( ३ ) शुद्धिप्रकाशः ।
मातामहमहाशैलं महस्तदपितामहम्।
कारणं जगतां वन्दे कण्ठादुपरि वारणम् ॥
[अस्पृश्यानां देवालयप्रवेशविचारः]
—
अस्पृश्यानामन्त्यजानां स्पर्शो न परिवर्तव्यः देवालयप्रवेशश्च तेषां न निषेद्धव्य इत्येवमन्त्यजविषयं मतमिदानीं लोके प्रथते।
अत्र सौकर्यार्थं सच्छूद्रचाण्डालयोः कश्चन संवाद उपन्यस्यते ।
सच्छ्रद्रः— भद्र, श्रूयते देवालयं प्रविविक्षुरसीति । किं तत्र ते साध्यम् ?
चाण्डालः—यद्भवतस्तदेव ममापि । यथाहि भवादृशा देवतानामाराधनया कल्याणं सम्पादयितुमिच्छन्ति, तथैव तन्मयापि सम्पादनीयम् ।
सच्छूद्रः—सन्ति तत्र तत्र बहवः पाषाणाः । तेषामेकतमं बहून् वा पूजयित्वा त्वंकल्याणं लभस्व । कोऽयं देवालयगत एव पाषाणेऽभिनिवेशः?
त्वा वैष्णवान् सम्पूज्य देवं बालालये प्रतिष्ठाप्यालयादि सर्वत्र नवीकरणं कृत्वा महाप्रतिष्ठां कारयेत् । इति ।
अर्चनानवनीतेऽपि सेवाप्रकारे इदं विवेचितम्—
तद्यथाः—
गर्भागारे चसेवार्थं वैखानसकुलोद्भवः ।
वेदाध्ययनविप्रेण अर्धमण्डपसेवितम् ॥
यतीनां विष्णुभक्तानां महामण्डपसेवितम् ।
वैश्यशूद्रानुलोमानां ब्रह्ममण्डपसेवितम् ॥
शेषाणां हरिभक्तानां गोपुरं तु विधीयते ।
प्रतिलोमान्त्यजातीनां स्थूपिं दृष्ट्वा समाचरेत् ॥ इति ॥
भृगुरपि —गर्भालयप्रवेशे तु अन्यसूत्रद्विजोत्तमैः ॥
अष्टोत्तरशतैरेव कलशैरभिषेचयेत् ।
प्रमादात् स्पर्शने तेषां संप्रोक्षणमथाचरेत् ॥
अज्ञानादर्चने चैव प्रतिष्ठां पुनराचरेत् ॥
आस्थानमण्डपादौ तु यदा संपूज्यते हरिः ।
चातुर्वर्ण्यंयथेष्टं हि सेवते च महोत्सवे ॥ इति ॥
अत्र भृगुवचने महोत्सवे सर्वेषां सेवार्थं न स्थाननियम इति यत् वर्णितम्, तदिदं चातुर्वर्ण्यविषयमेव, नान्त्यजादिविषयमिति, अन्त्यजानां महोत्सवादावपि व्यवस्थिते स्थान एवावस्थाय दर्शनं कर्तव्यम् । तच्च स्थानं अशीतिदण्डविप्रकृष्टमित्यपि अत्रिप्रोक्तेऽर्थनातन्त्रे विवेचितम् । तद्यथा—आलयस्याशीतिदण्डाभ्यन्तरे वीथ्यां शवे स्थिते तत्रोत्सवं न कुर्यात् । चेत्, आभिचारकं भवति । तच्छीघ्रमपहाय प्रायश्चित्तं महाशान्तिं पार्षदं च हुत्वा पुनरुत्सवं कारयेत — इत्यादि । अत्र यद्यपि शवस्यैवानुकीर्तनं वर्तते, तथापि
सच्छूद्रः—यद्येवम्, तर्हि प्रकृते विषये सर्वेऽपि धर्मशास्त्रोक्ता विधयो निषेधाश्चानुवर्तितव्या भवन्ति ।
चाण्डालः—काममेतदेवमस्तु । किं तेन तवस्यात् ?
देवालयेऽन्त्यजाप्रवेशे वैखानसाद्यागमपरीक्षणम् —
सच्छूद्रः —एतन्मे स्यात् । धर्मशास्त्रोण हि मूर्तेश्चण्डालादिसान्निध्यं दूरतः प्रतिषिद्धम् ।चाण्डालादिस्पर्शे तावत्तस्या मूर्तेः पुनःसंस्कार उक्तः । शास्त्रोक्तेन विधिना सम्यगाचरितेन यन्मूर्तादेवत्वमुत्पद्यते, तदस्पृश्यसान्निध्यादपगच्छतीति स्पष्टमेव तत्रोक्तम् । एवं स्थिते देवतासन्निधिं गच्छन्नस्पृश्य आत्मनां च परेषाञ्च भद्रं विनाशयेत् ।तस्माद्दुरभिनिवेश एवायम् । तदत्रान्त्यजानां देवालयप्रवेश प्रायश्चित्तविधायकानि कानिचन पञ्चरात्राद्यागमवाक्यानि संगृह्य प्रकाशयामः । तद्यथा—श्रीवैखानसे भगवद्धर्मशास्त्रेश्रीमरीचिमहर्षिप्रणीतमहाशास्त्रे विमानार्चनकल्पे प्रमाणानि—“पञ्चमहापातकैः चाण्डालाद्यैश्चालये प्रविष्टे तत्स्पृष्टनिवेदने च सप्ताहं महाशान्तिं हुत्वा, देवं कलशैः संस्नाप्य, पुनः प्रतिष्ठां कारयेत् । पतिते गर्भ गृहे प्रविष्टे वास्तुशुद्धिं कृत्वा महाशान्तिं हुत्वाऽर्चयेत् । तेषु प्रथमावरणे द्वितीये वा नैरन्तर्येण सञ्चारत्सु मासेऽतीते मासमेकं महाशान्तिं हुत्वा, कर्षणादिपुनस्संस्कारं कृत्वा, महाप्रतिष्ठां कारयेत् । तेषु प्रासादाभ्यन्तरबाह्येषु संचरत्सु संवत्सरेऽतीतेऽर्चनादि संत्यज्य कौतुकादिरक्षणं कृत्वा, गर्भागारादिसप्तप्रकारेषु सर्वत्र गा वासयित्वा, मासेऽतीते सर्वत्र शुद्धिं कृत्वा, मासत्रयं महाशान्तिं हुत्वा, कर्षणादिपुनस्संस्कारं कृत्वा, बालालयं संकल्प्य, जलाधिवासादीनि कारयित्वा, बिम्बशद्धिं कृत्वाऽशीत्यधिकसहस्र ( १०० ) कलशैः संस्नाप्य ब्राह्मणान् भोजयि-
त्वा वैष्णवान् सम्पूज्य देवं बालालये प्रतिष्ठाप्यालयादि सर्वत्र नवीकरणं कृत्वा महाप्रतिष्ठां कारयेत् । इति ।
अर्चनानवनीतेऽपि सेवाप्रकारे इदं विवेचितम्—
तद्यथाः—
गर्भागारे च सेवार्थं वैखानसकुलोद्भवः ।
वेदाध्ययनविप्रेण अर्धमण्डपसेवितम् ॥
यतीनां विष्णुभक्तानां महामण्डपसेवितम् ।
वैश्यशूद्रानुलोमानां ब्रह्ममण्डपसेवितम् ॥
शेषाणां हरिभक्तानां गोपुरं तु विधीयते ।
प्रतिलोमान्त्यजातीनां स्थूपिं दृष्ट्वा समाचरेत् ॥ इति ॥
भृगुरपि— गर्भालयप्रवेशे तु अन्यसूत्रद्विजोत्तमैः ॥
अष्टोत्तरशतैरेव कलशैरभिषेचयेत् ।
प्रमादात् स्पर्शने तेषां संप्रोक्षणमथाचरेत् ॥
अज्ञानादर्चने चैवप्रतिष्ठां पुनराचरेत् ॥
आस्थानमण्डपादौ तु यदा संपूज्यते हरिः ।
चातुर्वर्ण्यंयथेष्टं हि सेवते च महोत्सवे ॥ इति ॥
अत्र भृगुवचने महोत्सवे सर्वेषां सेवार्थं न स्थाननियम इति यत् वर्णितम्, तदिदं चातुर्वर्ण्यविषयमेव, नान्त्यजादिविषयमिति, अन्त्यजानां महोत्सवादावपि व्यवस्थिते स्थान एवावस्थाय दर्शनं कर्तव्यम् । तच्च स्थानं अशीतिदण्डविप्रकृष्टमित्यपि अत्रिप्रोक्तेऽर्चनातन्त्रे विवेचितम् । तद्यथा—आलयस्याशीतिदण्डाभ्यन्तरे वीथ्यां शवे स्थिते तत्रोत्सवं न कुर्यात् । चेत्, आभिचारकं भवति । तच्छीघ्रमपहाय प्रायश्चित्तं महाशान्तिं पार्षदं च हुत्वा पुनरुस्तवं कारयेत्—इत्यादि । अत्र यद्यपि शवस्यैवानुकीर्तनं वर्तते, तथापि
अन्त्यजानामपि तदुपलक्षणम् । अन्त्यजानां स्मृतिषु स्पर्शनिषेधे शवसाहचर्यस्य बहुशो दर्शनात् । सर्वथान्त्यजानां देवालयप्रवेशनं न योग्यमेव । तदुक्तं भृगुसंहितायाम्—चण्डालैरन्त्यजैश्चैव तथान्यप्रतिलोमजैः । म्लेच्छैश्च नीचचाण्डालै गुरुनिन्दादिदूषितैः । एवमादिभिः संस्पृष्टे देवागारे विशेषतः । स्पृष्टे प्रवेशने बाधा पूजोकाले च दर्शने ॥ इति । अत्र पूजाकाले बहिरवस्थाय दर्शनमपि न कर्त्तव्यमिति यत् बोधितम्, तदिदं तेषां स्थूपिदर्शनपर्याप्तस्थानेऽवस्थानमपि पूजाकाले दर्शनं यथा न स्यात्, तथैवेति गमयति । एतदेवाभिप्रेत्य दक्षिणदेशे यत्र वैखानसादिसंप्रदायेनैव पूजाविधिः प्रतिष्ठाविधिश्च, तत्र वीथ्यादीवपि अन्त्यजस्पर्शो निषिध्यते । तथाच वीथ्यादौ प्रवेशे न केवलं तत्रत्यानां ब्राह्मणादीनामेवाशुचित्वम्, किन्तु देवस्यापीति सिद्धम् । गोपुरादिकं हि महदाकारं दक्षिणदेशे क्षेत्रोत्तमेषु श्रीरामेश्वरादिषु अन्त्यजानां भगवद्दर्शनार्थमेव संपादितम् । यतः शेवागमादिषु वैखानसागमादिषु च गोपुरदर्शनमेवान्त्यजानां सभक्तिकं परमसुखाधायकं प्रतिपादितम् ।
श्रीपञ्चरात्रे पाद्मतन्त्रे चर्यापादे १८ अध्याये प्रमाणानि—
अशौचवत्प्रवेशे च पूर्ववद्विधिरिष्यते ।
चण्डालः श्वपचो वापि तादृशाः पुल्कसादयः ॥ १ ॥
अज्ञानाद्गर्भगेहेतु कर्मस्वधिकृता यदि ।
वसेयुश्चैव तैः सार्धं भोज्यं वा वस्तु तादृशम् ॥ २ ॥
स्पृष्टभागधनाङ्गं चेत्स्वृष्टं वा कौतुकं यदि ।
क्रियासमभिहारेण प्रायश्चित्तमिहोच्यते ॥ ३ ॥
शोधयेन् मन्दिरं पूर्वं गोमयालेपनादिभिः ।
पुण्याहं वाचयित्वाथ ब्राह्मणांस्तत्र भोजयेत् ॥ ४ ॥
स्वाध्यायं परिकुर्वीरन् ब्राह्मणा वेदपारगाः ।
इतिहासपुराणानि पठेयुश्च दिवानिशम् ॥ ५ ॥
कपिलाश्च प्रदेशेषु तत्र तत्राभिवासयेत् ।
एवं मासादिकालेषु दोषगौरवलाघवम् ॥ ६ ॥
अवेक्ष्यशोधिते धाम्नि ब्राह्मणांस्तोषयेद्धनैः ।
प्रतिमानां यथायोगमुद्धारो वा नवीकृते ॥ ७ ॥
कुर्यात्ततो यथापूर्वं निमित्ते वा नवीकृते ।
प्रतिष्ठाप्य यथाशास्त्रं स्नापयेत्कलशैरपि ॥ ८ ॥
सहस्रेण पुरावृत्तदोषाणामपनुत्तये ।
अन्ते महोत्सवः कार्यो न चेद्राष्ट्रनृपक्षयः ॥ ९॥
बिम्बं न चालयेच्छैलं न नवीकरणंतथा ।
तथैव दिव्यमार्षं च स्वयं व्यक्तं च कौतुकम् ॥ १० ॥
तथान्यैर्मागधाद्यैश्च प्रतिलोमैश्च गर्हितैः ।
प्रथमादिप्रविष्टं चेद्धामावरणभूतलम् ॥ ११ ॥
धामस्पर्शे तथान्यस्य बलिपीठदिकस्य च ।
स्पर्शे कृत्वा यथापूर्वं शान्तिहोमं समाचरेत् ॥ १२ ॥
सहस्रकलशैर्देवं स्नापयेत्तस्य शान्तये ।
श्वापदैश्च शृगालाद्यैश्चण्डालैश्चैवगर्हितैः ॥ १३ ॥
[परम्परास्पर्शस्य स्पर्शपदार्थत्वम् ]—
इति ॥ एतैर्हि स्पष्टमेवपुनः संस्कारविधानात् चाण्डालादीनां प्राकारादि प्रवेशोऽपि निषिध्यत इति स्पष्टमेव सर्वेषाम् । यद्यपि स्पर्शशब्देनावयवसंयोगः साक्षादेव विवक्ष्यते, तथापि चण्डालस्पर्शमात्रे परम्परासंयोगोऽपि स्पर्श एवेति शूलपाणिकृतजातिविवेके विवेचितमिति न दोषः । एतेन— विरोधे त्वनपेक्ष्यंस्यादिति सूत्रं शाबरं भाष्यमपि— व्याख्यातम्;
तस्य चण्डालस्पर्शेतरविषयत्वात् । व्यक्तं चैतत्तन्त्रवार्तिके १०० तमे पृष्ठे विवेचितम् ।
अस्पृश्यास्पर्श्यतायां चरकाद्याशयसंग्रहणम्—
आयुर्वेदाचार्या अपि चरकादयश्चण्डालादिच्छायातिक्रमणमपि दोषाय मन्वानाः परम्परासम्बन्धोऽपि स्पर्शपदार्थ इति मन्यन्त एव । तदत्र द्वित्राणामायुर्वेदपण्डितप्रवराणामाशयं संगृह्य प्रकाशयामः । तद्यथा महामहोपाध्याय श्रीयुक्त गणनाथसेनसरस्वतीमहोदया मन्यन्ते—
“गवाशनादिदुश्चरितशतपरायणतादर्शनात् पतितानां सहवासो न केवलं धर्मशास्त्रे प्रत्युत वैद्यकग्रन्थेष्वपि निषिद्धः । यथा चरके’ “न पतितैः सहासीत” इत्यादिवचनैः अत्र च हेतुविशेषेण तत्सहवासस्य कुष्ठादिनिन्दितव्याधिकारित्वमेव ; प्रायस्तादृशजनेषु तत्तद्रोगबाहुल्यदर्शनात् । तदुक्त सुश्रुते— प्रसङ्गाद्गात्रसंस्पर्शन्निःश्वासात्सहभोजनात् । सह शय्यासनाच्चापि गन्धमाल्यानुलेपनात् । कुष्ठं ज्वरश्च शोषश्च नेत्राभिष्यन्द एव च । औपसर्गिकरोगाश्च सांक्रामन्ति नरान्तरम् ॥ इति ॥ किञ्च कदाचारपराणांशरीरेषु साक्रामिकरोगप्राचुर्यमाङ्ग्लवैद्यकमतावलम्बिभिरपि बहुधा परीक्षाशतैनिर्णीतमेवेति युक्तिशास्त्राभ्यां सम्यगनुमतैव केषाञ्चिद्धीनानामस्पृश्यतेति सम्प्ततिः— महामहोपाध्यायोपाधिक श्रीगणनाथसेनशर्मणः—इति ।
श्रीयुक्तयामिनीभूषणरायमहोदया अप्यत्रैवानुकूलाः । तद्यथाः—
“आयुर्वेदशास्त्रस्य हि स्वास्थ्यमूलकत्वात् दृष्टफलकत्वमेव प्राधान्येनाङ्गीकर्तव्यम् । तच्च दृष्टफलं विधिष्वारोप्यं निषेधेषु रोगश्चेति । तथाचायुर्वेदे चरकादिषु ग्रन्थेषु ‘सहासीत नोन्मत्तैर्न पतितैर्न क्षुद्रैरित्यादिवचनैः पतितैः स्वकर्मभ्रष्टैर्हीनैर्म्लेच्छैः चा–
ण्डालादिभिः सममासनस्य निषेधादेभिः सह संसर्गेण रोगसम्भावना वर्तत इति । अत्र पतितशब्देन स्वकर्मभ्रष्टो यो विवक्ष्यते, स हि चण्डालसंसर्ग्यपि भवति इति तत्संसर्गिसंसर्गस्य दोषत्वे तत्संसर्गस्य दोषत्वं कैमुतिकन्यायसिद्धमेव । एवमपि न क्षुद्रैरिति पुनस्तत्संसर्गस्य निषेधेनेदं ज्ञायते यद्विशेषप्रतिषेधोऽत्र क्रियत इति । तथाचायुर्वेदोक्तानामपि निषेधानां क्वचित्कर्मविपाकाध्यायोक्तरीत्या जन्मान्तरीयफलकत्वेऽपि “अत्युत्कटैः पुण्यपापैरिहैव फलमश्नुते” इति न्यायेन चण्डालादिसंसर्गस्यैहिकरोगनिदानत्वमेव सम्भाव्यते । अभक्ष्यभक्षणदूषितानां श्वपचादीनामपि क्रिमिकुष्ठांदिरोगसम्बन्धादौषसर्गिकरोगाणां सहासीनेष्वन्येषु संक्रमणं सभवति । तदुक्तं सुश्रुते—‘प्रसङ्गाद्गात्रसंस्पर्शात्’ इत्यादि । इदमेवभिप्रेत्य आमशोफच्छेदकस्य पक्वशोफाच्छेदकस्य च “य श्छनत्त्याममज्ञानात् यश्च पक्वमुपेक्षते। श्वपचाविवमन्तव्यौ तावनिश्चितकारिणौ " ( सु०सूत्र०अ०१७) इति वचनेऽसंब्यवहार्यत्वेश्वपचदृष्टान्तत्वमुक्तम् । अस्मिन् प्रसङ्गे इदमपि सूच्यते—यत् “न चैत्यध्वजगुरुपूज्यात्यस्तच्छायामतिक्रमे”दिति वचने अत्यस्तपदेन श्वपचादिविवक्षणात् तच्छायातिक्रमणमपि निषिध्द्यमानं तेषामन्येषाञ्च कियद्दूरमन्तरेणावस्थानमेव समुचितम्— इति ।
तथाच धर्मशास्त्राणामपि आयुर्वेदेन महान् सम्बन्धो वर्तत इति यावच्छक्ति धर्मशास्त्राविरोधेन, यत्र पृथगायुर्वेदेऽपि निषेधस्तत्र यथावदेव यथाशक्ति तस्य परित्यागेन व्यवहरणमेव सर्वेषां समुचितमिति— यामिनी भूषणरायः। एम०ए०, एम्०बी० एम्०आर० ए०एस०, प्रेसिडेन्ट आल इन्डिया आयुर्वेदिक कान्फरन्स्, प्रिसिपाल— अष्टांगायुर्वेदविद्यालयः ।
वैद्यरत्नश्रीयुक्तयागेन्द्रनाथकविराजमहोदयास्त्वन्यथा मन्यमाना इव लिखन्ति । तद्यथा—
“चण्डालादिभिर्नीचवर्णै सह व्यवहारात् सहवासाद्वा दृष्टदोषत्वमायुर्वेदेषु नोपपादितम् । न पतितैः सहासीतेत्यादीनि वचनानि विद्यन्ते नाम । तत्र तु होनवर्णत्वं नेप्सितम् \। अपि त्वाचारभ्रंशजपातित्यमेव ।न केवलमायुर्वेदेषु, धर्मशास्त्रेष्वपि शास्त्राचारविधयः स्वस्थवृत्तविधयश्च बहुशोनिबद्वाः । शीलशौचाचारवन्तः सदैव स्वास्थ्यसम्पन्नाः सुखिनो वर्तन्त इति शास्त्रे लोकेऽपि दृश्यते ।आचारभ्रंशाद बहवोव्याधय उत्पद्यन्त इत्यपि प्रत्यक्षज्ञानलब्धं तथ्यमेव ।असदाचारैः सह संसर्गात् स्वास्थ्यहानिशङ्का बहुशो विद्यते । अतस्तैः सह संसर्गान्मेलनमायुर्वेदेषु निन्दितम् । ये खलु सदाचाभ्रंशात्पतितास्तानेवाभिप्रेत्य “न पतितैःसहासीतेत्यादयः शास्त्रकृद्भिरुक्ताः, न पुनरन्त्यजान् ।ये तु होनवर्णा अपि सदाचाराः, न तैःसह संसर्गात्कापि दृष्टदोषाशङ्काऽऽयुर्वेदेषु प्रतिपादिता ।
महामतिः सम्राडकबरशाहः क्षत्रियकन्यां परिणीतवान् । तयोरपत्यं जहांगीरशाहः । सोऽप्यूढायां क्षत्रियकन्यायां शहाजहानाख्यं तनयं जनयामास । जहांगीरशहाजहानौ अतीवपराक्रान्तौ प्रजारञ्जको गुणसम्पन्नौ च नरेन्द्रौ बभूवतुः । गिल्वार्टबेकेट इत्याख्यः कश्चिदिंग्लण्डीयः सारासेनवंशीयां कन्यां परिणीय तस्यां’ ‘टमास्बेकेट” नामानं पुत्रं जनयामास। पुण्यश्लोकोऽसावद्यापि सेन्टमास इत्याख्यया स्वदेशवासिभिः सभक्ति स्मर्यते पूज्यते च । अस्मद्देशेषु व्हीलारमहोदयः रेबारेराट् कृष्णमोहनबानर्जिमहाशयस्य कन्यां परिणीतवान् । तयोरपत्यं मि० ई० एम
ह्वीलार महोदयो महामनाः सुपण्डितश्चासीत् ।यदि तावदीदृशेषु बहुष्वपि मिश्रविवाहेषु न कोऽप्यैहिको दोषो दम्पत्योरपत्यानां वा दृश्यते, का कथा तर्हि स्वस्थवृत्ताचारादिपरिपालनपरैर्हीनवर्णैरार्येतरैश्च सहावस्थानस्य ।यथा धर्मशास्त्रे रसोनस्याभक्ष्यत्वानुशापनेऽपि दृष्टगुणत्वादस्यौषधार्थं प्रयोग आयुर्वेदानुमत एव । तथैव हीनत्रर्णार्येतरैः सहवासः पारलौकिकानिष्टशङ्कयाधर्मशास्त्रविगर्हितोऽपि स्वस्थवृत्तादिपरायणैस्तैः सह संसर्गो दृष्टदोषत्वाभावादायुर्वेदेषु न निषिद्धः । इति— योगीन्द्रनाथसेनस्य मतम् ।
परन्त्वेतेषामपि पतितसंसर्गस्य रोगनिदानत्वं मन्यमानानां चण्डालसंसर्गस्य येन पतितत्वं शास्त्रतोऽगम्यते, तस्य रोगनिदानत्वमवश्यमेवोरीकर्तव्यम् । सर्वथा तु लोकदृष्ट्या युक्तिदृष्ट्या चान्त्यजस्पर्शो दोषायैव भवतीत्यवश्यमूरीकर्तव्यम् । अथ प्रतिपत्ति सौकर्यार्थमपरस्यायुर्वेदपण्डितवरस्याशयमत्र प्रकाशयामः । तद्यथा-
“वैद्यकशास्त्रस्य हि स्वास्थ्यमूजकत्वाद् दृष्टफलकत्वमेव प्राचान्येनाङ्गीकर्तव्यम् । तथाहि— तदुक्तविधिना चरितनारोग्यं तद्वैपरीत्येन च वैपरीत्यं भवति । चरकादिषु वैद्यकसंहिताग्रन्थेषु “सहासीत न पतितैर्न क्षुद्रैरि"त्यादिवाक्यानुसारेण पतितादिभिः समवस्थानादेरपि रोगजनकत्वं सूचितम् । एतेन तैः सह भोजनादिव्यापारस्य सुतरां प्रतिषेधः ।
पृथग्जातिगतसाम्यस्य भिन्नतया जात्यन्तरसंसर्गोऽपि वर्जनीय एवेति वैद्यकसिद्धान्तः । तथाहि—आहाराचारचेष्टाभिर्यादृशीभिः समन्वितौ । स्त्रीपुंसौ समुपेयातां तयोः पुत्रोऽपि तादृशः ।किञ्च—मातापित्रोस्तु नास्तिक्यादशुभैश्च पुराकृतैः । वातादीनाञ्चकोपेन गर्भो विकृतिमाप्नुयात् । अन्यच्च—“देवताब्राह्मणपराः
शौचाचारहिते रताः। महागुणान् प्रसूयन्ते विपरीतास्तु निर्गुणान्” इत्यादिसुश्रुतानुशासनात् सदाचारादीनामार्योचितरीत्यैव समाधानमुक्तं भवति । अभक्ष्यभक्षणाद्यनार्यशीलानामधमजातीयानां श्वपचादीनां सर्वथा सम्पर्कोऽनयैव युक्त्या पर्युदस्तः ।
[अस्पृस्यातां ग्रामादिप्रवेशायाग्यतायां शिल्पशास्त्रम् ]—
किञ्चवैद्यकशास्त्रे ‘न चैत्यध्वजगुरुपूज्यात्यस्तच्छायामतिक्रमेत्, इत्याद्युक्तेरप्रशस्तजनानां सामीप्येनावस्थानमपि रोगनिदानत्वेन विज्ञापितम् । अत्रात्यस्तशब्देन हीनजातिरेवाभिप्रेता । इत्याद्युक्तिभिर्युक्तिभिश्चभिन्नजातिगतसंसर्गो न कर्तव्य इति परा मतिः—अष्टाङ्गायुर्वेदविद्यालयाध्यापकस्य काव्य-व्याकरण-सांख्यतर्कतीर्थोपाधिकस्य श्रोनलिनीरञ्जनसेनस्य (कलकत्ता) शिल्पशास्त्रगतान्यपि वचनान्यधो निर्दिश्यमानानिचाण्डालचर्मकारादीनां ग्रामाद् बहिः
क्रोशद्वयाद्दुरेएवावासव्यवस्थापनम्, तथा
चण्डालादिस्त्रीणां नगरमध्ये ग्राममध्ये वा प्रातःकाले मलनिष्कासार्थंकेवलं प्रवेशाधिकारं च शासति इदमेव गमयन्ति—यत् चण्डालादीनां ग्रामप्रवेशादिकं यथेच्छं न योग्यमिति । अत्रै तानि वचनानि सचित्रहिन्दीशिल्पशास्त्रसाराभिधेग्रन्थे उल्लिखितानि । यथा नगरव्यवस्थाप्रकरणे—
शस्तं सर्वत्र वाप्यादि ह्युत्तरे पुष्पवाटिका ।
दक्षिणे गणिकावाटं परितः शूद्रजन्मनाम् ॥
वैश्यानां वणिजां प्राच्यां मध्ये राजापणो भवेत् ।
प्रागुदीच्यां कुलप्लानां वापकानां च वायवे ॥
जालिकानां च वायव्ये सूनानां पश्चिमे तथा ॥
इति कश्यपसंहिता ।
तैलविक्रयिणां सौम्ये तक्ष्णांचाप्यनले तथा ।
वायव्ये कारुकादीनां रजकानां च पश्चिमे ॥
इति भृगुसंहिता ।
क्रोशद्वये तु तस्यार्धे बहिश्चण्डालपक्कणम् ।
प्रागुत्तरेण तु क्रोशात् बहिः पितृवनं भवेत् ॥
अनुक्तानां तथान्येषां युक्त्यावासं प्रकल्पयेत् ॥
इति मयमतम् ।
देवालयमथ मध्ये परितो ग्रामो यथा विहितः ।
परितः सर्वजनालयमुदितं किञ्चित्ततो दूरे ॥
चाण्डालकुटीराणि तत्रैव च कोलिकानां हि ॥ अ०११ ।
चाण्डालकुटीराणि पूर्वायां क्रोशमात्रे स्युः ।
चाण्डालयोषिताद्यास्ताम्रायःसीसभूषणाः सर्वाः ॥
पूर्वाराह्नेमलमोक्षक्रियोचिता ग्राममावेश्याः ॥
मयमतम् (अ० ६)
चाण्डालचर्मकारश्मशानं तोयाशयापयानं स्यात् ।
एतेषामपि तत्तद्दूरे देशे श्मशानं स्यात् ॥ भृगुसंहिता ।
एतेन—शिल्पशिक्षणमहत्त्वाभिधोऽपि “कृष्णाजी विनायकवक्ते’महोदयसंपादितो ग्रन्थोऽपि—व्याख्यातः । तत्रापि हि नगररचनाविद्यायां पूर्वोद्धतान्येव सर्वाणि वचनानि संगृहीतानि । पुस्तकद्वयेनापीदमेव संसूच्यते—यत् अन्त्यजानां न केवलं यथेच्छं विना कार्यं ग्रामप्रवेशयोग्यता, न वा सर्वसाधारणं जलाशयादिसम्बन्धयोग्यता, किन्तु न ब्राह्मणक्षत्रियवैश्यशूद्रर थ्यादिष्वावासयोग्यतापीति । तथाच आयुर्वेदशास्त्रतः, तथा शिल्पशास्त्रतोऽपीदं सिध्यति, यच्चण्डालादयो न ग्रामान्तः प्रवेशनीयाः, न वा
सर्वसाधारणकृपादिव्यवहारयोग्या इत्यादीति । एतदेवाभिप्रेत्योक्तं भगवता मनुना—
चण्डालश्वपचानान्तु बहिर्ग्रामात् प्रतिश्रयः ।
अपपात्राश्च कर्तव्या धनमेषां श्वगर्दभम् ॥१-५१ ॥
वासांसि मृतचेलानि भिन्नभाण्डेषु भोजनम् ।
कार्ष्णायसमलङ्कारः परिव्रज्या च नित्यशः ॥ ५१ ॥
न तैः समयमन्विच्छेत् पुरुषो धर्ममाचरन् ।
व्यवहारो मिथस्तेषां विवाहः सदृशैः सह ॥ ५३ ॥
अन्नमेषां पराधीनं देयं स्याद् भिन्नभाजने ।
अबान्धवं शवं चैव निर्हरेयुरिति स्थितिः ॥ ५४ ॥
रात्रौ न विचरेयुस्ते ग्रामेषु नगरेषु च ।
दिवा चरेयुः कार्यार्थं चिन्हिता राजशासनैः ॥ ५५ ॥
वध्यांश्च हन्युः सततं यथाशास्त्रं नृपाज्ञया ।
वध्यवासांसि गृण्हीयुः शय्याश्चाभरणानि च ॥
( ५६ । अ० १० ) इति ।
[कलौ स्पर्शदोषास्तित्वविचारः ]—
सर्वथा तु स्पर्शास्पर्शविचारोऽयं न सङ्घटनविरोधीति सिद्धम् ॥ अथ साधकबाधकप्रमाणबलाबलविचारार्थं प्रवर्तमाना वयं स्पर्शास्पर्शविषयाणि प्रमाणजातानि समालोचयामः । तत्रेदं प्रथमत आलोचनीयम्— यत्कलियुगे स्पर्शदोषो वर्तते वा न वेति। अत्र केचित्प्रत्यवतिष्ठन्ते—न कलौ स्पर्शदोष एव समस्ति । अत एव हि पराशरस्मृतौ—त्यजेद्देशं कृतयुगे त्रेतायां ग्राममुत्सृजेत् । द्वापरे कुलमेकन्तु कर्तारन्तु कलौ युगे—इति कलौ कर्तृमात्रस्य दुष्टत्वमुपवर्ण्यमानमुपपद्यते । अत्र हि कर्तृशब्देन महापातकादिकर्तैव विवक्ष्यते । तथा च कलौ युगे ब्रह्म-
इत्यादिपापाचरणमेव पातित्यनिदानम्, न तु पतितसंसर्गविशेषमात्रमिति नियतमूरीकर्तव्यम् । अन्यथा हि— कृते सम्भाषणादेव त्रेतायां स्पर्शनेन च । द्वापरे चान्नमादाय कलौ पतति कर्मणा—इति कर्ममात्रस्य पातित्यनिदानत्वमुपवर्णितमसङ्गतमेव स्यात् । अत्र हि " त्रेतायां स्पर्शनेन च ” “ कलौ पतति कर्मणा” इति विभागावसरे हि स्पर्शनपदस्य कर्मपदस्य च प्रयोगेणेदं स्पष्टमवगम्यते—यत्स्पर्शदोषो द्वापरे सुतरांकलौ च नास्त्येवेति । तथाचावश्यमिदमूरीकर्तव्यं यत्पराशराचार्याणामाशयः कलौ न स्पर्शदोषोऽस्तीति । अत्र चेदमवश्यं सूचनीयं समापतितं यत्स्मृत्यन्तरेण विरोधे कलौ पराशरस्मृतिरेव समादरणीया, विशेषतश्च प्रायश्चित्तविषये । तदुक्तं माधवीये— एतदेव विवक्षित्वा प्रतिजज्ञे विशेषतः । पराशरेण यत्प्रोक्तं प्रायश्चित्तमितीदृशम्—इति । एतेन—
ब्रह्महा मद्यपस्तेनो गुरुतल्पग एव च ।
एते महापातकिनो यश्च तैः सह संवसेत् ॥
संल्लोपस्पर्शनिश्वाससहयानासनाशनात् ।
याजनाध्यापनाद्यौनात्पापं संक्रमते नृणाम् ॥
एते महापातकिनस्तत्संसर्गी च पञ्चमः ॥
यो येन पतितेनैषां संसर्ग याति मानवः ।
स तस्यैव व्रतं कुर्यात्तत्संसर्गविशुद्धये ॥
इत्यादिवचनान्यपि— व्याख्यातानि; एतेषां सर्वेषां युगान्तरविषयत्वस्यैवोरोकर्तव्यत्वात् । एतेन— पतितान्नभक्षणोदिनिषेधा अपि व्याख्याताः । तथाच पतितस्पर्शस्य चण्डालादिस्पर्शस्य च कलौ युगे न दोषत्वमेव । यत्तु युगान्तरे चाण्डालादिस्पर्शस्य
दोषत्वमुपवर्णितम्, तदपि नैकान्तेन ; तीर्थविवाहादिषु हि स्पर्शदोषो नास्तीति बहुषु स्मृतिषु निरूपितम् ।
तद्यथाः—
देवयात्राविवाहेषु यज्ञप्रकरणेषु
उत्सवेषु च सर्वेषु स्पृष्टास्पृष्टिर्न विद्यते ॥ अत्रिः ॥
दाने विवाहे यज्ञे च संग्रामे देशविप्लवे ।
आपद्यपि हि कष्टायां सद्यः शौचं विधीयते ॥ याज्ञ० ॥
इत्यादि । तथाचापदाद्यवस्थासु चण्डालादिस्पर्शस्य युगान्तरेऽपि दोषत्वनिरासात्कलौ सर्वथा तद्दोषत्वस्य पराशराचार्यै र्निषेधसूचनाच्च चण्डालादिस्पर्शोनेदानीं दोषाय भविष्यतीति ।
अत्र समुचितमस्मदीयमाशयमुपवर्णयितुं वयं पश्यामः प्रथमं प्रामाणिकानां निबन्धकाराणामन्येषामाशयः संग्रहणीय इति । अत्र यद्यपि माधवाचार्याः कृते सम्भाषणादेवेति श्लोकव्याख्यावसरे कलौ पतितसम्भाषणादिना न स्वयं पतति, किन्तु वधादिना कर्मणैवपतितो भवतीत्येव— व्याचक्षते । तथापि नात्र माधवाचार्याणां पतितसम्भाषणादीनां न दोषत्वमित्याशयोऽभ्युपगन्तुं शक्यते । अन्यथा हि “कर्तारन्तु कलौ युगे” इति विवरणावसरे “कर्तृत्यागः सम्भाषणादिवर्जनम्” इति विवरणमसङ्गतं स्यात् । अनेन हि विवरणेनेदमवगम्यते यत्सम्भाषणादिकमपि कलौ वर्ज्यमिति । यद्यपि “कलौ पतति कर्मणा” इति विवरणावसरगतं वाक्यजालं विरुद्धमिव प्रतिभाति, तथापि द्वादशाध्यायान्ते “आसनाच्छयनाद्यानात्सम्भाषात् सहभोजनात् । संक्रामन्तीह पापानि तैलबिन्दुरिवाम्भसि” इति पराशरवचनस्य तद्विवरणस्य च माधवाचार्यसम्बन्धिनश्चानुसारेणाभ्यस्तसहासनादिपरत्वमेव तत्र विव-
क्षणीयमिति न विरोधः । अन्यथा—“श्वपाकं चापि चण्डालं विप्रः सम्भाषते यदि । द्विजसम्भाषणं कुर्यात्सावित्रीं च सकृज्जपेत् ॥ चण्डालैः सह सुप्तेतु त्रिरात्रमुपवासयेत् । चण्डालैकपथं गत्वा गायत्रीस्मरणाच्छुचिः ॥ चण्डालदर्शने सद्यआदित्यमवलोकयेत् । चण्डालस्पर्शने चैवसचैलं स्नानमाचरेत् ॥ चाण्डालखातवापीपुषु पीत्वा सलिलमग्रजः । अज्ञानादेकभक्तेन त्वहोरात्रेण शुध्यति ॥ चण्डालभाण्डसंस्पृष्टं पीत्वा कूपगतं जलम् ॥ गोमूत्रयावकाहारस्त्रिरात्राच्छुद्धिमाप्नुयात् ॥
चण्डालघटसंस्थन्तु यत्तोयं पिबति द्विजः ।
तत्क्षणात्क्षीयते तस्य प्राजापत्यं समाचरेत् ॥
चरेत्सान्तपनं विप्रः प्राजापत्यमनन्तरम् ।
तदर्धन्तु चरेद्वैश्यः पादं शूद्रस्तथा चरेत् ॥
भाण्डस्थमन्त्यजानान्तु जलं दधि पयः पिबेत् ।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चैवप्रमादतः ॥
ब्रह्मकूर्योपवासेन द्विजातीनान्तु निष्कृतिः ।
शूद्रस्य चोपवासेन तथा दानेन शक्तितः ॥
भुङ्क्तेऽज्ञानाद् द्विजश्रेष्ठश्चाण्डालान्नं कथञ्चन ।
गोमूत्रयावकाहारो दशगत्रेण शुध्यति ॥
अविज्ञातस्तु चण्डालो यत्र वेश्मनि तिष्ठति ।
विज्ञातरूपं विन्यस्य द्विजाः कुर्युरनुग्रहम् ॥
चण्डालैःसह सम्पर्कं मासं मासाधमेव च ।
गोमूत्रयावकाहारो मासार्धेन विशुध्यति ॥
गृहस्याभ्यन्तरं गच्छेच्चाण्डालो यदि कस्यचित् ।
तमागाराद्विनिःसार्य मृद्भाण्डं च परित्यजेत् ॥
श्वचाण्डालोदक्यदृष्टश्च भोजनं परिवर्जयेत् ।
यो वै समाचरेद्विप्रः पतितादिष्वकामतः ॥
पञ्चाहं वा दशाहं वा द्वादशाहमथापि वा ।
मासार्धमेकमासं वा मासद्वयमथापि वा ॥
अब्दार्थमब्दमेकं वा भवेदूर्ध्वन्तु तत्समः ॥
इति पराशराचार्यैरेव चण्डालादिसम्भाषणादीनामपि कथं प्रायश्चित्तमुपवर्णितमुपपद्येत ? तदयं तिष्कर्षः—यत्कृतयुगादौ सद्यः सम्भाषणमात्रेणापि पातित्यम्, कलौ अभ्यस्तेन तेन पातित्यमिति । एतेन—एतैः सह समायोगं यः करोति दिने दिने । तुल्यतां याति सोप्याशु कलौ संवत्सरे गते—इति पाद्मवाक्यम्, “संवत्सरेण पतति पतितेन सहाचरन् । याजनाध्यापनाद्यौनान्न तु यानासनाशनात्”॥बोधा० ॥ पतितैः सम्प्रयोगे च ब्राह्मेण यौनेन वा तेभ्यः सकाशान्मात्रोपलब्धास्तेषां परित्यागस्तैश्च न संवसेत् ॥ वसि० पञ्च महापातकान्याचक्षते गुरुतल्पं सुरापानं भ्रूणहत्या ब्राह्मणस्वन्यासोपहरणं पतितसम्प्रयोगं च ब्राह्मेण यौनेन वा, अत्राप्युदाहरन्ति—संवत्सरेण पतति पतितेन सहाचरन् । याजनाध्यापनाद्यौनान्न तु यानासनाशनात्—इति । वसिष्ठः । ब्रह्महसुरापगुरुतल्पगमातृपितृयोनिसम्बन्धस्तेननास्तिकनिन्दितकर्माभ्यासिपतितात्याग्यपतितत्यागिनः पातकसम्प्रयोजकास्तैःसाकंसमाचरन्’’ इति गोतमः, “संवत्सरेण पतति संसर्गं कुरुते तु यः । यो हि शय्यासने नित्यं वसन्वै पतितो भवेत् । याजनं योनिसम्बन्धं तथैवाध्ययनं द्विजः ।सद्यः कृत्वा पतेज्ज्ञानात्सहभोजनमेव च। अविज्ञा यापि यो मोहात्कुर्यादध्ययनं द्विजः। संवत्सरेण पतति सहाध्ययनमेवच” इति उशनाः, इत्यादिवचनान्यपि—व्याख्यातानि । सर्वथा
तु बहुस्मृतिसार्थक्यार्थं पराशरवाक्यानामेवोत्तरसन्दर्भगतानां सार्थक्यार्थञ्च कलौ युगेऽपि चाण्डालादिस्पर्शस्य दूषणत्वमूरीकर्तव्यमेव । वस्तुतस्तु कृते सम्भाषणादेवेति वाक्यं पतितसंसर्गविषयम्, न तु चाण्डालादिसंसर्गविषयमिति नियतमूरीकर्तव्यम् । तथा च पतितसंसर्गस्य पूर्वोक्तप्रकारेण संवत्सरपर्यन्तमभ्यस्तेन पातित्येऽपि चण्डालस्पर्शेन सकृत्कृतेनापि पातित्यमिति सिद्धान्तेऽपि न विरोधः। अत एव पराशरस्मृतावपि चण्डालसम्भाषणमपि निषिध्यमानमुपपद्यते । अत्र प्रसङ्गेइदमपि सूच्यते यत्—त्यजेद्देशं कृतयुगे त्रेतायां ग्राममुत्सृजेत् । द्वापरे कुलमेकन्तु कर्तारन्तु कलौ युगे—इति वचनस्य “कृते सम्भाषणादेव त्रेतायां स्पर्शनेन च । द्वापरे चान्नमादाय कलौ पतति कर्मणा” इति वचनस्य च परस्परसम्बन्धोऽङ्गीकर्तव्यः । तदुक्तं विद्वन्मनोहराख्यायां पराशरस्मृतिव्याख्यायाम्—“एतेन— पूर्वोक्तेषु देशादित्यागेष्वेतानि निमित्तानि दर्शितानि । यथा कृते सम्भाषणमात्रात्पातित्यम, तच्चैकदेशवासेऽवश्यम्भावीति देशत्यागः । त्रेतायां स्पर्शनेन, स चैकग्रामवासेऽवश्यम्भावीति ग्रामस्यैव त्यागः । द्वापरे त्वन्नभोजनेन, तच्चैककुलवासेऽवश्यम्भावीति कुलस्यैव त्यागः ।कलौ तु कर्मणैवेति कर्तृमात्रत्यागः । तदुक्तं वृद्धपराशरेणापि—त्यजेद्देशं कृतयुगे त्रेतायां ग्राममुत्सृजेत् । द्वापरे कुलमेकन्तु कर्तारन्तु कलौयुगे । कृते सम्भाष्य पतति त्रेतायां स्पर्शनेन तु । द्वापरे भक्षणेऽन्नस्य कलौ पतति कर्मणा । इति । एवं च यत्र सम्भाषस्यापि निषेधस्तत्र देशत्याग इत्यादीनां विवक्षणं पराशराचार्यसम्मतमित्यूरीकर्तव्यमिति पराशराचार्यैरेव चण्डालसम्भाषणस्यापि निषेधाच्चण्डालदेशत्यागोऽपि पराशराचार्यसम्मत इत्यवश्यमूरीकतव्यम् । अत्र च
देशपदेन नगरं विवक्ष्यते । नगरलक्षणन्तु भृगुप्रोक्तमिदमेव—यत् “पण्यक्रयादिनिपुणैश्चातुर्वर्ण्यस्य यद्युतम् । अनेकजातिसम्बद्धं नैकशिल्पिसमाकुलम् ।सर्वदैवतसम्बद्धं नगरं त्वभिधीयते” इति । एतेन ग्रामलक्षणमपि व्याख्यातम् । “विप्राश्च विप्रभृत्याश्च यत्र वै निवसन्ति ते । स तु ग्राम इति प्रोक्तः शूद्राणां वास एव च " इति । तथा चेदं सिद्धं कलावपि नगरनिवासो न धर्मभीरूणां युक्त इति । यदि चावश्यं नगरनिवासोऽपि कर्तव्यः समापतति, एवमपि चण्डालादिभाषणं विनावस्थानन्तु नियतमेव । अत्र च प्रसङ्गे इदमपि सूच्यते— यन्नगरनिवासादिष्वपि स्पर्शदोषपरिहारार्थं चण्डालादीनामन्येषाञ्च कियद्दूरमन्तरं रथ्यादावपि रक्षणीयमिति । तदुक्तंपराशरस्मृतौ—युगं युगद्वयं चैव त्रियुगञ्च चतुर्युगम् । चण्डालसूतिकोदक्यापतितानामधः क्रमात् । ततः सन्निधिमात्रेण सचेलं स्नानमाचरेत् ।स्नात्वाऽवलोकयेत्सूर्यमज्ञानात्स्पृशते यदि " इति । अत्र विद्वन्मनोहराव्याख्या—“चण्डालादिस्पर्शनिर्णयस्य शेषमाह युगे युगे चेति । चण्डालादीनामधःक्रमात् प्रातिलोम्यक्रमेणैकद्वित्रिचतुर्युगमन्तरं स्पर्शनिवारणाय न्याय्यम् । तेनायमर्थः— पतितस्य व्यवधानमेकेन युगेन, उदक्याया युगद्वयेन, सूतिकाया युगत्रयेण, चण्डालस्य युगचतुष्टयेन कार्यमिति । किञ्चोक्तव्यवधानाभावेन सन्निधिमात्रेण स्पर्शाभावेऽपि सचैलं स्नानं कार्यम् । अज्ञानतः स्पर्शे तु स्नानं सूर्यावलोकनञ्च ।कामतः स्पर्शे तु च्यवनः—“श्वानं श्वपाकं प्रेतधूमं देवद्रव्योपजीविनं ग्रामयाजकं सोमविक्रयिणं यूपं चितिं चितिकाष्ठं मद्यंमद्यभाण्डं सस्नेहं मानुषास्थि शवस्पृशं रजस्वलां महापातकिनं च कामतः स्पृष्ट्वा सचैलाम्भोऽवगाह्योत्तीर्याग्निमुपस्पृश्य गायत्र्यष्टशतं जपेत् ,घृतं प्राश्य
पुनः स्नात्वा त्रिराचामेदिति । एवमन्येषामस्पृश्यानां स्पर्शे स्नानम्, तत्स्पृष्टस्य स्पर्शे त्वाचमनम् ।तृतीयस्य श्रोत्रस्पर्श इत्याद्यवगन्तव्यम् । यद्यपि— चण्डालस्पर्शने चैव सचैलं स्नानमाचरेत्— इति षष्ठेऽभिहितम् । तथाप्यज्ञानविषयतां तस्य स्पष्टयितुं पुनरत्रोपन्यासः । पूर्वोक्तव्यवधाने तु व्याघ्रपादः—“चण्डालं पतितं चैव दूरतः परिवर्जयेत्” इति । तदिदं सिद्धं यत्पराशरस्मृतिपर्यालोचनेन सर्वथा चण्डालादिस्पर्शो दोषायैवेति ।
अत्र वैद्यनाथदीक्षितसंमता आन्हिककाण्डगता व्यवस्थ्ययेमेव।सा यथा— चण्डालादीनां व्यवधाने देशपरिमाणमाह पराशरः — युगं युगद्वयं चैव त्रियुगं च चतुर्युगम्। चण्डालसूतिकोदक्यापतितानामधः क्रमात्। ततः सन्निधिमात्रेण सचेलं स्नानमाचरेत्। स्नात्वावलोकयेत् सूयमज्ञानात् स्पृशते यदि। इति। अत्राङ्गस्पर्शेमज्जनसंख्यापि स्मर्यते— वृषलं चान्त्यजातिं च चण्डालं पतितं तथा। आर्तवाभिप्लुतां नारीं स्पृष्ट्वा स्नानं समाचरेत् । एकं चदशकं चैव द्वात्रिंशत् त्रिंशकं तथा। द्वात्रिंशच्च क्रमेणैव मज्जनं तु विधीयते। इति। स्मृत्यन्तरे— चण्डालस्य चतुषष्टिपदं श्रेण्याः शतद्वयम्।द्वात्रिंशदथवा तस्य मनः शुद्धिं समाचरेत्॥ अस्पृस्यस्पर्शने चैव त्रयोदश निमज्जनम् । आचम्य प्रयतः पश्चात् स्नानं विधिवदाचरेत् । इति ।व्यासः—सूतिकां पतितं तूदक्यां चण्डालं च चतुर्थकम्।यथाक्रमं परिहरेदेकद्वित्रिचतुर्युगमिति। अत्र व्यासपराशरवचनयोर्विरोधे विकल्पो द्रष्टव्यः। यत्तु— चण्डालं पतितं चैव दूरतः परिवर्जयेत्। गोबालव्यजनादूर्ध्वं सवासा जलमाविशेत्— इति व्याघ्रपादवचनम्, तदिदं संकटविषयम्। यदाह संवर्तः—संकटे विषमे चैव दुर्गे चैव विशेषतः । हट्टपत्तनमार्गे च
यथासंभवमिष्यते । तृणकाष्ठादिघातेन कुड्येनान्तरितै तथा । गोवालव्यजने चापि स्नानं तत्र न विद्यते—इति। यस्तु च्छायां श्वपाकस्य ब्राह्मणो ह्यधिरोहति । तत्र स्नानं प्रकुर्वीत घृतं प्राश्य विशुध्यति । चण्डालपतितच्छायां स्पृष्ट्वा स्नानं समाचरेत् । चत्वारिंशतत्पदादूर्ध्वंछायादोषो न विद्यते।इति।प्राज्ञापाठशालास्थाः दिवेकरशास्त्रिमहोदयास्तु चण्डालादिस्पर्शस्य दोषत्वमूरीकुर्वाणा अपि तद्दोषपरिहारार्थमाचमनमेव कर्तव्यम्, न तु स्नानादिकमिति यद्वदन्ति, तत्र तेषामुपष्टम्भकं वचनं स्मृतिचन्द्रिकाद्युद्धृतम्—रजकश्चर्मकारश्च व्याधजालोपजीविनौ । निर्णेजकस्सूनिकश्च नटशैलूषकास्तथा। एतैर्यदङ्गं स्पृष्टं स्यात् शिरोवर्जं द्विजातिषु। तोयेन क्षालनं कृत्वा आचान्तः प्रयतो मतः इति शातातपवचनमेव। इदं च वचनं वैद्यनाथदीक्षितीयादिपर्यालोचनेन द्वितीयादिस्नानविषयं गम्यते ।
अनया हि व्यवस्थयेदमेवावगम्यने—यत् स्पर्शनिमित्ताचनविधिपराणां सर्वेषां वचनानां चण्डालव्यतिरिक्तस्पर्शविषयत्वमेवाऽथवा कामकृतद्वितीयस्पर्शविषयत्वमेवेति । अस्तु वा कथमपि रजकश्चर्मकृच्चैवेति पूर्वोक्तवचनानुसारेण प्राथमिकरजकादिस्पर्शे शिरोवर्जं प्रक्षालनपूर्वकमाचमनमेव प्रायश्चित्तमिति, एवमपि अत्र शिरोग्रहणेन नाभेरूर्ध्वभागस्यैव ग्रहणात् नाभेरधोभागे तत्स्पर्शनिमित्तमाचमनविधान एव तात्पर्यमूरीकर्तव्यम्।
यत्तु पराशरस्मृतौ—शिल्पिनः कारुका वैद्या दासीदासाश्च नापिताः। राजानः श्रोत्रियाश्चैव सद्यः शौचाः प्रकीर्तिताः ॥
सव्रतः सत्रपूतश्च आहिताग्निश्च यो द्विजः।
राज्ञश्च सूतकं नास्ति यस्य चेच्छति पार्थिवः ॥
उद्यतो निधने दाने आर्तो विप्रनिमन्त्रितः ।
तदैव ऋषिभिर्दृष्टं यथाकाले विशुध्यति ॥
इत्यादिकमुपन्यस्तम् । तदिदं मृतसूतकादिविषयमेव ; न चण्डालस्पर्शादिविषयम् । एतेन—विवाहोत्सवयज्ञेषु त्वन्तरा मृतसूतके। पूर्वसंकल्पितं द्रव्यं दीयमानं न दुष्यति—इति पराशरवचनमपि व्याख्यातम्॥ अत्र यथावसरमन्येषामपि स्मृतिकाराणां वचनानि चण्डालस्पर्शादिदूषणपराणि सङ्गृह्यन्ते । तद्यथा—याज्ञवल्क्यः—
विनायकः कर्मविघ्नसिध्यर्थं विनियोजितः ।
गणानामाधिपत्ये च रुद्रेण ब्रह्मणा तथा ॥
तेनोपसृष्टो यस्तस्य लक्षणानि निबोधत ॥
अन्त्यजैर्गर्दभैरुष्ट्रैः सहैकत्रावतिष्ठते ।
तेनोपसृष्टो लभते न राज्यं राजनन्दनः ॥
इत्यादि॥अत्र यद्यप्यन्त्यजैः साकमवस्थानं विघ्नोपसृष्टचिन्हतयैव निरूपितम्, तथापि तद्दुष्टमित्यत्र तु न विवादः ॥एतेन—शूद्रप्रेष्यं हीनसख्यं हीनयोनिनिषेवणम्—इत्यादिकमपि व्याख्यातम् । मनुः—
दिवाकीर्तिमुदक्यां च पतितं सूतिकीं तथा ॥
शवं तत्स्पृष्टिनं चैव स्पृष्ट्वा स्नानेन शुध्यति ॥चण्डालम्लेच्छसम्भाषे स्त्रीशूद्रोच्छिष्टभाषणे ।
उच्छिष्टं पुरुषं स्पृष्ट्वा भोज्यं चापि तथाविधम् ॥ २२॥अन्त्यस्यात्यायिनोऽन्नं च तप्तकृछ्रमुदाहृतम् ।
चाण्डालान्नं द्विजो भुक्त्वा सम्यक् चान्द्रायणं चरेत् ॥चाण्डालकूपभाण्डषु यदज्ञानाज्जलं पिबेत् ।
चरेत् सान्नपनं कृच्छ्रंब्राह्मणः पापशोधनम्॥४७॥
चण्डालेन च संस्पृष्टं पीत्वा वारि द्विजोत्तमः ।
त्रिरात्रेण विशुध्येत पञ्चगव्येन शुध्यति ॥४७॥
दृष्ट्वा महापातकिनं चण्डालं वा रजस्वलाम् ।
प्रमादाद् भोजनं कृत्वा त्रिरात्रेणविशुध्यति ॥ ५३॥वेदधर्मपरित्यागश्चण्डालस्य च भाषणम् ।
चान्द्रायणेन शुद्धिः स्यान्न ह्यन्या तस्य निष्कृतिः ॥
उच्छिष्टो यदि नाचान्तश्चण्डालादीन्स्पृशेद्द्विजः ।उच्छिष्टस्तत्र कुर्वीत प्रजापत्यं विशुद्धये ॥ ७४ ॥चण्डालसूतिकाशवान् तथानारीं रजस्वलाम्।
स्पृष्ट्वा स्नायाद्विशुद्ध्यर्थं तत्स्पृष्टान् पतितांस्तथा ॥चण्डालसूतिकाशवैः संस्पृष्टं स्पर्शयेत् यदि ।
प्रमादात्स्नात आचम्य जपं कृत्वा विशुध्यति ॥
अस्पृष्टस्पर्शनं कृत्वास्नात्वा शुध्येद्द्विजोत्तमः ।
आचामेत विशुध्यर्थं प्राह देवः पितामहः ॥७७॥
चण्डालन्तु शवं स्पृष्ट्वा चरेत् कृच्छ्रं द्विजोत्तमः॥
दृष्त्वा नभस्थं नक्षत्रमहोरात्रेण शुध्यति ॥७९॥
पराशरमाधवीये—चण्डालश्चपचैः स्पृष्टो विण्मूत्रोच्छिष्ट एव च।
त्रिरात्रेणविशुद्धः स्याद् भुक्तोच्छिष्टः षड़ाचरेत् ॥
अङ्गिराः—अन्त्यानामपि सिद्धान्नं भक्षयित्वा द्विजातयः।
चान्द्रं कृच्छ्रं तदर्धंवा ब्रह्मक्षत्रविशां विदुः । अ०१।८। रजकश्चर्मकारश्च नटो बुरुड एव च ।
कैवर्तमेदभिल्लाश्चसप्तैते चान्त्यजाः स्सृताः ॥ ३ ॥
अन्त्यजानां गृहे तोयं भाण्डे पर्युषितं च यत् ।
प्रायश्चित्तं यदा पीतं तदैव हि समाचरेत् ॥ ४ ॥
चाण्डालकूपभाण्डेषु त्वज्ञानात्पिबते यदि ।
प्रायश्चित्तं कथं तेषां वर्ण वर्णविधीयते ॥ ५ ॥
चरेत्सान्तपनं विप्रः प्राजापत्यन्तु भूमिपः।
तदर्धन्तु चरेद्वैश्यः पदं शूद्रेषु दापयेत् ॥ ६ ॥
अज्ञानात्पिबते तोयं ब्राह्मणस्त्वन्त्यजातिषु ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥ ७इति॥
यमः—अस्तङ्गतो यदा सूर्यश्चण्डालरजकस्त्रियः।
संस्पृष्टस्तु तदा कैश्चित्प्रायश्चित्तं कथं भवेत् ॥ अ०११८॥जातरूपं सुवर्णं च दिवानीतं च यज्जलम् ।
तेन स्नात्वा च पीत्वा च सर्व ते शुचयः स्मृताः ॥ १९
रजकश्चर्मकारश्च नटोबुरुड एव च।
कैवर्तमेदभिल्लाश्च सप्तैते चान्त्यजाः स्मृताः ॥५४॥
एषां गत्वा तु योषां वैतप्तकृच्छ्रंसमाचरेत् ॥५५॥
विप्रःस्पृष्टो निशायान्तु उदक्या पतितेन च।
दिवानीतेन तोयेन गृहे स्नानं समाचरेत् ॥
अत्रिः —रजकः शैलुषश्चैववेणुकर्मोपजीविनः ।
एतेषां यस्तु भुङ्क्ते वैद्विजश्चान्द्रायणं चरेत् । अ१६८॥सर्वान्त्यजानां गमने भोजने सम्प्रवेशने
पराकेन विशुद्धिः स्याद्भगवानत्रिरब्रवीत् ॥ १६९॥चण्डालभाण्डे यत्तोयं पीत्वा चैव द्विजोत्तमः ।गोमूत्रयावकाहारः सप्तत्रिंशदहान्यपि ॥१७०॥
चण्डालं पतितं म्लेच्छं मद्यभाण्डं रजस्वलाम् ।
द्विजः स्पृष्ट्वा न भुञ्जीत भुञ्जानो यदि संस्पृशेत् ॥
चर्मके रजके वैण्ये धीवरे नटके तथा ।
एतान् स्पृष्त्वा द्विजो मोहादाचामेत्प्रयतोऽपि सन् ॥
एतैः स्पृष्टो द्विजो नित्यमेकरात्रं पयः पिबेत् ।
संस्पृष्टो यस्तु पक्वान्नमन्त्यजैर्वाऽप्युदक्यया ।
अज्ञानाद् ब्राह्मणोऽश्नीयात् प्राजापत्यार्धमाचरेत्। १७१।चण्डालान्नं यदा भुङ्क्ते चातुर्वर्ण्यस्य निष्कृतिः।
चान्द्रायणं चरेद्विप्रः क्षत्रः सान्तपनं चरेत् ॥ १७२ ॥षड्रात्रमाचरेद्वेैश्यः पञ्चगव्यं तथैव च।
त्रिरात्रमाचरेच्छूद्रो दानं दत्वा विशुध्यति ॥ १७३ ॥
ब्राह्मणो वृक्षमारूढश्चण्डालो मूलसंस्पृशः ।
फलान्यत्ति स्थितस्तत्र प्रायश्चित्तं कथं भवेत् ॥१७४॥
ब्राह्मणान् समनुज्ञाप्य सवासाः स्नानमाचरेत् ।
नक्तभोजी भवेद्विप्रो घृतं प्राश्य विशुध्यति ॥ १७५॥एकवृक्षसमारूढश्चाण्डालो ब्राह्मणस्तथा ।
फलान्यत्ति स्थितस्तत्र प्रायश्चितं कथं भवेत् ॥ १७६ ॥ब्राह्मणान् समनुज्ञाप्य सवासः स्नानमायरेत् ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥१७७॥एकशाखासमारूढश्चाण्डालो ब्राह्मणस्तथा ,
फलान्यत्ति स्थितं तत्र प्रायश्चित्तं कथं भवेत् ॥ १७८॥त्रिरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥१७९॥चण्डालम्लेच्छश्वपचकपालव्रतधारिणः ।
अकामतः स्त्रियो गत्वा पराकेन विशुध्यति ॥१८३ ॥कामतस्तु प्रसूता वा तत्समो नात्र संशयः।
स एव पुरुषस्तत्र गर्भो भूत्वा प्रजायते ॥१८४॥
तैलाभ्यक्तो घृताभ्यक्तश्चाण्डालं स्पृशते द्विजः।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥१८५॥
चण्डालेन तु संस्पृष्टं यत्तोयं पिबति द्विजः ।
कृच्छ्रपादेन शुध्येत आपस्तम्बोऽब्रवीन्मनुः ॥८०८॥
चण्डालस्य च संस्पृष्टं विरामूत्रस्पृष्टमेव च ।
त्रिरात्रेण विशुद्धिः स्याद्भुक्तोच्छिष्टं तथाचरेत् ॥२२५॥वा
पीकूपतडागानां दूषितानां च शोधनम् ।
उद्धरेद्घटशतं पूर्णं पञ्चगव्येन शुध्यति ॥
(१)गोदोहने1 इति वचनमपि व्याख्यातम् । अस्यापि पूर्वतनवाक्यैकवाक्यतानुसारेण चण्डालपरिग्रहेतरविषयत्वस्यैव युक्तत्वात् ॥”) चर्मपुटे च तोयं यत्रान्तरे कारकशिल्पिहस्तौ।
स्त्रीबालवृद्धाचरितानि यान्यप्रत्यक्षदृष्टानि शुचीनि तानि ॥
प्राकाररोधे विषमप्रदेशे सेनानिवेशे भवनस्य दाहे।
आरब्धयज्ञेषु महोत्सवेषु तथैव दोषा न विल्पनीयाः॥
प्रपास्वरण्येघटके च कूपे द्रोण्यां जलं क्रोशविनिर्गतं च।
श्वपाकचाण्डालपरिग्रहे तु पीत्वा जलं पञ्चगव्येन शुद्धिः ॥
चण्डालेन तु संस्पृष्टौ स्नानमेव विधीयते ॥२३५॥
आदित्येऽस्तमिते रात्रावस्पृश्यं स्पृशते यदि ।
भगवन्केन शुद्धिः स्यात्ततो ब्रूहि तपोधन ॥२३६ ॥
(१) गोदोहन इत्यादिकं वचनं हि हिन्दुसभापण्डितपरिषदि गिरिधरशर्मप्रभृतिभिश्चण्डालस्पर्शस्यादोषतायां गमकतयोपन्यस्तम्,परन्तु वाक्यशेषे ’चण्डालपरिग्रहे तु’ इत्यस्य पर्यालोचनं यदि क्रियते,तहि चण्डालेतरस्पर्शादोषत्वमेव तत्र विवक्ष्यत इति गम्यत इति सर्वविदितमिदम्॥ एतेनात्रिस्मृतिगतं –देवयात्राविवाहेषु यज्ञ प्रकरणेषु च। उत्सुवेषु च सर्वेषु स्पृष्टास्पृष्टिर्न विद्यते(२४५) इति वचनमपि व्याख्यातम्। अस्यापि पूर्वतनवाक्यैकवाक्यतानुसारेण चण्डालपरिग्रहेतरविषयत्वस्यैव युक्तत्वात्॥
आदित्येऽस्तमिते रात्रौ स्पृशन्नीतं दिवाजलम् ।
तेनैव सर्वशुद्धिः स्याच्छवस्पृष्टन्तु वर्जयेत् ॥ २४५ ॥
पतितान्नं यदा भुक्तं भुक्तं चण्डालवेश्मनि ।
मासार्धन्तु पिबेद्वारिइति शातातपोऽब्रवीत् ॥ २३७ ॥यश्चण्डालीं द्विजो गच्छेत् कथञ्चित्काममोहितः।
त्रिभिः कृच्छ्रैर्विशुध्येत प्राजापत्यानुपूर्वशः ॥२६०॥
चण्डालं पतितं म्लेच्छं मद्यभाण्डंरजस्वलाम् ।
द्विजः स्पृष्टा न भुञ्जीत भुञ्जानो यदि संस्पृशेत् ॥ २६२॥
अतः परं न भुञ्जीत त्यक्त्वाऽन्नं स्नानमाचरेत् ।ब्राह्मणैस्समनुज्ञातस्त्रिरात्रमुपवासयेत् ।
सघृतं यावकं प्राश्य व्रतशेषं समापयेत् ॥ २६३ ॥
उदक्यां सूतिकां वापि अन्त्यजांस्पृशते यदि ।
त्रिरात्रेणैव शुद्धिः स्याद्विधिरेष सनातनः ॥ २६४ ॥
रजस्वला यदा स्पृष्टा श्वानचण्डालवायसैः।
निराहारा भवेत्तावत्स्नात्वा कालेन शुध्यति ॥ ३७३।
चर्मको रजको वेण्यो धीवरो नटकस्तथा।
एतान स्पृष्ट्वा द्विजो नित्यमेकरात्रंपयः पिबेत् ॥ २७२॥इति ।
संवर्तः—
चण्डालं पुक्कसं चैव श्वपाकं पतितं तथा ।
एतान् श्रेष्ठस्त्रियो गत्वा कुर्युश्चान्द्रायणत्रयम् ॥ १६८॥
चण्डालं पतितं दृष्ट्वा शवमन्त्यजमेव च ।
उदक्यां सूतिकां नारीं सवासाः स्नानमाचरेत् ॥
अस्पृश्यं स्पर्शयेद्यस्तु स्नानं तेन विधीयते ।
उर्ध्वमाचमनं प्रोक्तं द्रव्याणां प्रोक्षणन्तथा ॥१०८ ॥
चण्डालाद्यैश्च संस्पृष्ट उच्छिष्टश्च द्विजोत्तमः ।
गोमूत्रयावकाहारः षड्रात्रेण विशुध्यति ॥ १७० ॥
चण्डालभाण्डसंस्पृष्टं पीत्वा कूपगतं जलम् ।
गोमूत्रयावकाहारस्त्रिरात्रेण विशुध्यति ॥ १७३ ॥
अन्त्यजैः स्वीकृते तीर्थे तटाकेषु नदीषु च ।
शुध्यते पञ्चगव्येन पीत्वा तोयमकामततः ॥१७५॥
चण्डालैःसङ्करे विप्रः श्वपाकैः पुक्कसैरपि ।
गोमूत्रयावकाहारो मासार्धेन विशुध्यति ॥ १७६॥ इति॥
शातातपः—
अस्पृश्यस्पर्शसङ्गीच वस्तुमाश्रित्य शास्त्रहृत् ।
पतितो मद्यविक्रेताऽनपत्यो द्विजवस्त्रहृत् ॥ १७ ॥
चितिवृक्षश्चितिर्यूपश्चण्डालो वेदविक्रयी ।
एतान् वै ब्राह्मणः स्पृष्ट्वा सचैलो जलमाविशेत् ॥
इति वृद्धशातातपः—
चण्डालंपतितं व्यङ्गमुन्मत्तं शवमन्त्यजम् ।
शृगालं सूतिकां नारीं रजसा च परिप्लुताम् ॥ २२ ॥
श्वकुक्कुटवराहांश्च ग्राम्यान् स्पृशति मानवः ।
सचैलं सशिरः स्नात्वा तदानीमेव शुध्यति ॥
अशुद्धः स्वयमप्येतानशुद्धांश्च यदा स्पृशेत् ।
विशुध्यत्युपवासेन शातातपवचो यथा ॥ इति ॥
पतितान्नं यदा भुङ्क्ते भुंक्ते चण्डालवेश्मनि ।
स मासार्धं चरेद्वारि मासं कामकृतेन तु ॥७०॥
योगेन पतितेनैव स्पर्शे स्नानं विधीयते ।
तेनैवोच्छिष्टसंस्पृष्टः प्रजापत्यं समाचरेत् ॥७१॥
चण्डालोदकसंस्पर्शे स्नानं येन विधीयते ॥७९॥
चण्डालघटभाण्डस्थं यत्तोयं पिबतेनरः ।
तत्क्षणात्क्षिपते यस्तु प्राजापत्यं समाचरेत् ॥ ७० ॥
शूद्रान्नरससम्पुष्टा ब्राह्मणाः पङ्किदूषकाः ।अ०१३।४॥
शूद्रान्नं ब्राह्मणो भुक्त्वा तथा रङ्गावतारिणः ।
चर्मकारस्य वेनस्य कीरस्य पतितस्य च ॥
रुक्मकारस्य तक्ष्णश्च तथा वार्धुषिकस्य च ॥
कदर्यस्य नृशंसस्य वेश्यायाः कितवस्य च।
गणान्नं भूपिपालान्नं अन्नं चैवास्त्रजीविनः॥३८॥
सौनिकान्नं सूतिकान्नं भुक्त्वा मासं व्रतं चरेत्॥
इत्यादि ॥ गौतमः—
पतितचण्डालसूतिकोदक्याशवस्पृष्टितत्स्पृष्ट्युपस्पर्शने सचैलोदकोपस्पर्शनाच्छुध्येत्॥ श्वपचचण्डालपतितावेक्षणे दुष्टम् ॥
अ० १४ । १५ ॥
न म्लेच्छाशुच्यधार्मिकैः सम्भाषेत ।सम्भाष्य पुण्यकृतो मनसा ध्यायेत्, ब्राह्मणेन वा सह सम्भाषेत
।
बौधायनः—चैत्यवृक्षं चितिं यूपं चण्डालं वेदविक्रयम् । एतानि
ब्राह्मणः स्पृष्ट्वा सचैलो जलमाविशेत् ॥
आपस्तम्बः—प्रपास्वरण्ये च जलेऽथ तीरे द्रोण्यां जलं यच्च विनिः
सृतम्भवेत् । श्वपाकचण्डालपरिग्रहेषु पीत्वा जलं
पञ्चगव्येन शुद्धिः ॥
चण्डालकूपभाण्डेषु योऽज्ञानात्पिबते जलम् ।
प्रायश्चित्तं कथं तस्य वर्णे वर्णे विधीयते ॥अ०४।१
चरेत्सान्तपनं विप्रः प्राजापत्यन्तु भूमिपः ।
तदर्धन्तु चरेद्वैश्यः पादंशूद्रस्य दापयेत् ॥२ ॥
भुकोच्छिष्टस्त्वनाचान्तश्चण्डालैः श्वपचेन वा।
प्रमदात्स्पर्शनं गच्छेत्तत्र कुर्याद्विशोधनम् ॥ ३ ॥
चण्डालेन यदा स्पृष्टो विण्मूत्रे च कृते द्विजः।
प्रायश्चित्तं त्रिरात्रं स्याद्भुक्तोच्छिष्टः षडाचरेत् ॥ ४॥
वृक्षारूढे तु चण्डाले द्विजस्तत्रैव तिष्ठति ॥
फलानि भक्षयेत्तस्य कथं शुद्धिं विनिर्दिशेत् ॥ १०॥
ब्राह्मणान् समनुज्ञाप्य सवासाः स्नानमाचरेत् ।
एकरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥७७॥
चण्डालेन यदा स्पृष्टो द्विजवर्णः कदाचन ।
अनभ्युक्ष्यपिबेत्तोयं प्रायश्चित्तं कथं भवेत् ॥अ ०५
अन्त्यजातिश्वपाकेन संस्पृष्टा वै रजस्वला ।
अहानि तान्यतिक्रम्य प्रायश्चित्तं प्रकल्पयेत् ॥
शूद्रान्नं शूद्रसम्पर्कं शूद्रेणैव सहासनम् ।
शूद्राज्ज्ञानागमः कश्चिज्ज्वलन्तमपि पातयेत्।८।८।
रजकव्याघ्रशैलूषवेणुकर्मोपजीविनाम् ।
भुक्त्वैषां ब्राह्मणश्चान्नं शुद्धिं चान्द्रायणेन तु॥९॥
भुक्तोच्छिष्टस्त्वनाचान्तश्चण्डालैः श्वपचेन वा ।
प्रमादाद्यदि संस्पृष्टो ब्राह्मणो ज्ञानदुर्बलः ॥ ३८ ॥
स्नात्वा त्रिषणवं नित्यं ब्रह्मचारी धराशयः ।
स त्रिरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥३९॥
चण्डालेन तु संस्पृष्टो यश्चापः पिबति द्विजः ।
अहोरात्रोषितो भूत्वा त्रिषणवेन शुध्यति ॥४०॥
वसिष्ठः—एतदेव चण्डालपतितान्नभक्षणेषु ।
ततः पुनरुपनयनं वपनादीनान्तु निवृत्तिः ।
पराशरमा०—पृ० ३९—पतितचण्डालारावश्रवणे त्रिरात्रं वाग्यता
अनश्नन्त आसीरन् ॥
स्मृत्यन्तरे वीरमित्रोदये—
चण्डालान्नं द्विजो भुक्त्वा सम्यक् चान्द्रायणं चरेत् ।
बुद्धिपूर्वे तु कृच्छ्राब्दंपुनः संस्कारमर्हति ॥
पराशरः—श्वचाण्डालोदक्यादृष्टश्च भोजनं परिवर्जयेत् ।अ०९६६
चैत्यवृक्षश्चितिर्यूपश्चण्डालः सोमविक्रयी ।
एतांस्तु ब्राह्मणः स्पृष्त्वा सवासा जलमाविशेत्॥
हारीतः—चण्डालैः सह सम्भाष्य द्विजसम्भाषणाच्छुचिः। सावित्रीं व्याहरद्वापि………
उच्छिष्टैः सह सम्भाषेत् त्रिरात्रेण विशुध्यति ।
चण्डालानां प्रमादेन यदि भुञ्जीत वै द्विजः॥
ततश्चान्द्रायणं कुर्यान्मासमेकं व्रतं चरेत्।
शूद्रो वाप्यर्धमासं वै भुक्त्वा चैवाजितेन्द्रियः॥
त्रिरात्रमुपवासं च ब्राह्मणांस्तर्पयेच्छुचिः
चण्डालैः सह संवासे दीर्घकालमकामिकम्॥
विज्ञानान्मृण्मयं पात्रं सर्वं त्यजति तद्गृहात् ।
बालकृच्छ्रं ततः कुर्यात्तप्तकृच्छ्रं तथैव च॥
ब्राह्मणांस्तर्पयेत्पश्चाद्ब्रह्मकूर्चेन शुध्यति ॥
गृहस्याभ्यन्तरे यस्य चण्डालो यदि गच्छति ।
पार्थिवानां परित्यागः सर्वेषां सद्य एव हि॥
अनष्टरसभाण्डानां ग्रहणं मन्यते तथा ।
अजस्य गोः प्रवेशाद्धि शुध्द्यते नात्र संशयः । इति ।
देवलः— **श्वपाकं पतितं द्रव्यमुन्मत्तं शवदाहकम्।**
सूतकं सूतिकां नारीं रजसा च परिप्लुताम् ॥
श्वकुक्कुटवराहांश्च ग्राम्यान् संस्पृश्य मानवः ।
सचैलः सशिराः स्नात्वा तदानीमेव शुध्यति ॥
चण्डालाध्युषितं यत्र यत्र विष्ठादिसङ्गतिः ।
एवं कश्मलभूयिष्ठा भूरमेध्या प्रकीर्तिता ॥
सभायां स्पर्शने चैव म्लेच्छेन सह संविशेत् ।
कुर्यात्स्नानं सचैलन्तु दिनमेकनभोजनम् ॥
च्यवनः—चण्डालसङ्करे स्वभवने दहनं सर्वभाण्डभेदनं दारवाणां तु तक्षणं शङ्खशक्तिसुवर्णरजतचैलानामद्भिः शुद्धिः प्रक्षालनं कांस्यपात्रणामाकरे शुद्धिः सौवीरपयोदधितक्राणामपरित्यागो गोमूत्रयावकाहारो मासं क्षपयेत्। बालवृद्धस्त्रीणामर्धंप्रायश्चित्तमाषोडशाद्बालः सप्तत्यूर्ध्वंवृद्धः ।चीर्णे प्रायश्चित्ते ब्राह्मणभोजनं गोदानं दद्यात् अभावे सर्वस्वमिति । बालस्त्र्यहं भुञ्जीतेत्यादि ॥
व्याघ्रः—अस्पृश्यस्पर्शनंकृत्वा यदा भुङक्तेगृहाश्रमी।
अक्रामतस्त्रिरात्रं स्यात्षड्रात्रं कामश्चरेत् ॥
बृहस्पति—अस्नात्वा तु यदा भुंक्तेपिण्डं दत्वा पितुर्व्रती स्पृष्त्वा
शवमुदक्यां वा चण्डालं सूतिकां तथा ॥
अकामतस्त्रिरात्रं स्याद्बुद्ध्यासान्तपनं चरेत् ।
मार्कण्डयः—अपांक्तेयस्य यः कश्चित्पंक्तौ भुंक्तंद्विजोत्तमः
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥
षट्त्रिंशन्मतसङ्ग्रहे—चण्डाल श्रोत्रावकाशे श्रुतिस्मृतिपाठे एकरा
त्रमभोजनम् ॥
साधकानि तु वचनान्येतान्येव भवितुमर्हन्ति । तानि यथा—
अत्रिः—गोदोहने चर्मपुटे च तोयं यन्त्राकरे कारुकशिल्पिहस्ते । स्त्रीबालावृद्धाचरितानि यान्यप्रत्यक्षदृष्टानि शुचोनि तानि ।
प्राकाररोधे विषमप्रदेशे सेनानिवेशे भवनस्य दाहे ।
अवास्ययज्ञेषु महोत्सवेषु तेष्वेव दोषा न विकल्पनीयाः ॥
प्रपास्वरण्ये घटकस्य कूपे द्रोण्यांजलं क्रोशविनिर्गतञ्च ।
देवयात्राविवाहेषु यज्ञप्रकरणेषु च ।
उत्सवेषु च सर्वेषु स्पृष्टास्पृष्टिर्न विद्यते ॥
इत्यादीनि ।अत्र प्रथमस्य श्लोकद्वयस्य ‘श्वपाकचाण्डलपरिग्रहेषु पीत्वा जलं पञ्चगव्येन शुद्धि’ रित्युत्तरवाक्याच्चण्डालस्पर्शातिरिक्तविषयत्वमिति स्पष्टं ज्ञायते । एतेन—स्मृत्यन्तरगतानि—
तीर्थे विवाहे यात्रायां सङ्गामे राष्ट्रविप्लवे ।
आपद्यपि च कष्टायां स्पृष्टास्पृष्टिर्नविद्यते—
इत्यादीनि वचनान्यपि—व्याख्यातानि; तस्य सर्वस्यापि सूतकाशौचिस्पर्शविषयत्वस्य निबन्धकारैर्व्यवस्थापितत्वात् । अतएव—प्रपास्वरण्येच जले च तीरे द्रोण्यां जलं यच्च विनिःसृतं भवेत् । श्वपाकचण्डालपरिग्रहेषु पीत्वा जलं पञ्चगव्येन शुद्धिः " इत्यापस्तम्बस्मृतिवचनमुपपद्यते । एतेन—शिल्पिनः कारुका वैद्या दासीदासाश्च नापिताः । राजानो राजभृत्याश्च सद्यः शौचाः प्रकीर्तिताः ॥ सव्रतः सत्रपूतश्चाहिताग्निश्चैव यो द्विजः । राज्ञश्च सूतकं नास्तियस्य चेच्छति पार्थिवः ॥ उद्यतो निधने दानेआर्तो विप्रो निमन्त्रितः । तदैव ऋषिभिर्दृष्टं यथा कालेन शुद्ध्यति—इत्यादिवचनान्यपिव्याख्यातानि ॥ एषुहि स्पष्टमेवाशौचस्यैव विवाहादावदोषत्वमुक्तम्, नान्त्यजस्पर्शस्य \। यत्त्वत्र नापितस्यापि सद्यः शौचत्वं प्रतिपादितम्, तत्तस्य न जातिकृत-
स्पर्शदोषत्वनिराकारणपरम्, किन्तु तस्याशौचकृतस्पर्शदोषनिराकरणपरम् । अत एव खलु राजश्रोत्रियादिसाहचर्यमत्र श्रूयमाणमुपपद्यते । अत एव हि माधवीय उक्तश्लोकव्याख्यावसरे—
दाने विवाहे यज्ञे च संग्रामे राष्ट्रविप्लवे ।
आपद्यपि च कष्टायां सद्यः शौचं विधीयते ॥ इति ॥
याज्ञवल्क्यवचनम् ( ३ \। २८। २९)
“संग्रामस्थश्च राजन्यो वैश्यो मध्ये गवां स्थितः ॥” इति ॥ हारीतवचनम् ॥
विवाहयज्ञदुर्गेषु यात्रायां तीर्थकर्मणि ।
न तत्रसूतकं तद्वत्कर्म यज्ञादि कारयेत् ॥” इति पैठीनसिवचनम् ॥
अथ देवप्रतिष्ठायां गणयात्रादि कर्मणि ।
श्राद्धादौ पितृयज्ञे च कन्यादाने च नो भवेत् ॥” इत्यङ्गिरोवचनम्,
राज्यनाशस्तु येन स्याद्विना राज्ञा स्वमण्डले ।
प्रयास्यतश्च संग्रामे होमे प्रास्थानिके सति ॥
मन्त्रादितर्पणैर्वापि प्रजानां शान्तिकर्मणि ।
गोमङ्गलादौ वैश्यानां कृषिकालात्ययेष्वपि ॥
अशौचं न भवेल्लोके सर्वत्रान्यत्रविद्यते—
इति ब्रह्मपुराणवचनं चोपोद्बलकतया निर्दिष्टमुपपद्यते । अनेन हि पराशरमाधवीयग्रन्थेन स्पष्टमिदं सूच्यते—यज्जातिकृतस्पर्शास्पर्शविषयं न—“तीर्थे विवाहे यात्रायां संग्रामे राष्ट्रविप्लवे । आपद्यपि च कष्टायां स्पर्शास्पर्शीन विद्यते—इत्यादि वचनजातमिति । तथा चोक्तविधवचनजालानां पूर्वापरसन्दर्भ—स्मृत्य-
न्तरैकवाक्यतानिबन्धकारादृतव्यवस्थादिकं पामराणां पुरतोऽनुपस्थाप्य पण्डितवरगिरिधरशर्मप्रभृतिभिरुक्तवचनमात्रोपस्थापनेनान्त्यजस्पर्श इदानीं न दोषायेति यद्धिन्दुसभादिषु साहसमवलम्ब्यते, तदिदं केवलं सन्दिग्धमतीनां मृदुलचित्तानां शास्त्रविश्वासिनां च पामाराणां प्रतारणमेव, न तु वस्तुस्थितिकथनमिति सुधीरमुद्धोषयामः ।
अत्र स्मृतिचन्द्रिकागतं नैमित्तितकस्नानप्रकरणमपि नासंग्रहयोग्यम् । तद्यथा—
अथ नैमित्तिकस्नानानि । तत्र मनुः—
दिवकीर्तिमुदक्यां च पतितं सूतिकां तथा ।
शवं तत्स्पृष्टिनं चैव स्पृष्ट्वा स्नानेन शुद्ध्यति ॥
दिवाकीर्तिश्चण्डालः ॥ उदक्या रजस्वला ।स्नानेन सचेलेनेति शेषः;
शवस्पृष्टिमथोदक्यां सूतिकां पतितं तथा ।
स्पृष्ट्वा स्नानेन शुद्धस्स्यात्सचेलेन न शंशयः ॥
इत्यङ्गिरस्स्मरणात् । तत्र तच्छब्देनदिवाकीर्त्यादिशवपर्यन्तानां ग्रहणं न शवमात्रस्य; तेषामप्यशुचित्वेन शवतुल्यत्वादेकवाक्योपादानाच्च । न चात्रानन्तर्याच्छव एव तत्स्पृष्टिन्याय इति शङ्कनीयम्, यत आह गौतमः—
‘पतितचण्डालसूतिकोदक्याशवस्पृष्टितत्स्पृष्ट्युपस्पर्शने सचेलोदकोपस्पर्शनाच्छुद्ध्येत्’—इति ।
अनेन पतितादिस्पृष्टिनमारभ्य तृतीयस्यापि सचेलं स्नानमित्युक्तंभवति। न चात्रापि पतिताद्युदक्यान्तानां शवस्पृष्टिनां सम्बन्ध इति तत्रैव तत्स्पृष्टिन्याय इति शङ्कनीयम्, चण्डालादिष्वपि स्मृत्यन्तरे तत्स्पृष्टिन्यायाभिधानात्—
‘शवचण्डालपतितसूतिकोदक्यातत्स्पृष्टिस्पर्शने स्नानम् इति सङ्ग्रहकारोऽपि—
चण्डालसूतिकोदक्यापतिताश्शव एव च ।
एतेषामेव संस्पर्शे तत्स्पृष्टिन्याय इष्यते ॥ इति ।
एवकारः कटधूमादिस्पृष्टिन्यायनिवृत्त्यर्थः ।
तदाह—स एव—
कटधूमस्पृशं वान्तं विरिक्तं क्षुरकर्मिणम् ।
मैथुनाचरितारं च स्पृष्ट्वा स्नानेन शुध्यते ॥ इति ।
यत्तु संवर्तेन—
तत्स्पृष्टिनं स्पृशेद्यस्तुस्नानं तस्य विधीयते ।
ऊर्ध्वमाचमनं प्रोक्तं द्रव्याणां प्रोक्षणं तथा ॥
इति द्वयोरेव स्नानमुक्तम्, तदबुद्धिपूर्वकस्पर्शनविषयम् । तथाच सङ्ग्रहकारः—
अबुद्धिपूर्वकस्पर्शे द्वयोस्स्नानं विधीयते।
त्रयाणां बुद्धिपूर्वे तु तत्स्पृष्टिन्यायकल्पना ॥ इति ।
चतुर्थस्यत्वाचमनमेव—
उपस्पृशेच्चतुर्थस्तु तदूर्ध्वंप्रोक्षणं स्मृतम्। इति मरीचिस्मरणात् । यत्तु कूर्मपुराणे—
चण्डालसूतिकोदक्या संस्पृष्टं संस्पृशेद्यदि ।
प्रमादात्तत आचम्य जपं कुर्यात्समाहितः ॥
तत्स्पृष्टस्पृष्टिनं स्पृष्ट्वा बुद्धिपूर्वं द्विजोत्तमः ।
आचामेत्तद्विशुद्ध्यर्थं प्राह देवः पितामहः॥
इति, तदुभयं द्वितीयादिविषयम्, अन्यथा गौतमादिवचनविरोधात् । अनेनैवाभिप्रायेण याज्ञवल्क्योऽपि—
उदक्याशुचिभिस्स्नायात्संस्पृष्टस्तैरुपस्पृशेत् ।
अब्लिङ्गानि जपेच्चैव गायत्रीं मनसा सकृत् ॥
इति । उदक्याशुचिभिश्चण्डालपतिताद्यैस्संस्पृष्टस्स्नायात् । तैरुदक्याभिस्स्पृष्टैस्स्पृष्ट उपस्पृशेत् आचामेदित्यर्थः । भाष्यकारैस्तु दण्डादिस्पर्शविषयमित्येतद्व्याख्यातम्। यद्वा तैरुदक्यादिभिस्स्पृष्टैस्स्पृष्ट उपस्पृशेत् स्नायादिति संवर्तवचनेन समानार्थम् ।यदपि देवलेनोक्तम्—
संस्पृश्याशुचिसंस्पृष्टं द्वितीयं चापि मानवः ।
हस्तौ पादौ च तोयेन प्रक्षाल्याचम्य शुद्ध्यति ॥
इति, तदपि याज्ञवल्क्येन समानार्थम् । यदपि वृद्धशातातपेन—
अशुचिं संस्पृशेदन्यमेक एव स दुष्यति ।
तत्स्पृष्टोऽन्यो न दुष्येत सर्वद्रव्येष्वयं विधिः ॥
इति, तदपि तेनैव समानार्थम् । यदप्यादित्यपुराणे—
ससूतकं समृतकं प्रसूतां वा रजस्वलाम् ।
स्पृष्ट्वा स्नायात्तु तत्स्पृसंस्पर्शादाचमेद् बुधः॥
इति, तदपि संवर्तवचनेन समानार्थम् । अत्र कात्यायनः—
चण्डालसूतिकोदक्यापतिताशौचकृच्छवान् ।
स्पृष्ट्वा स्नात्वा शुचिः प्रेतमनुगम्यानलं स्पृशेत् ॥
इति, एतत्प्रमादसंस्पर्शविषयम् ;—
पतितं सूतिकामन्त्यं शवं स्पृष्ट्वा च कामतः ।
स्नात्वा सचेलं स्पृष्ट्वाऽग्निं घृतं प्राश्य विशुध्यति ।
इति स्मरणात् । अत्र प्रचेताः—
वस्त्रान्तरितसंस्पर्शस्साक्षात्स्पर्शोऽभिधीयते।
साक्षात्स्पर्शे तु यत्प्रोक्तं तद्वस्त्रान्तरितेऽपि च ॥
इति । व्यासोऽपि—
चण्डालपतितौ दृष्ट्वा नरः पश्येत भास्करम् ।
स्नात्वा त्वेतौ समालोक्य सचेलं स्नानमर्हति ॥सूतिकापतितोदक्याचण्डालं च चतुर्थकम् ।
यथाक्रमं परिहरेदेकदित्रिचतुर्युगम् ॥
वैयाघ्रपादोऽपि—
चण्डालं पतितं चैव दूरतः परिवर्जयेत् ।गोवालव्यजनादर्वाक्सवासा जलमाविशेत् ॥
इति । एतदतिसङ्कटस्थानविषयमिति कैश्चित्व्याख्यातम् । विष्णुरपि—
चण्डालोदक्यासंस्पर्शे स्नानं कृत्वा विशुद्ध्यति ।
इति । पराशरोऽपि—
चैत्यवृक्षश्चितिर्यूपश्चाण्डालस्सोमविक्रयी ।
एतांस्तु ब्राह्मणः स्पृष्टा सचेलो जलमाविशेत्॥
इति । चितिप्रदेशारोपितवृक्षः चैत्यवृक्षः ।अङ्गिराअपि—
यस्तु छायां श्वपाकस्य ब्राह्मणो ह्यधिरोहति ।
तत्र स्नानं प्रकुर्वीत घृतं प्राश्य विशुध्यति ॥
आपस्तम्बोऽपि—
एकशाखां समारूढश्चण्डालादिर्यदा भवेत् ।
ब्राह्मणस्तत्र निवसन् स्नानेन शुचितामियात् ॥
इति । शाखाग्रहणमेवंजातीयकद्रव्योपलक्षणार्थम् ।
अत्र सङ्ग्रहकारः—
तार्णे संस्तर एकस्मिन्अस्पृश्यैस्सह तिष्ठति ।अस्पृश्यैस्तैरदुष्टोऽस्मीत्येवं मूढस्तु मन्यते ॥
इति । तार्णे तृणनिर्मिते ।
मार्कण्डेयपुराणेऽपि—
अभोज्यसूतिकाषण्डमार्जाराखुश्वकुक्कुटम् ।पतितापविद्धचण्डालमृताहारांश्च धर्मवित् ॥
संस्पृश्य शुद्ध्यति स्नानान्नोदक्याग्रामसूकरौ ।
तद्वच्च सूनिकाशौचदूषितौ पुरुषावपि ॥
षट्त्रिंशन्मते—
बौद्धान्पाशुपताञ्जैनान्लोकायतिककापिलान् ।
विकर्मस्थान द्विजान् स्पृष्ट्वा सचेलो जलमाविशेत् ॥कापालिकांस्तु संपृश्य प्राणायामोऽधिको मतः ।
ब्रह्माण्डपुराणेऽपि—
शैवान् पाशुपतान् स्पृष्ट्वा लोकायतिकनास्तिकान् ।विकर्मस्थान्द्विजान् शूद्रान्सवासा जलमाविशेत् ॥
संवर्तोऽपि—
शूद्रोच्छिष्टं दिजः स्पृष्ट्वा उच्छिष्टं शूद्रमेव वा ।शुचिमप्यवगूह्यैनं सवासा जलमाविशेत् ॥
अवगूह्य स्पृष्ट्वेत्यर्थः । स्मृत्यन्तरेऽपि—
चितिं च चितिकाष्ठं च यूपं चण्डालमेव च ।
स्पृष्ट्वा देवलकं चैव सवासा जलमाविशेत् ॥
देवार्चनपरो विप्रो वित्तार्थी वत्सरत्रयम् ।
स वै देवलको नाम हव्यकव्येषु गर्हितः ॥
यमोऽपि—
शना चैव श्वपाकेन मृतनिर्हरणेन वा ।
स्पष्टमात्रस्तु कुर्वीत सचेलं प्लावनं जले ॥
इति । शुनि विशेषमाहापस्तम्बः—
‘शुनोपहतस्सचेलोऽवगाहेत । प्रक्षाल्यवा तं देशमग्निना संस्पृश्य पुनः प्रक्षाल्यपादौ चाचम्य प्रयतो भवति”
इति । सचेलावगाहनं नाभेरूर्ध्वाङ्गस्पर्शनविषयम् । तथा च विष्णुः
नाभेरधः कराग्रंवा शुना यद्युपहन्यते ।
प्रक्षाल्यदर्भैस्संज्वाल्यपुनराचम्य शुध्यति ॥
नाभेरूर्ध्वंशुना स्पृष्टो लिप्तोऽमेध्येन वा पुनः ।
प्रक्षाल्यमृद्भिरङ्गानि सचेलं स्नानमर्हति ॥
इति । एवं रजकादिस्पर्शने वेदितव्यम् । तथा च शातातपः
रजकश्चर्मकृच्चैव व्याधजालोपजीविनौ ।
निर्णेजकस्सौनिकश्च नटश्शैलूषकस्तथा ।
मुखेभगस्तथा श्वा च वनितास्सर्ववर्णगाः ॥
चक्रीध्वजी वध्यघाती ग्रामकुक्कुटसूकरौ ।
एतैर्यदङ्गं स्पृष्टं स्याच्छिरोवर्जं दिजातिषु ।
तोयेन क्षालनं कृत्वा आचान्ताः प्रयता मताः ॥
रजको वस्त्रादिरागकर्ता निर्णेजकश्चेलधावकः । सौनिको हिंस्रः । नटो जातिविशेषः । अनटोऽपि रङ्गावतरणजीवी शैलृषकः । मुखेभगप्षण्डविशेषः । ध्वजी मद्यविक्रेता ।अत्रापि श्वसाहचर्याच्छिरोग्रहणं नाभेरूध्वाद्गोपलक्षणार्थम् । शङ्खोऽपि –
रथ्याकर्दमतोयेन ष्ठीवनाद्येन वा तथा
नाभेरूर्ध्वं नरस्स्पृष्ट्वा सद्यस्स्नानेन शुद्ध्यति ॥
जातूकर्णोऽपि
ऊर्ध्वंनाभेः करौ मुक्त्वा यदङ्गं स्पृशते खगः ।
स्नानं तत्र प्रकुर्वीत शेषं प्रक्षाल्यशद्ध्यति ॥
खगः पक्षी ।यदि पुनरशुद्ध एवश्वादीन् स्पृशति, तदा विशेषो देवलेन दर्शितः—
श्वपाकं पतितं व्यङ्गमुन्मत्तं शवदाहकम् ।
सूतिकां स्राविकां नारी रजसा च परिप्लुताम् ॥
शुककुक्कुटवाराहान्प्राम्यान् संस्पृश्य मानवः ।
सचेलस्सशिरास्स्नात्वा तदानीमेव शद्ध्यति ॥
अशुद्धान्स्वयमप्येतानशद्धस्तु यदि स्पृशेत् ।
त्रिशुद्ध्यत्युपवासेन तथा कृच्छ्रेण वा पुनः ॥
इति । स्राविका प्रसवस्य कारयित्री।एतद्बुद्धिपूर्वकस्य स्पर्शविषयम् । तथा च कूर्मपुराणम्—
उच्छिष्टोऽद्भिरनाचान्तश्चण्डालं वा स्पृशेद् द्विजः ।
प्रमादाद्वा जपेत्स्नात्वा गायत्र्यष्टसहस्रकम् ॥
चण्डालपतितादींस्तु कामाद्यस्संस्पृशेद द्विजः ।
उच्छिष्टस्तत्र कुर्वीत प्राजापत्यं विशुद्धये ॥
इति । अनेनैवाभिप्रायेण विष्णुरपि—
अनुच्छिष्टेन संस्पृष्टे स्नानं येन विधीयते ।
तेनैवोच्छिष्टसंस्पृष्टः प्राजापत्येन शुद्ध्यति ॥
अत्र संवर्तः—
नीलीं नीलीविकारांश्च मानुष्यास्थ्यपि वा द्विजाः !
चण्डालपतितच्छायां स्पृष्ट्वा स्नानं समाचरेत् ॥
अत्र शातातपः—
ग्रामे तु यत्र संस्पृष्टिर्यात्रायां कलहादिषु ।
ग्रामसंदूषणे चैव स्पृष्टिदोषो न विद्यते ॥
ग्रामे राजमार्गादौ । षट्त्रिंशन्मतेऽपि—
-
देवयात्राविवाहेषु यज्ञेषु प्रकृतेषु च।
उत्सवेषु च सर्वेषु स्पृष्ट्वा स्पृष्टिर्न विद्यते।
बृहस्पतिरपि—
तीर्थे विवाहे यात्रायां सङ्ग्रामे देशविप्लवे।
नगरग्रामदाहे च स्पृष्ट्वा स्पृष्टिर्न दुष्यति॥
एतच्च वाक्यत्रयं यत्राहमनेन स्पृष्ट इति ज्ञानं नास्ति, तद्विषयमिति केचित्। उच्छिष्टाशुचिस्पर्शनविषयमित्यन्ये। तत्रापस्तम्बः—
'**शक्तिविषये न मुहूर्तमप्यप्रयतः स्यात्**' इति।
अनेन हीदं स्पष्टं प्रतिपाद्यते–यत् तीर्थविवाहादिषु स्पर्शदोषाभावोऽपि,—यत्र स्पर्शज्ञानासम्भवः, तद्विषयमेव “तीर्थे विवाहेइत्यादिकमिति स्मृतिचन्द्रिकासिद्धान्तेनेदमेव निर्णीयते, तीर्थादिष्वपि स्पर्शदोषाभावव्यवस्थापनेन स्पर्शव्यवस्थापनप्रयत्नोऽयमनुपपन्न एवेति। एतेन– अनन्त्यजादिस्पर्शे आचमनमेव युक्तं व्यवस्थापयितुम्, ननु स्नानमिति वादोऽपि– व्याख्यातः। यद्यपि"शुनोपहतस्सचेलोवगाहेत प्रक्षाल्य वा तं देशं अग्निना संस्पृश्यपुनः प्रक्षाल्य पादौ चाचम्य प्रयतो भवति” “नाभेरधःकराग्रं वाशुनायद्युपहन्यते। प्रक्षाल्यदर्भैस्संज्वाल्य पुनराचम्य शुध्यति।“रजकश्चर्मकारश्च व्याधजालोपजीविनौ। निर्णेजकस्सौनिकश्चनटश्शैलूषकस्तथा। एतैर्यदङ्गं संस्पृष्टं शिरोवर्जं द्विजातिषु।तोयेन क्षालनं कृत्वा आचान्ताः प्रयता मताः ” इत्यादिवचनैरस्पृश्यस्पर्शविशेषे आचमनमात्रेण शुद्धिरवगम्यते, तथापि नाभ्यधस्तनभागस्पर्श परत्वादुक्तवचनानां तदूर्ध्वतनभागस्पर्शविषयत्वाभावात्, अशक्तविषयत्वाद्वा सत्यां शक्तौस्पर्शसामान्येऽपि स्नानव्य-
वस्थापनमेव योग्यम् । तथाच अस्पृश्या हि– तत्स्पृष्टनाभ्यधस्तनाङ्गमात्रक्षालनेन यद्याचमनं क्रियते,तावता यदि मतान्तरं न प्रवेक्ष्यन्ति, तर्हि कथमपि शुना स्पर्शादाविव तदङ्गक्षालनमात्रं व्यवस्थापयितुं शक्येतैव, वचनप्रामाण्यात् । इदमेवात्रालोचनीयमेतावताऽप्यस्पृश्यानामस्पृश्यत्वं कथं वारितं भवतीति । अस्मिन् प्रसङ्गे इदमपि न विस्मर्तव्यम्– यत् येषां स्पर्शो दूरतोऽपि वर्ज्य इतिशास्त्रतोऽवगम्यते, न तद्विषयमिदं वचनजातम्, किन्तु तद्व्यतिरिक्तविषयमेवेति । एतेन– उदक्याशुचिभिः स्नायात् संस्पृष्टस्तैरुपस्पृशेत्– इति याज्ञवक्यमिताक्षरापि–व्याख्याता । तद्यथा—
कुलव्यापिनीं शुद्धिमभिधायेदानीं प्रसङ्गात्प्रतिपुरुषव्यापिनींशुद्धिमाह—
उदक्याशुचिभिः स्नायात्संस्पृष्टस्तैरुपस्पृशेत् ।
अब्लिङ्गानि जपेच्चैवगायत्रीं मनसा सकृत्॥ ३०॥
ननु ‘उदक्यासंस्पृष्टः स्नायादि’ त्येकवचननिर्दिष्टस्य कथंतैरिति बहुवचने परामर्शः ।सत्यमेव ; किंत्वत्र उदक्यादिसंस्पृष्टव्यतिरिक्तस्नानार्हमात्रस्पर्शेऽप्याचमनविधानार्थं तैरिति बहुवचननिर्देश इत्यविरोधः । ते च स्नानार्हाः स्मृत्यन्तरेऽवगन्तव्याः । यथाह पराशरः— “दुःस्वप्नेमैथुने वान्ते विरिक्तेक्षुरकर्मणि । चितियूपश्मशानस्थस्पर्शने स्नानमाचरेदिति” । तथा च मनुः । (अ०५ श्लो० १४४) । “वान्तो विरिक्तःस्नात्वा तु घृतप्राशनमाचरेत् ।आचामेदेव भुक्त्वाऽन्नंस्नानं मैथुनिनः स्मृतमिति । मैथुनिनः स्नानमृतुकालविषयम् । ‘अनृतौतु यदा गच्छेच्छौचं मूत्रपूरीषवदिति’ २५ बृहस्पतिस्मरणात् । अनृतावपि कालविशेषेण स्मृत्यन्तरे स्नानमुक्तम् । अष्टम्यां च चतुर्दश्यां दिवा पर्वणि मैथुनम् । कृत्वा स-
चैलं स्नात्वा च वारुणीभिश्च मार्जयेदिति’ । तथा च समयः— “अजीर्णेऽभ्युदिते वान्ते तथोऽप्यस्तमिते रवौ । दुःस्वप्ने दुर्जनस्पर्शेस्नानमात्रं विधीयते” इति । तथा बृहस्पतिः—-मैथुने कटधूमे चसद्यः स्रानं विधीयते’ इत्येतदसचेलस्पर्शविषयम् सचैले तु चित्यादिस्पर्शे सचैलमेव स्नानम् ।यथाह च्यवनः– श्वानं श्वपाकंप्रेतधूम्रं देवद्रव्योपजीविनम् ग्रामयाजिनं सोमविक्रयिणंयूपचितिं चितिकाष्ठंमद्यं मद्यभाण्डंसस्नेहं मानुषास्थि शवस्पृष्टं रजस्वलां महापातकिनं शवं स्पृष्ट्वा सचैलमम्भोऽवगाह्योत्तीर्याग्निमुपस्पृश्य गायत्रीमष्टवारं जपेत् । घृतं प्राश्य पुनः स्नात्वात्रिराचामेदिति ।
एतच्च बुद्धिपूर्वविषयम् । अन्यत्र स्नानमात्रम् ।‘शवस्पृष्टं दिवाकीर्तिं चितिं यूपं रजस्वलाम् ।स्पृष्ट्वा त्वकामतो विप्रः स्नानंकृत्वा विशुध्यतीति’ बृहस्पतिस्मरणात् । एवमन्यत्राऽपि वक्ष्यमाणेषु विषयसमीकरणमूहनीयम् । तथा च कश्यपः— उदयास्तमययोः स्कन्दयित्वाअक्षिस्पन्दने कर्णाक्रोशने चित्यारोहणयूपसंस्पर्शने च सचैलं स्नानं पुनर्मन इति जपेत्. महाव्याहृतिभिःसप्ताज्याहुतीजुर्हुयादिति । तथा स्मृत्यन्तरे–“स्पृष्ट्वा देवलकंचैवसवासा जलमाविशेत् ।देवार्चनपरो विप्रो वित्तार्थे वत्सरत्रयम् । असौ देवलको नाम हव्यकव्येषु गर्हितः॥” तथा ब्रह्माण्डपुराणे–शैवान्पाशुपतान्स्पृष्ट्वालोकायतिकनास्तिकान् ।विकर्मस्थान्द्विजान्शूद्रान्सवासा जलमाविशेदिति”॥ तथा– अस्वर्ग्या ह्याहुतिः सा स्याच्छूद्रसंपर्कदूषितेति लिङ्गाच्च शूद्रस्पर्शने निषेधः॥ तथाऽङ्गिराः – “यस्तु छायां श्वपाकस्य ब्राह्मणो ह्यधिरोहति । तत्र स्नानं प्रकुर्वीत घृतं प्राश्य विशुध्यतीति” । तथा
व्याघ्रपादः— “चाण्डालं पतितं चैवदूरतः परिवर्जयेत् । गोवालव्यजनादर्वाक्सवासा जलमाविशेदिति” । एतदतिसंकटस्थलविषयम् । अन्यत्र तु बृहस्पतिनोक्तम् “युगंच द्वियुगं चैव त्रियुगंच चतुर्युगम् । चण्डालसूतिकोदक्यापतितानामधः क्रमादिति॥”तथा पैठीनसिः– काकोलूकस्पर्शने सचेलं स्नानमनुदकमूत्रपुरीषकरणे सचैलं स्नानं महाव्याहृतिहोमश्च । अनुदकमूत्रपुरीषकरणेइत्येतच्चिरकालमूत्रपुरीषाशौचाकरणपरम् । तथाङ्गिराः– “भासवायसमार्जारखरोष्ट्रं च श्वसूकरान् ।अमेध्यानि च संस्पृश्यसचैलो जलमाविशेदिति”॥ मार्जारस्पर्शनिमित्तं स्नानमुच्छिष्टसमयेऽनुष्ठानसमये च वेदितव्यम् । समाचारात् । अन्यदा तु’मार्जारश्चैव दर्वी च मारुतश्च सदा शुचिरिति स्नानाभावः । श्वस्पर्शे तु स्नानं नाभेरूर्ध्वंवेदितव्यम् । अधस्तात्तु क्षालनमेव । नाभेरूर्ध्वंकरौ मुक्त्वाशुना यद्युपहन्यते । तत्र स्नानमधस्तच्चेत्प्राक्षाल्याचम्य शुध्यतीति” तेनैवोक्तत्वात्॥ तथापक्षिस्पर्शे विशेषो जातूकर्ण्येनोक्तः । उर्ध्वं नाभेः करौ मुक्त्वायदङ्ग संस्पृशेत्खगः ।स्नानं तत्र प्रकुर्वीत शेषं प्रक्षाल्य शुध्यतीति॥अमेध्यस्पर्शेऽपि विष्णुना विशेषो दर्शितः— ‘नाभेरधस्तात्प्रबाहुषु च कायिकैर्मलैःसुराभिर्मद्यैर्वोपहतो मृत्तोयैस्तदङ्गं प्रक्षाल्याचान्तः शुध्येत्॥ अन्यत्रोपहतो मृत्तोयैस्तदङ्गं प्रक्षाल्यस्नायात् । तैरिन्द्रियेषूपहतस्तूपोष्य स्नात्वा पञ्चगव्येन दशनच्छदोपहतश्चेति ।
एतच्च परकीयामेध्यस्पर्शविषयम् । आत्मीयमलस्पर्शे तुऊर्ध्वमपि नाभेः क्षालनमेव । यथाह देवलः– “मानुषास्थि वसांविष्ठामार्तवं मूत्ररेतसी । मज्जानं शोणितं वाऽपि परस्य यदि
संस्पृशेत्॥ स्नात्वा प्रमृज्य लेपादीनाचम्य स शुचिर्भवेत् । तान्येवस्वानि संस्पृश्य पूतः स्यात्परिमार्जनादिति॥ तथा शङ्खः।“रथ्याकर्दमतोयेन ष्ठीवनाद्येन वा तथा । नाभेरूर्ध्वं नरः स्पृष्टः सद्यःस्नानेन शुध्यतीति॥ यमेनाप्यत्र विशेष उक्तः– सकर्दमं तु वर्षाषु प्रविश्य ग्रामसङ्करम् । जङ्घयोर्मृत्तिकास्तिस्रः पादयोर्द्विगुणास्ततः” इति॥ ग्रामसङ्करं ग्रामसलिलप्रवाहप्रवेशं सकर्दमं प्रविश्येत्यर्थः॥ मारुतशोषिते तु कर्दमादौ न दोषः । “रथ्याकर्दमतोयानि स्पृष्टान्यन्त्यश्ववायसैः । मारुतेनैव शुध्यन्ति पक्वेष्टकचितानि चेति” प्रागुक्तवत् (आचारे १९७)॥
अस्थनि मनुना विशेष उक्तः (अ० ५ श्लो० ८७) । “नारंस्पृष्ट्वाऽस्थि सस्नेहं स्नात्वा विप्रो विशुध्यति ।आचम्यैव तुनिःस्नेहं गां स्पृष्ट्वा वीक्ष्यवा रविमिति” । इदं द्विजातास्थिविषयम् । अन्यत्र वशिष्ठोक्तम् (अ० १२ सू० २४) मानुषास्थिस्निग्धं स्पृष्ट्वा त्रिरात्रमाशौचमस्निग्धे त्वहोरात्रम् ।अमानुषेतु विष्णूक्तम्– ‘भक्ष्यवर्ज्यंपञ्चनखशवंतदस्थि च सस्नेहं स्पृष्ट्वास्नातः पूर्ववस्त्रं प्रक्षालितं बिभृयादिति॥ एवमन्येऽपि स्नानार्हाःस्मृत्यन्तरतोऽवबोद्धव्याः॥
एवं स्नानार्हाणां बहुत्वात्तदभिप्रायं तैरिति बहुवचनमविरुद्धम् ।‘उदक्याशुचिभिः स्नायादित्येतच्चाण्डलाद्यचेतनव्यवधानस्पर्शेवेदितव्यम् । चेतनव्यवधाने तु मानवम् (अ० ५ श्लो० ८५) । ‘दिवाकीर्तिमुदक्यां च पतितं सूतिकां तथा। शवं तत्स्पृष्टिनंचैवस्पृष्ट्वा स्नानेन शुध्यतीति॥ तृतीयस्य त्वाचमनमेव । तमेव तु स्पृशेद्यस्तु स्नानं तस्य विधीयते । ऊर्ध्वमाचमनं प्रोक्तं द्रव्याणां प्रोक्षणं तथेति” संवर्तस्मरणात् ।
एतच्चाबुद्धिपूर्वकविषयम् । मतिपूर्वे तु तृतीयस्यापि स्नानमेव । तथाह गौतमः (अ० १४ सू० २७) पतितचाण्डालसूतिकोदक्याशवस्पृष्ट्युपस्पर्शने सचैलमुदकोपस्पर्शनाच्छुध्येदिति” ।चतुर्थस्य त्वाचमनम्। उपस्पृश्याशुचिस्पृष्टं तृतीयं वाऽपि मानवः । हस्तौ पादौ च तोयेन प्राक्षाल्याचम्य शुध्यतीति देवलस्मरणात् । अशुचिना पुनरुदक्यादिस्पर्शे देवलेन विशेष उक्तः—
“श्वपाकं पतितं व्यङ्गमुन्मत्तं शवहारकम् ।
सूतिकां साविकां नारीं रजसा च परिप्लुताम्॥’
“श्वकुक्कुटवराहांश्च ग्राम्यान्संस्पृश्य मानवः ।
सचैलः सशिरः स्नात्वा तदानीमेव शुध्यति॥
“अशुद्धान्स्वयमप्येतानशुद्धस्तु यदि स्पृशेत् ।
विशुध्यत्युपवासेन तथा कृच्छ्रेण वा पुनरिति’॥
साविका प्रसवस्य कारयित्री ।कृच्छ्रः श्वपाकादिविषयः ।श्वादिषु तूपवास इति व्यवस्था॥३०॥
अनेन हीदमेवावगम्यते– यत् चण्डालादिस्पृष्टाचेतनस्पर्शे यत्रस्नानं स्मृत्यन्तरे विहितम्, तदिदमुक्तयाज्ञवल्क्यवचनेन न बाध्यतेइति । तदयमत्र निष्कर्षः—यच्चण्डालादिस्पर्शेसर्वत्र मतेषु स्नानमेव प्रायश्चित्तम्, तत्स्पृष्टस्याचेतनस्पर्शे तु मितोक्षरादिमते आचमनमेव, तादृशचेतनस्पर्शे तु स्नानमेव सर्वत्रापि मतेषु । सर्वथा उक्तमिताक्षरानुसारेण केषांचन स्नानस्य चण्डालदिस्पर्शोऽपि आचमनेन बाध इति कल्पनमप्रामाणिकमुक्तसन्दर्भविरुद्धं चेतिसिद्धम् ।
अयं भावः— अस्पृश्यत्वं हि जातिकृतम्, एवमाशौचादिकृतम्,अशुचिस्पर्शकृतं चेति त्रिविधम् । तत्र जातिकृतस्यास्पृश्यत्वस्य
न परिहारोपायलेशोऽपि शास्त्रेषु विद्यते । एतेन–चण्डालादीनामपि शोभनवस्त्रादिधारणव्यवस्थापनादिना स्पृश्यत्वव्यवस्थापनंकर्तव्यमिति वादोऽपि–परास्तः । अन्ययोस्तु परिहारोपायः संभवत्येव । तथाच यानि वचनानि स्पर्शदोषाभावबोधकानि, तान्यपिसुपरिहरस्पर्शास्पर्श विषयाणीति कल्पनमेव योग्यम् । अन्यथाहि सर्वत्र स्पृश्यत्वव्यवस्थापने प्रतिलोमसंकरोऽपि न दोषायेतिसर्वसंकरायैव द्वारमुद्घाटितं स्यात् । सत्यमिदानींतना अस्पृश्यैः साकं विवाहं न कांक्षन्ति, न वा सह भोजनमपि, एवमपीदमालोचनीयमेव–यत् अनुलोमसङ्करापेक्षया प्रतिलोमसङ्कराणां विशेषव्यवस्थापनं कथं कर्तव्यमिति ? तत्र चान्ततो गत्वाऽनुलोमसङ्करेषु सहभोजनादोषता, वर्णेषु तु परस्परं विवाहसम्बन्धव्यवस्थापनमित्यादिकं कर्तव्यं स्यादित्यसवर्णाविवाहादयः कति वा धर्माःपरिवर्तनीया भविष्यन्तीति सर्व एव समालोचयन्तु ।
तथा च बहूनामेतद्विषयाणां वचनानां सार्थक्यार्थं पतितसंसर्गश्चण्डालादिसंसर्गश्चावश्यमेव दोषनिदानमित्यूरीकर्तव्यम् । इदमभ्यस्तसंसर्गविषयतया योजनमूरीकृत्य वर्णितम् । अत्रापि योजने सकृत्कृतस्य पतितसंसर्गस्य न सर्वथाऽदोषत्वम् । किन्तु पातित्यानापादकत्वमात्रम्, न तु पापानापादकत्वमिति । तथा च सकृत्कृतस्यापि पतितसंसर्गादेः प्रकीर्णप्रायश्चित्तमवश्यमेव कर्तव्यम्, यत्तत्रतत्र वचनविशेषैः पूर्वोपन्यस्तैरुपक्षिप्तम् । इदं चात्र संसर्गदोषःपापेषु’ इति कलिवर्ज्यप्रकरणगतस्य वचनस्य यथाश्रुतार्थत्वमनुसन्धाय विवेचितम् ।वीरमित्रोदये तु कृते सम्भाषणादेवेत्यादिवचनानामन्यथाऽभिप्रायो वर्णितः । तद्यथा– अत्र ‘अन्ये कृतयुगे धर्मा’ इत्यनेन तत्तद्युगीयपुरुषसामर्थ्यानुरूपानुष्ठानका विभिन्ना
एव धर्मा इत्युक्तम् । तेषु च कलियुगीयपुरुषसामर्थ्यानुरूपानुष्ठानकधर्माणां प्राचुर्येण मन्वादिस्मृत्यप्रतिपाद्यत्वं ’ कृते तु मानवाधर्माः’ इत्यादिना सूचयन् तद्धर्मजिज्ञासायां स्वधर्मगोचरप्रवृत्त्यर्थं “कलौ पाराशराः स्मृताः” इत्यनेन स्वग्रन्थस्य प्राचुर्येण तद्धर्मप्रतिपादकत्वरूपमुत्कर्षं ज्ञापयति । ननु मन्वादिस्मृतीनां परस्परविरोधे युगभेदेन बलीयस्त्वम् ? स्मृत्यन्तराविरोधे श्रौतस्य मनुस्मृतिबलीयस्त्वस्य स्मृत्यन्तराणां च परस्परविरोधे विकल्पस्याबाधेनोपपत्तौ बाधकल्पनाया अन्याय्यत्वात् । तथा—‘त्यजेद्देशं कृतयुगे त्रेतायां ग्राममुत्सृजेत् । द्वापरे कुलमेकन्तु कर्तारन्तु कलौ युगे— इत्यत्र युगान्तरे पतिताधिष्ठितदेशसंसर्गो निषिध्यते । कलौ तु पातकिसंसर्गमात्रम् ।तथा– कृते सम्भाषणादेव त्रेतायां स्पर्शनेन च । द्वापरे चान्नमादाय कलौपतति कर्मणा–इत्यत्र कृतादौ युगत्रये ब्रह्मवधादिकर्मकर्तृ सम्भाषणमात्रादिभ्य एव पातित्यम् । कलौ तु ब्रह्मवधादिरूपेण ब्रह्मवधादिकर्तृ याजनयौनादिगुरुतरसंसर्गरूपेण कर्मणा पातित्यम् ।नतु कृतयुगादिष्विवब्रह्मवधादिकर्मकारिसम्भाषणमात्रादिभ्य इत्यर्थः । ननु ‘संसर्गदोषः पापेषु’ इति वक्ष्यमाणकलिवर्ज्यप्रकरणगतवाक्येन कलौ संसर्गदोषस्य व्युदासात् कर्मणेत्यनेन कथं ब्रह्मवधादिकर्तृयाजनयौनादिगुरुतरसंसर्गोऽपि लभ्यत इति चेत्सत्यम्; ‘संसर्गदोषः पापेषु’ इति वाक्यस्य कृते सम्भाषणादेव’ इत्यनेन त्यजेद्देशं कृतयुगे, इत्यनेन च पराशरवाक्येनैकवाक्यतया सम्भाषणमात्रादिरूपसंसर्गदोषस्यैकदेशवासादिरूपसंसर्गस्य च दोषत्वाभावलाभात् प्रकृतवाक्ये कर्मणेत्यनेनास्मदभिमतसंसर्गस्यापि लाभे बाधकाभावात् । तयोर्वाक्ययोरेकवाक्यत्वाभावे च विधिद्वयकल्पनागौरवप्रसङ्गात् ।
अपि च ‘संसर्गदोषः पापेषु’ इति वाक्यस्य यथाश्रुतार्थकत्वे पातकिनमुपक्रम्य “एभिः सह समायोगं यः करोति दिने दिने। तुल्यतां याति विप्रेन्द्र कलौ संवत्सरे गते” इति स्कान्दपुराणवाक्यम्’कर्तारं तु कलौ युगे’ इति पराशरवाक्यं च कलौ कर्तृसंसर्गस्य दोषत्वाभिधायकं विरुध्येत” – इति ॥
अत्रापि पक्षे पतितसंसर्गस्य पातित्यापादकत्वम् । संसर्गिसंसर्गस्य तु पापमात्रापादकत्वम् ।व्यक्तश्चायं पक्षो निर्णयसिन्धुटीकायां कृष्णंभट्टकृतायां उत्तरत्रोद्धरिष्यमाणायां प्रकाशित इति ततएवाधिकमवगन्तव्यम् । सर्वथा ‘संसर्गदोषः पापेषु’ इत्यादिवचनेन कलौ पतितसंसर्गोऽपि न दोषायेति वादो हीदानीन्तनानामनुपपन्न एव महामहोपाध्यायप्रमथनाथतर्कभूषणप्रभृतयोये खलु संसर्गदोषः पापेष्विति वाक्यमनुसृत्य चण्डालादिसंसर्गस्यापि न दोषत्वमिदानीं कलाविति वदन्ति, ते सर्वेऽपि प्रकृतं वीरमित्रोदयसन्दर्भं न पर्यालोचयन्तीत्येवास्माकं वक्तव्यम् । नान्यत्किमपि । अन्यथा पतितसंसर्गस्यापि कलौ निषिद्धत्वाभावे कर्तुरपि कलौस्वीकरणीयत्वापत्त्या ’ कर्तारं तु कलौ युगे’ इति कर्तुःपरित्याग उपवर्णितः कथं वोपपद्येत ? यथा च पराशराचार्यैरपि पतितसंसर्गेचण्डालादिसंसर्गे वा प्रायश्चित्तं वर्णितं तत्पूर्वमेव निरूपितमिति सर्वविदितमिदम् । अत्रायं विशेषः–यत्पतितसंसर्गोऽपि गुरुतरो भोजनादिरूपः सद्य एव पातित्यप्रयोजक इति वीरमित्रोदयकारा वर्णयन्ति । प्रथमपक्षे तु अभ्यस्त एव संसर्गो भोजनादिरूपोऽपि पातित्यापादक इति । अत्र प्रथमं मतम् “संवत्सरेण पतति पतितेन सहाचरन् । याजनाध्यापनाद्यौनान्न तु यानासनाशनात्” इति बौधायनस्मृतौ सहाशनस्यापि सहासनादि-
साहचर्येण पाठेन तस्य न गुरुतरसंसर्गत्वमिति केषाञ्चन मतेनप्रवृत्तम् । वीरमित्रोदयकारमतन्तु “संवत्सरेण पतति संसर्गं कुरुते तु यः । यो हि शय्यासने नित्यं वसन् वै पतितो भवेत् । याजनं योनिसम्बन्धं तथैवाध्ययनं द्विजैः । कृत्वा सद्यः पतेञ्ज्ञानात्सहभोजनमेव च इत्युशनोवचने सहभोजनस्यापि यौनसम्बन्धादिसाहचर्येण सद्यःपातित्यप्रयोजकत्ववर्णनात्सहभोजनं गुरुतरसंसर्ग एवेति पक्षेण प्रवृत्तम् । सहभोजनमपि गुरुतरसंसर्गतया ये ये मन्यन्ते, तेषां सर्वेषां तत्तादृशानि वाक्यानि कृतप्रायश्चित्तानां पतितानां व्यवहार्यत्वं वाऽव्यवहार्यत्वं वेति विषयसमालोचनावसरे विलिखिष्यामः।सर्वथा तु कलौ पतति कर्मणेत्यत्रापि कर्मपदेन संसर्गविशेषग्रहणमुपपद्यत एव । तथा चपतितसंसर्गेण यथा पातित्यम्, एवं चण्डालसंसर्गेण चण्डालत्वमिति न्यायसिद्धंभवतीति चण्डालसंसर्गः सर्वथा निषिद्ध इत्येव सर्वेषामपि निबन्धकाराणामाशयः । अत्र चण्डालसंसर्गेण चण्डालत्वं यद्विवक्षितम्, न तज्जातिपरिवृत्तिरूपम्, किन्तु प्रायश्चित्तादिनाकर्मानधिकारस्य प्रायश्चित्ताभावस्य वेह जन्मनि प्रतिपादनाभिप्रायम् \। जन्मान्तरे तु तेषां चण्डालत्वमेव जात्यापि भविष्यतीत्यत्र तु न विवादः \। व्यक्तं चैतच्चातुर्वर्ण्यव्यवस्थावसरे विवेचितम् । अत एव हि पराशरेणापि चण्डालादिसम्भाषणमपि निषिध्यमानमुपपद्यते । व्यक्तं चैतत् “युगं युगद्वयं चैव त्रियुगं च चतुर्युगम् । चण्डालसूतिकोदक्यापतितानामधः क्रमात्” इत्यादिपराशरवचनोपन्यासपूर्वकं निरूपितमिति न पिष्टपेषणार्थं प्रयतामहे ।विद्वन्मनोहराख्यव्याख्याकारास्तु पराशरस्मृतिव्याख्यावसरे–पतितसंसर्गेण पतिततुल्यत्वं कलौ, युगान्तरे तु पतितत्वमिति व्याचक्षते ।
तद्यथा—“ननु चतुर्णामेव निमित्तानां युगचतुष्टये व्यवस्थापने"संल्लापस्पर्शनिःश्वाससहयानासनाशनात् । याजनाध्यापनाद्यौनात्पापं संक्रमते नृणाम्—इत्यादिवाक्यैर्निमित्तान्तराणां परिगणनमनर्थकं स्यादिति चेन्न; तेषां संवत्सरान्ते पातित्यापादकत्वात्, मूलोक्तवचनानान्तु कृतादिषु सद्यः पातित्यजनकताभिप्रायत्वात्; सद्यः पातित्यहेतुकर्मसाहचर्यात् । तथाच सम्भाषणादिभिः कलौ नसद्यः पातित्यं कृतादिष्विव, किन्तु कर्मणैव\।
सम्भाषणादिभिस्तु संवत्सरान्तेऽपि कलौ न पातित्यम्, किन्तु पतिततुल्यतामात्रम्; ‘भवेदूर्ध्वन्तु सत्समः’ इति वक्ष्यमाणत्वात्; “एते महापातकिनस्तत्संसर्गी च पञ्चमः । एतैः सह समायोगं यः करोति दिने दिने । तुल्यतां याति सोऽप्याशु कलौ संवत्सरे गते” इति पाद्मवाक्याच्च। नचैतावतैव पातित्यं गम्यते । राजसमो मन्त्रीतिवत्साम्यबोधकत्वेऽपि तत्त्वानवबोधकत्वात् । अत एव ‘संसर्गदोषः पापेषु’ इतिसंसर्गदोषाभावः कलिवर्ज्यप्रकरणेऽभिहितः सङ्गच्छते । नचैवं ‘संसर्गमाचरन् विप्रः’ इत्यादीनाऽग्रे प्रायश्चित्तविधानमसङ्गतंस्यादिति वाच्यम्; तस्य संसर्गोत्पन्नपापविषयत्वेन पातित्यविषयत्वाभावात् ,दोषः पातित्यम्, ‘भवेदूर्ध्वन्तु तत्समः’ इति साम्या
भिधानेऽपि तत्प्रायश्चित्तानभिधानाच्च । तच्च सर्वत्र यथासम्भवं व्यवस्थाप्यते। न च कर्मणः सर्वत्रापि सद्यः पातकत्वेन कलाविति व्यर्थमिति वाच्यम्; अन्यत्र सम्भाषणादेस्तस्य च सद्यः पातकत्वम्, कलौ तु केवलस्यैवेत्यर्थात्।तस्मात्कलौ कर्मणैव पातित्यं नसंसर्गेण यौनादिनाऽपि । नच “यौनस्त्रौवमौख्यैः सद्यः पतति"इति विष्णुवाक्यविरोधः; तेषां कृतविषयमुखसम्भवसम्भाषणाध्यापनादिसाहचर्येण कृतादिविषयत्वात् । तथाहि मुख्यस्य मुख-
सम्भवाध्यापनस्य सम्भाषणत्वेन सम्भाषणेऽन्तर्भावः । यौनस्यमैथुनस्ययोनिलिङ्गस्पर्शत्वेन स्पर्शेऽन्तर्भावः । स्त्रौवस्य याजनस्यपुरोडाशादिभक्षणत्वेनान्नादनेऽन्तर्भावः इति सर्वं सुस्थम् ।ननु’संवत्सरेण पतति पतितेन सहाचरन्’ इत्यादिशङ्खादिवाक्यैः संवत्सरमात्रसंसर्गेण पातित्यस्यैवाभिधानात् कथं संवत्सरानन्तरं संसर्गेण पतितसाम्यमेव न पातित्यमिति चेत्सत्यमिदम्; युगभेदेनव्यवस्थितविषयाणां स्मृतीनामेकमूलत्वासम्भवेनैकवाक्यत्वाभाभावात् । संवत्सरेण पातित्योत्पत्तौ वक्ष्यमाणषड्वार्षिकप्रायश्चित्तानुपपत्तेश्च । अत्र हि सम्पूर्णमहापातके प्रायश्चित्ताभावः । न च तदन्यथाऽनुपपत्त्या संवत्सरशब्दः किञ्चिन्न्यूनसंवत्सरपरः कल्प्यः; मुख्यार्थेबाधकाभावेन लक्षणाया अन्याय्यत्वात् । न च वचनान्तरविरोधो बाधकः, तस्यैतच्छास्त्रोत्पत्तिप्रयोजनप्रपञ्चेनैव परिहृतत्वात् । पातित्यं तूत्पादकाभावादेव न; ‘कलौपतति कर्मणा’ इत्यभिधानात् । संसर्गपातित्यस्य युगान्तरविषयत्वेन त्रिपाद्या व्यवस्थापनात् । अत एव “संसर्गदोषः पापेषु” इति कलिवर्ज्यप्रकरणेऽभिहितमित्युक्तम् । ननु निमित्तपरिगणने नवमोऽपि पक्षउपन्यस्तो ‘भवेदूर्ध्वन्तु तत्समः’ इति तत्कथमत्र प्रायश्चित्तं नोपदिष्टमिति चेत्सत्यम्; समत्वाभिधानेनैव तस्योक्तत्वात् । तथाहि—
पतितसंसर्गो न पातित्यहेतुः, कलौ पतति कर्मणेत्यभिधानात् ‘संसर्गदोषः पापेषु’ इति कलिवर्ज्यनिषेधाञ्च ।महापातकप्रकरणे तत्प्रायश्चित्तानभिधानाच्च । ततश्च महापातकत्वाभावे पापहेतुत्वे च सतिसमत्वाभिधानेन प्रायश्चित्तमतिदेशेनागच्छत्पक्षान्तरव्यवहितत्वादूर्ध्वमेव भविष्यति गुर्वधिक्षेपादिष्विव । तथाच स्मरन्ति सङ्ग्रहकाराः– व्रतादेशे च पादोनं समे त्वर्धंप्रकीर्तितम् । अतिदेशे स्वतः
प्राप्तिः समत्वे चानुमानिकी–इति । अत एव धर्मप्रदीपे वर्षाधिकसंसर्गेऽपि षडब्दमेवोक्तम् ‘अत ऊर्ध्वन्तु संसर्गे षडब्दव्रतमाचरेत्’इति । अनेन कामतोऽपि वर्षाधिकसंसर्गे षडब्दाभिधानेनाकामतस्तादृशसंसर्गेऽर्धंप्रायश्चित्तं कैमुतिकन्यायेनैव दर्शितमितिसुस्थम् । ननु– यो येन पतितेनैषां संसर्गं याति मानवः । स तस्यैव व्रतं कुर्यात्तत्संसर्गविशुद्धये’ इति मन्वादिभिः पूर्णप्रायश्चित्ताभिधानात्कथमिदमर्धं प्रायश्चित्तमुच्यते ? सत्यम् ।
“संवत्सरेण पतति पतितेन सहाचरन्” इत्यनेन पूर्णपातित्यमभिधाय तदभिधानात् । पातित्ये च पूर्णं प्रायश्चित्तं युक्तमेव । प्रकृते तु न पातित्यमभिमतमित्युक्तमेव ।नचैवं ‘एभिस्तु संवसेद्यो वै वत्सरं सोऽपि तत्समः ?” इति याज्ञवल्क्यवचनेऽप्यर्धं प्रायश्चित्तं व्याख्यायेत, समत्वाभिधानादिति वाच्यम्; ‘एते महापातकिनोयश्च तैः सह संवसेत्” इत्यनेनाहत्य संसर्गिणोऽपि तत्र महापातकित्वोपदेशात् । उक्तपक्षे तु प्रायश्चित्तानुष्ठानानन्तरं तदङ्गतयापक्षसंख्याप्रमाणेन प्रथमपक्षे किञ्चित्सुवर्णं द्वितीये द्विगुणं तृतीये त्रिगुणमित्यादिक्रमेण दक्षिणा दातव्या ।पतितोत्पन्नत्वमपि संसर्गविशेषः । तदाह वशिष्ठः—पतितोत्पन्नः पतितो भवत्यन्यत्र स्त्रियाः ? इतीत्यादि। अत्र पक्षे पतितसंसर्गिणः पतितसमत्वे षडब्दप्रायश्चित्तादिकं गमकमित्येका युक्तिः । ‘अत ऊर्ध्वन्तु तत्समः, इति कण्ठत एव समत्वोक्तिरपरा युक्तिरिति सर्वविदितमिदम् । तत्रप्रथमायुक्तिर्न विकल्पसहा ।नहि प्रायश्चित्तोल्पत्वं तन्महत्वं वापापाल्पतायां तन्महत्तायां वा प्रयोजकमिति हि माधवाचार्यैः स्पष्टमेव विवेचितमुपोद्धाते । तदुक्तं माधवीये “यथाल्पनाशो महता महन्नाशस्तथाल्पतः । किं न स्याद्विस्फुलिङ्गेन तृणराशिर्हि दह्यते ।
अतोऽल्पं वा महद्वापि व्रतं पापनिवर्तकम् " इति । यस्तु प्रायश्चित्तगौरवलाघवमप्यसति निर्णायकान्तरे पापाल्पत्वमहत्त्वप्रयोजकमिति सर्वेषामेव निबन्धकाराणां सिद्धान्तः सोऽपीदानीमविरुद्धएव; उत्तरत्र वक्ष्यमाणरीत्या संवत्सराधिकसंसर्गस्य महत्त्वस्यानिर्णीतत्वात् । द्वितीययुक्तौ त्विदमेवास्माकं वक्तव्यं यत्तत्सम इत्यनेन याज्ञवल्क्यस्मृताविवात्यभ्यासिपतितत्वमित्येव विवक्षणीयम् । अन्यथा हि महापातकित्वाभावे पृथक् प्रायश्चित्तविधिरत्रापेक्षितः स्यात् । न चैतदस्ति । यद्यपि समत्वाभिधानेनैवातिदेशेन प्रायश्चित्तस्य प्राप्तिरस्त्येवेति विध्यपेक्षा, तथापि विद्वन्मनोहराव्याख्यानुसारेण समत्वमात्रविवक्षायां साभ्याभिधानबलादातिदेशिकस्यैवार्धप्रायश्चित्तस्याभ्युपगन्तव्यतया संवत्सराधिकानेककालाभ्यासेऽपि पतितसंसर्गिणामर्धमेव प्रायश्चित्तं व्यवतिष्ठेतेतिपञ्चाहदशाहाभ्यासे सति पापवृद्धिः, संवत्सराभ्यस्तस्य पुनरनेककालाभ्यासेऽपि प्रत्ययतारतम्यविरह इति वैषम्यं दुर्वारमेव स्यात्। संवत्सरादूर्ध्वमभ्यस्तस्य संसर्गस्य पातित्यापादकताया वचनानारोहादिति तत्समशब्देन वस्तुगत्या पातित्यस्य विवक्षाया एवानायत्याङ्गीकरणीयत्वम् । सर्वथा तु पतितसंसर्गिणोऽपि प्रायश्चित्तार्हत्वे तु न विवाद एव । चतुर्विंशतिमतसंग्रहेऽपि पतितसंसर्गिणो न पातित्यम्; ‘संसर्गदोषः पापेषु’ इति तस्य महापातकत्वाभावप्रतिपादनात् । किन्तु दुष्टमात्रमित्येव विवेचितम् । तद्यथा—संसर्गदोषःपतितसंसर्गेण पातित्यम् ‘संवत्सरेण पतति पतितेन सहाचरन्, इत्यनेन प्रतिपादितम् । तथाच पराशरः– कलौ पतति कर्मणेति । एतेन-संसर्गः शोधितैरपीत्यनेन शोधितसंसर्गस्यापि निषेधमधिगम्य पतितसंसर्गे दोषाभावोक्ति र्विरुध्येत-इति परास्तम् । पातित्यानभ्यु-
पगमेऽपि दोषाभ्युपगमात् । एतच्च—आसनाच्छायनाद्यानात् सम्भाषात्सहभोजनात्। संक्रामन्ति हि पापानि तैलबिन्दुरिवाम्भसि–इति पराशरवचनव्याख्यावसरे माधवाचार्यैरपि स्फुटीकृतम् ।
माधवीयसमालोचनम्
तदत्रावसरे माधवाचार्याणामाशयसंकलनं नियतं कर्तव्यमिति तदेव कर्तुं प्रयतामहे ।माधवाचार्या हि ‘कलौपाराशराः स्मृता’ इतिवचनस्य प्रायश्चित्तविषयत्वं मन्वानाः कलौयुगे मरणान्तप्रायश्चित्तं निवारयन्तोऽपिकृतप्रायश्चित्तानामपि पतितानां व्यवहारायोग्यत्वमेव मन्यन्ते । मरणान्तप्रायश्चित्तपक्षे हि आमरणं स्वकर्माधिकारोऽपि नास्ति, साधारणसंसर्गयोग्यताऽपि नास्तीति हि सर्वसम्मतमिदम् । अत्र तु पतितानां कृतप्रायश्चित्तानां स्वजीवनकाले यथेच्छमेव स्वकर्माधिकारो भाविप्रत्यवायपपरिहारसामर्थ्यम्, साधारणयोग्यता च वर्तत इति कृत एव संकोचःपराशराचार्यैरिति न दोषः । नहि मरणान्तप्रायश्चित्तस्य निषेधमात्रेण कृतप्रायश्चित्तानां सर्वथा व्यवहार्यत्वमपि प्रायश्चित्तेन भवतीति कल्पनं सम्भवति । अत्र च विषये ‘कामतो व्यवहार्यस्तु’ इति वचनविवरणाशयविवेचनावसरे बह्वनुपदमेवोपपादयिष्याम इति नात्र विस्तरीतुमिच्छामः । सर्वथा तु पतितत्वे पतिततुल्यत्वे वा चण्डालादिसंसर्गिणां कृतप्रायश्चित्तानामप्यसंव्यवहार्यत्वमित्येवोरीकर्तव्यम्, न तु व्यवहार्यत्वमपि । तेषां स्वधर्मानुष्ठानं च परस्परं याजकत्वादिस्वीकारेणैव सम्भवति । व्यवस्थापितं चैवं बौधायनधर्मसूत्रेआपस्तम्बधर्मसूत्रे च – “अथ पतिताः समवसाय धर्मांश्चरेयुरितरेतरयाजका इतरेतराध्यापका मिथो विवहमानाः” इत्यादिना । तथाच पतितसंसर्गस्य- कलौ पतति कर्मणैतिपराशर-
वचनानुसारेण पातित्यानापादकत्वेऽपि चण्डालसम्भाषणादीनां पराशरस्मृतावेव निषिद्धत्वेन चण्डालसंसर्गस्य चण्डालताप्रयोजकत्वस्य वर्णनीयत्वादभ्यस्तैश्चण्डालसम्पर्कादिभिश्चडालत्वमेव ब्राह्मणानां स्यादित्येव निबन्धकाराणामाशयः । माधवाचार्या अपि हिपतितसंसर्गस्य प्रकीर्णकत्वं – ‘यो वै समाचारेद्विप्रः पतितादिष्वकामतः । पञ्चाहं वा दशाहं वा द्वादशाहमयापि वा । मासार्धं मासमेकं वा मासद्वयमथापि वा । अब्दार्धमब्दमेकं वा तदूर्ध्वं चैव तत्समः” इति श्लोकोक्तस्य किञ्चदूनाब्दपर्यन्तस्यैवाभिप्रयन्ति, न तदधिकस्य । अत एव– ‘तदूर्ध्वं चैव तत्समः’ इत्यभिधानात् पूर्वत्र तत्साम्याभावेऽपि ततोऽर्वाचीनं पापं कालतारतम्येन भवतीत्यवगम्यते । यः समाचरेत्स पापी भवतीत्यध्याहृत्य निन्दायोजनीया । अत्र किञ्चिदूनसंवत्सरसंसर्गोऽष्टमः पक्षः । यद्यपि किञ्चिदूनत्वं न श्रुतम्; तथापि सम्पूर्णसंवत्सरसंसर्गस्य पातित्यप्रयोजकत्वात् किञ्चिदूनत्वं कल्प्यते । तच्च पातित्यहेतुत्वं याज्ञवल्क्येन दर्शितम् ।‘संवत्सरेण पतति पतितेन सहाचरन्, इति । इत्थं पतितसंसर्गेप्रकीर्णके निमित्तानुसारेण प्रायश्चित्तं व्युत्पादितमित्युक्तम् । अत्र’तदूर्ध्वन्तु तत्समः’ इति वाक्ये वस्तुगत्या पतित एव विवक्ष्यते । याज्ञवल्क्यवचनोपन्यासपूर्वकं तथा विवरणात् । तथाच तत्समशब्दप्रयोगोऽपि व्याख्यातः । अत्र- एभिस्तु संवसेद्यो वै वत्सरं सोऽपि तत्समः –इति हि याज्ञवल्क्यस्मृतौ तत्समशब्दप्रयोगेऽपि हि पातित्यमेव खलु सर्वसम्मतम् । तथा चात्र याज्ञवल्क्यसिद्धान्तानुसन्धानेन माधवाचार्या इदं सूचयन्ति—यत् तत्समशब्दप्रयोगेऽपि पूर्णसंवत्सरसंसर्गेण वस्तुगत्या पतितत्वमेवेति । एतेनविद्वन्मनोहराव्याख्या माधवीयाशयविरुद्धेति सूचितम् । तत्रापि
हि व्याख्यायां याज्ञवल्क्यस्मृतौ तत्समशब्देन महापातक्येव विवक्ष्यत इति स्पष्टमेव विवेचितमित्यनुपदमेव विवेचितम् \। यथा
चात्र—आसनाच्छयनाद्यानासंल्लापात्सहभोजनात् । संक्रामन्ति हि पापानि तैलबिन्दुरिवाम्भसि \।\। एकशय्यासनं पङ्क्तिर्भाण्डं पङ्क्त्यन्नमिश्रणम् \। याजनाध्यापने योनिस्तथा च सहभोजनम् । संल्लास्पर्शनिश्वासात् सहशय्यासनाशनात् । याजनाध्यापनाद्यौनात् पापं संक्रामते नृणाम्- इत्यादि कण्वबृहस्पति-देवलादिवचनानुसारेण प्रकीर्णकेष्वपि सहशयनादिकं दोषाय, तथा माधवीय एव व्यक्तम् । एवं चात्र स्मृत्यन्तरात् पराशरस्मृतेः को वा विशेष इति शङ्कायां त्विदमेव माधवाचार्या मन्यन्ते–यत्किञ्चिदूनसंवत्सरपर्यन्तं सहशयनादीनां युगान्तरे प्रकीर्णकिभिरपि निषेधः, कलौ याजनाध्यापनादिभिरेव संसर्गैः प्रायश्चित्ताधिकारितेति । तदुक्तं माधवीये चतुर्थाध्याये - एतच्च पूर्वस्मिन् युगे । अत्र तु मूलवचनोक्तं द्रष्टव्यम्; याजनादेर्वक्ष्यमाणत्वात् । संयोगश्चात्र याजनादिर्ग्राह्यः – इति । अत्रेदं न विस्मर्तव्यम् - यो वै समाचरेद्विप्रः- इति वचनमकामकृतसंसर्गमेव प्रकीर्णकतया बोधयति, न तु कामकृतमिति । कामकृते तु संसर्गेद्विगुणप्रायश्चित्तं वा प्रायश्चित्ताभावो वेति विशयेऽपि माधवाचार्याः- इयं विशुद्धिरुदिता प्रमाप्याकामतो द्विजम् । कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते ॥ मतिपूर्वं हते तस्मिन् निष्कृतिर्नोपलभ्यते ॥ [अ०८ पृ० ८०० ॥ अकामतः कृते पापे प्रायश्चित्तं विदुर्बुधाः । कामकारकृतेऽप्याहुरेके श्रुतिनिदर्शनात् ॥ अकामकृतपापानां ब्रुवन्ति ब्राह्मणा व्रतम् \। कामकारकृतेऽप्येके द्विजानां वृषलस्य च ॥ अभिसन्धिकृते पापे सकृद्वा नेह निष्कृतिः । अपरे
निष्कृतिं प्राहुरभिसन्धिकृतेऽपि च॥ ऋषयो निष्कृतिं तस्य वदन्त्यमतिपूर्वके । मतिपूर्वं हते तस्मिन् निष्कृतिर्नोपलभ्यते॥ प्रायश्चित्तमकामानां कामावाप्तौन विद्यते— इत्यादिना प्रायश्चित्ताभावमुपवर्ण्य– स्यात्त्वकामकृते यत्तु द्विगुणं तद्विशुद्धये-इत्यङ्गिरोवचनस्यैकस्यानुसारेण द्विगुणप्रायश्चित्तसत्त्वपक्षमपि चोपपादयामासुः । अत्र पक्षद्वयस्यापि वस्तुगत्या न विरोध इति केषाञ्चिन्मतम् ।ये खलु प्रायश्चित्ताभाववचनानां नरकनिवर्तनक्षमप्रायश्चित्ताभावपरतया प्रायश्चित्तसत्त्ववादिनां वचनानां व्यवहारायोग्यतानिवर्तनक्षमप्रायश्चित्तविषयतया च कामकारकृते पापे कामकारिणो मरणान्तप्रायश्चित्तेन नरकमात्रनिवृत्तिः, व्रतचर्यया तु व्यवहारसिद्धिरिति च मन्यन्ते । अपरेषां तु मतम्–व्रतचर्ययानरकनिवृत्तिः, नत्वव्यवहार्ततानिवृत्तिरिति प्रायश्चित्ताभाववचनानां व्यवहारयोग्यतासम्पादकप्रायश्चित्ताभावपरतया प्रायश्चित्तसत्त्ववचनानां नरकनिवारणक्षमप्रायश्चित्तविषयतया च योजनमेव युक्तमिति ।
कृतप्रायश्चित्तानां व्यवहार्यतापक्षपरीक्षणम्
अत्र पक्षद्वयेऽपि निमित्तं ‘कामतो व्यवहार्यस्तु वचनादिह जायते इति वचने ‘व्यवहार्य’ इति’अव्यवहार्य’ इति च पदच्छेदपक्षभेद एवेतिसर्व एवेदं विजानन्ति । माधवाचार्या अपीममेव पक्षभेदमवलम्ब्योक्तमतद्वयमपि निरूपयन्ति । अत्र मतद्वयेऽपि माधवाचार्या इदं मन्यन्ते– यद् व्यवहार्यत्वमव्यवहार्यत्वं वावचनानुसारेण व्यवस्थापनीयम् न तु यथेच्छम् । तथाच – बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः । शरणागतहन्तृंश्च स्त्रीहन्तृंश्चन संवसेत्– इत्यादिवचनं यत्र शोधितैरप्यव्यवहार्यत्वं बो
धयति, तेषामेवाव्यवहार्यत्वमन्येषान्तु व्यवहार्यत्वमेव । अयं च विषयो माधवाचार्यैः’बहिस्तूभयथापि स्मृतेराचाराच्च’ इत्यस्यावकीर्णिमात्रविषयत्वं न तूपपातकिसामान्यविषयत्वमिति व्यवस्थापनेनसूच्यते । अत्रेमानि माधवाचार्याणां वाक्यानि– “ननूपपातकिनामपि कृतप्रायश्चित्तानां बहिष्कार एवोचितः । तथाच वैयासिकंसूत्रम्—बहिस्तूभयथापि स्मृतेराचाराच्च” इति । अस्यायमर्थः—यद्युपपातकं यदि वा महापातकमुभयथापि कृतप्रायश्चित्ताः शिष्टैरव्यवहार्याः । ‘प्रायश्चित्तं न पश्यामि’ इति निन्दास्मृतेः, शिष्टाचाराच्चेति चेत्, मैवम् । अयं हि बहिष्कार ऊर्ध्वरेतोविषयः, नतु गृहस्थविषयः । ऊर्ध्वरेतोविचाराणामेव तत्र प्रस्तुतत्वात् । इदं च कौशिकेन स्पष्टीकृतम्–नैष्ठिकानां वनस्थानां यतीनां चावकीर्णिनाम् । शुद्धानामपि लोकेऽस्मिन् प्रत्त्यापत्तिर्नविद्यते - इति । तथाच प्रागुक्तरीत्या कामकृतस्यसंसर्गस्यैव संवत्सरन्यूनकालिकस्य प्रकीर्णत्वात् कामकृतस्य संवत्सराधिककालिकस्य च पातित्यापादकत्वं न विरुद्धम् । यत्तु माधवाचार्यैः—यस्तु पतितैर्ब्रह्मादिभिः सह संवत्सरं संसर्गं कृत्वा स्वयमपि पतितः, तस्य प्रायश्चित्तं मनुराह—यो येन पतितेनैषां संसर्गं याति मानवः । स तस्यैवव्रतं कुर्यात्संसर्गस्य विशुद्धये इति । आचार्यस्तु कलियुगे संसर्गदोषाभावमभिप्रेत्य संसर्गप्रायश्चित्तं नाभ्यधात् । अत एव स्मृत्यन्तरे कलौवर्ज्यानामनुक्रमणे ‘संसर्गदोषःपापेषु इत्युक्तमिति–वर्णितम्, तदप्यकामकृतपापसंसर्गविषयमेव । अन्यथा कथं वा कामकृतस्यापि संसर्गस्य विशेषेण पराशरस्मृतावकामकृतस्येव व्यवस्थान क्रियते । एवं रीत्याऽऽदरणेन हि योयेनपतितेनैषामिति मनुवचनं संसर्गदोषः पापेष्विति स्मत्यन्तर-
वचनमुभयं च चरितार्थं भविष्यति । अयं भावः—संसर्गप्रायश्चित्तानभिधानस्य हि द्विविधा गतिर्भवति । एका संसर्गदोषः पापेष्विति वचनानुसारिव्यवस्थोरीकारेण अपरा यो येन पतितेनेति मनुवचनानुसारिव्यवस्थोरीकारेण च । तत्र च मनुवचनानुसारिव्यवस्थाया अनादरणीयत्वं हि स्पष्टं पराशरेण व्यवस्थान्तरकरणंविना न संभवति । तथाच वचनद्वयस्यापि सार्थक्यार्थमुक्तविधैवव्यवस्थाऽऽदरणीया भवति । एतेन संसर्गदोषस्य पातित्यापादकत्वाभावेऽपि पापमात्रापादकत्वमस्तीत्याहेति ‘आसनाच्छयनाद्यानात्, इति पराशरवचनावतरणमपि व्याख्यातम् । इदं हिवचनमकामकृतसंसर्गविषयमित्येव माधवाचार्याणामाशयः। अतएव“यो वै समाचरेत् विप्रः’ इति श्लोकव्याख्यावसरे “समाचरणंयानासनादि । तथाच कण्वः– आसनाच्छयनाद्यानात्संल्लापादित्याद्येतत्समानार्थकश्लोकोपन्यास उपपद्यते। अनेन चेदं सूच्यते यत्कामकृतस्य संसर्गस्य लघुतरस्यापि पातित्यापादकत्वमिति ।एतेन– आसनादित्यादिवचनस्य कामाकामकृतसंसर्गविषयत्वेऽपिन दोष इति सूचितम् । नहि पातित्यमेवानर्थायाव्यवहाराय चभवति, न पापमित्यत्र प्रमाणमस्ति । सम्भवति हि पापसामान्येन कामकृतेन वचनविशेषात् व्यवहारानापादकत्वम् । तथाचासनादिना पतितसंसर्गिणीवपतितसंसर्गिसंसर्गिण्यपि व्यवहारायोग्यताशक्तिः संक्रामतीत्येवोरीकर्तव्यमिति द्वितीयोऽपि संसर्गी दुष्टएव । तथाच संसर्गस्य पापत्वेनापि पतितसंसर्गो निषिद्ध एवावगम्यते । तथाच संसर्गदोषः पापेषु इत्यत्र संसर्गस्य महापातकत्वमात्रमेव नास्तीति बोध्यत इति न दोषः । स च संसर्गः संसर्गि संसर्गःसाक्षात्पतितसंसर्गश्चेति मतद्वयं पूर्वमेव सूचितमस्ति ।
