[[सापिण्ड्यकल्पलतिका Source: EB]]
[
[TABLE]
Saleable at half of the printed price.
[TABLE]
उपोद्धातः।
अथैष प्रकाश्यते सापडकल्पलतिकानाम धर्मशास्त्रीयो निबन्ध आपदेवापरपर्यायसदाशिव-देवकृतिस्तत्पौत्र-नारायणदेवकृतवृत्तिसहितो मुद्रापयित्वा। अद्यत्वे खलु प्रवर्तमाने ग्रन्थसंमुद्रणप्रचारे सर्वत एवैतन्नयनपथगोचरतामुपैति यद्विरल एव तादृशो ग्रन्थः समुद्रितो, यः किल स्वल्पयाऽपि भूमिकयाऽनलङ्कृतः स्यादिति। वस्तुतो विचार्यमाणेऽपि समन्ततः प्रबन्धेन निरूप्यमाणा एतावन्तो विषया अत्र विद्यन्त इति समासेन सम्पूर्णग्रन्थप्रतिपाद्यमानविषयावगमात् समुचितैवेयमुपोद्धातादिलेखनशैली। न केवलमेतावतैवभूमिकाया आवश्यकत्वमपितु ग्रन्थकर्तृसमयादिनिरूपणेन प्रासङ्गिकत्वमपि। पूर्वे किल सूरयः प्रायः स्वीयग्रन्थेषु स्वकीयनामग्रामसमयादिसम्बन्धमनिर्दिशन्त आत्मानं गोपायित्वा परेषामुपकारं कर्तुं प्रायतन्त।
अस्तु नामैतत् साम्प्रतं ग्रन्थादिकमालोचयामः— सापिण्ड्यकल्पलतिकेति ग्रन्थनाम्ना सापिण्ड्यविषयकयावत्पदार्थ-मीमांसनमत्र निर्दिष्टम्। तत्र च एकशरीरावयवान्वयित्वरूपसापिण्ड्यपदार्थविवेचनपुरस्कारेण तद्गतसकलसपिण्डसम्बन्धं तद्वत्स्वनेकेषामविवाह्यत्वं प्रसङ्गतो नैकपण्डितजनग्रन्थपर्यालोचनं तद्युक्तायुक्तविचारणं च प्रादर्शयत् सोऽयं वृत्तिकारःसदाशिवदेवपौत्रो नारायणदेवः स्वपितामहकृतप्रबन्धव्याख्यानेन।
ग्रन्थकारस्तु पञ्चविंशत्या पद्यानां समपूपुरद्विषयममुम्। प्रथमं तावाशिष्टाचारपरम्पराप्राप्तं देवतागुरुनमस्कारात्मकं मङ्गलं विधाय स्वनाम ग्रन्थनाम च निरूण्य प्रयोजनं प्रतिपाद्य मुख्यविषयं सापिण्ड्यं प्रदिदर्शयिषुस्तद्वर्ता भेदादिज्ञानाय प्रसङ्गतश्छन्दः शास्त्रीयप्रस्तारादिषट्प्रत्ययान् नवभिः पद्यैः सविस्तरं न्यरूपयत् ।
ततश्च कूटस्थपुरुषेण सह चतुःषष्टिमिताऽष्टाष्टकभेदेषु कि यदवधिसापिण्ड्यं विवाहादिप्रयोजनं भवति तदन्वयिभिः, कस्कश्च केनकेन सह कथंकथं सापिण्ड्यवान् कुत्रकुत्र च तन्निवृत्तिस्ततश्च कासां कासामविवाह्यस्वम्, अन्यगोत्रीयसापिण्ड्यसम्बन्धश्च कैः सहेति सर्वे सङ्क्षेपेण स्पष्टमभिहितवान्। तच्च वृत्तिकारः स्वपितामहाशयं पितृपरम्परया गुरुपरम्परया वा सम्यग्विज्ञाय व्याकृतवान् किञ्च पितृकुले साप्तपौरुषी सपिण्डता सप्रमाणाऽप्रमाणा वेति, मातृवंशे च कियत्पर्यन्तं साऽनुस्यूतेति च प्रतिपादयन् वधूवरयोः मातापितरावारभ्य क्रमेण पञ्चत्वे सप्तत्वे च सापिण्ड्यनिवृत्तिमुक्तवान्। तत्रैव पक्षे गौतमशङ्खयाज्ञवल्क्यचतुर्विंशतिमतादीनामानुकूल्यं शूलपाणिदेवलमाधवमदनरत्नविज्ञानेश्वरवसिष्ठादिवच नैगौतमस्मृतिवृत्तिकृतो हरदत्तस्योक्त्या च समर्थितवान्। तत्र च विप्रतिपद्यमानेषु महाभाष्यादिविरोधं च सभ्यगुदभावयत्। तेनैव च क्रमेणाऽसगोत्रत्वादिकमपि प्रासङ्गिकमुल्लिख्य सापिण्ड्यस्यैकतो निवृत्तावन्यतोऽपि निवृत्तिरियादिकं च वर्णयामास । द्वैतनिर्णयादिग्रन्थविरोधात् दाक्षिणात्यानामत्रिप्रतिपनं व्यवहारं च प्रकाशयत् । यत्तु विष्णुपुराणीयवचनं ‘पञ्चमी मातृपक्षात्तु’
अथ चाऽयं सापिण्डयकल्पलताकारः सदाशिवदेवः कुत्रत्यः किंसमयकश्चेति तावद्विचार्यते - अस्य पूर्वजास्तु पूर्वं ‘देउलगांव’ इति प्रसिद्धे देवालयपुरे न्यवसन्निति तदीयग्रन्थान्ते वर्तमानात्’देवालयपुरावासिदेवश्रीपतिजन्मनः। आपदेवस्य ग्रन्थोऽयं जगज्जानातु तत्वतः॥’ इति पद्यादवसीयते। तथाच ग्रन्थान्ते नीलकण्ठ इत्यमुष्य पितामहस्य नाम समुपलभ्यते
अस्य पुत्रो रामकृष्णदेवः स्वनिर्मितायां रत्नप्रकाशिकाख्यायां वृत्तरत्नाकरव्याख्याय स्ववंशपरम्पराप्रकाशनसमये देवोपाव्हमत्रिगोत्रसमुत्पन्नं नीलकण्ठदेवसूरिपौत्रं श्रीपतिदेवपौत्रं सदाशिवदेवपुत्रं स्वात्मानं निरदिक्षत्। प्रायः श्रीपतिदेवो ग्रन्थकर्तृसदाशिवदेवपिता ग्रन्थकर्ता वा वाराणसीमाजगामेत्यनुमीयते। वृत्तिकर्ता च नारायणदेवो रामकृष्णस्य सूनुरिति वृत्तिसमाप्तितः स्पष्टं प्रतीयते। इत्थं चाऽनयोः प्रवन्धवृत्तिकृतोर्वंशवृक्षः समुन्नेतुं शक्यते—
नलिकण्ठः
।
श्रीपतिः
।
सदा शिवः (आपदेवः) श्रीविट्ठलशिष्यः
।
रामकृष्णः
।
नारायणः - श्रीनागेश भट्टशिष्यः
एतावता स्पष्टमिदं यत् - पूर्वस्मिन् समये कुलमिदं देवा-
लयपुरावासि, परं नागेशभट्टस्य समये वाराणसीमध्यवसत्। अन्यथा वृत्तिकृत् पित्रा नागेशभट्टस्याऽन्तिकेऽध्ययनार्थं कथङ्कारं नियोजितः स्यात्। सर्वदैव प्रायः प्रसिद्धस्य विदुषः समीपे स्वीयान् पुत्रानध्ययनार्थं प्रेषयन्ति बुद्धिमन्तः। अथचैतद्वंशीया अत्रिगोत्रोत्पन्ना देवोपनामानो दाक्षिणात्या इत्यपिनाऽविदितं मीमांसकानां पुरस्तात्। उभयोरनयोर्वृत्तिप्रबन्धरचयित्रोरेकवंशीयत्वेन सहैव समयनिर्णयः प्रस्तूयते। अस्माकमादर्शपुस्तकान्तर्गतमेकं पुस्तकं १७४० शाकीयं दुर्गोपनामकवासुदेवात्मजबालकृष्ण शर्मलिखितं वर्तते। यच्च पायगुण्डोपाव्हवैद्यनाथतनूजनिबालकृष्णेन गुरोर्देवोपाख्वस्याऽऽज्ञया विलिख्य गुरुचरणसमर्पितात् पुस्तकात् प्रतिलिपीकृतम्। प्रतिलिपिकालश्च १७४० शकाब्दः, सच १३५संख्यया सङ्कलितः १८७५ मितो वैक्रमाब्दो भवति। ततश्च तस्मात्प्राचीनावेवप्रकृतेऽभिमतौ प्रणेताराविति तु निर्विवादम्। किञ्च१७१४ वैक्रमवत्सरीये धर्मशास्त्रीय