमेव । “नोपरुन्ध्याद्रजस्वलाम्” इत्यादिवचनान्यपि दत्तजलाञ्जलीनि प्रसज्येरन् ।

ननूक्तवचनेन याचमानायापि वराय यः कन्यां न प्रयच्छति, अयाचमानेऽपि वरे यस्तृतीयवत्सरे कन्यां न प्रयच्छति तस्यैव विषयीकरणं युक्तम् । यतो हि—

अप्रयच्छन् समाप्नोति भ्रूणहत्यामृतावृतौ ।

न याचते चेदेवं स्याद्याच्यते चेत्पृथक पृथक् ॥

इति । तदनन्तरं वचनैकवाक्यता एवंसत्येवं सम्भवति । तेन हि वचनेन सामान्यतो रजस्वलादाननिमित्तं भ्रूणहत्यादिदोषं प्रतिपाद्य विशिष्य तस्य याचमानाय वराय न दाने रजःसंख्याकत्वम्, अयाचमाने कस्मिन्नपि नदाने यावद्दानकालमेकभ्रूणहत्येति प्रतिपाद्यते । तत्र यद्ययाचमाने कस्मिंश्चन यो न ददाति तस्यैका भ्रूणहत्या प्रतिपादिता । तथापि — “त्रीणि वर्षाण्युदीक्षेत कुमार्यृतुमती सती”इति वर्षत्रयपर्यन्तं दानगौणकालस्य प्रतिपादनात् तृतीयेऽपि वत्सरे यः कन्यां न प्रयच्छति, तद्विषयकत्वमेवोचितमिति तावत्पर्यन्तं कन्याऽदाने न दोषलेशोऽस्ति । ऋतुसंख्याकगोदानेन प्रायश्चित्तविधानमपि याचमानायापि वराय यः कन्यां न प्रयच्छति, तद्विषयकमेवेति रजोऽनन्तरविवाहसामान्यस्य प्रायश्चित्तानुष्ठानपूर्वकानुष्ठानव्यवस्थापनं नास्माभिः कृतमिति चेत्, सत्यम्; तथापि न तत्संगतम् भवति; त्रीणि वर्षाणीति वचनस्य गौणकालसमर्पकत्वे प्रमाणाभावात्, प्रायश्चित्तानुष्ठानपूर्वकदानाधिकारकालबोधकत्वेनैवोपपत्तेर्वर्णनीयत्वात् । यतो गौतमेन “प्रदानं प्रागृतोः अप्रयच्छन् दोषी भवति”इति ऋतुकालतः पूर्वमदान एवं भ्रूणहत्यारूपदोषः प्रतिपादितः । अत्र च विषये “कालेऽदाता पिता वाच्यः” इत्यादिवचनान्यपि प्रमाणीकर्तव्यानि । एवं च यो हि मनुः प्रथमत ऋतुकालतः पूर्वमेव दानं प्रतिजानीते, स कथंऋत्वनन्तरवर्षत्रयमपि दानकाल इति बोधयेत् ।

‘काममामरणात् तिष्ठेत् गृहे कन्यर्तुमत्यपि’इति विरोधार्थकमपिशब्दंप्रयुञ्जानश्चायं “प्रदानं प्रागृतोः”इति वचनैकवा-

क्यतामेवाभिप्रैतीति एकभ्रूणहत्यादोषस्य विद्यमानत्वात् तन्निवर्तनार्थं प्रायश्चित्तनुष्ठानमावश्यकमेवेति तच्छास्त्रीयतावादोऽसंगत एव । उत्तरत्र चैतत् विस्तरेण उपपादयिष्यामः ।

यदपि केचित्—मुख्यकालातिक्रमणनिमित्तमेवेदं प्रायश्चित्तम्, न तु निषेधशास्त्रोल्लङ्घननिमित्तम्—इति वर्णयन्ति, तदपि न संगतम्; मुख्यकालातिक्रमणमेव निमित्तमितिवचनं विना भवदीयप्रतिज्ञामात्रस्य निर्मूलस्यासाधकत्वात् । निषेधशास्त्राणां च बहूनां विद्यमानत्वेन तदुल्लङ्घननिमित्तकवर्णनस्यैव युक्तत्वाच्च । एतेन—गौणकल्पोऽयं विवाहः—इति वादः परास्तः । द्वितीये तु वयोनिर्णयसिद्धान्त एव पर्यवसानमिति महता सन्दर्भेण नग्निकाविवाहादपि ऋतुमतीविवाह एव साधीयानित्यादिनिरूपणं न संगतं भवति इति ।

अत्र केचिदापत्कल्पतया प्रायश्चित्तानुष्ठानपूर्वकं वापि रजोऽनन्तरविवाहोऽपि शास्त्रसंमत एवेति तदनुष्ठाने न दोष इति वदन्ति ।

अन्ये तु — सत्यं न दोषः, तथापि विवाहः कामार्थ एव स्यात्, न धर्मार्थः, प्रायश्चित्तानुष्ठानेन तु अविवाह्यत्वयोग्यताया एव निवृत्तिः, न तु धर्मानधिकारस्यापि इति वृषलीत्वनिवृत्तिर्नास्त्येवेति ।

परे तु—प्रायश्चित्तानुष्ठानेन वृषलीत्वस्यापि निवृत्तिर्भवति । एवं चेदपि कन्यापित्रादीनां भ्रूणहत्यादोषस्य वर्णितत्वात् तस्य च प्रायश्चित्ताचरणेऽपि सर्वथा निवृत्त्यसंभवात् संव्यवहार्यत्वयोग्यतासिद्धावपि नरकसम्बन्धो दुर्निवारः — इति वर्णयन्ति ।

सर्वथापि तु प्रक्षालनाद्धीति न्यायेन यथा वृषलीत्वादिकं कन्यायाः, तत्पतित्वं च वरस्य, भ्रूणहन्तृत्वं च तत्पित्रादीनां न स्या-

त् तथैव कोऽपि समयोऽनादिपरंपरागतः संरक्षणीय इति रजोऽनन्तरविवाहशास्त्रीयतासमर्थनमसंगतमेवेति अलमनेन प्रसक्तानुप्रसक्तविचारेणेति प्रकृतमेवानुसरामः ।

यत्तु परिणयमीमांसायाम्—

तत्र तावद्भगवानापस्तम्बः ‘शेषं समावेशने जपेत्’इत्याह । किमनेन सूत्रेण भगवान् चतुर्थदिने समावेशनं विदधात्याहोस्विन्नेति वादिविप्रतिपत्तिदर्शनात् विचारयामः । किं तावत्प्राप्तम् ? विदधातीति; कस्मात् ? प्रमाणोपलम्भात् । तथाहि—‘तं चतुर्थ्यामपररात्र’इत्यारभ्य संस्कारजातं विधायेदं पठति ‘शेषं समावेशने जपेत्’ इति । तस्मादुत्पश्यामः चतुर्थ्यांविधीयते समावेशनमिति । ननु ‘समावेशने’इत्येव पठ्यते । तथा च तस्मिन्काले जपेत् इति फलति । समावेशनं तु किं केन कथमित्यादिकं नात्रोपलभ्यत इति चेत्, न; उत्तरत्र ‘रजसः प्रादुर्भावात् स्नातामृतुसमावेशने’इति श्रुतात् ऋतुलिङ्गात् समावेशनं नाम वध्वा सह मैथुनार्थं शयनमिति सुदर्शनाचार्येण व्याख्यातत्वात्। तर्हि उपरिनिर्दिश्यमानमेवर्तुसमावेशनमत्रापि प्रत्यभिज्ञाप्यते शब्दैक्यादिति तदनुवादेन जप एव केवलमत्र विधीयते इति अभ्युपगच्छामः । नैवं शक्यतेऽभ्युपगन्तुम्; तत्रर्तु समावेशनस्य विधानाभावात् । नन्वत्रापि विधिं नोपलभामहे ।बाढम्; ‘अनुपलभमाना अपि त्वनुमास्यामहे सन्निधिसामर्थ्यात् । ‘तं चतुर्थ्यापररात्रमुत्थाप्य’इत्यादिकर्मजातं विधाय हि प्रकरणे तस्मिन्निदं पठ्यते ‘शेषं समावेशने जपेत्’इति । तद्धि समावेशनकर्मकालं कमप्यपेक्षते; अपेक्षितं च कालं प्रकरणं समर्पयति । तस्माद्यथा ‘समिधो यजति’‘तनूनपातं यजति’इत्यादीनि प्र

योजादीनि कर्माणि दर्शपूर्णमासप्रकरणेपठि-

तानि तयोरङ्गभावं प्रतिपद्यन्ते । एवं समावेशनकर्मापि शेषहोमप्रकरणे पठितं सदस्याङ्गभावं प्रतिपद्य चतुर्थदिनापररात्र एवात्मानं लभते । ननु ‘समावेशने’समावेशनकाले इत्येव तस्यार्थः, तथा व्याख्यातत्वात् सुदर्शनाचार्येण; न पुनः समावेशनकर्मणीति । नैष दोषः । कालार्थपरिग्रहेऽपि सोऽयं कालः कदेति शङ्कायां प्रकरणबलेन चतुर्थदिनस्यैवाक्षिप्यमाणत्वात् । तर्हि ऋतुसमावेशनं नास्तीत्यागच्छेत् ? न; तत्रापि विधेः कल्पनीयत्वात् । तर्हि कर्मभेदः स्यात्; तच्चायुक्तमभ्युपगन्तुम्; शब्दैक्येनैककर्मत्वाध्यवसायादित्यवोचाम । न ; शब्दैक्याभावेन प्रत्यभिज्ञाभावात् । अत्र हि ‘समावेशने’इति पठ्यते, तत्र तु ‘ऋतुसमावेशने’इति । कथमनयोरैक्यं स्यात् । तस्मात् कर्मभेदोऽभ्युपगन्तव्यः । अत एव सुदर्शनाचार्यः ‘एतच्च रागप्राप्तसमावेशनाश्रितं विवाहकर्मार्थंक्रमजपयोविधानम्; यथा ‘भोजनपर्यायव्रताश्रितं पयआदिविधानम्’ इति ब्रुवन् सर्वनाम्नैतच्छन्देन रागप्राप्तमित्यनेन चेदं समावेशनमृतुसमावेशनादन्यत् रागतः प्राप्तत्वाच्च न विधानमर्हति चेति स्पष्टं न्यरूपयत् । ऋतुसमावेशनं तु नित्यमेव ‘ऋतुस्नातां तु यो भार्यां सन्निधौ नोपगच्छति। घोरायां भ्रूणहत्यायां पतते नात्र संशयः’इति पत्नीगमनस्य नियमेन विधानात् । ‘यथा भोजनपर्यायव्रताश्रितं पयआदिविधानमिति दृष्टान्तोऽपि अस्मत्पक्षमेवानुकूलयति ।तथा हि—दीक्षितस्य पयोविधानं भोजनपर्यायव्रताश्रितम् ; भोजनं च रागप्राप्तम् । यदि रागो न स्यात् लुप्यत एव भोजनं तत्पर्यायं व्रतञ्च । तत्र पयआदेः प्रसक्तिरेव नास्ति । ततश्चात्र समावेशनमनियतमिति फलति । अनियतत्वाच्चेदं भिन्नमेव भवितुमर्हति, ऋतुसमावेशनस्य नियमेन विधानात् । अत एवोपरिष्टाच्च

‘अस्मिन्नेव क्रमे यदि दैवादृतुगमनमपि कर्तव्यं स्यात् तदा पूर्वमारोहोरुमित्यादिजपः ततो विष्णुर्योनिमित्यादिजपः’इत्यब्रवीत् । यद्यत्र समावेशनमृतुसमावेशनमेव स्यात् तर्हि सुदर्शनवाक्ये ह्यपेः स्वारस्यमनादृतमेव स्यात् । अपि चर्तुसमावेशनमेवात्र यद्याश्रयतया विवक्ष्येत, तर्हि ‘रजसः प्रादुर्भावा’दिति सूत्रारम्भो व्यर्थः स्यात् । तस्मादवश्यमत्रसमावेशनद्वयमङ्गीकर्तव्यम् । ननु यदि चतुर्थदिने समावेशनमभ्युपगम्येत, तस्य प्रयोजनं वक्तव्यम् — किमिदं दृष्टार्थं वोतादृष्टार्थमिति । यदि दृष्टार्थं तर्हि ‘रजसः प्रादुर्भावात्’इत्यत्र विधीयमानमनर्थकं स्यात् । अथादृष्टार्थम्, तदपि न; प्रमाणाभावात् गौरवाच्च । नैष दोषः । अगतिका हीयं गतिः यदत्रादृष्टार्थं चतुर्थदिने समावेशनमभ्युपगच्छामः इति । अन्यथा पृथक्सूत्रारम्भो व्यर्थः स्यात् इत्यवोचाम ।तस्मात् रागप्राप्तमिदं समावेशनं अनियतमपि अभ्युपगन्तव्यमेव । तस्मात् विधीयत एव चतुर्थदिनापररात्रे समावेशनमापस्तम्बेन भगवतेति । एवं प्राप्ते ब्रूमः - नैतदेवमिति, कस्मात् ? ‘प्रमाणाभावात् । तथा हि— ‘तिस्रो जपित्वा शेषं समावेशने जपेत्’इति हि सूत्रंभवति । तत्र समावेशने समावेशनकाले जपेत् इति टीकाकारैःव्याख्यायते । सोऽयं कालः कदेति नानेन वचनेन ज्ञायते इत्यत एवोत्तरत्र वक्ष्यमाणंऋतुपदसमभिव्याहारमादाय ऋतुसमावेशनकालमभिप्रैति सुदर्शनः इति स्पष्टं प्रेक्षावताम् । तादृशं समावेशनमनूद्यजपमात्रमेवात्र विधीयते इति च । कथमत्रानुवादो युज्येत । शब्दभेदात् कर्मभेदाध्यवसायादित्यवोचाम ।बाढमवोचः ।वाचारम्भणमेवैतदित्युत्पश्यामः; शब्दैक्येन प्रत्यभिज्ञानसंभवात् । ननु कथं समावेशन ऋतुसमावेशनशब्दितयोः कर्मणोरेकत्वं स्यात् । नैतत्सङ्ग-

तम् । विभक्तिभेदाभेदौ हि शब्दभेदाभेदप्रतिपादकौ हेतु, न पुनर्विशेषणसमभिव्याहारतदभावौ । अत एव ‘सर्वत्र प्रसिद्धोपदेशात्’(ब्र० १-२-१) इत्यधिकरणे ‘शारीरस्यात्मनो यः शब्दोऽभिधायकः सप्तम्यन्तोऽन्तरात्मन्निति तस्माद्विशिष्टोऽन्यः प्रथमान्तः पुरुषशब्दो मनोमयत्वादिविशिष्टस्यात्मनोऽभिधायकः’इत्यब्रुवन् श्रीमन्तो भगवत्पूज्यपादाः ‘शब्दविशेषात्’इत्यत्र । एवमिहापि ‘समावेशने’इति सप्तम्यन्तः पठ्यते । उत्तरत्र ‘ऋतुसमावेशने’इति स एव सप्तम्यन्तः विशेषणविशिष्टः पठ्यते । तस्मात् सर्वप्रकारेण शब्दैक्यमपह्रोतुमशक्यम् । अतः उत्तरत्र वक्ष्यमाणमेवर्तु समावेशनमत्र प्रत्यभिज्ञाप्यत इति अनयोरैक्यं प्रकामेनाप्यभ्युपगन्तव्यम् । तस्मादृतुसमावेशनमेवानूद्य जपमात्रमत्र विधीयत इत्युत्पश्यामः । यदुक्तंपृथक्सूत्रारम्भो व्यर्थइति, अत्र ब्रूमः । आम्नातस्यार्थं प्रतिपत्तुंप्रभवामो नाम्नातं पर्यनुयोक्तुम् । ‘शेषं समावेशने जपेत्’ इति वाक्यस्वारस्येनर्तुसमावेशनमेकमेव विधीयत इत्यवगच्छामः, न पुनरपूर्वमत्रापि समावेशनं किमपीति । नन्वनुमास्यामहे संनिधिसामर्थ्यादित्यवोचाम । बाढमवोचः, न युक्त्युपेतमवोचः। ‘वेधाद्यर्थभेदात् ( ब्र. ३. ३ २५ ) इत्यधिकरणन्यायविरोधात् । तत्र हि शारीरकमीमांसायां ‘हृदयं प्रविध्य’इत्यादिमन्त्राणां प्रवर्ग्यादिकर्मणां च रहस्यपठितानामपि न सन्निधिबलेन विद्याशेषत्वं संभवति, श्रुतिलिङ्गादिभिः प्रबलप्रमाणैरन्यत्र विनियुक्तत्वात् इति प्रपञ्चितम् । एवमिहापि ‘शेषं समावेशने जपेत्’ इति समावेशकर्मणि विनियुक्तस्य जपस्य कालः समावेशनकाल एव भवितुमर्हति । न च कथं ‘समावेशने’इति शब्दः सप्तम्यन्तः सकृदुत्पन्नः समावेशनकर्म ज्ञापयित्वा

पुनः समावेशनकालमपि ज्ञापयितुमर्हतीति प्रत्यवस्थातव्यम् ।दर्शपूर्णमासयोः तत्प्रख्यन्यायेन कर्मनामत्वेपि पुनः शब्दशक्त्या दर्शपूर्णमासयोः कालावपि लभ्येते इति शास्त्रेष्वङ्गीकृतत्वात् । अत एव—

‘वर्षे वर्षे तु या नारी कृष्णजन्माष्टमीव्रतम् ।’

इत्यत्र तत्प्रख्यन्यानेन कर्मनाम

त्वंशब्दशक्त्या कालश्च प्रतिपाद्यते इति प्रपञ्चितं स्मृतिकौस्तुभे । एवमिहापि भवतुमर्हति । तस्मात् ‘शेषं समावेशने जपेत्’इति वाक्येन सकृदुत्पन्नेन समावेशनसंबन्धिनि काले विनियुक्तस्य कर्मणः (जपस्य वा ) पुनः कथं दुर्बलेन सन्निधिना शेषहोमस्याङ्गभावः प्रतिपाद्येत । तस्मात् प्रकरणपाठावष्टंभेन प्रयाजादिवन्नास्याङ्गभावः संभवतीति भिन्नमेवेदं कर्म स्वकीये कालान्तरे भवितुमर्हति । अथापि भवतः श्रद्धामनुरुध्याङ्गभावं प्रतिपद्येमहि, एवमपि ‘वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेत’ इति वाक्येन विहितस्याङ्गगस्य बृहस्पतिसवस्यंववसन्ते कालान्तर एवानुष्ठानं समावेशनस्य न्याय्यंमन्यामहे । परमार्थतस्तु बृहस्पतिसवस्येवाङ्गभावं विदधद्वाक्यं नोपलभामह इति न युष्माकमभीष्टस्य स्यात् स्वप्नेप्यवकाशः । ननु तर्हि मिथः समीक्षणादीनां भिन्नकर्मणामपि विभिन्नाः कालाः स्युः ? न; तेषां कर्मणां कालः कदेति शंकायां सन्निहितेन प्रकरणेन कालस्याक्षेपेण शंकानिवारणस्य संभवात् । इह तु वाक्येनैव बलीयसा स्वकालः समर्प्यत इति न प्रकरणस्यावकाशो दुर्बलस्य ।तस्मात् ‘दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेत’इत्यत्रेव ‘तिस्रो जपित्वा शेषं समावेशने जपेत्’इत्यत्रापि कालार्थोऽयं संयोग इति मन्तव्यम् । तस्मान्न सर्वात्मना चतुर्थदिनापररात्रेसमावेशनं विधी-

यत इति सिद्धम् अपि चादृष्टार्थंयद्यत्र समावेशनमभ्युपगम्येत, अन्याय्यमेवैतत् स्यात् । दृष्टे संभवत्यवदृष्टकल्पनायाः अन्याय्यत्वात् । अपि चादृष्टार्थादस्मात् समावेशनात् कथमृतुमतीत्वमपि वध्वाः प्रतिज्ञायेत । ननु ‘समावेशनं वध्वा सह मैथुनार्थं शयनम्’इति सुदर्शनाचार्यव्याख्यानात् परिभाषेति जानीमः । नेति ब्रूमः । ‘केचित् असत्यपि रागे’इत्यादिपक्षान्तरोपदेशानर्थक्यात् । गौणतयापि त्वदीयबुद्धैरभ्युपगते बालिकोद्वाहपक्षेपरिभाषायाः असङ्गतत्वात् । अथ तदविरोधाय समावेशनमेकत्र मेलनं शयनं वेत्यर्थंअङ्गीकरोषि, नात्र चतुर्थीसमावेशनमृतुमतीत्वं वध्वाः नियमेन उपस्थापयति । न च बालिकोद्वाहमपेक्ष्यैकत्र मेलनं शयनं वेत्यर्थः, ऋतुमतीविवाहमपेक्ष्य पारिभाषिकोऽर्थः संगच्छतामिति वाच्यम्; विधिवैषम्यप्रसङ्गेन ‘द्वयोः प्रणयन्ति’( जै, ३, ७, २३ ) न्यायविरोधात् । न चैवमस्माकं ‘समावेशने’इति सप्तम्यन्तस्य युगपत्प्रतीयमानमर्थद्वयमङ्गीकुर्वतां विधिवैषम्यं संभवति, प्रतीयमानार्थस्य परित्यागायोगादिति सुधियो विभावयन्तु ॥

तस्मात् समावेशनबलादेवर्तुमतोत्वप्रतीज्ञा मृषैवेति सिद्धम् । न्यायतस्तु ऋतुसमावेशनमेवोपरि वक्ष्यमाणमत्रानूदितमिति प्रपञ्जितमधस्तात् । तस्मात् सिद्धम्—न चतुर्थदिने समावेशनं विदधात्यापस्तम्बो भगवानिति ।

यदुक्तं रागप्राप्तत्वाच्चतुर्थीसमावेशनमनियतम् ऋतुसमावेशनं पुनर्नियमेन विधीयत इत्यनयोर्भेद एवाङ्गोकर्तव्य इति, अत्रैवंभवान् प्रष्टव्यः— किं पुना ऋतुसमावेशनं रागतः प्राप्नोति आहोखिन्नेति ? यदि न स्याद्रागस्तत्र तर्हि असत्यपि रागे कथं पुन-

र्व्यवायो अङ्गीक्रियते । व्यवायोपि क्रियते रागोऽपि न भवतीति विप्रतिषिद्धंह्येतत् । नियमविधिरपि विज्ञानेश्वराचार्यैरुपपादितः रागमवलम्ब्यैवात्मानं लभते । यथा गार्हस्थ्यधर्माः रागतः प्राप्तं विवाहमवलम्ब्यैव प्रवर्तन्ते, एवं ‘ऋतुकलाभिगामी स्यात्’ इत्यादिनियमविधिः स्त्रीपुंसो रागमवलम्ब्यैव प्रवर्तते । अत्राहाक्षेप्ता— कथं पुनर्विवाहो रागप्राप्तः स्यात् ; यत्कारणं आश्रमान्तरवत् गार्हस्थ्यमपि नित्यसिद्धमेवेति वैकल्पिकनित्यो विवाहो व्रीहियववत्इति प्रपञ्चितमभियुक्तैर्विमर्शे \। नेति ब्रूमः । ‘यदि व्रीहियववत्’ इत्यत्र व्यवस्थितविकल्पोऽभ्युपगम्येत, तर्हि ब्रह्मचर्यंप्राप्तेन गार्हस्थ्यं न प्रवेष्टव्यम्, गार्हस्थ्याच्च पारिव्राज्यं नाङ्गीकर्तव्यमिति स्यात्; व्यवस्थितत्वात् विकल्पस्य । अथैच्छिकोऽयं विकल्प इति ब्रूषे, तर्हि आगतोऽसि मार्गेण \। रागप्राप्तो विवाह इत्युक्ते का पुनस्ते क्षतिः । अत एव ‘शक्त्याच यज्ञकृन्मोक्षेमनः कुर्यात्तु नान्यथा’ ( याज्ञ० ३, ५७ ) इनि पारिव्राज्यप्रकरणे ‘रागप्रयुक्तत्वाच्च विवाहस्य’ इत्युक्तमाचार्येण विज्ञानेश्वरेण । आस्तां तावदिदम् । अनुसरामः प्रकृतम् । तस्मादृतुसमावेशनमपि रागप्राप्तमेवेति कथमस्य चतुर्थीसमावेशनात् भेदमुपपादयसि । ननु नियमानियमाभ्यां भेदं पश्यामः । ऋतुसमावेशनं हि नियम्यते न पुनरन्यत् इति । नेति ब्रूमः । कथं पुनश्चतुर्थीसमावेशनमनियतमेवेत्यवेदीः \। रागप्राप्तत्वादिति चेत्, तर्हि ऋतुसमावेशनमपि रागप्राप्तमिति तत्राप्यनियमोऽभ्युपगम्यताम् । अथ तत्र विधिरस्ति, नात्रैवं वचनमिति ब्रूषे, तर्हि समावेशनमेव चतुर्थदिने नास्तीति कथमत्र नियमानियमयोः अन्यतरः संभवेत । पराक्रान्तं चैतत् प्रथममेव । तस्मादृतुसमावेशनमेवात्रानुद्यते इति न्याय्यं पश्यामः ।

व्याख्यानमप्यस्मत्पक्षमेवोपोद्बलयति इति प्रपञ्चितं वयोनिर्णये। अथापि भवतः श्रद्धामनुरुध्य चतुर्थीसमावेशनमभ्युपगच्छामः, एवमपि न सर्वात्मना दोषाद्विनिर्मोक्षः\। रागप्राप्तं चतुर्थीसमावेशनमित्यभ्युपगच्छद्भिः कथं चतुर्थदिनापररात्र एवरागः संभवेदिति युक्तं वक्तुम्; पञ्चमषष्ठसप्तमादिषु यदा कदा वापि यदि रागः स्यात्, तर्हि तत्रैव विवाहकर्मार्थंभवदभीष्टं समावेशनाभासं कृत्वा तत्रैवजपो विनियुज्येत । तस्मात् यत्किञ्चित् पदश्रवणमात्रेणयत्किञ्चित् कल्पनमसत्प्रलाप एवेत्युपेक्षणीयम् । यदप्युक्तं’अस्मिन्नेव क्रमे यदि दैवादृतुगमनमपि’ इत्यत्रापेः स्वारस्यमनादृतमेव स्यादिति, तत्र मौनमेव सुतरां प्रतिवचनं भवितुमर्हति । तथापि ब्रूमः - ‘तिस्रो जपित्वा’ इत्यादिना निर्दिष्टे क्रमे यदि अतर्कितोपनतेन दैवेनर्तु गमनमपि कर्तव्यं स्यात् इत्यर्थः । एतदुक्तंभवति । ‘प्रजापते तन्वं मे’ इत्यन्तं हि चतुर्थदिनापररात्रकर्म । शेषं समावेशने भवति । यदि कदाचित् कुतोपि कारणात् ऋतुगमनमपि अप्राप्तंप्राप्नोति, तदा पूर्वं ‘आरोहोरुमि’त्यादि जपः । ततो ‘विष्णुर्योनिम्’ इत्याद्यभिमन्त्रणम् इत्येव प्रतिपादयतीति नास्माभिरपेः स्वारस्यमनाद्रियते । अपि च चतुर्थीसमावेशनमपूर्वार्थमङ्गीकृत्य तत्र समावेशनस्य परिभाषया मैथुनार्थं शयनमित्यभ्युपगच्छतां ‘दैवादृतुगमनमपि’ इत्यादिना प्राप्तेऋतुसमावेशने पूर्वं’आरोहोरु’ इत्यादिविवाहकर्मार्थं पत्नीगमनं अनन्तरमृतुगमनमिति एकस्मिन्नेव दिने द्विः पत्नीगमनं प्राप्नोति, तच्चायुक्तं’सुस्थ इन्दौ सकृत् पुत्र” (याज्ञ. १.८० ) इति योगीश्वरेणद्विर्गमनस्य प्रतिषिद्धत्वात् । न च जपमात्रं’आरोहोरुम्’ इत्यादेः भवता अभ्युपगम्यते ‘मैथुनार्थं शयनम्’ इति वदता । न

च ‘दध्नेन्द्रियकामस्य जुहुयात्’ इत्यत्रेव इहापि एकमेव पत्नीगमनं कर्मद्वयमनुगृह्णातीति वाच्यम्; तत्र ह्येकस्मिन्नेवाग्निहोत्रकर्मणि दध्नो गुणविधिरभ्युपगम्यते । इह तु चतुर्थीसमावेशनात् भिन्नमेवर्तुसमावेशनमिति कर्मभेदोऽभ्युपगम्यते भवता । तस्मात् कुण्डपायिनामयनाग्निहोत्रन्यायेनैकस्मिन्नहनि द्विः पत्नीगमनं प्राप्नोत्येव । किमतो यद्येवम् एतदतो भवति दृष्टे संभवत्यदृष्टकल्पनमन्याय्यमेव स्यादिति । अपि च पारिभाषिकमेव समावेशनमिति वदतां ‘ऋतुसमावेशने इति ऋतुलिङ्गात्’, इति लिङ्गादर्थविवरणं सुदर्शनाचार्यस्य अनर्थकमेव स्यात् । तस्मात् न सर्वात्मना चतुर्थीसमावेशनं सूत्रकारेण विहितमित्यसमञ्जसमेव परेषां प्रत्यवस्थानमिति सिद्धम् ।

स्यादेतत्—आचार्येण हरदत्तेनानाकुलाख्यव्याख्यायां समावेशनन्त्वस्मिन्नेवापररात्रे नियमेन भवति’ इति चतुर्थीसमावेशनस्य नियमोऽभिहितः । न च कथमनेनर्तुमतीविवाहः सिद्ध्यतीति वाच्यम्; ‘इदमेव समावेशनं मन्त्रवत् नान्यत्’ इति वाक्यशेषश्रवणात् । नूनमस्य समये युवतय एव विवाह्यमाना आसन्निति अनाकुलाख्यागृह्यव्याख्या ज्ञापयति । अन्येनापि आण्डपिल्लयार्नाम्नाचार्येण ‘यदि चतुर्थीसमावेशनमृतुसमावेशनं च युगपत्प्राप्नुतः’ इति वदता स्पष्टमेवानयोर्भेदोऽभिहितः । मन्त्रोप्यारोहोरुमित्यादिकः अमुमेव पक्षमनुगृह्णाति । तस्माच्छास्त्रीय एवर्तुमतीविवाह इति । एवं प्राप्ते ब्रूमः \। नैतदेवमिति । न हि समावेशनपदं भवभीष्टेव्यवायकर्मणि प्रयुनक्तिआचार्यो हरदत्त इ्त्यत्र कारणमुपलभामहे । ननु वाक्यशेषमत्र कारणमित्यवोचाम \। न । अस्मिन्नेव समावेशने “आरोहोरुमि’ति मन्त्रजपः, नान्यत्र

इत्येव तस्यार्थोभवितुमर्हति प्रकृतत्वात् । एतेनान्योप्याचार्यो व्याख्यातो वेदितव्यः । यदुक्तंमन्त्रोप्यनुगृह्णातीति, तत् परिहृतं पूर्वमेव ‘क्षीरिणाम्’इत्यत्र \। अस्माकं पुनः पक्षे तु मन्त्राणां सुतरां प्रयोगसमवेतार्थस्मारकत्वं संभवति । ऋतुसमावेशनस्यैकस्यैव रागतः प्राप्तस्य सूत्रकारेणानूदितत्वात् । तस्मात् चतुर्थीसमावेशनमभ्युपगच्छन्नपि हरदत्ताचार्यः न भवदभीष्टंव्यवायं अङ्गीकरोतीत्यत्र कारणं पश्यामः । अपि च ‘शेषं समावेशने जपेत्’ इत्यनन्तरं ‘यदा मलवद्वासा स्यात्’ इति रजस्वलाधर्मानुपदिश्यानन्तरं ऋतुसमावेशनं ब्रवीति । यदि रजस्वलैव विवाह्या स्यात्, कथं तद्धर्मोपदेशो विवाहानन्तरं स्यात् ? तस्मादप्यसङ्गतं परेषां प्रत्यवस्थानम् \।

अथापि स्यात् । कथं रजस्वलाधर्मोपदेशेनर्तुमतीविवाहः प्रतिषिध्येत । आपस्तम्बेन भगवतोपदिश्यमानो रजस्वलाधर्मः प्राथमिक एव रजोदर्शने इत्यत्र किं मानम् । प्रत्युत प्रथमर्तौव्रताभाव एवोपदिश्यते शास्त्रेषु । तथा च निर्णयसिन्धौ स्मृतिचन्द्रिकायाम्– ‘प्रथमर्तौतु पुष्पिण्याःपतिपुत्रवतीस्त्रियः । अक्षतैरासनं कृत्वा तस्मिंस्तामुपवेशयेत्’ इत्यादिभिर्व्रातभाव एवोपदिश्यते । उपरिष्टाच्च’द्वितीपाद्यृतुषु तन्नियमानाह मदनपारिजाते दक्षः’अञ्जनाभ्यञ्जने स्नानं प्रवासं दन्तधावनम्’ इत्यादि निषेधं पठति \। आचारेऽपि प्रथमर्तौ व्रताभावमेवोपलभामहे । सूत्रे पुनरुपदिश्यते व्रतम् । तस्मात् विवाहात् प्राचीनेष्वृतृषु व्रतानुष्ठानं नास्त्येवेति अभ्युपगच्छामः \। अपि च ‘तिस्रो रात्रीर्व्रतं चरेदञ्जलिना वा पिबेदखर्वेण वा पात्रेण प्रजायै गौपीथाय’ (तै०सं०२, ५, १) इत्युत्पत्स्यमानप्रजावैगुण्याभावफलकमिदं श्रूयते व्रतम्। तच्च कथं

विवाहात् प्राक् प्रजोत्पादनानधिकृताया संभवेत् । अथापि भवतः श्रद्धामनुरुद्ध्यअभ्युपगच्छामो व्रतम्, एवमपि प्राग्विवाहात मन्त्रादिभिरुपदिश्यताम्; ऊर्ध्वं तु विवाहात् पतिना संस्कारार्थं नियमार्थं च पुनरुपदेशो भवतु व्रतस्य । तस्मात् न व्रतोपदेशावष्टंभेनर्तुमतीविवाहप्रतिषेधः सिद्ध्यति इति । एवं प्राप्ते ब्रूमः— नैतदेवमिति;कस्मात् ? प्रमाणाभावात् । तथा हि— भगवान् आपस्तम्बः विवाहान्तरं रजस्वलाधर्मानुपदिश्यानन्तरमृतुसमावेशनं विदधाति । अतः पाठक्रमन्यायेनर्तुमतीविवाहः प्रतिषिध्यत इति गम्यते । न च विवाहात् पूर्वंरजस्वलाधर्माभाव एवेत्यत्र किमपि प्रमाणं पश्यामस्त्वद्वचनादृते । ननु प्रथमतौव्रतं नास्त्येवेति निर्णयसिन्धौ प्रतिपादितमित्यवोचाम। एतदपि नाभीष्टं पुष्णीयात्; प्रागपि विवाहात् द्वितीयादिष्वृतुषु व्रतस्य अनुष्ठेयत्वात् । अथ प्राग्विवाहात् सर्वेष्वपि ऋतुषु व्रताभावमभ्युपगच्छसि, तदपि नसङ्गच्छते प्रमाणाभावात् । प्रथमर्तौ हि व्रताभावो भवद्रीत्या न पुनरन्येष्वृतुषु । वस्तुतस्तु न भवतामर्थः संभवति निर्णयसिन्धुपरिशीलने प्रेक्षावतां । अतिमन्दं हीदं प्रत्यवस्थानम् । यदुक्तंसत्यपि प्राग्विवाहात् व्रतानुष्ठाने मात्रादिभिरुपदिश्यतामिति, तदपि न; प्रमाणाभावात् । नन्वस्त्याचारः । न । विवाहादूर्ध्वं हि मात्रादिभिरुपदिश्यमानं सूत्रविरुद्धमाचारं उपलभामहे । न पुनः प्रागपि विवाहात् उपदिश्यमानम् । तस्मात् स्मृत्याचारविरुद्धमिदं मनोरथमात्रमेव केवलं स्यात् भवताम् । यदप्युक्तं प्रजावैगुण्याभावफलोद्देशेन विधीयमानत्वात् व्रतस्य प्राग्विवाहात्प्रजोत्पादनानधिकृतायाः व्रताभाव एव न्याय्य इति, अत्र ब्रूमः— नात्र फलोद्देशेन व्रतं विधीयते, कामादिशब्दाघटितत्वात् । किन्तु औदुम्बराधिक-