तत्र मतद्वयेऽपि पतितो वर्ज्य एव । तथाच पतितसंसर्गेण चाण्डालसंसर्गेण सहभोजनादिरूपेण यौनादिरूपेण वा न कथमपिव्यवहारयोग्यता सम्भवति । व्यक्तं चैतत्पूर्वमेव विवेचितम् । अयं भावः—
यथा हि कलिवर्ज्यप्रकरणे संगर्गदोषः पापेषु इति पठितम्,एवं संसर्गः शोधितैरपीत्यपि स्मृत्यन्तरेपठितमिति कलौ प्रायश्चित्तेनापि पतितानां न व्यवहार्यत्वमित्यपि व्यवस्थापितमिति पापमात्रस्य यस्य प्रायश्चित्तानन्तरमपि व्यवहारनिरोधकशक्तिरनुवर्तते, तस्य व्यवहारयोग्यतापादकत्वमप्यवश्यमेवोरीकर्तव्यम् । यद्यपि “सवर्णान्याङ्गनादुष्टैःसंसर्गः शोधितैरपि” इत्यसवर्णस्त्रीसङ्गिनामेव कृतप्रायश्चित्तानामव्यवहार्यत्वंवर्णितम् । तथापि न दोषः; चण्डालानामसवर्णत्वात् तदीययौनसम्बन्धस्य सर्वथा व्यवहारनिरोधकत्वसम्भवात् । पतितविषये तुतस्यासवर्णत्वाभावेन यद्यपि नेदं वचनं प्रवर्तते, तथापि पूर्वोक्तबौधायनस्मृतिगतव्यवस्थानुसारेण कृतप्रायश्चित्तैरपि पतितैःन व्यवहार्यत्वम् । तथाच ‘संसर्गःशोधितैरपि’ इतिवचनस्य यत्र यत्रसंसर्गनिषेधस्तत्सामान्यपरत्वं सम्भवत्येव । यत्तु मिताक्षरादिषुव्यवहार्यत्वपक्षो व्युत्पादितः, तन्मतेनापि स्तेयान्यमहापातकनिष्कृतेः कलिवर्ज्यप्रकरणे पठितत्वात् सुवर्णस्तेयादिपरत्वमेव, न पापसामान्यपरत्वम् । तथाच येन स्वर्णस्तेयः कृतस्तस्य कृतप्रायश्चित्तस्य व्यवहार्यत्वमित्येव भवति । नतु सर्वस्य तादृशस्य । यस्तु खलु ब्रह्महत्यादिकं करोति, यश्चासवर्णाङ्गनासङ्गी भवति,तस्य तु पतितस्य न व्यवहार्यत्वमेव । यदा तु बलात्कारेण म्लेच्छादिभिरुपभुक्ताया स्त्रिया अपि संवर्तादिस्मृतिसिद्धप्राजापत्यादि-
प्रायश्चित्तनिषेधः कलौ क्रियते, तदा कैव कथा म्लेच्छस्त्रीसङ्गिनां पुंसां न प्रायश्चित्तेन व्यवहारयोग्यतेति मतान्तरं प्रविष्टानां पतितानां पुनःपूर्वतनजातिप्रवेशः सर्वनिबन्धाशयविरुद्ध एव । आचारोऽपि चण्डालादिसंस्पृष्टानां म्लेच्छादिमतान्तरप्रविष्टानां वाऽव्यवहारविषय एव कृतप्रायश्चित्तानामपि वर्तत इति ‘बहिस्तूभयथापि स्मृतेराचाराच्चेति” सूत्रोपवर्णितेन न्यायेन कृतप्रायश्चित्तानामपि पतितानामसंव्यवहार्यत्वमेव । ये हि माधवाचार्याः– ‘संसर्गदोषःपापेषु, इति कलिवर्ज्यगतप्रकरणानुसारेण संसर्गस्य मन्वादिवचनसिद्धमपि पातित्यापादकत्वं न पराशरसम्मतमिति व्यवस्थापयन्ति, ते हि संसर्गः शोधितैरपीति कलिवर्ज्यप्रकरणगतवचनान्तरानुसारेण कृतप्रायश्चित्तानामपि पतितानामसंव्यवहार्यत्वमेवोरीकर्तुमर्हन्ति । व्यवस्थापितं चैवं चतुर्विंशतिमतसङ्ग्रहेऽपीति तत एव द्रष्टव्यम् । तथा चायं विशेषः सिद्धो भवति-जातितः पतितानां चण्डालानां केनापि प्रायश्चित्तेन न जातिपरिवृत्तिः । केवलं चण्डालोचितकर्ममात्रपरिपालनं युक्तम् । कर्मपतितानान्तु प्रायश्चित्तविशेषैः स्वस्वपूर्वतनजातिपरिवृत्तिमात्रं जातियोग्यधर्माधिकारश्च भवतीति । नन्वेतावता कलिकाले यत्र विशेषतो धर्माणां ग्लानिरेव दूरीदृश्यते तत्र कृतप्रायश्चित्तानामपि पतितानामव्यवहार्यत्वं यदि सम्पाद्यते, तर्हि को नाम संकोचः क्रियते ? युगान्तरे हि व्यवहारयोग्यताऽऽसीत्, इदानीन्तु सापि नास्तीत्यनेन तु नियमानामाधिक्यमेव खलु सम्पाद्यते, न सङ्कोच इति चेदत्रेदं माधवाचार्या मन्यन्ते-यत् युगान्तरे सहाशनादयः सर्वेऽपि व्यवहाराः पातित्यप्रयोजका आसन्, प्रायश्चित्तेन तु सर्वेषां व्यवहाराणां सिद्धिः । कलौ तु पापप्रयोजकः संसर्गो यौनाध्यापनादिरेवेति
गुरुतरस्य संसर्गस्य निषिद्धस्य सर्वथा परित्यागार्थं प्रायश्चित्तानन्तरमपि न व्यवहारसिद्धिरिति विशेष इति॥ तथाच कलौ सहासनादिलघुसंसर्गस्यादोषत्वव्यवस्थापन एव संसर्गदोषः पापेष्वित्यादीनां तात्पर्यम्, नतु गुरुतरसंसर्गस्यादोषत्वव्यवस्थापनेऽपि । तदुक्तं माधवीये प्रायश्चित्तकाण्डोपसंहारे संसर्गमाचरेद्विप्र इत्यादिसंसर्गप्रायश्चित्तं लोकविलक्षणयाजनादिविषयत्वेनान्यथासिद्धम् । आसनाच्छयनादिति तु पापमात्रापादकत्वेनान्यथासिद्धमिति । अत्रेदं विचारणीयम्— यदि यौनादिसंसर्गस्यैव संसर्गमाचरेद्विप्र इत्यादौ विवक्षा, तर्हि यौनादिसंसर्गस्य सम्पूर्णं संवत्सरमभ्यस्यमानस्य पातित्यहेतुत्वं विवक्ष्यते न वेति ? आद्ये तु ‘संसर्गदोषः पापेषु, इत्यनेन संसर्गस्य पापमात्रापादकत्वोक्त्ययोगः । द्वितीये तुसहासनादीनामपि पापमात्रापादकत्वेनाविशेषात् ‘संसर्गमाचरेद्विप्रः’ इत्यत्र ग्रहणप्रसङ्गः इति तत्र यौनादीनामेव ग्रहणम्, न सहाशनादीनामिति प्रकृतग्रन्थानुपपत्तिः । अथ यदि संसर्गदोषः पापेष्विति वाक्येऽकामकृतसंसर्गस्यैव विवक्षा, कामकृतसंसर्गस्य तु पातित्यापादकत्वमपि विद्यत एव । अत एव “संपूर्णसंवत्सरसंसर्गस्यपातित्यहेतुत्वम्, तच्च पातित्यं याज्ञवल्क्येन दर्शितम्” इत्यादि माधवाचार्यग्रन्थोपपत्तिः । अत्र यद्यप्यकामकृतसंसर्गस्यैव विचारः कियते, “यो वै समाचारेद्विप्रः पतितादिष्वकामतः’ इत्येतत् श्लोकव्याख्यावसर एवोक्तग्रन्थप्रवृत्तेः, तथापि पूर्णसंवत्सरसंसर्गस्याकामकृतस्यापि पातित्यप्रयोजकत्वे कामकृतस्य तादृशस्य तस्य तदेव वचनसिद्धमित्यत्र न संशयलेशोऽपीति चिन्त्यते, तर्हि कलावपि कामकृतानां पूर्णसंवत्सरपर्यन्तमभ्यस्तानां वा सहासनादीनामपि पातित्यप्रयोजकत्वं भवतामपि
सम्मतमिति संसर्गमाचरेदित्यत्र लोकविलक्षणयाजनादिविषयत्वव्यवस्थापनमसङ्गतमिति सर्वतः पाशा रज्जुरिति कथमत्रोपपत्तिरिति । अत्रेदं प्रतिभाति– यल्लोकविलक्षणेत्यनेन कामतः प्राप्तमित्येव विवक्षितमिति याजनादित्यादिपदेन कामप्राप्तसहासनादीनामपि ग्रहणं माधवाचार्य्यसम्मतमेवेति॥ अत्र याजनादित्यनेनेदमेव सूच्यते याजनं कथमप्यकामतः प्राप्तं न भवतीति सद्यः पातित्ये कामप्राप्तत्वमेव निषिद्धाचरणस्य प्रयोजकं नान्यदिति । तथाच संसर्गदोषः पापेष्विति वचनस्यापि अकामकृतकिञ्चिदूनसंवत्सरसंसर्गादोषत्व एव तात्पर्यमिति पतितसंसर्गस्य कलौ न महापातकत्वमिति सिद्धान्तो न माधवाचार्यसम्मतः । यथाच सर्वथापि कृतप्रायश्चित्तानामपि म्लेच्छादिसंसर्गिणां न व्यवहारयोग्यता, तथा पूर्वमेव विवेचितमिति कृतप्रायश्चित्तानामपि तेषां व्यवहारायोग्यत्वे जातितः पतितानां चाण्डालादीनामकृतप्रायश्चित्तानां चाण्डालादिसंसृष्टानां चण्डाल्यादौ कृतापत्योत्पादनानां च व्यवहारायोग्यत्वं कौमुतिकन्यायसिद्धमेवेति चण्डालादिसंसर्गाऽदोषतावाद इदानीन्तनानामप्रामाणिक एव ।
परमार्थतस्तु– कामतो व्यवहार्यस्तु इत्यत्र न सर्वेषां पापिनां कृतप्रायश्चित्तानां व्यवहार्यत्वं मिताक्षरादीनामपि सम्मतम् । येषां हि मरणान्तिकं प्रायश्चित्तं विहितम् तेषां हि न कथमपि व्यवहार्यत्वस्य प्रसङ्गः । उक्तं ह्यापस्तम्बेनापि “नास्यास्मिन् लोके प्रत्यासत्तिर्वर्तते” इति, किन्तु येषां मरणान्तप्रायश्चित्तातिरिक्तं प्रायश्चित्तं तेषामेव व्यवहार्यत्वे हि चतुर्थे नास्ति निष्कृतिरिति वचनमेव गमकम्; तत्र चतुर्गुणप्रायश्चित्तस्य प्रसङ्गात् । सम्मतमिदं मिताक्षराकाराणामपि । तथा चोक्तसिद्धान्तानुसारेणेयं
व्यवस्था भवति— यत् सकृदकामकृतत्वे पुनः कामकृतत्वे च प्रायश्चित्तेन व्यवहार्यत्वम् । सकृत्कामकृतत्वे पुनरपि कामकृतत्वे तु न व्यवहार्यत्वमिति । परे तु– चतुर्थे नास्ति निष्कृतिरित्यस्य चतुर्थवारे पापाचरणे न प्रायश्चित्तमिति —वदन्ति, एतन्मतेऽपि अकामतश्चतुर्थवारे तु न प्रायश्चित्तमित्यभिप्रायात् द्वितीयवारे कामकृतत्वे न प्रायश्चित्तमित्येव फलितम् \। येषान्तु न मरणान्तिकप्रायश्चित्तम्, तेषामेवेयं व्यवस्था । मरणान्तिक प्रायश्चित्तन्तु स्तेयनिमित्तं यत्तस्य कलावप्यनिषेधात् तत्रापि सकृत्कामकृतत्व एव चतुर्विंशतिवर्षप्रायश्चित्तानन्तरं व्यवहार्यत्वम्, न त्वभ्यासे । तथा च व्यवहार्यत्वं कृतप्रायश्चित्तानां यन्मते, तेषामप्यभ्यासे प्रायश्चित्ताभावसम्मत एव; इति ।
अत्र वीरमित्रोदयकाराः प्रायश्चित्तप्रकाशे वदन्ति– तत्र तावत्प्रायश्चित्तं द्विविधम् \। क्रत्वर्थं पुरुषार्थं च \। पुरुषार्थमपि द्विविधं प्रारब्धसञ्चितपापनाशार्थत्वेन । तत्रेह पुरुषार्थमेवैहिकसञ्चितपापनाशार्थं प्रायश उच्यते । क्रत्वर्थं प्रारब्धपापनाशार्थं च क्वचिदिति । ननु किं पापं यन्नाशार्थं प्रायश्चित्तविधिः ? उच्यते। कालान्तरीयाधर्मस्यान्यकालीननरकादिफलसाधनताप्रायश्चित्तान्यथानुपपत्तिभ्यां कल्पितमपूर्वम्। न च प्रायश्चित्तस्य फलप्रतिबन्धकता; तस्याशुविनाशित्वेन तन्नाशोत्तरं फलप्रसङ्गात् । नच पूर्वोत्तराङ्गसाहित्यान्यथानुपपत्तिकल्पितापूर्वद्वारा प्रतिबन्धकतेति वाच्यम्; प्रतिबन्धकत्वं हि प्रतिबन्धकाभावेतरसामग्रीसत्व एव भवति । नच दुरितापूर्वाभावे तत्सत्त्वम् \। नतु मा-प्रायश्चित्तस्य प्रतिबन्धकता, तत्प्रागभावसहिता निषिद्धक्रियैव फलजनिकेति चेन्न; कृतेऽपि(?) विरोधविहितप्रायश्चित्ते तदन्यप्रायश्चित्तप्रागभावमादाय तस्याः फल-
जनकत्वं स्यात् । न च तत्तत्क्रियानिमित्तकतत्तत्प्रायश्चित्तप्रागभावानां स्वनिमित्तभूततत्क्रिया सहकारितेति वाच्यम्; अकृते प्रायश्चिते प्रतियोग्यप्रसिध्या तत्प्रागभावाप्रसिद्धौ अधर्मफलाभावप्रसङ्गात् । अतो न प्रायश्चित्तप्रागभावसहिता निषिद्धक्रिया फलजनिका । नापि प्रायश्चित्तस्य फलप्रतिबन्धकता । तस्मादस्ति निषिद्धक्रियादिजन्यं पापम्, तन्नाशकत्वन्तु प्रायश्चित्तस्य । तथा चाङ्गिराः—
उद्यन्यद्वदथादित्यस्तमः सर्वं व्यपोहति ।
तद्वत्कल्याणमातिष्ठन् सर्वं पापं व्यपोहति॥
पापं चेत्पुरुषः कृत्वा कल्याणमभिपद्यते।
मुच्यते पातकैः सर्वैर्महाभ्रैरिव चन्द्रमाः॥
कल्याणं प्रायश्चित्तम् । याज्ञवल्क्योऽपि—
विहितस्याननुष्ठानान्निन्दितस्य च सेवनात्।
अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति॥
तस्मात्तेनेह कर्तव्यं प्रायश्चित्तं विशुद्धये॥
पतनं पापम् । अनिग्रहादित्यादिविधिनिषेधविलक्षणपुरुषार्थपर्युदासातिक्रमसङ्ग्रहार्थम्। एवमेव विज्ञानेश्वरमेधातिथिकुल्लूकभट्टादयः।अत्र पुरुषार्थपदं नानुयाजेष्वित्यादि-क्रत्वर्थपर्युदासव्यावृत्त्यर्थम्; तदतिक्रमे दोषाभावस्य वक्ष्यमाणत्वात् । यत्तु मनुवाक्यम्— अकुर्वन्विहितं कर्म निन्दितं च समाचरन्।
प्रसजंश्चेन्द्रियार्थेषु प्रायश्चित्तीयते नर इति। तदपि फलत एतत्समानार्थमेव। यत्तु कल्पतरुः— प्रसजन्नित्याद्यविहितानिषिद्धेऽपि अत्यन्तासक्तिवारणायेत्याह, तन्न; शब्दत आत्यन्तिकत्वाप्रतीतेः । प्रसजंश्चेत्यत्र प्रशब्देन तदुपादाने– अज्ञानाद्यदि वा
ज्ञानात् कृत्वा कर्म विगर्हितम् । तस्माद्विशुद्धिमन्विच्छन् द्वितीयं न समाचरेत्— इति मनुवचनेन पौनरुक्त्यापत्तेः । किञ्च नहि निषिद्धब्रह्महत्याद्यपेक्षयाऽऽत्यन्तिकेन्द्रियप्रसङ्गस्य दोषाधिक्यार्थत्वं सम्भवति । यच्च शूलपाणिः—इन्द्रियार्थप्रसङ्गेनात्र स्वकार्यो श्वादिदंशमिथ्याभिशापौ लक्ष्येते । तयोरपि पापोत्पादकत्वप्रतिपादनार्थमिदमिति, तदपि न; इन्द्रियार्थप्रसङ्गो हि दंशस्य कर्तुः कर्मणो वा ? नाद्यः ; प्रसजन् प्रायश्चित्तीयत इति सामानाधिकरण्यानुपपत्तेः ? नान्त्यः; नहि पलायमानस्य बलाच्छुना दश्यमानस्येन्द्रियप्रसङ्गः श्वदंशकारणम् । अस्मदुक्तार्थेनैवोपपत्तौ लक्षणायां प्रमाणभावाच्च ।
अथ किं प्रायश्चित्तम् ? उच्यते । विहिताननुष्ठानविषिद्धसेवनेन्द्रियानिग्रहेषु निमित्तेषु विहितं सत्तथाऽनुष्ठीयमानम्।अत्र पूर्वदलं भ्रान्तेनैतदन्यतरनिमित्तेऽनुष्ठीयमान-भोजनादावतिप्रसङ्गवारणाय।उत्तरदलन्तु फलार्थत्वेनानुष्ठीयमाने चान्द्रायणाश्वमेधादावतिप्रसङ्गवारणाय। प्रारब्धप्रायश्चित्तस्य तु निमित्तेऽविधानाद्रोगनाशकदानवत्केवलकाम्यत्वाच्च मासाग्निहोत्रशब्दवद् गौण्या प्रायश्चित्तपदवाच्यत्वम् । श्वदंशादेस्तु जन्मान्तरीयप्रारब्धदुरितद्योतकत्वेन तन्निमित्तेऽपि कर्मणि प्रायश्चित्तपदं गौणम् ।
श्वशृगालखरैर्दष्टो ग्राम्यैः क्रव्याद्भिरेव च ।
नराश्वोष्ट्रैर्वराहैश्च प्राणायामेन शुध्यति—
इत्यादि विष्णुधर्मोत्तरोक्तादिवाक्यैः शुद्ध्यभिधानन्तु प्रारब्धपापनाशपरम् । विज्ञानेश्वरोऽपि—
कुनखी श्यावदन्तश्च कृच्छ्रार्धं दशरात्रं चरेत्—
इत्यादिप्रतिपादितकर्मणां क्षामवत्यादिवन्न नैमित्तिकत्वमिति
वदन् प्रारब्धपापनाशके कर्मणि प्रायश्चित्तपदं गौणमभिप्रैति । माधवोऽपि— नह्यत्र प्रायश्चित्तमभिधीयते; तत्प्रकरणपाठाभावात् । चिकित्साप्रकरणे हीदं पठितम् \। यथाच चिकित्सा रोगनिवृत्ते दृष्टोपायस्तथा दानादिरदृष्टोपायः । तथा सति चिकित्सावद्दानादेर्नात्र प्रायश्चित्तत्वम्, किन्तु रोगनिवर्तकं किञ्चित्सुकृतापूर्वमुत्पादयन्ति दानादयः– इति वदन्नेवमेवाह । एतल्लक्षणगमके पूर्वप्रदर्शितमनुयाज्ञवल्क्यवाक्ये “अकुर्वन् विहितं कर्म”ति “विहितस्याननुष्ठानादि”ति च । न चात्रैवं निमित्तोद्देशेन प्रायश्चित्तविधानानुपपत्तिः; विहितत्वगर्भप्रायश्चित्तपदार्थाज्ञानादिति वाच्यम्, अर्थतस्तद्भानात् । यथा ह्यप्रसिद्धेऽपि धर्मे यो धर्मः स चोदनालक्षण इति प्रमाणवचनव्यक्तौ अर्थादिदं सिद्धं भवति यश्चोदनालक्षणः स धर्म इति एवमिहाप्यप्रसिद्धेऽपि प्रायश्चित्ते एतेषु प्रायश्चित्तं कुर्यादित्युक्तेऽर्थादिदं ज्ञायते, यदेतेषु निमित्तेषु विधीयते क्रियते च तदेव प्रायश्चित्तमिति । अतश्च प्रायश्चित्तपदार्थस्य पूर्वं विशिष्याज्ञानेपि सामान्यतः प्रायश्चित्तपदप्रतिपाद्यत्वरूपेण पदार्थज्ञानाद्वाक्यार्थज्ञानोपपत्तिरविरुद्ध । यद्यपि पूर्वोक्तयाज्ञवल्क्यवाक्ये एतन्न प्रतीयते, तथापि– तस्मात्तेनेह कर्तव्यं प्रायश्चित्तं विशुद्धये– इत्युत्तरवाक्ये तस्मादिति पञ्चम्यन्तेन पूर्वोक्तपञ्चम्यन्तपरामर्शादयमर्थो गम्यते। ननु तेषामप्राधान्यान्न परामर्श इति चेन्न; अथ खल्वयं पुरुषः पापेन कर्मणा लिप्यते। तथैतदयाज्ययाजनमभक्ष्यभक्षणमवन्द्यवन्दनं शिष्टस्याक्रिया प्रतिषिद्धसेवनं तत्र प्रायश्चित्तं कुर्यादिति गौतमीये तत्रेति सप्तम्यर्थे त्रला शिष्टाक्रियात्मकविहिताकरणस्य प्रतिसिद्धसेवनस्यतद्विशेषाणाञ्चायाज्ययाजनादीनां गोबलीवर्दन्यायेनोपात्तानां स्पष्टं निमित्त-
त्वमुक्तम् । तथा मानवीयेऽप्यकुर्वन्नित्यत्र त्रितयस्य निमित्तत्वमुक्तम् । अत एतदुभयबलेन याज्ञवल्कीयेऽपि तस्मादिति पञ्चम्यन्तेन गुणीभूतानामपि परामर्शोपपत्तेः । अपरार्केऽपि विहिताननुष्ठानादिनिमित्तकत्वमेवोक्तम्प्रायश्चित्तस्य । एवं प्रायश्चित्तशब्दस्य योगोऽपि प्रदर्शितोऽङ्गिरसा—
** प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते ।
तपोनिश्चयसंयुक्तं प्रायश्चित्तमिति स्मृतमिति॥**
निश्चयोऽत्र फलावश्यम्भावनिश्चयः श्रद्धाख्यः । हारीतोऽपि—प्रयतत्वाद्वोपचितमशुभं नाशयतीति प्रायश्चित्तनिति॥ यत्तु शूलपाणिः– पापक्षयमात्रसाधनकं कर्म प्रायश्चित्तम्, मात्रशब्दस्तु तुला पुरुषाश्वमेधादिव्यावृत्त्यर्थः -इति तत्तुच्छम्; ‘धर्मार्थन्तु चरेदेतच्चेन्द्रस्यैति सलोकताम्’ इत्यादियाज्ञवल्क्यवाक्यैः फलान्तरार्थविहितचान्द्रायणादौ क्रत्वङ्गभ्रषनिमित्तके च प्रायश्चित्तेऽव्याप्तेः। नहि क्रत्वङ्गभूतप्रयाजाद्यकरणे पापमस्ति, किन्तु क्रतोर्वैगुण्यम् । तच्चाङ्गजन्योपकाराभाव एव। प्रायश्चित्तेन तु स एवोपकारो जन्यते। नचैवमाग्नेयमष्टाकपालं निर्वपेद्रुक्काम इतिवच्चान्द्रायणादौ फलाख्यानुपादेयगुणसत्त्वात्कर्मभेद इतिवाच्यम्; सन्निधानात्तत्तायाःप्रवृत्तेः। तस्मात्संयोगपृथक्त्वन्यायेन ज्योतिष्टोमवदेकस्यैवोभयार्थत्वम्। यत्तु क्वचिद्दुरितनिवर्तकं प्रायश्चित्तमित्युक्तम् तन्न; दर्शपूर्णमासादौ अतिव्याप्तेः। नचतदपि लक्ष्यम्; अभियुक्तानां तथा व्यवहाराभावात्, क्रत्वङ्गभ्रेषप्रायश्चित्तेऽव्याप्तेश्च । यत्तु मिताक्षरायां प्रायश्चित्तशब्दश्चायं नैमित्तिके कर्मविशेषेरूढ इत्युक्त्वा श्वदंशमिथ्याभिशापादिनिमित्तेप्रायश्चित्तेऽव्याप्तिवारणाय श्वदंशादिजन्यदुःखहेतुभूतप्राग्भवीयपा-
पनाशार्थत्वमुक्तं श्वदंशादिनिमित्तप्रायश्चित्तस्य, तदेतत्कर्मणि विशेषस्य निरूपयितुमशक्यत्वात् क्रत्वङ्गभ्रेषप्रायश्चित्ते पूर्वोक्ताव्याप्तेरपरिहाराच्चापतत एवोक्तमिति भाति । वस्तुतस्तु यथा भट्टाचार्यैस्तच्चोदकेषु मन्त्राख्येति सौत्रेऽभिधायकत्वरूपे मन्त्रलक्षणे वैदिकयाज्ञिकानां मन्त्रत्वेन प्रसिद्धेषु ‘वसन्ताय कपिञ्जलानालभेत’ इत्यादिष्वव्याप्तेर्यत्रवैदिकयाज्ञिकानामभियुक्तानां मन्त्र इति प्रसिद्धिः स मन्त्र इति सूत्रतात्पर्यं वर्णितम्, एवमिहापि यत्राभियुक्तानां प्रायश्चित्तप्रसिद्धिस्तत्प्रायश्चित्तमिति लक्षणे मनुयाज्ञवल्क्यादिवाक्यानां तात्पर्यमुन्नेयम् । ततश्च न क्वाप्यव्याप्त्यतिव्याप्तिगौणत्वादिदोषापत्तिः। यत्तु मदनरत्ने पापस्यैव प्रायश्चित्ते निमित्तत्वम्,तस्मिंश्च विहिताद्यकरणस्येति तन्मन्दम् ; मानाभावात्, कर्माङ्गप्रायश्चित्तेऽव्याप्तेः पूर्वोक्तमनुयाज्ञवल्क्यगौतमवाक्यविरोधाच्च। ताभ्यां हि विहिताकरणादेरेव निमित्तत्वमुक्तम्, न तु पापस्य।
यच्च माधवीये नाग्निहोत्रादिवज्जीवनमधिकारिविशेषणमपि त्वन्यदेव विहिताकरणादिनिमित्तम धिकारिविशेषणमित्युपक्रम्य मध्ये च तत्साधकं विहितस्याननुष्ठानादित्यादि-बार्हस्पत्यमुपन्यस्यान्ते उपक्रमविरुद्धमिवोपसंहृतम्, तच्च निमित्तं दुरितापूर्वमुत्पत्तिकारणमिति तदप्युपक्रमानुरोधेनैवं व्याख्येयं दुरितापूर्वमुत्पत्तेर्नैमित्तिकानुष्ठानस्य कारणं निमित्तं निर्वर्त्यत्वेन प्रयोजनम् । मशकार्थो धूम इतिवदिति सर्वं शिवम् । इति प्रायश्चित्तनिर्वचनम्।
[प्रायश्चित्तस्य नैमित्तिकत्वविचारः]
तदेतत्प्रायश्चित्तं नैमित्तिकम् ; निमित्ते विधानात्। नैमित्तिकं धर्मजातं गदतो मे निबोधत।
विहितस्याननुष्ठानात्प्रतिषिद्धनिषेवणात्।
प्रायश्चित्तं यत्क्रियते तन्नैमित्तिकमुच्यते॥
इत्युपक्रमेण – नैमित्तिकं समाख्यातं प्रायश्चित्तं समासतः इत्युपसंहारेण च बृहस्पतिनानैमित्तिकत्वोक्तेश्च । अत्र च विहिताद्यकरणस्य पापे प्रायश्चित्तेच न सामान्यरूपेण विहिताद्यकरणत्वेन निमित्तत्वम् ; सामान्यरूपे विहिताद्यकरणे प्रायश्चित्तानुक्तेः, किन्तु ब्राह्मणहत्यादिप्रातिस्विकेनैव रूपेण; तत्वेनैव प्रायश्चित्तविधेः। यथा “य इष्ट्या पशुना सोमेनामावास्यायां पौर्णमास्यां वे ”त्यत्रन सामान्यत इष्टौ पर्वकालत्वविधिः, किन्तु सौर्यादि प्रातिस्विक एव रूप इति। नचैतन्नित्यम् ;सन्ध्यावन्दनाग्निहोत्रवद्वीप्साया जीवनस्य वाऽधिकारिविशेषणस्याभावात् । यत्तु मानवीये – चरितव्यमतो नित्यं प्रायश्चित्तं विशुद्धये- इति नित्यपदं तदावश्यकत्वपरम् । ननु प्रायश्चित्तैरपैत्येन इत्यादिवाक्यैरेनोनिराकरणस्य फलस्य श्रवणात्काम्यत्वं स्यादिति चेन्न; जातेष्टिवत्संवलिताधिकारात् । तथाच जाबालः– अतः काम्यं नैमित्तिकं च प्रायश्चित्तमिति स्थितिरिति । तस्मात्सर्वाङ्गोपसंहारासमर्थेनापि कार्यम् ।
[प्रायश्चित्ताकरणे प्रायश्चित्तराभावः]
अत्रकेचित्प्रायश्चित्तस्य नैमित्तिकत्वेन विहितस्याननुष्ठानादित्यादिवाक्यनिचयात् प्रायश्चित्ताकरणेपि प्रत्यवायान्तरमस्तीत्याहुः तत्तुच्छम्; नैमित्तिकत्वावगतावावश्यकत्वनिर्वाहार्थं हि नैमित्तिकाकरणे प्रत्यवायः कल्प्यते। प्रायश्चित्ते तु तन्नाश्यदोषेणैवावश्यकत्व निर्वाहात्प्रायश्चित्ताकरणे पापं तत्र च प्रायश्चित्तान्तरमित्यनवस्थानाच्च न पापान्तरं कल्प्यते । किञ्च निषिद्धक्रियोत्तरं प्रायश्चित्तेकालविलम्बानुसारेण तदाधिक्यस्योक्तत्वात्तत्रभवन्मते प्रतिक्षणमनन्तपापकल्पनागौरवं स्यात् । अस्मन्मते तु कालबिलम्बे निमित्ते पूर्वपापनाशार्थमेव नैमित्तकी प्रायश्चित्ताधि-
क्यकल्पनेति लाघवम् । ननु कालविलम्बेन पापाभावेऽविलम्बितप्रायश्चित्तानुष्ठानानुपपत्तिरिति चेन्न; प्रायश्चित्ताधिक्यभयेन तदुपपत्तेः। अतश्च विहितस्याननुष्ठानादित्यादि यथा काम्याननुष्ठाने यथा वा क्रत्वङ्गभ्रेषप्रायश्चिताननुष्ठाने न प्रवर्तते, एवं पुरुषार्थविहितप्रायश्चित्ताननुष्ठानेऽपि न प्रवर्तते, किन्तु यत्र नैमित्तिकनाश्यदोषाभावो राहूपरागस्नानादौ, तत्रैव प्रवर्तते ।
यत्तु मानवीयम् – चरितव्यमतो नित्यं प्रायश्चित्तं विशुद्धये ।
निन्द्यैर्हि लक्षणैर्युक्ता जायन्ते निष्कृतैनसः ॥ इति ॥
यच्च याज्ञवल्कीयम् -
प्रायश्चित्तमकुर्वाणाः पापेषु निरता नराः \।
अपश्चात्तापिनः कष्टान्नरकान्यान्ति दारुणान् ॥ इति ।
तत्प्रायश्चित्तानाश्यदोषफलप्रतिपादनपरमेव; नतु प्रायश्चित्ताकरणनिमित्तकदोषान्तर-फलप्रतिपादनपरम् \।
नन्वस्तुनिषिद्धसेवनस्य प्रत्यवायजनकत्वं विहिताकरणस्य त्वभावस्य कथं भावरूपप्रत्यवायजनकत्वम् ? अत्र केचित्- विहितसन्ध्यावन्दनाकरणेनाग्निहोत्राद्यनधिकारो द्योत्यते, तन्निवर्तकञ्च प्रायश्चित्तमिति \। तच्चिन्त्यम् \। द्योतकत्वं हि ज्ञानजनकत्वम्। ज्ञानन्तु भाव एवेति । अस्तु वा — सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु इत्यादिवाक्यात्सन्ध्यावन्दनाद्य ननुष्ठानस्य तथात्वम्, यत्रत्वग्निहोत्रादौ शुचित्वसम्पादनद्वारा कर्माङ्गत्वाभावस्तत्र तूत्तरकर्मानधिकाररूपाशुचिद्योतकप्रमाणाभावान्न सर्वत्र विहिताकरणस्याशुचित्वद्योतकत्वम्। एतेन विहिताकरणं जन्मान्तरीयदुरितज्ञापकमिति कस्यचिदुक्तिः परास्ताः;ज्ञापकत्वस्य ज्ञानाख्यभावजनकत्वात् । एतेनैव विहिताकरणेनाग्निहोत्रादिविषयाधिकारा-
सिद्धिरूपः प्रत्यवायो जन्यते इति विज्ञानेश्वरोक्तिः परास्ता; प्रत्यवायस्य भावरूपत्वात् । तस्मादेवं समाधेयम् \। अभावस्यापि भावजनकत्वं दृष्टमेव । यथा प्रागभावस्य घटादिजनकत्वम् \। यथा वाऽनुपलब्धेर्घटाभावादिबुद्धिजनकत्वम् । न्यायसुधायान्तु गुरुमतेनैवं समाहितम् । विहिताननुष्ठानकाले यच्चिन्तितनिमेषादि करोति, तैनैव प्रत्यवायो जन्यते, नाभावेनेति । तदुक्तं वार्तिके-
अकुर्वन् विहितं कर्म करोत्यन्यदचेतनः ।
प्रत्यवायोऽस्य तेनैव नाभावेन स जन्यते ॥ इति ॥
एतेन पापस्यापूर्वात्मकत्वात्तस्य च कृत्युद्देश्यत्वेसति साध्यत्वान्नाक्रियारूपाकरणजन्यत्वमिति परास्तम्; आलस्योपेक्षादेरपि पापोत्पादकत्वदर्शनात् । तथाच मनुः-
अनभ्यासाच्च वेदानामाचारस्य च वर्जनात् ।
आलस्यादन्नदोषाच्च मृत्युर्विप्राञ्जिघांसति ॥
स्कान्दे –
** नाभिरक्षन्ति ये शक्ता दीनं चातुरमाश्रितम् \।
आर्तंच नानुकम्पन्ते ते वै निरयगामिनः \।\।** इति ॥
कृतिसाध्यत्वन्त्वपूर्वस्य विहितनिषिद्धक्रियाजन्यापूर्व एव। यत्तु ढोडरानन्दे माधवीये च नैयायिकमते वेदकर्तृत्वादीश्वरस्य विहिताननुष्ठाने ईश्वराज्ञोल्लङ्घनेन भावेनैव भावः प्रत्यवायो जन्यत इति तदयुक्तम् ; आज्ञोल्लङ्घनस्यैव प्रत्यवायजनकत्वे विधिनिषेधपर्युदासोल्लङ्घनानां पार्थक्येन प्रत्यवायनिमित्तगणना- वैयर्थ्यात्तदुल्लङ्घनस्याभावत्वाच्चेति । ननु माधवीये “नाभुक्तं क्षीयते कर्मे” ति स्मृतेः ‘नहि कर्म क्षीयत, इति गौतमोक्तः “अवश्यमेव — भोक्तव्यं कृतं कम शुभाशुभमि"ति मदनरत्ने स्मरणाच्च कथं
प्रायश्चित्तेनपापं नाश्यत इति चेन्न; यथा “ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुने” त्यादि श्रीभगवद्वाक्ये तत्त्वज्ञानस्य सञ्चितपापनाशकत्वम्, यथावा काशीमरणस्य देशान्तरकृतपापनाशकत्वं च यथा वा, विहितनिषिद्धकर्मणोर्धर्माधर्मारम्भकत्वं भोगस्य चोभयनाशकत्वं शास्त्रगम्यम्, तथा प्रायश्चित्तस्यापि पापनाशकत्वं शास्त्रतएवावगम्यते । तथाच गौतमः –प्रायश्चित्तं कुर्यान्न कुर्यादिति मीमांसन्ते, न कुर्यादित्याहुः । नहि कर्म क्षीयते । कुर्यादित्यपरे । पुनः स्तोमेनेति पुनः सवनमायान्तीति विज्ञायते व्रात्यस्तोमेनेति तरति सर्वं पा
प्मानं तरति भ्रूणहत्यां योऽश्वमेधेन यजत इति । आहुरितीति पूर्वपक्षः । अपर इति सिद्धान्तः । नहि कर्म क्षीेयत इति भोगं विनेति शेषः । पुनस्तोमो यागः । पुनः सवनमायान्ति ज्योतिष्टोमाद्यधिकारिणो भवन्तीत्यर्थः । मनुश्च- “चरितव्यमतो नित्यं प्रायश्चित्तं विशुद्धये ॥ भविष्येऽपि - व्यति-क्रमाद्यथा पुत्र दोषोत्पत्तिर्भवेदिह । प्रायश्चित्तात्तथैवेह दोषक्षय इति श्रुतिः॥ हारीतोपि -यथा क्षारोपस्वेदचण्डनिर्णोदनप्रक्षालनादिभिर्वासांसि शुद्ध्न्यन्त्येवं तपोयज्ञदानैः पापकृतः शुद्धिमुपयान्ति धम्यमाना इवाग्नौ धातवः । तस्माद्विस्रम्भात्प्रमादात्कल्याणमभ्यसेदिति ॥ चण्डोऽग्निः । निर्णोदनं तस्मिन्नधिश्रयणं क्लेदनमित्यर्थः । एवञ्च नाभुक्तमित्यादि पूर्वोक्तवाक्यत्रयमकृतप्रायश्चित्तपापपरमकीर्तितादिधर्मपरञ्च \।
तस्माद्युक्तं पापनाशकत्वं
प्रायश्चित्तस्य \। अतश्च – पूर्वजन्मकृतं पापं व्याधिरूपेण बाधते । तच्छान्तिरौषधैर्दानैर्जपहोमार्चनादिभिः - इति मानवोदाहृत-वाक्याज्जपादिप्रायश्चित्तानामपि प्रारब्धपापनाशकत्वं सिद्धम् । तेषान्तु निषिद्धाचरणादिनिमित्तेऽविधाने नैमिकत्वाभावाद्दानादि
वत्काम्यत्वमेव । यत्तु विज्ञानेश्वरः—प्रारब्धेन चरमंस्वफलमारब्धमेव । अतस्तन्नाशे प्रयोजनाभावः । भावे वा निमित्तकारणनाशात्कार्थस्यानाशात्पापस्य च फले निमित्तकारणत्वात्तन्नाशेऽपि न फलनाशः । किञ्च कौनख्यादेरन्त्यफलत्वात्तदुत्पत्त्या स्वकारणपापनाशो जात एवं मथिताग्निनेवारणेः। अतो न प्रारब्धपापनाशार्थं प्रायश्चित्तम् । या त्वत्र “कुनखी श्यावदन्तश्च कृच्छ्रं द्वादशरात्रं चरेदि"त्यादि कर्मविपाकोक्तिः, सा क्षामवत्यादिवन्नैमित्तिक्येव। अत एव न संव्यवहारार्थमपीदं प्रायश्चित्तम् । रोग्यादिभिर्व्यवहाराभावस्यादर्शनात् । यस्तु कुनखादेः श्राद्धादौ व्यवहागभावः, स गोत्रजव्यवहाराभाववत्क्रत्वर्थत्वेन, न तु पापभयात् । कुष्ठ्यपस्मार्यादिभिस्तुरोगसंक्रमणभयादिति, तदसत्; यद्यपि प्रारब्धेन स्वचरमफलं रोगाद्यारब्धम्, तथापि रोगजन्यदुःखव्यक्तीनामनेकत्वाद्भाविदुःखव्यक्तिनिरासायाऽतवश्यं प्रायश्चित्तापेक्षास्त्येव । पापरूपनिमित्तकारगणनाशेन यद्यप्युत्पन्नरोगादिकार्यनाशः, तथापि तन्नाशे भाविरोगादिकार्यानुत्पादोऽस्त्येव प्रायश्चित्तप्रयोजनम् । रोगादेरन्त्यफलत्वन्तु निश्चितम् ।
प्रायश्चित्तविहीनानां महापातकिनां नृणाम् ।
न चैकान्ते भवेज्जन्म चिन्हाङ्कितशरीरिणाम् ॥
प्रतिजन्म भवेत्तेषां चिन्हं तत्पापसूचकम् ।
प्रायश्चित्ते कृते याति पश्चात्तापवतां पुनः ॥
महापापोद्भवं चिन्हं सप्तजन्मानि जायते ।
अतिपापोद्भवं पञ्च त्रीणि पापसमुद्भवम् ॥
दुष्कर्मजा नृणां रोगा यान्ति चैवं क्रमादिह ।
जपैः सुरार्चनैर्होमैर्दानैस्तेषां शमो भवेत् ॥
पूर्वजन्मकृतं पापं नरकस्य परिक्षये ।
बाध्यते व्याधिरूपेण तस्य कृच्छ्रादिभिः क्षयः॥
इति शातातपोक्तेः। किञ्च प्रायश्चित्तकर्मविपाकयोः क्षामवत्यादिवन्नैमित्तिकत्वे तद्वदेवाकरणे प्रत्यवायः स्यात् ॥ न चैतयोरकरणे कस्यचित्प्रत्यवाय इष्टः । एवञ्च यदा कृतेऽपि कर्मविपाके यत्कौनख्यादि न गच्छति, तत्र तस्य महापातकादि जन्यत्वेनानेकजन्मभोग्यत्वाज्जन्मान्तरीकौनख्याद्यनुत्पत्त्यर्थ एव प्रारब्धपापनाशः । यत्र तु मूको वागपहारक इत्यादावेकजन्मसाध्य एव भोगस्तत्र तन्नाशार्थे कर्मणि वैगुण्यमेव कल्प्यम् । यत्तु कश्चित्समाधत्ते—प्रायश्चित्तादिकरणेऽपि रोगादेरनाशे चरमजन्मीयत्वं कल्प्यम् । यतस्तदुत्पत्त्यापापं नष्टम् अतश्च कृतेऽपि प्रायश्चित्ते तन्नाश्यस्य पापस्याभावात् तद्रहितस्य चानधिकारित्त्वात्तत्कृतप्रायश्चित्तस्य वा कृतप्रायत्वात्तेन रोगाद्यनाश इति । इत्थमेव भट्टविश्वेश्वरोऽप्यभिप्रैति तदेतत्तुच्छम्; यद्यपि चरमजन्मीयं रोगादिफलमुत्पन्नम्, तथापि यथाचात्मजन्मीयफलावध्यपूर्वसत्तेष्टा, तथा चरमजन्मफले दुःखव्यक्तीनामनेकत्वादन्त्यदुःखव्यक्त्यन्तमपूर्वसत्ताऽऽवश्यिकेति पापरूपाधिकारिविशेषणलाभात्तद्वता कृतस्य च साङ्गत्वात्स्यादेव तेनापि पापनाशद् भोगनाशः। न च पापेन चरमजन्मनि रोगादि जन्यते, तेन चाग्रेदुःखव्यक्तय इति न चरमदुःखव्यक्त्यन्ते पापसत्तेति वाच्यम्, रोगावस्थानामध्यनेकत्वात् । तासां च दृष्टकारणमात्राजन्यत्वदन्त्यदुःखव्यक्त्युत्पत्तये आवश्यकी पापसत्तेति तन्नाशद्वारा स्यादेव चरमजन्मरोगनाश इति नैतत्समाधानं साध्विति दिक् । माधवस्तु—इहै -
त्कालेऽग्रवाऽनघ \।\। निमित्तप्रतिबन्धन्तु प्रारब्धं कर्म सत्तम । निरुद्धांशफलं स्वप्ने ददाति स्थिरमुत्तमम् । तथा— एवं निरुद्धं भोगन्तु स्वप्ने जाग्रति वा फलम् ।
आरब्धस्थानुगुरायेन मुक्तदेही न संशयः ॥
इत्यादिपराशरीयपुराणवाक्यबलात्तत्कालीनप्रबलदानादिप्रतिबद्धमपि दुर्बलं कर्म स्वप्ने जन्मान्तरे वा फलं ददातीत्याह। तस्मात्पूर्वोक्तरीत्या प्रारब्धपापनाशकत्वेन प्रायश्चित्तस्य दानादेश्चसिद्धः समुच्चयः। नन्वनयोर्दोषनिर्घातार्थत्वेनैव कार्यत्वात् समुच्ययस्त्वदोषनिर्घातार्थेष्वितिन्यायेन विकल्प इति चेत्, मैवम्; यद्यप्येवं विकल्पः प्राप्तः, तथापि यथाग्निहोत्रे “यदग्नये च प्रजापतये च सायं जुहोति यः सूर्याय च प्रजापतये च प्रातर्जुहोती” त्यत्रा “ग्निज्योतिर्ज्योतिरग्निः स्वाहेति सायं जुहोति, सूर्यो ज्योतिर्ज्योतिःसूर्यः स्वाहेति प्रातरि” ति मन्त्रवर्णप्राप्ताग्निसूर्यानुवादेन प्रजापतिसःहित्यप्रतीतिः, तथेहापि प्रातिस्विकवाक्यप्राप्तदाननुवादेन ‘प्रायश्चित्तमकृत्वा तु न कुर्यात्कम किञ्चन ।अनिस्तीर्णमघं यस्मात्तद्वर्द्धता गुणं पुनः इति कर्मविपाकसङ्ग्रहवाक्याक्रमविधिवशात्समुच्चयो लभ्यते । यद्वा प्रायश्चित्तदाने पापक्षयरोगक्षयरूपकार्येभेदेन समुच्चिते एव भवतः । तत्र भिन्नस्मृतिप्राप्तयोः क्रमाकांक्षायां तन्मात्रमनेन विधीयते । यत्र तु केवलं दानाद्यैवाम्नातम्, तत्र तस्य रोगनिवर्तकत्वेनैव सिद्धेःपापनाशकाकांक्षायामेतद्वचनान्यथानुपपत्त्या च कल्प्यं प्रायश्चित्तम्। तत्तु ‘प्रायश्चित्तार्धमहन्ति स्त्रीयो रोगिण एत्र च, इति याज्ञवल्क्यवाक्यादर्धम् । यत्र तु प्रातिस्विकमाम्नातं ‘कुनखी’ श्यावदन्तश्च कृच्छं द्वादशरात्रं चरेत्’ इत्यादौ, तत्र तदेव। ननु यत्र रोगाद्यभावः प्रातिस्विकप्राय-
श्चित्ताभावश्च तत्र कथमिति चेत् अत्र केचित्——कर्म विपाकवतः प्रायेण नरकभोगादेर्जातत्वात्तत्तत्कर्मविपाकनिदानभूत- पापनिमित्तकं पूर्णं प्रायश्चित्तमनुमतम् । अतश्च प्रायश्चिचान्तराकांक्षायामर्धं भवति । तथा च कर्मविपाकसारे—एकां कृच्छ्रेऽतिकृच्छ्रे द्वे तिस्रश्चान्द्रायणव्रते ।गवामभावे निष्कं वा साशोतिशतकृच्छ्रदः—इति ॥ अत्र षड्वार्षिकं द्वादशवार्षिकोर्द्धम् । अतस्तत्राशीत्युतरं कृच्छ्राणां शतं भवति । तथा चैतद्द्वादशवार्षिकप्रयोजकब्रह्महत्यादिनिदानके रोगादौ भवति । एतल्लिङ्गेन चान्यत्राप्यधमेवेति । वस्तुतस्तु लिङ्गस्यासाधकत्वात्प्रापकप्रमाणस्य चाभावात्—उच्यन्तेऽथ निदानानि प्रायश्चितानि च क्रमात् \। महापापेषु सर्वं स्यात्तदर्धन्तूपपातके ॥ तदर्धमुपपापीययष्ठार्धम् । दद्यात्पापेषु षष्ठांशं कल्प्यं व्याधिबलाबलमिति शातातपोक्तेर्भोगेऽनौचित्याभावः । अतश्चैतद्वचनोपात्तनिदानके एतद्वचनोपात्तमेव प्रायश्चित्तं भवति । अनुपात्तेतु सङ्करीकरणादौ सम्पूर्णमेव । यन्निदानभूते पापे प्रायश्चित्तमेव नोक्तम्, तत्र दण्डाद्यनुसारात्कल्प्यम् । साशीतिशतकृच्छ्रद इति तु महापापनिदानक एवाशक्तौ बोध्यमिति दिक् । इति प्रायश्चित्तस्य पापनाशकत्वनिरूपणम् ।
[ प्रायश्चित्ताधिकारविवेचनम् ]
अथ प्रायश्चित्ताधिकारिविशेषणम् । तत्र प्रायश्चित्तस्य नैमित्तिकत्वप्रदर्शनेन संवलिताधिकारोक्त्या च विहिताननुष्ठानादिरूपं निमित्तं पापक्षयकामना चाधिकारिविशेषणमित्युक्तमेव । अनुतापस्याप्यधिकारिविशेषणत्वमाहागिराः—दह्यमानोऽनुतापेन कृत्वा पापानि मानवः । शोचमानो अहोरात्रं प्राणायामैः प्रमुच्यते इति । प्राणायामपदं प्रायश्चित्तमात्रोपलक्षकम् ।
शोचेत मनसा नित्यं दुःखात्तान्यनुचिन्तयन् ।
तपस्वी वा प्रमत्तश्च पापेभ्यः स प्रमुच्यते ॥
इति कल्पतरुदाहृतवाक्येन तपस्विपदोपादानात् । पैठीनसिः-अथातः पञ्चधा शुद्धिर्बाह्मणस्य त्यागेन क्लेशेनोपरमेण साधुसम्प्रदानेन तपसा चेति ॥ त्यागेन निषिद्धस्य । क्लेशेनोपवासादिना। उपरमेण वैराग्येण ।साधुसम्प्रदानेन समीचीनदानेन । तपसा कायसन्तापेन । अत्र ब्राह्मणपदं नरमात्रोपलक्षकम् ; सर्वस्मिन्नरत्वजात्यवच्छिन्ने प्रायश्चित्तस्य वक्ष्यमाणत्वात् । पञ्चधेति न परिसंख्या; तीर्थयात्रादीनां प्रायश्चितत्वप्रतिपादकेन—
सेतुं दृष्ट्वा समुद्रस्य ब्रह्महत्यांव्यपोहति—इत्यादिना विरोधापातात् दोषत्रयापत्तेश्च ।पुनरङ्गिराः—
विकर्मणा तप्यमानः पापाद्विपरिमुच्यते—इति ॥
अत्रानुतापमात्रस्य पापनाशकत्वानुपपत्तेः पापनाशकप्रायश्चित्तेऽधिकारिविशेषणत्वेन पापनाशप्रयोजकत्वमुक्तम् । विष्णुरपि—मनः सन्तापनात्तीव्रमुद्वहेच्छोकमन्तत इति । अत्राप्यधिकारिविशेषणत्वमेव मनःसन्तापस्य शोकोद्वहनप्रयोजकत्वमिति । याज्ञवल्क्योऽपि—
प्रायश्चित्तमकुर्वाणाःपापेषु निरता नराः ।
अपश्चात्तापिनः कष्टान्नरकान्यान्ति दारुणान् ॥ इति ॥
कष्टान् द्वेष्यान् । तत्र हेतुर्दारुणत्वं दुःसहत्वम् ।अपश्चात्तापिनो यान्ति नरकानतिदारुणानिति त्वपरार्के पाठः । अत्राप्यनुतापाभावस्य नरकप्रयोजकत्वोक्त्या व्यतिरेकमुखेनानुतापस्याधिकारिविशेषणत्वएव तात्पर्यम् । अत्र सर्वत्रानुतापस्य विहितत्वेनाङ्गत्वेऽपि कालराजत्वादिवदनुपादेयत्वाभावेऽपि च “दतो धावति,
नखानि निकृन्तते” इत्यादिवद्दीक्षितत्ववैराग्यवच्चाधिकारिविशेषणत्वमेवेति । तथा याज्ञवल्कीये नरः पतनमृच्छतीतिप्रायश्चित्तप्रयोजकनिषिद्धाचरणादिपापहेतूक्तौ नरपदोपादानात् अहिंसासत्यमस्तेयमित्यादिसाधारणानां प्रातिस्विकानाञ्च विधिनिषेधानां सर्वान् प्रति प्रवृत्तेश्च सर्ववर्णाश्रमस्थादीनामप्रतिबद्धोऽधिकारः । तत्र स्त्रिया भर्त्राद्यनुज्ञयैवाधिकारः ।
नारी खल्वननुज्ञाता भर्त्रा पित्रा सुतेन वा ।
विकलं तद्भवेत्तस्या यत् करोत्यौर्ध्वदेहिकम् ॥
[स्त्रीशूद्रबालक्षीनां प्रायश्चित्ताधिकारविचारः]
इत्यादित्यपुराणादिति केचित् \। परे तु प्रायश्चितस्य नैमित्तिकत्वेनावश्यम्भावादनुज्ञां विनाप्यधिकार इत्याहुः । पित्रेति कन्यात्वे, भर्त्रेति सौभाग्यदशायाम् । सुतेनेति वैधव्यदशायाम् । और्ध्वदेहिकं व्रातादीति हेमाद्रिः । ननु यथान्धादेराज्यावेक्षणाद्यसम्भवाद्दर्शपूर्णमासादावनधिकारस्तथा स्त्रीशूद्रादीनामप्यविद्यत्वाद्वेदमन्त्रघटिते
प्रायश्चित्तोऽपशूद्राधिकरणन्यायेनानधिकार इति चेन्न, दर्शपूर्णमासादौ न्यायापवादकशूद्राधिकार-प्रतिपादकवाक्याभावादनधिकारो युक्तः। प्रायश्चित्ते त्वाहत्य स्त्रीशूद्रादीनां निषादेष्टिवदधिकारस्मृतेर्युक्तोऽधिकारः । तथाच याज्ञवल्क्यः—शुद्रोऽधिकारहीनोऽपि कालेनानेन शुद्ध्यति—इत्यधिकारहीनः कालेन प्रायश्चित्ताधिकरणभूतेन ।शुद्रोक्तिः स्त्रीणां प्रतिलोमानां चोपलक्षिका । “वदन्ति केचिद्विद्वांसः स्त्रीणां शूद्रसमानताम्” इति सूतसंहितोक्तेः। “शद्राणान्तु सधर्माणः सर्वेऽपध्वंसजाः स्मृताः” इति स्मृतेश्च स्त्रीणां प्रतिलोमानां च शूद्रसधर्मत्वात् । यद्यपि शूद्रादेर्वेदमन्त्रजपेनाधिकारस्तथापि नमस्कारोऽस्य मन्त्र इति स्मतेर्नमस्कारमन्त्रजपो
भवत्येवेति केचित् ।नमस्कारोऽस्येति स्मृतेर्नमस्कारेण मन्त्रेण पञ्चयज्ञान्नहापयेदिति याज्ञवल्क्योक्त्तेन पञ्चयज्ञमात्रविषयत्वेनोपसंहोरात् जपाद्यगरहितमेव भवतीत्यपरे । वय
न्तु—यथा दाशमिकेहिरण्यगर्भाधिकरणे उक्तं’प्रकृतावुपदिष्टयोराधारयोः पूर्वोऽमन्त्रक उत्तरः कुर्यात् प्रत्यवायजिहासया, इति वार्तिकोक्तेर्ज्ञानिनोऽपि तदकरणजनितप्रत्यवायपरिहारार्थत्वेन तन्निषिद्धकर्मजनितप्रत्यवायपरिहारार्थत्वेन च युक्तमेव प्रायश्चित्तम् । न च मिथ्याज्ञानवासनारूपाधिकारिविशेषणाभावान्निषेधाप्रवृत्तिरिति वाच्यम् । वासनाया अधिकारिविशेषणत्वे प्रमाणाभावादिति चेन्न, ज्ञानिनोऽप्युत्पन्नपापस्योत्तरोत्तरज्ञानेनैव नाशान्त प्रायश्चित्तेन प्रयोजनम् । वार्तिकन्त्वनुत्पन्नज्ञानविषयम्, मोक्षर्थीत्युपादानात्, ननुत्पन्नज्ञानविषयम् । अत्र ब्रह्मचारिणो द्वैगुण्योक्तिः षोडशवर्षादूर्ध्वम्। ततः पूर्वन्त्वाहाङ्गिराः—अशीतिर्यस्य वर्षाणि बालो वाऽप्यूनषोडशः । प्रायश्चित्तार्धमर्हन्ति स्त्रियो रोगिण एव च । तथाऽऽदिपर्वणि—आचतुर्दशकाद्वर्षान्न भविष्यति पातकम् ।परतः कुर्वतामेवं दोष एव भविष्यति । तथा पुनरङ्गिराः—अर्वाग्धि द्वादशान् वर्षानशीतेरूर्ध्वमेव च । अर्धमेव भवेत्पुंसां तुरीयं तत्र योषिताम् ॥ इति अत्र षोडशचतुर्दशद्वादशविधयो न दीक्षितस्यान्नमश्नीयादिति निषिद्धेदीक्षितान्नभोजने “अग्नीषोमीये संस्थिते यजमानस्य गृहेऽशितव्यमथाहुरशितव्यमेव” हुतायां वपायां क्रीतराजको भोज्यान्नः” इत्यवधित्रयवच्छक्ताशक्तविषयाः । तत्रापिद्वादशादर्वागित्यधमगुणवद्वालविषयम् ।
यत्तु विष्णुः—
स्त्रीणामर्धं प्रदातव्यं वृद्धानां रोगियां तथा ।
पादो बालेषु दातव्यः सर्वपापेष्वयं विधिरिति ॥
तदुपनयनादर्वाग्ज्ञेयम् । प्रागुपनयनादित्युपनीतानुपनीतावस्थयोर्वेषम्यदर्शनात् । ऊनैकादशवर्षस्य बालस्य प्रायश्चित्तं
भ्रात्रादिः कुर्यादित्याह शङ्खः—
ऊनैकादशवर्षस्य पञ्चवर्षात्परस्य च ।
प्रायश्चित्तं चरेद्भ्राता पिता वान्यः सुहृज्जनः ॥
इति । अपरार्के तु पञ्चवर्षात्पूर्वं मद्यपाने दोषाभाव इति । तत्र चकुमारः—मद्यमूत्रपूरीषाणां भक्षणे नास्ति कश्चन । दोषस्त्वापञ्चमाद्वर्षादूर्ध्वं पित्रोः सुहृद्गुरोरिति । शङ्खोऽपि—अतो बालतरस्यास्य नापराधो न पातकम् । राजदण्डो न तस्यास्ति प्रायश्चित्तं न विद्यत इत्युक्तम् । भवदेवादिस्वरसोऽप्येवम् । मिताक्षरा तु—‘नित्यं मद्यं ब्राह्मणो वर्जयेत्’ ‘न हिंस्यात्सर्वा भूतानि’ इत्येवमादीनामाश्रमवयोऽवस्थानैरपेक्ष्येणैव श्रूयमाणत्वात् ‘सुरापाननिषेधस्तु जात्याश्रय इति स्थितिरिति कुमारवाक्यात् ।
“अनुपेतस्तु यो बालो मद्यं मोहात्पिबेद्यदि।
तस्य कृच्छ्रत्रयं कुर्यान्माता भ्राता तथा पिता ॥
इति विज्ञानेश्वरोदाहृतवाक्याच्च । कुमारशङ्खवाक्ये तु सम्पुर्णश्चित्ताभावपरे । यत्तु गौतमः—प्रागुपनयास्कामचारकाम-
वादकामभक्ष्या इति ॥
जातमात्रः शिशुस्तावद्यावदष्टौ समा वयः ।
स हि गर्भसमो ज्ञेयो व्यक्तिमात्र प्रदर्शितः \।\।
……तथापेये वाच्यावाच्ये तथानृते ।
तस्मिन्काले न दोषः स्यात्स यावन्नोपनीयते ॥ इति । तन्मद्येतरविषयम्—इत्याह । यत्तु शूलपाणिः—पादविधि-
रयमुनैकादशवर्षपञ्चवर्षाधिकविषयः । ऊनैकादशवर्षस्येति वा-
क्यात्—इत्याह । तन्मन्दम् ।नहीदं वाक्यं पादविषयं न वा तव्द्यवस्थापकम्, किन्तु यथा प्राप्तप्रायश्चित्तानुवादेन कर्तृमात्रव्यवस्थापकमिति । एवञ्च पञ्चवर्षन्यूनस्यापि प्रायश्चित्तं पित्रादिरेव कुर्यात् । पुत्रानुत्पाद्य संस्कृत्य वेदमध्याप्य वृत्तिं विदध्यादिति तस्यैव पुत्रहितकरणेऽधिकृतत्वात्तत्स्थानापन्नत्वाच्च भ्रात्रादिरिति । इदं वार्द्धादिद्वादशाब्दादिमौलिकापेक्षया ज्ञेयम् । ब्रह्महा द्वादशाब्दानीत्यादिसामान्यविधीनां पर्षद्या ब्राह्मणानामिति वचनेन वाक्यान्तरोपदिष्टपर्षदो ब्राह्मणपरत्वेनोपसंहारपूर्वकं पर्षद्वच्च व्रतं चरेदित्यनेनोपदिष्टमौलिकद्वादशाब्दादिप्रायश्चित्तानामपि ब्राह्मणपरत्वेनातिदेशरूपेणोपसंहारात् एतानि च द्वादशवार्षिकादिधनदानपर्यन्तानि ब्राह्मणस्यैवेति वदतो विज्ञानेश्वरस्याप्ययमेवाशयो लक्ष्यते । एवञ्च क्षत्रियादिनिमित्त-कद्वैगुण्यादिविधीनां स्त्रीबालरोग्यादिनिमित्तकार्द्धादिविधीनाञ्च परस्परानपेक्षया मौलिकद्वादशाब्दादिविधिमपेक्ष्य युगपदेव प्रवृत्तिः । तथा च न क्षत्रियादिनिमित्तकदैगुण्यादिविध्युत्तरकालं स्त्रीबालरोग्यादिनिमित्तकाधिदिविधिप्रवृत्तिः । येन क्षत्रियादेर्दैगुण्यापेक्षयैवाधिद्यवगतिः स्यात् । तस्मान्मौलिकद्वादशाब्दादेरेव क्षत्रियादेर्द्वैगुण्यादिकं स्त्रीबालादेरपि तस्यैवार्धादिविधिः । शक्त्यनुसारान्न्यूनत्वं कल्प्यम् । तथा क्षत्रियादेर्द्वैगुण्यादिविधेर्बह्मचारिद्वैगुण्यादिविधेश्च परस्परमनपेक्ष्य मौलिकद्वादशाब्दादिविधिमुपजीव्य युगपत्प्रवृत्ते ने क्षत्रियब्रह्मचारिणः क्षत्रियत्वनिमित्तकद्वैगुण्याद्यपेक्षयाद्विगुणमष्टाचत्वारिशदब्दंभवति, न वा वैश्यब्रह्मचारिणवैश्वत्वनिमित्तकत्रैगुण्यापेक्षया द्विगुणं द्विसप्तत्यन्ब्दंभवति । अत्र च स्त्रीत्वबालत्वादिप्रयुक्तार्धादिविधेरशक्तिनिबन्धना यत्रार्द्धादि
प्रयोजकनिमित्तद्वयत्रयसंनिपातस्तत्रार्धापेक्षयाऽर्धादि च क्षत्रियवैश्यब्रह्मचारिणोर्मौलिकद्वादशाब्दात् द्विगुणम् । ब्राह्मणब्रह्मचारिणा तुल्यमेव भवति । अन्यथा वैश्यपतेर्ज्ञानतो ब्रह्मवधे द्वादशोनशतत्रयाब्दप्रवृत्तेः । क्षत्रियपतेश्चाष्टोनशतद्वयाब्दप्रवृत्तेस्तद्विधीनामननुष्ठानलक्षणाप्रमाण्यप्रसङ्गात् । ननु भवन्मतेऽपि शूद्रस्य बुद्धिपूर्वं विप्रवधादौ षोडशवर्षादूर्ध्वं षरानवत्यब्दप्रवृत्तेस्तावत आयुषोऽसम्भावात्तद्विधेरप्यप्रामाण्यं स्यादिति चेन्न, साग्रंवर्षशतं जीवेति श्रुतेः सपादवर्षशतसम्भवात् । इदानीं लोके उपलम्भाच्च । या तु शतायुर्वैपुरुष इति श्रुतिः, साऽवयुत्यानुवादः । अनुग्राहकादीनामपि मौलिकमेव पादोनादिकम् । यत्तु विज्ञानेश्वरः—यस्मिन् साक्षात् कर्ता यः प्रयोजकत्वमापन्नस्तस्यैवार्धादि कार्यमित्यादि, तन्न, विप्रादीनां ब्रह्मवधादौ शूद्रादीनां साक्षात्कतृर्णामनुग्रहे षट्त्रिंशदब्दमितं साक्षात्कर्तृत्वे द्वादशाब्दादीत्यनौचित्यप्रसङ्गात् । केचित्तु स्वस्य साक्षात्कर्तृत्वेयत्प्राप्तं तदपेक्षयाऽनुग्रहे पादन्यूनमित्याहुः, तदपि न, ब्रह्मवधे विप्रानुग्राहकशद्रस्य षट्त्रिंशदब्दमितं साक्षात्कर्तुविप्रस्य द्वादशाब्दमित्यनौचित्यप्रसङ्गात् शूद्रकर्तृकवेदाध्यापनादौ विप्रस्यानुग्राहकत्वे प्रायचित्ताभावप्रसङ्गाच्च । इति प्रायश्चित्ततारतम्यम् ।
प्रायश्चित्तर्स्तृत्वादिविचारः —अथ साक्षात्कर्त्रादीन्निरूपयितुं साधारणं कर्तृलक्षणमुच्यते । तत्र स्वतन्त्रः कर्ता, तत्प्रयोजको हेतुश्च, इति सूत्रद्वयतात्पर्यमभिप्रेत्याहुर्भट्टाचार्याः-यद्व्यापारं धातुः प्राधान्येनाह स कर्ता ।ग्रामं गच्छतीत्यत्र ग्रामादिप्राप्त्यवच्छिन्नकर्मणो गमनत्वादुपसर्जनतयोक्तायाः प्राप्तेर्ग्रामव्यापारत्वाद् ग्रामस्य कर्तृत्वप्रसक्तौतन्निवृत्त्यर्थं प्राधान्येनेति । यद्वा यद्व्यापारं तिङ्-
प्रत्ययः प्राधान्येनाह स कर्ता । ओदनं पचतीत्त्यत्र स्वर्गभावनयेव प्रयाजादिभावनानामोदनभावनया ज्वलनादिभावनानामप्युपसर्जनतयोपादानात् तद्वतां काष्ठानां कर्तृत्वप्रसक्तौ तद्वारणाय प्राधान्येनेति । अत्र स्वतन्त्रः कर्तेति पूर्वसूत्रं साक्षात्कर्तारमाह। द्वितीयन्तु प्रयोजक कर्तारम् । स च कर्त्रन्तरव्यवहितः कर्ता \। हरिणा तु स्वतन्त्रकर्तृलक्षणमन्यथोक्तम ।
प्रवृत्तौ वा निवृत्तौ वा कारकारणां य ईश्वरः ।
अप्रयुक्तः प्रयुक्तो वा स कर्ता नाम कारकम \।\।
भवदेवोऽपि—क्रियासिध्यनुकूलेतरकारकप्रयोजकत्वमाह । हिंसायान्तु साक्षात्कर्ता यद्व्यापारसमनन्तरं कालान्तरे वा कारणान्तरनिरपेक्षःप्राणवियोगो भवति स उच्यते । प्रयोजयित्रनमन्त्रोर्हिसादिनिषिद्धक्रियाफलमाहापस्तम्बः– प्रयोजयिताऽनुमन्तो कर्ताचेति स्वर्गनरकफलेषु कर्मसु भागिन इति । एतदन्येषामप्युलक्षणम्। यथा पैठीनसिः—
हन्ता मन्तोपदेष्टा च तथा सम्प्रतिपादकः ।
प्रोत्साहकः सहायश्च तथा मार्गानुदेशकः॥
आप्तायः शस्त्रदाता च भक्तदाता विकमिणाम् ।
उपेक्षकः शक्तिमांश्च दोषवक्तानुमोदकः ॥
अकार्यकारिणस्तेषां प्रायश्चित प्रकल्पयेत् ॥
अपरार्के तुविकर्मिणामित्यस्याग्रे—
युद्धोपदेशकश्चैव तद्विनाशप्रदर्शकः ।
उपेक्षाकार्ययुक्तश्च दोषवक्ताऽनुमोदकः ॥
अनिषेद्धा क्षमो यस्तु सर्वे तत्कार्यकारिणः ।
इति पाठ उक्तः । हन्ता साक्षाद्धन्ता । मन्ताऽनुमन्ता । प्रवृत्त-
प्रवर्तकः । उपदेष्टेत्याज्ञापयित्रभ्यथेयित्रोरप्युपलक्षणम् । तत्राज्ञापयिता स्वयमुच्चः सन्नीचं भृत्यादिकं यः प्रेरयति इदं कुर्विति । नन्वत्र भृत्यस्य स्वामिहस्तादिस्थलीयत्वाद्दत्विगादिवन्न फलसम्बन्धो युक्तः, किन्त्वाज्ञापयितुरैवेति चेन्न; पुण्यफले हि कामनाधिकारिविशेषणम् । अतश्च तद्वत एवाधिकारः । “शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात्तस्मात्स्वयं प्रयोगे स्यादिति” न्यायात् । ऋत्विगादीनान्तु दक्षिणाद्यर्थं प्रवृत्तत्वात् कामनाऽभावाच्चन क्रतुफलसम्बन्धः । निषिद्धेतु प्रवृत्तमात्रस्यैवाधिकारित्वम् । अतः सर्वेषामपि प्रयोजकसाक्षात्कर्त्रादीनां फल सम्बन्धो युक्तः । अभ्यर्थयमानस्तु यः प्रार्थनादिनोच्चं प्रवर्तयति । उपदेष्टा पुनस्त्वं शत्रुमित्थं व्यापादयेति मर्मोद्घाटनाद्युपदेशपुरःसरं प्रेरयति । सोऽयं त्रिविधोऽप्यप्रवृत्तप्रवर्तकत्वात्प्रयोजक उपदेष्ट्टपदेन संगृहीतः । सम्प्रतिपादकोऽनुग्राहकः । स च यः पलायमानममित्रमुपरुन्धनपरेभ्यश्च हन्तारं रक्षन् हन्तुर्द्रढिमानं जनयन्नुपकरोति । अत्र हन्यमानोपरोधहन्तुरक्षणयोश्च प्रत्येकमपि दोषहेतुत्वम् । अस्य च हिंसाफलसम्बन्धमाह मनुः—
बहूनामेककार्याणां सर्वेषां शस्त्रधारिणाम् ।
यद्येको घातयेत्तत्र सर्वेतद्घातकाः स्मृताः ॥
इति। कैश्चिदीषद्धन्ताऽप्यनुग्राहक उक्तः ।प्रोत्साहकोऽर्थवादवत्साहकः । सहायो यो मरणाद्युद्देशेन शस्खाद्यगृहीत्वा सह केवलं गच्छति । अनुमोदको यो हन्तुर्हर्षमनुमोदते हृष्यति । इतरे प्रसिद्धः । अत्र भक्तग्रहणमौषधस्नेहद्ययुपलक्षणम् । एते च निषिद्धक्रियोद्देशे सत्येव दोषभाजः । अन्यथा हन्तुर्धर्मार्थभक्त—
दातुरपि दोषप्रसङ्गात् । न चेष्टापत्तिः । क्रियमाणोपकारे तु मृते पातकमिति याज्ञव्लकीये—
औषधं स्नेहमाहारं ददद्गोब्राह्मणो द्विजः ।
दीयमाने विपत्तिः स्यान्न स पापेन लिप्यते ॥
तथा— दाहच्छेदशिराभेदप्रयोगैरुपकुर्वताम् ।
द्विजानां गोहितार्थन्तु प्रायश्चित्तं न विद्यते ॥
इति विज्ञानेश्वरोदाहृतवाक्ययोः ।
कूपखाते च धर्मार्थे गृहदाहे च या मृताः ।
ग्रामदाहे तथा घोरे प्रायश्चित्तं न विद्यते ॥
इति पराशरवाक्ये च ।
श्रौषधं स्नेहमाहारं ददद्गोब्राह्मणेषु च ।
प्राणिनां च प्रवृत्यर्थं प्रायश्चित्तं न विद्यते ॥
इति संवर्तवाक्ये चाधर्मजनकीभूतायामप्युपकारधर्मार्थक्रियमाणायां क्रियायां दोषाभावोक्तेस्तत्तुलयन्यायतयाऽत्रापि दोषाभावस्योचितत्वात् । अपरादिष्वप्येवमेव । औषधदाने विशेषमाह मदनरत्नेऽङ्गिराः—
औषधे तु न दोषोऽस्ति स्वेच्छया तु पिवेद्यदि ।
अन्यथा दीयमाने तु प्रायश्चित्ती न संशयः ॥ इति ॥
उद्दद्वेष्टुर्मरणफलकमन्यूत्पादने दोषमाह विष्णुः—
आकुष्टस्ताडितो वापि धनैर्वा विप्रयोजितः ।
यमुद्दिश्य त्यजेत् प्राणांस्तमाहुर्ब्रह्मघातकम् ॥
तथा–ज्ञातिमित्रकलत्रार्थं सुहृत्क्षेत्रार्थमेव च । उत्तरार्धं तदेव । उद्देशस्तु न शब्दैकगम्य एव । लिखनाद्यनुमितेऽप्युद्देशे दोषसत्वात् । अयं वाऽऽक्रोशादिनिमित्तीत्युच्यते इति निबन्धकृतः।
तथा च निमित्ती पादमादध्यादिति पादप्रायश्चित्तमेतस्यैव भवति । या तु “सम्बन्धेन विना (देव) शुष्कवादेन कोपितः” इति भविष्ये वार्षिकप्रायश्चित्तोक्तिः, सा परिहासकृताकोशनिमित्तपरा। यत्तु शूलपाणिः—शुष्कवादेन कोपित इत्यभिधानात्केवलं वाक्कृतसम्बन्धपरेत्याह । तत्तुच्छम् । आक्रोशादीनि हि वधजन्यदोषे निमित्तानि । तेषाञ्च साहित्यमविवक्षितम् । अतः केवलेनाप्याक्रोशेन भवत्येव त्रैवार्षिकं निमित्युपदिष्टं सम्पूर्णंप्रायश्चित्तमितिदिक । निमित्तिनश्च मरणोद्दशं विनाप्यक्रोशेन गते मृते च विप्रादौ दोषोऽस्त्येव । उद्देशे तु कामकृतत्वाद् द्विगुणः । पैठीनस्युक्तेषुत्रयोदशस्वेव धर्मार्थं क्रियामाणायां क्रियायां दोषाभावोक्तेः। ननु कृतेऽप्यक्रोनादौ मन्यूत्पत्त्यदर्शनादाक्रोशादेरनिमित्ततेति चेन्न; नरस्वभाववैचित्र्यात्, एकतरेणापि निमित्तेन जातमन्यवो भवन्ति; तेषु निमित्तदर्शनात् । एते च सर्वे स्वार्थपरार्थ पवृत्तत्वेन द्विविधाः । यत्तु जिनकः—
प्रयोजयिताऽनुमन्ता कर्ता चेति स्वर्गनरकफलेषु कर्मसु भागिन इत्यापस्तम्बोक्तेस्त्रीनेव भेदानाह, यदपि भवदेवः शूलपणिश्च—अनुग्राहक निमित्तवाक्ये अप्युपन्यस्य पञ्चैव भेदानाह, तदेतच्चिन्त्यम्; पूर्वोक्तपैठीनसिक्यात् । यदि तु कथञ्चित्स्वेच्छाकल्पितलक्षणैः क्वचित्केषाञ्चि दन्तर्भाव इष्यते, तथा सति यथाकथञ्चिदैकध्यद्वैविध्याद्यपिशक्यं वक्तुम् । तस्मात् स्मृतिकारैपर्यायशब्दैर्येपरिगणितास्ते सर्वेऽपि निषिद्धक्रियाफलभाजः ।क्वचिन्निमित्तताप्रयुक्तदोषापवादमाह मदनपारिजाते सुमन्तुः—
असम्बन्धेन यः कश्चिद् द्विजः प्राणान्समुत्सृजेत् ।
तस्यैव तद्भवेत्पापं न तु पापं प्रकीर्तयेत् ॥
तथा भविष्ये – पुत्रः शिष्यस्तथा भार्या शासतश्चेत्प्रणश्यति ।
न शास्ता तत्र दोषेण लिप्यते देवसत्तम ॥
इदञ्च – पुत्रः शिष्यस्तथा भार्या दासी दासस्तु पञ्चमः ।
प्राप्तापराधास्त्याज्याः स्यू रज्ज्वावेणुदलेन वा ॥
पृष्ठतस्तु शरीरस्य नोत्तमाङ्गेकदाचन ।
अतोऽन्यथा तु प्रहरंश्चोरस्याप्नोति किल्बिषम् ॥
इति मनूक्तेरभ्यनुज्ञातशासनपरम् ।अनभ्यनुज्ञातत्वे त्वस्त्येव दोषः । तथा च विष्णः—
उद्दिश्य कुपितो हत्वा तोषितः श्रावयेत्पुनः ।
तस्मिन् मृते न दोषोऽस्ति द्वयोरुच्छ्रावणे कृते ॥
तोषितो निमित्तिना; तस्यैव दोषाभाववत्वेनोपस्थितत्वात् । हत्वा द्वयोरुच्छ्रावणे कृत इति सम्बन्धः । द्वयोरिति त्र्यादीनामप्युपलक्षणम् । भट्टविश्वेश्वरस्तु–उच्छ्रावणेऽन्यस्य कस्यचित्कृते द्वयोर्नदोषोऽस्तीति सम्बन्धं कृत्वाऽऽत्मघातकाक्रोशकथोर्दोपाभावमाह । अपवादोन्तरमाह बृहस्पतिः—
आकृष्टस्तु यदाक्रोशंस्ताडितः प्रतिताडयन् ।
हत्वाऽऽततायिनं चैव नाततायी भवेन्नरः । इति ।
व्याघ्रादिविशिष्टकान्तारादौ सम्भावितमरणं देशे शिष्यान् प्रेषयितुर्गुर्वादेर्दोष माह याज्ञवल्क्यः—
कृच्छ्रत्रयंगुरुः कुर्यान्म्रियते प्रहितो यदीति ।साक्षात्कर्त्रनुमन्त्रादयः । अथैतेषाम्प्रायश्चित्तकल्पनम् । तत्र सम्प्रतिपादकाख्यानुग्राहकस्य पलायमानामित्रोपरुन्धनादौ व्यापारबाहुल्यान्मौलिकमेव पादोनम् \। उच्चमभ्यर्थयिता, सममुपदेष्टा, नीचमाज्ञापयितेति त्रिविधः प्रयोजकः ।तस्य साक्षद्धन्तृप्रवृत्तिमात्रजनकत्वेना-
नुग्राहकाद्ध्यवहितत्वादर्धोनम् । अनुमन्तुः प्रवृत्तप्रवर्तकत्वेनाप्रवृत्तप्रवर्तकोत्प्रयोजकादल्पव्यापारत्वेन सार्धपादमितम् । निमित्तिनस्तु त्रैवार्षिकम् । तथा च सुमन्तुः—
तिरस्कृतो यदा विप्रो हत्वात्मानं मृतो यदि ।
निर्गुणात्सहसा क्रोधाद्गृहक्षेत्रादिकारणात् ॥
त्रैवार्षिकं व्रतं कुयात्प्रतिलोमां सरस्वतीम् ।
गच्छेद्वापि विशुद्ध्यर्थंतत्पापस्येति निश्चितम् ॥
त्रैवार्षिकं प्रकृत्य भविष्ये—
तिरस्कृतो यदा विप्रो निर्गुणो म्रियतेऽनघ ।
सनिमित्तं यदा विप्रस्तदैवं शुद्धये वरेत् ॥
त्रैवार्षिकं ब्रह्मचर्यं कृत्वा शुद्ध्येत विप्रहा ॥
एवं यत्र यत्र व्यापारन्यूनाधिकभावस्तत्र सर्वत्र दोषन्यूनाधिकभावेन प्रायश्चित्तन्यूनाधिकभाव एष्टव्यः । अनेनैव न्यायेन प्रोत्साहकसहायानुग्राहकादीनामपि । येऽनुग्राहकादयस्तेषामपि प्रत्यासत्तितारतम्याद्दोषतारतम्येन प्रायश्चित्ततारतम्यमेष्टव्यम् । प्रयोजयिता अनुमन्ता कर्ता चेति स्वर्गनरकफलेषु कर्मसु भागिनः, यो भृयआरभते, तस्मिन् फलविशेष इत्यापस्तम्बोक्तेः। प्रयोजकविशेषेण पादोनार्धादिरूपेपत्ताविशेषे तु ग्रन्थकारलिखनमेवमानम् । यत्तु शूलपाणिः—
अनुमन्तुर्निमित्तिन इव त्रैवार्षिकमित्याह । तन्मन्दम्; अनुमन्तुर्मरणानुसन्धानेन प्रत्यासत्तेः । निमित्तिनस्तु तदभावादिति । यत्तु मनुः—हन्ता मन्तोपदेष्टा च विशस्ता क्रयविक्रयी । संस्कर्ता चोपहर्ता च खादकश्चाष्टघातकाः—इति । तत्र विशस्त्रादिपञ्चानां हिंसोत्तरकालप्रवृत्तत्वादुक्तेभ्यः सर्वेभ्योऽपि न्यूनो दोषः
प्रायश्चित्तञ्च । घातकशब्दस्तु प्राणभृदादिवल्लिङ्गसमवायाद् गौण इति । यत्तु शूलपाणिना—चरे ? तमहत्वापि घातार्थंचेत्समाहितः—इत्यस्यानुग्राहकत्वमुक्तम् । तदतितुच्छम्; तस्य हिंसाफलसम्बन्धाभावात् । किन्तु मरणोद्देश्यकशस्त्रप्रहारादिव्यापारसमवायमात्रेण स्वातन्त्र्येणैव वचनाद्दोषः प्रायश्चित्तञ्च ।क्वचित्तु साक्षाद्धिंसाकर्तृत्वेऽपि दोषापवादमाह बृहस्पतिः—नाततायिवधे हन्ता किल्विषं शक्नुयात्क्वचित् । विनाशार्थिनमायान्तं घातयन्नापराध्नुयादिति । अत्र किल्विषापराधाभावौयथाक्रमं प्रायश्चित्तदण्डनिषेधार्थौ। एतच्च ‘सर्वत आत्मानं गोपायेदिति’ श्रुतेः सर्वथा पलायमानेऽप्यात्मरक्षणासम्भवे बोद्धव्यम् ।आततायिनश्चाह वसिष्ठः—अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारापहारी च षडेते ह्याततायिनः । भवदेवीये त्विदं मानवीयत्वेनोक्तम्। शस्त्रपाणिर्हन्तुमुद्यतशस्त्रः। क्षेत्रपदं शासनस्याप्युपलक्षकम् । अत्र यावदपहारे जीवनच्छेदो भवति, स एवाततायिताप्रयोजकः अपरार्के व्यासः कल्पतरौ विष्णुकात्यायनौ—उद्यतासिं विषाग्निं चसाग्रोद्यतकरं तथा । आथर्वणन हन्तारं पिशुनं चैवराजसु । भार्यातिक्रमिणं चैव विद्यात्सप्तातायिनः । यशावित्तहगण्यहुरन्यान् धर्मार्थहारकान् ॥ तथा मात्स्ये—गृहक्षेत्रादिहन्तारं तथा पत्न्यभिगामिनम् ।अग्निदं गरदं चैवतथा चाप्युद्यतायुधम् ॥ अभिचारन्तु कुर्वाणं राजगामि च पैशुनम् । एते हि कथिता लोके धर्मज्ञैसततायिनः ॥ तथा भवदेवीये वृद्धवसिष्ठः—उद्यताग्निः प्रियाधर्षी धनहर्ता गरप्रदः । अथर्वहन्ता तेजोद्यः षडेते आततायिनः ॥ अथर्ववेदोक्ताभिचारादिना हन्ता अथर्वहन्तेति । विनैव कारणं असद्दोषारोपणनिर्भत्सनेनाप्रतिभाकरस्तेजोद्यइति । मद्यादिदानादिना
ब्राह्मादितेजोनाशको वा । विशेषमाह कात्यायनः—अनाक्षारितपूर्वोक्तस्यापराधे प्रवर्तते । प्राणद्रव्यापहारे च प्रवृत्तस्याततायितेति । अनाक्षारितोऽनपकृतः । तेन पूर्वकृतापराधस्य नाततायितेति तद्वधे भवत्येवदोषः । अयं वाऽऽततायिवधे दोषाभावो गोब्राह्मणाततायिव्यतिरिक्तविषयः । तथा च सुमन्तुः—नाततायिवधे दोषोऽन्यत्र गोब्राह्मणादिति । अयञ्च पाठोऽपरार्कविज्ञानेश्वरप्रभृतीनां सम्मतः । कल्पतरुस्तु सुमन्तुरित्युक्त्वा ‘आततायिन्यदोषोऽन्यत्र गोब्राह्मणात्’ यदा हनेत्, प्रायश्चित्तं न स्यात् इति पाठं लिखित्वा प्रायश्चित्तं न स्याद्गोविप्रातिरिक्तवधे इति व्याख्यातवान्। इदं च वचः सर्वयुगसाधारणमिति केचित् । वयन्तु “आततायिद्विजाग्र्यणां धर्मयुद्धेन हिंसनम् ?” इति कलिनिषिद्धपतितेनोपसंहारात्कलावेव विप्रवधे दोषोक्त्यर्थम् । अन्यदा त्वेतयोर्वधे नास्त्येव दोष इति प्रतीमः । प्रायश्चित्तविवेके संवर्तः—आततायिवधे न दोषोऽन्यत्र गोब्राह्मणाद्यदा हन्यात्तदा प्रायश्चित्तं कुर्यादिति । प्रायश्चित्तं कुर्याद्गोविप्रवधे इत्यर्थः । यत्तु भवदेवेनोक्तम्—विप्राततायिवधेऽप्यदोष इति । यत्तु ‘आततायिवधे न दोषोऽन्यत्र गोब्राह्मणात्स्नातः प्रायश्चित्तं कुर्यात्’ इति सुमन्तुवचः तदप्येवं त्रेधा वाक्यभेदेन व्याख्यातम् । तद्यथा—ब्रह्मवधसंसर्गिप्रायश्चित्तमुक्त्वैतस्याभिधानादाततायिवधं न इत्येतत्सूत्रं पूर्वोक्तप्रायश्चित्तनिषेधकम, दोषोऽन्यत्रेति चाततायिव्यतिरिक्तवधे दोषप्रतिपादकम् । गोब्राह्मणात्स्नातः प्रायश्चित्तं कुर्यादिति च प्रायश्चित्ताङ्गस्नानप्रतिपादकम् । गोहेतुकं स्नानं व्यासेनोक्तम्—श्रूयन्तेयानि तीर्थानि त्रिषु लोकेषु नित्यशः । अभिषेकःसमस्तेषां गवां शृङ्गोदकस्य त्विति । ब्राह्मणशब्देनात्र स्नानविधिवाक्यमपेक्षितं तद्धेतुकं स्नानम् । यथा
विहिताद्यमर्षणादिप्रवर्तकम् । तेन गोहेतुकं स्नातो ब्राह्मणहेतुकं चस्नातः प्रायश्चित्ताधिकारी भवति, न त्वाप्लवनमात्रेणेति वाक्यार्थः—इति। तन्मन्दम्; इह हि यद्यपि स्नातः प्रायश्चित्तं कुर्यादिति वाक्यशेषः कल्पतर्वादावदृष्टोऽपि साकरस्तथापि वाक्यत्रयमन्तरेणानुपपत्तौ स्यादपि वाक्यत्रयम् । इह तु “यजतिषु ये यजामहं करोति नानुयाजेष्व” तिवत्पर्युदासाश्रयणेन गोब्राह्मणव्यतिरिक्ताततायिवधे न दोषः इत्येवमेकवाक्यत्वमेव ब्राह्मणादित्यन्तस्य युक्तम् । अतो न गोब्राह्मणयोः स्नानविशेषणत्वम् ।न वा ब्राह्मणपदस्य जातिवाचिगोपदसमभिव्याहृतस्य प्रसिद्धं जातिवाचित्वं हित्वा विधिकाण्डवाचित्वं युक्तम् । स्नात इत्यादेस्तु यद्यपि प्रायश्चित्ताङ्ग स्नानविधायित्वम्, तथापि—सर्वेषु पापेषुसर्वेषां व्रतानां विधिपूर्वकम् । ग्रहणं सम्प्रवक्ष्यामि प्रायश्चित्ते चिकीषिते । दिनान्ते नखरोमादीन् प्रवाप्य (स्नानमाचरेदिति) स्नानविधायित्वमेवास्य युक्तम्; एकमूलकल्पनालाघवात् । न तु मूलान्तरकल्पनागौरवग्रस्तं स्नानान्तरविधायित्वं न्याय्यमिति । भविष्यपुराणेऽपि ब्राह्मणरूपाततायिवधे दोष उक्तः—हत्वा तु प्रहरन्तं वै ब्राह्मणं वेदपारगम् ।कामतश्चेच्चरेद्वीर द्वादशाब्दाख्यमुत्तममिति । यत्त्वस्याप्यन्यथा व्याख्यानं कृतं भवदेवेन—इदमपि नाततायिविषयम; प्रहारशब्दस्य वधानभिधायकत्वात् । तेनायमर्थः, यो हि चक्षुराद्यवयवानां प्रकर्षेण हनने प्रवृत्तस्तद्वधे कामतोऽपि द्वादशवार्षिकमेव प्रायश्चित्तमिति । तदपि मन्दम् ; प्रहरन्तमित्यनेन रुढ्यावधोद्यतस्य शस्त्रपाण्यादेः प्रहारकर्तुरभिधातुंशक्यत्वेन रूढ्यायोगवाधाच्चक्षुरादिपदाध्याहारे मानाभावाच्चेति । यदपि कात्यायनः आततायिनि चोत्कृष्टे तपःस्वाध्यायजन्मतः । वधस्तत्र तु नैव स्या-
त्पापे हीने वधो भवेत् ॥ वचो भृगुरिति क्वचित्पाठः । तत्रापि जन्मतपःस्वाध्यायैर्ब्राह्मण्यमेवोपलक्ष्यते। तेषां ब्राह्मण्योपलक्षकत्वं व्यासेन स्मृतम् । यत्त्वत्र शूलपाणिः—जन्मशब्देन जातिःकुलञ्चोच्यते । तेन यो यदपेक्षया जन्मतपःस्वाध्यायैरुत्कृष्टस्तस्याततायिनोऽपि वधे दोष एवेति । तदनेनैवापास्तम्, मूलान्तरकल्पनागौरवप्रसङ्गाच्च । पापमेवाश्रयेदितिवचनाच्च बुद्धिपूर्वकेतु व्रतस्यैव द्वैगुण्यम्।ब्रतन्तु पादोनमिति विज्ञानेश्वरादयः । सर्वत्रातिदेशिके पादोनमिति तैः परिभाषितत्वात् । अत्र फलोपहितत्वं नरान्तरव्यापारमद्वारीकृत्य मरणजनकत्वम् ।तेन व्रणपाकपरम्परामृतेऽपि अयमेव दोषः ।
अथ कामाकामकृतप्रायश्चित्तव्यवस्था
तत्र याज्ञवल्क्यः—प्रायश्चित्तैरपैत्येनो यदज्ञानकृतं भवेत् । कामतो व्यवहार्यस्तु वचनादिह जायते ॥ अत्र पूर्वार्धेऽज्ञानपदोपादानात्तत्प्रतियोगितया ज्ञानपदे उपादातव्ये कामपदोपादानं कृतम्, तेन ज्ञानकामयोस्तुल्यफलत्वम् । एवमज्ञानाकामयोरपि । विहितं यदकामानां कामात्तत् द्विगुणं भवेत् । तथा—म्लेच्छैर्वाऽधिगतः शुद्रस्त्वज्ञानात्तु कथञ्चन ।कृच्छ्रुत्रयं प्रकुर्वीत ज्ञानात्तु द्विगुणं भवेदित्यादिवचनेषु ज्ञानकामनयोरज्ञानाकामनयोश्च तुल्यप्रायश्चित्तोक्त्यातुल्यफलत्वावगमात् । किञ्च बलात्प्रवर्त्यमानस्य यद्यपि ज्ञानमस्ति, न कामना, तथाप्यत्र सतोऽपि ज्ञानस्य प्रवृत्तिहेतुत्वाभावेनासत्कल्पत्वात्स्वतन्त्रप्रवृत्तिजनने ज्ञानकामनयोरव्यभिचार एव । एवमेव शुष्के पिपतिषोर्भ्रमात्कर्दमपतने वास्तवज्ञानाभावात्तद्विषयाऽपि कामनाऽसत्तुल्यैव । अतो न स्वतन्त्रप्रवृत्तौ ज्ञानकामनयोर्व्याभिचारः । अतश्च बुद्धिज्ञानकामाभिसन्धिशब्दानामबुध्य-
ज्ञानाकामानभिसन्धिशब्दानां चाव्यभिचारात द्विविधमेव पापं तत्प्रायश्चित्तञ्च। तदाह बृहस्पतिः—कामाकामकृतत्वेन पातकं द्विविधं स्मृतम् । पुरुषापेक्षया चैव निष्कृतिर्द्विविधा स्मृतेति वचनात्कामतोऽपि प्रायश्चित्तविधायकात् । तदाह मनुः—अकामतः कृते पापे प्रायश्चित्तं विदुर्बुधाः । कामकारकृतेऽप्याहुरेके श्रुतिनिदर्शनात् ।
अकामतः कृतं पापं वेदाभ्यासेन शुद्ध्यति ।
कामतस्तु कृते मोहात्प्रायश्चित्तः पृथक् पृथक् ॥ इति ।
श्रुतिनिदर्शनम् ‘तरति मृत्युं तरतिब्रह्महत्यां योऽश्वमेधेन यजते य उ चैनमेवं वेदेति । अत्र य उ वेदेत्यादेरन्याऽनर्थक्यादर्थवादत्वेऽपि ‘तरति’ इत्यादिः फलविधिरिष्ट एव । वेदाभ्यासेन शुद्ध्यतीति कामकृतप्रायश्चित्तापेक्षया लघुप्रायश्चित्तोपलक्षणम् ॥ मोहशब्देन देवेन्द्र बुद्धिपूर्वो व्यतिक्रमः ।उच्यते पण्डितैर्नित्यं पुराणे शांशपायने, इति भविष्योक्तिः ।मोहो धर्मविमूढत्वमिति व्यासोक्तिश्चाकर्तव्ये कर्तव्यभ्रमपरा । तेन सत्यधर्मत्वज्ञाने पापगौरवार्थं मोहादिति पृथक् कामकारे विहितैर्द्वैगुण्यादिभिः । तथा चाङ्गिराः—अकामतः कृते पापे प्रायश्चित्तं न कामतः । स्यात्त्वकामकृते यत्तद्द्विगुणं बुद्धिपूर्वके ॥ मध्यमाङ्गिराः—विहितं यदकामानां कामात्तद्द्विगुणं भवेत् ॥ तथाच ब्रह्मगुरुतल्पगमातापितृसम्बन्धोगस्स्तेननास्तिकनिन्दितकर्माभ्यासिपतितात्याग्यपतितत्यागिनः पतिताः पातकसंयोजकाश्चेति गौतमेन यत्र दोषातिशयार्थं विशेषतो व्यवहारो निषिद्धस्तत्र कामतो व्यवहार्यस्त्विति याज्ञवल्कीयेन व्यवहार्यतामात्रोक्तेर्नामुष्मिकी शुद्धिरित्युच्यते । तेन नरकादि भवत्येवेति । अन्यत्र तु ‘एनस्विभिरनिर्णिक्तैर्नार्थं किञ्चित् समाचरेत्’ इति मनुनाऽव्यवहार्यत्वमुक्तम् । तत्र कृतनिर्णेजनांश्चैव
न जुगुप्सेत कर्हिचित्’ इति मनुना ‘जुगुप्सेरन्न चाप्येनं संवसेयुश्च सर्वशः’ इति याज्ञवल्क्येन च संव्यवहार्यत्वमुक्तमेव । यत्र तु कामकृते मरणान्तिकम्, तत्र तद्विध्यानर्थक्यापत्ते ‘र्नास्यास्मिंल्लोके प्रत्यापत्तिर्विद्यते कल्मषन्तु निर्हरत्येवेत्यापस्तम्बोक्तेश्च पापशुद्धिर्भवत्येव । तथाच मध्यमाद्गिराः—
कामतस्तु महापापं नरः कुर्यात्कथञ्चन ।
न तस्य निष्कृतिर्दृष्टा भृग्वग्निपतनाहते ॥
तथा—प्राणान्तिकन्तु यत्प्रोक्तं प्रायश्चितं मनीषिभिः ।
तत्कामकारविषयं विज्ञेयं नात्र संशयः ॥
तथा व्यासः—कामतो ब्राह्मणवधे निष्कृतिर्नास्ति जीविनः ।
यस्तु सर्वं परित्यज्य यावज्जीवं चरेद् व्रतम्
स तु शुद्धः शुभांल्लोकान् विप्रो गच्छेन्न संशय इति ॥
तथा चाङ्गिराः—शरीरं न दहेद्यावद् ब्रह्महा पापकृत्तमः ।
तावन्न तस्य शुद्धिः स्याद्भगवान्मनुरब्रवीदिति ।
तथा यमः—महापातककर्तारश्चत्वारो मतिपूर्वकम् ।
अग्निं प्रविश्य शुध्यन्ति च्छित्वा वा महति ऋतौ ॥
महाक्रतुरश्वमेधः । अयञ्चाश्वमेधो ‘यजेत वाश्वमेधेन क्षत्रियस्तु महीपतिरिति, पराशरस्मृतेर्नासार्वभौमो यजेतेति प्रतिषेधाच्च सार्वभौमस्यैव । तथा चाश्वमेधस्य कामकारविषयमरणान्तिककल्पत्वोक्तया समानविषयत्वावगमादश्वमेधोऽपि सार्वभौमस्य कामकारविषय एव । ननु यदि कामकृतेऽप्यस्ति प्रायश्चित्तम्, तदा अनभिसन्धिकृतेऽपराधे प्रायश्चित्तमिति वसिष्ठवचनस्य, तथा—इयं विशुद्धिरुदिता प्रमाप्याकामतो द्विजम् ।कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते—इति मनुवाक्यस्य च का गतिरिति चेन्न;
आद्यस्य शुद्धिकरमित्यध्याहारेण ‘प्रायश्चित्तैरपैत्येनो’ इति याज्ञवल्कीयपूर्वार्धसमानविषयत्वान्न कामकृते प्रायश्चित्ताभावपरत्वम् । द्वितीये त्वियमिति सर्वनाम्ना पूर्वप्रदर्शितद्वादशवार्षिकस्यैवपरामर्शात्कामतस्तस्यैव निष्कृतिर्न विधीयत इत्यनेन प्रतिषेधो न तु प्रायश्चित्तमात्रस्य । कामतोऽपि बहुतरमरणान्तिकादिप्रायश्चित्तविधायकवाक्यविरोधात् । ननु कामकृतेऽपि प्रायश्चित्तसद्भावेन पापक्षयावश्यम्भावो वाच्यः ।इतरथा तु व्यवहार्यत्वमपि न स्यादविशेषादिति चेन्न; व्यवहार्यतामात्रोक्तिबलादेव नरकोत्पादिका व्यवहारनिरोधिका चेति पापस्य द्वे शक्ती कल्प्येत । तत्र कामकृते द्विगुणप्रायश्चित्तेन अन्यतरशक्तिनाशेऽप्यन्यतरशक्त्यविनाशो नानु पपन्नः । अकामकृते तु सर्वथा पापक्षयोऽपि भवत्येव । प्राणान्तिकप्रायश्चित्ते तु व्यवहारस्यासम्भवात् अगत्या पापक्षय इति प्रागुक्तम् । यत्तु शूलपाणिः—अज्ञानविदितेनैव प्रायश्चित्तेन कामकृतेऽर्धपापक्षयात्सम्भाषणस्पर्शनदर्शनादिरूपो लघुव्यवहारः कार्यो न तु भोजनपरिणयनादिरूपोऽपीति कामतो व्यवहार्यस्त्वित्यर्थ इति । तदपि शक्त्यभिप्रायमेव लक्ष्यते । अन्यथाऽमूर्तस्यार्धादिकल्पनाऽत्यन्तासम्बद्धैव । किञ्च कामे द्वैगुण्यविधायकविशेषशास्त्रेण स्वविषये सामान्यशास्त्रस्य बाधात्तात्पर्यतस्तस्याकाम एव प्रवृत्तेर्न कामेऽपि प्रवृत्तिरस्तीति । तेनार्धनाशकल्पनोक्तिरमीमांसकतामाविष्कारोतीति । एवं तावत्सकलनिबन्धसम्मतव्यवहार्य इति पदच्छेदेन याज्ञवल्क्यव्याख्यानमुक्तम् । शारीरकमीमांसायान्तु बहिस्तूभयथापि स्मृतेराचाराच्चेत्यतः प्राक्तनसूत्रे नैष्ठिकस्याप्यवकीर्णित्वे उपकुर्वाणकवच्छ्रतं नैऋृतगर्दभयागरूपप्रायश्चित्तं भवतीति स्थापितम् । अतो बहिस्त्वितिसूत्रे तुशब्देन तत्रैव विशेषो–
क्तिप्रतीतेर्बहिःशब्दोक्तमव्यवहार्यत्वं कृतप्रायश्चित्तविषयमेवेति निश्चीयते । तत्र तु साधकं स्मृतेरिति सूत्रोक्तं स्मृतिद्वयं शङ्कराचार्यैरुपन्यस्तम् ।
आरूढो नैष्ठिकं कर्म यस्तु प्रच्यवते पुनः ।
प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा ॥
अत्रिः—आरूढपतितं विप्रं मण्डलाच्चविनिःसृतम् ।
उद्बद्धं कृमिदष्टञ्च स्पृष्ट्वा चान्द्रायणं चरेदिति ॥
अत्राद्यस्मृतेरयमर्थः—यः प्रच्यवते तस्य तत्प्रायश्चित्तं तत्कृतमपि येन शुद्ध्येत्तादृशं न पश्यामि । शुद्धिशब्दश्च व्यवहारयोग्यतापरो दृष्टो लोके । अतः कृतप्रायश्चित्तोऽपि व्यवहार्यो न भवतीति । द्वितीयस्मृतेरपि कृतप्रायश्यित्तविषयत्वमेव । अकृतप्रायश्चित्तस्य ‘एनस्विभिरनिर्णिक्तैर्नार्थं कञ्चित्समाचरेत्, इति सामान्यवचनेनैवाव्यवहार्यतासिद्धः ।आरूढपतितमितिकृतप्रायश्चित्तस्याऽव्यवहार्यत्वे मनुवाक्योक्तो दृष्टान्त उक्तः ।
बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः ।
शरणागतहन्तृृंश्च स्त्रीहन्तृंश्च न सम्पिबेदिति ॥
न सम्पिबेदित्यन्योन्यं भोजनादिव्यहारं न कुर्यादित्यर्थः । ततः कृतप्रायश्चित्तस्यैवाव्यववहार्यत्वे प्रमाणत्वेन याज्ञवल्कीयमप्युपन्यस्तं प्रायश्चित्तैरपैत्येन इति । तत्र कामतोऽपीत्यपिशब्दमध्याहृत्य पूर्वार्धशेषत्वेनैव योजितम् । तदर्थस्तु यदज्ञानकृतैनो यच्च कामतोऽप्येनस्तदुभयमपि प्रायश्चित्तैरपैति । तदनन्तरमव्यवहार्य इत्यकारप्रश्लेषेण श्लोकशेषो व्याख्यातः । अस्मिंश्च मते वचनादित्यनेन न द्वैगुण्यादिवचनमुच्यते, किन्तु पूर्वप्रदर्शितमाचार्योक्तं स्मृत्याद्येव । अस्मिंश्च पक्षे कामाकामयोरुभयत्रापि कतेऽपि प्रा-
यश्चित्तेऽव्यवहार्यता सम्मता; अव्यवहार्यस्त्वित्यस्योभयशेषत्वेन व्याख्यानात् । अतश्चास्यानारभ्याधीतस्य याज्ञवल्कीयसामान्यवाक्यस्य पूर्वप्रदर्शितमाचार्योक्तं स्मृतिद्वयमुपसंहारकमिति फलितं भवति । एवं ‘नैष्ठिकानां वनस्थानां यतीनां वावकीर्णिनाम् । वृद्धानामपि लोकेऽस्मिन्प्रत्यापत्तिर्न विद्यते,—इति कौशिकवाक्यम्, तथा बालघ्नांश्चेति पूर्वदर्शितं मनुवाक्यम्, तथा—शरणागतबालस्त्रोहिंसकान् सैवसेन्न तु ।चीर्णव्रतानपि सतः कृतघ्नसहितानिमान्—इति याज्ञवल्क्यवाक्यमपि कामाकामविषयमेव । अत इदं तत्परमेव । अत्र वेदान्तकल्पतरौ ब्रह्मवधादिग्रहणं बालघ्नायुपलक्षणार्थमित्युक्तम् । तेनायं तस्याभिप्रायो लक्ष्यते—गौतमवाक्यमपि ब्रह्महत्यारभ्य पातकसंयोजकाश्चेत्यन्तं कृतप्रायश्चित्तस्यैव संसर्गनिषेधार्थम्, न याज्ञवल्क्यवाक्यस्योपसंहारार्थमेवेति । यत्तु भवदेवेन याज्ञवल्कीयवाक्येन ज्ञानकृतपापस्य प्रायश्चित्तेनाप्यनपगम इति उक्तम्, तत्सकामपापप्रवृत्तिनिन्दार्थमेव ।नानावचनेषु मृतः शुद्धिमवाप्नुयादित्यनेन पापक्षयशुद्धिप्रतिपादनादिति । तदपिव्यवहार्यताविधिपरत्वानङ्गीकारात् द्विगुणप्रायश्चित्तस्य स्थाने ‘जुगुप्सेरन्न चाप्येनं संवसेयुश्च सर्वशः’ इत्युक्तौत्सर्गिकी व्यवहार्यतैव महापातकादौ सिद्धेति पूर्वव्याख्याफलमेव लभ्यत इति । यच्च कल्पतरौ संसर्ग्यनुवृत्तौ छागलेय इत्युत्क्वा’ज्ञात्वा करोति यः सङ्गं निष्कृतिर्न विधीयते । प्रायश्चित्तमकामानां कामावाप्तौन विद्यते ॥ उपपातक एवं स्यात्तथा चात्मोपघातने, इति पठित्वा व्याख्यातम्—कामावाप्तौ न विद्यते—इति पातकिभिः कामतः कृतसंसर्गाणां प्रायश्चित्तमिह लोके नास्तीत्यर्थः । उपपातक आत्मोपघातने चैवं कामकृते न प्रायश्चित्तं संव्यवहार्यताकरमिति
वोद्धव्यमिति, तदयुक्तम् ; पूर्वार्धतुरीयचरणयोः पौनरुक्त्त्यापत्तेः । तथा कामतो व्यवहार्यस्त्विति याज्ञवल्कीये पूर्वं व्यवहार्यस्त्विति पदच्छेदं कृत्वा महापातकादौ कामतः कृते द्वादशाब्दादिनैव संव्यवहार्यतामुक्तवत इह चोपपातके कामकृतेऽसंव्यवहार्यतोक्तिरत्यनुचितैत्रेति । अतश्चापरार्ककृतव्याख्यैव ज्यायसी । तथाहि—कामावाप्तौकामपूर्वके पापे प्रायश्चित्ते पापक्षयपर्यन्तता न विद्यते । उपपातकात्महननयोस्तु स्याद्विद्यत एवेति ।आद्यार्धमेव कामकृतसंसर्गे आमुष्मिकशुद्धिकरप्रायश्चित्ताभावोक्तिविषयम् । एतन्मते उपपातक एवेति पाठः । अत्रात्मघाते विशेष उक्तो मदनपारिजाते—आत्महननार्थं विषभक्षणादिके कृते यदि जीवति, तदा स्वयमेव प्रायश्चित्तंकुर्यादथ मृतस्तदा तद्धितेच्छुः पुत्रादिः कुर्यादिति। यच्च बौधायनः—
अमत्या ब्राह्मणं हत्वा दुष्टो भवति धर्मतः ।
ऋृषयो निष्कृतिं तस्य वदन्त्यमतिपूर्वके ।
मतिपूर्वे फले तस्मिन्निष्कृतिर्नोपलभ्यते ॥
इति । तदुभयपक्षेऽप्यविरुद्धम् । तथाहि—व्यवहार्य इत्याद्यपक्षेमतिपूर्वे पापे फले आमुष्मिके मरणान्तातिरिक्ता निष्कृतिर्नोपलभ्यत इति । द्वितीयपक्षे फले व्यवहारे निष्कृतिर्नास्तीति । इति कामाकामव्यवस्था ।
अथ तन्त्रप्रसङ्गापत्तिविचारः
तत्र केचिदाहुः—कामतो विजातीयानेकपातकेषुयुगपत् क्रमेण वा कृतेषु नैव तन्त्रता; अग्निप्रवेशाग्निवर्णसुरापानमुसलघातज्वलत्सूर्मीसमालिङ्गनानां मरणप्रकाराभिन्नत्वादिति; तन्न;
यः कामतो महापापं नरः कुयात्कथञ्चन ।
न तस्य निष्कृतिर्दृष्टा भृग्वग्निपतनादृते ॥
इति मध्यमाङ्गिरसोक्तस्य साधारणैकप्रकारकप्रायश्चित्तस्य विद्यमानत्वेन तन्त्रत्वोपपत्तेरिति । यत्तु तैरेवोक्तम्—अकामकृतसजातीयविजातीयेषु महापातकादिषु द्वादशाब्दादि तन्त्रेण भवति; समानदेशकालकर्तृत्वस्यागृह्यमाणविशेषत्वस्य च तन्त्रत्वौपयिकस्य प्रयाजक्षामवत्यादिश्रौतैरमावास्याव्यतीपातादिनिमित्तकश्राद्धादिस्मार्तैश्च तुल्यत्वात् । ननु सकृदनुष्ठितैकद्वादशाब्देन युगपदनेकपापनाशोत्पत्तौ चातुर्थिकयोगसिद्ध्यधिकरणविरोध इति चेन्न; तत्र हि सर्वेभ्यःकामेभ्यो दर्शपूर्णमासावित्यादौ सर्वत्वमाधिकारिकमित्यनेन न्यायेनान्यत्र श्रुतान्येव फलान्युद्दिश्यन्ते । तेषाञ्च प्रातिस्विकपरस्परनैरपेक्ष्येणैव साध्यत्वावगमात् । इहापि चैकवाक्यैकपदोपात्तत्वेऽप्युद्देश्यसाहित्यस्याऽविवक्षितत्वादन्योन्यनैरपेक्ष्येणैवसाध्यत्वावगमादेकप्रयोगेणानेकफलासिद्धिर्युका । इइ न तादृक्फलनैरपेक्ष्यावगमकमस्तीति तन्त्रेणानेकफलसिद्धिर्युक्ता । ननु कर्माण्यरम्भभाव्यत्वादित्येकाढशाधिकरणविरोषः; एकज्योतिष्टोमादिप्रयोगेऽपि तत्फलस्वर्गादेरनेकस्याप्युत्पत्तिप्रसङ्गात् , तथा सकृदनुष्ठितनिषिद्धात्तत्फलानेकनरकोत्पत्तिप्रसङ्गादिति चेन्न; आद्ये षष्टिवर्षमात्राद्य पभोग्यस्वर्गादिफलश्रुतिविरोधान्न तादृक् फलानेकत्वप्रसङ्गः। द्वितीये कल्पमन्वन्तराद्युपभोग्यनरकादिफलश्रुतिविरोधादेव न पूर्वोक्तानिष्टप्रसङ्ग इति । न च ब्रह्महत्यां व्यपोहतीत्यादिप्रायश्चित्तविधावेकस्या एव ब्रह्महत्याया नाश्यत्वोक्तेर्नानेकनाशोपपत्तिरिति वाच्यम्, ग्रहैकत्ववदेकत्वस्याविधेयविशेषणत्वेनाविवक्षितत्वात् । यत्तु देवलः—
यत्स्यादनभिसन्धाय पापं कर्म सकृत्कृतम् ।
तस्येयं निष्कृतिः प्रोक्ता धर्मविद्भिर्मनीषिभिः ॥
विधेः प्राथमिकादस्माद् द्वितीये द्विगुणं भवेत् ।
तृतीये त्रिगुणं प्रोक्तं चतुर्थे नास्ति निष्कृतिरिति ॥
तच्च महापातकमात्रविषयम्; द्वितीय इत्यादि च नावृत्तिविधायकम्, किन्त्वावृत्तावधिकदोषप्रतिपादनमुखेन निन्दार्थवादः। स च समानजातीयमहापातकादिविषय एव । विजातीयेषु तु द्वितीयादिशब्दस्वरसान्नैव प्रवर्तते इति भवदेवः । केचित्तु तन्त्रन्यायात्प्राक् प्रतिनिमित्तं नैमित्तिकावृत्त्यनुवादेन चतुर्थे नास्ति निष्कृतिरित्येव विधीयत इत्याहुः । ब्रह्मवधे तु विशेष उक्तो भविष्ये—
ब्रह्महा द्वादशाब्दानि कूटं कृत्वा वने वसेत् ।
अत्र वक्तव्यमस्त्येव तन्निबोध सुरोत्तम ॥
ब्राह्मणस्य ब्राह्मणयोर्ब्राह्मणानाञ्च पुत्रक ।
प्रायश्चित्तस्य चैकत्वं जातिमाश्रित्य लक्ष्यते ॥
क्षामवत्यादिना यद्वत्कर्मणा पृतनायतै ।
दैवयोगादकरणाज्जातदोषकदम्बके ।
होमेनैकेन दोषाणां सर्वेषां क्षयमादिशेत् ।
एकया नामवत्यासौ होमेनैकेन तस्य वै ॥
पुरोडाशादसन्देह इति यज्ञविदो विदुः ।
ब्रह्महाऽप्येकमेवेह प्रायश्चित्तं समाचरेत् ॥
एवमेव न सन्देहः किन्त्वत्र गदतः शृणु ।
एककालं यदा हन्याद्युगपत्सुरसत्तम ॥
निमित्तमेकमाश्रित्य इति नैकेन वा मृतौ ।
ब्राह्मणं ब्राह्मणौ वीर ब्राह्मणान्सुबहूनपि ॥
निहत्य युगपद्वीर एकं प्राणान्तिकं चरेत् ।
किन्त्वत्र सुरशार्दूल विशेषं गदतः शृणु ॥
अकामतो यदा हन्याद् ब्राह्मणान्मानवो गुह ।
चरेत्तदा वने घोरे यावत्प्राणपरिक्षयम् ॥
कामतश्च यदा हन्याद् ब्राह्मणान्सुरसत्तम ।
तदात्मानं दहेदग्नौ विधिना येन तच्छृणु ॥
भूत्वा निष्कालको वीर वेष्टयित्वा च वाससा ।
घृताक्तेन महाबाहो दत्वा सर्वस्वमेव हि ॥
कृत्वा पादौ करीषाग्नौ दहेदात्मानमादरात् ।
आ उत्तमाङ्गाद्विधिवदत्र सत्सुरसत्तम ॥
अयमर्थः—अत्राद्येन सकृदमत्यैकब्राह्मणवधे द्वादशाब्दंविधाय ततो ब्राह्मणस्य ब्राह्मणयोरित्यादिना ब्रह्माऽप्येकमेवेह प्रायश्चित्तं समाचरेदित्यन्तेन क्षामवतीदृष्टान्तेनामत्या क्रमशोऽनेकब्राह्मणवधे द्वादशाब्दप्रायश्चित्तस्य तन्त्रतोक्ता । तत एककालमित्यादिनोक्तं प्राणान्तिकं कामकारविषयमित्यपरार्के । ततोऽकामतो युगपदनेकब्राह्मणवधे यावत्प्राणक्षयं प्राकृतं ब्रह्मचर्यंतृतीयं प्रायश्चित्तम् । ततः कामतः क्रमेण बहुब्राह्मणवधे कारीपाग्निमरणं चतुर्थं प्रायश्चित्तमिति । अत्र बहूनित्यनुवादः । यत्तु कश्चित् ब्राह्मणानिति बहुवचनेनैव कपिञ्जलाधिकरणन्यायेन बहुत्वेसिद्धे चतुरादिब्राह्मणवधोक्त्यर्थमित्याह, तत्तुच्छम्; कपिञ्जलाधिकरणन्यायस्योपादेय एव प्रवृत्तेः । तस्मादनेकब्राह्मणवधे सिद्धा द्वादशाब्दस्य तन्त्रतेति । अत एव श्रीरामेण रावणकुम्भकर्णाद्यनेकवधनिमित्तं तन्त्रेणैव श्रीरामेश्वरप्रतिष्ठा कृता । तथा युधिष्ठिरेणापि द्रोणकृपाद्यनेकवधनिमित्तं तन्त्रेणैवाश्वमेधः कृत इति । तदेतद–
युक्तम् । तथाहि—सत्यं यद्यपि तत्रन्यायः प्रवर्तते, तथापि विधायिना देवलवचनेन बाध्यते । यत्तावदर्थवाद इत्युक्तं भवदेवेन, तत्रेदं वाच्यं कस्यायं विधेरर्थवाद इति ? न तावद्दूरस्थानां सम्भवति । नापि यत्स्यादनभिसन्धायेत्यस्य; पूर्वपतितस्योत्तरोत्तरं हि दोषाधिक्यं द्विगुणादिविधानेन सम्बध्यते, न तु द्वादशाब्दस्य तु सकृदनुष्ठानविधिना। किञ्च नात्र दोषाधिक्यं श्रूयते । किन्तु साक्षात् द्विगुणादिविधिरेव। द्वैगुण्यादिकं हि न केनापि प्राप्तम्, यदनूद्येत । अतोऽधस्तात्समिधं धारयन्ननुद्रवेदुपरि हि देवेभ्योधारयतीतिवद्विधिरवश्यं कल्पनीय एव । यद्यपि हि शब्दवर्तमानापदेशाद्यपि स्यात्; तत्त्विह नास्त्येव,प्रत्युत्तानुपहतशक्तिको विधिरेव श्रूयते द्वितीये द्विगुणं भवेदिति । तत्समभिव्याहाराच्चोत्तरत्रापि विधिरुन्नीयते तेनानुवादः । वस्तुतस्तु क्षामवत्यादिवन्नेह तन्त्रन्यायप्रसक्तिः । तत्र हि कार्यस्यैवावैलक्षण्याद्युक्तातन्त्रता, इह चतुर्थे नास्ति निष्कृतिरित्यादिलिङ्गदर्शनाद्यो भूय आरभते, तस्मिन्फलविशेष इत्यापस्तम्बवाक्याच्च प्रसक्त्यतिशयेन हन्यमानब्राह्मणसंख्याधिक्ये दोषगौरवमवगम्यते । ततश्च विलक्षणयोर्गुरुलघुदोषयोः क्षयो न तन्त्रेण सम्भवति । अतः कार्यवैलक्षण्यादपि न तन्त्रता । अत्र ‘यत्स्यादनभिसन्धाये’ति देवलवचनं सकृत्कृत एव द्वादशाब्दं नियमयत् द्विरावृत्त्यादौ तन्त्रन्यायप्राप्तं द्वादशाब्दैक्यं व्यावर्तयति । अवश्यं वायं नियमो विधेयः । अन्यथा चतुर्थावृत्तिपर्युदासेन निमित्तावृत्तावावृत्तप्रायश्चित्तविधौ चतुर्थाद्यावृत्तौ द्वादशाब्दप्रसक्तिः केन वार्येत ? नहिपर्युदासविषये कार्यस्य प्रवृत्तिनिवृत्त्योरन्यतरत्प्रतीयते । अतश्चतुर्थाद्यावत्तौ प्रायश्चित्तापत्तिविधेः प्रवृत्तेः ब्रह्महाद्वादशाब्दानीति प्रवर्तेत । तन्नि-
वृत्त्यर्थं सकृत्कृत एव द्वादशाब्दमिति नियमोऽवश्याभ्युपेय इति किञ्च देवलीयद्वादशाब्दादिविधावस्य नियामकत्वाभावे वैयर्थ्यमेव प्रसज्येतेति नियमरूपगुणविधिरेवायमिति । यत्तु शूलपाणिः—विधित्वमभ्युपेत्य यत्र यत्र द्वैगुण्यादि विहितम् ‘गोघ्न.. वहितः… कल्पश्चान्द्रायणमथापि वा । अभ्यासे तु ततो भूयस्ततः शुद्धिमवाप्नुयात् । सवर्णायाम् ? इत्याद्यापस्तम्बवाक्येषु प्रायश्चित्तद्वैगुण्यादिविधेस्तद्विषयमेवेदं ‘विधेः प्राथमिकादस्मादि’ति, तदपि न, एवं हि वदताऽर्थादुपसंहार एवोक्तः । स चात्र न सम्भवति। मनुयाज्ञवल्क्यादिसर्वस्मृतिवदेव हि देवलस्मृतावपि ब्रह्मवधादिनिमित्तक्रमेण द्वादशाब्दानि प्रथमं विहितानि । ततः सर्वाणि प्रायश्चित्तानि । तत्रेदं द्वादशाब्दविध्यन्तरं वाम्नातं स्यात्सर्वानन्तरं वा, उभयथापि प्राथमिकादित्यनेन प्रथमविहितं द्वादशाब्दमेव परामृश्यते । विधीयत इति व्युत्पत्त्या विधिशब्देनापि तदेव परामृश्यते । तस्यैव च द्वैगुण्यादि तदुपस्थितस्य द्वैगुण्यादौ विधीयते । अतश्चेदं द्वादशाब्दमात्रविषयमेवेति न सामान्यरूपम् । अतो विशेषान्तरविषये र्द्वैगुण्यादिविधिभिर्नोपसंहारमहति । तदुक्तमाचार्यैः—
सामान्यविधिरस्पष्टः संह्रीयेत विशेषतः ।
स्पष्टस्य तु विधेर्नान्यैरुपसंहारसम्भवः ॥ इति ॥
यत्तु प्रतिनिमित्तं नैमित्तिकशास्त्रावृत्त्यनुवादेन चतुर्थे निष्कृत्यभाव एव विधेय इति तदपि न; उत्तरकालप्रवृत्ततन्त्रन्यायबाधितस्यानुवादासम्भवात् । नच वाक्यभेदप्रसङ्गाद् बाधितस्याप्यनुवादो युक्तः । यथा रागप्राप्तस्य ‘मातुलस्य सुतामूढवा मातृगोत्रां तथैव च, इति निषेधबाधितस्यापि मातुलकन्यापरिणयनस्य ‘मातुलस्येव ।
योषेति’ मन्त्रेऽनुवाद इति वाच्यम्; “यजतिषु ये यजामहं करोति नानुयाजेष्विति"च्चतुर्थावृत्तिपर्युदासेन निमित्तावृत्तौ प्रायश्चित्तावृत्तिविधानादवाक्यभेदोपपत्तेरिति । यच्च भविष्यपुराणवचनात् क्रमेणाकामकृतब्रह्मवधे द्वादशाब्दतन्त्रतेति, तदपि न;ब्रह्महाऽप्येकमेवेह प्रायश्चित्तं समाचारेदित्यस्यैव तदग्रिमप्राणान्तिक विध्यर्थवादत्वसम्भवात् । क्षामयत्यादिवदकामतोऽनेकब्राह्मणवधे देवलादिवाक्यबाधितमध्येकमेव प्रायश्चित्तंस्यादपि कथञ्चित् । कामतस्तु मरणान्तिकमेवेत्यौचित्येन स्तुतिः सम्भवत्येवेति । किञ्च ब्राह्मणस्य ब्राह्मणयोर्ब्राह्मणानां च पुत्रकेत्युपक्रमादयमुपसंहारे एकप्रायश्चित्तविधिरेकांशेऽनुवादोऽनेकांशे विधिरिति विध्यनुवाददोषप्रसङ्ग इत्यर्थवादतैव न्याय्या ।विधित्वमभ्युपेत्यापि ब्रूमः—ब्राह्मणस्य ब्राह्मणयोरित्यनेनैव ब्राह्मणत्वजातिलाभे पुनर्जातिमाश्रित्येति जातिमात्रलाभार्थम् । ततश्चाज्ञानतो जातिमात्रहालिकाद्यनेकब्राह्मणवधं भवतु नामानेन तन्त्रविधिः । एतदेव पूर्वयोर्वर्णयोर्वेदाध्यापिनं हत्वेत्यापस्तम्बवचनात् ।वेदाध्यापिविषयनियतस्य द्वादशाब्दस्यावृत्तिर्देवलवाक्येन विधातुं शक्यैवेति । तस्मात्सजातीयविजातीयेषु अकामकृतेष्वनेकमहापातकेषु युक्तैव द्वादशाब्दस्यावृत्तिरिति । किञ्च चतुर्थे नास्ति निष्कृतिरित्यादिपूर्वप्रदर्शितानेकलिङ्गदर्शनान्निमित्तावृत्तौ दोषगौरवावगमाद्यत्राहृत्य द्वैगुण्यादि नोक्तमुपपातकस्तेयादौ, तत्रापि यो भूय आरभते इति वचनादेनसि गुरुणि गुरु लघुनि लघ्विति वचनाच्च शतकृत्व आवृत्यादौ गुरुप्रायश्चित्तकरूप एवानुष्ठेयः, यत्र तु लघुगुरुकल्पौ न स्तः, तत्रापि पादपादन्यूनादिद्वितीयाद्यावृत्तौकल्प्यम् । अत एव सवर्णायामनन्यपूर्वायां पादः पततीत्येकस्यामेव गमनाभ्या-
से पादन्यूनं कल्प्यमिति मिताक्षरायामुक्तम् । यत्तु श्रीरामयुधिष्ठिरयो गमेश्वरलिङ्गप्रतिष्ठादेस्तन्त्रत्वदर्शनमुक्तम् तदाततायिवधविषयमिति ११ ॥ इत्येवं विवेचितम् ।
अत्र प्रायश्चित्तानां नैमित्तिकत्वं प्रारब्धपापनाशकत्वादिकं च यद्यपि न साक्षात् प्रकृतोपयुक्तम् । तथापि स्वरूपज्ञानार्थं तत्सङ्गृहीतमिति द्रष्टव्यम् । प्रकृतोपयुक्तन्त्वत्र—अथ कामाकामकृतप्रायश्चित्तव्यवस्थैव । परम्परया तदुपयोगो भावीति । अत्र हि प्रथमं व्यवहार्यत्वपक्षं सर्वनिबन्धकारसम्मतं मरणान्तिकप्रायश्चित्तरहितपापविषये शूलपाणिमतनिरासपूर्वकमुपपाद्य शारीरमीमांसकमतानुसारेणाव्यवहार्यत्वपक्षःसविस्तरमुपपादितः ।
[ उक्तार्थे भाष्याद्युपष्टमः ]—
अत्र च सर्वेषां भाष्यकारणामेकमत्यमेव वर्तते । अत्र शङ्करभाष्यं यथा—
॥ बहिस्तूभयथापि स्मृतेराचाराच्च ॥
यद्युर्ध्वरेतसां स्वाश्रमेभ्यः प्रच्यवनं महापातकम्, यदि वोपपातकम्, उभयथापि शिष्टैस्ते बहिष्कर्तव्याः ।
आरूढो नैष्ठिकं कर्म यस्तु प्रच्यवते पुनः ।
प्रायश्चित्तं न पश्यामि येन शुद्ध्येत्सआत्महा । इति ।
आरूढपतितं विप्रं मण्डलाच्च विनिःसृतम् ।
उद्बद्धं कृमिदष्टञ्च स्पृष्ट्वा चान्द्रायणं चरेत् ॥
इति चैवमादिनिन्दातिशयस्मृतिभ्यः ।शिष्टाचाराच्च । नहि यज्ञाध्ययनविवाहादीनि तैः सहाचरन्ति शिष्टाः—इति ॥
अत्रैव भामती यथा—यदि नैष्ठिकादीनामस्ति प्रायश्चित्तम्, तत्किमेतैः कृतनिर्णेजनैः संव्यवहर्तव्यमुत नेति ? तत्र दोषकृतत्वा-
दसंव्यवहारस्य प्रायश्चित्तेन तन्निबर्हणादनिबर्हणे वा तत्करणवैयर्थ्यात्संव्यवहार्या एवेति प्राप्ते उच्यते—
बहिस्तूभयथापि स्मृतेराचाराच्च
निषिद्धकर्मानुष्ठानजन्यमेनो लोकद्वयेऽप्यशुद्धिमापादयति द्वैधम् । कस्यचिदेनसो लोकद्वयेऽप्यशुद्धिरपनीयते प्रायश्चित्तैरेनोनिबर्हणं कुर्वाणैः । कस्यचित्तु परलोकाशुद्धिमात्रमपनीयते प्रायश्चित्तैरेनोनिबर्हणं कुर्वाणैः । इहलोकाशुद्धिस्त्वेनसापादिता न शक्यापनेतुम् ।यथा स्त्रीबालादिघातिनाम् ।यथाहुः—विशुद्धानपि धर्मतो न सम्पिबेदिति । तथाच प्रायश्चित्तैरपत्येनो यदज्ञाननकृतम् भवेत् ॥ कामतः कृतमपि । बालघ्नादिस्तु कृतनिर्णेजनोऽपि वचनादव्यवहार्य इह लोके जायते—इति ॥ वचनञ्च बालघ्नांश्चेत्यादि । तस्मात्सर्वमवदातम्— इति ॥
तथा श्रीभाष्येऽपि ‘तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमात्तद्रूपाभावेभ्यः, इति सूत्रेण नैष्ठिकवैखानसपरिव्राजकाश्रमेभ्यः प्रच्युतानामपि ब्रह्मविद्यायामधिकारोऽस्ति न वेति चिन्तायां विधुरादिवन्नैतेषामनाश्रमित्वेनावस्थानं न सम्भवीति जैमिनिमतेनोपपाद्य कदाचिद् भ्रष्टेषु प्रायश्चित्तेन पुनरपि ब्रह्मविद्याधिकारसम्भव इति शङ्कायां ‘आधिकारिकमपि पतनानुमानात्तदयोगात्, इति सूत्रेण प्रायश्चित्ताभावप्रदर्शनेन प्रायश्चित्तस्येतरब्रह्मचारिविषयत्वमुपपाद्य ‘उपपूर्वमपीत्येके भावमशनवत्तदुक्तम्’ इति सूत्रेण तेषामाश्रमप्रच्युतेरुपपातकत्वेन मध्वशनादिवत् प्रायश्चित्तमस्तीति मतान्तरेणोपपाद्योक्तम्—
बहिस्तूभयथापि स्मृतेराचाराच्च—इति ।
तु शब्दो मतान्तरव्यावृत्त्यर्थः । उपपातकत्वे महापात-
कत्वेऽप्येते बहिर्भूता एव ब्रह्मविद्याधिकारिभ्यः ।ब्रह्मविद्यायामनधिकृता इत्यर्थः । कुतः, स्मृतेः । पूर्वोक्तात् पतनस्मरणात् । यद्यपि कलुषनिर्हरणाय कैश्चिद्वचनैः प्रायश्चित्ताधिकारोविद्यते, तथापि कर्माधिकारानुगुणशुद्धिहेतुप्रायश्चित्तं न सम्भवति । ‘प्रायश्चित्तं न पश्यामि येन शुद्ध्येत्स आत्महा’ इति स्मृतेरित्यर्थः । आचाराच्च । विशिष्टा हि नैष्ठिकादीन् भ्रष्टान् कृतप्रायश्चित्तानपि वर्जयन्ति । तेभ्यो ब्रह्मविद्यादिकं नोपदिशन्ति । अतस्तेषां नास्ति ब्रह्मविद्यायामधिकारः, इति । व्यक्तं चैतच्छुतप्रकाशिकायामपि तथा श्रीकण्ठभाष्यं शिवार्कमणिदीपिका च यथा—
उपपातकत्वे महापातकत्वेऽपि कर्माधिकारादिवहिष्कृता एते, “प्रायश्चित्तं न पश्यामि येन शुद्ध्येत्सआत्महा” इति स्मृतेः, शिष्टबहिष्काराच्च । अतः सर्वथैवारुढपतितानां न विद्याधिकारः—इति ।
पापानां द्वे शक्ती, इह कर्माधिकारशिष्टविरोधिनी, परत्र नरकापादिनी च । नैष्ठिकानां प्रायश्चित्तसद्भावेऽपि तेन परत्र नरकापादिन्येव पापशक्तिर्हीयते, न त्विह प्रत्त्यापत्त्यापादिनी ।“नास्यास्मिंल्लोके प्रत्यापत्तिर्विद्यते, कल्मषं तु निर्हण्यते” “प्रायश्चित्तैरपैत्येनो यदज्ञानकृतं भवेत् । कामतोऽव्यवहार्यस्तु वचनादिह जायतें” इत्यादिस्मरणात् । अतः प्रायश्चित्तं न पश्यामीत्यादिस्मरणमप्यैहिकप्रत्त्यापत्त्यापादकप्रायश्चित्ताभिप्रायमिति भावः ।
तथा प्रायश्चित्तमयूखः—
[उक्तार्थेप्रायश्चित्तमयूखः]—
कामाकामकृतप्रायश्चित्तब्यवस्था प्रारभ्यते । बृहस्पतिः—कामाकामकृतन्त्वेव पातकं द्विविधं स्मृतम् । पुरुषापेक्षया चैव निष्कृतिर्द्विविधा स्मृता । इति ।
यत्तुयाज्ञवल्क्यवाक्ये—
प्रायश्चित्तैरपैत्येनो यदज्ञानकृतं भवेत्
कामतो व्यवहार्यस्तु वचनादिह जायते ॥
इत्यज्ञानपदम्, तदप्यकामपरम् । अत एव तत्प्रतियोगिरूपं कामतःपदं सङ्गच्छते । एवं वाक्यान्तरीयाणि बुद्धिज्ञानाभिसन्धिपदानि कामपराणि । अबुद्ध्यज्ञानानभिसन्धिपदानि वाऽकामपराणि । तेन बलात्कारिते पापे सत्यपि ज्ञाने न द्विगुणं प्रायश्चित्तम् ; तत्र प्रयोजककामाभावात् । अत्राकामकृतपापस्य व्यवहारनिरोधिका नरकजनिका चेति शक्तिद्वयमपि नश्यति प्रायश्चित्तेन । कामकृतस्य तु व्यवहारनिरोधिकैव नश्यति, न तु नरकानुकूलेति विज्ञानेश्वरादयो निबन्धकृतः । एतच्च यैश्चाहत्य व्यवहारो निषिद्धस्तत्परम् । तथा चाह गौतमः—ब्रह्महसुरापगुरुतल्पगमातृपितृयोनिसम्बन्धागस्तेननास्तिकनिन्दितकर्माभ्यासिपतितात्याग्यपतितत्यागिनः पतिताः पातकसंयोजकाश्चेति । एतेष्वेव व्यवहारो निषिद्धो नान्यत्र ।
एनस्विभिरनिर्णिक्तैर्नार्थं किञ्चित्समाचरेत् ॥
इति मानवीयमेनस्विपदमपि ब्रह्महादिपरमेव । इतरपापेषु तु नरकानुकूलतामयते । सर्वरहस्यपापेषु ब्रह्महत्यादिप्रकाशेषु मरणान्तिकप्रायश्यित्ते चैवम्; व्यवहारनिरोधनाभावेन तदनुकूलशक्त्यभावात् । श्रीशङ्कराचार्यास्तु—कामतो व्यवहार्यस्त्वित्यकारप्रश्लेषेणेदं याज्ञवल्क्यवचो ‘बहिस्तूभयथापि स्मृतेराचाराच्च, इति सूत्रे कृतप्रायश्चित्तनैष्ठिकब्रह्मचार्यादिपरम् ।
आरूढो नैष्ठिके धर्मे यस्तु प्रच्यवते पुनः ।
प्रायश्चित्तं न पश्यामि येन शुद्ध्येत्स आत्महा ॥ इति ।
आरूढपतितं विप्रं मण्डलाच्च विनिःसृतम् ।
उद्बद्धकृमिदष्टं च स्पृष्ट्वा चान्द्रायणं चरेत् ॥
इति च स्मृतेरिति । येन शुद्ध्येव्द्यवहारयोग्यो भवेत्तत्प्रायश्चित्तं न पश्यामीति । कृतप्रायश्चित्तमप्यारूढपतितादिकं स्पृष्ट्वा चान्द्रायणं कुर्यादिति वाक्यद्वयार्थः—इत्याहुः । तत्सूत्रे वाचस्पतिमिश्रास्तु—बालघ्नादिपरमप्याहुः—बालघ्नांश्च कृतघ्नांश्व विशुद्धानपि धर्मतः । शरणागतहन्तृंश्चस्त्रीहन्तृंश्चन सम्पिबेदिति स्मृतेः । न सम्पिबेन्न व्यवहरेत् । अत एव याज्ञवल्क्यः—
शरणागतबालस्त्रीहिंसकान् संविशेन्न तु ।
चीर्णव्रतानपि सतः कृतघ्नसहितानिमान् ॥
तेनाचार्यमतेऽवकीर्णिनैष्ठिकादिभिर्बालघ्नादिभिश्च कृते प्रायश्चित्ते नरकानुकूला शक्तिर्नाशयते, व्यवहारनिरोधिका त्वस्त्येव ।इतरपापेषु कामकृतेष्वपि शक्तिद्वयमपि नाश्यते द्विगुणप्रायश्चित्तेन । तदाहाङ्गिराः—
विहितं यदकामानां कामात्तद् द्विगुणं भवेत् ॥
महापापे तु कामकृते मरणमेव । तथा च स एव ।
यः कामतो महापापं नरः कुर्यात्कथञ्चन ।
न तस्य निष्कृतिर्दृष्टा भृग्वग्निपतनादृते ॥
तथा—प्राणान्तिकन्तु यत्प्रोक्तं प्रायश्चित्तं मनीषिभिः ।
तत्कामकारविषयं विज्ञेयं नात्र संशयः ॥
व्यासः—कामतो ब्राह्मणवधे निष्कृतिर्नास्ति जीविनः ।
यस्तु सर्वं परित्यज्य यावज्जीवं चरेद्व्रतम् ।
स विशुद्धश्चरेल्लोकान्विप्रो गच्छेन्न संशयः॥
(अथ तन्त्रप्रसङ्गौ )
तत्रानेकनिमित्तेषु प्राजापत्यादीनां सजातीयानां प्रायश्चित्तानां
देशकालकर्त्रैक्ये तन्त्रम् ।तत्र चैकस्मिन्निमित्ते प्राजापत्यद्वयमेकत्रैकमिति विशेषणग्रहणे द्वयमेव कार्यम् । तेनैवैकप्राजापत्यकार्यमपि सिद्ध्यतीति प्रसङ्गः । यथा गौतमः—द्वे परदारे त्रीणि श्रोत्रियस्येति सामान्यतः परदारमात्रगमने श्रोत्रियपत्नीगमने च श्रोत्रियपत्नीगमननिमित्तकर्त्रा त्रैवार्षिकमेव केवलं कार्यम् । तेनैव द्वैवार्षिकसिद्धिः । शङ्खलिखितौ—गुप्तायां वेश्यायामवकीर्णः संवत्सरं त्रिषवणमनुतिष्ठेत् क्षत्रियायां द्वेवर्षे ब्राह्मण्यां त्रीणि वर्षाणि । अत्र तिसृष्वप्यवकोर्णिषुब्राह्मणीनिमित्तकर्त्रैकवार्षिकमेव कार्यमिति । निमित्तानां व्याप्यव्यापकभावेऽपि व्याप्यनिमित्तेन व्यापकनिमित्तस्य प्रसङ्गतः सिद्धिः । यथा—
अवगूर्य चरेत्कृच्छ्रमतिकृच्छ्रं निपातने ।
कृच्छ्रातिकृच्छ्रेऽसृक्पाते कृच्छ्रोऽभ्यन्तरशोणिते ॥ इति ॥
अत्रैव मिताक्षरापि यथा—
अत्रेदं चिन्तनीयम्—किं तत्र द्वित्रब्राह्मणवधे प्रायश्चित्तस्य तन्त्रत्वमुतावृत्तिरिति । तत्र केचिन्मन्यन्ते—ब्रह्महा द्वादशाब्दानीत्यत्र ब्रह्मशब्दस्यैकस्मिन् द्वयोर्बहुषु साधारणत्वादेकस्मिन्ब्राह्मणवधे यत्प्रायश्चित्तं तदेव द्वितीये तृतीयेऽपि । तत्रैकब्राह्मणवधनिमित्तैकप्रायश्चित्तानुष्ठाने सतीदं कृतमिदं नेति यत्प्रायश्चित्तं न शक्यते वक्तुम् । देशकालकर्तृणां प्रयोगानुबन्धभूतानामभेदेनागृह्यमाणविशेषत्वात्तन्त्रानुष्ठानेनैव पापक्षयलक्षणकार्यनिष्पत्तिर्युक्ता । यथा तन्त्रानुष्ठितैः प्रयाजादिभिराग्नेयादिषु तन्त्रेणैवानेकोपकारलक्षणकार्याणां निष्पत्तिः । न चैवं वाच्यम्; ‘द्वित्रब्राह्मणवधे पापस्य गुरुत्वादेनसि गुरुणि गुरूणि लघुनि लघूनोति’ गौतमचनोक्तमेव प्रायश्चित्तानुष्ठानं युक्तम्; विलक्षणकार्ययो-
स्तन्त्रेण निष्पत्त्यनुपपत्तेरिति । यतो नेदं वचनावृत्तिविधायकम्, किंतूपदिष्टानां गुरुलघुकल्पानां व्यवस्थाप्रतिपादनपरम् । न च द्वितीयब्राह्मणवधे पापस्य गुरुत्वम् ;प्रमाणाभावात् । यच्च मनुदेवलाभ्यामुक्तम् ‘विधेः प्राथमिकादस्मात् द्वितीये द्विगुणं भवेत् । तृतीये त्रिगुणां प्रोक्तं चतुर्थे नास्ति निष्कृतिरिति’, तदपि “प्रतिनिमित्तं नैमित्तिकमावर्तते” इति न्यायेन द्वित्रब्राह्मणवधगोचरनैमित्तिकशास्त्रावृत्त्यनुवादेन चतुर्थे तदभावविधिपरम्, न पुनर्द्वितीयब्राह्मणवधे प्रायश्चित्तानुष्ठानद्वैगुण्यविधिपरमिति; वाक्यभेदप्रसङ्गात् । तस्मात् द्वित्रब्राह्मणवधेऽपि सकृदेव द्वादशवार्षिकाद्यनुष्ठानं युक्तम् ।यथा ‘अग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेदि’ त्यादिगृहदाहादिनिमित्तेषु चोदितानां क्षामवत्यादीनां युगपदनेकेष्वपि गृहदाहादिनिमित्तेषु सकृदेवानुष्ठानम्, अत्रोच्यते । न हि वचनविरोधे न्यायः प्रभवति । वचनं च विधेःप्राथमिकादित्यादिकं द्वित्रब्राह्मणवधे प्रायश्चित्तानुष्ठानावृत्तिविधिपरम्। एवं सति न्यायलभ्यतन्त्रानुष्ठानबाधेनावृत्तिविधाविदं व वनं प्रवृत्तिविशेषकरं स्यात् । इतरथा शास्त्रतः प्राप्त्यनुवादकत्वेनानर्थकं स्यात् ।
न च वाक्यभेदः, चतुर्थादिब्रह्मवधपर्युदासेनेतरत्रावृत्तप्रायश्चित्तविधानेनैकार्थत्वात् । किंच ‘चतुर्थे नास्ति निष्कृतिरिति’ लिङ्गदर्शनाद्धन्यमानब्राह्मणसंख्योत्कर्णे दोषगौरवं गम्यते; तथा देवलादिवचनाच्च । “यत्स्यादनभिसंधाय पापं कर्मसकृत्कृतम् । तस्येदं निष्कृतिर्दृष्टा धर्मविद्भिर्मनीषिभिरिति” । न च विलक्षणयोर्गुरुलघुदोषयोः क्षयस्तन्त्रेण निष्पद्यते । अत एवंविधेषु दोषगुरुत्वेन कार्यवैलक्षण्यादपि प्रतिनिमित्तं नैमित्तिकस्यावृत्ति–
र्युक्ता। क्षामवत्यादिषु पुनः कार्यस्यावैलक्षण्याद्युक्तस्तन्त्रभावइत्यलं प्रपञ्चेन । यच्चेदं’चतुर्थे नास्ति निष्कृतिरिति’ तदपि महापातकविषयम्; पापस्यातिगुरुत्वेन प्रायश्चित्ताभावप्रतिपादनपरत्वात् । अतः शूद्रान्नसेवनादौबहुशोऽप्यभ्यस्ते तदनुगुणप्रायश्चित्तावृत्तिः कल्पनीया, न पुनः प्रायश्चित्ताभावः । अत एवोक्तंमनुना (अ० ११ श्लो० १४० ) । “पूर्णे चानस्यनस्थ्नांतु शूद्रहत्याव्रतं चरेदिति । "
[ कृतप्रायश्चित्तस्यव्यवहार्याव्यवहार्यत्वविचारः ]—
सत्यपि चैवं व्यवहार्यत्वपक्ष एव समुचित इत्यप्यत्र निरूपितम् । अत्र व्यवहारः सहभोजनादिरूपोऽपि सम्मत इत्यपि विवेचितमिति कृतप्रायश्चित्तानां व्यवहार्यत्वपक्षमेव वीरमित्रोदयप्रायश्चिकाशः स्वीकरोति । एवमपि हि चतुर्थे नास्ति निष्कृितिरित्येतेषामपि सम्मतमेव । अत्र व्यवहार्यतापक्षमनुजानन्तोऽपीमे यत्राहत्य व्यवहारनिषेधस्तत्राव्यवहार्यत्वमेव मन्यन्त इति कलौ संसर्गः शोधितैरपीति कृतिप्रायश्चित्तसंसर्गस्यापि निषेधात् अव्यवहार्यत्वपक्ष एव पर्यवसानमिति न विरोधः । चतुर्थे नास्ति निष्कृतिरित्यस्य चतुर्गुणप्रायश्चित्तावसर इत्येव तात्पर्यम्, तत्र मयूखकारैश्चतुर्थेऽपि प्रायश्चित्तं वर्तत इति बोधितं चेदपि चतुर्थे विंशत्युत्तरशतवार्षिकप्रायश्चित्तस्यैव योग्यतया न चतुर्थवारे द्विकामतोऽभ्यासे वा प्रायश्चित्तमित्यादिकन्तु मदनपारिजातेकामकृतेऽपि प्रायश्चित्तनिरूपणपूर्वकं यद्विवेचितम, तस्यापि संग्रहणमत्र समुचितं पश्यामः । तद्यथा—
[उक्तार्थे मदनपारिजातोपष्टम्भः]—
अथ कामाकामकृतपापेषु प्रायश्चित्तकर्तव्यताविकल्पः । तत्र याज्ञवल्क्यः—
प्रायश्चित्तैरपैत्यनोयदज्ञानकृतं भवेत् ।
कामतोऽव्यवहार्यस्तु वचनादिह जायते ॥
अज्ञानकृतमेनौ ब्रह्महत्यादिपापं प्रायश्चित्तैर्वक्ष्यमाणलक्षणैरपगच्छति । कामतो ज्ञानतः कृतं महापातकादि प्रायश्चित्तैर्नापैति, अपि तु प्रायश्चित्तं व्यतिरिक्तविषयम् । मरणान्तिकप्रायश्चित्ते कृते इहलोके प्रयोजनाभावात्पारलौकिकमेवप्रयोजनं कल्पनीयम् । एतच्च पापनोदनमेवेति मरणान्तिकैः पापमपगच्छतीति सिद्धम् । छागलेयोऽपि—
प्रायश्चित्तमकामानां कामावाप्तौ न विद्यते ।
उपपातक एवं स्यात्तथा चात्मोपघातने ॥
अस्यार्थः—कामावाप्सौ ज्ञानपूर्वकपापे नरकोपभोगनिवारकं प्रायश्चित्तं न विद्यते । उपपातकात्महननयोस्तु ज्ञानपूर्वकत्वेऽपि स्याद्विद्यत एवेति । आत्महननार्थमभक्षणे कृते यदि जीवति, तदा प्रायश्चित्तं विद्यते । यदा मृतस्तदा तद्धितेच्छुना कर्तव्यमित्युभयथापि प्रायश्चित्तं विद्यत इति न विरोधः । मनुः—
अकामतः कृते पापे प्रायश्चित्तं विधीयते ।
कामकारकृतेऽप्याहुरेके श्रुतिनिदर्शनात् ॥
अकामतः कृतं पापं वेदाभ्यासेन शुद्ध्यति ।
कामतस्तु कृते मोहात् प्रायश्चित्तैः पृथक पृथक् ॥
इन्द्रो यतीन् शालावृकेभ्यः प्रायच्छत्तमश्लीला वागभ्यवदत् । स प्रजापतिमुपाधावत् । तस्यायमुपहव्याख्यं प्रायच्छदित्यादि श्रुतिनिदर्शनम् । तस्मात्कामकारकृतेऽपि प्रायश्चित्तमस्तीत्यर्थः । श्रुतेस्त्वयं तात्पर्यार्थः—शालावृकेभ्यश्च विशेषेभ्यो यतीन् बुद्धिपूर्वकं खादयितु’ प्रदत्तवत इन्द्राय प्रजापतिरुपहव्याख्यं कर्मप्रायश्चि–