व्यवस्थापत्रे काशीस्थानां गागाभट्टप्रभृति सर्वजातीयप्रधानपण्डितानां सम्मतिसूचकानि हस्ताक्षराणि सन्ति; यत्र तदानीं प्रसिद्धिमप्राप्तस्य प्रसिद्धविदुषः श्रीनागेशभट्टस्य हस्ताक्षराणि न सन्ति, अपितु तद्गुरोः श्रीरामरामभट्टाचार्यस्य वर्तन्ते। रामसिंहवर्मणश्च राजकीया राजती मुद्रा १७४० विक्रमवत्सरीया वरकलवैद्यनाथशास्त्रिणः समीपस्थाऽस्माभिर्दृष्टपूर्वेति ततो लब्धजीविकस्य श्रीनागेशभट्टस्य समयोऽष्टादशशताद्व्या मध्यो निर्णेतुं पार्यते। ततस्तदधिगतविद्यस्य प्रकृतप्रबन्धवृत्तिप्रणेतुर्नारायणदेवस्य कालस्तु ततः किश्चिदर्वाचीन इति सोऽपि वैक्रमीयाष्टादशशताब्दीक एवेति न विरुद्धम्। एष एव नागेशभट्टस्य समयोऽस्मन्मित्रश्रीबटुकनाथशर्मभिः त्रिवेणिकाया आङ्ग्लभूमिकायां निरूपितः। वृत्तिकृता च व्याख्यायां प्रसङ्गतो नरहरिसप्तर्षिसंज्ञस्य कस्यचिद्विदुषो नामोदलेखि, यश्च तद्वंशीयेन सह विचारावसरे सप्तदशशताब्दीक एवानुमितोऽभूत्। अतश्च सप्तदशशताब्द्युत्तरमष्टाद- शशताब्द्यामयं वृत्तिकृत् नारायणदेव आसीदिति स्पष्टमेव। ततश्च तत्पितुः श्रीरामकृष्णदेवस्य पिता सदाशिवदेवः प्रकृतप्रबन्धनिर्माता सप्तदशशताब्द्या अन्तिमभागस्थ इति सुगममेव। अस्य सदाशिवदेवस्य ‘आपदेव’ इति द्वितीयं नाम ‘मीमांसान्यायप्रकाश’ कर्तुरनन्तदेवपुत्रस्याऽऽपदेवस्य भ्रान्तिकदाचिज्जनयेदिति ततोऽयमन्य इति निर्देशकरणं युक्तमेवेत्युत्पश्यामः। अफ्रेरूटमहाशयनिर्मिते सूचीपत्राणां सूचीपत्रे द्वितीयभागे (Aufrecht’s Catalogus catalogurum Part II) सदाशिवदेवनाम्ना ‘मनोरञ्जनलीलावतीटीका’ ख्योऽप्येको ग्रन्थः समुपलभ्यते। तदेतञ्चेति पुस्तकद्वयं विहाय नाऽन्यदद्यावधि पुस्तकमेतस्य, वृत्तिं विहाय वृत्तिकृतश्च समुपलब्धमिति न तद्विषये किमप्यधिकं वक्तुं शक्यमिति विरम्यते।
एतत्पुस्तकमुद्रणाय काशिकराजकीयसंस्कृत विद्यालयप्रधानाध्यक्षैः श्रीगोपीनाथकविराजमहोदयैः समादिष्टोऽनुमोदितश्चसरस्वतीभवनपुस्तकालयाध्यक्षमित्रवरश्रीनारायणशास्त्रिभिः,सत्रत्येन प्रायोऽशुद्धेन पुस्तकत्रयेण मुद्रणकार्यमात्मना
॥ श्रीः ॥
कतिपयेषां पारिभाषिकशब्दानां समूच्यर्थनिरूपणम् ।
<MISSING_FIG href="../books_images/U-IMG-1709610923Screenshot(43"/>.png)
| पङ्किः | शब्दाः | अर्थाः |
| २ | सापिण्ड्यस्य= | साक्षात् परम्परया वा समानारम्भकत्वेन एकशरीरावयवा- न्वायित्वस्य |
| ४ | कपूनाम्= | ग्रन्थकृत्सङ्केतानुसारेण क्रमशः कन्यापुत्राणां लघुगुरूणां च |
| १२ | तोकान् = | तोकानि, अपत्यानि कन्याः पुत्राश्चेति |
| १२ | कूटस्थपुंसा = | मूलपुरुषेण |
| १४ | अष्टकानि= | अष्टसंख्या परिच्छेद समूहरूपाणि |
.
<MISSING_FIG href="../books_images/U-IMG-1709610743Screenshot(42"/>.png)
॥ श्रीः ॥
विपयसूची.
| विषयाः |
| १ मङ्गलाचरणम् |
| २ ग्रन्थारम्भः |
| ३ अनुबन्धचतुष्टयनिरूपणम् |
| ४ सापिण्ड्यवतां भेदादिज्ञानोपायकथनम् |
| ५ प्रस्तारस्वरूपनिरूपणम् |
| ६ नष्टस्वरूपनिय त्यम् |
| ७ उद्दिष्टम्वरूपनिरूपणम् |
| ८ एकव्द्यादिकपु(लग) क्रियावर्णनम् |
| ९ सं+ऽध्वनोः स्वरूपकथनम् |
| १० मूलपुरुषादष्टावष्टकानि,तेषु चत्वारि समानि तदितराण्यसमानीति भेदानां चतुःषष्टित्वम् |
| ११समानां शुद्धत्वं, असमानां विषमसमत्वं तदितरेषां विषमत्वमेव |
| १२ तृतीयसप्तमयोर्विषमसमत्वं, प्रथमपञ्चमयोर्विषमत्वं, द्वितीयचतुर्थषष्ठाष्टमाणां समत्वम् |
| १३ सापिण्ड्यसम्बन्धप्रदर्शनं,मात्स्योक्तस्यैकपिण्डक्रियान्वयिस्वरूपस्य सापिण्ड्यस्या- ऽव्याप्त्यादिदोषवत्त्वेन खण्डनं च |
| १४ साप्तपौरुपसापिण्ड्ये प्रमाणं, मातृवंशे च तस्य व्याप्तिप्रामाण्यम् |
| विषयाः |
| १५ प्रस्तारान्तर्गतेषु विषमसमसंज्ञकेषु अष्टाष्टकेषु पञ्चमोत्तरंषष्ठादारभ्य पाणिग्रहः सर्वसंमतः |
| १६ अष्टकेषु द्वितीयभेदादौ क्वापि कन्योत्पत्तौ सापिण्ड्यनिवृत्तिः |
| १७ द्वितीयादिषु क्वापि कन्यानुत्पत्तौ सप्तमान्तं सापिण्ड्यस्थितिः |
| १८ षष्ठे निवृत्तस्यापि सापिण्ड्यस्य सप्तमे प्रवृत्तिरेकदेशीमतेन |
| १९ पित्रादिबन्धुत्रये सप्तमात् मात्रादिबन्धुत्रये पञ्चमात् सापिण्ड्यनिवृत्तिरिति सिद्धान्तोक्तिः |
| २० अन्यगोत्रसापिण्ड्यविचारे सापत्नमातामहवंशे कृत्रिमदत्तकादिपुत्रवंशे च पुरुषत्र- योत्तरं सापिण्ड्यनिवृत्तिः, प्रसङ्गाद्दत्तकदानविचारश्च |
| २१ असापिण्डयेऽपि पितृव्यभार्याभगिनीतद्दुहित्रोर्मातुलीभगिनीतद्दुहित्रोर्ज्येष्ठभ्रातृ भायभागिन्या मातृष्वसृसपत्नीकन्यायाः श्यालिकातद्दुहित्रोश्च पाणिग्रहो न संमतः, क्वचिदेशभेदात् कुलाचाराद्वा तृतीये चतुर्थे वा विवाहस्येष्टता |
| २२ ग्रन्थप्रमाणपरिसंख्यानं, तस्य च लोकोपकारित्वं प्रदर्श्य तत्समाप्तिसूचनम् |
| २३ ग्रन्थकर्तुः सामान्य परिचयः |
<MISSING_FIG href="../books_images/U-IMG-1709611574Screenshot(44"/>.png)
॥ श्रीः ॥
आपदेवापरपर्यायसदाशिवदेवविरचिता
सापिण्ड्यकल्पलतिका
नारायणदेवकृतया वृत्त्या सहिता
<MISSING_FIG href="../books_images/U-IMG-1709537418Untitled4_र्थ_मार्च-removebg-preview.png"/>
नागेश्वरं गुरुं नत्वा देवनारायणः सुधीः।
सापिण्ड्यकल्पलतिकां व्याचष्टे प्राक्तनोदिताम्॥ १॥