रणन्यायेनार्थवादो भवितुमर्हति । अन्यथा प्रजाकामनारहितया विधवया च व्रतं नानुष्ठेयं स्यात् । तच्च व्यासादिस्मृत्याचारविरुद्धमास्तिकैरनाद्रियेत । तस्मादर्थवादो भवितुमर्हति । अर्थवादत्वाच्च रजस्वलाभिरनुष्ठेयमेव । अतः प्राग्विवाहादपि रजस्वलया तद्धर्मानुष्ठानं न्याय्यमेव भवितुमर्हति । ननु प्रजोत्पादनानधिकृतयानानुष्ठेयमित्यवोचाम । न । अनधिकृतयापि विवाहानन्तरमुत्पत्स्यमानप्रजावैगुण्याभावफलोद्देशेनानुष्ठानस्य कर्तव्यत्वात् । यथा प्रागपि विवाहात् सत्पतिलाभार्थंअश्वत्थसेचनमीश्वराराधनं च क्रियत इत्याचारः क्वचित्, एवमिहापि भवतु \। अपि च प्रागपि विवाहात् व्रतानुष्ठानं मास्तु इति प्रत्यावस्थानमेव तावदसङ्गतम्; रजोनिमित्तत्वात् व्रतानुष्ठानस्य । न पुनर्विवाहं निमित्तीकृत्य रजस्वलाधर्माः प्रवर्तन्ते । तस्मादप्यसङ्गतमिदं प्रत्यवस्थानम् \। तस्मात् सत्यपि चतुर्थीसमावेशने केषांचिदाचार्याणां मतेन नतुमतीविवाहः शास्त्रतः प्राप्नोतीतिसिद्धम् । परमार्थतस्तु चतुर्थीसमावेशनमेवनास्तीति प्रपञ्चितमधस्तात्”

इति विवेचितम् । तत्रेदमेवास्माकमालोचनीयम्— यत् चतुर्थीकर्मसमावेशनस्यादृष्टार्थस्य स्वीकारेऽपि तदभिमतसिद्ध्याकिमर्थं तन्निषेधनम् इति । नहि सर्वत्र दृष्टे संभवत्यदृष्टकल्पनं न न्याय्यम्, किन्तु यत्र दृष्टार्थत्वेऽपि नियमविधिना निर्वाहस्तत्रैव । तदुक्तम्—

लभ्यमाने फले दृष्टे नादृष्टपरिकल्पना \।
विधेस्तु नियमार्थत्वान्नानर्थक्यं भविष्यति ॥

इति । नियमविधिश्च समावेशनजन्यस्य तृप्तिविशेषस्य साधनान्तरेणापि संभव एव संभवति, यथाऽर्थज्ञानस्याध्ययनेनेव भाषा-

न्तरादिनापि संभवः । “ऋतौ भार्यामुपेयात्” इत्यत्र तु कालनियम एव, न तु क्रियानियमः । तथा च “शेषं समावेशने जपेत्” इति सूत्रे समावेशनस्यापि विधानमित्यूरीकरणेऽपि “विनापि विधिना दृष्टलाभान्नहि तदर्थते"तिन्याय एवात्र प्रसरति, नतु “लभ्यमाने फले दृष्टे” इति न्यायः । न ह्यत्र शब्दैक्यनिबन्धनं प्रत्यभिज्ञानमपि ; उत्तरत्र ऋतुसमावेशनपदस्यात्र केवलसमावेशनपदस्य च प्रयोगात् । सर्वत्र प्रसिद्धोपदेशाधिकरणे हि— यत्र “शारीरस्यात्मनोऽभिधायकसप्तम्यन्तोऽन्तरात्मन्निति, तस्माद्विशिष्टोऽन्यः प्रथमान्तः पुरुषशब्दो मनोमयत्वादिविशिष्टस्यात्मनोऽभिधायकः— इति शब्दविशेषात्” इति सूत्रेविवेक्षितम् । तेन प्रकृत्यभेदमात्रेण न शब्दै्क्यमिति बोधनेन विवक्षितः सारांशोऽमेव- यत् विभक्त्यन्तैक्य एव शब्दैक्यम्, न त्वंशत एकत्व इति । तथा च विशेषणभेदविशिष्टसमावेशनपदात् केवलसमावेशनपदस्यापि भेद इत्यत्राप्युक्तभाष्यं गमकमेव। तथा च चतुर्थीकर्मसमावेशनमपरमेव विवाहाङ्गतया विवक्षितमिति कलपनमेव योग्यम् । अत एव पृथक् सूत्रादिस्वारस्यम् । अधिकं चात्र वक्तव्यं पूर्वमेवोक्तमित्येतावन्मात्रमत्र वर्ण्यते— यत् बहुतरगृह्यसिद्धस्यचतुर्थदिनकर्तव्यसमावेशनस्याबाधेनैव समालोचनं किमपि कर्तव्यम्, नान्यथेति । स्पष्टं च बौधायनगृह्येचतुर्थीसमावेशनमृतुसमावेशनं च भिन्नमिति विवेक्षितम् । अत्रानुसन्धेयानि बौधायनवाक्यानीमान्येव । तद्यथा—

“अथ विवाहस्यारुन्दत्युपस्थानात् कृत्वा व्रतमुपैति ॥ १।६-५६

उभौ जायापती व्रतचारिणौ ब्रह्मचारिणौ भवतोऽधः शयाते \। तयोः शय्यामन्तरेण उदुम्बरदण्डो गन्धानुलिप्तो वाससा

सूत्रेण वा परिवीतस्तिष्ठत्यापक्वहोमात् ॥ ६१ ॥ चतुर्थ्यां निशायां हुते पक्वहोमे व्रतं विसृज्य दण्डमुत्थापयति ॥ ६२ ॥ अथैनंवध्वै प्रयच्छति ॥ ६३ ॥ तं वधूःप्रतिगृह्णाति ॥ ६४ ॥ अथैनं वराय प्रयच्छति ॥ ६५ ॥ तं वरः प्रतिगृह्णाति ॥ ६६ ॥ अथैनं स्थूणादेशेनिधायान्तिकेन प्रतिपद्यते । प्रसिद्धमुपसंवेशनम् ॥ ६७ ॥६८॥ अथ श्रीमन्तमगारं सम्भृष्टोपलिप्तं गन्धवन्तं पुष्पवन्तं धूपवन्तं तल्पवन्तं साधिवासं दिक्षु सर्पिःसूत्रेन्धनप्रद्योतितं उदकुम्भादर्शोच्छिरसं प्रपाद्य तस्मिन्नेनां संवेश्यान्तिके जपति “उदीर्ष्वात’ इति ।

अथैनामुपसंवेशयति “प्रजापतिस्स्त्रियां यश” इत्येतया ॥ अथास्याः स्तोकोतिं विवृणोति । (स्तोकोतिर्योनिरित्यर्थः) सा यद्यश्रु कुर्यात् तां अनुमन्यते “जीवां रुदन्ति " इति ।

ब्राह्मणेन ब्राह्मण्यामुत्पन्नः प्रागुपनयनोज्जात इत्यभिधीयते । उपनीतमात्रो व्रतानुचारी वेदानां किञ्चिदधीत्य ब्राह्मणः, एकां शाखामधीत्य श्रोत्रियः । अङ्गाध्याय्यनूचानः \। कल्पाधायी ऋषिकल्पः। सूत्रप्रवचनाध्यायी भ्रूणः । चतुर्वेदादृषिः । अत ऊर्ध्वं देवः । अथ यदि कामयेत श्रोत्रियं जनयेयमित्या अरुन्धत्युपस्थानात्कृत्वा त्रिरात्रमक्षारलवणाशिनावधःशायिनौ ब्रह्मचारिणावासाते अहतानां च वाससां परिधानम् \। सायं प्रातश्चालङ्करणम् । इषुप्रतोदयोश्च धारणम् । उभौ कालावग्निपरिचर्या च । चतुर्थ्यां पक्वहोम उपसंवेशनञ्च ।

अथ यदि कामयेतानूचानं जनयेयमिति द्वादशरात्रमेतद्व्रतं चरेत् । व्रतान्ते पक्वहोम उपसंवेशनं च \। अथ यदि कामयेत ऋषिकल्पं जनयेयमिति मासमेतद्व्रतं चरेत् व्रतान्ते पक्वहोमः उपसंवेशनं च । अथ यदि कामयेत भ्रूणं जनयेयमिति चतुर्मासानेत-

द्व्रतं चरेत्। व्रतान्ते पक्वहोम उपसंवेशनं च। अथयदि कामयेत ऋषिं जनयेयमिति षण्मासानेतत् व्रतं चरेत्। व्रतान्ते पक्वहोम उपसंवेशनञ्च। अथ यदि कामयेत देवं जनयेयमिति संवत्सरमेतदुव्रतं चरेत्। व्रतान्ते पक्वहोम उपसंवेशनञ्च। अथ यदि कामयेत देवंजनयेयमिति संवत्सरमेतद्व्रतं चरेत्। ब्रतान्ते पक्वहोम उपसंवेशनं च।

सर्वाण्युपगमनानि मन्त्रवन्ति भवन्तीति बोधायनः। यच्चादौ यच्चर्ताविति शालिकिः इति ॥

अत्रान्ते “यच्चादौ यच्चर्ताविति शालिकिः” इति स्पष्टमेव समावेशनद्वयं विवेचितम्। अन्यथा यच्छब्दद्वयवैयर्थ्यात्।

अत्रेयमापस्तम्बसूत्रकाराणां हरदत्तवृत्तिः सुदर्शनाचार्यभाष्यञ्च। तद्यथा —

तं चतुर्थ्या अपररात्र उत्तराभ्यामुत्थाप्य प्रक्षाल्य निधायाग्नेरुपसमाधानाद्याज्य-भागान्तेऽन्वारब्धायामुत्तरा आहुतीर्हुत्वा जयादिप्रतिपद्यते। परिषेचनान्तं कृत्वाऽपरेणाग्निं प्राचीमुपवेश्य तस्याः शिरस्याज्यशेषात् व्याहृतिभिरोङ्कारचतुर्थीभिरानीयोत्तराभ्यां यथालिङ्गं मिथः समीक्ष्योत्तरयाऽऽज्यशेषेण हृदयदेशौ संमृज्योत्तरास्तिस्रो जपित्वा शेषं समावेशने जपेत् ॥ (हर०) शेषमनुवाकशेषम्, आरोहोरुमित्यादि समागमनकाले जपेत्। समावेशनन्त्वस्मिन्नेवापररात्रे नियमेन भवति। इदमेव समावेशनं मन्त्रवत्। नान्यानि।

(सुदर्शनः) शेषमनुवाकशेषं ‘आरोहोरुम्’ इत्यादिकं समावेशने समावेशनकाले जपेत्। समावेशनं च वध्वा सह मैथुनार्थं शयनम्। “ऋतुसमावेशने” (आप० गृ० ७-१३) इत्यृतुलिङ्गात्।

एतच्च रागप्राप्तसमावेशनाश्रितं विवाहकर्मार्थं क्रमजपयोर्विधानम्। यथा भोजनपर्यायव्रताश्रितं पय आदिविधानम्। के-

चित् असत्यपि रागे कर्मार्थंमस्मिन् क्रमे समावेशनं नियतमेवेति समावेशनान्तरेषु तु अकर्मार्थत्वादेव नायं जपः। बोधायनेन विकल्पोऽभिहितः। “सर्वाण्युपगमनानि मन्त्रवन्ति भवन्तीति बोधयनो यच्चादौ यच्चर्ताविति शालीकिः” इति । अस्मिन्नेव क्रमे यदि दैवादृतुगमनमपि कर्तव्यं स्यात्तदा पूर्वं ‘ओरोहोरुम्’ इत्यादिजपः। ततो “विष्णुर्योनिम्” इत्यादिभिरभिमन्त्रणम्॥

एतेन – हिरण्यकेशिगृह्यसूत्रमपि – व्याख्यातम्। तद्यथा–

अत्रैवोदपात्रं निधाय प्रदक्षिणमग्निं परिक्रम्य अपरेणाग्निं प्राचीमुदीचीं वा संवेश्य अथास्यै योनिमभिमृशति। (संवेश्यशाययित्वा)।

अथैनामुपयच्छते ( उपयच्छते अवकिरते मिथुनीभवति ) ।

सं नाम्नः सं हृदयानि सं नाभिः सं त्वचः ।
सं त्वा कामस्य योक्त्रेण युञ्जान्यविमोचनाय ॥

अथैनां परिष्वजते ।

मानुव्रता भव सहचर्या मया भव ।
याते पतिघ्नीं तनूंजारघ्नीं त्वेतां करोमि ॥
शिवा त्वं मह्यमेधिः क्षुरपविजीरेभ्यः ॥
इति ॥

अथास्यै मुखेन मुखमीप्सते ।

मधुहे मध्विदं मधु जिह्वा मे मधुवादिनी ।
मुखे मे सारघं मधु दत्सु संवननं कृतम् ॥
चाक्रवाकं संवननं यन्नदीभ्य उदाहृतम् ।
यद्युक्तो देवगन्धर्वस्तेन संवनिनौ स्वके ॥

मातृदत्तः - ईप्सते आप्सुमिच्छति। चोषयतीत्यर्थः। अथ-शब्दः कर्मान्तरप्रतिषेधार्थम्। क्षतयोनिर्हि अत्यन्तस्वीकृता भवति।

अक्षतयोन्याः पत्युमरणोत्तरकालं पुनस्संस्कृत्य परिणेतव्येति स्मरणात्।

त्रिरात्रं मलवद्वासा ब्राह्मणव्याख्यातानि व्रतानि चरति। चतुर्थ्यां स्नातां प्रयतवस्त्रामलंकृतां ब्राह्मणसंभाषामाचम्योपहूयते।

सर्वाण्युपगमनानि मन्त्रवन्तीत्यात्रेयः ।
यच्चादौ यच्चर्ताविति बादरायणः ॥
इति ॥

अत्रापि हि “यच्चादौ यच्चर्ताविति बादरायणः” इति समावेशनद्वयं विवेचितमेव। इयान् विशेषः— यत् बोधायनसूत्रेषु इदं शालकिमतम्, अत्र तु बादरायणमतमिति।

एतेन — भारद्वाजगृह्यसूत्रमपि —व्याख्यातम्।तद्यथा–अर्थनां तूष्णीं हिंकृत्य वाग्यत उपेत्य अमृहमस्मि सा त्वं द्यौरहं पृथिवी त्वं सामाहमृक् त्वं तावेहि संभवाव सहरेतो दधावहै पुंसेपुत्राय वेत्तवै रायस्पोषायसुप्रजास्त्वाय सुवीर्याय………। इत्यथास्याअपवृत्तार्थोऽपुंवृत्तार्थाया मुखेन मुखं सन्निधाय प्रणिपत्यैतं प्राणमपानिहीति तं सा प्रत्यपानिति। अथास्याचान्तोदकायै पाणी प्रक्षाल्याभिमृशति। करं दधच्छिवेन त्वा पञ्चशाखेन हस्तेनाऽविद्विषावता सहस्रेण यज्ञस्विनाभिमृशामि सुप्रजास्त्वायेति भसद्देशम्। यदा मलवद्वासाः स्यादथैनां ब्राह्मणप्रतिषिद्धानि व्रतानि संशास्ति। यां मलवद्वाससमिति। चतुर्थ्यां स्नातां प्रयतवस्त्रां ब्राह्मणसंभाषां “सन्ते मनसा मन” इत्येतेनानुवाकेन उपसंविशति। सर्वाण्युपायनानि मन्त्रवन्ति भवन्तीत्याश्मरथ्यो यच्चादाै यच्चर्तावित्यालेखनः”॥ इति। अत्र समावेशनद्वयं चालेखनमतेन प्रवृत्तम्। अत्रानुसन्धेयं मानवगृह्यसूत्रं यथा—

संवत्सरं ब्रह्मचर्यं चरतो द्वादशरात्रं ( त्रिरात्रमेकरात्रं ) वा।

अथास्यै गृहान् विसृजेत्। ( गृहाधिकारं प्रयच्छेदित्यर्थः)

योत्क्रपाशं विषाय तौ संनिपातयेत् ।

(योक्त्रपाशं वाससोऽन्ते यद्बद्धं तद्विमुच्य तौ दम्पती एकस्मिन् शयने सन्निपातयेदिति प्रत्येकमभिसम्बध्यते। तदुपरि भार्यांपतिंच संनिपातयेत्संगमयेत् स्वं स्वं प्रति ) ।

जपमन्त्राः – अपश्यन् त्वा ( १ ) अपश्यन् त्वा ( २ ) प्रजापतिस्तन्वम् (३) अहं गर्भमदधाम् ( ४ )

करदिति सदभिमृशति। भसदिति गुह्यप्रदेशं पत्न्याः। जननीत्युपजननम्। (उपजननं प्रजननम्) बृहदिति जातं प्रतिष्ठितम् (अभिमृशतीत्यनुवर्तते) एतेन धर्मेण ऋतावृतौ संनिपातयेत्।

तथा वैखानसगृह्यसूत्रमपि—

तदेवं त्रिरात्रं हविष्याशिनौ ब्रह्मचारिणौ धौतवस्त्रौ व्रतचारिणौ स्याताम्। ततोऽपरस्यां रात्रौ चतुर्थ्यामलंकृत्याग्निमुपसन्धाय नव प्रायश्चित्तानि जुहूयात्।

अग्निं प्रदक्षिणं कृत्वा प्राच्यामुदीच्यां वा तामुपवेश्य “अभिष्ट्वा पञ्चशाखेन” इति योनिमभिमृश्य “सं नाम्न” इत्युपगच्छेत्। “इमामनुव्रता इत्यालिङ्गिनीं “मधुमान् मध्विदम्” इति मैथुनं कुर्वीत। “सुप्रजास्त्वाय” इत्युपगमनम्। सं नाम्न इत्यालिङ्गनम्। इमामनुव्रतेति वधूमुखेक्षणमित्येके॥ इति ॥

अत्रानुसन्धेयं सव्याख्यं जैमिनिसूत्रं त्विदमेव । यथा—

स्नात्वा मातापितरौ परिचरेत्। तदधीनः स्यात्। ताभ्यामनुज्ञातो जायां विन्देतानग्निकां समानजातीयामसगोत्रां मातुरसपिण्डाम्।

त्रिरात्रमक्षारलवणाशिनौ ब्रह्मचारिणौ अधःसंवेशनौ असंवर्तमानौ सहशयाताम्। उर्ध्वं त्रिरात्रात्सम्भवः।

श्रीनिवासाध्वरीन्द्रः—त्रिरात्रादूर्ध्वं सन्निहिते पुण्यदिने सम्भवः संयोगः स्यात्। चतुर्थस्याह्नःअपुण्यत्वे यावत्पुण्यदिनं अपरिष्वजन्तौ सह शयातामेव।

निशायां जायापतिकर्मण्यम्। प्रायश्चितीर्जुहुयात्। स्थालीपाकादग्निं प्रजापतिं चेष्ट्वा संपातांश्चमस आनीय स्रोतांस्यङ्क्ष्वेत्येतां ब्रूयात्।

व्याख्याः —भार्याहस्ते दत्त्वा सनाभिनवरन्धाणि समालिम्पेति तां ब्रूयात्।

( सू० ) नाभिं प्रथमम्। ततो यान्यूर्ध्वम्, ततो यान्यर्वाञ्चि। ऊर्ध्वमर्धरात्रात्संवेशनं विष्णुर्योनिं कल्पयतु इत्येतेन त्र्यृचेन।

व्याख्याः—संवेशनं मैथुनं त्र्यृचस्यान्ते संयोगः ।

( सू० ) ऋतावृतावेवमेव। इति।

अत्र यद्यपि यावत्पुण्यदिनं सहशयनमात्रम्, पुण्यदिने तु संयोग इति बोधितम्, एवमपि संयोगोऽयं परिष्वङ्गमात्ररूप एव। अपरिष्वजन्ताविति विशेषात् इति केचित्। अन्ये तु पूर्णाङ्गः संयोग एवेति। तत्र द्वितीयमतेन यदि जैमिनी रजोनन्तरविवाहमात्रपक्षपातीति कल्पनम्, अत एव “जाया विन्देतानग्निकाम्"इत्यनग्निकाया एव विवाह्यत्वमुपवर्णितमिति कल्प्यते, तर्हि तु बहुस्मृतिविरोधो भवति। तथा चादृष्टरजस्कायामेव यथासंभवं चतुर्थदिनमारभ्य रागप्राप्तौ समावेशनविधिपरमित्येवोरीकर्तव्यम्। अत्र सव्याख्यं गोभिलगृह्यं तु विशेषत उपष्टम्भकम्। तद्यथाः—

नग्निका तु श्रेष्ठा । तावुभौ तत्प्रभृति त्रिरात्रमक्षारलवणाशिनौ ब्रह्मचारिणौ भूमौ सहशयाताम्, ऊर्ध्वं त्रिरात्रात्संभव इत्येके ।
चन्द्रकान्ततर्कालङ्कारः- प्रकृतात् त्रिरात्रादूर्ध्वं परतःसम्भवत्यनेनेति सम्भवः संयोगः व्यवायः कर्तव्यः । इत्येके आचार्या मन्यन्ते । अथ सूत्रमिदं शक्यमवक्तुम्; सम्भवस्य रागत एव प्राप्तेः, विवाहात्प्रभृति त्रिरात्रं ब्रह्मचर्यविधानाच्च, तदूर्ध्वं ब्रह्मचर्यनियमाभावस्यावगतेः । उच्यते । उपरिष्टात् स्नातकव्रतेषु सूचयिष्यति"नाजातलोम्न्यासहोपहासमिच्छेत्” इति । तदपवादार्थमिदमुच्यते । कथं नाम यद्यजातलोम्न्येवातीव पुरुषोपभोगाभिलाषिणी भवति, तर्हि त्रिरात्रादूर्ध्वं तद्रक्षार्थं सम्भवितत्वम् \। अपि च ऋतुकालादन्यत्र रागमात्राधीनत्वात्सम्भवस्य स्त्रीणां तदभिलाषेऽपि पुंसो रागाभावात् अकरणमपि प्राप्नोति तदनेन निरस्यते । अन्यथा खलुअभिलाषपरवशा कदाचिदकार्यमपि कुर्यात् । तस्माद्विनापि ऋतुकालं स्त्रीणां रक्षार्थं सम्भवितव्यमिति ।
तदयं संग्रहः- चतुर्थदिने विवाहाङ्ग समावेशनं ऋतुसमावेशनात् भिन्नमदृष्टार्थं वर्तत इत्येकं मतम् । अपरमतम्-चतुर्थदिने नैकमपि समावेशनम्, ऋतुसमावेशनमेकमेव वर्तत इति । तृतीयं तु – सत्यमृतुसमावेशनात् भिन्नं चतुर्थदिने समावेशनमपरं भवति, परन्तु तन्न वैधम्, किन्तु रागप्राप्तमिति । तत्र तृतीयमतेऽप्यस्ति मतद्वैधम्– यत् रागप्राप्तं समावेशनं दृष्टरजस्काविषयमेवेति । तत्र यस्मिन् मते ऋतावेव समावेशनम्, तत्र समावेशनमन्त्रविधिर्नर्तु मतीविवाहलिङ्गमिति सर्वसम्मतमिदम् । यत्र तु भिन्नमदृष्टार्थम्, तत्रापि न विवादः । यत्र पुनर्दृष्टार्थमेव, तत्र यत्किञ्चिदङ्गविशिष्टसमावेशनविवक्षायां कन्यायामपि तत्संभवा-

त्नर्तुमतीविवाहलिङ्गं समावेशनमन्त्रविधानम्। इतरत्र तु ऋतुमत्याएव विवाहो युक्तइति कल्पनापत्त्या तस्य गौणतावादोऽप्यसंभवदुक्तिकः स्यात्। अत्र पण्डितरत्न म० म० लक्ष्मीपुरश्रीनिवासाचार्याणां विवाहविधिमीमांसागतः समावेशनविचारोऽपि सर्वैः समालोचनीयः। स यथा—

एवमनादिसंप्रदायसिद्धं मन्त्रलिङ्गानुगुणं भूयोगृह्यसूत्रोपबृंहितं विवाहाङ्गभूतं वधूवरयोः सर्वत एवैकत्वप्रयोजकं किंबहुना भार्यात्वभर्तृत्वनिष्पत्त्यर्थतया स्मृतिभिरेवाभिहितं समावेशनाख्यं कर्मविशेषं अत्यन्तं हातुं उपादातुं चानीश्वराः स्मृतिपथपरिष्कारचतुराः लोकं संजिघृक्षन्तः धर्मं च रिरक्षिषन्तः केचिदेतद्विचारमेव पर्यत्यजन्। केचिच्च कालान्तरे व्यवास्थापयन्। केचिच्च यथासम्भवमन्वजानन्। केचित्तु कामचारं दुराचारं शास्त्रे अन्तरभावयन्। केचित्तु शाखाभेदेन उपपत्तिमुपापादयन् वस्तुन्यपि। एवंविधविविधविप्लवनिदानं परंपरिताचारपरिपालनश्रद्धालुत्वमेवेत्यसकृदावेदितं। प्राञ्चो हि निबन्धकृतः मेधातिथिविज्ञानेश्वरप्रमुखाः आपदि गुणवद्वरलाभावधिकं ऋतुदोषमभ्यधुः। तत्रापि केचित् असति गत्यन्तरे प्रायश्चित्तं समगृह्णन्। अर्वाञ्चस्तु हेमाद्रि—माधव सार्वभौम-कमलाकर शङ्कर–अनन्तदेव-वैद्यनाथदीक्षित-वैकुण्ठदीक्षितादयोऽधर्मभीरवः ऋतोः प्रागेव धर्म्योविवाह इति निरचिन्वन् न्यबध्नंश्च। अतएव हि समावेशनाख्ये विवाहाङ्गभूते कर्मणि समयाधिकारिवैचित्र्यनिबन्धनाः विचित्राः सम्प्रदायाः समुपलभ्यन्ते निबन्धकारैः निर्णीताः।

तत्रायं संग्रहः (१) समावेशनमन्त्रजपोन्तो विवाह इति सौदर्शनः कण्ठरव; (२) शेषहोमान्तो विवाहः। ऋतुदर्शनात्पूर्व-

मेव स्त्रीगमनं समावेशनं ऋतुसमावेशनकालात्पूर्वमेव कर्तव्यमिति वैदिकसार्वभौमादयः (३) प्रथमऋतुकालीनगमनं समावेशनं द्वितीयादिऋतुकालीनगमनं ऋतुसमावेशनमिति वैकुण्ठदीक्षितादयः(४)संवेशनं गृहप्रवेश इति संस्कारमयूखकारो भट्टनीलकण्ठः (५) संस्कारकौस्तुभकारोऽनन्तदेवस्तु ऋतुदर्शनात्पूर्वं नगन्तव्यं गन्तव्यञ्चावश्यं ऋतुकाले। बोधायनगोभिलाऽश्वलायनादिगृह्यसूत्रतत्तद्गृह्यानुसारिपद्धतिग्रन्थानुसारेण तु वैवाहिकव्रत-समाप्त्यनन्तरं ऋतुकालात्पूर्वमपि विवाहाङ्गं गमनं कर्तव्यमिति भातीत्यवोचत् (६) निर्णयसिन्धुकर्ता कमलाकरभट्टोऽपि प्रथमऋतोः पूर्वं स्त्रीगमनं न कर्तव्यम्। अत्यन्तमाकुलश्चेत् दशवर्षादूर्ध्वंगच्छेत् प्राक्तुन गच्छेत् इति।(७) धर्मसिन्धुकारः काशीनाथोपाध्यायस्तु चतुर्थीहोमं केचिन्न कुर्वन्ति;प्राक्रजोदर्शनात् पत्नीगमने ब्रह्महत्यादोषोक्तेः। किन्तु प्रायश्चित्तं विधेयमिति भातीत्याह (८) चन्द्रचूडस्तु– समावेशनानुष्ठानं याजुषाणां अननुष्ठानं बह्वृचानामिति शाखा भेदेन व्यवस्थया ‘प्राग्रजोदर्शनात्’ इतिवचनविरोधं पर्यहार्षीत्। (९) पारस्करोदिगृह्यभाष्यादौ तु विवाहैकदेशत्वात् चतुर्थीकर्म अवश्यं कर्तव्यम्, अन्यथा भार्यात्वं न निष्पद्यते। संवत्सरादिपक्षाःशक्त्यपेक्षया व्यवस्थिताः ग्राह्याः। त्रिरात्रपक्षाश्रयेऽपि चतुर्थीकर्मानन्तरमेव इत्यपरोक्षीक्रियते (१०) वीरमिश्रोदये विवाहतत्त्वार्णवे च त्रिरात्रादिवत्सरान्तब्रह्मचर्यपक्षाणामष्टवर्षकन्यामारभ्य विंशतिवर्धपर्यन्तासु कन्यासु व्यवस्था ब्रह्मपुराणवचनेन निरूपिता (११) मेधातिथिस्तु– स्मृतिकाराणां गृह्यकाराणां च मतिवैषम्यं कथंचित्समरसयति स्म॥ इत्यलं भूयसा ॥

(१)एतेषामाकरास्तु– तात्पर्यदर्शने ( ११९)– र्वैश्वदेवस्य कर्मोच्यते प्रसङ्गात्पञ्चमहायज्ञानां च। समावेशनजपान्ते विवाहे समाप्ते वैश्वदेवमन्त्राणामुपयोगे यद्वत्तं “द्वादशाहमधश्शय्या” इत्यादि तत्स्वामित्वाविशेषात्सपत्नीकः चरित्वेति ॥

(२) तालवृन्तनिवासीये–शेषं समावेशने जपेत्—ऋतुमधिगम्य स्नातायां ‘विष्णुर्योनिमित्यारभ्य’ ‘तन्मेवायो समर्धय’ इत्यन्तेन वधूमभिमन्त्रयते। यदि चतुर्थीसंवेशनं च युगपत् प्राप्नुतः, तदा आरोहोरुमिति जपित्वा विष्णुर्योनिमिति वधमभिमन्त्रयते इति ॥

दैनिकसार्वभौमीये गृह्यरत्ने ( १९ ) खण्डे–अनन्तरं वरः ‘प्रजापते तन्वं मे जुषस्व’ इति त्रीन् मन्त्रान् जपित्वा प्राणानायम्य कर्माङ्गमभ्युदयं पुण्याहं च कुर्यात्। नाऽत्र ‘आरोहोरु’ मित्यादिमन्त्रान् जपेत्, तेषां समावेशने विनियोगात्, शेषान्तो हि विवाहः। अत उर्ध्वं स्नातकव्रतानि नियतः कुर्यात्।

तत्रैव कण्ठभूषणे-श्रीधरीये-
रात्रौ विवाहराशौ तु शेषहोमः समाचरेत् ।
पश्चाद्भागेऽथ वा रात्रौ ततः संवेशनं शुभम् ॥ इति ॥

तथा प्रथमखण्डे—अपररात्रे संवेशनं शुभमिति ज्यौतिषं, पूर्वरात्रे संवेशयेदिति बोधायनः, प्रजाकामस्त्वपररात्रे स्वदोरमैथुनं कुर्यात् इति अखण्डादर्शः। पुण्याहे पुण्याहं वाचयित्वा प्राणानायम्य संवेशनं करिष्ये इति संकल्प्य आरोहोरुमित्याद्यनुवाकान्तमुक्त्वा देवलक्ष्म पृष्ठतो निवीतं कृत्वा स्त्रियं गच्छेत्। संवेशनं ऋतुकालात्पूर्वमेव स्त्रीगमनम्। स्त्रीवाससैव संनिपातः स्यात्। ऋतुसंवेशने तु अभ्युदयमेके समामनन्ति। पुण्याहेपुण्याहं वाच-

यित्वा आचम्य प्राणानायम्य गर्भाधानं करिष्ये इति संकल्प्य विष्णुर्योनिमित्यादि जपित्वा वाग्यतो रेतः सिञ्चेत्। नग्नं कृत्वोरुमिति श्रुतिः।

भार्यासंभोगसमये पुण्यकालं विनाऽन्यदा ।
उपवीतं द्विजः कुर्यात् निवीतं पृष्ठभागतः ॥ इति ॥

भरद्वाज इति ॥

(३) वैकुण्ठदीक्षितीये गृह्यरत्नसुदीधितावेवम्— अत्र कण्ठभूषणं ‘शेषं समावेशने जपेदिति’ सूत्रमिह भाव्यं । वृद्धहारीतः—

मानुष्येष्वंसयोः सक्तं मैथुने पृष्ठभागिकं ।
तर्पणेङ्गुष्ठयोस्सक्तं निवीतं त्रिविधं स्मृतम् ।

संवेशनं प्रथमऋतौ स्त्रीगमनं। गर्भाधानं पुनः द्वितीयादिऋतुगमनं। यथा वृक्षादीनां प्रथमपुष्पेषु फलाभावः, तथा स्त्रीणामपि प्रथमऋतौ गर्भधारणाभावात् मैथुनार्थं संवेशनरूपमेव। द्वितीयादिऋतौ गर्भाधानमन्त्रजपः।

अत्र कपर्दिभाष्यं—स्त्रिया सह मैथुनार्थं शयनं समावेशनम्। ऋतुलिङ्गात्। तस्येदानीं जायापत्योरिच्छतोः क्रमः। पाणिग्रहणसंस्कारैः पत्न्याः संस्कृतत्वात्। यदासवर्णायां ऋतुकालगामी स्यात् प्रथमऋतौ “आरोहोरु"मित्यादि समावेशनविधिः। ततः ऋतुविधिरिति। संवेशनस्य मैथुनमात्रार्थत्वात् प्रथमर्तुगमने “आरोहोरु” मित्यादिजपः। ऋतुसंवेशनस्य गर्भाधानार्थत्वात् द्वितीयादिऋतुगमने “विष्णुर्योनि"मित्याद्यभिमन्त्रणम्। यदा संवेशनमृतुसंवेशनं च युगपत्स्यात्, तदा प्रथमं आरोहोरुमित्यादिजपः। विष्णुर्योन्यभिमन्त्रणं च ततः कर्तव्यं। अतः प्रथमऋतौ गमनाभावेऽपि न प्रत्यवायः। अत्र ज्योतिः शास्त्रं—