त्तत्वेन दत्तवान् । तस्मात्कामकारकृतेऽपि प्रायश्चित्तमस्तीति । हारीतः—मनसा कल्पयति वाचा वदति कर्मणा करोतीति कामकारकृतमग्न्यनशनवदभिघातकम्। तस्मादकामकृते प्रायश्चित्तं कामकारकृतेऽप्येक इति । देवलः—
यत्स्यादनभिसन्धाय पापं कर्म सकृत्कृतम् ।
तस्येयं निष्कृतिः प्रोक्ता धर्मविद्भिर्मनीषिभिः ॥
विधेः प्राथमिकात्तस्माद्वितीये द्विगुणं भवेत् ।
तृतीये त्रिगुणं कृच्छ्रं चतुर्थे नास्ति निष्कृतिः ॥
अभिसन्धिकृते पापे सकृद्धा नेह निष्कृतिः ।
अपरे निष्कृतिं प्रादुरभिसन्धिकृतेऽपि च ॥
अत्र कृञ्छ्रमिति विहितप्रायश्चित्तोपलक्षणम् ।चतुर्थे नास्ति निष्कृतिरित्यस्यायमर्थः—अज्ञानात् द्वितीयवारं कृते पापे द्विगुणं प्रायश्चित्तम् । तथा तृतीयवारे कृते पापे त्रिगुण्यम् । एवं चतुर्थवारे कृते पूर्वगुणन्यायेन चतुर्गुणप्रायश्चित्तेन निष्कृतिर्न, अपित्वधिकेनैवेति केचित् ।अपरे चतुर्थे तु प्रायश्चित्तमेव नास्तीति वदन्ति । वयन्तु ब्रुमः—प्रथममनभिसन्धिकृते महापातके द्वादशवर्षिकम् । द्वितीयवारे कृते द्विवारम् ।तृतीयवारे कृते त्रीणि । चतुर्थे चत्वारि इति द्वादशवार्षिकाणि दश भवन्ति । एतेषामाचरणकाले विंशत्युत्तरशतशरदो भवन्ति । एतावत आयुषोऽभावात् कर्तुमशक्यत्वेन प्रायश्चित्ताभावो न तु स्वरूपत एव प्रायश्चित्ताभाव इति । कासुचिच्छ्रुतिस्मृतिषु बुद्धिपूर्वे कृते प्रायश्चित्तं नास्तीत्यक्तम्, कासुचिद्विद्यत इति । तत्रेयं व्यवस्था ।मरणान्तिकं प्रायश्चित्तं महापातकेषु विद्यत एव । कामात्तु द्विगुणं प्रोक्तमित्यादिवचनबलात् द्वादशवार्षिकादिद्वैगुण्याद्युक्तं प्रायश्चित्तमपि
विद्यते । तेन च प्रायश्चित्तेनेह लोके व्यवहार्यत्वं नित्यकर्मानुष्ठानप्रतिबन्धकपापशक्त्यपनयनञ्च भवति । तथाच कर्मस्वधिकारात् विहितकर्मकरणात् प्रत्यवायाभावेन पापान्तरं नोत्पद्यते । अतः प्रायश्चित्तमस्तीति प्रायश्चित्तास्तित्वप्रतिपादकानां वचनानामभिप्रायः । परलोके या नरकोपभोगहेतुभूता पापशक्तिस्तस्य अनपायः तादृशशक्त्यपनायकप्रायश्चित्ताभावात् प्रायश्चित्तं नास्तीति प्रायश्चित्ताभावप्रतिपादकानामभिप्रायः—इति ॥
निर्णयसिन्धोरप्येवमेवाशयो वर्तते । तद्यथा—
प्रायश्चित्तविधानञ्च विप्राणां मरणान्तिकम् ।
संसर्गदोषः स्तेयान्यमहापातकनिष्कृतिः ॥
संसर्गदोषः ‘तत्संसर्गी च पञ्चमः’ इत्युक्तः । स्तेयञ्च तदन्यानि महापातकानि ब्रह्महत्यासुरापानगुरुवल्यानि त्रीणि । तेषां कामकृतानां मरणान्तिकं प्रायश्चित्तं विप्राणां कलौ नेत्येर्थः । मरणान्तिकं हि जातिवधनिमित्तं द्वाशाब्दं द्विगुणं ब्रह्मवधनिमित्तं च द्विगुणं भवति। तच्चतुर्थे नास्ति निष्कृतिरिति निषिद्धम् । न चात्महत्यानिमित्तस्यैव बाधो न जातिवधनिमित्तस्याभिन्नविषयत्वात्, संसर्गिणास्तु कामतोऽपि व्रतस्यैवोक्तेर्न मरणान्तिकम् । तेन तयोर्मरणान्तिकत्वाभावात् तयोरेव निष्कृतिर्नान्येषां त्रयाणाम् । युगान्तरे तु कलौ निषेधबलात्प्रवृत्तिः । एतद्विप्रपरं न क्षत्रियादेः । तदुक्तम्—विप्राणां मरणान्तिकमिति ।विशेषोऽस्मत्कृते प्रायश्चिरत्ने ज्ञयः । इति । तद्यथा—
मध्यमाङ्गिरा अपि—विहितं यदकामानां कामात्तत् द्विगुणं भवेत्, इति । तेन पापस्य द्वे शक्ती । नरकजनिका संसर्गेण पापजनिका च। तत्राद्यायाः सत्त्वेऽप्यन्त्याया नाशः शास्त्राद्गम्यते । मरणा-
[कामकृते प्रायश्चित्ताधिकारविचारः]—
न्तिके तु द्वयोर्नाशः; मरणोत्तरं व्यवहारायोगात् । तदाहापस्तम्बः—नास्यास्मिंल्लोके प्रत्त्यापत्तिर्विद्यते, कल्मषन्तु निर्हण्यते इति । अथ कामकृते प्रायश्चित्ताधिकारश्चिन्त्यते । तत्रमहापातकभिन्नपापे कामकृतेऽधिकारः सर्वसम्मतः ; तत्र तत्र कामकृते तदुपदेशात् । यत्तू पपातकमभ्यस्तं महापातकतां व्रजेदिति, तद्यावत्यभ्यस्ते तत्समव्रतं तत्र गौणं महापापत्वम् ; अन्यथा पञ्चकस्य संज्ञाकरणवैयर्थ्यापत्तेः, व्रात्यतादौ किं महापातकसाम्यमिति नियामकाभावाच्च । अत एव तत्र तत्संसर्गे वा न पातित्यम् । अत्र वचने मूलाभावाच्च । ननूपपातके पारदार्यादौ चीर्णव्रतस्यापि बहिष्कार उक्तो व्याससूत्रे बहिस्तूभयथापि स्मृतेराचाराच्चेति, उपपापे महापापे वोभयथापि चीर्णव्रता अपि बहिष्कार्या इति शङ्कराचार्याः, प्रायश्चित्तं न पश्यामीति स्मृतेः, शिष्टाचाराच्चेत्यर्थः, नैवम् ; अस्य यत्यादिपरत्वात् । तथाच माधवीये कौशिकः—
नैष्ठिकानां वनस्थानां यतीनां चावकीर्णिनाम् ।
शुद्धानामपि लोकेऽस्मिन् प्रत्त्यापत्तिर्न विद्यते ॥
इति । तेनेतरेषामुपपापादौ कामकृते सिद्धोऽधिकारः । महापापेऽप्यकामकृते विवादाभावः । कामकृते तूच्यते । मनुः—
अकामतः कृते पापे प्रायश्चित्तं विदुर्बुधाः ।
कामकारकृतेऽप्याहुरेके श्रुतिनिदर्शनात् ॥
तरति पाप्मानं तरति ब्रह्महत्यामिति श्रुतेः । गौतमः—अनभिसन्धिकृतेऽपराधे प्रायश्चित्तम् । माधवीये जाबालिः—अकामकृतपापानां ब्रुवन्ति ब्राह्मणा व्रतम् ।कामकारकृतेऽप्येके द्विजानांचाबलस्य च ॥ देवलः—
यत्स्यादनभिसन्धाय पापं कर्म सकृत्कृतम् ।
तस्येह निष्कृतिः प्रोक्ता धर्मविद्भिर्मनीषिभिः ॥
विधेः प्राथमिकादस्माद् द्वितीये द्विगुणांभवेत् ।
तृतीये त्रिगुणं प्रोक्तं चतुर्थे नास्ति निष्कृतिः ॥
अभिसन्धिकृते पापे सकृद्वा नेह निष्कृतिः ।
अपरे निष्कृतिं प्राहुरभिसन्धिकृतेऽपि च ॥
तेनाज्ञानतो हि त्रिर्ब्रह्मवधे च नावृत्तिः ।कामतस्तु सकृत्कृतेऽपि नाधिकार इति विज्ञानेश्वरादयः । अपरे इति क्षुद्रपापपरम् ।
यदा कामतः तदा द्वैगुण्यमाह व्यासः—
गत्वैतदेव कुर्वीत गुरुतल्पमकामतः ।
कामतो द्विगुणं प्रोक्तं पूर्वेषु च यदुच्यते ॥
अङ्गिराः—अकामतः कृते पापे प्रायश्चित्तं न कामतः ।
स्यात्त्वकामकृते यत्तत् द्विगुणं बुद्धिपूर्वके ॥
एषु विशेषानुक्तेरुपपातकादिपरत्वम् ।महापापे निषेध एवेत्येके ।
इयं विशुद्धिरुदिता प्रमाण्याकामतो द्विजम् ।
कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते ॥
इति मनूक्तेः। माधवीये बोधायनोऽपि—
अमत्या ब्राह्मणं हत्वा दुष्टो भवति धर्मतः ।
मुनयो निष्कृतिं तस्य वदन्त्यमतिपूर्वके ॥
मतिपूर्वे कृते तस्मिन्निष्कृतिर्नैव लभ्यते ॥
छागलेयः—प्रायश्चित्तमकामानां कामावाप्तौ न विद्यते । विज्ञानेश्वरादयस्तु इयमित्युक्तेः कामकृते द्वादशाब्दनिषेधः । प्रास्येदात्मानमग्नौ वा समिद्धे त्रिरवाकूशिराः ।लक्ष्यं शस्त्रभृतां
वा स्यादिति मनूक्तेः। अकामावाप्तौ प्रायश्चित्तं कामकारकृते चात्मानमवसादयेदिति शातातपोक्तेः।
यः कामतो महापापं नरः कुर्यात्कथञ्चन ।
न तस्य निष्कृतिर्दृष्टा भृग्वग्निपतनादृते ॥
इति स्मृत्यन्तराच्च । तेनाज्ञानकृते द्वादशाब्दाद्यैरिह लोके परत्र च सर्वथा पापनाशः । कामकृते तु मरणान्तिकेनापि तथा ; व्यवहारासम्भवादित्याहुः । मारणान्तिकस्थानीयञ्च द्विगुणं द्वादशाब्दव्रतमित्युक्तमवकीर्णिव्रते ।माधवस्तु पक्षद्वयमोह—पापस्य द्वे शक्ती नरकजनिका व्यवहारनिरोधिका च । कामकृते च प्रायश्चित्ताभावपक्षे द्विगुणव्रतेन व्यवहार्यत्वेऽपि नरकमस्त्येव । प्रायश्चित्तेन व्यवहारनिरोधकशक्तिनाशः । तदाह याज्ञवलक्यः—
प्रायश्चित्तैरपैत्येनो यदज्ञानकृतं भवेत् ।
कामतो व्यवहार्यस्तु वचनादिह जायते ॥
इति । विहितं यदकामानां कामात्तद् द्विगुणं चरेदित्यादेर्वचनात् । अन्ये त्विदं महापापभिन्नपरम्; न तस्येति तत्र मरणान्तिकनियमात् ।यस्य तु व्यवहारानपेक्षस्य परलोक एव, शुद्ध्यपेक्षा, स मरणान्तिकमेव कुर्यादित्याहुः ।शूलपाणिस्तु सत्यं मरणान्तेन नरकनाशः ।द्विगुणत्वेनापि तन्नाश एव, न व्यवहार्यत्वम् । तेन याज्ञवल्कीये अव्यवहार्य इति व्यवच्छेदः । वचनं च मानवम्—
बालघ्नांश्च कृतघ्नांश्च विशद्धानपि धर्मतः ।
शरणागतहन्तृंश्च स्त्रीहन्तृंश्च न संवसेत् इति ।
याज्ञवल्क्योऽपि शरणागतबालस्त्रीकृतघ्नान् संविशेन्न तु, इत्याह, तन्न; नह्यत्र बालादयो विप्राः, किन्तु क्षत्रियादयोऽपि । नच विप्रबालहन्तुस्तदपवादः अकामतोऽपि तदापत्तेः । अतो
नेदं महापापपरम् ।किन्तु बालत्वादिनिमित्तोऽपवादः । तेन पूर्वोक्तैव व्याख्या साध्वी । ननु हेमाद्रिमाधवादिसर्वनिबन्धेष्वादिपुराणे कलौ स्तेयभिन्ने महापापे प्रायश्चित्तं निषिद्धम् “संसर्गदोषस्तेयान्यमहापातकनिष्कृति” रिति । क्वत्या कामाकामचर्या ? श्रृणु; स्तेयभिन्ने महापापेऽकामकृते निषेधः । “न तस्य निष्कृतिर्दृष्टा भृग्वग्निपतनादृते” इति मरणान्तिकनियमात् तस्य च “प्रायश्चित्तविधानं च विप्राणां मरणान्तिकम्” इति कलौ निषेधात् । तच्च यद्यपि स्तेये तुल्यम्, तथापि स्तेयभिन्नेषु चतुर्षुमरणे स्वयंकर्तृत्वान्निषेधः । स्तेये तु “राज्ञे मुसलमर्पयेत्, राजा तं हन्यादिति” राज्ञः कर्तृत्वं न पापकर्तुः । तस्य तु प्रयोजकत्वान्न महापातकित्वम् । न च विधिना निषेधस्य बाधः, समानविषयत्वे हि बाधः ।स चात्महत्याविधानात्तन्निषेधस्यैव, न तु जातिवधनिमित्तस्य । अतश्चतुर्षुआत्मघातदोषाभावेऽपि ब्रह्महत्यादोषोऽस्त्येव ।स्तेये तु राज्ञो हिंसाकर्तृत्वान्न पापकर्तुदर्दोष इति वयम्प्रतीमः । अत एव विप्राणामित्युक्तम् ; क्षत्रियादिवधे महापापत्वाभावात् । तेन स्तेये कामकृते विप्राणां व्रतमेव द्विगुणम् । क्षत्रियादौ तु सर्वत्र द्वयम् ।तेन स्तेयेऽतिपातकादौ च व्रतेऽधिकारः। अन्ये महापापिनो बहिष्कार्याः । संसर्गेऽपि पतितसंसर्गे दोषसत्त्वेऽपि पातित्यं नेत्यर्थः । प्रतिलोमविजातीयनारीगामिनां संसर्गेऽपि दोष एव । ‘सवर्णान्याङ्गनादुष्टैः संसर्गः शोधितैरपि’ इति तत्रैवोक्तेः। इति ।
तथाच बहूनां निबन्धकाराणां व्यवहार्य इति पदच्छेदस्यैव ‘कामतो व्यवहार्यस्तु’ इत्यत्र सम्मतत्वेऽपि कलौ यत्र संसर्गः शोधितैरपीति शोधितसंसर्गोऽप्याहत्य निषिद्धस्तत्र शारीरमीमांसासम्मतः पक्ष एवं युक्तः ।
[सहाशनादीनां पातित्यापादकत्व विचारः]—
अत्र संवत्सरेण पततीत्यादौ सहाशनादीनां समुच्चित्यानुष्ठितानां पातित्यप्रयोजकत्वमुत पृथक् पृथक्, एवं संवत्सरपर्यन्तं प्रत्यहं सहाशनादिकमेव पातित्यनिमित्तमुत षष्ट्युत्तरत्रिशतदिनपर्यन्तमित्यादिविचारः, तथा पतितोत्पन्नस्य पुत्रस्य कन्यायाश्च विषये शुद्धानां विवाहादिसम्बन्धयोग्यता वर्तते वा न वेत्यादिविचारश्चमदनरत्नप्रदीपे सम्यगेव सम्पादित इति तमपि सङ्गृह्यात्र विलिखामः। तद्यथा—
[प्रकृते मदनरत्न प्रदीपः]—
पतनशब्दार्थमाह गौतमः—द्विजातिकर्मभ्योहानिः
पतनं परत्र चासिद्धिरिति । द्विजातीनां यानि विहितानि कर्माणि श्रौतानि स्मार्तानि च तेभ्यो हानिः । तत्रानधिकारिणः ।परत्र लोके असिद्धिः पापकर्मप्रतिबन्धाद्युपात्तसुकृतफलानिष्पत्तिरित्यर्थः । अयञ्चानधिकारः प्रायश्चित्ततदङ्गजपादिव्यतिरिक्तेषु बोद्धव्यः । अन्यथा तदुपदेशोऽनर्थकः स्यात् । तत्र द्विजातिग्रहणं तेषामपि पातित्यश्रवणात् । संयोगं चैव तैः सहेति । अत्र तच्छब्देन पूर्वोक्तमहापातकादियुक्ता लक्ष्यन्ते; साक्षात्परकीयपातकसंसर्गस्य कर्तुमशक्यत्वात् । तेनायमर्थः—तैः पूर्वोक्तब्रह्महत्यादिमहापातकचतुष्टयान्यतममहापातकयुक्तैः प्रत्येकं संयोगसंसर्गमपि महापातकमाहुरिति । अत एव याज्ञवल्क्यः स्पष्टमेव महापातकयुक्तसंसर्गस्य महापातकत्वमाह—
ब्रह्महा मद्यपः स्तेनस्तथैव गुरुतल्पगः ।
एते महापातकिनो यश्च तैः सह संवसेत् ॥ इति ।
तैरिति सर्वनाम्ना पूर्वोक्तानां ब्रह्महत्यादिमहापातकयुक्तानां चतुर्णामेव परामर्शात्तत्संसर्गस्यैव महापातकत्वम्, न तु संसर्गिसंसर्गस्या-
पीत्यवगन्तव्यम्। संसर्गिसंसर्गस्य तु ‘एनस्विभिरनिर्णिक्तैर्नार्थंकञ्चित्समाचरेदिति’ मनुना एनस्विमात्रसंसर्गस्य निषिद्धत्वात्पापजनकत्वमस्त्येव ।महापातकिसंसर्गस्य पापहेतुत्वेविशेषमाह मनुरेव—
संवत्सरेण पतति पतितेन सहाचान् ।
याजनाध्यापनाद्यौनान्न तु यानासनाशनात् । इति ।
अत्र पञ्चम्यौ द्वितीयार्थे । तेनायमर्थः—यानाशनासनानि पतितेन सहाचरन् कुर्वन् संवत्सरेण पतति, याजनाध्यापनयौनानि कुर्वन्न संवत्सरेण पतति, किन्तु सद्य एवेति । अत्र याजनं स्वेन तस्य, तेन वा स्वस्य ।अध्यापनमपि स्वेन तस्य, तेन वा स्वस्य, यौनं योनिहेतुकः संसर्गः । तस्मै कन्यादानं तस्माद्वा कन्यायाः प्रतिग्रहः । यानं तेन सहैकयानारोहणम् ।अशनं तेन सहैकस्यां पङ्कौभोजनम् । आसनं तेन सहैकस्मिन्नासन उपवेशनम् । अत्रासनग्रहणमेकशय्याशयनस्योपलक्षणम् । वक्ष्यमाणवचनेऽस्यापि पातित्यहेतुत्वाभिधानाच्च । बृहद्विष्णुरपि—
संवत्सरेण पतति पतितेन सहाचरन् । एकयानभोजनासनशयनैर्यौनस्त्रौवमुख्यैस्तु सद्य एवेति । अत्रैकशब्दः शयनान्तैः सम्बद्ध्यते । एकभोजनमेकपङ्क्तिभोजनम् ।एकशयनमेकस्यां शय्यायां तेन सह शयनम् । स्त्रौवं स्त्रुक्साध्यं याजनम् । मुख्यं मुखभवमध्यापनम् । अत्र मुख्यग्रहणमेकपात्रभोजनरूपसहभोजनस्योपलक्षणम् । अत एव देवलः—
याजनं योनिसम्बन्धं स्वाध्यायं सहभोजनम् ।
कृत्वा सद्यः पतत्येव पतितेन न संशयः ॥
बान्धवोऽपि पृथक् भूत्वा तत्पापं नाप्नुयात्क्वचित् ।
पृथक् भूतोऽपि संयोगाद्भजते दोषतुल्यतामिति ॥
अत्र सहभोजनमेकपात्रभोजनम्, नत्वेकपङ्क्तिभोजनम् । अत्र विनिगमकं व्यवहिताव्यवहितसम्बन्धत्वमेव । अत्र यानग्रहणं भोजनासनशयनानामुपलक्षणम् । एतेन मनुवाक्ये याजनाध्यापनाद्यौनादिति सद्यः पातित्यहेतुषु यौनपदमपि सहभोजनस्योपलक्षणम्। तेनात्र सर्वेषां वाक्यानामयमर्थः—एकयानभोजनशयनासनानि पतितेन सह कुर्वन् संवत्सरे पतति । याजनाध्यापनविवाहसम्बन्धसहभोजनानि कुर्वन् सद्य एवेति । अत्र च ‘एभिस्तु संवसेद्यो वै वत्सरं सोऽपि तत्समः, इति याज्ञवल्क्यवचने वत्सरमित्यत्यन्तसंयोगवाचिन्या द्वितीयायाः श्रवणात् यानादिचतुष्टयस्य संवत्सरं निरन्तराभ्यासे पातित्यहेतुत्वमित्यवगन्तव्यम् ।
देवलेन तु स्पष्टमेवोक्तम्—
संवत्सरेण पतति पतितेन सहाचरन् ।
भोजनासनशय्यादि कुर्वाणः सार्वकालिकम् ॥
इति । तेन संवत्सरमध्ये दिनमात्रान्तरेणापि दिनान्तरमादाय यदा षष्ट्यधिकशतत्रयदिवसब्यापित्वं संसर्गस्य भवति, तदैव महापातकहेतुत्वम् । अन्यदा तु निषिद्धत्वेन पापजनकत्वमिति विवेकः । अत्र पूर्वोदाहृतबृहद्विष्णुवाक्ये एकयानभोजनासनशयनैरिति द्वन्द्वात्परया तृतीयया इतरेतरयुक्तानामेवैकयानादीनां पातित्यहेतुत्वम् । प्रत्येकन्तु—
आसनाच्छयनाद्यानात्सम्भाषात्सहभोजनात् ।
संक्रामन्ति हि पापानि तैलबिन्दुरिवाम्भसि ॥
संल्लापस्पर्शनिश्वाससहयानासनाशनात् ।
याजनाध्यापनाद्यौनात्पापं संक्रामते नृणाम ॥
इत्यादिभिः पराशरादिवचनैर्निरपेक्षाणामपि पापहेतुत्वावगमात्पापहेतुत्वम् ; न तु पातित्यहेतुत्वम् । तस्मिन्नेव वचने यौनस्त्रौवमुख्यैरिति द्वन्द्वनिर्देशे सत्यपि प्रत्येकमेव यौनादीनां सद्यःपतनहेतुत्वम् ।यः पतितैः सह यौनमुख्यस्त्रौवानां सन्बन्धानामन्यतमं सम्बन्धं कुर्यात्तस्याप्येतदेव प्रायश्चित्तमिति सुमन्तुवचनादित्युक्तं विज्ञानश्वराचार्यैर्मिताक्षरायाम् । यत्तु—
षाण्मासिके तू संसर्गे याजनाध्यापनादिना ।
एकत्रासनशय्याभिः प्रायश्चित्तार्धमाचरेदिति ॥
बृहस्पतिना याजनाध्यापनयौनैकपात्रभोजनैःपरमाससंसर्गे पातित्यमुक्तम्, तदकामतोऽत्यन्तापदि पञ्चमहायज्ञादिप्राययाजने पूर्वोक्त एव विषयेऽङ्गाध्यापने दुहितृभगिनीव्यतिरिक्तव्यवहितयोनिसम्बन्धे वेदितव्यम् । अन्यथा पूर्वोदाहृतैर्याजनादीनां सद्यः पातित्यहेतुत्वप्रतिपादकैर्वचनैर्विरोधः स्यात् । यौनसंसर्गविशेषे दोषाभावमाह याज्ञवल्क्यः—कन्यां समुद्वहेदेषां सोपवासामकिञ्चनामिति। एषां पतितानां कन्यां पतितावस्थायामुत्पन्नामकिञ्चनां अलङ्कारादिपित्र्यधनरहिताम् । अत्र विशेषमाह वृद्धहारीतः—
पतितस्य कुमारीं विवस्त्रामहोरात्रमुपोषितां प्रातः शुक्लेनाहतेन वाससाच्छादितां नाहमेतेषां न ममैते इति त्रिरुच्चैरभिदधानां तीर्थे स्वगृहे वोद्वहेदिति ॥ अत्र तीर्थे स्वगृहे वोद्वहेदित्यनेन त्यक्तपतितसंसर्गां कन्यां स्वयमेवोद्वहेन्न तु पतितहस्तात्प्रतिगृण्हीयादिति दर्शयति। याज्ञवल्क्यवचने कन्यां समुद्वहेदिति वचनात् कन्याव्यतिरिक्तपतितापत्यस्य संसर्गानर्हता विज्ञायते । अत एव वसिष्ठः—पतितोत्पन्नः पतितो भवत्यन्यत्र स्त्रियः, सा हि परगामिनी, तामरिक्थामुपेयादिति । तदेवं ब्रह्महत्या सुरापानं ब्राह्मणसु-
वर्णस्तेयं गुर्वङ्गनागमनमेभिः प्रत्येकं पूर्वोक्तसंसर्गश्चेति पञ्चमहापातकानि मनुनोक्तानि । तत्र त्रैवर्णिकानां सुरापाननिषेधात् शूद्रस्य सुरापाननिषेधाभावात् सुरापानं त्रैवर्णिकानामेव महापातकं न शूद्रस्य ।अन्यानि तु ‘ब्राह्मणो न हन्तव्य’ इत्यादीनि मनुष्यमात्राधिकारेण निषेधस्य प्रवृत्तत्त्वान्मनुष्यमात्रस्य महापातकानि—इति ॥
अत्रानुसन्धेया मिताक्षरा त्वियमेव । सा तथा—
संसर्गश्च स्वनिबन्धनकर्मभेदादनेकधा भिद्यते । यथाह बृद्धबृहस्पतिः । “एकशय्यासनं पङ्किर्भाण्डपङ्त्यन्नमिश्रणम् । याजनाध्यापने योनिस्तथा च सहभोजनम् ॥ नवधा संकरः प्रोक्तो न कर्तव्योऽधमैः सहेति । देवलोऽपि—संलापस्पर्शनिःश्वाससहयानासनाशनात् । याजनाध्यापनाद्यौनात्पापं संक्रमते नृणामिति । एकशय्यासनमेकखट्वासनमेकपङ्क्तिभोजनमेकभाण्डपचनमन्नेन मिश्रणं संसर्गस्तदीयान्नभोजनमिति यावत् । याजनं पतितस्य स्वेन स्वस्य वा तेन ।अध्यापनं तस्य स्वेन स्वस्य वा तेन । यौनं तस्मै कन्यादानं तत्सकाशाद्वा कन्यायाः प्रतिग्रहः । सहभोजनमेकामत्रभोजनम् ।संलापःसंभाषणम् ।स्पर्शो गात्रसंमदः । निःश्वासः पतितमुखवायुसम्पर्कः । सहयानमेकतुरगाद्यारोहणम् । एतेषां मध्ये केन कर्मणा कियता कालेन पातित्यमित्यपेक्षायां बृहद्विष्णुनोक्तम्—संवत्सरेण पतति पतितेन सहाचरन् । एकयानभोजनासनशयनैर्यैनस्त्रौवमुख्यैस्तु सम्बन्धैः सद्य एवेति’ ।
अत्रैकभोजनमेकपङ्क्तिभोजनम् । एकपात्रभोजने तु सद्यः पातित्यम् । “याजनं योनिसम्बन्धं स्वाध्यायं सहभोजनम् । कृत्वा सद्यः पतत्येव पतितेन न संशयः’ इति देवलस्मरणात् । स्रौवश-
विद्यते । तेन च प्रायश्चित्तेनेह लोके व्यवहार्यत्वं नित्यकर्मानुष्ठानप्रतिबन्धकपापशक्त्यपनयनञ्च भवति । तथाच कर्मस्वधिकारात् विहितकर्मकरणात् प्रत्यवायाभावेन पापान्तरं नोत्पद्यते । अतः प्रायश्चित्तमस्तीति प्रायश्चित्तास्तित्वप्रतिपादकानां वचनानामभिप्रायः । परलोके या नरकोपभोगहेतुभूता पापशक्तिस्तस्य अनपायः तादृशशक्त्यपनायकप्रायश्चित्ताभावात् प्रायश्चित्तं नास्तीति प्रायश्चित्ताभावप्रतिपादकानामभिप्रायः—इति ॥
निर्णयसिन्धोरप्येवमेवाशयो वर्तते । तद्यथा—
प्रायश्चित्तविधानञ्च विप्राणां मरणान्तिकम् ।
संसर्गदोषः स्तेयान्यमहापातकनिष्कृतिः ॥
संसर्गदोषः’तत्संसर्गी च पञ्चमः’ इत्युक्तः ।स्तेयञ्च तदन्यानि महापातकानि ब्रह्महत्यासुरापानगुरुतल्पानि त्रीणि । तेषां कामकृतानां मरणान्तिकं प्रायश्चित्तं विप्राणां कलौनेत्येर्थः ।मरणान्तिकं हि जातिवधनिमित्तं द्वाशाब्दंद्विगुणं ब्रह्मवधनिमित्तं च द्विगुणं भवति। तच्चतुर्थे नास्ति निष्कृतिरिति निषिद्धम् । न चात्महत्यानिमित्तस्यैव बाधो न जातिवधनिमित्तस्याभिन्नविषयत्वात्, संसर्गिणास्तु कामतोऽपि व्रतस्यैवोक्तेर्नमरान्तिकम् ।तेन तयोर्मरणान्तिकत्वाभावात् तयोरेव निष्कृतिर्नान्येषां त्रयाणाम् ।युगान्तरे तु कलौ निषेधबलात्प्रवृत्तिः । एतद्विप्रपरं न क्षत्रियादेः । तदुक्तम्—विप्राणां मरणान्तिकमिति । विशेषोऽस्मत्कृते प्रायश्चिरत्ने ज्ञेयः । इति । तद्यथा—
मध्यमाङ्गिरा अपि—विहितं यदकामानां कामात्तत् द्विगुणं भवेत्, इति । तेन पापस्य द्वे शक्ती । नरकजनिका संसर्गेण पापजनिका च। तत्राद्यायाः सत्त्वेऽप्यन्त्याया नाशः शास्त्राद्गम्यते ।मरणा–
[कामकृते प्रायश्चित्ताधिकारविवारः]—
न्तिके तु द्वयोर्नाशः; मरणोत्तरं व्यवहारायोगात् । तदाहापस्तम्वः—नास्यास्मिंल्लोके प्रत्त्यापत्तिर्विद्यते, कल्मषन्तु निर्हण्यते इति । अथ कामकृते प्रायश्चित्ताधिकारश्चिन्त्यते । तत्र महापातकभिन्नपापे कामकृतेऽधिकारः सर्वसस्मतः ; तत्र तत्र कामकृते तदुपदेशात् । यत्तूपपातकमभ्यस्तं महापातकतां व्रजेदिति, तद्यावत्यभ्यस्ते तत्समव्रतं तत्र गौणं महापापत्वम् ; अन्यथा पञ्चकस्य संज्ञाकरणवैयर्थ्यापत्तेः, व्रात्यतादौ किं महापातकसाम्यमिति नियामकाभावाच्च । अत एव तत्र तत्संसर्गे वा न पातिव्यम् । अत्र वचने मूलाभावाच्च । ननूपपातके पारदार्यादौ चीर्णव्रतस्यापि वहिष्कार उक्तो व्याससूत्रे बहिस्तूभयथापि स्मृतेराचाराच्चेति, उपपापे महापापे वोभयथापि चीर्णव्रता अपि बहिष्कार्या इति शङ्कराचार्याः, प्रायश्चित्तं न पश्यामीति स्मृतेः, शिष्टाचाराच्चेत्यर्थः,नैवम्; अस्य यत्यादिपरत्वात् । तथाच माधवीये कौशिकः—
नैष्ठिकानां वनस्थानां यतीनां चावकीर्णिनाम् ।
शुद्धानामपि लोकेऽस्मिन् प्रत्त्यापत्तिर्न विद्यते ॥
इति । तेनेतरेषामुपपापादौ कामकृते सिद्धोऽधिकारः । महापापेऽप्यकामकृते विवादाभावः । कामकृते तूच्यते । मनुः—
अकामतः कृते पापे प्रायश्चित्तं विदुर्बुधाः ।
कामकारकृतेऽप्याहुरेके श्रुतिनिदर्शनात् ॥
तरति पाप्मानं तरति ब्रह्महत्यामिति श्रुतेः । गौतमः—अनभिसन्धिकृतेऽपराधे प्रायश्चित्तम् ।माधवीये जाबालिः—अकामकृतपापानां ब्रुवन्ति ब्राह्मणा व्रतम् ।कामकारकृतेऽप्येके द्विजानांचाबलस्य च ॥ देवलः—
संसर्गे त्वाब्दिके कुर्यादब्दंचान्द्रायणं नरः ॥’ इति । अत्र चाब्दिके संसर्गे इति किञ्चिन्न्यून इति द्रष्टव्यम् । पूर्णे तु वत्सरे मन्त्रादिभिर्द्वादशवार्षिकस्मरणात् । यत्तु बार्हस्पत्यवचनम्—“षाण्मासिके तु संसर्गे याजनाध्यापनादिना । एकत्रासनशय्याभिः प्रायश्चित्तर्धमाचरेदिति । याजनाध्यापनयानैकपात्रभोजनानां षण्मासात्पातित्यवचनमेतदकामतोऽत्यन्तापदि पञ्चमहायज्ञादिप्राये याजनेऽङ्गाध्यापने दुहितृभगिनीव्यतिरिक्ते च योनिसम्बन्धे द्रष्टव्यम् ॥प्रकृष्टयाजनादिभिः सद्यः पातित्यस्योक्तत्वात् ॥
यत्तु सुमन्तुः—चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्यच । पतत्यज्ञानतो विप्रो ज्ञानात् साम्यं तु गच्छति ॥” अत्रज्ञानात् सकृत् तत्स्त्रीगमनेऽष्टाचत्वारिंशद्भोजने च द्वादशाब्दम् , ज्ञाने तत्समत्वाद्द्विगुणप्रायश्चित्तेऽप्यव्यवहार्यतेति वदतां कमलाकरभट्टानां प्रायश्चित्तरत्नकाराणां तु इदमेव मतमवगम्यते, यत् यत्र यत्र तत्समत्वाभिधानम्, तत्र तत्र कृतप्रायश्चित्तानामपि न व्यवहार्यत्वमिति । तथाच “कानतो व्यवहार्यस्तु वचनादिह जायते” इति वचने व्यवहार्य इति पदच्छेदपक्षेऽपि यत्र न म्लेच्छादिसमत्वम्, तत्रैव प्रवृत्तिः, न पापसामान्ये इति कृतप्रायश्चित्तानामपि मतान्तरप्रविष्टानां यावन्न म्लेच्छसमत्वम् तावदेव व्यवहारयोग्यता । तदनन्तरं यावत् प्रायश्चित्तविधिविषयता, तावत्—बौधायनवचनानुसारेण परस्परं यजनयाजनादिसम्बन्धः, अनन्तरं तु न स्वकर्माधिकारोऽपीति मन्तव्यम्। अत्र हि मते ‘चतुर्थे नास्ति निष्कृति, रित्यस्य द्विवारं ज्ञानकृतपातित्ये न प्रायश्चित्तयोग्यतापीत्यत्रैव तात्पर्यं विवक्षितम् । तथाच मतान्तरं प्रविष्टा अज्ञानात्, मोहात् बलात्कारेण छलाद्वा यदि म्लेच्छस्त्रीसङ्गमं विना, तत्रा-
ष्टाचत्वारिंशदधिकभोजनं विना च स्वमतप्रवेशं कांक्षन्ति, तर्हि स्वपूर्वतनजातिप्रवेशो भवितुमर्हत्येवेति प्रतिभाति । अयमेव पक्षः शूलपाणेरपि संमतः ।
यत्तु मिताक्षरादिषु षष्ठ्यधिकत्रिशतदिवसपर्यन्तमभ्यासेऽपि न पातित्यापादकत्वं सहासनाशनशयनानामिति निरूपितम्, तत्र सहाशनशब्देनैकपङ्क्तिभोजनस्यैव विवक्षणादत्र चैकामत्रभोजनस्यैव विवक्षितत्वान्न विरोधः । अत्रापि पक्षे एकामत्रभोजनेन सद्यः पातित्यमिति यन्मिताक्षरायामुक्तम्, तदिदमपि अज्ञान एवोक्तावृत्तिनिमित्तत्वम्, न तु ज्ञाने, ज्ञाने तु सकृदेकामत्रभोजनेऽपि पातित्यस्योरीकरणेन विरुद्धं भविष्यति ।
अष्टाचत्वारिंशद्वारभोजनावृत्तौ द्वादशाब्दमिति प्रायश्चित्तरत्नाकरव्यवस्था तु चण्डालपक्वान्नविषयैव, न तु तत्सहभोजनादिविषया ।तत्र तु मिताक्षरादिसिद्धान्त एव तेषामपि सम्मतः । नहि—चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य चेति वचने तत्सहभोजनैकभोजनादिविवक्षासमस्ति । तथाच साधारणसहभोजनादिकमेकसंवत्सरपर्यन्तमपि पतितैस्सह न पातित्यापादकमिति सिद्धम् ।
अत्रेदमेवालोचनीयम्—यत् कथमष्टाचत्वारिंशत्संख्याया अत्र विवक्षेति । अत्र श्रीआशुतोषशिरोरत्नमहोदया एवं मन्यन्तेयत् चण्डालान्त्यस्त्रियो गत्वा भुक्त्वाच प्रतिगृह्य च । पातित्यं ज्ञानतोऽज्ञानादिति पातित्याभिधानात्—षड्भिर्वर्षैःकृच्छ्रचारी ब्रह्महा तु विमुच्यते” इति वचनानुसारेण षडब्दकृच्छ्रप्रायश्चित्तस्यैवाशीत्युत्तरधेनुप्रत्याम्नायकस्यानुष्ठेयत्वात् । एवं सकृच्चण्डालान्नभक्षणे—रजकव्याधशैलूषवेणुचर्मोपजीविनः । एतेषां यस्तु
भुञ्जीत द्विजश्चान्द्रायणं चरेत्, इति सकृद्भक्षणे एकचान्द्रायणे सार्धसप्ततिधेनुप्रत्याम्नायकेऽष्टाचत्वारिंशच्चान्द्रायणानां द्वादशाब्दसमानकस्य त्वस्यैव वक्तव्यत्वाद्वा सर्वोपपपत्तिरिति । अत्र प्रथमोपपत्तौ—अज्ञानतोऽष्टचत्वारिंशद्भोजने द्वादशाब्दमित्यस्य षडब्दकृच्छ्रपरत्वे यद्यपि क्लिष्टा कल्पना, द्वितीयोपपत्तौ तु न सापि समस्ति । सर्वथा तु—अज्ञानतोऽपि अष्टाचत्वारिंशदधिकभोजने ज्ञानतश्चतुर्विंशत्यधिकभोजने वा न व्यवहारयोग्यता मतान्तरप्रविष्टानां कृतप्रायश्चित्तानामपीति । तदुक्तं प्रायश्चित्तरत्ने कमलाकरभट्टकृते—ज्ञाने तु तत्समत्वाभिधानात् द्विगुणप्रायश्चित्तेऽव्यवहार्यतेति ।
यत्तु पुनर्मिताक्षरायाम्—तत्रमत्यभ्यासे तु प्रतिनिमित्तं नैमित्तिकावृत्तिरिति न्यायात् प्रतिनिमित्तं नैमित्तिकावृत्तौ प्रसक्तायां लोगाक्षिणा विशेष उक्तः, अभ्यासेऽहर्गुणा वृद्धिर्मासादर्वाग्विधीयते । ततो मासगुणा वृद्धिर्यावत्संवत्सरं भवेत् । ततः संवत्सरगुणा यावत्पापं समाचरेत् । इति । इदं मतिपूर्वविषयमिति—वर्णितम्, तदिदं विष्णुस्मृतिव्याख्यायां नन्दपण्डितकृतायां वैजयन्त्याख्यायामभ्यासेहर्गुणा वृद्धिरित्यस्य विशिष्य वेश्यास्त्रीगमनपरत्वस्यैवीरीकरणात्, मिताक्षरायामपि—“साधारणस्त्रीसंभोगे तु हीनयोनिनिषेवणमित्युक्तम् । तत्रापि—पशुवेश्याभिगमने प्राजापत्यं विशोधनम्” इति संवर्तोक्तमकामतो द्रष्टव्यम् । कामतस्तु यमेनोक्तम्—वेश्यागमनजं पापं व्यपोहन्ति द्विजातयः । पीत्वा सकृत्सकृत्तप्तं सप्तरात्रं कुशोदकम्—इत्युक्त्यनन्तरमेवेममेव विषयमधिकृत्येदं लौगाक्षिवचनं प्रवृत्तम् । तथाचोक्तवचनानुसारेण बहुकालाभ्यासेऽपि प्रायश्चित्तन्यूनतापादनं केषांचन परास्तम् ।
एतेन—म्लेच्छादिस्त्रीगममपि—व्याख्यातम् । तदपि हि साधारणं विशिष्टमिति द्विविधम् । तत्र साधारणेन न सद्यः पातित्यम् । किन्तु बहुकालाभ्यास एव । तदुक्तं मिताक्षरायाम्—“चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च । पतत्यज्ञानतो विप्रो ज्ञानात्साम्यं तु गच्छति” । चण्डालादिसाम्यं प्रतिपादयता मनुनाऽपि कामतोऽत्यन्ताभ्यासे मरणान्तिकं दर्शितम् । तथा ह्यज्ञानतश्चाण्डालीगमनाभ्यासे पतत्यतः पतितप्रायश्चित्तं द्वादशवार्षिकं कुर्यात् । कामतोऽत्यन्ताभ्यासे चाण्डालैः साम्यं गच्छत्यतो द्वादशवार्षिकाधिकं मरणान्तिकं कुर्यात् । एतच्च बहुकालाभ्यासविषयम् । एकरात्राभ्यासे तु वर्षत्रयम् ।यथाह मनुः ( ऋ० ११श्लो० १७८ ) “यत्करोत्येकरात्रेणवृषलीसेवनाद् द्विजः । तद्भैक्षभुग्जपन्नित्यं त्रिभिर्वर्षैर्व्यपोहतीति” । अत्र वृषलीशब्देन चाण्डाल्यभिधीयते । “चण्डाली बन्धकी वेश्या रजःस्था या च कन्यका ।ऊढा या च सगोत्रा स्याद्वृषल्यः पञ्च कीर्तिताः” इति स्मृत्यन्तरे वृषलीःशब्दप्रयोगदर्शनात् । बन्धकी स्वैरिणी ।कथं पुनरत्राभ्यासावगमः? उच्यते; ‘यत्करोत्येकरात्रेणे’ इत्यन्तसंयोगापवर्गवाचिन्यास्तृतीयाया दर्शनात् एकरात्रेण चात्यन्तसंयोगो गमनस्याभ्यासं विनाऽनुपपन्नइति गमनाभ्यासोऽवगम्यते । अत एवैकरात्राद्बहुकालाभ्यासविषयं प्रागुक्तं द्वादशवर्षादिगुरुतल्पव्रतातिदेशिकं मरणान्तिकं च । यदा पुनर्ज्ञानतोऽज्ञानतो वा चाण्डालाद्याः सकृद्गच्छंति, तदा “चाण्डालपुल्कसानां तु भुक्त्वा गत्वा च योषितम् । कृच्छ्राब्दमाचरेज्ज्ञानादज्ञानादैन्दवत्रयमिति” यमाद्युक्तं संवत्सरं कृच्छ्रानुष्ठानम् ।अमत्या चान्द्रायणत्रयं यथाक्रमेण द्रष्टव्यम्।
अत्र चण्डालम्लेच्छयोरथं विशेषः- यत् म्लेच्छाः मोहम्मदादयः कर्मणा पतिताः, नतु जातितः, म्लेच्छानां प्रतिलोमसंकरत्वाभावात् । अतो महाभाष्यं ‘शूद्राणामनिरवसितानामि’ति सूत्रेग्रामादनिरवसितत्वात् म्लेच्छयवनमिति प्रयोगसाधुतोपपादितोपपद्यते । एनेन मोहम्मदादीनां ग्रामे प्रवेशे चण्डालानां कथं न प्रवेश इति अधूनातनानामाक्षेपोऽपि—परास्तः । पतितस्य ग्रामतोऽपि निष्कासनं हि त्रेतायुगविषयम् । तदुक्तंत्रेतायां ग्राममुत्सृजेदिति । कलौ हि न म्लेच्छानां पतितानां ग्रामपरित्यागः प्रतिषिद्धः ।व्यक्तं चैतत्पूर्वमेव विवेचितम् ,यत्—पराशराचार्यैश्चण्डालविषये संभाषणस्यापि निषेधात्, चण्डालादिजातिपातित्ये न न्यूनताकल्पनं तत्सम्मतमिति एवं च ‘कर्तारं तु कलौ युगे’ इति वदन्त एव पराशराचार्याश्चण्डालदर्शनादावपि प्रायश्चित्तविधानेन धर्मपतितानां विषय एव दोषन्यूनताकल्पनं संभवतीति मन्यन्ते, न जातिपतितविषय इति स्पष्टमेव सूचयन्तीति व्यर्थमेवेदमान्दोलनं मोहम्मदादिदृष्टान्तेन चण्डालादिस्पृश्यतोपपादनार्थम् । एवं वदतामस्माकं मोहम्मदादिभ्यः एकत्र निकर्षेऽपि अस्मदीयशास्त्राधिकारितया व्यवहारे तेषामुत्कर्षो न नाभिमन्यते, इदमेवाभिमतमस्माकम्—यत् स्वधर्मश्रद्धालूनामेतेषां धर्मे श्रद्धा यथा स्यात्, यथा च पराणां प्रतारणपारवश्यं न स्यात्, तथा करणार्थं सर्वैरपि यतितव्यमेव, नतु मोहम्मदादिप्रवेशो मा भूदिति ग्रामादिषु प्रवेशव्यवस्थापनाद्याख्येनोत्कोचेन व्यवहर्तब्यमिति ।उत्कोचस्य हि काष्ठा निरवधिरेवेति सर्व एव विजानन्तीति नात्र विस्तरीतुमभिलषामः ।
तदयं निष्कर्षः—कृतप्रायश्चित्तस्यापि पतितस्य कलौ न व्यवहार्यत्वम् । तत्र कन्यातिरिक्तपतितापत्यस्यापि पतितत्वमेव । तस्या–
पिकृतप्रायश्चित्तस्य न व्यवहार्यत्वम् ।कन्यायास्तु न पातित्यम् । न वाऽव्यवहार्यत्वम् । तत्र च कन्यायाः स्वपित्रादिसम्बन्धः सर्वथा परित्यक्तव्यः । पतिततत्पुत्रादीनान्तु कृतप्रायश्चित्तानां परस्परयाजनादिना धर्माधिकारः। सोऽपि तन्त्रशास्त्रेष्वेवेति शिवार्कमणिदीपिकायामुक्तम् । मदनपारिजातमतन्तु स्वीयनित्यकर्मानुष्ठानं प्राचीनमेव भवतीति । तदत्र वयं चतुर्गुणप्रायश्चित्ताधिकारिणामव्यवहार्यता, कृतप्रायश्चित्तानां च तान्त्रिकधर्माधिकारः, तन्न्यूनप्रायश्चित्ताधिकारिणां व्यवहार्याणां कृतप्रायश्चित्तानां च वैदिकधर्माधिकारी योग्य इति सूचयामः । अत्र च धर्मज्ञा एव प्रमाणम् । इदमेवात्रास्माकं वक्तव्यं यत्पतितसंसर्गः सहाशनादिः समुच्चितो निरन्तरं संवत्सरं न कर्तव्यः ।यावच्छक्ति तत्तज्जात्यादिधर्मपरिपालनार्थमेव प्रयत्नः कर्तव्य इति च । सर्वथा तु चण्डालादिसंसर्गादोषतावाद इदानींतनानामप्रामाणिकः । न वा धर्मज्ञा अपि तव्द्यवस्थासम्पादने शक्ता इति सिद्धम् । यत्तु कृतप्रायश्चित्तस्यापि कलौ न व्यवहार्यत्वमिति वर्णितम्, तदिदं कलिवर्ज्यप्रकरणगतानां वाक्यानामनुसरणेनैवेति स्पष्टप्रतिपत्त्यर्थं निर्णयसिन्धुगतं कलिवर्ज्यप्रकरणमत्रोद्धृत्य प्रकाश्यते । तद्यथा—
यस्तु कार्तयुगो धर्मो न कर्तव्यः कलौ युगे ।
पापप्रयुक्ताश्च सदा कलौ नार्यो नरास्तथा ॥
इत्यादित्यपुराणवचनेन यद्यपि कृतयुगसम्बन्धिधर्मसामान्यं निषिद्धम् । तथापि सर्वस्य तस्य निषेद्धुमशक्यत्वाद्विशेषानाह समुद्रेति ॥यद्यपि समुद्रयानं न विहितम् । तथापि बोधायनेन समुद्रयानं ब्राह्मणस्य न्यासापहरणमित्यादिना तत्कर्तुःप्रायश्चित्तं विहितम् । तदपि कलौ कर्तव्यमेवेति तत्करणानन्तरं तव्द्यवहारो
निषिद्ध्यते । “द्विजस्याब्धौतु नौयातुः शोधितस्यापि संग्रहः” इत्यग्रिमवचनाच्च । एतच्च प्रायश्चित्तं रागप्राप्ते समुद्रयान एव । शङ्खोद्धारादितीर्थयात्राविधिनान्तरीयकंसमुद्रयानवतो दोषाभावात् न प्रायश्चित्तमित्यन्यत्र विस्तरः। अत्र क्रत्वर्थमात्रनिषेधेऽपि न क्षतिः; पुरुषार्थनिषेधान्तरसत्त्वात् । श्राद्धे इत्युपलक्षणम् । तेनोपयाचितकादावपि निषेधः । पशोरिति । महोक्षंं वा महाजं वा श्रोत्रियायोपकल्पयेदित्यजादिसंग्रहार्थं पशुपदम् । मांसदानमिति । श्राद्धसम्बन्धि क्रत्वर्थं पुरुषार्थं च निषिद्ध्यते । यथा ‘वेदिर्वार्हद्धर्माणां’ प्रधानसम्बन्धिमात्रांशे विधिः, न तु तादर्थ्यांशेऽपि, मानाभावात् । तद्वत्—
शौचञ्च पात्रशुद्धिश्च श्रद्धा च परमा यदि
अनन्ततृप्तिकृच्छ्राद्धमेतत्खलु न चामिषम् ॥
इति पुरुषार्थमामिषदानं निषिद्ध्यते, न तु क्रत्वर्थम् । विधिस्पृष्टे निषेधानवकाशादित्यपहस्तितम् । वानप्रस्थेति । सुते विन्यस्तपत्नीकस्तया वानुगतो वनम् । वानप्रस्थो ब्रह्मचारी साग्निः सोपासनो व्रजेदिति विहितः । वानप्रस्थो बुभूषुरिति शेषः । दीर्घकालमिति । अष्टचत्वारिंशद्वर्षाणि वेदब्रह्मचर्यमिति श्रुतिविहितम् ।
यदि चात्यन्तिको वासो रोचेत स्वगुरोः कुले ।
युक्तः परिचरेदेनमाशरीरविमोक्षणात् ॥
आचार्ये तु खलु प्रेते गुरुपुत्र गुणान्विते ।
गुरुदारे सपिण्डे वा गुरुवद्वृत्तिमाचरेत् ॥
एतेष्वविद्यमानेषु स्थानासनविहारवान् ।
प्रयुञ्जानोऽग्निशुश्रूषां साधयेद्देहमात्मनः ॥
इति विहितं नैष्ठिकं च । स्थानमङ्गुष्ठाग्रादिना नियतमूर्धा-
वस्थानम् । आसनं नियमोपवेशनम् ।विहारो भ्रमणम्, एतैस्तपोविशेषो लक्ष्यते । नव्यास्तु दीर्घकालमिति कालापवादमात्रम्, अन्यथा दीर्घब्रह्मचर्यमित्येव ब्रूयात् । तेन श्रौतमेव निषिद्ध्यते, न नैष्ठिकम् । तेन द्राविडानां नैष्ठिकाचारोऽपि सङ्गच्छत इत्याहुः । नरमेधेति । ब्रह्मणे ब्राह्मणमालभेत इति ‘तरति ब्रह्महत्यां योऽश्वमेधेन यजते’ इति विहितौ । महाप्रस्थानेति । यो जीवितुं न शक्नोति महाव्याध्युपपीडितः । सोदग्दिशं महायात्रां कुर्वन् वा न प्रदुष्यतीति विहितमाशरीरपातमुत्तरदिग्गमनम् । गोमेधश्चेति । मैत्रावरुणीं गां वशामनुवन्ध्यामालभेतेति विहितो यागभेदः । चकाराद्राजसूयग्रहः। न कलौ क्रियते अश्वमेधो वा वा च गोसवः (१) ।नरमेधेऽक्षता नारी देवरात्पुत्रसन्ततिः । गर्हितं सप्तकं ह्येतद्राजसूयकमण्डलुरिति हेमाद्रौ गारुडाद्वा ।राजसूयश्च राजा राजसूयेन यजेतेति विहितः । कमण्डलुरित्युक्तेः इति । इदमुपलक्षणम् । दाक्षायणी ब्रह्मसूत्री वेणुमान् सकमण्डलुरित्युक्तस्योपलक्षणम् । तथाच स्नातकस्येत्युक्तेः। अथ कमण्डलुचर्यामुपदिशन्तीति बौधायनोक्तेतिकर्तव्यताकः काष्ठमयो मृण्मयो वेत्यर्थः । तेन मृगमयो वेति वाकारः सङ्गच्छते । न च कमण्डलुधारणं वानप्रस्थाश्रम इति मतं सम्यक्; तस्य पृथगुपादानात् । ननु दत्तापदं कुतो न वाग्दत्तापरमित्यत आह—ऊढाया इति । ज्येष्ठांशमिति ।ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच्च यद्वरमिति विहितम् । गोवधमिति । मधुपर्के इति शेषः । भ्रातृजायामिति । जायामिति शेषः । पञ्चेति न परिसंख्या; वाक्यान्तरदर्शनात् । एतद्वाक्योपात्तत्वोपाधिना च पञ्चत्वम् । आदिभिरित्यादिना ‘ऋतावृदृष्टे कन्यैव पुनर्देयेति केचन’ इत्यादिपरिग्रहः । ननु पैतृष्वस्त्रीयीमातुलकन्ययोर्विवाहे तृप्तां जहु-
रित्यादि श्रुतिः प्रमाणम; श्रुतेः स्मृत्यपेक्षया प्राबल्यादाह—तेनेति । युगान्तरेति । न चैतद्युग एव अर्जुनादीनां कथं मातुलकन्यापरिणयइति वाच्यम्; विहितान्यपि कर्माणीत्यग्रिमवाक्यात् । मद्यमिति । सुरापैष्टीनां चायं निषेधो न विषयीकरोति; सुरामद्ययोर्भेदात् । सुरा वै मलमन्नानां पाप्मा च मलमुच्यते । तस्माद् ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेदिति मनुना द्विजातिसामान्ये तन्निषेधाच्च । नच—माध्वीकमैक्षवं सैरं तालं खार्जूरपानसम् ।
मधूत्थं चैव माध्वीकं मैरेयं नारिकेलजम् ॥
अमेध्यानि दशैतानि मद्यानि ब्राह्मणस्य तु ॥ इति ॥
विष्णुना सामान्यत एव तन्निषेधात् ‘नित्यं मद्यं ब्राह्मणो वर्जयेत्, इति निषेधान्तराच्च । किन्तु कामादपि हि राजन्यो वेश्यो वापि कथं (१) … … …कादि पुरस्कारेण
वामागमादौ विहितं विनायकशान्त्यादौ च क्षत्रियादेरुक्तंमद्यं निषिध्यते, नन्वेतावता निषेधस्य प्राप्तिपूर्वकत्वोपपत्तौ कथं स्त्रीभ्यश्च सुरामाचाममिति सङ्गच्छते; मद्ये सुरालक्षणायां मानाभावात् । शृणु । मद्यमपीह सुराशब्देन ग्रहीतुं शक्यते । गौडीपैष्टीमाध्वीभेदेन तस्यास्त्रिविधत्वात् । विहितमिति ।आश्वलायनगृह्ये परेद्युरन्वष्टक्यमित्यत्र विहितमित्यर्थः । ओदनाग्रद्रवं प्राहुराचामं हि मनीषिणः। विधवाया इति । अत्र—विहितान्यपि कार्याणि धर्मलोपभयाद् बुधैः । समापने निवृत्तानि साध्वभावात्कलौ युगे—इति प्रकृतम् ।समापने जनमेजयाश्वमेधसमाप्तौ । निवृत्तानि निवर्तितानि । तेन द्रोणादीनां वधे कथं पाण्डवादीनां कलिमध्ये दोषो नास्तीति न शङ्ख्यम् । इदं देवराच्च सुतोत्पत्तिरिति च वाग्दानानन्तरं मृते पत्यौ देवरपरम् ॥
यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः ।
तामनेन विधानेन निजो विन्देत देवरः ॥
अनेन विधानेन घृताभ्यङ्गादिनियमवन्नियोजनविधानेन ।
यथाविध्यभिगम्यैनां शुक्लवस्त्रां शुचिव्रताम् ।
मिथो भजेताऽऽप्रसवात्सकृत्सकृतावृताविति ॥
मनुना, अपुत्रां गुर्वनुज्ञातो देवरः पुत्रकाम्यया ॥
सपिण्डो वा सगोत्रो वा घृताभ्यक्त ऋतावियादिति । याज्ञवल्क्येन च तदनुज्ञानात्; न तु विवाहानन्तरं विधवायाम्। “नान्यस्मिन् विधवा नारी नियोक्तव्या द्विजातिभि” रिति मनुना विवाहानन्तरं विधवानियोजननिषेधात् । न चैवं भारते कथं सत्यवत्या कनिष्ठभ्रातृभार्यायां विधवायां व्यासो नियुक्त इति वाच्यम्; तत्र धनेनोपतोष्य कश्चन ब्राह्मणो नियोज्य इति भीष्मानुज्ञया सत्यवत्यास्तथा करणेन निषेधगतान्यपदस्य ब्राह्मणेतरान्यपरत्वात् ; अन्यथा ब्रह्मक्षत्रियदेवक्षत्रियभेदो न स्यात् । महाप्रभावतया दोषकल्पनाविरहेणान्यपदस्य यथाश्रुतार्थत्वाद्वा ।देवराच्चेति चकारादनुज्ञातसपिण्डसगोत्रयोरपि ग्रहः ।बालाया इति । दत्ताक्षताया इत्येतत्समानार्थम् । वस्तुतस्तु नन्विदं वाक्यं कथं सङ्गच्छते ? नान्यस्मिन् विधवा नारीति मनुना सर्वदा तन्निषेधात्, मन्वर्थविपरीता तु स्मृतिः सापि न शस्यत इत्यङ्गिरोवाक्यात् । नापि देवरनियोजनं तदर्थः ; देवराच्च सुतोत्पत्तिरित्यनेन पौनरुत्त्यापत्तेः । नापि वाग्दत्ताविषयकम्; तदानीं क्षतयोनित्वशङ्काया अभावादिति चेन्न; दत्तामपि हरेत्पूर्वांश्रेयांश्चेद्वर आव्रजेदिति सप्तपद्युपक्रमणात्प्राक् यदन्यस्मै दानमुक्तम्, तद्विषयकत्वात् । ननु पराशरेण कलावनुष्ठेयान् धर्मान् वक्ष्यामीति प्रतिज्ञाय—
नष्टे मते प्रव्रजिते क्लीबे च पतिते पतौ ।
पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥
इति वचनाद्वाग्दत्तायाः कलौ पत्यन्तरमस्तीति कथं वाग्दत्तापहारः कलिवर्ज्य इति चेत्, वाग्दानानन्तरं तन्मरणेपराशरवचनात्तस्या वरान्तरेण विवाहः कार्यः ।
कन्यायां शुक्लदत्तायां म्रियेत यदि शुक्लदः ।
देवराय प्रदातव्या यदि कन्याऽनुमन्यते ॥
इत्युक्तवाक्ये कन्याया अननुमतौ पुरुषान्तराय दानलाभात् । इयांस्तु विशेषः । कन्यानुमतावपि देवराय सा न विवाह्या; नियोगसाम्यात्, देवराच्च सुतोत्पत्तिरिति सामान्यतो निषेधात् । एवं सगोत्रपिण्डयोरपि न विवाह्यतेति । कन्यानामिति ।
तिस्रो वर्णानुपूर्व्येण द्वे तथैका यथाक्रमम् ।
ब्राह्मणक्षत्रियविशां भार्याः स्वा शद्रजन्मनः ॥
इति याज्ञवल्क्येन विहितः । अत्र—असवर्णासु कन्यासु विवाहश्च द्विजातिभिरिति स्मृत्यन्तरम् द्विजानामसवर्णास्विति प्रागुक्तं चैकार्थकं बोध्यम् । आततायीति ।
गुरु वा बालवृद्धं वा ब्राह्मणं वा बहुश्रुतम् ।
आततायिनमायान्तं हन्यादेवाविचारयन् ॥ इति ॥
सन्मुखकूटशस्त्रेण(१) मारणम् । एतेन—नाततायिवधे दोषोऽन्यत्र गोब्राह्मणेभ्यः—इति सौमन्तवं व्याख्यातम् ; तस्य कलिपरत्वात्। एवं सति यत् श्रीरामेण रावणं हत्वा दशकृत्वोऽश्वमेधाकृता इति रामायणम्, तदाततायिवधे युगान्तरे सपरिहारो दोष इत्येतदर्थम् । वस्तुतस्तु—गुरुं वा बालवृद्धौ वा ब्राह्मणं वेत्यादि–
शब्दस्वारस्यात्कैमुतिकन्यायेन ब्राह्मणभिन्न आततायी वध्य इत्यत्रैव तात्पर्यम् । इदमपि स्ववधोद्यतातायिविषयम् ।
उद्यम्य शस्त्रमायान्तं भ्रूणमप्याततायिनम् ।
निहत्य भ्रूणहा न स्यादहत्वा भ्रूणहा भवेत् ॥
इति गालववचनात् ।
स्वाध्यायिनां कुले जातं न हन्यादाततायिनम् ।
तं हत्वा भ्रूणहा स स्वादहत्वाऽभ्रूणहा भवेत् ॥ इति ॥
बृहस्पतिवचनम्—
आततायिनमुत्कृष्टं व्रतस्वाध्यायसंयुतम् ।
यो न हन्याद्वधप्राप्तं सोऽश्वमेधफलं लभेत् ॥
इति च स्ववधानुद्यताततायिपरमिति । एवं च स्ववधोद्यतब्राह्मणभिन्नाततायिवधः कलौ न कार्य इत्याशयेन द्विजानामिति पदम् । सत्रेति । आसनोपायचोदिते सप्तदशावराश्चतुर्दशपरमाः सत्रमासीरन्निति विहिता सत्रदीक्षा सत्राधिकार इति यावत् । महाप्रस्थानम् । आशरीरपातमुत्तरदिग्गमनम् । “यो जीवितुं न शक्नोति महाव्याध्युपपीड़ितः । सोदग्दिशं महायात्रां कुर्वन् वा न प्रदुष्यती” ति विहिता महायात्रा ।गोसंज्ञप्तिरिति । गोसवनिषेधार्थम् । अग्निहोत्रेति । अग्निहोत्रं हूयते यथा वैकङ्कतस्रुचा, साऽग्निहोत्रहवणी तस्या अग्निहोत्रहोमानन्तरं हुतावशिष्टप्राशनार्थं जिह्वया लेहः कथञ्चिल्लीढायाः पुनर्ग्रहोऽग्निहोत्रसाधनत्वम् । प्रायश्चित्तेति । कामकृते महापापादौ । न तस्य निष्कृतिर्दृष्टा भृग्वग्निपतनादृते— इत्यादिना विहितस्य विधानमुपदेशः । मतिपूर्वमनिर्देश्यं प्राणान्तिकमिति स्थितिरिति मनुवाक्यं त्वेतद्युगपरम् । अत्र मरणान्तिकं विधातुर्ज़ीवितवधप्रायश्चित्तं सूच्यते । तच्च
मतिपूर्वनिर्देश एव । अन्यापदेशेन पृष्टं प्रति निर्देशे तदनन्तरं पृच्छकेन तथा चरणेतु न दोष इत्येतदर्थं मतिपूर्वकमित्युक्तम् । अत्र पाठान्तरम् ।संसर्गदोषस्तत्संसर्गी च पञ्चम इत्युक्तः, स्तेयं च। तदन्यानि च महापातकानि । ब्रह्महननसुरापानगुरुतल्पगमनानि त्रीणि महापापानि । तेषां कामकृतानां विप्राणां प्रायश्चित्तं मरणान्तिकं कलौ नेत्यर्थः । मरणान्तिके हि जातिवधनिमित्तं द्वादशाब्दंद्विगुणं ब्रह्मवधनिमित्तं च द्विगुणं भवति। तच्चतुर्थे नास्ति निष्कृतिरिति निषिद्धम् ।न चात्महत्याविधिना तद्बाधः ; तेन हि आत्महत्यानिमित्तस्यैव बाधो न जातिवधनिमित्तस्य । संसर्गिणस्तु कामतोऽपि व्रतस्यैवोक्तेर्न मरणान्तिकम् ॥ नापि स्तेये ; तत्र राज्ञो वधकर्तृत्वात् । तेन तयोर्मरणान्तिकत्वाभावात् तयोरेव निष्कृतिर्नान्येषां त्रयाणाम् ।युगान्तरे तु कलौ निषेधबलादेव प्रवृत्तिः । एतद्विप्रपरम्, न क्षत्रियादेः । तदुक्तम्—विप्राणां मरणान्तिकमिति । विशेषस्त्वस्मत्कृते प्रायश्चित्तरत्ने द्रष्टव्यः । अथैतद् व्याख्यायते । ननु प्रायश्चित्तविधानं चेत्यनेन संसर्गदोषस्तेयान्येत्यस्य पौनरुक्तयम् ; इतरत्र मरणान्तिकाभावादित्यत्रैकदेशिमतमाह—संसर्गेति। विधानं करणम् । क्रियमाणप्रायश्चित्तमिति यावत्, तच्च महापातकनिष्कृतिरित्येकवाक्यम् । आत्महत्या विधिना ।
यः कामतो नरः कुर्यान्महापापं कथञ्चन ।
न तस्य निष्कृतिर्दृष्टा भृग्वग्निपतनादृते इत्यात्महननविधिना । संसर्गदोषस्तेययोः पर्युदासबीजमाह– संसर्गिणस्त्विति ।
व्रतस्यैवेति ।
यो येन पतितेनैषां संसर्गं याति मानवः ।
स तस्यैव व्रतं कुर्यात्तत्संसर्गविशुद्धये” इति मनूक्तेः। राज्ञ इति । ब्राह्मणः स्वर्णहारी तु राज्ञेमुसलमर्पयेत् । स्वकर्माख्यापयंस्तेन हतो मुक्तोऽथवा शुचिरिति पाक्षिकमुक्त्यभिधानात्,आत्महननाकरणाच्च । ननु मतिपूर्वमनिर्देश्यं प्राणान्तिकमिति स्थितिरिति मनुनापि मरणान्तिकं निषिद्धमिति युगान्तरेऽपि तद्दुष्करमेवेत्यत्राह—युगान्तरे त्विति । एकमूलकल्पनालाघवेन मानवस्यापि कलिपरत्वादिति भावः । न क्षत्रियादेरिति । तथाच क्षत्रियादेर्मरणान्तिकं प्रायश्चित्तं कलौ भवतीति भावः । नन्वेतन्मते प्रायश्चित्तविधानं चेत्यस्य वैयर्थ्यंदुर्वारमित्यत्राह—विशेषश्चेति । संसर्गदोषश्चेति वाक्यं पृथगेवेत्यभिप्रायः । तच्चाग्रे स्पष्टम् । वस्तुतस्तु—विधेः प्राथमिकादस्माद् द्वितीये द्विगुणं भवेत् । तृतीये त्रिगुणं प्रोक्तं चतुर्थे नास्ति निष्कृतिरित्यत्र विधिपरवशात्प्रथममहापापानन्तरं प्रायश्चित्तं कृत्वा यदि द्वितीयं पापं क्रियते तदा तद् द्विगुणं प्रायश्चित्तं कार्यम् । तदुत्तरं महापापे तु तत् त्रिगुणुमिति प्रतिनिमित्तं नैमित्तिकावृत्तिरिति न्यायोज्जीवनेनाभिधाय चतुर्थे महापापे प्रायश्चित्तनिषेधः, न तु प्रकृतेऽकृतप्रायश्चित्तस्य कथञ्चिच्चातुर्विध्ये तत्प्रवृत्तिरिति । अत्र चतुर्थे नास्ति निष्कृतिरित्येव विधायकम् । अतो न वाक्यभेद इत्येके । एतच्च व्रत एवप्रवर्तते न मरणान्तिके; बाधात् । एवञ्च तत्र द्वैगुण्यादिविध्यन्तरमावश्यकमिति परेम् । वरस्य प्राजापत्यः ।अतिथेराग्नावैष्णव इति पशुयागविधिः ।वाघ्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकीत्यादिपित्र्यपशुविधिः । अत्र श्राद्धे पशुयागाभावेन तद्धर्मानतिदेशादुपाकरणाप्राप्तेः पशूपाकरणशब्देन तत्प्रकृतिकं पितृभ्यो मांसपरिवेषणं लक्ष्यते । एवञ्च मधुपर्के पशोर्वधः । मांसदानं तथा श्रा-
द्धे इति च गतार्थम्; एकमूलकल्पना लाघवात् । एवञ्च यस्तु प्राणिवधं कृत्वेत्यादिबृहत्पाराशरमपि कलिपरमेव ।दत्तेति ।
औरसो धर्मपत्नीजस्तत्समः पुत्रिकासुतः, इत्यादिद्वादशविधः पुत्रो विहितः । तत्रौरसदत्तकव्यावर्तनाय दत्तौरसेतरेषामिति । शामित्रमिति। आलभेतेति विधिप्राप्तं यज्ञे पशुमारणम्। ।सोमेति । गवा क्रीणातीति विधिवशसिद्धं सोमविक्रयणम् । शूद्रेष्विति ।
शूद्रेषु दासगोपालकुलमित्रार्धसीरिणः ।
भोज्यान्ना नापितश्चैव यश्चात्मानं निवेदयेत् ॥
इति विहितम् । न चेदं स्नातकप्रकरणत्वात्तेषामेवेति वाच्यम्; उत्तरेषां चैतदविरोधीति गौतमेन गृहस्थादीनामपि तदतिदेशात् । अतश्च गृहस्थपरम्; नाहिताग्निपरं मानाभावात् । दासादिपदञ्च नापितकुम्भकारयोरप्युपलक्षणम्; अन्यथाऽनौचित्यापत्तेः । तीर्थसेवेति । तीर्थयात्रेति पाठान्तरम् ।दूरतस्तीर्थमासेव्यमित्युक्तं तीर्थसेवनम् । शिष्यस्येति । गुरुवत्प्रतिपूज्याश्च सवर्णा गुरयोषितः इत्युक्तापादस्पर्शादिका । अश्वस्तनिकतेति । त्र्यहैकिको वापि भवेदश्वस्तनिक एव वेति विहिता ।प्रजार्थन्त्विति । क्वचिच्छाखायां जातकर्महोमे प्रजाजीवनार्थमरणिपरिग्रहो विहितः । ब्राह्मणानामिति । प्रवासित्वं वृथा, सदा प्रवासशालित्वम् । एवञ्च—प्रवसेत्कार्यवान् विप्रो न वृथैवाचिरं वसेदिति कलिपरमेव । बलात्कारेति। बलात्प्रमथ्य मुक्ता चेद्दह्यमानेन चेतसा । प्रजापत्येन शुद्धिः स्यात्तत्तस्याः पावनं स्मृतमिति संवर्ताद्युक्तप्रजापत्यादिना संग्रहः । यदा म्लेच्छादिभिर्भुक्तायाअभुक्ताया अप्यतिचिरतरकालं भुक्ततदीयान्नादिना केवलतत्तादाम्यापन्नायाश्च संग्रहः । परन्तु एता-
दृशविषये तासां पुंसां च प्रायश्चित्तं कार्यम्, न तुसंग्रह इति संग्रहपदोपादानम् । भृग्वग्नीति । वृद्धः शौचस्मृतेलुर्प्तःप्रत्याख्यातभिषक्क्रियः । आत्मानं घातयेद्यस्तु भृग्वग्न्यनशनाम्बुभिः—इति विहितः । णिजर्थाविवक्षया हन्यादित्यर्थः । गविति । गोतृप्त्यधिके जले ‘शुचिगोतृप्तिकृत्तोय’ मिति विहितम् । सौत्रामण्यामिति व्याचष्टेसुरेति । सुराग्रह इति कर्तृव्युत्पत्या याज्योऽयाज्यश्चाविशेषाद्ग्राह्यः । व्यवहार इत्यनेन कृतप्रायश्चित्तस्यापीति लभ्यते । न च युगान्तरेऽकृतप्रायश्चित्तस्य व्यवहारः स्थित इति वाच्यम्; तर्ह्येतद्वाक्यवैयर्थ्यात्, लौकिकसुराग्रहणतुल्यत्वात् । अनेनेति । मद्यं सुरा । तत्सौत्रामण्यां वर्ज्यमित्यर्थः । निषेधस्येति । ‘सामान्यविधिरस्पष्टः संह्रियेत विशेषत’ इति यौक्तिकम् । एवञ्च निषेधे तदप्रवृत्तिरिति भावः । साधकाभावमुक्त्वाबाधकमप्याह– न हिंस्यादिति । अन्यत्रेति । एकादश्यां न भुञ्जीतेति सामान्यनिषेधस्य बोधिन्यादावुपवसेदित्यनेनोपसंहारेऽन्यशुक्लैकादश्यां भोजनप्रसङ्गवारणार्थं विधीनामेवोपसंहारो न निषेधानामित्यादिकमुक्तमित्यर्थः । वस्तुतस्तु सुरेह पैष्टीति शङ्का तुच्छैव । तस्माद् ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेदित्येतत्परतया वा योज्या ।निरूपितं चेति । न हिंस्यादिति निषेधस्याग्नीषोमीयादि विधिनेव सुरा वै इति निषेधस्य सौत्रामणीसुराग्रहविधिना बाध इति तत्र प्रसक्तः सुराग्रहः कलौ निषिध्यत इत्यर्थः । नन्वेवं राजा राजसूयेनेत्यादौ उद्देश्यविशेषणराजत्वादेरधिकारिसङ्कोचकत्वमिव तादृशस्य सौत्रामणीत्वादेः कर्मसङ्कोचकतया वाजपेयादौ सुरासन्धानापत्तिरित्यत्राह – सुराग्रहस्येति ।अविवक्षयेति । समुच्चयार्थकेनापिशब्देन कर्मान्तरसमुच्चयेना-
प्रायश्चित्तानां वाऽकृतप्रायश्चित्तानां सर्वेषामपि यदि स्वधर्मानुष्ठानेच्छा, तदैव । न तु बलात्कारेण । देवलस्मृतौ तु ‘बलाद्दासीकृता ये च म्लेच्छचण्डालदस्युभि’ रित्यादिश्लोकैःपरधर्म प्रविष्टानामपि पुनरपि स्वधर्मे संग्रहस्त्वनुमत एवेति तत्रैव कणेहत्य समीक्षणीयम् । अत्र च यद्यपि बलादिति पदाद् बलात्कारेण परिभ्रष्टानामेव संग्रहोऽनुमतः, न तु छलमोहादिभिः परिभ्रष्टस्येति समुद्रेत्याकांक्षा । परञ्च बोधायनेनोक्तस्य—
बलादपहृता कन्या मन्त्रैर्यदि न संस्कृता ।
अन्यस्मै विधिवद्देया यथा कन्या तथैव सा ॥
इति वचनस्य विवरणावसरे पारस्करगृह्यसूत्रस्य प्रथमकाण्डान्तर्गतायामष्टमकण्डिकायां तद्विवरणानुषङ्गेण बलादिति छलादेरप्युपलक्षणमित्युक्तम् । तद्वदत्रापि बलादित्युपलक्षणं छलादेदिरिति स्वीकारे न कोऽपि दोषो वा शास्त्रव्याघातः । एवञ्च परधर्मे प्रविष्टानामत एव पतितानां पुनरपि सङ्ग्रहो न्याय्यः । न च प्रायश्चित्तानन्तरमेव सङ्ग्रहोऽनुमत इति वाच्यम्; नहि प्रायश्चित्तंनाम कश्चन नाट्यवद्विधिरेव, किन्तु पश्चात्तापोऽपि प्रायश्चित्तमेव । अत एव बहुषु पश्चात्तापेन शुद्ध्यतीति न्यायानुसरणंधर्मज्ञानाम् । संस्कारलोपाद्व्रात्यप्रायश्चित्तमपि मनुनोक्तं ग्राह्यम् । एवञ्च यथाकथमपि स्वधर्मभ्रष्टस्य पश्चात्ताप पुनरपि संग्रहः कर्तव्यः । तेनैव किल हिन्दुसंख्याह्रासपरिहारः स्यादेव ।येषां खलु जातिकुलादिकं पूर्वतनं स्मर्यते, तेषां स्वजातौनिवेशः । येषां खलु तद्भावस्तेषां पृथग्जातित्वेनावस्थानमिति तु विशेषः । अत्रविषये देवलस्मृतिर्विशेषतो निरीक्षणीया । किञ्च ‘अनुक्तनिष्कृतीनान्तु पापानामपनुत्तये । शक्तिं चावेक्ष्यपापञ्च प्रायश्चित्तं
प्रकल्पयेत्’ इति (अ० ११ श्लो० २०६) मनुवचनात्कुत्रचित्पापाद्यवेक्षणपूर्वकं प्रायश्चित्तकल्पने धर्मज्ञानां स्वातन्त्र्यं वर्तत एवेति तदनुसारेणापि पतितानां बलाद्भ्रष्टानाञ्च सङ्ग्रहः कर्तव्य एव । सर्वथा न स्वस्वपूर्वतनजातिषु विवाहादिगुरुतरसंसर्गव्यवस्थापनस्यावश्यकतेति द्रष्टव्यम् । यदि च कृतप्रायश्चित्तानां पृथग्जातित्वं कल्प्यते चेन्महाननर्थः स्यात् । यतोऽधुनैव बहूनां जातीनां सद्भावेनान्योन्यं सुहृत्त्वेनावस्थानं दुष्करम् । तत्र यदि पुनरप्येका जातिः कल्प्यते चेत्तेनातीव वैमनस्यमेव । विशेषस्तु पूर्वमेवोक्तः । तत्र त्वगत्या भिन्ना जातिः कल्पनीयैव । परञ्च यावच्छक्यं नान्यजातिकल्पनं समुचितम्पश्यामः । शास्त्रीयविनिर्णयोऽप्यत्र देवलस्मृत्या पूर्वोक्त एव । यथाहि ब्रह्मघ्नानामपि प्रायश्चित्तानन्तरं पूर्वजातौ प्रवेशः, तत्र का नाम कथा परधर्मप्रविष्टानाम् ।तस्मात्पतितानां स्वधर्मानुष्ठानेच्छा चेत्पुनरपि सङ्ग्रहः कर्तव्य इति सिद्धम् । देवलस्मृतिवचनानि चेत्थम्—
सिन्धुतीरे समासीनं देवलं मुनिसत्तमम् ।
समेत्य मुनयः सर्व इदं वचनमब्रुवन् ॥ १ ॥
भगवन्म्लेच्छनीता हि कथं शुद्धिमवाप्नुयुः ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैवानुपूर्वशः ॥ २ ॥
देवल उवाच—प्रायश्चित्तं प्रवक्ष्यामि विस्तरेण महर्षयः ।
अपेयं येन सम्पीतमभक्ष्यंचापि भक्षितम् ॥
म्लेच्छैर्नीतेनविप्रेण अगम्यागमनं कृतम् ॥ ७ ॥
तस्य शुद्धिम्प्रवक्ष्यामि यावदेकन्तु वत्सरम् ।
चान्द्रायणन्तु विप्रस्य सपराकम्प्रकीर्तितम् ॥ ८॥
पराकमेकं क्षत्रस्य पादकृच्छ्रेण संयुतम् ।
मनादिमहापापसंसर्गप्रायश्चित्तं कलौ न भवतीति नार्थः । पराशर
स्मृतावेव ‘चातुर्विद्योपपन्नस्तु विधिवद् ब्रह्मघातके । समुद्रसेतुगमनं प्रायश्चित्त’ विनिर्दिशेत् ॥
मद्यपश्च द्विजः कुर्यान्नदीं गत्वा समुद्रगाम् ।
चान्द्रायणे ततश्चीर्णेकुर्याद्ब्राह्मणभोजनम् ॥
अनडुत्सहितां गाञ्च दद्याद्विप्रेषु दक्षिणाम् ।
सुरापानं सकृत्कृत्वा अग्निवर्णां सुरां पिबेत् ॥
स पावयेदथात्मानमिह लोके परत्र च । इति
ब्रह्महमद्यपसुरापनिष्कृतीनां आसनाच्छायनाद्यानादिति संसर्गमभिधाय ‘चान्द्रायणं यावकं च तुलापुरुष एव च । गवां चैवानुगमनं सर्वपापप्रणाशनमिति महापातकसंसर्गादिनिष्कृतेश्चोक्तत्वात् । न च पराशरोक्तस्य कलिनिषेधेन बाधः । “कृते तु मानवा धर्मास्त्रेतायां गौतमाः स्मृताः । द्वापरे शङ्खलिखिताः कलौ पराशराः स्मृताः” इति पराशरेणैव विरोधे स्वस्मृतिप्राबल्योक्तेश्च । तस्मात्पततिसंसर्गे प्रायश्चित्ताचरणं कार्यमेवेति । अन्ये तु– ‘त्यजेद्दशं कृतयुगे’ इत्याद्युक्तदेशादित्यागस्य ‘कृते सम्भाष्य पतति’ इति सम्भाषणादिजन्यपातित्यस्य वा न निषेधः; कलौ युगान्तरोक्ताप्राप्तेर्निषेधासम्भवात् । तस्मात्कलौ पतति कर्मणेति कलौ कर्मणा ब्रह्महननादिना पतति न तु संसर्गेणेति व्याख्येयम् । इदानीन्तनानां संसर्गनिमित्तकप्रायश्चित्ताचरणं च पापक्षयार्थमेवेति ग्रन्थं समर्थयन्ते । अत्र केचिदुपन्यस्यन्ति– पापस्याव्यवहार्यत्वनरकोत्रादकत्वरूपे द्वे शक्ती । द्विजातिकर्मभ्यो हानिः पतनमिति गौतमात् ।
अधोऽधःपतनात्पुंसां पातकं परिकीर्तितम् ।
नरकाग्निषु घोरेषु पतनात्पापमुच्यते ॥
इति भविष्यात् । तत्र नरकोत्पादकत्वसत्त्वेऽप्यव्यवहार्यत्वं नास्तीति कथमुच्यते । न च प्रायश्चित्तेन नरकोत्पादकशक्तिसत्वेऽपि व्यवहारनिरोधिकाया नाशवादेवदिति वाच्यम्; वैषम्यात् । तथाहि — अकामकृतस्य महापापादेः प्रायश्चित्तेन नाशः । कामकृते तु व्यवहार्यतामात्रम् । प्रायश्चित्तैरपैत्येनो यदज्ञानकृतं भवेत् । कामतो व्यवहार्यस्तु वचनादिह जायते । इति शास्त्रात् । विहितं यदकामानां कामात्तद्द्विगुणं भवेदिति वचनान्यथानुपपत्तेश्च । इह तु– पतितेन सहोषित्वा जानन् संवत्सरं द्विजः । निश्चितस्तेन सोऽब्दान्ते स्वयं च पतितो भवेदिति देवलोक्तेःसंसर्गिणोऽप्यब्दान्ते पातित्येन प्रायश्चित्तं विना व्यवहाराङ्गीकारासम्भवात्, ब्रह्महननादिना शक्तिद्वयवत्पापं जायते । संसर्गेण त्वेकशक्तिमत्पापमित्यत्र नियामकाभावाच्च । महापापे मरणान्तस्य प्रायश्चित्तत्वे व्यवहारानुपयोगित्वान्नरकनिवर्तकमात्रम् ।परिशेषात्तु व्रतात्मकव्यवहारोपयोगि । प्रकृते तु व्यवहारस्य प्रागेव सिद्धत्वात्तद्भङ्ग इत्यादिदूषणगणापत्तेः । कामतोऽव्यवहार्यस्त्वित्यत्राकारप्रश्लेषेणाव्यवहार्यतावादिनां शङ्कराचार्याणां संसर्गपातित्ये व्यवहाराभावस्येष्टत्वात् । तस्मात्संसर्गदोष इत्यस्य ब्रह्महननादौ प्रायश्चित्ते कृतेऽपि व्यवहाराभावः, संसर्गे तु कलौ प्रायश्चित्तेकृते सति स नास्तीत्येवार्थ इति । संसर्गदोष इत्यत्र संसर्गपदं संसर्गिसंसर्गपरम् । कर्तारन्तु कलौ युगे इति कर्तृत्यागविधिना तत्संसर्गे दोषप्रत्ययात् । कलौ कर्तैव लिप्यते इति तु साक्षात्संसर्गेण पातित्याभावव्यञ्जकमिति भट्टदिनकरः ।स्तेयान्येति व्याचष्टे– स्तेयभिन्ने इति । नन्वत्र स्तैयान्यमहापापे प्रायश्चित्तं न कार्यमित्यसङ्गतम् । पराशरेणैव प्रत्येकं महापापे प्रायश्चित्ताम्नानात् ।
कृते तु मानवा धर्मास्त्रेतायां गौतमाः स्मृताः ।
द्वापरे शङ्खलिखिताः कलौ पाराशराः स्मृताः ॥ इति
पराशरस्मृतेः कलौ बलीयस्त्वादित्यत्राह—रहस्येति । तस्मात्प्रकाशयेत्पापमिति पराशरोक्तेःकलौ प्रकाशप्रायश्चित्तमेव कार्यमिति भावः । यत्तु कलौ पाराशरा इति वाक्येन स्तेयान्येत्यस्यसर्वथा बाधे विषयान्तराभावादप्रामाण्यम् । अतः स्तेयान्यमहपापनिष्कृतिर्नोपदेश्या, उपदेशेऽपि संसर्गो न कार्य इति वातात्पर्यम् । औदुम्बरी सर्वा वेष्टयितव्येति स्मृतेः ‘अष्टकाः कर्तव्याः’ इतिवन्मूलश्रुतेरनुमानद्वारा प्रामाण्यम् प्रापय्य ‘औदुम्बरीं स्पृष्ट्वोद्गायेदि’ति प्रत्यक्षश्रुत्या बाधाद्द्वित्र्यङ्गुलादिपरिहारेण सर्वा वेष्टनीयेति कल्पनवदिति तन्न; प्रायश्चित्तविधानं चेति तदुपदेशस्य निषिद्धत्वात्; ब्राह्मणभोजनविधिसार्थक्याय संसर्गस्येष्टत्वात् । स्तेयपर्युदासश्च तत्र रहस्यप्रायश्चित्ताभ्यनुज्ञानार्थः । केचित्तु अकामकृतेषु स्तेयान्यमहापापेषु नरकक्षयार्थं निष्कृतिर्न कार्या, व्यवहार्यत्वार्थन्तु कार्या, मरणान्तिकप्रायपाठादित्याहुः । सवर्णान्येति व्याचष्टे ।सवर्णान्येति । दुष्टैर्मैथुनादिभिः । शोधितैः कृतप्रायश्चित्तैः । न च ब्राह्मणादेः क्षत्रियाद्युद्वाहनिषेधेनैव तत्सम्पर्कोनिषिद्ध इति व्यर्थमेतदिति वाच्यम्; एतद्वाक्यस्य हीनवर्णासम्पर्कविषयत्वात् । तादृशसम्पर्के कृतप्रायश्चित्तानां संसर्गस्य पूर्वयुगेऽनुज्ञातस्य कलौ निषेध इति । नव्यास्तु—अनुद्वाहेऽपि व्यभिचारादिप्रायश्चित्तानन्तरं संसर्गो नेत्येतत्पर—इत्याहुः । अयोनाविति व्याचष्टे ।अयोनाविति । गुरुस्त्रिया ब्राह्मणस्त्रियाः । सङ्ग्रहे गर्भधारणे । परित्यागो गृहान्तरावस्थानम् । पतिघ्नी च विशेषेण जुङ्गितोपगता च येति उत्तरार्धम् । जुङ्गिता हीनयोनिः । युगान्तरे
त्वयोनौ संग्रहे परित्याग एवेति भावः । परोद्देशेति व्याचष्टे—परोद्देशेनेति । “गवार्थे ब्राह्मणार्थे वा सद्यः प्राणान् परित्यज्यजेत्” इति विहितः । यद्वेत्यादि । इदञ्च न सम्यक्; बहुग्रन्थविरोधात् । उद्दिष्टस्यापीति व्याचष्टे—उद्दिष्टस्येति । प्रतीति । प्रतिग्रहसमर्थोऽपि प्रसङ्गं तत्र वर्जयेदित्यर्थः । प्रतिग्रहसामान्यनिषेधः कलौ वर्ज्य इत्यर्थः । केचित्तु उच्छिष्टस्यापवर्जनमिति पाठः । स्वाम्युच्छिष्टमुच्छिष्टोपहतं चेति वसिष्ठाद्युक्तम् ।तन्निमित्तप्रायश्चित्तं नेत्यर्थः । अन्ये तु—अपवर्जनं दानम् । विश्राणनं वितरणं स्पर्शनं प्रतिपादनम् । प्रादेशनं निर्वपणमपवर्जनमर्हतिरिति त्रिदण्डिस्मरणात् । उदगुच्छिष्टं ब्राह्मणाय प्रयच्छेदिति मधुपर्के विहितं तन्नेत्यर्थः—इत्याहुः । परे तु उच्छिष्टस्यापि वर्जनमिति पाठः ।उच्छिष्टस्य ताम्बूलचर्वणाद्द्युच्छिष्टस्य परि वर्जनमित्याहुः । प्रतिमेति व्याचष्टे । वेतनेति । यावज्जीवं मया इयमेव प्रतिमा पूजनीयेत्येवमुद्देशाद्युल्लेखपूर्वकसङ्कल्पोपलक्षणमेतत् । अस्थीतिव्याचष्टे—स्वाशौचेति । षड्भक्तेति व्याचष्टे–षडिति । षण्णां भक्तानामनशनम् । उपवास त्रयम् ।“तथैव सप्तमे काले भक्तानि षडनश्नता । अश्वस्तनविधानेन हर्तव्यं हीनकर्मण” इति मानवमपि संगृहीतमित्याह । अन्नचौर्यमिति । आपदीति व्याचष्टे आपदीति । क्षत्रादीति । क्षात्रेण कर्मणा जीवेद्विशां वाप्यापदि द्विज इति विहितम् । मुखैनैवेति । “मुखे नैव धमेदग्निं मुखादेषोऽध्यजायत । नाग्निं मुखेनेति तु यत् लौकिके योजयेत्तु तदि” तीत्यर्थः । नवोदके इति व्याचष्टे ।दशाहेनैवेति । शुध्येतेतिपाठः । कलौ नवोदके दशाहं त्याज्यत्वं नेत्यर्थः । काले नवोदकं शुध्येन्न पिबेच्च त्र्यहन्तु तत् । अकाले तु दशाहंस्यात्पीत्वा नाद्यादहर्निशमिति दशाहप्रतिषेधस्यापवादस्त्रिरात्रप्रति-
षेधप्राप्त्यर्थः । अन्यथा काले त्र्यहप्रतिषेधः । अकाले तु न किञ्चिदित्यनौचित्यापत्तेः । दक्षिणेति व्याचष्टे ।गुरुवे त्विति । लाभे मूलानां दक्षिणां ददातीति विहिता दक्षिणापीह द्रष्टव्या । ब्राह्मणादिष्विति व्याचष्टे ।शूद्रेष्विति । पचनादीत्यादिना भोजनग्रह इत्याशयेनेदम् । शूद्रस्येति । अत्रोभयत्राप्यर्थतः पाकक्रिया लभ्यते; शूद्रकर्तृकपाकं विना तद्भोजनाभावात् । आर्याधिष्ठिताः शूद्राः संस्कर्तारः स्युरित्यापस्तम्बोक्तमपीह ब्राह्मणगृहे शूद्रस्य पक्तृत्वं द्रष्टव्यम् । पितेति व्याचष्टे पितेति । यतेरिति व्याचष्टे यतेरिति । विधूम इति । विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने ।कालेऽपराराहभूयिष्ठे नित्यं भिक्षां यतिश्चरेदित्यर्थः ।गृहपदस्य भिक्षार्थं गृहगमनपरत्वादिति भावः । यत्र सूर्यास्तो जातस्तत्रावस्थानं सायंगृहत्वमिति मतमाह—पृथ्वीति । सायंगृहा इति । तत्र मध्यम् ।यद्यप्यष्टौ मासान् विहारः स्यादित्यस्यैकवाक्यतया अनिकेता इति यतिपरमेव । तथाप्यनाहारा इत्यनेनाहारसामान्याभावबोधनासम्भवादज्ञातेत्युक्तम् । अत एवोक्तो निषेध इत्यसमस्ताभिधानम् । यतिपदं चाविवक्षितार्थकम् । विप्रा इति सामान्यतोऽभिधानात् । शीलपदेन कुलमप्युपलक्षणीयम् । तेन गृहस्थादेरपि संग्रहः । वस्तुतस्तु उक्तनिषेध इति पाठः । उक्तस्य निषेध इत्यर्थः । अनिकेतत्वे सत्यनाहारस्य यतिष्वेव सत्त्वात् यतेरित्यपि विवक्षितम् । तत्र च यत्र सूर्यास्तो जातस्तत्रैव यतेरवस्थानं तद्वर्ज्यमित्यर्थः । तेनेति । अत्राक्षता गोपशुश्चैव श्राद्धेमांसं तथा मध्विति । यच्छ्राद्धंमधुना हीनम् । मधुप्रधानं शूद्रस्येत्यादेर्विषयं वक्ष्यति ।पलपैतृकं पैतृकं मांसम् । ननु पूर्वयुगाश्रितेत्यत्र पूर्वयुगेत्यस्य पूर्वयुगानि कृतादीनि, युगस्य कलेः पूर्वभाग इति वाऽर्थः ? नाद्यः; एतेनेत्यादिविरोधात्,
चत्वार्यद्बसहस्राणीति कलौ त्रेतापरिग्रहविधानात् । नान्त्यः; प्रकृतानुपष्टम्भकतापत्तेः । अत्रोच्यते–आद्य एवार्थो ग्रन्थकृत्सम्मतो नापरः । एकदेशिसमासे लक्षणाप्रसङ्गात् । एवञ्च समान्यतो निषिद्धमपि सर्वाधानं व्यासवाक्येन पुनः प्रतिप्रसूयते । इति । यावद्वर्णेति चार्धाधानपरम् ।न्यायप्राप्तानुवादः । वेदोच्छेदे वर्णसङ्करे वाधिकाराभावादेव तन्निवृत्तेः प्राप्तत्वात् । सर्वाधानेऽपि विशेषमित्यस्यावधिविशेषपरिच्छिन्ने सर्वाधानेऽर्धाधानावधिमित्यर्थः । त्रिदण्ड इति । वैयासिकी संख्या त्वेकदण्डपरा ।गारुडे—
कलौ न क्रियते अश्वमेधो वाप्यथ गोसवः ।
नरमेधोऽक्षता नारी देवरात्पुत्रसन्ततिः ॥
गर्हितं सप्तकं ह्येतद्गाजसूयकमण्डलू ।
आदित्यपुराणे—समयाः शकुनाः प्रश्नाः सामुद्रिकमुपश्रुतिः ।
उपयाचितमादेशां न भवन्ति कलौ क्वचित् ॥
तस्मात्तन्मात्रलाभेन कलौ कार्यं न कारयेत् ॥
इति कलिवर्ज्यप्रकरणम् ॥ इति ॥
कलिवर्ज्यप्रकरणं हीदं पर्युदासविधयैव नेयमिति प्रमाणविचारावसरे विवेचितं मांसमीमांसाद्यनुसारेण । तथाच अग्निहोत्रादिविधीनां कलिभिन्नविषयत्वं कलियुगेऽधिकारितावच्छेदकविद्याशक्त्याद्यभावेन कलावप्रवृत्यार्थसिद्धमेवानूद्यते कलिवर्ज्यप्रकरणेनेति न दोषः । तथाच येषामनुष्ठानेऽनर्थवात्प्याशङ्का, तेषामेव निरासः कलिवर्ज्यप्रकरणे क्रियते । यथा देवरेण सुतोत्पत्तौ व्यासादितुल्यो निगृहीतेन्द्रियः सकृद्गमनमात्रेण पुत्रोत्पादनसमर्थोऽनन्तरं तस्यां मातृबुद्ध्यावर्तनशक्तश्चाधिकारी कलौ शशशृङ्गायमाण एव । एतेन विधवाविवाहोऽपि—व्याख्यातः । विधवाविवाहे तुमनुसंमतेऽपि
पृथक्संस्थैव तत्संबन्धिनां युक्तेति मनुनैव सूच्यते । इदानीं तु सूचीप्रवेशे मुसलप्रवेश इति न्यायेन सर्वसांकर्यं स्यादिति सर्वात्मना निषेधः । एतेन लोकगुप्त्यर्थमित्यपि—व्याख्यातम् ।
सर्वथा—धर्मज्ञानां हि सर्वेषां नियमसङ्कोचार्थमपि प्रवर्तमानानां धर्मसंस्थापनमेव परमुद्देश्यम्, नतु धर्मविनाशनमिति सर्वविदितमिदम् । तद्यदि पतितसंसर्गस्य सर्वथाऽदोषत्व एव तेषां तात्पर्यं स्यात्, तर्हि सर्व एव स्वीयं पातित्यमपि भाव्यविगणय्य केवलादृष्टफलैकसाधनेषु धर्मेषु न प्रवर्तेरन्, नतराञ्च निवर्तेरन्निषिद्धकर्मभ्य इति पुरा युगे यदा धर्मश्रद्धा परलोकविश्वासः पारलौकिकफल एवात्यादरश्चासीत्तदाऽभ्यनुज्ञातेऽपि कृतप्रायश्चित्तानां पतितानां व्यवहारे न तथा धर्मस्य ग्लानिर्भवितेति सत्यमभ्यनुज्ञातो व्यवहारः । कलौ त्विदानीं प्रायेण किम्बहुना सर्व एवैहिकफलविश्वसिनः पारत्रिकफलकथाविमुखाः शास्त्रापरतन्त्राश्च वर्तन्त इत्यैहिकव्यवहारेषु निर्बन्धविशेषव्यवस्थापनं विना न धर्मव्यवस्थापनं कथमपि कर्तुं पार्यत इति कृतप्रायश्चित्तानामपि पतितानां व्यवरायोग्यत्वव्यवस्थापन एव सर्वेऽपि प्रायेण निषिद्धकर्मभ्यो निवर्तेरन्, प्रवर्तेरंश्च विहितेषु धर्मेष्विति ‘संसर्गः शोधितैरपीति’ कलिवर्ज्यप्रकरणे व्यवहारनिषेधोऽपि शोधितैः क्रियमाणः सर्वथा युक्त एव । न ह्यन्यथा धर्मरक्षणं भवतीति न धर्मज्ञानां उक्तव्यवस्थापराणां द्वेषादिमूलकत्वकल्पनं कथमप्यवसरति । दृश्यन्ते हीदानीं बहव एवास्माभिर्धर्मतत्त्वविचारावसरे ये तथा शास्त्रपारतन्त्र्यमात्मनः समुचितममन्वानाः प्रतिवदन्तश्चैहिकपरिस्थितिरेवास्माभिः पर्यालोचनीयेत्यादिकं चेति नेदं कस्यापि तिरोहितम् । तथाच धर्मज्ञानां पूर्वाचार्याणामिदानीन्ततानां व्यवस्थापकम्मन्यानाञ्च
स्पष्ट एवोद्देशभेदो विचारपथभेदश्चेति धर्मज्ञानां विद्वेषमूलकत्वादिदूषणमिदानीन्तनानां वस्तुगत्याऽनादरणीयमेव । प्रसिद्धमिदं सर्वेषाम्—उद्देश्यभेदे मार्गभेदे चाश्रिते परस्परं स्वीयस्वीयोद्देश्यादिमात्रदृष्ट्योद्देश्यान्तरस्वरूपाद्यपर्यालोच्यैव विफलमेव निन्दाः क्रियन्त इति । तदत्र स्तुतिनिन्दादिकं सर्वमेकेन मार्गेणोभयसम्मतेन क्रियमाणमेव कार्यकारि भवति नान्यथा ।तद्यदि पूर्वाचार्याणां मार्गो नादरणीय इति मतम्, तर्हि कामं नाद्रियतां स मार्गः । इदमेवास्माकमत्र प्रष्टव्यम्—किमिति वा स्वीयानामपेक्षितानां सर्वेषां पूर्वाचार्यसम्मतत्वस्थापनार्थं प्रयत्नः क्रियत इति ? न हि पूर्वाचार्या धर्मव्यवस्थापनार्थमेव कृतदीक्षाः सत्यामप्यापदि मुख्यकल्पानुसारेण यथावदेव शास्त्रपरिपालनमप्यावश्यकं मन्यन्ते । येन लोकपरिस्थिति र्धमज्ञैःकथमपि नावलोकितेति निन्दायास्तेष्ववकाशः । कति वा प्रयत्नाः पूर्वाचार्यैरधिकारिभेदेनावस्थाभेदेन कालभेदेन देशभेदेन च धर्मव्यवस्थासम्पादनार्थं समादृता इति सर्व एव विदांकुर्वन्तु । तदत्र वयमिदमेव सूचयामः—यत्पूर्वाचार्याणामुद्देशादिकं तदोयेन विचारमार्गेणाद्ययावदनुवर्तमानेन सर्वैरपि द्रष्टव्यम्, न तु नूतनेन केनापि कल्पितेन मार्गान्तरेणेत्येव सनातनधर्मावलम्बिनामाशयः । तथा विचारेण च कृतेनेदमेव फलति यत्पूर्वोक्तप्रकारेण पतितसंसर्गश्चण्डालादिसंसर्गो वा यौनमौख्यस्त्रौवादिरूपः श्रेयस्कामैः सर्वथा परिहरणीयः ॥ इति ॥
तत्र कश्चित्– “सिद्धायां स्वत्वापदि तदनुसृत्या च धर्मपरिवर्तने म्लेच्छचाण्डालदस्युभिर्बलाद्दासीकृतानामत एव पतितानां पतितसंसर्गात्स्वेच्छया पतिनानां वा सर्वेषां पुनरपि हिन्दुधर्मे स्वीकारोऽप्यावश्यक इत्यपि सुस्पष्टमेव । स चायम्परिग्रहः कृत-
प्रायश्चित्तानां वाऽकृतप्रायश्चित्तानां सर्वेषामपि यदि स्वधर्मानुष्ठानेच्छा, तदैव । न तु बलात्कारेण ।देवलस्मृतौ तु ‘बलाद्दासीकृता ये च म्लेच्छचण्डालदस्युभि’ रित्यादिश्लोकैःपरधर्म प्रविष्टानामपि पुनरपि स्वधर्मे संग्रहस्त्वनुमत एवेति तत्रैव कणेहत्य समीक्षणीयम् । अत्र च यद्यपि बलादिति पदाद्बलात्कारेण परिभ्रष्टानामेव संग्रहोऽनुमतः, न तु छलमोहादिभिः परिभ्रष्टस्येति समुद्रेत्याकांक्षा।परञ्च बोधायनेनोक्तस्य—
बलादपहृता कन्या मन्त्रैर्यदि न संस्कृता ।
अन्यस्मै विधिवद्देया यथा कन्या तथैव सा ॥
इति वचनस्य विवरणावसरे पारस्करगृह्यसूत्रस्य प्रथमकाण्डान्तर्गतायामष्टमकण्डिकायां तद्विवरणानुषङ्गेण बलादिति छलादेरप्युपलक्षणमित्युक्तम् । तद्वदत्रापि बलादित्युपलक्षणं छलादेदिरिति स्वीकारे न कोऽपि दोषो वा शास्त्रव्याघातः । एवञ्च परधर्मे प्रविष्टानामत एव पतितानां पुनरपि सङ्ग्रहो न्याय्यः । न च प्रायश्चित्तानन्तरमेव सङ्ग्रहोऽनुमत इति वाच्यम्; नहि प्रायश्चित्तं नाम कश्चन नाट्यवद्विधिरेव, किन्तु पश्चात्तापोऽपि प्रायश्चित्तमेव । अत एव बहुष पश्चात्तापेन शुद्ध्यतीति न्यायानुसरणंधर्मज्ञानाम् । संस्कारलोपाद्व्रात्यप्रायश्चित्तमपि मनुनोक्तंग्राह्यम् । एवञ्च यथाकथमपि स्वधर्मभ्रष्टस्य पश्चात्तापे पुनरपि संग्रहः कर्तव्यः । तेनैव किल हिन्दुसंख्याह्रासपरिहारः स्यादेव ।येषां खलु जातिकुलादिकं पूर्वतनं स्मर्थते, तेषां स्वजातौ निवेशः । येषां खलु तदभावस्तेषां पृथग्जातित्वेनावस्थानमिति तु विशेषः । अत्र विषये देवलस्मृतिर्विशेषतो निरीक्षणीया । किञ्च ’अनुक्तनिष्कृतीनान्तु पापानामपनुत्तये । शक्तिं चावेक्ष्यपापञ्च प्रायश्चित्तं
प्रकल्पयेत्’ इति (अ० ११ श्लो० २०९) मनुवचनात्कुत्रचित्पापाद्यवेक्षणपूर्वकं प्रायश्चित्तकल्पने धर्मज्ञानां स्वातन्त्र्यं वर्तत एवेति तदनुसारेणापि पतितानां बलाद्भ्रष्टानाञ्च सङ्ग्रहः कर्तव्य एव । सर्वथा न स्वस्वपूर्वतनजातिषु विवाहादिगुरुतरसंसर्गव्यवस्थापनस्यावश्यकतेति द्रष्टव्यम् । यदि च कृतप्रायश्चित्तानां पृथग्जातित्वं कल्प्यते चेन्महाननर्थः स्यात् । यतोऽधुनैव बहूनां जातीनां सद्भावेनान्योन्यं सुहृत्त्वेनावस्थानं दुष्करम् । तत्र यदि पुनरप्येका जातिः कल्प्यते चेत्तेनातीव वैमनस्यमेव । विशेषस्तु पूर्वमेवोक्तः । तत्र त्वगत्या भिन्ना जातिःकल्पनीयैव । परञ्च यावच्छक्यं नान्यजातिकल्पनं समुचितम्पश्यामः । शास्त्रीयविनिर्णयोऽप्यत्रदेवलस्मृत्या पूर्वोक्त एव । यथाहि ब्रह्मघ्नानामपि प्रायश्चित्तानन्तरं पूर्वजातौ प्रवेशः, तत्र का नाम कथा परधर्मप्रविष्टानाम् ।तस्मात्पतितानां स्वधर्मानुष्ठानेच्छा चेत्पुनरपि सङ्ग्रहः कर्तव्य इति सिद्धम् । देवलस्मृतिवचनानि चेत्थम्—
सिन्धुतीरे समासीनं देवलं मुनिसत्तमम् ।
समेत्य मुनयः सर्व इदं वचनमब्रुवन् ॥ १ ॥
भगवन्म्लेच्छनीता हि कथं शुद्धिमवाप्नुयुः ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैवानुपूर्वशः ॥ २ ॥
देवल उवाच – प्रायश्चित्तं प्रवक्ष्यामि विस्तरेण महर्षयः ।
अपेयं येन सम्पीतमभक्ष्यंचापि भक्षितम् ॥
म्लेच्छैर्नीतेन विप्रेण अगम्यागमनं कृतम् ॥ ७ ॥
तस्य शुद्धिम्प्रवक्ष्यामि यावदेकन्तु वत्सरम् ।
चान्द्रायणन्तु विप्रस्य सपराकम्प्रकीर्तितम् ॥ ८ ॥
पराकमेकं क्षत्रस्य पादकृच्छ्रेणसंयुतम् ।
पराकार्धन्तु वैश्यस्य शूद्रस्य दिनपञ्चकम् ॥ ९॥
म्लेच्छैर्नीतेनशूद्रैर्वा हारिते दण्डमेखले ।
संस्कारप्रमुखंतस्य सर्वं कार्यं यथाविधि ॥ १२ ॥
तदासौ स्वकुटुम्बानाम्पङ्क्तिम्प्राप्नोति नान्यथा ।
स्वभार्यां च यथान्यायं गच्छन्नेवविशुध्यति ॥ १४ ॥
अथ संवत्सरादूर्ध्वं म्लेच्छैर्नीतो यदा भवेत् ।
प्रायश्चित्ते तु सञ्चीर्णेगङ्गास्नानेन शुद्ध्यति ॥ १५ ॥
गृहीतो यो बलान्म्लेच्छैःपञ्च षट्सप्त वा समाः ।
दशादि विंशतिं यावत्तस्य शुद्धिर्विधीयते ॥ ५३ ॥
प्रायश्चित्तं समाख्यातं यथोक्त देवलेन तु ।
इतरेषामृषीणाञ्च नान्यथा वाक्यमहथ ॥ ७२ ॥
इत्यादीनि । अत्र च स्त्रीविषयकं प्रायश्चित्तमपि ४३-४४-४७-४८-४९-५०-५१-५२ इत्यत्र श्लोकेषु द्रष्टव्यम् । अत्र च नान्यथा वाक्यमर्हथेत्यनेन ‘मिथो याजका मिथोऽध्यापका मिथो विवहमानाश्च’ इत्यादिबौधायनवचनं परास्तमिति सूच्यते । किञ्च याज्ञवल्क्ये मिताक्षरायामपि परिग्रहाभोज्यभोजनप्रायश्चित्तविचारे ‘यस्तु बलात्कारेण भोज्यते, तस्यापस्तम्बेन विशेष उक्तः—
बलाद्दासीकृताये तु म्लेच्छचाण्डालदस्युभिः ।
अशुभं कारिताः कर्म गवादिप्राणिहिंसनम् ॥
उच्छिष्टमार्जनं चैव तथोच्छिष्टस्य भोजनम् ।
खरोष्ट्रविड्वराहाणामामिषस्य च भक्षणम् ॥
तत्स्त्रीणाञ्च तथा सङ्गस्ताभिश्च सह भोजनम् ।
मासोषिते द्विजातौ च प्राजापत्यं विशोधनम् ।
चान्द्रायणं पराकञ्च चरेत्संवत्सरोषितः ॥
संवत्सरोषितः शूद्रो मासार्धं यावकं पिबेत् ।
मासमात्रोषितः शूद्रः कृच्छ्रपादेन शुद्ध्यति ॥
ऊर्ध्वं संवत्सरात्कल्प्यंप्रायश्चित्तं द्विजोत्तमैः ।
संवत्सरैस्त्रिभिश्चैव तद्भावं स निगच्छति ॥
इत्युक्तं वर्तते । एवञ्च संवत्सरत्रयादर्वाक्त प्रायश्चित्तेन पुनः स्वजातौ निवेशस्तु शास्त्रनिर्णीतएव । देवलस्तु विंशतिसंवत्सरपर्यन्तमपि प्रायश्चित्तेन शुद्धिमनुमन्यते । किञ्च तत्रैव मियाक्षरायाम् ‘चरितव्रत आयाते निनयेरन्नवं घटम् । जुगुप्सेन्न चाप्येनं संवसेयुश्च सर्वशः ? इत्यनेन घटस्फोटानन्तरमपि स्वजातौ सङ्ग्रहो विहित एव । किञ्च तत्रैव याज्ञवल्क्ये संसर्गिप्रायश्चित्तप्रकरणे ‘कन्यां समुद्वहेदेषां सोपवासामकिञ्चना’ मित्यनेन पतितावस्थायां समुत्पन्ना पतितकन्यापि वोढव्येति विहितम् ।अन्यान्यपि प्रमाणान्यूहनीयानि ।सर्वथा पतितानां धर्मभ्रष्टानां त्यागो न कुत्रापि विहितः । किञ्च ये हि खलु म्लेच्छादयः सर्वधर्मबहिष्कृतत्वेन व्यपदिश्यन्ते, तेऽपि पूर्वं क्षत्रिया एवासन् ! व्रात्यत्वादेव तु तेषां बहिष्कार इत्यपि मनुवाक्यादवगम्यते ।
शनकैस्तु क्रियालोपादिमाःक्षत्रियजातयः
वृषलत्वं गता लोके ब्राह्मणादर्शनेन च ॥ १० । ४३ ॥
पौण्ड्रकाश्चौण्ड्रद्रविड़ाः काम्बोजा यवनाः शकाः ।
पारदाः पल्हवाश्चीनाः किराता दरदाः खशाः ॥ २० । ४४ ॥
मुखवाहूरुपज्जानां या लोके जातयो बहिः ।
म्लेच्छवाचश्चार्यवाचः सर्वे ते दस्यवः स्मृताः ॥ १० ।४५ ॥
इति मनुः । एतेषामपि व्रात्यस्तोमादिप्रायश्चित्तं वर्तत एव ।
न च व्रत्यत्वं नाम पतितसावित्रिकत्वम् । तच्च सावित्र्यधिकारिण्येवेति तद्बहिर्भूतानां न व्रात्यत्वमिति वाच्यम्; पूर्वोक्तवाक्येन पौण्ड्रादीनामपि तथात्वात् । नचानेकपुरुषपर्यन्तमपि व्रात्यत्वे कथं पुनः संस्कार्यत्वमिति वाच्यम्; यस्य पितापितामहावनुपनीतौ स्यातामित्यादिवचनेषु पितापितामहादीनामुपलक्षणत्वस्वीकारे सर्वेषां पूर्वजानामनुपनीतत्वेऽपि माणवकस्य संस्कारसम्भवात् । न चैतादृशोपलक्षणत्वस्वीकारे किम्प्रमाणमिति वाच्यम्; सर्वेषां संस्काराणां पुरुषार्थत्वेन पुरुषोपयोगित्वात्तथासम्भवात् । तथाहि—द्विविधं कर्म क्रत्वर्त्वं पुरुषार्थञ्चेति । यद्भावनाकथम्भावपूरणं विधीयते तक्रत्वर्थम् । अन्यत्करणं फलञ्च पुरुषार्थमिति । अस्यैव शास्त्रदीपिकावचनस्य सोमनाथीये विवरणम्—‘तत्तच्छास्त्रानपेक्षेच्छाविषयभाव्यकभावनांशत्वेसति क्रत्वर्थभिन्नत्वं पुरुषार्थत्वम् ? अस्ति च वसन्ते ब्राह्मणमुपनयीतेत्यादिशास्त्रविहितस्योपनयनस्येच्छाविषयाध्ययनभाव्यकभावनाकरणत्वे सति भावनाकथम्भावपूरकत्वाभावेन कत्वर्थभिन्नत्वात्पुरुषार्थत्वमव्याहतमेव । न च स्वाध्यायोऽध्येतव्य इति शास्त्रापेक्षत्वेन तदनपेक्षतादृशभावनांशत्वाभावेन कथं पुरुषार्थत्वमिति वाच्यम्; तथात्वे हि द्रव्योपार्जननियमस्यापि यागसाधनत्वेन तच्छास्त्रापेक्षतादृशभावनांशत्वात्पुरुषार्थत्वस्य व्याकोपात् । तस्मादपेक्षा नाम शब्दोपात्तैव ग्राह्या। न च स्वाध्यायविधौ शब्दत उपनयनस्यापेक्षा, किन्तु अधिकार्यपेक्षायामुपनयनविधिस्तदङ्गतां भजते । परञ्चोपनयनं खलु माणवकसंस्कारार्थमेव । तेन संस्कृतो हि माणवक एव स्वाध्यायविध्यधिकारीति तस्यैवापेक्षा तत्संस्काराच्च परम्परयोपनयनापेक्षा । न तु शब्दतः साक्षात् । तस्मादुपनयनं पुरुषार्थमेव । पुरुषार्थाश्च धर्माआपत्काले विपरि-
णम्यन्ते । अत एव द्रव्योपार्जननियमोऽप्यापत्काले विपरिणतो वैश्यवृत्त्यापि जीवनीयमिति । तस्मादापत्काले पुरुषार्थानां धर्माणां सर्वेषां विपरिवर्तने शास्त्रानुज्ञातेऽत्रापि पितृपितामहादीनामुपलक्षणत्वं स्वीकृत्य स्वधर्मभ्रष्टानां पतितानां व्रात्यानाञ्च पुनः प्रायश्चित्तेन स्वीकरणं न दोषावहम् ।पूर्वतनजातिस्मरणाभावे तु पृथग्जातित्वम्, अन्यथा पूर्वतनजातौ प्रवेश इत्येव सिद्धान्तः । आपल्लक्षणन्तु पूर्वमेवोक्तमित्यलं विस्तरेण । सर्वथाऽऽग्रहेण न किञ्चिदपि वक्तव्यम्, किन्तु शास्त्रहेतूनां पर्यालोचनपूर्वकं परिस्थित्यादिकं मनसिकृत्य तर्केण शास्त्रं पर्यालोचनीयम् । ‘यस्तर्केणानुसन्धत्ते स धर्मं वेदे नेतरः’ इति मनुवचनादिति किमधिकं विदुषाम् । इति ॥”
अत्र हि बालाद्दासीकृतानां प्रायश्चित्तेन पुनरपि स्वमते प्रवेशः सम्पादनीय इति देवलस्मृत्यनुसारेण स्वीकर्तव्यमिति यद्विवेचितम्, तत्र वयमपि न विप्रतिपन्नाः । यतो वयमपि स्मृतिपरतन्त्रा एव धर्माधर्मनिर्णयं समुचितं पश्यामः । तदत्र देवलस्मृतिपर्यालोचनात्पूर्वं देवलस्मृतिगतानि प्रकृतोपयुक्तानि वचनानिसङ्गृह्य प्रकाशयामः । तद्यथा—
भगवन् ! म्लेच्छनीता हि कथं शुद्धिमवाप्नुयुः ।
ब्राह्मणाः क्षत्रियावैश्याः शूद्राश्चैवानुपूर्वशः ॥
कथं स्नानं कथं शौचं प्रायश्चित्तं कथं भवेत् ।
किमाचारा भवेयुस्ते तदाचक्ष्वसविस्तरम् ॥
देवल उवाच – अपेयं येन सम्पीतमभक्ष्यंचापि भक्षितम् ।
म्लेच्छैर्नीतेन विप्रेण अगम्यागमनं कृतम् ॥
तस्य शुद्धिम्प्रवक्ष्यामि यावदेकन्तु वत्सरम् ।
चान्द्रायणन्तु विप्रस्य सपराकं प्रकीर्तितम् ॥
पराकमेकं क्षत्रस्य पादकृच्छ्रेण संयुतम् ।
पराकार्धन्तु वैश्यस्य शूद्रस्य दिनपञ्चकम् ॥
नखलोमविहीनानां प्रायश्चित्तं प्रदापयेत् ।
चतुर्णामपि वर्णानां नान्यथा शुद्धिरस्ति हि ॥
प्रायश्चित्तविहीनन्तु यदा तेषां कलेबरम् ।
कर्त्तव्यस्तत्र संस्कारो मेखलादण्डवर्जितः ॥
म्लेच्छैर्नीतेन शूद्रैर्वा हारिते दण्डमेखले ।
संस्कारप्रमुखं तस्य सर्वं कार्यं यथाविधि ॥
तदासौ तु कुटुम्बानां पक्तिं प्राप्नोति नान्यथा ।
स्वभार्यां च यथान्यायं गच्छन्नेवं विशुध्यति ॥
अथ संवत्सरादूर्ध्वं म्लैच्छैर्नीतो यदा भवेत् ।
प्रायश्चित्ते तु सञ्चीर्णे गङ्गास्नानेन शुध्यति ॥
बलाद्दासीकृता ये च म्लेच्छचाण्डालदस्युभिः ।
अशुभं कारिताः कर्म गवादिप्राणहिंसनम् ॥
उच्छिष्टमार्जनं चैव तथा तस्यैव भोजनम् ।
खरोष्ट्रविड्वराहाणामामिषस्य च भक्षणम् ॥
तत्स्त्रीणां च तथा सङ्गस्ताभिश्च सह भोजनम् ।
मासोषिते द्विजातौ तु प्राजापत्यं विशोधनम् ॥
चान्द्रायणं त्वाहिताग्नेः पराकस्त्वथवा भवेत् ।
चान्द्रायणं पराकञ्च चरेत्संवत्सरोषितः ॥
संवत्सरोषितः शूद्रो मासार्द्धं यावकं पिबेत् ।
मासमात्रोषितः शूद्रः कृच्छ्रपादेन शुध्यति ॥
ऊर्ध्वं संवत्सरात्कल्प्यं प्रायश्चित्तं द्विजोत्तमैः ।
संवत्सरैश्चतुर्भिश्च तद्भावमधिगच्छति ॥
ह्रासो न विद्यते यस्य प्रायश्चित्तं दुरात्मनः ।
गुह्यकक्षशिरोभ्रूणां कर्त्तव्यं केशवापनम् ॥
प्रायश्चित्तं समारभ्य प्रायश्चित्तन्तु कारयेत् ।
स्नानं त्रिकालं कुर्वीत धौतवासा जितेन्द्रियः ॥
कुशहस्तः सत्यवक्ता देवलेन ह्युदाहृतम् ।
वत्सरं वत्सरार्धं वा मासं मासार्धमेव वा ॥
बलान्म्लोच्छैस्तु यो नीतस्तस्य शुद्धिस्तु कीदृशी ।
संवत्सरोषिते शुद्रे शुद्धिश्चान्द्रायणेन तु ॥
पराकं वत्सरार्धे च पराकार्धं त्रिमासिके ।
मासिके पादकृच्छ्रं च नखरोमविवर्जितः ॥
पादोनं क्षत्रियस्योक्तमर्धं वैश्यस्य दापयेत् ।
प्रायश्चित्तं द्विजस्योक्तं पादं शूद्रस्य दापयेत्
प्रायश्चित्तावसाने तु दोग्ध्री गौर्दक्षिणा मता ।
तथासौ तु कुटुम्बान्ते ह्युपविष्टो न दुष्यति ॥
अशीतिर्यस्य वर्षाणि बालो वाप्यूनषोडशः ।
प्रायश्चिर्त्तार्धमर्हन्ति स्त्रियो रोगिण एव च ॥
संलापस्पर्शनिश्वाससहयानासनाशनात् ।
याजनाध्यापनाद्यौनात्पापं संक्रमते नृणाम् ॥
याजनं योनिसम्बन्धं स्वाध्यायं सहभोजनम् ।
कृत्वा सद्यः पतत्येव पतितेन न संशयः ॥
संवत्सरेण पतति पतितेन सहाचरन् ।
याजनाशनयज्ञादि कुर्वाणः सार्वकालिकम् ॥
अतः तरं प्रवक्ष्यामि प्रायश्चित्तमिदं शुभम् ।
स्त्रीणां म्लेच्छैश्च नीतानां बलात्संवेशने क्वचित् ।
ब्राह्मणी क्षत्रिया वैश्या शूद्रा नीता यदान्त्यजैः ॥
ब्राह्मण्याः कीदृशं न्याय्यं प्रायश्चित्तं विधीयते ।
ब्राह्मणीभोजयेन्म्लेच्छमभक्ष्यंभक्षयेद्यदि ॥
पराकेणततः शुद्धिः पादेनोत्तरतोत्तरान् ॥
न कृतं मैथुनं ताभिरभक्ष्यं नैव भक्षितम् ॥
शुद्धिस्तदा त्रिरात्रेण म्लेच्छान्ने नैव भक्षिते ॥
म्लेच्छान्नं म्लेच्छसंस्पर्शो म्लेच्छेन सह संस्थितिः ।
वत्सरं वत्सरादूर्ध्वं त्रिरात्रेण विशुद्ध्यति ॥
म्लेच्छैर्हतानां चोरैर्वा कान्तारेषु प्रवासिनाम् ।
भुक्त्वा भक्ष्यमभक्ष्यं वा क्षुधार्तेन भयेन वा ॥
पुनः प्राप्य स्वकं देशं चातुर्वर्ण्यस्य निष्कृतिः ।
कृच्छ्रमेकं चरेद्विप्रस्तदर्धं क्षत्रियश्चरेत् ।
पादोनञ्च चरेद्वैश्यः शूद्रः पादेन शुद्ध्यति ॥
गृहीता स्त्री बलादेव म्लेच्छैर्गुर्वीकृता यदि ।
गुर्वी न शुद्धिमाप्नोति त्रिरात्रेणेतरा शुचिः ॥
योषा गर्भं विधत्ते या म्लेच्छात्कामादकामतः ।
ब्राह्मणी क्षत्रिया वैश्या शूद्रावर्णेतरा च या ॥
अभक्ष्यभक्षणं कुर्यात्तस्याः शुद्धिः कथम्भवेत् ।
कृच्छ्रं सान्तपनं शुद्धिर्घृतैर्योनेश्च पाचनम् ॥
असवर्णेन यो गर्भः स्त्रीणां योनौ निषिञ्च्यते ।
अशुद्धा सा भवेन्नारी यावच्छल्यंन मुञ्चति ॥
विनिःसृते ततः शल्ये रजसो वापि दर्शने ।
तदा सा शुद्ध्यते नारी विमलं काञ्चनं यथा ॥
स गर्भो दीयतेऽन्यस्मै स्वयङ्ग्राह्यो न कर्हिचित् ।
स्वजातौ वर्जयेद्यस्मात्संस्कारः स्यादतोऽन्यथा ॥
गृहीतो यो बलान् म्लेछैःपञ्च षट् सप्त वा समाः ।
दशादि विंशतिं यावत्तस्य शुद्धिर्विधीयते ॥
प्राजापत्यद्वयं तस्य शुद्धिरेषा विधीयते ।
अतः परं नास्ति शुद्धिः कृच्छ्रमेव सहोषिते ॥
म्लेछैः सहोषितो यस्तु पञ्चप्रभृतिविंशतिः ।
वर्षाणि शुद्धिरेषोक्ता तस्य चान्द्रायणद्वयम् ॥
सभायां स्पर्शने चैव म्लेच्छेन सह संविशेत् ।
कुर्यात्स्नानं सचैलन्तु दिनमेकमभोजनम् ॥
माता म्लेच्छत्वमागच्छेत् पितरो वा कथञ्चन ।
असूतकञ्च नष्टस्य देवलस्य वचो यथा ॥
मातरञ्च परित्यज्य पितरञ्च तथा सुतः ।
ततः पितामहं चैव शेषपिण्डन्तु निर्वपेत् ॥
एकद्वित्रिचतुःसंख्यान् वत्सरान् संवसेद्यदि ।
म्लेच्छवासं द्विजश्रेष्ठः कामतो द्रव्ययोगतः ॥
एकाहेन तु गोमूत्रं द्व्यहेनैव तु गोमयम् ।
त्र्यहात् क्षीरेण संयुक्तं चतुर्थे दधिमिश्रितम् ॥
पञ्चमे धृतसम्पूर्णं पञ्चगव्यं प्रदापयेत् ।
पञ्चसप्तदशाहानि पञ्चदशाच्च विंशतिः ॥
संवासे च प्रवक्ष्यामि देहशुद्धिं द्विजन्मनाम् ।
पञ्चाहं पञ्चगव्यं स्यात्पादकृच्छ्रं दशाहिके ॥
पराकं पञ्चदशभिर्विंशेऽतिकृच्छ्रमेव च ।
उदरं प्रविशेद्यस्य पञ्चगव्यं विधानतः ॥
यत्किञ्चिद्दुष्कृतं तस्य सर्वं नश्यति देहिनः ॥
पञ्च सप्ताष्ट दश वाद्वादशाहोऽपि विंशतिः ।
म्लेच्छैर्नीतस्य विप्रस्य पञ्चगव्यं विशोधनम् ॥ इति ॥
[देवलस्मृति समालोचनम्।]
अत्र हि संवत्सरम्लेच्छवासादिना पातित्यम्, संवत्सरचतुष्टयानन्तरं म्लेच्छभावम्, तत एव प्रायश्चित्ताभावम्, विंशतिसंवत्सरपर्यन्तं म्लेच्छगृहीतत्वे प्रायचित्तार्हत्वम्, यौनसम्बन्धेन सद्यः पातित्यम्, अगम्यागमनेऽपि प्रायश्चित्तानन्तरम् स्वीयकुटुम्बपङ्क्तिसम्बन्धम्, तत्प्राप्तिञ्च बहुविधं विरुद्धमर्थजातं पश्यतां हि न व्यवस्थितार्थबोधो भवेदिति प्रथमतोऽविरोधसम्पादनार्थं प्रयतामहे । सत्यं संवत्सरेण पातित्यं संवत्सरचतुष्टयानन्तरमेव म्लेच्छभावश्च बोध्यत इति संवत्सरसरचतुष्टयपर्यन्तं प्रायश्चित्ताधिकारो वर्तते । तथापि तु संवत्सरमध्य एव प्रायश्चित्तेन स्वपूर्वतनकुटुम्बसम्बन्धः, न तु तदनन्तरं म्लेच्छवासादावपीति देवलस्याशयोऽवगम्यते । तथाच किञ्चिदूनसंवत्सरपर्यन्तं म्लेच्छसंसर्गिणां प्रायश्चित्तेन स्वकुटुम्बसम्बन्धेऽपि नेतरेषां तद्योगः ।
अत एव—तदासौ स्वकुटुम्बानां पङ्क्तिम्प्राप्नोति नान्यथा ।
इत्युक्त्वा—अथ संवत्सरादूर्ध्वंम्लेच्छैर्नीतो यदा भवेत् ॥
प्रायश्चित्ते तु सपूर्णोगङ्गास्नानेन शुद्ध्यति । इति ॥
संवत्सराधिकसंसर्गिणां स्वधर्माधिकाराख्यशुद्धिमात्रमाम्नायमानमुपपद्यते । अत्र हि शुद्धिपदेन स्वकुटुम्बपङ्क्तिसम्बन्धविरहित एव कश्चनाधिकारो बोध्यत इति वक्तव्यमिति पूर्णं संवत्सरं संवत्सरचतुष्टयपर्यन्तं वा म्लेच्छसंसर्गिणां पृथक्संस्थैव युक्तेति सिद्धम् । अत्र किञ्चिदूनसंवत्सरकालपर्यन्तं यौनसम्बन्धेऽपि स्वभार्यासम्बन्धः प्रायश्चित्तानन्तरं भवतीति यद्विवेचितम्, तदिदं बलात्कारेणाग-
म्यागमन एव ।व्यक्तं चैतन्मदनरत्नप्रदीपे पूर्वोद्धृते वर्तत इति नात्र कापि स्वकपोलकल्पना ।युक्तञ्चैतत् । अत एव हि देवलस्मृतावेवोपसंहारे—एकद्वित्रिचतुःसंख्यान्वत्सरान् संवसेद्यदि । म्लेच्छवासं द्विजश्रेष्ठः कामतो द्रव्ययोगतः—इति कामतः क्रियमाणस्य सहवासस्यैव म्लेच्छभावप्रयोजकत्वमुक्तमुपपद्यते । सहवासादीनामपि एकसंवत्सरेणैव पातित्यप्रयोजकत्वन्तु समुदितरूपेणैव न तु पृथक्त्वेनेत्यपि मदनरत्नप्रदीपे विवेचितमिति न कोऽपि विरोधः । यत्तु विंशतिवत्सरपर्यन्तं म्लेच्छवासेऽपि प्रायश्चित्ताम्नानं तद् बलादापादितसहवासमात्रविषयमित्येव देवलाशयः । अत एव—गृहीतो यो बलान्म्लेच्छैःपञ्च षट् सप्त वा समाः । दशादि विंशतिं यावत्तस्य शुद्धिर्विधीयते—इति श्लोके बलात्पदोपादानमुपपद्यते । अत्र बलपदस्य छलमोहाद्युपलक्षणत्वेऽपि न विरोधः । यतो वयमप्यकामतो म्लेच्छवासादावेव प्रायश्चित्तविधिमनुमन्यामहे । स्त्रीणां परं गर्भधारणेऽपि शुद्धिः प्रायश्चित्ताधीना देवलस्मृतिबोधिता नास्माकमपि विरुद्धा । तत्रापि गर्भत्यागपूर्वकमेव स्वजातिप्रवेशो न गर्भेण साकमपीति देवलसिद्धान्तादिदमवगम्यते यत्कामतो बहुवारं यावन्म्लेच्छसंसृष्टाया न स्वजातिप्रवेशाधिकार इति । इयान् विशेषः—यत्पुंसामगम्यागमनेन कामकृतेन सद्य एव पातित्यम्, स्त्रीणांतु कामकृतेनापि सकृद्रमनेन न पातित्यमिति । इदन्तु देवलस्मृतिमात्रपर्यालोचनेन । कलिवर्ज्यप्रकरणानुसारेण तु स्त्रीणामपि पातित्यमेवेति पूर्वमेव विवेचितम् । सर्वथा तु संवत्सराधिककालं यावन्म्लेच्छसंसर्से म्लेच्छभावं गतानां पृथक्संस्थैव न कुटुम्बपंक्तिसम्बन्धयोग्यतापीत्येव देवलाशयः । अत एव—ऊर्ध्वं संवत्सरात्कल्प्यं प्रायश्चित्तं द्विजोत्तमैः—इत्युपक्रम्यान्ते—प्राय-
श्चित्तावसानेतु दोग्ध्रीगौर्दक्षिणा मता । तथासौ स्वकुटुम्बान्ते ह्युपविष्टो न दुष्यति—इति कृतप्रायश्चित्तस्य तस्य कुटुम्बान्त एवोपवेशमात्रमेव दोषनिमित्तं न भवतीति प्रतिपादितमुपपद्यते । अनेन हीदं स्पष्टमवगम्यते कुटुम्बमध्यसम्बन्धः सहासनव्यतिरिक्तसम्बन्धान्तरञ्च तस्य न योग्यमिति । तथाचानुपदोदाहृताधुनिकप्रबन्धकारा यदि देवलस्मृतिसिद्धान्तानुसारेण व्यवस्थामपेक्षन्ते, तर्हि तु नास्माकमप्यत्र विप्रतिपत्तिः । इदमेवात्रास्माकं वक्तव्यं यद्देवलस्मृतौ नोक्तप्रबन्धकारोक्तरीत्या पश्चात्तापमात्रेण सर्वेषां संग्रहः प्रतिपादित इति । एतेन—येषां खलु जातिकुलादिकं पूर्वतनं स्मर्यते, तेषां स्वजातौ निवेशः, येषां खलु तदभावस्तेषां पृथक्संस्थेति सिद्धान्तोऽपि—परास्तः । नाह्ययं सिद्धान्तो देवलस्मृत्यारूढः । तत्र हि स्पष्टमेव किञ्चिदूनसंवत्सरपर्यन्तं म्लेच्छसंसर्गिणामेव स्वजातिकुलसम्बन्धः प्रतिपादित इति स्पष्टमेवानुपदं विवेचितम् । यत्तु देवलस्मृतौ—ऊर्ध्वं संवत्सरात्कल्प्यं प्रायश्चित्तं द्विजोत्तमैरिति विवेचितम्, तदपि सत्यं धर्मज्ञानां प्रायश्चित्तव्यवस्थायां स्वातन्त्र्यं गमयति; संवत्सरचतुष्टयानन्तरं देवलेनैव प्रायश्चित्तनिषेधात् । ह्रासो न विद्यते तस्य प्रायश्चित्तं दुरात्मनः—इति हि तदीयं वचनम् । एतेन—अतः परं नास्ति शुद्धिरिति देवलवचनमपि—व्याख्यातम् ।
एतेन—अनुक्तनिष्कृतीनान्तु पापनामपनुत्तये ।
शक्तिञ्चावेक्ष्यपापञ्च प्रायश्चित्तं प्रकल्पयेत् ॥
[देवलसम्मतशुद्धिव्ययस्था]
इति मनुवचनमपि व्याख्यातम् । एतेन—उक्तवचनानुसारेण धर्मज्ञानां प्रायश्चित्तव्यवस्थापनेऽधिकारो वर्तत इति कथमपि म्लेच्छीभूतानामपि
संग्रहोन्याय्य इति आधुनिकसिद्धान्तोऽपि परास्तः । तथाच देवलसिद्धान्तोऽपिपूर्वोक्तमस्मदीयमेवसिद्धान्तमनुकरोति,न त्वन्यमितितत्सिद्धान्तानुसारेणकिञ्चिदूनसंवत्सरपर्यन्तं म्लेच्छसहवासादि कुर्वतां स्वकुटुम्बसम्बन्धः; तदतिरिक्तानान्तु म्लेच्छसंसर्गिणां संवत्सरचतुष्टयानधिकतत्संसर्गिणां पृथक् संस्था, येषां स्वधर्माधिकारयोग्यताऽप्यनुमन्यते । इतरेषान्तु न प्रायश्चित्ताधिकारयोग्यतेति निष्कर्षः पर्यवसन्नः । यत्तुकृतप्रायश्चित्तानां पृथक्जातित्वकल्पने महाननर्थःस्यादित्यादि पूर्वोद्धृते प्रबन्धे विवेचितम्, दत्तोत्तरमिदं पूर्वमेव जातिभेदो न वैमत्यकारणमिति निरूपणावसरे एव । यत्र त्वगत्या जातिभेदःकल्पनीय एवेति प्रकृतप्रबन्धकारा अपि मन्यन्ते, तत्रागतिरेव किं सङ्घटने भविष्यति, उत सत्यपि तस्मिन् प्रकारान्तरेण सङ्घटनं सम्पादयिष्यते । वयन्तु पश्यामः—पश्चात्तापमात्रेणाकृतप्रायश्चित्ता अपि स्वयं नष्टाः परान्नाशयितुं प्रवृत्ता इत्यपवादविषयतामात्मनः परिहर्तुकामा यावच्छक्ति जन्मान्तरे वापि समुचिता गतिर्भवतु इत्यादिचिन्तया सर्वविधं साहाय्यं कृतप्रायश्चित्तानां शुद्धानां वा सम्पाद्य कथमपि न सङ्घटनविरोधिनो भविष्यन्ति, यदि ते वस्तुगत्या पश्चात्तप्ताभवन्तीति । ब्रह्मघ्नानान्तु येषां निर्णयसिन्धूक्तरीत्या चतुर्गुणं प्रायश्चित्तम्, तेषां ‘नास्यास्मिंल्लोकेप्रत्यासत्तिवर्तते’ इत्यापस्तम्बसूत्रानुसारेण मिताक्षरादिसिद्धान्तानुसारेणापि न व्यवहार्यत्वमिति स्पष्टमेवपूर्वमेव विवेचितम् । एतेन—ब्रह्मघ्नानामपि कृतप्रायश्चित्तानां यदि पूर्वजातिप्रवेशस्तर्हि कथं न स मतान्तरप्रविष्टानामिति शङ्कापि परास्ता ।यथा च देवलवचनानां संवत्सराधिकम्लेच्छसंसर्गिणां पृथक्संस्थास्थापनौचित्य एव स्वारस्यम्,
तथा पूर्वमेव विवेचितमिति—अथ पतिताः समवसाय धर्मांश्चरेयुरितरेतरयाजका इतरेतराध्यापका मिथो विवहमानाश्च—इत्यादिबौधायनादिवचनमपि व्याख्यातम् ।बलाद्दासीकृता ये तु म्लेच्छचाण्डालदस्युभिरित्यादिवचनानि, यान्यापस्तम्बवचनानीति प्रकृतप्रबन्धे उल्लिखितानि, तान्यपि देवलवचनान्येवेति तद्ववनानुसारेणापि न वर्षत्रयपर्यन्तं म्लेच्छसंसर्गिणामपृथग्जातित्वं युक्तम् । वत्सरचतुष्टयेन तद्भाववचनस्य तु तात्पर्यं तदनन्तरं प्रायश्चित्तेन स्वधर्माधिकारस्याप्यभाव एव । अत एव—हासो न विद्यते तस्य प्रायश्चित्तं दुरात्मन इति वाक्यशेष उपपद्यते । एतेन—विंशतिसंवत्सरपर्यन्तं स्वजातिप्रवेशो देवलसम्मत एवेति शङ्कापि—परास्ता । अत्र हीदं देवलवचनम्—गृहीतो यो बलान्म्लेच्छैःपञ्च षट् सप्त वा समाः । दशादिविंशतिं यावत्तस्य शुद्धिर्विधीयते—इति । अत्र बलात्कारेण गृहीतमात्रस्य सहाशनादिसंसर्गरहितस्य विंशतिवत्सरपर्यन्तं स्ववशे म्लेच्छैरक्ष्यमाणस्य स्वीयाहारव्यवहारादिषु म्लेच्छैर्हस्तक्षेपो यत्र न कृतस्तस्यैव ग्रहणमिति न दोषः । एतेन—चरितव्रत आयाते निनयेरन्नवं घटम् ।जुगुप्सेरन्न चाप्येनं संवसेयुश्च सर्वशः इति याज्ञवल्क्यवचनमपि—व्याख्यातम्; तस्य किञ्चिदूनवत्सरंम्लेच्छसंसर्गविषयत्वेनाविरोधात् ।
[मुद्रित देवलस्मृति प्रामान्यसन्देहः]
इदमानन्दाश्रममुद्रापितदेवलस्मृतिप्रामाण्यमूरीकृत्य वर्णितम् । वस्तुतस्तु तत्प्रामाण्यमेव संदिग्धं वर्तते । अत्र कारणमिदमेव यत् मुद्रापितदेवलस्मृतौ निबन्धकारोद्धृतत्रिशतवचनमध्ये “संलापस्पर्श निश्वाससहयानासनाशनात् ।” संवत्सरेण पतति पतितेन सहाचरन्” इति श्लोकद्वयमेव वर्तते नान्यत्किमपि । मुद्रापितदेव-
लस्मृतौहि नवतिश्लोकाः वर्तन्ते, तत्तन्निबन्धकारोद्धृतवचनानि तु अन्यूनम्त्रिशतानि । तथा च स्मृत्यन्तरानुसारिव्यवस्थयैव पतितपरावर्तनमिदानीं कर्तुं योग्यम्, न तु मुद्रापितदेवलस्मृत्यनुसारेण । अत्र विश्वासार्थम् निबन्धकारोद्धृतानि सर्वाणि देवलवचनानि प्रायेण प्रकाश्यन्ते । तद्यथा—
तत्र विद्वन्मनोहरायां देवलः—
यावद्वर्णविभागोऽस्ति यावद्वेदः प्रवर्तते ।पृष्ठम्—
संन्यासं चाग्निहोत्रं च तावत्कुर्यात्कलौ युगे ॥ २८ ॥
यः स्वदारानृतुस्नातान स्वस्थः सन्नोपगच्छति ।
भ्रूणहत्यामवाप्नोति प्रजां प्राप्तां विनाश्य सः ॥ ३५ ॥
दशाहाद्धि त्रिभागेन कृते संचयने क्रमात् ।
अङ्गस्पर्शनमिच्छन्ति वर्णानां तत्त्वदर्शितः ॥१०० ॥
सर्ववर्णेषु दायादाःये स्युर्विप्रस्य बान्धवाः ।
तेषां दशाहमाशौचं विप्रशौचे विधीयते ॥ १०३ ॥
अविभक्तविभक्तानां कुल्यानां वसता सह ।
भूयो दायविभागः स्यात् आचतुर्थादिति स्थितिः ॥
तावत्कुल्याः सपिण्डाः स्युः पिण्डभेदस्ततः परम् ।
समं तत्र सपिण्डानां दायार्थस्य विभाजनम् ॥ १०४ ॥
आत्रिपक्षात् त्रिरात्रं स्यात् षण्मासात् पक्षिणी ततः ।
परमेकाहमावर्षात् उर्ध्वं स्नानेन शुद्ध्यति ॥ १०६ ॥
नैष्ठिकानां वनस्थानां यतीनां ब्रह्मचारिणाम्।
नाशौचं सूतके प्रोक्तं शावे वापि तथैव च ॥ ११९॥
● पुनः पाते दशाहात्प्राक् पूर्वेण सह गच्छति ।
दशमेऽह्निपतेद्यस्य त्र्यहात् स तु विशुध्यति ॥
प्रभाते स त्रिरात्रेण दशरात्रेष्वयं विधिः ॥ १२३ ॥
यः समानोदकं प्रेतं वहेद्वापि दहेत वा ।
तस्याशौचं दशाहं स्यादन्येषां तु त्र्यहं भवेत् ॥ १२९ ॥
विहितं तु सपिण्डानां प्रेतनिर्हरणादिकम् ।
तेषां करोति यः कश्चित् तस्याधिक्यं न विद्यते ॥
श्वपाकं पतितं व्यङ्गमुन्मत्तं शवदाहकम् ।
सूतकं सूतिकां नारीं रजसा च परिप्लुताम् ॥ १८६ ॥
श्वकुक्कुटवराहांश्च ग्राम्यान् संस्पृश्य मानवः ।
सचेलः सशिराः स्नात्वा तदानीमेव शुध्यति ॥ १८६ ॥
चण्डालाध्युषितं यत्र यत्र विष्ठादिसङ्गतिः ।
एवं कश्मलभूयिष्ठा भूरमेध्या प्रकीर्तिता ॥ १९४ ॥
अक्षोम्यानि तटाकानि नदीवापीसरांसि च ।
कश्मलाशुचियुक्तानि तीर्थं तत् परिवर्जयेत् ॥ २१०॥
● अक्षुद्राणामपां नास्ति प्रभूतानां च दूषणम् ।
स्तोकानामुद्गतानां च कश्मलं दूषणं भवेत् ॥
और्णकौशेयकुतप शाणक्षौमदुकूलजाः ।
अल्पशौचा भवन्त्येते शोषणप्रोक्षणादिभिः ।
तान्येवामेध्ययुक्तानि क्षालयेच्छोधनैः स्वकैः ॥ २२१ ॥
● धान्यशुक्लैस्तु फलजै रसैः क्षमानुगैरपि ।
तूलिकाद्युपधाने च पुष्परक्ताम्बराणि च ॥
शोषयित्वाऽऽतपे किंचित् करैस्तन्मार्जयेत्पुनः ॥२२९॥
पश्चात्तु वारिणा प्रोक्ष्यविनियुञ्जीत कर्मणि ॥
● तान्यप्यतिमलिष्ठानि यथावत्परिशोधयेत् ॥ २२६ ॥
● मत्वा गत्वा पुनर्भार्यांगुरोः क्षत्रसुतां द्विजः ।
अण्डाभ्यां वर्जितं लिङ्गं उत्कृत्य च मृतः शुचिः ॥२९५ ॥
कन्दूपक्वं स्नेहपक्वं पायसं दधिसक्तवः ।
एतान्यशूद्रान्नभुभो भोज्यानि मनुरब्रवीत् ॥ ३३२ ॥
●क्लिन्नं भिन्नं शवं चैवकूपस्थं यदि दृश्यते ।
पयः पिबेत् त्रिरात्रेण मानुषे द्विगुणं भवेत् ॥ ३४४ ॥
● यस्तु चाण्डालभाण्डस्थं आज्ञानादुदकं पिबेत् ।
स तु त्रहेण शुध्येत शूद्रस्त्वेकेन शुध्यति ॥ ३४६ ॥
तथा पराशरमाधवीये प्रायश्चित्तकाण्डे देवलः—
अशुद्धान् स्वयमप्येतान् शुद्धस्तु यदि संस्पृशेत् ॥
विशुद्ध्यत्युपवासेन त्रिरात्रेण ततः शुचिः ।
उच्छिष्टं संस्पृशेद्विप्रः पुनः कृच्छ्रेण शुद्ध्यति ॥ ११० ॥
प्रायश्चित्तं यथोद्दिष्टमशक्यं दुर्बलादिभिः ।
इष्यतेऽनुग्रहस्तेषां लोकसंग्रहकारणात् ॥ १३० ॥
एको नार्हति तत्कर्तुमज्ञो वा नाप्यनुग्रहम् ।
धर्मज्ञा बहवो विप्राः कर्तुमर्हन्त्यनुग्रहम् ॥ १३१ ॥
कर्तारं देशकालौ च प्रमाणं कारणं क्रियाम् ।
अपेक्ष्य च बलं चैव प्रायश्चित्तं विधीयते ॥ १३१ ॥
अविगन्धारसोपेता निर्मलाः पृथिवीगताः ।
अक्षीणाश्चैव गोपानादापः शद्धिकराः स्मृताः॥ १५५ ॥
अल्पशौचे भवेच्छुद्धिः शोषणप्रोक्षणादिभिः ।
तान्येवामेध्ययुक्तानि निर्णिज्यात्क्षारपर्ययैः ॥
तान्यप्यतिमलिष्ठानि यथावत् परिशोधयेत् ॥ १८५ ॥
तरवः पुष्पिता मेध्या ब्राह्मणाश्चैव सर्वदा ।
भस्म क्षौद्रं सुवर्णं च सदर्भाः कुतपास्तिलाः ॥ १९२ ॥
अपामार्गशिरीषार्कपद्ममामलकं मणिः ।
माल्यानि सर्षपा दूर्वाः सदा भद्राः प्रियङ्गवः ॥,,
अक्षताः सिकता लाजा हरिद्रा चन्दनं यवाः।
पलाशखादिराश्वत्थास्तुलसीधातकीवरः ॥ (?)