प्रारीप्सितग्रन्थसमाप्तिप्रतिबन्धकदुरितशमनाय क्रियमाणस्वेष्टदेवतानत्यात्मकं मङ्गलं शिष्यशिक्षायै व्याख्यातृश्रोतणामनुषङ्गतो मङ्गलाय च निबध्नंश्चिकीर्षितं प्रतिजानीते—
श्रीमद्गजाननषडाननयुक्शिवौच
श्रीविट्ठलं निजगुरुं गुरुमेव नत्वा॥
सापिण्ड्यकल्पलतिकां तनुते विचित्रां
देवः सदाशिव इमां शिशुबोधनाय॥ १ ॥
श्रीमदिति। श्रीः सरस्वती बुद्ध्यादिर्वा, गजाननस्यैव श्रीमत्त्वं विशेषणम्। यद्वा श्रीःशोभाविशेषड्गुणैश्वर्यं वा। विशिष्टविशेषणं श्रीमत्त्वम्, श्रीमन्च तौ गणेशस्कन्दाभ्यां युक् सम्पदादित्वाद्भावे क्विप+योगःसम्बन्धो ययौस्तौ च तो शिवौच पार्वतीपरमेश्वरौ - इति। श्रीमान् विष्णुः स च गजाननश्च षडाननश्च तैर्युगित्यादि पूर्ववदिति कश्चित्।1 चः श्रीविट्ठलपदोत्तरं योज्यः। गुरुमेव बृहस्पतिमेव। एवोऽभेदरूपद्यो+कः। निजगुरुं स्वीयगुरुम्। निजपदंस्पष्टार्थं, सम्बन्धि+ब्दत्वादेव तल्लाभत्वात्। यद्वा ममैव स गुरुर्नान्यस्यो सूचनाय तत्। यद्वास्वाभाविकगुरुं सर्वोपदेष्टारमि+यावत्। यद्वातात्त्विकगुरुं परमार्थगुरुमिति यावत्। श्रीविट्ठलं च श्रिया युक्तं विट्ठलं च नत्वा। देवः देवोपाख्यः सदाशिवस्तदाख्यः। भाविन्या अपि बुद्ध्या विषयीकरणात् इमामिति निर्देशः, तेन ग्रन्थकरणे क्लेशाभावःसुचितः। अथचेमां बुद्धिस्थां विचित्रां विलक्षणां छन्दः. शास्त्रप्रतिपाद्यदुरूहप्रस्तारादिज्ञानस्याऽपि इतोऽनाय
सेन प्रसङ्गेन जायमानत्वात्। एतेन प्राचीनग्रन्थैरगतार्थता सूचिता। सापिण्ड्यकल्पलतिकां सापिण्ड्यस्य समानः एकः मुख्यः पिण्डःदेह आरम्भको यस्यायस्यवा सा सपिण्डा स सपिण्डस्तद्भावस्तस्य साक्षात्परम्परया वा एकशरीरावयवान्वयित्वस्येति यावत्। रूढ्या च नातिप्रसङ्ग इति विज्ञानेश्वरः। कल्पलतिकेवकल्पलतिका ताम्। वाञ्छितार्थदातृत्वेन तंत्सादृश्यबोधनादुपमालङ्कारो व्यङ्ग्यः। कल्पलतिकात्वोल्लेखेन यस्यैत्सम्बन्धि यद्यदिष्टं तत्सर्वमितः सुलभमिति सूचितम्। तनुते विस्तारयति नतु करोति, उक्तयुक्तेः2। नन्वस्यावैलक्षण्येऽपि एतत्प्रतिपाद्यस्य द्वयस्य ग्रन्थान्तरतोऽपिज्ञानसम्भवात् किमर्थमियमत आह शिश्विति। तथाच तेषां भिन्नत्वात् दुरूहत्वाच्च न तेषां ततस्तज्ज्ञान सम्भव इति न वैयर्थ्यमस्याः। अत्र सापिण्ड्यकल्पलतिकेत्यनेन सापिण्ड्यं विषयः, तज्ज्ञानं प्रयोजनं, तज्जिज्ञासुरधिकारीत्यादि सूचितम्॥ १ ॥
तत्र तावत् सापिण्डयवतां भेदादीन् वक्तुं तज्ज्ञानोपायानाह—
प्रस्तारोऽग्रे नष्टमुद्दिष्टसंज्ञ-
मेकद्वित्र्यादिक्रिया स्यात् कपूनाम्॥
संख्याध्वानौ प्रत्ययाः स्युः षडेते
सूत्राण्येषां सिद्धयेऽथो ब्रवीमि॥ २॥
प्रस्तारोऽग्रे इति। अत्र कपुशब्दों लघुगुर्वोः कन्यापुत्रयोश्च ग्रन्थकृदभिमतसङ्केतकावित्यर्थवत्त्वेन प्रातिपदिकत्वात् सुबुत्पत्तौ बहुवचनान्तानां द्वन्द्वः। एवमग्रे सर्वत्र बोध्यम्। प्रकारान्तरं तु क्लिष्टमित्युपेक्षितम्। अग्रे आदौ कपूनां कन्यानां पुरुषाणां च प्रस्तारः,नष्टम्, उद्दिष्टसंज्ञम्, एकद्वित्र्यादिक्रिया स्यादित्यस्य प्रत्येकं सम्बन्धः ।संख्याऽध्यानौ संख्या च अध्वा च तौ स्यातामिति वचनविपरिणामः। अत्रोत्तरस्य पूर्वपूर्वसापेक्षत्वात् क्रमेण निर्देशः, तत्रापि नष्टादीनां प्रस्तारज्ञानमूलकत्वादादौ तन्निर्देशः। अत एव अग्रे इत्युक्तिः सफला। विभागादेव षट्त्वे लब्धे षडित्युक्तिर्न्यृनाधिकसंख्याव्यवच्छेदाय। तथाचैते षडेव प्रत्ययाः स्युः। प्रतीयते ज्ञायते संख्यादिकमेभिस्ते प्रत्ययाः। यद्वा प्रत्ययो विश्वासोऽस्ति येषां ते प्रत्ययाः। अर्शआद्यच्। प्रस्तारादिना हि सर्वभदादिज्ञाने सति वक्ष्यमाणं सम्यगिति विश्वासो भवति। अथो अथ। एषां प्रस्तारादीनां सिद्धये ज्ञानाय सूत्राणि सूचकानि तत्स्वरूपबोधकानि पद्यानि ब्रवीमि॥ २॥
तत्रोद्देशक्रमानुरोधेनाऽऽदौ प्रस्तारमाह—
षट्वावाद्यात्कं लिखेत्पोरधस्ता-
च्छेषं यद्वच्चोपरिष्टात्तथैव॥
ऊने दद्यादत्र पूनेव भूयः
प्रस्तारः स्यात्सर्वकस्तावदेवम्॥ ३॥
षट्पावाद्यादिति। षट् पवो गुरवः पुत्राश्च प्रमाणं यस्येति तद्धितार्थे द्विगुः। मात्रचो ‘द्विगोर्नित्य’मिति लुक्। बहुव्रीहिर्वा। सर्वथा समूहो वाच्यः। षट्त्वंच मूलपुरुषं विहाय बोध्यम्। सापिण्डयस्य साप्तपौरुषत्वात्। अत एवषडक्षरप्रस्तारस्यैवोपयोग इति षट्पावित्येवो-
रगणस्तृतीयः ३
| मू | पु. | पु. | पु. | पु. | पु. | क. |
| मू | क. | पु. | पु. | पु. | पु. | क. |
| मू | पु. | क. | पु. | पु. | पु. | क. |
| मू | क. | क. | पु. | पु. | पु. | क. |
| मू | पु. | पु. | क. | पु. | पु. | क. |
| मू | क. | पु. | क. | पु. | पु. | क. |
| मू | पु. | क. | क. | पु. | पु. | क. |
| मू | क. | क. | क. | पु. | पु. | क. |
**सगणश्चतुर्थः ४ **
| मू | पु. | पु. | पु. | क. | पु. | क. |
| मू | क. | पु. | पु. | क. | पु. | क. |
| मू | पु. | क. | पु. | क. | पु. | क. |
| मू | क. | क. | पु. | क. | पु. | क. |
| मू | पु. | पु. | क. | क. | पु. | क. |
| मू | क. | पु. | क. | क. | पु. | क. |
| मू | पु. | क. | क. | क. | पु. | क. |
| मू | क. | क. | क. | क. | पु. | क. |