वधूराशिलग्नाभ्यामित्यारभ्य—

चतुर्थे दिवसे शातिं कुर्याद्वा पञ्चमेऽहनि ।
वीक्षोद्भर्ता पुनः पुष्पं न गच्छेत्तु ऋतावपि ॥ इति ॥

अत्र तात्पर्यदर्शनम् “प्रजापते तन्व” इत्याद्याः तिस्रो जपित्वा शेषं समावेशने जपेत्। शेषमनुवाकशेषं—आरोहोरुमित्यादि समावेशनकाले जपेत्। समावेशनं च वध्वा सह मैथुनार्थं शयनं ऋतुममावेशने इति ऋतुलिङ्गात्। एतच्च रागप्राप्तसमावेशनाश्रितं कर्मार्थं क्रमजपयोर्विधानं। केचित्तु असत्यपि रागे कर्मार्थं अस्मिन् क्रमे समावेशनं नियतमेवेति। समावेशनान्तरेषु तु अकर्मार्थत्वादेव नायं जपः। बोधायनेन तु विकल्पोऽभिहितः—सर्वाणि उपगमनानि मन्त्रवन्तीति बोधायनः। यच्चादौ यच्चर्ताविति शालिकिरिति। अस्मिन्नेव क्रमे देवादृतुगमनमपि कर्तव्यं स्यात् तदा पूर्वं आरोहोरुमित्यादिजपः। ततो विष्णुर्योनिमित्याद्यभिमन्त्रणम्। अन्यो वैनामभिमन्त्रयेत्। इदं च अहं गर्भमदधामित्यादिलिङ्गविराधेऽपि श्रुतेर्बलीयस्त्वादिति। अथ गर्भाधानप्रयोगः॥ इति ॥

(४) भट्टनीलकण्ठीये संस्कारमयूखे—यज्ञपार्श्वः—
चतुर्थे दिवसे रात्रौ लिखोन्मानस्सरोवरं ।
हिरण्यगर्भं तन्मध्ये गन्धपुष्पाक्षतादिभिः ॥
संपूज्याप्सरसश्चैव सोमगन्धर्वपावकान् ।
संपूज्य स्वाश्वहस्त्यादीन् आरोप्यस्वगृहं प्रति ॥
संवेशनादिकं कर्म अन्यथा तु व्रजेद्भयम् ॥

संवेशनं गृहप्रवेशः ॥ इति ॥

(५) अनन्तदेवीये संस्कारकौस्तुभे—आश्वलायनः—

दीक्षितस्तु महायज्ञे पित्रोः प्राग्वत्सराद्द्विजः ।
नेयाद्भार्यांप्रयत्नेन ऋतावप्यर्थितो बुधः ॥
प्राक् रजोदर्शनात् पत्नीं नेयाद्गत्वा पतत्यधः ।
व्यर्थीकारेण शुक्रस्य ब्रह्महत्यामवाप्नुयात् ॥ इति ॥

भारते–

ऋतौ गच्छति यो भार्यां अनृतौ नोपगच्छति।
यावज्जीवं ब्रह्मचारी मुनिभिः परिकीर्तितः ॥

तथा– ऋतुस्नातान्तु यो भार्यांसन्निधौ नोपगच्छति। घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः॥ अस्य वचनस्य ‘जायमानो वै ब्राह्मणः त्रिभिर्ऋणवान् जायते ब्रह्मचर्येण ऋषिभ्यः यज्ञेन देवेभ्यः प्रजया पितृभ्यः’ इति श्रुतिमूलत्वेनोपपत्तेः श्रुत्यन्तरकल्पनायाः अन्याय्यत्वात् जातपुत्रं प्रत्येष नियमः। तथाच मनुः—ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः। पितृणामनृणश्चैव स तस्मात्सर्वमर्हति॥ स एव धर्मजः पुत्रः कामजानितरान्विदुः॥ इति। केचित्तु—ऋतौ श्राद्धदिनेऽपि गच्छतः न ब्रह्मचर्यहानिरिति ‘षोडशर्तुनिशाः स्त्रीणां’ इत्येतद्व्याख्यानावसरे मिताक्षरायामुक्तम्। अन्येतु–ऋतोः निमित्तत्वात् प्रति निमित्तंनैमित्तिकावृत्तिर्विहिता। स्मरन्तिच— एष्टव्याः बहवः पुत्रायद्येकोऽपि गयां व्रजेत्॥ इति॥ व्यासः—वृद्धां वन्ध्यां असद्वृत्तां मृतापत्यामपुष्पिणीम्। कन्यासूं बहुपुत्रां च वर्जयन्मुच्यते भयात्॥ इति। वृद्धा सरजस्कापि गर्भधारणादौ अशक्ता। नतु गतरजस्का अपुष्पिणीमित्यनेन पौनरुक्त्यापत्तेः॥

अस्यापवादः बोधायानसूत्रानुयायिपद्धतिकर्त्रा विश्वकर्त्रभिधेनोक्तः—त्रिरात्रं व्रतं चरेदित्युपक्रम्य व्रतसमाप्तौ अस्तमित आदित्ये अन्योन्यमलंकृत्य अप आचम्य वाग्यतौ शय्यां गच्छत इति। व्रतमध्येऽपि सहशयनमुक्तं गोभिलेन—एतत्प्रभृति त्रिगत्रमेकरात्रं-

वाऽक्षारलवणाशिनौ ब्रह्मचारिणौ भूमौ सह शयीयातामिति। अत्र सूत्रं शय्यैक्यात् दुर्वारमपि मैथुनं प्रयत्नतो वर्ज्यमिति ब्रह्मचारिणाविति वचनम्। एतत्प्रभृति विवाहप्रभृतीत्यर्थः॥ आश्वलायनोऽपि— अत उर्ध्वं अक्षारलवणाशिनौ अलंकुर्वाणाैअधःशायिनौ स्यातां त्रिरात्रं द्वादशरात्रं संवत्सरं वैकर्षिर्जायत इति चरितव्रतः सूर्याविदे वधूवस्त्रं दद्यादिति। व्रतानन्तरं सूर्याविदे वध्वाः उपयमनकाले परिहितं वस्त्रं दद्यादिति। वृत्तिविद्भिः श्रीमत्प्रयोगरत्नकारैरपि— अथ विवाहोत्तरं दंपत्योः गृहप्रवेशदिनादारभ्य उपक्रम्य ततः शुभेऽह्निस्वस्त्यादि वाचयित्वा स्वलंकृतां वधूमुपगच्छेद्रात्रावित्युक्तम्। धर्मप्रवृत्तौ नारायणः—ऋतुमत्यां तु भार्यायां तत्र संगादिकं चरेत्। अनर्तुमत्यां भार्यायां न संगमिति केचन॥ इति। केचनेति निषेधाभावः सूचितः। कारिकायामपि—स्वस्त्यादि वाचयित्वादाै स्त्रियं तामुपगच्छति। मुहूर्ते शोभने तस्याः क्रीडनं स्याद्यथा तथा॥ इति। व्याख्याता चेयं कारिका व्याख्यातृभिः— व्रतसमाप्त्यनन्तरं मुहूर्ते ब्राह्मणैः स्वस्त्यादि वाचयित्वा नक्तमेव वधूमुपगच्छति स्पर्शादिसंकरीकरोति। यथायं न महारणं तस्याः लालनं चरेत् सुन्दरवचनैः अपेक्षितालंकारवस्त्रादिदानैः प्रीतिमुत्पाद्य लज्जामपनीय परस्पराभिमते विषयोपभोग अनुसरतीति। विवाहप्रकरणे कात्यायनः—त्रिरात्रमक्षारलवणाशिताैस्यातामिति॥

(६) निर्णयसिन्धौ कमलाकरभट्टीये—तथाच प्रथमतोः पूर्वं स्त्रीगमनं न कार्यम्—प्राग्रजोदर्शनात्पत्नीं नेयाद्गत्वा पतत्यधः। व्यर्थीकारेण शुक्रस्यब्रह्महत्यामवाप्नुयात्॥ इति तत्रैव आश्वलायनोक्तेः। एतत्तु दशवर्षात्प्राज्ञेयं। प्रथमऋतौ गमने गौतमेन विशेषो दर्शितः—गौरीमपि च रत्यर्थं गच्छेत्पुरुष आकुलः। अन्यथा

वीर्यपातो हि सहस्रकुलपातकः॥ अन्यदापि तदिच्छया भवतीति विज्ञानेश्वर इति॥

(७) धर्मसिन्धौ काशीनाथीये— चतुर्थीहोमः कौस्तुभे दर्शितः। एनमृक्छारिवनः केचिन्न कुर्वन्ति;प्राग्रजोदर्शनात्पत्नीगमने ब्रह्महत्यादोषोक्तेः किंचित्प्रायश्चितं विधेयमिति भाति ॥ इति।

(८) चन्द्रचूडीये संस्कारनिर्णये— आश्वलायनः— प्राग्रजोदर्शनात्पत्नींनेयाद्गत्वापतत्यधः। व्यर्थीकारेण शुक्रस्य ब्रह्महत्यामवाप्नुयात्॥ इति। एतच्च बह्वृचादिविषयम्। तैत्तिरीयाणां तु रागप्राप्तौ गमनं कार्यमेव ‘शेषं समावेशने जपेदिति’ गृह्योक्तेः। सौदर्शेऽप्येवम्॥ इति ॥

(९) पारस्करगृह्यभाष्येषु जयरामप्रमुखाः— संवत्सरादिविकल्पास्तु शक्त्यपेक्षयाव्यवस्थिताः ज्ञेयाः। संवत्सरादिपक्षाशक्ताै त्रिरात्रपक्षाश्रयेऽपि चतुर्थीकर्मानन्तरं पञ्चम्यादिरात्रावभिगमनं। चतुर्थीकर्मणः प्राक् तस्याः भार्यात्वमेव नोत्पन्नम्॥ विवाहैकदेशत्वात् चतुर्थीकर्मणः इति॥

(१०) वीरमित्रोदये— पारस्करोऽपि—त्रिरात्रमक्षारलवणाशिनौ स्यातामधःशयीताम्। संवत्सरं न मिथुनमुपेयातां द्वादशरात्रं षड्रात्रं त्रिरात्रमन्तत इति। हिरण्यकेश्यपि—त्रिरात्रमक्षारलवणाशिनावधःशायिनावलंकुर्वाणौ ब्रह्मचारिणावासात इति। एषां पक्षाणां व्यवस्थोक्ता ब्रह्मपुराणे—कृते विवाहे वर्षं तु वस्तव्यं ब्रह्मचारिणा। यद्यष्टवर्षा कन्या स्यात् तथा तत् त्रिगुणः पुमान्॥ त्रिगुणः चतुर्विंशतिवार्षिकः। तथा– अथ तद्द्वादशाहानि त्रिंशद्वर्षेण सर्वदा। यदि द्वादशवर्षा स्यात् कन्या रूपगुणान्विता॥ द्वात्रिंशद्वर्षपूर्णेन यदि षोडशवार्षिकी। लब्धा तदा तु षड्रात्रं वस्तव्यं सं-

यतेन तु॥ विंशत्यब्दा यदा कन्या वस्तव्यं तत्र वै त्र्यहं। ऊर्ध्वमहोरात्रं वस्तव्यमतिसंयतैः। अथ चतुर्थीकर्म। तत्र पारस्करः—चतुर्थ्यामपररात्रे अभ्यन्तरतोऽग्निमुपसमाधाय दक्षिणतो ब्राह्मणमुपवेश्य उदपात्रं प्रतिष्ठाप्य स्थालीपाकं श्रपयित्वा आज्यभागाविष्ट्वा आहुतीर्जुहोति। इति॥ हिरण्यकेश्यपि—चतुर्थ्यामपररात्रेऽ

ग्निमुपसमाधाय प्रायश्चित्तपर्यन्तं कृत्वा नव प्रायश्चित्तीर्जुहोति॥ इत्यादि॥

(११) मनुभाष्ये— उक्तो विवाहः। तस्मिन् निवृते समुपयाते दारत्वे तदहरेवेच्छयोपगमे प्राप्ते तन्निवृत्यर्थमिदमारभ्यते। न विवाहसमनन्तरं तदहरेव गच्छेत्। किं तर्हि ऋतुकाले प्रतीक्षेत\। गृह्यकारैस्तु—अत ऊर्ध्वमक्षारलवणाशिनौ ब्रह्मचारिणावधश्शायिनौ स्यातां त्रिरात्रं द्वादशरात्रं संवत्सरं वेति पठितम्। तत्र सत्यपि संवत्सरस्यान्तरापतितै ऋतौ गमनं नास्ति। एवमेते स्मृती अविरोधिन्यौ भवतः। त्रिरात्रादीनां तु विकल्पः। अत्यन्तरागपीडितयोर्गमनं धैर्यवतोस्तु ब्रह्मचर्यम्॥ इति॥

इत्थं शिङ्गाभट्टीयादिप्रयोगग्रन्थेषु सायणीयादिनिबन्धग्रन्थेषु च चतुर्थीकर्मप्रकरणे गर्भाधानप्रकरणे वा कृतो विस्तरः तत एव द्रष्टव्य इति उपरम्यते।

अत्रेदमवधेयं—अखिलमिदं बहुविधं प्रस्थानं अर्थकामपरत्वविकासधर्मपरत्वसंकोचमूलकालस्यादिनिबन्धनम्। तत्र प्रथमं कारणं ब्रह्मचर्यासामर्थ्यम्। तत्र कारणं सुरुचिराहारसेवित्वम्। ततो विद्यावैधुर्यम्। ततश्च युक्ताऽयुक्तविवेकाप्रागल्भ्यम्। दुष्टशिक्षणंकन्यारक्षणासामर्थ्यम्। ततश्च संकुचितायुष्ट्वं सन्तानदर्शनकुतू-

हलित्वं धर्मसत्वरत्वं शुश्रूषसच्छूद्रालाभः गुणवद्वरप्रियत्वातिरेकः इत्यादिकं लोकसिद्धं च निमित्तजातमित्यतिरोहितं प्रेक्षावताम्।

इदं पुनरिहावधेयं— एवंस्थिते वस्तुतत्त्वे प्राप्तवयस्कतोमात्रावगमकेन वैदिकलिङ्गेन विवाह्यकन्यानां वयोविशेषं ये अभिलषन्ति, किमिति न ते अभिलषन्ति वैदिकलौकिकविज्ञानसमयकरणसामर्थ्य—व्रताचरणादिबहुविधार्थगर्भितमन्त्रमन्त्रार्थविज्ञान—तदनुष्ठानसामर्थ्यलक्षणं श्रुतिस्मृतिविहितम् अधिकारं वरस्य वध्वाश्च इति।

अत्र हेमाद्रि-माधव-सार्वभौम-कमलाकर-शङ्करा-नन्तदेव-वैद्यनाथदीक्षित-वैकुण्ठदीक्षितादीनां मते ऋतोः प्रागेव धर्म्यो विवाहः। मेधातिथि— विज्ञानेश्वरादिमते आपदि गुणवद्वरालाभावधिकं ऋतुदोष इति विवेचनेनेदमेव विशदीक्रियते— यत् गुणवद्वरलाभे ऋत्वनन्तरमपि विवाहो योग्य इति केषाञ्चन मतम्। केषाञ्चन तु गुणवद्वरलाभेऽपि ऋतोः प्रागेव विवाहो युक्त इति। अत्रास्माकमिदमेव वक्तव्यम्— यत् बहुषु स्मृतिषु रजस्वलाया वृषलीत्ववर्णनात् व्रात्यानामिव षोडशादिवयसां गतिकल्पनार्थमेव विवाहाभ्यनुज्ञानं प्रायश्चित्तपूर्वकमित्यापत्कल्पतया ऋत्वनन्तरमपि विवाहयोग्यतासमर्थन एव विज्ञानेश्वरादिमतम्, न तु गौणकालतया। मतान्तरे तु वृषल्यास्तस्याः प्रायश्चित्तपूर्वकं विषाहनेनापि संस्थान्तरमेवेति।

तथाच यदि वचनानुसारं ऋतुमतीविवाहोऽभ्यनुज्ञातव्यः, यदि वातादिदोषेण दशमादिवयसि अकस्मादेव ऋतुमती कापि सञ्जाता, तर्हि तस्या एव प्रायश्चित्तपूर्वकं शुद्धजातिसम्बन्ध कल्पनं योग्यम्, न तु धर्मज्ञैरपि गाैणकल्पतया तद्व्यवस्थापनं कर्तव्यमिति। अयमत्र गौणापत्कल्पयोर्विशेषः— यत् गौणकालप-

र्यन्तं न पातित्वम्, किन्तु पापित्वमात्रम्, तस्य मुख्यकालातिक्रमनिमित्तप्रायश्चित्तेननिर्हारः। यत्र तु गौणकालातिक्रमानन्तरं वृषलीत्वादिकं बाधितम्, तत्रापत्कल्पता। तथा चापत्कल्पतयाऽभ्यनुज्ञानं नामाकामादिकृतपातकनिर्हारार्थं प्रायश्चित्तव्यवस्थापनमेव। तथाच यद्यज्ञानात् अकस्माद्वाकन्यर्तुमती, तर्ह्येव तस्या विवाह्यत्वम्, नान्यथा। अन्यथा तु वरस्य वध्वा उभयोरपि पृथक्संस्थैव, प्रायश्चित्तेन व्यवहार्यताया असंभवादिति फलति।

एवंच सति कुत्रचन “हरंस्तां न विदुष्यति” इति, कुत्रचिच्च “तत्पतिर्वृषलीपतिः”॥ इति च स्मरणमप्युपपन्नमेव। कामाकामप्रयुक्तत्वेन हि सर्वमुपपन्नमेव। उपरिष्टाच्चैतत् व्यक्तीभविष्यति।

तथाच विवाहविधिमीमांसागतसमावेशनविचारसमालोचनेऽपीदमेव सिद्ध्यति— यत् समावेशनं ऋतोः प्राक्तनमृतुसमावेशनाद्भिन्नम्, तच्चादृष्टरजस्ककन्यासाधारणमेवेति न चतुर्थीकर्मसमावेशनान्यथानुपपत्त्या रजोऽनन्तरविवाहसाधुतासिद्धिरिति।

॥ इति समावेशनविचारः ॥

त्रिरात्रब्रह्मचर्य विचारः—

अथेदानींत्रिरात्रब्रह्मचर्यविधानपर्यालोचनायामपि रजोऽनन्तरविवाहसिद्धिरित्युपपादयिष्यामः। सर्वेषु गृह्यसूत्रेषु एकरूपेण वधूवरयोः ब्रह्मचर्यविधानं दरीदृश्यते। ब्रह्मचर्यं च व्यवायाभाव इति सुदर्शनादिभिः प्रतिपादितम्। तत्र यदि कन्याविवाह एव शास्त्रसम्मत इति स्यात्, तदा कन्यायां व्यवायप्रसक्तेरेवाभावात् तन्निषेधो वितथ एव

संपद्येतेति तत्सूत्रसार्थक्याय ऋतुमतीविवाहोऽभ्युपगमनीय इति केचिद्वर्णयन्ति।

वयोनिर्णयकारास्तु— कामुकवर्यस्य कन्यायामपि रागप्रसक्तिर्विद्यत एवेति निषेधोपपत्तेः तदनुसारेण ऋतुमतीविवाहसाधनं न युक्तिसहम्। यदि हि कन्यायां राग एव न स्यादिति स्यात्, तर्हि

असंस्कृतां पुष्पहीनां कन्यकां यो द्विजाधमः ।
रन्तुमिच्छति पापात्मा नरकं याति दारुणम् ॥

इति वचनमसंगतार्थकं स्यात्। यदि तु रागसंभवेऽपि प्रवृत्त्यसंभवात् निषेधवैयर्थ्यमित्युच्यते, तदापि प्रवृत्तिपदेन किं प्रवृत्तिसौमान्यस्य ग्रहणम्, उताहो सफलप्रवृत्तेरेवेति विवेचनीयम्।

नान्त्यः, प्रवृत्तिसामान्यस्यैव नरकप्रयोजकत्वात्। प्रथमे—

अप्रौढां कन्यकां विप्रो यभेत्कामातुरोऽन्वहम् ।
तस्यैव नरके वासः कानीनः स्यात्तदुद्भवः ॥

इति वचनेन व्यवायप्रवृत्तिनिषेधस्य कृतत्वादत्राप्युपपत्तेः। यदि तु सफलप्रवृत्तिरेव नरकोत्पादिकेत्याग्रहः, तदपि मैथुनस्य स्मरणाद्यष्टाङ्गविशिष्टत्वेन तत्र तत्र प्रतिपादनात्, योगरत्नाकरे “विपरीतं ब्रह्मचर्यं एतदेवाष्टलक्षणम्” इति वचनानुसारेण एकाङ्गानुष्ठानेऽपिब्रह्मचर्यव्रतभङ्गो भवेदिति कन्यायामपि व्रतभङ्गप्रसक्तेरन्यथोपपत्तिरिति वर्णयन्ति।

तदेतद्विवाहकालविमर्शकारा न क्षमन्ते। यद्यप्यपुष्पवत्यामपि रागः संभवेदेव, उक्तमार्कण्डेयवचनानुसारात्, तथापि प्रवृत्तिसामान्यन्तु न संभवेदेव। न चोक्तदेवलवचनविरोधः ; तत्र प्रौढामित्यस्य योगरूढ्या परिणीतायां प्रसिद्धस्य पुष्पवतीपरत्वोपपादनासंभवात्। यदि तु योगरूढाैमानाभावेन प्रौढाशब्दस्य पुष्पवत्य-

मेव लोके प्रयोगदर्शनेन च पुष्पवतीपरत्वमेवाङ्गीकरणीयमित्याग्रहः, तदाऽस्तु नामान्यत्र तादृशार्थग्रहणम्। अत्र तु वाक्ये तादृशार्थग्रहणं न संभवत्येव। “कानीनः स्यात्तदुद्भवः” इति वाक्यविरोधात्। अपुष्पवत्यां पुत्रोत्पत्तिसंभावनाया अप्यसंभवात्। तदनेनैव वचनेन स्पष्टमवगम्यते पुष्पवत्यपि अविवाहिता कन्याशब्दव्यवहार्या इति। एवं च “अप्रौढां कन्यकां विप्रो यभेत्कामातुरोऽन्वहम्” इत्यत्राप्रौढापदेनाविवाहिताया एव ग्रहणमिति। अपुष्पवत्यां व्यवायप्रवृत्तिर्न संभवत्येवेति त्रिरात्रब्रह्मचर्यविधानान्यथानुपपत्त्या ऋतुमतीविवाहोऽपि शास्त्रीय इत्येवाङ्गीकरणीयम्। इति। माधवाचार्या अपि—कन्याशब्दोऽविवाहितापरः, नाष्टवर्षादिबालिकापरः,वृद्धादिष्वपि भारतादौ कन्याशब्दप्रयोग-दर्शनात्—इति वदन्तोऽस्माकमनुकूलाः। “कन्यायाः कनीन च” इति सूत्रस्थं भाष्यमपि अस्मदनुकूलम्। तत्र हि भाष्ये—कन्या शब्दः; पुंसाऽभिसम्बन्धपूर्वके संप्रयोगे निवर्तते, या तु प्रागभिसम्बन्धात्पुंसा सह युनक्ति, कन्यैव साऽभिमता—इत्युक्तम्। एवं चाविवाहितस्त्रीपरत्वमेव उक्तभाष्यात् प्रतीयते। एवं च ऋतुमत्यामप्यविवाहितायां कन्याशब्द-प्रवृत्तिर्विद्यत एव।

ऋतुस्नाता तु या शुद्धा सा कन्येत्यभिधीयते।

इति वचनमपीदानीमनुकूलमिति।

अप्रौढां कन्यकां विप्रो यभेत्कामातुरोऽन्वहम्।

इति वचनं ऋतुमतीविवाहविषयमेवेत्येव वर्णनीयमिति रजस्वलाविवाहः शास्त्रीय एवेति।

परे तु—“अप्रौढां कन्यकां विप्रः” इत्यत्र कन्यकाशब्देनैवाविवाहितार्थलाभे पुनः प्रयुक्तस्य अप्राैढापदस्य तदर्थ-कल्पनासंभ-

वात् योगरूढिकल्पने च प्रमाणाभावात् अपुष्पवतीयभनदोषत्ववर्णन एवोक्तदेवलवचनतात्पर्यमभ्युपगमनीयम्। न च “कानीनः स्यात्तदुद्भवः” इति वाक्यशेषविरोधो भवतीति शङ्कनीयम्; यथा प्राग् विवाहादृतुमत्या यभनं निषिद्धम्, तथा विवाहतः परमपि रजोदर्शनतः पूर्वं तद्यभनं शास्त्रनिषिद्धमिति प्रथमायां समुचितकाले समुत्पन्नस्येव द्वितीयस्यां समुचितकाले समुत्पन्नस्यापि कानीनत्वबोधनद्वारा विवाहिताया एव पुष्पवत्याएव यभनं बोधयतां देवलाचार्याणां बालिकायामपि यभननिषेध एव तात्पर्येण तद्वत् त्रिरात्रब्रह्मचर्यविधानस्यापि उपपत्त्या तदन्यथानुपपत्तिप्रमाणस्य नावसरः। नन्वेवं सति अक्षतयोनित्वात् कथमपत्यसंयोग इति “कन्यायाः कनीन च” इतिसूत्रभाष्यप्रदीपयोः कथमुपपत्तिरिति चेत्, एवम्, यदा तु कन्यात्वं तदा पतियोगो न, यदा पति योगः, तदा कन्यात्वं नेति हि पूर्वः पक्षः। तदस्मन्मतेऽपि न विरुद्धम्; अस्माभिरपि समुचितकाले समुत्पन्नस्यैव कानीनत्ववर्णनात्।

अथोच्येत—एवं सति भाष्यकारैरपि प्रागभिसम्बन्धात् प्राग्रजोदर्शनाच्चेति खलु वक्तव्यं स्यात्। ते तु विवाहपूर्वकालिकं पुंसंयोगमात्रं कन्याशब्दार्थतावच्छेदकतया विवक्षयन्ति। तत्र यदि भाष्यकाराणामपि भवदीयं मतं सम्मतं स्यात्, तदा किमिति रजोदर्शनतः पूर्वं वेति न वर्णयेयुरिति सिद्धान्तभाष्यविरोधः सम्भवत्येवेति।

तत्रेदं समाधानम्—भाष्यकाराश्चापि ऋतुदर्शनतः पूर्वमेव विवाहमभिप्रयन्ति, न तु शास्त्रविरुद्धं ऋतुमतीविवाहम्। “अभिसम्बन्धपूर्वके संयोगे निवर्तते” इति भाष्ये हि संयोगपदेन शास्त्री-

यर्तुसमावेशनमेव विवक्ष्यते। विवाहं विना च संयोगे विशिष्टाभावात् कन्याशब्दः प्रवर्तते। विवाहपूर्वकनिषिद्धसंयोगे च विशेष्याभावात् कन्याशब्दः प्रवर्तत इति रजोदर्शनतः पूर्वं वेत्यनुक्तमिति तादृशार्थ एव पर्यवसानमिति न कोऽपि दोषः।

अयमाशयः—किं भाष्यकाराणामपि ऋतुमतीविवाह एव तात्पर्यं कल्प्यते, न; ऋतुमतीविवाहेऽपि तात्पर्यस्यैव कल्पनादितिचेत्, तत्रेदंप्रष्टव्यम्—किं बालिकानां विवाहितानां पुंसंयोगेऽपि न दोष इति भाष्यकाराशयः, उत तासामपि तत्संयोगो दोषायैवेति। “जातलोम्न्या सह संविशेत” इति वचनानुसारेण दोषो नैवेति कल्पने च निषिद्धस्यापि सङ्गमस्य निषेधोल्लङ्घनेनाचरणे को वा दोष इति चेत्, तत्पुत्रस्य कानीनत्वापत्तिरिति वक्तव्यम्। तत्र च प्रमाणं “अप्रौढां कन्यकां विप्रो यभेत्कामातुरोऽन्वहम्” इति वचनमेव। तत्र यदि पुष्पवत्या अविवाहितायाः पुंसंयोगेन समुचितकाले समुत्पन्नस्यैव कानीनत्वमत्र प्रतिपाद्यते; तदा प्रौढापदवैयर्थ्यम्। अप्रौढापदेनाविवाहार्थविवक्षायां कन्यकाशब्दवैयर्थ्यमिति भवन्मते दोषः। कन्यकाशब्देनापुष्पवतीग्रहणेऽपि अस्मन्मार्गेणैव समायातम्।

अस्मन्मते तु—विवाहितायामपुष्पवत्यां पुंसंयोगे समुचितकाले समुत्पन्नस्यैव कानीनत्वं प्रतिपाद्यत इति न वैयर्थ्यम्। अभिसम्बन्धे कन्याशब्दो निवर्तते इति वक्तव्ये तत्पूर्वके संयोग इति गुरुतरमार्गादरणस्यापि इदानीमेव प्रयोजनमिति न कथञ्चिदपि भाष्यकारा अशास्त्रीयमार्गानुसारिण इति कल्पयितुं शक्यते।

अयमभिप्रायः—अविवाहितायां पुष्पवत्यां पुंसंयोगे प्रायश्चित्ते चाकृते विवाहानन्तरमुत्पन्नः पुत्रः कानीनो वा नवेति विचा-

रणायां कानीन एवेति वर्णनीयमिति यथा, तथा विवाहितायामपि रजोदर्शनतः पूर्वंपुंसंयोगे अकृते च प्रायश्चित्ते समुचितकाले समुत्पन्नः कानीन इत्येवाङ्गीकरणीयम्। एवं चोक्तदेवलवचनसिद्धान्तानुवादके भाष्येऽपि प्रागभिसम्बन्धादित्यस्य प्राग्रजोदर्शनाच्चेत्येतदुपलक्षणत्वेन वाप्युपपत्तिर्वर्णनीयेति न कोऽपि विरोधः।

असंस्कृतां पुष्पहीनां कन्यकां यो द्विजाधमः ।
रन्तुमिच्छति पापात्मा नरकं याति दारुणम् ॥

इति वचनस्य प्रवृत्तिपर्यन्तपरत्वाङ्गीकार एव समुचितकल्प्यमानार्थकद्वयानुसारेण त्रिरात्रब्रह्म-चर्यविधानोपपत्तिवर्णनं युक्तमिति न कथञ्चिदपि ऋतुमतीविवाहशास्त्रीयतावादः सिद्ध्येत्।

यदपि चोक्तम्—कन्याशब्दोऽविवाहितापर इति। तदप्येतेन परास्तम्; उक्तमार्कण्डेयवचने असंस्कृतामिति-पदवैयर्थ्यापत्तेः।

किञ्चात्र भवान् पृष्टो व्याचष्टाम्—किं कन्याशब्दप्रवृत्तिनिमित्तमविवाहितत्वमिति भवदाशयः? उताहो प्रवृत्तिनिमित्तान्तरे सत्यपि अविवाहित्वधर्मपुरस्कारेण कन्याशब्दस्य गौण्यादिना वृद्धादीनां साधारण्येऽपि प्रयोगो युज्यत इति? तत्र न तावत् प्रथमः कल्पः सम्भवति; कन्याकुमारीशब्दयोः पर्यायत्वानुसारेण उभयोरपि समानप्रवृत्तिनिमित्तकत्वस्यावश्यं वर्णनीयत्वेन कुमारीशब्दस्येव कन्याशब्दस्यापि कौमारवयःप्रवृत्तिनिमित्तकत्वमेव युक्तमितिअविवाहितत्वमेव प्रवृत्तिनिमित्तमिति वर्णनासम्भवात्। तत्रैवं सति कन्याकुमारीशब्दयोः पर्यायत्वे सत्यपि “अष्टवर्षा भवेत्कन्या” इत्यादिवचनं किमर्थमिति चेत् “कन्यां ददद् ब्रह्मलोकम्” इति विहितफलविशेषसम्बन्धबोधनार्थं परिभाषीकरणमिति ब्रूमः। यथा श्येनादिशब्दानां लोकेऽर्थान्तरप्रत्यायकत्वे

सत्यपि यागविशेषपरत्वे ससंभाषणं फलविशेषसम्बन्धबोधनार्थम्। उपपादितं चैतन्माधवाचार्यैः पराशरस्मृतिव्याख्याने। एवं चमाधवाचार्या अप्यस्माकमनुकूलाः। भवन्मते तु फलकथनादौ सोपयुक्तेति वचनस्वारस्यभङ्गो दुष्परिहर एवेति भवन्त एव विदांकुर्वन्तु। एवं च कन्याशब्दस्य अष्टवर्षादिबालिकापरस्यापि अविवाहितत्वसामान्यात् दैवात् दृष्टरजसिसाहसेन पित्रादिभिरदत्तायां स्त्रियामपि गौण्या वृत्त्या प्रयोगोपपादन एव माधवाचार्याणां भाष्यकाराणां चाशय इति न कोऽपि विरोधः। पातञ्जलभाष्यं हि न तावत्कन्याशब्दार्थोऽयमेवेति सिद्धान्तयितुं प्रवृत्तम्, किन्तु कन्याशब्देन गौण्या लक्षणया वा अपत्यसम्बन्धयोग्यस्त्रीव्यक्तिरपिग्रहीतुं शक्यत इति बोधयतुम्। अन्यथा प्रागभिसम्बन्धतः पुंसंयुक्तायामेव कन्यापदार्थत्वापत्त्या पुंसंयोगानन्तरमपि विवाह इत्यपि कल्पनापत्तेः। एवं चेत् दैववशात् या पुष्पवतीसंवृत्तापि पित्रादिभिर्नदत्ता तस्याः स्वयं वरणतः पूर्वं पुंसंयोगेऽपत्यसम्बन्धो भवेदित्यविवाहितत्वसामान्यात् तस्या अपि कन्याशब्देन गौण्या वृत्त्योपस्थितिर्भवत्येवेति न दोषः। यदि त्वनतुमत्यामपि तपोविशेषादिमत्पुरुषसंयोगेन कुन्त्यामिवापत्यसम्बन्धो भवेत् तदा गौण्याश्रयणमावश्यकमिति पक्षान्तरानुसरणमन्येत्विति। स्पष्टतरमेव च कुमारीशब्दस्य गौण्या वृत्त्या युवतिपरत्वं व्यवस्थापितं “वयसि प्रथमे” इति सूत्रे। यदि तु कन्याकुमारीशब्दयोः युवतिसाधारणिकापि वृत्तिः स्यात्, तर्हि भाष्यकारैः किमिति गौण्याश्रयणं कृतम्? यत्तूक्तंविवाहकालविमर्शकारैः—कुमारीत्यत्र प्रकृतेरप्राप्तयौवने पुंसि शक्तत्वेन प्रत्ययविशिष्टस्य युवतिपरत्वं गौणमेवेति युक्तम्। कन्याशब्दे तु तथाऽभावान्न गौणतेति अकृ