एतान्याहुः पवित्राणि ब्रह्मज्ञा हव्यकव्ययोः ।
पौष्टिकानि मलघ्नानिशोधनानि च देहिनाम् ॥
अकश्मलैः समृद्धोऽग्निर्दुर्मनुष्यैरदूषितः ।
सर्वेषामप्यशौचानां समर्थः शोधनाय सः ॥
अग्नेर्वृषलभुक्तस्य ग्रहणं नास्त्यनापदि ।
श्वपाको वृषलो भोक्तुंब्राह्मणाग्निं च नार्हति ॥
● चण्डालाग्नेरमेध्याग्नेः सूतकाग्नेश्च कर्हिचित् ।
पतिताग्नेश्चिताग्नेश्च न शिष्टैर्ग्रहणं स्मृतम् ॥ १९३ ॥
● अग्राम्या मृद्भवेच्छुद्धा श्लक्ष्णाऽविण्मूत्रदूषिता ।
दहनात् खननाच्चैव उपलेपनधावनात् ॥
पर्जन्यवर्षणात् भूमेः शौचं पञ्चविधं स्मृतम् ॥ १९४॥
● यत्स्यादनभिसन्धाय पापं कर्म सकृत्कृतम् ।
तस्येयं निष्कृतिः प्रोक्ता धर्मविद्भिर्मनीषिभिः ॥ २००॥
● विधेः प्राथमिकादस्माद द्वितीये द्विगुणं भवेत् ।
तृतीये त्रिगुणं प्रोक्तं चतुर्थे नास्ति निष्कृतिः ॥ २०१ ॥
● अभिसन्धिकृते पापे सकृद्वा नेह निष्कृतिः ।
अपरे निष्कृतिं प्राहुरभिसन्धिकृतेऽपि च ॥
● याचितास्तेन ते चापि ब्राह्मणाः पापभीरुणा ।
निष्कृतिं व्यवहारार्थं कुर्युस्तस्मै नृपाज्ञया ॥ २३२ ॥
● स्वयं वा ब्राह्मणैः कृच्छ्रमल्पदोषे विधीयते ।
राज्ञा च ब्राह्मणैश्चैव महत्सु सुपरीक्ष्यच ॥ २३३ ॥
● गोघ्नः षण्मासान् तच्चर्मपरीवृतो ग्रासाहारो ।
गोव्रजनिवासी गोभिरेव सह चरन् मुच्यते ॥
चान्द्रायणं द्विविधम्, यवमध्यं पिपीलिकामध्यमिति ।
एकग्रासममावास्यादि यवमध्यम्, पञ्चदशग्रासादि
पौर्णमास्यादि पिपीलिकामध्यम् ॥
यत्स्यादनभिसन्धाय पापं कर्म सकृत्कृतम् ।
तस्येयं निकृतिः प्रोक्ता धर्मविद्भिर्मनीषिभिः ॥
पराशरमाधवीये द्वादशाध्याये—
महानिशा तु विज्ञेया मध्यस्थं प्रहरद्वयम् ॥ २३ ॥
तस्यां स्नानं न कुर्वीत काम्यनैमित्तिकादृते ॥
महानिशा द्वे घटिके रात्रेरर्धमयामयोः ॥
सुरापाने ब्राह्मणो रूप्य ताम्रसीसानामन्य—
तममग्निकल्पं पीत्वा शरीरत्यागात्पूतो भवति ॥
सिन्धुसौवीरसौराष्ट्रान तथा प्रत्यन्तवासिनः।
अङ्गवङ्गकलिङ्गांश्चगत्वा संस्कारमर्हति ॥ १४७ ॥
मिताक्षरायां देवलः—
द्विविधा गृहस्थः, यायावरः शालीनश्च ।
तयोर्यायावरः प्रवरो याजनाध्यापनप्रतिग्रहरि-
क्थसंचयवर्जनात् । षट्कर्माधिकृतः प्रेष्यचतुष्पा-
दगृहग्रामधनधान्ययुक्तो लोकानुवर्ती शालीनः ।
श्वसूकरखरोष्ट्रादिसंस्पृष्टा दुष्टातां व्रजेत् ।
अङ्गारतुषकेशास्थिभस्माद्यैर्मलिना भवेत् ॥ ५८ ॥
पञ्चधा वा चतुर्धावा भूरमेध्याऽपि शद्ध्यति ।
दुष्टान्विता त्रिधा द्वेधा शुद्ध्यते मलिनैकधा ॥ ५८ ॥
मानुषास्थि वसां विष्ठामार्तवं मूत्ररेतसी ।
मज्जानं शोणितं स्पृष्ट्वा परस्य यदि संस्पृशेत् ॥ ६०॥
स्नात्वा प्रमृज्य लेपादीनाचम्य स शुचिर्भवेत् ।
तन्येव स्वानि संस्पृश्य पूतः स्थात्परिमार्जनात् ॥
तान्येव स्वानि संस्पृश्य प्रक्षाल्याचम्य शुद्ध्यति ।
ऊर्ध्वं नाभेःकरौ मुक्त्वा यदङ्गमुपहन्यते ।
तत्र स्नानमधस्तान्तु प्रक्षाल्याचम्य शुद्ध्यति ॥
उद्धृताश्चापि शुद्ध्यन्ति शनैः पात्रैः समुद्धृताः ।
एकरात्रोषिता आपस्त्याज्याशुद्धा अपि स्वयम् ॥
पूर्वाह्णेदैविकं कर्म अपराह्णणे तु पैतृकम् ॥ ७८ ॥
एकोद्दिष्टं तु मध्याह्णे प्रातर्वृद्धिनिमित्तकम् ॥
दशमेऽहनि सम्प्राप्ते स्नानं ग्रामाद् बहिर्भवेत् ।
तत्र त्याज्यानि वासांसि केशश्मश्रुनखानि च ॥
नवश्राद्धेषु यच्छिष्टं गृहे पर्युषितं च यत् ।
दम्पत्योर्भुक्तशिष्टं च न भुञ्जीत कदाचन ॥
प्रथमेऽह्नितृतीयेऽह्नि पञ्चमे सप्तमे तथा ।
नवमैकादशे चैव तन्नवश्राद्धमुच्यते ॥
स्वाशौचकालाद्विज्ञेयं स्पर्शनं च विभागशः ॥ ३०७ ॥
शूद्रविट्क्षत्रविप्राणां यथाशास्त्रं प्रचोदितम् ॥
दशाहादित्रिभागेन कृते संचयने क्रमात् ।
अङ्गस्पर्शनमिच्छन्ति वर्णानां तत्त्वदर्शिनः ॥
त्रिचतुःपञ्चदशभिः स्पृश्या वर्णाः क्रमेण तु ।
भोज्यान्नो दशभिर्विप्रः शेषा द्वित्रिषडुत्तरैः ॥
नाशुद्धिः प्रसवाशौचे व्यतीतेषु दिनेष्वपि ॥३२३॥
प्रोषिते कालशेषः स्वादशेषे त्र्यहमेव तु ॥
सर्वेषां वत्सरे पूर्णे प्रेते दत्त्वोदकं शुचिः ।
उपस्पृश्याशुचि स्पृष्टं तृतीयं वापि मानवः ॥
हस्तौ पादौ च तोयेन प्रक्षाल्याचम्य शुद्ध्यति ॥ ३२४॥
जातिशक्तिगुणापेक्षं सकृद् बुद्धिकृतं तथा ॥
अनुबन्धादि विज्ञाय प्रायश्चित्तं प्रकल्पयेत् ।
पतितेन सहोषित्वा जानन् संवत्सरं नरः ॥ ३८५ ॥
मिश्रितस्तेन सोऽब्दान्तेस्वयं च पतितो भवेत् ॥
संल्लापस्पर्शनिश्वाससहयानासनाशनात् ॥ ४१३ ॥
याजनाध्यापनाद्यौनात् पापं संक्रामते नृणाम् ॥
भोजनासनशय्यादि कुर्वाणः सार्वकालिकम् ॥
चण्डालकूपभाण्डस्थं नरः कामाज्जलं पिबेत् ।
प्रायश्चित्तं कथं तत्र वर्णेवर्णेविनिर्दिशेत् ॥ ४५६ ॥
चरेत्सान्तपनं विप्रः प्राजापत्यं च भूमिपः ।
तदर्धंतु चरेद्वैश्यः शूद्रे पादं विनिर्दिशेत् ॥
चण्डालकूपभाण्डस्थमज्ञानादुदकं पिबेत् ।
स तु त्र्यहेण शुद्ध्येतशूद्रस्त्वेकेन शुद्ध्यति ।
तथा हेमाद्रौ दानखण्डे देवलः—
दुर्लभं भारते वर्षे जन्म तस्मान्मनुष्यता ।
मानुष्यात् ब्राह्मणत्वं च दुर्लभं सुतरां मतम् ॥ ८ ॥
विप्रत्वे सति दुष्प्रापा विद्यादिगुणयोगिता ।
तत्र न्यायार्जितार्थाप्तिः ततो भक्त्याप्तिरिष्यते ॥९॥
लब्ध्वैतद् गुणसंयोगं तीर्थं पात्रं च पर्व च ।
दानानि ये प्रयच्छन्ति कृतार्थास्ते नरा भुवि ॥
अर्थानामुदिते पात्रे श्रद्धया प्रतिपादनम् ।
दानमित्यभिनिर्दिष्टं व्याख्यानं तस्य कथ्यते ॥१३॥
द्विहेतु षड़धिष्ठानं षडङ्गं षड्विपाकजम् ।
चतुःप्रकारं त्रिविधं त्रिनाशं दानमुच्यते ॥
नाल्पत्वं वा बहुत्वं वा दानस्याभ्युदयावहम् ।
श्रद्धा भक्तिश्च दानानां वृद्धिक्षयकरे उभे ॥
धर्ममर्थं च कामं च व्रीडाहर्षभयानि च ।
अधिष्ठानानि दानानां षडेतानि प्रचक्षते ॥
पात्रेभ्यो दीयते नित्यं अनपेक्ष्य प्रयोजनम् ॥
केवलं त्यागबुद्ध्या यद्धर्मदानं तदुच्यते ॥१४॥
प्रयोजनमपेक्ष्यैव प्रसङ्गाद्यत्प्रदीयते ।
तदर्थदानमित्याहुरैहिकं फलहेतुकम् ॥
स्त्रीदानं मृगपक्षिणां प्रसङ्गाद्यत्प्रदीयते ।
अनर्हेषु च रागेण कामदानं तदुच्यते ॥
संसदि व्रीडया स्तुत्याऽऽचार्यादिभ्यः प्रयाचितः ॥४॥
प्रदीयते च तद्दानं व्रीडादानमिति स्मृतम् ॥
दृष्ट्वा प्रियाणि श्रुत्वा वा हर्षवत् यत्प्रदीयते ।
हर्षदानमिति प्राहुर्दानं तद्धर्मचिन्तकाः ॥
आक्रोशानर्थहिंसानां प्रतीकाराय यद्भवेत् ।
दीयते तापकर्तृभ्यो भयदानं तदुच्यते ॥
दाता प्रतिग्रहीता च श्रद्धा देयं च धर्मयुक् ॥
देशकालौ च दानानां अङ्गान्येतानि षड् विदुः ।
अपापरोगी धर्मात्मा दित्सुरव्यसनः शुचिः ॥
अनिन्द्यजीवकर्मा च षड्भिर्दाता प्रशस्यते ।
त्रिशुक्तः कृशवृत्तिश्च घृणालुः सकलेन्द्रियः ।
विमुक्तो योनिदोषेभ्यो ब्राह्मणः पात्रमुच्यते ॥
सौमुख्याद्यतिसंप्रीतिरर्थिनां दर्शने सदा ॥ १५ ॥
सत्कृतिश्चानसूया च तदा श्रद्धेति कीर्त्यते ॥
अपापराधमक्लेशं प्रयत्नेनार्जितं धनम् ।
स्वल्पं वा विपुलं वापि देयमित्यभिधीयते ॥
यदत्र दुर्लभं भद्रं यस्मिन् कालेऽपि वा पुनः ।
दानार्हौदेशकालौ च स्यातां श्रेष्ठौ न चान्यथा ॥
अवस्था देशकालानां पात्रदात्रोश्च सम्पदा ।
हीनं वापि भवेच्छ्रेष्ठं श्रेष्ठं वाऽप्यन्यथा भवेत् ॥
दुष्फलं निष्फलं हीनं तुल्यं विपुलमक्षयम् ।
षड्विपाकयुगुद्दिष्टं षडेतानि विपाकतः ॥
नास्तिकस्तेनहिंस्रेभ्यो जाराय पतिताय च ।
पिशुनभ्रूणहन्तृभ्यां प्रदत्तं दुष्फलं भवेत् ॥
महदप्यक्षयं दानं श्रद्धयापरिवर्जितम् ।
परबाधाकरं दानं परमप्यूनतां ब्रजेत् ।
यथोक्तमपि यद्दत्तं चित्तेन कलुषेण तु ।
तत्तु संकल्पदोषेण दानं तुल्यफलं भवेत् ॥
युक्ताङ्गैःसकलैःषड् भिर्दानं स्याद्विपुलोदयम् ।
अनुक्रोशवशाद्दत्तं दानमक्षयतां व्रजेत् ॥
ध्रुवमाद्यत्त्विकं काम्यं नैमित्तिकमिति क्रमात् ।
वेदिको दानमार्गोऽयं चतुर्धा वर्ण्यते द्विजैः ॥
प्रपाऽऽरामतटाकादि सर्वकामफलं ध्रुवम् ।
तदाद्यत्त्विकमित्याहुः दीयेत यद् दिने दिने ।
अपत्यविजयैश्वर्यस्त्रीबालार्थं यदिष्यते ।
इच्छासंस्थन्तु तद् दानं काम्यमित्यभिधीयते ।
कालापेक्षं क्रियापेक्षं अर्थापेक्षमिति स्मृतम् ।
त्रिधा नैमित्तिकं प्रोक्तं सहोमं होमवर्जितम् ॥
नवोत्तमानि चत्वारि मध्यमानि विधानतः ।
अधमानीति शेषाणि त्रिविधत्वमिदं विदुः ॥
आम्लं दधि मधुत्राणं गोभूरुक्माश्वहस्तिनः ।
दानान्युत्तमदानानि उत्तमद्रव्यदानतः ॥
विद्यादानोदनावासपरिभोगौषधानि च ।
दानानि मध्यमान्याहुः मध्यमद्रव्यदानतः ॥
उपानत्प्रेंखयानानि छत्रपानासनानि च ।
दीपकाष्ठफलादीनि चरमं बहुवार्षिकम् ॥
बहुत्वादर्थजातानां संख्या शेषेषु नेष्यते ।
अधमान्यवशिष्टानि सर्वदानान्यतो विदुः ॥
इष्टं दत्तमधीतं च भग्नदोषो विपद्यते ।
तस्मादात्मकृतं पुण्यं न वृत्त्यापदि कीर्तयेत् ॥ १७॥
भुक्तवानिति तत् प्राहुस्तमेव कृतवादिनम् ।
मात्रश्च ब्राह्मणश्चैत्र श्रोत्रियश्च ततः परम् ।
अनूचानस्तथा भ्रूण ऋषिकल्पऋषिर्मुनिः ॥२६॥
इत्येतेऽष्टौ समुद्दिष्टा विद्यावृत्तविशेषतः ॥
ब्राह्मणानां कुले जातः जातिमात्रो यदा भवेत् ।
अनुपेतः क्रियाहीनो मात्र इत्यभिधीयते ॥
एकदेशमतिक्रम्य वेदस्याचारवान् नृषु ।
स ब्राह्मण इति प्रोक्तो निभृतः सत्यवाक् घृणी ॥
एकां शाखां सकल्पां वा षड्भिरङ्गैरधीत्य वा ।
षट्कर्मनिरतो विप्रः श्रोत्रियो नाम धर्मवित् ॥
वेदवेदाङ्गतत्वज्ञः शुद्धात्मा पापवर्जितः ।
शेषं श्रोत्रियवत्प्राप्तः सोऽनूचान इति स्मृतः ॥
अनूचानगुणोपेतो यज्ञस्वाध्याययन्त्रितः ।
भ्रूण इत्युच्यते शिष्टैः शेषभोजी जितेन्द्रियः ॥
वैदिकं लौकिकं चैव सर्वज्ञानमवाप्य यः ।
आश्रमस्थो वशी नित्यमृषिकल्प इति स्मृतः ॥
ऊर्ध्वरेतास्तपस्युग्रो नियताशो न संशयी ।
शापानुग्रहयोः शक्तः सत्यसन्धो भवेदृषिः ॥ २७ ॥
निवृत्तः सर्वतत्त्वज्ञः कामक्रोधविवर्जितः ।
ध्यानस्थो निष्क्रियो दान्तस्तुल्यमृत्काञ्चनो मुनिः ॥
एवमन्वयविद्याभ्यां वृत्तेन च समुछ्रिताः ।
त्रिशुक्ता नाम विप्रेन्द्राः पूज्यन्ते सवनादिषु ॥
प्रतिग्रहसमर्थोऽपि कृत्वा विप्रो यथाविधि ।
निस्तारयति दातारं आत्मानं च स्वतेजसा ॥
न लोके ब्राह्मणेभ्योऽन्यत् पवित्रं पुण्यमेव वा ।
अशक्यं च द्विजेन्द्राणां नास्ति वृत्तवतामिति ॥
योक्तव्यो हव्यकव्येषु त्रिशुक्तोब्राह्मणो द्विजैः ।
अभिभूतश्च पूर्वोक्तैर्दोषैः स्पृष्टश्च नेष्यते ॥
अन्यायाधिगतां दत्त्वा सकलां पृथिवीमपि ।
श्रद्धावर्जमपात्राय न काञ्चिद्भूतिमाप्नुयात् ॥ ४९॥
विवत्सां रोगिणीं रुक्षां स्थविरां शृङ्गभीषणीम् ।
क्षीणक्षीरशरीराङ्गां दत्वा दोषमवाप्नुयात् ॥ ५२ ॥
राहुदर्शनसंक्रान्तिविवाहात्ययवृद्धिषु ।
स्नानदानादिकं कुर्युर्निशि काम्यव्रतेषु च ॥ ८१ ॥
प्रदाय शाकमुष्टिं वा श्रद्धाभक्तिसमन्वितम् ।
महतै पात्रभूताय सर्वाभ्युदयमाप्नुयात् ॥ ५५ ॥
श्रान्तायान्नप्रदः स्वर्गं विमानेनाधिरोहति ।
प्राप्नोति दशगोदानफलं योगिप्रतिक्रियः ॥ १५२ ॥
प्रक्षाल्य पादौ विप्राय लभेद्गोदानजं फलम् ।
चन्दनं तालवृन्तं च फलानि कुसुमानि च ॥
ताम्बूलमासनं शय्यां दत्वाऽत्यन्तं सुखी भवेत् ॥
वृषयुग्मं वृषं वापि दत्वा गच्छेत् सुरालयम् ।
भुङ्क्ते मन्वन्तरं भोगान् द्विगुणान् युग्मलाङ्गलौ ॥४७३ ॥
अनड्वाहौ तु यो दद्यात् द्विजे सीरेण संयुतौ ।
अलङ्कृत्य यथा शक्त्या सुवाहौ शुभलक्षणौ ॥
सर्वपापविशुद्धात्मा सर्वकामसमन्वितः ।
वर्षाणि वसति स्वर्गे रोमसंख्याप्रमाणतः ॥
यो ददाति बलीवर्दमुक्तेन विधिना शुभम् ।
अव्यङ्गगोप्रदानाच्च भुङ्क्ते दशगुणं फलम् ॥
श्रेष्ठात् श्रेष्ठतरं प्रोक्तं भूमिदानं द्विजातिभिः ।
तद्दत्वा पुरुषः स्वर्गे पूज्यते त्रिदशोत्तमैः ॥ ५० ॥
वाञ्छन्ति पितरोऽप्येवं स्वर्गलोके व्यवस्थिताः ॥
यद्यस्मत्कुलजः कश्चित् भवत्यवनिदानकृत् ।
नरकस्था मरुल्लोके स्वर्गस्थाः परमां मुदम् ॥
यथा वयमतीता ये व्रजामस्तत्प्रभावतः ॥
किमत्र चित्रं दातारं यत्समुद्धरते धरा ।
प्रतिग्रहग्रहीतारमपि तारयति द्विजम् ॥
न तद्यज्ञैर्व्रतैर्दानैर्दातृभिः फलमाप्यते ।
अपि यद्दत्तया भूम्या दण्डत्रितयमात्रया ॥
यद्दानं दीयते किञ्चित् परत्र स्यादिहैव हि ।
भूदानेन पुनः सर्वदानानां प्राप्यते फलम् ॥
ते धन्यास्ते सुकृतिनः कृतार्थास्ते न संशयः ।
सत्पात्राय प्रदत्तं यैर्भूदानं विधिना नरैः ॥
तिस्त्रः कन्या यथान्यायं पालयित्वा निवेद्य च ॥६७८ ॥
न पिता नरकं याति नारी वा स्त्रीप्रसूयिनी ॥
कान्तियुक् सुभगः श्रीमान् भवत्यम्बरदानकृत् ॥९०४ ॥
छत्रदश्छायया याति यानेनोपानहप्रदः ॥ ९२७ ॥
दीपकोद्योतकृत् राजा भवेन्मार्जनकृन्नरः ॥ ९४१ ॥
कृत्वा तु पातकं कर्म यद्दद्यादन्नमीप्सितम् ॥
ब्राह्मणानां विशेषेण स निहन्त्यात्मनस्तमः ॥ ९७९॥
आदरेण च भक्त्या च यदन्नमुपदीयते ॥
तत्प्रीणयति गात्राणि नामृतं मानवर्जितम् ।
दुर्लभस्तु मुदा दाता भोक्तारश्च सुदुर्लभाः ॥ ९८० ॥
मुदा दाता च भोक्ता च तावुभौ स्वर्गवासिनौ ॥
योऽन्नं बहुमतं भुङ्क्ते यश्चान्नं नावमन्यते ।
यश्चान्नं प्रीतितो दद्यात् तस्यान्नमुपतिष्ठते ॥
प्रीतितोऽन्नं च यो दद्यात् गृह्णीयाद्योऽभिपूज्य च ।
प्रीतितोऽक्षयमश्नाति पूजितः स्वर्गमश्नुते ॥
यो दद्यादप्रियेणान्नं यश्चान्नं नाभिनन्दति ।
तावुभौ नरके मग्नौ वसेतां शरदः शतम् ॥
अघृतं भोजयन् विप्रं स्वगृहे सति सर्पिषि ।
परत्र निरयं घोरं गृहस्थः प्रतिपद्यते ॥ ९८६ ॥
मृष्टमन्नं स्वयं भुक्त्वा पश्चात्कदर्शनं लघु ।
ब्राह्मणान् भोजयन् मूर्खो निरये चिरमावसेत् ॥
यो मृष्टमन्नं द्विजपुङ्गवानां दद्यात्सुराणामथवाऽतिथिभ्यः ।
स पुत्रपौत्रैरभिवर्धमानः समानतां वृत्ररिपोरुपैति ।
सतोयां पथिके विप्रे यो दद्यात्करपत्रिकाम् ॥९९१ ॥
फलं स कूपखातस्य नूनमाप्नोति मानवः ॥
ग्रामप्रवेशे मणिकं ददाति द्विजसद्मनि ॥ ९९५॥
योऽम्बुपूरितमाप्नोति स तडागकृतः फलम् ॥
हे० ब्र० खं०
व्रतोपवासनियमैः शरीरोत्तापनं नृप ॥६ ॥
शिक्षाव्याकरणनिरुक्तछन्दः कल्पज्योतींषि षडङ्गानि ॥१७ ॥
हेमाद्रौ श्राद्धकल्पे देवलः—
● स्वयं धौतेन कर्तव्या क्रियाधर्मा विपश्चिता ।
न तु नेजकधौतेन नाहतेन च कर्हिचित् ॥ ९१२ ॥
श्मश्रुभिश्च मुखाविष्टैराशौचं नोपदिश्यते ॥९७३॥
भोजने दन्तलग्नानि निर्हृत्याचमनं चरेत् ॥ ९७४॥
दन्तलग्नमसंहार्यं लेपं मन्येत दन्तवत् ॥
न तत्र बहुशः कुर्यात् यत्नमुद्धरणे पुनः ॥९७५ ॥
अप्सु पीतासु हृदयं प्राप्तासु ब्राह्मणः शुचिः ।
राजन्यःकण्ठमास्यं च विट् शूद्रः स्पर्शनाच्छुचिः ॥ ९८६ ॥
इत्येवमद्भिराजानु प्रक्षाल्यचरणौ पृथक् ।
हस्तौ चामणिवन्धाभ्यां पश्चादासीत संयतः ॥ ९८७ ॥
प्रथमं प्राङ्मुखः स्थित्वा पादौ प्रक्षालयेच्छनैः ।
उदङ्मुखो वा दैवत्ये पैतृके दक्षिणामुखः ॥ ९८९॥
शिखां बध्वा वसित्वा च निर्णिक्तेवाससी शुभे ।
तूष्णीं भूत्वाऽप आचामेदकुप्यन्नविलोकयन् ॥ ९९०॥
अथापः प्रथमात्तीर्थात् दक्षिणात् त्रिःपिबेत्समम् ।
अशब्दमनस्रावमबहिर्जान्वम्बुबुद्बुदम् ॥
द्विस्तथाङ्गुष्ठमूलेन परिमृज्यात्ततो मुखम् ।
ततः कृत्वाऽङ्गुलिस्पर्शं दृग्घ्राणश्नोत्रनाभिषु ॥ ९९८ ॥
मूर्धानं चरणौ चाद्भिः संप्रोक्ष्याथ शुचिर्भवेत् ।
कामं प्रतिश्रवस्तेषामनिन्द्यामन्त्रणे कृते ॥२००१ ॥
पूर्वं निमन्त्रितोऽन्येन कुर्यादन्यप्रतिग्रहम् ॥
भुक्ताहारस्तथा भुङ्क्तेसुकृतं तस्य नश्यति ॥ १००५ ॥
अक्रोधो निर्वृतः स्वस्थः श्रद्धावानत्वरः शुचिः ।
समाहितमनाः श्राद्धक्रियायामसकृद्भवेत् ॥ १०११ ॥
अन्नपानकशीतोदं ददद्भोह्यवलोकितः ॥१०१७॥
वक्तव्ये कारणे संज्ञां कुर्वन् भुञ्जीत पाणिना ॥
योऽप्रसन्नमना भुङ्क्तेसोपानत्कोऽपि वा पुनः ।
प्रलापशीलः क्रुद्धो वा स विप्रः पितृदूषकः ॥ १०२१ ॥
नाश्रु वा पातयेच्छ्राद्धे न जल्पेन्न हसेन्मिथः ।
न विभ्रमेन्न संक्रुध्येन्नोद्विजेच्चात्र कर्हिचित् ॥ १०२५॥
प्राप्तेहि कारणे श्राद्धेनैवक्रोधं समुच्चरेत् ।
आश्रितः स्विन्नगात्रो वा न तिष्ठेत् पितृसन्निधौ ॥१०३०॥
न चात्र श्येनकाकादीन् पक्षिणः प्रतिषेधयेत्
तद्रूपाः पितरस्ते हि समायान्तीति वैदिकम् ॥
आचान्तेभ्यो द्विजेभ्यस्तु प्रयच्छेदथ दक्षिणाम् ॥१०४४ ॥
अकृते वैश्वदेवे तु स्थालीपाकाः प्रकीर्तिताः ॥
अन्यत्र पिण्डयज्ञात्तु सोऽपराह्नेविधीयते ॥ १०६४ ॥
श्वः कर्तास्मीति लक्षण्यान् तदा विप्रान्निमन्त्रयेत् ।
निरामिषं सकृद् भुक्त्वा सर्वभुक्तजने गृहे ॥
असम्भवे परेद्युर्वा ब्राह्मणांस्तान्निमन्त्रयेत् ।
अज्ञातीनसमानार्षानयुग्मानात्मशक्तितः ॥
एकेनापि हि विप्रेण षट्पिण्डं श्राद्धमाचरेत् ।
षडर्घ्यान्दापयेत्तस्मै षड्भ्यो दद्यात्तथाऽऽसनम् ॥ १९४६ ॥
तिलानवकिरेत्तत्र सर्वतो बन्धयेदजान् ।
आसुरोपहतं सर्वं तिलैः शुद्ध्यत्यजेन च ॥ ११६१ ॥
तथैव मन्त्रितो दाता प्रातः स्नात्वा सहाम्बरः ॥
आरभेतनवैः पात्रैरन्नारभश्च बान्धवैः ॥ ११६२ ॥
प्रधानं च पवित्रं च शौचमेवाष्टकाविधौ ।
पितरः शौचकामा हि निस्पृहा धौतकल्मषाः ॥ ११७४ ॥
दर्भास्तिला गजच्छाया दौहित्रो मधुसर्पिषी ।
कुतपो नीलषंडश्च पवित्राणि च पैतृके ॥११७५ ॥
ततः सर्वाशनं पात्रेगृहीत्वा विविधं पुनः ।
तेषामुच्छोषणस्थाने तेन पात्रेण निक्षिपेत् ॥ १३९६ ॥
अथ संगृह्य कलशं सदर्भं पूर्णमम्भसा ।
पुरस्तादुपविश्यैषां पिण्डावापंनिवेदयेत् ॥ १४०४ ॥
अभ्युक्ष्यमधुसर्पिभ्यां तान् वपेत् कुशसञ्चये ॥ १४१२ ॥
छायायां हस्तिनश्चैव वस्त (?) दौहित्रसन्निधौ ॥
उपलिप्ते शुचौ देशे स्थानं कुर्वीत सैकतम् ॥१४१३ ॥
मंडलं चतुरश्रंवा दक्षिणावनतं महत् ॥
एकदर्भेण तन्मध्यमुल्लिखेत् त्रिश्च तं त्यजेत् ॥ १४१४ ॥
तस्मिन् स्थाने ततो दर्भानेकमूलान् शिवान् बहून् ॥१४१८ ॥
दक्षिणाग्रानुदक्पादान् सर्वांस्तांस्तृणुयात्समम् ॥
ततश्चरुमुपादाय सपवित्रेण पाणिना ॥
चतुर्धा विभजेत् पिण्डान् घृताक्तान् भोजनेन वै ।
अभ्युक्ष्यमधुसर्पिभ्यां तान् वपेत्कुशसञ्चये ॥१४२७ ॥
एवं निवेश्य पिडांस्तानलंकुर्याच्च पूर्ववत् ।
पक्वान्नेन बलिंतेभ्यः पिण्डेभ्यो दापयेत् बुधः ॥१४७१ ॥
ततो दत्तबलिभ्यश्च पिण्डेभ्यो मन्त्रपूर्वकम् ।
पिण्डपात्रेण तेनैव दद्यादाचमनोदकम् ॥
दक्षिणां सर्वभागांश्चं प्रतिपिण्डं प्रदापयेत् ।
भक्ष्यानपूपानिक्षूंश्च व्यञ्जनान्यशनानि च ॥१४७२ ॥
अथवा वैश्यदेवत्यान् ब्राह्मणान् स्वस्ति वाचयेत् ॥१४९८ ॥
अक्षय्यं वाचयेत् पित्र्यांश्चरमं सतिज्ञोदकम् ॥
अथ विप्रान् गृहीतार्थान् संतृप्तानभिवादयेत् ।
यथावद्वैश्वदेवत्यान् पितृपूर्वं पुनः पितॄन् ॥
पूर्वमुत्थापयेत् पित्र्यानृध्यतामिति चब्रुवन् ।
उत्थिताननुगच्छेत्तुतेभ्यः शेषं च संहरेत् ॥१४६६॥
निर्वर्त्य पितृमेधं तु दीपं प्रच्छाद्य पाणिना ।
आचम्य पाणी प्रक्षाल्यज्ञातीन् शेषांस्तु भोजयेत् ॥ १६०३ ॥
ततः कर्मणि निर्वृत्तेतान् पिण्डांस्तदनन्तरम् ।
ब्राह्मणोऽग्निरजो गौर्वा भक्षयेदप्सु वा क्षिपेत् ॥१५०४॥
तेषां वा मध्यमं पिण्डं पुत्रकामादि भक्षयेत् ।
पितृप्रसादात्पुत्रं वा लभते तु महागुणम् ॥ १५०६॥
प्रक्षाल्यहस्तावाचम्य ज्ञातीन् शेषेण भोजयेत् ।
ज्ञातिष्वपि च तृप्तेषु स्वान् भृत्यान् भोजयेत्ततः ॥१५१५॥
निधाय वा दर्भबटूनासनेषु समाहितः ।
प्रैषानुप्रैषसंयुक्तं विधानं प्रतिपादयेत् ॥ १६२६ ॥
पात्राभावे पटं कृत्वा पितृयज्ञविधिम् नरः ।
निर्दिश्याप्पन्नमुद्धत्य यत्र पात्रं ततो गतिः ॥
पात्राभावे क्षिपेदग्नौ गवे दद्यात्तथाप्सु वा ।
न तु प्राप्तस्य लोपोऽस्ति पैतृकस्य विशेषतः ॥
पिण्डपात्रं प्रदातव्यमलाभे द्रव्यविप्रयोः ॥१५३४॥
श्राद्धेऽहनि तु सम्प्राप्ते भवेन्निरशनेऽपि वा ॥
यदेव तर्पयत्यद्भिराहिताग्निर्दिने दिने ।
पित्र्यं तेनैव प्राप्नोति वार्षिकादिक्रियाफलम् ॥
अनेन विधिनाश्राद्धं कुर्यात्संवत्सरं सकृत् ॥१५३५॥
द्विश्चतुर्वा यथाश्रद्धंमासे मासे दिने दिने ।
● अघृतं भोजयन्विप्रं स्वे गृहे सति सर्पिषि ॥१५६६॥
परत्र निरयं घोरं गृहस्थः प्रतिपद्यते ॥
● मृष्टमन्नं स्वयं भुक्त्वा पश्चात्कदशनं लघु ।
ब्राह्मणं भोजयन् विप्रो निरये चिरमावसेत् ॥
एकोदिष्टेषु शेषन्तु ब्राह्मणेभ्यः ससुत्सृजेत् ॥१५६७॥
ततः कामन्तु भुञ्जीत स्वयं मङ्गलभोजनम् ॥
हेमाद्रौ परिभाषाखण्डे ( पु० खं० १ )
अरोगः प्रकृतिस्थश्च चिरायुः पुत्रपौत्रवान् ॥ १०॥
अर्थवानर्थभोगी च श्राद्धकामो भवेदिह ।
परत्र च परां पुष्टिं लोकांश्च विपुलान् शुभान् ।
श्राद्धकृत्समवाप्नोति यशश्च विपुलं नरः ।
देवो यदि पिता जातः शुभकर्मानुयोगतः ॥१५॥
तस्यान्नममृतं भूत्वा देवत्वेऽप्यनुगच्छति ।
गान्धर्वेभोग्यरूपेण पशुत्वे च तृणं भवेत् ।
श्राद्धान्नं वायुरूपेण नागत्वेऽप्यनुगच्छति ।
पानं भवति यक्षत्वे राक्षसत्वे तथामिषम् ।
दानवत्वे तथा मांसं प्रेतत्वे रुधिरोदकम् ।
मनष्यत्वेऽन्नपानादि नानाभोगरसो भवेत् ।
सर्वत्र पितरः पूज्या देवतानां च देवताः ॥ ७३ ॥
शुचयो निर्मलाः शुद्धा दक्षिणां दिशमाश्रिताः ।
प्रेतानुद्दिश्य यत्कर्म क्रियते मानुषैरिह ॥ ५७ ॥
तुष्यन्ते पितरस्तेन न प्रेताः पितरः स्मृताः ।
● एकेनापि हि विप्रेण षट्पिण्डं श्राद्धमाचरेत् ॥८५॥
षडर्घ्यान्दापयेत्तत्र षट्भ्यो दद्यात्तथाऽशनम् ।
पिता भुङ्क्तेद्विजकरे मुखे भुङ्क्ते पितामहः \।
प्रपितामहस्तु तालुस्थः कण्ठे मातामहः स्मृतः ।
प्रमातामहस्तु हृदये वृद्धो नाभौ तु संस्थितः ।
एवमप्याचरेच्छ्राद्धं षड्दैवत्यं महामुने ।
विभक्तं कारयेद्यस्तु पितृहा स प्रजायते ।
द्व्यामुष्यायणका दद्युर्द्वाभ्यां पिण्डोदके पृथक् ॥११६ ॥
षण्णांदेयास्तु षट्पिण्डा एवं कुर्वन्न मुह्यति ।
यत्र तत् क्रियते कर्म पैतृके ब्राह्मणान्प्रति ॥१३६ ॥
तत्सर्वं तत्र कर्तव्यं वैश्वदेवत्यपूर्वकम् ।
श्राद्धस्य पूजितो देशो गया गङ्गा सरस्वती ॥१६१ ॥
कुरुक्षेत्रं प्रयागश्च नैमिशं पुष्कराणि च ॥
नदीतटेषु तीर्थेषु शैलेषु पुलिनेषु च ।
विविक्तेषु च तुष्यन्ति दत्तेनेह पितामहाः ।
मनुना श्राद्धकल्पोऽयं मानवः समुदाहृतः ॥१८९ ॥
बहुपिण्डाष्टका तु स्यादेकपिण्डा तु नेष्यते ।
अर्के तु तस्य कन्यास्थे श्राद्धपक्षः प्रकीर्तितः ॥२२४॥
सिनीवालीमतिक्रम्य यदा कन्यां व्रजेद्रविः ।
तदा कालस्य वृद्धत्वादतीतैव पितृक्रियेति ॥
यथा स्नानं च दानं च सूर्यस्यग्रहणे दिवा ॥२४७ ॥
सोमस्यापि तथा रात्रौ स्नानं दानं विधीयते ।
तृतीया रोहिणीयुक्ता वैशाखस्य तु या सिता ॥२५३॥
मघाभिः सहिता कृष्णा नभस्ये तु त्रयोदशी ।
युगादयः स्मृता ह्येता दत्तस्याक्षयकारिकाः ।
यान्तिथिं समनुप्राप्य उदयं याति भास्करः ॥ २८१ ॥
सा तिथिः सकला ज्ञेया दानाध्ययनकर्मसु ॥
यां तिथिं समनुप्राप्य अस्तं याति दिवाकरः ।
सातिथिःसकला ज्ञेया स्नानदानजपादिषु ।
अथ तपोविधिं व्याख्यास्यामः ।
तद्यथा व्रतोपवासानि—यमैः शरीरोत्तापनं तप इति । तत्र
ब्रह्मचय सत्यवचनं मधुमांसवर्जनं मौनमयाचनमृतुकालाभिगमनमित्येवमादीनि व्रतानि ॥३४७॥
त्रिशुक्तः कृशवृत्तिश्च घृणालुः सकलेन्द्रियः॥३५०॥
विमुक्तो योनिदोषेभ्यो ब्राह्मणः पात्रमुच्यते ।
मात्रश्च ब्राह्मणश्चैव श्रोत्रियश्च तपः परः ॥३५१॥
अनूचानस्तथा भ्रूण ऋषिकल्प ऋषिर्मुनिः॥
इत्येतेऽष्टौ समुद्दिष्टा ब्राह्मणाः प्रथमं श्रुतौ ।
तेषां तपः परः श्रेष्ठो विद्यावृत्तविशेषतः॥
ब्राह्मणानां कुले जातो जातिमात्रो यदा भवेत्॥
अनुपेतः क्रियाहीनो मात्र इत्यभिधीयते ।
एकदेशमतिक्रम्य वेदस्याचारवान् द्विजः॥
स ब्राह्मण इति प्रोक्तो निवृत्तः सत्यवान् घृणी ।
एकां शाखां सकलां वा षड्भिरङ्गैरधीत्य वा॥
षट्कर्मनिरतो विप्रः श्रोत्रियो नाम धर्मवित् ।
वेदवेदाङ्गतत्त्वज्ञः शुद्धात्मा पापवर्जितः॥
शिष्टः श्रोत्रियतां प्राप्तः सोऽनूचान इति स्मृतः ।
अनूचानगुणोपेतो यज्ञस्वाध्याययन्त्रितः ।
भ्रूण इत्युच्यते शिष्टैः शेषभोजी जितेन्द्रिय॥
वैदिकं लौकिकं चैव सर्वं ज्ञानमवोप्य यः ।
आश्रमस्थो वनो नित्यं मुनिकल्प इति स्मृतः॥
ज्येष्ठे चाप्यनिविष्टे च ज्येष्ठमुत्क्रम्य यः पुनः ।
विन्देत परिवित्तिश्च परिवेत्ता च तावुभौ॥
अथान्यांश्च प्रवक्ष्यामि ब्राह्मणान् पंक्तिपावनात् । ३९९
समर्थान् हव्यकव्येषु स्वगुणैरभिपूजितान् ।
वेदवेदाङ्गनिष्णाता विशुद्धान्वययोनयः॥
स्वकर्मादुःस्थिता विप्राः स्वपंक्तिं पावयान्ति हि।
त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गविद् ।
छन्दोगः सोमयाजी च ब्राह्मणाः पंक्तिपावनाः ।
ज्येष्ठाश्रयनिविष्टश्च शतायुर्ज्येष्ठसामगः॥
अग्निवित्सोमपाश्चैतै ब्राह्मणाः पंक्तिपावनाः ।
ऋग्यजुःसामधर्मज्ञा स्नातकाश्चाग्निहोत्रिणः॥
ब्रह्मदेवानुसन्ताना विज्ञेयाः पंक्तिपावनाः ।
चतुराश्रमबाह्याय दत्तं भवति निष्फलम्॥४७५॥
देवकोशोपजीवी स नाम्ना देवलको भवेत्॥४९३॥
अपााक्तेयः स विज्ञेयः सर्वकर्मसु सर्वदा॥४९६॥
हे० पु० ४
अर्के नभस्यकन्यास्थे श्राद्धपक्षः प्रकीर्तितः ।
सिनीवालीमतिक्रम्य यदा कन्यां व्रजेद्रविः॥४५॥
यां तिथिं समनुप्राप्य उदयं याति भास्करः ।
सा तिथिः सकला ज्ञेया स्नानदानजपादिषु॥१५॥
यां तिथिं समनुप्राप्य अस्तं यानि दिवाकरः ।
सा तिथिः सकला ज्ञेया दानाध्ययनकर्मसु॥१६॥
दिनार्धसमयेऽतीते भुज्यते नियमेन यत् ।
एकभुक्तमिति प्रोक्तमूनं ग्रासत्रयेण तु॥१०८॥
नक्षत्रदर्शनान्नकं गृहस्थस्य बुधैः स्मृतम् ।
यतेर्निशाष्टमे भागे तस्य रात्रौ निषिध्यते॥११४॥
न शंखेन पिबेत्तोयं न खादेत् कूर्मसूकरौ ।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥१५२॥
दशम्यामेकभुक्तं च मांसमैथुनवर्जितम् ।
एकदश्यामुपवसेत् पक्षयोरुभयोरपि॥१९३॥
एकादश्यां निराहारो भुक्त्वाहमपरेऽहनि ।
भोक्ष्यामि पुण्डरीकाक्ष गतिर्भव ममाच्युत॥१९६॥
गृहीत्वोदम्बरं पात्रं वारिपूर्णमुदङ्मुखः ।
उपवासं तु गृह्णीयात् यद्वा संकल्पयेत् द्विजः॥१९०॥
यथा स्नानं च दानं च सूर्यस्य ग्रहणं दिवा ।
सोमस्यापि तथा रात्रौ स्नानं दानं विधीयते॥३८१॥
प्रथमं मातापितृभ्यां गर्भाधानादिभिः संस्कृतो ।
गर्भाष्टमे वर्षे तूपनयनार्हो भवति॥७७६॥
अतः परमष्टाचत्वारिंशद्वार्षिकीं वेदव्रत
चर्यामातिष्ठेत । अशक्तश्चेत् षट्त्रिंशद्वा—
र्षिकीं चतुर्विंशतिवार्षिकीं चेति॥७७८॥
वन्ध्यातु वृषली ज्ञेया वृषली च मृतप्रजा ।
अपरा वृषली ज्ञेया कुमारी वा रजस्वला॥८०७॥ इति
वीरमित्रोदये परिभाषाप्रकाशे देवलः —
●शिक्षाकल्पव्याकरणनिरुक्तच्छन्दोज्योतिषाणि षडङ्गानि॥८॥
शौचं दानं तपः श्रद्धा गुरुसेवा क्षमा दया॥३३॥
विज्ञानं विनयः सत्यमिति धर्मसमुच्चयः॥
त्रतोपवासनियमैः शरीरोत्तापनं तपः॥३४॥
प्रत्ययो धर्मकार्येषु सदा श्रद्धेत्युदाहृता ।
नास्ति ह्यश्रद्दधानस्य धर्मकृत्यप्रयोजनम्॥
विगर्हातिक्रमक्षोभहिंसाबन्धवधात्मनाम् । ३।
अन्यमन्युसमुत्थानदोषाणां मर्षणं क्षमा ।
श्रुयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् ।
आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥
यौगपद्ये च तीर्थानां विप्रादिक्रमशो व्रजेत्॥
रक्षणार्थमपुत्राणां ग्रहणक्रमशोऽपि वा ।१६२।
ऋतुकालेऽभिगमनं भर्त्रा कार्यं प्रयत्नतः॥
पुंसवादीनि कर्माणि बान्धवैर्वापि कारयेत् \।१६४।
●प्रथमं मातापितृभ्यां गर्भाधानादिभिः
संस्कृतो गर्भाष्टमे तूपनयनार्हा भवति॥१९५॥
कर्णरन्ध्रे रवेश्छाया न विशेदग्रजन्मनः ।
तं दृष्टं विलयं यान्ति पुण्यौघाश्च पुरातनाः ।२६३।
तस्मै श्राद्धं न दातव्यं यदि चेदासुरं भवेत् ।
●द्वितीयेन तु यः पित्रा सवर्णायां प्रजायते ।३९७।
अवरोढ इति ज्ञेयः शूद्रधर्मा स जातितः॥
व्रतहीनास्त्वसंस्कार्याः सवर्णास्वपि ये सुताः ।
उत्पादिताः सवर्णेन व्रात्या इति बहिष्कृताः॥
यज्ञोपवीतं कुर्वीत सूत्रेण नवतन्तुकम् ।
एकेन ग्रन्थिना तन्तुर्द्विगुणस्त्रिगुणोऽथवा॥३९७॥
कार्पासकं समादद्यात् शुचिक्षेत्रे विशोधितम् ।
त्रिवृतं तु तथा कार्यं ब्राह्मण्या सूत्रकं कृतम् ॥४१७॥
ओंकारः प्रथमस्तन्तुर्द्वितीयोऽग्निस्तथैव च ।
तृतीयो भगदेवत्यः चतुर्थः सोमदेवतः॥४१८॥
पञ्चमः पितृदेवत्यः षष्ठश्चैव प्रजापतिः ।
सप्तमो बसुदेवत्यः धर्मश्चाष्टम एव च॥
नवमः सर्वदेवत्यः इत्येतो नव देवताः॥
स्तनादूर्ध्वमधो नाभेर्न कर्तव्यं कथञ्चन ।
यज्ञोपवीते द्वे धार्ये श्रौते स्मार्ते च कर्मणि॥४२०॥
तृतीयमुत्तरीयार्थे वस्त्रालाभे तदिष्यते॥४२१॥
बहूनि चायुष्कामस्येत्यादि काम्यं प्रचक्षते॥
ब्रह्मसूत्रेऽपसव्येंऽसे स्थिते यज्ञोपवीतिता ।
प्राचीनावीतिता सव्ये कण्ठस्थे च निवीतिता॥४२५॥
उपध्यायः पिता ज्येष्ठो भ्राता चैव महीपतिः ।
मातुलः श्वशुरस्त्राता मातामहपितामहौ । ४७१॥
वर्णज्येष्ठः पितृव्यश्च पञ्चैतै गुरवः स्मृताः॥
माता मातामही गुर्वी पितुर्मातुश्च सोदरा ।
श्वश्रूः पितामही ज्येष्ठा धात्री चैव गुरोः स्त्रियः॥
इत्युक्तो गुरुवर्गोऽयं मातृतः पितृतो द्विधा ।
अनुवर्तनमेतेषां मनोवाक्कायकर्मभिः ।
गुरु दृष्ट्वा समुत्तिष्ठेदभिवाद्य कृताज्जलिः ।
नैतैरुपविशेत्सार्धं विवदेन्नार्थकारणात्॥
उद्दिष्टं साधयेदर्थं प्रतिषिद्धं च वर्जयेत् ।
तत्पूज्यान् पूजयेन्नित्यं न्यसने न परित्यजेत्॥
क्रोधं वाक्दण्डपारुष्यं उत्सेकं वैकृतान् स्वरान् ।४७२।
नर्महासं विलासं च वर्जयेत् गुरुसन्निधौ ।
जीवितार्थमपि द्वेषं गुरुभिर्नैव भावयेत् ।
उदितोऽपि गुणैरन्यैर्गुरुद्वेषी पतत्यधः॥
गुरूणामपि सर्वेषां पूज्याः पञ्च विशेषतः ।
तेषामाद्या स्त्रियः श्रेष्ठास्तेषां माता सुपूजिता॥
यो भावयति या सूते येन विद्योपदिश्यते ।
ज्येष्ठो भ्राता च भर्ता च पञ्चैते गुरवः स्मृताः॥
आत्मनः सर्वयत्नेन प्राणत्यागेन वा पुनः ।
पूजितव्या विशेषेण पञ्चैते भूतिमिच्छता ।
यावत्पिता च माता च द्वावेतौ निर्विकारिणौ ।
तावत्सर्वं परित्यज्य पुत्रः स्यात्तत्परायणः॥
पिता माता च सुप्रीतौ स्यातां पुत्रगुणैर्यदि ।
स पुत्रः सकलं धर्मं प्राप्नुयान्नात्र संशयः॥
नास्ति मातृसमं दैवं नास्ति पित्रा समो गुरुः ।
तयोः प्रत्युपकारो हि न कथञ्चन विद्यते॥
सम्यगाराध्य वक्तारं विसृष्टस्तदनुज्ञया ।
शिष्यो विद्याफलं भुङ्क्ते प्रेत्य चापद्यते दिवम्॥
यो भ्रातरं पितृसमं ज्येष्ठं मूढोऽवमन्यते । ४७३
तैनैव दोषेण स प्रेत्य निरयं घोरमृच्छति॥
तस्मात्पितृवदाराध्यो गुरुर्ज्येष्ठो हितार्थिभिः ।
तस्य प्रसादान्मर्त्यो हि प्रेत्य चेह च नन्दति॥
पुंसा धर्मनिविष्टेन पूज्यो भर्ता हि सर्वदा ।
अपि मातरि लोकेऽस्मिन् उपकाराद्धि गौरवम्॥
ये नरा भर्तृपिण्डार्थं स्वान् प्राणान् संत्यजन्ति हि ।
तेषामथाक्षयान् लोकान् प्रोवाच भगवान् मनुः ।
यं मातापितरौ क्लेशं सहते संभवे नृणाम् ।
न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि॥
योऽहर्निशं प्रियं कुर्यादाचार्यस्य च सर्वदा ।
तेषु हि त्रिषु तुष्टेषु तपः सर्वं समाप्यते॥
तेषां त्रयाणां शुश्रूषा परमं तप उच्यते ।
नैतैरनभ्यनुज्ञातो धर्ममन्यं समाचरेत्॥
सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः ।
अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः॥
यावत् त्रयस्ते जीवेयुस्तावन्नान्यत्समाचरेत् ।
तेषां नित्यन्तु शुश्रूषां कुर्यात् प्रियहिते रतः॥
तेषामनुपरोधेन पारक्यं यद्यदाचरेत् ।
तत्तन्निवेदयेत्तेभ्यो मनोवाक्कायकर्मभिः॥
त्रिष्वेतेष्वितिकृत्यं हि पुरुषस्य समाप्यते ।
एष धर्मः परस्तस्मादुपधर्मोऽन्य उच्यते॥
धर्मार्थं वर्धिताः पुत्रास्तत्तद्गोत्रेण पुत्रवत् । ६८९।
अंशपिण्डविभागित्वं तेषु केवलमीरितम् ।
पञ्चमात्सप्तमादूर्ध्वं मातृतः पितृतः क्रमात् ।
सपिण्डता निवर्तेत सर्ववर्णोष्वयं विधिः॥७०३॥
ज्येष्ठायां यद्यनूढायां कन्यायामुह्यतेऽनुजा ।
या साऽमेदिधिषूः प्रोक्ता पूर्वा तु दिधिषूः स्मृता ७६५॥
शुल्कं प्रदाय कन्यायाः प्रत्यादानं विधानतः ।
वित्तहेतुविवाहोऽयमासुरः षष्ठ उच्यते॥८५३॥
विविक्ते स्वयमन्योन्यं स्त्रीपुंसोर्यत्समागमः ।
प्रीतिहेतुः स गान्धर्वो विवाहः पञ्चमो मतः॥८५६॥
विक्रमेण प्रसह्य स्यात् कुमारीहरणं पुनः ।
वीर्यहेतुर्विवाहः स सप्तमः समुदाहृतः॥८५७॥
सुप्तमत्तोन्मत्तकन्याहरणं व्यसनादपि ।
प्रमादहेतः पैशाचो विवाहोऽष्टम उच्यते॥८५८॥
पूर्वे विवाहाश्चत्वारो धर्म्यास्तोयप्रदानकाः ।
अशुलका ब्राह्मणार्हाश्च तारयन्ति द्वयोः कुलम्॥८६०॥
गान्धर्वादिविवाहेषु पुनर्वैवाहिको विधिः ।
कर्तव्यश्च त्रिभिर्वर्णैः समयेनाग्निसाक्षिकः॥८६१॥
एकामुत्क्रम्य कामार्थामन्यां लब्धुं य इच्छति ।
समर्थस्तोषयित्वार्थैः पूर्वोढामपरां हरेत्॥८७३॥
अधिविन्दन् स्त्रियै दद्यादाधिवेदनिकं समम् ।
न दत्तं स्त्रीधनं यस्यै दत्तेत्वर्धं प्रकीर्तितम्॥
आकांक्षेताष्ट वर्षाणि भर्तातिप्रसवां स्त्रियम् ।
दश वन्ध्यां च निन्द्यांच द्वादश स्त्रीप्रसूतिनीम्॥
ततो विन्देत विधिना पुत्रार्थी धर्मतः स्त्रियम् ।
पुत्रलाभात् परं लोके नास्ति हि प्रसवाहितमः॥
वी० मि० चतुर्थं पुस्तकम्—
वापीकूपनदीगोष्ठचैत्याम्भःपथिभस्मसु ॥३३॥
अग्नौ काम्ये श्मशाने च विरामूत्रं न समाचरेत्॥
अङ्गारतृणकीटास्थि शर्कराशकलान्विताम् ।५०॥
वक्ष्मीकोखट (१) तोयान्त कुड्योत्खातश्मशानजाम् ।
आहृतामन्यशौचार्थमाददीत न मृत्तिकाम्॥
धर्मविद्दक्षिणं हस्तमधः शौचे न योजयेत् । ५१
तथैव वामहस्तेन नाभेरूर्ध्वं न शोधयेत्॥
प्रकृतिस्थितिरेषा स्यात्कारणादुभयक्रिया ।
प्रथमं प्राङ्मुखः स्थित्वा पादौ प्रक्षालयेच्छनैः॥६३॥
●उदङ्मुखो वा दैवत्ये पैतृके दक्षिणामुखः॥
शिखां बध्वा वसित्वे द्वे निर्णिक्ते वाससी शुभे ।
●तूष्णीं भूत्वा समाधाय नोद्गच्छन्न विलोकयन्॥
न गच्छन्न शयानश्च न हसन् न परान् स्पृशन् ।
न हसन्नैव संजल्पन् नात्मानं चैव वीक्षयन्॥
केशान्नीवीमधःकायमस्पृशन् धरणीमपि ।६३॥
यदि स्पृशति चैतानि भूयः प्रक्षालयेत् करम्॥
●इत्येवमद्भिराजानु प्रक्षाल्य चरणौ पृथक् ।६४॥
हस्तौ चामणिबन्धाभ्यां पश्चादासीत संयतः॥
येषु देशेषु ये देवा येषु देशेषु ये द्विजाः ।६९॥
येषु देशेषु यत्तोयं याश्च यत्रैव मृत्तिकाः॥
येषु स्थलेषु यच्छौचं धर्माचारश्च यादृशः ।
तत्र तन्नावमन्येत धर्मस्तत्रैव तादृशः॥
ततः कृत्वाङ्गुलिस्पर्शं दृग्घ्राणश्रोत्रनाभिषु ।
मूर्धानं चरणौ चाद्भिः संप्रोक्ष्याथ शुचिर्भवेत् ।८०॥
अथाम्बु प्रथमात्तीर्थात् दक्षिणात् त्रिः… पिबेत् समम् ।
*अशब्दमनवस्त्रावमबहिर्जान्वम्बुबुद्बुदम् ।८६॥
द्विस्तथाङ्गुष्ठमूलेन परिमृज्यात् पुनर्मुखम्॥
नाग्राङ्गुल्या न पृष्ठैर्वा परिमृज्यात्कथञ्चन ।
उच्छिष्टं मानवं स्पृष्ट्वाभोज्यं वापि तथाविधम् ॥१०४॥
तथैव हस्तौ पादौ च प्रक्षाल्याचम्य शुद्ध्यति॥
यदम्भः शौचनिर्मुक्तं क्षितिं प्राप्य विनश्यति ॥१०५॥
प्रक्षाल्याशुचिलिप्तं च तत्स्पृष्ट्वाचम्य शुद्ध्यति॥
● मानुषास्थि वपां विष्ठामार्तर्वं मूत्ररेतसी \।१०७॥
मज्जानं शोणितं वापि परस्य यदि संस्पृश्येत्॥
●स्नात्वाऽपमृज्य लेपादीनाचम्य शुचितामियात् ।
तान्येव स्वानि संस्पृश्य पूतः स्यात्परिमार्जनात्॥
ऊर्ध्वं नाभेः करौ मुक्त्वा यदङ्गमुपहन्यते ।
तत्र स्नानमधस्तात्तु प्रक्षाल्याचम्य शुद्ध्यति॥
*भोजने दन्तलग्नानि निर्हृत्याचमनं चरेत् ।१११।
दन्तलग्नमसंहार्यं लेपं मन्येत दन्तवत्॥
न तत्र बहुशः कुर्याद्यत्नमुद्धरणे पुनः ॥१११॥
भवेदाशौचमत्यर्थ तृणवेधाद् व्रणे कृते॥
ततः शरीरस्रोतोम्यः मलनिष्यन्दविस्रवात् । ११६॥
अन्नादीनां प्रवेशाच्च स्यादशुद्धिर्विशेषतः॥
पतिताशच्यमेध्यानां स्वर्शनाच्चाशुचिर्भवेत् ।
सुप्ताद्वस्त्रविपर्यासात् क्षतादध्वपरिश्रमात्॥
महानिशा तु विज्ञेया मध्यमं प्रहरद्वयम् ।१६१॥
तस्यां स्नानं न कुर्वीत नित्यनैमित्तिकादृते॥
दिवोद्धृतैर्जलैः स्नानं निशि कुर्यान्निमित्ततः। १६४
राहुदर्शनसंक्रान्तिविवाहात्ययवृद्धिषु॥
स्नानदानादिकं कुर्यात् निशि काम्यव्रतेषु च । १६६॥
न नदीषु नदींब्रूयात् पर्वतेषु च पर्वतम्॥
नान्यत् प्रशंसेत्तत्रस्थः तीर्थेष्वायतनेषु ॥१६८॥
*श्वपाकं पतितं व्यङ्गमुन्मत्तं शवदाहकम् ।
सूतिकां साविकां नारी रजसा च परिप्लुताम् ॥२०६॥
देवार्चनपरो विप्रो वित्तार्थी वत्सरत्रयम् ।
स वै देवलको नाम हव्यकव्येषु गर्हितः ॥२१२॥
•स्वयं धौतेन कर्तव्या क्रियाधर्म्मा विपश्चिता ।
न तु नेजकधौतेन नाहतेन च कुत्रचित्॥२४५॥
लोमसंस्थान् तिलान् कृत्वा यः संतर्पयते पितॄन् ।
पितरस्तर्पितास्तेन रुधिरेण मलेन च॥३४१॥
स्नात्वा प्रक्षाल्य पादौ च स्रग्गन्धालंकृतः शुचिः ।
पञ्चयज्ञावशिष्टन्तु भुङ्क्ते यः सोऽमृताशनः ॥४६०॥
उपलिप्ते शुचौ देशे पादौ प्रक्षाल्य वाग्यतः ।
प्राङ्मुखोऽन्नानि भुञ्जीत शुचिः पीठमधिष्ठितः॥
न भुञ्जीताघृतं नित्यं गृहस्थो भोजने स्वयम् ।
पवित्रमथ वृष्यं च सर्पिराहुर्बलावहम् ॥४७७॥
भुक्तोच्छिष्टं समादाय सर्वस्मात्किंचिदाचमन् ।
उच्छिष्टभागधेयेभ्यः सोदकं निर्वपेत् भुवि ॥४८२॥
स्वदासो नापितो गोपः कुम्भकारः कृषीवलः ।
ब्राह्मणैरपि भोज्यान्नाः पञ्चैते शूद्रयोनयः ॥४९३॥
आत्मानं धर्मकृत्यं च पुत्रदारांश्च पीडयेत् ।
लोभाद्यः प्रचिनोत्यर्थान् स कदर्य इति स्मृतः ॥ ४९७॥
पतितान्नमभोज्यान्नं अपाङ्क्तेयान्नमेव च ।
शूद्रान्नं कुत्सितान्नं च दूषितं परिवर्जयेत्॥५०५॥
श्लेष्मातको वज्रफली कौसुम्भं नालमस्तकान् ।
गृञ्जनं चेति शाकानामभक्ष्याणि प्रचक्षते॥५१३॥
पलाण्डुंलशुनं शुक्तं निर्यासं चेति सर्वशः ।
कुचुन्दं श्वेतवृन्ताकं कूश्माण्डं च न भक्षयेत्॥
न बीजान्युपभुञ्जीत रोगापत्तिमृते बुधः ।
फलान्येषामनन्तानि बीजानां हि विनाशयेत् ॥५१६॥
नाश्नीयात् पयसा नक्तंभुक्तंचेन्निशि न स्वपेत् ।
न क्षीरमुत्सृजेत् प्राप्तं पवित्रं हि पयः स्मृतम्॥
अभोज्यं प्राहुराहारं शुक्तं पर्युषितं सदा ।
अन्यत्र मधुसक्तुभ्यां भक्ष्येभ्यः सर्पिषो गुडात्॥५२०॥
अवलीढं च मार्जारध्वांक्षकुक्कुटवायसैः ।
भोजने नोपयुञ्जीत तदमेध्यं हि धर्मतः॥
विशुद्धमपि चाहारं दूषितं कृमिजन्तुभिः ।
केशलोमनखैर्वापि दूषितं परिवर्जयेत्॥
भक्षयन्नपि मांसानि शेषभोजी न लिप्यते ।
औषधार्थमशक्तौ वा नियोगाद्यज्ञकारणात्॥५२८॥
आत्मार्थं स्वादुकामित्वात् जीवघातं न कारयेत् ।
कष्टं हि व्यालधर्मत्वाज्जीविहिंसोपजीवनम्॥५३२॥
बलाकाहंसदात्यूह भृङ्गराजकचित्रकाः ।
उलूककुररश्येनगृध्रकुक्कुटवायसाः॥५४१॥
चकोरः कोकिलो रज्जुदालकश्चाषमुद्गकौ ।
कङ्कः सावरणो भासः शतपत्रप्लवङ्गमाः॥
उत्क्रोशो बर्हिणः क्रौञ्चश्चक्रवाकः शिलीमुखः ।
पारावतकपोतौ च अभक्ष्या पक्षिणः स्मृताः ॥
अभक्ष्याःपशुजातीनां गोखरोष्ट्राश्वकुञ्जराः ।
सिंहव्याघ्रर्क्षशरभाः सर्पा जांगलकास्तथा॥५४३॥
आखुमूषिकमार्जारनकुलग्रामसूकराः ।
श्वशृगालकरिद्वीपिगोलाङ्गुलकमर्कटाः॥
शम्बुशुक्तिनखशुक्ति शिशुमारप्लवङ्गमाः ।
मत्स्याश्च विकृताकारा नैव भक्ष्या जलौकसाम्॥५४७॥
अतीर्थगमनात् पुंसः तीर्थसंगूहनात् स्त्रियः ।
उभयोर्धर्मलोपः स्यात् शेषेण तु विशेषतः॥५६०॥
यः स्वदारान् ऋतुस्नातान् स्वस्थः सन्नोपगच्छति।
भ्रूणहत्यामवाप्नोति गर्भं प्राप्य विनाश्य सः ।५६२।
तीर्थ० प्र०
तीर्थे पुण्यतमे यथावद्देहसंन्यासात्
ब्राह्मणो महापातकान्मुच्यते॥१५॥
अन्नश्राद्धं परान्नं च गन्धमाल्यादिमैथुनम् ।४५।
वर्जयेद्गुरुपाते तु यावत्पूर्णो न वत्सरः ।
न चात्र श्येनगृध्रादीन् पक्षिणः प्रतिषेधयेत् ।
तद्रूपाः पितरस्तत्र समायान्तीति वैदिकम् ।७६।
यत्र स्थाने तु यत्तीर्थं नदी पुण्यतमापि च ।
तां ध्यायेन्मनसा वापि अन्यत्रेच्छापि (?) चिन्तनम् ॥९७॥
अरण्यं देवतास्थानं तीर्थान्यायतनानि च ।
तस्मात्तेषु वसन् लोकाद्याति लोकं दिवौकसाम् ।इति।
हेमाद्रौ परिभाषाखण्डे(पु० खं० १)
ऊर्ध्वरेतास्तपस्युग्रोनियताशी न संशयम्॥
शापानुग्रहयोः शक्तः सत्यसन्धो भवेदृषिः॥
निवृत्तः सर्वतत्त्वज्ञः कामक्रोधविवर्जितः॥
ध्यानस्थो निष्क्रियो दाता त्रिशुक्तश्च स्मृतो मुनिः।
एवमन्वयविद्याभ्यां वृत्तेन च समुच्छ्रिताः॥
त्रिशुक्ता नाम विप्रेन्द्राः पूज्यन्ते सवनादिषु॥
धर्माधर्मविभागज्ञो निविष्टो वेदशासने॥३५५॥
क्रियालज्जाक्षमाधीमानार्यो म्लेच्छो विपर्यये ।
कूपमात्रोदकग्रामे विप्रः संवत्सरं वसन्॥३५६॥
शौचाचारपरिभ्रंशाद् ब्राह्मण्याद्धि प्रमुच्यते ।
ज्येष्ठस्य भार्यां संप्राप्तां सकामां दिधिषूपतिः ।
द्विजोऽग्रेदिधिषूश्चैव यस्य सैव कुटुम्बिनी ।
गूढलिङ्ग्यवकीर्णी स्याद्यश्च भग्नव्रतस्तथा ॥ ३५८॥
अनुपासितसन्ध्या ये नित्यमस्नानभोजनाः॥३५९॥
नष्टशौचाः पतन्त्यते शूद्रतुल्याश्च धर्मतः ।
द्वितीयस्य पितुर्योऽन्नं भुक्त्वा परिणतो द्विजः॥३३
अवरोढ इति ज्ञेयः शूद्रधर्म्मास जातितः॥
वैश्यापतिः कृष्णपृष्ठः काडपृष्ठो भटो भवेत्। ३६३
देवार्चनपरो विप्रो वित्तार्थी वत्सरत्रयम्॥३६५॥
असौ देवलको नाम हव्यकव्येषु गर्हितः ।
गोरसानां च विक्रेता गोविक्रेता च वै द्विजः॥
गुडलवणतैलानां विक्रेता दुष्टविक्रयी ।
निकृष्टोत्कृष्टमध्ये तु यो वर्णेषु अनवग्रहः॥
आचरत्यपराचारं वर्णसंभेदकस्तु सः ।
एकाकी व्यसनाक्रान्तो धन्य इत्युच्यते बुधैः ।
विप्रं वार्धुषिकं विद्यात्तृणवृद्ध्युपजीविनम्॥
आत्मानं धर्मकृत्यं च पुत्रदारांश्च पीडयेत् ।३६७
लोभाद्यः प्रचिनोत्यर्थं स तदर्थ इति स्मृतः॥
भृतकाध्यापको यश्च भृतकाध्यापितश्च यः॥ ३६८।
तावुभौ पतितौ ज्ञेयौ विप्रौ स्वाध्यायविक्रयात्॥
षण्डो वातजः षण्डः षण्डःक्लीबो नपुंसकः॥
कीलकश्चेति षण्डोयं षण्डभेदो विभाषितः॥
तेषां तु तुल्यवाक् शिष्टः स्त्रीधर्मात् षण्डको भवेत्
पुमान्भूत्वा स्वलिङ्गानि पश्चाच्छिन्द्यात्तथव च ।
स्त्री च पुंभावमास्थाय पुरुषाचारवद्गुणा॥
वातजो नाम षण्डः स्यात्स्त्रीषण्डो वापि नामतः ।
अस्त्रीलिङ्गोऽपि षण्डस्तु यस्तु स्यात् म्लानमेहनः॥
स कीलक इति ज्ञयो यः क्लैब्यादात्मनस्त्रियम्ः ।
अन्येन सह संयोज्य पश्चात्तामेव सेवते॥ इति ।
यत्तु संसर्गिप्रायश्चित्तप्रकरणे याज्ञवल्क्यस्मृतौ-कन्यां समुद्वहेदेषां सोपवासामकिञ्चनाम्—इति पतितावस्थायामुत्पन्नकन्यायाविवाह्यत्वमुक्तम्, तदिदमप्यस्माकमेमानुकूलम्; यतः कन्याव्यतिरिक्तपतितापत्यस्य पतितस्य वाऽनेनासङ्ङ्ग्राह्यत्वं सूच्यते । अन्यथा सर्वेषां सङ्ग्राह्यत्वे कन्यामात्रस्योढव्यत्वमत्र वर्णितं व्यर्थं स्यात् ।विवेचितं चैवं मदनरत्नप्रदीपे पूर्वोद्धृत इति तत एव द्रष्टव्यम् । सर्वथा तु न पतितानां कन्याव्यतिरिक्तपतितापत्यानां वा संवत्सराधिककालं वत्सरचतुष्ट्यपर्यन्तं परधर्मेऽवतिष्ठमानानां तत्संसर्गिणांच स्वपूर्वतनजातिप्रवेशः सम्भवतीति तेषां पृथग्जातित्वमेवयुक्तम् । यत्तु—इदानीन्तनानां म्लेच्छानामपि पूर्वं क्षत्रित्वमेवासीदित्यादि वर्णितम्, तत्रेदमेवास्माकं वक्तव्यम्—यद्भवतामपिसिद्धान्ते विंशतिसंवत्सरमतिक्रम्य परधर्मं स्वीकुर्वतां प्रायश्चित्तेनशुद्धेरप्रसरात् पितृपितामहप्रपितामहपरम्परया स्वधर्मभ्रष्टानांस्वीकृतपरधर्माणां चैषां न कथमपि स्वपूर्वजातिप्रवेशः सम्भवदुक्तिकः ।
[परम्परात्रयातिक्रम-एव वात्य संस्कारः]
व्रात्यसंस्कारस्तु परम्परात्रयातिक्रमएव संभवति, न तु बहुपरम्परात्यये । यस्य पिता पितामह-इत्यनुपनीतौ स्यातामित्यापस्तम्बस्मरणात् । पितृपितामहपदयोरुपलक्षणत्वन्त्वापस्तन्बेनैव स्पष्टं वारितम्—यस्य प्रपितामहादि नानु-
स्मर्यत उपनयनमित्यादिनेतिव्यर्थमत्रोपलक्षणत्ववादखण्डनंप्रकारन्तरेणूपश्यामः । यत्तूपनयनं पुरुषार्थत्वादापत्काले वृत्त्यादिवद्विपरिणाममर्हतीति विवेचितम्, तत्रेदमेवास्माकं वक्तव्यम्— यत्र दृष्टार्थस्य कर्मणो नियमः पुरुषार्थाय विधीयते, तत्र नियमापूर्वस्यानुषङ्गिकत्वान्नियम्यमानं कर्म दृष्टफलं विपरिवर्तमर्हति,पुरुषार्थान्तरासिद्धिमात्रेण हान्यभावात् । अत एव ब्रीहीनवहन्तीत्यादाववघातस्य नियमापूर्वार्थत्वं क्रत्वपूर्वार्थत्वं चोभयमूरीक्रियते । एतेन-प्राङ्मुखोऽन्नानि भुञ्जीतेत्यादि विहितं कर्मापि-व्याख्यातम् । तत्राप्यापदि दिगन्तरस्वीकारो न दोषायेत्यूरीकारसम्भवात् । नहि पुरुषार्थमात्रं विपरिणाममर्हति । अन्यथा दर्शपूर्णमासादेरपि विपरिणामापत्तेर्महाननाश्वासः समापद्येत । अध्ययनस्य तु न केवलार्थज्ञानं फलम्, किन्तु क्रत्वपूर्वोपयोग्यर्थज्ञानमिति न तत्र भाषान्तरासादितमर्थज्ञानं सार्थकं भवति । उपनयनन्तु न क्रत्वर्थ न वा पुरुषार्थम् आधानाध्ययनवत् ।लक्षणद्वयस्यापि तत्राभावात् ।यथा हि “आहवनीये जुहोती"ति विध्यपेक्षितेच्छाविषयाग्निभाब्य-कभावनाकरणत्वमाधानस्य, यथा च क्रतुविध्यपेक्षितेच्छाविषयार्थज्ञानभाब्यकभावनाकरणत्वमध्ययनस्य, एवं “ब्राह्मणो यजेत” इत्यादिविध्यपेक्षितेच्छाविषयब्राह्मणभाव्यकभावनाकरणत्वेनोपनयनस्यापि न पुरुषार्थत्वम् ।
तत्तच्छास्त्रानपेक्षेच्छाविषयभाव्यकभावनांशत्वेत्यादिना हि शास्त्रान्तरविहितस्य भाव्यत्वेन ग्रहणपूर्वकं यत्र कस्यचन कर्मणः ऋत्वपूर्वानुपस्थितिदशायां विधानं पुरुषार्थत्वप्रयोजकमित्येव तात्पर्यम्, तत्र प्रोक्षणादीनां पुरुषार्थत्ववारणार्थं विशेष्यदलमित्याद्येवसाम्प्रदायिकं विवरणमित्यतिप्रसक्तमधुनातनानां विवरणमसङ्ग-
तमेव ।व्यक्तं च सोमनाथीये चतुर्थद्वितीयाधिकरणेऽध्ययनाधानयोर्न क्रत्वर्थत्वं न वा पुरुषार्थत्वमिति विवेचितमित्युपनयनपुरुषार्थतावादोऽयमत्यन्तमसंगत एव । अस्तु वा तस्य कथमपि पुरुषार्थत्वम् एवमप्यदृष्टार्थमेवोपनयनप्रोक्षणादीति दृष्टार्थनियमस्थलइवात्र न विपरिणामप्रसङ्गः । एतेन—तस्मादापत्काले पुरुषार्थानांसर्वेषां धर्माणां विपरिवर्तने शास्त्रानुज्ञातेऽत्रापि पितृपितामहादीनामुपलक्षणत्वं स्वीकृत्य स्वधर्मभ्रष्टानां पतितानां व्रात्यानाञ्च पुनःप्रायश्चित्तेन स्वीकरणं न दोषावहमित्यादिशङ्कापि—परास्ता । वस्तुतस्तु पुरुषार्थानामापत्काले विपरिवर्तनमित्यस्य यस्य पिता पितामह इत्यत्र पितृपितामहपदयोरुपलक्षणत्वमित्यस्य च नकोऽपि सम्बन्धः । पुरुषार्थानां ह्यापत्काले परिवर्तनं नाम तत्सजातीयकार्यान्तरकरणमेव । तथाचोपनयनेनान्येन च ब्राह्मण्ये आपद्यु पनयनासम्भवे कार्यान्तरं कर्तुं योग्यं नवेति संशयावसर एवोक्तन्यायस्य सञ्चारो युक्तः । न चात्र कर्मविचारः, किन्तु संस्कार्यविचार एवेति न कोऽपि दोषः । सर्वथा तु व्रात्यसंस्कारपद्धत्या वापतितप्रायश्चित्तपद्धत्यावा कथमपि प्रायश्चित्तानणां पतितानांकृतप्रायश्चित्तानामपि वा संवत्सराधिकम्लेच्छसंसर्गिणाञ्च न पूर्वतनजातिप्रवेश इति सिद्धम् ।
[ मतान्तर प्रविष्टानां-स्वमतप्रवेशे मुंज्जे-महोदयसम्पादिता-व्यवस्था]
एतेन—नागपूरनिवासिभिर्डाक्टरमुञ्जेमहोदयैःश्री १००८ परमहंसादिश्रीकुर्तकोटिशराचार्यपादानामाज्ञानुसारेण प्रकाशिता पतितपरावर्तनविषयव्यवस्थापत्रिकापि—व्याख्याता । तद्यथा—
“अनया सहानुषक्ताया अभ्यर्थनायाः प्रकाशनसमयादारभ्यलोके विवादः समजनि ।माञ्च वास्तविकीं स्थितिं जिज्ञासमाना
बहवो बहुशोऽन्वयुञ्जत । यत्सत्यमेव किमेषां हिन्दुवराकाणांबलाद्यवनीकृतानां पुनः स्वधर्मे संग्रहणम् धर्मशास्त्रसम्मतं यद्यपिव्यवहारतः सर्वथा हितावहम् ।
अत्रोपलब्धिसुशकानां स्मृतिग्रन्थाानां वाचनाद्यावन्मया ज्ञातुंशक्यते तावदस्मिन्विषये धर्मशास्त्रस्यप्रातिकूल्यं प्रतिपादयितुं कोऽप्युत्सहिष्यत इति सम्भवनीयं न मया मन्यते । इममेव विषयमुद्दिश्य देवलाभिधानः कश्चन मुनिसत्तमो देवलस्मृतिनामानंस्मृतिग्रन्थं रचयाञ्चकार । साऽसौ स्मृतिः पूनानगरीतः प्रसिद्धिंनीते आनन्दाश्रममुद्रिते च स्मृतिसमुच्चयनामति ग्रन्थे समाविष्टोपलभ्यते । तत्रास्याः श्लोकसंख्या नवतिर्दृश्यते । अत्र केवलंबलादेव म्लेच्छधर्मं स्वीकारितानां हिन्दूनां शुद्ध्यर्थं स्वस्वजातो चभोजनविवाहादिव्यवहारस्य पुनः प्रवर्तनार्थं विविधाः प्रायश्चित्तविधयो निर्दिष्टा दृश्यन्ते । कतिपये श्लोका आदर्शभूता अत्रोद्ध्रियन्ते । तद्यथा—
सिन्धुतीरे सुखासीनं देवलं मुनिसत्तमम् ।
समेत्य मुनयः सर्वे इदं वचनमब्रुवन्॥१॥
भगवन्म्लेच्छनीता हि कथं शुद्धिमवाप्नुयुः ।
ब्रह्मणाः क्षत्रिया वैश्याः शूद्राश्चैवानुपूर्वशः॥२॥
देवल उवाच—
प्रायश्चित्तं प्रवक्ष्यामि विस्तरेण महर्षयः ।
अपेयं येन सम्पीतमभक्ष्यं चापि भक्षितम् ।
म्लेच्छैर्नीतेन विप्रेण अगम्यागमनं कृतम्॥७॥
तस्य शुद्धिंप्रवक्ष्यामि यावदेकन्तु वत्सरम् ।
चान्द्रायणन्तु विप्रस्य सपराकं प्रकीर्तितम्॥८॥
पराकमेकं क्षत्रस्य पादकृच्छ्रेण संयुतम् ।
पराकार्धन्तुवैश्यस्य शुद्रस्य दिनपञ्चकम्॥९॥
म्लेच्छैर्नीतेन शूद्रैर्वा हारिते दण्डमेखले ।
संस्कारप्रमुखं तस्य सर्वं कार्यं यथाविधि॥१२॥
तदासौ स्वकुटुम्बानां पङ्क्तिंप्राप्नोति नान्यथा ।
स्वभार्यां च यथान्यायं गच्छन्नेवं विशुद्ध्यति॥१४॥
अथ संवत्सरादूर्ध्वंम्लेच्छैनीतो यदा भवेत् ।
प्रायश्चित्ते तु संचीर्णो गङ्गास्नानेन शुद्ध्यति॥१५॥
बलाद्दासीकृता ये च म्लेच्छचाण्डालदस्युभिः ।
अशुभं कारिताः कर्म गवादिप्राणिहिंसनम्॥१७॥
उच्छिष्टमार्जनं चैव तथा तस्यैव भोजनम् ।
खरोष्ट्रविड्वराहाणामामिषस्य च भक्षणम्॥१८॥
तत्स्त्रीणां च तथा संगं ताभिश्च सह भोजनम् ।
मासोषिते द्विजातौ तु प्राजापत्यं विशोधनम्॥१९॥
अतः परं प्रवक्ष्यामि प्रायश्चित्तमिदं शुभम् ।
स्त्रीणां म्लेच्छौश्च नीतानां बलात्संवेशने क्वचित्॥
म्लेच्छान्नं म्लेच्छसंस्पर्शो म्लेच्छेन सह संस्थितिः ।
वत्सरं वत्सरादूर्ध्वं त्रिरात्रेण विशुध्द्यति॥४४॥
गृहाता स्त्री बलादेव म्लेच्छैर्गुर्वीकृता यदि ।
गुर्वी न शुद्धिमाप्नोति त्रिरात्रैणेतरा शुचिः॥४७॥
योषा गर्भं विधत्ते या म्लेच्छात्कामादकामतः ।
ब्राह्मणी क्षत्रियावैश्या शूद्रा वर्णेतरा च या॥४८॥
अभक्ष्यभक्षणं कुर्यात्तस्या शुद्धिः कथम्भवेत् ।
कृच्छ्रं सान्तपनं शुद्धिर्घृतैर्योनेश्च पाचनम्॥४९॥
असवर्णेन यो गर्भः स्त्रीणां योनौ निषिच्यते ।
**अशुद्धा सा भवेन्नारी यावच्छल्यं न मुञ्चति॥५०॥
विनिःसृते ततः शल्ये रजसो वापि दर्शने ।
तदा सा शुद्ध्यते नारी विमलं काञ्चनं यथा॥५१॥
स गर्भो दीयतेऽन्यस्मै स्वयङ्ग्राह्यो न कर्हिचित् ।
स्वजातौ वर्जयेद्यस्मात्संकरः स्यादतोऽन्यथा॥५२॥
गृहीतो यो बलान्म्लेच्छैःपञ्च षट् सप्त वा समाः ।
दशादि विंशतिं यावत्तस्य शुद्धिर्विधीयते॥५३॥
प्रायश्चित्तं समाख्यातं यथोक्तं देवलेन तु ।
इतरेषामृषीणाञ्च नान्यथा वाक्यमर्हथ॥७२॥**इति ।
एवं प्रसभं यवनीकृतानां पश्चात्प्रायश्चित्तेन पूतानां हिन्दूनांभोजनादौ व्यवहार्यत्वमस्माकं धर्मशास्त्रं न कियदपि विहन्तीतिविशदमेव ।
अत्रेदमपि मनसि निधेयं यदेकादिविंशतिमपि यावत्संवत्सराणि तस्यामेवावस्थायामासीनस्य पुरुषस्य प्रायश्चित्तेन शुद्धौवर्तते न कोऽपि प्रत्यवायः । परन्त्वत्र विंशतिपदेन विंशत्या परिमितान्येव संवत्सराणिग्राह्याणि, किं वा यथा ‘शतपत्र’ सहस्राश्मि, इत्यादिपदेषु शतशब्दः सहस्रशब्दश्च वस्तुतस्तत्तत्संख्यावाचकस्तथापि तत्तत्संख्यातिरिच्यमानानेकसंख्यार्थे प्रयुज्यते, तथाऽत्रापि विंशतिशब्दस्य तत्संख्यातिरिच्यमानानेकसंख्यार्थे ग्रहणं किं विद्वत्सम्मतं भवेन्नवेत्यपि परधर्मीयलोकान् स्वधर्मे सङ्ग्राहिभिरार्येतरधर्मैः सह सञ्जतायां स्पर्धायामभिभवप्रसङ्गप्रतिहरणे सुप्रबुद्धमनसा विचारणीयम ।
अत्र केवलं बलात्कारस्यैवोल्लेखः, परन्त्वज्ञानलोभमोहच्छलादितोऽपि परधर्मं स्त्रीकृतानामार्याणां शद्धिमनुमन्येतास्माकं धर्म-
शस्त्रम् यदि बलादित्यस्य पदस्य व्यापकार्थग्रहणं शास्त्रीयं भवेत् । ननु भवति च शास्त्रीयं यत एकत्रान्यास्मिन् प्रसङ्गे बलादितिपदं व्यापकत्वेन गृहीतं दृश्यते । पारस्करगृह्यसूत्रस्य प्रथमकाण्डान्तर्गताया अष्टमकण्डिकायाः अथ विवाहपदार्थक्रमः’ इति विषयविवेचने दृश्यते—एवं बौधायन आह—
बलादपहृता कन्या मन्त्रैर्यदि न संस्कृता ।
अन्यस्मै विधिवद्देया यथा कन्या तथैव सा ॥
बलादिति छलादेरुपलक्षणम —इति ।
आर्यसंस्कृतेर्गौरवेमहदभिमानास्पदमिदं यत्प्राचीनधर्मशास्त्रकाराणामृषीणां मुनीनाञ्च सदृशो भाष्यकारा अपि सजीवविवेकबुद्धिनिर्झराः सामाजिकवादान् व्यापिकां सङ्ग्राहिकाञ्चं बुद्धिमवलम्ब्य, अर्थाद्राष्ट्रियदृष्ट्यैव समीक्षाञ्चक्रुः । आधुनिकानान्तु शास्त्रिणांविचारपद्धतिः सुतरामनुदारेति सर्वथा शोच्यम् ।
अस्या देवलस्मृतेः सार्वजनीनं प्रामाण्यं नाशङ्कनीयम् । यतो याज्ञवल्क्यादिस्मृतेः प्रायश्चित्ताध्यायस्य पञ्चमप्रकरणान्तर्गतस्य२८९श्लोकस्य मिताक्षरायां ‘अथापरिग्रहाभोज्यभोजने प्रायश्चित्तम्’ इति विषयस्य विवेचने आपस्तम्बीया इत्याख्याता कतिपयेश्लोका उद्धृता दृश्यन्ते ये देवलस्मृतेः १७।१८। १९श्लोकेभ्यःसर्वथाऽभिन्ना भवन्ति । अपरञ्च त्रयोऽन्येऽपि श्लोकास्तत्र तेनैव क्रमेण वर्तन्ते । त इमे—
चान्द्रायणं त्वाहिताग्नेः पराकस्त्वथवा भवेत् ।
चान्द्रायणं पराकञ्च चरेत्संवत्सरोषितः॥.