क्तम्। षट्पुस्तस्मिन् उपरितनपंक्तौ लिखिते सति आद्यात्प्रथमात् पोर्गुरोः पुत्राच्चाऽधस्तादधोभागेऽधस्तनपंक्तौकं लघुं कन्यां च लिखेत्। यद्वत् यथा उपरिष्टादुपरितनपंक्तौ तथैव। एवो वैलक्षण्यव्यवच्छेदाय। अधस्तादित्यस्य मध्यमणिन्यायेनाऽत्रापि सम्बन्धः। अधस्तनपंक्तौ च व्युत्क्रमे शेषं वाऽवशिष्टं प्वादिकम् ।लिखेदित्यस्यानुषङ्गः। यत्रोपरि पुस्तत्राधोऽपि पुः, यत्रोपरि कस्तत्राऽधोपि कः कार्य इत्यर्थः। नन्वेवमपि तृतीयभेदादौक्वचिदाद्यादिस्थानस्य शून्यत्वात्तत्र किं लेख्यमत आहऊने इति। अत्र प्रस्तारे ऊने न्यूने शून्ये स्थाने पूनेवपुश्च3 पू च पवश्चेत्येकशेषेण बहुवचनं सर्वलक्ष्यव्यक्त्यभिप्रायेण ।एवमग्रेऽपि दद्यात्। नैतावदेवेत्यांह भूय इति। अमुंप्रकारं भूयो वारंवारं कुर्यात्। अवधिं सूचयन्नुपसंहरति प्रस्तार इति। यावत् सर्वकः सर्वलघुः सर्वकन्यस्तावदेवमुक्तप्रकारेण प्रस्तारः स्यात्। प्रस्तार्यन्ते विस्तार्यन्ते पुत्रकन्यारूपतया सविण्डा अनेनेति प्रस्तारः। अस्योदाहरणं यथा। अत्र कोष्ठन्यासो बोध्यः।
दुष्करमिवमत्वा तदन्वेषणाय प्रयतमानेन मया समलम्भि पुस्तकमेकंभट्टवंशीयाऽस्मन्मातुलश्रीवीरेश्वरभट्टभट्टानां सङ्ग्रहस्थं बहुशः शुद्धम् तदनु तत्र प्रवर्तमानेमयि न चिराय विक्रयार्थी समागतादुक्तपुस्तकालयेन क्रीतात् पुस्तकसङ्ग्रहादप्येकं शुद्धप्रायं सुपरिष्कृतं पठितं क्वचिच्च टिप्पण्यासमलङ्कृतमादर्श पुस्तकमत्रापि। एवं च पुस्तकपञ्चकं देवनागराक्षरलिखितमादाय सुखेन प्रवृत्तो मतिमान्द्यात्कथमप्यपारयमेतन्मुद्रणं कर्तुम्। तत्र कसंज्ञकं (पत्राणि १ - ३१, प्रतिपृष्ठं पङ्क्तयः ९, प्रतिपङ्क्तिअक्षराणि ३४, परिमाणः १०.६”×४.५),खसंज्ञकं (प० १ - २७, पं. ९, अ. ४०, पं. ११.”×५.१”),गसंज्ञकं (१०१ - २२, पं. १३, अ. ३३, प. ९.३×५.७”),घसंज्ञकं (प. १ - ३६, पं. ११, व. २३, प.८.८"+४.५.”),ङसंझकं तु श्रीवीरेश्वरभट्टभट्टानामिति तद्विवरणं न प्रदर्श्यते।
अन्ते च श्रीमन्मदाराध्यगुरुवरचरणान् सश्रद्धमभिवन्द्य, सरस्वतीभवनग्रन्थमालाप्रधानसंशोधकान् मय्यतुलं वात्सल्यं विभ्रतः पूज्यवरश्रीगोपीनाथकविराज एम्०ए० महोदयान् सादरमभिनन्द्य, साहाय्यमत्र विदधद्भ्यः सुहृद्वर—एम्० ए० श्रीबटुकनाथशर्म, खिस्तेश्रीनारायणशास्त्रि, वेतालश्रीअनन्तरामशास्त्रिभ्यो वरकलश्रीवैद्यनाथशास्त्रिणे च धन्यवादान् वितीर्य विरम्यते वृथा पल्लवितादस्माल्लेखादिति शिवम् ।
सरस्वतीभवनम् ,}** जगन्नाथशास्त्री होशिङ्गः।
काशी.**
इति तत् ‘अतीत्ये’त्यध्याहारेण सङ्गमय्य प्रमाप्य च चतुर्विंशतिमतव्याख्यायाज्ञवल्क्यादिभिः स्पष्टीचकार सर्वं, विस्तारप्रेक्षास्पृहयालूनां कृते ‘अधिकं सापिण्ड्यप्रदीपतोऽवसेयमिती’ति निर्दिदेश च स्वगुरुश्रीनागेशभट्टकृतिम्।
अपघम्सकीयसविर ‘पितृपत्न्यःसर्वामातरः’ इत्यादि सुमन्तुवाक्यं प्रमाणत्वेनोपन्यस्य तद्व्याख्याविषयं सम्यगालोच्य हरदत्तोन्नीतापस्तम्वधर्ममूत्रव्याख्योज्ज्वलाघृतव्याख्यानमपि पूर्वापरसङ्गत्या विशदीकृत्य एकशरीरावयवान्वयित्वरूपे सापिण्ड्ये दोषशङ्कामुद्भाव्य स्वारम्भकेण सहैकशरीरारम्भकतथा तत्संसाध्य रामभरतदशरथकेकयराजादिषूदाहरणद्वारा योजयित्वा सापत्नमातामहादिसम्बन्धे सुमन्तुवचनारम्भान्यथानुपपत्यासापनमातुलादिष्वप्यवयवान्वयरूपसापिण्ड्याभावाभावं तदितरत्र प्राप्तामतिमसक्तिंच साधु निर्णिनाय। वसिष्ठावाक्यव्याख्यानावसरे यद्विरुद्धमेतस्मादुक्तं वचो सदन्दपमरिजातेन तच गगनकुसुमायमानमित्युपेक्ष्यकोटौ प्रवश्यवीरमित्रोद्योक्तिं निरस्तवान्।स्वकीयपक्षसमर्थने च हेमाद्रिमाधवहरदत्तमनुनागेशभट्टप्रभृतीनपोषकान् बुद्ध विषये चैतस्मिन् द्वैननिर्णयकृन्मतं भ्रान्तमितिनिःसंशयमुक्तवान्। तथाच सापत्नमातामहवंशे त्रैपौरुषं सापिण्ड्यं भवतीति निर्णीतवान्। दत्तादिषु देशभेदेन साप्तपौरुषत्रैपौरुषसापिण्ड्यसद्भावमुल्लिरूप तद्भेदादिकं क्रमशः सङ्गमितवान्। इत्थं चाऽमुष्मिन् स्वल्पेऽपि विषयमहत्वेन गुरुणि ग्रन्थरत्ने सपिण्डतादिविचारः सम्मगुपपादितोऽस्तीति सर्वमनवद्यम्।
तंत्र तावत् सापिण्ड्यवतां भेदादीन् वक्तुं तज्ज्ञानोपायानाह—
प्रस्तारोऽग्रे नष्टमुद्दिष्टसंज्ञ-
मेकद्वित्र्यादिक्रिया स्यात् कपूनाम्॥
संख्याध्वानौ प्रत्ययाः स्युः षडेते
सूत्राण्येषां सिद्धयेऽथो ब्रवीमि॥ २ ॥
प्रस्तारोऽग्रे इति। अत्र कपुशब्दौ लघुगुर्वोःकन्यापुत्रयोश्च ग्रन्थकूदभिमतसङ्केतकावित्यर्थवत्वेन प्रातिपदिकत्वात् सुबुत्पत्तौ बहुवचनान्तानां द्वन्द्वः। एवमग्रे सर्वत्र बोध्यम्।प्रकारान्तरं तु क्लिष्टमित्युपेक्षितम् अग्रे आदौ कपूनां कन्यानां पुरुषाण च प्रस्तारः नष्टम्, उद्दिष्टसंज्ञम्, एकद्वित्र्यादिक्रिया स्यादित्यस्य प्रत्येकं सम्बन्धः।संख्याऽध्वानौ संख्या च अध्वातौ स्यातामिति वचनावपरिणामः। अत्रोत्तरस्य पूर्वपूर्व सापेक्षत्वात् क्रमेण निर्देशः, तत्रापि नष्टादीनां प्रस्तार ज्ञानमूलकत्वादादौ तन्निर्देशः। अत एव अग्रे इत्युक्ति सफला। विभागादेव षट्त्वे लब्धे षडित्युक्तिर्न्यूनाधि
कसंख्याव्यवच्छेदाय। तथाचैते षडेव प्रत्ययाः स्युः। प्रतीयते ज्ञायते संख्यादिकमेभिस्ते प्रत्ययाः। यद्वा प्रत्ययो विश्वासोऽस्ति येषां ते प्रत्ययाः। अर्शआद्यच्। प्रस्तारादिना हि सर्वभेदादिज्ञाने सति वक्ष्यमाणं सम्यगिति विश्वासो भवति। अथो अथ। एषां प्रस्तारादीनां सिद्धये ज्ञानाय सूत्राणि सूचकानि तत्स्वरूपबोधकानि पद्यानि ब्रवीमि॥ २ ॥