तविवाहयुवत्ययुवतिसाधारण एव कन्याशब्द इति। तत्रेदं चिन्त्यम्—कुमारीशब्दस्य प्रकृतिभूतस्य कुमारशब्दस्याप्राप्तयौवने पुंसि शक्तिरिति पुंस्त्वादिलिङ्गस्य कस्यापि प्रातिपदिकशक्यतावच्छेदककोटावप्रवेशादप्राप्तयौवनमेवशक्यतावच्छेदकम्, लिङ्गत्वं त्वन्यतो लभ्यमिति न प्रवृत्तिनिमित्तकोटिं प्रविशति। “अनन्यलभ्यः शब्दार्थः” इति न्यायात्। अन्यथा सर्वेषां स्त्रीलिङ्गानामपि स्त्रीत्वादिबोधनविषये गौणत्वापत्तिरित्यन्यत्र विस्तरः। एवं चकन्याशब्दस्यापि अप्राप्तयौवनमेव प्रवृत्तिनिमित्तमिति गौण्यादिनैव युवतिपरत्वमुपपादनीयम्; विशेषाभावात्। ‘कन्या कुमारी गौरी तु” इति कोषस्यचेदानीमुपपत्तिर्भवति। प्रवृत्तिनिमित्तभेदे पर्यायत्वाभावेन तथा निर्देशस्यासाङ्गत्यापत्तेः। तुशब्दस्तु गौरीनग्निकाशब्दयोर्भिन्नप्रवृत्तिनिमित्तयोः कन्याशब्दवारणार्थमित्येव स्वरसतः प्रतीयते। “वयसि प्रथमे” इति सूत्रे कुमारीशब्दं प्रकृत्य प्रवृत्तं “सम्बन्धादेव वयो गम्यते इति वाच्यवाचकलक्षणसम्बन्धेन वयो गम्यते " इत्यर्थकं भाष्यमुपपन्नं भवति। यद्यपि तत्रैव भाष्ये “कोऽसौ सम्बन्धः? पुंसो सहाभिसंयोगः” इति पुंसंयोगरहित एव कुमारीशब्दार्थः इत्यप्युक्तम्, तथापि तस्य भाष्यस्य पूर्वपक्षभाष्यत्वात् गोनर्दीयस्त्वाहेति सिद्धान्तभाष्यानुसारेणैव उपपत्तिवर्णनं युक्तमिति न दोषः। यथा च पुंस्त्वविशिष्टाप्राप्तयौवनशक्तिकत्वादिकं नोपपादयितुं शक्यते, तथा पूर्वमेव निरूपितम्। सर्वथा चासति बाधके कन्याशब्देनाक्षतयोनेरेव ग्रहणं युक्तम्। अत एव—

अकन्येति तु यः कन्यां ब्रूयात् दोषेणमानवः ।
स शतं प्राप्नुयात् दण्डंतस्या दोषमदर्शयन् ॥

इतिमनुस्मृतिव्याख्यानावसरे “नेयं कन्याऽक्षतयोनिरिति योब्रूते” इति कुल्लूकभट्टव्याख्यानमपि संगतं भवति। सर्वथा कन्याशब्दार्थो न युवतिरिति सिद्धम्।

नैष कन्या न युवति नाल्पविद्यो न बालिशः ॥ इति ॥
कन्यायुवत्योः पृथक्शब्देन ग्रहणादित्यन्यत्र विस्तरः ॥

यत्तु विवाहविधिमीमांसायाम्—

क्षतयोनिपदं किं पुरुषसंबन्धप्रवृत्तिनिमित्तकं आहोस्वित् कुसुमप्रवृत्तिनिमित्तकमिति जिज्ञासायां व्याप्यधर्मपुरस्कारेणैव अशेषप्रामाणिकव्यवहाराणां उपपत्तावुपलब्धौ च निरर्थकातिप्रसङ्गाप्रसङ्गावहव्यापकधर्मपुरस्कारस्यानौचित्यात्। ‘अकन्येति तुः यः कन्यां’ इत्यत्र मनुटीकास्वेवेत्थं व्यवहारः। कुल्लूकः—अकन्येति नेयं कन्या क्षतयोनिरिति द्वेषेण यो मनुष्यो वदतीति। मेधातिथिः—अकन्यावृत्तमैथुनसम्बन्धा। राघवानन्दः—अकन्या केनापि क्षतयोनित्वात्। नन्दनः—अकन्या क्षतयोनिः ‘असपिंडा च या मातुः’ इत्यत्र अमैथुनी अक्षतयोनिरिति “विधिवत्प्रतिगृह्यापि” इत्यत्र विप्रदुष्टांक्षतयोनिमिति। तथा ‘असंविज्ञातोपसङ्गमनात् पैशाचः’ इति गौतमधर्मस्य मस्करिभाष्ये उपसंगमनशब्द उपगमनार्थेषु आलिङ्गनादिषु द्रष्टव्यः; क्षतयोनेः संस्काराभावात्। तथामनुः—

“पाणिग्रहणिका मन्त्राः कन्यास्वेव प्रतिष्ठिताः”।

तथा—

“अक्षतायां क्षतायां वा, अक्षताच क्षताचैव "
इत्यत्र—“क्षता संस्कारात्प्रागेव पुरुषसंबन्धदूषिता”
॥ इति ॥

तथा व्यवहारे—कन्यादूषणप्रकरणे ‘कन्यामङ्गुलिप्रक्षेपयोगेन योनौ क्षतवतीं कुर्वन्” इति च मिताक्षरा। अंगुलीप्रक्षेपादि-

ना योनिक्षतं कुर्वन् दूषयतीत्यर्थः इति सुबोधिनी च। तथा—शिष्टाकोपाधिकरणे राणके च “ईश्वरेण पञ्च ते पतयो भविष्यन्तीत्युक्ते पुरुषसंयोगजयोनिक्षताभावरूपं कौमारं प्रार्थितमिति अभिधानात् प्रत्यहं अक्षतयोनित्वरूपं कौमारं तस्याः सूचितमिति मत्वा जगाद विप्रर्षिःकृष्णद्वैपायनः” इति॥

तथा – “कन्यामृतुमतीं दृष्ट्वा, पितुर्गेहे तु या कन्या रजः पश्यति” इत्यादौ कन्यर्तुमतीशब्दयोः सामानाधिकरण्यं दृश्यते। इत्थं प्रामाणिकविशदतमशिष्टपरिग्रहबहुग्रन्थसद्भावेऽपि अत्रापि पदार्थे ये परिभ्रमन्ति आगृह्णन्त्यपि वा किंपुनस्ते अन्यत्र अतिगहने वा शास्त्रार्थे इत्यन्यदेतत् ॥

इति विवेचितम्, तेन हीदं गम्यते—यत् ऋतुमत्यपि पुरुषसम्बन्धात् पूर्वं कन्याशब्दार्थो भवितुमर्हतीति विवाहविधौ स्मृतिषु मन्त्रेषु च तत्र तत्र कन्याशब्दप्रयोगो नर्तुमतीविवाहसाधुताविरोधीति। अत्रेदमेवालोचनीयम्–क्षतयोनित्वं हि पुरुषसम्बन्धमात्रं वा, उत तत्सम्बन्धविशेषो वा? आद्ये तु कौमाराद्यवस्थायामपि तत्सम्बन्धं ऋतोः प्राक्कालिकमादायापि क्षतयोनित्वं भविष्यतीति मुख्यार्थाविरोधेनैवोपपत्तिर्युक्ता। द्वितीये तु पुरुषसम्बन्धविशेषे कन्यात्वनिवृत्त्यापत्या ‘कानीनः स्यात्तदुद्भवः’ इति विरुद्धमापद्यते। न हि असंसृष्टपुरुषसम्बन्धविशेषावस्थायां कन्यात्वावस्थायां कानीनसंभवशङ्कापि। ततश्च कुत्रचिदविवाहितत्वधर्मपुरस्कारेण कन्याशब्दप्रयोगस्य गौणयैवोपपत्त्या नाविवाहितस्त्रीपरत्वं कन्याशब्दस्य युक्तम्। पूर्वोक्तविधया हि विवाहचतुर्थदिनेऽदृष्टार्थसहशयनमात्रस्य ऋतोः प्रागप्यत्यावश्यकत्वादृतोः प्राक्कालिकपुरुषसम्बन्धे वैधे तत्सजातीयेऽवैधे दशमादिवयसि तर्कालंकारो-

क्तरीत्या रागप्राप्ते वा न विवाहयोग्यत्वमित्येवाशयो विवक्ष्यते। तथाच “दशवर्षा भवेत्कन्या” इतिवचनानुसारेण दशवर्षाया एव कन्याशब्दार्थत्वं युक्तम्। तस्यामपि पूर्वोक्तप्रकारेणर्तोःप्रागपि क्षतयोनित्वमपि संभवतीति ‘अर्यमणं तु देवं कन्या अग्निमयक्षत’ इति मन्त्रवर्णस्वारस्यमपि अनृतुमतीविवाह एव वर्तते, नर्तुमतीविवाह इति सिद्धम्।

अयं भावः—कन्याशब्दस्य हि कुत्रचनाविवाहित्वसामान्येन वृद्धायामपि प्रयोगो वर्तते, कुत्रचिच्चाष्टमादिवयस्कायाम्। तत्र विवाहमन्त्रेषु कन्याशब्दोऽविवाहितापरः उताष्टवर्षाद्यनृतुमतीपर इति संशये तु “दशवर्षा भवेत्कन्या” इति वचनात् दशवर्षापरत्वमेव युक्तम्। वाक्यशेषस्य यववराहाधिकरणन्यायेन नियामकत्वस्य युक्तत्वात्। एवं च सति दशवर्षपर्यन्तं विवाहयोग्यावबोधन एवमन्त्रलिङ्गस्वारस्यं वर्तत इति ‘अर्यमणं तु देवं कन्या अग्निमयक्षत” इति मन्त्रलिङ्गमृतुमतीविवाहसाधुताविरोधीति सिद्धम्॥

एवं च “अप्रौढां कन्यकां विप्रः” इति वचनानुसारेणापुष्पवत्यामपि व्यवायप्रवृत्तिर्भवेदेवेति सिद्धत्वात् “त्रिरात्रं ब्रह्मचर्यम्” इति सूत्रयतां सर्वेषामेवाचार्याणां रजोऽनन्तरविवाह-तात्पर्यकल्पनमिति वृथैव विवाहकालविमर्शकाराणामिह क्लेशः। अस्तु वा भवदीयव्याख्यानमेव समुचितमिति। तावतापि कन्यायामपि रागतो व्यवायप्रवृत्तिरुपपादयितुं शक्यत एव। यतो “नाजातलोम्न्यासह संविशेत्” “जातव्यञ्जनयातु स तयासह संविशेत्” इत्यादिवचनपर्यालोचनया तादृशार्थः सिद्ध्यतीति न कोऽपि दोषः। स च व्यवायः सफलो वा भवत्वफलो वा, व्यवायत्वेनैव खलु व्यवायस्य निषेधः, न तु सफलव्यवायत्वेन। एतेन गृह्यसू-

त्रान्तराण्यपि व्याख्यातानि भवन्ति। लोकज्ञास्त्वोभयत्रापि प्रमाणमेव। केषाञ्चन जनानां कन्यायामपि रागतः प्रवृत्तिर्दृश्यते। केषाञ्चन विरक्तानां ऋतुमत्यामपि न व्यवायार्थं प्रवृत्तिर्दृश्यते, न तु सर्वेषामेवेति कथञ्चिदपेक्षितयुवतिविवाहसिद्धिः। ये तु पुनःपंडितास्तत्त्वज्ञानसम्पन्नाश्च, तेषामपि शास्त्रार्थान्यथानयने बहुविधाधर्माचरणे च प्रवृत्तिदर्शनेन युक्तायुक्तविवेकसम्पन्नानां श्रुताध्ययनसम्पन्नानामपि रहसि व्यवायप्रवृत्तेःसम्भाव्यमानतया निषेध आवश्यक एव। श्रुताध्ययनसम्पन्नानामेव च धर्माचरणादावधिकारात् तद्धर्माचरणेनैव लिङ्गेन श्रुताध्ययनसम्पत्तिनिश्चय इति धर्माचरणे श्रुताध्ययनसम्पन्नत्वमपि न स्यादेवेत्युच्यते, तर्हि इदानीन्तनशास्त्र-विचारादिकं सर्वमपि निष्पयोजनम्। नहि कोऽपि श्रुताध्ययनसम्प्रन्नो धर्माचरणमात्रबहुपक्षपातश्च पण्डितेषु पामरेषु वाविद्यते। यथा च विवाहाङ्गसमावेशनानां न दृष्टद्वारा पुत्रार्थत्वम्, तथा पूर्वमेव निरूपितम्। “पुत्रार्थो हि विवाहः” इत्यादिमिताक्षरावचनात् पुत्रो विवाहफलमिति नाभिप्रायः, किन्तु पुत्रसम्पादनस्य व्यवायसाध्यतया व्यवायस्य च स्वदारेष्वेव शास्त्रबोधितत्वात् तदर्थदारत्वसम्पादनार्थं विवाह इत्यत्रैव तात्पर्यात्। उपपादितं चैतत् बहुविवाहवाद इति तत एव द्रष्टव्यम्।

एतेन—ब्रह्मचर्यविधानान्यथानुपपत्त्या युवतिविवाहसाधनं युक्तमेवेति विवाहकालविमर्शकारवचनमपि परास्तम्। अत्र चविषये बोधायनादिवचनानि विवाहकालविमर्शत एव द्रष्टव्यानीति ग्रन्थविस्तरभयान्नोपक्षिप्तानि।

नन्वेवमपि “त्रिरात्रमुभयोरधःशय्या” इत्यत्रोभशब्दग्रहणं वितथं भवति; यावता कन्याविषयो निषेधो निरर्थकः, तस्य व्यवा-

ऽपि समावेशनस्य वैधत्वावगमात् तदनुसारेणानुष्ठितसमावेशनेनापि व्रतभङ्गो न स्यादित्युभयोरपि ब्रह्मचर्य-विधानमावश्यकमिति उभग्रहणसार्थक्यं ऋतुमतीविवाह एव सिद्ध्यतीति रजोऽनन्तरविवाहः शास्त्रीय इत्येवाभ्युपगन्तव्यमिति—वर्णयन्ति।

परे तु—चतुर्थीकर्मतः पूर्व भार्यात्वमेव न सिद्ध्यतीति पारस्करहरिहरभाष्ये प्रतिपादितत्वेनर्तुकालत्वेऽपि त्रिरात्रं वैधोपगमनस्य प्रसक्त्यभावात् समावेशनानुष्ठानेऽपि व्रतभङ्गाभाववर्णनासम्भवात् वरमात्रस्य ब्रह्मचर्यविधानेऽपि स्वेष्टसिद्ध्योभग्रहणवैयर्थ्यं तदवस्थमेवेति विवाहकालविमर्शकारैरपि क्षारलवणवर्जनपदार्थेन साकमेवान्वयो-ऽङ्गीकरणीय इति न कथञ्चिदपि तदन्यथानुपपत्तिप्रमाणस्यावकाशः। यद्यपि “पतित्वं सप्तमे पदे” इति सप्तपदीगमनमात्रेण भार्यात्वादिसिद्धिः, तथापि यथा—

चित्रकर्म यथा रङ्गैः सर्वैःसम्यक् प्रपूर्यते ।
ब्राह्मण्यमपि तद्वत्स्यात्संस्कारैर्विधिपूर्वकैः ॥

इति वचनेन ज्योतिष्टोमाद्यनुष्ठानेनैव पूर्णब्राह्मण्यसिद्धिरिति स्थितेऽ

पि ततः पूर्वमपि किञ्चिन्न्यूनं ब्राह्मणत्वं विद्यते, तत एव च तस्य मन्त्राधिकारः, एवमग्निसन्धानार्थमपेक्षितभार्यात्वं सप्तपदीगमनमात्रेण सिद्धमपि वैधोपगमनोपयुक्तं भार्यात्वं साङ्गविवाहेनैव जन्यत इति न विरोधः।

अयं भावः—सर्वदेशकालावच्छेदेन दारेतरसमावेशनिषेधशास्त्रेणैवविवाहसम्बन्धित्रिरात्राव-च्छेदेनापि वधूसंगमनिषेध-सिद्धिसंभवात् कथं ब्रह्मचर्यविधानमिति चेत्, ऋतुमतीविवाहवादिभिरेवं परिहर्तव्यम्—यथा “नानृतं वदेत्” इति सामान्यनिषेधे सत्यपि श्रूयमाणस्य “तस्मादाहिताग्निर्नानृतं वदेत्” इतिवचन-

यप्रवृत्तेः कथंचिदुपपादनासंभवात्। तद्ग्रहणसार्थक्याय वधूविषयेऽपि प्रवृत्तिसम्भावनाङ्गीकरणीयेति तस्या युवतिभाव एव तदुपपत्त्या युवतिविवाहः शास्त्रीय इति सिद्ध्यत्येवेति चेत्, अत्र वयोनिर्णयकाराः— आपत्कल्पतयाद्वादशादिवयस्काविवाहस्यापि शास्त्रीयत्वाभ्युपगमात् तत्रोभयोरपि ब्रह्मचर्यविधिरावश्यक एव। संकोचे प्रमाणाभाव इति चेत्, उभयोरित्यंशस्य क्षारलवणवर्जमित्यनेन साकमन्वय इति वरमात्रस्य ब्रह्मचर्यविधानमिति वर्णयितुं शक्यते इति न कोऽपि विरोध इति वर्णयन्ति।

विवाहकालविमर्शकारास्तु— उभयोरित्यस्य क्षारलवणवर्जमित्यनेनैव साकमन्वय इति कल्पने प्रमाणाभावः। प्रमाणसत्त्वेऽपि रजोऽनन्तरविवाहपक्षेऽप्युपपत्तिर्भविष्यति; समावेशनान्यथानुपपत्त्या तस्य साधितत्वात्। वस्तुतस्तु उभयोरित्यस्य ब्रह्मचर्यपदार्थेन साकमन्वयोऽङ्गीकरणीय एव। वरमात्रस्य ब्रह्मचर्यविधाने विवाहमध्य एवर्तुकालसम्पत्तौ नियमेन समावेशनं कर्तव्यं स्यात्। एवमपि ब्रह्मचर्यव्रतभङ्गो न सम्भविष्यति। यथाश्राद्धदिने ब्रह्मचर्यविधानेऽपि ऋतुकालत्वे समावेशनं कर्तव्यमेव। उपपादितं चैतत् “षोडशर्तुनिशाः स्त्रीणां तासु युग्मासु संविशेत्” इति श्लोकव्याख्यानावसरे मिताक्षरायाम्। उभयोश्चापि तद्विधाने ऋतुकालत्वेऽपि नाभिगमनं कर्तव्यमिति उभशब्दग्रहणसार्थक्यसम्भवः। एवं च रजोऽनन्तरविवाहशास्त्रीयतायामेवोक्तसूत्रतात्पर्यमङ्गीकरणीयम्।

यथाकामी भवेद्वापि स्त्रीणां वरमनुस्मरन् ।
स्वदारनिरतश्चैव स्त्रियो रक्ष्यायतः स्मृताः ॥

इत्यादिवचनानुसारेण योषाभ्यर्थनायां ऋतुकालभिन्नकाले-

ऽपि समावेशनस्य वैधत्वावगमात् तदनुसारेणानुष्ठितसमावेशनेनापि व्रतभङ्गो न स्यादित्युभयोरपि ब्रह्मचर्यविधानमावश्यकमिति उभग्रहणसार्थक्यं ऋतुमतीविवाह एवसिद्ध्यतीति रजोऽनन्तरविवाहः शास्त्रीय इत्येवाभ्युपगन्तव्यमिति—वर्णयन्ति।

परे तु—चतुर्थीकर्मतः पूर्व भार्यात्वमेव न सिद्ध्यतीति पारस्करहरिहरभाष्ये प्रतिपादितत्वेनर्तुकालत्वेऽपि त्रिरात्रं वैधोपगमनस्य प्रसक्त्यभावात् समावेशनानुष्ठानेऽपि व्रतभङ्गाभाववर्णानासम्भवात् वरमात्रस्य ब्रह्मचर्यविधानेऽपि स्वेष्टसिद्ध्योभग्रहणवैयर्थ्यं तदवस्थमेवेति विवाहकालविमर्शकारैरपि क्षारलवणवर्जनपदार्थेन साकमेवान्वयोऽङ्गीकरणीय इति न कथञ्चिदपि तदन्यथानुपपत्तिप्रमाणस्यावकाशः। यद्यपि “पतित्वं सप्तमे पदे” इति सप्तपदीगमनमात्रेण भार्यात्वादिसिद्धिः, तथापि यथा—

चित्रकर्म यथारः सर्वैः सम्यक् प्रपूर्यते ।
ब्राह्मण्यमपि तद्वत्स्यात्संस्कारैर्विधिपूर्वकैः ॥

इतिवचनेन ज्योतिष्टोमाद्यनुष्ठानेनैव पूर्णब्राह्मण्यसिद्धिरिति स्थितेऽपि ततः पूर्वमपि किञ्चिन्न्यूनं ब्राह्मणत्वं विद्यते, तत एव च तस्य मन्त्राधिकारः, एवमग्निसन्धानार्थमपेक्षितभार्यात्वं सप्तपदीगमनमात्रेण सिद्धमपि वैधोपगमनोपयुक्तं भार्यात्वं साङ्गविवाहेनैव जन्यत इति न विरोधः।

अयं भावः— सर्वदेशकालावच्छेदेन दारेतरसमावेशनिषेधशास्त्रेणैव विवाहसम्बन्धित्रिरात्रावच्छेदेनापि वधूसंगमनिषेधसिद्धिसंभवात् कथं ब्रह्मचर्यविधानमिति चेत्, ऋतुमतीविवाहवादिभिरेवं परिहर्तव्यम्— यथा “नानृतं वदेत्” इति सामान्यनिषेधे सत्यपि श्रूयमाणस्य “तस्मादाहिताग्निर्नानृतं वदेत्” इतिवचन-

स्यानृतवदनाभावदर्शपूर्णमासयोरङ्गाङ्गिभावबाधकत्वेनोक्तसूत्रसार्थक्यमिति। तत्रैवं सति कन्याविवाहवादिभिरपि “न जातलोम्न्या सह संविशेत्’ इतिवचनसिद्धस्यापि तदुपगमनाभावस्य विवाहाङ्गत्वसिद्ध्यर्थं त्रिरात्रब्रह्मचर्यविधानमिति संभवात् नान्यथानुपपत्तिप्रमाणस्यावकाशः। यथा च समावेशनान्यथानुपपत्त्यान प्रौढाविवाहसिद्धिः, तथा पूर्वमेव विवेचितम्। एवं तस्यासिद्ध्या तद्विषयकत्वेनापि क्षारलवणवर्जनयाजनमप्यसंगतमेव। यथा च समावेशनोपयुक्तभार्यात्वं सप्तपदीगमनमात्रेण नोत्पद्यते, तथा पूर्वमेव निरूपितम्। समावेशनं नाम वध्वा सह मैथुनार्थं शयनमिति वधूपदं प्रयुञ्जानः सुदर्शनाचार्योऽप्यत्राकूलः। यथा पारस्करहरिहरा वार्याः। अत्र च विषये बहूपपादनीयं समस्ति। तच्चसत्यवसरेऽवसरान्तरे सम्यगुपपादयिष्यामः। एवं च त्रिरात्रब्रह्मचर्यविधानानुसारेणापि न गृह्यकाराणां ऋतुमतीविवाहे तात्पर्यकल्पनं संभवति।

अक्षतयोनिशब्दार्थविचारः—

अत्रेदं प्रसङ्गात् विचार्यते—को नामाक्षतयोनिपदार्थ इति। किं अनृतुमती, उत ऋतुमत्यपि याऽस्पृष्टमैथुनेति? यद्यनृतुमतीपरत्वम्,तदा “पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम्” इति वचनेनानृतुमतीविवाहसिद्धिः, तस्यामेव पुरुषसंयोगे समुचितकाले समुत्पन्नस्य कानीनत्वं च सिद्ध्येत्। यद्यसंस्पृष्टमैथुनी, तदा ऋतुमत्यामपि विवाहतः पूर्वं संयोगेन समुत्पन्नस्य कानीनत्वेन व्यवहार इति ऋतुमतीविवाहोऽपि शास्त्रीय इति सिद्ध्येदिति।

तत्र वयोनिर्णयकाराः—अक्षतयोनिपदेन अनृतुमत्या एव संग्रहः; “असपिण्डा च या मातुरसगोत्रा च या पितुः। सा

प्रशस्ता द्विजातीनां दारकर्मण्यमैथुनी” इति वचनेन क्षतयोन्याः विवाहायोग्यत्ववर्णनात्। अत एव हि “सर्ववर्णेषु तुल्यासु पत्नीष्वक्षतयोनिषु। आनुलोम्येन संभूता जात्या ज्ञेयास्त एव ते” इति वचनेन अक्षतयोनित्वावस्थायां विवाहितपत्नीषु समुत्पन्नस्य ब्राह्मण्यमुक्तम्। तत्र क्षतयोनिपदेन अन्यपूर्वकत्वादिविवक्षणे पत्नीत्वमेव न स्यात्। ऋतुमतीत्वविवक्षणे तु ऋतुमतीनामप्यापत्कालिकविवाहाभ्युपगमेन पत्नीत्वसिद्धिर्भवतीत्यक्षतयोनिशब्देन अनृतुमतीग्रहणमेव युक्तमिति प्रतीयते। इति वर्णयन्ति।

विवाहकालविमर्शकारास्तु— क्षतयोनिपदेन ऋतुमतीग्रहणपक्षेतस्यां पत्न्यामुत्पन्नस्य अब्राह्मण्यवर्णनं न संभवति। न ह्यापत्कल्पतयारजोऽनन्तरविवाहमपि शास्त्रीयं मन्वानानां भवतां तद्विवाहसंस्कृतायां समुत्पन्नोऽब्राह्मण इति सम्मतम्। प्रायश्चित्तादिना वृषलीत्वादीनां निवृत्तत्वात्। अमैथुनीशब्दस्य अस्पृष्टमैथुनप्रवृत्तिनिमित्तकस्य अनृतुमतीपरत्वलक्षणायां प्रमाणाभावाच्च। एवं च सांप्रदायिकाशयपर्यालोचनायां अक्षतयोनिशब्देनासंस्पृष्टमैथुनाया एव ग्रहणं युक्तम्। “सर्ववर्णेषु” इति श्लोकव्याख्यानावसरे मेधातिथिप्रभृतिभिस्तथैव व्याख्यानात्।

तथाहि—मेधातिथिः—अक्षतयोनिग्रहणं पुनविवाहेन पत्नीत्वमाशङ्कमानं निवर्तयति। सर्वज्ञनारायणः—अक्षतयोनिषु परिणेतुरन्येनासंसृष्टासु। एतेन पौनर्भवस्याप्यब्राह्मण्यमुक्तम्।राघवानन्दः—अक्षतयोनिष्विति विशेषणात् कानीनादेर्द्विजत्वं गौणमिति।नन्दनः—अक्षतयोनिषु अनन्यपूर्विकासु। रामचन्द्रः—संभोगादक्षता योनयो यासां ताखिति। कुल्लूकभट्टोऽपि—पाणिग्रहणिका मन्त्राः—इति श्लोकव्याख्यानावसरेऽमुमेवार्थं प्रतिपाद-

यति। एवं बोधायनधर्मशास्त्रेऽपि गोविन्दस्वामिना— सा चेदक्षतयोनिः स्याद्गतप्रत्यागता सती—इति वचनव्याख्यानावसरेऽक्षतयोनिः स्यादस्पृष्टमैथुना स्यात् इति व्याख्यातम्। मिताक्षरायामपि—“अक्षता च क्षता चैवपुनर्भूः संस्कृता पुनः। स्वैरिणी या पतिं हित्वा सवर्णं कामतो व्रजेत्” इति वचनव्याख्यानावसरे “अन्यपूर्वा द्विविधा, पुनर्भूः स्वैरिणी चेति, पुनर्भूरपि द्विविधा क्षता चाक्षता चेति, तत्र क्षता संस्कारात्प्रागेव पुरुषसंस्कारदूषिता, अक्षता पुनः संस्कारदूषिता” इति व्याख्यातम्। अपरार्कव्याख्यायामपि अयमेवार्थः स्फुटीकृतः। एवं च अस्पृष्टमैथुनैवाक्षतयोनि शब्देनात्र ग्रहणमर्हतीति वर्णयन्ति।

परे तु योनिक्षयप्रवृत्तिनिमित्तकस्य क्षतयोनिशब्दस्य ऋतुमतीपरत्वमेव युक्तम्। “या चतुर्मती स्पृष्टमैथुनैव च सा भवेत्” “ऋतौ भार्यामुपेयात्” इति नियमेनऋतुमत्यां नियतमेव स्पृष्टमैथुनभावोऽपि संपद्यतेति सर्वत्रापि स्मृतिषु अस्पृष्टमैथुनशब्देन अक्षतयोनिशब्दोविव्रियते, नतु स्पृष्टमैथुनाभावप्रवृत्तिनिमित्ताभिप्रायेण।

“अधस्ताद्योनिरन्ध्रस्य तनुश्चन्द्रार्थसन्निभः ।
कौमारे प्रायशः स्थायी चन्द्रो नारीषु दृश्यते ॥”

इति वचनावगतत्वग्विशेषस्य योनिशब्देन ग्रहणासंभवात् क्षतयोनिशब्देन क्षीणत्वग्विशेषवत्त्वस्यापि परिस्फूर्त्यसंभवात्। न च ऋतुमतीविवाहपक्षे नियतमेव प्रथमार्तवादिषु समावेशनमनावश्यकमिति रजोवतीनामपि कासांचित् अस्पृष्टमैथुनानामवस्थानसंभवात् तासामक्षतयोनिशब्देन ग्रहणार्थमेव निबन्धकारैः अस्पृष्टमैथुनापदेनाक्षतयोनिशब्दार्थो विव्रियत इति वाच्यम्; तादृशव्या-

ख्यानस्य शास्त्रविरुद्धर्तुमतीविवाहाभिप्रायं विनाऽस्मदुक्तप्रकारेणैव सामञ्जस्योपपत्तौ शास्त्रविरुद्धर्तुमतीविवाहकल्पनाद्वारा समाञ्जस्यकल्पनायोगात्। वैद्यनाथदीक्षिता अपि अमैथुनाशब्दस्य अस्पृष्टमैथुनार्थकतया प्रतीयमानस्य अक्षतयोनिपदेन विवृण्वानां ऋतुमतीविवाहमशास्त्रीयमभिप्रयन्ति। कन्याशब्दसमभिव्याहारस्थले अक्षतयोनिशब्देन तं विवृण्वाना अपि निबन्धकारा अत्रानुकूलाः। कन्याशब्दश्च अप्राप्तयाैवनप्रवृत्तिनिमित्तके इति पूर्वमेव निरूपितम्। एवं च “पाणिग्रहणिका मन्त्रा” इत्यत्र वा “अप्रौढां कन्यकां विप्रः” इत्यत्र वा कन्यकादिशब्देन अक्षतयोनिविवक्षायामपि न रजस्वलाविवाहसिद्धिरिति। कन्यायामपि रागतो व्यवायप्रवृत्तेरप्रौढामिति वचनानुसारेण अभ्युपगन्तव्यतया तन्निषेधेन त्रिरात्रब्रह्मचर्यविधानोपपत्तिसम्भवात् तदन्यथानुपपत्त्या ऋतुमतीविवाहसाधनं विवाहकालविमर्शकाराणां न सङ्गतमिति वर्णयन्ति।

युक्तंचैतत्, अत एव हि गृह्यसङ्ग्रहकारोऽपि “तां प्रयच्छेत्तु नग्निकाम्” इति नग्निकादानमेव विदधाति। गौतमाचार्यश्च प्रदानं प्रागृतोरिति। नग्निकाशब्दार्थश्च “नग्निका नागतार्तवा” इति कोशानुसारेण अनृतुमत्येव।

अत्र केचित्प्रत्यवतिष्ठन्ते— यदि नग्निकाशब्देन अनागतार्तवाया एव ग्रहणम्, तर्हि अनग्निकाशब्देन ऋतुमत्या एव ग्रहणं युक्तमिति “विन्देतानग्निकां कन्याम्” इति जैमिनिगृह्यसूत्रस्य ऋतुमतीविवाहप्रमाणत्वं स्यादिति।
अत्र समादधते वयोनिर्णयकाराः— नग्नशब्दात् सादृशे कनि

निष्पन्नस्य अनुपजातलज्जा गुह्याङ्गावरणमप्यजानन्त्यो यास्तत्परत्वमेव युक्तम्।

यावन्न लज्जते कन्या यावत्क्रीडति पांसुभिः ।
योन्यादीन्नावगूहेत तावद्भवति नग्निका ॥
यावच्चेलं न गृह्णाति यावत् क्रीडति पांसुभिः ।
यावद्दोषं न जानाति तावद्भवति नग्निका ॥

इति पदार्थतत्त्वविदां महर्षीणां वचनानि चामुमेवार्थमुपपादयन्ति। तादृशनग्निकाशब्दस्य नञा साकं समासे पूर्वोक्तलक्षणविपरीतोपजातलज्जा स्वतो वस्त्रधारिणी च या तदभिधान एव सामर्थ्यम्। नग्निकापदार्थे रजोदर्शनस्यानन्तर्भावान्न रजस्वलाबोधनेऽपि। यद्यप्यमरसिंहेन “नग्निका नागनार्तवा” इत्यप्राप्तरजसएव नग्निकापदार्थत्वमभिप्रेयते, तथापि पूर्वापरविरुद्धत्वात् ऋषिवचनविरुद्धत्वाच्चाप्रमाणमेव तत्पश्यामः। यथा ‘पुण्डरीकं सिताम्भोजम्’ इति कोशवचनस्य पुण्डरीकशब्देन रक्ताम्बुजस्यैव ग्रहणमिति शबरस्वामिविरोधे अप्रामाण्यम्, यथा वा “तितउः पुमान्” इतिकोषवचनस्य ‘तितउः परिपवनं भवति’ इति भाष्यविरोधे। एवमत्रापि। श्रुत्यर्थसन्देहे श्रुत्यन्तरेणेव स्मृत्यर्थसन्देहेस्मृत्यन्तरेणैवार्थवर्णनस्य युक्तत्वात् । न चैतावता द्विवर्षादिबालिकाविवाहोऽपि शास्त्रीयः स्यात्, नग्निकां प्रयच्छेदिति बहुषु स्मृतिषु नग्निकाविवाहविधानादिति शंकनीयम्; इष्टापत्तेः। अत एव हि ‘द्विवर्षात् प्राग् विवाहश्चेत् कन्यका मरणं यदि। खननं नैव कर्तव्यं मन्त्रसंस्कारमाचरेत्॥ उत्कृष्टायाभिरूपाय वराय सदृशाय च। अप्राप्तामपि तां तस्मै कन्यां दधाद्यथाविधि’ इतिवचनमप्युपपद्यते। एवं चानग्निकाशब्देन संजातलज्जादिस्वरूपैव

विवक्षणीयेति सिद्धम्। जैमिनिगृह्यव्याख्याता श्रीनिवासाध्वरिरपि ‘यस्मिन् स्वयमेव लज्जया वासः परिदधाति ताम्” इति अनग्निकापदमत्र व्याचक्षाणोऽत्रानुकूलयति। एवं च जैमिनिगृह्यपर्यालोचनयापि नर्तुमतीविवाहसिद्धिर्भवति। विवाहकालविमर्शकारास्त्वेतन्न क्षमन्ते। यत्र लौकिकप्रसिद्ध्योः परस्परं विरोधः, तत्र वैदिकप्रसिद्ध्यनुसारैणैवार्थनिर्णयः। यत्र तु वैदिकप्रसिद्धिरेव नास्ति, तत्र लौकिकप्रसिद्ध्यनुसारेणैवार्थनिर्णयः। यत्र पुनः वैदिकप्रसिद्धिद्वयम् परस्परविरुद्धम्, तत्र लौकिकप्रसिद्ध्यैवार्थनिर्णय इति पूर्वमीमांसकाशयानुसारेर्णात्रामरकोषवचनस्यादरणीयत्वेन अनिग्निकापदेन ऋतुमतीग्रहणमेव युक्तम्। “अनग्निका तु ऋतुमती” इति गृह्यसंग्रहकारवचनमप्यत एव संगतंभवति। नग्निकापदार्थनिषेधे हि भिन्नभिन्नाभिप्रायो मुनिवर्याणां दृश्यते। तथाहि— केचित् खलु नववर्षां नग्निकामभिप्रयन्ति। यथा वैद्यनाथदीक्षितीये माधवीये मनुः—