संवत्सरोषितः शूद्रो मासार्धंयावकं पिबेत्
मासमात्रोषितः शुद्धःकच्छपादेन शुद्ध्यति॥
ऊर्ध्वंसंवत्सरात्कल्प्यं प्रायश्चित्तं द्विजोत्तमैः ।
संवत्सरैस्त्रिभिश्चैव तद्भावं स निगच्छति॥
तथाच यमस्मृतेः पञ्चमाध्यायस्य पञ्चमषष्ठश्लोकौ चेमौ—
बलाद्दसीकृता ये च म्लेच्छचाण्डालदस्युभिः ।
अशुभं कारिताः कर्म गवादिप्राणिहिंसनम्॥
प्रायश्चित्तञ्च दातव्यं तारतम्येन वा द्विजैः॥ इति ।
अत्रापि प्रथमश्लोको देवलस्मृतेः १७ श्लोकात्सर्वथाऽभिन्नः । तस्मादसौ देवलस्मृतिरुभाभ्यामापस्तम्बयमस्मृतिभ्यामस्मिन्विषये प्रमाणत्वेन गृह्यते ।
सत्यप्येवमेतान् शास्त्रीयवादान् तज्ज्ञाः शास्त्रिपण्डिता एव सप्रमाणं विश्वसनीयतया च निर्णयन्त्विति सविनयं विज्ञप्तिः । नागपूरनगरम् सी.पीडाक्टर-बा. शि. मुञ्जेता० ७-४-१९२२ एल. एम्. एस् नेत्रवैद्य नागपूरनगर सी.पी. इति ।
[ उक्तव्यवस्था-पर्यालोचनम् ]
अत्राचिरेणैव मोपलापदाभिधेयमोहस्मदैःस्वमतं प्रापितानां तत्राकृतयोनिसम्बन्धानां संवत्सरमध्ये सहाशनादिमात्रमाचरित्वा परावृत्तिमभिलषतां पश्चात्तप्तानाच्चप्रायश्चित्तैः शुद्धिरस्माभिरप्यनुमन्यत एव । विंशतिसंवत्सरमध्येततोऽनन्तरं वा स्वमतप्रवेशमभिलषतान्तु पूर्वोक्तरीत्या स्वमतप्रवेशः कथमपि न सम्भवति । यथाच देवलस्मृतिः मुद्रापिता सन्दिग्धमेव प्रमाणं तथा पूर्वमेव विवेचितम् ।आपस्तम्बस्मृतौ तु विंशतिसंवत्सरं म्लेच्छादिसंसर्गस्य चर्चापि न वर्तते इति आपस्तम्बाद्युल्लेखः पामरप्रताराणार्थ एव न तु वस्तुस्थितिप्रदर्शनार्थः । यत्तुविंशतिपदस्यासंख्येयसंवत्सरपरत्वम्, तत् सर्वथा बाधितमेवः प्रमा-
णाभावात् । यत्तु तत्राधुनिकानान्तु शास्त्रिणांविचारपद्धतिः सुतरामनुदारेति सर्वथा शोच्यमिति वर्णितम् तत्र वयं सदुःखमिदं निवेदयामो यच्छास्त्रविचारावसरे शास्त्रिणामनौदार्यं नाम शास्त्रमात्रपारतन्त्र्यमेवेति तदिदं शास्त्रिणां भूषणमेव न तु दूषणमितिउदारवादिनाम शास्त्रिणांशास्त्रीयार्थविनिर्णयो धर्मैकपक्षपातिनामनादरणीय इति न कोऽपि दोष इति ।
इममेव सिद्धान्तं उडुपिसंस्कृत कलाशालाप्रधानाध्यापकाअपि मन्यन्ते । तद्यथा—
[उक्तार्थे उडुपिकलाशलाध्यक्षाणामाशयः]
यद्यप्यत्र केचित्पतिताः प्रायश्चित्तं नार्हन्त्येव । यथा म्लेच्छस्त्रिय उद्वाह्य स्वस्वपूर्वतनजातिधर्मान् परित्यज्य तद्भोज्यान्येव भुञ्जानास्तदीयानेव धर्मानाचरन्तस्तदीयाहारविकारबीजादेव पुत्रादीनुत्पादयन्तस्तेषां तत्कल्पोक्तप्रायश्चित्तसहस्रेणापि न शुद्धिर्विहिता धर्मशास्त्रेषु । अतस्तानुपादाय हिन्दुजनसंख्याहासो न निवर्त्तत एव । ये तु पुनरपेयपानाभोज्यभोजनागम्यागमनापांक्तेयपङ्क्तिभोजनादिना पातित्यमुपगम्य स्वजातिभिस्त्यक्ता अपि अन्यजातिसंसर्गमकृत्वातद्धर्मानापद्यप्यननुतिष्ठन्तः स्वस्वपूर्वतनजातिविहितधर्मानेव प्रायःसमनुवर्तमानाः प्रायश्चित्तेन स्वात्मोद्दिधार्षव पतितास्ते प्रायश्चित्तेन विशुद्धिं सम्प्राप्ताः स्वस्वपूर्वतनजातिषु विवाहादिगुरुतरसंसर्गमेवार्हन्ति । तादृशान्वा हिन्दुजनेष्वेव परिसंख्यायउक्तसंख्याहासपरिहारो निर्विवादं विधेयः ।इतरपतितपरिग्रहणन्तुऐच्छिकं निर्बन्धाधीनम्, न शास्त्रीयव्यवस्थाधीनम् । कृतप्रायश्चित्तानां पतितानां हिन्दुत्वपरिरक्षणेनैव पृथगेव स्थापने तु नकापि क्षतिः, किन्तु महानुत्सव एव । हिन्दुत्वं चतुर्वर्णेतरसाधा-
रणमिति द्वितीयकल्पे तु पतितेभ्योऽपि हिन्दुत्वं नापगतमेवेतितत्रतदापादानायासो निष्फल इति शास्त्रीयव्यवस्थान्वेषणं नावकाशमासादयतीति प्रतिभाति— इति ।
[मण्ठेनारायणशास्त्रिमहोदयानामाशयः]
यत्तु श्रीनारायणशास्त्रिमराठेमहोदयैः—बलाद्दूषितानामल्पेनैव प्रायश्चित्तेन शुद्धानां स्वस्वजातौ यथास्थानं ग्रहणमिति नैव चित्रम् ।पतितानामपि शुद्धबीजक्षेत्राणां कृतप्रायश्चित्तानां पुनः पूर्वजातौ ग्रहणे न दोषः । इतरेषान्तुयथायथं पृथग्जातौ स्थापनं हिन्दुत्वसम्पादनम् योग्यधर्मानुष्ठाताधिकारश्च सम्पादनीयः, न पुनर्विवाहादिरेव गरीयान् व्यवहारः कर्तव्य इत्याग्रहिलता योग्येति युक्तमुत्पश्याम इति वर्णयन्ति । तत्र यदि तेऽपि संवत्सरमध्य एव अकृतविवाहैकात्रभोजनादिगुरुतरसंसर्गिणामेव स्वजानिप्रवेशं मन्यन्ते, तर्हि तु नास्माकं तत्रविरोधः । अन्येषां तु पृथकसंस्थेव युक्तेति तु वयं पश्यामः ।वायीनगरे यदाऽस्माभिर्गतम्, तदा तैरपि अस्मदीय एव पक्षःस्वीकृत इति तु महदिदमामोदस्थानम् । अत्रापि प्रबन्धे विवाहादिगुरुतरसम्बन्धं न ते योग्यं मन्यन्त इति तु स्पष्टमेव समेषाम् । एतेन पतितोत्पन्ना अपि व्याख्याताः । तत्रापि कन्यामात्रस्य विवक्षणे न विरोधः, न हि पतितस्य शुद्धकन्याविवाहादिना तृतीयादिपर्यायगतस्य न यावत् व्रातसंस्कारयोग्यतंस्वजातिप्रवेश इति सर्वं सुस्थम् । एतेन— शम्भुभट्टशर्मप्रबन्धोऽपि— व्याख्यातः । स यथा—
[शम्भुभट्टसम्मता-व्यवस्था]
इदानीं हिन्दुजनसंख्या क्रमेण ह्रसीयसी भवतीति परमार्थिक एव प्रवादः । यद्यपि न ह्रसीयसी; तथापि देशकालानुरोधेनान्यसमुदायस्येव हिन्दुजनसमुदायस्यसंख्याया उपचयो न जायते । अत्र केरलेषु अतीतैर्दशभिर्वत्सरैर्न-
वशतमानेन ९।१०० हिन्दूनाम्, एकोनविंशतिशतमानेन महम्मदीयानाम् १९। १००।एकोनत्रिंशच्छतमानेन २९। क्रैस्ता नाञ्च संख्याया उपचय इति निर्धारितं किल मानवसंख्यासंख्यानाधिकृतैः । अत्र च ह्रासे द्वे निमित्ते समामनन्ति केचिद्विचक्षणाः ।विहितकर्माननुष्ठाने क्रमेणेतरैः क्रियमाणमुद्वेजनम् पातित्यपरिकल्पनञ्चेत्येकम् । मतान्तरप्रचारकैः स्वस्वसमुदायस्य सम्पोषणाय क्रियमाणं मतपरिवर्तनमपरम् ।उचितमेवेदमुभयमपि ।नापि सर्वमेवोचितमिति मम संरम्भः, परन्तु यन्न्यायेन प्रवर्तते तदेवोचितमिति । ततस्ततोऽपि प्रधानमन्यदेव किमपि श्रद्धेयमस्ति निदानम् ।यन्मतान्तरीयैरिव सम्प्रति हिन्दुमतानुयायिभिः स्वमतप्रचाराय यन्न समुचितः समारम्भः समाद्रियते । तदेवैकमस्मिन् ह्रासे प्रधानम् निदानम् । अथास्य ह्रासस्य परिहारेउपायश्चिन्त्यते । हिन्दुमताभिनिवेशसम्पादनक्षमैः पारमार्थिकत्त्वोपदेशैरितरजनसमावर्जनमेक उपायः ।पतितानामपि समुत्पन्नपश्चात्तापानां समुदायप्रवेशानुमतिरपर उपायः । ध्रुवमाभ्यामुभाभ्यां समुदाय जनसंख्याया उपचयः शक्यः कर्तुम्,परन्त्वत्र मतप्रवेशानुमतिरकृतप्रायश्चित्तानामप्युत कृतप्रायश्चित्तानामेवेति विवेचनीयम् । यद्यकृतप्रायश्चित्तानामपि मतप्रवेशोऽनुमन्यते, तर्ह्यव्यवस्था साङ्कर्यञ्च भवति । समाजोल्लङ्घनेन कृतागसो विहितं दण्डनमकृतम् भवति । कृतागा दण्डनीयइति लौकिकशास्त्रीयश्च नियमः ।यदि तमेनं समयं वयमुल्लङ्घयामस्तर्हि पतिते समयोल्लङ्घनप्रयुक्तं यत्पातित्यं ततोऽवरं वास्माकम् किमप्यागः? सर्वथा लौकिकशास्त्रीयसमयमनुरुद्ध्य प्रायश्चित्तरूपं दण्डनं विधायैव मते प्रवेशोऽनुमन्तव्यः । यद्यन्यथापि
क्रियते तर्हि, लोकनियन्त्रणा दुर्विधाना स्यात् । शेषसंरक्षणाय हिकृतागा राज्ञा दण्ड्यते । तस्मात्पतितानां कृतप्रायश्चित्तानामेव मतप्रवेशानुमतिरुचिता ।नन्वकृतप्रायश्चित्तानामपि दृष्टव्यवहाराय हिन्दुत्वव्यपदेशमात्रं स्वीक्रियताम् को दोषः ? अस्तु दोषजिज्ञासा को गुण इत्येव प्रथतो विचार्यताम् । नहि व्यपदेशमात्रस्वीकारेण चिकीर्षितः संख्याह्रासपरिहाररूपो गुणः सम्पादितोभवति । मानवसंख्या संख्यानाधिकृतानां संख्यानपट्टिकायां परमुपचयः कृतः स्यात्, न तेनातीवोपयोगः । येनोपयोगः स त्वन्यथैव सम्पादनीयः । तस्मान्न व्यवहारमात्रानुमतिः फलाय कल्पते, किन्तु मतप्रवेशानुमतिरेव चिकीर्षितं गुणमादध्यात् । लौकिकशास्त्रीयोभयमार्गानुरोधेन विचारणायां क्रियमाणायां पतितानामपि प्रायश्चित्तं कृत्वा मतप्रवेशानुमतिर्युक्तरूपेति माम्प्रतिभाति ।
का नामात्र मतप्रवेशानुमतिः ।स्वधर्मानुष्ठानयोग्यतास्वीकारमात्रमुत स्वपूर्वतनजातिषु विवाहादिगुरुतरसंसर्गाभ्युपगमः ?उभयमपि मतप्रवेशनुमतिरेव । परन्तु स्वधर्मानुष्ठानयोग्यतास्वीकारमात्रेण किं कृतं भवति ? पश्चात्तापयुक्तस्य कृतप्रायश्चित्तस्यपतितस्य पश्चात्तापापनोदः परमंशतः कृतो भवति । तदेकवैकल्यप्रयुक्तो जनसंख्याह्रासश्च परिहृतो भवति। नैतत्परमस्माकं परमोद्देशः, किन्तु तन्मूलैः शाखोपशाखं प्रवर्द्धमानैः सन्तानैःसंख्याह्रासस्य समुचितः प्रतीकार एव । स च धर्मानुष्ठानयोग्यतास्वीकारमात्रेण न सम्भवति । गुरुतरसंव्यवहाराभावे सन्तानस्याप्यनिर्गलोपचयस्य प्रतिबन्धात् । स्वपूर्वतनजातिषु विवाहादिगुरुतरसंसर्गाभ्युपगम एव चिकीर्षिते हिन्दुजनसंख्याह्रासपरिहारे पर्याप्त उपायो भवति। छात्र केचिदाचक्षीरन्—यदि चिकीर्षितह्रास-
परिहारायैवमभ्युपगच्छेम, तर्हि साङ्कर्यंसमापतिष्यति । कृतप्रायश्चित्तानां पतितानां पृथक्तयाऽवस्थापनम् हिन्दुत्वसंरक्षणेन यदिक्रियते, तर्हि का क्षतिरिति ।
हानिविचारात्पूर्वं पृथक्तयाऽवस्थापनमित्यस्यार्थमेव निर्धारयामः ।तन्निर्धारणाधीनत्वाद्धानिव्यवस्थापनस्य ।पृथक्तयाऽवस्थापनंकिंपतितस्य यावत्सन्तानानुवृत्ति, किं वा यावज्जीवम्, किंवा जीवतएवतस्य किमपि समयं परिकल्प्य तावत्पर्यन्तमसंव्यवहारेऽपिक्रमिकोत्कर्षसम्पत्त्यनुगुणमवस्थापनम् । आद्ये पक्षे चिकीर्षितःपरिहारो गणनावसरे परं कृतो भवति । स च नातीवोपयोगाय ।या पुनरेकोद्देशप्रवृत्तिरुपयोगाय कल्पते, सा पृथक्तयाऽवस्थापनेदौर्बल्यं भजते । तस्मादयं कल्पो नात्यादरणीयः । नाप्ययं शास्त्रकाराणामभिमतः कल्पः ।कुत्रापि यावत्सन्तानानुवृत्तिपातित्यस्याव्यवस्थपनात्, परन्तु कृतेऽपि प्रायश्चित्ते यथापुरं न संव्यवह्रियतइति साम्प्रतिकः समयः । अतश्च यावज्जीवं पृथक्तयैवावस्थापनंकरणीयमिति ब्रुवते धर्मशास्त्रनिष्णाताः । यदि कृतेऽपि प्रायश्चितेपृथक्तयैव स यावज्जीवमवस्थाप्येत, तर्हि तेन प्रायश्चित्तेनविशिष्य किं कृतं भवति? किं हिन्दुरिति व्यवहारसंरक्षण परं प्रायश्चित्तस्य फलम्? नहि नहि; स्वधर्मानुष्ठानयोग्यता तस्यानुमन्यत इति चेत्, तदेतदनुष्ठानं यदि परसंव्यवहारसाध्यम्, तर्हि परसंव्यवहारसङ्कोचादेव तदनुमतमप्यनुष्ठातुमशक्यत्वादननुमतप्रायम् । यदि तु स्वयमेव परसाहाय्यं विना यद्यद्देवपूजनादि कर्तुं शक्यते तदनुष्ठीयतां तेनेत्युच्यते, तर्हि पृच्छाम्यकृतप्रायश्चित्तोऽपिस्वयमेव देवपूजनादिकं कर्तुं किं नार्हतीति ? कर्तुमर्हत्येव । परन्तुपतितेन तत्करणेऽपि न किमपि फलं लभ्येतेत्यभिमन्यते चेत्, अस्तु
तावता तदनुग्रहः कृतः । किमेतावता समुदायस्य ? किं समुदायाद्बहिष्करणे कृतेतदेकवैकल्यप्रयुक्तं न्यूनत्वं तस्य पुनः समुदायेप्रवेशानुमतौ परिहृतं भवतीति ? ओम् । तदेवेति चेत्तर्हिस एवमार्गःप्रगुणीकृत्य संसेव्यतामित्यस्माकमभिसन्धिः । त्याज्योऽपित्यक्तोऽपि वा यदि पश्चात्तप्तोऽभ्युदयमिच्छति, तर्हि स प्रायश्चित्तेन शोधनीयः । न हि शास्त्रादृष्टं तदननुमतं वा प्रायश्चित्तं स्वयं विधेयमिति ममाशयः, परन्तु दृष्टानामनुमतानामेव वा प्रायोगिकतया प्रचारणं करणीयमिति । प्राथमिकशुद्ध्या स्वतन्त्रधर्मकर्मस्वधिकार इत्येव व्यवस्थाप्यताम् ।पश्चात्कञ्चन कालं प्रतीक्ष्य तदीयचर्यानुरोधेन संव्यवहार्यतासम्पादनौपयिकी शुद्धिरपि व्यवस्थाप्यताम् । एवं क्रमेणैव स्वपूर्वतनजातिषु गुरुतरसंसर्गोऽपि अनुशिष्यताम् । एवं कृते त्याज्यस्त्यक्तो वा क्रमिकमभ्युदयं कांक्षन् विहितधर्मानुसरणश्रद्धालुरेव भवेत् ।उत्कर्षस्य निरोधे क्लृप्ततायां वाआरुरुक्षाया अनुदयादुदासीनो भवति । विमुखश्च धर्मात्सम्पद्यते । तस्मात्पश्चात्तप्तस्य प्रायश्चित्तं कृत्वाऽनुमतप्रवेशस्य यावज्जीवमेकैवावस्था न व्यवस्थापनीया, अपि तु क्रमिकमुत्कर्षं गुणकर्मभ्यांसम्पाद्य विवाहादिगुरुतरसंसर्गं स्वपूर्वजातिषु कर्तुमधिकारोऽनुमन्तव्यः । एवं कृते पतितोऽपि स्वकर्मानुरोधेन विहितप्रायश्चित्तसाहाय्येनोत्कृष्यते । समुदायश्चोत्कृष्टेन संयुज्य परिपोषमियात् । तस्मात्तृतीय एव पक्षः श्रेयान् । पतितस्यापि क्रमिकोत्कर्षोऽनुमतएव शास्त्रकारैः । तथाहि प्रतिलोमजान् पतितानाह देवलः—
तेषां सवर्णजाः श्रेष्ठास्तेभ्योऽन्वगनुलोमजाः ।
अन्तराला बहिर्वर्णाः पतिताः प्रतिलोमजाः॥ इति॥
अस्यार्थः सायणेन विवृतः— विजातीयान्मिथनादत्पन्ना अन्त-
रालाः । ते च द्विविधाः ।अनुलोमजाः प्रतिलोमजाश्च । तत्रानुलोमजाः सवर्णजेभ्यो हीनाअपि न वर्णचाह्याः; मातृसमानवर्णत्वात्। प्रतिलोमजास्तु वर्णबाह्यत्वात्पतिताः—इति । याज्ञवल्क्येनापि प्रतिलोमजा असन्त इत्युक्तम् । यथा— असत्सन्तस्तु विज्ञेयाः प्रतिलोमानुलोमजाः । १–९५॥ प्रतिलोमजानामप्येषांक्रमिक उत्कर्षोऽनुमतो याज्ञवल्क्येन नैकस्मिन्नेव जन्मनीत्यन्यदेतत् ।
“जात्युत्कर्षो युगे ज्ञेयः सप्तमे पञ्चमेऽपि वा ” – इति ।
(१-९६ या० स्मृ०) सायणेन तु व्याख्यातम् । कूटस्थ स्त्रीपुंसयुगमारभ्य परिगणनायां पञ्चमे षष्ठे सप्तमे वाऽनुलोमेन युग्मे जातिरुत्कृष्यते । तद्यथा—पुमान् विप्रो वधूः शूद्रा । तयोर्युग्मं कूटस्थम् तस्मादुत्पन्ना निषादो । सापि विप्रेणोढा तयोर्युग्मं द्वितीयम् । एवं तदुत्पन्नायां वध्वां विप्रेणोढायां तृतीयादियुग्मपरम्परा भवति । तत्र सप्तमे युग्मे जातमपत्यं ब्राह्मण्योपेतं भवति—इति । मनुनाप्ययमभिप्रायः प्रदर्शितः—
शूद्रायां ब्राह्मणाज्जातः श्रेयसा चेत्प्रजायते ।
अश्रेयान् श्रेयसीं जातिं गच्छत्यासप्तमाद्युगात्॥
शूद्रो ब्राह्मणतामेति ब्राह्मणश्चेति शूद्रताम् ।
क्षत्रियाज्जातमेवन्तु विद्याद्वैश्यात्तथैव च॥
( १० – ६५ । इति । एवं धर्मशास्त्रकारैरधमजातीनां क्रमेणोत्कर्षस्य च व्यवस्थापनं कृतम् । अन्येषामपि पतितानां प्रायश्चित्तैः शोधनं शास्त्रविहितं प्रदर्शयितुं प्रथमतः पतिताः प्रदर्श्यन्ते । गौतमेनैते परिगणिताः ।
‘ब्रह्मह सुरापगुरुतल्पगमातापितृसम्बन्धागस्तेन नास्तिकनिन्दि-
तकमाभ्यासिपतितात्याग्यपतितत्यागिनः पतिताः, (१-८१) गौ० सू० । इति । पातित्यञ्च तेनैवैवं परिभाषितम् ।
‘द्विजातिकर्मभ्यो हानिः पतनम् । (४–९१ गौ० सू० ) इति । एतेषां पातित्यावहानां पातकानां मध्ये प्राथमिकानि त्रीणि गुरुणीति तेष्वपि प्रथममेव गरीय इति च सर्वानुमतमेव । तस्या ब्रह्महत्याया अपि बहूनि प्रायश्चित्तानि विहितानि दृश्यन्ते, किमुतेतरेषाम् । “खड्गैककपालपाणिर्वा द्वादशसंवत्सरान् ब्रह्मचारी भैक्ष्याय ग्रामं प्रविशेत्कर्माचक्षाणः” ३—१८ गौ० सू० इति । मनुनाप्युक्तम्—
ब्रह्महा द्वादशसमाः कुटीं कृत्वा वने वसेत् ।
भैक्ष्याश्यात्मविशुद्ध्यर्थं कृत्वा शवशिरोध्वजम् ॥११-६२॥
एवमन्येऽपि केचन प्रकाराः प्रदृश्यन्ते ।
“प्रायश्चित्तमग्नौ सक्तिर्ब्रह्मघ्न स्त्रिरवाक् तस्य” गो० सू० १८-१ । ‘लक्ष्यं वा स्याज्जन्ये शस्त्रभृताम् " ८—१८ गौ० सं० ।मनुनाप्युक्तम्—
लक्ष यं शस्त्रभृतां वा स्वाद्विदुषामिच्छयात्मनः ।
प्रास्येदात्मानमग्नौ वा समिद्धे त्रिरवाक्शिराः ॥११–६३॥
अनेन प्रकारेणानेकप्रायश्चित्तविधाने फलन्तु “एनसि गुरुणि गुरूणि लघुनि” इति गौतमोक्तेरनुमीयते तारतम्यव्यवस्थैवेति । अन्ते चैवमाह मनुः—
अतोऽन्यतममास्थाय विधिं विप्रः समाहितः ।
ब्रह्महत्याकृतं पापं व्यपोहत्यात्मवत्तया ११-७६ ॥ इति ।
अनेन प्रकारेण बहूनां पातकानां प्रतिपदप्रायश्चित्तमेव तैरुक्तम् । प्रतिपदानुक्ते निर्णयाय परिषदोऽधिकारो दत्तः । एवमपराधस्य गौरवलाघवविचारेणानेकेषु प्रायश्चित्तेष्वन्यतमं
निर्धारयितुं परिषदेवाधिकरोतीति कण्ठत एवोक्तम् ।
नन्वेतैः प्रायश्चित्तैः पतनं द्विजातिकर्मभ्यो हानिरिति निरुक्तलक्षणं अपैतु संव्यवहार्यता तु नैव सिध्येत् इति चेत्, उच्यते—“प्रायश्चित्तैरपैत्येनो यदज्ञानकृतं भवेत् । कामतो व्यवहार्यस्तु वचनादिह जायते ॥२२६॥ प्रा०का०या०स्मृ०।— इति। अत्र विज्ञानेश्वरीयम्—प्रायश्चित्तैर्वक्ष्यमाणैरज्ञानाद्यदेनः पापं कृतं तदपैति गच्छति न कामकृतम्, किन्तु तत्र प्रायश्चित्तविधायकवचनबलादिह लोके व्यवहार्यो जायते—इति । ननु कामकृते प्रायश्चित्तमेव नास्ति । तदुक्तं वसिष्ठेन— अनभिसन्धिकृते पापेऽपराधे प्रायश्चित्तम्—इति । अङ्गिरसाप्युक्तम् । अकामतः कृते पापे प्रायश्चिचं न कामत इति ॥ मनुरप्याह—कामतो ब्राह्मणवघे निष्कृतिर्न विधीयते॥ ११-७९॥ इति । तस्मात्कामकृते प्रायश्चित्ताभावात्कथं व्यवहार्यत्वं सम्पादयितुं शक्यत इति चेत् उच्यते—‘विहितं यदकामानां कामात्तत् द्विगुणं भवेत् इति कामकृतेऽपि प्रायश्चित्तदर्शनाद्भवति संव्यवहार्यत्वम्। प्रदर्शितस्याङ्गिरस्स्मृतिवाक्यस्य “स्यात्त्वकामकृते यत्तु द्विगुणं बुद्धिपूर्वके” इतीदमुत्तरार्धम् । अतो विज्ञायतेऽकामकृतस्यैव प्रायश्चित्तमिह प्रदर्शितम् । कामकृतस्य तु प्रायश्चित्तमिदमेवद्विगुणमिति । तर्हि निष्कृतिर्न विधीयते, इति मनुवचनस्य का गतिरिति चेदवलोक्यतां तद्व्याख्यानम् । “कामतस्तु ब्राह्मणवधे नेयं निष्कृतिर्नैतत्प्रायश्चित्तम्, किन्त्वितो द्विगुणात्मकमिति प्रायश्चित्तगौरवार्थम् । कामतस्तु कृतं मोहात्प्रायश्चित्तैः पृथग्विधैरिति पूर्वोक्तविरोधात्” इति ॥
अत एव मनुः—
अकामतः कृते पापे प्रायश्चित्तं विदर्बधाः ।
कामकारकृतेऽप्याहुरेके श्रुतिनिदशनात् ॥ ११-४५॥
इत्यनेन कामकृतेऽपि प्रायश्चित्तं प्रापयति । न चायं कल्पो मनोरनभिमतः एक इत्युक्तेरिति वाच्यम्; तदुपादानादेव वृद्धसम्मति प्रदर्शनादयं कल्पो युक्त इति मनोरभिप्राय इति किन्न स्यात् ? शास्त्रेषु हि हेयं स्ववचननेनैव निषिध्यते, नत्वेक इत्यादिनिबन्धनेन । संसूच्यतां वा क्वचिदनभिमतिरप्येवं निबन्धनेन । अत्र तु न तथा । अस्योत्तरश्लोकेन—
**अकामतः कृतं पापं वेदाभ्यासेन शुध्यति ।
कामतस्तु कृतं मोहात्प्रायश्चित्तैः पृथग्विधैः ॥**४६-११॥
इति स्वाभिप्रायस्यमनुनैव प्रकार्शितत्वात् । किञ्च—
यः कामतो महापापं नरः कुर्यात्कथञ्चन ।
न तस्य निष्कृतिर्दृष्टा भृग्वग्निपतनादृते ॥ इति
मरणान्तिकप्रायश्चित्तस्य दर्शनान्मनुवचनस्य न प्रायश्चित्तमात्रनिषेधे तात्पर्यम्, किन्त्वकामकृतेऽपराधे प्रायश्चित्तं शुद्धिकरमित्यस्मिन्नर्थे; अन्यथा प्रायश्चित्तविधानस्यासंगत्यापत्तेः । तस्मादस्ति कामकृतेऽपि प्रायश्चित्तम् । अत एव—कामतो व्यवहार्यस्तु वचनादिह जायते—इत्युक्तम् । परन्त्विदमवधेयम्—अज्ञानकृते सर्वत्र प्रायश्चित्तैर्दुरितक्षयः। यत्र पुनर्महापातके व्यवहार्यत्वम्—तैश्चाब्दं समाचरन्—३-२७ गौ० सू०—इत्यनेन निषिद्धम्, तस्मिन् पतनीये कर्मणि कामतः कृते व्यवहार्यत्वमात्रम्, न दुरितक्षयइति । यदि दुरितक्षयो नाभ्युपगम्यते, तर्हि कथमस्य व्यवहार्यत्वमिति चेत्—कामतो व्यवहार्यस्तु वचनादिह जायते—इत्युक्तेः। अत्र युक्तिविज्ञानेश्वरेण प्रदर्शिता “न च पापक्षयाभावे व्यवहार्यत्वमनुपपन्नम् । द्वेहि पापस्य शक्ती—नरकोत्पादिका व्य-
वहारनिरोधिका च । तत्रेतरशक्त्यविनाशेऽपि व्यवहारनिरोधिकायाःशक्तेर्विनाशो नानुपपन्नः । तस्मात्पापानपगमेऽपि व्यवहार्यत्वम् नानुपपन्नम्” इति । तस्मात्पतनीयेऽपतनीये वा कर्मणि कामकृतेऽकामकृते वा प्रायश्चित्तैर्जीवतः संव्यवहार्यत्वमनुमतं शास्त्रेण । इयमत्र शास्त्रीया व्यवस्था । अपनीये कर्मणि कामकृतेऽकामकृते वा प्रायश्चित्तेन दुरितक्षयो भवति, संव्यवहार्यता तु पूर्वमेव नापेता; यतस्तस्या अपि सम्भव उच्येत, पतनीये तु पुनरकामकृते प्रायश्चित्तेन संव्यवहार्यता दुरितनिवृत्तिश्च जायेते । कामकृते तु मरणान्तिकप्रायश्चित्तस्यैव विधानान्न संव्यवर्हायता; दुरितनिवृत्तिस्तु भवत्येव; वचनबलात् । फलान्तरम् हि मरणपर्यन्तप्रायश्चित्तस्य न सम्भवति । अतस्तत्र दुरितक्षय एव फलत्वेनाभ्युपगन्तव्यः । तदुक्तमापस्तम्बेन—नास्यास्मिल्ँलोके प्रत्यासत्तिर्विद्यते कल्मषन्तु निर्हण्यते—इति । तस्मादायातं कृतप्रायश्चित्तस्य जीवतः संव्यवहार्यतायां नास्ति शास्त्रीयविसम्मतिरिति । यदि पुनर्भरणान्तिकप्रायश्चित्तमन्यथयितुमारम्भस्तर्हि तदनुरोधेन संव्यवहार्यतायामपि दृष्टिर्निपातनीया । तदेतदभिसन्धायैवास्माभिः पूर्वमेव पृथक्तयाऽवस्थापने व्यवस्था समाश्रयणीयेति प्रत्यपादि । अकृतप्रायश्चित्तस्य सद्भिः संव्यवहारो निषिद्ध एव ।
प्रायश्चित्तीयतां प्राप्य दैवात्पूर्वकृतेन वा ।
न संसर्गंव्रजेत्सदभिः प्रायश्चित्तेऽकृते द्विजः ॥ **११-४७॥**इति ।
नहि सर्वस्मिन् कर्मणि प्रायश्चित्तीये प्रायश्चित्तेन संव्यवहार्य एवेत्यपि नोक्तमिति तुल्यः समाधिः । प्रायश्चित्तविधानेऽपि यद्यपि केषाञ्चिद् व्यवहार्यतायां विवादस्तर्हि परिषदेव तन्निर्णेतुमर्हति । प्रायश्चित्ताधीन एव संव्यवहार्यतासंव्यवहा-
र्यतानियम इति ममाभिप्रायः । प्रायश्चित्तं परिषदुक्तमेवेति ध्रुवमनेन शुद्धो भवति तदनष्ठाता । परिषदुक्तं व्रतं ज्ञेयं शुद्धये पापकर्मणामिति ह्यभिज्ञा आहुः । एतेन च पतितानपि प्रायश्चित्तैःसंशोध्य संव्यवहार्यतां संपाद्य स्वस्वपूर्वतनजातिमतयोः क्रमिकगुरुसंसर्ग व्यवस्थापनपूर्वकप्रवेशमभ्युपेत्य क्रमिकोत्कर्षसम्पिपादयिषासमुत्पत्त्यनुगुणं शास्त्रानुमतमेव प्रस्थानं प्रायोगिकतयाप्रचार्यावश्यमनुगृह्णीयाद्धर्मज्ञसमयः । एवमेतन्मततत्त्वप्रकाशकैरुपन्यासैः प्रचारप्रवृत्तिरपि कालानुरोधेन पूर्वाधिकं प्रयोगिकतां प्रापयेत् । ध्रुवमेतादृशैरुपायैः साम्प्रतिकहिन्दुजनसंख्याह्रासः शक्यः समुन्मूलयितुमित्यदसीयोऽभिसन्धिः—इति॥
[उक्तमतसमालोचनम्]
अत्रापि प्रबन्धे यस्य प्रायश्चित्तं शास्त्रे विहितम्, तस्य प्रायश्चित्तेन शुद्धिः सम्पादनीयेत्येव विवेचितमिति वयं यथाशास्त्रं शुद्धिसम्पादनं सर्वथाऽनुमन्यामह एव । तथाच व्यवहार्यत्वपक्षमूरीकृत्यापि संवत्सरमध्ये कृतप्रायश्चित्तानामेव पतितानां व्यवहार्यत्वं वर्षचतुष्टयमध्ये तु स्वकर्माधिकारमात्रम्, साधारणसहासनादिसंसर्गमात्रे विंशतिवर्षमध्येऽपि देवलस्मृतिप्रामाण्ये कृतप्रायश्चित्तानां शुद्धिरिति व्यवस्थास्वीकारे न कोऽपि विरोधः शम्भुभट्टशर्मणामपि स्यादिति विश्वसिमः ।
[पतितकन्यापौत्रादीनां च न पातित्यं सति प्रायश्चित्ते]
अत्रावसरे इदमपि सूच्यते—यत् पतितकन्यानां पतितस्याकृतप्रायश्चित्तत्वेऽपि सर्वथा पतितसम्बन्धत्यागे शद्धैर्विवाहः प्रायश्चित्तं यदि कन्ययाबोधायनोक्तप्रकारेणानुष्ठीयते, तर्हि शास्त्रसम्मत एवेति पश्यन्तो वयमिदमेव मन्यामहे— यत्पतितकन्यापरम्परायाः सर्वथाऽदुष्टत्वं तत्पुत्रपरम्परायामपि पौत्रमारभ्य सर्वथा शुद्धिः सम्भव-
तीति । बौधायनधर्मसूत्रेऽपि हि पतितत्पुत्रयोरेव पतितत्वमुक्तम्, न तु पौत्रादेरिति कृतप्रायश्चित्तस्य पौत्रस्यतत्परम्परायाश्च सर्वथा पूर्वजातिप्रवेशः सम्भवतीति पञ्चमादिपरम्परापर्यन्तमपि प्रतीक्षणं न कर्तव्यमिति पञ्चमे सप्तमे वापीति वचनोपन्यासोऽत्रानपेक्षित एव । नहि वयमपि पतितसन्तानं सर्वमपि कृतेऽपि प्रायश्चित्ते पृथक्तयैव स्थापनीयमिति वदामः, येन हिन्दुजनसंख्याह्रासः कृतप्रायश्चित्तानामप्यव्यवहार्यत्वेऽपि न परिहरणीयः । न हीदृशीब्यवस्था शास्त्रसम्मता समाद्रियते चेत् समुदायस्यापि हानिर्भविष्यति। अत्र प्रसङ्गे इदमपि सूच्यते—यत् पौत्रेणापि यदि प्रायश्चित्तं न कृतम्, स्वपित्रादिभिः साकमेवावस्थितम्, तर्हितु पौत्रस्य तत्परम्परायाश्च न कथमपि स्वपूर्वजातिप्रवेशः सम्भवति । इदमेवाभिप्रेत्यापस्तम्बेनाप्युक्तम्—यस्य प्रपितामहादि नानुस्मर्यत—इत्यादि ।
उक्तार्थस्य निष्कर्षः
तदयं निष्कर्षः—यथा पितुः पितामहस्य च व्रात्यत्वेऽपि प्रपितामहस्याव्रात्यत्वे पौत्रस्योपनयनादिनाऽव्रात्यत्वमेवं पितुः पितामहस्य च पतितत्वेऽपि प्रपितामहस्यापतितत्वे पौत्रस्य प्रायश्चित्तादिना प्रपितामहजातिप्राप्तिरिति । इयान् विशेषः—व्रात्यसंस्कारो व्रात्यस्य स्वस्य स्वपुत्रस्य स्वपौत्रस्य च सम्भवति, तेन च सर्वेषां कृतसंस्काराणां स्वस्वजातिप्रवेशः सम्भवति, पतितप्रायश्चित्तेन स्वपूर्वतनजातिप्रवेशस्तु पौत्रस्यैवेति । अनयापि हि व्यवस्थया हिन्दूनां संख्याह्रासपरिहारो भवितुमर्हत्येवेति व्यर्थमत्र पतितत्पुत्रयोरपि स्वजातिप्रवेशकल्पनम् ।अन्यथा हि पातित्येऽपि सर्वेषां न भीतिः स्यादित्युक्तव्यवस्थाकल्पनमत्यन्तमपेक्षितमेव । विवाहसम्बन्धस्य स्वपुत्रादेःकतप्राय-
श्चित्तत्वे तज्जातीयकन्ययाऽकृतप्रायश्चित्तत्वे तज्जातीयकन्ययेतिव्यवस्थोरीकर्तव्या । अत्र प्रसङ्गे इदमपि सूच्यते—यत् कियत्परम्परामारभ्य पातित्यमित्यादि निर्णयोऽपि हि परिषदैव हि साक्ष्यादिग्रहणेन सम्पादनीयः, न तु स्वयमेव सर्वैरिति न काऽप्यव्यवस्था भविष्यतीति पश्यामः । यथाच ‘कामतो व्यवहार्यस्तु इत्यत्र व्यवहार्यस्त्विति पक्षेऽपि कृतप्रायश्चित्तानामिदानीमव्यवहार्यत्वमेव “संसर्गः शोधितैरपीति वचनानुसारेण सम्भवति, तथापूर्वमेव विवेचितमिति न कोऽपि विरोध इत्यलमतिविस्तरेणेति दिक् ।
अत्रावसरे लवपुरीयप्राच्यविद्यालयप्रधानाध्यापक महामहोपाध्यायश्रीशिवदत्तपण्डितानां प्रबन्धं यथावदत्र सङ्गृह्य तत्समालोचनार्थं प्रयतामहे । तद्यथा—
[म० म० शिवदत्तपण्डितानां व्यवस्था]
अथेदानीन्तनाः केचन जनाः प्रागतीव बलवद्भिर्भारतवर्षीयधर्माध्वविध्वंसनाय कृतावतारैरिवम्लेच्छापसदैरकारणं बलादेव स्वकीयान्नभोजनेन स्वकन्यादिसम्बन्धविधानेन चैवंविधेनान्येनापि सद्यः पातित्यहेतुना स्वैः साकं शयनाशनपानादिव्यवहारप्रवर्तनेनावशतया स्वधर्मात्प्रच्यावितानांतदात्वे तन्निदेशातिक्रमे सद्य एव सकलस्वान्वयनाशं निश्चित्यकालान्तरसमुचितप्रायश्चित्ताचरणेन गुरुतरदुरितनिष्कृतिसम्भावनया तथाविधायां गरीयस्यामापदि प्राणत्राणमेव परमं धर्मं मन्यमानानां चिरं तेषां बलीयस्तया तेभ्यः स्वात्मानं मोचयितुमवकाशमलब्ध्वा पुत्रपौत्रादिपारम्पर्येण तथैवावस्थितानां तत एव च म्लेच्छीभूतानां विप्रक्षत्रियविट्छूद्राणां कुलेषु प्रसूताः, म्लेच्छा वा स्वांनास्तिकतां विवधरौरवादिनिरयसाधनतया कुतश्चिदपि प्राग्भवीय-
सुकृतलेशपरिपाकोदितेन शिष्टवाक्यादिना दृढमवधार्य भृशमनुशयानाश्चेत् प्रणिपातमात्रपरितुष्टेभ्यो दीनजनानुकम्पया तदुद्धारायैव भगवता विधिना सृष्टेभ्यः स्वप्रार्थनाञ्जलिशताकृष्टेभ्यः शिष्टेभ्यः कथञ्चिदपि साध्वनुष्ठितेन प्रायश्चित्तादिना नरकतरणोपायं स्वोचितनिगमानुमतदेवतासमाराधनाद्युपदेशं च वारं वारंप्रणिपत्य प्रार्थयेरन्, तर्हि ते कथञ्चिदपि नास्तिक्यतो मुक्तिं स्वोचिताचारांश्चोपदेष्टुमर्हा न वा ? अर्हाश्चेत्कीदृशं प्रायश्चित्तंजन्मतः प्रभृत्याश्रितनास्तिक्यदोषभोषकम् केचतदुचिताआचाराइति विमृश्यते ।
[प्रायश्चित्तेन स्ववर्णोचितधर्मानुष्ठानाधिकारः]
तत्र येषां चातुर्वर्णिकानां प्राप्तस्वोचितसंस्काराणां बलात्स्वेच्छया वा म्लेच्छादिहीनजातिभिःसंसर्गो नास्तिक्याद्याश्रयणञ्च तेषां मनुयाज्ञवल्क्याद्युक्तप्रायश्चित्तैस्तत्संसर्गनास्तिक्यजपापविनाशेन पुनः स्वस्ववर्णोचितधर्मप्राप्तिस्तु स्पष्टैव । अयन्तु विशेषः—तेषां संसर्गकालतारतम्यपर्यालोचनयालघुलघीयोगुरुगरीयःप्रायश्चित्तप्राप्तिः ।नास्तिक्यस्य तु वेदादिप्रामाण्याविश्वासरूपस्य ‘नास्तिक्यं व्रतलोपश्च’ इत्युपपातकप्रकरणे पाठेन—
उपपातकशुद्धिः स्यादेवं चान्द्रायणेन वा
पयसा वापि मासेन पराकेणाथवा पुनः॥
इत्युक्तेषु प्रायश्चित्तेष्वन्यतमेन पापानुरूपेणोपदिष्टेन निष्कृतिः । येषां त्वकृतसंस्काराणामेव तैः संसर्गो नास्तिक्याश्रयणञ्च, तेषामापदाऽप्राप्तसंस्काराणाम्—
इत ऊर्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः ।
सावित्रीपतिता व्रात्या भवन्त्यार्यविगर्हिताः॥
इति मनूक्तेरापद्यपि व्रात्यत्वस्याऽपरिहार्यतया—
अत ऊर्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः
सावित्रीपतिता व्रात्या व्रात्यस्तोमादृते क्रतोः॥
इति विप्रक्षत्रियविशां क्रमेण षोडश द्वाविंशति चतुर्विंशतिसंवत्सराभ्यन्तरेऽनुपनीतानां व्रात्यतायाः पर्युदासमुखेन व्रात्यस्तोमरूपप्रायश्चित्तापनोद्यत्वोक्तेः, तेन नास्तिक्यप्रायश्चित्तेन च नष्टपा पानामस्त्येवोपनयनपूर्वकं स्वस्वधर्मप्राप्तिः।
[शूद्रविषयेव्यवस्था]
शूद्राणान्तु सावित्रीप्राप्तेरेवाभावेन तदभावप्रयोज्यत्वस्यैव व्रात्यत्वे प्रागुक्तवचनतो लाभाद् व्रात्यत्वप्रयुक्तप्रायश्चित्ताप्राप्तावप्यव्यवहार्यम्लेच्छादिस्पृष्टान्नभोजनादिमात्रप्रयुक्तप्रायश्चित्तस्य दिनगणनया कल्पितावृत्त्या, नास्तिक्यस्य च चातुर्वर्णिकैःसर्वैरपि परिहार्यतया तदाश्रयणप्रयुक्तपापनाशकप्रायश्चितस्याचरणेन च स्वोचितधर्मप्राप्तिरुचितेव ।
ब्रात्यप्रायश्चित्तव्यवस्था
त्रैवर्णिकानां पञ्चदशवर्षाधिककालं गौणकालादूर्ध्वमापद्यनुपनीतानां कञ्चित्कालमपि वाऽनापद्यनुपनीतानां “पतितसावित्रीक उद्दालकव्रतं चरेत्, द्वौ मासौयावकेन वर्तयेत्, मासं पयसा, मासमामिक्षयाऽष्टगत्रं घृतेन,षड्रत्रमयाचितेन, त्रिरात्रमब्भक्षोऽहोरात्रमुपवसेत् अश्वमेधावभृथं गच्छेत्, व्रात्यस्तोमेन वा यजेत्” इति मिताक्षरोद्धृतवसिष्ठवचनेनोद्दालकव्रतव्रात्यस्तोमयोरन्यतरन्मनूक्तं त्रैमासिकञ्च क्रमेणकृतवतामुपनेयता मिताक्षरादौ स्पष्टैव ।
येषान्तु पिता पितृपितामहौ पितृपितामहप्रपितामहाश्चानुपनीताः, सवर्णास्वेव च व्रात्यजासु पुत्रानुत्पादितवन्तस्ते भृज्जकण्टकादिसंज्ञकाः । तदुक्तं मनुना—
व्रात्यात्तु जायते विप्रात्पापात्मा भृज्जकण्टकः ।
आवन्त्यवाटधानौ च पुष्पशेखर एव च॥
विप्रायां जायते व्रात्यविप्रजो भृज्जकण्टकः॥
इति । अत्रेयं व्यवस्था—आवन्त्याद्यास्तस्यैव संज्ञा इति मेधातिथिः । अन्ये तु भृज्जकण्टकाद्विप्रायामावन्त्यः, तस्मात्तस्यां वाटधानः, तस्माच्च तस्यां पुष्पशेखरः । एवं व्रात्यक्षत्रियात्क्षत्रियायाम्—
झल्लो मल्लश्च राजन्याद्व्रात्याद्विच्छिविरेव च ।
नटश्च करणश्चैव खशो द्रविड एव च॥
इति झल्लादयः ।
वैश्यात्तु जायते व्रात्यात्सुधन्वाचाय एव च
कारूषश्च विजन्मा च मैत्रः सात्वत एव च॥
इति सुधन्वादयो वैश्यजा एव । इदं च शूद्रकमलाकरे स्पष्टम् ।एषाञ्च व्रात्यत्वेऽपि विप्रत्वादिकं न हीयते । विप्रत्वादेर्जातिरूपतयाविप्रजातीयपुरुषाद्विप्रजातीयकन्यायामुत्पन्नापत्यमात्रस्य विप्रत्वात्; तत्र चादुष्टत्वस्याप्रयोजकत्वात् । अतश्च विप्रत्वादेरनपगमात्"अतिक्रान्ते तु सावित्र्याः काल ऋतुं त्रैविद्यकं ब्रह्मचर्यं चरेत्, अथोपनयनम्, ततः संवत्सरमुदकोपस्पर्शनमथाध्याप्यः, यस्य पितापितामह इत्यनुपनीतौ स्यातां ते ब्रह्महसंस्तुताः तेषां गमनं भोजनंविवाहमिति वर्जयेत् । तेषामिच्छतां प्रायश्चित्तं यथा—प्रथमेऽतिक्रम ऋतुरेवं संवत्सरोऽथोपयनम्, तत उदकोपस्पर्शनम् । प्रतिपुरुषं संख्याया संवत्सरान् यावन्तोऽनुपनीताः स्युः, सप्तभिः पावमानीभिर्यदन्ति यच्च दूरक इत्येताभिर्यज्ञपवित्रेण सामपवित्रेणाङ्गिरसेनेत्यपि वा व्याहृतिभिरेवमथाध्याप्योऽथ यस्य प्रपितामहादीनां नानुस्मर्यत उपनयनं ते श्मशानसंस्तुताः तेषामभ्यागमं
भोजनं विवाहमिति वजयेत् तेषामिच्छतांप्रायश्चित्तं द्वादशवर्षाणि त्रैविद्यं ब्रह्मवर्यं चरेदथोपनयनम् । तत उदकोपस्पर्शनं पावमान्यादिभिरथ गृहमेधेनाध्यापनम् । ततोऽभिनिवर्तते, तस्य यथप्रथमेऽतिक्रमे तत ऊर्ध्वं प्रकृतिवत्” इति प्रायश्चित्तमयूखप्रायत्तोद्योतप्रायश्चित्तमुक्तावल्यादिबहुतरप्राचीनमान्यनिबन्धधृतापस्तम्ववचनानुसारिप्रायश्चित्ताचरणेत निर्णिक्तपातकानामुपनयनपूर्वकस्वस्ववर्णोचितधर्मप्राप्तिरस्त्येव ।
शूद्राणान्तु पूर्ववदेव; तेषां व्रात्यत्वप्रयुक्तस्य पापविशेषस्याभावात् । अतः परञ्च वृद्धप्रपितामहमारभ्य येषां जनकानामुपनयनाभावस्तेषां सवर्णास्वेवोत्पादितापत्यानामपि न प्रायश्चित्तस्पगुरुतरस्याप्याचरणेनोपनयनप्रभृतिवैदिकसंस्कारयोग्यता। आपस्तम्बेन चतुर्थपुरुषावध्येव व्रात्यत्वे प्रायश्चित्ताभिधानात् ।
न चापस्तम्बेन “यस्यप्रपितामहादीनां नानुस्मर्यतउपनयनम्” इत्युपक्रम्य प्रायश्चित्ताभिधानात् तत्र चादिग्रहणेन ततः प्राचामप्यनुपनीतत्वे प्रायश्चित्तेन व्रात्यत्वनाशो युक्त एवेति वाच्यम्;उक्तवचनं व्याचक्षणेन भाष्यकृत ।हरदत्तेन—प्रपितामहादि प्रपितामहादारभ्य प्रपितामहः पितामहः पिता स्वयञ्च यथाकालमितिते तथाविधाः समाणवकाः श्मशानतुल्याः— इत्यादि व्याख्याययस्य तु प्रपितामहस्य पिनुरारभ्य नानुस्मर्यत उपनयनं तत्र प्रायश्चित्तं नोक्तम्—इत्युपसंहारात्, परन्त्वेतेषां सवर्णाजत्वेन प्रायुक्तरीत्या विप्रत्वाद्यनपायाच्छ्द्रापेक्षयोत्कृष्टत्वमस्तीति युक्तम् । किञ्चैषामध्ययनाङ्गोपनयप्राप्त्यभावेऽपि
उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम्
वेदमध्यापयेच्चैनं शौचाचारांश्च शिक्षयेत्॥
इति वचनेन शौचाचारशिक्षणस्याप्युपनयनाङ्गितायाः सिद्धेस्तदङ्गोपनयनप्राप्तिरस्त्येव । तच्च स्वसमीपप्रापणमात्र- रूपमिति बोध्यम् ।नच—
निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः ।
तस्य शास्त्रेऽधिकारोऽस्मिन् ज्ञेयो नान्यस्य कस्यचित्॥
इति मनूना समन्त्रकश्मशानान्तविधिमतामेव शास्त्रोक्तानुष्ठानाधिकारोबोधितः । व्रात्यजानां पुनः संकरजाती- यप्रकरणमध्येपाठात्तत्समानधर्मत्वप्रतिपादेन तात्पर्यावगमात् तेषाञ्च—शूद्राणान्तु सधर्माणः सर्वेऽपध्वंसजाः स्मृताः—इत्यनेन शूद्रधर्मत्वबोधनात्, “स्त्रीशूद्राणाममन्त्रकम्” इति वचनेन तेषां मन्त्राधिकाराभावबोधनात्, कथमुपनयनपूर्वकशौचाचारशिक्षणप्राप्तिरिति वाच्यम्; निषेकादिवाक्ये मन्त्रपदेन नाममन्त्रस्यापि ग्रहणात् ।
द्विजानां षोडशैव स्युः शूद्रस्य द्वादशैव हि
पञ्चैव मिश्रजातीनां संस्काराः कुलधर्मतः॥
वेदव्रतोपनयनमहानाम्नी महाव्रतम्
विना द्वादश शूद्राणां संस्कारा नाममन्त्रतः॥
इति शूद्रकमलाकरधृतवचनेन तेषां नाममन्त्राधिकारित्वबोधनात् । अत्र चोपनयनशब्देनाध्ययनाङ्गोपनयनमेव विवक्षितम्; पूर्वोत्तरसाहचर्यात् । अत एव महामहोपाध्यायगागाभट्टकृतनिबन्धेव्रात्यादीनां शौचाचारशिक्षणाङ्गोपनयनप्राप्त्युक्तिःसंगच्छते । तत्र निषेकादिवचनेन शास्त्रोक्तसकलधर्माधिकारस्यैव नियमाच्च । विप्रस्याप्यापत्तारतम्येन हीन जातिधर्माश्रयणस्याभिधानात् । अत एव —
देशधर्माञ्जातिधर्मान् कुलधर्मांश्च शाश्वतान्
पाषण्डगणधर्मांश्च शास्त्रेऽस्मिन्नुक्तवान्मनुः॥
इति संगच्छते । अन्यथा पाषण्डानां मन्त्रपूर्वकसंस्काराभावे-
नोपक्रमविरोधः स्पष्ट एव। ‘स्त्रीशूद्राणाममन्त्रकम्’ इत्यस्य चवैदिकमन्त्ररहितमित्यर्थेन विरोधाभावात् शास्त्रेऽधिकार इत्यनेनशास्त्राध्यापनाधिकारस्य विवक्षणे दोषलेशस्याप्यभावाच्च । अतश्चतेषां प्रपितामहप्राक्कालप्रभृत्यनुपनीतानां व्रात्यत्वानपगमेऽपि शूद्रसमानधर्मतया नास्तिक्यम्लेच्छसंसर्गपरिहारपूर्वकमुचितप्रायश्चितेन शुद्धानामस्ति प्रागुक्तद्वादशसंस्कारप्राप्तिः । येषां पुनश्चातुर्वर्णिकिजत्वनिश्चयोऽपि नास्ति चिरं म्लेच्छादिभिः संसर्गात्, तेषामप्यस्ति पश्चात्तप्यमानानां नास्तिक्यपरिहारपूर्वकमास्तिक्याश्रयणेनभक्तिशास्त्राद्यधिकारोऽहिंसादिसामान्यधर्मप्राप्तिश्च । तथाहि—
‘आनिन्द्ययोन्यधिक्रियते पारम्पर्यात् सामान्यवत् इतिभक्तिसूत्रेद्वितीयाध्याये द्वितीयाह्रिकेऽष्टसप्ततितमं सूत्रम् ।अस्यचार्थो भाष्यकृता स्वप्नेश्वरेणैवं विवृतः—निन्दितचाण्डालादियोनिपर्यन्तंभक्तावधिक्रियते संसारदुःखजिहासाया अविशेषात् । अथ वेदाध्ययनानधिकारात् कथमत्रैवर्णिकानां स इति चेत्तत्राह—पारम्पर्यादिति । चोदनालक्षणोऽर्थो धर्मः, शास्त्रयोनित्वात्, इति न्यायादलौकिकोऽर्थः श्रुत्येकसमधिगम्य इत्यत्र न विप्रतिपद्यामहे, किन्तुस्त्रीशूद्रादीनामितिहासपुराणदिद्वारा चाण्डालादीनाञ्च स्मृत्याचारवदुपदेशपारम्पर्येण ज्ञानमपि श्रुतिमूलमेव भवति । यथा तेषांसामान्याहिंसाधर्मादिज्ञानम्, अन्यथा तदसिद्धिप्रसङ्गादिति ॥अनेन च सूत्रभाष्यसन्दर्भेण स्पष्ट एव मनुष्यमात्रस्य भक्तिशास्त्राधिकारः । एवं प्रत्यभिज्ञाशास्त्रेऽपि- जनस्य इत्युक्त्याजन्ममरणप्रयुक्तक्लेशजिहासावतः प्राणिमात्रस्य—इत्युक्तेस्तत्राप्यधिकार । तथा—
शनकैस्तु क्रियालोपादिमाः क्षत्रियजातयः ।
वृषलत्वं गता लोके ब्राह्मणादर्शनेन च॥
पोण्ड्रकाश्चौण्ड्रद्रविडा काम्बोजा यवनाः शकाः ।
पारदाः पल्हवाश्चीनाः किराता दरदाः खशाः॥
मुखबाहूरुपज्जानां या लोके जातयो बहिः ।
म्लेच्छवाचश्चार्यवाचः सर्वे ते दस्यवः स्मृताः॥
इति मनुना दस्युशब्देन व्यवहृतानां व्रात्यक्षत्रियादीनां धर्मेव्यवस्थापनं कथं स्यादिति राजधर्मेषु पञ्चषष्टितमाध्याये—
यवनाः किराता गान्धाराश्चीनाः शबरबर्बराः।
शकास्तुषाराः कङ्काश्च पल्हवाश्चान्ध्रमद्राः॥
पौण्ड्राः पुलिन्दा रमठाः काम्बोजाश्चैव सर्वशः ।
ब्रह्मक्षत्रप्रसूताश्च वैश्याः शूद्राश्च मानवाः॥
कथं धर्मांश्चरिष्यन्ति सर्वे विषयवासिनः ।
मद्विधैश्च कथं स्थाप्याः सर्वे ते दस्युजीविनः॥
एतदिच्छाम्यहं श्रोतुं भगवंस्तद् ब्रवीहि मे ।
त्वं बन्धुभूतो ह्यस्माकं क्षत्रियाणां सुरेश्वर॥
इति मान्धातुरिन्द्रं प्रति प्रश्ने—
मातापित्रोर्हि शश्रूषा कर्तव्या सर्वदस्युभिः ।
आचार्यगुरुशुश्रूषा तथैवाश्रमवासिनाम्॥
भूमिपानाञ्च शुश्रूषा कर्तव्या सर्वदस्युभिः ।
वेदधर्मक्रियाश्चैव तेषां धर्मो विधीयते॥
पितृयज्ञास्तथा कूपाः प्रपाश्च शयनानि च ।
दानानि यु यथाकालं द्विजेभ्यो विसृजेत्सदा॥
अहिंसा सत्यमक्रोधो वृत्तिर्दायानुपालनम् ।
भरणं पुत्रदाराणां शौचमद्रोह एव च॥
दक्षिणा सर्वयज्ञानां दातव्या भूतिमिच्छता ।
पाकयज्ञा महार्हाश्च दातव्याः सर्वदस्युभिः॥
एतान्येवंप्रकाराणि विहितानि पुराऽनघ ।
सर्वलोकस्य कर्माणि कर्तव्यानीह पार्थिव॥
● इतीन्द्रस्योत्तरेण मातापितृशुश्रूषादेर्लिङ्तव्याभ्यां विधानादिमेधर्मा इति स्पष्टमेव । तत्र—
उपनीय तु यः शिष्यं वेद मध्यापयेद् बुधः ।
साङ्गञ्च सरहस्यञ्च तमाचार्य प्रचक्षते॥
[ कृतप्रायश्चित्तानां केषांचनः राममन्त्रादिमात्राधिकारः]
इति लक्षितस्य वेदाध्यापकस्याचार्यस्यासम्भवेऽपि उपनयनपूर्वकशौचाचारशिक्षणकर्तैवाचार्यपदेनाभिधीयते । एवं गुरुपदेनापि—
निषेकादीनि कर्माणि यः करोतियथाविधि ।
सम्भावयति चान्नेन स विप्रो गुरुरुच्यते॥
इति पारिभाषिकस्य गुरोरसम्भवेऽपि—
गुशब्दस्त्वन्धकारः स्याद्रूशब्दस्तन्निरोधकः ।
अन्धकारविरोधित्वाद् गुरुरित्यभिधीयते॥
इति लक्षितो योग्यमन्त्रादिदानेन निरयरूपान्धकारनिवर्तकोगुरुरिह गृह्यते । नचैषां कस्मिन्नपि मन्त्रे नाधिकार इति वाच्यम्; अगस्त्यसंहितायाम्—
शुचिव्रततमाः शूद्रा धार्मिका द्विजसेवकाः ।
स्त्रियः पतिव्रताश्चान्ये प्रतिलोमानुलोमजाः॥
लोकाश्चाण्डालपर्यन्तं सर्वेऽप्यत्राधिकारिणः ।
इत्यादिना राममन्त्रे मनुष्यमात्रस्याधिकारबोधनात् ।
तथा –श्रुतिर्ब्रह्मा हि षड्वर्णं स्मृतिर्वर्णद्वयात्मकम्॥
षड्वर्णं ब्राह्मणादीनां त्रयाणां यद् द्विवर्णकम्॥
तदन्येषां देशिकेन वक्तव्यं तारकं परम् ।
इत्यनेन त्रेवर्णिकानां ‘ॐ रामाय नमः ? इति षड्वर्णे पूर्ववाक्यैकवाक्यतया तदन्येषां सर्वेषामपि मनुष्याणांरामनाममन्त्राऽधिकारावगमाच्च । एवं ब्रह्मोत्तरखण्डे शिवपञ्चाक्षरं प्रक्रम्य—
महापातकदावाग्निः सोऽयं मन्त्रः षडक्षरः ।
प्रणवेन विना मन्त्रः सोऽयं पञ्चाक्षरो मतः॥
स्त्रीभिः शद्रैश्च संकीर्णै र्धार्यस्स मुक्तिकांक्षिभिः ।
नास्य दीक्षा न होमश्च न संस्कारो न तर्पणम्॥
न कालनियमाश्चात्र जप्यः सर्वैरयं मनुः ।
वैश्यैः शूद्रैर्भक्तियुक्तैर्म्लैच्छैरन्यैश्च मानवैः॥
इत्यनेन शिवपञ्चाक्षरमन्त्रे म्लेच्छादीनामप्यधिकारस्य विस्पष्टमवगतेश्च । ‘वेदधर्मक्रिया’ इत्यनेन वेदमूलक- स्मृत्याद्युक्तशिवविष्णवादिभक्तिसमाश्रमणमुच्यते ।
मां हि पार्थव्यपाश्रित्य येऽपि स्युः पापयोनयः ।
स्त्रियो वैशयास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्॥
इति भगवद्गीतासु भगवता स्वसमाश्रयणाभिधानात् । अतएव स्कन्दपुराणेऽपि—
विष्णुभक्तिसमायुक्तो मिथ्याचारोऽप्यनाश्रमी ।
पुनाति सकलांल्लोकान् सहस्रांशुरिवोदितः॥
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा यदि वेतरः ।
विष्णुभक्तिसमायुक्तो ज्ञेयः सर्वोत्तमोत्तमः॥
दुराचारोऽपि सर्वाशी कृतघ्नो नास्तिकः पुरा ।
समाश्रयेदादिदेवं श्रद्धया शरणं हि यः॥
निर्दोषं विद्धि तं जन्तुं प्रभावात्परमात्मनः ।
इति पठ्यते । एवं देवीपुराणे—
वर्णाश्रमविभागेन देवाः स्थाप्यास्तु नान्यथा ।
ब्रह्मा तु ब्राह्मणैः स्थाप्यो गायत्रीसहितः प्रभुः॥
चतुर्वर्णैस्तथा विष्णुः प्रतिष्ठाप्यः सुखार्थिभिः ।
भैरवोऽपि चतुर्वर्णैरन्त्यजानां तथा मतः॥
किरातहूणान्ध्रपुलिन्दपुलकसाः ।
आभीरकङ्का यवनाः खशादयः॥
इति वचनेनान्त्यजादीनामपि भैरवप्रतिष्ठाधिकारः स्पष्टमुच्यते । भगवद्भक्तेःसर्वमानुषेष्वनुमतत्वादेव च—
येऽन्ये च पापा यदुपाश्रयाश्रयाः ।
शुध्यन्ति तस्मै प्रभविष्णवे नमः॥
इति भागवते (८ ।४ । १८) सर्वेषां भगवद्भक्तया शुध्यभिधानं सङ्गच्छते। राममन्त्रपञ्चाक्षरमन्त्रयोः सर्वेषामधिकारः प्राङ् निरूपित एव । पितृयज्ञादयश्च नास्तिक्यम्लेच्छसंसर्गपरिहारपूर्वक—मुचितप्रायश्चित्तानुष्ठानेन शुद्धनां शुद्रकमलाकरोक्तप्रयोगानुसारिणः प्राप्नुवन्ति; तेषां शूद्रधर्मत्वात्। एवं चोपवादितसन्दर्भेण मूलतो म्लेच्छादीनामपि स्वनास्तिक्यादित्यागपूर्वकराममन्त्राद्यधिकारः सिध्यति, किम्पुनर्बलान्म्लेच्छोकृतानाम् । प्राभून्नाम चिरकालनास्तिकम्लेच्छसंसर्गादनिश्चीयमानस्वस्वजातिकानां प्रायश्चित्तादिभिः सद्य एव वर्णाश्रमान्तर्गतत्वम् । साक्षात्परम्परयावा मुक्तिसाधनतया सकलसंसारदावदाहशमकं भगवद्भक्तयाश्रयणन्तु कथं निवार्यताम् ? किञ्च—
श्रद्दधानः शुभां विद्यामाददीतावरादपि ।
अन्त्यादपि परं धर्मं स्त्रीरत्नं दुष्कुलादपि ॥
इति वदता मनुना नीचादपि समीचीनधर्मग्रहणमनुमतम् । तेन दण्डापूपिकनोत्यैव श्रेष्ठात्स्वोचितधर्म-प्राप्तिर्नीचानामपिसिद्ध्यति ।
गार्भैर्होमैर्जातकर्मचौलमौञ्जीनिबन्धनैः ।
बैजिकं गार्भिकं चैनो द्विजानामपमृज्यते॥
इति वचनेनाभक्ष्यभक्षणजनितत्वादिनिषिद्धकालगमनादिवत् प्रायश्चित्ततारतम्येन क्रमायातदोषाणामपि नाशस्योपलक्षण-विधया बोधनाच्च । अत एव पातकविशेषेण पतितानामपि पुनः संस्कारविधानमुपपद्यते । तेन पातकेन ब्राह्मणत्वादेर्नाशे हि संस्कारविध्युद्देश्यतावच्छेदकस्यैवाभावेन तद्विधानानुपपत्तिः । किञ्च मलादिभिश्चिरसंसृष्टस्यापि सुवर्णस्य संस्कार संख्यातारताम्येन शुद्धितारतम्यदर्शनात्पापानामपि प्रायश्चित्ततारतम्येन शुद्धितारतम्यस्य यौक्तिकतयाऽनिर्दिष्टपापानामपि सकलपापत्यागपूर्वकं चातुर्वर्णिकत्वाद्यसिद्धावपि शुद्धिसोपानारोहाधिकारोयुक्त एव । अत एव—
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
एकरात्रोपवासश्च श्वपाकमपि शोधयेत्॥
इति हारीतेनोक्तम् । यद्यपि नेदं स्वार्थे तात्पर्यवत्; अपिघटितत्वात्, तथापि शुद्धिः सर्वेषामपि भवत्युचितप्रायश्चित्तैरित्युपलक्षणविधया बोधयत्येव । एतेन—नहि शतशो ध्मायमानोऽपिलोहः सुवर्णं भवति, एवं म्लेच्छीभूतानां न कथमपि प्रायश्चित्तैःपापनाशः—इति प्रत्युक्तम् ।सद्यस्तदभावेऽपि क्रमेण चातुवर्णिकधर्मयोग्यतासम्भवेनैव प्रकृतार्थसिद्धेः । म्लेच्छोभृतानामपि ब्रा-
ह्मणत्वाद्यनपगमस्याधस्तादुपपादनेन दृष्टान्तदार्ष्टान्तिकयोर्वैषम्याच्च । अत एव भविष्ये रहस्यप्रसङ्गे—
तथा दद्याद्विधानेन द्विजाय मधूसर्पिषी ।
तारयत्यखिलान् पूर्वानात्मानं च नराधिप॥
गोभिश्चतसृभिर्युक्तं तथा भूमिसमन्वितम् ।
प्रतिग्रहसमर्थाय विदुषे त्वाहिताग्नये॥
दत्त्वाऽजिनन्तु कार्तिक्यां वैशाख्यां वा विशेषतः।
विषुवत्ययने चैव ग्रहणे चन्द्रसूर्ययोः॥
कृच्छ्रात्तु तमसो घोरान्मुच्यते सर्वतोभयात्।
अतीतान् सप्तपुरुषांस्तथा चान्याननागतान्॥
उद्धृत्य स नरोयाति ब्रह्मलोकं सनातनम् ।
इत्यादिनाऽतीतसकलस्ववंशोयानामात्मनश्च तारणाभिधानंदृश्यते । एवम्—
एकादशगुणान्वापि रुद्रानावार्य धर्मवित्॥
महापापैरुपस्पृष्टो मुच्यते नात्र संशयः ।
इत्यङ्गिरोवचनम् । एवं तीर्थप्रत्याम्नाये विष्णुपुराणम्—
ज्ञानतोऽज्ञानतो वापि भक्त्याऽभक्त्यापि वा कृतम् ।
गङ्गास्नानं सर्वविधं सर्वपापप्रणाशनम्॥
चान्द्रायणसहस्रैस्तु यश्चरेत्कायशोधनम् ।
पिबेद्यश्चापि गङ्गाम्भः समौ स्यातां न वा समौ॥
भवन्ति निर्द्दिषाः सर्पा यथा ताक्ष्यस्य दर्शनात् ।
गङ्गाया दर्शनात्तद्वत्सर्वपापैः प्रमुच्यते॥
पुण्यक्षेत्राभिगमनं सर्वपापप्रणाशनम् ।
देवताभ्यर्चनं पुंसामशेषाघविनाशनम्॥
इति । भविष्येऽपि—
स्नानमात्रेण गङ्गायाः पापं ब्रह्मवोधद्भवम् ।
दुराधर्षं कथं याति चिन्तयेद्यो वदेदपि॥
तस्याहं प्रवदे पापं ब्रह्मकोटिवधोद्भवम् ।
स्तुतिवादमिमं मत्त्वा कुम्भीपाकेषु जायते॥
आकल्पं नरकं भुक्त्वा ततो जायेत गर्दर्भः ।
इत्यादिवचनैः श्रीगङ्गातीर्थस्नानादेः सकलपापनाशकता सिद्ध्यति । एवं बृहन्नारदीये सर्वसाधारणप्रायश्चित्ता न प्रोक्तानि ।
प्रायश्चित्तानि यः कुर्यान्नारायणपरायणः ।
तस्य पापानि नश्यन्ति अन्यथा पतितो भवेत्॥
यस्तु रागादिनिर्मुक्तो ह्यनुतापसमन्वितः ।
सर्वभूतदयायुक्तो विष्णुस्मरणतत्परः॥
महापातकयुक्तो वा युक्तो वाऽप्युपपातकैः ।
सर्वैः प्रमुच्यते सद्यो यतो विष्णुरतं मनः॥
इत्यादिना विष्णुभक्तस्य नरमात्रस्य सकलपापनाशोऽभिहितः । इत्थञ्च बहुत्र प्रायश्चित्तविधायकवचनेषु नर इति सामान्यपदोषादानादुदाहृतवचनैर्म्लैच्छादीनामपि भगवद्भक्त्यधिकारसिद्धेश्च सर्वेषामपि स्वाधिकारस्वयोग्यतानुसारेण वैदिककर्ममार्गोन्मुखत्वं निराबाधं सिद्ध्यति । इत्थञ्च त्रिपुरुषावधिनिश्चितसवर्णोत्पत्तिकानां कामतोऽकामतो वा म्लेच्छेः संसृष्टानां प्रायश्चित्ताचरणेन पुनः स्वस्ववर्णान्तर्गतत्वपूर्वकधर्मप्राप्तिः, तदन्येषापपि व्रात्यतमानां मूलतो म्लेच्छादीनां वा सत्यामिच्छायां नास्तिक्यत्यागेन भक्तिशास्त्रप्रत्यभिज्ञाशास्त्रराममन्त्राद्युपदेश्यताधिकारः शुद्रकमलाकरोक्तसंस्कारादिप्राप्तिश्च सिद्ध्यतोत्यत्र न कस्यचित्कक्ष्यावसर इति
सकलश्रुतिस्मृतिपुराणेतिहासपर्यालोचननिर्गलितो विमर्शो निष्पक्षपातधीभिः सुधीभिर्निपुणं विचारणीय इति दिक् ।
इत्युपदर्शितव्यवस्थानुसारेण निर्गलितोऽर्थः—
आर्यत्वाविर्भावेच्छायां पूर्वं मनस्तापस्तः, ततो म्लेच्छत्वाभिमानजिहासा, ततो म्लेच्छत्वापवादाभिमानजिहासा, प्रायश्चित्तचिकीर्षया श्रुतिस्मृतिपुराणवाक्येषु विश्वासपूर्वकं प्रायश्चित्तोपदेष्टृवाक्येऽतीव विश्वासेन प्रायश्चित्तोपदेष्टृणामुपासना, ततश्च तदुप दिष्टानां मनस्तापोपवासगङ्गास्नानपूर्वकं भक्तिशास्त्रप्रदर्शित राम-कृष्ण-शिवमन्त्राणां दीक्षया सम्भवत्येव म्लेच्छत्वमलापाकृत्या स्वस्वनिष्ठार्यत्वजात्याविर्भावः” इति ।
[उक्तव्यवस्थासमालोचनम्]
अत्र हि म्लेच्छैर्बलात्कारेण स्वमतं प्रवेशितानां स्वीयान्नभोजनेन स्वकन्यासम्बन्धविधानेन चैवंविधेताऽन्येनापि सद्यःपातित्यहेतुना स्वैः साकं शयनाशनादिव्यवहारप्रवर्तनेनावशतया स्वधर्मात्प्रच्यावितानां तदात्वे तन्निदेशातिक्रमे सद्य एव सकलस्वान्वयनाशं निश्चित्य प्राणत्राणमेवपरमं धर्मं मन्यमानानां तत्र पुत्रपौत्रादिपारम्पर्येण म्लेच्छीभूतानां विप्रक्षत्रियविट्च्छूद्राणां कुलेषु प्रसूता म्लेच्छा वा स्वां नास्तिकतामवधार्य यदि प्रायश्चित्ताचरणेन नरकतरणोपायं वारं वारं प्रणिपत्य प्रार्थयेरन्, तर्हि ते कथंच्चिदपि नास्तिक्यतो मुक्तिं स्वोचिताचारोपदेशं चार्हा वा न वा ? अर्हाश्चेत्कीदृशं प्रायश्चित्तं जन्मतः प्रभुत्याश्रितनास्तिक्यदोषमोषकम् ? के च तदुचिता आचारा इति विचारणीयं विषयमुपक्षिप्य विप्रक्षत्रियविट्च्छूद्राणां मतान्तरं प्रविष्टानामपि स्वीयजातिपरिवृत्तिर्न सञ्जातेति यद्विवेचितम्, तत्रेदमेवास्माकं वक्तव्यम्—यन्मतान्तरं प्रविष्टानां यदि तत्रत्यकन्यासम्ब-
न्धोऽपि सञ्जातस्तर्हि तत्रोत्पन्नानामपत्यानामेकजातीयमातापितृसम्बन्धजत्वाभावात् न कथमपि विप्रत्वादिकं भवितुमर्हति।एतेन—तत्पुत्रपौत्रपरम्परापि—व्याख्याता।यदि तु विवाहसम्बन्धो न सञ्जातस्तर्हि तु वयमपि मन्यामहे न तेषां जातिपरिवृत्तिर्वर्तते, परन्त्विदमेवात्र विचारणीयम्—यत् विवाहसम्बन्धेनसद्यः पातित्यहेतुना तत्पुत्रादेर्जातिपरिवृत्तिवत् शयनासनादिलघुतरसंसर्गेणापि बहुकालमभ्यस्तेन तत्पुत्रादेर्जातिपरिवृत्तिर्भवति वानवेति। अत्र प्रसङ्गे इदमपि सूच्यते—यत् विवाहसम्बन्धाभावेऽपि म्लेच्छादिभिर्बहुकालं संवत्सराधिककालमभ्यस्तेन सहासनादिना पतितानां कथमपि न प्रायश्चित्तमित्येव सर्वैरप्यभ्युपगमनीयम् इति केचन मन्यन्ते। अयमाशयः—बौधायनधर्मसुत्रे हि—अशुचिशुक्लोत्पन्नानां तेषामिच्छतां प्रायश्चित्तिः—इति तदुत्पन्नानामेव प्रायश्चित्तमभिहितमुपपद्यते। अन्यथा पतितानामपिप्रायश्चित्तं यदि बोधायनसम्मतम्, तर्हि किमिति तदुत्पन्नानामेवप्रायश्चित्ताभिधानं तत्र क्रियते—इति सर्व एव विवेचयन्तु।तथाच पतितानां पश्चात्तप्तानामपि कथमपि स्वस्वपूर्वतनजातिभिर्विवाहादिसम्बन्धो न भवत्येव। अत्रेयमशङ्का भवति—कथमेवंसति—अथ पतिताः समवसाय धर्मांश्चरेयुरितरेतरयाजका इतरेतराध्यापका मिथो विवहमानाः—इति पतितानामपि धर्माचरणंप्रतिपादितमुपपद्यते ? यदि न तेषां प्रायश्चित्तम्। अत्र हि पतितपदेन कृतप्रायश्चित्तानामेव ग्रहणमित्यवश्यमूरीकर्तव्यम्; अन्यथा हि तेषां धर्माचरण एवानधिकारात् धर्माचरणमत्र कर्तव्यंप्रतिपादितमसङ्गतं स्यादिति। अत्रेदं समाधानम्—यदत्र हिधर्मपदेन न स्वस्वपूर्वतनजातिधर्मादयो विवक्षन्ते, किन्तु पतित -
धर्मा एव। सन्ति हि पतितानामपि सनातनधर्मश्रद्धालूनां बहवस्तन्त्रशास्त्रसिद्धा धर्माः। व्यक्तञ्चैतच्छिवार्कमणिदीपिकायां"नैकस्मिन्नसंभवात्” इति सूत्रभाष्यविविरणावसरे विवेचितम्।तथाच धर्मविधानान्यथाऽनुपपत्या न पतितानां कथमपि प्रायश्चित्तानामनुमानं सम्भवति। तथाच—अथ पतिताः समवसायधर्मांश्चरेयुः—इति वचने यत्कृतप्रायश्चित्तानां पतितानां विवाहादिमात्रमयोग्यमिति, तेषामपि प्रायश्चित्तमिति च वर्णितम्, तदिदं पतितोत्पन्नाभिप्रायेणैव। पतितोत्पन्ना अपि हि पतिता एवेति हि बौधायनधर्मसूत्रे—मिथ्यैतदिति हारीतो दधिधानीसधर्माः स्त्रियः स्युर्यो हि दधिधान्यामप्रयतं पय आतञ्च्य मन्त्थति न तच्छिष्टा धर्मकार्येषूपयोजयन्ति। एवमशुचिशुक्लं यन्निर्वर्तते न तेन सह सम्प्रयोगो वर्तते—इति वचनेन निरूपितमेव।अत्र हि पतितोत्पन्नानामपि कृतप्रायश्चित्तानां व्यवहारयोग्यतानास्तीत्यवश्य-मेवोरीकर्तव्यम्। अत एव—यद्यपि सम्प्रयोगो नविद्यते, तथापि प्रायश्चित्तं तस्यास्तीत्याहेति—अशुचिशुक्लोपपन्नानां तेषामिच्छतां प्रायश्चित्तम्—इति सूत्रं गोविन्दस्वामिभिरवतारितमुपपद्यते। तथा चेदमत्र सिद्धं भवति यत्पतितोत्पन्नानामपि कृतप्रायश्चित्तानां न संव्यवहारयोग्यतेत्येव बोधायनसम्मतोविषय इति। अनेन चेदं सूच्यते यज्जात्यन्तरे विवाहसम्बन्धंविनाऽवस्थितानामपि पतितानां पुत्रा यद्यपि जात्या ब्राह्मणादयएव भवन्ति, एवमपि विवाहसम्बन्धस्तेषामपि तज्जातीयैरेव सम्भवति, न तु सर्वथा म्लेच्छादिसंसर्गरहितब्राह्मणादि जातीयैरिति।तथाचात्रेदमेव विचारणीयम्—यत् शिवदत्तशास्त्रिभिस्तदनुसारिभिःम०म० गिरिधरशर्मप्रभृतिभिश्च यैः मनुयाज्ञवल्क्याद्युक्तप्रायश्चित्तै-
स्तत्संसर्गनास्तिक्याद्याश्रयणजपापविनाशेन पुनः स्वस्ववर्णोचितधर्मप्राप्तिस्तु स्यादेवेति वर्णितम्, तत्र तैरपि संवत्सरावधिलघुसंसर्गादिपापस्यैव विनाशेन स्वस्ववर्णाश्रमधर्मावाप्तिरेवाभिमन्यते, उत बहुकालाभ्यस्तानभ्यस्तसाधारण्येन लघुगुरुसाधारण्येन च सर्वविधेनसंसर्गेण यत्पापं तस्य पापस्य प्रायश्चित्तैर्विनाशेन स्वस्ववर्णधर्माधिकारावाप्तिरिति। अत्राद्यपक्षे नास्माकमपि विवादः। यतोवयमपि संवत्सरावध्यभ्यस्तेन लघुसंसर्गेण यत्पापं तस्य सर्वात्मनाविनाशमेव प्रायश्चित्तेन स्वीकुर्मः। द्वितीयस्तु पक्षो यदि तेषामभिमतस्तर्हि तु वयमिदमेव निवेदयामो यत् पूर्वोक्तरीत्या तेषांपतितानां कथमपि न प्रायश्चित्तं न वा स्वस्ववर्णाश्रमधर्मे वैदिकेऽधिकार इति। यत्तु पुनः—
अत ऊर्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः।
सावित्रीपतिता व्रात्या भवन्त्यार्यविगर्हिताः॥
इत्यादिकं वचनं तदिदमपि न पतितसंसर्गादिप्रयुक्तानुपनयनाभिप्रायम्, किन्तु केनचन विघ्नेन यथाकालं यदनुपनयनंस्वतो नास्तिक्याश्रयणेन च यदनुपनयनं तदभिप्रायमेव। तथाच नास्तिक्येन यथाकालं स्वपित्राऽनुपनीतानां व्रात्यतापरिहारार्थं प्रायश्तित्तादिव्यवस्थाऽस्माकमपि सम्प्रतैव। मतान्तरं प्रविष्टैःपित्रादिभिर्मतान्तरीयकन्यायां उत्पादितानान्तु न व्रात्यत्वम्। तथाहि—म्लेच्छादिकन्यायामुत्पादितानां हि न ब्राह्मणत्वादिकं विद्यत इतिनोपनयनाधिकारः।स्वीयपत्न्यामुत्पादितानान्तु यद्यपि ब्राह्मणत्वमस्ति; तथापि विना प्रायश्चित्तानुष्ठानं तस्य वर्णधर्माधिकारावाप्तिर्नास्तीति यावत्प्रायश्चित्तमुपनयनानधिकारः। तथाच शूद्राणांयथोपनयनानधिकारिणामनुपनयनं न व्रात्यताप्रयोजकमिति श्री-
शिवदत्तशास्त्रिप्रभृतयोऽपि मन्यन्ते, एवं पतितोत्पन्नानां पतितानां वोपनयनाधिकारस्यैवाभावान्नानुपनयननिबन्धनं व्रात्यत्वंवर्तत इति व्रात्यसंस्कारेण तेषां स्वस्ववर्णधर्मावाप्तिव्यवस्थापनमेतेषां शास्त्रिमहोदयानामसङ्गतमेव। एवंच शुद्धिव्यवस्थायांयत्र मतान्तरं प्रविष्टानां पुनः प्रायश्चित्तेन स्वधर्माधिकारोवर्ततेवा नवेति विचारो विषयस्तत्र व्रात्यसंस्कारपर्यालोचनं व्रात्यप्रायश्चित्तेन शुद्धिव्यवस्थापनञ्च न सङ्गतमिति पश्यामः। नहि पतितोव्रात्य इति वाऽनर्थान्तरम्। पातित्यं हि म्लेच्छादिसंसर्गनिमित्तम्,नानुपनयननिमित्तम् व्रात्यत्वन्तु यथाकालमनुपनयननिमित्तम्।विनापि म्लेच्छादि संसर्गं आहारव्यवहारादिनियमविशेषपरिपालनेन परस्परमेव विवाहादिम्बन्धव्यवस्थास्वीकारेण च बहवः खलु क्षत्रिया वैश्या अन्ये च वर्तन्त इति सर्वविदितमिदम्। तथाच तादृशानेव क्षत्रियादीनुद्दिश्य व्रात्यसंस्कारादि विधयः प्रवृत्ताइति तदवलम्बेन पुत्रपौत्रादिपरम्परया म्लेच्छीभूतानां शुद्धिव्यवस्थापनमिदंपामरप्रतारणमात्रम्, न तु वस्तुस्थितिनिरूपणमिति सुधीरमुद्घोषयामः
[आपस्तम्बीयव्रात्यप्रायश्चित्सविधिपरीक्षणम्।]
एतेन—अतिक्रान्ते तु सावित्र्याः काले ऋतुं त्रैविधकं ब्रह्मचर्यं चरेत्। अथोपनयनम्। ततःसंवत्सरमुदकोपस्पर्शनमथाध्याप्यः।यस्य पितापितामह इत्यनुपेतौ स्यातां ते ब्रह्महसंस्तुताः। तेषां गमनं भोजनंविवाहमिति वर्जयेत्। तेषामिच्छतां प्रायश्चित्तम्।यथा प्रथमेऽतिक्रमे ऋतुरेवं संवत्सरोऽथोपनयनम्। तत उदकोपस्पर्शनं प्रतिपुरुषं संख्याय संवत्सरान् यावन्तोऽनुपनीताः स्युरित्याद्यापस्तम्बवचनोपक्षेपोऽप्यत्रनिष्प्रयोजन इति व्याख्यातम्। यत्तु–अत्र
वचने त्रयाणां पुरुषाणामनुपनयने यद् व्रात्यत्वम् तस्यैव प्रायश्चित्तेन निर्हार इति स्वमतम् स्वान्तेवासिमतन्तु द्वादशपुरुषाणांततोऽधिकानामपि अनुपनयनेऽपि यद् व्रात्यत्वम् तस्यापि द्वादशवार्षिकप्रायश्चित्तमिति—इत्यादि व्रात्यसंस्कारमीमांसायां श्रीराममिश्रशास्त्रिभिर्विवेचितम् तत्र वयं पश्यामः—यदुज्वलावृत्तिसहितानामुक्तापस्तम्बसूत्राणां स्वारस्यं द्वादशपरम्परापर्यन्तं व्रात्यसंस्कारयोग्यतायां न भवतीति। अत्र केचित् यस्य प्रपितामहादि नानुस्मर्यत उपनयनं तस्य द्वादशवार्षिकप्रायश्चित्तविधानपरे मूले प्रतिपुरुषं संख्याय यावन्तोऽनुपनीता इतीत्यस्यानुषङ्गो य उज्वलावृत्तौसम्पादितः, तत्पर्यालोचनेन द्वादशपरम्परापर्यन्तं व्रात्यसंस्कारयोग्यता वर्तत इति गम्यत—इति वदन्ति। अन्ये तु—द्वादशवर्षाणीत्युपलक्षणम्, प्रतिपुरुषं संख्याय संवत्सरानिति वचनानुसारेणासंख्यातानामनुपनीतत्वेऽपि तावद्वर्षप्रायश्चित्तेन सर्वधर्माधिकारोभवतीति—मन्यन्ते। अत्रेदमेव प्रष्टव्यं यत्—द्वितीयमतानुसरणेप्रतिपुरुष संख्यायेत्यनेनैव गतार्थत्वात् यस्य प्रपितामहादि नानुस्मर्यत इति पृथक् सूत्रान्तररचनं सूत्रकाराणां किमर्थमिति ? यदितु प्रपितामहस्यानुपनयनमारभ्य द्वादशवार्षिकप्रायश्चित्तव्यवस्थापनार्थं तत्सूत्रमिति वर्ण्यते, तर्हि प्रतिपुरुषं संख्याय संवत्सरानित्यस्य योजनं कथमत्र सम्पाद्यते ? यदि तु प्रपितामहस्यानुपनीतत्वेएकं द्वादशवार्षिकं स्वस्य कालातिक्रमे प्रपितामहस्यानुपनीतत्वेच द्वादशवार्षिकद्वयम्, प्रपितामहस्य पितुरनुपनीतत्वे स्वस्यकालातिक्रमे च द्वादशवार्षिकत्रयमिति रीत्या विवरणमभिप्रेयते, तर्हिप्रपितामहपितुर्वृद्धप्रपितामहस्य पर्यन्तमेवानुपनीतत्वे व्रात्यसंस्कारयोग्यता, न तदनन्तरानुपनीतत्वेऽपि। यतो द्वादशवार्षिकचत-
ष्टयावसरो यदा भवति, तदा न प्रायश्चित्तमिति चतुर्थे नास्ति निष्कृतिरिति वचनानुसारेण पूर्वमेव व्यवस्थापितमिति कथमसंख्याकानाममुपनीतत्वेऽपि व्रात्यसंस्कारौचित्यं भवति ? एतेन—प्रपितामहस्यापि पितुरनुपनीतत्वे प्रायश्चित्तं नोक्तं धर्मज्ञैरूहितव्यम्, एवं ततः पूर्वस्यापीत्युज्ज्वलावृत्तिगतं वाक्यजातमपि — व्याख्यातम्। अनेनापि हि प्रतिपुरुषं संख्याय द्वादशवार्षिकसंख्याव्यवस्थापन एव धर्मज्ञानामधिकारः प्रकाश्यते, न तु नूतनप्रायश्चित्तव्यवस्थापने। एतेन प्रथममतमपि प्रत्युक्तम्। तत्रहि मते प्रपितामहमारभ्यानुपनीतत्वे सर्वत्र द्वादशवार्षिकं यदि विवक्ष्यते, तर्हि प्रपितामहस्य पितुरनुपनीतत्वेऽपि प्रायश्चित्तमुक्तमिति तदनूक्तेर्धर्मज्ञैरूहनीयत्वं यदुज्ज्वलायामुक्तम्, तद्विरोधः; प्रतिपुरुषं संख्यायेत्यस्यानन्वयात्। प्रतिपुरुषं संख्यायेत्यस्य “यस्य प्रपिताहादीत्यत्रानुषङ्गस्योज्ज्वलाप्रतिपादितस्य विरोधः, द्वादशवार्षिकप्रायश्चित्तविधाना-न्यथानुपपत्त्या द्वादशपरम्परापर्यन्तविवक्षाऽनौचित्यञ्च भवति। तथा चापस्तम्बसूत्राणां प्रपितामहपर्यन्तमनुपनीतत्व एव व्रात्यसंस्कारयोग्यतायां स्वारस्यम्, न द्वादशपरम्परानुपनीतत्वेऽसंख्यातानुपनीतत्वेऽपि वा। एवञ्च बहुकालपर्यन्तं बहुपरम्परापर्यन्तमनुपनीतत्वेऽपि मल्कानोपदव्यपदेश्यानामन्येषाञ्च व्रात्यसंस्कारेण पुनः स्वजातिप्रवेशाधिकारप्रदानं शुद्धिव्यवस्थायामसङ्गतमेव।
अयमत्र सारांशः -
यस्य पिता पितामह इत्यनुपेतौ स्यातामित्यत्रेतिशब्दस्यानुकरणार्थत्वं श्रीराममिश्रशास्त्रिणांमते, यत्र प्रपितामहादेरपि यस्य पितेति वाक्ये न ग्रहणम्, तच्छिष्यमते तु तस्य प्रकाराथत्वम्, यत्र
प्रपितामहादीनां सर्वेषामपि यस्य पितेति वाक्य एव ग्रहणम्, अत्र मते यस्य पितेति वाक्ये एकादशपुरुषाणां ग्रहणम् यस्य प्रपितामहादि नानुस्मर्यत इत्यत्र द्वादशादिग्रहणमिति विवेकः। अत्रच द्वादशतमस्य प्रपितामहशब्देन ग्रहणं यद्यपि न सम्भवति; तथापि गत्यन्तराभावादुपलक्षणत्वमुरीक्रियते। तथाच प्रतिपुरुषं संख्याय संवत्सरान् यावन्तोऽनुपनीताः स्युरिति वचनेन पुरुषसंख्यया वत्सरप्रायश्चित्तसंख्याविधानान्यथानुपपत्त्या एकादशपर्यन्तं प्रायश्चित्तं यस्य पितेत्यनेन निरूप्य द्वादशादीनामनुपनीतत्वे द्वादशाब्दप्रायश्चित्तविधानमप्युपपद्यते। अत्र यस्य पितेत्यनेनैव—प्रतिपुरुषं संख्याय संवत्सरानिति वाक्यैकवाक्यतता द्वादशतमानुपनीतत्वेपि द्वादशाब्दप्रायश्चित्तमिति सिद्ध्यति; तथापि त्रयोदशादीनामनुपनीतत्वेऽपि न त्रयोदशाब्दादिसंवत्सरप्रायश्चित्तमिति व्यवस्थापनार्थं– यस्य प्रपितामहादीति वाक्यमिति न वैयर्थ्यम्। एवं विवरणे निमित्तमिदमेव–यत् प्रतिपुरुषं संख्यायेति पदद्वयमपि सूत्रकारः प्रयुङ्क्ते; अन्यथा प्रपितामहादेर्यस्य पितेति वाक्येऽग्रहणे यावन्तोऽनुपनीता इत्यनेन गतार्थत्वात् तद्वितथमेव समापद्येत। एतेन–यावन्तोऽनुपनीता इति यावत्पदसार्थक्यमपि— व्याख्यातम्।
यत्तु त्रिपुरुषं पतितसावित्रीकाणामपत्ये संस्कारो नाध्यापनं च, तेषां संस्कारेप्सुर्ब्रात्यस्तोमेनेष्ट्वा काममधीयीरन् व्यवहार्या भवन्ति इति कातीयसूत्रम्, तत्रापि त्रिशब्दस्योपलक्षणत्वमेव। अन्यथा त्रिपुरुषमभिव्याप्य पतितसावित्रीकत्व एव प्रायश्चित्तविधाने द्विपुरुषमनुपनीतत्वे न प्रायश्चित्तापत्तिरिति त्रिपदमेकद्विपुरुषणामिव त्रिचतुःपञ्चपुरुषाणामप्युपलक्षणमिति युक्तमेव। दशपुरुष-
पतितसावित्रीका अपि हि त्रिपुरुषपतितसावित्रीका एव। तथाचत्रिपुरुषं पतितसावित्रीकाणामिति कातीयवचनमपि नोक्तमतविरुद्धम्।यत्तु “प्रपितामहस्य पितरमारभ्य चतुर्णां पतितसावित्तीकाकाणामपत्ये तु न संस्कारः पूर्वनिषेधादिति श्रीहरिहरभाष्यम्, इदमपि पूर्वोक्तापस्तम्बवचनविरोधादनुपपन्नमेव। वस्तुतस्तु—व्रात्यस्तोमस्य द्वादशवार्षिक-प्रायश्चित्तापेक्षया गुरुतरस्य द्वादशवार्षिकप्रायश्चित्तानपनोद्य-पापतिर्हरणसामर्थ्यात् बहुपुरुषानुपनीततायामपि व्रात्यसंस्कारबोधने एव कातीयसूत्रतात्पर्यमवश्यमूरीकर्तव्यम्। एतेन – तेषामपत्ये संस्कारो न, अध्यापनं च नेति श्रीगदाधराचार्याणामुक्तकातीयविवरणमपि– परास्तम्। अयं भावः – त्रिपुरुषं पतितसावित्रीकाणां संस्काराध्ययनोपनयनाधिकारो हि कातीयसूत्रेयः प्रतिपादितः, सोऽकृतप्रायश्चित्तविषय एव, तथा चोक्तवचनस्य प्रायश्चित्ताभावबोधने यदि तात्पर्यं स्यात्, तर्हि चतुर्थापत्यादीनां पुनरुपनयनप्रसक्तिरेव न भविता, परन्तु— त्रिपुरुषं पतितसावित्रीकाणामपत्येऽसंस्कारो नाध्यापनं च। तेषां संस्कारेप्सुर्व्रात्यस्तोमेनेष्ट्वा काममधीयीरन् व्यवहारर्या भवन्तीति प्रायश्चित्तोपनयनादिकं सर्वमेव प्रतिपादितमस्तीति चतुर्थापत्यादीनां न व्रात्यसंस्कारानर्हतेति सर्व एव समालोचयन्तु। एतावता प्रपञ्चेेचनापस्तम्बवचनैकवाक्यातामावश्यिकामवलम्ब्यबहुपुरुषपतितसावित्रीकपरत्वमपि कातीयसूत्रस्य व्यवस्थापितम्, वस्तुतस्तु – अनयोरेकवाक्यतैव न संभवति, यदि ह्यकृतप्रायश्चित्तावस्थायां कृतप्रायश्चित्तावस्थायां वोभाभ्यां संस्काराधिकारिताऽध्यापनान-धिकारिता च निर्णीयेत, तदैकवाक्यतोद्यमः सफलः स्यात्, इह तु कात्यायनः प्रायश्चित्ताननुष्ठानदशायामनधिकारित्वं संस्काराध्या-
पनयोर्ब्रूते, आपस्तम्बस्तु प्रायश्चित्तानुष्ठानदशायां संस्काराधिकारितामध्यापनानधिकारितां चेति कथमुभयोरेकवाक्यता ? तथाच यस्य प्रपितामहादि नानुस्मर्यते इत्यत्र त्रिपुरुषं नानुस्मर्यत इत्यप्रयोगेण प्रपितामहमारभ्य बहूनामनुपनीतत्वेप्रायश्चित्तविधानपरमेव यस्य प्रपितामहादीति वाक्यमित्यवधेयम्।अत एव उक्तापस्तम्बसूत्रं व्याख्याय प्रवृत्ता —यस्य तु प्रपितामहस्य पितुरारभ्य नानुस्मर्यत उपनयनम्, तत्र प्रायश्चित्तं नोक्तम्, धर्मज्ञैरूहितव्यम्, एवं पूर्वेष्वपीति श्रीहरदत्ताचार्यवृत्तिरप्युपपद्यते। अत्र हि स्पष्टमेव प्रपितामहपित्रादि-पूर्वाणामनुपनीतत्वेऽपि प्रायश्चित्तविधानं धर्मज्ञानामावश्यकमिति बोध्यते। यत्तु अत्र केचन — पूर्वेषु इत्यस्य माणवकापेक्षया पूर्वपित्रादिष्वपि प्रत्येकं प्रायश्चित्तकल्पनपरतया व्याचक्षते, तदिदं वाक्यसंदर्भविरुद्धमेव। पूर्वपदं हि अवधिसापेक्षं पूर्वप्रकृतमेवावधितया गृह्णातीति हि उत्सर्गः। अत्र च प्रपितामहपिता प्रकृत इति ततः पूर्वतनानामेव ग्रहणं स्वरसतो गम्यते - इति। एवं वर्णयन्तोऽपि श्रीराममिश्रशास्त्रिणः जात्या म्लेच्छानां म्लेच्छादिसंसर्गिणां पतितानां म्लेच्छाचारवतां वा न व्रात्यसंस्कारयोग्यतां मन्यन्ते, किन्तु स्वजातिधर्मे विद्यमानानां केनापि कारणेन पतितसावित्रीकाणामेव जनानामिति मलकानादिपदव्यपदेश्यानां व्रात्यस्तोमेन शुद्धिमभिदधतः श्री शिवदत्तपण्डितप्रभृतयोऽपि अत्र निरासयोग्या एव वर्तन्ते। नहीमे शूद्राणां पतितानां म्लेच्छानां वा व्रात्यसंस्कारयोग्यतां मन्यन्ते। तदुक्तम् — म्लेच्छपतितादिव्यावृत्तायाः शूद्रजातिव्यावृत्तायांश्च संस्कारकारणताया आऽङ्गनागोपालबालमानुभाविकतयेति। सर्वथा तु त्रिपुरुषमनुपनीतत्व एव न व्रात्यसंस्कार इति सिद्धम्।
अत एव हि—यस्य प्रपितामहादीत्यादिपदं संप्रयोजनम्, अन्यथा त्रिपुरुषमनुपनीतत्व एव व्रात्यसंस्कारयोग्यतायां— यस्य पिता पितामह” यस्य प्रपितामहश्च इत्यत एव इष्टसिद्ध्या व्यर्थमेवादिपदं प्रसज्यते। अयमेव चार्थउक्तापस्तम्बसूत्रस्येति मदनरत्नापरार्कप्रभृतिनिबन्धकारादयोऽपि मन्यन्ते। तत्र मदनरत्नं यथा— यस्य प्रपितामहादेरुपनयनं नास्ति, तथार्वाचामपि पुरुषाणामुपनयनाभावः ते सर्वे श्मशानसंस्तुताः इति। स्पष्टमिदमेतेन– यदिहापस्तम्बसूत्रे प्रपितामहादीत्यत्र न केवलं प्रपितामहमारभ्यावरा प्रपौत्रान्ता एव गृह्यन्ते, किन्तूर्ध्वपुरुषा अपीति। अत्रापरार्कोयथा—यस्य तु प्रपितामहादेरुपनयनं न स्मर्यते, तत्रार्थादेतेषां पुरुषाणामुपनेयत्वम्, ते सर्वे श्मशानवदशुचयः। इति। एवं वदतामपरार्ककृतां प्रपितामहादिपदेन शक्त्या नाधस्तनाः प्रपोत्रान्ताःपरिजिघृक्षिताः, किन्तु प्रपितामहपित्रादय एव। अयमभिसन्धिः-प्रपितामहादिपदस्य स्वजनकजनकत्वादिसम्बन्धेन पुरुषविशिष्ट-पुरुषार्थकतयाप्रपितामहादिपदेन प्रपितामहपित्रादीनामेव परिग्रहसंभवो नापरेषां प्रपौत्रादीनाम्। अयमत्र मदनरत्नापरार्कयोर्विशेः– यत् मदनरत्नकृता–प्रपितामहादिपदेना-र्वाचामूर्ध्वतनानां च ग्रहणमपरार्ककृता तूर्ध्वतनानामेग्रहणमिति, नत्वेतावताऽपरार्ककृताऽर्वाचां परित्यागो मन्यते, अर्थात्तु तद्ग्रहणं भवतीति तन्मतम्। सत्यपि चास्मिन् विशेषे शब्दतो फलतो विशेषस्तु न मतद्वयेऽपि वर्तते। सर्वथा तु त्रिपुरुषं पतितसावित्रीकाणामेव नोपनेयत्वम्, किन्तूर्ध्वततानां सर्वेषामपि। कातीयसूत्रस्याप्ययमेवाशयः। तत्र त्रिपदप्रयोगप्रयोजनं तु स्वल्पायाससाध्यप्रायश्चित्तसूचनेन भवत्येव। तत्र यद्यपि चतुर्थादिपुत्रस्य प्रायश्चित्तं
न कण्ठत उक्तम्, तथापि तद् गुरुणि गुरु लघुनि लघु इति न्यायेन धर्मज्ञैरेवोहितव्यमिति न काप्यनुपपत्तिः। व्यक्तं चैतत् हरदत्तवृत्तावपि। यत्तु केचनोक्तहरदत्तवृत्तेः प्रायश्चित्ताभावबोधन एव तात्पर्यम्–इति, तदिदं नोपपन्नम्। तथा सति हि प्रपितामहस्य पितरमारभ्यानुपनयने तु न प्रायश्चित्तमित्येव खलु वक्तुं योग्यम्, न तु तत्र प्रायश्चित्तं नोक्तम्, धर्मज्ञैरूहितव्यमेवं पूर्वेष्वपीति। तदिदं सिद्धम् – यत् व्रात्यानां सर्वेषामपि पुनरुपनयनयोग्यता वर्तते इति। अत्र तु परम्परातिक्रम इव वार्धक्यादिकमपि न प्रतिबन्धकमिति जातापत्यानामपि उपनयनादिकं संभवत्येव। अत्रेदं तत्त्वम् –चतुर्विधा हि व्रात्या भवन्ति– निन्दिताः, कनीयांसः, ज्येष्ठ।एतत्त्रितयव्यतिरिक्ता हीनाचाराश्चेति। तत्र निन्दिता अनध्याप्यानामध्यापकाः अयाज्ययाजकाः इत्यादयः। तेषां सस्कारस्ताण्डयमहाब्राह्मणे उत्कीर्तितः। कनीयांसश्च संस्कृतमातापितृजाः स्वात्मना पतिताः यथोचितकालेऽजातोपवीतादिसंस्कारास्तेषामपि प्रायश्चित्तप्रकारस्तत्र निर्दिष्टः। परे तु वृद्धव्रात्याः अजातोपनयनादिसंस्काराः सन्त एव ये वार्धक्यमुपगतास्तेषां संस्कारप्रकारोऽपि तत्रैवोक्तः– यथा - अथैष शमनीचमेढ्राणां स्तोमो ये ज्येष्ठास्सन्तो व्रात्यां प्रवसेयुस्त एतेन यजेरन् इति। अयमस्यार्थः– शमेन यौवनोपरमेण नीचमनुद्धतं मेढ्रेन्द्रियं येषां ते तथाविधाः- स्थाविर्याद्विनष्टवीर्याः तेषां स्तोमस्तैरनुष्ठेय इति। ततश्च ये ज्येष्ठा वृद्धतमास्सन्तोऽपि व्रात्यास्तेषामपि व्रात्यस्तोमाधिकारित्वं सिद्ध्यति। अत एव –हीना वा एते हीयन्ते ये व्रात्यां प्रवसन्ति, नहि ब्रह्मचर्यं चरन्ति, न कृषिं वाणिज्याम्, षोडशो वा एतत्स्तोम-
स्समाप्तुमर्हतीति जातापत्यानामपि वृद्धव्रात्यानां संस्कारविधिरुपपद्यते।
अत्र हि हीनपदेनासंस्कृतमातापितृजन्यत्वम् हीयन्ते इत्यनेन च तेषामुत्पादितापत्यत्वम्, प्रवसन्तीत्यनेन चिरं वयोऽतिक्रमेऽपि प्रायश्चित्तेन कालक्षेपयोग्यता, ब्रह्मचर्यं न चरन्ति इत्यादिना च प्राथमिकब्रह्मचर्योल्लङ्घनेन गृहस्थाश्रमस्वीकरणम्, बोध्यत इति न कोऽपि दोषः। तदिदं सिद्धं जातापत्यानामपि वृद्धानां व्रात्यस्तोमाधिकारिता। अस्यां च सत्यामिदं समालोचनीयं समापतितम्, यत् –व्रात्यस्तोमानन्तरं पूर्वपरिणीताः पत्न्यः किं त्याज्या उत पुनर्विवाहेन संस्कार्याः, आहोस्वित्तासामपि कश्चन शास्त्रोपदिष्टः प्रायश्चित्तविशेषः कर्तव्यः इति। अत्रदं मन्तव्यम्। क्षत्रियवैश्यस्त्रियः पुनर्विवाहेन संस्करणीयाः। व्यक्तंचैतत् शाकुन्तलोपाख्याने- यत् दुष्यन्तस्य क्षत्रियस्य प्रथमं मिथः प्रेमनिबन्धने रहःसम्बन्धे वृत्ते चिरं विलम्ब्यापि पुनर्वैवाहिको विधिरभूत्। युक्तं चैतत्—यतः स्त्रीणामुपनयनस्थाने विवाहं मनुरब्रवीदिति स्त्रीणामपि वृद्धानां व्रात्यस्तोमेन विवाहाख्योपनयनसंस्करणं योग्यम्। अयं भावः— स्त्रीणामपि पृथक् प्रायश्चित्तपूर्वकविवाहान्तरेणैव तेनैव भर्त्रा व्यवहारयोग्यता। अत्र च गतप्रत्यागतादिविषय इव दानवर्जमेव विवाहः कर्तव्य इति तु विशेषः। एतेनापत्यमपि व्याख्यातम् ; तस्यापि व्रात्यस्तोमेनैव शुद्धक्षत्रियत्वप्राप्तः। अत्रायं विशेषोऽनुसन्धेयः—यत् कनीयोज्येष्ठनिन्दित-व्रात्यानामेव सर्वेषां संस्कारयोग्यता, न तु हीनाचारव्रात्यानाम्। तेषां हि वृत्त्यन्तरस्वीकरणेन क्रमेण धर्मान्तरस्वीकरणेन प्रथमस्य शूद्रसमत्वे द्वितीयादीनां शूद्रत्वेपञ्चमस्यानिर्हरणीयत्वे च पर्यवसानात्। एतेन–आपस्तम्बका-
त्यायनवचने अपि यथाश्रुतार्थे अपि न विरुद्धे इति व्याख्यातम्। तयोर्हि वयमिदानीमुक्तव्रात्यपरत्वमेव योग्यं मन्यामहे इति केषांचन शंकापि–परास्ता; संकोचे प्रमाणाभावात्। एतेन– “यस्य वेदश्च वेदी च विच्छिद्येते त्रिपुरुषम्। स वै दुर्ब्राह्मणो ज्ञेयः” इति वचनेऽपि त्रिपदमुपलक्षणमेवेति सूचितम्। अन्यथा तत्रापि त्रिपुरुषमात्रविच्छेदस्यैव दौर्ब्राह्मण्यप्रयोजकत्वापत्त्या येषां पञ्चषपरंपरामध्ये वेदवेद्युभयविच्छेद दोषो वर्तते, तेषां प्रायश्चित्ताचरणपूर्वकं ज्योतिष्टोमाद्यधिकारो नास्तीति स्यात्। न चेष्टापत्तिः, यतः सर्वेऽपि याज्ञिकाः इदानीं दशपरंपराविच्छेदेऽपि सोमेन याजयन्त्येव। सर्वथा तु परम्पराविशेषमगृहीत्वा व्रात्यसंस्कारयोग्यता व्यवस्थापनीया, न तु तां गृहीत्वेतीदानींतनानां मराठेजातीयानां कायस्थानां कोमिटीजातींयानां गुर्जरवणिजां चान्येषां च तत्सजातीयानां बहुपरम्परामारभ्याकृतोपनयनानामपि व्रात्यसंस्कारेण पुनः शुद्धस्वजानिप्रवेशनं कर्तव्यमिति प्रतिभातीति।
अत्र वयं पश्यामः – यत् श्रीराममिश्रशास्त्रिणांस्वमतमेवात्र योग्यं स्वोकर्तुम्, न तु समर्थ्यमानमपि तच्छिष्यमतम्। श्रीराममिश्रशास्त्रिणामाशयस्तु संगृह्य तैरुपवर्णितोऽयमेव — यत् — आपस्तम्बीये यस्य प्रपितामहादीति तृतीयपर्याये द्वादशवर्षब्रह्मचर्यप्रायश्चित्त-मभिधायोपनयनमुक्तम्, तत उदकोपस्पर्शनानन्तरं गृह्यकर्मानुष्ठानौपयिकमन्त्र-मात्रा-ध्यापनमुक्तम्, न तु कृत्स्नवेदाध्यापनम्; कात्यायनेन तु त्रिपुरुषमारभ्यासंस्कृता-नामपत्येषु असंस्काराध्यापने उक्ते, आत्मसंश्चिकीर्षायां तु सर्वैनोऽपकर्षक-सव्रतव्रात्यस्तोमोऽभिहितः। ततश्च चतुर्थापत्यादाैकात्यायनापस्तम्बयोरुभयो-प्यसंस्कार्यताऽनुपेयता चाभिमता। अयं पुनर्विशेषः— यदापस्तम्बेन
द्वादशवर्षप्रायश्चित्तमुक्तम्, तच्च सर्वैनोऽपकर्षकव्रात्यस्तोमापेक्षयापकृष्टमिति तदनुष्ठानेन माणवकस्य गृह्यमन्त्रमात्राध्ययनाधिकारसंपत्तिर्न तु कृत्स्नवेदाध्ययनाधिकारावाप्तिः। व्रात्यस्तोमेन तु सर्वाधिकारसिद्धिरिति।
अत्र मते हि— यस्य प्रपितामहादि नानुस्मर्यत इत्यत्र आदिपदेनार्वाचामेव ग्रहणम्, नोर्ध्वतनानाम्। अत्र पक्षेऽनुकूला निबन्धाः —वीरमित्रोदयः, अपरार्कः, कातीयजयरामभाष्यम्, कातीयहरिहरभाष्यम्, इत्यादयः।
तत्र वीरमित्रोदयो यथाः— यस्य माणवकस्य प्रपितामहमारभ्य त्रयाणां पुरुषाणामुपनयनं नानुस्मर्यते, ते स्मशानसंस्तुताः, तत्र माणवकस्य द्वादशवार्षिक प्रायश्चित्तम्, पूर्वेषां तु पूर्वमेवोक्तम्। अथ गृह्यमन्त्राणामेवोपदेशनं नाध्यापनं कृत्स्त्रस्य वेदस्य। ततस्तत्कृतविवाहाद्य उत्पद्यते, तस्य द्वौ मासौ व्रतं चारयित्वोपनयनं कार्यम्, तदुत्पन्नस्य तु प्रकृतिवदुपनयनादि सर्वं कार्यम्, न प्रायश्चित्तमिति। अत्र हि प्रपितामहादीत्यत्रादिपदेनार्वाञ्च एव विवक्ष्यन्ते; अन्यथा हि त्रयाणां पुरुषाणामित्यसङ्गतं स्यात्। प्रपितामहादीति हि उपनयनं प्रति विशेषणम्, तथाच प्रपितामहमारभ्येति तदर्थः फलति। अत्र च प्रपितामहानन्तराणामुपनयनसम्बन्धिनां परामर्श एव नास्ति। तथाच वीरमित्रोदयकारसम्मतः पाठोऽत्र प्रपितामहादि नानुस्मर्यत इत्येव, न तु प्रपितामहादेरिति फलितम्। अत्र हि प्रपितामहमारभ्य त्रयः माणवकं विहाय प्रपितामहपितामहपितर एव प्रकृतत्वाद् गृह्यन्ते। ऊर्ध्वतनानां तु त्रयाणामेव नोपस्थितिः, सर्वेषामपीति त्रयाणामिति निर्देशोऽनुपपन्नः स्यात्। एतेन - प्रपितामहादीत्यत्र द्वादशतममारभ्य सर्वेषां ग्रहणमिति श्रीराममिश्रशा-
स्त्रिशिष्याणां मतमपि-परास्तम्; उक्तनिबन्धविरोधात्। अत एवहि – तत्र माणवकस्यैव द्वादशवार्षिकम्,पूर्वेषां तूक्तमिति वाक्यमुपपन्नं भवति ; अत्र हि पूर्वपदेन माणवकपूर्वतनाः पितृपितामहप्रपितामहा गृह्यन्त इत्यङ्गीकार एव पूर्वेषां तु प्रायश्चित्तमुक्तमित्युपपन्नं भवति। यतः पितृपितामहप्रपितामहानां माणवकपरित्यागे माणवकपितृ-पितामहत्वपर्यवसानात्, “यथा प्रथमेऽतिक्रमेऋतुरेवं संवसरः, प्रतिपुरुषं संख्याय संवत्सरान् यावन्तोऽनुपनीताः स्युरिति” प्रायश्चित्तविध्युक्तिवचनं सङ्गतं भवति, प्रपितामहपूर्वतनपरंपराग्रहणे तु तेषां पूर्वं प्रायश्चित्तं नोक्तमितीदं व्यवस्थापनमसङ्गतं स्यादिति सर्वविदितमिदम्। तथाच प्रपितामहपूर्वतनपरंपरानुपनयने प्रायश्चित्तविधिपरत्वं यस्य प्रपितामहादीत्यत्र-प्रपितामहादेरिति पाठोरीकरणेऽपि न युक्तमित्येव वीरमित्रोदयकारमतम्; अन्यथा पितृपितामहयोरुपनीतत्वेऽपि प्रपितामहमारभ्यानुपनीतत्वे द्वादशवार्षिकप्रायश्चित्ता-नुष्ठानावश्यकतापत्तिः। तथाच प्रपितामहपितामहपितृणामनुपनीतत्वे द्वादशवार्षिक-प्रायश्चित्तविधिपरमापस्तम्बवचनमित्येवात्र विवक्षितम्। तदिदं सिद्धम् यत् परंम्पराचतुष्टयानुपनीतत्वे व्रात्यसंस्कारयोग्यतेति सिद्धान्ते एव वीरमित्रोदयोऽनुकूल इति।
अत्र परंपराचतुष्टय एवानुपनीतत्व इत्यवधारणं विवक्ष्यते वा, नवेति विचारे तु सर्वं वाक्यं सावधारणमिति न्यायेन तद्विवक्ष्यते इति केचिन्मन्यन्ते, केचिच्च नेति।तत्र द्वितीयं मतं श्रीराममिश्रशास्त्रिरणाम्। वीरमित्रोदयादयो निबन्धास्सर्वेऽप्यत्रोदासीना एव वर्तन्ते। हरिहरभाष्ये तु नावधारणं विवक्षितमिति श्रीराम मिश्रशास्त्रिणां मतमेव पोष्यते, यतस्तत्र चतुर्थादीनां तूपनयनमात्रमिति
वर्णनावसरे आदिपदं प्रयुक्तम्, तथाचावधारणपक्षे प्रपौत्रान्तादीनां न व्रात्यसंस्कारः, तदभावपक्षे च तेषामपि व्रात्यसंस्कारः। इयान् विशेषः– यत् श्रीराममिश्रशास्त्रिणः व्रात्यस्तोमेन चतुर्थादीनां सर्वाधिकारं मन्यन्ते, वीरमित्रोदयहरिहरभाष्यादय-स्तूपनयनसंस्कारेण गृह्यमन्त्राधिकारमात्रमिति। संस्कृततत्पुत्रादीनां तु सर्वेष्वपि मतेषु शुद्धं ब्राह्मण्यादिकमिति तु समानम्। अत्र विधीनां यावद्वचनमेव प्रवृत्त्या प्रपितामहादीति पाठे, पाठान्तरे च प्रपितामहपित्रादिव्रात्यतीयामपि द्वादशवार्षिकमेव यदि विवक्षितम्, तर्हि तत्र प्रतिपुरुषमिति योजनेन द्वादशवार्षिकवृद्धिव्यवस्थापनमुज्ज्वलागतमसंगतं स्यात्, एवं प्रपितामहस्यपितुरनुपनीतत्वे तु प्रायश्चित्तमूहितव्यमिति तद्वचनमप्यसंगतं स्यात्। अतस्तदुपपत्त्यर्थं प्रपितामहादोत्यस्य पदस्योपलक्षणत्वे तात्पर्यमूरीक्रियते चेत्, प्रायश्चित्तानामप्युपलक्षणीयता स्यादिति अवधारणपक्षे चतुर्थादिव्रात्यत्वे द्वादशवार्षिकप्रायश्चित्तव्यवस्थाऽसङ्गतैव भवति।
एतेनापरार्कोऽपि व्याख्यातः। स यथाः - यस्य तु प्रपितामहादेरुपनयनं न स्मर्यते, तत्रार्थात्तेषामपि पुरुषाणामनुपनीतत्वम्, ते सर्वेश्मशानवदशुचयः इति। अत्रार्थात्तेषामनुपनीतत्वम्, इत्यत्र तेषांपदेन माणवक-पितृपितामहानां विवक्षैवयुक्ताः; यतस्तेषामिति प्रकृतानां तेषामेव ग्रहणं योग्यम्; अन्यथोर्ध्वतनानां ग्रहणे हि अर्थापत्तिप्रमाणस्यैवासंभवः। प्रपितामहमारभ्योपनयनास्मरणं हि स्वपितृपितामहयोरनुपनीतत्व एव यथोपपद्यते, न तथा प्रपितामहपितामहाद्यनुपनीतत्वे, प्रपितामहपितुरुपनीतत्वेऽपि प्रपितामहस्यानुपनीततीदशायां तदस्मरणोपपत्तेः। ततश्चार्थात्तेषामित्यत्र तच्छब्देन प्रपितामहोर्ध्वतनानामेवाग्रह्णात्
श्रीराममिश्रशास्त्रिशिष्याणां मतमुक्तवाक्यसंदर्भादिविरुद्धमेव। एतेन- अपरार्कानुगुणत्वं स्वीयसिद्धान्तस्य व्रात्यसंस्कारमीमांसायां यदुपपादितम् तदिदमपास्तम्। अपरार्कोऽप्ययं चतुर्थादि व्रात्यतायां प्रायश्चित्तव्यवस्थापन उदासीन एव वर्तते।
एतेन–कातीयजयरोमहरिहरभाष्येअपि — व्याख्याते। तत्र जयरामभाष्यं यथाः- त्रिपुषमिति। एतेषात्रयाणामपत्ये चतुर्थे पुरुषे कृतप्रायश्चित्ते केवलोपनयनाख्यसंस्कारो नाध्यापनादिः। तेषां त्रिपुरुषं पतितसावित्रीकाणां मध्ये संस्कारेप्सुः व्रात्यस्तोमनेष्ट्वा काममधीयीतेति। अथ हरिहरभाष्यं यथा— त्रिपुरुषं त्रीन् पुरुषान् यावत्, पतितसावित्रीकाः पितृपुत्रपौत्राःतेषां पुत्रे संस्कारः, न पुनः चतुर्थादीनाम्। तेषां चोपनीतानामपि अध्ययनं न भवति ; निषिद्धस्य पुनरनुज्ञापनं प्रतिप्रसव इति; उपनयनस्यैव प्रतिप्रंसवात्, इति। अत्र प्रथमभीष्ये स्पष्टं चतुर्थस्यैवोपनयनाख्यसंस्कारमात्रं भवतीति बोध्यते, एवं भाष्यान्तरेऽपि। इयान् विशेषः –यत् द्वितीयभाष्ये चतुर्थादीनामप्युपनयनमात्रं वर्तते इति विवेचितम्, प्रथमभाष्ये तु न तत्तथा विवेचितम्। अनेन चेदमेव सूच्यते – व्रात्यस्तोमे कृते चतुर्थस्येव पञ्चमादेरपि गृह्यकर्ममात्राधिकारः संभवतीति श्रीहरिहराचार्या मन्यन्ते, वीरमित्रोदयकारा अपि अस्य सिद्धान्तस्य न विरोधिनः, यतस्तेऽपि न प्रपितामहमारभ्य त्रयाणामनुपनीतत्व एव प्रायश्चित्तविशेषं मन्यन्ते, न तु प्रपितामहमारभ्यैव पुरुषत्रयम्। तथाच पञ्चमादिपरम्परायामपि अनुपनीतत्वेऽपि व्रात्यसंस्कारयोग्यता वर्तत एव। इयान् विशेषः- यत् उज्वलोक्तरीत्या प्रपितामहापितुरारभ्यानुपनीतत्वेऽपि पुरुषगणनया द्वादशवार्षिकाणां संख्याधिक्यकल्पनं योग्यम्। यथा
प्रपितामहपर्यन्तमनुपनीतत्वे एकं द्वादशवार्षिकम्, प्रपितामहपितृपर्यन्तमनुपनीतत्वे द्वादशवार्षिकद्वितयम्, एवं तदनन्तरतदनन्तरपर्यन्तमनुपनीतत्वे तत्त्त्रितयचतुष्टयादिकमिति।
एतेन– मदनरत्नमपि व्याख्यातम्; तद्यथाः—यस्य प्रपितामहादेरुपनयनं नास्ति, तथार्वाचामपि पुरुषाणामुपनयनाभावः, ते सर्वे श्मशानवदशुचयः इति। अत्र हि नोर्ध्वतनानां न वाऽर्वाचामेव, प्रथमे पितृपितामहयोरुपनीतत्वेऽपि प्रपितामहादेरनुपनीतत्वे प्रायश्चित्तापत्तिः, द्वितीये प्रपितामहपित्रादीनामनुपनीतत्वे प्रायश्चित्तानापत्तिरित्युभयं विवक्षितम्। अत्र प्रायश्चित्तेन साम्यम्। प्रतिपुरुषं संख्याय संवत्सरान् इत्यस्य योजनेन पूर्वोक्तरीत्या निर्वाहसंभवात् इति—कृतप्रायश्चित्तानां चतुर्थादीनामुपनयनमात्रयोग्यतावादे एव तस्यापि तात्पर्यमिति कल्पनं ह्यत्रापि योग्यमेव। यत्तु संस्काररत्नमालायाम्—यस्य प्रपितामहादीत्यस्य पाठस्य कृते यस्य पितामहादि नानुस्मर्यते इति पाठस्वीकरणपूर्वकम्— “यस्य माणवकस्य पितामहादि पितामहादारभ्य प्रपितामहः तस्य पिता पितामहप्रपितामहाद्या अनुपनीताः, स्वयं च यथाकालमनुपतीतस्ते तथाविधा माणवका श्मशानसंस्तुताः। अत्र पावमान्यादिभिरित्यनेन– प्रतिपुरुषं सख्याय संवत्सरानित्येतदपि द्रष्टव्यमिति व्याख्यातमुज्ज्वलाकृता, तथा यस्य पितुरारभ्य नानुस्मर्यते उपनयनं तत्र प्रायश्चित्तं नोक्तम् धर्मज्ञैरूहितव्यमिति व्याख्यातमुज्ज्वलाकृतेति च प्रतिपादितम्, तेन विवक्षितस्सारांशोऽयमेव– यत् –यदि स्वयमनुपनीतस्तर्हि ऋतुः– यदि पितैवानुपनीतः—संवत्सरमेकम्, यदि द्वौ पिता पितामहश्च ततो द्वेसंवत्सरे। अथ स्वयमप्यनुपनीतः, तर्हि त्रीन् संवत्सरान्, अथ पितामह-
मारभ्य त्रयाणामनुपनीतत्वे एक द्वादशवार्षिकादिकम्, पितुराररभ्यानुपनीतत्वेऽपि किंचिदधिकं प्रायश्चित्तमूहितव्यमिति। अत्र च मते पितुरुपनीतत्वेपि पितामहादेरनुपनीतत्वे एक द्वादशवार्षिकादिकम्, पितृपितामहयोरनुपनीतत्वे तु स्वस्योपनेयत्वे संवत्सरम्, पित्रादीनामुपनीतत्वे स्वस्यानुपनीतत्वे तु ऋतुः, पितुरारभ्यानुपनीतत्वे तु प्रायश्चित्तमूहनीयमिति बोधनेनेदमेव विशदीक्रियते –यत् पितामहमारभ्य प्रतिपुरुषं संख्याय द्वादशवार्षिकवृद्धिः कर्तव्या, यथा पितुरुपनीतत्वे पितामहस्यानुपनीतत्वे एकं द्वादशवार्षिकम्, पितामहप्रपितामहयोरनुपनीतत्वे द्वादशवार्षिकद्वयम् पितामहप्रपितामह-पितामहप्रपितामहानामनुपनीतत्वे तु द्वादशवार्षिकत्रितयमिति। तथाचेदानीं यदि कश्चन व्रात्यः संस्करणीयः, तर्हि तस्य पितरमारभ्य बहूनामनुपनीतत्वात् प्रायश्चित्तमपरं कल्पनीयम्, कल्पितेऽपि तस्मिन् तत्पुत्रस्य व्रात्यस्य द्वादशवार्षिकत्रयानुष्ठानम्, तत्पुत्रस्य द्वादशवार्षिकद्वयानुष्ठानम्, तत्पुत्रस्य द्वादशवार्षिकस्यैकस्यानुष्ठानम्, तत्पुत्रस्य तु यथाकालमुपनयनेन किमपि प्रायश्चित्तमिति फलति। तत्र च कल्पनीयं प्रायश्चित्तम्, पितामहमारभ्यानुपनीतत्व-निमित्तकद्वादशवार्षिक त्रितयादधिकमष्टाचत्वारिंशद्वर्षप्रायश्चित्तमेव कल्पयितुं योग्यम्, ततोऽधिकं वा। ततश्च यत्र केनापि निमित्तेन पित्राद्यनुपनीतत्वे स्वकाले उपनयनम्, यत्र पितृपितामहौ वाऽनुपनीतौ, यत्र पितृपितामहप्रपितामहा वाऽनुपनीताः, तत्र विनैव क्लेशं व्रात्यसंस्कारो भवितुमर्हति, यत्र तु पितृपितामहावुपनीतौ प्रपितामहोऽनुपनीतः, तथा पितोपनीतः पितामहादयोऽनुपनीतास्तत्रातिक्लेशसाध्यो व्रात्यसंस्कार इति स्थिते पितरमारभ्यवृद्धप्रपिता-महपर्यन्तमनुपनीतत्वे व्रात्यसंस्कारोऽसंभवदुक्तिक
इति किमु वक्तव्यमिति संस्काररत्नमालाशयोऽवगम्यते। अत्र यद्यपि आदिपदेनोर्ध्वतनानां ग्रणम्. एवमपि प्रपितामहमारभ्य त्रयाणामनुपनीतत्वे चतुर्थस्यैकं द्वादशवार्षिकम्, माणवकस्य चतुर्थस्याप्यनुपनीतत्वे स्वस्य कालातिक्रमे द्वादशवार्षिकद्वितयम्, पञ्चमस्यानुपनीतत्वे तत्त्त्रितयमित्यर्थतो न भेदः।
तदिदं सिद्धं यत् सर्वेऽपि निबन्धकाराः पितरमारभ्य वृद्धप्रपितामहपर्यन्तमनुपनीतत्वे द्वादशवार्षिक-वृद्धिमेवाभिप्रयन्तीति। अत्र यदि श्रीराममिश्रशास्त्रिणोऽपि द्वादशवार्षिकवृद्धया व्रात्यान् संस्करणीयान् मन्यन्ते, तर्हि नास्माकं तैस्साकं मतभेदोऽत्र वर्तते। इदमेवात्र तैरपि समालोचनीयम् —कियत्पर्यन्तं द्वादशवार्षिकवृद्धिः सम्पादयितुं शक्यत इति। अत्रेदमेव वयं पश्यामः–यच्चतुर्थे नास्ति निष्कृतिरिति वचनात् चतुर्गणद्वादशवार्षिकप्रायश्चित्ति-न्यूनप्रायश्चित्तपर्यन्तमेव सासम्पादयितुं शक्यते। व्यक्तं चैतत् उपरिष्टान्निरूपयिष्यते बहुतरनिबन्धसमालोचनपूर्वकम्। तथाच पितामहादीति संस्कारत्नमालादृतपाठे वृद्धप्रपितामहपर्यन्तमेवानुपनीतत्वे संस्कारयोग्यता, प्रपितामहादीति पाठे तु वृद्धप्रपितामहपितृपर्यन्तमनुपनीतत्वे सा। तथाच—चतुर्थस्य पञ्चमस्य वा माणवकस्य व्रात्यसंस्कारयोग्यतेत्येव सर्वनिबन्धसमाहृतः पक्षः। अत्र प्रपितामहादीत्यत्रादिपदेनार्वाचां ग्रहणमुतोर्ध्वतनानामुतोभयेषामिति विचारे मदनरत्नपक्ष एव सर्वेषामपि तात्पर्यमिति व्रात्यसंस्कारमीमांसाकारैरपि स्वीकृतमिति, यस्य पितेत्यस्यैकादशपरम्परापर्यन्तम्, यस्य प्रपितामहादीत्यस्य तदनन्तरसर्वपर्यन्तं च प्रवृत्तिरितिमतमसंभवदुक्तिकमेव। अस्मिन् मते न केवलं पुर्वोक्तनिबन्धादि-विरोधः, प्रपितामहपदस्य चतुर्थपरस्य द्वादशतमपरत्वे लक्षणादोषो-
ऽपि। गुरुणि गुरु लघुनि लघु इति न्यायो हि न चतुर्थाद्यनुपनीततायां द्वादशवार्षिक प्रायश्चित्तविधानेऽपि नात्रबाध्यते। यदि हि शास्त्रे कुत्रापि पञ्चमाद्यनुपनीतत्वेऽपि द्वादशवार्षिकन्यूनप्रायश्चित्तविधिरुपलभ्येत, तर्हि खलु चतुर्थाद्यनुपनीततायां चतुर्वर्षादिप्रायश्चित्तविधिकल्पनात् द्वादशवार्षिकप्रायश्चित्तस्य द्वादशतमानुपनीनतपुरुष-विषयत्वं कल्पनीयम्। न चैतदस्ति। एतेन - प्रतिपुरुषं संख्याय संवत्सारान् इत्यत्र संख्यायपदसार्थक्यमपि —व्याख्यातम्। तद्धि पदं पुरुषसंख्यया संवत्सरप्रायश्चित्तसंख्या-विधनार्थंप्रयुक्तमिति उभयसम्मतमिदम्। अत्र मतद्वयेऽपि यावन्तोऽनुपनीताः स्युः तावतः संवत्सरानित्यनेन सिद्धस्यैवार्थस्योपपादनात् स्वरूपकथनमेव प्रतिपुरुषं संख्यायेति। इयान् विशेषः–श्रीराममिश्रशास्त्रिशिष्यमते – प्रतिपुरुषमिति यस्य पितेति वाक्ये शब्दतोऽनिर्दिष्टपुरुषाणामपि ग्रहणम् ; मतान्तरे तु तद्वाक्ये शब्दतो निर्दिष्टनामेव त्रयाणां ग्रहणमिति। तत्र प्रथममते यत्रैकादशपुरुषपर्यन्तस्य यस्य पितेति वाक्ये ग्रहणम्, तत्रापि प्रतिपुरुषमित्यस्य नासंकोचेन प्रवृत्तिरिति समानमेव। एवं च सर्वत्वमाधिकारिकमिति न्यायेन प्रकृतानामेव त्रयाणामेकादशानां वा संख्यया संवत्सरसंख्याव्यवस्थापनस्य युक्तत्वात् यस्य पितेति वाक्ये च एकादशानामप्रकृतत्वात् कथं प्रतिपुरुषं संख्यायेत्यस्य शास्त्रिमहोदयशिष्यमते स्वारस्यम् ? एतेन – यावतः पदमपि –व्याख्यातम् ; तस्यापि एकस्य द्वयोः त्रयाणां वाऽनुपनीतत्वे इत्यर्थबोधन एव तात्पर्यात्। न चात्र गुरुणि गुरु लघुनि लघु इति न्याय एकान्ततः शास्त्रिमहाशयशिष्याणामपि संमतम्। अन्यथा त्रयोदशाद्यनुपनीतत्वे त्रयोदाशवत्सरादिप्रायश्चित्त-विधानापत्त्यात्रयोदशाद्यन-
पनीतत्वेऽपि द्वादशवार्षिकप्रायश्चित्तव्यवस्थापनमनुपपन्नमेव स्यात्। तथाच यस्य प्रपितामहादीतिवाक्येऽपि त्रिपुरुषपतितसावित्रीका एव विवक्ष्यन्त इत्येवाभ्युपगमनीयम्। अत एव हि त्रिपुरुषं पतितसावित्रीकाणामपत्ये-ऽसंस्कारो नाध्यापनं च। तेषां संस्कारेप्सुर्व्रात्यस्तोमेनेष्ट्वा काममधीयीरन्, व्यावहार्या भवन्तीति कातीयं सूत्रमुपपद्यते। अत्र त्रयाणां पुरुषाणां र्व्रात्यस्तोमेनाध्ययनादिसर्वव्यवहारयोग्यत्वम्, चतुर्थस्य तु संस्कारमात्रम्, नाध्यापनादिकमिति प्रतीयते। यत्तु व्रात्यसंस्कारमीमांसायां द्वादशवार्षिकप्रायश्चित्तैनोपनयन-संस्कारमात्रम्, व्रात्यस्तोमेन तु सर्वाधिकारसिद्धिरिति वर्णितम्, तत्र कातीयसूत्रे चतुर्थस्यापि व्रात्यस्तोमस्याविधानात् द्वादशवार्षिकव्रात्यस्तोमयोर्भि-न्नविषयत्वान्नोपपन्नम्।
अत्र सर्वत्र मते सर्वेषां व्रात्यानामकृतप्रायश्चित्तानां शूद्रसमत्वे मन्त्रपूर्वककर्मानधिकारे च न विवादः। अत्रानुसन्धेयानि स्मृतिवचनानीमान्येव। तानि यथा—
मनुः – अत ऊर्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः।
सावित्रीपतिता व्रात्या भवन्त्यार्यविगर्हिताः॥
न ह्यस्मिन् युज्यतेकर्म किञ्चिदामौञ्जीबन्धनात्।
नाभिव्याहारयेद् ब्रह्म स्वधानिनयनादृते॥
शूद्रेण हि समस्तस्माद्यावद्वेदेन जायते।
शूद्राणां तु सधर्माणः सर्वेऽपध्वंसजाः स्मृताः॥
नैतैरपूतैर्विधिवदापद्यपि हि कर्हिचित्।
ब्राह्मान् यौनांश्च सम्बन्धानाचरेद् ब्राह्मणैः सह॥
याज्ञवल्क्यः– अत उर्ध्वं पतन्त्येते सर्वधर्मबहिष्कृताः।
सावित्रीपतिता व्रात्या व्रात्यस्तोमादृते क्रतोः॥
शङ्खः–नातिवर्तेत सावित्री अत ऊर्ध्वं निवर्तते।
विज्ञातव्यास्त्रयोऽप्येते तथाकालमसंस्कृताः॥
सावित्रीपतिता व्रात्याः सर्वधर्मबहिष्कृताः।
यमः - सावित्रीपतिता व्रात्याः परिहार्याः प्रयत्नतः॥
आश्वलायनः—
अत ऊर्ध्वं पतन्त्येते द्विजत्वं प्राप्नुयुर्यदि।
मन्त्रकर्मपरिभ्रष्टा यास्यन्ति व्रात्यतामिह॥
नैनानुपनयेन्नाध्यापयेन्नैभिर्व्यवहरेयुरिति।
मन्त्रयोन्यर्थसम्बन्धस्तैर्न कार्यः कथञ्चन।
शिष्टेन धर्मनिष्ठेन शुभकर्म प्रयत्नतः॥
वसिष्ठः – न ह्यस्य विद्यते कर्म किञ्चिदामौञ्जोबन्धनात्।
वृत्या शूद्रसमस्तावद्यावद्वेदे न जायते॥
बोधायनः- नास्य कर्माणि यच्छन्ति किञ्चिदामौञ्जीबन्धनात्।
वृत्त्या शूद्रसमो ह्येष यावद्वेदे न जायते॥ इति॥
कृतप्रायश्चित्तानां तु त्रयाणां पुरुषाणां कृतप्रायश्चित्तचतुर्थोत्पन्नपञ्चमादीनां च सर्वाधिकारसिद्धिः, चतुर्थस्य परं संस्कारमात्रमिति केचित्। अन्ये तु सर्वेषां व्यवहार्यत्वमिति। अत्र प्रथमते आपस्तम्बसूत्रं कातीयसूत्रं च प्रमाणम्, इतरत्र तु प्रमाणं मृग्यम्। यत्तु पञ्चमादीनामपि उपनयनमात्रम्, नाध्यापनादिकमिति हरिहरभाष्यम्, तदिदं कृतप्रायश्चित्तोत्पन्नपञ्चमादिविषयमितिकेचित्। अन्ये तु कृतप्रायञ्चित्तचतुर्थपञ्चमादि-विषयमिति। तत्र च व्यवस्था पूर्वोद्धृतप्रमाणानुसारिणी पण्डितैः सुविज्ञेयैवेत्येतावन्मात्र-मत्रोपवर्ण्यते – यत् येषु प्रायश्चित्तविधिर्वर्तते, तेषु
केषांचन सर्वाधिकारसिद्धिः केषांचनोपनयनादिमात्रमिति। अधिकं वीरमित्रोदयादवगन्तव्यम्।
अत्र च शंका समुन्मिषति – यत् भिन्नभिन्नप्रायश्चित्तबोधकानामधो निर्दिश्यमानानां वचनानां कथमविरोधः, किं तत्र विकल्पः; उत व्यवस्थाविशेषः कोऽपीति। तानीमान्यत्रानुसन्धेयानि वाक्यानि–
यमः –सावित्री पतिता यस्य दश वर्षाणि पञ्च च।
सशिखं वपनं कृत्वा तत्र कुर्यात्समाहितम्॥
यमः – एकविंशतिरात्रं च पिबेत् प्रसृतियावकम्।
हविष्यं भोजयेच्चैव ब्राह्मणान् सप्त पञ्च वा॥
ततो यावकशुद्धस्य तस्योपनयनं स्मृतम्॥ इति॥
मनुः – येषां द्विजानां सावित्री नानूच्येत यथाविधि।
ताँश्चारयित्वा त्रीन् कृच्छ्रान् यथाविध्युपनाययेत्॥
आपस्तंबः–प्रतिक्रान्ते सावित्र्याः काले ऋतुंत्रैविद्यकम् ब्रह्मचर्यं चरेदथोपनयनम्; ततः संवत्सरमुदकोप-स्पर्शनमथाध्याप्यः।
वसिष्ठः–पतितसावित्रीक औद्दालकं व्रतं चरेत्, द्वौ मासौ यावकेन वर्तयेत् मासं पयसाऽर्धमासमामिक्षयाऽष्टरात्रं घृतेन त्रिरात्रमब्भक्षोऽहोरात्रमुपवासश्च। एवमश्वमेधावभृतं वा गच्छेत्, व्रात्यस्तोमेन वायजेतेति।
इदमत्र समाधानम्–सर्वेषां वचनानां गुरुणि गुरु लघुनि लघु इति न्यायेन व्यवस्था संभवत्येव। यथा यमवचनं बोडशाब्दे उपनयनविषयम्। एकविंशतिरात्रं चेति सप्तदशवर्षोपनयनविषयम्, एवमपराण्यप्यष्टादशोनविंशति-विंशत्येकविंशतिद्वाविंश-
तित्रयोविंशतिचतुर्विंशत्यादिवर्षोपनयनपराणि। अधिकं चात्रानुसन्धेयं वीरमित्रोदये व्यक्तम्। तथाचात्र न कोऽपि विरोधः।
एतेन – त्रिपुरुषं पतितसावित्रीकाणामित्यत्र त्रिपदमप्युपलक्षणमिति शंकापि परास्ता।सत्यं द्वादशवार्षिक-प्रायश्चित्तापेक्षया गुरुतरो व्रात्यस्तोमः, नहि तावता विना वचनं बहुपुरुषानुपनीततायामपि तत्प्रवृत्तिकल्पनं युक्तम्; अन्यथा व्रात्यस्तोमस्य माणवकमात्रस्य कालातिक्रमे त्रयोविंशादिवयस्युपनयनेऽनुष्ठेयत्वानापत्योक्तवीर-मित्रोदयविरोध आपद्यते। नहि वयमणि गुरुणि गुरु लघुनि लघु इति न्यायं न स्वीकुर्मः, किन्तु यत्र वचनेन विषयविशेषो निर्धारितस्तत्र तं नोरीकुर्मः। अत्र तु व्यवस्थाया वाचनिकत्वान्न विरोधः। व्रात्यस्तोमस्य गुरुतरस्यापि त्रयाणामेव कातीयवचनने विधानात् चतुर्थापत्यस्य तदादेर्वा न संस्कारो न वाऽध्यापनं न वा व्यवहार्यत्वमित्येव कातीयसूत्राशयः। अत एव कर्काचार्यैरत्र अपत्ये संस्कार इति अकारप्रश्लेषः कृत उपपद्यत इति केचित्। एतेन – तेषामपत्ये संस्कारो न अध्यापनं च नेति गदाधर वृत्तिरपि – व्याख्याता। अत्र च पक्षे आपस्तम्बवचनेन यस्य प्रपितामहादि नानुस्मर्यते इत्याकारकेरण विरोधः प्रतीयते, यतः चतुर्थापत्यस्यापि तत्र प्रायश्चित्तं विहितम्, तथापि संस्काररत्नमालादृतपाठेन तु यस्य पितामहादि नानुस्मर्यते इत्याकारकेण न विरोधः। यतस्तत्र पितुरारभ्यानुपनीतत्वे पूर्वोक्तरीत्या न प्रायश्चित्तादिकल्प्यनावसरः। वस्तुतस्तु –यस्य प्रपितामहादि नानुस्मर्यत इति पाठेऽपि चतुर्थस्यैव प्रायश्चित्तम्, न तु चतुर्थोत्पन्नस्य। तत्रापि संस्कारमात्रमेव, न वेदाध्ययनमिति खल्वापस्तम्बसूत्रेण विज्ञायते। अत एव – तेषामिच्छतां प्रायश्चित्तं द्वादशवर्षाणि
त्रैविद्यकं ब्रह्मचर्यं चरेदथोपनयनम्। तत उदकोपस्पर्शनमित्यादि विवेचनानन्तरम्–अथ गृहमेधोपदेशनमिति गृह्यमन्त्रोपदेशमात्र एवाधिकारः, न त्वाध्यापन इति – “नाध्यापनमित्यनेन प्रतिपादितमुपपद्यते। तथाच चतुर्थस्योपनयने गृह्यमन्त्रमात्राधिकारः चतुर्थोत्पन्नस्य तूपनयनमात्रम्, न गृह्यमन्त्रोपदेशनेप्यधिकारः, तदपत्यस्य तूपनयनाधिकारोऽपि न, इत्येवापस्तम्बाचार्यानमतः पन्था इति चतुर्थापत्यस्योपनयनमात्रं नाध्यापनमिति कातीयसिद्धान्तेन कोऽपि विरोधः। इदं–त्रिपुरुषंपतितसावित्रीकारणामपत्ये संस्कारो नाध्यापनञ्चचेत्यत्र संस्कार इति च्छेदानुसारि विवरणम्। इदमेव विवरणम् हरिहरसंमतम्। तदुक्तम्–तद्भाष्ये– ये पित्रादयस्त्रयः पतितसावित्रीकाः तेषामपत्ये संस्कारः उपनयनं भवति, न पुनश्चतुर्थादीनाम्; तेषामुपनीतानामपि अध्यापनं न भवति; उपनयनस्यैव प्रतिप्रसवादिति। अयमेव च पक्षो जयरामभाष्यसंमतोऽपि। सर्वथा तु श्रीहरहरादिभाष्यानुसरणे आपस्तम्बकात्यायनसूत्रयोरविरोधेनैकवाक्यतायाः संभवात्, चतुर्थापत्यादेरसंस्कार्यताया-मव्यवहार्यतायामेव च तात्पर्यस्योरीकरणीयत्वात् परम्पराचतुष्ट-यातिक्रमे व्रात्यसंस्कारयोग्यता नास्तीति सिद्धम्। एतेन –प्रपितामहस्य पितुरारभ्यानुपनीतत्वे तु प्रायश्चित्तं नोक्तम्, धर्मज्ञैरुहितव्यमित्युज्ज्वलावृत्तिरपि–व्याख्याता। अनया हि वृत्त्येदमेव विवक्ष्यते –यत् चतुर्थापत्यस्य द्वादशवार्षिकद्वयादिप्रायश्चित्तकल्पनम् कर्तुं योग्यम्, परं तु गृह्यमन्त्रोपदेशादिकं व्यवहारो वा न कर्तव्य इति। एवंचोज्जलाकाराणामपि चतुर्थापत्यस्योपनयनमात्रबोधने, उपनयनस्याप्यभावबोधन एव वा तात्पर्यान्न कोऽपि विराधः।
एतेन –आपस्तम्बकात्यायनवचनयोरेकवाक्यतैव न संभवति; भिन्नविषयत्वात्, कात्यायनो हि प्रायश्चित्ताननुष्ठान-दशायामनधिकार संस्काराध्ययनयोर्ब्रूते, आपस्तम्बस्तु प्रायश्चित्तानुष्ठानदशायां संस्काराधिकारितामुपयनानधिकारितां चेति व्रात्यसंस्कारमीमांसोक्तिरपि–परास्ता। तथाच यस्य प्रपितामहादि नानुस्मर्यते, यस्य त्रिपुरुषं नानुस्मर्यत इति चानर्थान्तरमेवेति प्रपितामहमारभ्य बहुपुरुषानुपनीततादशायामपि व्रात्यसंस्कारयोग्यताव्यवस्थापनं व्रात्यसंस्कार-मीमांसागतमनुपपन्नमेव। अन्यथा जात्या म्लेच्छानामपि कथं वा व्रात्यसंस्कारयोग्यतापत्तिः खण्डिता श्रीराममिश्रशस्त्रिभिरेव। जात्या म्लेच्छानां तु न व्रात्यसंस्कारयोग्यतेति तेषां मतमिति पूर्वमेव निरूपितम्। अत एव व्रात्यसंस्कारेण म० म० शिवदत्तशर्मणांमल्कानाशुद्धिव्यवस्था म०म० श्रीगिरिधरशर्मप्रभृतिभिरप्यनुमोदिता न सावसरा सञ्जाता। नहि म्लेच्छजातिरिति काचन जातिरस्ति, उपनयनादिसंस्कारायोग्याऽव्यवहार्यजातिविशेषा एव कालेन म्लेच्छतां यवनतां वा प्राप्ताः। ततश्च तेषां परं न व्रात्यसंस्कारायोग्यतेति सिद्धान्त इव चतुर्थापत्यादीनां संस्कारयोग्यतासिद्धान्तोऽप्यकामैरप्यभ्युपगमनीय एव। यथाहि आऽङ्गनागोपालबालं म्लेच्छशूद्रादिसंस्कारस्यानानु-भाविकत्वम्, एवं चतुर्थव्रात्यापत्यादीनामपि तत् समानमेव। अन्यथा हि संशयस्यैवानवसरादप्रसक्तप्रतिषेधाद्यापत्तिः। एतेन – यस्य प्रपितामहादीत्यादिपदमपि – व्यख्यातम्। आदिपदं ह्यत्र वृद्धप्रपितामहमारभ्या-नुपनीतत्वेऽपि शूद्रसाधारणहरिहरभाष्योक्तोपनयनमात्राधिकारः, अनन्तरं तु द्वादशवार्षिकावृत्तौ तस्याप्यभाव इत्यादिबोधनेन सार्थकमेव। अत्रापरमपि कल्पनीयं सूत्रकारो मन्यते इति
ज्ञायते – यत् प्रपितामहपर्यन्तमनुपनीतत्वे प्रपौत्रस्य गृह्यमन्त्रमात्तोपदेशनम्, तत्पुत्रस्य तु यथा सर्ववेदाध्ययनादिकम्, एवं वृद्ध प्रपितामहपर्यन्तमनुपनीतत्वे प्रपौपुत्रस्य गृह्यकर्ममात्राधिकारः तत्पुत्रस्य सर्ववेदाध्ययनादिकमिति। अनेन चेदमपि सूच्यते–द्वादशवार्षिकप्रायश्चित्तेन गृह्यकर्ममात्राधिकारः, तदधिकेनोपनयनमात्रम्, तदधिके तु तस्याप्यभाव इति। एतादृशे चातिगभीरे विषये धर्मतत्त्वमर्मज्ञाः पण्डितप्रवरा एव प्रमाणम्। तदिदं सिद्धम् –यत् म व्रात्यानां बहुपरम्परातिक्रमेऽपि संस्कारयोग्यतेति।
अथ वृद्धानामपि व्रात्यसंस्कारयोग्यता भवति वा न वेति विचारे त्वस्माकविदमेव प्रतिभाति – यत् ब्राह्मणानां सर्वास्वप्यवस्थासु व्रात्यसंस्कारयोग्यता भवति, न तथा क्षत्रियादीनामपि। अत्रानुसन्धेयानि वीरमित्रोदयवाक्यानीमान्येव। तानि यथा–एवं क्षत्रियवैश्ययोरपि द्वाविंशाच्चतुर्विंशादूर्ध्वंयथोक्तक्रमेणैवैतानि प्रायश्चित्तानि पादहान्या कल्पनीयानि। अत ऊर्ध्वं आतृतीयकालसमाप्तेर्व्रात्यस्तोम एव दक्षिणाधिक्यपक्षाश्रयणेन योजनीयः। तृतीयकालादूर्ध्वं गौणतमोऽपि कालो नास्तीति क्षत्रियवैश्ययोः पातित्यमेव, न ब्राह्मणस्य, न ब्राह्मणः पतनमृच्छतीति गौतमेन ब्राह्मणपक्षे तन्निषेधा।
जातापत्यानां संस्कृतानां पत्न्यपि संस्करणीयैवेति पक्ष एवास्माभिरपि शास्त्रमस्त्रपक्षपातिभिरूरीक्रियत इति नात्र मतभेदलेशोऽपि। एतेन – यस्यवेदश्च वेदी च विच्छिद्येते त्रिपुरुषम्। स वै दुर्ब्राह्मणो ज्ञेय इति वाक्यमपि व्याख्यातम्। दौर्ब्रा
ह्मण्येहि निमित्तं त्रिपुरुषं वेदवेद्युभयविच्छित्तिः, तत्र च हविरार्त्यधिकरणान्याये द्वित्वमिव त्रिपुरुषसम्बन्धोऽप्यविक्षित एव । तथा-
चैकपुरुषविच्छेद इव बहपुरुषविच्छेदोऽपि तत्र निमित्तमेवेति न काप्यनुपपत्तिः। प्रकृतस्थले तु त्रिपुरुषं पतितसावित्रोकापत्ये संस्कायतानिषेधबोधनात् संस्कारविधिवाक्ये एतदतिरिक्तस्योपादेयत्वमेव विवक्ष्यते इति चमसाध्वर्यून् वृणोते, स्वाध्यायोऽध्येतव्य इत्यादाविवोदेश्यविशेषणस्यापि विवक्षा वर्तते इति त्रिपुरुषमात्रपतितसावित्रीकाणामेव विवक्षेति न कोऽपि दोषः। अन्यथा–त्रिपदस्योपलक्षणत्वेऽपि यथा पञ्चमादिपुरुषापत्यस्या-संस्कार्यत्वमेवं प्रथमापत्यस्यापि तदापत्त्या महाननाश्वासः स्यात्। अकृतप्रायश्चित्तावस्थायाम-संस्कार्यत्वविवक्षणं तु नात्र संभवति; अत उर्ध्वं पतितसावित्रीका भवन्ति नैनानुपनयेयुर्नाध्यापयेयुर्नचैभिर्व्यवहरेयुरित्यनेन कृतार्थत्वात्पुनरुपादानमत्र निष्फलं स्यात्। तथा च त्रिपुरुषं पतितसावित्रीकाणां (त्रयाणां पतितसावित्रीकाणामिति यावत्) प्रायश्चित्ताभाव बोधन एव – “त्रिपुरुषं पतितसावित्रीकाणामपत्यऽसंस्कार इति सूत्रस्य तात्पर्यमूरीकर्तव्यम्। यथा चैवं सत्येव सर्वेषामेकवाक्यता, तथोपपादितमधस्तात्। तथाच व्रात्यानां पतितोपनीतबहुपरम्पराणां कथंचन तान्त्रिकदीक्षाधिकार एव संभवति, न तु बाह्यकर्माधिकारी नवा वेदाध्ययनाद्यधिकार इत्येव युक्तम्। इदं सर्वमभिप्रेत्यैव श्रीनागोजिभट्टैः स्वीये व्रात्यताप्रायश्चित्तनिर्णये उक्तम्–
अथाऽनेकपुरुषपतितसावित्रीकविषये आपस्तम्बेन निषिद्धस्योपनयनस्य प्रतिप्रसवं वदन् कियत्पर्यन्तं संस्कार्यतेत्याकांक्षायां नियममाह — त्रिपुरुषं पातितसावित्रीकाणामपत्ये संस्कारो नाध्यापनञ्च’। त्रिपुरुषमिति “संख्या वंश्येन” इत्यव्ययीभावः। पतितसावित्रीकाणां वंश्यानां त्रयाणां पुरुषाणां यदपत्यञ्चतुर्थं तत्र संस्कार
उपनयनं भवति, अध्यापनन्तु नेति तदर्थः। चस्त्वर्थे। तदधिकपतितसावित्रीकस्य तु न। तदाह हरिहरः –प्रपितामहस्य पितरमारभ्य चतुर्णां पातितसावित्रीकाणामपत्ये तु न संस्कारः; पूर्वनिषेधात्’ इति। ‘यस्य प्रपितामहादि’ इति प्रक्रम्य उपनयनं नाध्याप्य इत्यापस्तम्बोक्तरस्यायमेवार्थ उचितः। यत्तु कात्यायनसूत्रव्याख्यात्रा गदाधरेण –तेषामपत्ये संस्कारो नाध्यापनञ्च न’ इत्येवमेतत् सूत्रं व्याख्यातम्। हरिहरस्तु मृग्य इति चोक्तम्, तदनेन परास्तम्, पूर्वनिषेधेनैव सिद्धेश्च तस्य च बहुदोषश्रवणाद् बहुपुरुष पतितसावित्रीकविषयत्वेऽपि संस्काराभावेऽध्यापनाप्रसक्त्या नाध्यापनमित्यस्य वैयर्थ्यापत्तेश्च।
न च चतुरादिपुरुषपर्यन्तं पतितसावित्रीकाणामपत्ये त्रिपुरुषं पातितसावित्रीकाणा-मपत्यत्वमप्यस्तीति वाच्यम् व्यापकसंख्याव्यवहारविषये व्याप्यसंख्याव्यवहाराभावात्। अत एव न हि त्रिपुत्रो द्विपुत्रव्यपदेशत्वं लभत इति ‘अ इ उण्’ सूत्रे भाष्ये उक्तम्। अन्यथाऽत्र बहुपुरुषमित्येव वदेत्। एवञ्चैतदेकवाक्यतया ‘यस्य प्रपितामहादि’ इत्यापस्तम्बस्मृतिरपि त्रिपुरुषं पतितसावित्रीकविषयैव। किच्च यदुवंशे नोपनयनं स्मर्यत इत्येव सिद्धेयस्य प्रपितामहादीति विशिष्योक्तिर्निष्फला। अत एव धर्मशास्त्रैस्तु विहितमिति वाक्ये हरदत्तेन तु नाऽरुचिर्बोधिता। तद्वीजन्तूक्तमेव, स्मृत्योरेकमूलकल्पनालाघवानुरोधेनैकार्थ्ये सम्भवति भिन्नार्थत्वमन्याय्यमिति सर्वधर्मशास्त्रनिबन्धकृतां सिद्धान्तात्।
अभ्युपेत्याऽपि ब्रमः– पूर्वे इत्यत्र ‘कपिञ्जलाधिकरण’ न्यायेन त्रयाणामेव ग्रहणापत्तौ सप्तमस्योपनयनलाभेऽपि तदूर्ध्वस्याष्टमादेरुपनयने मानाभावः। किञ्चायं प्रायश्चित्तविधिर्येषां वंश उपनयनं
स्मर्यते तद्विषये एव, न तु तदस्मरणे।यस्य प्रपितामहादीत्येतद्विषये पावमान्यादिभिः स्नानमित्यर्थके प्रतिपुरुषं संख्याय संवत्सरानित्येतदत्रापि द्रष्टव्यमिति हरदत्तोक्तेः। तदस्मरणे तद्गणनाया असम्भवात्। किञ्च—
जात्युत्कर्षो युगे ज्ञेयः सप्तमे पञ्चमेऽपि वा।
व्यत्यये कर्मणां साम्यं पूर्वंवच्चाधरोत्तरम्॥
इति याज्ञवल्क्यस्मृतिविरोधान्न पञ्चमादीनामुपयनम्। तथा हि सा स्मृतिरित्थं विज्ञानेश्वरेण व्याख्याता। जातयो मूर्द्धावसिक्ताद्यास्तासामुत्कर्षो ब्राह्मणत्वादिजातिप्राप्तिः। युगे जन्मनि पञ्चमे, अपिशब्दात् षष्ठेबोद्धव्यः। व्यवस्थितश्चायं विकल्पः। व्यवस्था चेत्थम् – ब्राह्मणेन शूद्रायामुत्पादिता निषादी, सा ब्राह्मणेनोढा दुहितरं काञ्चिज्जनयति। सापि ब्राह्मणेनोढाऽन्यामित्यनेन प्रकारेण षष्ठी सप्तमं ब्रह्मणं जनयति। एवं ब्राह्मणेन वैश्यायामुत्पादिता षष्ठी साऽप्यनेन प्रकारेण पञ्चमी षष्ठं ब्राह्मणं जनयति। ब्राह्मणेन क्षत्रियायामुत्पादिता मूर्द्धावसिक्ता साप्यनेन प्रकारेण चतुर्थी पञ्चमं ब्राह्मणं जनयति। एवं शूद्रायां क्षत्रियजोग्रा क्षत्रियेणोढा क्रमेण पञ्चमं क्षत्रियं जनयति। वैश्यायां क्षत्रियजा माहिष्या क्षत्रियोढा क्रमेण पञ्चमं क्षत्रियं जनयति। तथा करणी वश्योढा पञ्चमं वैश्यमित्याद्यू्ह्यम्। तथा कर्मणां वृत्त्यर्थानां व्यत्यये विपर्यासे सप्तमषष्ठपञ्चमेषु तत्साम्यम्। तथा हि ब्राह्मणो मुख्यया वृत्याऽजीवन् क्षात्रेण कर्मणा जीवेदित्यनुकल्पः। तेनाऽप्यजीवन् वैश्यवृत्या तयाप्यजीवन् शूद्रवृत्या। एवं क्षत्रियस्य वैश्यशद्रवृत्ती अनुकल्पः। वैश्यस्य शद्रवृत्तिरिति। एवं कर्मणां विपर्य्यये सति यद्यापद्विमोक्षेऽपि तां वत्तिं न त्यजति,
तदा सप्तमदिजन्मनि साम्यं यस्य हीनवर्णस्य कर्मणा जीवति तत्समानजातिः। तद्यथा ब्राह्मणः शूद्रवृत्या जीवन् यदि पुत्रमुत्पादयति, सोऽपि तयैव वृत्या जीवन् पुत्रान्तरमित्येवं परम्परायां सप्तमं शूद्रमेव जनयति। वैश्यवृत्या जीवन् षष्ठे वैश्यम्। क्षत्रियवृत्या जीवन् पञ्चमे क्षत्रियम्। क्षत्रियोऽपि शूद्रवृत्या जीवन् षष्ठे शूद्रम्। वैश्यवृत्या जीवन् पञ्चमे वैश्यम्, शद्रवृत्या जीवन् तामपरित्यजन् पुत्रपरम्परया तदत्यागे पञ्चमं शूद्रं जनयति। पूर्ववच्चाधरोत्तरमपि वर्णसङ्करा अनुलामाः प्रतिलोमाश्च दर्शिताः। तत्र मूर्द्धावसिक्तायां क्षत्रियवैश्यशूद्रैरुत्पादिता अम्बष्ठायां वैश्यशद्राभ्यां निषाद्यां शूद्रेणात्पादिता अधराः प्रतिलोमजा इत्यर्थः। एवं मूर्द्धावसिक्ताम्बष्ठीनिषादीषु ब्राह्मणोत्पादिता माहिष्योग्र्योर्ब्राह्मण-क्षत्रियाभ्यां करण्यां ब्राह्मणक्षत्रियवैश्यैरुत्पादिता उत्तरेऽनुलोमजा इत्यर्थः।
वैश्याशूद्र्योस्तु राजन्यान्माहिष्यौग्रौ
सुतौ स्मृतौ।
वैश्यात्तु उपनयाभावादेव ब्राह्मणादिवृत्तिहीनतय। शूद्रवृत्त्यैव जीवनच्चेति दोषाधिक्यादस्य पञ्चमे शूद्रताप्राप्त्योपनयनप्राप्त्यभावात्। एवमेवंविधस्य क्षत्रियस्य तुर्ये एव शूद्रता, न हि शूद्रस्य प्रायश्चित्तसहस्रैरप्युपनयनार्हता भवति। न हि शूद्रवृत्या जीवतो ब्राह्मणस्यापि सप्तममपत्यमुपनयनार्हमिति कस्यापि सम्मतम्। ‘कर्मणां व्यत्यये साम्यम्’ इत्यस्य तज्जातिधर्मप्राप्त्यर्थातिदेशरूपत्वात्। एतन्मूलकमेव कात्यायनेन ब्राह्मणविषये चतुर्थस्यैवोपनयनमुक्तम्, न पञ्चमादीनाम्। एवञ्च तुल्यन्यायात् क्षत्रियस्य तादृशस्य तृतीयस्यैवोपनयनन्नचतुर्थादेः, वैश्यस्य द्वितीयस्यैव न तृतीयादेः। वस्तुतः क्षत्रियवैश्ययोः प्रथमव्रात्यपुत्रयोरपि नोपनय-
नहतेति प्रागुक्तम्। एतन्मूलकमेव हरदत्तेनापि पञ्चमादेः प्रायश्चित्तं नोक्तमित्युक्तम्, तदनर्हत्वादिति तदाशयः।एवं जातापत्यानां पितृपितामहप्रपितामहादीनामपि नोपनयनम्, ‘यस्य प्रपितामहादि’ इत्यापस्तम्बोक्तेः, ‘पतितसावित्रीकाणामपत्य’ इति कात्यायनोक्तंश्च। किञ्चोपनयनं संस्कार आश्रमप्राप्तेर्द्वारंयथाधानं संस्कारो यज्ञद्वारम्। एवञ्च प्रागेव गृहस्थाश्रमप्राप्तौ तदनुष्ठानवैफल्यं तत्प्राप्याश्रमाभावादिति दिक्। ‘त्रिपुरुषं पतितसावित्रीकाणामपत्ये संस्कारो नाध्यापनञ्च’ इति सूत्रान्तरम्। ’ तेषां संस्कारेप्सुर्व्रात्यस्तोमेनेष्ट्वा काममधीयीरन् व्यवहार्या भवन्ति, इति सूत्रम्। तदित्थं व्याचक्षते केचित् –सचतुर्थस्य संस्कारः कथं कर्तव्यस्तत्राह –तेषां संस्कारेप्सुर्व्रात्यस्तोमेनेष्ट्वा संस्कारं कुर्यादिति शेषः। संस्कार उपनयनम्, तेषां पतितसावित्रीकाणां वंश्यानां त्रयाणां पुरुषाणां यान्यपत्यानि तेषां मध्ये यः संस्कारेप्सुः संस्कारं प्राप्तुकामः स व्रात्यस्तोमेनेष्ट्वा गुरुणऽऽत्मानं संस्कुर्यादित्यर्थः।
ननु व्रात्यस्तोमैर्यक्ष्यमाणः पृथगग्नीनाधाय यशोपकरणानि चेष्ट्वा ‘य एतेषामध्ययने नाभिकान्ततमः स्यादभिजनेन तद्भावेऽति भोगलाभेन तस्य गार्हपत्ये दीक्षेरन् भक्षांश्चाऽनुभक्षयेयुः’ इति छन्दोगगृह्ये उक्तत्वेनोपनयनात्प्राक् कथन्तत्राधिकारः ? इष्ट्वा सम्पाद्य अभिक्रान्ततमोऽतिशयेन उत्कृष्ट इति यावत्, भोगो धनम् अत्यन्तं क्रूरकर्मा यस्तेषां स वा गृहपतिः’ इति कात्यायनसूत्रे उक्ते व्रात्यस्तोमाथमेवाऽऽधानेन पृथगग्नीनुत्पाद्य विद्यया धनेन कुलेन क्रूरकर्मणा चासम्पन्नस्य गृहपतेरग्निषु त्रयाणां त्रयाणां स्वाग्नीन् निचाय्यङ्कृत्वा व्रात्यस्तोमदीक्षाङ्कुर्युः, इतरे च व्रात्यास्तु गृहपतेर्भक्षमनु सोमादि भक्षयेयुरिति तदर्थः। मानवेऽपि
सूत्रे अग्नीनाधाय गृहपतेरग्निषु संयुज्प यजेरन्निति। पूर्वोक्ताः पतितसावित्रीकाः व्रात्याः। अन्येऽपि द्विजातिकर्महीना विहिताकर्तारो निषिद्धकर्तारः क्रूरकर्माणो व्रात्याः। (१) एतद्धि ताण्डिब्राह्मणे स्पष्टम्। अयञ्च गणयज्ञो गणत्रयस्त्रिंशताम्। ‘त्रयस्त्रिंशद्देवान्प्राध्वर्यन्’ इति ताण्डिश्रुतेः(?)। ‘तेषां ते प्रत्येकं त्रयस्त्रिंशतं त्रयस्त्रिंशतं गा दक्षिणा हृद्याः ऋत्विग्भ्यः’ (१) इति ताण्डिसूत्रम्। ‘ता न्व्रात्यानन्ये ब्राह्मणा ऋत्विजो भूत्वा याजयेयुः’ इति देवयाज्ञिकः। ‘इमा गावो व्रात्येभ्यो देयाः येऽस्मा एतद्ददति तस्मिन्नेव मृजान्नवन्तीति साधारण्योक्तेः’ (?) इति ताण्डिब्राह्मणभाष्यम्। एवञ्चान्ये व्रात्या एव तत्र ऋविज इति लभ्यते। तत्कथमस्मिन्ननुपनीतानामधिकार इति चेन्न; वचनादेव तेषामप्यधिकारात्। तथाच कात्यायनगृह्यकारिकाकृत्—
अथार्यस्थानधीतस्य स्यादाधानं तदर्थवत् ।
इति। इदमनुपेतस्याप्युपलक्षणम्। तदुपयोग्यध्ययनमपि तेषां भवति; त्रिवर्षस्य पित्रादिक्रियोपयोगि मन्त्राध्ययनवत्। निषादस्य च अवकीर्णिनो गर्द्दभेज्यो(?) लौकिके वैतानिकेषु सर्वमित्यधिकारे कात्यायनोक्तेरिति देवयाज्ञिकः। कर्कस्तु तेषां लौकिके शावे(?) च व्रात्यस्तोमाद्वा अपत्नीकस्यानधीतवेदस्याकृताधानस्यावकीर्णी पशुश्च तद्वदिति षाष्ठन्यायेन वचनादधिकारो लौकिकाग्नौ च स इति वृद्धशङ्करभट्टाश्च। कात्यायनस्मृताववकीर्णिनो गर्द्दभेज्येति। अनाहिताग्नि-कर्तृककर्मोपलक्षणमिति तदाशयः। युक्तञ्चैतत् स्मृतेर्न्यायसिद्धार्थत्वलाभात्। ते च व्रात्यस्तोमाश्चत्वा-रस्तेषामितिकर्तव्यतास्तदधिकारिणश्च कात्यायनसूत्रछन्दोगसूत्रताण्डिब्राह्मणेषु स्पष्टाः। संस्कृतानामपि तेषां पूर्वं निषिद्धमध्ययनं पुनराह– ‘काममधीयीरन्
व्यवहार्य्या भवन्ति” इति। वचनादिति। व्रात्यस्तोमेनेत्यनुवर्तते तेनैव पुनरिष्ट्वा कामं वेदमधीयीरन्नित्यर्थः। व्रात्यस्तोमेन पतिता अपि व्यवहार्या भवन्ति, अध्यापनादियोग्या भवन्तीति। वचनात् श्रुतेरित्यर्थः। ‘एतेन पाप्मनो विनिर्मुच्यते इति व्रात्यस्तोमं प्रक्रम्य ताण्डिब्राह्मणोक्तेः ‘वात्यस्तोमेन यजेत पुनस्सवनमायाति’ इति बौधायनगौतमादि धृतश्श्रुतेश्च। तत ऊर्ध्वं भुञ्जीतापि चैतान् कामं याजयेत्’ इति छान्दोगसूत्राच्चेति वदन्ति; तदयुक्तम्; याज्ञवल्क्येन प्रथमेऽतिक्रमे एव तदुक्तेः। अत एव विज्ञानेश्वरेण याज्ञवल्क्यमन्वादिवचांस्युदाहृत्य पित्रादीनामनुपेतत्वे त्वापस्तम्ब आहेत्युक्तम्। तस्मादापस्तम्बोक्तप्रायञ्चित्तेनोपनयनसंस्कारः, अध्ययनाधिकार एव तु त्रात्यस्तोमेन। सूत्रार्थस्त्वेवं तेषांपतितसावित्रीकापत्यानां मध्ये ये संस्कारेप्सवो वेदाध्ययनजसंस्कारप्राप्तिकामा इति। जातावेकवचनम्। व्रात्यस्तोमेनेष्ट्वा काममधीयीरन् इत्यर्थः। शिष्टः प्राग्वदिति। इतरे तु सावित्रीपतितसंज्ञकत्वं व्रात्यसंज्ञकत्वञ्च षोडशाद्यूर्ध्वमनाचरिताऽऽपस्तम्बोक्तव्रतानां जातोपनयनानामेव ।
अत ऊर्ध्वं पतन्त्येते सर्वधर्मबहिष्कृताः।
सावित्रीपतिता व्रात्याः—
इति याज्ञवल्क्यवाक्ये अत ऊर्ध्वमापस्तम्बोक्तप्रायश्चित्तानुष्ठानं विना संस्कृता अपि ते व्रात्यस्तोमानुष्ठानं विना सावित्रीपतितसंज्ञा व्रात्यसंज्ञाश्च। अत एव सर्वधर्मबहिष्कृता इत्यर्थः। सावित्रीपतिता इत्यस्य स्वकालात्पतिता सावित्रीयेषामित्यर्थः। आहिताग्न्यादित्वात्परनिपातः पतितशब्दस्य। अत्रैवार्थे पतितसावित्रीका इत्यपि साधु।अत एव मनुवाक्ये–
अत ऊर्ध्वं पतन्त्येते यथाकालमसंस्कृताः।
सावित्रीपतिता व्रात्या सर्वकर्मविगर्हिताः॥
इत्यत्र यथाकालमित्युक्तिः। तेनाऽयथाकालं संस्कृता इति लभ्यते। अत एवकथमप्युपनेत्रभावेन कालातिपातकृतव्रात्यतायां निबन्धोदाहृते मनुविष्णुवाक्ये–
येषां द्विजानां गायत्री नानूच्येत यथाविधि।
तांश्चारयित्वा त्रीन्कृच्छ्रान् यथाविध्युपनाययेत्।
इत्यस्मिन् उभयत्रापि यथाविधीत्युक्तम्। तत्र विधिश्च शास्त्रोक्तकालिकत्वरूपः पूर्वार्द्धे। तेनाकाले उक्तेत्यर्थलाभः। उत्तरार्द्धे यथाविधीत्यस्य पूर्वतनोपनयनस्याऽशास्त्रीयत्वात् पुनर्मुख्योपनयनविध्युक्तप्रकारेणेत्यर्थः। अत एव ‘यस्य पिता पितामह इत्यनुपेतौ’ इति सूत्रे इत्यनुपेतावित्युक्तमितिः प्रकारे, उक्तकालिकत्वेन प्रकारेणानुपनीतावित्यर्थः। तेनाकाले षोडशाद्यूर्ध्वप्रकृतप्रायश्चित्तावुपेतौ इत्यर्थलाभः। अत्र सूत्रेऽतिक्रान्ते सावित्र्या ते ब्रह्महसंज्ञका इत्यर्थः । अत एव ‘यस्य प्रपितामहादि’ इति सूत्रे स्वयञ्च यथाकालमनुपेत इत्युज्वलायां व्याख्यातम् । युक्तञ्चैतत्, अन्यथा त्रैवर्णिकस्य त्रयाणामाश्रमाणां क्रमिकत्वेन वेदाध्ययनफलकब्रह्मचर्याश्रमस्योपनयनं विनाऽसम्भवेन तत्संस्कारं विना ब्राह्मणत्वाब्राह्मणत्वाद्यनभिव्यक्त्याविवाहसम्भवेन पुत्राद्युत्पत्तेरेवासंभवात्। यस्यां कस्याञ्चित्पुत्राद्युत्पत्तौतु तत्र त्रैवर्णिकत्वसन्देह एव। अत एवोपनयनान्तरं ब्रह्मचर्यं सर्वेषां समानमित्यापस्तम्बः। ‘सर्वेषां गृहस्थवानप्रस्थयतीनाम्; तं विना कस्याप्याश्रमस्याप्रवृत्तेः’ इति हरदत्तः।
बोधायनोऽपि–
नास्य कर्माणि कुर्वन्ति किञ्चिदामौ
ञ्जबन्धनात्।
वृत्त्या शूद्रसमो ह्येष यावद्वेदैर्नजायते॥
इति। अत एव–
वेदं व्रतानि वा पारं नीत्वा ह्यु भयमेव वा।
अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियमुद्वहेत्॥
इति याज्ञवल्क्येन ब्रह्मचर्याश्रमानन्तरमेव विवाह उक्तः। ब्रह्मचर्याश्रमपरिग्रहश्च उपनयनं विना नेति ततः प्राग्विवाहाप्रसक्तिः। अविप्लुतब्रह्मचर्यः अस्खलितब्रह्मचर्यः। तत्स्खलने तु तत्स्खलननिमित्तप्रायश्चित्तपूर्वमेव विवाहः। मनुरपि–
गुरुणानुमतः स्नात्वा समावृत्तो यथाविधि।
उद्वहेत द्विजो भार्यां सवर्णां लक्षणान्विताम्॥
तथा–
ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः।
एते गृहस्थप्रभवाश्चत्वारः पृथगाश्रमाः॥
सर्वेऽपि क्रमशस्त्वेते यथाशास्त्रं निषेविताः।
यथोक्तकारिणं विप्रं नयन्ति परमाङ्गतिम्॥
इति। गृहस्थप्रभवत्वं तदुपजीवित्वम्। अश्वस्तनवृत्त्यादेगृहस्थस्यापि गृहस्थोपजीवित्वाच्चतुर्णान्तद्विशेषणम्। नच गार्हस्थ्यमाचार्यकुलं मौनं वानप्रस्थमिति गार्हस्थ्योत्तरं ब्रह्मचर्याश्रमोक्तेर्विरोधः, तस्योद्देश्यमात्रे तात्पर्येण क्रमे तात्पर्याभावात्। अत एव तदग्नेतेषु सर्वेषु यथोपदेशमव्यग्रो वर्तमानः क्षेमं गच्छतीत्युक्तम्। तत्र यथोपदेशमित्यस्य मन्वाद्युक्तक्रमोपदेशमनतिक्रम्येत्यर्थः। तथा च दक्षः–
त्रयाणामानुलोम्यं स्यात्प्रातिलोम्यं न विद्यते।
प्रातिलोम्येन यो याति न तस्मात्पापकृन्तरः॥
इति प्राह। त्रयाणामिति ब्रह्मचर्योत्तरेषाङ्ग्रहणम्। ब्रह्मचर्यस्य तु सर्वेषां समानत्वेनेत्यावश्यकत्वान्न ग्रहणम्। यद्वात्रयाणां ब्रह्मचारिगृहस्थवानप्रस्थानामानुलोम्यं क्रम एव न लगतु, पूर्वपूर्वानुष्टानं विनोत्तरोत्तरानुष्ठानात्, तदाह– ‘प्रातिलोम्यन्न विद्यते’ इति। चतुर्थस्य संन्यासस्य तु न नियमः। यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेत् गृहाद्वा वनाद्वेति जाबालश्रुतेरित्यर्थः। कात्यायनवाक्येऽपि पातितसावित्रीकाणामपत्ये संस्कार उपनयनं भवति आपस्तम्बोक्तं प्रायश्चित्तपूर्वकम्, नाध्यापनन्तु इत्यर्थः; एकद्विपुरुषपतितसावित्रीकविषये तदीयस्यैवाऽनुष्ठेयत्वात्। तेषां मध्ये यः कश्चिन्माणवको वेदाध्यायनकृतसंस्कारं प्राप्तुमिच्छुर्भवति। जातावेकवचनम्। ‘ते व्रात्यस्तोमेनेष्ट्वा काममधीयीरन्, व्रात्यस्तोमयष्टारो व्यवहार्य्या भवन्ति’ इति। वचनात् श्रुतेरित्यर्थः। यस्य तूपनयनमेव नास्ति तस्य कदाचिदुपनीतत्वभ्रमेण विवाहेऽपि तदपत्ये न प्रायश्चित्तप्रवृत्तिर्नापि संस्कारः; त्रैवर्णिकत्वह्वानेः, असंस्कृतमातापितृजत्वात्। किञ्च ‘व्यत्यये कर्मणां साम्यम्’ इति सकलब्राह्मणसंस्कारवतां वृत्तिमात्रेण समस्य शद्रतोक्ता, तेन न्यायेनासंस्कृतजन्यस्य द्वितीयस्यैव शद्रवृत्तिर्युक्ता, अत एव मनुना व्रात्योत्पन्नस्य प्रतिलोमसङ्करेषु कथनं विना प्रायश्चित्तम्। अतिक्रान्ते काले उपनयनवतां सर्वधर्मबहिष्कृता इतिस्मृत्या सकलद्विजातिकर्महान्या शद्रवृत्तेरेव प्राप्त्या च पञ्चमस्य शद्रतैव। एतन्मूलकमेव कात्यायनापस्तम्बाभ्यां चतुर्थस्यैवोपनयनमुक्तं न पञ्चमादीनामित्याहुः। एवञ्चेदृशविप्राणामप्युपनयनाभावस्सिद्धः। अत एव “ऐन्द्राज्ञं पुनरुत्सृष्टमालभेत य आतृतीयात् पुरुषात् सोमं न पिबति” आश्विनं धूम्रललाममालभेत यो दुर्ब्राह्मणः सोमं
पिपासेत्’ इति श्रुतिश्चतुर्थपुरुषस्यैव प्रायश्चित्तेन सोमपानमाह– पञ्चमादेरधिकप्रायश्चित्तानुक्तेः। गोभिलोऽपि–
सोमेन यक्ष्यमाणस्य यस्य पित्रादयस्त्रयः।
नेजिरे सोमयागेन स स्याद्विच्छिन्नसोमकः॥
आलमेत स ऐन्द्राग्नमशीर्णावयवं पशुम्।
यस्य वेदश्च वेदी च विच्छेद्येते त्रिपुरुषम्॥
स वैदुर्ब्राह्मणो नाम यश्चैव वृषलीपतिः।
आलभेताश्विनं धूम्रललामं स त्वजं पशुम्॥
इति। अत्र दुर्ब्राह्मण इति ब्राह्मणपदोपादानादीदृशान्यवर्णस्य सोमाभाव एवेति बोधितम् । कार्ष्णजिनिः–
अनाहिताग्नौ
पित्रादौ यक्ष्यमाणः सुतो यदि।
स हि व्रात्येन पशुना यजेन्निष्काममेव तु॥
इति। तत्र पित्रादावित्यस्य पितृपितामहप्रपितामहेष्वित्यर्थः। अधिकृतस्यानाहिताग्नित्वे गोवधोक्तव्रतचतुष्टयं वत्सरादूर्ध्वमापदि शक्त्यपेक्षया योजनीयम्, यदि मानवं त्रैमासिकमिति मिताक्षरा।
वत्सरादर्वाक्तुकार्ष्णजिनिः–
काले त्वाधाय कर्माणि कुर्याद्विप्रो विधानतः।
तदकुर्वंस्त्रिरात्रेणमासि मासि विशुद्ध्यति॥
तथा–
कृतदारो गृहे ज्येष्ठो यो नादध्यादुपासनम्।
चान्द्रायणञ्चरेद्वर्षं प्रतिमासमहोपि च॥
इति। द्विषुरुषं सोमपीथिनोप्यैन्द्राग्न एवोक्तः कात्यायनेन। ‘ऐन्द्राग्नम्पुनरुत्सृष्टमालभ्य द्विपुरुषाः सोमपीथिनः’ इति। द्विपुरुषाः सोमपीथिनो यजमानस्य तमालभ्य सोमो भवतीत्यर्थस्तथाशा-
खान्तरे श्रवणात् इति व्याख्यातारः; यस्य पिता पितामहो वा सोमपीथी स ऐन्द्राग्नमिति शाखान्तरे पाठात्।
एतेन –चौखाम्बाप्रकाशितव्रात्यप्रायश्चित्तनिर्णयोऽपि –व्याख्यातः। स यथा–
अथ कलौ क्षत्रियपदव्यवहार्याणां दशविंशतिपुरुषपर्य्यन्तं स्मर्यमाणोपनयनाभावानां तदग्रेऽप्यस्मर्यमाणोपनयनानां संस्कारे न वेति सन्देहे निर्णयाय व्रात्यताप्रायश्चित्तनिर्णयः क्रियते।
तत्राऽऽपस्तम्बः– ‘आषोडशात् ब्राह्मणस्य नात्यय आद्वाविंशात्वत्रियस्या च चतुर्विंशाद्वैश्यस्य’। आङभित्रिधौ। अत्ययोऽतिक्रमः, प्रकरणादुपनयनस्येति गम्यते। इदं चाष्टवर्षत्वादावपि ब्रह्मचर्यव्रतासमर्थान्प्रत्यनुकल्पविधानम्। यथा व्रतेषु समर्थः स्यात्तावत्कालंप्रतिक्षा। पूर्वमेव सामर्थ्ये सति अष्टवर्षाद्यतिक्रमे वक्ष्यमाणं प्रायश्चित्तं कात्यायनोक्तं वा ‘कालातिक्रमे नियतवत्’ इति। षोडशाद्यूर्ध्वमपि किञ्चित्कालमसमर्थानां पश्चात्सामर्थ्ये प्रायश्चित्तं भवत्येव। तदाह— ‘अतिक्रान्ते सावित्र्याः काले ऋतु त्रविद्यकं ब्रह्मचर्यं चरेत्’ त्रैविद्यकं वेदत्रयसम्बन्धि। अग्निसेवाऽध्ययनगुरुशुश्रूषातिरिक्तं सर्वं ब्रह्मचारिधर्मं कुर्यात्। तत्र ऋतुमिति कालविधानम्, तेन ऋत्वारम्भे प्रायश्चित्तारम्भः। एवञ्च प्रतिवेदमृतुमिति ऋतुत्रयं तत्। ‘अथोपनयनं’ ततः संवत्सरमुदकोपस्पर्शनम्’ । उपनयनादारभ्य संवत्सरपर्यन्तं त्रिषवणं स्नानं पावमान्यादिभिः; अशक्तस्य यथाशक्ति। ‘अथाध्याप्य’ इति। अत्रैव वसिष्ठोक्तमुद्दालकत्रतं शङ्खोक्तंगोदानसहितं चान्द्रायणं द्रष्टव्यम्। एतयोः सपादनवधेनवः। एवं यममन्वाद्युक्तमपि। अत्रैव विषये शक्त्यशक्तिकालाधिक्यन्यूनत्वालस्य देशविप्लवोपनेत्र-भावादिपर्यालो-
चनीयानि, तानि च मिताक्षरादीस्पष्टानि। अथ यस्य पिता पितामह इत्यनुपेतौ स्यातां ते ब्रह्महसंस्तुताः’। यस्य माणवकस्य जातावेकवचनम्। ते माणवकाः ब्रह्महण इत्येवं संस्तुताः कथिताः, तेन ब्रह्महसमीप इव तत्समीपेऽध्ययननिषेधः। ‘तेषामभ्यागमनं भोजनं विवाहमिति वर्जयेत्’। अभ्यागमनं प्रत्युत्थानादि, स्वरक्षाद्यर्थं तत्समीपगमनं च। भोजनमुद्यतमपि त्याज्यं तस्याऽत्याज्यताया उक्तत्वेऽपि। विवाहश्च तादृशकन्याया अपि पुंसश्च वर्ज्य। ‘तेषामिच्छतां प्रायश्चित्तम्। तेषां माणवकानाम्। इच्छतामित्यनेन बलात्कारो नेति सूचयति । यथा प्रथमेऽतिक्रमे ऋतुरेवं संवत्सरः’। प्रतिवेदं प्रतिपुरुषं च संवत्सर इत्यर्थः। एवं चैकैकस्य त्र्यब्दं वेदत्रयार्थं ब्रह्मचर्यं, पितर्येवानुपनीतेऽब्दद्वयम्, पितामहेऽपि तादृशे त्वब्दत्रयम्॥
‘अथोपनयनं’ यत उदकोपस्पर्शनं प्रतिपुरुषं सङ्ख्याय सवत्सरान्यावन्तोऽनुपेताः स्युः’। यदि पितैवाऽनुपेतस्ततः संवत्सरमेकम्। अथ पितामहोऽपि ततो द्वौ। अथ स्वयमपि संवत्सरानिति। एतद् व्रतविषयेऽपि योज्यम्। तत्र स्नाने मन्त्रा ‘यदन्तियच्च दूरके’ इत्यादि सप्त पावमान्यः। ‘येन देवाः पवित्रेण’ इति यज्ञपवित्रम्। “कया नश्चित्र” इति सामपवित्रम्। ‘हंसः शुचिषदि’ त्याङ्गिरसमिति। व्याहृतय एव ताः। अथाध्याप्यः। अत्र यस्येत्युक्तेर्माणवकस्यैव प्रायश्चित्तपूर्वमुपनयनादि न पित्रादेरिति बोध्यम्॥
अथ यस्य प्रपितामहादि नानुस्मर्यत उपनयनं ते श्मशानसंस्तुतास्तेषामभ्यागमनं भोजनं विवाहमिति च वर्जयेत्तेषामिच्छतां प्रायश्चित्तं द्वादशवर्षाणि त्रैविद्यकं ब्रह्मचर्यं चरेदथोपनयनं तत उदकोपस्पर्शनं पावमान्यादिभिरथ गृहमेधोपदेशनं नाध्यापनम्–
इति। एतच्चेत्थं व्याख्यातमुज्ज्वलायां हरदत्तेन - प्रपितामहादि प्रपितामहादारभ्य प्रपितामहः पितामहः पिता स्वयं च यथाकालमनुपेतास्ते श्मशानसदृशा इति तत्सन्निधौ नाध्ययनम्। अत्रापि प्रतिपुरुषं सङ्ख्याय संवत्सरानिति द्रष्टव्यमिति। गृहमेधो गार्हस्थ्यम्। कृत्स्त्रस्य वेदस्य नाध्यापनं गृह्यमन्त्राणां तु भवतीति। अनेन चेकैकस्य प्रतिवेदं द्वादशाब्दमिति षड्त्रिंशब्दमिति द्रष्टव्यम्। ‘ततो यो निर्वर्तते तस्य संस्कारो यथा प्रथमेऽतिक्रमे त्रैविद्यकं ब्रह्मचर्यं चरेत्’। अथाध्याप्य इत्यर्थः। ‘तत ऊर्ध्वं प्रकृतिवत्’ यथाप्राप्तमुपनयनं कार्यमित्यर्थः। एवमेवैषा स्मृतिः पराशरीये माधवेन व्याख्याता। यत्तु ‘यस्य प्रपितामहादी’ति सूत्रे प्रपितामहादीनामिति पाठकल्पनं तत्त्वसङ्गतमेव; हरदत्तर्माधवादिविरोधात्, अध्येतृसम्प्रदायविरोधाच्च। यत्तु केनचित् ग्रन्थकृता तदनुसारिणाऽन्येन च ग्रन्थकृता प्रपितामहादारभ्य विनिगमनाविरहेण पूर्वे अर्वाञ्चश्चेति पूर्वे उत्तरे चेति व्याख्यातम्। अत एवोज्ज्वलायां हरदत्तेनोक्तं –‘यस्य प्रपितामहस्य पितुरारभ्य नाऽनुस्मर्यत उपनयनं तत्र प्रायश्चित्तं नोक्तमित्युक्त्वा धर्मज्ञैर्विहितमेवं पूर्वेषु इति’। तस्यार्थः- धर्मज्ञैस्तच्छास्त्रनिबन्धकारैरुक्तरीत्या स्मृतिं व्याख्याय तत्रापि प्रायश्चितं विहितमिति, तत्तुच्छम्, कात्यायनस्मृतिविरोधात्। तथा हि तेन-‘आषोडशाद् ब्राह्मणस्योऽनतीतः कालो भवति, आद्वाविंशोद्राजन्यस्याचतुर्विंशाद्वैश्यस्य, अत ऊर्ध्वं पतितसावित्रीका भवन्ति, नैनानुपनयेयुर्नाध्यापयेयुर्न चैभिर्व्यवहरेयुः’ इति। अत ऊर्ध्वमित्यस्य मन्वादिविहितप्रायश्चित्त-पूर्वकमुपनयनाभाव इति शेषः। पतितसावित्रिका इत्यस्य ते तदपत्यपरस्परा च, तथाऽनुपेता इति शेषः। तादृशेषु सर्वकर्मनिषेधो नैना
नित्यादिनोक्तः। तत्रोपनयननिषेधकालाभावप्राप्तोपनयनाभावस्यैवानुवादः अष्टवर्षादिकालाभावेन तत्राप्राप्तेः। ‘अष्टवर्षं ब्राह्मणमुपनयीत’ इति श्रुतिवाक्यमिति सुदर्शनकृते आपस्तम्बगृह्यभष्ये स्पष्टम्। कैश्चिदतिक्रान्तनिषेधैरुपनयनादावपि न तदुत्तरोः क्रियाः कार्या इत्यर्थः, नैनानित्यादिना बहुदोषश्रवणात्। अनेकपुरुषाणां पतितसावित्रीकविषयो निषेधः सर्वथा त्याज्यत्वबोधना-योपनयननिषेधेन सिद्धेप्यन्यकथनम्(?), ‘तेषामभ्यागमनं विवाहं वर्जये’दित्यापस्तम्बोक्ताविव। अयमेव कात्यायनस्मृतौ व्यवहारपदार्थः। तत आह ‘कालातिक्रमे नियतवत्’। गर्भाधानाद्युपनयनान्तकर्मणां कालातिक्रमे, नियतवत् नित्यवत् नित्येषु यद्विहितं तद्वदनादिष्टं प्रायश्चित्तं महाव्याहृतिहोमाख्यं सर्वप्रायश्चित्तरूपं कृत्वा गर्भाधानाद्युपनयनान्तानि कार्याणि। इदं चाऽष्टवर्षादिरूपमुख्योपनयन-कालातिक्रमे बोध्यमत्यल्पत्वात्। षोडशादिरूपगौणकालस्याऽप्यत्यये तु – ‘अतिक्रान्ते सावित्र्याः काले’ इत्यादिनापस्तम्बाद्युक्तं द्रष्टव्यम् ॥
अथाऽनेक पुरुषपतितसावित्रीकविषये प्रतिप्रसवमाह –‘त्रिपुरुषं पतितसावित्रीकाणामपत्ये संस्कारो नाध्यापनं च’। एषामपत्ये चतुर्थे। प्रपितामहमारभ्य चतुर्णां पतितसावित्रीकत्वे तदपत्ये तु न संस्कारः पूर्वनिषेधादिति हरिहरः। ‘यस्य प्रपितामहादी’ति सूत्रे ‘उपनयनं नाध्याप्य’ इत्यापस्तम्बोक्त्याऽस्याऽयमेवार्थ उचितः। यत्तु कात्यायनसूत्रव्याख्यात्रा गदाधरेण तेषामपत्ये संस्कारोनाध्यापनं च नेत्येतत्सूत्रं व्याख्यातम्, हरिहरस्तु मृग्य इत्युक्तं च, तदेतेन परास्तम्, अन्यथा पूर्वनिषेधेनैव सिद्धेस्तद्वैयर्थ्यापत्तेः। च बहुदोषश्रवणादापस्तम्बैकवाक्यतया बहुपुरुषं यावत् पतित-
सावित्रीकविषयक एव, स नाऽऽद्यातिक्रमविषय इत्युक्तम्। एते चैतदेकवाक्यतया, यस्य प्रपितामहादीत्या-पस्तम्बस्मृतिरपि त्रिपुरुषं पतितसावित्रीकविषयैव। अत एव धर्मशास्त्रैस्तु विहितेऽत्र वाक्ये हरदत्तेन तुनाऽरुचिर्बोधिता। तद्बीजं तूक्तमेव। स्मृत्योरेकमूलकल्पनालाघवानुरोधेनैकार्थत्वे सम्भवति भिन्नार्थत्वमन्याय्यमिति सर्वशास्त्रनिबन्धकृतां सिद्धान्तात्। अभ्युपेत्यापि ब्रूमः- पूर्वेषु इत्यत्र ‘कपिञ्चलाधिकरण’न्यायेन त्रयाणामेव ग्रहणापत्तौ सप्तमस्योपनयनलाभे तदूर्ध्वस्याऽष्टमादेरुपनयने मानाभावः। किं चाऽ
यं प्रायश्चित्तविधिर्येषां वंशे उपनयनं स्मर्यते, तद्विषय एव, न तु तदस्मरणे। ‘यस्य प्रपितामहादी’ति सूत्रस्थे ‘पावमन्यादिभिः स्नान’ मिति प्रतीके ‘प्रतिपुरुषं सङ्ख्याय संवत्सरा’नित्येतदत्रापि द्रष्टव्यमिति हरदत्तोक्तेः, तदस्मरणे तद्गणनासम्भवोदिति दिक्॥
स च चतुर्थस्य संस्कारः कथं कर्तव्यस्तत्राह कात्यायनः– ‘तेषां संस्कारप्सुर्वात्यस्तोमेनेष्ट्वा’। संस्कारं कुर्यादिति शेषः। तेषां त्रिपुरुषं यावत् पतितसावित्रीकाणां यान्यपत्यानि तेषां मध्ये यः संस्कारेप्सुः संस्कारं प्राप्तुकामः स व्रात्यस्तोमेनोपनेतृद्वारा दृष्ट्वा गुरुद्वाराऽऽत्मानं संस्कुर्यादित्यर्थः। तेषां निषिद्धमप्यध्ययनं पुनराह – ‘काममधीयीरन् व्यवहार्या भवन्तीति वचना’दिति। व्रात्यस्तोमेनेष्ट्वाऽधीयोरन् वेदमिति शेषः। व्रात्यस्तोमेन पतिता अपि व्यवहार्या भवन्ति अध्ययनादिकर्मयोग्या भवन्ति इति वचनात् श्रुतेरित्यर्थः। तथा च गौतमीये–‘यथैतदयाज्ययाजनम्, अभयभक्षणम्, अवन्द्यवन्दनम्, शिष्टस्याऽक्रिया, प्रतिषिद्धसेवन’ मिति पापान्युक्त्वा प्रायश्चित्तं कुर्यात्, ‘न कुर्यादिति मीमांसते’ न कुर्या-
दित्याहुः; न हि कर्म क्षीयते, कुर्यादित्यपरे, पुनः स्तोमेनेष्ट्वा सवनमायान्तीति विज्ञायते। ‘व्रात्यस्तोमैश्चेष्ट्वा तरति सव पाप्मान’ मिति पूर्वसूत्रे नाध्यापनं चेत्युक्तेरापस्तम्बसूत्रोऽपि ‘यस्य प्रपितामहादी’ ति उपक्रम्य ‘उपनयनं नाध्यापन’ मित्यापस्तम्बोक्तेश्च संस्कारमात्रेणाऽपाऽध्ययनस्थाऽप्युक्तत्वात्। व्रात्यस्तो मेनेष्ट्वेत्यनुवत्त्यावाक्यभेदेन व्याख्यातः। ईदृशे विषये व्रात्यस्तोमापस्तम्बोक्तप्रायश्चित्तयोर्विकल्पो बोध्यः। अत्रत्यं हरिहरभाष्यमपि पोषपूरणायैव व्याख्येयम्। एवं च तादृशक्षत्रियाणामुपनयनाभावः सिद्धः – इति।
यत्तु जयसिंहसंपादिते व्रात्यशुद्धिसंग्रहे–‘अषोडशाद्वर्षात्ब्राह्मणस्थ नातीतः कालो भवत्याद्वाविंशाद्राजन्यस्या-चतुर्विंशाद्वैश्यस्यात ऊर्ध्वं पतितसावित्रीका भवन्ति। नैनानुपनयेयुर्नाध्यापयेयुर्न याजयेयुर्न चैभिर्व्यवहरेयुः। कालातिक्रमे नियतवत्त्रिपुरुषं पतितसावित्रीकाणामपत्येऽसंस्कारो नाध्यापनञ्च। तेषां संस्कारेप्सुर्व्रात्यस्तोमेनेष्ट्वा काममधीयीरन्व्यवहार्या भवन्तीति वचनात्’इति पारस्करसूत्रम्॥
अथापस्तम्बधर्मसूत्रम् –‘आषोडशाद् ब्राह्मणस्यानत्यय आद्वाविंशात्क्षत्रियस्याचतुर्विंशाद्वैश्यस्य यथा व्रतेषु समर्थः स्यात्तानि वक्ष्यामः’। अतिक्रान्ते सावित्र्याः काले ऋतुं त्रैविद्यकं ब्रह्मचर्यञ्चरेत्। अथोपनयनम्। ततः संवत्सरमुदकोपस्पर्शनम्। अथाध्याप्यः। अथ यस्य पिता- पितामह इत्यनुपेतौ स्याताम्, ते ब्रह्महसंस्तुताः, तेषामभ्यागमनम्भोजनं विवाहमिति वर्जयेत्। तेषामिच्छताम्प्रायश्चित्तम्। यथा प्रथमेऽतिक्रमे ऋतुरेवं वत्सरः। अथोपनयनम्, तत उदकोपस्पर्शनं प्रतिपुरुषं संख्याय संवत्सरान् यावन्तोऽ-
नुपेताः स्युः सप्तभिः पावमानीभिः ‘यदन्ति यच्च दूरके’ इत्येताभिर्यजुः पवित्रेण सामपवित्रेणाङ्गिरसेनेति। अपि वा व्याहृतिभिः। अथाध्याप्यः। अथ यस्य प्रपितामहादीनां नाऽनुस्मर्यत उपनयनं ते श्मशानसंस्तुताः। तेषामभ्यागमनम्भोजनं विवाहमिति च वर्जयेत्। तेषामिच्छताम्प्रायश्चित्तं द्वादशवर्षाणि त्रैविद्यकं ब्रह्म वर्यञ्चरेत्। अथोपनयनम्। तत उदकोपस्पर्शनं पात्रमान्यादिभिः। अथ गृहमेधोपदेशनं नाध्यापनम्, ततो यो निर्वर्त्यते तस्य संस्कारो यथा प्रथमेऽतिक्रमे । तत ऊर्ध्वं प्रकृतिवदिति॥
याज्ञवक्लये प्रथमेऽध्याये ब्रह्मचर्यप्रकरणे–
आषोडशादाद्वाविंशाच्चतुर्विंशाच्च वत्सरात्।
ब्रह्मक्षत्त्रविशाङ्काल औ
पनायनिकः स्मृतः॥
अत ऊर्ध्वं पतन्त्येते सर्वधर्मबहिष्कृताः ।
सावित्रीपतिता त्रात्या व्रात्यस्तोमादृते क्रतोः॥ इति।
मनौ द्वितीयाध्याये–
अषोडशाद् ब्राह्मणस्य सावित्री नातिवर्तते।
आद्वाविंशात् क्षत्त्रबन्धोराचतुर्विंशतेर्विशः॥
अत ऊर्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः।
सावित्रीपतिता व्रात्या भवन्त्यार्यविगर्हिताः॥
नैतैरपूतैर्विधिवदापद्यपि हि कर्हि चित्।
ब्राह्मान् यौनांश्च सम्बन्धानाचरेद् ब्राह्मणः सह। इति॥
यमः -
सावित्री पतिता यस्य दश वर्षाणि पञ्च च।
सशिखं वपनङ्कृत्वा व्रतं कुर्यात्समाहितः॥
एकविंशतिरात्रञ्च पिबेत्प्रसृतियावकम्।
.