तत्रोद्देशक्रमानुरोधेनाऽऽदौ प्रस्तारमाह –
षट्पावाद्यात्कं लिखेत्पोरधस्ता-
च्छेषं यद्वच्चोपरिष्टात्तथैव॥
ऊने दद्यादत्र पूनेव भूयः
प्रस्तारः स्यात्सर्वकस्तावदेवम्॥ ३॥
षट्पावाद्यादिति। षट् पवोगुरवः पुत्राश्च प्रमाणं यस्येति तद्धितार्थे द्विगुः। मात्रचो ‘द्विगोर्नित्य’मिति लुक्। बहुव्रीहिर्वा। सर्वथा समूहो वाच्यः। षट्त्वं च मूलपुरुषं विहाय बोध्यम् ।सापिण्ड्यस्य साप्तपौरुषत्वात्। अत एव षडक्षरप्रस्तारस्यैवोपयोग इति षट्पावित्येवोक्तम्। षट्पुस्तस्मिन् उपरितनपंक्तौ लिखिते सति आद्यात्प्रथमात् पोर्गुरोः पुत्राच्चाऽधस्तादधोभागेऽधस्तनपंक्तौकं लघुं कन्यां च लिखेत्। यद्वत् यथा उपरिष्टादुपरितनपंक्तौ तथैव। एवो वैलक्षण्यव्यवच्छेदाय। अधस्तादित्यस्य मध्यमणिन्यायेनाऽत्रापि सम्बन्धः। अधस्तनपंक्तौ च व्युत्क्रमे शेषं वाऽवशिष्टं प्वादिकम्।लिखेदित्यस्यानुषङ्गः। यत्रोपरि पुस्तत्राधोऽपि पुः, यत्रोपरि कस्तत्राऽधोपि कः कार्य इत्यर्थः। नन्वेवमपि तृतीयमेदादौ क्वचिदाद्यादिस्थानस्य शून्यत्वात्तत्र किं लेख्यमत आहऊने इति। अत्र प्रस्तारे ऊने न्यूने शून्ये स्थाने पूनेवपुश्च3 पू च पत्रश्चेत्येकशेषेण बहुवचनं सर्वलक्ष्यव्यक्त्यभिप्रायेण । एवमग्रेऽपि दद्यात्। नैतावदेवेत्यांह भूय इति। अनुं प्रकारं भूयो वारंवारं कुर्यात्। अवधिं सूचयन्नुपसंहरति प्रस्तार इति। यावत् सर्वकः सर्वलघुः सर्वकन्यस्तावदेवमुक्तप्रकारेण प्रस्तारः स्यात्। प्रस्तार्यन्ते विस्तार्यन्ते पुत्रकन्यारूपतया सविण्डा अनेनेतिप्रस्तारः। अस्योदाहरणं यथा। अत्र कोष्ठन्यासो बोध्यः।
मगणः प्रथमः १
| मू. | पु. | पु. | पु. | पु. | पु. | पु. |
| मू. | क. | पु. | पु. | पु. | पु. | पु. |
| मू. | पु. | क. | पु. | पु. | पु. | पु. |
| मू. | क. | क. | पु. | पु. | पु. | पु. |
| मू. | पु. | पु. | क. | पु. | पु. | पु. |
| मू. | क. | पु. | क. | पु. | पु. | पु. |
| मू. | पु. | क. | क. | पु. | पु. | पु. |
| मू. | क. | क. | क. | पु. | पु. | पु. |
यगणो द्वितीयः २
| मू. | पु. | पु. | पु. | क. | पु. | पु. |
| मू. | क. | पु. | पु. | क. | पु. | पु. |
| मू. | पु. | क. | पु. | क. | पु. | पु. |
| मू. | क. | क. | पु. | क. | पु. | पु. |
| मू. | पु. | पु. | क. | क. | पु. | पु. |
| मू. | क. | पु. | क. | क. | पु. | पु. |
| मू. | पु. | क. | क. | क. | पु. | पु. |
| मू. | क. | क. | क. | क. | पु. | पु. |
रगणस्तृतीयः३
| मू. | पु. | पु. | पु. | पु. | पु. | क. |
| मू. | क. | पु. | पु. | पु. | पु. | क. |
| मू. | पु. | क. | पु. | पु. | पु. | क. |
| मू. | क. | क. | पु. | पु. | पु. | क. |
| मू. | पु. | पु. | क. | पु. | पु. | क. |
| मू. | क. | पु. | क. | पु. | पु. | क. |
| मू. | पु. | क. | क. | पु. | पु. | क. |
| मू. | क. | क. | क. | पु. | पु. | क. |
सगणश्चतुर्थः ४
| मू. | पु. | पु. | पु. | क. | पु. | क. |
| मू. | क. | पु. | पु. | क. | पु. | क. |
| मू. | पु. | क. | पु. | क. | पु. | क. |
| मू. | क. | क. | पु. | क. | पु. | क. |
| मू. | पु. | पु. | क. | क. | पु. | क. |
| मू. | क. | पु. | क. | क. | पु. | क. |
| मू. | पु. | क. | क. | क. | पु. | क. |
| मू. | क. | क. | क. | क. | पु. | क. |
तगणः पञ्चमः ५
| मू. | पु. | पु. | पु. | पु. | क. | पु. |
| मू. | क. | पु. | पु. | पु. | क. | पु. |
| मू. | पु. | क. | पु. | पु. | क. | पु. |
| मू. | क. | क. | पु. | पु. | क. | पु. |
| मू. | पु. | पु. | क. | पु. | क. | पु. |
| मू. | क. | पु. | क. | पु. | क. | पु. |
| मू. | पु. | क. | क. | पु. | क. | पु. |
| मू. | क. | क. | क. | पु. | क. | पु. |
जगणः षष्ठः ६
| मू. | पु. | पु. | पु. | क. | क. | पु. |
| मू. | क. | पु. | पु. | क. | क. | पु. |
| मू. | पु. | क. | पु. | क. | क. | पु. |
| मू. | क. | क. | पु. | क. | क. | पु. |
| मू. | पु. | पु. | क. | क. | क. | पु. |
| मू. | क. | पु. | क. | क. | क. | पु. |
| मू. | पु. | क. | क. | क. | क. | पु. |
| मू. | क. | क. | क. | क. | क. | पु. |
भगणः सप्तमः ७
| मू. | पु. | पु. | पु. | पु. | क. | क. |
| मू. | क. | पु. | पु. | पु. | क. | क. |
| मू. | पु. | क. | पु. | पु. | क. | क. |
| मू. | क. | क. | पु. | पु. | क. | क. |
| मू. | पु. | पु. | क. | पु. | क. | क. |
| मू. | क. | पु. | क. | पु. | क. | क. |
| मू. | पु. | क. | क. | पु. | क. | क. |
| मू. | क. | क. | क. | पु. | क. | क. |
नगणोऽष्टमः ८
| मू. | पु. | पु. | पु. | क. | क. | क. |
| मू. | क. | पु. | पु. | क. | क. | क. |
| मू. | पु. | क. | पु. | क. | क. | क. |
| मू. | क. | क. | पु. | क. | क. | क. |
| मू. | पु. | पु. | क. | क. | क. | क. |
| मू. | क. | पु. | क. | क. | क. | क. |
| मू. | पु. | क. | क. | क. | क. | क. |
| मू. | क. | क. | क. | क. | क. | क. |
तथाचैतरप्रस्तारस्य चतुःषष्टिभेदा भवन्ति। तेषु च क्रमेण मादिगणानामष्टकं प्रत्येकं मगणाद्यष्टकयुक्तं भवति। तदुक्तं सप्तर्ष्यपाख्येन नरहरिणा—