अष्टमे तु भवेद्गौरी नवमे नग्निका भवेत् ॥ इति ॥

बोधायनवसिष्ठौ तु अप्राप्तरजोदर्शनकालामेव नग्निकापदेन व्यपदिशतः। यथा—

प्रयच्छेन्नग्निकां कन्यामृतुकालभयात् पिता ॥
दद्यात् गुणवते कन्यां नग्निकां ब्रह्मचारिणे ।
अपिवा गुणहीनाय नोपरुन्ध्याद्रजस्वलाम् ॥
‘अव्यञ्जना भवेत् कन्या कुचहीना तु नग्निका’ ॥

इत्यन्यो महर्षिः कुचहीनामेव नग्निकामभिप्रैति। ‘यावन्न लज्जते कन्या’ इति वदन्तस्तु भवदभिमतां जातलज्जादिरूपां नग्निकापदार्थतयाभिप्रयन्ति। तत्र च परस्परविरुद्धवैदिकप्रसिद्धौ

बोधायनादिवैदिकप्रसिद्ध्यनुगुणं कोषवचनमेव प्रमाणम्। द्विवर्षादिबालिकानामपि नग्निकापदार्थत्वे ‘नग्निकां ब्रह्मचारिणे’ इत्यादिस्थले सर्वत्रापि तासामपि ग्रहणापत्त्या तादृशविवाहोऽपि मुख्य इत्येव संपद्यते। इष्टापत्तौ च नग्निकाविवाहं विदधानैःयमादिभिर्विशिष्य बालिशादिविवाहाभ्युज्ञानं व्यर्थमेव सम्पद्येत। तथाच यमः—

बालिशा या भवेत्कन्या गुणाढ्यो यदि लभ्यते ।
दद्यादप्राप्तकालेऽपि देश कालभयान्नरः ॥

मरीचिश्च—

जन्मतो गर्भाधानात् पञ्चमाब्दात्परं शुभम् ॥
कुमारीवरणं दानं मेखलाबन्धनं तथा ॥

भारते चानुशासनिके पर्वणि—

जातमात्रा तु दातव्या कन्यका सदृशे वरे ।
काले दत्तासु कन्यासु पिता धर्मेण युज्यते ॥

इति । एवं चानग्निकाविवाहं विदधतां जैमिन्याचार्याणां ऋतुमतीविवाह एव तात्पर्यमभ्युपगमनीयमिति केषाञ्चिदेव पक्षः समीचीन इति।

परे तु— सत्यं नग्निकाशब्देन अप्राप्तरजोदर्शनाया एवग्रहणं युक्तम्। अमरकोषवचनस्याप्येतादृशस्थले श्राैतार्थनिर्णये उपयोगो विद्यते। तथापि जैमिन्याचार्याभिमतोनग्निकापदार्थो नर्तुमती। “यावच्चेलं न गृह्णाति” इत्यादिवचनस्यापि प्रमाणत्वेन क्वचित्स्थले तदधोनार्थनिर्णयस्यापि युक्तत्वादत्र निर्णयस्याङ्गीकारेण नग्निकापदेन अनृतुमत्या एव ग्रहणेन न दोषः। अन्यथा हि बहुवचनविरोधः सम्पद्येत। अत एव गोभिलगृह्येऽनग्निका तु

श्रेष्ठेति अनग्निकाविवाह एवप्रशंसितः। समशाखिनां चैकार्थतात्पर्यकत्वमेव युक्तमिति जैमिन्याचार्याणामपि ऋतुमतीविवाहतात्पर्यकल्पनस्यैव युक्तत्वात्। न च ‘अनग्निका तु ऋतुमती” इति वाक्यशेषविरोधी “विन्देतानग्निकाम्” इत्यत्रानग्निकापदेन ऋतुमतीग्रहण इति शङ्कनीयम्। वाक्यशेषस्यपि “तां प्रयच्छेत्तु नग्निकाम्” इति नग्निकापद एव तात्पर्यात्।

तथाहि— “विन्देतानग्निकां कन्याम्” इतिवचनं नानग्निकाविवाहप्रतिपादनपरम्; विद्धातोर्लाभार्थकस्यापि ज्ञानार्थकत्वेनापि तत्र प्रयोगात्। अत्रापि तदर्थस्वीकारेण “कन्यामनग्निकां जानीयात्” (इदानीमप्राप्तयौवनाया अपि द्रागित्येव रजोदर्शनादिकं भविष्यति, ततोझटित्येव कन्यादानं निर्वर्तनीयम् ) इत्येतदर्थक तात्पर्यवत्त्वमेव युक्तम्। “प्रयच्छत्त्वेनग्निकाम्” इति वाक्यशेषस्यान्यथा विरोधात्। अत्र हि वचने अनग्निकामित्यस्य अनग्निका त्वृतुमता तामित्यंशेरार्थं प्रतिपाद्य विशिष्टवाक्यतात्पर्यविषयीभूतार्थः प्रयच्छेत्वनग्निकामित्यनेनांशेन प्रतिपाद्यत एव इत्येव वर्णनीयमिति। एवं चानग्निकामित्यत्र प्रतीतितो रजस्वलाया बोधेऽपि पर्यवसानतोऽप्राप्तरजस एव कन्याया बोधो भविष्यतीति जैमिनिगृह्यपर्यालोचनया न रजोऽनन्तरविवाहसिद्धिरिति मन्तव्यम्।

रातामित्यादि-सूत्रार्थविचारः—

अथ प्रसङ्गात् रातामित्याद्यापस्तम्बादिसूत्राणां रजोऽनन्तरविवाहशास्त्रीयतायां तात्पर्यमस्ति न वेति विचारयामः।

तत्र वयोनिर्णयकाराः— “रातां पालीं मित्रां स्वनुजां वर्षकारीं वर्जयेत्” इति रातामपि स्त्रियं वर्जनीयकौटौ परिगणयतामापस्त-

म्बाचार्याणां ऋतुमतीविवाहनिषेध एव तात्पर्यमभ्युपगमनीयम्। रातामिति पदं सुदर्शनाचार्या रमणशीला ऋतुस्नाता इति विवृण्वते। यदि ऋतुमतीविवाह एवापस्तम्बाचार्याणां समावेशनादि लिङ्गेन तात्पर्यमिति स्यात्, तदाऽन्यसूत्रविरोधो दुष्परिहरः।

वस्तुतस्तु समावेशनरूपाङ्गविधानेऽपि तेषां तात्पर्यं नास्तीति पूर्वमुपपादितमिति नोभयविधविवाहतात्पर्यकल्पनाया अपि अवकाश इति मन्तव्यम्। किञ्च “यदा मलद्वासाः स्वादथैनां ब्राह्मणप्रतिषिद्धानि कर्माणि संशास्ति” इति सूत्रमपि ऋतुकालतः पूर्वमेव विवाहो धर्म इति ज्ञापयति। अनेन हि यदा रजस्वला भवति, तदा तस्यै तैत्तिरीय श्रुताै संहितायां २-५-१ इति प्रश्ने उक्तान् धर्मान् वरेणोपदेष्टव्यतयाऽऽचार्योऽभिप्रैतीति संकोचं विना व्याख्यानं सिध्यति। विवाहानन्तरकालिकऋतुकालावच्छेदेन धर्मसंशासनमेवाचार्योऽभिप्रैतीतितु भवतां मत समापतति, तच्च न युक्तम्; विवाहप्राक्कालिकरजकाल रजस्वलाधर्मानुष्ठानानावश्यकतादिकल्पनेप्रमाणाभावात्। पित्रादिना तद्धर्मोपदेशाभिधानपरविध्यन्तरकल्पनायान्तु निर्मूलायामुक्तविधानं निरर्थकं सम्पद्यते। सकृदेव हि धर्मोपदेशो विधायते, न प्रतिरजःकालमपि; येन विवाहानन्तरकालिकधर्मोपदेशविषयकत्वेनोक्तविधानसार्थक्यं भवेत्। एवं बोधायनादिगृह्यादिगतरजस्वलाधर्मोपदेशविधानमपि रजोऽनन्तरविवाहपक्षे नोपपद्यते। ततश्च पूर्वोत्तरपर्यालोचनायामपि गृह्यसूत्राणि ऋतोः प्रागेव स्त्रीणां विवाहं कर्तव्यं बोधयन्ति सन्ति निश्चितमापस्तम्बाद्यभिप्रायमावेदयन्तीति सिद्धम्।

अस्मिन्नेव क्रमे यदि दैवादृतुसमावेशनमपि समापतति, तदा आरोहोरुमिति मन्त्र इति सुदर्शनाचार्याणामप्यापत्कल्पतया

ऋतुस्नातद्वादशादिवयस्कस्त्रीविवाहे दैवायत्तेन अतर्कितोपनतेन रजसा मध्येविवाहं च यदि ऋतुमती, तदभिप्रायेणेति न रजोऽनन्तरविवाहोऽभिमतः। मध्येविवाहं या रजोवती, तस्या दिनत्रयापगमानन्तरमेव शेषहोमसमावेशनादिकमिति समावेशनद्वयमपि एककालिकमेव सम्पद्यते इति चोक्तमेव। तथा चोक्तम्—

प्रधानहोमे निर्वृत्ते कुमारी यदि सार्तवा ।
त्रिरात्रेऽपगते पश्चाच्छेषं कर्म समापयेत् ॥

इति। स्मृत्यन्तरे च—

विवाहहोमे प्रक्रान्ते यदि कन्या रजस्वला ।
त्रिरात्रं दम्पती स्यातां पृथक्शय्याशनासनौ ॥
चतुर्थेऽहनि सम्प्राप्ते तस्मिन्नग्नौ यथाविधि ।

विवाहहोमं कुर्याताम्……… इत्यादिस्मृतिसंग्रहः। एवं च रजःप्रादुर्भावस्य चतुर्थदिनमारभ्य यानि द्वादश दिनानि, तान्येव ऋतुसमावेशनस्य काल इति षोडशदिनानन्तरं विवाहानुष्ठानेऽप्राप्तत्वात् अनियतप्रसङ्गमेव ऋतुसमावेशनमिति वर्णने दैवादिति पदं निरर्थकं भवति। एवं चापस्तम्बाद्याशयो रजोऽनन्तरविवाहो न धर्म इत्येव स्पष्टम् प्रतीयत इति वर्णयन्ति।

विवाहकालविमर्शकारास्तु— गृह्यविचारारम्भे वयोनिर्णयकारैरेव कदाचित्कावश्यगुणदोषकोट्योरप्रवेशस्य वर्णनेनात्र परं तस्य दोषत्वेन वर्णने पूर्वापरविरोधो भवेदिति “ऋतुस्नातान्तु वर्जयेत्’ इत्यस्य ब्राह्मणैः षोडशपरिमितऋतुकालावच्छिन्नस्त्रीवरणनिषेध एव तात्पर्यम्; ऋतुस्नाताशब्दस्य तत्रैव प्रयोगात्। ऋतुस्नाताविवाहनिषेधमात्रेण ऋतुमतीविवाहनिषेधवचनासम्भवात्। यद्यप्यत्र पक्षे विवाहचतुर्थदिने ऋतुसमावेशनस्यानियतस्यापि प्रसङ्गो

नास्ति। इत्थञ्च ‘‘यदि ऋतुसमावेशनमपि समापतति” इति सुदर्शनाचार्यभाष्यविरोधः। तथापि विंशादिदिने विवाहानुष्ठाने दैवान्मध्येविवाहं रजोदर्शने च सति चतुर्थदिन एव ऋतुसमावेशनमपि प्रसक्तमेवेति न दोषः। “यदा मलद्वासाः स्यात्, अथैनां ब्राह्मणप्रतिषिद्धानि कर्माणि संशास्ति” इति सूत्रमपि उपनयनानन्तरकालिकानां “ब्रह्मचार्यसि” इत्यादिव्रतानुशासनानामिव विवाहानन्तरव्रतानुशासनानामपि विवाहिताविषयकत्व एव युक्तम्। एवं च विवाहपूर्वकालिकारजस्वला धर्महीना इत्येवाङ्गीक्रियते। उक्तसमावेशनान्यथानुपपत्त्या रजोऽनन्तरविवाहस्यापि शास्त्रीयत्वमेवेति तदविरोधेन तत्सूत्रनयनस्यापि युक्तत्वात्। यदि पुनर्विवाहपूर्वरजःकालेष्वपि व्रतानुष्ठानमावश्यकमेवेत्याग्रहः, तदापि मात्रादिभिरेव इदानीमिवतदुपदेशसम्भव इति न कोऽपि विरोधः। तथैवेदानीमप्याचारात्। सिद्धस्यापि अनृतवदननिषेधस्य संस्कारार्थं नियमार्थं च पुनरनुशासनवत् ज्ञातस्यापि रजस्वलाधर्मस्य संस्कारार्थं नियमार्थं च पुनरनुशासनमिति नोक्तसूत्रवैयर्थ्यम्। किञ्च प्रथमऋतुकाल एव व्रतानुष्ठानमावश्यकमिति आपस्तम्बाशय इति कल्पनमपि न संभवति। निर्णयसिन्धुकारैर्द्वितीयादिऋतुकाल एव ब्राह्मणप्रतिषिद्धकर्मानुष्ठानम्, न प्रथमर्तुकालेऽपीति स्पष्टं प्रतिपादनात्। अन्यथा तद्विरोधापत्तेः। उक्तमपि निर्णयसिन्धौप्रथमर्ताै विशेषः स्मृतिचन्द्रिकायाम्—

प्रथमर्तौ तु पुष्पिण्याःपतिपुत्रवतीस्त्रियः ।
अक्षतैरासनं कृत्वा तस्मिंस्तामुपवेशयेत् ॥
हरिद्रागन्धपुष्पादीन् दद्युस्ताम्बूलकं स्वयम् ।
दीपैर्निराजनं कुर्यात् सदीपे वासयेद्बुधैः ॥

लवणापूपमुद्गादीन् दद्युस्ताभ्यस्तु शक्तितः ।

इति। ततो द्वितीयतौतन्नियमा इति। मदनपारिजाते दक्षः—

अञ्जनाभ्यञ्जने स्नानं प्रवासं दन्तधावनम् ।
न कुर्यात्सार्तवा नारी गृहाणामीक्षणं तथा ॥

अत्रात्रिरपि— वर्जयेन्मधुमांसं च पात्रे खर्वे च भोजनम् ।
गन्धमाल्यं दिवास्वापं ताम्बूलं चास्यशोधनम् ॥

इति। एतदनुगुण एव लोकाचारोऽपि दृश्यते इति निरूपयन्ति।

परे तु— पूर्वापरविरोधेन वयोनिर्णयं दूषयन्तो भवन्त एव कथं तदन्यथानुपपत्त्या “रातां वर्जयेत्” इति द्वितीयव्याख्यानस्य ब्राह्मणसम्बन्धिवरणविषयकत्वेनोपपत्तिं ब्रूयुः? यदि पुनरेवमुच्यते— न वयं तदन्यथानुपपत्तिप्रमाणमेव संकोचनिमित्तं मन्यामहे, किन्तु प्रमाणान्तरमेवेति। तथापि तादृशप्रमाणमिदमिति निरूपणं विना भवदीयप्रतिज्ञामात्रस्यार्थसाधनत्वं न संभवति। ऋतुस्नाताशब्दोऽपि न षोडशदिनावच्छिन्नस्त्रीपरः, किन्तु ऋतुमतीपर एव। एवं चेदपि “ऋतुस्नातां तु यो भार्यां सन्निधौ नोपगच्छति” इत्यादौ षोडशदिनावच्छिन्नाया एव ग्रहणं शात्रान्तरपर्यालोचनेनैवेति न कोऽपि दोषः। रमणशीला इति प्रथमव्याख्यानमपि अस्माकमेवानुकूलम्।

यथा च रमणीशीलात्वं ऋतुमतीत्वं ऋतुस्नातात्वं चेत्यनर्थान्तरम्, तथाऽन्यत्र विस्तरः। एवं च वादकथाया विचारणायाम् “रातां वर्जयेत्” इति सूत्रयतामाचार्याणामृतुमतीविवाहनिषेध एव तात्पर्यमित्येवाङ्गीकर्तव्यम्; तैरेवाचार्यैः “यदा मलवद्वासाः स्यात्, अथैनां ब्राह्मणप्रतिषिद्धानि कर्माणि संशास्ति” इति सूत्रेण प्रथमऋतुकालानुष्ठेयधर्मानुशासनस्य पतिकर्तृकस्य सूत्रणात्

तस्य युवतिपक्षेऽनुपपन्नत्वात्। न चोक्तव्रतानुशासनं द्वितीयाद्यृतुकालानुष्ठेयव्रतमात्रविषयकम्; निर्णयसिन्धुकारैर्द्वितीयाद्यृतुकालावच्छेदेनैव व्रतानुष्ठानावश्यकतायाः प्रथमर्ताैतदनावश्यकत्वबोधनपूर्वकं दक्षादिस्मृत्यनुसारेण सिद्धान्तितत्वादिति शङ्कनीयम्। निर्णयसिन्धुकारो प्रथमद्वितीयादिरजःकालभेदेन स्मृत्यनुसारेण भिन्नधर्मानुशासनं सत्यं प्रतिपादयति। नहि तावता प्रथमरजःकालोऽपि धर्मविहीन इति वर्णयितुं शक्यते। न च प्रतिषिद्धधर्ममात्रोपदेशस्यैवोपस्तम्बाचार्यैःसूत्रणात् प्रतिषिद्धानां च द्वितीयादिरजःकालिकत्वात् सर्वमतानुसारेण प्रथमरजःकालो धर्मविहीन एवेति वाच्यम्; येषान्तु सर्वस्मृत्येकवाक्यता नावश्यिकीत्याशयः, तेषां मते आपस्तम्बसूत्राणामपि स्मृत्यन्तराविरोधेनोपपत्तिवर्णनस्यानावश्यकत्वादापस्तम्बसूत्रंद्वितीयरजःकालिकत्वेन नेतुं न शक्यम्। येषां च आवश्यिका, तेषामपि ब्राह्मणप्रतिषिद्धानीतिसूत्रे प्रतिषिद्धपदस्य विहितधर्मोपलक्षणकत्वमप्यङ्गीकरणीयमेवेति प्रथमरजःकालधर्मविहीनतावादोनिरालम्बन एवेति मन्यामहे। यथा चोपनयनतः पूर्वं धर्मानुष्ठानं नावश्यकम्, एवं विवाहतः पूर्वं रजस्वलाधर्मानुष्ठानं नावश्यकमित्यत्र तु न प्रमाणं पश्यामः।

अयमाशयः— यथा हि धर्माचरणं प्रत्युपनीतत्वमेव प्रयोजकम्, नैवं रजस्वलाधर्मानुष्ठानं प्रति विवाहितत्वमेव प्रयोजकम्, किन्तु रजस्वलात्वमित्यन्यत्र विस्तरः। मात्रादिभिः तदनुशासनन्तु पतिकर्तृकानुशासनस्यैवशास्त्रसिद्धत्वात् न शास्त्रसम्मतम्। अत एव न नियमाद्यर्थशासनगोचरत्वेन उपपत्तिवर्णनमपि सङ्गतम्, धर्माचरणावगमस्य नियमाध्ययनविधायकशास्त्रेणेव विवाहप-

र्वकालिकधर्मावर्गमस्य केनापि शास्त्रेणअप्राप्तत्वात्। इदानींतनाचारस्तु शास्त्रविरुद्धो अन्धपरम्परान्यायप्राप्तो अप्रमाणमिति पश्यामः। एवं च सर्वथा रजस्वलाधर्मानुशासनविधानपरापस्तम्बादिसूत्रपर्यालोचनयापि रजोऽनंतरविवाहो अशास्त्रीय इति सिद्ध्यतीति वर्णयन्ति।

एतेन यदि दैवात् ऋतुसमावेशनमपि कर्तव्यं स्यादिति सुदर्शनाचार्यभाष्यस्यापि विनैव क्लेशमुपपन्नस्य अतिक्लेशेन अर्थान्तरत्वव्यवस्थापनमपि परास्तम्। यथा च ‘अथैनामभिमन्त्रयते’ इति सूत्रस्थसुदर्शनहरदत्तादिभाष्यानामप्युपपत्तिः, तथा पूर्वमेव सूचितम्। वैदेहेषु सद्य एव व्यवायो दृश्यते इति त्वाचार्यविशेषस्य देशविशेषे प्रतिपादनपरमित्येव वाक्यशेषादिना स्पष्टं प्रतीयत इति न कथमपि भवतामनुकूलमिति।

अत्र केचित्— रजोनन्तरविवाहाभ्युपगमेपि कदाचिदेव विवाहचतुर्थदिने ऋतुसमावेशनस्य प्रसङ्गः, न तु सर्वथा। तत्र च विना दैवं अन्यो दृष्टहेतुर्नास्तीति दैवादिति विशेषणमुपपन्नमेवेति वर्णयन्ति।

तत्र वयोनिर्णयकाराः— कार्यसामान्यं प्रति सिद्धस्य दैवकारणकत्वस्य अत्रानुवादो निरर्थकः; देवस्य दृष्टकारणत्वमपि असम्भवदुक्तिकमेवेति दैवपदस्वारस्यभङ्गस्तदवस्थ एवेति वर्णयन्ति। एतेषां त्वाशयः— वर्णाश्रमकाण्डे “प्रधानहोमे निवृत्ते’ इत्यादिवचनैः पादकृच्छ्रचान्द्रायणादिपूर्वकमेव मध्येविवाहं रजस्वलाया एव परिग्रहणार्हत्वप्रतिपादनात् हेमाद्रावपि ‘विवाहेवितते यज्ञे’ इत्यादिसर्ववचनशेषतयापि दृष्टेन ‘पूर्व पुष्पवतीन चेत्’ इत्यंशेन मध्येविवाहं रजस्वलायाः प्रायश्चित्तशतेनापि न शुद्धिरिति

वर्णनाच्च उक्तग्रन्थद्वयेनापि पुष्पवतीविवाहो न शास्त्रीय इति सिद्धे तदविरोधेनैव सुदर्शनाचार्यभाष्यतात्पर्यकल्पनमपि युक्तमिति।

विवाहकालविमर्शकारास्तु—

विवाहे वितते यज्ञे होमकोल उपस्थिते ।
कन्यामृतुमतीं दृष्ट्वा कथं कुर्वन्ति याज्ञिकाः ॥
स्नापयित्वा तु तां कन्यामर्चयित्वा हुताशनम् ।
युञ्जानहोमं कुर्वीत ततः कर्म प्रयोजयेत् ॥
प्रधानहोमे निर्वृत्ते कुमारी यदि सार्तवा ।
त्रिरात्रेऽपगते पञ्चात् शेषं कर्म समापयेत् ॥

इति स्मृतिभास्करे,

विवाहहोमे प्रक्रान्ते यदि कन्या रजस्वला ।
त्रिरात्रं दम्पती स्यातां पृथक् शय्यासनाशनौ ॥
चतुर्थेऽहनि सम्प्राप्ते तस्मिन्नग्नौ यथाविधि ।

‘विवाहहोमाैकुर्याताम्’ इत्यादिस्मृतिसंग्रहः— इत्यादि वचनैः

ऋतुदर्शनस्य दोषत्वमात्रं वर्णितं वर्णाश्रमकाण्डे, न तु प्रथमरजोदर्शनस्यदोषत्वं तन्निबन्धनप्रायश्चित्तादिकं वा। हेमाद्रौ तु गौतमः—

विवाहशेषहोमात्प्राक् वधूर्या प्रथमार्तवा ।
तत्पतिः सा वधूश्चोभौ प्रायश्चित्तमिहार्हतः ॥
हविष्मतीरिमा अद्भिवधूंतां स्नापयेन्मुदा।
कृत्वा तदाचरेत् कृत्यं पावनं कामसंहितम् ॥
एवं वै प्रत्यहं कुर्यात् पञ्चमेऽहनि पूर्ववत् ।
स्नापयित्वा परीधाय पूर्ववच्छुद्धवाससी ॥
पूर्ववज्जुहुयाद्वह्नाै ततश्चान्द्रायणं पृथक् ।

कृत्वा तु पापशुद्धौ तावन्यथा दोषसम्भवौ ॥
तदानीं न परित्याज्या पूर्वं पूष्पवती न चेत् ।
न योग्या हव्यकव्येषु सा नारी वृषली भवेत् ॥

इत्यादिवचनैर्विधीयमानं बलवत्तरप्रायश्चित्तादिकं प्रथमातवविषयमेवेति स्पष्टं प्रतीयते, एवं च वैद्यनाथदीक्षितीयवचनानां निमित्तगतविशेषाश्रवणात् प्रथमद्वितीयादिरजोविषयत्वमेव कल्प्यत इति निमित्तगतप्राथम्यतदभावाभ्यां कल्प्ययोरपि तदीययोः परस्परभिन्नत्वात् नोपसंहार इति निबन्धकृतोरुभयोरपि समानार्थतात्पर्यवर्णनमसंगतमेव। यदप्युक्तम्— विवाहतः पूर्वं पुष्पवत्याः प्रायश्चित्तशतेनापि न शुद्धिरिति चापि हेमाद्रावुपपादितमिति। तदपि न सङ्गतम् “तदानीं न परित्याज्या पूर्वं पुष्पवती न चेत्” इति वननं हि न तावत् पूर्वमपुष्पवती मध्ये विवाहं च सञ्जातपुष्पा या कन्या तादृशस्त्रियाः प्रायश्चित्तादिना शुद्धिबोधनद्वारा पूर्वं पुष्पवत्याः प्रायश्चित्तशतेनाप्यशुद्धिं बोधयतीति वर्णयितुं शक्यते। “न योग्या हव्यकव्येषु सा कन्या वृषली स्मृता” इति वाक्यशेषेणानन्वयापत्तेः। आकाङ्क्षायामेव खलु परस्परान्वयो नानाकाङ्क्षायाम्। यदा च पूर्वं पुष्पवती न चेदपरित्याज्या इति समन्वयः, तदा अपरित्याज्याया वृषलीत्वादिवर्णनमसङ्गतमेव भवति। पुष्पवती न चेदित्यत्र घटकपुष्पवत्यास्तु न योग्येति वाक्ये परामर्शो न संभवति। सर्वनाम्नां प्रधानपरामर्शस्यैवौत्सर्गिकत्वात्। युक्तं चैतत्। निर्णयसिन्धुकारैरपि ‘कन्यामृतुमतीं शुद्धां कृत्वा निष्कृतिमात्मनः। शुद्धिं च कारयित्वा तां उद्वहेदानृशंस्यधीः’ इत्याश्वलायनस्मृत्यनुसारेण विवाहतःपूर्वं पुष्पवत्या अपि प्रायश्चित्ताधीनशुद्धिप्रतिपादनात्। यद्यपि पित्रादीनामपि प्रायश्चित्तं विधा-

तृणां निर्णयसिन्धुकाराणामृतुमतीविवाहो न युक्त इत्येवाभिप्रायः प्रतीयते, तथापि यः शक्तोऽपि काले न ददाति तद्विषयमिति माधवाचार्याभिप्रायानुसारेण तेषामपि तदभिप्रायकल्पनात् न दोष इति— वर्णयन्ति।

परे तु— वर्णाश्रमकाण्डे निमित्तगतप्राथम्याश्रवणमात्रेण द्वितीयातेवविषयीकरणं न युक्तम्; अश्रु तस्यापि तस्य वाक्यान्तरैकवाक्यतामात्रेण प्रतीतिसंभवात्। अन्यथा द्वितीयत्वादीनामश्रुतत्वेन भवदीयसिद्धान्तोऽपि कथं सिद्धिमुपेयात्? एवं चोभयोरपि निबन्धकृतोरेकार्थतात्पर्यकल्पनमेव युक्तम्। युञ्जानादिहोमादिसमाननैमित्तिकादिप्रत्यभिज्ञानाच्चैकत्वमित्यन्यत्र विस्तरः।

यदपि “पूर्वं पुष्पवती न चेत्” इत्यस्यान्यर्थंवाभिप्रायो वर्णनीय इत्युक्तम्। तत्र प्रतिब्रूमः। यद्यपि निर्णयसिन्धुकारैर्विवाहतः पूर्वमपि पुष्पवत्याः प्रायश्चित्तादिकं प्रतिपादितम्, यद्यपि च “न योग्या हव्यकव्येषु सा कन्या वृषली स्मृता” इति वाक्यशेषे तच्छब्देन पूर्वं पुष्पवत्याः परामर्शो न संभवतीति पूर्वं पुष्पवती प्रथमार्तवा प्रायश्चित्ते कृतेऽपरित्याज्या, न चेदकृते प्रायश्चित्ते न योग्या हव्यकव्येषु इति व्याख्यानमेव युक्तमिति भवतां प्रतीतिर्विद्यते, तथापि “कृत्वा तु पापशुद्धौ तावन्यथादोषसंभवाै” इति पूर्ववाक्यार्थस्याप्यनेन वर्णनेन पौनरुक्त्यदोषो भवेत्। एवमुपक्रम एव मध्ये विवाहं प्रथमार्तवाया विशिष्य ग्रहणेन “पूर्वं पुष्पवती न चेत्” इत्यनेन पुनरनुवादोऽपि निरर्थकः सम्पद्यते। तथा पूर्वशब्देन सावधिकोर्थबोधकेन प्राथम्यविवक्षाऽसंभवदुक्तिका। न चेदिति चेच्छब्दघटितवाक्यार्थपूरणं प्रति प्रथमान्तपदस्यैव सामर्थ्यमिति अशाब्दप्रायश्चित्ताकरणस्य विवक्षा चासंभवदुक्तिकेत्या-

दिबहुदोषकलुषितत्वात् भवदीयव्याख्यानं न युक्तमिति वयोनिर्णयकारीयव्याख्यानमेव समुचितमिति पश्यामः। यावता विवाहमध्यकालिकप्रथमार्तवविषय एव एतादृशप्रायश्चित्तविधानम्, तावता विवाहतः पूर्वं रजोदर्शने ततोऽपि गुरुतरप्रायश्चित्तानुष्ठानमेवावश्यमिति निर्णयसिन्धुकारैरपि कन्यावरपित्रादीनां सर्वेषामपि प्रायश्चित्तं विहितमिति केवलकन्याशुद्धिमात्रेण न वृषलीत्वनिवृत्तिरित्यभिप्रायेणैव— “न योग्या हव्यकव्येषु सा कन्या वृषली स्मृता” इति वचनं प्रवृत्तम्। किञ्चेदं गौतमीयं वचनमिति हेमाद्रितोऽव गम्यते। गौतमश्च “प्रदानं प्रागृतोः” इति ऋतुकालतः पूर्वमेव विवाहमभिप्रैतीति तादृशतात्पर्यकल्पनं युक्ततममेव। यः शक्तोऽपि ऋतुकालतः पूर्वं कन्यां न प्रयच्छति, तादृशपित्रादीनामेव दोषप्रतिपादनन्तु न युक्तमेवेत्युपरिष्टादुपपादयिष्यामः। अस्तु वा भवदीयव्याख्यानमेव समुचितमिति। तावतापि रजोऽनन्तरविवाहधर्मतावादः कथं वा भवतां सेत्स्यतीति विवाहकालविमर्शकारोक्तं चिन्त्यमेव। सुदर्शनाचार्यभाष्यगतं दैवादिति पदं चेदानीमेव स्वरसं सम्पद्यते। रातां वर्जयेदिस्यत्र ऋतुस्नातां वर्जयेदिति व्याख्यानमपि अस्माकमेवानुकूलमिति मन्तव्यम्। एतेन बोधायनाश्वलायनजैमिनिगोभिलपारस्कराद्यभिमत-विवाहाङ्गसमावेशनं न रजोऽनन्तरविवाहलिङ्गमिति सूचितमिति तद्धर्मतावादोऽअसङ्गत एवेति— वर्णयन्ति।

स्मृत्यर्थविचारः—

अत्र केचित्— गृहसंग्रहकारैः प्रदानमात्रस्यैव विधानात् तस्य च वाग्दानादिविषयकत्वेनाप्युपपत्तिसंभवात् “विन्देतानग्निकाम्” इति वचनं स्वतन्त्रतया विवाहविधिपरमेवाङ्गीकरणीयम्।विवाहदानयोस्तु भिन्नाधिकारिकत्वेन भिन्नफल-

कत्वेन च भिन्नकर्मत्वेनानन्तर्यनियमो नास्तीति नग्निकावस्थायां दानप्रतिपादनपूर्वकं रजोऽनन्तरविवाहप्रतिपादन एव गृह्यसंग्रहकारीणामप्याशयः। एतेन—

दद्याद्गुणवते कन्यां नग्निकां ब्रह्मचारिणे ।
अपि वा गुणहीनाय नोपरुन्ध्याद्रजस्वलाम् ॥

इति बोधायनवचनं “प्रदानं प्रागृतोः” इति गौतमवचनम्, “प्रयच्छेन्नग्निकां कन्यां ऋतुकालभयान्नरः” इति वसिष्ठवचनम्, “अप्रयच्छन् समाप्नोति भ्रूणहत्यामृतावृताै” इति याज्ञवल्क्यवचनम्,

“यदि वा दातृवैकल्यात् रजः पश्येत्कुमारिका ।
भ्रूणहत्याश्च तावत्यः पतितः स्यात्तदप्रदः ॥”

इति वेदव्यासवचनम्—

प्राप्ते तु द्वादशे वर्षे यः कन्यां न प्रयच्छति ।
मासि मासि रजस्तस्याः पिबन्ति पितरोऽनिशम् ॥

इति पराशरसंहितावचनञ्च व्याख्यातं भवति। सर्वेषामपि वचनानां दानमात्रविषयकत्वेन विवाहविधिपरत्वाभावात्। एवञ्च ऋतुमतीविवाहनिषेधपरस्य कस्यापि वचनस्याभावात् जैमिनीयगृह्यपर्यालोचनायां ऋतुमतीविवाहः शास्त्रीय इत्येव भवतीति तदशास्त्रीयतावादोऽत्यन्तासङ्गत इति वर्णयन्ति।

अन्ये तु—यस्तां विवाहयेदित्यादिपारस्करगृह्यादिपर्यालोचनया भिन्नकर्मणोरपि दानविवाहयोः वाजपेयबृहस्पतिसवयोरिव क्रमनियमविवक्षाया आवश्यकत्वात् दानविधिपराणामपि तदव्यवहितविवाहपर्यन्तं व्यापारस्याङ्गीकरणीयत्वात् गृह्यसंग्रहकाराणां पूर्वोक्ततात्पर्यमेव युक्तम्। एतेन— बोधायनगौतमवसिष्ठादिव-

चनान्यपि व्याख्यातानीति ऋतुमतीविवाहशास्त्रीयतावादः असंगत एव । यदपि प्रागपि ऋतोः कन्यकाया न दानम्, ऋतावपि यावद् गुणवान् वरो न लभ्यते न तावदिति ऋत्वनन्तरमपि दानावधिविधिपरतया प्रतीयमानं वचनम्, तदपि गुणवद्वरलाभे गुणहीनाय न दातव्येत्येवंपरमित्यपरार्के प्रतिपादितमिति नास्माकं प्रतिकूलम् । अत एव -