हविषा भोजयेच्चै व ब्राह्मणान् सप्त पञ्च च॥
ततो यावकशुद्धस्य तस्योपनयनं स्मृतम्। इति।
वसिष्ठः – ‘पतितसावित्रीक उद्दालकव्रतञ्चरेत्। द्वौ मासौ
यावकेन वर्तयेत्, मासं पयसा, पक्षमामिक्षया, अष्टरात्रं घृतेन, षड्रात्रमयाचितेन, त्रिरात्रमब्भक्षोऽहोरात्रमुपवसेत्। अश्वमेधावभृथङ्गच्छेत्, व्रात्यस्तोमेन वा यजेद्वा यजेत्’ इति॥
मनावेकादशे-
येषां द्विजानां सावित्री नानूच्येत यथाविधि।
तांश्चारयित्वात्रीन्कृच्छ्रान्यथाविध्युपनाययेत्॥ इति॥
अत्राषोडशादित्याङ् यदि मर्यादायान्तर्हि षोडशमारभ्य पतितसावित्रीकत्वम्; यद्यभिविधौ, तहि सप्तदशमारभ्य तत्संपद्यते। तत्र यमवचने ‘दश वर्षाणि पञ्च च’ इति निर्देशात्– आषोडशादित्यादौ मर्यादैवाङोच्यते, नाभिविधिरिति केचित्। परे तु यमवचनमिदन्न पतितसावित्रीकप्रायश्चित्तपरं येनाऽऽषोडशादित्यादावाङ् मर्यादायां स्यात्, किन्तु यथाकालमुपनीतस्य तदूर्ध्वङ्ग हितामापन्नस्यानापन्नस्य वा देवान्मानुषोद्वाऽपराधात् पञ्चदशवर्षपर्यन्तं सावित्री पतिता यस्य, सन्ध्यावन्दनादित्यागो यस्य तस्येदं यावकव्रतं पुनरुपनयनञ्च, अत्र पतितसावित्रीकइति समासादरात्। ‘अष्टवर्षं ब्राह्मणमुपनयीत,एकादशे राजन्यम्, द्वादशे वैश्यम्’ इति निर्देशात्, मुख्यकालाद्द्विगुणकालपर्यन्त-ङ्गौ
णकालत्वनिरूपणात्, तत्राऽवध्याङ एव प्रतीतेर्मर्यादार्थकत्वाप्रतीतेश्च। तथा च षोडशादिवर्षोर्ध्वं पतितसावित्रीकत्वं भवतीत्यर्थः। नैनानिति निन्दार्थवादः। कालातिक्रम इत्यादि प्रायश्चित्तपरम्। कालातिक्रमे सञ्जातोपनयनसंस्कारस्य गृहिणोऽगृहिणो वा सन्ध्यावन्द-
नादीनां बहुकालमतिक्रमे सति नियतवत्स्मृतिषु नियमितं प्रायश्चित्तमिव प्रकृतेऽपि प्रायश्चित्तम्। तत्र यमवचनं पञ्चदशवर्षपर्यन्तं सावित्र्या उपनयनोत्तरप्रवृत्ताया लोपे यावकव्रतोपनयनपरम्, तथैवेहापि पतितसावित्रीकस्य बालकस्योपनयनं यावकव्रतपूर्वकं विज्ञयम्। एवं पितुरप्यनुपनयने त्रिगुणं यावकव्रतङ्कार्यम्। पितामहस्याप्यनुपनयने षङ्गुणं यावकव्रतङ्कार्यम्। केवलयावकव्रतस्य बालकगतस्यैकर्तुब्रह्मचर्यसमत्वात्। तस्य चैकब्रह्मचर्यस्य ‘यस्य पिता पितामह इत्यनुपेतौ स्याताम्’ इत्युपक्रम्य ‘यथा प्रथमे ऋतुरेवं वत्सरः’ इति एकर्तुव्रतस्य षाड्गुण्यविधानेन यावकव्रतस्यापि षाङ्गण्यौ
चित्यात्। एवञ्च कालातिक्रम इति सूत्रं बालकस्यैकस्य तस्य पितुश्च द्वयोस्तयोः पितामहस्य च त्रयाणां पतितसावित्रीकत्वप्रायश्चित्तपरम्। यद्यप्याऽऽषोडशादित्युपक्रम्याऽत ऊर्ध्वमित्यनेन बालस्यैव पतितसावित्रीकत्व-मित्युक्त्वा कालातिक्रम इति सूत्रंपठितं बालकस्यैव पतितसावित्रीकत्वप्रायश्चित्तपरं भवितुमर्हति; तथापि त्रिपुरुषं पतितसावित्रीकाणामिति त्रिपुरुषपतितसाधारणत्वनैव नेतुमुचितमिति दिक्॥
अपरेतू कालातिक्रमे नियतवन्नियते नित्ये कालातिक्रमे व्याहृतिहोमः प्रसिद्धस्तद्वत्तेन तुल्यं व्याहृतिहोमात्मकं प्रायश्चित्तम्भवति। तच्च प्रायच्चित्तमेकर्तु ब्रह्मचर्योद्दालकव्रततसाम्यसम्पत्तये उद्दालकव्रतप्रत्याम्नायत्वेन चतुर्दशप्राजापत्य निर्णयात्। तथैव सहस्रव्याहृतितिलहोमस्यैक-प्राजापत्यतुल्यत्वाच्चतुर्दशसहस्रव्याहृतिहोमः कालातिक्रमे बालकस्य प्रायश्चित्तरूप इति पितृपितामहयोरपि पतितसावित्रीकत्वे चतुर्दशषड्गुणाश्चतुरशीतिसहस्रव्याहृतिहोमाः प्रायश्चित्तरूपा बालकपित्रोरुभयोरेव पतितसा-
वित्रीकत्वे द्विचत्वारिंशत्सहस्रव्याहृतिहोमा भवेयुः प्रायश्चित्तरूपा इति विवेचेयाम्बभूवुः॥
याज्ञवल्क्ये–
उपपातकशुद्धिः स्यादेवं चान्द्रायणेन वो।
पयसा वापि मासेन पराकेणाऽथवा पुनः॥
मनौ–
एतदेव व्रतङ्कर्युरुपपातकिनो द्विजाः।
अवकीर्णिवर्जंशुद्ध्यर्थं चान्द्रायणमथापि वा॥
एवम्, गोवधप्रायश्चित्तेनेत्यर्थः। पतितसावित्रोकताया उपपातकरूपत्वेन स्मर्तृभिः परिगणनादुपपातकशोधकानि यानि कर्माणि प्रसिद्धानि, तानि सर्वाण्यपियथायोगं सङ्गृहीतान्येव। कालातिक्रमे योग्यतयोपपातके कालातिक्रमोपलक्षिते व्रात्यत्वे नियतवन्नियतेनोपपातकनिवृत्तिनियतन प्रायश्चित्तेन तुल्यं प्रायश्चित्तं विधेयमिति बहुविधवैकल्पिकप्रायश्चित्तपरिग्रहाय ‘कालातिक्रमे नियतवत् इति सामान्यात्मना सूत्रं रचितमिति दिक्॥
अथ कालातिक्रमे नियतवदिति पुरुषत्रयपर्यन्तमपि वृद्धिक्रमेण पतितसावित्रीकत्वे प्रायश्चित्तपरम्, तत्प्रायश्चित्तं वृद्धिमत्त्रिपुरुषादूर्ध्वं पतितसावित्रीकत्वे भवेदपि, परन्तु तेन प्रायश्चित्तेनोपनयनसंस्कारेऽपि नैवाध्यापनमधिक-प्रायश्चित्तं विना, किन्तु ‘व्रात्यस्तोमेनेष्ट्वा – त्रिपुरुषाणां त्रयाणां पुत्रस्य च चतुर्णांमध्ये कोऽपि जनः व्रात्यस्तोमेनेष्ट्वा संस्कारेप्सुरुपनयनसंस्कारेप्सुर्भवेत्। व्रात्यस्तोमं विना नियतवदिति। प्रायश्चित्तेन वर्द्धितेन संस्कारेऽप्सुरधिकप्रायश्चित्तं विना नाध्यापनेर्भवेदिति यावत्। तत्र प्रमाणमाह –‘काममधीयीरन व्यवहार्या भवन्तीति वचनात् इति । का-
ममधीरयीरन्नित्यर्थपरं ताण्ड्यब्राह्मणवचनात्।ताण्ड्यब्राह्मणे ईदग्वचनाभावेनैतदर्थस्य तत्रार्थसिद्धत्वेनैतदर्थ परवचनादित्येव व्याख्यातुमुचितत्वात्। ‘तैरिष्ट्वा त्रैविद्यावृत्तिं समातिष्ठेयुः, तेषां तत ऊर्ध्वं भुञ्जीत याजयेच्चैनान्’ इति छन्दोगसूत्रात्। व्रात्यस्तोमेनेष्ट्वा व्रात्यभावाद्विरमेयुर्व्यवहार्या भवन्ति’ इति कात्यायनसूत्रात्। एवंच ब्रात्यस्तोमोऽतिविशिष्टत्वात्प्रबलैनोनिबर्हको भवति। प्रबलपातकनिवर्तकस्य क्षुद्रपातकनिवर्तकत्वं साहजिकमिति याज्ञवल्क्येन प्रथमादिव्रात्यतायामपि निवर्तकत्वेन व्रात्यस्तोमो निबद्धो ‘व्रात्यस्तो मादृते क्रतो’ रिति। व्रात्यस्तोमं विना सर्वधर्मबहिष्कृताः सावित्री पतिता व्रात्याः।व्रात्यस्तोमे कृते सति सर्वधर्माधिकारिणो निष्पापाः शुद्धा इति तदाशयात्। अत्र त्रिपुरुषं पतितसावित्रीकापत्यत्वं व्रात्यस्तोमे निमित्तम्, तत्र त्रिपुरुषाधिकपतितसवित्रीकत्वेऽपि सहस्रेशतमितिवत् त्रिपुरुषपतितसावित्रीकापत्यत्वं भवेदेवेति चतुः रादीनां पतितसावित्रीकत्वेऽपि व्रात्यस्तोमानुष्ठानं भवतीति ‘ऐन्द्राग्नं पुनरुत्सृष्टमालभेत य तृतीयात्सोमं न पिबेत्’ इति वाक्यविचारावसरे निरूपयिष्यामः- इति पारस्करसूत्र योजना - इति।
अथाऽऽपस्तम्बसूत्रयोजना — वर्णविभागेन विहितमुख्यकालात् ‘अष्टवर्षब्राह्मणमुपनयीतैकादशे राजन्यं द्वादशे वैश्यम्” इत्येवंलक्षणादूध्वं मुख्यकालसमसङ्ख्याकं गौणकालं मनसि निधायाह - आषोडशादिति। यथेति। वदयमाणवतसामर्थ्यसम्पत्तिपर्यन्तमेव गौणोऽपि कालः प्रतीक्ष्यो नाऽधिकः। गौणकालेऽपि सामर्थ्योत्तरङ्कालो नातिक्रमणीयः।अतिक्रमणे तु तदुचितं प्रायश्चित्तमपि विधेयमिति भावः। गौणकालस्य सर्वस्यापि उल्लङ्घने प्रायश्चितं किञ्चिदर्शयति- अतिक्रान्त इति। व्यवयवां विद्यामधीयत इति
त्रैविद्यास्तेषामिदं त्रविद्यकम्। वेदत्रयग्रहणोचितं ब्रह्मचर्यंवेदाध्ययनवर्जं गुरुसेवादिलक्षणम् तत्तद्वेदगतं तत्तन्मन्त्रग्रहणकाले यो यो धर्मो विशिष्योक्तो भोजनसमिदाद्याहरणविशेषादि च तत्तदुक्तंऋग्यजुःसामगुरुत्रयस्य कालविभागेन यथायोगं सेवनेन संवलितं निखिलमपि चरेदित्यर्थः। अथेति। ऋतुकालव्यापिब्रह्मचर्यानन्तरं यथापूर्वमुपनयनं कार्यम्। ततइति। उपनयनानन्तरं त्रिषवणस्नानमुचितं नियतमन्त्रत इति भावः। अथेति। संवत्सरस्नानेनाधिकारसिद्धौ सत्यामध्याप्योऽध्यापनार्होभवति। अत्रैतावता ग्रन्थेन बालकस्यैकस्यैव पतितसावित्रीकत्वे प्रायश्चित्तरूपैकर्तुब्रह्मचर्यपूर्वकमुपनयनं संवत्सरस्नानपूर्वकाध्यापनार्हत्वं च निरूपितम्॥
सम्प्रति बालकतत्पितृपितामहानां पतितसावित्रीकत्वे त्रैविद्यब्रह्मचर्यलक्षणप्रायश्चित्तम्, तत उपनयनम्, ततः स्नानभेदेनाऽध्ययनार्हतां च दर्शयति – अथ यस्येति। अथाऽस्मिन्विषये प्रायश्चित्तादि निरूप्यते – ‘यस्य पिता पितामह इत्यनुपेतौ स्याताम्’ इति। अत्र पितृपितामहयोरनुपनीतत्वानुवादपूर्वकं त्रयाणां ते ‘ब्रह्महसंस्तुता’ इति निन्दाबोधनादुपनयनविधानपूर्वकमध्याप्यता; अथाध्याप्य इति निर्देशात्। यस्येति पदमनुपनीतबालकपरम्। बहुवचनञ्च ‘ते ब्रह्महसंस्तुतास्तेषामभ्यागमनम्’ इति निन्द्यबहुत्वात्सङ्गतमिति। भेदनिर्देशाकरणं संवत्सरमात्रमेव साधारण्येन ब्रह्मचर्ये गमितं सहतं भवति।
वस्तुतस्तु बालकस्य पितुः पितामहस्य च संवत्सरं त्रैविद्यकं ब्रह्मचर्यंसमानमेव; त्रयाणामपि पतितसावित्रींकत्वात्। तत्रैवं विभजनीयम् - पितामहव्रात्यतानिमित्तमेकतुर्ब्रह्मचर्यम्, पितृव्रात्यता-
निमित्तं द्वचतुर्ब्रह्मचर्यं, बालकव्रात्यतानिमित्तं त्र्यतुर्ब्रह्मचर्यमुत्तरोत्तरं व्रात्यताभिवृद्धेः। एवं च बालकस्य संवत्सरब्रह्मचर्यमपेक्षितम्।पितामहस्य पुनः स्वार्थमेकतुर्ब्रह्मचर्यंव्रात्यतादशायां व्रात्यपुत्रोत्पादनात्व्रात्यतायाः पुनरतिवृद्धेः त्र्यतुब्रह्मचर्यञ्चापेक्षितमिति संवत्सरब्रह्मचर्यमपेक्षितम्। पितुरनुपनयन एवम्। पितुः पुनः स्वपितुर्व्रात्यता-निमित्तमेकतुर्ब्रह्मचर्यं, स्वार्थं द्व्यर्तु ब्रह्मचर्यं, पुत्रार्थंत्र्यतुर्ब्रह्मचर्यंव्रात्यतादशायां स्वस्योत्पत्तेःस्वपुत्रोत्पत्तेश्चोत्त-रोत्तरं व्रात्यताप्राबल्यात्। एवञ्च बालकस्यैवैकस्याऽनुपनयनेन व्रात्यतायामेकर्तु ब्रह्मचर्यम्, पितुश्चाऽनुपनयनेन व्रात्यतायां द्वयर्तु ब्रह्मचर्यं, पितामहस्याऽनुपनयनेन व्रात्यतायां त्र्यर्तुब्रह्मचर्यमपेक्षितमिति विभजनीयम्। अत्र पिता पितामहश्चानुपेतौ स्यातामिति वक्तव्ये सति ‘पिता पितामह इतीतेरधिकस्य कथनमितेः प्रकारपरत्वेनान्येषामपि परिग्रहाय। एवञ्च यस्येति यत्पदार्थो यथाऽनुपनीत इति सिध्यति। एवं प्रपितामहादीनामप्युपनयनं सूचितं भवति। अत्रानुपेताविति द्विवचनान्निरुच्यमानामिदं प्रायश्चित्तंसंवत्सरब्रह्मचर्यादिलक्षणं न प्रपितामहादीनां भवति, किन्त्वन्यदेवेति सूचितम्। तच्चैकतुर्ब्रह्मचर्यस्यैकोत्तराभिवृद्धिक्रमसूचनाप्रपितामहावलम्बने ऋतुचतुष्टयब्रह्मचर्यंसंवत्सरादूर्ध्वमधिकम-पेचितम्। प्रपितामहादन्यपुरुषपरिग्रहे पञ्चतुर्ब्रह्मचर्यमधिकमपेचितम्। एवञ्च वत्सरद्वयादूर्ध्वं त्र्यर्तुब्रह्मचर्यमधिकं सञ्जातम्। एवमग्रेपुरुषवृध्या एकतुर्ब्रह्मचर्यवृद्धिद्वादशवर्षपयन्तं नेयेति सूचितं भवति। एवञ्चैकादशपुरुषे एकादशब्दा जायन्ते तदूर्ध्वं द्वादशाब्दसङ्ख्या वचनादेवेति दिक्इति॥
'ते ब्रह्मसंस्तुतास्तेषामभ्यागमनं तेषामिच्छताम् इति निर्दे-
शात्। त्रयोऽपि जीवन्तः प्रायश्चित्तार्हा इति सूच्यते। इच्छतामिति निर्देशादनिच्छतः प्रायश्चितं बलान्न करणीयम्। अनिच्छुना कृतेऽपि प्रायश्चित्तं तन्मर्यादां न पालयेत्, शुद्धमर्यादां जह्यादेवाऽतोऽरुचिर्दृढा जाता चेत्तर्हि प्रायश्चित्तं करणीयमिति भावः। तथा चच्छा चेत् त्रयाणामपि पृथक पृथक प्रायश्चित्तं भवति, यदि ते जीवन्तः स्युः।यदि तेषु कश्चिद्दिवङ्गतः स्यात्तर्हि स तावदनिच्छत्पुरुषसमो नेयः। ते इति। ते बालकपितृपितामहाः ब्रह्महत्वेन निन्दिताः, तेषामेतत्सम्बन्धिभोजनाभ्या-गमनविवाहान् वर्जयेत्। इतिपदंप्रकारपरम्।अन्यदपि निरुक्तसमं वर्जयेत्। अथ त्रयाणामिच्छतां प्रायश्चित्तस्वरूपमाह - अथेति। अत्र प्रथमेऽतिक्रम इति निर्देशात् द्वितीयतृतीयाद्यतिक्रमा अपि ज्ञापिताः। तत्र बालकस्यैकस्य कालातिक्रमः प्रथमः। पितुः कालातिक्रमो द्वितीयः। स च द्विविधः- पितुः कालातिक्रमःबालकस्य पितुश्च द्वयोरपि कालातिक्रम इति। द्विविधोऽप्ययं द्विविधः– पिता जीवन्नजीवन्निति।पितृपितामहयोः कालातिक्रमस्तृतीयः। सोऽपि द्विविधः - बालकेन सह कालातिक्रमो बालकं विना चेति। पितृपितामहयोर्जीवनं पितुरेव जीवनं पितामहस्यैव जीवनञ्चेति सोऽपि द्विविधः।सकलपक्षेपीदंप्रायश्चित्तं साधारणमुक्तम्। प्रथमातिकमे क्रतुरिव द्वितीयतृतीयातिक्रमयोर्वत्सरम्ः - इति।
अयमाशयः - बालकपितृपितामहानामतिक्रमे त्रयाणामिच्छतां त्रिभिरपि प्रत्येकं वत्सरं त्रैविद्यकं ब्रह्मचर्यंविधेयम्। यदि बालकस्य कालो नातिक्रान्तः स्यात्तह्यपि पितृपितामहाभ्यां सह बालेनैकर्तूनवत्सरब्रह्मचर्यं कर्तव्यम्। यदि पितृपितामयोः कश्चि-
दनिच्छन् मृतो वा द्वावपि मृतौ, तर्ह्यपि यो य उपनयनेच्छुस्स संवत्सरब्रह्मचर्यं कुर्यात्। उपनयनवान् स तावदुचितलोकादिभाग्भवति, इतरस्तु न तथा भवतीति विवेक इति दिक्॥
एवञ्च त्रयाणामपि पुरुषाणां नियमेनानुष्ठानाभावात् कदाचिदेकस्य कदाचित् द्वयोः कदाचित् त्रयाणाञ्चाऽनुष्ठानदर्शनात्सकलपक्षसाधारण्येन अपरपरपदाद्विवचनादिनिर्देशमन्तरात् यथा प्रथमेऽतिक्रमे ऋतुरेवं वत्सरः॥
अथोपनयनम्।
एकस्य द्वयोस्त्रयणां वा उदकोपस्पर्शनमप्येकादीनां यथायोगं वक्ष्यमाणवत्सरपर्यन्तमिति सूत्र’ रचितम्। अत्रोदकोपस्पर्शनस्योपनयनोत्तरभाविनोऽध्ययनाङ्गतया संस्काररूपत्वेन बालकपितृपितामहानां बालकमात्रस्य सपितृकस्य वोपनयने उदकोपस्पर्शनं वत्सरमात्रमेव प्रथमपर्यायवदित्याशङ्क्य मध्यमपर्यायेऽस्मिन्वत्सरभेदं स्नानमन्त्रभेदञ्च दर्शयति- प्रतिपुरुषमिति यावन्तोऽनुपेतास्तावद्वर्षपर्यन्तमुदकोपस्पर्शनं सप्तभिरित्याम्नातमन्त्रैरित्यर्थः। नेदं प्रतीतिसूत्रंप्रतिपुरुषं संवत्सरन्यायेन ब्रह्मचर्यविधिपरं, तथा सति यथा प्रथम इति सूत्रसन्दृष्टमेव पठितं स्यात्, न तथा पठितम्, किन्तूदकोपस्पर्शनस्नानमन्त्रान्तराले पठितम्। तेनोदको स्पर्शन एवेदं सूत्रमन्वियात्, न पूर्वत्र। यद्यन्वियात्तथा सति यथा प्रथमेऽतिक्रमेऋतुरेवं प्रतिपुरुषं सङ्ख्याय संवत्सरान्यावन्तोऽनुपेतोः स्युरिति सूत्रघटनं कृतं स्यात्। न तथा कृतम्, प्रत्युताऽधिकं वत्सर इति पदमुपादायैव सूत्रंरचितमुपलभ्यते। अतो निरुक्तयोजनमेव समुचितत्। एवञ्च यथा प्रथम इति वचनं बालकपितृपितामहानां मध्ये य उपनयनेच्छुस्तस्य वर्षमात्रब्रह्मचर्यविधानपरमिति विवेचनीयम्। आङ्गिरसेनेतीतिपदं मन्ता-
न्तरसङ्ग्रहार्थम्। अनेन प्रथमे पर्याये उदकोपस्पर्शने न मन्त्रानियताः, साधारणस्नानमन्त्राएव तत्र भवेयुः। विशिष्य कथनान्मध्येऽन्त्ये च मन्त्रा नियता अपि भवन्ति। अपि वेति व्याहृतयो विकल्पेन स्नानमन्त्राः। अथेति। अथाध्याप्य इत्येकवचनात् त्रयाणां मध्ये य इच्छन्नमृतो भवन् सन् उक्तब्रह्मचर्यवानुपनेयो भवति, पश्चात् स्नाने जाते अध्याय इत्यर्थः। अत्र त्रयाणांसम्भूयैवाधिकारो नेतरथेति शङ्का अध्याप्यइत्येकवचनेन परिहृता वेदितव्या।केचित्तु पितृपितामहौ प्रायश्चित्तोत्तरमुपनयनेऽपि स्नाने वृत्तेऽपि नाध्याप्यौ, बालक एवाध्याप्य इत्येकवचनेन द्योत्यत इति प्राहुः। तत्रबालकपितृपितामहेषूत्तरोत्तरमल्पैनस्त्वात्समैनस्त्वाद्वा बालकस्याऽतिपावित्र्येणाऽध्यापनार्हता, नेतरयोरित्यस्य नियुक्तिकत्वादिति दिक्॥
अथ पूर्वंपितामह इतीतिपदेन प्रपितामहादीनामुपनयनं सूचितम्। तत्र प्रपितामहादावनुपनयनानुस्मरणे पितामहोत्तरमेवप्रायश्चित्तम्।बालकः पितामह इति। संवत्सरत्रये स्पष्टे।एकं द्वौ त्रीन्वा वत्सरानिति विवेचनेनेवं सम्भवति ;प्रतिपुरुषंसङ्ख्याय संवत्सरान्यावन्तोऽनुपेताः स्युरित्यनिर्द्धारितत्वेन निर्देशात्। प्रपितामहादिषु ज्ञातानुपनयस्थले सोपनयनं पुरुषं निर्णीय तदर्वाक् प्रतिपुरुषंसंवत्सरस्नानमधिकं भवेत्।ब्रह्मचर्यमपि प्रपितामहादौ यत्पुरुषेउपनयनं स्मृतं तदधस्तनपुरुषमारभ्य बालकपर्यन्तमेकोत्तर्तुविवृद्धिकमेण यावत्पुरुषं विधेयम्। प्रपितामहादि नाऽनुस्मर्यत इत्युपलक्षणम्।पित्रादिः प्रपितामहादिर्वा नानुस्मर्यत इति। तथा चोपनयनाबधौ विज्ञाते पूर्वोक्तंप्रायश्चित्तम्। अज्ञाते द्वादशवर्षप्रायश्चित्तमिति प्रायश्चित्तविशेषं निन्दाविशेषकथनपूर्वकं
दर्शयति - अथेति। ‘यस्य पिता पितामह इत्यनुपेतौ’ इत्यत्र पूर्वस्योपनीतत्वेऽग्नेतनानुपनयनानुवादनैरर्थक्यात् अग्रिमानु-पनयनानुवादसामर्थ्यात्पूर्वानुपनयनसिद्धेस्तथैव सर्वेषामपि ‘ते ब्रह्महसंस्तुतास्तेषामभ्योगमनम्’ इत्यनुपनयन-प्रयुक्तनिन्दावादस्य साधारण्येन प्रत्ययात्, प्रकृते यस्य प्रपितामहादीति निर्देशाच्च प्रपितामहादीनामनुपनयनं सिद्धयति; पूर्वेषामुपनयनकथनात्सर्वेषां बालकपितृपितामहादीनामनुपनयन एवाग्रेतनानुपनयनोक्तिसार्थक्यात्, उत्तरत्र ‘ते श्मशानसंस्तुतास्तेषामभ्यागमनम् इति बालकादीनामनुपनीतत्वेन निन्दादर्शनात्, प्रपितामहादिनानुस्मर्यत उपनयनमिति चाऽनुस्मरणाभावनिर्देशेन प्रपितामहादीनामजीवित्वसूचनात्, ते इति तत्पदेन प्रपितामहादीनामेव ग्रहणायोगेन बालकादीनामप्यवश्यसङ्ग्राह्यत्वात्। एवञ्चात्र पूर्वंयस्य पिता पितामह इति क्रमादरणात् यथा प्रथमेऽतिक्रम इति बालकातेतिक्रमस्य प्रथमत्वनिर्देशन पित्रतिक्रमस्य द्वितीयत्वम्, पितामहादिक्रमस्य तृतीयत्वमिति सूचनात् प्रपितामहादीत्यादिपदमग्रेतनानेव गृह्णाति; योग्यत्वात्, न पूर्वतनान्; तेषां प्रकारान्तरेनणैवनिरुक्तदिशाऽनुपनयनलाभसम्भवेन पुनरादिपदेन (?) ग्रहणे प्रयोजनाभावात्। एवञ्च यस्य बालकस्य पितृपितामहसहितस्य प्रपितामहादि उपनयनं नानुस्मर्यते, ते बालकादयः श्मशानत्वेन निन्दिता इत्यर्थः। पूर्वमनुपेताविति प्रत्यक्षीभूतत्वेन निर्देशात् नानुस्मर्यत इति परम्परया स्मरणाभावनिर्देशात्प्रपिताहादयः प्रायेण मृता यथायोगमिति पितृपितामहौ प्रायेण जीवन्ताविति सूचितं भवति। प्रपितामहस्य जीवत इच्छा चेत्प्रायश्चित्तं भवति। तत्र बालकस्यैवाऽनुपनयनेऽल्पं प्रायश्चित्तम्।अग्रिमाग्रिम पुरुषा -
नुपनयने तु प्रायश्चित्तं गुरु भवतीत्यर्थः। तेषामिति जीवतामिच्छतां वंशजपुरुषाणां मध्ये यस्य यस्योपनयनमपेक्षितं तेन तेन द्वादशवर्षंब्रह्मचर्यंकर्तव्यमित्यर्थः। तदनूपनयनं तत उदकोपस्पर्शनं पावमान्यादिभिर्मन्त्रैरित्यर्थः। अत्र बालकादिषु बहुषु जनेषु पूर्वंपितामहान्तं सङ्ख्यानिश्चयात्प्रतिपुरुषमिति सूत्र प्रवर्तितम् ; संवत्सरसङ्ख्यानिर्णयेनोदकोपस्पर्शनसम्भवात्, प्रपितामहादीत्यादौ पुरुषसङ्ख्यानैयत्याभावात् उदकोपस्पर्शने प्रतिपुरुषमिति सङ्ख्या न निबद्धा, किन्तु प्रायेण सर्वैनसो निवृत्तये द्वादशवर्षंब्रह्मचर्यं विहितम्। तदनन्तरमुपनयनमुक्त्वा उदकोपस्पर्शनं पावमान्यादिभिरिति स्नानं सामान्यतो विहितम्। तच्च उदकोपस्पर्शनं सकृदनुष्ठान एव कालानादेशार्त्पयवस्यति; तावतैव शास्त्रार्थस्याऽदृष्टावहस्य सिद्धेः। सकृत्स्नाने जाते सिद्धमधिकारं दर्शयति- अथ गृहमेधोपदेशनं सार्थज्ञानानुष्ठानगृह्यशास्त्रोपदेशनं भवति। सकृत्स्नानेन स्मार्तकर्माधिकारः सूचितः। यथा गृह्यधर्मेऽधिकारस्तथा श्रौतेऽप्यधिकारोऽस्त्वित्याशङ्क्याह-नाध्यापनं श्रुत्यध्यापनन्तु न भवति। तेन सकृत्स्नाने न श्रौतार्थानुष्ठानाधिकारसिद्धिरिति सिद्ध्यति।
अयं भावः- प्रथमे पर्याये संवत्सरमुदकोपस्पर्शनमिति, द्वितीये पर्याये प्रतिपुरुषं सङ्ख्याय संवत्सरानिति स्पष्टं स्नानकालनिर्देशात् तृतीये पर्याये तत उदकोपस्पर्शनं पावमान्यादिभिरिति मन्त्रवत्कालस्य विशिष्यानिर्दशात्, द्वादशवर्षंब्रह्मचर्यं कर्तुमुपनयने जाते आलस्यादिना बहुकालमुदकोपस्पर्शनकरणेऽपि पावमान्यादिभिः सकृदुदकोपस्पर्शनन्तु कर्तव्यमेव। द्वादशवर्षब्रह्मचर्यानुष्ठानस्याऽधिकारसम्पादकत्वेनोपनयनद्वारा फलपर्यन्तानुधावना-वश्यंभावेनाऽधिकारसम्पादनस्य कर्मानुष्ठाने पर्यवसानौ -
चित्येन आलस्यादिनां बहुकालमुदकोपस्पर्शनाकरणॆऽपि बहुकालब्रह्मचर्यकरणेन प्रायेण विनष्टसर्वैनस्त्वात् स्मार्तकर्माधिकारसम्पत्तये सकृत्स्नानं पावमान्यादिभिः कार्यमिति हृदयेनोक्तम्- ततउदकोपस्पर्शनमिति। इदञ्च कालनिर्देशाभावात्सकृदनुष्ठान एव पर्यवस्यति ‘सर्वौषधस्य पूरयित्वोलूखलमवहन्ती’ तिवत्। अथ गृहमेधोपदेशन-मित्यनेनालस्यादिना बहुकालमुदकोपस्पर्शाभावेऽपि स्मार्तधर्मानुष्ठानन्तु भवेदेव, श्रौतधर्मानुष्ठानाभावेऽपि। एवञ्चैतावता द्वादशवर्षब्रह्मचर्यानुष्ठानं सफलमेव संपन्नं भवति। द्वादश वर्षब्रह्मचर्यानुष्ठातरि स्मार्तकर्मानुष्ठानमात्रेणोपरते सति स्मार्तकर्मानुष्ठानकाले सञ्जतपुत्रस्य तु पितुः प्रायश्चित्तेन द्वादशवर्षलक्षणब्रह्मचर्येणोपनयनद्वारा स्मार्ताधिकारात् एतस्यापि तावत्येवाधिकारो न श्रौते कर्मण्यपि। पितुःपितामहस्य वा पूर्वपुरुषाणां सोमपानाभावेन सोमानधिकारे ऐन्द्राग्नकरणेन सोमपीथित्वभावे तत्पुत्रस्य विनैन्द्राग्नं सोमाधिकारवत् प्रकृतेऽपि द्वादशवर्षब्रह्मचर्यवतः स्मार्तानुष्ठातुः पुत्रस्य पूर्णोदको स्पर्शे सत्येवाध्ययनेऽधिकारोनान्यथेत्याह–‘ततो यो निर्वर्तते तस्य संस्कारो यथा प्रथमेऽतिक्रमे’ इति।अत्र प्रथमातिकमे तावत् अतिक्रान्ते सावित्र्याः काले ऋतु त्रैविकं ब्रह्मचर्यञ्चरेत्। अथोपनयनम्, ततः संवत्सरमुदकोस्पर्शनम्, अथाध्योप्य इत्याम्नातम्। तत्र पुरुषस्य उपनीतस्मार्तकर्मठपुत्रत्वात् ऋतुंत्रैविद्यकं ब्रह्मचर्यमित्यस्याकरणेऽप्युपनयनं भवेदेव, पितुरैन्द्राग्नेन सोमपीथित्वे पुत्रस्यैन्द्राग्नानपेक्षणात्। वेदाध्ययनेऽपि अत्रैवालस्यादिना पूर्वेणोदको-पस्पर्शनाकरणेनाधिकारासम्पादनात्। परिशेषात् तस्य संस्कारो यथा प्रथमेऽतिक्रमे इति कथनं वेदाध्यापनाधिकार-सम्पादकसंवत्सरोदकोपस्पर्श एत्र पर्यवस्यति। एवं
तृतीयपर्याये आलस्यादिनोदकोपस्पशनाभाववत् प्रथम द्वितीयपर्याययोरपि आलस्यादिना शास्त्रोदितकालमभिव्याप्यो-दकोपस्पर्शनाभावे सकृदेवोदकस्पर्शे सति गृहमेधीयोपदेशनं भवति। श्रुत्यध्ययनन्तु न भवेदेव।स्मार्तकर्मानुष्ठान एव तस्याधिकारो भवति। तत्कर्मानुष्ठानसमये सञ्जत पुत्रस्य श्रौतपरिग्रहमन्तरा पितर्युपरते सति तत्पुत्रस्य तु प्रकृतिवदुपनीतस्य संवत्सरोदकस्पर्शादेव तृतीयपर्याय इव वेदाध्ययनाधिकारः। एवं प्रथम द्वितीयपर्याययोरिव बहुकालं तृतीयेऽपि पर्याये उदकोपस्पर्शे सति तत्पुत्रपर्यन्तानुधानमन्तरैव स्मृतिवच्छ्र्तेरप्यध्ययनमनुष्ठानोपयोगो भवति। पितुः तत्र द्वादशवर्षाणीत्युपनयनात्पूर्वं ब्रह्मचर्यबहुकालग्रहणात्तेनैवैनसः प्रायेण निवृत्तेरुत्तरत्र यथा प्रथमेऽतिक्रम इति संवत्सरमात्रोदकोपस्पशेनपरिग्रहात्तत्समान्यात्तृतीयेऽपि पर्याये प्रथमवदेवोदकस्पर्शनमिति विविच्यते। एवञ्चाऽर्था-त्संवत्सरपरिमितमुदकोपस्पर्शनं द्वादशवर्षब्रह्मचर्यकर्तुरालस्यं विनाऽध्ययनाधिकारसम्पादने पर्यवस्यति। उपक्रमे संवत्सरारम्भात् प्रान्तेपि(१) संवत्सरोक्तस्तत्स्थानसन्निकर्षेण तृतीयपर्यायेपि वत्सरस्यैवोचितत्वात्। एवञ्च पर्यायत्रयेऽपि आलस्यादिनैकस्नानोत्तरं कालान्तरे शास्त्रन्यायसिद्धं स्नानं विधेयमितीच्छायां प्रथमस्नानमात्रेण स्मार्तकर्माधिकारसिद्धिः। सम्पूर्णॆस्नाने जाते तु वेदाध्ययनात्श्रौतकर्माधिकारसिद्धिरिति सिद्धम्।
अथायमत्र निष्कर्षः- प्रथमपर्याये च समुद्दिष्टब्रह्मचर्यानुष्ठानानन्तरम् पुरुषसंख्यानिर्णयेन तावत्संवत्सरपर्यन्तं स्नाने सति अध्ययनं वेदस्यानुष्ठानपर्यवसायि भवति। शास्त्रोक्तपूर्णस्नानाभावे तु स्नानमात्रेजाते स्मार्तेऽधिकारः। कालान्तरे सम्पूर्ण
स्नाने जाते वेदाध्ययनादि न भवेत्। पूर्णस्नानाभावे स्मार्तकर्मानुष्ठानकाले जातपुत्रस्य तु पित्रा यावत्कृतं तावदुपनयनादिकालानतिक्रमे प्रकृतिवदेव पितुर्वेदाध्ययनाधिकारायत्परिमाणं स्नानं शास्त्रेणादिष्टं तत्प्रमाणस्नाने कृते त्वध्ययनेऽधिकारो नो चेन्नाधिकारः। एवं तृतीये पर्यायेऽपि द्वादशवर्षब्रह्मचर्येण प्रायः सर्वैनसां निवृत्तेरुपनयने वृत्ते प्रथमपर्यायवरसंवत्सरोदकोपस्पर्शे अध्ययने वेदस्यानुष्ठाने चाधिकारः। वार्षिकस्नानापूर्तौस्नानमात्रे जाते पूर्ववदेव स्मार्तमात्रेऽधिकारः। कालान्तरे स्नाने पूर्णे तु अध्ययनेऽपि वेदस्याधिकारः।अपूर्णस्नानसमये स्मार्तकर्मानुष्ठानकाले जातपुत्रस्य तु पितृवत्स्मार्तकर्मान्ताधिकारो लोकवदेव।वेदाध्ययनकर्मानुष्ठानाधिकारस्तु संवत्सरस्नाने पूर्णे एव भवेदिति। तत इति। अध्ययनाङ्गस्नानवत्पुरुषादूर्ध्वं प्रकृति वत्सामान्यद्विजवदिति भावः। अथ यस्य प्रपितामहादि नानुस्मर्यत इति तृतीये पर्याये उदकोपस्पर्शनपदं स्मार्ताङ्गभूतसकृदुदकोपस्पर्शन-परतयाऽध्ययनाधिकारसम्पादकप्रायश्चित्तभूतमुदको-पस्पर्शनान्तरं न्यायतो न सङ्गृह्णाति, येन सकृदुदकोपस्पर्शने्ऽङ्गमितिस्मार्तकर्मण्येवाधिकारः। प्रायश्चित्तभूतस्नानपूर्तौतु श्रुत्यध्ययनेप्यधिकार इति सिद्ध्येत्, किन्तूद्कोपस्पर्शनपदं प्रायश्चित्तभूतसम्पूर्स्नानपरमेव। एवञ्च प्रथमद्वितीयपर्यायवत् स्नानोत्तरमेव वेदाध्ययनाधिकारस्तृतीये पर्याये भवस्विति शङ्का तावत् ‘अथ गृहमेधोपदेशनं नाध्यापनम्’ इति सूत्रेण वारिता भवति। तथाच ण द्वादशवर्षंत्रैविद्यकब्रह्मचर्ये वृत्तेऽपि उदकोपस्पर्शने पूर्णे जातेऽपि चतुर्थादेर्न वेदाधिकारः, किन्तु स्मार्त एवाधिकारः। ततो यः पुत्रो भवति प्रायश्चित्तोत्तरं तस्य प्रथमपर्यायवदेकर्तब्रह्मचर्ये संवत्सर-
स्नाने उपनयनवेदाध्ययनाधिकारसाधनभूते ‘ततो यो निर्वर्तत इत्यादिनोच्यते इति योज्यतामिति चेत् — अत्रोच्यते । अत्र प्रथमद्वितीयपर्याययोर्यस्योपनयनं ब्रह्मचर्येणाम्नातं तस्यैव नियतकालस्नानेनाऽध्ययनार्हता गदिता, न तु देवान्मानुषाद्वा अपराधात्तुस्नाने सम्पूर्ण तावदवृत्ते सति तं तत्पुत्रंवाऽवलम्व्य किञ्चिदुदितम्।तृतीये पर्याये तु स्नाने तावत्सकृदादिपदं समुचितमपि नैव समाम्नातम्। पूर्वपर्यायद्वयानाम्नातमपि स्मृत्यध्ययनमाम्नाय वेदाध्ययननिषेधोऽभिहितः। तदनन्तरञ्च द्वादशवर्षे त्रैविद्यकब्रह्मचर्यकर्तृपुत्रमादाय प्रथमपर्यायधर्मातिदेशः कृतः। एवञ्च तत्र दैवाद्यपराधादुपनयनोत्तरं स्नानपूर्तावेव पुत्रेजाते संस्कृते चोपरते सति तत्पुत्रस्य कर्तव्यांशाकथनान्न्यूनता स्यात्। उपनयनतोप्युपनयनान्तरं कर्तव्यपदार्था-नामनाम्नानात् स्नानपूर्तिपर्यन्तं स्मार्तकर्मानुष्ठानं प्रसज्येत। एवञ्च जातमप्युपनयनं स्नानपूर्तौकर्माप्रयोजत्वादनर्थकमेव स्यात्। एवमत्रोपनयनमात्रस्यैव कथनात्तत्पूर्वतनकर्मादिकमप्यकतव्यमेव भवेत्। उपनयनोत्तरं विवाहादिक्रियाऽपि नाऽऽवर्तनीया भवेत्। इष्टापत्तौ त्रैवर्णिकोचितविवाहाद्यभावात्स्नानपूर्त्याऽध्ययनाधिकारेऽपि स्मृत्युक्त विवाहादेस्त्रैवर्णिक-सम्बन्धिनोऽसम्पत्तेरध्ययनोत्तरमपि ज्योतिष्टोमाद्यधिकारो न स्यात्। इष्टापत्तौ च विशिष्टलोकहेतुभूतकर्मपरिग्रहबुद्धया प्रायश्चित्तविधानमनर्थकं स्यात्। तस्मादुपनयननिर्देशसामर्थ्यात्तदन्तन्यायेन जातकर्मादिसंस्कारा अभ्युपेता इत्येष्टव्यं भवति। एवमुपनयनोत्तरकर्माण्यपि तदादिन्यायेन यथायोगमनुष्ठेयानीत्यभ्युपेतमित्याश्रयणीयम्।इतरथा तत्र सर्वकर्मबहिष्कृत इति व्रात्यताविशेषेण सकलस्मार्तश्रौतकर्मानधिकारकथनात्प्रायश्चित्तेनोपनय-
नविधानेऽपि यावद्वचनं वाचनिकमिति केवलोपनयनमेव भवेत् न तदादितदन्तन्यायाभ्यां जातकर्मविवाहाद्यनुष्ठानं स्यात्। व्रात्येतरस्थले उपनयने वृत्ते वेदाध्ययनाद्यधिकारवत् तदादितदन्तन्यायतोऽध्ययनजातकर्माद्यधिकार-बुद्धेरुदकोपस्पर्शनं प्रायश्चितभूतं विनाऽध्ययनाद्यनधिकार इति सूचनेन प्रतिरोधात, सर्वकर्मणामप्युपनयने कथितेऽपि तदादितदन्तन्यायतः परिग्रहबुद्धेःप्रतिरोधात्, उदकोपस्पशनं, ततोऽध्याप्य इत्यध्ययनपदस्य श्रौतस्मार्तोभय-ग्रन्थाध्ययन-परत्वस्यासङ्कुचितार्थग्रहे न सङ्कुचितग्रहणमुचितमिति न्यायानुगृहीतत्वात्। विहितकर्मसामान्या-धिकारबुद्धिप्रतिरोधात्स्मार्तधर्मसामान्यमात्रपरिग्रहाय तदादितदन्तन्यायमवतारयितुमिहाऽऽपस्तम्बेन सूत्रकृता प्रमाणमवश्यमुक्षेपणीयं भवति। तत्र ‘तत उदकोस्पर्शनं पावमान्यादिभिः’ इति वचसोऽपि प्रायश्चित्तरूपपूर्णस्नानपरत्वे तदादिन्यायप्रतिरोधः। प्रथमद्वितीयपर्यायसमान एव चेत्युपनयनोत्तरसमये प्रायश्चित्तारम्भात्पर्वञ्च स्मार्तधर्मस्याप्यप्रवृत्तिरेव स्यात्। देवाद्यपराधादुपनयनोत्तरं प्रायश्चित्तस्नानानारम्भे सति स्मार्तधर्मेऽप्यनधिकारेण कृतमपि तावदुपनयनमनर्थमेव भवेत्। अतस्तृतीये पर्याये तत उदकोपस्पर्शनमिति वचो न प्रायश्चित्तरूपपूर्णस्नानपरं सत् तदादिन्यायप्रतिरोधकं विवक्षितम्, किन्तु तदादिन्यायेनोपनयनाव्यवधानेन श्रौतस्मार्तधर्मप्रवृत्तौ सकृत्स्नानं धर्मारम्भाङ्गत्वेन विधोयते। तत्र श्रौतस्मार्तद्वयस्यापि तदादिन्यायात्प्रवृत्तौ सत्यां स्मार्ते धर्म एव तदा दिन्यायो न तु श्रौते धर्मेइति हृदयेनोक्तम्- ततो गृहमेधोपदेशनं नाध्यापनमिति।
अयञ्चात्र विवेकः - प्रथम द्वितीय पर्याययोस्ततः संवत्सरमुदकोप-
स्पर्शनम्, ततोऽध्याप्य इत्यादौ श्रुतिगृहमेधीयावध्याप्यावित्येवार्थः स्यात्, विशेषग्राहकमानाभावात्, तेन श्रौतस्मार्तसाधारण्येन तदादिन्यायाप्रवृत्तिः सूचिता भवेत्। तृतीयपर्याये उदकोपस्पर्शनस्याङ्गत्वेसति तदा्दिन्यायेन श्रौतस्मार्तधर्मप्रवृत्तौ ‘अथ गृहमेधोपदेशनम्’ इति वचसा स्मार्तधर्मानुग्रहे सत्यर्थात् श्रौतधर्मनिवृत्तिसम्भवेन पुनरपि नाध्यापनमिति विशदकथनम् - इह सर्वत्रोऽध्यापनपदं वेदाध्यापनपरमिति विभागसूचनाय। एवञ्च प्रथमद्वितीयपर्याययोरध्यापनपदं वेदाध्यापनपरमिति नियमयति। एवञ्च पूर्वपर्याययोस्तदादिन्यायेनोपनयनोत्तरमेव गृहमेधीयधर्मस्य प्रवृत्तिरस्ति न श्रौतस्येति गमितं भवति। एवञ्च प्रथमद्वितीय्पर्याययोः सकृत्स्नानभूतांगे सत्येव स्मार्तधर्मप्रवृत्तिः । प्रायश्चित्तरूपसंवत्सरादिस्नानोत्तरं श्रौतधर्मप्रवृत्तिरिति सूचनायैव तृतीये पर्वणि ‘तत उदकोपस्पर्शनं पावमान्यादिभिरथ गृहमेधोपदेशनं नाध्यापनम्’ इति विरूपं वाक्यं विरचितम्।‘ततो यो निर्वर्तते’ इति कथनमपि प्रथमद्वितीयपर्याययोरपि प्रायश्चित्तस्नानापूर्तावेवोपनीतपरमेतत्। कर्मठावस्थपुरुषपुत्रस्य तृतीयपर्यायगतपुत्रवत्पित्रनुष्ठित-प्रायश्चित्तमेव कर्तव्यमिति गमयति । एवं तृतीये पर्याये पित्रा समादरणीयं संवस्सरस्नानं पुत्रवाक्य एवं पठितं न पितृवाक्ये, पठिते सति तुपूर्वपर्याययोरिव प्रायश्चित्ते न श्रौतेप्यधिकारसम्पत्तेः पूर्वपर्यायवत्केवलग्रहमेघीयोपदेशनं ‘अथ गृहमेधोपदेशनम्’ इति कर्तुमशक्यमेव स्यात्। तदर्थं संवत्सरोदकोपस्पर्शनं पितृवाक्ये पठितुमुचितमपि पुत्रवाक्य एवातिदेशेनोक्तम्। यदि तु ‘तत उदकोपस्पर्शनं पावमान्यादिभिः’ इति वाक्यं पूर्वपर्याययोरिवाऽभ्यस्यमानं प्रायश्चित्तरूपवत्सरादिस्नानपरं भवति, एवञ्च स्नाने प्रायश्चित्ते पूर्णॆसत्यपि
स्नातुः श्रुतावनधिकार एव केवलगृहमेधीय एवाधिकार इत्याग्रहः, स्तर्हि’त्रिपुरुषंपतितसावित्रीकाणामपत्यें’ इति पारस्करसूत्रे स्मर्यमाणास्मर्यमाणोपनयनसाधारण्येन चतुर्थादिपुरुषेषु व्रात्यस्तोमेन प्रायश्चित्तं विधाय ‘काममधीयीरन्’ इति वेदाध्ययनादिकथनमसंगतमेव भवेत्। भवन्मते प्रायश्चित्तं कृतेऽपि प्रपितामहाद्यस्मर्यमाणानुपनयनस्थले वेदाध्ययनानधिकारनिर्णयात्। एवं वसिष्ठोक्तोद्दाल्कव्रताश्वमेधाभृथव्रात्यस्तोमानां पितृपितामहादिलक्षणानुपादानात् स्मर्य-माणास्मर्यमाणोपनयनावधिकसकलपुरुषसाधारण्येन प्रयश्चित्तत्वेन सिद्धत्वात् तथैव याज्ञवल्क्यस्मृतावपि वात्यस्तोमस्य निखिलपुरुषसाधारण्येन प्रायश्चित्तत्वसिद्धरापस्तम्बसूत्रे चतुर्थादिस्थले सर्वथा वेदाध्ययनाधिकार-सूचनमसङ्गतमेव भवति।
अत ऊर्ध्वं पतन्त्येते सर्वधर्मबहिष्कृताः।
सावित्रीपतिता व्रात्या नात्यास्तोमादृते क्रतोः ॥
इत्यत्र व्रात्यस्तोमे सति श्रौतस्मार्तसकलकर्माधिकारसूचनात् व्रात्यस्तोमादिप्रायश्चित्तेनाऽकामैरपि भवद्भिः श्रौतेऽधिकार एष्टव्यो भवेत्। एवञ्चाऽऽपस्तम्ब सूत्रेऽतिगुरुतरद्वादर्शत्रैविद्यकं ब्रह्मचर्यंनिर्दिश्यमानं श्रुत्यध्ययनानधिकारे निरर्थकमेव स्यात्। अन्यैस्तृतीये पर्याये एवङ्गुरुभूतप्रायश्चित्तानाम्नानात्सृत्यन्तरानुरोधेना-ऽऽपस्तम्बसूत्रेविसंष्टुलतापरिहाराय चतुर्थादिपुरुषस्थले श्रौताधिकारः पूर्वोक्तरीत्या स्वीकर्तव्य एव। अन्यैर्व्रात्यस्तोमेन व्रात्यतानिर्हरणेन वेदाध्ययनाधिकार-कथनात्स्मृत्यन्तराविरोधेनैवाऽपरस्मृतिनियोजनस्य सति सम्भवे कर्तुमुचितत्वात् ‘तत उदकोपस्पर्शनं पावमान्यादिभिः’ इत्यस्याभ्यासपरकालनिर्देशमन्तरा
प्रायश्चित्तत्वनिर्णायकमानाभावात् प्रायश्चित्तपरतया नेतुमशक्यत्वाच्च। आपस्तम्बेनाऽपि उपनयनात्पूर्वमेव गुरुतरद्वादशवर्षब्रह्मचर्याम्नानात् उपनयनोत्तरं वेदाधिकृतये क्षुद्रमेवसंवत्सरस्नानमभिमतं भवति। अत एव पितुः संवत्सरस्नानाभावे पुत्रेणतावद्वेदाध्ययनाधिकृतये संवत्सरस्नानं कर्तव्यमिति हृदयेन ‘ततो यो निर्वर्तते इत्यादिवाक्यं प्रवर्तितं सङ्गतं भवति॥
वस्तुतस्तु यत्तावत् यस्य प्रपितामहादि नानुस्मर्यते इति तृतीयपर्याये उदकोपस्पर्शनलक्षणप्रायश्चित्तेऽपि श्रौताध्ययनन्न भवतीस्येतदर्थकं नाध्यापनमित्येतदापस्तम्बसूत्रमित्युक्तम् तत्तावत् व्रात्यस्तोमाद्यसमर्थपरं विज्ञेयम्। पारस्करेण ‘त्रिपुरुषं पतितसावित्रीकाणामपत्ये चतुर्थरूपे संस्कारो नाध्यापनञ्च इत्यभिधाय तेषां संस्कारेप्सुव्रात्यस्तोमेनेष्ट्वा काममधीयीरन् व्यवहार्या भवन्ति इति कथितम्। तत्रेष्ट्वा संस्कारे्प्सुर्भवेदित्यन्वयः।एवञ्च चतुर्थप्रभृतिषु प्रायश्चित्तान्तरकरणे व्रात्यस्तोमाद्यकरणे स्मार्तकर्मानुष्ठानमात्रम् कृते तु व्रात्यस्तोमादौ सर्वपातकनिवृत्तो भवत्येव श्रौताध्ययनम्। अत एव याज्ञवल्क्येनापि -
अत ऊर्ध्वं पतन्त्येते सर्वधर्मबहिष्कृताः ।
सावित्रीपतिता व्रात्या – इत्यभिधाय –व्रात्यस्तोमादृते क्रतोः। इत्यनेन व्रात्यस्तोमे कृते श्रौतस्मार्तसर्वधर्माधिकार इति स्पष्टीकृतम्। एवं च वसिष्ठेनापि ‘व्रात्यस्तोमेन वा यजेत इति अश्वमेधावभृथस्नानविकलिपतत्वेन सर्वव्रात्यतानिवर्तकत्वेन सर्वश्रौतस्मार्ताधिकारो निबद्धः तस्मान्नाध्यापनमिति सकलस्मृतिवचनानुरोधेन व्रात्यस्तोमाद्यसमर्थपरमिति विज्ञयम्। ‘त्रिपुरुषं पतितसावित्रीकारणामपत्ये इत्यत्राऽपत्यपद चतुर्थपरमात्रमिति न भ्रमित-
व्यम्। न पतन्त्यनेनेति व्युत्पत्या चतुर्थप्रभृतीनामपि तद्वाचकमिति विवेचनीयम्। ‘त्रिपुरुषं पतितसावित्रीकारणामपत्ये इत्यनेन चतुर्थादौ व्रात्यस्तोमाभावे नाध्यापनमित्युक्तम् पारस्करेण। तद्विषय एवाऽऽपस्तम्बेन कृतोदकस्पर्शस्यापि नाध्यापनमित्यध्यापनाभावो निरुक्तः। स चैकविषये (?) व्रात्यस्तोमकरणाभ्यामेवाध्ययने इति समर्थनीयः; अविरोधेन सम्भवत्यर्थे विरोधस्याऽनुचितत्वात्। तस्मात्सकलस्मृतिवचनानुरोधेन नाध्यापनमिति वचनं व्रात्यस्तोमाद्यसमर्थविषयमिति सम्यगिदमवदातमित्यापस्तम्बवचनयोजना॥
अथ याज्ञवल्क्यवचनयोजना।आषोडशादिति। आङभिविधावित्याद्यर्थः पारस्करसूत्रवदेव योजनीयः, अत ऊर्ध्वमुपनयनाभावात्। षोडशवर्षादूर्ध्वंसर्वधर्मबहिष्कृताः स्मार्तश्रौतधर्मबहिष्कृताः सन्तः सावित्रीपतिता व्रात्याः व्रात्यशब्दार्हाः व्रात्यस्तो मादृते पतन्ति स्वोचितस्थानादधः पतन्ति, व्रात्यस्तोमे सति तु अव्रात्या अपतितसावित्रीकाः श्रौतस्मार्तधर्माधिकारिणो न पतन्तीत्यर्थः। अत्राऽऽपस्तम्बाद्युक्तप्रायश्चित्तानां क्षुद्रत्वात्तत्रोपनयनाषिकारकरमेकं वेदाध्ययनाधिकारपरमन्यदिति विभागः समादृतः। व्रात्यस्तोमस्तु सर्वोत्तरत्वान्निरवशेषं सर्वैनोनिहन्तृत्वत्। व्रात्यस्तोमेनैकेनैवोपनयनस्मार्तश्रौतकर्माधिकारसिद्धेयाज्ञवल्क्येन व्रात्यस्तोम, एवैको निरुक्तः प्रायश्चित्तवेन। अत एव वसिष्ठवचने उद्दालकव्रतादश्वमेधावभृथस्नानमधिकफलम् ब्रह्महत्यादिमहापातकनिवर्तकस्य क्षुद्रोपपातकनिवर्तकत्वे सन्देहाभावादिति पठित्वा ततोऽप्यश्वमेधावभृथस्नानादतिप्रशस्तो व्रात्यस्तोम इति पश्चापाठो व्रात्योमस्याऽऽदृतः सङ्गतो भवति । अत एव च पारस्करसूत्रे
आषोडशादित्यादिना पतितसावित्रीकत्वं निरुच्य पतितसावित्रीकताय उपपातकरूपत्वात् ‘कालातिक्रमे नियतवत् इति उपपातकनियतं यद्यत्प्रायश्चित्तं तत्तत् प्रायश्चित्तंविधेयमिति सामान्यप्रायश्चित्तमापस्तम्बसम्मतं विधाय ‘त्रिपुरुषं पतितसावित्रीकाणामपत्ये इत्यादिना कालातिक्रम इत्युपपातकप्रायश्चित्तेन न विस्पष्टा शुद्धिरिति नोपनयनादिसंस्काराध्ययनादिर्भवितुमर्हतीति तेषां संस्कारेप्सुर्व्रात्यस्तामेनेष्ट्वा इति बालकपितृपितामहादीनां व्रात्यस्तो-मोत्तरमुपनयनाध्ययनादिसकलसंस्कारार्हतेति मनसिनिधाय व्रात्यस्तोममतिविशिष्टंयाज्ञवल्क्यवचनादेवादाय बलवत्तरदोषेऽपिबहुजनव्रात्यतालक्षणे प्रायश्चित्तरूपस्यैकद्वित्र्यादिव्रात्यतानिवर्तकता (2) सहजसिद्धेति त्रिपुरुषमिति कथं सङ्गतं भवति॥
अथ मनुवचनयोजना। आषोडशादित्यादि। अत्राङादिविवेचनं पारस्करसूत्रवदेव। ‘नैतैरपूतैर्विधिवत्’ इति मनौ विशिष्य पतितसावित्रीकत्वनिवृत्तये याज्ञवलक्यादिवत् प्रायश्चित्तं नाऽऽम्नातम्, परन्तूपपातकत्वादस्योपपातकसामान्यप्रायश्चित्तं चान्द्रायणपराकादिकं याज्ञवल्क्योक्तव्रात्यस्तोमोद्दालकव्रतादि च पतितसावित्रीकत्वदोषनिबर्हरणायाऽमिप्रेतमिति नैतैरित्यादिना सूच्यते।
येषां द्विजानां सावित्री नानूच्येत यथाविधि।
तांश्चरयित्वा त्रीन्कृच्छ्रान्यथाविध्युपनाययेत्॥
इति मनुवचनं न पतितसावित्रीकत्वदोषपरिहारपरम्, किन्तु अविध्युपनयने घनगर्जनादिना विध्युल्लङ्घनेनोपनयने कृच्छ्र्त्रयानुष्ठापनेन पुनरुपनयनपरम् इतरथा पतितसावित्रीकप्रायश्चित्तत्वे षोडशवर्षादिमध्ये उपनयनाभावात् कृच्छ्रत्रयानन्तरं यथाविधि षोडशवर्षमध्ये एवोपनययेदित्यर्थासङ्गतेः। अतीते
षोडशे पुनः षोडशवर्षमध्यत्वसम्पादनायोगात् षोडशवार्षिकतायागतायाः पुनरागमनायोगात्। घनगर्जनादौ जाते उपनयने पुनर्घनगर्जनादिरहिते काले उपनयनं विधेयमिति तु सङ्गतं भवति। स्वाध्यायस्य घनगर्जनादिरहितकालस्याभ्यां (१) वर्तमानतया तत्प्रतीक्षणसम्भवात्। षोडशवार्षिकत्वे जातेऽष्टवर्षत्वादेः सम्पादनानर्हत्वादिति यावकव्रतपरं यमवचनमुपनयनोत्तरं देवान्मानुषाद्वापराधात् पञ्जदशवर्षपर्यन्तं नित्यसन्ध्यावन्दनविलोपे उपपातकत्वात्तत्प्रायश्चित्तपरम्। तदपि प्रायश्चित्तं ‘कालातिक्रमे’ इति सूत्रेणॊपपातकसामान्यप्रायश्चित्तेन सह सङ्गृहीतं भवति। वसिष्ठवचने तुद्दालकव्रताश्वमेधावभृथस्नानव्रात्यस्तोमा विकल्पेन पतितसावित्रीकत्वप्रायश्चित्तभूता इति केचित्। उद्दालकव्रतेन सहाऽश्वमेधावभृथस्नानव्रात्यस्तोमान्यतरः समुच्चित इत्यपरे। अश्वमेघस्नानव्रात्यस्तोमयोरतिविशिष्टत्वात्स्वतन्त्रावेव, न तावुद्दालकव्रतसमुच्चयापेक्षिणौ; याज्ञवक्येन केवलव्रात्यस्तोमस्य परिग्रहादित्यन्ये।
अत्रायं सङ्ग्रहः – याज्ञवल्क्यवचनेन वात्यस्तोमतः सर्वकर्मार्हतासूचनादुपनयनमध्ययनञ्च भवति। अत्र प्रथमपर्वणि आपस्तम्बोक्तंतु त्रैविद्यकं ब्रह्मचर्यंयमोक्तंयावकव्रतं वसिष्ठोक्तमुद्दालकव्रतमुपपातक-प्रायश्चित्तचान्द्रायणादिकञ्च याज्ञवस्क्योक्तव्रात्यस्तोमेन वैकल्पिकमुपनयनाधिकारसम्पादकम्। वेदाध्ययनाधिकारसम्पादकं पुनरापस्तम्बोक्तंसंवत्सरोदकोपस्पर्शनम्। वसिष्ठोक्ताश्वमेधावभृथस्नान-व्रात्यस्तोमान्यतरच्च वैकल्पिकम्। अथ द्वितीये पर्याये ऋतुंविद्यकं ब्रह्मचर्यं यमोक्तयावकव्रतं वसिष्ठोकोद्दालकव्रतञ्चेत्येतानि वैकल्पिकानि षड्गुणितानि पितृपितामहानुपनयने उपनयनाधिकारकरप्रायश्चित्तानि। तत्र यथा ‘प्रथमेऽ-
तिक्रमे ऋतुरेवं वत्सर’ इत्यापस्तम्बवचने ‘यस्य प्रपितामह’ इत्युपक्रमात् ‘तेषां प्रायश्चित्तम्’ इति निर्देशात् त्रिभिरपि संवत्सरब्रह्मचर्यंकर्तव्यम्। तत्राऽयं विभागः - पितामहव्रात्यतानिमित्तमेकर्तुब्रह्मचर्यमुत्तरोत्तरं व्रात्यताभिवृद्धेर्बालकस्य वत्सरब्रह्मचर्यमपेक्षितम्।पितामहस्य पुनः स्वार्थमेकर्तुब्रह्मचर्यंव्रात्यतादशायां व्रात्यपुत्रोत्पादनात् व्रात्यताऽभिवृद्धेति द्व्यर्तुब्रह्मचर्यंव्रात्यपुत्राद् व्रात्यपुत्रजननाद व्रात्यतायाः पुनरतिवृद्धःत्र्यर्तुब्रह्मचर्यञ्चापेक्षितमिति संवत्सरब्रह्मचर्यमपेक्षितम्। पितुः पुनः स्वपितुव्रात्यतानिमित्त-मेकर्तुब्रह्मचर्यंस्वार्थं द्व्यर्तुब्रह्मचर्यंपुत्रार्थं त्र्यतु ब्रह्मचर्यंव्रात्यतादशायां स्वस्योत्पत्तेः स्वपुत्रोत्पत्तेश्चत्तरोत्तरं व्रात्यताप्राबल्यात्। तथाच स्वस्यैव बालकस्याऽनुपनयने एकर्तुब्रह्मवर्यं, पितुश्चानुपनयने त्र्यतु ब्रह्मचर्यमिति विभजनीयम्। एवञ्च त्रयाणामपि बालकपितृपितामहानां व्रात्यतासु यावाकादीनां षाड्गुण्यानि कथितानि। तत्र ऋतुब्रह्मचर्यवदेव स्वस्य बालस्य पितुश्च व्रात्यतायां त्रिगुणमेवानुष्ठेयमिति सिद्धम्। वेदाध्ययनाधिकारसम्पादकं पुनरापस्तम्बोक्तपुरुषसङ्ख्याप्रमितवत्सरोदकोपस्पर्शनं वसिष्ठोक्ताश्वमेधावभृथस्नानं तदुक्तव्रात्यस्तोमो वा। अथ तृतीये पर्याये उपनयनाधिकारसम्पादकद्वादशवर्षत्रैविद्यकं ब्रह्मचर्यमापस्तम्बोक्तम्, यमोक्तद्विसप्ततियावकव्रतानि, वसिष्ठोक्तद्विसप्तत्युद्दालकव्रतानि याज्ञवल्क्योक्तवात्यस्तोमो वा। द्वादशवर्षब्रह्मचर्यव्रतादिनाऽतिक्लेशादालस्यादिना सकृदेवैकस्मिन् दिने पावमान्यादिभिः स्नानं करोति चेत्तर्हि तद्दिनमारभ्यैव स्मार्तधर्मपरिमहाधिकारः। कालातिकमे बहुकालरूपे यावक प्रत्याम्नायचतुर्दशप्राजापत्यानि ग्राह्याणि। अल्पकाले सति उद्दा-
लकव्रतप्रत्याम्नायसपाददशप्राजापत्यानि, एकर्तु ब्रह्मचर्प्रत्याम्नायप्रजापत्यानि, कालातिक्रमाल्पत्वबाहुल्याभ्यां सपाददश चतुर्दश वा भवन्ति। अयञ्च विभागो बालक एव। पितृपितामहास्यव्रात्यतायां चतुर्दशप्राजापत्यान्येव भवेयुः कालदैर्ध्यनैयत्यादित्यनुसन्धेयम् पूर्वंमहत्तरव्रतानुष्ठानादेनसां निवृत्तेरल्पमात्रेएनसि सति तत्रालस्यादिना सकृदेव स्नानात्स्मार्तधर्मपरिग्रहेण कालयापने कालान्तरे सम्पूर्णोदकस्पर्शादध्ययनं संम्पादनीयमितीच्छायां सत्यां सम्पूर्णोदकस्पर्शमन्तराऽस्मिन्दिवङ्गते सति स्मार्तानुष्ठानकाले जातपुत्रस्य संस्कारो ‘यथा प्रथमेऽतिक्रमें’ इति निर्देशात् पितुरुपनयनपर्यन्तमनुष्ठानेन पुत्रस्याप्युपनयनपर्यन्ताधिकारादुपनयने जाते पश्चादध्यपनाय पित्रा सम्पूर्णोदकस्पर्शाकरणात् पुत्रस्य संवत्सरपर्यन्तोदकोपस्पर्शेऽध्ययने ऽधिकारः। तत्पुत्रादूर्ध्वन्तु प्रसिद्धद्विजपुत्रादीनां यथा तथैव कर्तव्यं स्वाभाविमेव। एवञ्च पितुरपि पूर्वमुपनयनात् द्वादशवर्षव्रतेनैव सर्वौनसां विलयात् स्वल्पैनस्त्वात्प्रथमपर्याये यत्संवत्सरीदकोपस्पर्शनं तावतैवाध्ययनाधिकार इति गमितम्। तत्रालस्यादिना कालान्तरे उदकोपस्पर्शनं विधेयमितीच्छायामेव मरणे तत्पुत्रे संवत्सरोदकोपस्पर्शनेनाऽध्यनाधिकारे पितुः सुतरां संवत्सरोपस्पर्शनेनाऽधिकारौचित्यात्। एवं तृतीये पर्याये न स्नाने गौरवं किन्तु प्रथमपर्यायवदेव स्नानं ब्रह्मचर्यादावेवाऽतिगौरवपरिग्रहात्। एवञ्च संवत्सरस्नानं तत्समकल्पमश्वमेधावभृथस्नानं व्रात्यस्तोमो वैकोऽध्ययनाधिकारहेतुरिति विवेचनीयम्। तत्र संवत्सरोदकोपस्पर्शे त्रिषवणमुदकोपर्शनिर्देशात् दिनचतुष्टयेनैकं प्रजापत्यम्, द्वादशस्नानेनैकप्राजापत्यस्मरणात्। तथा च संवत्सरस्नानस्य नवतिप्राजापत्यानि भवन्ति।
यमोक्तयावकव्रतप्रत्याम्नायानि चतुर्दश प्राजापत्यानि।उद्दालकव्रतप्रत्याम्नायानि सपाददशप्राजापत्यानि।संवत्सरस्नानस्थानेऽश्वमेधावभृथव्रात्यस्तोमयोर्वसिष्ठेन निर्देशात् त्रयं समबलमेव।
अथ ‘त्रिपुरुषं पतितसावित्रीकाणामपत्ये’ इत्यत्र पतितसावित्रीकाणां चतुराद्याधिक्येऽपि व्रात्यस्तोमनिमित्तमस्ति ‘ऐन्द्राग्नस्थल इव’ इत्युक्तम्, तत्कथमिति चेदित्थम्। तथा हि – ऐन्द्राग्नम्पुनरुसृष्टमालभेत य आतृतीयात्पुरुषात्सोमं न पिबेत्’ इति सोमपानाभाव ऐन्द्राग्नप्रयोजक उक्तः। एवम् ‘आश्विनं धूम्रललाममालभेत यो दुर्ब्राह्मणः सोमं पिपासेत्’ इति दौर्ब्राह्मण्यसमेता सोमपिपासा आश्विनप्रयोजिकोक्ता। एवम्
यस्य वेदश्च वेदी च विच्छिद्येते त्रिपूरुषम्।
स वै दुर्ब्राह्मणो नाम न सोमं पातुमर्हति॥
‘यश्चैव वृषलीपतिः’, ‘सर्वकर्मबहिष्कृत’ इति पाठभेदः। तन्त्रानया स्मृत्या दौर्ब्राह्मण्यं समाम्नातम्। अत्रैन्द्राग्नाश्विनप्रयोजकेस्मार्तञ्चेत्येतानि दौर्ब्राह्मण्यानि त्रीणि किं विजातीयानि ? किं वा सर्वमेकविधमेवदौर्ब्राह्मण्यमाहोखित् नानापि दौर्ब्राह्मण्यानि द्वैरात्रनयेन ऐन्द्राग्नप्रयोजकतयाऽऽश्विनप्रयोजकतया च श्रुतिभ्यां परिगृहीतानि।स्मृतिस्तु श्रुतिद्वयानुमतदौर्बाह्मण्यद्वयप्रकाशिकेति विषये प्रमाणभेदादिह त्रीणि दौर्ब्राह्मण्यानीति कश्चित् तन्न; त्रिभिरपि प्रमाणॆर्नत्रिविधं दौर्ब्राह्मण्यं प्रतिपाद्यते, किन्तु श्रुतिभ्यां द्वे दौर्ब्राह्मण्ये प्रतिपाद्येते।स्मृतिस्तु द्विविधदौर्ब्राह्मण्यानुवादिका, न. तु तृतीयं दौर्ब्राह्मण्यं प्रतिपादयति; तद्दौर्ब्राह्मण्ये निमित्ते नैमित्तिकस्यापरस्याऽकथनात्। तत्र स्मृतावेन्द्राग्नो वेदीसबन्धविच्छेद निमित्तकः। वेदीविच्छेदश्च सोमविच्छेदलक्षण एव । ‘ऐन्द्राग्नं पन-
रुत्सृष्टम् इति मूलभूतश्रुत्या सोमपानाभावस्य निमित्तत्वेन स्पष्टप्रत्यायनात्। आश्विनस्तु पशुब्रह्मण्यनिमित्तकः।यस्य वेदश्चेति स्मृत्या वेदविच्छेदस्य दौर्ब्राह्मण्यसम्पादकतया प्रत्यायनात्तदौर्ब्राह्मण्यस्य ‘आश्विने अश्विनम्’ इत्यादिश्रुत्यानिमित्तप्रत्ययात्। अथ यस्य वेदश्चेति स्मृत्या वेदवेदीविच्छेदस्य दौर्ब्राह्मणयहेतुत्वेन प्रत्यायनात् सोमविच्छेदस्य च वेदविच्छेदान्तर्गत-त्वादश्विनमित्यादिश्रुतिविहिताश्विनेनैव वेदवेदीविच्छेदजनित-दोषसामान्यनिवृत्तेराश्विने कृते नैन्द्राग्नः कर्तव्य इति चेत्, निमित्तभेदादुभावपि समुच्चितावैन्द्राग्नाश्विनावित्युपदेश इति केचित्’।
** अत्रायमाशयो माधवाचार्योल्लिखितः**- ‘पुनरुत्सृष्टे पशौ विच्छिन्नो वा एतस्य सोमपोथी यो ब्राह्मणः सन्नातृतीयात्पुरुषात्सोमं न पिबति’ इति निर्देशेन सोमपानविच्छेदप्रयुक्तदौर्ब्राह्मण्येन क्रत्वनधिकार इत्यैन्द्राग्नेन ऋत्वधिकारः सिद्धयति। आश्विने तु ‘यो दुर्ब्राह्मणः सोमं पिपासेत्’ इति निर्देशात् सोमपानश्रद्धालुत्वेसति दुर्ब्राह्मणोऽधिकियते। एवञ्च ब्रह्मवर्चसप्रतिबन्धकीभूतदौब्राह्मण्यापनुत्तये आश्विनः पशुः क्रत्वधिकारप्रतिबन्धकी-भूतदौर्ब्राह्मण्यहरणायैन्द्राग्नः पशुरिति सिद्धं भवति। तत्राश्विनवाक्ये ‘यदुधूम्रो भवति धूम्रिमाणमेवास्तादपहन्ति, ललामो भवति मुखत एवास्मिन् तेजो दधाति इति वचसि पशोर्धूम्रवर्णन दौर्ब्राह्मण्यलक्षणं धूम्रिमाणं मालिन्यमस्माद्यजमानादपहन्ति। ललामशब्दे तु त्वस्मिन् यजमाने मुखत एव मुख्यमेव ब्रह्मवर्चसलक्षणं तेजो दधातीत्यर्थके ब्रह्मवर्चसफलस्य स्पष्टत्वात् ब्रह्मवर्चसप्रतिबन्धकीभूतदौर्ब्राह्मण्यसामान्यमाश्विनेन निवत्यते। अत्रैन्द्राग्नाश्विननिवर्त्यदौर्ब्रह्मण्यद्वयं यस्य वेदश्चेति स्मृत्या निरूपितम्। अत्र वेदविद
दकथनादेव वेदिविच्छेदस्याऽप्यर्थसिद्धत्वाद्वेदपूर्वकत्वाद्वेदेः पुनरपि वेदिविच्छेदकथनमर्थभेदसूचनायैव भवति। तत्र वेदस्याध्ययनद्वारा ब्रह्मवर्चससम्पादकत्वं मन्त्ररूपपदार्थविधया अर्थज्ञानद्वारा च कर्मोपयोगित्वञ्चेति द्वे रूपे भवतः। तत्र कर्मोपयुक्तरूपद्वारा वेदेनिर्वर्तकत्वं, रूपान्तरेण ब्रह्मवर्चसहेतुत्वम्। तत्र वेदविच्छेदकथनं ब्रह्मवर्चसप्रतिबन्ध-भूतदौर्ब्राह्मण्यपरम्। वेदिविच्छेदकथनन्तु क्रत्वनधिकारनिमित्तभूतदौर्बाह्मण्यज्ञापकम्। एवं वेदी चेति चकारेणैवोक्तसमुच्चयसम्भवाद्वेदश्चेति चकारोऽनतिप्रयोजनः सन्ननुक्तसमुच्चयपरः। एवञ्च ‘यथामानोयथाचार’ (?) इति श्रुतिगमिताचारस्य शीलादिलक्षणस्य समुचितस्य विच्छेदो वेदविच्छेदसमो व्रात्यस्तोमनिवर्त्य-व्रात्यतारूपस्ताण्डिब्राह्मणेन परिगृहीत इह संगृहीतो भवति। अत्र ‘आश्विनं धूम्रललाममालभेत यो दुर्ब्राह्मणः सोमं पिपासेत्’ इत्यत्र पिबेदित्यनुक्त्वा पिपासेदिति सनो निर्देशात् प्राथमिकक्रतुप्रयोगेच्छेवपरिगृहीता भवति, न तु तदुत्तरक्रतुप्रयोगेच्छापि। ‘अश्विनौवै देवानामसोमपावास्तां तौ पञ्चात्सोमपीथं प्राप्नुतामश्विनावेतस्य देवता’ इति वाक्पशेषे प्रथमसोमपानस्यैव प्रत्यायनेन तद्देवताकयजनस्यापि तादृक्त्वौचित्यात्। अत्र वेदादिविच्छेदमूलक-दौर्ब्राह्मण्यनिबर्हणाधीयमानब्रह्मवर्चसफलाय प्राथमिक-सोमप्रयोगमाश्रित्याश्विनो विधीयते। तत्र ‘सप्तदशारलिर्वापेयस्य यूपः’ इत्यत्र साक्षाद्वाजपेये साप्तदश्यान्वयायोगेऽपि तदङ्गपशुद्वारा यथाऽन्वयस्तथा साक्षात्सोमस्य पश्वाश्रस्वाभावेऽपि सोमाङ्गभूताग्नीषोमीयतन्त्र-द्वाराऽऽश्रयत्वघटते। ननु सवनीयपशुतन्त्रमेव कुतो नाश्रयः, अग्नीषमीयपर्यन्तानुधावने को हेतुरिति चेत्, सत्यम्, पिपासेदिति स्पष्टमिच्छाकालिकसोमामाङ्गाश्रयणस्य
सूचनात् सवनीयपशुकाले ऋत्विक्कर्तृकसोमयागस्य शास्त्रयजमानानुमतिपूर्वकस्यप्रवृत्तत्वेन पिपासेदित्यस्य सोमप्रवृत्तीच्छानियतेच्छाकत्वाभावात्सवनीयपशोराश्रयत्वं प्रमाणाननुरूपमेवेत्यग्नीषोमीयस्यैवाश्रयत्वं प्रमाणानुगुण-त्वात्परिग्राह्यम्। तथाचाऽऽश्विनपशुवचनं गुणफलविधिर्गोदोहनेन पशुकामस्येति वचनवदिति सिद्ध भवति। ऐन्द्राग्नस्तृतीय पुरुषपर्यन्तसोमविच्छेदसम्भूतदोषोपशमनद्वारा सोमाधिकारसम्पादकत्वादाधोनोत्तरं सोमात्पूर्वंयथायोगं कर्तव्योभवति। आश्विनः पुनरग्नीषोमीयकाल एव; प्रथमसोमाश्रयकत्वात्। एवञ्च प्रथमसोमात्पूर्व-भाविब्रह्मवर्चसाभावनिदानीभूतदौर्ब्राह्मण्यं प्रथमसोमाश्रितेनाश्विनेन निवत्येते। तथाचाश्विनः काम्यो गोर्दोहनवत्, न तु क्रत्वनधिकारहेतुदौर्ब्राह्मण्यनिवतर्कः। ऐन्द्रग्न एव तादृग्दौर्ब्राह्मण्यनिवर्तनद्वाराऽधिकारसम्पादकः। अत एव कात्यायनेन क्रत्वनधिकारव्यावर्तनद्वाराऽधिकार-सम्पादनपर ऐन्द्राग्न एव सूत्रितो न त्वाश्विनः।यदि वाऽऽश्विनोऽप्यैन्द्राग्नवदधिकारे हेतुः स्यात्समुच्चित्य, तर्हि ‘सर्वशाखाप्रत्यय’ न्यायेन क्रत्वधिकारप्रतिपत्तये ऐन्द्राग्नवदाश्विनोऽपि सूत्रितः स्यात्, न तथा; तस्मादाश्विनो बह्मवर्चसप्रतिबन्धकीभूतदोषनिर्हरणपरत्वेन भिन्नफल एव। अत एव कात्यायनिनः केवलैन्द्राग्नानुष्ठानेनैव क्रतुंसगुणं मन्वते। एवञ्च कात्यायनिनामितरेषां वा ब्रह्मवर्चसप्रतिबन्धक्रीभूतदोषनिर्हरणकामनायां प्रथमसोमप्रयोगे सति पशुराश्विनः कर्तव्यः। ऐन्द्रग्नेनैव प्रथमप्रयोगे सति तु ब्रह्मवर्चसप्रतिबन्धकीभूतो दोषस्तदवस्थ एव भवेत्। प्रथमसोमोत्तरं ब्रह्मवर्चसप्रतिबन्धक-दोषनिर्हरणकामनायांतूताण्ड्यब्राह्मणाद्युक्तव्रात्यस्तोमादय एवाऽनुष्ठेयाः। तत्र त्रास्यता
नानाविधा। तृतीयपुरुषपर्यन्तवेदाचारादिविच्छेदस्ताण्डयुपात्तश्चेति। तत्रानुपनयनादिप्रयुक्तव्रात्यतादिनिवृत्तावपि तत्तत्प्रमाणप्रवर्तनं समर्थमिति विवेकः।
त्रिकाण्डमण्डनास्तु पक्षान् बहूनिह सञ्चिक्षिपुः -
एकस्य सोमविच्छेदे केचिदेन्द्राग्नमब्रुवन्।
त्रयाणां सततं लुप्तेसोमे त्वैन्द्राग्नमाश्विनम्॥
पिता पितामहो वापि सोमं यस्य न पीतवान्।
दुर्ब्राह्मणं तमाचष्टे कङ्कः शाखान्तरश्रुतेः॥ इति।
गोपालास्तु
सोमेन यक्ष्यमाणस्य यस्य पित्रादयस्त्रयः।
नेजिरे सोमयागेन स स्याद्विच्छिन्नसोमपः॥
आलभेत स ऐन्द्रग्नमवशीर्णावयवं पशुम्
पुनरुत्सृष्टवाच्यो हि बाहोत्सृष्टः पुनर्वहन्॥
छागेऽपि संभवत्येतद्वहत्येव हिमाचले।
स्वकण्ठॆन भरद्वाजः सुस्पष्टमिदमब्रवीत्॥
विच्छिन्नसोमपीथो वा दुर्ब्राह्मण इतीरितः। इति ।
अत्र ‘य आतृतीयात्पुरुषात्सोमं न पिबेत्’ इत्यत्र यष्टुः पुरुषात्तृतीयः पितामहः।आङ् मर्यादायाम्। एवञ्च पितुः सोमपानाभावे ऐन्द्राग्नः। अयमर्थ एकस्येति प्रथमकलपेन गृहीतः। यदि चाङभिव्याप्तौ, तर्हिपितृपितामहयोः सोमपाने ऐन्द्राग्नः। अयमर्थः पितेत्यादितृतीयकल्पेन गृहीतः। यदि च यष्टारमपहाय पितरमारभ्य त्रिपुरुषपरिग्रहस्तर्हि प्रपितामहपर्यन्तं सोमापाने ऐन्द्राग्नः। अयमर्थस्त्रयणां पित्रादयस्त्रय इत्येताभ्यां परिगृहीतः। तत्र ‘विच्छिन्नसोमपीथो वा दुर्ब्राह्मण इतीरित’ इति पक्षॆणदौर्ब्राह्म-
रायहराऽऽश्विनस्यैन्द्राग्नेनाऽसोमपबाहुल्यात्समुच्चितः । अयमर्थस्त्रयाणामिति मध्यकल्पेन सङ्ग्रहीतः। तन्त्र कर्कपक्ष एव साधुः यष्टुरेव तृतीयावधित्वौचित्यात्।यस्य पिता न सोमं पिबेदिति स्पष्टमनुक्त्वा तृतीयादिति गुरुतरनिर्देर्शेनाऽऽङोऽभिव्याप्तिपरत्वौचित्यात्। असोमपबाहुल्यात् दौर्ब्राह्मण्येनाश्विन इत्यप्य-सङ्गतम्कात्यायनसूत्रविरोधात्। तत्राऽसोमपत्वदोषपरिहारायाश्विनाश्विबन्धनातू (?)। अत एव दौर्ब्राह्मण्यं-नाऽसोमपत्वप्रयुक्तम; किन्तु वेदाचारविहीनत्वप्रयुक्तम् ब्रह्मवर्चसाभावबीजभूतकलुषं विलक्षणमिति विवेकः॥
केचित्तु -
सावित्रीमात्रसारोऽपि नाऽसौ दुर्ब्राह्मणो भवेत्।
इति स्मृतेरतिक्रान्ते सावित्र्याः काले ‘यस्य पिता पितामह इत्यनुपेतौ स्याताम्’ इति आपस्तम्बवचनात्
आषोडशादाद्वाविंशाच्चतुर्विंशाच्च वत्सगत्।
ब्रह्मक्षत्रविशां काल औपनायनिकः परः ॥
अत ऊर्ध्वं पतन्त्येते सर्वधर्मबहिष्कृताः।
इति याज्ञवल्क्यवचनात्,
आषोडशाद्ब्राह्मणस्य सावीत्री नातिवर्तते।
आद्वाविंशात्क्षत्रबन्धोराचतुर्विंशतेर्विशः॥
अतऊर्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः।
सावित्रीपतिता व्रात्या भवन्त्यार्यविगर्हिताः।
इति मनुवचनतः, ‘अत ऊर्ध्वं पतितसावित्रीका भवन्ति’ इति पारस्करवचनात्, मानान्तैरश्च ज्ञापितदौर्ब्राह्मण्यनिवृत्तयेऽपि आ
श्विनः पशुः। ऐन्द्राग्नस्तु सोमविच्छेदप्रयुक्तक्रत्वनधिकारपरिहारायेत्याहुः॥
तदेतदतिपेशलम्, ‘सावित्रीमात्रसारोऽपीति’ स्मृति ‘र्नासौ दुर्ब्रह्मणो भवे’ दिति पातित्याभावमेव ब्रूते, न तु ब्रह्मवर्चसप्रतिोबन्धकीभूत दौर्ब्राह्मण्याभावम् ; ‘यस्य वेदश्च वेदीचे’ ति स्मृतिरन्यथाऽनर्थिकैव भवेत्। एवं यो दुर्ब्राह्मणः सोमं पिपासेत्’ इति वाक्ये सोमं पिपासेदित्यंशोऽनर्थकः स्यात् आश्विनं धूम्रललाममालभेत यो दुर्ब्राह्मण’ इत्येतावतैवात्राभिमतार्थलाभसम्भवात्। अतः प्रागुक्तरीत्यैवाश्विनविनियोगः समुचित इति दिक्॥
अथ’य आतृतीयात्पुरुषात्सोमं न पिबेत्’ इत्यत्र तृतीयम्पुरुषं मर्यादीकृत्याऽभिव्याप्तीकृत्य वा सोमपानाभावस्यैन्द्राग्नंनिमित्तत्वात्पुरुषत्रयादूर्ध्वमपि सोमपानाभावे कथमैन्द्रानानुष्ठानम् ? निमित्तालाभादिति चेत्, सत्यम्, सहस्रेशतसङ्ख्यावद बहुपुरुषाणां ब्रह्मसृष्टिमारभ्य प्रवृत्तानां सोमपानाभावे सति तत्र त्रिपुरुषसोमपानाभावोपि सिद्ध इति निमित्तसत्त्वादैन्द्राग्नो भवेदेव। न च त्रिपुरुषोतध्वमधिकपुरुषसोमपानाभावे एनसो बाहुल्यादेकेनैन्द्राग्नेन तदेनसः कथं विलय इति वाच्यम्; सोमपानाभावबाहुल्य प्रयुक्तैनसां बहुत्वेऽपि सर्वैनसां सन्निधाने जायमानैन्द्रग्नादृष्टवशतो नाशसम्भवात्, अतिक्षुद्राग्निकिरणस्पर्शमात्रेण तूलराशेरल्पस्य महतो वा नाशे भेदाभावात्। एवं त्रिपुरुषमित्यादि पारस्करसूत्रमपि योजनीयम्। कालातिकमे नियतवदिति सूत्रं बालकस्यैकस्य पितुश्च द्वयोः पितामहस्य च त्रयाणां पतितसावित्रीकत्वप्रायश्चित्तपरम्। यद्यप्याषोडशादित्युपक्रम्याऽतऊर्ध्वमित्यनेन बालकस्यैव पतितसावित्रीकत्वमित्युक्त्वा कालातिक्रम इति सूत्रं पठितं बालकस्यैव पतित-
सावित्रीकत्वप्रायश्चित्तपरं भवितुमर्हति; तथापि त्रिपुरुषं पातितसावित्रीकाणामिति त्रिपुरुषपतितसावित्रीकापत्य-प्रायश्चित्तविधानेन प्रथमप्रायश्चित्तस्य पुरुषत्रयसाधारणत्वौचित्याम्। अथ कालातिक्रमे नियतवदिति पुरुषत्रयपर्यन्तपतितसावित्रीकप्रायश्चित्तंत्रिपुरुषपर्यन्तं भवेदेव।त्रिपुरुषादूर्ध्वं पतितसावित्रीकत्वे तु नानेन प्रायश्चित्तं न शुद्धिः, तेन नोपनयनसंस्कारो न वाऽध्यापनं किन्तु व्रात्यस्तोमेनेत्याह त्रिपुरुषमिति। संस्कारो नाऽध्यापनञ्च नेत्यन्वयः।तेषां चतुर्णां मध्ये जनः कोपि व्रात्यस्तोमेनेष्ट्वा संस्कारेप्सुर्भवेत्। व्रात्यस्तोमं विनोपनयनेच्छा न कार्येत्यर्थः। तत्र प्रमाणमाह काममिति। ‘काममधोयीरन् व्यवहार्या भवन्ति’ इति वचनात्। ताण्डिब्राह्मणवचनतात्पर्यादिति भावः। ताण्डिब्राह्मणे ईदृशवचनाभावेन वचनादित्यनेन वचनतात्पर्यादिति लक्षणादिति विवेचनीयम्। अत्राऽनेकपतितसावित्रीकाणां त्रिपुरुषं पतितसावित्रीकोपि भवतीत्यैन्द्राग्नपशुन्यायेन सर्वौनसां व्रात्यस्तोमेन नाशः सम्भवति। विस्फुलिङ्गसम्पर्कतस्तूलराशेरल्पस्य महतो वा नाशदर्शनेन व्रात्यस्तोमाग्निना सर्वव्रात्यतातुलानां युगपदेव विलयनात्। एवञ्चोपनयनाध्ययनाद्यधिकारः सम्भवति, सर्वस्मादपि प्रायश्चित्ताद् व्रात्यस्तोमस्य बलवत्तमत्वात् एतत्तुल्यप्रायश्चित्तस्याऽपरस्यालीकत्वात्। अत एव याज्ञवल्क्येन प्रथमपर्वण्यपि व्रात्यस्तोमः प्रायश्चित्तमिति गमितम् इति – वर्णितम्, तदिदं पूर्वतनैरेव समालोचनैस्समालोचितप्रायमिति प्रकृतेऽवसरे विस्तरभयाद्विशेषतः समालोचने न प्रवर्तामहे ।
अथ प्रसङ्गात् कलौ क्षत्रियादेः सत्त्वमुतासत्त्वमिति विषयमधिकृत्य किञ्चिदिव विचारयामः । तत्र श्रीनागोजिभट्टा एवं वर्णयन्ति
व्रात्यप्रायश्चित्तनिर्णये स्वीये। तद्यथा – कलौ क्षत्रियसादृश्येन तथ व्यवहारेऽपि मुख्यक्षत्रियादयो न सन्त्येव।
कलौ क्षत्रियादिसत्वे नागोजिभट्टमतम्
तथाच अर्जुनपौत्रपरीक्षिद्राज्यकाले मैत्रेयं प्रति पराशरेणोपदिष्टे विष्णुपुराणे चतुर्थेंऽशे सूर्यचन्द्रवश्यानां तत्तत्क्षत्रियाणां वंशसन्ततिमुक्त्वा परीक्षिद्राज्योत्तरं क्षेमकान्तान् चन्द्रवंश्यान् उक्त्वोक्तम् -
ब्रह्मक्षत्रस्य यो योनिर्वंशो देवर्षिसत्कृतः।
क्षेमकं प्राप्य राजानं स संस्थां प्रप्यते कलौ॥
इति। मात्स्येऽप्येवम् – ‘संस्थास्यति स वै कलौ इति । तत्र तुर्यपादेः - भागवतेऽपि नवमे
ब्रह्मक्षत्रस्य वंशोऽयं प्रोक्तो देवर्षिसस्कृतः।
क्षेमकं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ।
इति। वंश इत्युक्त्याराज्यहीनोऽपि वक्ष्ययमाणवार्हद्रथवंशातिरिक्त एतद्वंशो नास्तीति सूचितम् । ततो भाविन इक्ष्वाकून् सुमित्रान्तोनुक्त्त्वोक्तम्-
इक्ष्वाकूणामयं वंशः सुमित्रान्तो भविष्यति।
सयतस्तं प्राप्य राजानं स संस्थां प्राप्स्यते कलौ।
इति।स इक्ष्वाकुवंशः। अन्येषां सूर्यवंश्यानां वंशसमाप्तिः पूर्वमुक्तैव। नवमे भागवतेऽपि - ‘सुमित्रो नाम निष्ठान्तः’ इत्युकम्। निष्ठा वंशस्थितिस्तस्या अन्त इति तदर्थः । ‘इक्ष्वाकूणामयं वंशः इति च पूर्ववदेव। तत्र ‘संस्थां प्राप्स्यति वै कलौ इति चतुर्थचरणपाठः। तत्र रिपुञ्जयान्ता भाविनो मागधा बार्हद्रथा उक्ताः। तत्र जरासन्धादिरिपुञ्जयान्तं सहस्रवर्षपर्यन्तं राज्यमुक्तम्। रिपुञ्जयमुक्त्वा
बार्हद्रथाश्च भूपाला भाव्याः साहस्रवत्सरम्॥
इति नवमे भागवतेऽपि। तत्र जरासन्धमारभ्याऽयुतायुः पर्यन्तं पञ्चशतं वर्षाणि परीक्षित्कालिकायुतायुतो रिपुञ्जयान्तं पञ्चशतं वर्षाणीतिव्यवस्थातो नाऽग्रिमग्रन्थविरोधः। ततो रिपुञ्जयमपुत्रं हत्वा तदमात्येन स्वपुत्रस्य प्रद्योतस्य राज्यं दत्तम्, तद्वंशे चाऽष्टत्रिंशदुत्तरमब्दशतं राज्यमुक्त्वा ततः शिशुनागवंशे महानन्द्यन्तं द्विषष्ट्यधिकवर्षशतत्रयं राज्यमुक्तम्। द्वादशे भागवतेऽपि -
शिशुनागा दशैवैते षष्ट्युत्तरशतत्रयम्।
समा भोक्ष्यन्ति पृथिवीं कुरुश्रेष्ठ कलौ नृपाः॥
इति। तदल्पान्तरत्वान्न विरुद्धम्। ततो महानन्दिसुतः शूद्रागर्भोद्भवोऽतिलुब्धो महापद्मो नन्दः परशुराम इवाऽपरोऽखिलक्षत्रान्तकरो भविता।ततः प्रभृति शूद्रा भूमिपाला भविष्यन्ति। स चैकच्छत्रामनुल्लङ्घितशासनो महापद्मः पृथिवीं भोदयतीत्युक्तम्। अत्र परशुरामोपमया स्त्रीबालावधि निर्दयं हन्तृत्वं सूचितम्। महोपद्म इत्यस्य तावत्सङ्ख्यं धनम्, तावत्सैन्य इति चाऽर्थः। परशुरामेणेव कतिपयानामहननमपि स्यादत आह- अखिलक्षत्रान्तकारीति। तेन क्षत्रियसामान्याभावः सूचितः। तदेवोक्तम्– ‘भूमिपालाः इति। नन्दस्योग्रत्वेऽपि अनुलोमसङ्कराणां मातृजातीयत्वाच्छुद्रा इत्युक्तम्। तत्तद्देशीयक्षत्रियान् हत्वा तत्सन्तानभूताउग्रास्तत्तद्राज्ये स्थापिता इति तात्पर्यम्। भागवते द्वादशे-
महानन्दिसुतो राजन् ! शूद्रागर्भोद्भवो बली।
महापद्मपतिः कश्चिन्नन्दः चत्रविनाशकृत् ॥
ततो नृपा भविष्यन्ति शूद्रप्रायास्त्वधार्मिकाः।
इति नन्दादीनामुग्रत्वात् शूद्रप्राया इत्युक्तम्। एतेन राज्या -
धिकारिणो मागधा एवाऽनेन नाशिता न तु देशान्तरस्थाः। शूद्रराज्योक्तिरपि मगधदेशविषयैवेति निरस्तम्; सामान्यप्रवृत्तवाक्यस्य सङ्कोचे मानाभावात् वक्ष्यमाणवाक्यविरोधाच्च, मागधरिपुञ्जयकाल एव सर्वक्षत्रियवंशशाखानाशाच्च। एतच्चाऽग्रेस्फुटं भविष्यति। ततो नन्दपुत्राणाञ्च शतवर्षपर्यन्तं राज्यमुक्तम्। ततश्च कौटिल्यप्रधानत्वात् कौटिल्य : – वात्स्यायनविष्णुगुप्तादिपर्यायः– चाणक्यो नन्दपुत्रानुच्छिद्य नन्दस्य कनीयस्यां भार्यायां मुरासंज्ञायां जातं चन्द्रगुप्तंराज्येऽभिषेक्ष्यति। मौर्याणां सप्तत्रिंशदधिकं वर्षशतं राज्यम्। ततोऽन्त्यं मौर्य्यं तत्सेनापतिःशुङ्गजातीयःपुष्पमित्रं हत्वा राज्यं करिष्यति। तद्वंशे द्वादशाधिकं वर्षशतं राज्यम्। ततोऽन्त्यं शुङ्ग’ देवभूतिमपुत्रं तदमात्यः कण्वजातीयो वसुदेवनामा ब्राह्मणो हत्वा स्वयं करिष्यति। तद्वंशे शतत्रयं पञ्चचत्वारिंशच्चवर्षाणि राज्यम्। ततस्तभृत्य आन्ध्रजातिः शिप्रकनामाऽन्त्यं कण्वंसुशर्माणं हत्वा स्वयं राज्यं करिष्यति। तद्वंशेषट्पञ्चाशदधिकचतुरब्दशतं राज्यम् । ततः सप्ताऽऽभीराः, दश गर्द भिल्लाः, षोडश कङ्का इति। भागवते - अष्टौ यवनाः, चतुर्दश तुषाराः, चतुर्दश पुक्कसा इति। भागवते - त्रयोदश गुरुण्डाः, एकादश मौना नवनवत्यधिकत्रयोदशवर्षशतानि राज्यं करिष्यन्ति। तेषु छिन्नेषु कैलिङ्किला यवना भूपतयो भविष्यन्ति। तेषां षडधिकवर्षशतं राज्यमिति। भागवते – ‘मूर्धाभिषिक्तस्तेषां विन्ध्यशक्तिः ’ – इत्युक्तम् । मूर्धाभिषिक्तो मुख्यः। मूर्धसिक्त इति पोठे तादृश क्षत्रियवन्मुख्य इत्यर्थः । ततः पुरञ्जयादयो नव षड्वर्षाऽधिकं वर्षशतं राज्यं करिष्यन्ति। तत्पुत्रास्त्रयोदश वाहीकास्ततः पुष्पमित्रादयस्त्रयः, ततस्त्रयोदश मेकलाः, सत्यकौशला निषधा
नव, ततो मागधो विश्वस्फूर्जिसंज्ञोऽन्यान् वर्णान् करिष्यति कैवर्तपटुपुलिन्दसंज्ञान् म्लेच्छप्रायान् ब्राह्मणान् राज्ये स्थापयिष्यति। ‘उत्साद्याऽखिलचत्रजातिम्’ इत्युक्तम्। क्षत्रजातिमित्यस्य क्षत्रजातिमुग्रादिरूपामित्यर्थः। एतेन तावत्पर्यन्तमुप्रादिजातिस्थितिः। अग्रे साऽपि नास्तीति सूचितम्। अतोनैतदुबलान्नन्दोत्तरं क्षत्रियसत्तासिद्धिरिति बोध्यम्। भागवतेऽपि –
मागधानान्तु भविता विश्वस्फूर्जिः पुरञ्जयः।
करिष्यत्यपरान्वर्णान् पुलिन्दपटुमद्रकान्॥
प्रजाश्चाऽब्रह्मभूयिष्ठाः स्थापयिष्ययि दुर्मतिः।
वीर्यवान् क्षत्रमुत्साद्य पद्मावत्यां स वै पुरि॥
गङ्गाद्वारादाप्रयागं गुप्ता भोक्ष्यति मेदिनीम्।
इति। अत्र क्षत्रपदंतज्जन्यत्वादुग्रपरम्। मागधानामिसत्यस्य मगधदेशीयानां सङ्कीणज्ञामित्यर्थः। ततोऽन्ते व्रात्यद्विजाऽऽभीरशूद्रान्ताः समकालं पृथ्वीं भोक्ष्यन्ति। ततोऽनुदिनमल्पह्रासार्द्धर्मस्य व्यवच्छेदादर्थस्य च सङ्क्षयो भविष्यति। ततश्च धनमेवाऽभिजनहेतुः, रुचिरेव दाम्पत्ये हेतुः, अढ्यतैव साधुत्वे हेतुः इत्येवमनेकदोषोत्तरे भूमण्डले सर्ववर्णेषु यो बलवान् स भूपतिर्भविष्यतीत्युक्तं ‘सर्ववर्णॆषु’ इति। अस्याऽवशिष्टेषु ब्राह्मणवैश्यशूद्रेष्वित्यर्थः। तेऽपि कलावतिव्रात्यतया शूद्रत्वेनैव पूर्व गणिता इति न विरोधः। ‘अक्षत्रियाश्च राजानः’ इति वक्ष्यमाणहरिवंशात्। एतेनैतदुबलात् क्षत्रियसत्तासाधनमपास्तम्।यदि तु -
कलौ न क्षत्रियाः सन्ति कलौ नो वैश्यजातयः।
ब्राह्मणाश्चैव शूद्राश्च कलौ वर्णद्वयं स्मृतम्॥
इत्युक्तेः -
नाधीयन्ते तदाग्नयः न यजन्ते द्विजातयः।
उत्सीदन्ति तदा चैव वैश्यैस्सार्द्धन्तु क्षत्रियाः॥
इति मत्स्योक्तेश्च वैश्यस्याऽप्यभावः, तदा सर्वपदं बहुपदञ्च व्यक्तिविषयं बोध्यम्।
ब्रह्मविट्क्षत्रशूद्राणां यो बली भविता नृपः।
इति भागवते। तत्तद्व्रत्याब्राह्मणेष्वेव विट्क्षत्रव्यवहारो द्रष्टव्यः। एवमेव ‘शूद्रप्रायेषु वर्णेषु इत्यपि व्याख्येयम् \। येऽपि तत्तद्वृत्या तत्तद्वर्णेन व्यवह्रियमाणास्तेऽप्याचारतः शूद्रतुल्या एवेत्यर्थः। तथा त्रेतायां ब्राह्मणोत्तराः प्रजाः; द्वापरे ब्रह्मचत्रोत्तरा इत्युक्त्वा कलौ शूद्रदाशोत्तरा इत्युक्तंद्वादशे भागवते। एवं क्रमेण कलियुगे क्षयमायाति, सर्वधर्मेषु विप्लवङ्गतेषु, भगवतो वासुदेवस्यांऽशः शम्भलग्रामप्रधानविष्णुयशसोगृहे कलिकरूपोऽवतीर्य सकलदस्युम्लेच्छदुष्टाचरणचेतसामशेषाणां क्षयं करिष्यति, स्वधमेंषु चाऽखिलं जगत् स्थापयिष्यति। अनन्तरं प्रचेतसाऽर्धकलेरवसाने प्रबुद्धानां तेषां जनपदानाममलस्फटिकविशुद्धा मतयो भविष्यन्ति। प्रबुद्धानामित्यनेन सत्त्वगुणोद्रेको दर्शितः। तेषाञ्च बीजभूतानामशेषमनुष्याणां परिणतानामपि तत्कालकृतानामपत्यप्रसूतिर्भविष्यति, तेन कालेन कृतानामाहितशक्तीनामित्यर्थः। तानि च तदपत्यानि कृतयुगधर्मानुसारीणि भविष्यन्तीत्युक्तम्। भागवते -
दिव्याब्दानां सहस्रान्ते चतुर्थे तु पुनः कृते।
भविष्यति, यदानृणां मन आत्मप्रकाशकम्॥
इति। चतुर्थे तु कलावतीते सति यदा नृणां मन आत्मप्रकाशकं भविष्यति, तदा कृतं भविष्यतीति तदर्थः।
यदा चन्द्रश्च सूर्यश्च तथा तिष्यबृहस्पती।
एकराशौ समेष्यन्ति, भविष्यति ततः कृतम्॥
प्रतिद्वादशाब्दं कर्कस्थे गुरावेषां त्रयाणां पुष्येण योगादावृत्तिप्रसङ्गादेकराशाविति। अनागतः क्षत्रियवंशः कियत्कालं स्थास्यतीत्यपेक्षायां दाढ्ययोक्तमेवाह -
यावत्परीक्षितो राज्यं यावन्नन्दाभिषेचनम्।
एतद्वर्षसहस्रन्तु कलौ पञ्चदशोत्तरम्॥
तावत्पर्यन्तमेव शुद्धक्षत्रियवंशः स्थास्यति। अनन्तरं नन्देन सर्वक्षत्रियनाशादित्यर्थ इति रत्नगर्भः। ‘परीक्षितो जन्म’ इति पाठॆपञ्चदशेत्यस्य पञ्चावृत्ता दशेत्यर्थः। उग्रादिरूपक्षत्रवंशस्याऽग्रेऽप्यवस्थानाच्छुद्ध इत्युक्तम्।
अथ कलिकाललक्षणमाह -
सप्तर्षीणाञ्च यो पूर्वौदृश्येते उदितौ दिवि।
तयोस्तु मध्यनक्षत्रं दृश्यते यत्समं निशि॥
तेनैव ऋषयो युक्तास्तिष्ठन्त्यब्दशतं नृणाम।
प्रागग्रशकटाकारतारासप्तकसप्तर्षिमण्डलस्य पूर्वभागे इष्वाकारेऽग्रमध्यमूलेषु क्रमेण मरीचिसभार्यवसिष्ठाङ्गिरसः, पश्चान्द्भागे खट्वाकारे ताराचतुष्के ईशानादिविदिक्षु चतसृषु क्रमेणाऽत्रिपुलस्त्यपुलहक्रतवः, तेषां यो पूर्वावाद्युदितो पुलहक्रतू दृश्येते दिवि, तयोर्मध्ये च समं दक्षिणोत्तरे रेखायां समदेशावस्थितं यदश्विन्यादिष्वन्यतमक्षंदृश्यते निशि, तेन तथैव युक्ताः सप्तर्षयो नृणामब्दशतं तिष्ठन्ति ।
यदैव भगवद्विष्णोरंशो यातो दिवं द्विजः।
वसुदेवकुलोद्भूतस्तदैव कलिरागतः॥
यावत्स पादपद्माभ्यां पस्पर्शे मां वसुन्धराम्।
तावत्पृथ्वीपरिष्वङ्गेसमर्थो नाऽभवत् कलिः॥
गते सनातनस्यांऽशे विष्णोस्तत्र भुवो दिवम्।
तस्याज तनु राज्ये यो धर्मपुत्रो युधिष्ठिरः॥
विपरीतानि दृष्ट्वा च निमित्तानि स पाण्डवः।
याते कृष्णे चकाराऽथ सोऽभिषेकं परीक्षितः॥
प्रयास्यन्ति यदा चैव पूर्वाषाढां महर्षयः।
तदा नन्दात् प्रभृत्येष कलिर्वद्धिंगमिष्यति॥
अथ कलिप्रवृत्तिमाह -
ते तु पारीक्षिते काले मघास्वासन् द्विजोत्तमाः।
तदा प्रवृत्तश्च कलिर्द्वादशाब्दशताधिकः॥
इति दैवमानेन सन्ध्यासन्ध्यांशाभ्यां सह स द्वादशाब्दशतात्मकः कलिः पूर्वसन्ध्यारूपेण प्रवत्तोऽपि सन्ध्यारूपमतिक्रम्य स्वेन रूपेण प्रवृत्तः प्रकर्षेण वृत्त इत्यर्थ इति रत्नगर्भादयः। भागवतटिप्पणे श्रीधरोऽप्येवमेतद्वदति -
यस्मिन्कृष्णो दिवं यातस्तस्मिन्नेव तदाऽहनि।
प्रतिपन्नं कलियुगं तस्य संख्या निबोधः मे॥
त्रीणि लक्षाणि वर्षाणां द्विजमानुषसंख्यया।
षष्टिं चैव सहस्राणि भविष्यत्येष वै कलिः॥
इति स्वपुराणकथनकालादेतावान् भविष्यति मुख्यः कलिरित्यर्थः। सन्ध्यांशश्चोत्तरसन्ध्यारूपस्तदुत्तरभावीति बोध्यम्। किञ्च-
तदा नन्दात्प्रभृत्येष कलिर्वृद्धिङ्गमिष्यति।
इत्युक्तम्। नन्दात्प्रभृति भूलोके क्षत्रियाणामभावान्न्यायदण्डाभावेन कलेवृद्धिरिति भावः। अत एव ‘नन्दान्तं क्षत्रियकुलम्’
इति सकलजनप्रसिद्धिः। अत्र नाशकवाच्यन्तशब्देन बहुव्रीहिः।
मोक्षधर्मेषु नारायणीये-
द्वापरस्य कलेश्चैव सन्धौ पार्यवसानिके।
प्रादुर्भावः कंसहेतोर्मथुरायां भविष्यति॥
इत्युक्तं भगवता । पार्यवसानिके समाप्तिकल्पे इत्यर्थः। एवञ्च
द्वापरान्ते हरेर्जन्म यदुवंशे भविष्यति।
इति ब्राह्मवाक्ये द्वापरधर्माणां केषाञ्चिदनुवृत्तेः कलिसन्ध्यापि तत्त्वेन गृहीतेति बोध्यम्। तत्रैव मुचुकुन्दप्रस्तावे -
ततः कलियुगं ज्ञात्वा प्राप्तप्रायं ततो नृपः।
नरनारायणस्थानं प्रययौ गन्धमादनम्॥
इत्युक्तेः,
यस्मिन् दिने हरिर्यातो दिवं सन्त्यज्य मेदिनीम्।
तस्मिन्दिनेऽवतीर्णोऽयं कालकायः कलिः किल॥
इत्युक्तेश्च। भागवते एकादशे-
मया निष्पादिते ह्यत्र देवकार्यमशेषतः।
यदर्थमवतीर्णोऽहमंशेन बह्मणाऽर्थितः॥
न वस्तव्यं त्वया चेह मया त्यक्तेमहीतले। - इति।
हरिवंशे मुचुकुन्दजागरे तत्प्रश्ने कृष्णवाक्यम्-
त्रेतायुगे प्रसुप्तोऽसि विदितो मेऽसि जागरात्।
इदं कलियुगं विद्धि किमन्यत्करवाणि ते ॥
महीतले जनोऽधर्मरुचिः सद्यो भविष्यति।
कलौ युगे -
इत्युद्धवं प्रति भगवदुक्तेश्च । एतेनेदानीं कलेः सन्ध्यैवास्तीति मन्दोक्तिःपरास्ता \। गदापर्वणि भारते - अधर्मेण दुर्योधनवधं
दृष्ट्वा क्रुद्धं बलदेवं प्रति ‘प्राप्तं कलियुगं विद्धि’ इति कृष्णवचनाच्च।
आसन्नं विप्रकृष्टं वा यतः कालं न विद्महे।
तस्मात् द्वापरसंविद्ध युगान्तं स्पृहयाम्यहम्॥
प्राप्ता वयन्तु तत्कालमनया धर्मतृष्णया।
आदद्यां परमं धर्मसुखमलपेन कर्मणा॥
इति हरिवंशे जनमेजयोक्तश्च। कालं मोक्षस्य द्वापरेण समधर्माणं संविद्धमधर्माधिक्याद् दूषितम्, युगान्तं कलिम्, अतोऽस्माभिः कलौ जन्म प्रार्थितमित्यर्थः। अल्पेन कर्मणा अनायाससाध्येन भगवन्नामकीर्तनेन।
यत्तु - महापद्माख्यनन्देन क्षत्रियाणां नाशेऽपि पुनः प्रवृत्तिमाह-
देवापिः पौरवो राजा मरुश्चेक्ष्वा
कुसम्भवः।
महायोगबलोपेतौ कलापग्रामसंश्रयौ।
कृते युग इहागत्य क्षत्रप्रवर्तकौहि तौ।
भविष्यतो मनोर्वंशे बीजभूतौ व्यवस्थितौ॥
एतेन क्रमयोगेन मनुपुत्रैर्वसुन्धरा।
कृतत्रेतादिसंज्ञानि युगानि त्रीणि भुज्यते॥
कलौ तु बीजभूतास्ते केचित्तिष्ठन्ति भूतले।
यथैव देवापिमरू साम्प्रतं समवस्थितौ॥
प्रघट्टकान्तरेऽपि - ततो मरुः पुत्रोऽभूत्, चोऽसौ योगमास्थायाऽद्यापि कलापग्रामाश्रितस्तिष्ठति। आगामियुगे सूर्यवंशक्षत्रप्रवर्तयिता भविष्यतीति क्षत्रस्य क्षत्रियवशंस्य प्रवर्तको भविष्यतः । यतो मनोर्वंशे सोमसूर्यवंशरूपे बीजभूतौ व्यवस्थितावित्यर्थः ।
कलेः सन्ध्यायामेव क्षत्रियसत्वात् त्रीणि युगानि भुज्यते इत्युक्तमिति रत्नगभः,
तत्र सन्ध्याशब्देन कलिप्रारम्भ उच्यते– यथा सूर्योदयोत्तरमपि सूर्यास्तात्पूर्वमपि किञ्चित्कालं सन्ध्याव्यवहारस्तद्वत्कलिप्रवेशानन्तरमपि सहस्रवर्षपर्यन्तं सन्ध्याव्यवहार इति तदाशयः ।वैश्यानामप्यभावे तु एतावेव तेषां प्रवर्तकौबोध्यौ; शुद्धवैश्यानामोपि क्षत्रियावस्थायां सह वासात्। अत्र क्षत्रपदञ्च ब्राह्मणावरजद्विजोपलक्षणम्। भागवतेऽपि-
देवापिर्योगमास्थाय कलापग्राममाश्रितः।
सोमवंशं कलौ नष्टं कृतादौ स्थापयिष्यति॥
तथा मरुमुपक्रम्य -
योऽसावास्ते योगसिद्धः कलापग्रामवासिभिः।
कलेरन्ते सूर्यवंश नष्टं भावयता पुनः॥
इति नवमे । द्वादशेऽपि -
देवापिः शन्तनोर्भ्राता मरुश्चेक्ष्वाकुनन्दनः।
कलापग्राम आसाते महायोगबलान्वितौ॥
ताविहैत्यकलेरन्ते वासुदेवानुशिक्षितौ।
वर्णाश्रमयुतं धर्मं पूर्ववत् प्रथयिष्यतः॥
इति । कलापग्रामे योगिनामावासत्वेन प्रसिद्ध इति श्रीधरः।
एवञ्च-
अचन्द्रार्कग्रहाभूमिर्भवेदपि कदाचन।
अपौरवा न तु मही भविष्यति कदाचन॥
इति ययात्युक्तश्लोकस्य भविष्ये हरिवंशे सत्वेनेदानीं क्षत्रियसत्तासाधनं परास्तम्; देवापेः सत्त्वेन तदनुपत्त्यभावात्। कलौ
देवापिमरुवदन्यत्राऽपि कलौ बीजभूतानां स्थितिमाह -
कलौ तुबीजभतास्ते केचित्तिष्ठन्ति भूतले।
यथैव देवापिमरू साम्प्रतं समवस्थितौ॥
इति रत्नगर्भादयः। ये तू यथैव देवापिमरू समवस्थितौ, तथा साम्प्रतं कलौबीजभूता अन्येऽपि केचित्तिष्ठन्ति - इतीमं श्लोकं व्याख्याय एतद्बलेन सम्प्रति क्षत्रियसत्तां वदन्ति, ते एतेन परास्ताः; व्याख्यानग्रन्थविरोधात्। किञ्चैवं सति ब्राह्मणादीनामिव तेषामपि सत्त्वगुणोद्रेकेन तत्रत्यानां कृतयुगानुसारिमतित्वोपपत्तौ देवापिमर्वोरिहागत्य क्षत्रप्रवर्तकत्वोक्तेवैयर्थ्यात्, ब्राह्म्गानामिव तेषामपि स्वधर्मप्रवृत्तसम्भवाच्चेति दिक्। मात्स्येपि -
येषु संस्थास्यते क्षत्रमुत्पत्स्यन्ते नृपाश्च ये।
तान् वद -
इति ऋषीणां प्रश्ने -
येषु संस्थास्यते तत्र ऐलेक्ष्वाकुकुलं शुभम्।
तान् सर्वान् कीर्तयिष्यामि भविष्ये कथितान् नृप॥
तेभ्योऽपरे तुये त्वन्ये उत्पत्स्यन्ते नृपाः पुनः।
उग्राः पारशवाः शद्रास्तथाऽन्ये ये बहिश्चराः॥
आन्ध्राः शकाः पुलिन्दाश्चकलिङ्का यवनास्तथा।
कैवर्ताभीरशबरा ये चाऽन्ये म्लेच्छसम्भवाः॥
पर्यायतः प्रवक्ष्यामि नामतश्चैव तान्नृपान्।
इत्युपक्रमे क्षेमकान्तमैलं वंशमुक्त्वा -
ब्रह्मक्षत्रस्य यो योनिर्वंशो देवर्षिसत्कृतः।
क्षेमकं प्राप्य राजानं स संस्थां प्राप्स्यते कलौ॥
इत्युक्तम्। तत्र पारशवा विक्रमादयः। ततोऽन्ते-
पूरोर्वशस्त्वया सूत ! भविष्यति निवेदितः।
सूर्यवंशे तथा ये तु भविष्यास्तान् वदस्व नः॥
तथैव यादवे वंशे राजानः कीर्तिवर्द्धनाः।
वसन्ति जातयो योश्च राज्यं प्राप्स्यन्ति सुव्रत॥
इति ऋषीणां प्रश्ने ततः सुमित्रान्तं सूर्यवंशमुक्त्वा -
इक्ष्वाकूणामयं वंशः सुमित्रान्तो भविष्यति।
सुमित्रंप्राप्य राजानं स संस्थां प्राप्स्यते कलौ॥
इत्युक्त्वा -
प्रतिबाहुरभूद्वज्रात्सुबाहुस्तस्य चात्मजः।
सुबाहोः शान्तसेनस्तु शतसेनस्तु तत्सुतः॥
शतसेनाद् यदोर्वंशः संस्थां प्राप्स्यति वै कलौ।
इस्युक्त्वा इतरसवंक्षत्रियवंशशाखासमाप्त्याशयेनमत
अत ऊर्ध्वं प्रवक्ष्यामि मागधा ये बृहद्रथाः -
इत्यादिना रिपुञ्जयान्तास्ते उक्ताः। श्रीधरस्वाम्यपि द्वादशे सर्वसोमवंशशाखापेक्षया यादववंश एवैकश्चिरस्थायीत्याह। ततो महानन्द्यन्तं क्षत्रबन्धून् शैशुनागानुक्त्वा तत्समकालं चतुर्विंशत्यैक्ष्वाकान् सप्तविंशतिपाञ्चालान् चतुर्विशतिकौशेयान् अष्टाविंशतिहैहयान् द्वात्रिंशत्कलिङ्गान् पञ्चविंशत्यश्मकान् षटूत्रिंशत्कुरून् अष्टाविंशतिमौलिलान् त्रयोविंशतिशूरसेनान् विंशतिवीतिहोत्रान्क्षत्रबन्धूनेव नृपानुक्त्वा -
महानन्दिसुतश्चाऽपि शूद्रायां कलिकर्द्धनः।
उत्पत्स्यते महापद्मः सर्वक्षत्रान्तको नृपः॥
ततः प्रभृति राजानो भविष्याः शद्रयोनयः।
सवक्षत्रमंथोत्साद्य भाविनाऽर्थेन चोदितः॥
एकराट् स महापद्म एकच्छत्रो भविष्यति।
तत्सन्ततौ राज्यं वर्षशतम्, ततो मौर्याणां सप्तत्रिंशदधिकं शतम्, ततः शुङ्गानां द्वादशाधिकं वर्षशतं, ततः काण्वायनानां पञ्चचत्वारिंशदधिकत्रिशतवर्षाणि राज्यम्, तत आन्ध्राणां षष्ट्युत्तरं चतुःशतम्, ततः सप्ताभीराः, सप्त गर्दभिल्लाः, अष्ट दश च शकायवनास्तुषाराश्चतुर्दश, त्रयोदश मुण्डाः, ततः कैलिङ्काला यवना इत्याद्युक्तम्
राजानः शूद्रभूयिष्ठाः पाषण्डानां प्रवृत्तये।
इति चाऽन्यत्रोक्तम् । क्वचिद् ब्राह्मणानां राज्यदर्शनाद् भूयिष्ठा इत्युक्तम्।
महापद्माभिषेकात्तु यावज्जन्म परीक्षितः।
एकवर्षसहस्रन्तु ज्ञेयं पञ्चाशदुत्तरम्॥
परीक्षिद्राज्यात्तु पञ्चदशोत्तरं सहस्रम्, पञ्चत्रिंशेऽतीते हि तस्य राज्यप्राप्ताप्तिरिति स्पष्टं पुराणविदाम्।
यस्मिकृष्णो दिवं यातस्तस्मिन्नेव तदाऽहनि।
प्रतिपन्नं कलियुगं प्रमाणं तस्य मे शृणु।
त्रीणि शतसहस्रन्तु वर्षाणां तत् स्मृतं बुधैः।
षष्टिवर्षसहस्राणि सङ्ख्यातं मानुषेण तु॥
दिव्यं वर्षसहस्रन्तु तदा सन्ध्या प्रवर्तते।
निःशेषे तु तदा तस्मिन् कृतं वै प्रतिपत्स्यते॥
देवापिः पौरवो राजा ऐक्ष्वा
कुश्चापि वै मरुः।
महायोगबलोपेतौ कालपग्राममाश्रितौ॥
एतौ क्षत्रप्रणेतारौ नवविंशे चतुर्युगे।
सुवर्चा मरुपुत्रस्तु ऐक्ष्वाकाद्यो भविष्यति॥
नवविंशे युगेऽसौ वै वंशस्यादिर्भविष्यति।
देवापिपुत्रः सत्यस्तु ऐडानां भविता नृपः \।\।
क्षत्रप्रवर्तकावेतांभविष्यौ च चतुर्युगे ।
अत्र पुत्र इत्युपलक्षणम्। एकैका कन्याऽपि तयोर्बोध्या। भागवते नवमे जरासन्धपुत्रवंशे रिपुञ्जयान्तान् भाविनो राज्ञ उक्त्वा द्वादशे-
स्वधामाऽनुगते कृष्णॆयदुवंशविभूषणे।
कस्य वंशो भवेत्पृथ्व्यामेतदाचक्ष्वमे मुने॥
इति राज्ञः प्रश्नः। स्ववंशस्य क्षेमके संस्थाया नवमे उक्तत्वात् - अयं प्रश्नः। तत्र सोमवंशशाखापेक्षया चिरस्थायी मागधवंश एवेत्याशयेन शुकस्योत्तरम् -
योऽन्त्यः पुरञ्जयो नाम भविष्यो बार्हद्रथः।
तस्याऽमात्यस्तु शुनकः-
इत्यादिना रिपुञ्जय एव पुरञ्जयः। तेन च पञ्चशतवर्षोत्तरमेव च कलौ सङ्करादिदुष्टाः क्षत्रिया इत्युक्तंस्पष्टमेव \। यत्तु वनपर्वणि भारते कलिधर्ममुपक्रम्य -
परस्परवधोद्युक्ता मूर्खाः पण्डितमानिनः।
भविष्यन्ति युगस्यान्ते क्षत्रिया लोककण्टकाः॥
क्षत्रियाश्चाऽपि वैश्याश्च विकर्मस्था नराधिप।
अल्पायुषः स्वरुपबलाः स्वरूपवीर्यपराक्रमाः॥
ब्राह्मणाः क्षत्रियाः वैश्याः सङ्कीर्यन्तः परस्परम्।
शूद्रतुल्या भविष्यन्ति तपःसत्यविवर्जिताः॥
इत्युक्तम्। तत्र रिपुञ्जयहननोत्तरं तदमात्यादिषु महानन्द्यन्तं पञ्चशतं वर्षाणि क्षत्रियाणां राज्यसत्त्वात्तेषाञ्च विकर्मस्थतायाः
स्पष्टत्वात्तेषां मात्स्ये क्षत्रबन्धुत्वेन विशेषणाच्चन तद्विरोधः । तत्रैव-
अन्त्या मध्या भविष्यन्ति मध्याश्चाऽन्त्या न संशयः।
ब्राह्मणाः क्षत्रिया वैश्या न शिष्यन्ति जनाधिप।
एकवर्णस्तदा लोको भविष्यति युगक्षये।
इत्युक्तेः। युगक्षये कलावन्त्याः शद्राः मध्याः क्षत्रियाः वैश्याः शूद्रास्तत्सदृशाः स्वधर्मं सर्वथा त्यक्त्वा तिष्ठन्तीत्यर्थः। तत्र क्षत्रिय वैश्यनाशो मात्स्य वैष्णवयोः स्पष्टमेवोक्तः सर्वथोच्छेदरूपः। ब्राह्मणनाशस्तु स्वधर्महान्येति बोध्यम्। विप्राणामपि शूद्राचारत्वादेकवर्ण इत्युक्तम् । यथा सत्ययुगे सर्वेषां धर्मनिष्ठत्वादेकवर्णत्वं मात्स्यादिषक्तम्। किञ्च -
द्वापरे व्याकुलो धर्मः प्रणश्यति कलौ पुनः।
वर्णानां द्वापरे ध्वंसः सङ्कीर्यन्ते तथाश्रमाः \।\।
नैका श्रुतिः स्मृतिश्चैव निश्चयो नाऽधिगम्यते।
द्वापरे सन्निवृत्तास्तु वेदा नश्यन्ति वै कलौ॥
ब्राह्मणैः कल्पसूत्रैश्च भाष्यैर्वेदस्तथैव च।
व्याकुलो द्वापरेऽप्यर्थः क्रियते भिन्नदर्शनैः॥
पूर्वस्वभावारसन्ध्यासु अवतिष्ठन्ति पादतः।
इति मात्स्येन द्वापरेऽपि केषाञ्चिदेव स्वधर्मेऽवस्थितिबोधनेन सम्प्रति कलौ स्वधर्मेऽवस्थितिं लोकानां वदन्तो भ्रान्ताः एवेत्यलम्॥
नारदीयेऽपि-
भविष्यन्ति कलौ प्राप्ते राजानो ह्यन्त जातयः॥
इत्युक्तम्- इति॥
·
उक्तग्रन्थसमालोचनम् ।
अस्मिन् हि ग्रन्थे कानिचन सामान्यवचनानि कलौ क्षत्रियादिनिषेधकानि—
कलौ न क्षत्रियाः सन्ति कलौ नो वैश्यजाययः ।
ब्राह्मणाश्चैव शूद्राश्च कलौ वर्णद्वयं स्मृतम् ॥
न क्षत्राणि नियोक्ष्यन्ति विकमंस्था द्विजातयः।
चोरप्रायाश्च राजानो युगान्ते पर्युपस्थिते॥
म्लेच्छप्रायक्षत्रहन्त्रे नमस्ते कल्किरूपिणे।
भविष्यन्ति कलौ प्राप्तेराजानोऽप्यन्त्यजातयः।
अन्त्या मध्याभविष्यन्ति मध्याश्चान्त्या न संशयम् ॥
ब्राह्मणा क्षत्रिया वैश्या न शिष्यन्ति जनाधिप।
एकवर्णस्तदा लोको भविष्यति युगक्षये॥
इत्यादीनि संगृहीतानि, येषु कानिचन कलौ क्षत्रियाद्यसत्त्वं विद्यमानम्, कानिचन कलौकानिचन कलौ तदभावम्, भाविनं कानिचन ब्राह्मणजातेरप्यभावं च गमयन्ति। एतेषां च वचनानां यथावदेव तात्पर्येऊरीक्रियमाणे क्षेमकपर्यन्तानां बहूनामेव क्षत्रियाणां प्रमाणान्तरसिद्धंक्षत्रियत्वं बधितं स्यादिति शास्त्रान्तराविरोधेनैवार्थो वर्णनीयः। अत्र विरुद्धानि प्रमाणानि-
ब्रह्मक्षत्रस्य यो योनिर्वंशो देवर्षिसत्कृतः।
क्षेमकं प्राप्य राजानं स सस्थां प्राप्स्यते कलौ॥
( मत्स्य भागवत० )
इच्वाकूणामयं वंशः सुमित्रान्तो भविष्यति।
यतस्तं प्राप्य राजानं स संस्थां प्राप्स्यते कलौ॥
बार्हद्रथाश्च भूपालाः भव्याः साहस्रवत्सरम्।
शिशुनागा दशैवैते षष्ट्युत्तरवतत्रयम्॥
समा भोक्ष्यन्ति पृथवीं कुरुश्रेष्ठ कलौ नृपाः ॥
महानन्दिसुतो राजन् शूद्रागार्भोद्भवो बली।
महापद्मपतिः कश्चिन्नन्द; क्षत्रविनाशकृत् \।\।
ततो नृपा भविष्यन्ति शूद्रप्रायास्त्वधार्मिकाः।
मागधनां तु भविता विश्वस्फूर्तिः पुरञ्जयः।
करिष्यत्यधरान् वर्णान् पुलिन्दपटुमद्रकान्।
प्रजाश्चाब्रह्मभूयिष्ठाः स्थापयिष्यति दुर्मतिः॥
वीर्यवान् क्षत्रमुत्साद्य पद्मवत्यां स वै भुवि।
गङ्गाद्वारादाप्रयागं गुप्तां भोक्ष्यति मेदिनीम्॥
देवापिः शन्तनोर्भ्राता मरुश्चेक्ष्वाकुवंशजः।
महायोगबलोपेतौ कलापग्रामसंश्रयौ।
कृते युगे इहागत्य क्षत्रप्रवर्तकौहि तौ।
भविष्यतो मनोर्वंशे बीजभूतौ व्यवस्थितौ।
कलौ तु बीजभूतास्ते क्वचित्तिष्ठन्ति भूतले।
यथैव देवापिमरू साम्प्रतं समस्थितौ॥
देवापिर्योगमास्थाय कलापग्राममाश्रितः।
सोमवंशंकलौ नष्टं कृतादौ स्थापयिष्यति॥
प्रतिबाहुरभूद्राजन्सुबाहुस्तस्य चात्मजः।
सुबाहोः शान्तसेनस्तु शतसेनस्तु तत्सुतः॥
शतसेनात् यदोर्वंशः संस्थां प्राप्स्यति वै कलौ।
इत्यादीनि, येषु कानिचन क्षेमकान्तं क्षत्रियसत्वम्, कानिचन रिपुञ्जयान्तं क्षत्रियसत्त्वम्, कानिचन शतसेनान्तं क्षत्रियसत्वम्, कानिचन सुमित्रान्तं क्षत्रियसत्वम्, कानिचन पुरञ्जया-
न्तं क्षत्रियसत्वं च गमयन्ति। तथाच समान्यवचनानां सर्वेषां यथाश्रुतार्थत्वं कथमपि न योग्यम्।