आदिमध्याऽवसानेषु यरता यान्ति लाघवम्।
भजसा गौरवं यान्ति मनौ तु गुरुलाघवम्॥
मगणाद्यष्टकयुक्तं मादीनामष्टकं यदेकैकम्।
विस्तृतमत्र ज्ञेयं श्रुतिरसमानं हि सापिण्डयम्॥
त्रिके क्वापि स्त्र्यपत्यं चेत्सापिठ्यं पाञ्चपौरुषम्।
त्रिके क्वापि स्त्र्यनुत्पत्तौ सापिण्ड्यं साप्तपौरुषम्॥
एवं षडक्षरप्रस्तारे गुरुलघूनामपि विन्यासो बोध्यः॥ ३॥
अथ क्रमप्राप्तं प्रस्तारशोधनोपयोगि नष्टमाह—
नष्टाङ्कस्य दले दले त समके कं विन्यसेच्चाऽसमे
सैके तस्य दले दलेऽथ विलिखेत्पूनेवमेवं पुनः॥
षट्संख्यावधि नष्टमिष्टमुदितं संख्यावतां प्रीतये
स्थानज्ञाननिवेदनाय कथयाम्युद्दिष्टमेवं पुनः॥ ४॥
नष्टाङ्कस्येति। इयत्संख्यो भेदः किंरूप इति प्रश्ने ईदृश इत्युत्तरं यत्र विषये तादृशप्रश्नोत्तरविषयभूतमिति यावत्, तन्नष्टम्। तदुक्तं सङ्गीतरत्नाकरे—
अत्रैतावतिथो भेदः किंरूप इति पृच्छति।
यत्र तन्नष्टमाख्यातं तस्योत्तरमिहोच्यत॥
इति। तत् द्विविधं समं विषमं च। तत्राद्यमाद्यपादेन, द्वितीयं द्वितीयपादेनोच्यते। नष्टस्य तदाख्यभेदस्य योऽङ्कस्तस्य समके समे, स्वार्थे कः। समत्वे तत्र कं विन्यसेत्। तस्य समे दले दले च अर्द्धअर्द्धेकं कन्यां विन्यसेत्। असम इत्यादेर्मध्यमणिन्यायेन पूर्वत्राऽप्यन्वयः। तोरत्राऽन्वयः। तथाच तस्य असमे तु दले दले अर्द्धे अर्द्धेस्वतःसम्भविनि सैके खण्डिते च पून् पुत्रान् विन्यसेत्। अथशब्दः समुच्चये। असमेऽर्थान्नष्टाङ्के पुं लिखेत्। असमे तस्मिन् सैके एकेनांऽधिके खण्डिते सति तस्याऽसमे दुले दले च पून लिंखेदित्यर्थः। उभयत्राऽपि नैतावन्मात्रेणष्टसिद्धिरत उभयशेषमाह-एवमें पुनरिति। उभयत्रापि पुनःपुनः पुनरेवमेवं यथासम्भवं कुर्यादित्यर्थः। अनतिप्रसङ्गायाऽत्रधिं कथयति षडिति, पूर्वाऽन्यः। तदवधौहेतुं सूचयन् हेतुगर्भविशेषणघटितमुपसंहरति नष्टमिति। संख्यावतां ज्ञातसंख्यानां सूक्ष्मज्ञानिनां वा प्रीतये सन्तोषाय इष्टेइष्टस्वरूपप्रत्ययजनकं नष्टमुक्तिं कथितमित्यर्थः। अनयोरुदाहरणम्।
| क. | क | क | क | क | क |
| पु. | पु. | पु. | पु. | पु. | पु. |
अस्याऽष्टमो भेदः कीदृश इति प्रश्ने—अष्टमाङ्कस्य समत्वात् कः। तदर्धस्य चतुर्थाङ्कस्य समत्वात् कः। तदर्धस्य द्वितीयाङ्कस्य समत्वात् कः। तदर्धस्यैकस्य विषमत्वात् पुः। तस्मिन् सैकेऽर्द्धे कृते पूर्ववत् पुः। पुनस्तथैत्र पुर्लेख्यः। नवमो भेदः कीदृश इति प्रश्ने —नवमाङ्कस्य विषमत्वात् पुर्लेख्यः। तस्मिन् सैकेऽर्धिते पञ्चमाङ्करय विषमत्वात् पुरेव। तस्मिन् सैकेऽर्धिते तृतीयाङ्कस्य विषमत्वात् स एव। तस्मिन् सैके द्वितीयाङ्कस्य समत्वात् कः। तस्मिन्नर्धिते एकस्य विषमत्वात् पुः। तस्मिन् सैके पुनरर्धिते विषमत्वात् पुरेव। एवं सर्वत्र बोध्यम्। अथ क्रमप्राप्तं प्रस्तारशोधनोपयोग्युद्दिष्टं कथायतुं प्रतिज्ञामाह स्थानेति। पुनरत एवं नष्टवत् स्थानानां चतुर्थपञ्चमादीनांयत् ज्ञानं तन्निवेदनाय तत्कथनायोद्दिष्टं कथयामीत्यर्थः। शिष्यावधानाय पुनः प्रतिज्ञेयम्। एवमग्रेऽपि। लिखितोऽयं भेदः कियत्संख्य इति प्रश्ने—अयमियत्संख्य इति यत्रोत्तरमुच्यते तादृश प्रश्नोत्तरविषयभूतसंख्येति यावत्, तदुद्दिष्टम्। यद्यपि प्रस्तारशोधनोपयोगित्वं नष्टोद्विष्टयोस्तुल्यमित्युक्तक्रमो न नियतस्तथाऽप्युद्दिष्टस्य संख्याप्रश्नोत्तररूपत्वात् नष्टस्य च स्वरूपप्रश्नोत्तररूपत्वात् स्वरूपज्ञानोत्तरमेव संख्याजिज्ञासोदयादनयोरुक्त एवक्रमो बोध्यः॥ ४॥
प्रतिज्ञातमाह—
एकाङ्कान् द्विगुणानुपर्युपरि तोकान्4 विंन्यसेत्कस्थितै
रङ्कैरेकयुतैर्भवेदभिमतं तूद्दिष्टमिष्टं पुनः॥
द्व्याद्यङ्कान् द्विगुणनुपर्युपरि तोकान् विन्यसेत्कस्थिते
रङ्कैस्तन्मिलितैर्भवेदभिमतं तूद्दिष्टमिष्टं स्फुटम्॥५
एकाङ्कानिति। तोकान् अपत्यानां कन्यानां पुत्राणां चेति यावत्। ‘उभसर्वतसोः कार्ये’ति सम्बन्धे द्वितीया, उपपदविभक्तित्वात्। उपर्युपरि ऊर्ध्वमूर्ध्वम्। आदित इति शेषः। एकाङ्कानेकप्रभृतीनङ्कान द्विगुणान्विन्यसेत्। अग्रे तत्रेति शेषः। तथाच तेषां मध्ये कस्थितैः कन्योपरिस्थितैरेकयुतैरेकेनाऽधिकेन तत्संख्यया मिश्रितैरङ्कैभिमतं पिङ्गलादिसंमतमिष्टं इष्टसंख्याप्रत्ययजनकमुद्दिष्टं भवेदित्यर्थः। तुरुक्तवैलक्षण्ये। पुनरिति पक्षान्तरे। तथाच – यद्वा तोकानामपत्यानामुपर्युपरिद्विगुणान् द्विप्रभृतीनङ्कान् विन्यसेदित्यर्थः। अग्रे तत्रेति शेषः। तथाच तत्र तेषां मध्ये कस्थैः कन्योपरिस्थितैस्तन्मिलितैस्तया द्वित्वसंख्यया मिलितैर्द्वाभ्यां दलितैः खण्डितैरङ्कुैरिष्टमुद्दिष्टं स्फुटमित्यर्थः। अत्रोपरीत्युपलक्षणम्, उभयत्रापि अधोलेखनेऽप्यक्षतेः। अस्योदाहरणं यथा।
| १ | २ | ३ | ४ | ५ | ६ |
| क. | क. | क. | पु. | पु. | पु. |
| २ | ४ | ८ | १६ | ३२ | ६४ |
अयं भेदः कियत्संख्य इति प्रश्ने— प्रथमपक्षे द्विगुणानेकादिकान् संलिख्य तेषां मध्ये कोपरिस्थितैर्मिलितैः सप्तभिरेकमिश्रितैरष्टभिरष्टसंख्यो भेदो भवेत् —इति कथयेत्। द्वितीयपक्षे द्विगुणान् दुव्यादिकान् संलिख्य तेषां मध्ये कोपरिस्थितैर्मिलितैश्चतुर्दशभिर्द्वाभ्यां मिलितैः षोडशभिरर्धीकृतैरष्टसंख्यो भेदो भवेत् —इति कथयेत्। एवं सर्वत्र बोध्यम्॥ ५ ॥