पितृवेश्मनि या कन्या रजःपश्यत्यसंस्कृता ।
तस्यां मृतायां नाशौचं कदाचिदपि शाम्यति ॥
पितृवेश्मनि या कन्या रजः पश्यत्यसंस्कृता ।
भ्रूणहत्या पितुस्तस्याः सा कन्या वृषली स्मृता \।\।
रजस्वला च या कन्या यदि स्यादविवाहिता ।
वृषली वार्षलेयः स्यात् तस्यां जातः स एव हि ॥
पितृगेहे तु या कन्या रजः पश्यत्यसंस्कृता ।
सा कन्या वृषली ज्ञेया तत्पतिर्वृषलीपतिः ॥
माता चैव पिता चैव ज्येष्ठो भ्राता तथैव च ।
त्रयस्ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम् ॥
उद्वहेद्यस्तुतां कन्यां ब्राह्मणो मदमोहितः ।
असंभाष्यो ह्यापाङ्क्तेयो स विप्रो वृषलीपतिः ॥
पितुर्गेहे तु या कन्या रजः पश्यत्यसंस्कृता ।
भ्रूणहत्या पितुस्तस्याः सा कन्या वृषली स्मृता \।
यस्तां विवाहयेत्कन्यां ब्राह्मणोऽज्ञानमोहितः ।
असंभाष्यो ह्यपाङ्क्तेयः स विप्रो वृषलीपतिः ॥
तस्माद्विवाहयेत्कन्यां यावन्नर्तुमती भवेत् ।
विवाहो ह्यष्टवर्षायाः कन्यायाश्च प्रशस्यते ॥

इत्यादिविष्णुशङ्खलघुशातातपलघ्वाश्वलायनप्राजापत्याङ्गिरोबृहस्पतिपराशरसंवर्तादिस्मृतयोऽपि अनुगृहीता भवन्ति। एवञ्च न रजोऽनन्तरविवाहः शास्त्रीय इति वर्णयन्ति ।
वयोनिर्णयकाराणामप्ययमर्थः संमत एवेति मन्यामहे । वयोनिर्णयकारा ह्येवंवदन्ति – यद्यपि -

त्रीणि वर्षाण्युदीक्षेत कुमार्यृ्तुमती सती ।
ऊर्ध्वंतुकालादेतस्मात् विन्देत सदृशं पतिम् \।\।
अदीयमाना भर्तारं अधिगच्छेत्स्वयं यदि \।
नैनः किञ्चिदवाप्नोति न च यं साधिगच्छति ॥

इत्यादिवचनै रजोनन्तरविवाहः शास्त्रीय इति प्रतीयते । तथापि तेषां वचनानामापत्कल्पतया तदभ्यनुज्ञान एव तात्पर्यादुक्तानेकवचनपर्यालोचनया रजोऽनन्तरविवाहो न शास्त्रीय एव । अत एव तैत्तिरीयसंहितायां सप्तमकाण्डे
“प्रजापतिरकामयत प्रजायेयेति स मुखतस्त्रिवृतं निरमिमीत, तमग्निर्देवतान्वसृजत, गायत्री छन्दो रथन्तरं साम ब्राह्मणो मनुष्याणामजः पशूनाम् तस्मात्ते मुख्या मुखतो ह्यसृजन्त’ इति गायत्री छन्दसा साकं ब्राह्मणसृष्टिविधानमुपपन्नं भवति । तादृशविधानस्य हि तात्पर्यं ‘छन्दस्सु पादाक्षरसमुदायवदब्दसमूह उपनयने’ इति हारीतसूत्रेणयस्याजातेर्येन छन्दसा सृष्टिः, तज्जातीयस्य तच्छन्दःपादाक्षरसख्यापरिमितवयसि उपनयनं कर्तव्यमिति प्रकाश्यते । एवञ्च ब्रह्मक्षत्रियवैश्यानां गायत्रीत्रिष्टप्जगतीछन्दोभिः साकं सृष्टिप्रतिपादनात् यथाक्रमं अष्टमैकादशद्वादशवयांस्युपनयनस्य मुख्यः कालः \। मुख्यकालानुष्ठानाशक्तौ ब्राह्म-

णेन क्षत्रियवैश्ययोः मुख्यकाले एकादशद्वादशवयसोरप्यनुष्ठाने न दोषः ।

अजीवंस्तु यथोक्तेन ब्राह्मणः स्वेन कर्मणा ।
जीवेत् क्षत्रियधर्मेण स ह्यस्य प्रत्यनन्तरः ॥
उभाभ्यामप्यजीवंस्तु कथं स्यादिति चेद्भवेत् ।
कृषिगोरक्षमास्थाय जीवेद्वैश्यस्य जीविकाम् ॥

इति मनुवचनेन स्वधर्माशक्तस्य ब्राह्मणस्य क्षत्रियविट्धर्मयोरप्यधिकारवर्णनात्। एवंच उपनयनस्थानीयत्वात् स्त्रीणां विवाहस्य उपनयनकाल एव तस्यापि काल इत्यङ्गीकरणीयत्वेन अष्टमवयो मुख्यः कालः, द्वादशवयः पर्यन्तं तु गौणकाल इत्येवाङ्गीकरणीयमिति कथंचिदपि नर्तुमतीविवाहसिद्धिः । एतदभिप्रायेणैवमनुरपि —

         त्रिंशद्वर्षो वहेत्कन्यां हृद्यां द्वादशवार्षिकीम् ।  

          त्र्यष्टवर्षोऽष्टवर्षांवा धर्मे सीदति सत्वरः ॥  

इति स्मरति ।

विवाहकालविमर्शकारास्तु - सत्यमुपनयनकाल एव विवाहकालः \। तस्य द्वादशवर्षपर्यन्तमेव गौणः काल इति वर्णनं परमसङ्गतमेव \। “आषोडशात् ब्राह्मणस्येति’ ‘आपस्तम्बधर्मसूत्रेण षोडशवयःपर्यन्तं गौणकालस्य प्रतिपादनात् । एवं चेदपि अष्टमवय एव मुख्यः काल इत्येव ‘विवाहो ह्यष्टवर्षाया कन्यायाश्च प्रश्यस्यते’ इति वचनेन प्रतिपाद्यते । ‘अषोडशाद्ब्राह्मणस्य सावित्री नातिवर्तते’ इति मनुरपि द्वादशवर्षानन्तरमपि उपनयनकालं प्रतिपादयति । ‘अजीवंस्तु यथोक्तेन’ इति तु जीविकामात्रविषयमन्यत्रापि न प्रवर्तते । एवं च कन्याविवाहप्रतिपादकवचनानुसारेण ऋतु-

मतीविवाहोऽपि शास्त्रीय इत्येवाङ्गीकरणीयम् । तथा च कन्याविवाहप्रतिपादकानि वचनानि । यमः -

            विवाहं चोपनयनं स्त्रीणामाह पितामहः \।  

माधवीये संवर्तः—

        अष्टवर्षा भवेद्गौरी नववर्षा तु रोहिणी ।  
       दशवर्षा भवेत्कन्या तत उर्ध्वं रजस्वला ॥  

यमः—

        अष्टवर्षा भवेद्गौरी नवमे नग्निका भवेत्  
       दशमे कन्यका प्रोक्ता द्वादशे वृषली स्मृता ॥  

इति कन्यालक्षणकथनपूर्वकं तासां दानफलविशेषमाह

मरीचिः—

गौरीं ददन्नाकपृष्टं वैकुण्ठं रोहिणी ददत् ।
कन्यां ददद्ब्रह्मलोकं रौरवं तु रजस्वलाम् ॥

तथा वैद्यनाथदीक्षितीये मनुः -

       त्रिशद्वर्षो वहेत्कन्यां हृद्यांद्वादशवार्षिकीम् ।  
        त्र्यष्टवर्षोऽष्टवर्षां वा धर्मे सीदति सत्वरः \।\।  

तथा निर्णयसिन्धुभारतवचनम्

       **त्रिंशद्वर्षः षोडशाब्दां भार्यां विन्देत नग्निकाम् \।  
        व्द्यष्टवर्षोऽष्टवर्षंवा धर्मे सीदति सत्वरः \।\।**  

अत्र षोडशाब्दाया नग्निकात्वविशेषणात् रजोदर्शनाभावे षोडशवार्षिककन्याविवाहोऽपि न दोषाय इति लभ्यते । एवं वयोविशेषानुपादानेन अनृतुमतीविवाहं प्रतिपादयन्ति कानिचन वचनानि वसिष्ठः-

प्रयच्छेन्नग्निकां कन्यां ऋतुकालभयात्पिता ।

इत्यादीन्यत्रैव पूर्वसङ्कलितानि ।एतेषां च वचनानां मुख्यकालप्रतिपादन एव तात्पर्यम्, न तुऋतुमतीविवाहनिषेधेऽपि; मन्वादिस्मतौ ऋतुमत्याअपि विवाहार्हत्वप्रतिपादनेन तेन साकं विरोधापत्तेः । यथा हि गुणवद्वरलाभे अप्राप्तकालेऽपि जातमात्रादीनां विवाहो युक्तः, एवं गुणवद्वरलिप्सया षोडशादिवयःपर्यन्तं प्रतिक्षणमपि युक्तमेव । तथा च मनुः-

त्रीणिवर्षाण्युदीक्षेत कुमार्यृतुमती सती ।
उर्ध्वं तु कालादेतस्मात् विन्देत सदृशं वरम् ॥

बोधायनः—

त्रीणि वर्षाण्यृतुमती कांक्षेत पितृशासनम् ।

वैद्यनाथदीक्षितापरार्कमाधवादीनामपि उक्तवचनं निर्दिश्यतामयमेवाभिप्रायः । एवं च रजोदर्शनानन्तरं विवाहनिषेधपराणां कन्यापित्रादीनां वोढुश्च भ्रूणहत्यादिदोषबोधनपराणामुक्तवचनानामन्यथैवोपपत्तिर्वर्णनीया \। तथा हि दातुर्यद्दोषसंकीर्तनम्

** “ऋतुमत्यां हि तिष्ठन्त्यां दोषः पितरमृच्छति ॥**’ इति ॥
तद्गुणवद्वरलाभेऽपि यः कन्यां न प्रयच्छति । तद्विषयम्, तृतीये वर्षे गुणवद्वरलाभेऽपि यः कन्यां न प्रयच्छति तद्विषयं च ।

तथाच बोधायनः-

** त्रीणिवर्षाण्यृतुमतीं यः कन्यां न प्रयच्छति ।
स तुल्यं भ्रूणहत्यायै दोषमृच्छत्यसंशयम् ॥
न याचते चेदेवं स्यात् याचते चेत् पृथक् पृथक् ।
एकैकस्मिन्नृतौ दोषं पातकं मनुरब्रवीत् ॥**

वसिष्ठश्च—
यावच्च कन्यामृतवः स्पृशन्ति तुल्यैः सकामामपि याचमानाम् ।

भ्रूणानि तावन्ति हतानि ताभ्यां मातापितृभ्यामिति धर्मवादः ॥
आभ्यां हि वचनाभ्यां याचमानाय वराय कन्यां यो न प्रयच्छति तस्यैव भ्रूणहत्यादोषो विहितः । एवमयाचमानायापि वराय वर्षत्रयेणादाने भ्रूणहत्या प्रतिपादिता। एवञ्च ऋत्वनन्तरमपि वर्षत्रयपर्यन्तमपि दानकालो विद्यत एव । सदृशवरालाभेऽपितृतीये वर्षे कथमपि कन्या दातव्यैव। ततः परन्तु दानाधिकार एव नास्ति ; स्वत्वस्यैवाभावात् ।यदाह मनुः स्वयंवरं
प्रक्रम्य -

** पित्रे न दद्याच्छुल्कं तु कन्यामृतुमतींहरन् ।
स हि स्वाम्यादतिक्रामेत् ऋतूनां प्रतिरोधनात् ॥**

बौधायनः – अपि वा गुणहीनाय नोपरुन्ध्याद्रजस्वलाम् । एवमेव कन्यावृषलीत्वादिबोधकानामपि वचनानां सदृशवरलाभेऽपि या न दीयते, तद्विषयकत्वेनोपपत्तिरिति न कोऽपि दोषः । यदपि शुल्कग्रहण निषेधादिलिङ्गैःशूद्रस्त्रीविषयकवर्णनम्, तदपि न युक्तम्, शुल्कग्रहणस्य ब्राह्मणस्त्रीविषयकत्वेऽपि प्रसङ्गात् शुल्कवत आसुरविवाहस्य षडानुपूर्व्या विप्रस्येति वचनेन ब्राह्मणऽविषयेऽपि विधानात् । एवमेव त्रीणि वर्षाणीत्यादिवचनानां आपद्धर्मत्वमपि असंगतम्; तत्प्रकरणस्यापद्धर्मप्रकरणत्वाभावात् । अन्यथा “आपद्यपत्यप्राप्तिश्च” इत्यत्रापद्ग्रहणवैयर्थ्यापत्तेरिति रजोऽनन्तरविवाहः शास्त्रीय एवेति वर्णयन्ति ।
परे तु – उपनयनकाल एव यद्यपि विवाहकालः, यद्यपि चोपनयनस्य षोडशवर्षपर्यन्तं गौणकाल इति तत्स्थानीयस्य विवाहस्यापि निर्णयसिन्धावुदाहृतभारतवचनानुसारेण षोडशवर्षपर्यन्तं कालः, तथापि सर्वत्रापि स्मृतिषु ऋतुदशनरूपावधिनिर्णयस्य

कृतत्वादुक्तभारतवचनेऽपि नग्निकामितिविशेषणानुसारेण ऋतुदर्शनाभाव एव षोडशादिवयस्काया अपि विवाहबोधनात् रजोऽनन्तरविवाहः परं न सेत्स्यति ।
अयमभिप्रायः– यद्युपनयनस्य यावत्पर्यन्तमनुष्ठानं शास्त्र्तः प्राप्तम्, तावत्पर्यन्तं विवाहस्यापि अनुष्ठानं शास्त्रसम्मतम्, तहि नैवं महर्षिवर्या ऋतुदर्शनं तदवधितया निर्दिशेयुः । निर्दिशन्ति च तादृशमवधिम्, अतो ज्ञायते - अतिदेशतः प्राप्तस्यषोडशवयःपर्यन्तस्य कालस्य रजोदर्शनाभावविशिष्टस्यैव गौणकालत्वेनापि ग्रहणमिति । एवञ्च द्वादशवर्षवयसोऽपि रजोदर्शनविशिष्टस्य विवाहकालत्वं भविष्यतीत्यभिप्रायेणैव महर्षिवर्यैः “अत ऊर्ध्वं रजस्वला” “रौरवन्तु रजस्वलाम्” इति द्वादशादिवयस्काविवाहोऽपि प्रतिषिद्धः । तत्र च व्याख्यानेषु रजस्वलाशब्देन नियतमेव द्वादशादिवयःसु रजोदर्शनं सम्भवेदिति न विवक्षितम्, यदि सम्भवेत् तदा पित्रादीनां भ्रूणहत्यादिदोषः समापतेदिति ततः पूर्वमेव विवाहकरणे न कस्यापि दोषस्य प्रसर इति वर्णितम् । “त्र्यष्टवर्षोऽष्टवर्षां वा धर्मे सीदति सत्वरः” इति वदतो मनोरपि अयमेवाभिप्रायः । रजस्वलाविवाहनिषेधेन अष्टवर्षाद्यनृतुमतीविवाह एव युक्त इति बोधयतां पूर्वोक्तयमादिवचनानामपि एवंसत्येवोपपत्तिः । न च रजस्वलाविवाहनिषेधपरत्वेन भवदभिमतानां सर्वेषामपि वचनानां गौणकालप्रतिपादन एव तात्पर्यम्, न तु रजस्वला विवाहनिषेधवचनेऽपि, “त्रीणि वर्षाण्युदीक्षेत कुमायृतुमती सती” इति मन्वादिस्मृतिभिः ऋतुमतीविवाहस्यापि विधानेन तद विरोधार्थं तथैवोपपत्तेर्वर्णनीयत्वादिति वाच्यम्; तथा सति रजोदर्शनस्यानियतत्वात् यस्याः षोडशादिवयस्येव रजोद-

र्शनम् तस्या एकोनविंशवयः पर्यन्तमपि विवाहकाल इति कल्पनापत्त्या"आषोडशाद्ब्राह्मणस्य” इत्यादिमन्वादिवचनमेव परस्परविरुद्धं सम्पद्येतेति रजोऽनन्तरविवाहनिषेधतात्पर्यकत्वस्यैक युक्तत्वात् । यथा च “कालेऽदाता पिता वाच्यः” इत्यादिना रजोऽनन्तरविवाहस्य निषिद्धत्वात् त्रीणि वर्षाणीत्यादिनाऽऽपत्कल्पतया तदभ्यनुज्ञान एव तात्पर्यम्, तथा पूर्वमेव निरूपितम् । त्रीणिवर्षाणीत्यादिवचनं हि न तावदृतुदर्शनानन्तरमप्यनापत्कल्पतयापि दानकालमभ्यनुजानाति, किन्तु गुणवदगुणवद्वरलिप्सया तत्र तत्र पर्यटतः तल्लाभतः पूर्वमेव स्वकन्यारजः पश्यतः ऋतुप्रतिरोधनिमित्तभ्रूणहत्यादोषनिवर्तकप्रायश्चित्तानुष्ठानपूर्वकं दानाधिकारं बोधयति । तद्विषये एकस्या एव भ्रूणहत्यायाः शास्त्रसिद्धत्वात् । यस्तु पुनः याचमानायापि वराय साहसादिना न कन्यां ददाति सत्स्वपि रजोदर्शनेषु, न स प्रायश्चित्तशतेनापि दानाधिकारमर्हति । कन्या त्वस्वतन्त्रा पितृशासनमेव काङ्क्षन्ती वर्षत्रयेणापि पित्रा न दत्ता स्वयं वरणमर्हतीति तथा एकस्मिन् वृते तेन चाश्वलायनोक्तप्रायश्चित्तानुष्ठानेन गृहीतायां तस्यां न कोऽपि दोषः संभविष्यति ।
अयञ्चार्थः :- “नैनः किञ्चिदवाप्नोति नच यं साधिगच्छति” “न याचते चेदेवं स्यात् याचते चेत् पृथक् पृथक्” इत्यादिवचनबलाल्लभ्यते ।
एतेन – “न याचते चेदेवं स्यात्” इत्यादिवचनस्य गुणवद्वरलाभेऽपि यः कन्यां न प्रयच्छति, गुणवद्वरालाभेऽपि तृतीयवत्सरे यः कन्यां न प्रयच्छति, तद्विषयकत्वमेव युक्तमिति वचनमपि परास्तम् । गुणवद्वरलाभेऽपि कन्यामददतः ऋतुसंख्याकभ्रूणहत्या

प्रतिपादकानां वचनानां तस्य दानाधिकारं प्रत्यनर्हत्वबोधन एवतात्पर्यात् । त्रीणि वर्षाणीत्यादीनामपि गौणकल्पसमर्थकत्वाभावस्य पूर्वमुपपादितत्वेन गुणवद्वरलाभेऽपि तृतीयवत्सर इति कल्पपनाया अपि निरालम्बनत्वात् नोपरुन्ध्याद्रजस्वलामित्येवंजातीयकानां बहूनां वचनानामविरोधेनैव त्रीणि वर्षाणीत्यादिवचनार्थवर्णनस्य युक्तत्वात् । “विप्रतिषेधे भूयसां स्यात् सुधर्मत्व” मिति न्यायात् ।
एतेन–नोपरुन्ध्याद्रजस्वलामित्यादिवचनानां वर्षत्रयानन्तर- दानगोचरत्वेनोपपत्तिवर्णनमपि - परास्तम्; “न गिरा गिरे ब्रूयात्’ इत्यस्येव “नोपरुन्ध्याद्रजस्वलाम्” इत्यस्याप्यनुवादत्वात् । यथा- प्राप्तमेवानुवादो युक्तः इति " दद्याद्गुणवते कन्यां नग्निकां ब्रह्मचारिणे” “अपि वा गुणहीनाय” इति विधिवाक्यताऽर्थतः प्राप्तेत्यनग्निकाविवाहनिषेध एवानुवदितव्यः । अनग्निकापदन्तु न ऋत्वनन्तर वर्षत्रयावच्छिन्नस्त्रियं बोधयती, किन्तु सञ्जातरजस्काम् । एवञ्च रजोदर्शनमात्रेण विवाहनिषेध एवोक्तवचनतात्पर्यमिति न कोऽपि दोषः ।
एतेन- “रौरवन्तु रजस्वलाम्” इति वचनमपि व्याख्यातं भवति । " कलौ पाराशराः स्मृताः” इति पराशरसंहितावचनेन पूर्वोक्तेनर्तुमतीविवाहः सर्वथाऽधर्म एवेत्यवगमात् न कथंचिदपि रजोऽनन्तरविवाहशास्त्रीयतासिद्धिः । यद्यपि माधवाचार्यैः पराशर-स्मृतिव्याख्याने त्रीणि वर्षाणीत्यादिवचननिर्देशात् ऋत्वनन्तरवर्षत्रयपर्यन्तं विवाहकालबोधनेऽपि तात्पर्यमिति प्रतिपादितमिति प्रतीयते, तथापि तत्र तत्रत्यमाधवग्रन्थस्यापि अस्मदभिप्रायकल्पनमेवयुक्तम् । मन्वादिस्मृत्यर्थसंग्रहणेन कलियुगासाधारणधर्मो

पदेशनार्थं प्रवृत्तैः पराशराचार्यैः ऋतुमतीविवाहनिषेधात् मन्वादीनामपि तादृशतात्पर्यकल्पनमेव युक्तमिति वर्णयन्ति ।
इतरे तु – ऋतुमतीविवाहनिषेधपरेषु सर्वत्रापि वचनेषु “यस्तां विवाहयेत्कन्यां ब्राह्मणो मदमोहितः, इति विशिष्य ब्राह्मणग्रहणानुसारेण ब्राह्मणेतरेषामृतुमतीविवाहोऽपि न दोषायैव । क्षत्रियादीनां षोडशादिवयसामपि उपनयनकालत्वात् तत्स्थानापन्नस्य विवाहस्यापि तदानीमेवानुष्ठानस्य युक्तत्वात् । न चात्रापि रजोदर्शनाभावविशिष्टस्यैवोपनयनकालस्य विवक्षेति शङ्कनीयम् । क्षत्रियाणां द्वादशादिवयस एव मुख्यकालत्वेन ततः पूर्वं विवाहस्यानुष्ठानासम्भवात् । द्वादशादिवयस्सु रजोदर्शनस्यापि संभवात् तदभावविशिष्टद्वादशादिवयसस्सर्वत्राप्युपपादनासम्भवात् । एवञ्च रजोदर्शनानन्तरमपि क्षत्रियविषये विवाहानुष्ठाने न दोष एव । एवञ्च " त्रीणि वर्षाण्युदीक्षेत” इत्या्दिवचनानामपि क्षत्रियादिविषयकत्वमेव युक्तमिति वर्णयन्ति ।
तदपरे न क्षमन्ते । एवं सति ’’ त्रीणि वर्षाण्युदीक्षेत गृहे कन्य तु मत्यपि” इत्यपिशब्दप्रयोगस्वारस्यभङ्गापत्तिः । अपिशब्देन हि ऋतुमत्या विवाहो वचनान्तरेण निषिद्ध इति प्रतीयते । यदि पुनर्निषेधपराणां सर्वेषामपि वचनानां ब्राह्मणशब्दप्रयोगस्वारस्यानुसारेण ब्राह्मणविषयकत्वमेवेति नियमः, तर्हिक्षत्रियादिविषये रजोऽनन्तरविवाहनिषेधपरस्य कस्यापि वचनस्याभावात् अपिशब्दप्रयोगस्वारस्यभङ्गापत्तिः। ननु “नोपरुन्ध्यात् रजस्वलाम्” “प्रदानं प्रागृतोः” इत्यादिवचनानां सर्वसाधारणत्वेन प्रतीयमानानां ऋतुमतीविवाहाशास्त्रीयत्वेनोपपत्तिरित्याक्षेपद्वारा क्षत्रियादिविषयेऽपि विवाहनिषेधपरत्वादपिशब्दप्रयोगस्वारस्यं सिद्धमेवेति चेन्न;

दाननिषेधपराणामुक्तजातीयवचनानां रजस्वलाविवाहविधिपरवैवाहिक चतुर्थरात्रसमावेशनादिविधिपरापस्तम्बबौधायनादिगृह्यसूत्रविरोधे जाग्रतितद्विवाहनिषेधपरविध्यन्तराक्षेपकत्वासंभवात् अपिशब्दप्रयोगस्वारस्यभङ्गस्तदवस्थ एवेति निषेधवाक्यघटकब्राह्मणशब्दसामान्यस्य क्षत्रियाद्युपलक्षणत्वमङ्गीकरणीयमेवेति निषेधाभ्यनुज्ञानशास्त्रयोरुभयोरपि सर्वसाधारणत्वमेवाङ्गीकरणीयम् ।
अथोच्येत—दानविधिनिषेधपराणां वचनानां विवाहविधिनिषेधपर्यन्तं तात्पर्याङ्गीकरणमावश्यकमिति पूर्वमुपपादितत्वात् “नोपरुन्ध्याद्रजस्वलाम्” इति शाब्दनिषेधे जाग्रति निषेधाक्षेपोनपेक्षणात्अपेक्षणेऽपि चतुर्थापररात्रसमावेशनस्यादृष्टार्थत्वमेवेति पूर्वमुपपादितत्वात् न कयापि स्मृत्या विरोध इति निषेधाक्षेपस्यापि संभवात् क्षत्रियादिमात्रविषयमेवाभ्यनुज्ञानमिति । तदापि त्रीणि वर्षाणीत्यादिवचनजातं किं “ब्राह्मणो मदमोहितः” इतिविशेषवचनमुपजीव्य रजोऽनन्तरविवाहमभ्यनुजानाति, उताहो सामान्यमुखेन निषेधमुपजीव्येति विचारणायां विनिगमनाविरहेण द्विविधनिषेधोपजीवनेनैवेदमभ्यनुज्ञानशास्त्रं प्रवृत्तमिति त्रीणि वर्षाणीत्यादिवचनं सर्वसाधारणमेव । यदि पुनः सामान्यमुखेन प्रवृत्तत्वसामान्यादभ्यनुज्ञाशास्त्रमपि सामान्यतः प्रवृत्तनिषेधमेव उपजीवति, न विशेषमुखेन प्रवृत्तनिषेधमिति वर्ण्येत, तत्रेदं विचारणीयम्- विशेषशास्त्रत्वेन तदभिमतं ब्राह्मणस्त्रीणामेवरजोऽनन्तरविवाहं निषेधतीति कथं सिद्ध्यतीति । तत्र न तावत् ब्राह्मणकर्तृ कविवाहेन; संस्कारस्य स्मृतिसिद्धत्वात् । नापि प्रकारान्तरेण; तदसंभवात् । न हि “यस्तां विवाहयेत्कन्यां ब्राह्मणो मदमोहितः” इत्यत्रकर्तुरिव संस्कार्याया अपि ब्राह्मणशब्देन व्यव-

हारो विद्यते । एवञ्च ऋतुमतीसामान्यस्य विवाहनिषेध एवोक्तवचनतात्पर्यमभ्युपगमनीयम् । ऋतुदर्शनदोषसंकीर्तनपराणां सामान्यमुखेनैवप्रवृत्तिदर्शनात् । एवं च प्रत्त्यासत्तिन्यायेनापि ऋतुमतीसामान्यग्रहण एव अपिशब्दस्वारस्यमिति त्रीणि वर्षाणीत्यादिवचनानां सर्वसाधारणत्वमेव युक्तम् । अत एव “यः करोत्येकरात्रेण वृषलीसेवनं द्विजः” इति रजस्वलाविवाहनिषेधवाक्ये द्विजशब्दग्रहणोपपत्तिः । एवञ्च ऋतुमतीविवाहाशास्त्रीयतावादोऽब्राह्मणस्त्रीविषयेऽपि युक्त एवेति ।
परे तु– ब्राह्मणस्य सर्ववर्णीयविवाहाधिकारेऽपि स्त्रवर्णीयकन्याविवाह एव धर्मप्रजासम्पत्त्यर्थमिति तत्कर्तृकतद्विवाहगोचराणां ब्राह्मणीशब्दाघटितानामपि तद्विषयकत्वमेव भविष्यतीति संवर्तादिविशेषवचनानां ब्राह्मणीमात्रविषयकत्वात्सामान्यमुखेन प्रवृत्तानां त्रीणिवर्षाणीत्यादीनां ब्राह्मणीविषयकत्वमपि विद्यते वा न वा ? आद्य तत्समानविषयकाभ्यनुज्ञाशास्त्रमपि ब्राह्मणीविषयमेव। द्वितीये तु संकोचे प्रमाणाभावः । एवं “ब्राह्मणो मदमोहितः” इत्यत्रापि त्रैवणिकाविवक्षणे “यःकरोत्येकरात्रेण वृषलीसेवनं द्विजः” इति वाक्ये द्विजग्रहणानुपपत्तिः । तद्विवक्षणे तु त्रीणिवर्षाणीत्यादिवचनसमानविषयकत्वमेवेति ब्राह्मणकन्यानामपि रजोऽनन्तरविवाहोऽभ्यनुज्ञायत एव । एवं वैवाहिकचतुर्थरात्रसमावेशनान्यथानुपपत्तिरपि तत्र गमिकेति कथं तदशास्त्रीयत्वमिति शङ्कनीयम् । एवमपि वा आपत्कल्पतया तदभ्यनुज्ञान एव तात्पर्यं त्रीणि वर्षाणीत्यादीनामङ्गीकरणीयम् । “दद्यादप्राप्तकालेऽपि " इत्यादिवचनानामिवऋतुमत्यपीत्यपिशब्दघटितानामपि अभ्यनुज्ञाशास्त्राणां आपद्धर्मव्यवस्थापकत्वस्यैव सर्वसम्मतत्वात् । वैवा-

हिकचतुर्थरात्रसमावेशनं त्वदृष्टार्थं सहशयनमात्रपर्यवसन्नं न त्वृतुमतीविवाहलिङ्गमिति पूर्वमेव निरूपितम् ।
यदपि समावेशनस्य सहशयनमात्रपर्यवसानसिद्धान्तपराणां प्रमाणाञ्जलि समर्पणमेव वरमुत्तरं मन्यामह इति । तत्र केचित् समादधते- तत्रेदं प्रष्टव्यम्, किं तेषां साहसिकत्वात् साहसिकानाञ्चात्यन्तक्रोधसंसूचकप्रणामाञ्जलिसमपणेनैव मौनमुद्रा स्थादित्यत्र विवक्षितम्, उताहो तेषां प्रामाणिकत्वात् प्रामाणिकानाञ्च प्रणोमाञ्जलिसमर्पणपूर्वकोपसदनमेव यथावदर्थग्रहणे समुचितोपाय इति ? आद्येभवतामपि विनापि प्रमाणलेशं साहसेन प्रतिज्ञामात्रेण तत्सिद्धान्तव्यवस्थापनपराणां विषये तादृशमुत्तरं वरतममिति मन्यामहे, यतो हि साहसिकपर्यनुयोगसमुचितसन्नाह इतिविधोपदेशतो गुरवोऽपीदानीं भवन्तः संवृत्ताः । द्वितीये तु न रजोऽनन्तरविवाहसिद्धिरित्यायातं सन्मार्गेणेति मन्तव्यमिति \। युक्तंचैतत् ।
“नोपरुन्ध्याद्रजस्वलाम्” इति वचनं ब्राह्मणकन्येतरविषयकमिति न युक्तम् । “उद्वहेद्यस्तु तां कन्याम्” इति वचनस्य “नोपरुन्ध्याद्रजस्वलाम्” इति वचनस्य च द्वयोरपि निषेधपरत्वात् “न ब्राह्मणं हन्यात् " “नात्रेयं हन्यात्” इति वचनयोरिव न परस्परबाध्यबाधकभावादिकम्, किन्तु “नात्रेयं हन्यात्” इति वाक्येनात्रेयहनने पापाधिक्यमिव “ब्राह्मणो मदमोहितः” इत्यनेन ब्राह्मणकर्तृ करजस्वलाविवाहे पापाधिक्यवर्णन एव तात्पर्यम् । अत एव सर्वत्रापि स्मृतिषु सर्वसाधारणविवाहप्रकरण एवैतेषां निर्देश उपपद्यते । अन्यथा हि त्रीणि वर्षाणीत्यादीनां क्षत्रियधर्माधिकार एव निर्देशापत्तेः । सर्वथापि तु त्रीणि वर्षाणीत्यादिना आपत्कल्प-

तयैव रजोऽनन्तरविवाहोऽभ्यनुज्ञायते । अभ्यनुज्ञातस्यापि पितृपरादिप्रायश्चित्तानुष्ठानपूर्वकमेवानुष्ठानमिति कन्यावरयोः सर्वविधपापनिवृत्तिसम्भवेऽपि पितृविषये व्यवहार्यत्वमेव सम्पद्यते; भ्रूणहत्यादीनां व्यवहारनिरोधकशक्तिमात्रस्यैव प्रायश्चित्तेन निवारणात् । तदुक्तम् – “कामतो व्यवहार्यस्तु वचनादिह जायते” इति । एवञ्च भ्रॄणहन्तॄणां पित्रादीनां लोकविद्विष्टत्वमपि सिद्धं भवतीति लोकविद्वेषप्रयोजकत्वादपि न रजस्वलादानादिसमयकल्पनं युक्तम् । एतावता सन्दर्भेण सकलगृह्यसूत्राणां सर्वासामपि स्मृतीनां गौतमाश्वलायनबोधायनवसिष्ठ पराशरादिनिमित्तानां अभिप्रायो निरूपितः – यथा ऋतुमतीविवाहो न शास्त्रीय इति ॥

मन्त्रलिङविचारः

अत्र केचित् प्रत्यवतिष्ठन्ते—स्मॄत्यादीनां पौरुषेयत्वादपौरुषेयं मन्त्रलिङ्गमेव प्रबलमिति तदन्यथानुपपत्त्या रजोनन्तरविवाहः शास्त्रीय इति । अयमाशयः मन्त्राणां हि प्रयोगसमवेतार्थस्मारकत्वेन प्रामाण्यमिति मन्त्राधिकरणे पूर्वतन्त्रे निरूपितम् । विवाहाङ्गभूताश्च मन्त्राः प्रौढां स्त्रियं प्रकाशयन्तो विवाह्यायाः प्रौढात्वमेवावश्यकमिति प्रमाणयन्ति । नहि “आरोहोरुम्” इति समावेशनाङ्गभूतमन्त्रप्रकाश्यमानो ऊर्वारोहणालिङ्गनाद्यर्थो कन्यायां भवति । यदि तु कन्याया अपि तत्सम्भवतीति साहसमाश्रीयते, तदापि “सोमः प्रथमं विविदे गन्धर्वः” इति मन्त्रप्रतिपादितं मनुष्यस्य चतुर्थपतित्वं रजोऽनन्तरविवाहलिङ्गंभवति । तथाहि-

व्यञ्जनेषु च जातेषु सोमो भुञ्जीत कन्यकाम् \।
पयोधरेषु गन्धर्वःरजस्यग्निः प्रतिष्ठितः” इति वचनं