अन्यथा हि न केवलं क्षेमकान्तस्य क्षत्रियत्वं स्यात्, किन्तु – “ब्राह्मणाः क्षत्रिया वैश्या न शिष्यन्ति जनाधिप” इति वचनानुसारेण ब्राह्मणानामप्यभावप्रसङ्गः। तथाच क्षेमकादिपर्यन्तं क्षत्रियादिबाहुल्यपरतयैव उक्तवचनानां तात्पर्यम्, एवं कलौ कृताद्यपेक्षया क्षत्रियाद्यल्पतापरतायां सामान्यवचनानां तात्पर्यमिति चोरीकर्तव्यम्। एवं च कलिवर्ज्यानामपि संन्यासादीनामिव” यावद्वर्णविभागस्तु यावद्वेदःप्रवर्तते। संन्यासं चाग्निहोत्रंतावत्कुर्यात्कलौ युगे” इति वचनानुसारेण चतुःशताधिकचतुःसहस्रतमे वर्षेऽतीतेपि क्षत्रियादीनां सत्त्वमपीदानीमङ्गीकरणीयमेव। एवं वर्णयतामस्माकमेवाशयः —
यत् यदि कुत्रचन देशे ब्राह्मणा इव क्षत्रियादयोऽपि वैदिकधर्माधिकारिणो यथाकालमुपनयनादिकर्म समाद्रियमाणाश्च वर्तन्ते, तेषां क्षत्रियादीनामपि सत्वं कलौ ब्राह्मणानामिव स्वीकर्तव्यमेवेति। ये तु पुनर्विच्छिन्नोपनयनादिसंस्काराः क्षत्रियत्वमात्मनोऽभिमन्यमानाः व्रात्यक्षत्रियादिपुत्राः, न तेषामपि तावता वैदिकक्षत्रियधर्माधिकारः संभवति। व्रात्या ह्रीदानीं वर्तमानाः सर्व एव यदि क्षत्रियाणां क्षत्रियायां व्रात्यब्राह्मणानां ब्राह्मणीषुचोपन्ना भवेयुः, तर्हि कथंचन क्षत्रियत्वमन्ततो गत्वा स्वीकर्तुं शक्येत, परन्तु —
“क्षत्रियाश्चापि वैश्याश्च विकर्मस्था नराधिप।
अल्पायुषः स्वल्पबला : स्वल्पवीर्यपराक्रमाः॥
ब्राह्मणाः क्षत्रिया वैश्याः संकीर्यन्तः परस्परम्।
शूद्रतुल्या भविष्यन्ति तपःसत्यविवर्जिताः \।\।
इति वचनेनेदं ज्ञायते, यत् परस्परसङ्करसम्भावनया सङ्करजातित्वमेवेदानीमसंजातोपनयनादिसंस्काराणां क्षत्रियम्मन्यानामिति । एतदेवाभिप्रेत्य—
तेभ्योऽपरे तु ये त्वन्ये उत्पत्स्यन्ते नृपाः पुनः ।
उग्राःपारशवाः शूद्राः तथाऽन्ये ये बहिश्वराः \।\।
आन्ध्राःशकाः पुलिन्दाश्च कलिङ्गा यवनास्तथा।
कैवर्ताभीरशबराः ये चान्ये म्लेच्छसंभवाः\।\।
इति उग्रत्वादिकमेव क्षेमकानन्तरं प्रतिपादितम्। एतावत्तुअस्माभिरपि स्वीकर्तुं शक्यते —
यत् बहुतरपरपम्परार्यन्तं विच्छिन्नोपनयनादिसम्प्रदायानामिदानींकथमपिस्वपितरं मातरं वा क्षत्रियजातिं जानतां न मातापित्रन्यतरजातिमात्रज्ञानेन क्षत्रियत्वं स्वीकर्तुं शक्यते। येषां तु परम्परायां मातापितृपरम्परा सर्वापि क्षत्रियजातिरेवेति निर्णीयते तत्र परमस्माभिरपि तेषां व्रात्यक्षत्रियत्वन्तु स्वीक्रियते । तेन च जातितस्तेऽन्यापेक्षयोत्कृष्ट \। इत्यत्र तु न विशयलेशोऽपि । यत्त्वत्र विचारणीयमपरं समापतितम् —
यत् व्रात्यसंस्कारेण तेषां शुद्धक्षत्रियजातिप्रवेशो भवितुमर्हति वा न वेति, तदिदं अनुपदमेव विवेचितम्। एतावत्त्वत्रनिष्कृष्यते —
यन् कलौ क्षत्रियादयोऽपि अविच्छिन्नोपनयनादिसंस्कारा अपि वर्तन्त इति। अयमत्रनिष्कर्षः—
कलौ क्षत्रिया दिसत्येप्रमाणानि
``कलौ पराशराः स्मृताः” इति वचनेन कलिकालोपयुक्तपराशरस्मृतिपर्यालोचने क्षत्रियादिसत्त्वमेव सिध्यति, ततश्च कलौ चातुर्वर्णर्यमस्त्येव। नहि पराशरस्मृतेः सामान्यतः प्रवृत्ताया कलौ क्षेमकान्तपरत्वमिति कल्पनायां
कापि विनिगमना समस्ति । अत एवाधोनिर्दिश्यमानानि पराशरवचनान्युपपद्यन्ते। तानि यथा—
यजेत वाश्वमेधेन राजा तु पृथिवीपतिः ।१८।५०।
अतः परं गृहस्थस्य कर्माचारं कलौ युगे।
कर्मसाधारणं शक्त्या चातुर्वर्ण्याश्रमागतम् \।\।
तं प्रवक्ष्याम्यहं पूर्वंपराशरवचो यथा ॥८॥१॥
सर्वे धर्माः कृते जाताः सर्वे नष्टाः कलौ युगे।
चातुर्वर्ण्यसमाचारं किञ्चित्साधारणं वद॥ १ ॥ १६ ॥
चातुर्णामपि वर्णानां कर्तव्यं धर्मकोविदै।
ब्रूहिधर्मस्वरूपज्ञ सूक्ष्मं स्थूलं च विस्तरात् ॥
शृणु पुत्र प्रवक्ष्यामि शृण्वन्तु मुनयस्तथा।
युगे युगे च धर्मास्ते तत्र तत्र च ये द्विजाः \।\।
तेषां निन्दा न कर्तव्या युगरूपा हि ते द्विजाः ॥
अहमद्यैव तत्सर्वमनुस्मृत्य ब्रवीमि वः ।
चातुर्वर्ण्य समाचारं शृण्वन्तु मुनिपुङ्गवाः \।\।
क्षत्रियश्चापि वैश्यश्च कियावन्तौ शुचिव्रतौ ।
तद्गृहेषु द्विजैर्भोज्यं हव्यकव्येषु नित्यशः ॥ ११-१२
राज्ञश्च सूतकं नास्ति यस्य चेच्छति पार्थिवः \।\।
अमेध्यरेतो गोमांसं चण्डालान्नमथापि वा।
यदि भुक्तंतु विप्रेण कृच्छ्रं चान्द्रायणं चरेत् ॥
इति। एषु हि वचनेषु चातुर्वर्ण्यस्य विशेषतः क्षत्रियादेश्चकलावुल्लेखो हि कलौ क्षत्रियाद्यसत्त्वेऽनुपपन्नः स्यात्। क्षत्रियवैश्ययोः स्वरूपेणाभाव इति (परा० मा० ११) माधवोक्तिस्तु कलौ क्षत्रियवैश्ययोर्वैरल्याशयैव, अन्यथा हि तदुक्तरीत्या ब्राह्म
णानांतेन न्यायेन शूद्राणां चाभावप्रसङ्गः।यदि तु मुख्यब्राह्मणा भावेऽपि ब्रह्मशूद्रयोः सत्त्वम्, तथा तादृशक्षत्रियाद्यभावेऽपि क्षत्रियवैश्ययोरपि सत्त्वमुपपन्नमेव।इयान् विशेषः- यदिदानीं क्षत्रियवैश्यानां उपनयनादिसंस्कारस्य बहुषु स्थलेष्वदर्शनात्, ब्राह्मणेषु तु सर्वत्रोपनयनादिसंस्कारस्य दर्शनात्, क्षत्रिया वैश्या वा सन्तोऽपि शूद्रत्वेनैव व्यपदिश्यन्ते। तदुक्तंमहाभारते - “वृषलत्वं गता लोके ब्राह्मणादर्शनेन तु” इति। यथा हि ब्राह्मणानां उपनयनार्थं नेतरवर्णापेक्षा, न तथा वर्णान्तरस्य। तथाच ब्राह्मणादर्शनेन केचन क्षत्रिया वृषलाः सञ्जता इत्येवात्र विवक्ष्यते। तावता कथं सर्वेषां क्षत्रियाणां वृषलत्वकल्पनं समुचितं भवति ? यत्तु किलकेचनेदानीं पर्यनुयुञ्जते – कथमिदानीं ब्राह्मणानां दर्शनेन ते क्षत्रियाः कर्तुं’ न शक्यन्ते - इति, अत्रेदमेवोत्तरम् – यदिदानीं कायस्थानां अन्येषां बहूनामेव क्षत्रियत्वमात्मनः कल्पयतामुपलम्भात्, सर्वैरपि क्षत्रियत्वस्यैव कांक्षणाञ्चाव्यवस्थाऽत्र संपद्येतेति नात्र नूतना व्यवस्था संभवति। एतावत्तु अस्माभिरपि स्वीकर्तुं शक्यते - सर्वएवेमेव्रात्यक्षत्रिया व्रात्यवैश्यावा स्वपूर्वतनानां केषाञ्चनोपनयनादिसंस्कारस्मरणे भवितुमर्हन्तीति। व्रात्यसंस्कारस्तु वयं पश्यामः— वृद्धप्रपितामहपर्यन्तमेवानुपनीतत्व एव योग्यः, नतु परम्परासप्तकं तदधिकं वा यावदनुपनीतत्वेऽपि। व्रात्यक्षत्रियाणां चैतेषां यदि कुत्रचन शुद्धक्षत्रिया उपलभ्यन्ते, तर्हि “तैः साकं भोजनं विवाहमिति वर्जयेदि”त्यापस्तम्बवचनात् न परस्परं भोजनादियोग्यता किन्तु परस्परमेव सा भवति। तदुक्तम् — अथ पतिताः समवसाय धर्माश्चरेयुः, इतरेतरयाजका इतरेतराध्यापका मिथो विवहमानाः — इति बौधायनाचार्यादिना। अत्र तान्त्रिकधर्माधिकारस्तत्तदीक्षाग्र—
हणपूर्वकं व्रात्यक्षत्रियाणामपि वर्तत एवेति व्यर्थ एवायं वैदिकधर्मग्रहणेऽनधिकृत आग्रहः। सर्वथा तु कलावाद्यन्तयोः स्थितिरिति वचनं बहुल्याभिप्रायमेव। एतेन—
देवापिर्योगमास्थाय कलापग्राममास्थितः
सोमवंशं कलौ नष्टं कृतादौ स्थापयिष्यति॥
( श्रीमद्भागवते ६ स्कन्धे )
एतेषां नाम लिङ्गानां पुरुषाणां महात्मनाम् ।
कथामात्रावशिष्टानां कीर्तिरेव स्थिता भुवि।
देवापिः शन्तनोर्भ्राता मरुश्चेक्ष्वाकुवंशजः॥
कृते युगे इहागत्य क्षत्रप्रवर्तकौ हि तौ ।
महानन्दिश्च शूद्रागर्भोद्भवौ महापद्मनन्दौ॥
नन्दः परशुराम इवाखिलक्षत्रियान्तकारी भविष्यति ॥
यावत्परीक्षितो जन्म यावन्नन्दाभिषेचनम्।
एतद्वर्षसहस्रन्तु ज्ञ यं पञ्चाशदुत्तरम्।
(विष्णुपु०) इत्यादिवचनैर्निर्विशङ्कैव क्षत्रियाद्युच्छित्तिरिति शङ्कापि-परास्ता; परशुरामस्य सकलक्षत्रियान्तकारित्वप्रसिद्धौ वैराग्येण तपोनिष्ठतायामपिसत्यां यदि कुशलवादि-क्षत्रियाणामपि सत्वात् श्रीदशरथवंशोच्छोदकत्वं नास्तीति कल्प्यते, तर्हि “नन्दान्तं क्षत्रियकुलम्” इत्यादीनामपि चक्रवर्तिनः क्षत्रियस्य नन्दतः परमवस्थानाभावबोधन एव तात्पर्यमिति कल्पनान्न कोपि दोषः। युक्तंचैतत्। अत एव हि—
एतेन क्रमयोगेन मनुवृत्तैर्वसुन्धरा।
कृतत्रेताद्वापराणि युगानि त्रीणि भुज्यते॥
कलौ तु बीजभूतास्तु केचित् तिष्ठन्ति भूतले।
तथैव देवापिमरू साम्प्रतं समवस्थितौ॥
इति विष्णुपुराणवचनम्॥
ब्रह्मक्षत्रविशः शूद्रा बीजार्थे य इह स्थिताः।
कृते युगे हि तैः साधं निर्विशेषा भवन्निति॥
इति मत्स्यपुराणवचनं च सङ्गच्छेते। एतदत्राभिप्रेत्य विष्णुपुराणव्याख्यायामत्रैव —“क्षत्रियाणा-मल्पत्वादन्ते तदुच्छेदनाच्च त्रीणि युगानि भुज्यन्ते” इति श्रीधराचार्येण कृतत्रतेति युगत्रयभुक्तिवचनं कलेरल्पक्षन्त्रियत्वादित्यन्यैश्च निरूपितम्। तथा च- प्रच्छन्नरूपाः स्वकर्माभ्रष्टाः क्षत्रिया वैश्याश्च कला-वपि सन्त्येवेति कमलाकरभट्टसिद्धान्त एव समुचितः। एवंच नन्दात्परमेव विक्रमादित्यभोज-राजादिक्षत्रियाणां बहूनामाविर्भावोऽप्युपपद्यते इति कलौ क्षत्रियादिनिषेधोऽसंभ-वदुक्तिक एव। वैश्याभावे तु न किमपि प्रमाणमस्ति। पूर्वोदाहतानि वचनानि सत्यं क्षत्रियाभावपरतया संभाव्यन्ते, वैश्याभावे तु न कथमपि प्रमाणानि। एतेन–कलावाद्यन्तयोः स्थितिरिति वाक्यमपि - पररास्तम्; चिन्त्य-मूलत्वादिति श्रीचिन्तामणिराववैद्यमहोदया मन्यन्ते। परे त्वङ्गीकृत्याप्येतद्वचनं अस्य कलिकालान्ति-मांशविषयत्वात् यावद्वेदप्रवृत्ति क्षत्रियादिसत्त्वमपि न दोषायेति मन्यन्ते। सर्वथा तु कलौ क्षत्रियाद्यसत्त्व-वादोऽयं चिन्त्यमूल एवेति प्रतिभाति। अन्यथा कलिधर्मप्रतिपादकपराशरस्मॄत्यादौ पूर्वोत्तरीत्या क्षत्रिया-णामपि परामर्शः कथमवोपपद्यत इति सर्व एव विजानन्तु। सत्यपि च क्षत्रियादिसत्त्वे व्रात्यसंस्कारेण शुद्धक्षत्रियतां तु न सर्व एवार्हन्तीति त्वन्यदेतत्। सत्यं स्ववंशमूलपुरुषाणामेवायं अश्रद्धादोषः, तथापि
तदुत्पन्नत्वात्, तदीयानेकपरम्पररातिक्रमाच्चश्रद्धावतामपी-
दानीन्तनानां तान्त्रिकदीक्षादिग्रहणेन पृथक् संस्थैव युक्ता। तत्र तद्दीक्षिताः सर्वधर्मबहिष्कृतान्यापेक्षयो-त्कृष्टा इति तु वयं प्रतीमः। अत्र सर्वतन्त्रस्वतन्नाः पण्डितवरा एव प्रमाणं शरणं च भवन्ति। अत्रप्रसङ्गे श्रीराममिश्रशास्त्रिणांमतसंग्रहणमपि योग्यं पश्यामः।
[उक्तार्थेब्रात्यसंस्कारमीमांसा।]तथा हि- व्रात्यसंस्कारमीमांसायां श्रीराममिश्रशास्त्रिणः- तदेवं व्यवस्थापिये त्रिपुरुषोर्ध्वपतितसावित्रीकाणामपि ब्रह्मक्षत्रियविशां संस्कर्यत्वे सांप्रतनिष्क्षत्रवैश्यमिदं सकलं जगदाचक्षते। तत्रादौ नन्दानन्तरमाकृतयुगादयं कलिकाल एतद्ब्रह्माण्डावच्छेदेन देवापिमरुतत्परिणेय-पत्नीव्यतिरिक्तागौणवैश्यसत्तावान्ने वेति प्रत्येकं विप्रतिपत्तिः।
अथवा नन्दानन्तरमाकृतयुगादयं काल एतद्ब्रह्मावच्छेनेन देवापिमरुतत्परिणेयक्षत्रियवैश्य कन्यातिरिक्तब्राह्मण-भिन्नागौणद्विजसत्तावान्नवेत्येकैव विविपत्तिः। तत्र विधिकोटिश्चातुर्वर्ण्यरक्षणविचक्षण-स्य, निषेधकोटिः प्रतिपक्षस्य। विप्रतिपात्तिवाक्यस्थपदब्यावृत्तिस्तु विस्तरभयादुपेक्ष्यते। तत्रकलिकाले यथा कालमहिम्न।यमनियमदानव्रतत-पश्चर्याध्ययनादिना क्षामा अपि, दम्भाहङ्कारजिघांसाऽसूयाऽ-सहिष्णुत्वादिशीलशालिनोपि, कुलकमागता विशद्धप्रसूतयः ब्राह्मणाः सुलभाः, सुलभाश्चकेचिदपि शास्त्र परायणा धर्मभीरवो लोकाहिते रता विरताश्चयथासम्भवं पापकर्मभ्यो विप्रकृतलालङ्करणायिताः येषां सद्भावेनेयं भारतभूर्विध्रियते, तथा सन्तिकेऽपि क्षत्रिया वैश्याश्चापि जन्मना विशुद्धवंशजाः कर्मणा च समयानुरूपमनुरूपाः। तत् प्रमाणं तु कलिधर्मनिरूपणैदम्पर्येण प्रवृत्ता पाराशरस्मृतिः। तथाहि एकादशेऽध्याये प्रायश्चित्तनिरूपणावसरे-
अमेध्यरेतो गोमासं चाण्डालान्नमथापि वा।
यदि भुक्तं तु विप्रेण कृच्छ्र चान्द्रायणं चरेत्॥ १॥
तथैव क्षत्रियो वैश्यस्तदर्धं तु समाचरेत्॥ २॥
तत्रैवाध्याये पुनः-
शूद्रोप्यभोज्यं भुक्वान्नं पञ्चगव्येन शुध्यति।
क्षत्रियो वापि वैश्यश्च प्राजापत्येन शुध्यति॥ ७॥
** इति। तत्रैवाध्याये-**
क्षत्रियो वापि वैश्यो वा क्रियावन्तौ शुचिव्रतौ।
तद्दोष द्विजैर्भोज्यं हव्यकव्येषु नित्यशः॥१३॥
ते। पुनश्च तत्रैव-
अज्ञा द्भुञ्जते विप्राः सूतके मृतकेऽपि वा।
प्रायश्चित्तं कथं तेषां वर्णे वर्णे विनिर्दिशेत् १५
इति प्रश्ने :-
गायत्र्यष्टसहस्रेण शुद्धः स्याच्छूद्रस्तके।
वैश्यः पञ्चसहस्त्रेण त्रिसहस्रेण क्षत्रिये॥ १६॥
ब्राह्मणस्य सदा भुंक्ते प्राणायामेन शुध्यति।
अथवा वामदैव्येन साम्ना चैकेन शुध्यति॥१७॥
शुष्कान्नं गोरसं स्नेहं शद्रवेश्मन आगतम्।
पक्वं विप्रगृहे पूतं भोज्यं तन्मनुरब्रवीत्॥ १८॥
आपत्काले तु विप्रेण भुक्तं शूद्रगृहे यदि।
मनस्तापेन शुद्ध्येतु द्रुपदां वा शतं जपेत्॥ १६॥
दासनापितगोपालकुल मित्रार्द्धसीरिणः।
एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत्॥२०
पुनरप्यत्राध्याये-
भाण्डस्थितमभोज्येषु जलं दधि घृतं पयः।
अकामस्तु यो भुंक्ते प्रायश्चित्तं कथं भवेत् २४
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वाप्युपसर्पति।
ब्रह्मकूर्योपवासेन यथा वर्णस्य निष्कृतिः॥२५॥
शूद्राणां नोपवासः स्थाच्छूद्रो दानेन शुध्यति।
ब्रह्मकूर्चमहोरात्रं श्वपाकमपि शोधयेत् २६ इति।
तत्रैव स्मृतौ पुनर्द्वादशाध्यायेः—
अज्ञानात्प्राश्य विण्मूत्रं सुरां वा पिबते यदि।
पुनः संस्कारमर्हन्ति त्रयो वर्णाः द्विजातयः २५
अजिनं मेखला दण्डो भैक्षचर्याव्रतानि च।
निवर्तन्ते द्विजातीनां पुनस्संकारकर्मणि॥३॥
स्त्रीशूद्रस्य तु शुध्यर्थं प्रजापत्यं विधीयते।
पञ्चगव्यं ततः कृत्वा स्नात्वा पीत्वा विशुध्यति
इत्येवमादिवचनजातं संस्फुटं क्षत्रियवैश्यसत्तां कलावपि प्रत्याययति। कथमन्यथा तेषां कलावस-त्त्वेपार्थक्येन क्षत्रियवैश्यानामाचारप्रायश्चित्ताशौचादिनिरूपणं साक्षात्कृतपदार्थसार्थसारस्य महर्षेः परा-शरस्य संगच्छताम्।न चात्रक्षत्रियवैश्यपदेन क्षत्रियवैश्याचारा ब्राह्मणा एव गृह्यन्त इत्यन्तमुदक्षरं शङ्क-नीयम्; तथा सति कलौ चार्वण्यानङ्गीकारेरण ब्राह्मणशूद्रयोर्द्वयोरेव सर्ववर्णविश्रान्स्या
पराशरद्वितीयाध्यायेः-
‘अतः परं गृहस्थस्य धर्माचारं कलौ युगे।
धर्मं साधारणं शक्यं चातुर्वर्ण्याश्रमागतम्॥ १ ॥
सम्प्रवक्ष्याम्यहं भूयः पराशर्यप्रचोदितः।”
इत्येवं चातुर्वर्ण्यधर्मनिरूपणप्रतिज्ञाया असंगतत्वापत्तेः।
एवं-
चातुर्वण्यआचारं श्रुणुध्वं मुनिपुङ्गवाः।
पराशरमतं पुण्यं पवित्रं पापनाशनम्॥ १ ॥
इति प्रथमाध्याये पञ्चत्रिंशत्तमश्लोकोऽप्युपरुद्ध्येतकलौ चातुर्वण्यस्य ब्राह्मणवैश्ययोरेव विश्रान्तिकल्पनायाम्। न हि ब्राह्मणा एव क्षत्रियवैश्याचारा इति चातुर्वण्यवचनकदर्थनं युज्यते; अन्यथा तु ब्राह्मणा एव केचिच्छ्राद्राचारा इतिकृतं ते शूद्रकल्पनयाऽयीत्येकवर्णशेष एव कृतः स्यादिति न किञ्चिदेतत्।किंच युगान्तरोक्तस्वस्वधर्मानुष्ठानाशक्ताब्रह्मक्षत्रविशः कला वरूपप्रायश्चित्तसुकराचाराद्युपदेशन भगवता पराशरेणानुगृह्यन्ते इह स्मृतौ, नतु क्षत्रिय वेश्याचाराः परित्यक्तस्वधर्माणो ब्राह्मणा एवाधमाः सन्तः पुनरुपादिश्यन्तेऽधमयितुंक्षत्रियवैश्याद्याचारजातम्, किन्तु शुचि व्रताः सोमसूर्यवंशजाः क्षत्रियाः गर्गादिकुलप्रभवा विशुद्धा वैश्याश्च बोध्यन्ते कलिकालानुष्ठेयस्वाचारजातम्। अत एव तु - क्षत्रियो वोऽपि वैश्यो वा क्रियावन्तौ शुचित्रतो। तद्गृहेषु द्विजेर्भोज्यं हव्यकव्येषु नित्यशः।” इतीहैव पराशरः स्पष्टं शु-च्याचारक्षत्रियवैश्यगृहे ब्राह्मणानां हव्यकव्येषु भोजनमनुमन्यते, त्वदुक्तरीत्या अधमा ब्राह्मण एव क्षत्रियवैश्या इति “कियावन्तौ शुचिव्रतौ” इति ऋषेरभिधानमत्यन्तमुपमर्दितं स्यात्, भवेच्चात्यन्तोपमर्दो द्वादशाध्यायीयस्य “अज्ञानात्प्राश्य विण्मूत्रं सुरां वा पिबते यदि।पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः” ॥२॥ इति वचनस्य।न ह्येकस्येव ब्राह्मणवर्णस्य मध्यमोत्ताधमभावमादाय ‘त्रयो वर्णा द्विजातयः’ इति वर्णत्रैविध्याभिधानं घटेतेत्यलमेतेनासदावेशेनेति शम्॥
यदपि पराशरस्मृतिस्थक्षत्रियवैश्याचारप्रायश्चित्तादिबोधकवचनजातं न साम्प्रतिकघोरकलिकालार्थम्, किन्तु श्रीकृष्णस्य भगवतः सनातनस्य चरणस्पर्शवेधूर्यमुपगतायां भुवि प्रादुर्भूतस्वदुमहिम्नोऽप्यनालम्बि-तकठोरभावस्य परीक्षिद्राज्यकालमारभ्य कलेर्यावन्न किंचिदुत्तरसहस्रवार्षिको भोगः, तावत्कालं सुमित्र-क्षेमकरिपुञ्जयाद्युत्पत्ति-पर्यन्तमेव विशुद्धक्षत्रियादिवंशप्रचार इति तत्पर्यस्तमेव क्षत्रियादिप्रायश्चित्तनिर्ण-यकतया पराशरस्मृतेः सार्थक्ये नेदानीं ततः क्षत्रियवैश्य सत्तावगतिरिति, तदेतदनालोचितस्मृतिपुराण- शास्त्राणां दुर्भणितमेव। असति बलवत्तरे प्रमाणे सामान्यप्रवृत्तायाः पराशरस्मृतेः परीक्षिद्राज्यकालमा-रभ्य क्षेमकादिकालपर्यन्तमेव प्रवृत्तौ मानाभावात्, ब्राह्मणशूद्रयोराचारप्रायश्चित्तादिनिर्णयार्थमधुनापि तत्प्रामाण्याङ्गीकारे क्षत्रियवैश्ययोविषये तदप्रामाण्ये मानाभावाच्च। किंच पारीक्षितेन जनमेजयेन अश्वमेधसमये आध्वर्यवमात्राधिकारिणो वाजसनेयका ब्रह्मत्वादिसर्वकर्मसु वृताः, तेन चासन्तुष्टो वैशम्पायनः शशाप राजानं जनमेजयम्, यथोक्तं मात्स्ये पञ्चाशत्तमेऽध्याये-
जनमेजयः परीक्षितः पुत्रः परमधामिकः।
ब्रह्माणं कल्पयामास स वै वाजसनेयकम्॥६४॥
स वैशम्पायनेनैव शतः किल महर्षिणा।
न स्थास्यती हदुर्बुद्धे तवैतद्वचनं भुवि॥७॥
यावत्स्थास्यसि त्वं लोके तावदेव प्रपत्स्यति।
क्षत्रस्य विजयं ज्ञात्वा ततः प्रभृति सर्वशः॥८॥
अभिगम्य स्थिताश्चैवनृपं च जनमेजयम्।
ततः प्रभृति शापेन क्षत्रियस्य तु याजिनः॥६॥
उत्सन्ना याजिनो यज्ञे ततः प्रभृति सर्वशः।
क्षत्रस्य याजिनः केचित् शापात्तस्य महात्मनः॥ १०॥
पौर्णमासेन हविषा इष्ट्वा तस्मिन्प्रजापतिम्।
स वैशम्पायनेनैव प्रविशन्वारितस्ततः॥ ११॥
परीक्षितः सुतः सो वै पौरवो जनमेजयः।
द्विरश्वमेधमाहृत्य महावाजसनेयकः॥ १२॥
प्रवर्तयित्वा तं सर्वमृषिं वाजसनेयकम्।
विवादे ब्राह्मणैस्सार्द्धमभिशप्तो वनं ययौ॥१३॥
इति। स्पष्टमिदमेतेन यज्जनमेजयादिसमयपर्यन्तमश्वमेधादिमहायज्ञाहृतिः प्रावर्तत, प्रावर्तत च कलि-निषिद्धोऽपि वानप्रस्थाश्रम इति न तत्पर्यन्तं कलिवर्ज्यप्रकरणोक्तहेयोपादेयधर्मानुष्ठानप्रवृत्तिरासीत्। जनमेजयेन, तत्पुत्रेणशतानीकेन, तत्पुत्रेणाधिसोमकृष्णेन चासकृदेवाश्वमेधादियज्ञाहृतेरनुष्ठीयमानत्वात्। अश्वमेधादेश्च प्रबले कलौ निषेधात्, किं तु क्षमकानन्तरकाले एव यज्ञनिषेधः। तं चाधिकृत्य कालं पराशरमाधवीये पुराणवचनम्—
“ब्राह्मणादिषुशूद्रस्य पचनादिक्रियापि च।
भृग्वग्निपतनाद्येश्चवृद्धा दिमरणं तथा”
इति। ततश्च महाकलिप्रवृत्यनन्तरं यदि ब्राह्मणाः शद्राश्चेति वर्णद्वयमेव, न तु क्षत्रिया वैश्याश्च, तदा ‘ब्राह्मणादिषु’ इत्यादिशब्देन किमुपादेयं स्यात् ? न हीह ब्राह्मणव्यक्तिबहुत्वेनादिशब्दसार्थक्यसंभावना; आदिशब्दस्यैवंविधस्थले ब्राह्मणत्वेतरवर्णत्वसाक्षाद्व्याप्यधर्मावच्छिन्नबोधकत्वस्याजानिकसंकेतसिद्धतया तस्याऽतथाभावस्य सुरगुरुणाप्यन्यथा-कर्तुमशक्यत्वात्। तदिहादिपदं
वर्तमानकाले क्षत्रियवैश्यवर्णसत्तां बोधयतीति शास्त्रतत्वार्थविदः।
अथ स्मृतीनां पुराणापेक्षया बलवत्तरताया वचनप्रामाण्यनिरूपणावसरे मीमांसादिशास्त्रेषु व्यवस्थापितत्वेऽपि “यत्परः शब्दः स शब्दार्थः” इति न्यायेन वंशानुचरितलोकिकाख्यानगोत्रादिपरम्परा निरूपणे पुराणानां स्मृत्यपेक्षयापि प्रामाण्यं रक्षणीयमिति कथं पाराशर्याः स्मृतेः कलौ क्षत्रियवैश्याद्यभावबोधकबहुतरपुराणवाक्यविसंवादिन्यास्तत्र विषये प्रामाण्यम-वकल्पेत ? पाराशर्याः कलिप्राबल्यात्पूर्वमलब्धपदे कलौ क्षत्रियवैश्याचारबोधकतयापि निर्वाहेण तस्याः सांप्रतं प्रबलक-लौ क्षत्रियादिसत्त्वासाधकत्वमित्यकिञ्चिदिदम्; निरुक्तादिपदोपादनवैयथ्येशङ्कायाश्च बलवत्तरबहुतरविरोधि प्रमाणसंप्ल-वेऽन्यथयतुमप्यशक्यत्वेनासाधकत्वाच्चेति चेत्, अत्र ब्रूमः - किं तदस्ति प्रमाणम् ? यत्कलौ क्षत्रियाभावसाधकम् ? यदि अभिमन्युपुत्रस्य अर्जुनपौत्रस्य महाभागवतपरीक्षितो राज्यकाले मैत्रेयं प्रति पराशरेणोपदिष्टे विष्णुपुराणे तात्कालिकं सोमवंश्यं परीक्षितमारभ्य तस्मिन्वंशे भविष्यतोऽनमित्रान्तानभिधाय “तस्माच्च क्षेमकः। तत्रायं श्लोकः, ब्रह्मक्षत्रस्य यो योनिर्वंशो देवर्षिसत्कृतः। क्षेमकं प्राप्य राजानं स संस्थां प्राप्स्यते कलौ” इत्युक्तम्, तदेव सोमवंशसमाप्तौ प्रमाणमिति भ्राम्यसि, तर्हि अपरिचितलोकयात्रोऽनभिलक्षितपदपदार्थसम्बन्धो यथाश्रुतप्रतिपत्तासि। न ह्यत्र वंशनाशोऽभिधित्सितः, किन्तु ब्रह्मक्षत्रपदयोर्भावप्रधाननिर्देशत्वेन ब्राह्मणत्वक्षत्रियत्वबोधकतया सदाचाराध्ययनादिनिबन्धनब्राह्मणत्वस्य धर्मानु-ष्ठानप्रजापालनादिनिबन्धनचत्रियत्वस्य च योनिर्नामनिर्वाहको यः सोमवंशः सोऽयं निर्वाहकतासम्बन्धेन निरुक्तब्राह्मण-त्वक्षत्रियत्वरूपधर्मावच्छिन्नः क्षे—
मकं प्राप्य क्षेमकोत्पस्थनन्तरं चेमके राज्यं प्रशासस्येव विनाशमुपैष्यतीत्ययमर्थो बुबोधयिषितः स हि “सविशेषणे हि विधिनिषेधौ विशेषणमुपसंक्रामतः सति विशेष्ये बाधे” इति न्यायेन पूर्वोक्तब्राह्मणत्वक्षत्रियत्वनिर्वाहकतादृशगुणविनाश एव पर्यवस्यति। न हि वंशशिरोधरे क्षेमके पारीक्षितवंश्येषु क्षेमकभिन्नेषु इतरेषु च ध्रियमाणेषु विशेष्यभूतस्य वंशस्य नाशः प्रामाणिकः। यतः परीक्षितमारभ्य क्षेमकपर्यन्तमष्टाविंशतिसंख्यकाः पुरुषा अभूवन्। विष्णुपुराणायुक्तरीत्या। तत्र चैकस्य एक एवाभूत्पुत्र इति न शक्यं कल्पयितुम्। परीक्षित एत्र चत्वारोऽभूवन्पुत्राः जनमेजयश्रुतसेनोग्रसेनभीमसेनाः। ततश्चैतावत्सु महापुरुषेषु बहुभार्येषु राजपुत्रेषु क्षेमकसमये एकमात्रः स एवावशेष इति पुनरत्यन्तम श्रद्धेयैव कुकल्पनेति न तथार्थकदर्शनं युक्तम्। न चान्तरालिकेषु पारीक्षितवंश्येषु परीक्षितमपहायापरेषां नानेकेभिहिताः पुत्राः, किंत्वेकैक एवेति क्षेमकमात्रावशेषवंशकल्पना क्षेमकसमये न दुःसंभवेति शङ्कनीयम्; वंशनिरूपणावसरे आदिभूतस्य सुप्रसिद्धकू-टस्थपुरुषस्यैव शाखा उद्दिश्यन्ते, न पुनरान्तरालिक्यः सर्वाः शाखाः प्रशाखाश्च, अखिलीकृत्य वंशस्य निरूपयितुमशक्य-त्वात्। अत एव भगवान् पराशरः ‘एष तूद्देशतो वंशस्तवोक्तो भूभुजां मया। निखिलो गदितुं शक्योनैव जन्मशतैरपि’ इति आह पुराणरत्ने। पुनश्च स एव ‘बहुत्वान्नामधेयानां परिसंख्या कुले कुले। पुनरुक्तबहुत्वाच्च न मया परिकीर्तिता” इत्यवो-चत्। तस्मात्क्षेमकसमये परीक्षिद्वंशप्रभवानामन्येषामपि सत्त्वात् क्षोमकान्तो वंशः पारीक्षित इत्यस्य परीक्षद्वंशकीर्तिस्थि-तिः क्षेमकेणावसानमेष्यतीत्यर्थः। यथा चन्द्रं प्राप्य तमांसिलीयन्ते इत्यादौ चन्द्रोदये सति तमोविलयो विवक्षितः, यथा
वा उपरागं प्राप्य नद्यो गङ्गासमाः सर्वाः, इत्यादौ चन्द्राद्युपरागसमये नद्यः पवित्रा इत्ययमर्थः, तथैवेहापि क्षेमकसमये चन्द्रवंशसमाप्तिरभिहिता विशेषणीभूतगुणनाशाभिप्रायेत्येव युक्तम्। न हि स्वर्गी ध्वस्त इत्यादौ स्वर्गध्वंस विवक्षया तादृशप्रयोगोऽनुपपन्नः, नापि इषत्सहासं मुखमित्यादौ विधित्सितमीषत्त्वं सहासपदार्थतोवच्छेदकहासानन्वयि, यश्च विशेषणांशेऽन्वयबीजभूतो बाधः, सोऽत्रापि समानः, प्रत्युत क्षेमके स्वयं ध्रियमाणे चन्द्रवंशस्य महाप्रतानस्वरूपे बार्ह-द्रथवंशे चन्द्रवंशनाशाभिधानमत्यन्तवाधितमिति तस्य विशेषणांशान्वयो युक्त एव, युक्तश्चैवं ब्रह्मक्षत्रस्य यो योनिः इत्यस्य देवर्षिसत्कृत इत्यस्य व विशेषणस्यान्वयः; तद्रूपावाच्छिन्नस्यैव नाशाभिधानात्। एवं च “यः सः” इति यत्तदोरुपादानमपि नाश्यतावच्छेदकीभूतरूपसमर्पकतया सर्थकम, यथा यज्जीर्णं गृहं तद् गृहं नष्टमित्यादौ, यथा वा ध्रियमाणायामपि द्वारावत्यां भवति व्यवहारः, येयं यदुकुलकाशिता बलदेवकृष्णदेवाभिराक्षिता द्वारावती सेयं नष्टेति। एवं च देवार्षिसकृतत्वप्रयोजकीभूतब्रह्मक्षत्रसरंक्षणक्षमोयं वंशः क्षेमके राष्यं प्रशासति तस्याल्पवीर्यतया अधर्मप्रवणतया च नष्ट इति युक्तं विशेषणनाशाभिधित्सया तथाभिधानमिति। मात्स्येऽपि ‘अत्रानुवंशश्लोकोयं गीतो विप्रैः पुरातनैः। ब्रह्मक्षत्रस्य यो योनिर्वंशो देवर्षिसत्कृतः। क्षेमकं प्राप्य राजानं संस्थस्यति स वै कला” विति। तस्यापि विष्णुपुराणश्लोकोक्तदिशा-र्थोऽवगन्तभ्यः। ईषत्क्षेमः क्षेमकं तदस्य विद्यते प्रशासनकाले इत्यार्शआद्याचा राज्ञः क्षेमकेति संज्ञेति निगूढम्। अत एव हरिवंशे भविष्ये “न क्षत्राणि नियोक्ष्यन्ति विकर्मस्था द्विजातयः। क्षोरप्रयाश्च राजानो युगान्ते समुपस्थिते” इति स्पष्टमेव ब्राह्मणेषु
स्वयं दुर्मार्गस्थितेषु क्षत्रियाणामुन्मार्गगामित्वमुक्तम्। अथवा क्षत्राणि – क्षत्रिया लोकान्धर्मे न विनियोक्ष्यन्ति। तस्मादेव हेतोर्द्विजातयो ब्राह्मणा विकर्मस्थाः स्वतन्त्रा नष्टाचाराश्च। तत एव च चोरप्राया राजानः। एतत्तत्वं चाग्र निरूपयिष्याम इति मादृशामयमसंकीर्णोऽर्थाभिलापः। राजर्षिकृत इति पाठपक्षे तु राजर्षिभिर्ययातिपुरुप्रभृतिभिर्जन्मना सत्कृतः पावित इत्ययमर्थो विवक्षितः। शेषं पूर्ववत्। केचित्तु अत्रत्यस्य ब्रह्मक्षत्रस्येति पदस्य अस्मिन्वशे पूर्वं केषांचिज्जन्मान्तरोपार्जित-सुकृतसहस्राणां राजर्षीणां तपोमहात्म्यर्षि वरदानादिना ब्राह्मणत्वप्राप्ति-प्रसिद्धिमनुरुन्धानाः क्षत्रियभूतानां ब्राह्मणाना-मित्यर्थमाचक्षते, सोऽयस्मभ्यं नाभिरोचतेऽर्थः तथा सति क्षत्रब्रह्मणोर्योनिरिति पाठधारणस्यैवोचितत्वादिति सुसूक्ष्ममी-क्षन्तां विपश्चितः स्वयमेवेति शम्। एतेन विष्णुपुराणे चतुर्थेऽशे द्वाविंशाध्याये ये इक्ष्वाकुवंश्यान् भविष्यतः पार्थिवान् सुरथान्तानभिधाय ततश्च सुमित्रोऽन्त्य इत्येते चेक्ष्वाकवो बृहद्बलान्वयाः। अत्रानुवंशश्लोकः– इक्ष्वाकूणामयं वंशस्सुमित्रा-न्तो भविष्यति। यतस्तं प्राप्य राजानं स संस्थां प्राप्स्यते कलौ। इत्युक्तम्। ततश्च सूर्यवंशोऽपि सुमित्रेण क्षयमुपगत इति परास्तम्; पूर्वोत्तरीत्या अस्याप्यनुवंशश्लोकस्य व्याख्येयतया तस्य सूर्यवंशनाशे प्रामाण्यविरहात्। मरुव्यतिरिक्ताना-मनमित्रप्रभृतिभूपानां घोरे कलावपि स्थितेरुक्तत्वेन निरक्तवचनस्य मरुव्यतिरिक्तसूर्यवंशीय क्षत्रिसामान्याभावबोध-कताय असम्भवाच्च। तथा हि वंशानुचरिते मात्स्ये द्वादशाध्याये “तस्यानरण्यः पुत्रोऽभून्निध्नस्तस्य सुतोऽभवत्। निध्नपुत्रा-वुभौ जातावनामित्ररघूत्तमौ। अनमित्रो वनागद् भविता सकते नृपः” इति। एवं कलिकपराणे चतुर्था-
ध्याये विशाखयूपरुचिराश्वप्रभृतिक्षत्रियाणां कलावन्ते, सत्वमुच्यते इत्यस्यन्तमप्रामाणिकम् ; निरुक्तवचनस्य कलौ क्षत्रियसामान्याभावासाधकत्वात्। अत एव चतुर्थांशे विष्णुपुराणे वंशाध्याये-
“देवापिः पौरवो राजा मनुश्चेक्ष्वाकुवंशजः।
महायोगबलोपेतौ कलापग्राममाश्रितौ”॥ ४५ ॥
कृते युगे इहागत्य क्षत्रप्रवर्तकौ हि तौ।
भविष्यतो मनोर्वंशे बीजभूतौ व्यवस्थितौ॥ ४६॥
एतेन क्रमयोगेन मनुपुत्रैर्वसुन्धरा।
कृतत्रेतादिसंज्ञानि युगनि त्रीणि भुज्यते॥ ४७ ॥
कलौ तु बीजभूतास्ते केचित्तिष्ठन्ति भूतले।
यथैव देवापिमरू सांप्रतं समवस्थितौ॥ ४८ ॥
इति स्पष्टमेव मनुपुत्राणं युगत्रितयं भूमिभोगवतां कलौ तु दस्युखशायुपद्रुतानां मरुदेवाप्यतिरिक्तानां भविष्यद्वंशबी जभूतानामवस्थानमुच्यते “केचित्तिष्ठन्ति भूतले " इत्यनेन। अत्र हि मरुदेवाप्योरिवापरेषां बीजभूतानां न स्थानविशेष नियमः, अत एव स्थानसामान्यबुबोधयिषया भूतले इत्युक्तम्। एवं च भूतले तत्र तत्र केचन शुद्धाः क्षत्रियाः कलौ खशाद्युपद्रुता वंशबीजभूता न तु बहव इत्यर्थो लभ्यते। अत एव तेषां शुद्धिप्रदर्शनार्थं वंशनिदानबोधनार्थं च “यथैव देवापिमरू सांप्रतं समवस्थितौ ” इत्युक्तम्। पूर्वत्र मरुदेवाप्योः स्थानान्वरत्वात् “कृते युगे इहागत्ये क्षत्रप्रवर्तकौ हि तौ” इत्युक्तम्, अत्र तु क्षत्रियवंशबीजभूतानां जनावासस्थानस्थितत्वाद् भूतले इत्युक्तमित्यव्यवधेयम्। केचित्तु कलिक-पुराणमत्स्यपुराणोक्तविशाखयूपचित्राश्वयोरनमित्रस्य च तात्पर्येण"कलौ तु बीजभूतास्ते केचित्तिष्ठन्ती” त्युक्तमिति, तदा आधुनिकक्षत्रि-
यपदव्यवहार्याणां विष्णुपुराणोक्तकेचित्पदेन न सत्त्वसिद्धिसंभवः। अत एव च केचित्तिष्ठन्तीति वर्तमाननिर्देशोऽपि संगच्छते। अन्यथ तु विष्णुपुरणोपदेशकाले भविष्यतः सोमसूर्यवंश्यानभिधाय तेषां चरमान् दुर्बलान् राज्ञश्चाभिधाय तदपेक्षयापि भविष्यतामाधुनिकानां कलेरन्ते कृतयुगादिसंततिसंपादकानां भविष्यतां राजन्यानां निर्देष्टुमिष्टत्वे केचि-त्स्थास्यन्ति भूतले इत्येवोक्तं स्यात्, विशाखयूपादिनां तु देवापिमरुवद्विष्णुपुराणोपदेशकालेऽपि विद्यमानत्वाद्वर्तमान-त्वोपदेशो युक्त एवेति वदन्ति, तदेतदपि पुराणार्थानवबोधनिबन्धनमेव। अत्र हि पुराणे पूर्वप्रघट्टके कलेर्बलं तत्काले लोकानां दुर्दशां च निरूप्य “अनन्तरं चाशेषकलेरवसाने प्रबुद्धानां तेषामेव जनपदानाममलस्फटिकविशुद्धा मतयो भविष्यन्ति॥२७॥ तेषां च बीजभूतानामशेषमनुष्याणां परिणतनामपि तत्कालकृतानामपत्यप्रसूतिर्भविष्यति॥२८॥ तानि च तदपत्यानि युगधर्मानुसारीणि भविष्यन्ति " इति ”॥ २॥ इत्युक्तम्, ततश्च स्फुटमेव कलेरवसाने समुत्पन्नानां स्वत एव कालमहिम्ना विशुद्धा मतयस्तदपत्यानां च कृतयुगानुसारिमतिमत्त्वं केवलं ब्राह्मणानां शूद्राणां च न तु क्षत्रियाणां वैश्यानां चेति न शक्यं वक्तुम; “तेषामेव जनपदानाममलस्फटिकविशुद्धा मतयः” इत्युक्त्या तात्कालिकानामेव यावतामेव मनुष्-याणां वर्णाश्रमवयोदेशाद्यनपेक्षतात्कालिकमनुष्यत्वनिबन्धनविशुद्धमतिमत्वस्याभिधानात्। अत एवैतादृशार्थ बुबोधयिषया “जनपदानाम्” इत्युक्तम्, न केवलं तत्कालप्रसूतानामपि तु पूर्वोत्पन्नानामपि तत्कालसतां विशुद्धा मतयः इत्यर्थबोधनाय “तेषामेव”। अत्रैवकारस्याप्यर्थतया कलिशेषकालसमुद्भूततया पूर्वमयथामतीनामपि इत्ययं तेषामेवेत्यस्यार्थः।
एतदर्थंदर्ढ्यायैवात्र द्वितीयप्रघट्टके ‘तेषां च बीजभूतानामशेषमनुष्याणां परिणतानामपि” इत्याम्रेडितम्। न च तदानीं मरुदेवापिब्यतिरिक्तक्षत्रियबीजसत्त्वे उत्पत्स्यमानसृष्टिसंपादनार्थं मरुदेवाप्योः क्षत्रियवंशशेषस्वाभिधानं तयोः कलाप-ग्रामनिवासोक्तिः क्षत्रवंशहेतुत्वाभिधानं च कथं संगच्छतामिति वाच्यम्; नहि तयोर्भविष्यद्वंशहेतुत्वाभिधानेऽपरेषाम-भावः सिद्धयति। अनमित्रविशाखयूपादिक्षत्रियाणां कलिशेषे सत्ताया भविष्यद्वंशहेतुतायाः पृथिव्यां तत्र तत्रान्यक्षत्रियसत्तायाश्च मत्स्यपुराणविष्णुपुराणोक्ताया आस्तिकमात्रेणापलपितुमशक्यस्वात्, अन्यथा तु अत्रिदेवलासिताश्वस्थामकृपरामव्या-सादीनामपि कलिशेषे विशुद्धब्राह्मणानां सत्वात् ततः कलौ ब्राह्मणवंशच्छेदोऽपि भवतामङ्गीकृतः स्यादिस्यत्यन्तमनिष्टं भवतोऽपि। तदलं देवाप्यादीनां भविष्यद्वंशहेतुत्वाभिधाने कलौ क्षत्रियसामान्याभावप्रसाधनरूपया निजहस्तसादितया विपत्त्येति शम्।
यदपि क्षेमकरिपुञ्जयसुमित्रादिप्रसिद्धक्षत्रियराजवंशेषु राज्यनाशानन्तरमवशिष्टा राज्यशासनहीना अपि तद्वंश्याः क्षत्रिया महानन्दिक्षत्रियसुतेन शूद्राभर्गोद्भवेन बलिना अतिलोभवता नन्देन मगधराज्यसिंहासनस्थेनातिभीषणासंख्य सैन्येन स्वयमप्यतिभीषणेन अपरिच्छेद्यसम्पत्तिमता आबालवृद्धातुरं सर्वे क्षत्रियाः क्षयमनायिषतेति सांप्रतमक्षत्रमिदं जगदिति प्रलपन्ति, साधु तदेषां पूर्वाङ्गीकृताशेषक्षत्रनाशानामप्यशेषचत्रनाशाय पुनः क्षत्रसत्वाङ्गीकरणम्, परम्, त्रिः सप्तकृत्वो हताशेष विशेषकुलक्षत्रस्य क्षत्रनाश\।कृपणपाणेः पणीकृताखिलक्षत्रनाशस्य भार्गवस्य विष्णोरंशावतारस्या-कुण्ठकुठारधारस्य क्रोधाग्निं सोढवतः
क्षत्रियान् शूद्रीगर्भोद्भवः कथमशेषेण प्रणशयेदिति नाभिजानन्ति मतिमन्दाः, न चायं वाचनिकोऽर्थः। तथाहि विष्णुपुराणम् – “ततो महान्दिसुतः शूद्रागर्भोद्भवोऽतिलुब्धो महापापो नंदः परशुराम इवापरोऽखिलक्षत्रान्तकारी भविता; ततः प्रभृति शूद्रा भूमिपाला भविष्यन्ति, स चैकच्छत्रामनुल्लङ्घितशासनो महापद्मः पृथिवीं भोक्षयती” ति। अत्र हि परशुरामदृष्टांतदानेन दार्ष्टान्तिके नन्दे भवितव्यं न्यूनतया। अत एवात्यन्तसाम्यसंकीर्तनाय इवपदमुपादायापि ‘अपरः परशुरामः’ इत्युक्तम्, यथा अयं राजा अपरः कर्ण इवेत्यादौ। अतिलुब्ध इत्यनेन च क्षत्रियाणां कालक्रमेण नैर्बल्यमुपयातानां पूर्वसंचितं धनमवशिष्टा पृथिवी चापहृतेत्यर्थो दर्शितः। न हि क्रोधान्धस्य लोभसंदर्शनं युज्यते इति लोभमात्रमूलघातकत्वप्रदर्शनेन निर्धनक्षत्रियाणां त्राणं ततः सिद्ध्यति, हन्तुर्नीचता च। यो हि क्रोधान्धः कंचन हन्ति, तदपेक्षया लोभेन हन्तारं लोकवेदयोरत्यन्तं जुगुप्सन्ते जनाः। ततश्च नन्दोऽतिजघन्यः क्षत्रहन्तेत्यपि ततः सिद्ध्यति। ततः प्रभृति शूद्रा भूमिपाला इत्यनेनातिलुब्धतया सर्वा भूरनेनापहृतेति शूद्रकृले गता भूरिति सिध्यति। तदेवं वस्तु-स्थितौ त्रिःसप्तकृत्वो नाशेऽपि येऽवशिष्टाः पुनर्भूमेः सार्वभौमपदं चोपगतास्ते एव क्षत्रियाः शूद्रापुत्रेण नन्देन निश्शेषतामुपया- पिताः, सर्वत्रापि राज्यसिंहासनेषु नन्देन स्वकुलसमुद्भूता शूद्रा एव व्यवास्थापिषतेति च नागेशमपहोया परोऽविकल-करुणः प्राचीनेतिहासार्थतत्ववेत्ता गृहीतवाक्यार्थपदमर्यादः कथं संभावयेदपि ! न हि चन्द्रः प्रदीपवत्प्रकाशते सूर्यो वा खद्योतवत्तमांसि विलीनयतीति प्रामाणिका व्यवहारन्ति। ततश्च सकृदेव क्षपिताखिलक्षत्रगणो नन्दस्त्रिः सप्तकृत्वोऽप्य-पारितक्षत्रक्षयेण जामदग्न्ये-
न कथमुपमीयेत ? यदि च तादृशोपमानविरहादेव जामदग्न्येनोपमापितो नन्दः, यथा “आकाशवत्सर्वगतश्च नित्य” इत्यादिश्रुत्या हीनेनाप्याकाशेन ब्रह्मोपनीयते, आकाशस्य हि सर्वगतत्वनित्यत्वं चापेक्षिकमपि नैयायिकमारभ्यापामर-बुद्ध्यारूढामिति तथेच्यते, एवं परशुरामस्याप्यखिलक्षत्रान्तकत्वमापेक्षिकमपि सर्वजनप्रसिद्धतया लोकबुद्धिसंग्रहाय दृष्टन्तीक्रियत इत्युच्यते, तदा ब्रह्मणः सजातीयविजातीयस्वगतभेदशन्यतया तत्र दृष्टान्तालाभेऽपि अत्रान्तकप्रलयप-योधिप्रभृति दृष्टान्तावष्टम्भसंभवे किमिति हीनोमासंश्रप्रणमिति ब्रूमहे। यदि तु प्रलयकालान्तकादीनां न केवलं क्षत्रिय-नोशकत्वम्, किन्तु साधारण्येन सर्वजगदन्तहेतुत्वमिति क्षत्रियमात्रनाशकत्वलक्षणदृष्टान्तसाद्गुण्यसम्पादनाय जामदग्न्य एव दृष्टान्तीकृत इत्युच्यते, दृष्टान्तदृष्टापेक्षिकधर्माणामेव दृष्टान्ते संग्राह्यताया लोकवेदोभयप्रसिद्धिसिद्धतया प्रकृ-तेऽन्तकादीनां सर्व जगन्नाशकत्वेऽपि क्षत्रियनाशकत्वे दृष्टान्तीकर्तुं शक्यतया तदुपेक्षायां मानाभावात्। दृष्टान्तदृष्टसर्व-धर्मांस्तु अनुरुन्धतो दृष्टान्त एव दुर्लभ इति सर्ववादिसिद्धान्तः। तदिह बहुतरक्षत्रकुलक्षयहेतुः शूद्रापुत्रो लुब्धः क्षुद्रो बलदृप्तनन्द इत्येव विष्णुपुराणमत्स्यपुराणश्रीमद्भागवतादिप्रामाणिकग्रन्थाभिप्रेतोऽर्थ इति न पाणिविहितम्, नन्दान्ताः क्षत्रियाः, नन्दान्तं क्षत्रियकुलम्, इत्यादेर्लौकिकाभोणकस्याप्ययमेवार्थः। अत्रान्तपदं नाशार्थकम्, ततश्च नन्देन अन्तो नाशो येषां तादृशाः क्षत्रियाः इत्यर्थः। “अन्तः स्वरूपे निकटे नाशनिश्चययोरपि” इत्यभियुक्तोक्तेरन्तशब्दस्य नाशार्थकत्वाम्नाशस्य व प्रतियोगितानिरूपकाभावावगाहितयैव प्रतीत्युपपत्तौ तदीयप्रतियोगितायाः सामान्यधर्मावच्छेद्यत्वे मानाभावात्। एतेन
क्षत्रियक्षयप्रतीतेः तत्तद्व्यक्तित्वेतरधर्मानवच्छिन्नतत्तत्क्षत्रियव्यक्तिनिष्ठ-प्रतियोगितानिरूपकाभावकूटावगाहित्वा-ङ्गीकारे यावत्क्षत्रनाशः फलेदित्यपि कुकल्पना, निरुक्तरीत्या पुराणाक्षरस्वरसलब्धार्थनिरूपणे तादृशप्रतियोगितानिरूपकाभावे मानाभावात्। यदपि भूमेर्भारावताराय गृहीतमनुजविग्रहेण हरिगौव महाभारतयुद्धे क्षत्रियाः क्षयमनायिषतेति केषां चिदेव शिष्टानां निःशेषतया वधो नन्देन शद्रापुत्रेण न दुःसंभव इत्यभिधानम्, तदपि मन्दानामेव। किं कदाप्यनीदृगिदं जगदितिते विभावयन्ति ? सर्वदा हि लोकोऽयं बालबद्धतरुणैः स्रीभिश्च परिपूर्णः भारतयुद्धसमयेऽपि आसन्नेव बालाः शिशवोऽति-शिशवोऽथ क्षत्रियस्त्रियो गृहीतगर्भाः, कठिनगर्भाः अतिकठोरगर्भाः आसन्नप्रसवाश्चेति तैरेवायंलोकः पूर्यते स्म। भारत-युद्धसमये यद्यपि- कुरुपाण्डवकुलयोरेकमात्रो गर्भस्थतन्तुर्महाभागः परीक्षिदासीत् यथोक्तं श्रीमद्भागवते “द्रोण्यस्त्रवि-प्लुष्टमिदं यदंगं सन्तानबीजं कुरुपाण्डवानाम्। जुगोप कुक्षिं गत आत्तचक्रो मातुश्च मे यः शरणं गतायाः” इति परिक्षीणे कुरुकुले समुद्भूत इति नाम्नापि परिक्षिदिति पुराणाचार्यः पराशरः; तथापि देशान्तरादागतानां कुलान्तरक्षत्रियाणां चासन्नेव संतानतन्तव इति तैरयं लोकः पुनः पूरितः। पूर्वं हि बहुदारपरिग्रहाः समुत्पादितापत्यतनया बहुवीर्या क्षत्रिया इति स्मरन्ति पुराणाचार्याः- परीक्षित्कालाच्चैकसहस्रवर्षानन्तरं शूद्रासंभवो नन्दः समुत्पेदे। तावता चैकसहस्रवर्षकालेन पुनरयं लोकः क्षत्रियकुलेन पूरितः। यथोक्ं विष्णुपुराणे चतुर्थांशे चतुर्विंशाध्याये “यावत्परिक्षितो जन्म यावन्नन्दाभिषेचनम्। एतद्वष सहस्रन्तु ज्ञेयं पञ्चदशोत्तरम् इति। किं च निखिल-
पुराणप्रणयनकालानन्तरम् नन्दोत्तरकालिनंचन्द्रगुप्तादिपर्यन्तं भारतवर्षीय वृत्तान्तमुपक्रम्य प्रवृत्तासु गुणाढ्यप्रणीतासु बृहत्कथासु स्पष्टमेव तत्र तत्र क्षत्रीयवंशकथा उपलक्ष्यन्ते। किंचातिसुप्रसिद्धेऽपि च विक्रमभोजसाहङ्कश्रीहर्षादीनां धारोज्जयनीकान्यकुब्जकाश्मीरेश्वराणां क्षत्रियत्वे यदि विवादः, तर्हि कुकर्मशतासादितशूद्रपिण्डपरिपुष्टमहान्धगर्तो-दरकुहराणां भवतामेव ब्राह्मणत्वमविवादपदमित्यतिचित्रम्। किं च निजवर्णोचितशावसूतकाद्याचारवतां स्वस्ववर्णो-चितदायशास्त्रोक्तदायव्यवहारवतां सर्वथापि शूद्रविसदृशाचाराणां क्षत्रियवैश्यानां चेच्छूद्रत्वम्, तर्हि अन्तिमः पुनरेव ते सतिलोञ्जलिवितीर्येत साम्प्रतिकाचारव्यवहारनिर्णायक धर्मशास्त्रीययावन्निबन्धेभ्यः। सर्वे हि निबन्धाश्चातुर्वण्यमादाय व्यवहारं दर्शयन्ति। तदलमेतेन नागेशकुकलपनपङ्किलकुपथानुसरणसंनाहेन। तस्मात् क्षत्रियाभावसाधकवचनविरहा-त्तत्साधकनिरुक्त-निर्वक्ष्यमाणप्रमाणसत्वाच्च निःक्षत्रं निर्वैश्यं चेदमाधुनिकं जगदित्याचक्षणा भ्रान्ता एवेति सिद्धम्।
यदपि चक्षुषी पिधायैव “कलावब्राह्मणत्वे सति शस्त्रग्रहणप्रजापालनमात्रण क्षत्रियसादृश्येन क्षत्रियपदव्यवहार्याणां दशविंशतिपुरुषपर्यन्तमस्मर्यमाणोपनयनानां तद्ग्रहेऽपि तादृशानामुपनयन संस्कारो भवति न वेति संदेहे निर्णयः क्रियते” इति नागेशः। अत्रायं संशयो वादिविप्रतिपत्याहितो वक्तव्यः। तत्र निरुक्तविशेषणावच्छिन्नाः संस्कार्या न वेति विप्रतिपत्तौ निषेधकोटिः क्षत्रियादिद्रुहां विधिकोटिश्चातुर्वण्यव्यवस्थापकानाम्। अत्राब्राह्मणत्वे सतीत्येतदनुपादाने तादृशब्राह्मणानां कलावपि “न ब्राह्मणः पतनमृच्छति इति गोमतस्मतिबलेन स्वेनापि क्षत्रियादि-
द्रु हा संस्कार्यतायाः स्वीकरणीयतया बाधः स्यादिति तदुपपत्तये अब्राह्मणत्वे सतीत्येतदुपात्तम्, परमते तु सिद्धसाधन-वारणाय तदुपादेयमेव। क्षत्रियपदव्यवहार्याणामित्येतदनुपादाने तादृशविशेषणावाच्छिन्नानां शूद्राणां संस्कार्यतायाश्चा-तुर्वर्ण्यव्यवस्थापकेनानङ्गीकरणीयतया बाधो भवेदिति तद्वारणाय क्षत्रियपदव्यवहार्याणामिति। नागेशपक्षो तु तत्प्रयो-जनम् सिद्धसाधनवारणमेव; इतरथा तु तादृशरूपावच्छिनानां शुद्राणां संस्कार्यतायाः केनाप्यनभ्युपेततया तेषामसं-स्कार्यत्वप्रसाधने सिद्धसाधनमेव भवेदिति। कलौ इत्यनुक्तौ तु पक्षाप्रसिद्धिः। कृतत्रेतादियुगेषु स्वाभाविकनिजोचिता चारप्रवृत्तिमतामेव पुंसां सत्वेन तदानीं निरुक्तविशेषणावच्छिन्नपुरुषविरहेण पक्षाप्रसिद्धेरावश्यकत्वादिति कलावित्युक्तम्। सममिदं प्रयोजनं विधिनिषेधकोट्योः। दशविंशतिपुरुषपर्यन्तमि त्यनुक्तौ द्वित्रपुरुषपतित-सावित्रीकाणां संस्कार्यतायाः कलावपि केनचिदेकदेशिनाङ्गीकृतत्वाद् बाधः स्यादिति तदुपादानमावश्यकं नागेशमते। विधिकोटि मतां तदुपादानप्रयोजनं सिद्धसाधनवारणमेवेति। उक्तदिशा स्वयमेव विक्रमन्तां युक्त्यरण्यानीकेसारिणस्तार्किकाः।
अत्रैवमभिदध्महे— शस्त्रग्रहणप्रजापालनमात्रेण क्षत्रियसादृश्येनेत्यत्र मात्रपदेन क्षत्रियपत्न्यामौरसाः क्षत्रियसमुत्पादिताः पुत्रा व्यावर्तनीयास्ते किं तदभावसाधकप्रमाणोपलम्भान्निराचिकीर्षिताः? उत तत्साधकप्रमाणविरहान्न सन्तीति निषिषे-धयिषिताः? आहोस्वित् तेजोविक्रमगाम्भीर्यौदार्यवादान्यका-कृत्रिमब्रह्मण्यशौर्यादयः क्षत्रियेषु न विद्यन्ते इति साम्प्रतिकाः क्षत्रियाः शस्त्रग्रहणप्रजापालनमात्रेण क्षत्रियव्यपदेशभाज
इत्युच्यते ? तत्र न प्रथमः, तदभावसाधकप्रमाणविरहात्। क्षत्रियाभावसाधकतयोपन्यस्यमानानां प्रमाणाभासानामर्थान्त-रपराणामर्थस्य पूर्वमेवावोदितत्वात्। नापि द्वितीयः कल्पः, पूर्वोक्तानां पराशरस्मृत्यादीनां माधवधतपुराणवक्षनानां च कलौ क्षत्रियवैश्यसत्त्वप्रमापकत्त्वात्। नन्दोत्पत्तिपूर्वकालीनकलिसमयमानपरत्वन्तु न तादृशवचनानाम्, सामान्यतः प्रवृत्तमाणस्यासति बाधके, विशेषे पर्यवसानकल्पनायोगात्। अत एव तु बृहन्नारदीये “युगधर्माः समाख्यातास्त्वया संक्षेपतो मुने। कलिं विस्तरतो ब्रूहि त्वं हि सर्वविदां वरः॥ ब्राह्मणाः क्षत्रियाः वैश्याः शूद्राश्च मुनिसत्तमाः। किमाहराः किमाचारा भविष्यन्ति कलौ युगे” इति ऋषीणां प्रश्ने“ शुणुध्वं ऋषयः सर्वे नारदेन महात्मना। सनत्कुरैर्मुनये कथितं तद्वदामि वः। सर्व धर्मा विनश्यन्ति कृष्णे कृष्णत्वमागते। तस्मात्कलिर्महाघोरः सर्वपापस्य साधकः। ब्राह्मणाः क्षत्रियाः वैश्याः शूद्रा धर्मपराङ्मुखाः। ब्याजलोभरताः सर्वे दम्भाचारपरायणाः। असूयानिरताश्चैव वृथाहङ्कारदूषिताः। सर्वे संक्षिप्यते सत्यं नरैः पण्डितगर्वितैः। अहमेवाधिक इति सर्व एव वदन्ति वै। अधर्मलोलुपाः सर्वे तथा वैतण्डिका नराः। अतः। खल्पायुषः सर्वे भविष्यन्ति कलौ युगे। अल्पायुष्ट्वान् मनुष्याणां न विद्याग्रहणं द्विजाः। विद्याग्रहणशून्यत्वादधर्मो वर्धते पुनः। व्युत्क्रमेण प्रजाः सर्वाः क्षीयन्ते पापतत्पराः। ब्राह्मणायोस्तथा वर्णाः संकीर्यन्ते परस्परम्। कामक्रोधपरा मूढा वृथा सन्तापपण्डिताः। बद्धवैरा भविष्यन्ति परस्परवधेप्सवः। ब्राह्मणाः क्षत्रिया वैश्याः सर्वधर्मपराङ्मुखाः। शूद्रतुल्या भविष्यन्ति तपःसत्यविवर्जिताः”। इति स्पष्टमेव सूतेन घोरं कलिमुद्दिश्य तदोतनाचार-
व्यवहारनिरूपणावसरे ब्राह्मणशूद्रयोरिव क्षत्रियवैश्ययोरपि वर्णयोः सत्ता बोध्यते, न ह्येतेषां बृहन्नारदीयपुराणवचनानां कथंचिदपि नन्दोत्पत्तिपूर्वकालीनक्षत्रियवैश्यानां दुराचारबोधकतासंभवः, वादिनापि नन्दोत्पत्तेः पूर्वं क्षत्रियाणां वैश्यानां च शुद्धवंशप्रचारस्य आपेक्षिकसदाचारत्वस्य च स्वयमङ्गीकृतत्वेन -
ब्राह्मणाः क्षत्रिया वैश्याः सर्वधर्मपराङ्मुखाः।
शूद्रतुल्या भविष्यन्ति तपःसत्यविवर्जिताः”॥
इत्येतस्य सर्वथाऽसंगतत्वापत्तेः। अत एव तु बृहन्नारदीये प्रकरणे कलिप्रथमपादेऽपि विनिन्दन्ति हरिं नरीः। यूगान्ते तु हरेर्नाम मैव कश्चित्स्मरिष्यति॥
कुहकैश्च जनैस्तत्र हेतुवादविशारदाः।
पाखण्डिनो भविष्यन्ति चतुराश्रमनिन्दकाः॥
न च द्विजातिशुश्रूषां न स्वधर्मप्रवर्तनम्।
करिष्यन्ति तदा शूद्राः प्रब्रज्यालिङ्गिनो द्विजाः॥
कषायपरिवीताश्च जटिला भस्मधूलिताः।
शूद्रा धर्मान् प्रवक्ष्यन्ति कूटबुद्धिविशारदाः॥
अशौचा वक्रमतयः परपाकान्नभोजिनः।
भविष्यन्ति दुरात्मानः शूद्राः प्रव्रजितास्तथा॥
उत्कोचजीविनस्तत्र महापापरतास्तथा।
भविष्यन्त्यथ पाषण्डाः कापाला भिक्षवोऽधमाः॥
एते चान्ये च बहवः पाखण्डा विप्रसत्तमाः।
ब्राह्मणाः क्षत्रिया वैश्या भविष्यन्ति कलौ युगे॥
गीतवाद्यपरा विप्रा वेदवादपराङ्मुखाः।
भविष्यन्ति कलौ प्राप्त शूद्रमार्गप्रवर्तिनः॥
अल्पद्रव्या दरिद्राश्च वृथाहङ्कारदूषिताः।
प्रतिग्रहपरा नित्यं नरा दुर्मार्गशालिनः॥
आत्मस्तुतिपराः सर्वे पर निन्दापरास्तथा।
विश्वासहीनाः पुरुषा वेददेवद्विजादिषु॥
असंस्कृतोक्तिवक्तारो बद्धद्वेषपरास्तथा।
परमायुश्च भविता तदा वर्षाणि षोडश”॥
इत्युक्तम्, निरुक्तैतद्धर्मविशिष्टाश्च नाभूवन्नन्दोत्पत्तेः पूर्वमिति तु नापरोक्षम्, पौराणिका हि तं समयमार्षमाहुः। क्वनु पुनरार्षसमये तादृशां क्षत्रियवैश्यानां ब्राह्मणानों शूद्राणामेव वोच्छृङ्खलानामत्यल्पायुषां संभब इत्यगत्या ब्राह्मणानामिव अधुना क्षत्रियवैश्यानामपि सिद्धिरवर्जनीया। न च पूर्वोक्तबृहन्नारदीय पराशरस्तृतिपुराणादिवाक्येषु क्षत्रियवैश्यपदेन प्रजापालका वाणिज्यकारकाश्च गृह्यन्त इति न ततो जातिक्षत्रियादिसिद्धिरिति वाच्यम्; एकप्रकरणैकवाक्यस्थक्षत्रियवैश्य शूद्रपदेषु द्वयोर्मुख्यार्थत्वमपरयोस्तु क्षत्रियवैश्यपदयोर्गौणार्थत्वमिति विनिगन्तुमशक्यतया अपक्षपातिना यथार्थविचारशी-लेन तथा शङ्कितुमप्ययुक्तत्वात्। तस्मात्क्षत्रियादि-साधकप्रमाणाविरहान्नाधुना क्षत्रिया वैश्याश्चेति रिक्तं वचः। एतत्तत्वं स्वावसरे पुनर्निपुणतरमुपपादयिष्यामः। नापि तृतीयः कल्पोऽवकल्पते; यथाधुनिकेषु सर्वक्षत्रियेषु तेजोविक्रमगाम्भीर्या-दयो न विद्यन्ते क्षत्रियगुणाः, तथा ब्राह्मणेष्वपि सर्वेषु तपःसत्याध्ययनगुर्वनसरणानुसूयकत्वादयो न विद्यन्ते ब्राह्मणगुणाः, तथाप्येके केचिदुपलभ्यन्ते यदि ब्राह्मणगुणसंपन्ना ब्राह्मणास्तर्हि संसारे क्षत्रियगुणसम्पन्नाः क्षत्रिया अपि तत्र तत्र नात्यन्त-दुर्लभाः, ये कलावपि बलात्परिपालयन्ति क्षत्रधर्मम्, अनुस-
रन्ति च निजधमसंरक्षणक्षमान् ब्राह्मणान्वेदतत्वार्थविदः, न हि सर्वो जनः सर्वथा कृतयुगेऽपि कृतसर्वनिजधर्मकृत्य एव आसीत्, किं पुनः सर्वधर्मविप्रतीपे बलिनि कलौ सर्वधर्मानुष्ठानक्षमास्त्रैवर्णिकास्तेऽपि पुनः सुलभा इति केनापि कोवि-देन कदापि सम्भायितुमपि पार्यते। जनो हि सर्वोऽधुना निसर्गदुष्प्रवृत्तिर्निजाश्रमवर्णपराङ्मुखवृत्तिरिति न केषामप्यन-नुभूतचरम्। अत एव तु भगवान् पराशरः “युगे युगे च ये धर्मास्तेषु तेषु च ये द्विजाः। तेषां निन्दा न कर्तव्या युगरूपा हि ते द्विजा” इति विस्पष्टमवोचत्। न केवलं युगधर्मानुसारिणस्रैवर्णिकाः परं चेतनाचेतनात्मकसर्वं जगदिति आरण्यके पर्वणि भगवान् ब्यासः “भूमिर्नद्यो नगाश्चैते सिद्धा देवर्ष्यस्तथा। कालं समनुवर्तन्ते तथा भावा युगे युगे” इति। तस्माद्यया समयानुसारिणो ब्राह्मणास्तथापरेऽपि त्रैवर्णिकाः सन्त्येवाधुनेति “शस्त्रग्रहणप्रजापालनमात्रेण क्षत्रियसादृश्येनेत्यादि अनभिज्ञानामाहोपुरुषिकानिबन्धनमेवाभिधानमिति सर्वं चतुरस्रम्।
यदपि “ततो महानन्दिसुतः शूद्रागर्भोद्भवोऽतिलुब्धो महापद्मो नन्दः परशुराम इवाखिलक्षत्रान्तकरो भविता। ततः प्रभृति शूद्रा भूमिपाला भविष्यन्ति। स चैकच्छत्रामनुल्लङ्घितशासनो महापद्मः पृथिवीं भोक्ष्यतीत्युक्तम्। अत्र परशुरा-मोपमया स्त्रीवालावधिनिर्दयहन्तृत्वं सूचितं महापद्म इत्यस्य तावत्संख्यधनस्तावत्सैन्य इति चार्थः। परशुरामेणेव कतिप-यानामहननमपि स्यादत आह— “अखिलक्षत्रान्तकारी” ति। तेन क्षत्रियसामान्याभावः सूचितस्तदेवोक्तं “शूद्रा भूमिपाला” इति। नन्दस्योग्रत्वेप्यनुलोमसंकराणां मातृजातीयत्वाच्छूद्रा इत्युक्तम्। तत्तद्देशीयक्षत्रियान् हत्वा
तत्संतानभूता उग्रस्तत्तद्राज्ये स्थापिता इति तात्पर्यम्। भागवते द्वादशे “महानन्दिसुतो राजन् शूद्रागर्भोद्भवो बली। महाप-द्रुमपतिः कश्चिन्नन्दः चत्रविनाशकृत्। ततो नृपा भविष्यन्ति शूद्रप्रायास्त्वधार्मिका इति नन्दादीनामुग्रत्वात् शूद्रप्राया इत्यु-क्तम्। एतेन- राज्याधिकारिणो मागधा एवानेन नाशिताः, न तु देशान्तरस्थाः, शूद्रराज्योक्तिरपि मगधदेशविषयैवेति – निरस्तम्, सामान्यप्रवृत्तवाक्यस्य संकोचे मानाभावात्, वक्ष्यमाणवाक्यविरोधाच्च। मागधरिपुञ्जयकाल एव सर्वक्षत्रिय-वंशशाखानाशाच्च। एतच्चाग्रे स्फुटं भविष्यति” इति नागेशः, प्राक्तदेतन्निरुपितार्थमपि पुनर्विचार्यते। अत्र परशुरामोप-मया स्त्रीवालावधि निर्दयहन्तृत्वं सूचितमिति यदुक्तं साधुतत्, परं तु अतिलुब्ध इति विशेषणदानमहिम्ना लोभमूलक्षत्रिय-हननकर्तृत्वं प्रतीयते इति राज्यलोभवना नन्देन मगधदेशीयप्राचीनवंशभूपाः अशेषेणाघानिषतेत्येव मिद्ध्यति। अत एवैतन्मूलतया “ततः प्रभृति शूद्रा भूमिपाला भविष्यन्तीत्युक्त्यैव अक्षत्रिया मेदिनीति सिद्धयति। न हि क्षत्रियेषु ध्रियमाणेषु शूद्राभूमिं भोक्तुमलमिति वाच्यम्; तात्पर्यविषयीभूतार्थनिर्देशमुखेन हि प्रेक्षावन्तो वक्तुम्पक्रमन्ते इति सर्वबुद्धिमतां समयः। ततश्च सर्वपृथिव्यवच्छेदेन अक्षत्रियत्वस्य बुबोधयिषितत्वे ततः प्रभृति अक्षत्रिया मेदिनी इत्येवोक्तं स्यात्, न तु “शूद्रा भूमिपालाः” इति। नन्दसमयानन्तरं क्षत्रियाणामतिनिर्बलतया तेषु विद्यमानेष्वपि इतरेषां बलवतां शद्रादीनां भूमिभोगित्वं नासंभवग्रस्तम्। अत एव तत्र तत्र पुराणेतिहासादिषु अक्षत्रियाश्च राजानः शूद्रबहुलास्तु राजानः” इत्येवोच्येत, न तु क्षत्रियसामान्याभावोऽपि, अखिलक्षत्रान्तकारित्वं तु पूर्वोक्तबाधकसद्भावात् आपेक्षिकाखिलचत्रान्तका-
रित्वपयेवसायीत्यसकृन्निरूपितम्। परशुरामदृष्टान्तदानोक्तिरपि इवापरपदघटिता आपेक्षिकाखिलक्षहन्तृत्वे-नैवोपपद्यत इति न पाणिच्छन्नम्। एतेन “तत्तदेशीयक्षत्रियान्हत्वा तत्सन्तानभूता उग्रास्तत्तद्राज्ये स्थापिता इति तात्पर्यमिति” नागेशस्याभिधानं स्वतात्पर्यनिबधनमेव, न तु पुराणर्षितात्पर्यमनुरुद्ध्य। इह प्रकरणे देशान्तरनामानुक्त्यादेशान्तरीण-सर्वक्षत्रिया आसन्नेव ये शद्रागर्भसंभवाः पुत्रास्ते एव नन्देन क्षत्रियापुत्रानुत्साद्य राजसिंहासने स्थापिताः सर्वदेशेषु इत्यर्थस्य पुराणाक्षरैरलभ्यतया निजदुर्भावनासमुद्भावितत्वात्। न हि नन्द आषशक्तिरिति श्रूयते क्वापि पुराणे, नापि वर्तमान-सामयिकदेशान्तरीणाहूणादीनामिव विचित्रशिल्पकलाकुशल इति स्मर्यते, यतोऽभिभवेदखिलं क्षत्रकुलमिति तस्य साम्राज्यश्रुतिरपि मगधदेशविषयैव। अथवा भवेदनेकदेशविषया, न पुनरशेषभारतवर्षविषया “अनुल्लङ्घितशासन एकच्छत्रां महीमित्यादिपौराणिकी प्रसिद्धिरपि तस्यातिबलित्वे प्रमाणम्, न तु मेदिन्या अक्षत्रियत्वे। अथवा नन्दकाले क्षत्रियाणां निर्बलत्वं शूद्राणां चातिबलत्वं प्रमाप्यते निरुक्तैतद्वचनेन। अत एव “त्रेतायां ब्राह्मणोत्तराः प्रजा द्वापरे ब्रह्मक्षत्रो-त्तराः कलौ शूद्रदाशोत्तराः” इति पुराणेषु प्रसिद्धिः। न ह्यत्र त्रेतायां ब्राह्मणा एवासन्निति विवक्ष्यते, चातुर्वर्ण्यस्य तदानीं सर्वैरपि शिष्टैः स्थितेरङ्गीकृतत्वात्, किन्तु तत्तत्काले तेषां तेषां वलाबलाभ्यामेव ब्राह्मणाद्युतरत्वम्, तथा प्रकृते कलौ शुद्राद्युत्तरत्वं क्षत्रियादीनामप्रधान्यबोधनफलम्, न त्वत्यन्तासत्वबोधनपमिति व्यक्तमेतत् इत्युपरम्यते विस्तरात्। यद्यपि “ततः पुरंजयादगो नवषड्वर्षाधिकं वर्षशतं राज्यं करिष्यन्ति, तत्पुत्रास्त्रयोदश वाहिकास्ततः पुष्पमित्रादयस्त्रयः
ततस्त्रयोदशमेकलाः सत्यकौशला निषधा नव ततो मागधो विश्वस्फूर्जिसंज्ञोऽन्यान वर्णान् करिष्यति कैवर्तपटुपुलि-न्दसंज्ञानिम्लेच्छप्रायान्ब्राह्मणान् राज्ये स्थापयिष्यत्युत्साद्याखिलचत्रजातिमित्युक्तम्। क्षत्रजातिमित्यस्य क्षत्रजातिमुप्रा-दिरूगमित्यर्थः। एतेन तावत्पर्यन्तमुग्रादिजातिस्थितिः, अग्रे सापि नास्तीति सूचितम् अतो नैतद्बलान्नन्दोत्तरं क्षत्रिय-सत्तासिद्धिरिति नागेशः, तदिदं मीमांस्यते किमत्र क्षत्रजातिमित्यस्य क्षत्रजातिमुपादिरूपामित्यर्थकथनं क्षत्रपदस्यो-ग्रत्वावच्छिन्ने रूढतया, अथवा क्षत्रात् जातिर्जन्म यस्येति व्युत्पत्त्या योगेनैव क्षत्रजातिशब्दस्य उग्रार्थकतया। तत्र नाद्यः, अभियुक्तैः क्षत्रशब्दस्य उग्रेऽव्यवहृतत्वेन रूढिकल्पनायाः सुदूरपाहृतत्वात्। नापि द्वितीयः कल्पः लक्षणादिसमाश्रय- णदोषदूषितबहुव्रीह्यादिकल्पनापेक्षया कर्मधारयपक्षे लाघवेन क्षत्रजातिशब्दस्य क्षत्रियत्वजात्यवच्छिनार्थकतया उग्रार्थकताकल्पनस्यात्यन्तनियुर्क्तिकत्वत्। अत एव “राजपुरोहितौ सायुज्य कामौ यजेयाताम्” इत्यत्र मीमांसकैः षष्ठीतत्पुरुषादिकमुपेक्ष्य द्वन्द्व आश्रितः, एवं च प्रकृतेऽपि लक्षणानाश्रयणात्कर्मधारय एव वक्तव्य इति कथं क्षत्रजाति शब्दस्य उग्रार्थकत्वोक्तिर्नागेशस्येत्यपक्षपातिन एव साक्षिणः। यदपि च स एव “भागवतेऽपि मागधानां विश्वस्फूर्जिः परञ्जयः। करिष्यत्यपरान् वर्णान् पुलिन्दपटुमुद्रकात्। प्रजाश्चाब्रह्मभूयिष्ठाः स्थापयिष्यति दुर्मतिः। वीर्यवान् क्षत्रमुत्साद्य पद्मावत्यां स वै पुरि। गङ्गाद्वारादाप्रयागं गुप्तां भोक्ष्यति मेदिनीमित्यत्र क्षत्रपदं तज्जन्यत्वादुग्रपरं मागधान्तमित्यस्य मगधदेशीयानां संकीर्णराज्ञा मित्यर्थः- इति। तदिदमतिनिस्सारम्, असंप्रतिपन्नस्थले लक्षामुपकल्प्य वचनकदर्थनाया।
अयुक्तत्वात्। यथाकथञ्चिल्लक्षणादिकमुपक्षिप्य ब्रह्मसूत्राणामपि नायिकाभेदनिरूपणपरत्वेन व्याख्याने सर्वलौकिक वैदिकव्यवहारोपल्पवप्रसङ्गात्।
मागधानामित्यस्य मगधदेशीयानां सकीर्णराज्ञामिति विन्यसनं तु करतलकलितपातञ्जलस्य नागेशस्यैव शोभते, नेतरस्य। अत्र हि संकीर्णराजानामिति वक्तव्यम्, न तु यथोपन्यासम्। किं च मागधानामित्यस्य मगधदेशीयसंकीर्ण राजपरत्वो-क्तिः सर्वथापि द्वेषनिबन्धना;अधुनातिनिर्बलेषु क्षत्रियेषु सत्स्वपि तत्तद्वेशनिवासाधिष्ठातृत्वादिनिबन्धनस्य वघेला बुन्देला इत्यादिव्यवहारस्य शूद्रव्यवृत्तस्य क्षत्रियेष्वेष्वेव प्रसिद्धत्वात्। न हि परासितक्षत्रकुला अपि असंख्यधनसमृद्धा क्षत्रियेत-रनृपाः औज्जयना ग्वालियरा एन्दोरा इति वा ख्यायन्ते तज्जातिनाम्ना वा तदधिकृतादेशाः सैंधिया होलकरा भौंसला इत्युच्यन्ते वा। तस्माद् दुरुक्तमिदमिति पुष्कलम्। यच्च “ततश्च धनमेवाभिजनहेतुः, रुचिरेव दाम्पत्यहेतुराठ्यैव साधुत्वे हेतुरित्येवमनेकदोषोत्तरे भूमण्डले सर्ववर्गोषु यो बलवान्स भूपतिभविष्यतीत्युक्तम्। सर्ववर्णेष्वित्स्यावशिष्टेषु ब्राह्मणवैश्यशूद्रेष्वित्यर्थः, तेऽपि कलौ अतिव्रात्यतया शूद्रत्वेनैव पूर्वं गणिता इति न विरोधः; अक्षत्रियाश्च राजान इति वक्ष्यमाणहरिवंशात्, एतेनैतद् बलात् क्षत्रियसत्तासाधनमावास्तम्” इति, तदिदमनवधानदुर्जल्पितमेव; सर्ववर्णेष्वित्यस्य अवशिष्टेषु ब्राह्मणवेश्यशूद्रेषु इत्यर्थकल्पनायां प्रमाणविरहेण तयोक्तेरयुक्तत्वात्। निरुक्तहरिवंशस्य तु स्पष्टमेव क्षत्रियेषु साम्राज्यशक्तिशून्यत्वतात्पर्यकत्वात् वैश्यानामप्यभावस्य कलौ भक्तोऽनुमतत्वेन तथोक्तेः स्वाभिमत्तार्थविप्रतीपत्वाच्च, हठाद्वैश्यानामप्यत्यन्तावभाङ्गीकारे स-
ववर्गोषु इत्यभिधानमुपरुद्ध्येत। न हि क्षत्रियवैश्ययोरभावाङ्गिकारे ब्राह्मणशूद्रमात्रतात्पर्येण सर्वपदं संगच्छते, नापि ब्राह्मणशूद्रवर्गव्यक्तिबहुत्वतात्पर्येण सर्वपदसंगमनसंभवः; तथार्थाभिधित्सायां सर्वब्राह्मणशूद्रषु इत्यस्यैवाभिधानस्य युक्तत्वात्। इतरथा शूद्रवर्णव्यक्तिबहुत्वतापर्येण प्रयुक्तस्य सर्वे वर्णा नोपनेतव्या इत्यस्थापि व्यवहारस्य स्वारसिक-त्वप्रसङ्गः। किंच योऽयं कलौ वैश्यानामत्यान्तभावोऽभिधोयते भवता, स किंप्रयोज्य इत्यपि विवेचनीयम्। तत्र यथा भवता क्षत्रक्षयहेतुर्नन्दोऽभिधीयते, तथा आहो पुरुषिकामप्यवलम्ब्य वैश्यक्षयहेतुर्निर्देष्टुं न शक्यः, न च द्वित्राण्येवासन् वैश्यकुलानि, येषां नाश आकस्मिकोऽप्युत्प्रेक्ष्येत, सन्दादीनां वैश्यजातीयत्वस्य तज्जातीयानां सङ्ख्यासमृद्धेश्च कलेरादौ पुराणेभ्य एव सिद्धत्वात्। यदि तु कलौ न क्षत्रियाः सन्ति कलौ नो वैश्यजातयः। ब्राह्मणाश्चैव शूद्राश्च कलौ वर्णद्वयं स्मृतम्” इत्युक्तेः। नाधीयन्ते यदाग्नयः न यजन्ते द्विजातयः। उत्सीदन्ति तदा चैव वैश्यैः सार्धं तु क्षत्रियाः। इति मत्स्यपुराणोक्तेश्च वाचनिक एव वैश्याभावोऽभिधीयते, तदा पूर्व वचनमेव सोप्पुराणेषु अष्टादशरवपि पुराणेषु नोपलभामहे, द्वितीयं तु वचनं मात्स्ये उपलभ्यमानं सदपि न त्वदभिमतार्थसाधकम् तस्य अग्नीनामनाधाने द्विजातीनां ब्राह्मणानां यागादिरूपे स्वकर्मणि अप्रवृत्तौ च सवैश्यानां क्षत्रियाणां मर्यादाव्यवस्थापकानामुत्सादः अलब्धपदत्वमेव हेतुरित्यर्थबोधकत्वात्। अत एव तत्र तत्र ब्रह्मविद्क्षत्रशूद्राणां यो बली भविता नृपः” इति श्रीभागवते बलनिबन्धननृपत्वाभिधानेन वर्णधर्मव्यवस्थोच्छेद एव कलावभिधीते, न तु वर्णानामत्यन्तासत्वमित्यकिंचिदिदम्। अस्तु च भवत्पुस्तकोपलब्धमपि कलौ न क्षति-
याः सन्तीति पूर्वोक्तं वचनमपि प्रामाणिकम्; तथापि न तेऽथसिद्धिः; स्वस्ववर्णोचिताचार्राः क्षत्रिया वैश्याश्च न वर्तन्त इत्यर्थकतोयास्त्वयाऽप्यवश्यं वक्तव्यत्वात्, इतरथा ब्राह्मणाभावबोधकवचनानां यथाश्रुतार्थाङ्गीकारे चातुर्वण्य मात्रमे-वोपहतं भवेदित्यन्तमनिष्टं प्रसज्येत। न चैवमर्थकथने “ब्राह्मणाश्चैव शद्राश्च कलौ वर्णद्वयं स्मृतमित्युत्तरार्धमुपरुद्ध्येत। ब्राह्मणाशूद्रवर्णयोरपि कलावयथा चारतया तया तयोरप्यभावस्यैव त्वदुक्तरीत्या वक्तव्यत्वादिति वाच्यम्; क्षत्रियवे-श्यापेक्षया ब्राह्मणशूद्रयोः स्वस्वर्णोचिताचारस्याधिकस्योपलम्भेन तदभिप्रायकतया पौराणिक्याः क्वाचित्क्या आद्यन्त-वर्गास्थित्युक्तेर्युक्तत्वात्। क्षत्रियाणां हि प्रजापालनलक्षणः शीर्षण्यो धर्मस्तैस्त्यक्तो यवनैः संरक्षितो वैश्यानां तु कृषि-रक्षादिलक्षणः प्राय एव धर्मोऽग्राहि शूद्रैरिति साद्गुण्यसंपादिकस्वस्वगुणाभावप्रयोज्यविशिष्टाभावतात्पर्येण पुराणेषु तथाभिधानं युक्तमेव। न चैतावता विशेष्यभूतयोः क्षत्रियवैश्ययोरप्यभावः सिध्यति। पुराणेषु तत्रत्क्षत्रियवंशनाशोक्तिस्तु तत्तद्वंशशिरोधरक्षात्रधर्मसंरक्षणक्षमपुरुषाभावनिबन्धनेति तु स्वावसरे सुष्ठ्पपादितमेव। एवं च स्वरूपतः क्षत्रियवंशस्येव वैश्यवंशस्यासत्वङ्गीकारे अग्रिमकृतयुगे चातुर्वण्यसत्वमपि दुर्निर्वहम् ; त्वदुक्तरीत्या तु क्षत्रियवंशबीजभूतयोदेर्वापिमर्वोः सत्त्वेन तत्सृष्टिसंभवेऽपि वैश्यानामप्रिमसृष्टावत्यन्तोच्छेद एव स्यात्। न च तदानीं भगवत्संकल्प सम्भवा एव वैश्याः; सांकल्पिकसृष्टेरादियुगे एवाङ्गीकारेण मध्ये तथाऽकल्पनात्। किंचैवं क्षत्रियाणामपि भगवत्संकल्पसम्भवत्वोङ्गीकारे तन्मूलपुरुषकल्पनाक्लेशोऽप्यपार्थक एव। न च वैश्यानामपि भाविसृष्टौ वंशप्रवर्तकः कश्चन पुरुषोऽवतिष्ठते इति
कल्प्यम्; एतादृशोच्छृङ्खलकलपनापेक्षया वंश्यवंशसद्भावकल्पनाया एव युक्तत्वात्। किं च क्षत्रियवंशादिभूतयोर्दे-वापिमर्वोरपि सत्यसुवर्चो नामानौ श्रूयेते पुत्राविति देवापिमर्वोर्भार्यासद्भावः कल्पनीयः। न च पुत्रावेवानढौ सन्तो सर्ज-नायालमिति तत्पत्न्यावपि कल्प्ये। न च ते अपि पत्न्यौ सन्निहितसम्बन्धे धर्म्ये भवत इति तत्पस्नीपितरावपि विभिन्नकुल-सम्भवौ कल्पनीयौ इत्यनवस्थितैच्छिकनिरर्गलकपोलकल्पनापेक्षया वंशसस्त्वकल्पनैव साधीयसीति नम्रीभूयार्थयामहे। एतच्च पूर्वमप्यस्माभिर्निरूपितमिति तत्र तत्रावधेयम्। यत्तु ब्रह्मविट्क्षत्रशद्राणामिति भागवतश्लोकस्थक्षत्रादिपदं न जातिक्षत्रादिपरम्, किन्तु क्षत्रवृत्त्यादिवृत्या जीवत्सु ब्राह्मणेष्वेव क्षत्रवैश्यादिव्यवहारपरमिति, तदतीव दुर्भणितम्। अत्र हि यो बली भविता नृपः इति कथनेन बलरूपलौकिककारणप्रयोज्यमेव नृपत्वम्, न तु सनातनमर्यादाप्राप्तं क्षत्रजाती-यत्वनिबन्धनं नृपत्वमित्ययमर्थो बोध्यते। ततश्च क्षत्रवत्या जीवत्सु ब्राह्मणेष्वेव लौकिकनृपत्वसामग्रीसमबलम्बनेन ब्राह्म-णवैश्यशूद्रवत्त्या जीवत्सु ब्राह्मणेषु च लौकिकसामग्र्या नृपत्वप्रयोजिकाया असम्भवेन तेषां राजपदप्राप्तिप्रयोजककारण-वैधुर्ये “ब्रह्मविट्क्षत्रशूद्राणां यो बली भविता नृपः” इत्यभिधानमसङ्गतमेव व्यासस्य प्रसज्येत, तस्मात् ब्रह्मक्षत्रोदिपरमेव वक्तव्यम्, भवति चैवमर्थानुग्रहः। कलौ क्षत्रादिसमुद्भवानामपि बलहीनत्वात् शूद्राणामपि च राज्यार्जनरक्षणाद्यौपयिक- बलशाक्तित्वेन यो बली स एव नृपो न तु चिरमर्यादाप्राप्तं क्षत्रजातीयत्व निबन्धनं नृपत्वमित्यक्षरस्वारस्यात्। भवदुक्त-रीत्या शस्त्रग्रहणप्रजापालनचारा ब्राह्मणा एव क्षत्रियाः कृषिगोरक्षावाणिज्याचाराश्च त एव ब्राह्मणा वैश्या इति बलनिव-
न्धनराज्योक्तिश्चतुर्णामुपरुध्येतेति स्फुटमेत्र। यदि तु क्षत्रियादिपदेन व्यवह्रियमाणाः क्षत्रियादिपदेनोच्यन्ते इत्युच्यते, तर्हि ओमिति ब्रूमः, बलवत्तरबाधकोपन्यासं विना क्षत्रियादिपदव्यवहारस्याधुनिकस्य क्षत्रियेतेरेषु वक्तुमशक्यत्वात्, इतरथा ब्राह्मणशूद्रादिव्यवहारस्याप्याधुनिकस्य शक्तिभ्रममूलकस्य परेणोद्भाव्यत्वात् क्षत्रियवैश्य विरहप्रमापकवचनाभासा-नामिव ब्राह्मणाभावबोधकवचनानाभोसानामपि पुराणेषु परेण दर्शयितुं शक्यत्वात्। यदि तेषां विशिष्टविशुद्धब्राह्मणा-भावबोधकतया निर्वाहः, तर्हि न कश्चिद्विशेषोऽन्यत्र दुरभिनिवेशादित्यस्मत्पक्ष एवं किं न सन्तुष्यसि। यदि तु क्षत्रियादि-सत्वं नन्दस्याशेषक्षत्रशकुलक्षयहेतुताया जामदग्न्यसदृश्याः पुराणेषु प्रसिद्ध्या विवादपदं न तथा ब्राह्मणादिसत्वं कस्यापि विवादास्पदमिति ब्राह्मणाभावबोधकवचसां कथञ्चिदपि निर्वाहः, क्षत्रियाभावबोधकानां तु वचसां बलेनापि तादृशार्थ-बोधनायैव यतनीयमस्माकमेव तत्र महाविप्रतिपत्तेरित्युिच्यते, तर्हि अनादिपापवासनादूषिताशेषशेमुषीकाणां केषांचिद्वे-दविमुखानां वेदे वेदपुरुषे च विप्रतिपत्तेः क्षणभङ्गुरेप्यमुष्मिन् यमयातनापातशतसाधने देहे चाविप्रतिपत्तेः परे एव विजयेरन्निति विप्रतिपत्तिरकिञ्चिकरीत्येवावाभ्यां वक्तव्यमिति शाम्यतु भवान्। पौराणिकानि क्षत्रकुलक्षयबोधकवाक्यानि तु पूर्वमेव सुनिपुणं व्याख्यातानि। न हि तत्र नन्दे परशुरामापेक्षयाऽतिशयो बुबोधयिषितः; तादृशार्थबोधकपदविरहात्। यद्यखिलक्षत्रान्तकारित्वेनैवातिशये भ्राम्यसि तर्हि प्रकृते परशुराम इवाखिलक्षत्रान्तकारी भविता नन्दः। अत्र वाक्ये नन्दपरशुरामयोः सादृश्यं न भवनमात्रेण सर्वभुवनसाधारणेन अनतिशायक विश्वविश्रान्तधर्मेण, किन्त्वखिलक्षत्र-क्षयहेतत्वे
नैवेति न कश्चिदतिशयो नन्दे, प्रत्युतोपमेयस्योपमानमपेक्ष्य हीनगुणतया नातिशयः कथमपि तस्मादशेषब्राह्मणनाय-कस्य विष्णोरंशावतारस्य भगवतो भार्गवस्यापि वीर्यमतीत्य भुवनं बिभ्रतश्चातुवरार्यरक्षणदीक्षाः क्षत्रियाः कलावपि बलान्निजधर्मरक्षणदी क्षा वैश्याश्च सन्त्येवेति सदभिरनुमतो वैदिकः पन्थाः- इति
एतेन – व्रात्यशुद्धिसंग्रहोऽपि श्रीजयसिंहकारितो– ब्याख्यातः स यथाः – अथाऽयं व्रात्यताप्रायश्चित्तविचारो विफल-त्वादसङ्गतः, कलौ चातुर्वर्ण्यविभागाभावेन प्रायश्चित्तकारयितृणां व्रात्यस्तोमादिक्रतुप्रवर्तकानामृत्विजामुपनेतृणां द्विजानां ब्राह्मणोदीनामभावेन प्रायश्चित्तानुष्ठानाप्रवृत्तेः,
सौराष्ट्रावन्त्यभीराश्च शूद्रा अर्बुदमानवाः।
व्रात्या द्विजा भविष्यन्ति शूद्रप्राया जनाधिपाः॥
सिन्धोस्तटं चन्द्रभागां कौन्तीं काश्मीरमण्डलम्।
भोक्ष्यन्ति शूद्रा व्रात्याद्याम्लेच्छाश्चाऽब्रह्मवर्चसः॥
इत्यादिवचनेन द्विजसामान्यविप्लवप्रत्ययात्,
ब्रह्मक्षत्रस्य यो योनिर्वंशो राजर्षिसत्कृतः।
क्षेमकं प्राप्य राजानं स संस्थां प्राप्यस्यते कलौ॥
इक्ष्षाकूणामयं वंशः सुमित्रान्तो भविष्यति।
यतस्तं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ।
इति चन्द्रसूर्यवंशविलयनिर्देशात्,
अग्निहोत्रं च संन्यासं तावदेव समाचरेत्।
यावद्वर्णविभागोऽस्ति यावद्वेदः प्रवर्तते॥
इति कलिमध्ये वर्णविलयसूचनात्, एवं ‘योऽग्यं पुरञ्जयनामा बाहद्रथोऽन्त्यस्तस्य सुनिको नामोऽमात्यो भविष्यति, स चैनं
स्वामिनं हत्वा स्वपुत्रं प्रद्योत नामानमभिषेक्ष्यतीत्यादिना प्रद्योतपालकविशाखयूपजनकनन्दिवर्द्धनशिशुनागकाकार्ण-क्षेमधर्मक्रत्वोजोबिन्दुनाराऽजातशत्रुदमकोदपार्श्वनन्दिवर्द्धनमहानन्दिपर्यन्तं परम्परां निरुच्य महानन्दिसुतश्च शूद्राग-र्भोद्भवोऽतिलुब्धो महापद्यः परशुराम इवाऽखिलचत्रान्तकारी भविष्यति; ततः प्रभृति च शूद्रा भूमिपाला भविष्यन्तीति मागधवंशनिरासपूर्वकं क्रमेण शूद्राणामेवाग्रे भूपालत्वनिर्देशाच्च। एकञ्च नन्दोत्तरं त्रैवर्शिकसामान्यस्य शशशुङ्गकल्प-त्वात् राजन्या एव न सन्तीति– चेत्, अत्रोच्यते, कलौ कदापि न सर्वथा चातुर्वर्ण्यविलयः। केचन पुनस्स्त्रैवर्णिका व्रात्या भवेयुस्तत्रापि कलेरन्ते बहुशो व्रात्या आदौ परिमिता मध्ये च मध्यमविधा एव, न तु सर्वथा ब्राह्मणादीनामभाव एव कल्प्यते॥
शम्भलग्राममुख्यस्य ब्राह्मणस्य महात्मनः।
भवने विष्णुयशसः कल्किः प्रादुर्भविष्यति॥
वासुदेवस्यांशः शम्भलग्रामब्राह्मणप्राधानविष्णुयशसो गृहेषु अष्टगुणर्द्धिसमन्वितः कल्किरुपधरो जगत्यत्राऽवतीर्य सकलम्लेच्छदस्युदुष्टाचरणवतामशेषाणामविच्छिन्नशक्तिमहात्म्यः क्षयं करिष्यति, स्वधर्मे चाऽशेषमेव संस्थापयिष्यती-ति ब्राह्मणस्थितिप्रदर्शनात्;
एवं प्रजाभिर्दुष्टाभिराकीर्णे क्षतिमण्डले।
ब्रह्मविट्क्षत्रशूद्राणां यो बली भविता नृपः॥
इति कलिमध्येऽऽन्त्ये च ब्राह्मणादिवर्णसिद्धवत्कारेण बलवतो भूपालकत्वकथनेन सर्वथा चातुर्वर्ण्यविलयायोगात्,
एतेन क्रमयोगेन मनुपुत्रैवसुन्धरो।
कृतत्रेतादसंज्ञानि युगानि त्रीणि भुज्यते॥
कलौ तु बीजभूतास्तु केचित्तिष्ठन्ति वै मुने।
यथैव देवापिमरू साम्प्रतं समवस्थितौ॥
इति देवापिमरुवदेव केचनाऽन्येऽपि बीजभूताः सार्वभौमत्वरहिताः राजवंशप्रवर्तका भवेयुरिति निरूपणात् ॥
देवापिः पौरवो राजा मरुश्चेदवाकुवंशजः।
महायोगबलोपेतौ कलापग्रामसंस्थितौ॥
कृते युग इहागत्य क्षत्रप्रावर्तकौ हि तौ।
भविष्यतो मनोर्वंशे बीजभूतौ महाबलौ॥
देवापिः शन्तनोर्भ्राता मरुश्चेदवाकुवंशजः।
कलापग्राम आसाते महायोगबलान्वितौ॥
ताविहैत्य कलेरन्ते वासुदेवानुशिक्षितौ।
वर्णाश्रमयुतं सर्वं पूर्ववत्प्रथयिष्यतः॥
इति धर्मप्रवर्तकस्वकथनेपि क्षत्रान्तरव्यावर्तनाकथनात्॥
एष तूद्देशतो वंशस्तवोक्तो भूभुजां मया।
निखिलो गदितुन्नैव शक्यो जन्मशतैरपि॥
इति सूर्यसोमवंशबाहुल्यनिर्देशेन सार्वभौमवंशयोरिक्ष्वाकुवंशैकदेशभूतबृहद्वलवंशैकदेशस्य सुमित्रान्तस्य सोमवंशै-कदेशभूतपरीक्षिद्वंकेदशस्य क्षेमकशिरस्कस्य विलयकथनेऽपि वंशान्तराणां विलयाकथनात् मागधवंशेऽपि बार्हद्रथ-वंशैकदेशजरासन्धवंशैकदेशस्य पुरञ्जयान्तस्य सुनिकामात्यकृतराज्यापहारस्य पुरञ्जयवधपूर्वकस्य च निर्देशेऽपि तद्वं-शसामान्यविलयानिर्देशात्, नन्दात्प्रभृति शूद्रा भूमिपाला भविष्यन्तीति मगधदेशावलम्बेन सार्वभौमविभेदानामेव शूद्रा-दिभेदेन निर्देशेन क्षत्रसामान्यस्य पृथिव्या-
मसत्त्वाप्रतिपादनात्, महापद्मः परशुराम इव सकलक्षत्रान्तकारी भविष्यतीति वचसोऽपि राज्याभिषिक्ततत्तत्क्षत्रान्त-परत्वेन क्षत्रजातिसामान्यामापरत्वस्य परशुरामदृष्टान्तेन ब्रह्मविट्क्षत्रेत्यादि निरुक्तवचनादिना च वक्तुमशक्यत्वात्, यवनादीनामपि ततः शकाः षोडश भूपतयो भवितार इत्यादिना सार्वभौमत्वायोगात्, ब्रह्मविट्क्षत्रेत्यादिवचनेन खण्डि-तभूपतित्वेन क्षत्रादीनामपि विनिर्देशात्, अनन्तरञ्चाशेषकलेरवसाने निशावसान इव प्रबुद्धानां तेषामेव जनपदानाम- मलस्फटिकशुद्धा मतयो भविष्यन्ति; अनन्तरं तेषामेव बीजभूतानामशेषमनुष्याणां परिणतानामपि तत्कालकृतानाम- पत्यप्रसूतिर्भविष्यति; तानि च तदपत्यानि कृतयुगथर्मानुसारीण्येव भविष्यन्ति॥
अथ तेषां भविष्यन्ति मनांसि विशदानि वै।
वासुदेवाङ्गरागातिपुण्यगन्धानिलस्पृशाम्॥
पौरजानपदानां वै हतेष्वखिलदस्युषु।
तेषां प्रजानिसर्गश्च स्थविष्ठः संभविष्यति॥
इति कल्पान्तस्थपौरजानपदजनानामेव कृतयुगगतब्राह्मणादिसकलवर्णबीजभूतत्वेन निर्देशन कलौ सर्वथा चातु-र्वर्ण्यं नेति वक्तुमशक्यत्वात्,
अचन्द्रार्कग्रहा भूमिर्भवेदपि न संशयः।
अपौरवा न तु मही भविष्यति कदाचन॥
इति स्पष्टमेव सर्वदा पौरवाणां भूमाववस्थानकथनाञ्च। एवञ्च कलौ क्षत्रसत्त्वं नियतमेव। एवञ्च चातुर्वर्ण्याभाव-निरूपणं कलावसङ्गतमेव॥
ननु -
देवापिः पौरवो राजा मरुश्चेदवाकुवंशजः।
कृते युग इहागत्य क्षत्रधर्म प्रवर्तकौ॥
इति निर्देशनाऽचन्द्रार्कग्रहेति वाक्यं देवाविपरमेव भवतु, न तु तदतिरिक्तक्षत्रसामान्यपरमिति – चेत्, अत्रोच्यते।हरिवंशे षडशीतितमेऽध्याये-
जनमेजयस्य के पुत्राः पठ्यन्ते लोमहर्षण।
कस्मिन् प्रतिष्ठितो वंशः पाण्डवानां महात्मनाम्॥
इति शौनकीये जनमेजयस्य शतानीकादिक्षेमकान्ता परम्परा नश्यत्येवाथवाऽन्ते तथा न नश्यति कलौ सर्वदा तिष्ठ-त्येवेत्येवंरूपपरम्परापरे प्रश्ने सौतेरुत्तरम्-
पारीक्षितस्य कश्यां तु द्वो पुत्रौ सम्बभूवतुः।
चन्द्रापीडश्च नृपतिः सूर्यापीडश्च मोक्षवित्॥
चन्द्रापीडस्य पुत्राणां शतमुत्तमधन्विनाम्।
जानमेजयमित्येवं क्षात्रं भुवि परिश्रुतम्॥
तेषां ज्येष्ठस्तु राजास्मीत्यूचे वारणसाह्वये।
सत्यकर्णो महाबाहुर्यज्वा विपुलदक्षिणः॥
सत्यकर्णस्य दायादः श्वेतकर्णः प्रतापवान्।
अपुत्रः स तु धर्मात्मा प्रविवेश तपोवनम्॥
तस्माद्वनगताद् गर्भं यादवी प्रत्यपद्यत।
सुचारुदुहिता सुभ्रूर्मालिनी भ्रातृमालिनी॥
सत्त्वजन्मनि गर्भस्य श्वेतकर्णः प्रजेश्वरः।
अन्वगच्छद् गतं पूर्वैर्महाप्रस्थानमच्युतम्॥
सा दृष्ट्वा सम्प्रयातं तं मालिनी पृष्ठतोऽन्वयात्।
पथि सो सुषुवे सुभ्रूर्वने राजीवलोचनम्॥
कुमारं सम्परित्यज्य भर्तारं साऽन्वगच्छत।
पतिव्रता महाभागा द्रौपदीव पुरा पतीन्।
सुकुमारः कुमारोऽसौ गिरिकुञ्जे रुरोद ह।
पुष्ट्यर्थं तस्य मेघास्तु प्रादुरासन् महात्मनः॥
अविष्टायास्तु पुत्रौ द्वौ पैप्पल्यादिश्च कौशिकः।
दृष्ट्वा कृपान्वितौ गृह्य तं प्रक्षालयतां जले॥
निघृष्टौ तस्य तौ पाश्र्व शिलाया रुधिरत्रत्रौ।
अजश्यामौ तु पार्श्वौ तावभावपि समाहितौ॥
तथैव च समारूढावजपार्श्वस्ततोऽभवत्।
ततोऽजपार्श्व इति तौ चक्राते नाम तस्प ह॥
स तु वेमकशालायां द्विजाभ्यां परिवर्द्धितः।
वेमकस्य तु भार्या तमुद्वहत् पुत्रकारणात्॥
बेमक्याः स तु पुत्रोऽभूत् ब्राह्मणौ सचिवौ च तो।
तेषां पुत्राश्च पौत्राश्च युगपत्तुल्यजीविनः॥
स एव पौरवो वंशः पाण्डवानां प्रतिष्ठितः।
श्लोकोऽपि चात्र गीतोऽयं नाहुषेण ययातिना॥
जरासङ्क्रमणे पूर्वं भृशं प्रीतेन धीमता।
अचन्द्रार्कग्रहा भूमिर्भवेदपि न संशयः॥
अपौरवा न तु मही भविष्यति कदाचन।
इति जनमेजयस्य प्रपौत्रश्वेतकर्णपुत्रमजपार्श्वं परिगृह्य तत्सन्तानस्थैर्यपरत्वेनाऽचन्द्रार्कग्रहा भूमिरिति श्लोकप्रवर्तनेन केवलदेवापिमादायैव पर्यवसानायोगात्। अतोऽन्येपि बहवो राजानो बीजभूताः कलावादौ मध्येऽन्त्ये च सन्त्येव। अपि च राज्याभिषिक्तयोर्द्वयोरेव क्षेमकसुमित्रयोर्वंशविलयकथनेन राज्यानभिषि-
क्तानां तत्परम्पराभवानां च क्षत्रियाणां वंशविनाशकथनेन च यथायोगं तेषां कलावपि सन्तत्यनुवर्तनं वर्धत एव। न हि पाण्ड्यादिनिखिलराजवंशानां निरन्वयो विनाशः कुत्राऽप्याम्नातः - इति
यत्तु व्रात्यानां शुद्धिव्यवस्थायां शूद्रापेक्षयोत्कृष्टत्वं वर्तत इति निरूपितम्, तदिदं निष्प्रयोजनमेव। नहि वयं शद्रापेक्ष-योत्कृष्टैरपि व्रात्यैः सह भोजनादिकं व्यवहारजातं शास्त्रीयं मन्यामहे। निषिद्धं हि स्पष्टतरमेवापस्तम्बेन - तेषां गमनं भोजनं विवाहमिति वर्जयेदिति। तथाच शूद्रापेक्षया साध्यमानस्योत्कर्षस्य प्रयोजनं किमपि न वयम्पश्यामः।
[शुद्धिव्यवस्था समालोचनम् ] यत्तु - शुद्धिव्यवस्थायां व्रात्यानामध्ययनाङ्गोपनयनोनधिकारिणामपि शौचाचारशिक्षणा-ङ्गोपनयमस्त्येव। तच्च स्वसमीपप्रापणमात्रमेव। गागाभट्टेनापि व्रात्यानां शौचाचारशिक्षणाङ्गमुपनयनं प्रतिपादितमेव-इत्यादि वर्णितम्, तदप्यस्माकमपि सम्मतमेव। उक्तं हि पूर्वमस्माभिः शिवार्कमणिदीपिकासिद्धान्तानुसारेण पतिता-नामपि तान्त्रिकधर्माधिकारस्तदीयदीक्षाग्रहणपूर्वकमस्त्येवेति। नहि वयं श्रद्धालूनां पश्चात्तप्तानाञ्च पतितानां तान्त्रिक-धर्माधिकारोऽपि नास्तीति वदामः, किन्तु वैदिकधर्माधिकारो नास्तीति। परन्तु- इदमात्रावश्यमुपगन्तव्यम्– यत्तान्त्रि-कधर्माधिकारिभिरप्येतैः सह भोजनादिकं वैदिकधर्माधिकारिणां न योग्यमिति।
अत्रायमाशयः- प्रपितामहपर्यन्तमनुपनीतानां सवर्णासूत्पादितानां ब्रह्मक्षत्रविशां आहारादिव्यवहारशुद्धानां व्रात्य-स्तोमादिभिः सर्वात्मना शुद्धिः स्वस्वपूर्वतनैरतिपरिशुद्धैरपि व्यवहारयोग्यता वर्तते। पतितोत्पन्नानान्तु प्रायश्चित्तानन्त-रमपि न स्वस्वपूर्व-
तनशुद्धजातिभिर्विवाहादिगुरुतरसम्बन्धयोग्यतेति। एतेन–प्रपितामहमारभ्यानुपनीता व्रात्या अपि - व्याख्याताः, तेषां प्रायश्चित्तभावेन पतिनानामिव कथमपि न शुद्धजातीयैः सह सम्बन्धयोग्यतेत्येवोरीकर्तव्यत्वात्। तथा च भक्तिशास्त्रे व्रात्यानां पतितानां पतितोत्पन्नानां चण्डालादीनां वा सर्वेषामधिकारस्थापनादिकं सर्वं शिवदत्तशास्त्रिप्रभृतीनां यदि तेषां परलोकहितेषणया, तर्हि तु वयमप्यत्र सहयोगिन एव। यदि तु समाजसङ्घटनार्थं समाजिकेषु कार्येषु म्लेच्छादीनामपि सहयोगसम्पादनार्थम्, तर्हि तु वयम्पश्यामः- सामाजिकेषु कार्येषु विवाहादिषु कृतप्रायश्चित्तानामपि पतितानां पूर्वोक्त-रीत्या न सहयोगयोग्यता वर्तत इति प्रायश्चित्तव्यवस्थापनमिदं वितथमेवेति पश्यामः। अत्र प्रसङ्गे इदमेव पूर्वं बहुधा निरूपितमेव पुनरपि सूच्यते - यत् विधिनिषेधशास्त्राणां सर्वेषां न समुदाये वाक्यपरिसमाप्तिरिति न्यायेन प्रवृत्तिः, किन्तु प्रत्येकं वाक्यपरिसमाप्तिरिति न्यायेनेति सामाजिककार्यपदेन तत्तद्वयक्तिमात्रपर्यवसायिफलसाधन-कार्यजातमेव विवक्ष्यते, न तु बहुव्यक्तिपर्यवसायिफलोदर्ककार्यजातमिति समाजव्यवस्थापर्यालोचनसभादिषु पतिता-नामन्येषां सर्वेषां सहयोगो नास्माकमध्यसम्मतः परन्तु तादृश सभानिष्पत्यनन्तरं स्वगृहं प्रति यदा समागम्यते, तदा प्रायश्चित्तमवश्यं कर्त-व्यमिति। अस्मिंश्चावसरेऽवश्यमिदं सूचनीयं समापतितम्-यद्यावच्छक्ति पुनः पुनः पतितसंसर्गो यथा न स्यात्तथा प्रयत्नः कर्तव्यः। ‘संवत्सरेण पतति पतितेन सहाचरन्, इनि हि पातित्यं प्रति संवत्सरावधि तत्संसर्ग एवं निमित्तमिति प्रतिपादित-मिति यदा कदाचिदुपस्थिततत्तदापद्विशेषपर्यालोचनार्थं तत्तद्धर्मासाङ्कार्यार्थं च सर्वेषामेकत्र मेलनं न पाति-
त्यप्रयोजकमिति तत्र स्नानादि मात्रेण शुद्धिरुपपद्यत इति। संवत्सराधिककालं पतितसंसर्गादिना तु पातित्यमेव संसर्गिणामपि भवतीति पतितसंसर्गिसंसर्गोऽपि महते दोषाय स्यादिति तु बहुशोऽन्यत्र निरूपितमेव। यथा च कृतप्रायश्चित्तानामपि न स्वभावशुद्धैः साकं व्यवहारयोग्यता, तथापि पूर्वं बहुधा निरूपितमेव।
[कामतोव्यहार्यस्तु इत्यस्य वाचस्थत्यसस्मतं विवरणम्] अत्र व विषयेऽस्माकं पूर्वपक्षिणाञ्च मुख्यतयावलम्बभूतं वचनम्-
प्रायश्चित्तैरपैत्येनो यदज्ञानकृतं भवेत्।
कामतोऽव्यवहार्यस्तु वचनादिह जायते॥इति॥
अयं हि श्लोको वाचस्पत्ये एवं व्याख्यातः। तद्यथा – कामत इति अज्ञानकृतपापप्रायश्चित्तेन कामकृतपापापगमो न भवति, किन्तु व्यवहार्यतामात्रं भवति। ननु सति पापे कथं व्यवहार्यता. मात्रम् ? अत्राह – ववनादिति। अयमभिप्रायः - अर्धप्रायश्चित्तानुष्ठानेनार्धपापक्षयात् सम्भाषणस्पर्शनदर्शनादिलघुव्यवहारो न दुष्टः, न तु एकभोजनपरिणयनादिव्यव-हारोऽपि ; वचनादेव। अथवा — अकारप्रश्लेषाद्यथोक्तेन प्रायश्चित्तेन कामतोऽपि पापक्षयो भवत्येव, किन्त्वव्यवहार्यः पापाभावेऽपि वचनात्।
अत एव मनुः-
बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः
शरणागतहन्तृंश्च स्त्रीहन्तृश्च न संवसेत्॥ इति
याज्ञवल्क्यः-
शरणागतबालस्रीहिंसकान् संवसेन्न तु।
चीर्णव्रतानपि सदा कृतघ्नसहितानिमान्॥ इति
कृतनिर्णेजनांश्चैव न जुगुप्सेत कर्हिचित्- इति मनुवचनन्तु अज्ञानकृते महापापे बोद्धव्यमिति। भवदेवस्तु - सर्वत्र मृतः शुद्धिमवाप्नुयादिति दर्शनादत्राव्यवहार्यतावचनं निन्दार्थमित्याह। जिनकस्तु– पापकर्मणा हि द्वयं जन्यते शरीरगतमप्रा-यत्यमात्मगतश्च पापम्। तच्च स्पर्शादौ वैदिककर्मणि चानर्हत्वलक्षणम्। तेनात्र कामनाकृते केवलशीरदोषः प्रायश्चित्तेना-पनीयते। जन्मान्तरकृतदुरितस्येवात्मनः शरीरान्तरस्य व्यवहाराधिकारित्वम्। आत्मगतन्तु पापं भोगादेव क्षीयते - इति, तन्न; कामकारकृतेऽप्याहुरेके श्रुतिनिदर्शनात् - इति मनुवचनादुक्तश्रुतिविरोधाच्चेति।
[ उक्तवाचस्पत्यसमालोचनम् ] अत्र प्रथमद्वितीयमतयोर्यत्र व्यवहार्यः – अव्यवहार्य इति वा पदच्छेदस्तत्र वस्तुगत्या फलतो न विशेषः। यतो व्यवहार्यपदेनापि लघुव्यवहारार्हत्वमेव प्रतिपाद्यते। एतेन- तृतीयमतमपि - व्याख्यातम् तत्रापि हि मरणानन्तरमेव शुद्धिरभिमन्यते, न ततः पूर्वमिति फलतोऽविशेषात्। चतुर्थमते तु – जन्मान्तरे नरकोपभोगः, इह जन्मन्यामरणं व्यवहारानर्हतेति यत्र सिद्धान्तस्तत्र कामकारकृते प्रायश्चित्ताभावोऽभिमन्यते इति सुमन्त्वादिवचन-विरुद्धमिति वाचस्पत्याशयः सर्वविदित एव। तथाच कामकारकृतपापे प्रायश्चित्तेन नरकोत्पादकशक्तिमात्रविनाश इति एकं मतम्। अपरन्तु मतम् आमरणं शक्तिद्वयस्याप्य विनाशः। मरणानन्तरं कृतप्रायश्चित्तानां प्रेतकर्मसंस्कारयोग्यता-दिकं भवतीति सिद्धम्। अस्मिन् प्रसङ्गेऽव्यवहार्यपदप्रकरणागतवाचस्पत्याशयसङ्कलनमप्यत्यन्तमुपयुक्तं स्यादिति तदपि कर्तुं प्रयतामहे। तद्यथा-अव्यवहार्य इति शयनोसनभोजनादौ एकत्रावस्थानायोग्ये पतितादौ ; ‘कामतोऽव्यवहार्यस्त वचनादिव
जायते’ इति स्मृतेः। अव्यवहार्यास्तु पातित्यहेतुकर्मकारिणः स्मृतावुक्ताः। तेषां संसर्गविशेषोऽपि निषिद्धः। यथा-
याजनं योनिसम्बन्धं स्वाध्यायं सहभोजनम्।
कृत्वा सद्यः पतन्त्येते पतितेन न संशयः ॥
देवलः– शरणागतबालस्त्रीहिंसकान् संवसेन्न तु
चीर्णव्रतानपि सदा वालघ्नसहितानपि॥ ( या० व०)
स्त्रीघातकस्याव्यवहार्यत्वञ्च हीनवर्णोपभुक्ताव्यतिरिक्तविषयम्। “हीनवर्णोपभुक्ता या त्यज्या वध्यापि वा भवेत्” इति बृ० स्मृतौ तस्या वध्यत्वोक्तेः। अत्र कृतप्रायश्चित्तानामपि अव्यवहार्यत्वोक्तरकृतप्रायश्चित्तानां सुतरां तथात्वम्। तच्च शङ्कापूर्वं रघुनन्दनेन समर्थितम्। तद्यथा- पापाभावे कथमव्यवहार्यतेति चेत्, याज्ञवल्क्यस्मृतौ वचनादिह जायते’ इत्युक्तेस्तथात्वम्। तथाच ‘किमिव वचनं न कुर्यान्नास्ति वचनस्यातिभारः’ इति। तथाहि- पापस्य द्वे शक्ती नरकोत्पा-दिका व्यवहारनिरोधिका च। तत्रैकतरशक्तिविनाशेऽपि व्यवहारविरोधिका शक्तिरस्त्येवेति। यथोक्तमापस्तम्बेन–नास्यास्मिंल्लोके प्रत्त्यासत्तिर्विद्यते, कल्मषन्तु विहन्यते इति। प्रत्यासतिर्भोजनादौ सान्निध्यम्। मिताक्षरायान्तु कामतो
व्यवहार्य इत्येव पाठः। तथैव तेन व्योख्यातञ्च।
प्रायश्चित्तरपैत्येनो यदज्ञानकृतं भवेत्
कामतो व्यवहार्यस्तु वचनादिह जायते॥ (या स्मृ०)
इति। प्रायश्चित्तैर्वक्ष्यमाणैरज्ञानाद्यदेनः कृतम्, तदपैति अपगच्छति, न कामतः कृतम्, किन्तु तत्र प्रायश्चित्तविधायक-वचनबलादिह लोके व्यवहार्यो जायत इति। समर्थितश्चायमर्थ आशङ्कापूर्वकं तत्रैव। यथा- ननु कामकृते प्रायश्चित्ताभा-वात्कथं व्यवहा-
र्यत्वम्? तदभावश्च ‘अनभिसन्धिकृते पापे प्रायश्चित्तमिति’ वसिष्ठवचनात्, “इयं विशुद्धिरुदिता प्रमाण्याकामतो द्विजम्। कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते” इति मनुवचनाच्चावगम्यते। नैतत् ; यः कामतो महापापं नरः कुर्यात्कथञ्चन। न तस्य निष्कृतिर्दृष्टा भृग्वग्निपतनादृते - इति। विहितं यदकामानां कामात्तत् द्विगुणं भवेदिति च कामकृतेपि प्रायश्चित्तदर्श-नात्। यत्तु वसिष्ठवचनम् तस्याप्यकामकृते पापे प्रायश्चित्तं शुद्धिकरमित्यभिप्रायः, न तु कामकृते प्रायश्चित्ताभाव इति। यत्तु मनुवचनम् ‘इयं विशुद्धिरुदिता’ इत्यादि, तदपीयमिति सर्वनाम्ना द्वादशवार्षिकव्रतचर्याया एव कामतो ब्राह्मणवधे निष्कृ-तिर्न विधीयते - इति प्रतिषेधकम्, न पुनः प्रायश्चित्तमात्रस्य; मरणान्तिकादेः प्रायश्चित्तस्य दर्शनात्। ननु यदि कामकृतेऽपि प्रायश्चित्तमस्ति, तर्हि पापक्षयोऽपि कस्मान्न भवति ? उच्यते। उभयत्र प्रायश्चित्ताविशेषः शास्त्रतोऽवगम्यते। अज्ञानकृते सवत्र पापक्षयः। यत्र महापातकादौ व्यवहार्यत्वं निषिद्धम् तस्मिन् कर्मणि कामतः कृते व्यवहार्यत्वमात्रं न पापक्षय इति। न च पापचयाभावे व्यवहार्त्वमनुपपन्नम्। द्वे हि पापस्य शक्ती नरकोत्पादिका व्यवहारनिरोधिका च। तत्र कतरशक्त्यवि-नाशेऽपि व्यवहारनिरोधिकायाः शक्तेर्विनाशो नानुपपन्नः। तस्मात्पापान पगमेऽपि व्यवहार्यत्वं नानुपपन्नम्। यत्तु मनुवचनम्-
अकामतः कृते पापे प्रायश्चित्तं विदुर्बुधाः।
कामकारकृतेऽप्याहुरेके श्रुतिनिदर्शनात्॥ इति,
तदपि कामकारकृतेऽपि प्रायश्चितप्राप्त्यर्थम् न तु पाप-
क्षयप्रतिपादनपरम्। अपतनीये पुनः कामकृतेऽपि प्रायश्चित्तेनपापक्षयो भवत्येव।
अकामतः कृतं पापं वेदाभ्यासेन शुध्यति।
कामतस्तु कृते मोहात् प्रायश्चित्तैः पृथग्विधः॥ इति,
मनुस्मरणात्। पतनीयेऽपि कर्मणि कामकृते मरणान्तिकप्रायश्चित्ते कल्मषक्षयो भवत्येव ; फलान्तराभावात्। “नास्यास्मिंलोके प्रत्त्यासत्तिर्वर्तते, कल्मषन्तु निहण्यते” इत्यापस्तम्बस्मरणात्॥ इति ॥