अथ सर्वपुएककद्विकत्रिकांदिकभेदकथनद्वारा प्रस्तारशोधनोपयौगिकैकव्यादिकपुक्रियामाह—
वर्णान् प्रस्तृतिजानुपर्युपरितः सैकान् न्यसैकादिकान्
पौर्वापर्यविभेदतः स्थितिमतश्चैकैकमूर्ध्वं क्षिप।
भूयश्चैवमुपान्त्यतो विनिर्वृतश्चैकैकमुर्ध्वं5 क्षिप-
न्नेकद्व्यादिकपुक्रिया निगदिता प्रस्तारसख्यां ब्रुवे ६॥
वर्णानिति। स्वार्थे तसिः। उपर्युपरितः प्रस्तृतिजान् वर्णान् उपर्युपरि विद्यमानप्रस्तारगतवर्णसमसंख्याकान् सैकानेकेनाधिकेन सहितान् अर्थादेकाङ्कान्। पौर्वापर्यविभेदतः स्थितिमतः ब्राह्मणादित्वाद्भावे ष्यञ् , सार्वत्रिभक्तिकस्तृतीयान्तात्तसिः, पूर्वापरभावरूपवैलक्षण्येन स्थितियुतान्, एकादिकांश्चैकद्वयादींश्च न्यस स्थापय। तत्प्रकारमाहैकमिति। तेषां मध्ये एकैकमूर्ध्वमुपर्युपरि एकादिक्रमेण क्षिप। मेलनं चात्र मेल्यमानाङ्कसमसंख्याया उपरि क्षेपो नतु स्वस्यैत्र स्वरूपेण। तथासति तत्स्थानस्य शून्यतापत्त्या द्वितीयादिमेलनावृत्त्यभावापत्तेः। तावन्मात्रेणापीष्टासिद्धेराह भूयश्चैवमिति। वारंवारमुक्तप्रकारं कुरु चेत्यर्थः। अधस्तनं तदुपरि संमेल्य द्वयङ्कः कार्यः,तं तदुपरि संमेल्य त्र्यङ्क इत्यादिक्रमेण कार्यमिति यावत्। मेलनेऽवधिमाह उपान्त्येति। एकैकमित्यनुवादः। एकैकमूर्ध्वमुपर्युपरि तथा संमेलयन् त्वं उपान्त्यतः अन्त्याधोवर्तिनः विनिवृतो विशेषेण निवृत्तो भव चेत्यर्थः। उपान्त्यपर्यन्तं संमेल्य उपान्त्येन मेलयेति यावत्। अन्त्यश्चाद्यमेलने सर्वोपरितनः, द्वितीयमेलने तदधोवर्ती, तृतीयमेलने तदधोवर्तीत्यादिक्रमेण बोध्यम्। उपान्त्यश्च तत्तदन्त्याधोवर्ती। प्रतिलोमेनाऽऽवृत्या एकमेकमङ्क त्यक्त्वाऽधस्तनान्मेलयेदिति फलितोऽर्थः। उपसंहरति —उपरितनादाद्यन्तयोः क्रमेणेत्यादिः। तथाच उपरितनः सर्वपुरे कस्तत एककाः षट् ततो द्विकाः पञ्चदश इत्यादि। सर्वाधएकः सर्वक इत्यादि बोध्यम्। अस्योदाहरणं यथा।
| १ | १ |
| १ | ६ |
| १ | १५ |
| १ | २० |
| १ | २५ |
| १ | ६ |
| १ | १ |
अत्र सर्वाधः स्थमेकाङ्कमुपरि प्रक्षिप्य द्व्यङ्क कुर्यात्। ततः त्र्यङ्कादिक्रमेणोपान्त्यमङ्क षडङ्कं कुर्यात्। उपान्त्यतो निवृत्तेरुक्तत्वात्तस्योपर्यप्रक्षेपः। पुनरुक्तक्रमेण षडङ्काधोवर्तिनं पञ्चाङ्कं दशाङ्कं कुर्यात्। अग्रे प्राग्वत्। पुनरपि तदधोवर्तिनं दशाङ्कं विशाङ्कं कुर्यात्। पुनरपि तदधःस्थं दशाङ्कं पञ्चदशाङ्कं कुर्यात। पुनरपि तदधःस्थं पश्चाङ्क षडङ्कं कुर्यात्। अग्रे प्राग्वत्। तथाच षडक्षरप्रस्तारे उपरितनः सर्वपुरेकः। तदधस्तनसंख्याका एककन्याः। तदधस्तनसंख्याका द्विकन्याः। तदधस्तनसंख्याकाः त्रिकन्याः। तदधस्तनसंख्याकाश्चतुष्काः। तदधस्तनसंख्याकाः पञ्चकाः। तदधः सर्वकन्य एक इति चतुःषष्टिभेदानां स्वरूपज्ञानं भवतीति भावः। अथ क्रमप्राप्तां संख्यामाह — प्रस्तारेति। प्रस्तारस्य संख्यामित्यर्थः॥ ६ ॥
प्रतिज्ञातमाह—
उद्दिष्टाङ्कसमाहृतिस्तु कथिता सैका क्रमाद्यास्थिता
सङ्ख्या सा द्विगुणा सुधांशुरहिताऽध्वा स्पष्टमुक्तो बुधैः॥
अन्यच्च—
भूनेत्राब्धिगजान्नृपानथ रदान् संलिख्य चोर्ध्वं त्वध-
स्तत्तत्सङ्ख्यपुकान विलिख्य मतिमानित्थं स्वसंख्यावधि
प्रस्ताराः प्रभवन्ति सर्वमिलनं6 संख्या भवेद् भूयुतं
यद्वाऽन्त्यो जनयेदिमां द्विगुणतः संख्यां चतुःषष्टिकाम्
उद्दिष्टाङ्केति। पादेन क्रमात् स्थिता एकेनाधिका या पूर्वोक्ताद्योद्दिष्टाङ्कानां समाहृतिःसमूहः। सा तु संख्या कथितेत्यर्थः। यथा षडक्षरप्रस्तारे।
| १ | २ | ४ | ८ | १६ | ३२ |
अथोद्दिष्टाङ्का एकद्विचतुरष्टषोडशद्वात्रिंदङ्काः तेषां समूहस्त्रिषष्टिसंख्यारूपः स एकेनाऽधिकः सन् प्रस्तारसंख्याबोधक इति बोध्यम्। अथाऽध्वानमाह —द्विगुणेति। सेत्यस्यमध्यमणिन्यायेनाऽत्राप्यन्वयः। द्वाभ्यां गुणो गुणनं यस्याः सा। सुधांशुरेकस्तेन रहितोना सा संख्या बुधैरध्वेति स्पष्टं यथातथोक्त इत्यर्थः। प्रस्तारलेखनपर्याप्तः प्रदेशोऽध्वा। यथा षडक्षरे संख्या चतुःषष्टिरूपा सा द्वाभ्यां गुणिता अष्टाविं- शत्यधिकशतरूपा एकोना सप्तविंशत्यधिकशतरूपा सा तस्याऽध्वा। सप्तविंशत्यधिकशताङ्गुलायां भुवि प्रस्तारपर्याप्तिरिति यावत् संख्याबोधकम्। यद्वेति प्रकारान्तरं वक्तुमाह—अन्यच्चेति। तत्राऽऽदौ प्रागुक्तमनुवदतिम्विति। भूरेका १, नेत्रे द्वे २, अब्धयश्चत्वारः ४, गजा अष्टौ ८, नृपाः षोडश १६, रदाः द्वात्रिंशत् ३२ ऊर्ध्वमुपरि एकद्विचतुरष्टाङ्कान् षोडशाऽङ्कान् द्वात्रिंशदङ्कांश्च क्रमेण संलिख्य, अधस्तु तदधोभागे तु तत्तत्संख्यपुकान्, यस्मिन् यस्मिन् प्रस्तारे भेदस्य घटकस्य या या संख्या तत्तत्संख्याकानि पुमपत्यानि कन्यापत्यानि च। यद्वा उपरितनाङ्कानां या या संख्या तत्तत्संख्याकपुकान् विलिख्य च मतिमान् इत्थं अमुना प्रकारेण। पुनःपुनः कुर्यादिति शेषः। अवधिनाह-स्वेति। यदीयप्रस्तारभेदानां या सङ्ख्या तदवधितावत्पर्यन्तमित्यर्थः। फलितमाह- प्रस्तारा इति। तथासति प्रस्तारां भवन्ति प्रकाशिता भवन्तीत्यर्थः। ननु का संख्यातऽ आइ-सर्वेति। सर्वाङ्कानां मिलनं समूहरूपं भूयुतमेकाधिकं प्रस्तारसंख्या भवेदित्यर्थः। गाङ्कुटेत्यत्रकुटस्याऽऽदिरित्यर्थवादिनां मतेन ङित्त्वान्मिलनमिति प्रयोगः। तदेव प्रकारान्तरमाह यद्वेति। अन्त्यो ‘रदा’—