हि सोमस्य व्यञ्जनकाले पतित्वंपयोधरकाले गन्धर्वपतित्वं रजःकाले अग्निपतित्वं च बोधयति । तत्र तृतीयपतेरग्ने रजःकाल एव पतित्वे चतुर्थपतेस्तदुत्तरमेव पतित्वमर्थसिद्धमेवेति रजोऽनन्तरविवाहलिङ्गमेव तदिति मन्त्रलिङ्गविरोधो दुष्परिहर इति ऋतुमतीविवाहोऽपि शास्त्रीय इत्येव भवति । यावता च ऋतुमतीविवाहोऽपि शास्त्रीय इत्येतावता समावेशनादिमन्त्राणामपि स्वारस्यं सिद्धम् । एवञ्च मन्त्रलिङ्गाविरोधेनैव स्मृत्युपपत्तिवर्णनं युक्तमिति तासामपि तच्छास्त्रीयतायामेव तात्पर्यम् \। कन्याशब्दस्य अप्राप्तयौवनशक्तस्यापि अविवाहितापरत्वमपि गौण्या वृत्त्या उपपन्नमिति “अर्यमणं देवं कन्या अग्निमयक्षत” इत्यादिमन्त्राणामपि न विरुद्धत्वम् । गौण्यां मानाभावेन शक्त्याश्रयणमेव युक्तमित्याग्रहे तु “अग्निर्ज्योतिः र्ज्योतिः सूर्यः स्वाहा । ” इति मिश्रमन्त्रलिङ्गेन देवताद्वयवदुभयविवाहोऽपि शास्त्रीय इत्यङ्गीक्रियताम्; विनिमनाविरहात् । एवं च समानबलमन्त्रलिङ्गद्वयमूलकयोः “नोरुन्ध्याद्रजस्वलाम्’ ‘त्रीणि वर्षाण्युदीक्षेत’ इतिवचनयोरुभयोरपि परस्परबाध्यबाधकभावायोगेन ग्रहणाग्रहणयोरिव विकल्प एव पर्यवसानम् । एवं ‘सोमो वधूयुरश्विनो तावुभौ वरा सूर्यां पत्ये शंसतीं मनसा सविता दद्यात् । सकूतिमिद्रसच्युतिं जघनच्युतिं कनातू कामान्न आभर प्रयदयन्ति शक्यौ’ इत्यादिमन्त्राश्चात्र प्रमाणीभवन्तीति ।
वयोनिर्णयकारास्तु– यद्यपि मन्त्रलिङ्गं प्रौढाविवाहसाधकमत्र प्रसज्यते, तथापि मन्त्राणामर्थवादानाञ्च विध्येकवाक्यतयैव प्रामाण्यमिति जैमिनीयसिद्धान्तानुसारेण प्रतीयमाने प्रमाणान्तरविरुद्धार्थे प्रामाण्यं न संभवतीति प्रत्यक्षचोदनारूपानेकस्मृतिबाधित-

रजस्वलाविवाहबोधने तात्पर्यमभ्युपगन्तुं न शक्यते । यद्यपि मन्त्रलिङ्गमपौरुषेयम्, स्मृतयस्तु पौरुषेयाः, तथापि ‘श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्’ इति बलाबलपर्यालोचनायां मन्त्रलिङ्गापेक्षया स्मृतिप्राबल्यमपिगम्यत इतिस्मृत्यनुसारेणैवार्थनिर्णयो युक्तः । नहि श्रुतिरित्येतावता तत्सर्वं प्रमाणम्, स्मृतिरित्येतावदप्रमाणम्; ‘क्षुत आचामेत्’ इति स्मृत्यापि ‘वेदं’ कृत्वा वेढिं करोति’ इतिश्रुतिबाघदर्शनात् । किंतुप्रमेयावगमसन्निकर्षविप्रकर्षाभ्यामेव प्रमाणस्य बलाबले । एवं चोक्तसूत्रे श्रुतिशब्देन श्रौतः स्मार्तो वा निरपेक्षतया बोधकः शब्द एवगृह्यत इति लिङ्गापेक्षया स्मृतिर्वलीयसीति सिद्धमेव लिङ्गविरोधेऽपि स्मार्तश्रुतेर्बलीयस्त्वादिति निबन्धकारवचनम्। वारुणीभिरादित्यमुपतिष्ठतु’ इत्यत्र स्मृत्यापि मन्त्रलिङ्गबाधसिद्धान्तश्चात एवोपपन्नो भवति । यदि मन्त्रलिङ्गमेव स्मृत्यपेक्षया प्रबलमिति स्यात्, तदा ‘उद्बुध्यस्वाग्ने’ ‘अग्निर्मूधा’ इत्यादिमन्त्राणांअग्न्याद्याराधन एवाङ्गत्वापत्तिरिति बुधभौमादिग्रहाराधनविनियोगस्मृतीनामप्रामाण्योपत्तिः । विरोधाधिकरणे तु एकजातीयप्रमाणभूतयोरेव श्रुतिस्मृत्योर्बलाबलविचारः कृतः, न तु भिन्नजातीययोरपीति मन्त्रलिङ्गविरुद्धानामपि स्मृतीनामप्रामाण्ययोजने न तदधिकरणयोजने तात्पर्यम् \। भिन्नजातीया श्रुतिः स्मृतिर्वा यतरा प्रमेयसन्निकृष्टा ततरैव बलीयसी । तदुक्तम्-

नैव तावत् श्रुतिस्मृत्योः स्वरूपेण विरुद्धता \।
बलाबलपरीक्षा वा प्रमेयद्वारिका हि सा ॥ इति ॥

अनेन हि वचनेनार्थिकार्थपरश्रु त्यपेक्षया शाब्दप्रमेयपरस्मृतिप्राबल्यं ‘क्षुत आचामेत्’ इत्यादिस्मृतिविरुद्धानां वेदं कृत्वा वेदिं

करोति’ इतिक्रमपरवचनानामप्रामाण्यबोधनार्थं निरूपितम्, तत्सामान्यात् अत्रापि स्मृतिप्राबल्यवर्णनमेव युक्तम् । अपिच विधिना कर्मविशेषं प्रति विनियुक्ताःखलु मन्त्राः किञ्चदर्थं प्रकाशयितुमर्हन्ति नासति विनियोग इति कन्याविवाह विनियुक्तानामेतेषां कथञ्चिदपि लक्षणादिना कन्याप्रकाशकत्वमेवाङ्गीकरणीयमिति मन्त्रलिङ्गानामपि स्मृत्यविरोधेनैवोपपत्तिर्वर्णनीया ।
अयमभिप्रायः– इदं कर्मानेन मन्त्रण कार्यमिति कर्मविशेषे प्रमाणान्तरेणाङ्गत्वे गृहीते खलु तत्र लिङ्गेन कस्यचिदर्थस्यानुमानम्।

लिङगेनैवाङ्गत्वस्य निर्णये तु परस्पराश्रयदोषः । अङ्गत्वग्राहकं च प्रमाणं स्मृतिरेवेति तदेवोपजीव्य लब्धात्मकं मन्त्रलिङ्गं कथमपि न तद्बाधकं स्यात्; उपजीव्यबाधस्यायुक्तत्वात् । लिङ्गस्वरूपसिद्धिश्च यावतास्मृत्यधीना, तावतो मन्त्रलिङ्गमपि स्मार्तमेवेति समाने स्मार्तत्वे विधिस्त्वविरुद्धं लिङ्गमाभांसीकरोति । युक्तं चैतत् । विध्युत्तरकालमेव मन्त्राणां प्रवृत्त्या विधिरुपक्रमस्थो मन्त्राश्च पाश्चात्त्याइति स्फुटं उपक्रमेण च प्रमाणेन दुर्बलेनापि बोधितमेवार्थं प्रबलमपि पाश्चात्यं प्रमाणं अनुसरति । उपपादितं चैतत् “वेदो वा प्रायदर्शनात्’ इत्यादौ तृतीयाध्याये पूर्वतन्त्रे ।
एवं च दुर्बलापि स्मृतिरेव वस्तुसाधिकेति विवाहमन्त्रलिङ्गानां कथमपि न रजस्वलाविवाहसाधकत्वम् । किञ्च कालान्तरभाविनमर्थमादायापि मन्त्रलिङ्गानि सावकाशनि भवितुमर्हन्ति । स्मृतीनां पुनर्लिङ्गबलबाध्यमानानां न कश्चिदन्योऽवकाशः शक्येःकल्पयितुमिति ‘आनर्थक्यप्रतिहतानां विपरीतं बलाबलम्’ इति न्यायेन स्मार्तैरपि विधिभिरेव श्रौतान्यपि लिङ्गानि अर्थान्तरवि-

षयतामापाद्यन्तइति स्मृतिप्राबल्याङ्गीकरणमेव युक्तम् । स्मृतयो हि व्यवस्थितधर्माधर्मादिस्वरूपप्रतिपादनपरा इति न तदातनदेशकालाद्यानुगुण्येन कल्पिता इति हेतुदर्शनाच्चेति न्यायेनापि न तदप्रामाण्यशङ्कावसरः \।

‘श्रुतिं पश्यन्ति मुनयः स्मरन्ति च तथा स्मृतिम् ।’

इति मनुवचनमप्यत्रप्रमाणम् \। तासां सादित्वात् तत्प्रतिपादितोऽर्थोऽपि सादिरिति कल्पना न युक्तिसहा; ज्योतिष्टोमोऽनुष्ठेय इत्यस्मदादिवाक्यागतज्योतिष्टोमादेरपि सादित्वापत्तेः । ‘यद्यप्यर्थो नित्यः, या त्वसौ वर्णानुपूर्वी सा अनित्या’ इति महाभाष्यवचनमप्यनुकूनम् । यद्यपि हेतुदर्शनाच्चेति सूत्रे स्मृतीनामप्यप्रामाण्यमुपपादितम्, तथापि न तत् मन्वादिस्मृतिविषयम्; वेदार्थं प्रत्यक्षीकृत्य तमेव शब्दान्तरेण प्रतिपादयतां महर्षिवर्याणां जितारिषड्वर्गाणां कामक्रोधादिदृष्टहेतुसम्भावनाया अपि असंभवात् ।

‘योऽवमन्येत ते तूभे हेतुशास्त्राश्रयान्नरः ।
स साधुभिर्बहिष्कार्यो नास्तिको वेदनिन्दकः ॥ इति ॥

मनुवचनञ्चास्माकमनुकूलम् । किञ्च कतिपयभ्रान्तजनदृष्टानि मन्त्रलिङ्गानि, स्मृतयः पुनः प्रामाणिकमूर्धन्यानेकमहर्षिजनप्रत्यक्षा इति स्मृतिप्राबल्यमेवाङ्गीकरणीयम् । किञ्च भवदुद्धृतवैवाहिकमन्त्रलिङ्गानि ऋषयो जानन्ति न वा? यदि जानन्ति कथमेते मन्त्रलिङ्गान्यमूदृशान्यर्थविशेषसाधकानि न गणयाम्बभुबुः ? न खलु भवादृशेभ्यः हीनप्रज्ञास्ते इति विद्यमानमपि मन्त्रलिङ्गं स्मृतिविरोधादप्रमाणमेव तैर्गृहीतमिति मन्त्रलिङ्गानुसारेण रजस्वलाविवाहसाधनं न सम्भवत्येव ।

अस्तु वा मन्त्रलिङ्गप्राबल्यम्, एवं चेदपि ऋतुमतीविवाहसाधनं मन्त्रलिङ्गं किमपि वेदे नोपलभ्यते । तनुसंसर्गप्रार्थनादीनां कन्यायामपि संभाव्यमानतया प्रौढालिङ्गत्वाभावात् ।
यत्तु"सोमः प्रथमो विविदे गन्धर्वः” इति मन्त्रगतं मनुष्यचतुर्थपतित्वलिङ्गम्, तदपि न ऋतुमतीविवाह साधने समर्थम् ; अग्न्यनन्तरपतित्वबोधनमात्रेण अग्न्याधिपत्यकाल एव विवाह इति कल्पनायां “ऊदीर्ष्वातो विश्वावसो नभसेडामहीत्वा” इति मन्त्रलिङ्गविरोधो दुष्परिहरः । अनेन हि मन्त्रेण गन्धर्वाख्यद्वितीयपतिः स्तुतिनमस्क्रियापुरःसरं विवाहितां वधू मम पत्नीं विहाय पितृगृहीतामन्यां कन्यां प्रति त्वया गन्तव्यमिति प्रार्थ्यते । तत्र यद्यग्न्याधिपत्यकाल एव विवाह इति स्यात् तदा अग्निप्रार्थनमेव खलु कर्तव्यम् । ननु उक्तमन्त्रलिङ्गेन द्वादशादिवयस्काया अपि विवाहसिद्धावपि प्रथममन्त्रलिङ्गाबाधनात् तदनुसारेण ऋतुमतीविवाहोऽपि शास्त्रीय एवेति चेन्न; स्वष्टास्पष्टलिङ्ग्योः स्पष्टलिङ्गानुसरणमेव युक्तमिति द्वितीयलिङ्गाश्रयणस्यैव युक्तत्वात् । न च प्रथमलिङ्गमपि स्पष्टमेवेति वाच्यम्, अस्मदादीनामिव सोमादीनां तरुणीभोगाद्यसम्भवेन ‘व्यञ्जनेषु च जातेषु’ इति वाक्यघटकस्य भुंक्तेइत्यस्य आत्मनेपदान्तस्यापि पालयतीत्यर्थकत्वाश्रयणेन सोमगन्धर्वाग्निपालयितृत्वबोधन एव तात्पर्येण व्यञ्जनादितः पूर्वमेव विवाहेपि तादृशलिङ्गोपपत्त्या स्पष्टत्वाभावात् । यदि तु भुङ्क्ते इत्यस्य अनुभवतीत्येवार्थस्वीकरण एवाग्रहः, तदा तु सत्कार्यवादानुसारेण अष्टमादिवयस्यपि व्यञ्जनादि सम्बन्धोपपादनसम्भवेन ऋतुमद्वयस एव ग्रहणमित्यसम्भवात् न स्पष्टलिङ्गत्वम्। विवाहाङ्गमन्त्रलिङ्गैरेव रजस्वला विवाहासिद्धौ तदनङ्गमन्त्रलिङ्गैःप्रौ-

ढाप्रकाशनसमर्थैरपि न विवाह्यायाः ऋतुमतीत्वकल्पनं संभवदुक्तिकमिति मन्त्रलिङ्गानुसारेण तद्विवाहशास्त्रीयतावादः असङ्गत एवेति निर्णयन्ति ।
अन्ये तु– देवताधिकरणन्यायेन मन्त्राणामपि प्रतीयमानार्थप्रामाण्यमङ्गीकरणीयमेव न च प्रमाणान्तरविरोध एव प्रतीयमानार्थप्रामाण्यम्, अन्यथा “आदित्यो यूपः” इत्यादिनामपि प्रामण्यापत्तेः । एवं चात्र स्मृतिप्रमाणविरोधात् न प्रामाण्यमिति शङ्कनीयम्; प्रमाणान्तरपदे लौकिकप्रमाणस्यैव ग्रहणेन लौकिकप्रमाणविरुद्धार्थतात्पर्याभाऽवे समानजातीयालौकिकप्रमाणस्य प्रथमतः प्रवृत्तिसम्भवेन भिन्नजातीयप्रमाणद्वयस्यापिप्रतीयमानार्यतात्पर्यकत्वेन विकल्पपर्यवसानेन उपपत्तिवर्णनस्य आवश्यकत्वात् अस्मदुक्तरीत्या समानजातीयमन्त्रलिङ्गद्वयमूलकस्मृतिद्वयविरोधेऽपि विकल्पएव पर्यवसानात् । अन्यथा “नातिरात्रे षोडशिनं गृह्णाति, अतिरात्रेषोडशिनं गृह्णाति” इति वाक्ययोरप्यप्रमाण्यापत्तेः।
अयमभिप्रायः—“आदित्योयूपः” इत्यादिवाक्यानां यूपादिस्तुतिपराणां आदित्याभेदबोधनेऽपि तात्पर्याङ्गीकारप्रयोजनाभावात् वाक्यार्थबोधनतः पूर्वमेव प्रतीयमानप्रमाणान्तरविरोधात् न स्वार्थे प्रामाण्यमिति युक्तम् । मन्त्रलिङ्गाधिगतानां प्रौढात्वादीनां तु न केनापि प्रमाणेन विरोधः । स्मृत्यादीनां पौरुषेयानामपि अपौरुषेयवेदमूलकत्वेन प्रमाणानां मन्त्रलिङ्गप्रमाणप्रवृत्तितः पूर्वमेव प्रवृत्तिरिति वर्णनासम्भवात् । सम्भवेऽपि मन्त्रलिङ्गप्रवृत्तितः पूर्वं तद्विरोधबुद्ध्यनुदयेन प्रतीयमानार्थप्रामाण्योपपादने न दोषात् । यत्र प्रवृत्तयोः प्रमाणयोः परस्परविरोधः तत्र विकल्प एव

पर्यवसानम्, यथा विधिनिषेधस्थले । एवं च मन्त्राणां स्मृतिविरुद्धानामपि स्वार्थप्रामाण्याङ्गीकार आवश्यक एव । न चैवमपि मन्त्रलिङ्गापेक्षया स्मृतीनां प्रबलत्वात् तद्विरोधेन मन्त्रलिङ्गप्रमाणं न प्रवर्तत इति वाच्यम्; अष्टकादिस्मृतीनां मन्त्रलिङ्गार्थवादादिमूलकत्वेनैव प्रामाण्यमिति स्मृत्यधिकरणन्यायेन मन्त्रलिङ्गापेक्षया स्मृतिदौर्बल्यस्य साधितत्वात् । मन्त्राणां पदैकवाक्यतया वा वाक्यैकवाक्यतया वो विध्यनन्वयस्य मन्त्राधिकरणे खण्डदैवेरुपपादितत्वेनविध्येकत्रशक्यतयैव अन्वयवर्णनस्थासङ्गतत्वात् श्रुतिलिङ्गवाक्यप्रकरणस्यानसमाख्यानामिति सूत्रेण त्वङ्गत्वप्रमाणानामेवनिर्देशः, न धर्मत्वप्रमाणानामित्युक्तसूत्रे श्रुतिशब्देन स्मृतिग्रहणेऽपि न धर्मप्रमाणमन्त्र लिङ्बाधः समुचितः । अन्यथा मन्त्रलिङ्गादिसिद्धाष्टकादिस्मृतीनां बौद्धादिपरिकल्पितनिषेधस्मृतीनां च तुल्यवत् प्रामाण्यापत्तिः स्मृतित्वाविशेषात् । दुर्बलमन्त्रलिङ्साचिव्यमात्रेण त्वष्टकादिस्मृतिप्राबल्यवर्णनं न संभवतीति शिष्टाचारप्रामाण्ये स्पष्टमेवोपपादितम् । न च बौद्धपरिकल्पितवचनानां स्मृतित्वमेव नास्तीति भ्रमितव्यम् । तेषामपि हेतुदर्शनाच्चेतिसूत्रे स्मृतित्वेनभट्टपादैःव्यवहारात् ।
एतेन—लिङ्गविरोधेऽपि स्मार्तश्रुतेर्बलीयस्त्वादिति वचनमपि व्याख्यातं भवति; तस्यापि धर्मत्वाविषयकत्वात् । न च श्रुतिलिङ्गेतिसूत्रेऽङ्गत्वप्रमाणस्यैव निर्देश इति संकोचे प्रमाणाभावात् धर्मत्वप्रमाणस्यापि ग्रहणमित्येवाङ्गीक्रियतामिति वाच्यम्; तत्र श्रुतिशब्देन तृतीयादिकारक विभक्तेरेव ग्रहणेन तस्या अङ्गत्वमात्रग्राहकत्वात् । अङ्गत्वं हि नाम परोद्देशप्रवृत्तकृतिकारकत्वेन विधिविषयत्वम् । परोद्देशप्रवृत्तकृतेर्विधिविषयत्वस्य

चान्यलभ्यत्वात् कारकत्वलाभं विना नात्मानं लभत इति तृतीयादिश्रुतेरेव तत्स्वरूपबोधकतेति युक्तम्। धर्मंत्वन्तु वेदबोधितालोकिकश्रेयःसाधनत्वरूपं न तृतीयादिविभक्तिसमधिगम्यमिति श्रुतिलिङ्गेतिसूत्रे धर्मप्रमाणस्यापि निर्देश इति कल्पनान संभवत्येव । एवं च मन्त्रार्थवादसाधारणशृतिबोधितत्वमात्रेणैव तद्वोधसंभवात् मन्त्रलिङ्गादीनामपि धर्मत्वविषये निरपेक्षप्रमाणत्वमेव युक्तम् । भट्टपादैरपि—“चोदनालक्षणोऽर्थो धर्मः” इति सूत्रे चोदनापदेन मन्त्रार्थवादसाधारणवेद एव विवक्ष्यते, न विधिवाक्यमात्रमिति व्यवस्थापयद्भिरयमर्थोऽनुगृहीत इति मन्त्रलिङ्गस्मुत्योर्मन्त्रलिङ्मेव प्रबलमित्येवङ्गीकरणीयम् । एवञ्च मन्त्रलिङ्गविरुद्धानां स्मृतीनामेवाप्रमाण्यंविरोधाधिकरणन्यायेन सिद्ध्यतीतितेन न्यायेन मन्त्रलिङ्गाप्रामाण्यवर्णनमसंभवदुक्तिकमेव । एवं धर्मत्वप्रमाणविषयेऽपि विध्यपेक्षया मन्त्रलिङ्गानांविप्रकर्षाभावात् श्रौतविध्यपेक्षयापि मन्त्रलिङ्गदौर्बल्यं न संभवतीति स्थितेस्तदपेक्षप्रमाणभावानां स्मृतीनां कथं मन्त्रलिङ्गबाधकत्वमिति भवन्त एव विवेचयन्तु ।
एवं च “नैव तावत्स्वरूपेण श्रुतिस्मृत्योर्वरुद्धता । बलाबलपरीक्षा वा प्रमेयद्वारिका हि सा " इति वचनेनापि न विरोध इति सूचितम् । एतेन—एकजातीयप्रमाणभूतयोः श्रुति स्मृत्योरेव विषये विरोधादिप्रकरणन्यायविरोधप्रसरः ; मन्त्रलिङ्गस्मृत्योस्तु भिन्नजातीयत्वात् न तत्रापि विषये तादृशन्यायप्रसरइति मन्त्रलिङ्गविरुद्धस्मृत्या अप्रामाण्यवर्णनं न युक्तमिति वचनमपि परास्तम् । तथाहि—किमिदं समानजातीयत्वं भिन्नजातीयत्वं वा ? तत्र न तावत् श्रुतिलिङ्गसत्रघटकै-

कक्षुतिशब्दसमधिगम्यत्वं भिन्नशब्दसमधिगम्यत्वं भिन्नजातीयत्वम् । एवञ्च विध्यात्मकवेदभागानां तादृशस्मृतीनां च एकश्रुतिशब्दसमधिगम्यत्वात् समानजातीयत्वम्, मन्त्रलिङ्गस्मृत्योस्तु भिन्नशब्दसमधिगम्यत्वात् भिन्नजातीयत्वमितिः वर्णनं संभवति। उक्तरीत्या उक्तसूत्रे धर्मप्रमाणनिर्देशासम्भवेन उक्तसमानजातीयत्वस्य धर्मप्रमाणप्राबल्यदौर्बल्यनिर्णयानुपयोगित्वात् । नापि समप्राबल्यरूपं विषमप्राबल्यरूपं वा तत् । श्रुतिस्मृत्योः समप्राबल्यभावस्यासंभवात् । श्रुतित्वेनैव श्रुतीनां प्राबल्येन मन्त्राणामपि श्रुतित्वाविशेषात् तद्विरुद्धस्मृत्यप्रामाण्यबोधनेऽप्युक्ताधिकरणतात्पर्यमङ्गीकरणीयमेव । “वेदं कृत्वा वेदिं करोती” त्यत्र तु क्त्वाप्रत्ययेनानन्तर्यमात्रं बोधितम्, विधिना कर्मविशेषं प्रति विनियुक्ताः खलु मन्त्राः कञ्चिदर्थं प्रकाशयितुं अर्हन्तिनासति विनियोगे इति सत्यं विनियोजकस्मृत्यनुसारेणैव मन्त्रलिङ्गान्यथानयनं युक्तम् \। यथा “उद्बुध्यस्वाग्ने” इत्यादिमन्त्राणां बुधभौमादिग्रहाराधने विनियोगानुसारेण कथञ्चिदपि बुधादिपरत्वाश्रयणम्, विनियोजिका च श्रुतिः श्रौतीव स्मार्तापीति न विशेष इति च । तथापि “नोपरुन्ध्याद्रजस्वलाम्” इत्यादिस्मृतिभिरारोहोरुमित्यादिमन्त्रविनियोजनाभावात् उक्तस्मृतीनामयमभिप्रायः– श्रुतिलिङ्गाधिकरणेन हि स्वाश्रयविनियोजकस्वविरुद्धश्रुत्यपेक्षया मन्त्रलिङ्गदौर्बल्यमेव बोध्यते, न तु श्रुतित्वेन श्रुतीनां मन्त्रलिङ्गत्वेन मन्त्रलिङ्गानाञ्च प्राबल्यदौर्बल्ये।
एतेन- “वारुणीभिरादित्यमुपतिष्ठते” इति स्मृतिबाध्यत्वेऽपि लिङ्गस्य नात्र विरोध इति सूचितम् । लिङ्गविरोधेऽपि स्मार्तश्रुतेर्बलीयस्त्वादिति निबन्धवचनस्याप्ययमेवाभिप्रायः । आरो-

होरुमित्यादिमन्त्राणान्तु विवाहाङ्गकर्माङ्गतया विनियोगेऽपि कन्याविवाहाङ्गतया विनियोगाभावात् कन्याप्रकाशकत्वमेव कथञ्चिदप्याश्रयणीयमिति वचनमपि न सम्भवति । न च स्मृतिप्रमाणेन कन्याविवाह एव शास्त्रीय इति सिद्धौ तद्विवाहाङ्गतायामेव पर्यवसनात् कन्याप्रकाशकत्वमेवाङ्गीकरणीयमिति वाच्यम्; उक्तमन्त्रलिङ्गविरोधे स्मृतेरप्रमाणत्वेन कन्याविवाहस्यैवासिद्धेः। “अर्यमणन्तु देवं कन्या अग्निमयक्ष्यत” इति मन्त्रलिङ्गेन कन्याविवाहसिद्धौ “आरोहोरुम्” इत्यादिमन्त्रलिङ्गेन रजस्वलाविवाहोऽपि सिद्ध्यतीति न किञ्चिदनुपपन्नं नाम \।
वस्तुतस्तु स्मृतीनामपि रजोऽनन्तरविवाहाधर्मताबोधने न तात्पर्यमिति पूर्वमुपपादितत्वात् स्मृतिबाधं विनापि तद्विवाहसिद्धौ न कोऽपि दोषः समापतति । रजस्वलाविवाहनिषेधपरत्वमेव युक्तमिति कल्पना तु न सम्भवति । मन्त्रलिङ्गविरुद्धानामप्रामाण्यादन्यथानयनमेव युक्तम् । उपजीव्यानुरोधेनोपजीवकान्यथानयनम्, न तूपजीवकानुसारेणोपजीव्यान्यथानयनम् । मन्त्रलिङ्गं च स्वाश्रयमन्त्राणां यत्किञ्चिन्निरूपिताङ्गत्वग्रहणानन्तरमेव स्वात्मानं लभते इत्यङ्गत्वग्रहणस्य स्मृत्यधीनत्वात् स्मृतिप्राबल्यमेव युक्तम्, लिङ्गेनैवाङ्गत्वस्यापि ग्रहणे तु परस्पराश्रयदोष इत्यपि न शङ्कनीयम; सामान्यसम्बन्धबोधकप्रकरणादिसचिवस्य लिङ्गस्याप्यङ्गत्वग्राहकप्रमाणकोटौ निर्देशेनाङ्गत्वग्रहणानन्तरमेव लिङ्गस्वरूपसिद्धिरितिवचनस्यातिफल्गुवात् \। तेनैव चाङ्गत्वनिर्णयसम्भवे स्मृत्युपजीव्यत्ववादासाङ्गत्यात् । उपजीव्यत्वेऽपि यादृशांशयोरुपजीव्योपजीवकभावः, तत्रैवोपजीव्येनोपजीवकबाधः, न त्वंशान्तरेऽपि, प्रत्यक्षोपजीव्यत्वेऽपि आगमस्य प्रत्यक्षबाधकत्वा-

ङ्गीकारात् । स्पष्टतरं चेतत् भामस्यद्वैतसिद्ध्यादौ। एवं च वयोनिर्यायांशे स्मृत्युपजीव्यस्वाभावात् स्मृतिविरोधेन वयोनिर्णयेऽपि नोक्तन्यायप्रसरः । यदप्यर्धजरतीयन्यायापादनम्, तदप्यज्ञानविजृम्भितमेव । यथाहि— अलाब्वर्धांशभक्षणेऽपि तद्भक्षणनिषेधशास्त्रोल्लङ्घनं सिद्धम्, नैवं वयोनिर्णयांशबाधेऽङ्गत्वांशबाधादिकमिति वैषम्यात्\। अभ्युपेत्यापि स्मृत्युपजीव्यत्वमेवं वर्णितम् ।
वस्तुतस्तु— स्मृत्युपजीव्यत्वमेव मन्त्रलिङ्गानां न संभवति । तथाहि - किमिदमुपजीव्यत्वं प्रामाण्यांशे, उत उत्पत्त्यंशे? नाद्यः; मन्त्राणां स्वतःप्रमाणत्वात् । न द्वितीयः; मन्त्रनित्यत्वेन तल्लिङ्गस्यापि नित्यत्वात् । मन्त्राधिकरणपर्यालोचनायां तु स्मृत्युपजीव्यत्वमेव मन्त्रलिङ्गानामिति पूर्वमुपपादितत्वात् यत्किञ्चिदेतत् । यदपि चोक्तम्—विध्युत्तरकालमेव मन्त्राणां प्रवृत्त्योपक्रमस्थत्वेन विधिप्राबल्यमिति । तत्र प्रतिब्रूमः—अस्पष्टमन्त्रलिङ्गापेक्षया तद्विरुद्धस्पष्ट विधिवाक्यप्राबल्याङ्गीकारेऽपि न क्षतिः । विधिशब्देन च श्रौतविधिरेव गृह्यते युक्तत्वात् । न तु स्मार्तविधिरपि । एवञ्च विधिप्राबल्याङ्ङ्गीकारेऽपि स्मृतिबाधोपपादनं भविष्यत्येव । यद्यपि इषेत्वेति मन्त्रप्रवृत्त्यनन्तरमपि “इषेत्वेति शाखामाच्छिनत्ति” इति ब्राह्मणप्रवृत्तेर्दर्शनात् विध्युत्तरकालमेव मन्त्राणां प्रवृत्तिरिति न नियमः संभवति, यद्यपि चोपक्रमस्थत्वमात्रेण प्राबल्यमपि न भविष्यति ; उपक्रमगतानामपि “इदंरजतम्” इत्यादीनां उपसंहारगतेन “नेदंरजत” मिति बाधज्ञानेन बाधदर्शनात् । यदि पुनरन्योन्यसापेक्षाणामर्थवादविधीनां परस्परविरुद्धानामुपक्रमोपसंहारगतानां सतां किमनुरुध्य कस्य नयनमिति शङ्कायां उपक्रमगतमप्यर्थवादमनुसृत्यैव प्रधानस्यापि विधेनेयनमित्येव तादृशन्या-

यशरीरम्, भ्रमबाधज्ञानयोस्तु उत्पत्तौ प्रवृत्तौ वा परस्परनिरपेक्षत्वात् नोपक्रमगतेनापि भ्रमेण बाधज्ञानबाध इति युक्तम्। विधिमन्त्रयोस्तु परस्परसापेक्षतयैव प्रवृत्तेरुपक्रमगतविधिप्राबल्यवादो युक्त एवेत्युच्यते । तत्रेदं प्रष्टव्यम्—मन्त्राणां परस्परापेक्षत्वं किं प्रमाणसिद्धम् उताहो स्वकपोलकल्पितम् ? तत्र न तावत् प्रथमः कल्पः संभवति, मन्त्राणां पदैकवाक्यतया वा वाक्यैकवाक्यतया विध्यर्थबोधकत्वेन प्रामाण्याभावस्य मन्त्राधिकरणे खण्डदेवैरुपपादितत्वात् । अन्यथाऽर्थवादाधिकारणेनैव गतार्थत्वात् मन्त्राधिकरणं वितथं प्रसज्येत । न द्वितीयः; अप्रामाणिकभवदीयकल्पनाया अञ्चित्करत्वात् । एवञ्च विधिमन्त्रयोर्भ्रमबाधज्ञानयोरिवपरस्परापेक्षत्वं नास्त्येवेति नोक्ताधिकरणप्रसक्तिः । किन्तु “पूर्वात्परबलीयस्त्वं तत्र नाम प्रतीयताम् । अन्योन्यनिरपेक्षाणां यत्र जन्म धियां भवेत्” “पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत्” इति वचनानुसारेणापच्छेदाधिकरणन्यायेनोत्तरकालप्रवृत्तिकानां मन्त्राणामेव प्राबल्यं स्यादित्युपक्रमोपसंहारन्यायसंचारादिकं गाढाज्ञानविजृम्भितमेव ।
एवं चोपक्रमस्थत्वमात्रेणप्राबल्यनिरूपणमपि न संभवत्येव । तथाप्यभ्युपेत्याप्युपक्रमस्थत्वं तत्प्रयुक्तप्राबल्यं च स्मृतिप्राबल्यखण्डनार्थमेव युक्तमिति न कथञ्चिदपि मन्त्रालिङ्गाप्रामाण्यशंकावसरः । यदप्युक्तम्—मन्त्राणां भाविरजस्वलात्वबोधनेनापि चारितार्थ्यादचरितार्थानामपि स्मृतीनामेव वाऽनर्थक्यप्रतिहतानां विपरीतं बलाबलमितिन्यायेन न प्राबल्यमिति । तदपि न सङ्गतम् । प्रयोगसमवेतार्थस्मारकत्वेन खलु मन्त्राणां चारितार्थ्यम् । न तु संभवदर्थप्रकाशकत्वमात्रेणेति रजस्वलाया विवाहसम्बन्धबोधनं विना मन्त्रचारितार्थ्यबोधनासंभवात् मन्त्राणामपि चारितार्थ्याभा-