अत्रेदमेव सिद्धं भवति – यत् यत्र यत्र प्रायश्चित्त विधिमात्रम्,न संव्यवहार्यत्वस्यापि निषेधस्तत्र प्रायश्चित्तविधिबलेनैव व्यवहार्यत्वमात्रमूरीक्रियते यत्र तु न प्रायश्चित्तविधिः, केवलं दोषमात्रमुपवर्णितम् तत्र, यत्र वा संव्यवहार्यत्वं कृतेऽपि प्राय-श्चित्ते निषिध्यते, तत्रासंव्यवहार्यत्वसिद्धान्त एव युक्त इति। तथा ब्रह्मा- इत्यादौ यत्र प्रायश्चित्तस्य विधिस्तत्र कामकृते प्राय-श्चित्तेन व्यवहार्यतामात्रसिद्धिः। बालघ्नादीनां तु कृतप्रायश्चित्तानामपि किमिव वचनं न कुर्यान्नास्ति वचनस्यातिभार इति न्यायेनासंव्यव्यवहार्यत्वमिति फलितम्। संवत्सरमभिव्याप्य चण्डालादिसंस्पृष्टानां म्लेच्छादिसंसृष्टानां वा न प्रायश्चित्त विधिः कुत्रापि वर्तते। अत ऊर्ध्वन्तु तत्समः इति हि सम्बत्सरमभिव्याप्य पतितादिसंसर्गेण पतितत्वमेव भवतीति हि पूर्व-मेव व्यवस्थापितम्। तथाच पतितानां तत्समानां वा कथमपि प्रायश्चित्तविशेषविधिबलेन न व्यवहार्यत्वसिद्धिरिति मिताक्ष-रामिद्धान्तानुसारेणापि संवत्सरमभिव्याप्य म्लेच्छसंसृष्टानां म्लेच्छीभूतानाञ्च कथमपि प्रायश्चित्तेन व्यवहारयोग्यता न सिध्येदित्येवोरीकर्तव्यम्। मिताक्षराकारा अपि
हि वचनविशेषेणैव खलु व्यवहार्यत्वमव्यवहार्यत्वं वा मन्यन्ते। न च म्लेच्छीभूतानां पुनः स्वमतप्रवेशाधिकारसम्पादक-प्रायश्चित्तविधानं किमपि कुत्रापि वर्तते। यथा च श्रीशिवदत्तशास्त्रिमहोदयानां शुद्धिव्यवस्था न प्रकृतोपयुक्ता, म्लेच्छी-भूतानामव्रात्यत्वात्तथा पूर्वमेव विवेचितम्। तथाच मिताक्षरासिद्धान्तानुसारेणापि म्लेच्छीभूतानां पुनर्वर्णाश्रमधर्माधिकारः कथमपि न सम्भवतीत्येव फलति। उपपादितं हि पूर्वं मदरनत्नप्रदीपानुसारेण पतिततदपत्यानामपि पतितक-न्यातिरिक्तानां न व्यवहारयोग्यता कृतप्रायश्चित्तानामपीत्येव याज्ञवल्क्यमतमिति।
इदमेवाभिप्रेत्योचुः-
[ उक्तार्थे प्रायश्वितमुक्तावलीमतम् ] प्रायश्चित्तमुक्तावत्र्यां दिनकरभट्टाः - स एव– प्रायश्चित्तैरपैत्येनोयदज्ञानकृतं भवेत्। कामतो व्यवहार्यस्तु वचनादिह जायते॥ अत्रेदमभिधित्सितम्। पापस्य व्यवहारोधिका नरकजनिका चेति द्वे शक्ती। तत्राज्ञानकृतपापस्य प्रायश्चित्तैः शक्तिद्वयमपि नश्यति। ज्ञानकृतस्य व्यवहारनिरोधिकैव, न तु नरकजनिकापि; व्यव-हारविरोधश्च न सर्वपापेषु, किन्तु गौतमोक्तेष्वेव। ब्रह्महसुरापगुरुतल्पगमातापितृयोनिसम्बन्धागः स्तेननास्तिकनिंदित- कर्माभ्यासिपतितत्याग्यपतितत्यागिनः पतिताः पातकसंयोजकाश्चेति पापेषु भवति यथारीति। बुध्या सुवर्णापहारो ज्ञान- कृतं कामतः सुवर्णबुद्धिरेव (?) हृतस्य सुवर्णस्य कामतः पापम्। आचार्यस्तु याज्ञवल्क्यवचनेऽकारश्लेषेण कामकृत-पापेषु व्यवहारनिरोधिका शक्तिर्नापैति नरकजनिका त्वपैतीत्याहुः॥ इति ॥
[ मल्काना शुद्धिपरीक्षणम् ]
यत्तु पुनः संस्कारसमित्या महामहोपाध्याय
श्रोयुक्तान्ददाचरणतर्कचूडामणि - श्रीयुक्त-
शशिभूषणस्मृतितीर्थ-महामहोपाध्याय पं० श्रीगिरिधरशमप्रभृतीनां पण्डितानां द्वारेण मलकानापदव्यपदेश्यानां पुनः संस्कारव्यवस्था प्रदत्ता, या हि शुद्धिव्यवस्थापुस्तकस्यैवान्तिमे भागे प्रकाशिता, तत्रास्माकमिदमेव वक्तव्यम्-यन्म-ल्कानाव्यपदेश्यानां यदि तत्समित्युक्तरीत्या हिन्दुत्वमेव वस्तुगत्या वर्तते, तर्हि तु पुनः संस्कारस्यावसर एव नास्ति। वयन्तु मन्यामहे तेषां वस्तुगत्या केषाञ्चन मोहम्मदधर्माणामप्यलम्बमानानां न हिन्दुत्वम् न वा पुनः संस्कारोऽपि समु-चित इति। हरिनामसङ्कीर्तनाधिकारमात्रं हि तत्तद्दीक्षायां सत्यां सर्वेषामपि भविष्यतीति पुनः संस्कारेण वर्णाश्रमधर्मा-धिकारव्यवस्थापनमिदमत्यन्तमसङ्गतमेव नहि हरिनामसंकीर्तनाधिकारो वर्णधर्मः। व्यवस्थापितं चेदं शुद्धिव्यवस्था-यामेव, यत् - लोकाश्चण्डालपर्यन्तं सर्वेऽप्यत्राधिकारिणाः – इति वर्गोतराणामपि हरिनामसंकीर्तनाधिकार इति। तथाच यदीयं समितिः पुनः संस्कारेण हरिनामसंकीर्तनाधिकारमात्रमेतेषां पतितानामभिलषति, तर्हि तु नास्माकमपि विवादः। इदमेवात्रास्माकं विप्रतिपन्नं यत् - श्रीगिरिधरशर्मप्रभृतिभिरेतेषां संस्कृतानां शुद्धैः पूर्वतनैः साकं विवाहयोग्यतापि मन्यते, तदिदं केवलं न योग्यमिति। सर्वथा तु माधवीयविमर्शनावसरोक्तरोत्या बहुकालं म्लेच्छादिसंसर्गिणां पतितानां प्रायश्चित्तेन शुद्धानामपि अव्यवहार्यत्वपक्ष एव समुचितः। व्यक्तं चायमव्यवहार्यत्वपक्षः प्रायश्चित्तमयूखेऽप्युपपादितः। तद्यथा-
यत्तु याज्ञववल्यवाक्ये प्रायश्चित्तैरित्यादावज्ञानपदम्, तदप्यकामपरम्। अत एव तत्प्रतियोगिरूपं कामतः पदं सङ्गच्छते।
एवं वाक्यान्तरीयाणि बुद्धिज्ञानाभिसन्धिपदानि कामपराणि। अ-
बुद्ध्यज्ञानानभिसन्धिपदानि चाकामपराणि। तेन बलात्कारिते पापे सत्यपि ज्ञाने न द्विगुणं प्रायश्चित्तम्; तत्प्रयोजककामा-भावात्। अत्राकामकृतपापस्य व्यवहारनिरोधिका नरकजनिका चेति शक्तिद्वयमपि नश्यति प्रायश्चित्तेन। कामकृतस्य तु व्यवहारनिरोधिकैव नश्यति, न तु नरकानुकूलेति विज्ञानेश्वरादयो निबन्धकारः। एतच्च येनाहत्य व्यवहारो निषिद्धस्तत्प-रम्। तथाचाह गौतमः - ब्रह्महसुरापगुरुतल्पगमातापितृयोनि-सम्बन्धागस्तेननास्तिकनिन्दितकर्मभ्यासिपतितात्याग्यपति-तत्यागिनः पतिताः पातकसंयोजकश्च – इति। एतेष्वेव व्यवहारो निषिद्धो नान्यत्र। एनस्विभिरनिर्णिक्तैर्नार्थं कञ्चित् समा-चरेत्’ इति मानवीयमेनस्विपदमपि ब्रह्महादिपरमेव। इतरपापेषु नरकानुकूलताऽपैत्येव सर्वरहस्यपापेषु ब्रह्महत्यादिषु। प्रकाशेषु मरणान्तिकप्रायश्चित्ते चैवम्। शङ्कराचार्यास्तु ‘कामतोऽव्यवहार्यस्तु’ इत्यकारप्रश्ले-षेणेदं याज्ञवल्क्यवचो ‘बहि-स्तुभयथापि स्मृतेराचाराच्चेति’ सूत्रे “कृतप्रायश्यित्तमप्यारूढपतितादिकं स्पृष्ट्वा चान्द्रायणं कुर्यात्’ इति वाक्पार्थमाहुः। तत्सूत्रे वाचस्पतिमिश्रास्तु बालघ्नादिपरमित्यहुः। बालघ्नांश्चेत्यादिस्मृतेः। न सम्पिबेन्न व्यवहरेदिति। तेनाचार्यमतेऽवकीर्णि-नैष्ठिकादिभिर्वालघ्नादिभिश्च कृते प्रायश्चिते नरकानुकूला शक्तिर्नाश्यते द्विगुणप्रायश्चित्तेन। तदाहाङ्गिराः- विहितं यदका-मानां कामात्तत् द्विगुणं भवेत्। इति। महापापे तु कामकृते मरणमेव। तथाच स एव – यः कामतो महापापं नरः कुर्यात्क-थञ्चन। न तस्य निष्कृतिर्दृष्टा भृग्वग्निपतनादृते - इति।
तथा— प्राणान्तिकन्तु यत्प्रोक्तं प्रायश्चित्तं मनीषिभिः।
तत्कामकारविषयं विज्ञेयं नात्र संशयः इति॥
व्यासः - कामतो ब्राह्मणवधे निष्कृतिर्नास्ति जीविनः।
यस्तु सर्वं परित्यज्य यावज्जीवं चरेद् व्रतम्॥
स विशुद्धश्चरेल्लोकान् विप्रः शुद्धयेन्न संशयः - इति
[ मिताक्षरापरीक्षणम् ] वस्तुतस्तु विज्ञानेश्वरस्यापि न ‘कामतो व्यवहार्यस्तु इत्यत व्यवहार्य इति पदविभाग एव निर्भरः, किन्तु यथा वचनं व्यवहार्यत्वस्य अव्यवहार्यत्वस्य वा व्यवस्थपन एव निर्भर इति। अन्यथा हि कथं मयूखे- एतच्च यत्राहत्य व्यवहारो निषिद्धस्तत्परम् - इति निरूपितमुपपद्यते। नचेदं शङ्करभगवत्पादादीनामप्यसम्मतम्। तेऽपि हि यत्र प्रायश्चित्ताभाववचनं यत्र वा व्यवहारनिषेधः प्रायश्चित्तानन्तरमपि, तत्रैव खल्वव्यवहायर्त्वं मन्यन्ते। यथा च बहुकालं म्लेच्छादिसंसर्गेऽभ्यस्ते न प्रायश्चित्तमित्यत्रैव ‘अत ऊर्ध्वन्तु तत्समः ? इति वाक्यस्य तात्पर्यम्, तथा पूर्वमेव विवेचितम्। तथाच व्यवहार्य इति अव्यवहार्य इति वा पदच्छेदे वस्तुगत्या न फलभेदो वर्तत इति न निबन्धकाराणामत्र मतभेदा वर्तते काऽपि। न हि यत्र स्पष्टं प्रायश्चित्तानन्तरमपि व्यवहारनिषेधकं वचनान्तरं समस्ति, तत्र विज्ञानेश्वरोऽपि व्यवहार्य-त्वमभिमन्यत इति कल्पनं सम्भवति। व्यवस्थापितं हि विज्ञानेश्वरेणापि - शरणागनबालस्रीति श्लोकविवरणावसरे किमिव वचनं न कुर्यादिति न्यायेन कृतप्रायश्चित्तानामपि बालघ्नादीनामसंव्यवहार्यत्वमिति।
एतेन - कृतप्रायश्चित्तः समुद्रयाय्यपि - व्याख्यातः। ‘द्विजस्याब्धौ तु नौयातुः शोधितस्यापि सङ्ग्रहः ? इति वचनवशेन
बालघ्नादीनामिवास्यापि कृतप्रायश्चित्तस्याप्यव्यवहार्यत्वस्यैव सिद्धेः। अत्र हि सङ्गहपदेन व्यवहार एव विवक्ष्यते; तस्यैव
प्रसक्तत्वात्। एतेन – समुद्रयानमिति ग्रंथे मैसूरसंस्थानपण्डितैर्नरहरिशास्त्रिभिः ‘संग्रहणं नामास्मत्कर्तृकहव्यकव्या-दिषु तत्सङ्ग्रहणम्, न तु तत्कर्तृकहव्यकव्यादिष्वस्मत्सङ्ग्रहणम्। अत एव - समुद्रयायी बन्दी च - इति समुद्रयायिनः श्राद्धनिमन्त्रणानर्हत्वप्रतिपादनमुपपद्यते; अन्यथा तद्वचनवैयर्थ्यात्? - इति वर्णितम्, तत्रेदमेवास्माकं वक्तव्यम्- यत्पुरुषार्थानृत्तवदननिषेधे सत्यपि दर्शपूर्णमासप्रकरणे नानृतं वदेदिति निषेधान्तरं क्रत्विर्थतया यथा सार्थकम्-दर्शपू-र्णमासकालेऽनृवदने न केवलं नरकम्, किंतु दर्शपूर्णमासफलस्याप्यासिद्धिरिति फलविशेषसत्त्वात्, तथ श्राद्धे निम-न्त्रणेन न केवलं स्वतन्त्रानर्थफलमात्रम्, किन्तु श्राद्धफलासिद्धिरपीत्येवमर्थबोधनेन समुद्रयायी बन्दी चेति पृथक् निषे-धस्य सार्थक्येन नोक्तनिषेधवैयर्थ्यानुपपत्त्या सङ्ग्रहपदेन श्रद्धानहेत्वमातृव्यवस्थापनमुपपद्यत इति। तथाच कृतप्राय-श्चित्तानां पतितानां समुद्रयायिप्रभृतीनां वा स्वकर्ममात्राधिकारेऽपि नत्सङ्ग्रहः सर्वथाऽयुक्त एव।
[कृतप्रायश्चित्तसमुद्वायायिकर्तृकश्राद्धं निमन्त्रणोपरीक्षणम्\।] यत्तु समुद्रयानमिति ग्रन्थे श्रीनरहरिशास्त्रिभिः- “सन्ध्यास्नानमिति पराशरोक्तवच नघटककर्मस्वधिकारो युष्मदभिमतरीत्याऽभ्युपगन्तव्य एव तथा सति तदन्तर्गत-पितृयज्ञरूपमातापितृसांबत्सरीकश्राद्धमप्यनेन कर्तव्यमेव, अन्यथा वक्ष्यमाणदोषापत्तेः। तथाच मरीचिः- पण्डिता ज्ञानिनो मूर्खाः स्त्रियोऽथ ब्रह्मचारिणः। प्रेताहं समतिक्रम्य चाण्डालः कोटिजन्मसु - इति। एतेन – ब्राह्मणसामान्यधर्मबोधकसन्ध्या स्नानमिति पराशरवचनघटकपितृयज्ञमनुष्ययज्ञाद्यनुष्ठानासम्भवेयजनं याजनमित्यादिमुखधर्मस्यासम्भवः कैमुनिकन्याय- सिद्धः।
एवञ्च नित्यकर्माधिकारस्याङ्गीकारे तत्सङ्ग्रहोऽप्यङ्गीकृतप्राय एव। नित्यकर्मानुष्ठानयोग्यताया अप्यनङ्गीकारे भवद- भिमतरीत्या तज्ज्ञापकत्वेनाभिमतरीत्या चरितार्थानां प्रायश्चित्तबोधकवचनानां प्रायश्चित्तानुष्ठाने पापाभावप्रतिपादकानां वचनानां च सार्थक्यं साधयितुमशक्यमेव” – इति वर्णितम् तत्राप्यस्माकमिदमेव वक्तव्यम्– यत् – अथ पतिताः सम-वसाय धर्मांश्चरेयुरितरेतरयाजका इतरेतराध्यापका मिथो विवहमानाश्च - इति बौधायनधर्मसूत्रानुसारेण तेषां कृतप्राय-श्चित्तानां यजनयाजनामुष्ठानस्य परस्परसाहाष्येन सम्वादलितुं शक्यत्वेन तदर्थमन्यैः स्वभावशुद्धैः सङ्ग्रहस्याकल्पनी-यत्वान्न कोऽपि विरोधः समापतनीति॥ यत्तु पुनस्तत्रैव ग्रन्थे– कामतो व्यवहार्यस्तु इति वचनपर्यालोचनेन कृतप्रायश्चि-त्तानामपि कामकृतमहापातकानां व्यवहार्यत्वमवश्यमूरीकर्तव्यमिति विवेचितम् तत्र वक्तव्यमनुपदमेव सर्वं विवेचि-तमिति नात्र पिष्टपेषणार्थं प्रवर्तामहे।
[कृतायश्चित्तसमुयायि विषयेदुवृत्तधिक्कृतिम म्।] अस्मिन् प्रसङ्ग दुर्वृत्तधिकृतौ कृतप्रायश्चित्तस्य समुद्रयायिनो व्यवहा-र्यत्वं मुनाव्यवहायत्वमित्रेत्तिविकल्प्य यदुपपादितं तस्यापि सङ्ग्रहः समुचित इति तमपि यथावसरं सम्पादयामः। तद्यथा-
" एवं स्थिते उक्तप्रकारेण कृतप्रायश्चित्तस्यापि समुद्रयायिनः संसर्गयोग्यताऽस्ति न वेति विप्रतिपत्तिः। अत्र केचित् -
एनस्विभिरनिर्णिक्तेनांर्थं कञ्चित्समाचरेत्।
कृतनिर्णेजनांश्चैव न जुगुप्सेत कर्हिचित्॥
इनि मनुनाऽकृतप्रायश्चित्तपापिसंसर्गस्यैव निषेधात्, कृतप्रायश्चित्तय संसर्गयोग्यताऽऽख्यापनाच्चास्त्येव तस्य संसर्गयो-
ग्यता। “प्रायश्चित्तैरपैत्येनो यदज्ञान कृतं भवेत्। कामतो व्यवहार्यस्तु वचनादिह जायते । इति याज्ञवल्क्येन बुद्धिपूर्वकपापे प्रायश्चित्तानुष्ठानस्य व्यवहार्यत्वमेव फलमित्यभिधानाच्च। इदं हि वचनमित्थं व्याख्यातं विज्ञानेश्वरेण – प्रायश्चित्तैर्वप्तयमाणैरज्ञानाद्यदेनः कृतं तदपैति गच्छति, न कामतः कृतम्, किन्तु तत्र प्रायश्चित्तविधायकवचनबलादिह लोके व्यवहार्यो जायते - इति। अतः कृतप्रायश्चित्तस्यास्यापि संसर्गयोग्यताऽस्तीति। अत एव माधवीये - तदेवमेहिकव्यवहाराय परलोकाय वा कामकृतानां महापातकानामपपातकानां चात्स्येव प्रायश्चित्तमिति सिद्धम् - इत्याचक्षते’ इति, तन्न; उत्सर्गापवादन्य येन सामान्यतः पापमात्रविषयकतया प्रवृत्तयोरुक्तमनुयाज्ञवल्क्यवचनयोः समुद्रयानरूपपापविशेषविषयकेण - द्विजस्याब्धौ तु नौयातुः शोधितस्यापि सङ्ग्रहः - इति कलिवर्ज्यप्रकरणपठितेन कृतप्रायश्चित्तस्यापि संसर्गनिषेधकेन सङ्कोचस्यावश्यकत्वात्। आहवनीये जुहोतीत्यस्य पदे जुहोतीत्यनेनेवोक्तमनु-याज्ञवल्क्यवचनयोरेव’बालघ्नांश्च कृतघ्नांश्चशरणागतबालस्त्रीहिंसकान् इति तदीयवचनाभ्यांसङ्कोचवत्। अत्र ह्युक्तं मनुवचनमित्थमवतार्य व्याख्यातं कृल्लूकभट्टेन – अस्यापवादमाह - बालघ्नानिति। याज्ञवल्क्यवचनं च विज्ञानेश्वरेण तथा— जुगुप्सेरन्न चाप्येनमित्यस्यापवादमाह - शरणागतेति - इति। एवञ्चोक्तमाधवीयवाक्यमपि दर्शितापवादवचनविषयमेवेति सर्वैरप्यङ्गीकरणीयम्; अन्यथा तादृशवचनविरोधप्रसङ्गात्। अतः समुद्रयायिनः कृतप्रायश्चित्तस्यापि संसर्गयोग्यता नास्त्येवेति। अत्र शोधितस्यापीत्यपिशब्दो विरोधद्योतकोऽन्यत्रशोधितस्य संग्रहावश्यकत्वेऽपि इह वचनबलात्स नेति गमयति।
अपि शब्दबलदस्यार्थवादत्वन्तु न शङ्कयम्, विध्यन्तरसन्निधिविरहात्। किञ्चात्रापिशब्दवशात् शोधितस्यापि संग्रहो न, कि मुताशोधितस्येत्येवमशोधितसंग्रनिषेधस्यार्थवादः स्यादित्येवार्थ वादतावादिभिर्वक्तव्यम्। तच्च न युक्तम्, तस्य सर्वयुगसाधारण्येन न कलिवर्ज्येपाठसम्भवः। अत्र तु द्विजस्याब्धौ तु’ इत्यनेन कलावपि समुद्रयानस्य प्रायश्चित्तसद्भावज्ञ पनात्, ‘तस्य वै निष्कृति र्नास्ति प्रायश्चित्तशतैरपि’ इत्यस्य प्रायश्चित्ताभावप्रतिपादकत्वाङ्गीकारेऽपि न प्रायश्चित्त सामान्याभावप्रतिपादकत्वम्भवः, किन्तु संसर्गयोग्यतापादकप्रायश्चित्ताभावपरत्वमेव वाच्यमित्यतोऽपि समुद्रयानस्य प्रायश्चित्तसामान्याभाववादो नोपपन्नः।किञ्च प्रागुक्तदेवलवचने ‘समुद्रयातुः स्वीकारः’ इत्यौत्तरपाठस्यैव शुद्धताया वक्ष्यमाणतया समुद्रयाने प्रायश्चित्ताभावशङ्काया एव नावकाश इति बोध्यम् ॥
यत्तु - द्विजस्याब्धौतु नौयातुरित्यादिवचने संग्रहशब्दः ‘समुद्रयायी बन्दी च’ इत्यादि वचनैकवाक्यतया श्राद्धेनिमन्त्रणीः यत्वेन संग्रहपरः, न तु सहासनभोजनादिरूपसंसर्गपरः, संसर्ग दोषः स्तेनाद्यैरिति कलौ संसर्गदोषस्यैव निषेधादिति केचिद्वदन्ति, तन्न; आसनाच्छयनाद्यानादिति पराशरवचनेन कलावपि संसर्गदोषसद्भावप्रतीतेः। महापातकिसंसर्गस्य महापातकितापादकत्वं हि कलौ नास्ति। पातकि संसर्गस्य पापमात्रापादकत्वन्तुकलावप्यस्त्येव। उक्तं हि – माधवीये उक्तवचनावतारिकायाम् - तादृशसंसर्गद्रोषस्य पातित्यापादकत्वाभावेऽपि पापमात्रापादकत्वमस्तीत्याह - आसनादिति - इति। संसर्गदोषइति कलिवर्ज्यपाठस्तु महापातकिसंसर्गस्य महापातकत्वं नास्तीत्येवम्परः।
न त सर्वथा संसर्गदोषाभावपरः। ‘सवर्णान्याङ्गनादृष्टैःसंसर्गश्शोधितैरपि’ इति कलिवर्ज्य एव पाठस्य विरुद्धत्वापत्तेः, आसनादित्युक्तपराशरवचनविरोधापत्तेश्च।स्पष्टमिदं निर्णयसिन्धौ कलिवर्ज्यप्रकरणे। तत्र हि - संसर्गदोषः - तत्संसर्गी च पञ्चमः इत्युकम्। किञ्चिदुपरि च – पतितसंसर्गे दोषसत्वे पातित्यं नेत्यर्थः। अन्यथा संसर्गः शोधितैरपीति विरोधापत्तेरित्युक्तम्। एवञ्चैवं विधग्रन्थपूर्वोत्तरसन्दर्भाद्यपरिशीलननिबन्धन एवं कलौ सर्वथा संसर्गदोषो नास्तीति केषाञ्चिद्भ्रमः। इत्थञ्च द्विजस्येत्यादिवचने संग्रहशब्दस्यासङ्कोचात् सहासनशयनभोजनादिरूपसर्वविध-संसर्गबोधकत्वमावश्यकम्, शब्दशक्त्यसङ्कोचस्य स्वतः प्राप्तत्वात्। ननु छागपशुन्यायेनोक्तसंग्रहशब्दस्य सामान्यरूपस्य ‘समुद्रयायी बन्दी’ चेत्यादिमनुवचनोक्तनिमन्त्रणरूपसंग्रहविशेषपरत्वमेवावश्यकम्, यथा - अग्नीषोमीयं पशुमालभेतेति विधिगतपशुशब्दस्य ‘छागस्य वपाया मेदसः’ इति मन्त्रवर्णगततछागसमर्पितविशेषपर्यवसानं तद्वदिति चेन्न; सामान्यशब्दस्य विशेषाकांक्षयाऽस्पष्टत्वे एवोक्तन्यायप्रवृत्तेः, निषेधस्य निवृत्तिमात्रफलतया विशेषाकांक्षाविरहेण स्पष्टतया तन्त्रोक्तन्यायप्रवृत्त्यसम्भवात्। “सामान्यविधिरस्वष्टः संह्रियेत विशेषतः । स्पष्टस्य तु विधेर्नान्यैरुपसंहारकल्पना” इति हि न्यायविदः। अन्यथा हि, ‘न हिंस्यात्’ इति निषेधस्य ‘न ब्राह्मणं हन्यात् ? इत्यनेनोपसंहारे ब्राह्मणेतरहिंसाया अदोषत्वप्रसक्तिः। अत एव निर्णयसिन्धौ - गोत्रान्मातुः सपिण्डाच्च विवाहो गोवधस्तथा। नराश्वमेधौ मद्यञ्च कलौ वर्ज्यंद्विजातिभिः - इति वचने सामान्येन मद्यनिषेधस्य ‘सौत्रमण्यामपि सुरग्रहस्य च संग्रहः, इति चनेनोपसंहारमाशङ्क्योक्तरीत्यैव समाहितम्। हेमाद्रौ चेदमन्यत्र -
सम्यङ् निरूपितम्। अग्नीषोमीयं पशुमालभेतेत्यत्र पशुशब्दस्य तु विशेषपर्यवसानमन्तरेणानुष्ठानासम्भवात् विशेषाकांक्षायामनुष्ठानार्थ-प्रकाशनार्थमन्त्रवर्णगतछागशब्दसमर्पितविशेषे पर्यवसानमिति वैषम्यम्। निर्गुणश्रुतेर्हि निषेधरूपत्वेऽपि सगुणश्रुतिविरोधेन गुण सामान्याभावपरत्वासम्भवात् निषेध्यगुणविशेषाकांक्षायां हेयगुणनिषेध-श्रुत्योपसंहारो युक्तः। न ह्येवं प्रकृते कलावपि समुद्रयायिसंसर्गविशेषदोषत्वबोधकं वाक्यान्तरमस्ति, येनोक्तसामान्यनिषेधस्य विशेषाकांक्षया छागपशुन्यायप्रवृत्तिः स्यात्। अतः सिद्धं द्विजस्येत्यादिवचनगतसङ्ग्रहपदस्य न विशेषे पर्यवसानमिति। किञ्च भवदुदाहृतमनुवचन एव ‘एतान् विगर्हिताचारानपङ्क्तियान् द्विजाधमान्’ इति समुद्रयायिनः सहभोजनानर्हतापि प्रतिपाद्यते। अपि चात्र सङ्ग्रहशब्दस्य निमन्त्रणीयत्वमेव यद्यर्थः स्यात्, तदा तादृशसंसर्गस्थ कलिवर्ज्यत्वोक्त्यायुगान्तरे ग्राह्यता सिद्ध्येत्। ततश्च सर्वदा वर्ज्यत्वप्रतिपादकोक्त-मनुवचनविरोधापत्तिः। नहि मनुवचनमपि कलिमात्रविषयमिति वाच्यम्; असंकोचेन सर्वयुगविषयत्वावश्यम्भावात्। ‘कृते तु मानवा धर्मा इति पराशरवचनेन तस्य कृतयुगविषयताया दुस्त्यजत्ताच्च। तत्सिद्धं समुद्रयायिनः सर्वविधोऽपि संसर्गो हेय इति। अत्र विज्ञानेश्वरीये - संसर्गश्च स्वनिबन्धनकर्मभेदादनेकधा भिद्यते। यथाह बृहस्पतिः - एकशय्यासनं पङ्क्तिभाण्डपक्त्यन्नमिश्रणम् । याजनाध्यापने योनिस्तथा च सहभोजनम् । नवधाः सङ्करः प्रोक्तो न कर्तव्योऽधमैः सह - इति। देवलोऽपि - संलापस्पर्सनिश्वाससहयानाशनात्। याजनाध्यापनाद्यौनात्पापं संक्रामते नृणाम्। इति। इत्यादिकार्त्स्न्येन संसर्गस्वरूपमभिहितमवगन्तव्यम् । एवं समुद्रयायिसंसर्गस्य
त्याज्यत्वे सिद्धेतादृशसंसर्गं कुर्वतां विशिष्य प्रायश्चित्तानभिधानात् - यत्रोक्तं यत्र वा नोक्तमिह पातकनाशनम्। प्रजापत्येन कृच्छ्रेणशोधयेन्नात्र संशयः। इत्याद्युक्तं कृच्छ्रादिकं संसर्गतारतम्यानुगुण्येन प्रायश्चित्तं बोध्यम्। अत्रायं विवेकः - बोधायनाद्युक्तं त्रैवार्षिकप्रायश्चित्तमकृतप्रायश्चित्तसमुद्रयायिसंसर्गे, अनादिष्टप्रायश्चित्तन्तु कृतप्रायश्चित्तसमुद्रयायिसंसर्ग इति। यथा च कलौ पतति कर्मणेत्यस्य पतितसंसर्गस्यपातित्यानापादकत्वमात्र एवतात्पर्यम्, तथा पूर्वं बहुधा निरूपितम् । कर्तृत्यागो हि नाम तत्सम्भाषणादिपरित्याग इति माधवीयेऽपि व्यक्तम्। यस्त्वयं बहिष्कार ऊर्ध्वरेतोविषय इति माधवीयेऽष्टमाध्यायप्राथमिकवचनव्याख्यावसरे निरूपितम्, तदिदं नोपपातकिबहिष्कारसामान्यस्योर्ध्वरेतोविषयत्वपरम्, तादृशार्थस्य वचनस्वारस्यविरुद्धतया केनापि तत्प्रतिपादनासम्भवात्। तथाहि - अयं बहिष्कार इत्यत्रेदं शब्देन ‘बहिस्तूभयथापि स्मृतेराचाराच्चेति’ सूत्रोक्तो बहिष्कार एवोच्यते; तस्यैवाव्यवहितपूर्वोक्तत्वात्, न तूपपातकिबहिष्कारसामान्यम्; तस्य व्यवहितत्वात्। एवञ्च कृतप्रायश्चित्तोपपातक्यव्यवहार्यतावचनानां सर्वेषामूर्ध्वरेतोविषयत्वव्यवस्थापनमपि नावसरतीति सिद्धम्। कृतप्रायश्चित्तस्यापि तस्य संसर्गयोग्यताविरहेऽपि नरकनिवृत्त्यादिरूपामुष्मिक-प्रयोजनसत्त्वेन संसर्गरूपैहिकप्रयोजनविरहेऽपि प्रायश्चित्तसार्थक्यं सम्भवत्येव, आस्तिकानां तस्यैव मुख्यप्रयोजनत्वात्। पतनीयप्रायश्चित्तानुष्ठानस्य प्रयोजनत्रितयं विवक्षितम् - इह संव्यवहारः, द्विजातिकर्मार्हता, नरकनिवृत्तिश्च। तत्र क्वचित्संव्यवहार निषेधेऽपि इतरप्रयोजनद्वितयं निष्प्रत्यूहमेव। अन्यथा हि प्रायश्चित्तविधिवैफल्यमेव स्यादिति। एवमेव हि शरणागतहन्त्रादि-
विषये प्रायश्चित्तसाफल्यं सर्वैरपि निर्वाह्यम्। एवं प्रायश्चित्तानुष्ठानेन “द्विजातिकर्मभ्यो हानिः पतनम्” इति गौतमोक्तद्विजात्यावश्यकनित्यनैमित्तिककर्मानर्हत्वलक्षणपातित्यनिवृत्या तत्प्रयुक्तं व्यवधानादिविध्यप्रवृत्तिरूप-मैहिकफलमपि प्रायश्चित्तानुष्ठानस्यास्ति। उक्तं हि पराशरे - युगं युगद्वयं चैव त्रियुगञ्च चतुर्युगम्। चण्डालसूतिकौदक्यापतितानाममधःक्रमादिति। अत्राधःक्रमाद्विपरीतक्रमादित्यर्थः। तथा माधवीये कात्यायनवचनम् चण्डालसूतिकोदक्यावाक्यं श्रुत्वा द्विजोत्तमः।भुञ्जीत ग्रासमात्रन्तु दिनमेकमभोजनम् - इति। एवं स्मृतिरत्नाकरे स्मृत्यन्तरवचनम् – चण्डालं पतित श्वानमुदक्यां सूतिकां तथा। दृष्ट्वा भुक्त्यन्तरे स्नात्वा मानस्ताकेत्यृचं जपेत् - इति। द्विजातिकर्माधिकारोऽपि प्रायश्चित्तानुष्ठानस्य फलमित्युक्तं माधवीये।
अत्र यद्यपि समुद्रयायिन एव कृतप्रायश्चित्तस्य व्यवहारयोग्यताऽस्ति वा न वेति विचार्यते। एवमपिकामता व्यवहार्यस्तु - इति वचन व्यवहार्य इति पदच्छेदेऽपिअव्यवहार्यत्ववचनविशेषात् पूर्वोक्तरीत्या यत्रोव्यवहार्यत्वं प्रायश्चित्तवचनाभावश्च तत्र कृतप्रयश्चित्तस्याप्यसंव्यवहार्यत्वमिति सिद्धान्तमपि गमयतीति नैतत्संङ्ग्रहस्य प्रकृतानानुगुण्यम्। इयान् विशेषः – यत् समुद्रयायविषये कृतप्रायश्चित्तस्याप्यव्यहार्यत्वमुक्तम्, पतितानान्तु वस्तुतस्तु न व्ववहारापादकप्रायश्चित्तश्रवणमिति। यथाच पतितानामपि न सम्प्रयोगः कृतप्रायश्चित्तानामपि, तथा बौधायनधर्मसूत्रव्याख्यानोपष्टम्भेन पूर्वमेव विवेचितमिति न कोऽपि विशेषः।
[कृतप्रायश्चित्तस्यसमुद्रयायिनोलघुव्यवहारयोग्यत्वम्] अत्र प्रसङ्गेइदमपि सूच्यते यत् दुर्वृत्तधिक्कृतिकारैः संव्यवहारसिद्धावपि पारलौकिकप्रयोजनस्य मुख्यस्यासम्भवोऽपि दूषणायैवभव-
तीति पतितसंसर्गो न युक्त इति यद्विविच्यते; तदिदमपि कृतप्रायश्चित्तैरपि पतितैर्यौनादिसम्बन्धोन युक्त इत्यभिप्रायमेव। यौनादिसम्बन्धो हि न केवलमैहिकप्रयोजनो भोजनादिवत्, किन्त्वामुष्मिकप्रयोजनकोऽपीति तु सर्वसम्मतमिदम्। तथाच व्यवहार्यत्वपदेनापि संलापसहासनाशनयानादिलघुतरसंसर्गयोग्यतैव विवक्ष्यते, न तु गुरुतरविवाहयजनयाजनादि-सम्बन्धोऽपि। विवेचितम् चैतत् शूलपाणिनापि प्रायश्चित्तविवेके। अकृतप्रायश्चित्तपतितसंसर्गेण ह्यकृतप्रायश्चित्तस्य न केवलमैहिकव्यवहारप्रतिबन्धमात्रम्, किन्तु नरकसम्बन्धोऽपि भवतीत्यवश्यमुपगन्तव्यम्; संकोचे प्रमाणाभावात्। तथाच कृतप्रायश्चित्तानामैहिकव्यवहारयोग्यानामपि नरकसम्बन्धस्य नियतत्वे तत्संसर्गिणामपि नरकसम्बन्धोऽवश्यं भवेदेव। तथाच नरकसम्बन्धवारणार्थमवश्यमेव कृत प्रायश्चित्तपतितादिसंसर्गोऽपि वर्जनीय एव। तत्रेमं विवेकं वयमत्र पश्यामः - यदैहिकव्यवहारेणाकृतप्रायश्चित्तपतितसंसर्गिणामैहिकव्यवहारप्रतिबन्धः,विवाहादिव्यवहारेणामुष्मिकदुःखविशेषप्राप्तिरिति। अयमत्र निष्कर्षः - सहासनादिभिः शरीरमात्राशुद्धिः, विवाहादिना त्वात्मनोऽप्यशुद्धिः। तद्यदि प्रायश्चित्तमनुष्ठीयते, तर्हिशरीराशुद्धिमात्रनिरासेन सहाशनादिलघुतरव्यवहारयोग्यतामात्रं लभते, न तु विवाहादिगुरुतरव्यवहारयोग्यताम्। व्यवहारपदस्यापि सामान्यतः क्रयविक्रयादिसम्बन्ध एवेत्यर्थ इति म० म० शिवकुमारपण्डितमहोदयैः कालीघट्टसभायामुपपादितन्तु यदि पर्यालोच्यते, तदा तु न कोऽपि विरोधः ।
समुद्रयानविषये चापरेऽपि विषया यदि संग्रहणीया तर्हिः, वयं पश्यामः - सत्तरणतरणिसंग्रहणेनैवपर्याप्तमिति। तद्यथाः -
[पण्डितरत्न-क-र-ङ्गाचार्याणां मतम्] तत्र विप्रतिपत्तिः। किमुदाहृतानि समुद्रयाननिषेधपराणि वचनानि कृत्स्नमेव द्विजानां समुद्रयानं गोचयन्ति, अहोस्वित् विशेषणविशेषितमेव समुद्रयानमिति ? किं तावत् युक्तम ? कृत्स्नमेवेति। कुतः विशेषाश्रुतेः। न खल्वेतेषु वचनेषु क्वापि समुद्रयानमिसत्यंम्भूतमिति केनचिद्विशेषणेन विशेष्यमाणं शृणुमः। अश्रूयमाणोपि च विशेषः स्वमनीषिकयैवेष्यमाणस्सर्वेष्वेव विधिषुनिषेधेषु च दुर्वारमनवस्थादौस्थ्यमुन्मेषयेत्। अथ चेन्मनुषे अश्रुतमपि विशेषं तर्कमवष्टभ्योन्नेष्यामः । तदाहुः -
“आर्षं धर्मोपदेशञ्च वेदशास्त्रविरोधिना।
यस्तर्केरणानुसन्धत्ते स धर्मं वेद नेतरः॥ इति॥
“धर्मे प्रमीयमाणे तु वेदेन करणात्मना।
इतिकर्तव्यतामागं मीमांसा पूरविष्यति॥ इति च॥
तथाहि - अस्ति तावद्देवलवचनम् -
मासं कारागृहे वासो नौभिर्यात्रा दिनत्रयम्।
म्लेच्छावासे तथा पक्षं यो वसेत् स तु पातकी॥” इति॥
तत्र च दिनत्रयमित्यत्यन्तसंयोगविहितद्वितीययावगते दिनत्रयव्यापकनौकरणयाने मन्वादिवचनेषु निषिद्धतयोपात्तस्य समुद्रयानस्य पर्यवसानं न्याय्यम्; षष्ठान्तिमन्यायात्। तत्र हि ‘पशुमालभेत इति विधिगतपशुशब्दस्य ‘छागस्य वपायाः’ इति मन्त्रवर्णावगते छागरूपे विशेषे पर्यवसानं राद्धान्तितम्। अत एव समुद्रयायीत्यस्य समुद्रे नावा द्वीपान्तरङ्गन्ता इति कुल्लूकभट्टादीनां व्याख्यानं सङ्गच्छते; विशेषपर्यवसानं विना याने नौकरणकत्वालाभादिति, नैतद्युतम्; पशुत्वछागत्वयोरिव समुद्रयानत्वदिनत्रयव्यापकनौयानत्वयोः व्याप्यव्यापकभावापरपर्याय-सामान्यविशेषभा-
वाभावेन षष्ठान्तिमन्यायाप्रसरात्। किञ्च सामान्यशब्दस्य विशेषाकांक्षया अस्पष्टत्व एवोक्तन्यायप्रवृत्तिः । विधिगतशब्दस्य च विशेषपर्यवसानमन्तरेणानुष्ठानासम्भवात् युक्तम्विशेषे पर्यवसानम्। निषेधस्य च निवृत्तिमात्रफलकतयाऽनुष्ठानाय विशेषाकांक्षाविरहेण स्पष्टतया न तत्रोक्तन्यायप्रवृत्तिसम्भवः। तदुक्तं न्यायविद्भिः - “सामान्यविधिरस्पष्टः संह्रियेत विशेषतः। स्पष्टस्य तु विधेर्नैवमुपसंहार इष्यते॥ इति। स्पष्टं चेदं हेमाद्रिनिर्णयसिन्ध्वादिषु। निर्गुणश्रुतेः निषेधरूपत्वेऽपि सगुणश्रुतिविरोधेन गुणसामान्याभावस्वासम्भवात्। निषेध्यगुणविशेकांक्षायां हेयगुणनिषेधश्रुत्यो उपसंहारव्यवस्थापनं त्रय्यन्तनिष्णातानां युक्तमेवेत्यन्यत्र विस्तरः॥ एतेन उक्तधर्मयोः व्याप्यव्यापकभावाभावेन छागपन्यायप्रवृत्तावपि चतुर्धाकरणन्यायप्रवृत्त्यसम्भवात् ‘आग्नेयं चतुर्षा करोति, पुरोडाशं चतुर्धा करोति’ इत्यनयोः परस्परोपसंहारवत् समुद्रयाननिषेधवचनानां दिनत्रयनौयाननिषेधवचसश्च परस्परमुसंपहार आवश्यक इति न कृत्स्नस्य निषेधगोचरतेति परास्तम्; सामान्यविधिरस्पष्टः इत्यादौ ह्युक्तरीत्या निषेधस्थले चतुर्धाकरणन्यायाप्रवृत्तेः। किञ्च विकल्पापत्त्यादिरूपस्य तन्न्यायप्रवृत्तिनिमित्तस्य अभावादपि न तन्न्याप्रवृत्तिसम्भवः। तदुक्तं चतुर्धाकरणाधिकरणे कौस्तुभे - “एतादृशोपसंहारे च बीजं विकल्पानापत्तिः, शक्यतावच्छेदकानवच्छिन्नपदार्थलक्षणात्तिश्च, अन्यथा हि उपसंहारानङ्गीकारे शाखान्तरीयत्वेपि विकल्पापत्तिः।आग्नेयपदस्यैव पुरोडाशमात्रपरत्वेन लक्षणया उपसंहाराङ्गीकारे तु आग्नेयपदेन शक्यतावच्छेदका-नवच्छिन्नाग्निषोमीयादिलक्षणापत्तिः” इत्यादिना। अत एव च’द्विजस्याब्धौ’ इति वचने संग्रहशब्दः “समुद्रयायी बन्दी च”
इत्यारभ्य “एतान् विगर्हिताचारान् अपङ्क्तेयान् द्विजाधमान्। द्रिजातिप्रवरो विद्वान् उभत्रविवर्जयेत्॥” इति मनुनोपसंहारात् निमन्त्रणीयत्वेन सङ्ग्रहपरः। ‘संसर्गदोष स्तेनाद्यैः’ इति कलौ संसर्गदोषस्यैव निषेधात्, छाग पशुन्यायाच्च इत्यपि - परास्तम्; ‘आसनाच्छयनाद्यनात्’ इति पराशरवचनेन कलावपि संसर्गदोषसद्भावप्रत्यायनात्, अवतारितं चैतन्माधवीये, “तादृशसंसर्गस्य पातित्यापादकत्वाभावेपि पापमात्रापादकत्वमस्तीत्याह – आसनादिति” इति। उक्तकलिवर्ज्यवचनं तु महापातकिसंसर्गस्य महापातकित्वापादकत्वं नेत्यर्थपरम्, अतो न विरोधः। एवं कालविशेषानिर्देशेन “कृते तु मानवा धर्माः’ इति वचनेन च युगान्तरसाधारणतयामनुवचनस्य कलिवर्ज्यप्रकरण-वचनेनोपसंहारकल्पनमत्यन्तमुपपन्नमिति सुधियो विदांकुर्वन्तु।तदेवं सामान्यतः समुद्रयाननिषेधे सिद्धेयत्तत्र तत्र प्राचीनानामर्वाचीनानां च समुद्रयानलिङ्गमुपलभ्यते तद्धर्मव्यतिक्रमरूपताश्रयणेनैव समाधेयम्। स्मरति च भगगवानापस्तम्बः"दृष्टो धर्मव्यतिक्रमस्साहसं च पूर्वेषाम्’ इति ।
इति प्राप्तेऽभिधीयते - न युक्तं कृत्स्नमेव समुद्रयानं निषेधगोचर इति वक्तुम्। कुतः ? श्रौतलिङ्गादिविरोधात्, तथाहि ऋग्वेदे तावदाश्विने सूक्तेउपादेयचरितानामेव समुद्रयानादिकमित्थमाम्नायते। “तुग्रोह भुज्युमश्विनोदमेधे रयिन्न कश्चिन्ममृवां अवाहः। तमूहथु; नौभिरात्मन्वतीभिः। अन्तरिक्षप्रुड्भिरपोदकाभिः। तिस्रः क्षपाः त्रिरहातिव्रजद्भिः। नासत्या भुज्युमूहथुः पतङ्गैः। समुद्रस्य धन्वन्नार्द्रस्य पारे। त्रिभी रथैश्शतपद्भिष्षडश्वैः। अनाम्भणे तदवीरयेथामनास्थाने अग्रमणे समुद्रेयदश्विना। ऊहंथुर्भुज्युमस्तं शतारित्रां नावमातस्थिवांसम् ॥” इति ॥ एतस्य च
त्र्यृचस्यइत्थं सायणभाष्यम्। “तुग्रोनामाश्विनोः प्रियः कश्चिद्राजर्षिः स च द्वीगतरवर्तिभिः शत्रु भिरत्यन्तमुपद्रुतः तज्जयाय स्वपुत्रं भुज्युं सेनया सह नावा प्राहैषीत् । सा च नौमध्येसमुद्रमतिदूरंगता, वायुवशेन भिन्नाऽऽसीत्। तदानीं स भुज्युः शीघ्रमश्विनौ तुष्टाव। तौ च स्तुतौ सेनया सहितमात्मीयासु नौष्वारोप्य पितुस्तुग्रस्य समीपं त्रिभिरहोरात्रैः प्रापयामासतुः। अयमर्थः इदमादितृचेन प्रतिपाद्यते, हिशब्दः प्रसिद्धौ।तुग्रः खलु पूर्वं शत्रुभिः पीडितस्सन् तज्जयार्थमुदमेधे उदकैर्मिद्ध्यते सिच्यते इत्युदमेधस्समुद्रः। तस्मिन् भुज्युं एतत्संज्ञंइमं पुत्रमवाहनावागन्तुंपर्यत्याक्षीत्। तत्र दृष्टान्तःममृवान् म्रियमाणःसन् धनलोभी कश्चिन् मनुष्यः रयिं न यथा धनं परित्यजति तद्वत्। हे अश्विनौ तं च भुज्युं मध्ये समुद्रं निमग्नंतौभिः पितृसमीपंऊहथुः युवांप्रापितवन्तौ कीदृशीभिः आत्मन्वतीभिः आत्मीयाभिर्युवयोस्स्वभूताभिरित्यर्थः। यद्वा धृतिरात्मा धारणवतीभिरित्यर्थः। अन्तरिक्षप्रुड्भिः अतिस्वच्छत्वात् अन्तरिक्षेजलस्योपरिष्टादेव गन्त्रीभिरपोदकाभिस्सुश्लिष्टत्वात् अपगतोदकाभिरप्रविष्टोदकाभिरित्यर्थः॥हे नासत्या नासत्यौ सेनया सहोदके निमग्नं भुज्युं तिस्रः क्षपाः त्रिसंख्याकारात्रीस्त्रिरहा त्रिवारमावृत्तान्यहानि चातिव्रजद्भिः अतिक्रम्य गच्छद्भिरेतावन्तं कालमप्यावर्तमानं पतंगेः पतद्भिः त्रिमिस्त्रिसंख्याकैःरथैरूहथुः युवामूढवन्तौ। क्वेति चेदुच्यते। समुद्रस्याम्बुराशेर्मध्ये धन्वन्धन्वनि जलवर्जितप्रदेशे आर्द्रस्य उदकेनार्द्रीभूतस्य समुद्रस्य पारे तीरदेशे च। कथं भूतैः रथैः ? शतपद्भिः शतसंख्याकैश्चक्रलक्षणैः पादैरुपेतैष्षडश्वैः पद्भिरश्वैर्युक्तैः॥ २॥ हे अश्विना अश्विनौ अनारम्भणेआलम्बनरहिते समुद्रेतत्कर्म अवीरयेथां विक्रान्तं कृतवन्तौ युवाम्।
अनारम्भणमेव स्पष्टीकरोति । अनास्थाने आस्थीयतेऽस्मिन्नितिआस्थानो भूप्रदेशः, तद्रहिते स्थातुमशक्ये जल इत्यर्थः। अग्रभणे अग्रहणे हस्तेन ग्राह्यं शाखादिकमपि यत्र नास्ति तस्मिन्नित्यर्थः किं पुनस्तस्कर्म ? भुज्युंसमुद्रेमग्नं शतारित्रां बह्वरित्रां यैः काष्ठैः पार्श्वतोबद्धैःजलालोडने सति नौःशीघ्रं गच्छति, तान्यरित्राणि ईदृशीं नावं आतस्थिवांसं आस्थितवन्तं आरूढवन्तं कृत्वा आस्तं गृहनामैतत्। पितुस्तुग्रस्य गृहं प्रति यदूहथुः तत्प्रापणमन्यैर्दुशकं युवां समुद्रमध्ये कृतवन्तावित्यर्थः ॥ २ ॥ इति । यद्यपि ‘तुग्रोह’ इत्यादिऋग्द्वितयं तैत्तरीयारण्यकेप्याम्नायते। तत्र च ईदृशेतिहासानुसारेण भट्टभास्करमिश्रेण माधवाचार्येण वा न व्याख्यायि; तथापि प्रकृतस्य तृचस्य साम्प्रदायिकमुक्तेतिहासपरत्वं नानुपपन्नम् ॥
यदाहुरत्रकेचित्।अश्विनीकुमारतदभिध्यातृभुज्ज्वादिमाहात्म्याभ्युच्चयैकप्रतिपादनपरतया अश्विपरतया अर्थवादरूपत्वात् एतस्य तृचस्य स्वार्थतात्पर्यमिति। तदसत; तात्पर्यभावेऽपि तृचस्यास्य नस्तोत्ररूपत्वानुपपत्तेः। प्रगीतमंत्रसाध्यगुणिनिष्ठगुणाधानं स्तोत्रपदार्थः । किंच ऋचामासां मंत्रकोटिप्रविष्टतया अर्थवादत्वं नोपपद्यते। अर्थवादो हि ब्राह्मणकोटिनिविष्टः “ब्राह्मणशेषोऽर्थवादः” इत्यापस्तम्बपरिभाषणात्। ब्राह्मणं च मन्त्रातिरिक्तं “तच्चोदकेषु मंत्राख्या। शेषे ब्राह्मणशब्दः” इति जैमिनिनासूत्रात्। अस्तुवा कथंचिदर्थवादत्वम्। नैतावतैव स्वार्थे इतिहासे तापर्याभावो वक्तुंयुक्तः। अथवादेष्वपि अवयवार्थानतिक्रमेणैवअजहत्स्वार्थलक्षणया प्राशस्त्यपरत्वमिति वार्तिककारसिद्धान्तात्। अत एव “स आत्मनोवपामुदखिदत्” ॥
इत्यत्रापि परमेश्वर एव सर्गादौ स्वमहिम्ना पशुरूपमन्यदेकं स्वीकृत्य वपोत्कर्तनेन कर्म प्रायुङ्क्तेतितदर्थपरत्वमुररीकृतम्, एवं जात्य-
धिकरण सारूप्याधिकरण मंत्राधिकरण यववराहाधिकरणतद्व्यपदेशाधिकरणप्रभृतिषु बहुष्वधिकरणेषु अर्थवादानां मंत्राणां च सदर्थपरतामाश्रित्यैव मीमांसकैस्सिद्धान्ताः प्रवर्तिताः। माधवस्मृतिचन्द्रिकाकारादिभिर्निबन्धनकारैरपि मन्त्रार्थवादादिलिङ्गाश्रयणेनैव विधिनिषेधशास्त्राणां विषया व्यवस्थापिताः इत्यग्रेव्यक्तीकरिष्यते। किं बहुना ? उक्तस्यैव तृचस्य आख्याधिकारूपत्वं कण्ठरवेणैव स्फुटीकृतं राणके राणकोज्जीविन्यां च “शेषे ब्राह्मणशब्दः” इत्यस्मिन्नधिकरणे - इति, सर्वथा अयुक्तमिदमुदाहृतस्य तृचस्य न स्वार्थे तात्पर्यमिति। तथा वसिष्ठस्यार्षे वारुणे सूक्तेपीत्थमाम्नायते। “आयद्रुहाव वरुणश्च नावं प्रयत्समुद्रमीरयाव मध्यं। अधि यदपांस्नुभिश्चराव प्रप्रेंखञिंखयावहै शुभेकम्।
वसिष्ठं ह वरुणो नाव्याधादृषिंचकार स्वपामहोभिः। स्तोतारंविप्रस्सुदिनत्वे अह्रांयान्नुद्यावोततसन्यादुहनः ॥ "
अत्रेत्थंभाष्यम् - “यत् यदा वरुणे प्रसन्ने सति अहं वरुणश्च उभौनावं द्रुममयीं तरणसाधनभूतां आरुहाव, उभावारूढौबभूविव, तां च नावं यत् यदा समुद्रमध्यं समुद्रस्य प्रति प्रेरयावः प्रकर्षेण गमयाव । यद्यदा अपामुदकानां अध्युपरि स्नुभिः स्वर्गस्त्रीभिः अन्याभिरपि नौभिश्चराव वर्तावहै तदानीं शुभे, शोभार्थं प्रेंखे नौरूपायां दोलायामेव प्रेंखावहै निम्नोन्नतैस्तरंगैरितश्चेतश्च संक्रीडावहै । कमितिपूरकः । यद्वा क्रियाविशेषणं कं सुखं यथा भवति तथेत्यर्थः ॥
एवं वसिष्ठेनात्मोक्तेयद्वरुणेन कृतं तद्दर्शयति -वसिष्ठंह वसिष्ठं खलु वरुणो नावि स्वकीयायामाघात् आरोहयत् । तथा तमृषिमपोभी रक्षणैः संशोभनकर्माणं चकार वरुणः कृतवान, अपि च
विप्रो मेधावी वरुणोन्हां दिवसानां मध्ये सुदिनत्वे यत्फलत्वेन शोभनदिनत्वं तत्र स्तोतारमवस्थापयत् इति शेषः। किं कुर्वन् ? यत् यतो गच्छतो द्यावो दिवसान् यात् यातीरुषासः उषसोपालक्षिता रात्रिश्च सूक्षिप्रंततसन् सूर्यात्मना विस्तारयन्निति। इत्थमेव च इतिहासेषुपुराणेषु च स्मर्यते। समुद्रयानाविनाभूतं समुद्रमध्यगतद्वीपविजयादिकं तत्र त्रेतायुगप्रभवानां रघुमहाराजादीनां अशेषमहीमण्डलगोचरो विजयस्संप्रतिपन्नतर एवसर्वेषाम्। द्वापरे च धार्मिकाग्रेसराणां अर्जुनभीमसेनादिपाण्डुनन्दनानाम्।उक्तंच राजसूयपर्वणि। “ताम्रलिप्तं च राजानं खर्वटाधिपतिं तथा । सिंहानामधिपंचैवये च सागरवासिनः।
सर्वान् म्लेच्छगणांश्च्वैविजिग्ये भरतर्षभः।
एवं बहुविधान् देशान् विजिग्येपवनात्मजः॥
वसु तेभ्य उपादाय लौहित्यमगमद् बली।
स सर्वान् म्लेच्छनृपतीन् सागरानूपवासिनः॥
करमाहारयामास रत्नानि विविधानि च।
दिशं धनपतेरिष्टामजयत्पाकशासनिः॥
भोमसेनस्तदा प्राचीं सहदेवस्तु दक्षिणाम्।
प्रतीचींनकुलो राजा दिशं व्यजयतास्त्रवित्॥
स तेन सहितो राजन्सव्यसाची परंतपः।
विजिग्ये शाकलं द्वीपं प्रतिविंध्यं च पार्थिवम्॥
शाकलद्वीपवासाश्च सप्तद्वीपेषु ये नृपाः।
अर्जुनस्य च सैन्यैस्तैः विग्रहस्तुमुलोऽभवत्॥
स किरातैश्च चीनैश्च वृतः प्राग्ज्योतिषाऽभवत्।
अन्यैश्च बहुभिर्योधैस्सागरानूपवासिभिः।
वशे चक्रे महातेजा दंडकांश्च महाबलः।
सागरद्वीपवासांश्च नृपतीन्म्लेच्छयोनिजान्॥
निषादान् पुरुषादांश्च कर्णाप्रावरणानपि।
ये च कालमुखा नाम नरगक्षसयोनयः।
कृत्स्नं कोलगिरिं चैव सुरभीपट्टणं तथा ॥
द्वीपं ताम्राह्वयं चैव पर्वतं रोमकं तथा।
रामठान् हारहूणांश्च प्रतीच्याश्चैत्र ये नृपाः।
तान् सर्वान् स वशे चक्रे शासनादेव पाण्डवः॥
ततस्सागरकुक्षिस्थान् म्लेच्छान् परमदारुणान्।
पल्लुवान् पर्वरांश्चैव किरातान्यावनान् शकान्” इति॥
यत्तु “राजा राजसूयेन स्वाराज्यकामो यजेत” इति विधिविहितमहाफलराजसूयाध्वरनिष्पत्तिनान्तरीय-कतयापाण्डवकृतसिन्धुयानस्य न निषेधविषयतासम्भव इति,
तदपि न सत्; विहितक्रियानिष्पत्तिनान्तरीयकतामात्रेणनिषेधगोचरत्वापहारासम्भवात्। अभ्युपगम्यते हि निषिद्धैरेव सोमविक्रयशामित्रादिभिः ज्योतिष्टोमपश्वादिसिद्धिः। अङ्गीक्रियते च सांख्यैः नित्ययाऽपि चोदनया साक्षादेव विषयीकृतस्य पश्वालम्भादेः ‘न हिंस्यात्’ इत्यादिनिषेधविषयता। तदेवं सति काम्यचोदनागोचरनिष्पत्ति-नांतरीयकतामात्रेण निषेधविषत्वापहारासंभवः किंपुनर्न्यायसिद्ध इति॥
एवं कलियुगोदितस्यापि शाकनृपतेः श्रीमतो विक्रमादित्यस्य सिन्धुयानमितिहासतः प्रतीमः। यथोक्तं ज्योतिर्विदाभरणे -
“यस्याष्टादशयोजनानि कटके पादातिकोटित्रयम्।
वाहानामयुतायुतं च नवतेस्त्रिघ्नाकृतिर्हस्तिनाम् ॥
नौकालक्षचतुष्टयं विजयिनो यस्य प्रमाणेऽभवत्।
सोयं विक्रमभूपतिर्विजयते नानाधरित्रीधरः ॥
यो रूपदेशाधिपतिं शकेश्वरं जित्वा गृहीत्वोज्जयिनीसमाहवे। आनीय संभ्राम्य मुमोच यस्त्वहो स विक्रमार्कस्समसह्यविक्रमः॥तथावत्सराजामात्यो बाभ्रव्योयौगंधरायणोनावा समुद्रयानमतनोत्। श्रीमन्नामा सिंहलद्वीपवासमकरोत्, इत्यतिरोहितं रत्नवल्यादिविदाम्। मिहिरकुलराजोपि सिंहलद्वीपं जगामेति निरूपितं राजतरङ्गिण्याम्। ‘भगवांश्च वासुदेवः’ सहैव चातुर्वर्ण्येन अर्णवमध्यं द्वारकानगरमध्युवासेति पुराणेषूपदिश्यते। अधुनापि च भूयांसस्रैवर्णिकाः द्वारकायात्रां सेतुयात्रां चानुतिष्ठन्तः प्रत्यक्षमनुभूयन्ते विप्रतिपन्नाः। यत्तु यात्राविधिनैव तदौपयिकसमुद्रयानस्य निषेधाविषयत्वकल्पनं तत्प्रागेव निरस्तम्; निषिद्धैरपि विहितनिष्पादनस्य प्रदर्शितत्वात्। यद्यपि निषेधशास्त्रं रागप्राप्तप्रतियोगिनमादायैव चरितार्थं विध्यन्यथानुपपत्तिसिद्धमर्थं न गोचरयेत् । तथापि भुज्युवसिष्ठादिकृतं रागप्राप्तमेवेति तस्य तद्गोचरता दुर्निवारैव। तस्मादुपदर्शितलिङ्गादिभिर्बहुभिर्विरोधप्रसंगात् न कृत्स्नं समुद्रयानं निषेधगोचर इति साधीयः। अथ “श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्” इत्यस्मिन्नधिकरणेलिङ्गापेक्षया निरपेक्षरवरूपायाः श्रुतेः प्राबल्यस्य व्यवस्थापनात्, दुर्बललिङ्गविरोधो न दोषायेति चेत्, मैवम्;लिङ्गस्यापि वैदिकस्य स्मृत्यनुमेयश्रुत्यपेक्षया प्राबल्यस्य न्यायवित्संमतत्वात्। तदुक्तं भट्टपादैःश्रुतिलिङ्गाधिकरण एव
“यत्र पुनश्श्रुतिरानुमानिकी लिंगं च प्रत्यक्षम्, तत्र कथम् ? यथा स्मृतिवैदिकलिङ्गविरोधे तत्र स्मृतेः मूलान्तरमपि सम्भाव्यते, न तु
लिंङ्गस्येति तदेव बलवदित्यनुसर्तव्यम्। दुर्बलस्य प्रमाणस्य बलवानाश्रयो यदा। तदा विपरीतत्वं शिष्टाकोपे यथोदितम्। अत्यन्तबलवन्तोपि पौरजानपदा जनाः। दुर्बलरपि बाध्यन्ते पुरुषैः पार्थिवाश्रितैः॥ इति॥
राणके चायमर्थोनिपुणतरमुपपादितस्तत एवावगन्तव्यः। अत एव -
मातुलस्य सुतामूढ्वा मातृगोत्रां तथैव च।
समानप्रवरां चैव द्विजश्चान्द्रायणं चरेत् ॥ इति ॥
शातातपादिवचने मातुलस्येत्यस्य गान्धर्वविवाहेन उढायामातृतद्भ्रातृपरतयासङ्कोचः श्रौतलिङ्गमाश्रित्यैव कल्पितः। साचश्रुतिः तद्भाष्यं चेत्थम्। आयाहीन्द्रपथिभिरीलितेभिर्यज्ञमिमन्नोभागधेयं जुषस्व तृप्तां जहुर्मातुलस्येव योषाभागस्ते पैतृष्वसेयो वपामिव। इन्द्र पथिभिरीलितेभिःस्तुतैः सह नास्माकं इमं यज्ञमायाहि। आगत्यास्माभिर्दीयमानं भागधेयं जुषस्व तृप्तामाज्यादिना संस्कृतां वपां त्वामुद्दिश्य जहुःत्यक्तवन्तः। अत्र दृष्टान्तद्वयम्।यथा मातुलस्य योषा दुहिता दौहित्रभागः भागिनेयः भागिनेयेन परिणेतुं योग्येत्यर्थः यथा च पैतृष्वसेयी पौत्रस्य भागः तथा आयस्ते भागो वपाख्यः। इति। तथा अनंतदेवेनापि संस्कारकौस्तुभे ऐतरेयब्राह्मणगतविश्वामित्रशुनश्शेफेतिहासमालम्ब्य उपनीतदत्त निषेधवचनानामान्यपर्यं न्यरूपि।
तथैव चेदृशा बलवत्सिद्धान्ता न्यायवित्सम्मता विस्तरभयान्नेह प्रपंच्यन्ते॥ नन्वेवं सति “प्रजापति र्वैस्वां दुहितरमभ्यध्यायत्” इतिश्रौतलिंगेन निषेधान्तराणां संकोचप्रसंग इति चेत्, मैवम्; तच्छ्रुतेरन्यार्थपरताया वार्तिक एवशिष्टाकोपनये प्रदर्शितत्वात्।
यथाश्रुतार्थोपगमेऽपि प्रजापतेर्मनुष्याधिकारशास्त्राविषयतया विरोधपरिहारस्य तत्र व वार्तिके पुराणेष्वपि च दर्शनाच्च। तत्र हि तेन लिंगेन संकोचः तान्त्रिकाणांसंमतः, यत्र लिंगावगम्येऽर्थे प्रातस्विकरूपेण प्रतिनियतधर्मत्वमधर्मत्वमेव वा शब्दतोऽर्थतोवानावगम्यते। अत एव द्रौपदीविवाहादिलिङ्गेन नैकपतिकत्वादिस्मृतिसंकोचः; तद्विवाहे प्रतिनियतधर्मतायाः महाभारत एव व्यक्तत्वात्। तथाधर्मराजकृतानृतवदनलिङ्गेन नानृतवदननिषेधस्य संकोचः। अनृतवदनजनितैनोनिवर्हणाय प्रायश्चित्तानुष्ठानस्य धर्मराजकृतस्य महाभारत एव प्रतिपादिततयाऽधर्मत्वावगमात्॥ तस्मादिह श्रौतलिङ्गादिविरोधपरिहाराय समुद्रयाने निषिध्यमाने कश्चन विशेष एष्टव्यः। येन भुज्युवसिष्ठपांडवविक्रमादित्यादयो धर्मपथप्रवर्तका न प्रत्यवेयुः । स चायं विशेषः ताच्छील्यंवा आभीक्ष्ण्यं वा।
मानववचनगतसमुद्रयायिपदे विद्यमानेन णिनिप्रत्ययेन शब्दमर्यादयैव लभ्यते इति न तत्कल्पनाप्रयुक्तमपि गौरवम्। तथाहि - प्रकृते णिनिप्रत्ययप्रापक्रमनुशासनद्वयमेवदृश्यते। तत्रैकं"सुप्यजातौ णिनिस्ताच्छील्ये” इति। अजातौ सुप्युपपदे ताच्छील्येऽर्थे णिनिस्स्यादिति तदर्थः। यत्तु क्षीरादिभेदभिन्न व्यक्तिवाचिनस्समुद्रस्य जातिशब्दतया न तस्मिन्नुपपदे ताच्छील्ये णिनिप्रत्ययसम्भव इति, तन्न;समुद्रशब्दस्यअनेकव्यक्तिवाचित्वेऽपिशाब्दिकाभिमत-जातिवाचित्वासंभवात्,क्षीरत्वादिना संकरेण समुद्रत्वस्य जातित्वासंभवाच्च। अस्ति हि क्षीरत्वं विहाय समुद्रत्वंलवणसमुद्रादौ समुद्रत्वं विहाय क्षीरत्वं गव्यक्षीरादौ, उभयोस्समावेशश्च क्षीरसमुद्रेइति; अन्यथा साधुत्व ब्रह्मत्वयोरपि जातिरूपतासंभवेन ‘साधुकारिण्युपसंख्यानम्’ ‘ब्रह्मणि वदः’ इत्यनयो-
वर्तिकयोः अताच्छीलार्थमारम्भ इत्युक्तिः शाब्दिकानां विरुध्येत॥
यदपि करणे यज इत्यपवादकाधिकारादानन्तर्यात्तदन्तर्वर्तियजधातोरुपादानस्य धात्वन्तरोपलक्षकत्वे तत एव प्रकृते णिनिप्रत्ययविधाने सति सूत्रस्यास्य ताच्छील्यार्थतया तद्गोचरप्रत्यवस्थानभेदस्याग्रहणार्हत्वादिति,
तदप्यसत्; करणे यज इत्यत्र यजधातोः धात्वन्तरोपलक्षकतायाः भाष्याद्यनारूढतयाऽश्रद्धेयत्वात्। अभ्युपगमेपि अधिकरणतयासमुद्रस्य तद्वाचिन्युपपदे तेन णिनेरसम्भव एव। करणे इत्यस्यापि कारकान्तरोपलक्षकत्वमिति ‘तु ब्रह्मणिवदः’ इत्यादिवार्तिकानारम्भप्रसंगपराहतमिति दिक् ॥
द्वितीयं च बहुलमाभीक्ष्ण्ये- इति धातोराभीक्ष्ण्येर्थे णिनिर्भवति बहुलमिति च तदर्थः। न च बहुलग्रहणात् अर्थविशेषाविवक्षायामपि णिनिस्संभवतीति वाच्यम्; संभवेऽपि उपदर्शितश्रौतलिङ्गादिविरोधपरिहारायैव उपदर्शितार्थविवक्षाया आवश्यकत्वात् बाहुलकाश्रयणस्य अगतितयाऽसंभवाच्च।
इतश्च समुद्रयायि पदे णिनिस्ताच्छील्ये इत्यवधारयामः। समुद्रयायी बन्दी चेति बन्दिपदेन साहचर्यात्। तद्धि वदिअभिवादनस्तुत्योः इत्यस्मात् ‘नंदिग्रहिपचादिभ्यो ल्युणिन्यचः, इतिसूत्रेण ग्रह्यादितया णिनिप्रत्यये निष्पन्नम्।सच णिनिः ‘आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु इत्युक्तेस्ताच्छील्यवाची; अन्यथा कर्तुमात्रेणिनिप्रत्यये सर्वः एव प्राय स्तोतार इति प्रत्यवेयुः। अत एव ‘समुद्रयानं ब्राह्मणस्वापहरणम्, इति बोधायनसूत्रे बहुसेवापरत्वेन विज्ञानेश्वरव्यख्यातेन शूद्रसेवापदेनापि साहचर्यं युज्यते। अत एव च -
अथोत्तरत ऊर्णाविक्रयः शीधुपानमुभयतोदद्भिर्व्यवहार आयुधी
यकं समुद्रयानं इत्यस्मिन्नपि बोधायनसूत्रेवृत्तिवाचिना आयुधीयकपदेनापि साहचर्यमुपपन्नम्। अथ अगारदाही इत्यादावपिताच्छील्याद्यन्यतरविवक्षाया आवश्यकत्वेन सकृत्कृतस्य अगारदाहादेःप्रदोषत्वं स्यादिति चेत्, स्यादेव, यदि सत्कृतस्यापि अगारदाहस्य दोषताबोधकं स्फुटतरं प्रमाणमुपलभ्येत। शब्दशक्ति लभ्यार्थस्य विना प्रमाणं परिगणनासम्भवात्। तदेवं लिङ्गविरोधपरिहाराय णिनिप्रत्ययार्थ विवक्षणं प्रामाणिकमूर्धन्यवार्तिक-कारादिसंप्रदायसिद्धमिति नात्रासांप्रदायिकत्वमपि शङ्कनीयम्। तथाच वार्तिके शिष्टाकोपाधिकरणे – “यत्तु वासुदेवार्जुनयोः उभौमध्वासकांक्षिणौ इति मद्यपानलिङ्गं स्मृतिविरुद्धमुपन्यस्तम्, तत्रान्नविकारसुरामात्रस्य त्रैवर्णिकानां प्रतिषेधः।
सुरा वै मलमन्नानां पाप्मा च मलमुच्यते।
तस्माद् ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत्॥ इति ॥
मधुसीध्वोस्तु क्षत्रियवैश्ययोः नैव प्रतिषेधः; केवलब्राह्मणविषयत्वात्। ‘मद्यं नित्यं ब्राह्मणो वर्जयेत्’ इति वचनात्। यदप्येतत्गौडीपैष्टी च माध्वीच विज्ञेया त्रिविधा सुरा। यथेवैका तथा सर्वा न पेया ब्रह्मवादिभिः - इति, एतदपि ब्रह्मवादिशब्दस्य तच्छील तद्धर्म तत्साधुकारित्वनिमित्तत्वात् प्रवचनाश्रयणेन ब्रूञ्वदत्योरेकार्थत्वात् ‘प्रब्रूयाद्वाह्मणस्त्वेषाम्’ इति नियमात्, यस्यैव प्रवचनं स एक तच्छीलः तद्धर्मा तत्साधुकारी वा भवति। तस्माद् ब्राह्मणा एव ब्रह्मवादिन इति। तदिदं कौस्तुभे खण्डदेवेनापि स्फुटं निरूपितमिति तत एव बोध्यम्।
इयांस्तु विशेषः -अर्थविशेषविवक्षायामपि तत्र णिनिप्रत्ययविधायके ब्रह्मणि वदः इति वार्तिके जागरूकेपि स्मार्तस्यलिङ्गस्य
विरोधं परिहर्तुमेव ताच्छीलार्थकणिनिस्वीकरणं भट्टपादानाम्। प्रकृते तु उपदर्शितार्थाविवक्षायां णिनिप्रत्यय-विधायकस्यासस्वादपि श्रौतानां स्मार्तानां साम्प्रदायिकानामपि च लिङ्गानां विरोधे परिहर्तुं चापीति। तदित्थं कर्णधारादिवृत्तिमाश्रितेन द्विजेनानुष्ठीयमानं वृत्तिरूपतापन्नमेवसमुद्रयानं निषेधविषयः, न कृत्स्नमेवेति - सिद्धम्। अत एव स्मृत्यर्थसारे समुद्रतारणस्य पातकमध्ये परिगणनमपि युज्यते। न खलु अन्यत्र कुत्रचित् समुद्रतारणस्य ताद्रूप्येण निषेधकं वचनमुपलभ्यते। अत एव च समुद्रयायीत्यस्य समुद्रेनावा द्वीपान्तरं गन्तेति कुल्लूकमहादीनां व्याख्यानमपि सङ्गच्छते; णिनिप्रत्ययार्थाभिप्रायकत्वात्तद्व्याख्यायाः। अथैवंसति रघोः विजयार्थप्रसक्तसमुद्रयाननिषेधपरस्य मल्लिनाथवचसः का गतिरिति चेत्, अधोगतिरेव। अस्ति हि भूयोनुग्रहन्यायस्तान्त्रिकाणाम्, अस्ति च लौकिकानामाभाणकः। त्यजेदेकं कुलस्यार्थेग्रामस्यार्थे कुलं त्यजेत्। ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् इति। तदेवं सिद्धेकलिवर्ज्यप्रकरणगते “द्विजस्याब्धौ तु नौयातुः शोधितस्यापि संग्रहः” इत्यत्रापि नौयानं वृत्तिरूपमेव विवक्षितम्। यादृशस्य प्रायश्चित्तं प्रसक्तं तन्मूलकसंग्रहश्च, तथा तादृशस्यैवात्र संग्रहनिषेधपरे वचने ग्रहणौचस्यात्। प्रसक्तं हि प्रतिषिध्यत इति न्यायात्।
किंचेहापिनौयातृशब्दगततृन्प्रत्ययेन ताच्छील्यं शब्दमर्यादयैव लभ्यत इति नास्ति किंचित्कल्पनीयम्। नच तृन्नन्तत्वे नौयातृशब्दसमासानुपपत्तिः; नावः करणतया ‘साधनं कृतौ’ इत्यनेन समासे बाधकविरहात्। यत्तु ताच्छीलिका रूढिशब्दा एव रूढिशब्दप्रकारास्ताच्छीलिकाः। नच रूढिशब्दा गतिभिर्वि-
शेष्यन्ते इति आढ्यसुभगेतिसूत्रभाष्यात्। न च समुद्रयायिशब्दो नौयातृशब्दो वा नाविके रूढः; कोशादावदर्शनात्, इति। तन्नःप्रकारग्रहणं सादृश्यार्थम्। रूढिशब्दानां न केषामपि गतिसम्बन्धो भवति। ताच्छीलिकानां तु भवति केषांचित्, न सर्वेषामिति प्रतिपादयति। तत्रत्यकैय्यटविरोधे सर्वेषामेव ताच्छीलिकानां रूढिशब्दत्वोपगमासंभवात्। किंच नौयातृशब्दस्य उक्तार्थत्व एव धर्मतत्वो धृतम् – अब्ध्याजीवी न संग्राह्यो निष्कृत्याऽपि कलौ युगे - इति वचनमपि अनेनैककंठ्यमश्नुते॥ अपि च व्यवहारमयूखकारोपि ताच्छील्यार्थमेवाङ्गीकृत्य उक्तवचनव्याख्यानमभिप्रैति। यथोक्तम् -
पितृद्विट्पतितष्षण्डो यश्च स्यादपयात्रितः। औरसा अपि नैतेशं लभेरेन् क्षेत्रजास्ततः॥ अपयात्रितः राजद्रोहाद्यपराधेन बंधुभिर्घटस्फोटादिना बहिष्कृत इति मदनः। व्यवसायार्थं समुद्रमध्ये द्वीपान्तरंगन्ता इति युक्तम्। ‘द्विजस्यब्धौ तु नौयातुः शोधितस्थापि संग्रहः’ इति तस्य कलौसंसर्गनिषेधात, राजद्रोहादौ घटस्फोटबहिष्कारयोरविधानाच्च इति। अत्र व्यवसायार्थम् इत्यंशः तृन्प्रत्ययेनैव लक्ष्यः, नान्यथेति स्कुटमेव॥ तदेवमत्र निर्णयः -
ताच्छील्यरूपमापन्नं यानमेत्र निषिध्यते।
मनुबोधायनादीनां वचनेष्विति गृह्यताम् ॥ १ ॥
अस्मिन्नर्थेसाधकश्च मानवः प्रत्ययो णिनिः। अन्यथा श्रुतिलिंगादिबाधश्च बहुधोद्भवेत्॥ ईदृक् समुद्रयानं तु यःकरोति कलौ द्विजः। प्रायश्चित्ते कृतेप्येष नैव संसर्गमर्हति। द्विजस्येत्यादिवचनमित्थंकथयति स्फुटम्। प्राचीनानां व्याकृतेश्च न्यायाच्चेति सतां मतम् ॥
न खल्वेतावता स्वैराचादिभिराधुनिकैस्समुद्रयानावसरे क्रिय-
माणानि अस्पृश्यस्पर्शाभक्ष्यभक्षणादीनि निषिद्धकरणानि संध्यादि लोपरूपाणि कृत्याकरणानि च शास्त्रीयतया शास्त्रेणानुमम्यन्त इति भ्रमितव्यम्; तेषु तेषु निषेधविषयताया दुर्निवारत्वात्। न खलु वसिष्ठपाण्डवविक्रमादित्यादयः तथाविधनिषिद्धकरणादिकं कुर्वन्त एव समुद्रयानमकार्षुः - इति कुत्रचन दृष्टं श्रुतं वा॥ कल्पनायां च तथैव कल्पयितुं शक्यमुचितं च।यथेतरैश्शास्त्रैर्विरोधो न प्रसरेत्। न चात्रानुपपन्नं नाम किंचिदस्ति, येनान्यथैव कल्प्येत। ये तु पुनः विहिताकरणं निषिद्धकरणं च सर्वथैवोज्ज्ञन्ति दैवायत्तयोस्संभवे चानुतप्यन्ति, अथ च जातानुतापाःतन्निमित्तानि प्रायश्चित्तानि मुख्यान्यनुकल्पानि वा यथास्वीकारमनुतिष्ठन्ति। अथवा मिलतानां सर्वेषामेवदुरितानां अपनोदकमेव विज्ञानेश्वरादिप्रदर्शितं षडब्दकृच्छ्ररूपं प्रायश्चित्तं साशीतिशत प्राजापत्यपर्यवसितं साशीतिशतगोदानादि-प्रत्याम्नायनिर्वर्त्यमनुतिष्ठन्ति, अनुष्ठितप्रायश्चित्ताश्च न पुनरीदृशेषु दुरितेषु प्रसजन्ति, त एव “जुगुप्सेरन् न च प्येनं संवसेयुश्च सर्वशः” इति वचनानुसारिभिः श्रोत्रियैरनुग्राह्याइति धर्मशास्त्ररहस्यविदां पन्थाः - इति ॥
[उक्तप्रबन्धसमालोचनम्] अदसीयस्सारांशो ह्यत्र संगृहीतोऽयमेव -
ताच्छील्यरूपमापन्नं यानमेव निषिध्यते।
मनुबोधायनादीनां वचनेष्विति गृह्यताम्॥
अस्मिन्नर्थे साधकश्च मानवः प्रत्ययो णिनिः।
अन्यथा श्रुतिलिङ्गादिबाधश्च बहुधोद्भवेत्॥
ईदृक्समुद्रयानं तु यः करोति कलौ द्विजः।
प्रायश्चित्ते कृतेऽप्येष नैव संसर्गमर्हति॥
द्विजस्येत्यादिवचनमित्थं कथयति स्फुटम्।
प्राचीनानां व्याकृतेश्च न्यायाच्चेति सन्तां मतम् ॥ इति ॥
अत्रेदमेवालोचनीयम् - ताच्छील्यरूपापन्नत्वं नाम समुद्रयानस्य अभ्यस्यमानत्वमेव।अभ्यासश्चेकं दिनं संपूर्णमनुष्ठीयमानत्वेऽपि संपद्यते। तदुक्तं मिताक्षरायाम् - कथं पुनरत्राभ्यासाववागमः ? उच्यते; यत्करोत्येकरात्रेणेतिअत्यन्तसंयोगवाचिन्यास्तृतीया या निर्देशात्। एकरात्रेणात्यन्तसंयोगो गमनस्याभ्यासं विनाऽनुपपन्न इति गमनाभ्यासोऽवगम्यते। अत एव - एकरात्रात् बहुकालाभ्यासविषयं प्रागुक्तं द्वादशवर्षादिगुरुतल्पव्रतातिदेशिकं मरणान्तिकं चेति। अत्र यद्यपि न समुद्रयानं प्रक्रान्तम्, एवमपि एकरात्रानुष्ठानमभ्यास इति तु प्रकृतोपयुक्तमेव। तदत्रेदमेव निष्कर्षणीयम् - यत् कियद्दिनमनुष्ठानं पातित्यप्रयोजकमिति ? तदत्र ‘मासं कारागृहेवासो नौभिर्यानं दिनत्रयम्। म्लेच्छावासस्तथापक्षं यो वर्तेत, स पातकी’ ति वचनात् दिनत्रयमभ्यस्यमानमत्यन्तमेव पातकित्वप्रयोजकमिति गम्यते। एतेन वसिष्ठादिसमुद्रगमनमपि व्याख्यातम्। तथाच दिनत्रयव्यापकसमुद्रयानपरमेव - “द्विजस्याब्धौतु” इत्यादिवचनमित्यवचनसिद्धमेव। नहि दिनत्रव्यापकसमुद्रयानं समुद्रयानसामान्य विशेषो न भवतीति छागपशुन्यायोत्रसंभवत्येव। एतेन - तुग्रो ह भुज्युमश्विनोदमेधे रयिं न कश्चित् ममृवां अवाहः। तमूहथुर्नौभिरात्मन्वतीभिः। अन्तरिक्षप्रुद्भिरपोदकाभिः।तिस्रः क्षपास्त्रिरहा व्रजद्भिरिति” इत्यादिमन्त्रलिङ्गमपि व्याख्यातम्। अनेनापि हि त्रिरात्रमेव समुद्रयानं प्रकाश्यते। तथाचोक्तमन्त्रलिङ्गानुसारेणापि त्रिरात्राधिकमभ्यसनं पातित्यप्रयोजकमित्यङ्गीकारे न दोषः। यत्तु – ‘मासं कारागृहे वासः, इति दिनत्रयं समुद्रयानस्य पातित्यप्रयोजकत्वं वर्णितम्, तत्र काय-
कृच्छ्रानुष्ठानप्रयोजकं नित्यकर्मलोपाद्यसमवहितमेव विवक्ष्यते इति कायकृच्छ्राणां यावत्संख्याकानामावृत्या चतुर्विंशतिवर्षप्रायश्चित्तम्, तावत्तत्प्रयोजकसमुद्रयानस्य केवलस्यापि अव्यवहार्यत्वप्रयोजकत्वं कृतेऽपि प्रायश्चित्ते इति केचित् मन्यन्ते। एतन्मतरीत्या तु अभक्ष्यभक्षणादिकं म्लेच्छावासादिकं विना च दिनत्रयं समुद्रयानेनाव्यवहार्यत्वमिति भवति। सत्तरणितरणिकारा अपि कामतः विहितकर्मत्यागादिस्वेच्छया शास्त्राविश्वासेन च नौयायिनामसंव्यवहार्यत्वमेव मन्यन्ते। अयं भावः – दैवायत्तयोर्विहिताकरण निषिद्धकरणयोर्जातानुतापानां प्रायश्चित्तेन व्यवहारव्यवस्थापनं युक्तम्। तथाच यदि एकदिनार्थं दिनद्वयार्थं वा समुद्रयाने प्रसक्तेऽकस्माद्वाताहननादिना बहुकालपर्यन्तमभ्यासे कर्तव्ये, निषिद्धभक्षणादौ च कर्तव्ये समापतिते सत्यं प्रायश्चित्तेन यौनादिसम्बन्धव्यवस्थानं योग्यम्, नहि तावता, पितृकर्मादिकमप्यपरिगणय्य बहुकालाभ्यासंभाविनमपि कर्तव्यतया विनिश्चित्य द्वीपान्तरं प्रति गच्छतामपि संव्यवहार्यता व्यवस्थापयितुं शक्यते। यत्तु पाण्डवादीनां समुद्रयानादिकं पुराणेतिहासादितोऽवगम्यते तत्र कियद्दिनमभ्यास इत्यत्र विहितकर्मादिकं तैर्न कृतमित्यत्र प्रमाणाभावान्नोक्तसिद्धान्तविरोधि। एतेन – अब्ध्याजीवी न संग्राह्यः इति वचनमपि - व्याख्यातम्। अनेन हि जीवनार्थमेकरात्रं समुद्रयानमपि निषिद्धमित्येवगम्यते। एवंच - “समुद्रसंयानम् इत्यत्र समुपसर्गबलेन बोधायनेन जीवनार्थं समुद्रयानमेव विवक्षितमिति पक्षोपि व्याख्यातः। अस्मिन्नपि पक्षे यदि – मासं कारागृहे वासो नौभिर्यानं दिनत्रयमित्यनेनैकवाक्यता नोरीक्रियते, भिन्नविषयत्वात् तर्हि तु न विप्रतिपत्तिलेशोऽपि। यदितूपसंहारादि-
नैकवाक्यता स्वीक्रियते, तर्हि तु अस्त्येव विचारणीयम् किंचित् उपसंहारन्यायो हि सामान्यविशेषयोरेवास्पष्टयोः, न तु विशेषयोः स्पष्टयोः । इदानीं तु प्रायेण सर्वेऽपि स्वस्यजीविकाविशेषार्थंवैयक्तिकप्रतिष्ठाविशेषार्थमेव द्वीपान्तरं वाच्छन्ति । नहि तादृशी कापि राजाज्ञाऽद्ययावत्सं जाता, - विना द्वीपान्तरगमनं दण्डो भविष्यतीति। तथा व द्विजानामेव समुद्रयायिनां कृतप्रायश्चित्तानामव्यवहार्यत्वनिषेधात्, व्रात्यानां स्वकर्मभ्रष्टानां एवं सच्छूद्राणां चबहूनां भारतवर्षे विद्यमानत्वात्, तेषामेव द्वीपान्तरगमनेन कृतप्रायश्चित्तानां स्वसमाजे व्यवहारस्सर्वोऽपि यथावदेव भवितुमर्हति, न ब्राह्मणानामविच्छन्नोपनयनादि-संप्रदायानामित्येव प्रतिभाति। अधिकचात्र निर्णेयंधर्मतत्वमर्मज्ञानांपण्डितप्रवराणामेवाधीनम्।अत्र विषये - ? श्रीश्रृङ्गगिरिपीठप्रकाशितोऽब्धियाननिर्णयः, एवमन्ये च बहवः प्रबन्धाः संस्कृत चन्द्रिकादिषु प्रकाशिता वर्तन्त इति विस्तरभयादत्रैवायं विषयः समाप्यते।
सर्वथा तु ‘कामतो व्यवहार्यस्तु ? इत्यत्र व्यवहार्य इति पदविभागेऽपिन पतितानां संव्यवहारसिद्धिभवति । यत्तु -
एनस्विभिरनिर्णिक्तैर्नार्थं कञ्चित्समाचरेत्।
कृतनिर्णेजनांश्चैव न जुगुप्सेत कर्हिचित्॥ इति॥
मन्वादिवचनम्, तत्रापि कृतप्रायश्चित्तानां न जुगुप्सनीयत्वम्,अकृतप्रायश्चित्तानान्तु सर्वविधव्यवहारायोग्यत्वञ्च यदुपवर्णितम्, तदिदं कृतप्रायश्चित्तानां सहासनादिलघुव्यवहारयोगमेव गमयति। सहासनादीनामपि परित्यागेन खलु जुगुप्सा गम्यते, तु विवाहाद्यकरणेन।
[ विवाहेऽन्तरविभागयोग्यतापरीक्षम् ] अस्माकं भारतीयानां हि ब्राह्मणेषु वैश्येषु शूद्रेषु चबहवो विभागाइदानीमपि वर्तन्ते यत्र परस्परं सहासनादिसम्बन्धेसत्यपि विवाहाद्यकरणेऽपि जुगुप्सा क्रियमाणाऽनुभूयते। कुमारिलपादा हि - न स्वस्त्रीणां क्वचिब्द्यभिचारदर्शनात्सर्वत्रैव कल्पना युक्तालोकविरुद्धानुमानासम्भवात्। विशिष्टेन हि प्रयत्नेन महाकुलीनाःपरिरक्षन्त्यात्मानमनेनैव हेतुना। राजभिर्ब्राह्मणौश्च स्वपितृपितामहादिपरम्परास्मरणार्थं समूहलेख्यानि प्रवर्तितानि तथा व प्रतिकुलं गुणदोषस्मरणात्तदनुकूलात्स्वपितृपितामहादिपरम्परासु यत्र विवाहसम्बन्धो वर्तते, तत्रैव तत्रैव विवाहसम्बन्धकरणं योग्यमिति सूचयन्ति। अत्र प्रसंगे ब्राह्मणेष्वेव विभागविशेषाणामपि इदानीमनुभूयमानानां प्रामाणिकत्वमवश्यं निरूपणीयमिति तदर्थं बालभट्टीस्थानि कानिचन वाक्यानि संगृह्णीमः। तद्यथा -
“किञ्च चरणव्यूहारव्यपरिशिष्टभाष्येस्पष्टं वेदशाखयो र्विभाग उक्तः। तथाहि - इतरदेशेषु वेदशाखद्योर्विभाग उच्यते । तथा च महार्णवे -
पृथिव्या मध्यरेखा या नर्मदा परिकीर्तिता।
दक्षिणोत्तयोर्भागे शाखा वेदश्च उच्यते॥
नर्मदा दक्षिणेभागे आपस्तम्ब्याश्वलायनी।
राणायनी पिप्पलादी यज्ञकन्याविभागिनः ॥
माध्यन्दिनी शांख्यायनी कोथुमी शौनकी तथा।
नर्मदोत्तरभागे च यज्ञकन्याविभागिनः ॥
तुङ्गा कृष्णा तथा गोदा सह्याद्रिशिखरावधि।
आ आन्ध्रदेशपर्यन्तं बव्हृचस्याश्वलायनी॥
उत्तरे गुर्जरे देशे वेदो बब्हृक्प्रकीर्तितः।
कौषीतकी ब्राह्मणञ्च शाखा शांखायनी स्थिता॥
आन्ध्रदिदक्षिणाग्नेयी गोदासागर आवधि।
यजुर्वेदस्तैत्तिरीया आपस्तम्बी प्रकीर्तिता॥
सह्याद्रिपर्वतारम्भा दिशा नैर्ऋत्यसागरात्।
हिरण्यकेशीशाखा च पशुर्रामस्य सन्निधौ॥
मयूरपर्वताच्चैव यावद्गुर्जरदेशतः।
व्याप्तावायव्यदेशात्तुमैत्रायणी प्रतिष्ठिता॥
अङ्गवङ्गकलिङ्गाश्च कानीनो गुर्जरस्तथा।
वाजसनेयी शाखा च माध्यन्दिनी प्रतिष्ठिता॥
ऋषिणा याज्ञवल्क्येन सर्वदेशेषु विस्तृता।
वाजसनेयी वेदस्य प्रथमा कण्वसंज्ञिका॥ इति॥
तथा च यद्देशवासित्वेन येषां यथाऽनुष्ठानमुक्तम् तेषां देशान्तरगमनेऽपि तथैवानुष्ठानम्। अन्यथा रण्डत्वप्रयुक्तप्रायश्चित्तापत्तिः। न चैषां निर्मूलत्वमिति वाच्यम्; महार्णवस्योपलभ्यमानत्वात्।संवाद्याचारस्य तथैवोपलभ्यमानत्वाच्चेति दिक्। इति ॥
अत्र हि नर्मदोत्तरभागे ये वर्तन्ते, ये च नर्मदादक्षिणभागे वर्तन्ते, तेषां विवाहादिसम्बन्धो न युक्त इति स्पष्टं विवेचयित्वा नर्मदादक्षिणभागेऽपि तैत्तिरीयशाखावलम्बिनामाश्वलायनशाखावलम्बिनाञ्च पृथक्करणेन तेषामपि विवाहादिसम्बन्धायोगः प्रतिपाद्यमानो विरुद्धतत्तच्छाखाबलम्बिनां परस्परं विवाहायोगं गमयति। अत्र चापस्तम्बशाखीयानामाश्वालायनशाखीयैने विरोधः । उभयोरपि भिन्नवेदस्थत्वात्। एतेन -सामगा अपि - व्याख्याताः।
प्रतिवेदं हि बव्हीनां शाखानामवस्थानाद्येषां यच्छाखीयत्वं परम्परावगतम्, सा शाखायत्र वेदे वर्तते, तत्रैव भवति, तर्हि तेषां परस्परविवाहायोगोऽविवादसिद्ध एव। एवञ्च दक्षिणात्येष्वान्ध्राणां केषाञ्चन वाजसनेयिनां द्राविडैरापस्तम्ब-शाखीयैर्विवाहो न योग्य इति सिद्धम्।उत्तरदेशीयानां बब्हृचानां दक्षिणदेशीयानां बब्हृ
चानां च परस्परविवाहस्तु स्पष्टमेव वचनेनैव निषिद्धः।आपस्तम्बीयानामेवान्ध्राणां द्राविडानां महाराष्ट्रीयाणाञ्च परस्परविवाहस्तु नायोग्यः । यतः स सम्प्रदायो बहोः कालादारभ्य प्रचलति। ये तु पुनः द्राविडेष्वान्ध्रेषु गुर्जरेषु वंगीयेषु कानीनेष्वन्येषु च बहवो विभागाः, यत्र परस्परं विवाहसम्बन्ध इदानीमपि नास्ति न योग्य इति च बहूनां वाद इदानीं वर्तते; ते तु विवाहांगतया कुलपरीक्षा या कर्तव्या वर्तते; तदर्थं कल्पिताः पूर्वतनैरिति पश्यामः। न ह्यादित आरभ्य कुलपरीक्षा सर्वैरपि कर्तुं शक्यत इति यत्र परस्परं विवाहो बहोः कालादारभ्य प्रवृत्त असीत्, तेषां नामविशेषादिना व्यवस्था कृतेति मन्तव्यम्। कुमारिलपादा हि स्त्रीणां व्यभिचारशङ्का मा भूदिति समूहलेख्यं प्रवर्तितमिति तन्त्रवार्तिके वदन्ति। स्त्रीणां हि व्यभिचारबुद्धौ स्वपतेर्विवाहयोग्यकुलीनत्वमप्येकंनिमित्तम्। अतः समुचितं यत्र स्वपितृमातृवंशयोरन्यतरस्य सम्बन्धोऽनादिकालमारभ्य प्रचलितः, तत्कुलमेव विवाहार्थं ग्रहणीयमिति। ग्रामादिभेदेन द्राविडादीनां विभागोऽपि ( वडम, बृहच्चरण, अष्टसहस्रम् ) इत्यादिर्योग्य एव। अतो यावच्छक्ति यत्र पूर्वतनानां सम्बन्धः कयाचन परम्परया बहोः -कालादारभ्य प्रचलति तत्कुलमेव विवाहार्थं स्वीकर्तव्यमिति विभागान्तरीयाणां स्वीये विभागे कन्यायावरस्य वाऽला-
भेऽपि विभागान्तरीयकन्यादिस्वीकारार्थं प्रवृत्तिरनुचितैवेति सिद्धम्। अतिप्रयत्नेनापि स्वीये विभागे वरालाभवादास्तु साहसमात्रनिबन्धना वैतण्डिकाश्चेति वयं सुधीरं वदामः।
[विवाहेऽवान्तरविभागायोगमतम्] अत्र केचिन्मन्यन्ते -यत् ब्राह्मणादीनामवान्तरविभागेषु मिथो यौनसम्बन्धो न शास्त्रविरुद्धः। यतः सर्वेऽपि ब्राह्मणादय एकस्य कस्यचनर्षेश्चन्द्रादेर्वा वंशजाताः, महर्षिषु च सर्वेषु न कश्चिदुच्चनीचभावः। तत् येष्ववान्तरविभागेषु जलपानभोजनादिविभागः प्रचलति, तेषु यौनः सम्बन्धो योग्यःशास्त्राविरुद्धश्च। अयं भावः – “यज्ञकन्याविभागिनः” इति वचनानुसारेण यज्ञादौ येषां सहसम्बन्धो योग्यस्तेषां यौनसम्बन्धेऽपि सहयोगो योग्य इत्यूरीकर्तव्यम् इति।
[उक्तमतसमालोचनम्] तत्र केषांञ्चन यज्ञ सम्बन्धमात्रम्; केषाञ्चन यज्ञयौनोभयसम्बन्ध इति कल्पने वैरूप्यकल्पनापेक्षया हि सर्वेषां सर्वसम्बन्धकरणं योग्यमिति यद्येषामाशयस्तर्हीदं विचारणीयम् कथं क्षत्रियाणामपि ब्राह्मणैर्यौनसम्बन्धो न भवतीति। अतोऽत्रावश्यमिदमुरीकर्तव्यम् - यत् कन्यासम्बन्धो यज्ञसम्बन्धश्च साधारणतया न कल्पयितुंयुज्यते। किन्तु अवान्तरविभागमादायैव। तथा च यथा श्राद्धादौ अवरणीयानां न यौनसम्बन्धयोग्यता, एवमवान्तरविभागेष्वपि न सर्वथा तद्योग्यता। अत एव विवाहाङ्गं कुलपरीक्षणमुपपद्यते। नहि ब्राह्मण्यादिपरीक्षणं कुलपरीक्षणं नाम।अवान्तरविभागो ह्ययं विवाह एव सर्वत्र परिपाल्यते नान्यत्र।तत्र सगोत्रायाः सपिण्डाया दोषान्तरदूषितायाश्च यथा ब्राह्मणत्वादिसाम्येऽपि न विवाहयोग्यता, एवमवान्तरविभागविशेषबहिर्भूताया अपि न तद्योग्यता। अस्य चावान्तरविभागपरिपालनस्य
कुलपरीक्षायां विशेषत उपयोगः।इममुपयोगमभिप्रेत्यैव कुमारिलपादाअपि स्त्रीरक्षणार्थं समूहलेख्यं प्रवर्तितमिति विवेचयन्ति ।
*[अवान्तरजातिविभागस्य संघटनोपायत्वम् ]*विवाहेऽवान्तरविभागपरिपालनस्यादृष्टं फलं भवतु वा मा वा। दृष्टं तु फलं समाजसंघटनं वर्तत एव। समाजसंघटनं हि समाजावयवानां नियन्त्रणं विना न संभवति। तच्च बहूनामवान्तरविभागानां प्रतिसमाजं कल्पनेन तत्र समाजान्तरीयैः साकं विवाहभोजनादिसम्बन्धायोग्यताव्यवस्थापनेन चैव भवति, नान्यथा। इदानीं हि बहवः समाजान्तरेणापि यौनसम्बन्धादिकरणेन न केवलं स्वीयसमाजोल्लंघनेन स्वीयं समाजमेव विघटयन्ति, किन्तु समाजान्तरमपीत्यवान्तरविभागपरिपालनं हि नितरामेव योग्यम्। वानरा अपि हि ग्रामान्तरीयवानरैः साकं न यौनसम्बन्धं कुर्वन्ति।प्रत्यक्षमिदं तिरुपतिप्रभृतिषु देशेषु। तत्र गोपुरान्तरवर्तिभिर्वानरैर्गोपुरान्तरवर्तिनो वानरा व्यवहारमपि न कुर्वते। तथा च समाजसंघटनं यथाभिलषितम्, तहि अन्ततो गत्वा विवाहमात्रेऽवान्तरविभागपरिपालनमेव योग्यम्। इदानीं हि समाजान्तरबहिष्कृतस्य समाजान्तरेणावलम्बदानात् विवाहादिसम्बन्धकरणेन सर्वेऽपि प्रायेण स्वपितरमपि तृणाय मन्यन्त इति विवाहेऽवान्तरविभागपरिपालने दृष्टं प्रयोजनमेकं वर्तत एव। दृश्यतां सर्वैरपि माहेश्वरजातिषु तज्जातीयस्यैकस्य वैश्यत्वेन समाजकोलवारजातिसम्बन्धकरणेन कीदृशं शैथिल्यं सञ्जातम्। अत्र समाजान्तरीयैरवलम्बो यदि न दत्तः स्यात्,वयं पश्यामः -तर्हि पुनरपि समाजिकदण्डपरवशतां प्राप्य समाजशैथिल्यनिदानतां न कथमपि धनिकोऽपि शक्तोऽपि प्रबलोऽपि वा स प्राप्स्यति । तथा च विवाहेऽवान्तरविभागपरि-
त्यागेन बहूनि द्वाराणि संकराय प्रवर्तितानि भवेयुः। इदानीमेकर्षिवंश्यत्वेन ब्राह्मणानामन्तरम्, द्विजत्वेन त्रैवर्णिकानां ततो वर्णत्वेन ब्रह्मक्षत्रविट्छूद्राणाम्, अथ मानवत्वेन सर्वजातीनाम्, अर्थेस्त्रीत्वेन पुरुषत्वेन च सर्वेषां यौनसम्बन्ध इति कल्पनेन हि सर्व स्वतन्त्रो भवितेति समाजशैथिल्यमपरिहरणीयां दशामेवाप्नुयादिति विवाहेऽवान्तरविभाग-परिपालनमत्यावश्यकमेव।
[अवान्तरविभागस्यशास्त्राविरुद्धत्वम्] अत्रान्यथाकरणे शास्त्रविरोधो वर्तते वा न वेतिविचारे त्वस्माकमिदमेव वक्तव्यम् -यदनादिसिद्धाचाराख्यशास्त्रविरोधो वर्तत इति सर्वविदितमिदम्। अन्यथाहि विचारविषयतैव न स्यात्। ततश्च -
शिलापुण्ड्रंच सूत्रं न समयाचारमेव च।
पूर्वैराचरितं कुर्यादन्यथा पतितोभवेत्॥
इति स्मरणेन -
देशजातिकुलाचारधर्माः सम्यक् प्रकीर्तिताः।
तथैव ते पालनीया धर्मः प्रक्षुभ्यतेऽन्यथा॥
इति वचनानुसारेण चावान्तरविभागपरिपालनं यौनसम्बन्धेऽत्यन्तमेवोचितम्। अधिकं चात्र वक्तव्यं पूर्वमेव विवेचितम्।
अत्रेयंविचारत्रयी - यत्तु केचिदेकपङ्क्तिभोजनवतां मिथःकन्यासम्बन्धो योग्य इति वाचाटाः, किमत्र न्याय्यम्? एकपङ्क्ति भोजनेन मिथःकन्या सम्बन्धः, उत कन्यासम्बन्धाभावात् पङ्क्तिविच्छेदः? पश्यतु भवान्, एकपङ्किभोजनवत्सु पशुपक्ष्यादिषु किं मिथः शरीरसम्बन्धः ? अहो यत्पशुभिरपि समानजातिः प्रार्थ्यते, मनुष्यैरपि विस्मर्यते। तस्मादिदमत्र न्याय्यम् - कन्यासम्बन्धाभावात् पङ्क्तिविच्छेद इति। “यथा कन्या तथा हविः” इति
वचनं चात्रानुकूलम्। मिथः पङ्किव्यवहारे जातिविस्मरणप्रसङ्गात्, जातिविस्मृतौ मिथःकन्यासम्बन्धप्रसङ्गात् अश्वतरादिवद्वैरूप्यप्रसङ्गात् सन्ततिविच्छेदापत्तिप्रसङ्गात् संकरजातेरन्यस्या एवाङ्गीकार प्रसङ्गात्। तस्मात्प्राचीनं व्यवहारं समूलं संस्मृत्य स्थापयतु भवान् येन बुद्धेःसाफल्यं स्यात्। किं नास्ति त्वन्निकटे तादृशस्तर्कोयेन प्राचीनव्यवहारः समञ्जसो दृश्येत। येन भवत्पूर्वजा नन्देयुः। एतत्सर्वेऽपि जानन्ति - यदन्तरङ्गजनतोषणं बहिरङ्गजनपोषणं नवीनजनशिक्षणं प्राचीनपथवर्तनं पथ्यमिति। नवीनमार्गः पारं गमिष्यतीति न निश्चयः। यतः परोक्ष उत्तरो देशोऽनन्तः। अतो नवीनेनापि बुद्धिमता प्राचीनः पन्था रक्ष्योयथाबलम्, तत्रैव लाघवात्। इति।
*[ सहासनादिवर्जनस्यजगुप्सानिदानत्वम् ]*तथा च विवाहासम्बन्धो न जुगुप्सानिदानम्। किन्तु सहासनादिवर्जनमेवेति ‘न जुगुप्सेत कर्हिचित्’ इत्यनेनापि वचनेन विवाहादिगुरुतरसम्बन्धयोग्यता न गम्यते। व्यक्तञ्चैतन्मिताक्षरायाम्-
चरितव्रत आयातेनिनयेरन्नवं घटम्।
जुगुप्सेरन्न चाप्येनं संवसेयुश्च सर्वशः ॥ २९६ ॥
इति श्लोके प्रायश्चित्तप्रकरण उपपादितम्। तद्यथाः - ‘तत एनं कृतप्रायश्चित्तम् ते नैव कुत्सयेयुः। तथा सर्वकार्येषु क्रयविक्रयादिषु तेन सह संव्यवहरेयुः’ इति। अत्र हि स्पष्टमेव संव्यवहारपदेन क्रयविक्रयादिलघुतरसम्बन्ध एव विवक्ष्यत इति सर्वविदितमिदम्। तथा चैनस्विभिरितिवचनानुसारेणापि कृतप्रायश्चित्तानां सर्वथा व्यवहार्यत्वं न साधयितुं शक्यत इति सिद्धम्। अथ यथावसरमुक्तश्लोकव्याख्यावसरे कुल्लूकभट्टादिभिः किं वा निरूपित-
मिति समालोचनमरचयामः। तत्र कुल्लूकभट्टः - पापकारिभिरकृतप्रायश्चित्तैः सह दानप्रतिग्रहादिकमर्थं कञ्चित् नानुतिष्ठेत् कृतप्रायश्चित्तान् नैव कदाचिदपि पूर्वकृतपापत्वेन निन्देत्। किन्तु पूर्ववद्व्यवहारेत् - इति। मेधातिथिः- एनस्विनः प्रकृतत्वात्पातकिनः। तैरनिर्णिक्तैरशुद्धैरकृतप्रायश्चित्तैनार्थं कञ्चित् ऋणदानक्रयविक्रययाजनाद्युक्तम्। निर्णेजनं पापापनोदनं तस्मिन् कृते नैनान् जुगुप्सेत कृतप्रायश्चित्तान्नकुत्सयेत् - इति। अत्र कुल्लूकभट्टे पूर्ववद्व्यवहरेदित्यनेनैकगृहनिवासादियोग एव विवक्ष्यते, न तु विवाहादियोगोऽपि। अत एवानन्तरश्लोकस्य बालघ्नांश्चेत्यस्यावतरणावसरेऽस्यापवादमाहेति वर्णितमुपपद्यते। अत्र हि श्लोके संवासः, संवत्सरं स्वसमीपे वासनम्, संवासःसङ्गतिस्तद्गृहनिवासः, तैः सह पानादिकरणम्, इति सर्वज्ञनारायणमेधातिथिराघवानन्दैर्विवृतम्। कुल्लूकभट्टेनतु संसर्गमात्रमिति विवृतम्। तथाच स्वसमीपे वाऽऽसनादिलघुतरसंसर्गाभ्यनुज्ञान एवपूर्वतनश्लोकतात्पर्यमूरीकर्तव्यम्। अन्यथा दानप्रतिग्रहादिमात्रार्हत्वप्रतिपादने तदपवादत्वमुत्तरश्लोकस्य वर्णितमसङ्गतं स्यात्। यत्तु कुल्लूकभट्टेनपूर्वतनश्लोके दानप्रतिग्रहादिकमिति विवृतम्, तत् पापिसामान्याभिप्रायेण। तदयं निष्कर्षः - यत् पातित्यानापादकं पातित्यापादकञ्चेति पापं द्विविधम्। तत्राद्येन दानप्रतिग्रहादिमात्रानधिकारः। द्वितीये तु सम्भाषणादीनामपि अनधिकार इति विवेकः। तत्र कुल्लूकभट्टैः- एनस्विभिरित्युक्त्यापापसामान्यमेनः - पदेन विवक्षित्वा दानप्रतिग्रहानधिकार इति विवृतम्। सर्वज्ञनारायणमेधातिथिराघवानन्दादिभिस्तु यैः सहासनादिकमपि निषिध्यते, तैः कृतप्रायश्चित्तानां सहासनादिमात्रं विवक्ष्यते, न तु
धर्मकार्यसहयोगित्वमपीति बहूनामेतदभिमतम्।ये तु केचन पतितोद्धारमीमांसावलम्बेन पतितानां कृतप्रायश्चित्तानां पुनः सर्वात्मना व्यवहारयोग्यतामभिमन्यन्ते, तेऽपि पूर्वोक्तेन प्रकारेण दत्तोत्तरा इत्यत्र तु न विशयलेशोऽपि। एवमपि बहूनां प्रियपाठकानां सन्तोषार्थं श्रीमदप्पशास्त्रिमहोदयानां संस्कृतचन्द्रिकागतं पतितोद्धारमीमांसाखण्डनप्रकरणमपि संग्रहीतुमभिलषन्तोऽपि वयं ग्रन्थविस्तरभयात् शास्त्रिमहोदयानामप्यव्यवहार्यत्वपक्ष एव सम्मत इत्येतावन्मात्रसूचनाय तदाशयबोधकानि कानिचन वाक्यान्येव सङ्गृण्हीमः। तद्यथाः -
“ननु विद्यत एव कामकृतेऽपि पातके प्रायश्चित्तम्
“अकामतः कृते पापे प्रायश्चित्तं न विद्यते ।
कामकारकृतेऽप्येके प्राहुस्तच्छ्र, तिदर्शनात्” ॥
[संस्कृतचन्द्रिकासंग्रहः।] इति मनूक्तेः। “अकामकृतपापानां ब्रुवन्ति ब्राह्मणाव्रतम्। कामकारकृतेऽप्येके द्विजानां वृषलस्य च” इति जाबालिवचनाच्च। श्रुतिश्च - इन्द्रो यतीञ् शालावृकेभ्यः प्रायच्छत्।तमश्लीला वागभ्यवदत्। स प्रजापतिमुपाधावत्। तस्मा इन्द्रायोपहव्यं प्रायच्छत्। इति। अश्लीला निष्ठुरा। अत्र इन्द्राय बुद्धिपूर्वकं श्वभ्यो यतीन् खादयितुं दत्तवते प्रजापतिरुपहव्याख्यं कर्म प्रायश्चित्तं दत्तवानित्युक्तम्। अतश्च प्रतीयते कामकृतेऽपि पातके प्रायश्चित्तमिति ।भगवतश्चेन्द्रस्याव्यवहार्यतायाः कुत्राप्यदृष्टत्वाच्च व्यवहार्यत्वमपि प्रकृतपातकिनो दुर्वारमिति चेदत्र ब्रूमः।न किल वयं कामकृतेऽपि पातके आत्यन्तिकं प्रायश्चित्ताभावं ब्रूमः, स्वीकुर्मोहि कियन्तं कालं प्रायश्चित्तार्हत्वमप्येतस्य। व्यवहार्यतामात्रन्तु प्रतिषेधामः। न चै-
वं शकस्यापि कामकृतपातकविशिष्टस्याव्यवहार्यत्वमावश्यकम् तच्च न दृष्टमिति व्यवहार्यत्वमप्यवश्यमभ्यु-पगगन्तव्यमिति वाच्यम्। अशेषपुण्यराशेः श्रीमहेन्द्रदेवस्य देवत्वादेव प्रायश्चित्तमन्तरापि व्यवहार्यतासिद्धेः। न हि प्रचण्डकरमण्डलस्य तमोविनिहत्यै प्रदीपिकासाहाय्यापेक्षा।लोकशिक्षार्थन्तु प्रायश्चित्ताचरणम्। मानुषाणान्तु कामकृतेऽपि प्रायश्चित्तसत्त्वं तदपि कियन्तमेव कालमिति शास्त्रानुसारी राद्धान्तः। अत एव - प्रायश्चितैरपैत्येनो यदज्ञानकृतं भवेत्। कामतो व्यवहार्यस्तु वचनादिह जायते - इति याज्ञवल्क्यवचने कामत इत्यतः परमकारप्रश्लेषात्कृतेऽपि प्रायश्चित्ते न व्यवहार्यः कामकृतपातकीति शूलपाणिप्रभृतयःप्राहुः। न च निर्मूलमेवेदमिति वाच्यम्; ‘नास्यास्मिंल्लोके प्रत्यासत्तिर्विद्यते कल्मषन्तु विहन्यते’ इत्यापस्तम्बस्मरणात्। अस्य कामकृतपातकविशिष्टस्य कल्मषं विहन्यते। लोके प्रत्यासत्तिर्व्यवहार्यता तु न विद्यत इत्यर्थः। ये तु याज्ञवल्क्यवचनेऽकारप्रश्लेषमननुमन्यमाना व्यवहार्यतामपि कामकृतपातकिनां प्राहुस्तेषामपि मते स्पर्शनदर्शनादिलघुव्यवहारार्हत्वमिति बोध्यम्। अत एव ‘प्रायश्चित्तैरपैत्येनः’ इति याज्ञवल्क्यपद्ये शूलपाणिः - ननुसति पापे कथं व्यवहार्यता। अत्राह वचनादिति। अयमभिप्रायः - अर्धप्रायश्चित्तानुष्ठानेनार्धपापक्षयात्स-म्भाषणदर्शनस्पर्शनादिव्यवहारो न दुष्टः। न तु भोजनपरिणयनादिव्यवहारोऽपि; वचनादेव। अकारप्रश्लेषपक्षमेव तु भूयांसोऽनुमन्यन्ते। यथा रघुनन्दनभट्टाचार्याः- ज्ञाने तत्तुल्यतया द्विगुणव्रताचरणेऽपि न व्यवहार्यः। ‘प्रायश्चित्तैरपैत्येनः’ इति याज्ञवल्क्यवचनात्। पापाभावे कथमव्यवहार्यं इत्याह वचनादेवेति। तथा चोक्तं – किं
मिव हि वचनं न कुर्यान्नास्ति वचनस्यातिभारः- इति। पापस्य द्वेशक्ती नरकोत्पादिका व्यवहारनिरोधिकाचेति। तत्रैकतरशक्तिविनाशे व्यवहारनिरोधिका शक्तिरस्तीति भावः। तथा च मिताक्षरायामापस्तम्बः -नास्यास्मिंल्लोके प्रत्यासत्तिर्विद्यते कल्मषन्तु विहन्यते - इति। प्रायश्चित्तकदम्बे श्रीगोपालन्यायपञ्चानना अपि - म्लेच्छश्च -गोमांसखदको यस्तु विरुद्धं बहु भाषते सर्वाचारविहीनश्च म्लेच्छ इत्यभिधीयते - इति बौधायनोक्तः। तत्र यवनदेशोद्भवा यवना इति। अज्ञानादिति। ज्ञाने तु तत्तुल्यतया द्विगुणव्रताचरणेऽपि न व्यवहार्यः। ‘कामतोऽव्यवहार्यस्तु वचनादिह जायते’ इति याज्ञवल्क्यात्। पापाभावे कथमव्यवहार्यत्वमित्यत आह वचनादिति। पापस्य द्वेशक्ती नरकोत्पादिका व्यवहारनिरोधिका च। तत्र प्रायश्चित्तेन नरकोत्पादिकायाः शक्तेर्विरहेऽपि व्यवहारनिरोधिका शक्तिरस्त्येवेति भाव इत्याहुः। श्रीशूलपाणिचरणा अप्यन्तत इदमेव सिद्धान्तयामासुः। एवञ्च कृतप्रायश्चित्तोऽपि प्रकृतः पातकी न व्यवहार्य इत्यनिच्छताप्यवश्यं स्वीकरणीयं मीमांसकम्मन्यैरित्यहो भक्षितेऽपि लशुने न प्रशान्तो व्याधिः। नन्वेवं ‘कृतनिर्णेजनांश्चैव न जुगुप्सेत कर्हिचित्’ इति मनुटीकायां यदुक्तं कुल्लूकेन -कृतप्रायश्चित्तान्नैव कदाचित्पूर्वकृतपापत्वेन निन्देत्, किन्तु पूर्ववद्व्यवहरेदिति, तस्य का गतिरितिचेत्तदुक्तव्यवहारपदस्य स्पर्शनादिलघुव्यवहारपरत्वमेवेति ब्रूमः। नन्वेवं “बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः। शरणागतहन्तृंश्च स्त्रीहन्तृंश्च न संवसेत्” इति मनोः परिगणनं न संगच्छेत।कामतः कृते पातके सर्वेषामपि कृतप्रायश्चित्तानामव्यवहार्यत्वात्। अत्रोच्यते -न हि लघुपातकानां प्रायश्चित्ताचरणतः प-
रिक्षये तत्कर्तृणामव्यवहार्यत्वम्। अत एव च बालघ्नादीनामपि न तथात्वं प्राप्नोतीतिचरितार्थ एव बालघ्नानित्यपूर्वो विधिरिति। प्रकृतपातकिनो गुरुतरपापविशिष्टत्वं तथा प्रागेव निरणैष्म। ब्रह्मघ्नादीनां संव्यवहार्यत्वे श्रीमदप्यदीक्षिता एव प्रमाणमिति तु प्रलापमात्रम्।अनाप्तजनवदनविहारिणामिह वृक्षे यक्ष इत्यादिसदृशानां निर्मूलप्रायाणां वचसां प्रामाण्यानङ्गीकारात्।
यत्तु यवनीपरिणेतुर्जगन्नाथस्य श्रीगङ्गास्नानतः पूतत्वमिति, तदेतन्न मीमांसकम्मन्यस्य मतसाधनायालम्।ऐतिह्ये ह्येतस्मिन् गङ्गाप्रसादतः स्वर्गारोहणमेवोपवर्ण्यते जगन्नाथस्य न तु लोके संव्यवहार्यत्वमिति। एतच्चारव्यायिकाया अस्याःप्रमाण्याङ्गीकार पक्षानुसारेणोक्तम्। वस्तुतस्तु गगनकुसुमायमानैवेयं किंवदन्तीति पण्डितवराः श्रीजगन्नाथाः’ इतिशीर्षके प्रबन्धे सप्रमाणमेव प्रतिपादितमस्माभिरिति दिक” इति॥
एतेन - असवर्णाविवाहोऽपि -व्याख्यातः। विवाह्यकन्यानिरूपणप्रस्तावे हि मन्वादय एवं वदन्ति, यत् -
[ असवर्णाविवाहपरीक्षा ]
गुरुणाऽनुमतः स्नात्वा समावृत्तो यथाविधि।
उद्वहेत द्विजो भार्यां सवर्णांलक्षणान्विताम्॥
असपिण्डाच या मातुरसगोत्रा च या पितुः।
सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने॥ २॥
इति। अत्र “दारकर्मणि मैथुने” इति पदाभ्यां धर्मप्रजोभयसंपत्तियोग्यपत्नीत्वे सवर्णादिरूपाया एवाधिकारः, न त्वन्यस्या इति सूच्यते॥ अत एव -
सवर्णाग्रेद्विजातीनां प्रशस्ता दारकर्मणि।
कामतस्तु प्रवृत्तानामिमाः स्युः क्रमशोऽवराः॥
इति कामार्थत्वमेवासवर्णानां निरूपितम्। अत्र चाग्रे प्रश
स्ताया एव विवाहः कर्तव्य इत्यपि गम्यते। एवं च पर्युदस्यमाना
नामपरासां सर्वासामपि कामार्थविवाहमात्रयोग्यतेति स्पष्टमवगम्यते
। अत्र पर्युदस्यमानानां यासां सर्वदृष्ट्यादुष्टत्वम्, तासां
संस्कारमात्रेण काममात्राधिकारः, यथा नक्षत्रनाम्न्यादीनाम्। स
पि
ण्डत्वादिकन्तु न सर्वदृष्ट्याकन्यादोषः ? किन्तु केषाञ्चन
दृ
ष्ट्येति तेषां धर्माधिकारोऽपि वर्तत इति विवेकः। तत्र कामार्थवि
वाहोऽपि कलावसवर्णाविषये निषिद्धः। युगान्तरेऽपि शूद्राविवा
हो ब्रह्मक्षत्रविशां न योग्य इति त याज्ञवल्क्याचार्यो मन्यते।
तद्यथा -
यदुच्यते द्विजातीनां शूद्राद्दारोपसंग्रहः।
नैतन्मम मतं यस्मात्तत्रायं जायते स्वयम्॥
इति। अत्रेयं बालक्रीडा -
“श्रोत्रियाणां महाकुलादिति शूद्राविवाहो न प्राप्नोति। इष्यते च कैश्चित्। तत्राचार्यः स्वमतमुपन्यस्यति स्म।
यदुच्यते द्विजातीनां शूद्रा द्दारोपसंग्रहः।
न तन्मम मतं यस्मात्तत्रायं जायते स्वयम्॥
‘कृष्णवर्णीयारामा रमणायैवोपेयत "
इति ब्राह्मणवादः। न च विदुषां कामार्थे प्रवृत्तिर्युक्ता। अतःशूद्राविवाहो न कर्तव्य इत्यतदेव स्पष्टीकरोति हेतुना - यस्मात्तत्रायं जायते स्वयमिति। तथा बव्हृचाः पठन्ति -
पतिर्जायां प्रविशति गर्भो भूत्वा स मातरम्।
तस्यां पुनर्नवो भूत्वा दशमे मासि जायते॥
इति। अतो नैतन्ममाभिप्रेतम्”॥
इदमेवाभिप्रेत्योक्तं कलिवर्ज्यप्रकरणे-
कन्यानामसवर्णानां विवाहश्च द्विजातिभिः॥ इति ।
[उपसंहारः] एवं बहुस्मृतिपर्यालोचनया पतितसंसर्गिणो दोषाभावकथनं पातित्याभावपरम।तस्मात्संसर्गिणः कलियुगेऽपिपापमेवेति सुष्ठुक्तम्॥
तदत्र विस्तरभयादुपरमन्तो वयमिदमेव सूचयामः - यत् अश्पृश्यतायां हि सजातीयानां मध्ये अशौचादिकं गमकम्,भिन्नजातीयानान्तु भिन्नजातीयत्वं संकरत्वम्। तत्र भिन्नजातीयत्वेसंल्लापनिश्वाससहासनादिकं न विरुद्धम्, सहभोजनादिकं परं विरुद्धम्, संकरजातित्वेऽपि अनुलोमसंकराणां परस्परं शूद्रैस्तैश्च सहासनादिकं न विरुद्धम्, किन्तु एकासनादिकं विरुद्धम्, प्रतिलोमसंकराणां तु परस्परमेकासनादिकं विरुद्धम्, सहासनादिकं तु न विरुद्धम्। भिन्नजातीयानान्तु सहासनादिकमपि तैः सह विरुद्धम्। तत्रेदानीमस्माकमालोचनीया अन्त्यजाः प्रतिलोमसंकरजातय एव, यैः साकं सहासनादिकमपि न बहोः कालादारभ्य प्रचलति। तत्र प्रतिलोमसंकराःचातुर्वर्ण्यप्रकाशे विवेचिता एव। एतेषां चोत्पत्तिप्रकारादिकं सर्व चातुर्वर्ण्यप्रकाश एव विवेचितमस्ति। इदानीं तु अस्माकमत्रेदमेव निरूपणीयम् - यदेतेषामन्त्यजानां स्पर्शः शास्त्रनिषिद्धो वा न वा ? यदि निषिद्धः तर्हि कथं वा तैर्व्यवहारः कर्तव्य इति च। अत्र व्यवहारो हि शास्त्रनिषिद्धेऽपि स्पर्शे चण्डालैः ऋणदानादानादिरूपो न योग्य इति मनुनैव विवेचितमस्ति। यथायोगं धर्माविरोधेन परम्परया तैर्व्यवहारस्तु योग्य एव । यदि तु समीपे तेन सम्भाषणमपि कार्यवशेन सम्पादनीयम्। एवमपि वयं स्नानादिकं प्रायश्चित्तमेव
कर्तव्यं मन्यामहे। तदयं विशेषः प्राचीननवीनमतयोः -यत्प्राचीनाः स्पर्शास्पर्शे स्नानं कर्तव्यमिति वदन्ति, न तु स्पर्शमपि कर्तव्यमिति। नवीनास्तु स्पर्शं कर्तव्यमिति तथा स्नानादिकं न कर्तव्यमिति च मन्यते। एवं पूर्वोक्तप्रकारेण पतितानां तत्पुत्राणाञ्च कृतप्रायश्चित्तानामपि न स्वपूर्वतनजातिप्रवेशयोग्यता। पतितकन्यातत्प्रपौत्रयोस्तु कृतप्रायश्चित्तयोः वृद्धप्रपितामहजातिप्रवेशयोग्यता। तत्रापि किञ्चिदूनसंवत्सरमध्ये कृतप्रायश्चित्तानां पतितानामपि स्वपूर्वजातिप्रवेशयोग्यता।वत्सरचतुष्टयमध्य एव कृतप्रायश्चित्तानां पतितानां स्वधर्माधिकारमात्रमपि, तदधिकसंवत्सरं यावन्म्लेच्छादिसंसर्गिणान्तु न स्वधर्माधिकारोऽपि। केवलसहासनादिमात्रेकृते विंशतिसंवत्सरमध्येऽपि स्वजातिप्रवेशयोग्यता। यदि देवलस्मृतिरपि मुद्रापिता प्रमाणम्। तदनन्तरन्तु सहवासमात्रेऽपि प्रायश्चित्तानधिकारः। सम्वत्सरादूर्ध्वंकृतप्रायश्चित्तानां विवाहादिगुरुतरसंसर्गस्य स्वजातीयैः साकमेवौचित्यमित्याद्येव पूर्वोक्तं शास्त्रतात्पर्यविषय इति न केवलं संघटनं हिन्दुसंख्याधिक्यं सर्वञ्चाभीप्सितम् पूर्वोक्तव्यवस्थोरीकरणे सिध्यति, किन्तु हिन्दुधर्मगौरवमपि रक्षितं स्यादिति प्रतिभात्यस्माकम्। इतः परन्तु शास्त्रतत्त्वज्ञाः पण्डितशिरोमणय एव प्रमाणमिति प्रकृतमिमं लेखमत्रैवसमापयाम - इति शम् ॥
इति श्रीसन्तोजीमहाराजादिचाल्यमानसनातन-
धर्मोज्जीविनीसभाङ्गभूतग्रन्थप्रणयनसमिति-
सम्पादिते सनातनधर्मप्रदीपे शुद्धि-
प्रकाशः समाप्तः ॥
॥ श्रीः ॥
॥श्रीमहागणपतये नमः॥
॥श्रीविट्ठलेशाय नमः॥
॥श्रीगुरुभ्यो नमः॥
<MISSING_FIG href=”../books_images/U-IMG-1694269287Screenshot2023-09-09195115.png”/>
-
“गोदोहन इत्यादिकं वचनं हि हिन्दुसभापण्डितपरिषदि गिरिधरशर्मप्रभृतिभिश्चण्डालस्पर्शस्यादोषतायां गमकतयोपन्यस्तम्, परन्तु वाक्यशेषे ‘चण्डोलपरिग्रहे तु’ इत्यस्य पर्यालोचनं यदि क्रियते, तहि चण्डालेतरस्पर्शादोषत्वमेव तत्र विवक्ष्यतइति गम्यत इति सर्वविदितमिदम् ॥ एतेनात्रिस्मृतिगतं—देवयात्राविवाहेषु यज्ञ प्रकरणेषु च । उत्सुवेषु च सर्वेषु स्पृष्टास्पृष्टिर्न विद्यते (२४५ ↩︎