वात् । अन्यथा स्मृतीनामपि पूर्वकालिकाष्टवर्षत्वबोधनेन चारिर्थ्यसंभवादिति मन्त्रलिङ्गप्राबल्यमेव पर्यवस्यति । एवञ्च व्यवस्थितधर्माधर्मविषयकाणामपि स्मृतीनां तदातनदेशकालाद्यानुगुण्येन कल्पितत्वशङ्काया अप्रसरेण हेतुदर्शनाच्चेति सूत्रेणाप्रामाण्यवर्णनायोगेऽपि विरोधाधिकरणन्यायेन अप्रामाण्यवर्णनं संभवत्येव ।
ननु मन्वादिस्मृतीनां वैदिकार्थविषयकत्वमेव नियतम्; “श्रुतिं पश्यन्ति मुनयः” इत्युक्तवचनानुरोधात्। एवञ्च मन्त्रलिङ्गविरुद्धानामपि तासां प्रामाण्यमङ्गीकरणीयमेवेति चेत्, ननु भोः, किं मूलप्रमाणाप्रत्यक्षेऽपि तत्प्रामाण्याङ्गीकरणमभिप्रेतम्, उताहो तत्प्रत्यक्ष एव वा? नाद्यः; प्रत्यक्षमन्त्रलिङ्गविरोधे मूलश्रुत्यनुमानासंभवेन विरोधाधिकरणन्यायेनाप्रामाण्यस्यैवाङ्गीकरणीयत्वात्, “वैसर्जनहोमीयं वासोऽध्वयुर्गृह्णाति” इति स्मृतेरप्यप्रामाण्यस्य व्यवस्थापितत्वात् । न द्वितीयः; इष्टापत्तेः । एवं च समावेशनादिमन्त्रलिङ्गविरुद्धस्मृतिमूलप्रामाण्यस्थाप्रत्यक्षत्वेन न रजस्वलाविवाहनिषेधपराणां वचनानामुपपत्तिर्भविष्यतीति रजस्वलाविवाहः शास्त्रीय इत्येवाङ्गीकरणीयम् ।
यदप्युक्तम्– कतिपयभ्रान्तजनदृष्टानि मन्त्रलिङ्गानि, स्मृतयस्तु प्रामाणिकमूर्धन्यानेकमहर्षिप्रत्यक्षा इति । तदपि न युक्तम्; उक्तमन्त्रलिङ्गानामपि तत्प्रत्यक्षत्वात् । अत एव हि ते “त्रीणि वर्षाण्यृतुमती” इत्यादिवचनैः स्पष्टमेव रजस्वलानामपि विवाहमनुजानते \। यदि तूक्तजातीयवचनानां ऋतुमतीविवाहपत्वंनास्तीति पूर्वमेवोपपादितमिति तदप्रत्यक्षाण्येव इमानि मन्त्रलिङ्गानीति कथ्यते, तदा कामं भवत्त्वप्रत्यक्षाणि लिङ्गानीति । न हि

तावता विद्यमानमपि मन्त्रलिङ्गमविद्यमानं सम्पद्येत । यदि महर्षिजनप्रत्यक्षं लिङ्गं किमपि नास्तीति कथ्यते, तर्हि उक्तलिङ्गमपि तत्प्रत्यक्षमित्यास्ताम् । प्रत्यक्षं चापि लिङ्गं साहसादिना ते न निर्दिशन्तीति वदामः । यथाहि " औदुम्बरीं स्पृष्ट्वोद्गायेत्” इति प्रत्यक्षामपि श्रुतिमनादृत्य तद्विरुद्धामेव काञ्चन स्मृतिं “औदुम्बरी सर्वा वेष्टयितव्या” इतिरूपामस्मार्षुः। एवम् । एतेन—भवदुदाहृतवैवाहिकमन्त्रानृषयो जानन्ति वा न वा ? यदि जानन्ति, कथमेते लिङ्गवचनान्यमूदृशान्यर्थविशेषसाधकानि न गणयाम्बभूवुः ? न खलु भवादृशेभ्यो हीनप्रज्ञास्ते इत्यादिवचनमपि परास्तम् \। “औदुम्बरी सर्वा वेष्टयितव्या” इति स्मृतिकारा अपि “औदुम्बरीं स्पृष्ट्वोद्गायेत्” इति श्रुतिं जानते वा न वा ? यदि जानते, कुतस्ते न गणयाम्वभूवुः ? न खलु शबराचार्यादिभ्यो हीनप्रज्ञास्ते, इति पर्यनुयोगस्य भवतामपि विषये समापत्तोरिति कथञ्चिदपि मन्त्रलिङ्गाप्रामाण्यवर्णनं न सम्भविष्यतीति मन्तव्यम् । उपपादितं चैतत् शिर्वार्कमणिदीपिकायां दीक्षितवर्यैरिति तत एव द्रष्टव्यम् । श्रुतप्रकाशिकाकारकुमारिलभट्टाचार्यै श्रायमर्थोऽपि विशेषत उपपादितः । यावता च मन्त्रलिङ्गप्रामाण्यसिद्धिः, तावता समावेशनादिमन्त्रलिङ्गेन ऋतुमतीविवाहशास्त्रीयतापि सिद्धा भवति । यदि तु कन्यायामपि गौणसमावेशनादिसंभवात् न तत्प्रौढालिङ्गमित्युच्यते, तर्हि सोमः प्रथममिति मन्त्रलिङ्गं तादृशमास्ताम् । ननु तदपि न प्रौढालिङ्ग’ भवतीति पूर्वमुपपादितमिति चेत्, सत्यमुपपादितम्, उपपन्नन्तु न भवति । तथाहि— न वयमग्न्याधिपत्यकाल एव विवाह इति वदामः, किन्तु तदापि विवाहः शास्त्रीय इति । तत्र “उदीर्ष्वात” इति

मन्त्रलिङ्गवशेन द्वादशादिवयस्काविवाहवत् उक्तमन्त्रलिङ्गवशेन ऋतुमतीविवाहोऽपि शास्त्रीय इति वदामः । न च “व्यञ्जनेषु च जातेषु” इत्यत्र भुङ्क्तेपदस्य रक्षतीत्यर्थकत्वेन कन्याविषयकत्वमपि संभवतीति “सोमः प्रथमः” इति मन्त्रलिङ्गं न स्पष्टमिति वाच्यम्; भुङ्क्तेइत्यात्मनेपदान्तस्य “भुजोऽनवने” इति पाणिनीयसूत्रेण रक्षणार्थे आत्मनेपदनिषेधात् अनुभवतीत्यर्थकत्वाश्रयणस्यैत्र युक्तत्वात् । लक्षणया तदुपपादने—

" पूर्वं स्त्रियः सुरैर्भुक्ताः सोमगन्धर्ववहिनभिः ।
भुज्यन्ते मानुषैः पश्चात् न ता दुष्यन्ति कर्हिचित् ।”

इति वचनविरोधो दुष्परिहरः । न हि रक्षणरूपेण भोगेन कोऽपि दोषः कन्यायां प्रसज्यते ।
“व्यञ्जनैस्तु समुत्पनैः” इति व्यञ्जनादीनामेव भोगकलापत्वेन स्मरणादुपभोगोऽपि संभवदुक्तिक एव \। सत्कार्यवादानुरोधेन भाविकायामपि तदनुभवसमर्थनन्तु—

“व्यञ्जनेषु च जातेषु सोमो भुङक्ते च कन्यकाम् \।
पयोधरेषु गन्धर्वो रजस्यग्निः प्रतिष्ठितः ॥”

इति वचनगतक्रमबाधोपत्त्याऽसङ्गतम्। तत्र मते उत्पत्तेरेवाभिव्यक्तिरूपत्वेन जातेष्वित्युत्पत्तिकालावच्छेदेनैव अनुभवितृत्वबोधनात् तस्य च कन्याया असंभवात् प्रौढालिङ्गमेव तदिति पश्यामः । “इयमेव सा प्रथमा व्यौच्छदन्तरस्यां चरति प्रविष्टा वधूर्जजान” इत्यादिमन्त्रास्तु विवाहाङ्गभूता अपि इतिहासरूपाः सन्तो रजस्वलाविवाहे प्रमाणीभवन्तीति सर्वविधमन्त्रलिङ्गान्यपि रजोनन्तरविवाहे प्रमाणमिति-वर्णयन्ति । विवाहकालविमर्शकाराणामपि पर्यवसिताशयोऽयमेवेति जानीमः ।

परे तु– सत्यम्, मन्त्रलिङ्गापेक्षया स्मृतिरप्रमाणम्, तावतापि ऋतुमतीविवाहसिद्धिः परं न भविष्यति। मन्त्राणां हि यदङ्गत्वं यत्र क्लृप्तम्, तत्स्मारकत्वमात्रेण तत्र चारितार्थ्यात् अर्थान्तरधर्मादिबोधनेऽपि न सामर्थ्यम्। मन्त्रार्थत्वव्यापकं न धर्मस्व- प्रयोगसमवेतत्वादिकम्, किन्तु तत्समानाधिकरणं तदित्येव सिद्वान्तात्। यत्र पुनः प्रकरणप्रमाणेनाग्निहोत्रहोमाङ्गत्वमात्रं निश्चितम्, प्रकाशनीयार्थस्तु न निश्चितः, तत्रापेक्षिताग्न्यादिधर्मत्वादिबोधनेनैव मन्त्रचारितार्थ्यमिति मन्त्रलिङ्गवशेनैवाग्न्यादिनिर्णयः।एवञ्च पाणिग्रहणसमावेशनादिमन्त्राणां क्लृप्ताङ्गभावे पाणिग्रहणसमावेशनादिस्मारकत्वेनैव सामर्थ्योपक्षयात् न प्रोढोधर्मत्वबोधनेऽपि व्यापारः। यथाहि—निर्वपामि इत्यादिद्वित्रिपदैरेव प्रयोगसमवेतार्थस्मरणे सम्भवत्यपि देवस्यत्वेत्यादिपदसमुदायवत् निर्वपामीत्यादिपदोपस्थापितनिर्वापस्मरणेनैवादृष्टसिद्धिः। एवत्रापि सुप्रजास्त्वायेत्यादिपदसमुदायविशिष्टेन “पाणिं गृह्णामि ते” इत्यादिना तत्स्मरण एवादृष्टसिद्धिरिति। किञ्च मन्त्रप्रकाश्यमानानामर्थानां कन्यास्वपिसंभवान् न किमपि प्रौढालिङ्गमुपपद्यत इत्यपि वक्तुं शक्यते। यत्तूक्ततम्—“सोमः प्रथमो विविदे” इति मन्त्रेण बोध्यमानं मनुष्यचतुर्थकत्वं प्रौढाविवाहशास्त्रीयतायां गमकमिति। तत्र प्रतिब्रूमः—सोमस्य प्रथमपतित्वं गन्धर्वस्य द्वितीयपतित्वं वन्हेस्तृतीयपतित्वं च किं विवाहसम्बन्धिप्रथमद्वितीयतृतीयादिदिनविषयकत्वेनाभिप्रेतम्, उताहो व्यञ्जनेष्वितिवचनानुसारेण व्यञ्जनोत्तरकालं सोमपतित्वं तदुत्तरकालं पयोधरोत्तरकालं गन्धर्वपतित्वं तदुत्तररजोऽनन्तरकालं वन्हिपतित्वं तदनन्तरविवाहोत्तरकालं मनुष्यपतित्वमिति विवेचनीयम् ? आद्येऽपि

प्रथमदिने व्यञ्जनोत्पत्तिः, द्वितीयदिने पयोधरोत्पत्तिः, तृतीयदिने रजोधर्मोत्पत्तिरिति विवक्षितं वा न वा ? नाद्ये प्रथमः- एकैकदिनात्ययमात्रेण पयोधरादीनामुत्यत्त्यसंभवात् । नाद्येद्वितीयः;

“व्यञ्जनेषु च जातेषु सोमो भुङ्के्ऽथ कन्यकाम् ”

इतिवचनविरोधात् कन्याऽविवाह एवपर्यवसानाच्च । न द्वितीयः ;—

व्यञ्जनैस्तु समुत्पन्नैः सोमो भुञ्जीत कन्यकाम् ।
पयोधरैस्तु गन्धर्वो रजसाऽग्निः प्रतिष्ठितः ।
तस्मादव्यञ्जनोपेतामरजामपयोधराम् ।
अभुक्तां चैव सोमाद्यैः कन्यकां तु प्रशस्यते ।

इति गृह्यसंग्रहकारवचनविरोधात् । अनेन हि वचनेन व्यञ्जनोत्पत्तिपूर्वमेव अविवाहितासम्बन्धिसोमाद्यनुभवस्य दोषत्वसंकीर्तनपूर्वकं व्यञ्जनोत्पत्तितः पूर्वमेव विवाहः शास्त्रीय इति प्रतिपाद्यते । न च “तस्मादव्यञ्जनोपेताम्” इति वचनस्य “व्यञ्जनैस्तु समुत्पनैः” इतिगृह्यसंग्रहवाक्यशेषत्वेऽपि व्यञ्जनेषु च जातेषु’ इति संवर्तवावयशेषत्वाभावात् उक्तार्थतात्पर्यकल्पनः न संभवतीति वाच्यम्, शाखान्तरीय वाक्यशेषानुसारेण शाखान्तरीयवाक्यार्थनिर्णय इति ‘बृहस्पतेर्वा एतदन्नं यन्नीवाराः इतिवाक्यस्य याग विधिपरत्ववर्णनावसरे खण्डदेवैरुपपादितत्वेनोक्ततात्पर्यकल्पनस्य तत्र युक्तत्वात् ।
एतेन -

“पूर्व स्त्रियः सुरैर्भुक्ताः सोमन्धर्ववह्निभिः ।
भुज्यन्ते मानुषैः पश्चात् न ता दुष्यन्ति कर्हिचित्”

इति वचनमपि व्याख्यातं भवति । विवाहितानान्तु स्त्रीणां व्यञ्जनादिकालावच्छेदेन सोमाद्यनुभवस्य शास्त्रप्रामाण्येनादोष-

त्वेऽपि अविवाहितानां तदनुभवस्य दोषत्वादिति । अयमाशयः— द्विविधं हि पतित्वं स्वामित्वलक्षणमनुभवितृलक्षणञ्च, प्रथमं तु पतित्वं पूर्वं व्यञ्जनादितः, द्वितीयं तु व्यञ्जनकाले सोमस्य, पयोधरकाले गन्धर्वस्य द्वादशादिवयसि रजःकाले तु वन्हेः; ऋतुस्नानानन्तरं तु मनुष्यस्येति विवेकः । न चोक्तविधद्विविधपतित्वेप्रमाणाभाव इति शङ्कनीयम्; ‘सोमः प्रथमो विविदे’ इति ‘सोमोऽददत् गन्धर्वाय’ इति च मन्त्रद्वयाम्नानस्यैव प्रमाणत्वात् ।
एवं च—

‘विवाहो ह्यष्टवर्षायाः कन्यायाश्च प्रशस्यते ।

इत्यादिस्मृतयः प्रथममन्त्रार्थानुवादिकाः ।
‘व्यञ्जनेषु च जातेषु सोमो भुञ्जीत कन्यकाम्’ इति वचनं द्वितीयमन्त्रार्थानुवादकमिति न कोऽपि दोषः ।

एतेन —

तासां सोमोऽददच्छौचं गन्धर्वः शिक्षिताङ्गिरम् \।
अग्निश्च सर्वभक्षत्वं तस्मान्निष्कल्मषाः स्त्रियः ॥

 इति वचनमपि व्याख्यातं भवति । न च 'षडब्दमध्ये नोद्वाह्या' इति वचनशेषत्वेन विवाहतः पूर्वमेव प्रथमद्वितीयतृतीयवत्सरद्वयेन सोमाद्यनुभवस्य प्रतिपादनात् तद्वचनविरोध इति शङ्कनीयम्, उपनयनस्थानीयस्य विवाहस्य गर्भाष्टमतः पूर्वमप्रसक्तत्वात् 'नान्तरीक्षेऽग्निश्चेतव्यः' इतिवदुक्तवचनस्यार्थवादत्वेन स्वार्थाप्रामाण्यात्, व्यञ्जनकालावच्छेदेन तु विवाहस्यातिदेशतः प्राप्तेः। तस्मादव्यञ्जनोपेतामिति वचनं तु तदार्थमेवेति युक्तम् । 'व्यञ्जनेषु च जाते'ष्वित्यस्य तु हेतुमन्निगदार्थवादस्यापि स्वार्थे प्रामाण्यमपि देवताधिकरणन्यायेन युक्तमेव । तस्यापि स्वार्था-

प्रामाण्यकल्पनायामपि नास्माकं क्षतिरित्यन्यत्र विस्तरः । सर्वथापि तु नोक्तलिङ्गमृतुमतीविवाहगमकम् । अत एव ‘नाजातलोम्न्यासह संविशेत’ इति वचनमपि सार्थकं भवति । यदि व्यञ्जनोत्पत्त्यनन्तरमेव विवाह इति स्यात्, तदा व्यञ्जनोत्पत्तितः पूर्वं भार्यात्वस्यैवासंपन्नत्वात् ‘नाभार्यामुपगच्छेत्’ इति वचनेनैव अनुपगमनस्य सिद्धत्वेन वितथमेव तत्संपद्येत । व्यञ्जनोत्पत्तितः पूर्वमेव विवाह इत्यङ्गीकारे तु सार्थक्यसम्भव इति तत्त्वम् । न चास्माभिर्व्यञ्जनोत्पत्तितः पूर्वमपि विवाहस्याङ्गीकारादस्मन्मतेऽप्युक्तवचनसार्थक्यसम्भव इति वाच्यम्; सङ्कोचे प्रमाणाभावात्, असंङ्कुचितसार्थक्यासम्भवाच्च । न च ‘ऋतौ भार्यामुपेयादिति’वचनेन ऋतुकालभिन्नकालावच्छेदेन स्वभार्यागमनस्यापि निषिद्धत्वात् तद्ववचनवैफल्यं भवन्मतेपि तुल्यमिति वाच्यम्; ऋतुस्नानानन्तरं

‘विष्णुर्योनिं कल्पयतु’ इत्यादिमन्त्रजपविशिष्टसमावेशनरूपस्य विहितस्य गर्भोत्पत्तिप्रयोजकस्य ऋतुकालभिन्नसप्तदशादिरात्रावच्छेदेनापि प्रसक्तस्योपगमनस्यैव निषेधे उक्तवचनतात्पर्यम्, न तु व्यञ्जनादिपूर्वकालावच्छेदेन रागतः प्रसक्तस्योपगमनस्य निषेधेऽपि । न च सङ्कोचे प्रमाणाभाव इति शङ्कनीयम्; रागप्राप्तोपगमनापेक्षया विधिप्राप्तोपगमनस्यैव प्रत्यासन्नत्वात् । अस्तु वा उभयविधोपगमनस्याप्यत्र ग्रहणम्, तावतापि नोक्तवचनवैफल्यम् ।

ऋतुस्नातां तु यो भार्यां सन्निधौ नोपगच्छति ।
घोरायां ब्रह्महत्यायां पतते नात्र संशयः ॥

इत्यादि वचनानुसारेण ‘भार्यामेव उपगच्छेदेव’ इति नियमद्वयाङ्गोकारेऽपि ऋतावेवेति कालनियमानङ्गीकारात् ।

‘यथाकामी भवेद्वापि स्त्रीणां वरमनुस्मरन् ॥ इति ॥

याज्ञवल्क्यस्मृत्या ऋतुकालभिन्नकालावच्छेदेनापि भार्योपगमनस्य विहितत्वात् । व्यञ्जनजन्मतः परं ऋतुकालतः पूर्वं तु सोमाद्यनुभवकालत्वात् न मनुष्याद्यनुभवप्रसङ्गः इत्यलमनेन प्रसक्तानुप्रसक्तविचारेण \।

इदमेवाभिप्रेत्य विधिमीमांसायामुक्तम्—

ननु मन्त्रलिङ्गस्य स्मृतेश्च क्वचिद्विरोधे कथं विनिर्णयः । अत्रोच्यते-यत्र स्मृत्या मन्त्रार्थमनूद्यविधानान्तरं तत्र विकल्प इति प्रागुक्तमेव । यत्र पुनर्नानुवादः तत्र बाध एव स्मृतेरिति नयविदां मतम् । तथा च तन्त्रवार्तिकं ‘यत्र पुनः श्रुतिरानुमानिकी लिङ्गं च प्रत्यक्षम्, तत्र कथम्, यथा स्मृतिवैदिकलिङ्गविरोधे । तत्र स्मृतेः मूलान्तरमपि संभाव्यते, न तु लिङ्गस्येति तदेव बलवदिति अनुसर्तव्यं ।

‘दुर्बलस्य प्रमाणस्य बलवानाश्रयो यदा ।
तदापि विपरीतत्वं शिष्टाकोपे यथोदितम् \।\।
अत्यन्तबलवन्तोऽपि पौरजानपदा जनाः ।
दुर्बलैरपि बाध्यन्ते पुरुषैःपार्थिवाश्रितैः ॥ इति ॥

विवाहनित्यत्वानित्यत्वविचारः—
तादृशश्च विवाहः नित्यो वा उत काम्यो वेति विचारणायां काम्य एव विवाहः । “निराश्रमी न तिष्ठेत दिनमेकमपि द्विजः” इति वचनेन यत्किञ्चिदाश्रमे आस्था नमात्रस्यैव प्रतिपादनात् । तत्र च द्विजशब्दप्रयोगानुसारेण द्विजत्वप्रयोजकब्रह्मचर्यव्यतिरिक्ताश्रमसामान्यस्य काम्यत्वमेवेति बहुविवाहवादकारा वर्णयन्ति । वयोनिर्णयकारा अप्यमुमेवसिद्धान्तमवलम्बन्ते । स्त्रीणां विषये उपनयनस्थानीयत्वेनाकरणप्रत्यवायश्र-

वणाच्चनित्यत्वेऽपि पुसां विषये काम्य एव विवाह इति वर्णयन्ति । विवाहकालविमर्शकारास्तु— कलियुगे वानप्रस्थसंन्यासयोर्निषिद्धत्वाद्ब्रह्मचर्याश्रममात्रेऽवस्थानस्यापि तथात्वात् नियत एव पुसामपि विषये विवाह इति वर्णयन्ति । परे तु कलियुगे इदानीन्तनाग्निहोत्रनिषेधे “चत्वार्यब्दसहस्राणि चत्वार्यब्दशतानि च । कलौ यदा गमिष्यन्ति तदा त्रेतापरिग्रहः । संन्यासश्च न कर्तव्य इति वेदविदां मतम्” इति वचनस्य न तात्पर्यम् ।

“यावद्वर्णविभागोस्ति यावद्वेदः प्रवर्तते ।
संन्यासं चाग्निहोत्रं च तावत्कुर्यात्कलौ युगे ॥

इति वेदप्रवृत्तिपर्यन्तं तदनुष्ठानस्यावश्यकत्वपरवचनानुसारेणन्यथैवार्थवर्णनस्य युक्तत्वात् । उपपादितं चैतत् सज्जनरञ्जने वसुमारकमर्दनखण्डने चास्मत्कृत इति तत एव

द्रष्टव्यम् । एवं चोक्तप्रकारेण पुंसामपि विषये विवाहनित्यत्वसाधनं न भविष्यत्येव । तथाप्यविरक्तान् स्नातकान्विधुरांश्चोद्दिश्यैव गृहस्थाश्रमप्रवेशोपयोगिविवाहस्य विधानेन तेषां नियतमेव तदनुष्ठानं आवश्यकमेवेति पुंसामपि विषये विवाहो नित्य एव । उक्तं चैतत्, यथाहि विवाहस्स्त्रीसंस्कारः, एवं पुरुषसंस्कारोऽपि, स्त्रियां जायात्वसम्पत्तेरिव पुरुषे पतित्वसम्पत्तेरपि विवाहप्रयुक्तत्वाङ्गीकारावश्यकत्वात् ।

अत एव हि दत्ताया अपि कन्याया पाणिग्रहणादिसंस्कारानिर्वृत्तौ वरान्तरायापि दानादिविधानम् । यदि हि प्रतिग्रहणमात्रेणैवस्वामित्वं धान्यादेरिवस्यात्, तदा पित्रादेः पुनर्दानादिविधिरसम्मत एव सम्पद्येत । अत एव हि यथेष्टविनियोगानर्हत्वमपि भार्यायाः श्रुतिचोदितमुपपन्नं भवति । एवञ्चोभयसंस्काररूपस्य विवाहस्यांशभेदेन नित्यकाम्यत्वविभागो न सम्भवत्येव ।

न च कर्तृभोक्त्रुभयाश्रितस्यापि श्राद्धस्य कर्त्रशे नित्यत्वं भोक्त्रंशे तु काम्यत्वमिति दृष्टत्वात्तदनुसारेणात्राप्युपपत्तिरिति शङ्कनीयम् : उभयाश्रितस्यापि श्राद्धस्य उभयसमवेतफल जनकत्वाभावेनोभयपर्याप्तदाम्पत्यफलप्रयोजकविवाहवैषम्येण तद्दृष्टान्तेन विवाहविषयेऽप्युपपत्तिवर्णनासम्भवात् । न च स्त्रीमात्रसंस्काररूप एव विवाहः, उपनयनस्थानीयत्वात् । उपनयनं हि कुमारमेव संस्कुरुते, न तु पितरमपि तत्कर्तारमिति सर्वसम्प्रतिपन्नमिति शङ्कनीयम्; उपनयनोत्तरकालिकानां अध्ययनादीनां उपनीतमात्रविषयकत्ववद्विवाहोत्तरकालिकधर्मविशेषाणामपि विवाहितामात्राधिकारिकत्वापत्तेः ।
अयमाशयः – “अष्टवर्षं ब्राह्मणमुपनयीतेति” विहितमन्त्रकरणकोपनयनस्य न पितृसंस्कारोऽपि फलमिति युक्तम् ; तत्फलस्य द्विजत्वसम्पत्तेः पूर्वमेव सिद्धत्वात् । अष्टवर्षं ब्राह्मणमिति कुमारस्यैव द्वितीयान्तपदेनोपादानमपि तत्र गमकम्। विवाहविषये तु

“गार्हस्थ्यमिच्छन् व्रतिकः कुर्याद्दारपरिग्रहम् ।”

इतिवचनावगतगार्हस्थ्यप्रयोजनस्य पुरुषविषये विवाहतः पूर्वमसिद्धत्वात् तस्य विवाहप्रयुक्तत्ववर्णनं युक्तमेवेति वैषम्यात्। अस्तु वा स्त्रीमात्रसंस्काररूपम्, तावतापि “निराश्रमी न तिष्ठेत दिनमेकमपि द्विजः” इतिवचनेन नियतमेव अविरक्तानां स्नातकादीनां तदनुष्ठानावश्यकताऽवगमात् नित्यत्वाङ्गीकरणस्यावश्यकत्वात् । न हि कुमोरमात्रसंस्काररूपोपनयनमिति पित्रादिविषयेऽपि तत्कर्तृत्वं कामनाप्रयुक्तमिति सम्भवति । किञ्चोपनयनस्थानीयत्ववर्णनस्य विवाहेनैव स्त्रीणां ब्राह्मण्यादिसिद्धिरिति वर्णनस्य कालातिदेश एवोपयोगः नान्यत्र \। अन्यथा उपनयनं यथा पित्रै-

व कर्तव्यं तथा स्त्रीणां विवाहोऽपि पित्रैव कर्तव्य इत्यपि कल्पनाप्रसङ्गात् । यदि तु तत्र पित्रादिव्यतिरिक्तगार्हस्थ्यकामानामेव विवाहानुष्ठानेऽधिकारः शास्त्रचोदित इत्युच्यते, तर्हि तेनैव शास्त्रेण “निराश्रमी न तिष्ठेते”ति तस्य नित्यत्वमपि प्रतिपादितमिति कथं विवाहकाम्यतावादोपपत्तिरिति भवन्त एव विवेचयन्तु । एतेनोपनयनस्यैव विवाहस्यापि षोडशवयःपर्यन्तमपि काल एवेति वचनमपि परास्तम्; उपनयनस्थानीयत्वमात्रेणशास्त्रविरुद्धाङ्गीकरणायोगस्यानुपदमेव प्रतिपादितत्वात् । “नोपरुध्याद्रजस्वलाम्” इति बहुशः रजोदर्शनानन्तरं विवाहानर्हतायाः प्रतिपादितत्वात् । षोडशवयस्काया अपि विवाहवचनपरभारतवचनादिनामपि “ऋतुदर्शनाभावेसतीति विज्ञेयमि”तिनिबन्धकारवचनस्यापि चैवंसत्येवोपपत्तिरित्यस्मदुक्तरीत्यैवोपपत्तिवर्णनं युक्तमित्यृतुमतीविवाहशास्त्रीयतावादोऽसङ्गत एवेत्यलमनेन प्रसक्तानुप्रसक्तविचारेण ।

सर्वथापि तु विवाहकाम्यतावादोऽत्यन्तासङ्गतएव। न च “निराश्रमी न तिष्ठेत क्षणमेकमपि द्विजः” इति वचने यत्किञ्चिदाश्रमेऽवस्थानमात्रस्यैव प्रतिपादितत्वात् ग्रहस्थाश्रमस्वीकरणमेव युक्तमिति नियमाभावात् तदनुसारेण विवाहनित्यत्वसमर्थनं न युक्तमिति वाच्यम्; अस्य हि वचनस्य यस्य यस्य यादृश यादृशाऽश्रमः शास्त्रचोदितः, तस्य तस्य पुरुषस्य तादृशतादृशाश्रमावस्थानं विना एकमपि दिनमवस्थानं न युक्तमिति प्रतिपादन एव तात्पर्यम्, न तु यत्किञ्चिदाश्रमेऽवस्थानमात्रबोधने,अन्यथा संन्यस्तानामपि पुनर्ग्रहस्थाश्रमप्रवेशापत्तेः, क्रमसंन्यासप्रतिपादकानां वचनानामत्रैव तात्पर्यात् । यत्तु “ब्रह्मचर्याद्वा प्रव्रजेत् गृहाद्वावनाद्वेति’वचनम्, तदपि विरक्तविषयक्रमेवेति तत्र

तत्रोद्धोषितमिति अविरक्तानां स्नातकादीनां गृहस्थाश्रमस्वीकारस्यैव शास्त्रचोदितत्वात् विवाह नित्यतासमर्थनं युक्तमेव । पुत्रकामार्थविवाहयोस्तु अपत्नीकस्यैवाधिकार इति निराश्रमी न तिष्ठतेति वचनस्यैतद्विषयेऽप्रवर्तनात् तादृशविवाहयोः काम्यत्वमेव । तत्संकृतानां च उपगमनमात्र योग्यतासम्पत्त्यान कर्माधिकारः, धर्मप्रजार्थविवाहसंस्कृतानान्तु उपगमनादौ धर्मादौ चोभयत्रापि अधिकारः । सर्वविधविवाहानां च प्रयोगः परमेक एव । नित्यकाम्ययोः प्रयोगवैलक्षण्याभावात् । तत्र ब्राह्मणस्त्रीणां धर्मानुष्ठानावश्यकत्वात् केवल पुरुषार्थविवाहे कामार्थविवाहे च नाधिकारः अत एव हि सपत्नीकद्वितीयादिविवाहेऽपि धर्मप्रजासम्पत्त्यर्थमित्येव सङ्कल्पः शिष्टवर्यैःक्रियते । काम्यविवाहे च यदा कामः तदा विवाह इति युक्तं रजोदर्शनानन्तरमपि विवाहः शूद्राणाम् । वस्तुतस्तु काम्यकर्मणामपि शास्त्रचोदितकालिकानुष्ठानमेव फलाय कल्पते, न तु कामप्राप्तकालिक इत्यन्यत्र विस्तरः। अयमाशयः - विवाहोऽपि त्रिविधः धर्मप्रजार्थः केवलप्रजार्थः कामार्थश्चेति । प्रथमो नित्यो अन्तिमौ तु काम्यौ । यद्यपि मिताक्षरायां धर्मपुत्ररत्यर्थत्वेन विवाहस्त्रिविध इति आचाराध्याये धर्मार्थविवाहः पुत्रार्थविवाहः कामार्थविवाह इत्येव त्रैविध्यमुपपादितम्, तथापि पुत्रार्थविवाहस्यापि नित्यकाम्यभेदेन तत्र द्वे विध्योपपादनोद्विवाहचातुर्विद्ध्यापत्त्या"जातपुत्रः कृष्णकेश” इति श्रुत्या धर्मार्थमेव पुत्रार्थत्वस्यापि संसूचितत्वेन च मिताक्षराकाराणामपि धर्मप्रजार्थः केवलपुत्रार्थः केवलकामार्थश्चेत्येव त्रैविध्यवर्णने तात्पर्यम् । यद्यपि सपत्नीकद्वितीयादिविवाहसंस्कृतानां न कर्माधिकारः, तथापि ज्येष्ठभार्याया मरणानन्तरं कनिष्ठभार्याया अपि

कर्माधिकारसंभवात् स्वरूपयोग्यत्वं विद्यत एव । अत एवहि तस्या ज्येष्ठभार्याया सत्वदशायामुत्पन्नस्यापि ब्राह्मणत्वमेवेति सिद्धान्तः । यथा च धर्मप्रजार्थविवाहे नैव द्वितीयजन्मसम्भवः, तथान्यत्र विस्तरः । बहुविवाहवादे तु सर्वभार्याणामपि सर्वकर्माधिकार इति सप्रमाणं निरूपितमिति तत्सिद्धान्तादरणे न कस्यापि पर्यनुयोगस्यावकाशः । तादृशे च विवाहे ऋतुदर्शनाभावविशिष्टोपनयनकाल एव काल इति ऋत्वनन्तरमपि तच्छास्त्रीयतावादोऽसम्भवदुक्तिक एव ।

तदयं निर्गलितोऽर्थः-

ऋतकालतः पूर्वमेव ब्राह्मण स्त्रीणां विवाहः करणीयः ।

तत्राप्यष्टमादिकाल एव मुख्यकालः \। यदि तु पित्रादिप्रमादेन रजोदर्शनं तदापत्कलपतयाप्रायश्चित्तानुष्ठानपूर्वकं विवाहोनुष्ठानमप्यभ्यनुज्ञायते ।

यदि तु ऋतुदर्शनानन्तरमपि साहसादिना पित्राभिर्न दीयते, तदा वर्षत्रयप्रतीक्षणेन कन्यया स्वयं वरणं कर्तव्यम् ।

तत्रापि वरेण कन्यायाः स्वस्य च आश्वलायनोक्तप्रकारेण शुद्धिः संपादनीयेति ।
ये तु पुनर्दैवात् दृष्टरजस्कायाः कन्यायाः कूपादिष्वेव पातनं शास्त्रीयं मन्यन्ते, मन्ये साहसिक्तानां कठिनहृदयानां च तेषां शास्त्रमप्यनाद्रियमाणानामास्तिकत्वाभिमान एव केवलं नास्तिकभावोपीति सुधीरमुद्घोषयामः । सर्वथापि तु आपत्कल्पनयैव रजस्वलाविवाहः शास्त्रेऽभ्यनुज्ञायतइति वयोनिर्णयकराणामाशयः समीचीनः, न त्वनापत्कल्पनयापि रजोदर्शनानन्तरं विवाहः शास्त्रचो-

<MISSING_FIG href=”#”/><MISSING_FIG href=”#”/>दित इति विवाहकालविमर्शकारणामाशय इति सर्वमनवद्यमिति वर्णयन्ति ।
अस्माकमपि परेषां मतमेव समीचीनमिति प्रतिभाति । अतो वयमपि तमेव पक्षमनुवर्तामहे \। यदित्वन्यैरास्तिकवयैःपक्षान्तरानुसरणमेव युक्तमिति समुचितप्रमाणजातैरुपाद्येत, तर्हिपूर्वाचार्यक्षुण्णमार्गानुसरणमेव निःश्रेयसं मन्वाना वयमपि तत्सि

द्वान्तमेवानुसरिष्यामः ।

इति श्री सन्तोजीमहाराजादिचाल्यमानसनातनधर्मो
ज्जीविनीसभाङ्गभूतग्रन्थप्रणयनसमितिसम्पा-
दिते सनातनधर्मप्रदीपे विवाह-
प्रकाशः समाप्तः \।

<MISSING_FIG href=”../books_images/U-IMG-1695280069s.JPG”/><MISSING_FIG href=”#”/><MISSING_FIG href=”#”/>

]