नित्युक्तो द्वात्रिंशदङ्को द्विगुणितः सन्निमां चतुःषष्टिकां तद्रूपां स्वार्थे कन्, संख्यां जनयेदित्यर्थः॥७॥
द्वितीयेत्यादिना तृतीयार्धचरमपादेन तृतीयं संख्याबोधकं प्रकारं वक्तुमाह—
प्रकारान्तरमपि —
एकादिकाङ्कान् द्विगुणान् रदान्ता-
नूर्ध्वंत्वधोऽधोऽङ्कमितान् पुकांश्च॥
प्रस्तारसङ्घः श्रुतिषण्मितः स्या-
त्सैकोऽङ्कयोगस्तु समस्तसंख्या॥
अन्त्यो द्विनिघ्नो जनयेदिमां वा
द्वितीयपक्षे तु स एव संख्या॥ ६॥
प्रेति। तत्रादौ प्रागुक्तं प्रकारद्वयमनुवदति-एकेति। एकप्रभृतीनङ्कान् द्विगुणान्। अवधिमाह— रदेति। द्वात्रिंशदङ्कपर्यन्तानूर्ध्वं, अधोऽधस्तु अङ्कमितानुपरितनाङ्कसमसंख्याकान् पुकांश्च संलिखेदिति शेषेणाऽर्थः। तथासति प्रस्ताररूपसमूहः श्रुतयश्चतस्रः षट् च ताभ्यां परिच्छिन्नः स्यात्। ‘अङ्कानां वामतो गतिरिति चतुःषष्टिसंख्यापरिच्छिन्नः स्यादिति यात्रत्। ननुकथं श्रुतिषण्मितत्वमेकेन न्यूनत्वादत आहसैक इति। एकेनाऽधिक उक्ताङ्कसमूहस्तु सर्वसंख्या स्यादित्यनुषङ्गेणाऽर्थः। वा यद्वा। अन्त्यो द्वात्रिंशदङ्कः द्विनिघ्नः द्वाभ्यां गुणितः सन्निमा जनयेदित्यर्थः। तदेवाह द्वितीयेति। उद्दिष्टबोधकद्वितीयपक्षे इत्यर्थः।वैलक्षण्यसूचकस्तु स एत्र अन्त्याङ्क एव चतुःषष्ट्यङ्क एष प्रस्तारसंख्या भवेदित्यर्थः॥ ९ ॥ एवमुपयोगिप्रस्तारादीनुक्त्वा प्रतिज्ञातं वक्तुमावश्यककिञ्चिद्विशेषकथनसहितोक्तभेदानुवादपूर्वक- मुपयोग्यवान्तरसंज्ञास्तेषामाह कूटस्थेति त्रिभिः—
कूटस्थपुंसाऽऽदिमभागयुक्ता
भेदाश्चतुःषष्टिमिता भवन्ति॥
अष्टाष्टकानि प्रभवन्ति तेषु
समानि चाऽन्यान्यसमानि तेषु॥१०॥
कूटस्थेति। कूटस्थपुंसा कूटस्थपुरुषेण, आद्यप्रदेशो युक्तो येषां ते चतुःषष्टिपरिमिता भेदा भवन्ति। तेषु सम्बन्धिनोऽधिकरणत्वविवक्षया सप्तमी, तेषां भेदानाम्। तथा तेषामिति पाठस्तूचितः। अष्टसंख्याकानि अष्टकानि अष्टौ परिमाणं येषां तानि तत्संख्यापरिच्छेदसमूहरूपाणि प्रभवन्ति। तेषु निर्धारणे सप्तमी, तेषामष्टाऽष्टकानां मध्ये चत्वारि समानि, अन्यानि चत्वार्यसमानि च भवन्तीत्यर्थः॥ १०॥
समानि शुद्धान्यसमानि तत्र
द्विधा द्वयं स्याद्विषमं समं च॥
अन्यद् द्वयं केवलमेव विद्धि
तानि क्रमेणाऽहमुदाहरिष्ये॥ ११॥
समेति। तत्र तयोर्मध्ये समानि शुद्धान्येव। नतु विषममिश्राणि। असमानि तु द्विधा द्विप्रकारराणि।तत्रेत्यनुषज्यते। तयोर्मध्ये इयं विषमं समं च स्यात्, नतु शुद्धविषमम्। पूर्वोक्तादन्यद् द्वयं केवलमेव विषममेव विद्धि जानीहि। नन्वेवं सामान्येनोक्तावपि विशियानुक्त्या भेदानां द्राक् बुद्ध्यारूढत्वमत आह—तानीति।
पूर्वोक्तानि सर्वभेदरूपाणीत्यर्थः। अत एव क्रमेणेत्युक्तसङ्गतिः॥ ११॥
तदेवाह—
तृतीयमथ सप्तमं विषमपूर्वकं स्यात्समं
तथाऽदिमकपञ्चमे विषमसंज्ञके केवले॥
द्वितीयकतुरीयके तदनु षष्ठकं त्वष्टमं
भवेद्धि समसंज्ञकं त्वथ विनिर्णयः कथ्यते॥ १२॥
तृतीयमिति। अष्टकं सर्वत्र विशेष्यम्। अथ चार्थे। तृतीयं सप्तमं चाष्टकं विषमसमसंज्ञकमित्यर्थः। नतु विपरीतादिति भावः। तथा तद्वत्। प्राथमिकपञ्चमे अष्टके विषमसंज्ञके इत्यर्थः। केवले समामिश्रिते। अंत्र सर्वत्र कन् स्वार्थे। द्वितीयं चतुर्थं तदनु समेषु तत्पश्चात्तनं षष्ठकमष्टमं च समसंज्ञकमेव। निश्चयेन भवेदित्यर्थः। तथा तद्वत्। परमाभिमतं प्रतिज्ञातमाह — अथेति। उपोद्धातकथनानन्तरमित्यर्थः॥ १२॥
तत्र तावत् केषां केषां सापिण्ड्यमत आह—
जाताश्च षट् पितृपितामहाद्या7
जनिष्यमाणाश्च सुतादयः षट्॥
ते द्वादशाऽमी पुरुषाः सपिण्डाः
स्वस्य स्वयं तेषु सपिण्डसंज्ञः॥ १३ ॥
जाताश्चेति। तातपितामहाद्याइति पाठः। मिलिताः, एतदर्थमेव चोऽन्त्य उक्तः। अमी पूर्वोक्ताःद्वाददा पुरुषाः स्वस्य जातापत्यस्य जनिष्यमाणपितुश्च सपिण्डाः। अर्थसिद्धमेवस्पष्टार्थमाह तेष्विति। तेषु तेषां, पूर्ववत्। स्वयं पूर्वोक्तः। स्वयं सपिण्डसंज्ञः सपिण्डत्वप्रकारकज्ञानविषयश्चेत्यर्थः। संज्ञेत्यत्र कर्मण्यङ्। अयं भावः —समान एको मुख्यः पिण्डो देह आरम्भको यस्या यस्य वा सा सपिण्डा ससपिण्डस्तद्भावः सापिण्ड्यम्। एवञ्चैकशरीरावयवान्वयेन सर्वत्र सापिण्ड्यम्। तच्च क्वचित्साक्षात् क्वचित्परम्परया। तथाहि पुत्रस्य पितृशरीरावयवान्वयेन पित्रा सह, मातृशरीरावधवान्वयेन मात्रा।पितामहदिभिः पितृद्वारेण। मातामहाभिदिरपि मातृद्वारेण। एवं मातुलमातृष्वसृपितृष्वस्त्रादभिरपि एकशरीरावयवान्वयात्। पतिपत्न्योस्त्वेकशरीरे उभयारब्धे स्वावयवांन्वयात्। भ्रातृभार्याणामपि परस्परं स्वारब्धसन्तानान्वय्यवयवान्वितसन्तानारम्भकत्वेन। एवश्च यत्र यत्र सपिण्डशब्दस्तत्र तत्र साक्षात्परम्परया वा एकशरीरावयवान्वयो द्रष्टव्यः। युक्तञ्चैतत् - ‘आत्मा हि जज्ञ आत्मन इति प्रजायसे’ इति श्रुतेः। ’ स एवायं विरूढः प्रत्यक्षेण पृथगुपलभ्यते’ इत्यापस्तम्बोकेश्च। ‘एतत् षाट्कौशिकं शरीरम्। त्रीणि पितृतस्त्रीणि मातृतः, अस्थिस्नायुमज्जाः पितृतः त्वङ्मांसरुधिराणि मातृतः’ इति गर्भोपनिषद्यप्यवयवान्वयप्रतिपादनाच्च। निरुक्ते तु’मांसशोणितानी’ ति पाठः। नन्वेवं मातामहादीनामपि दशाहाशौचम्।
दशाहं शावमाशौचं सपिण्डेषु विधीयते।
इत्युक्तेरिति वाच्यम्, ‘प्रत्तानामितरे8कुर्युः’ इत्यादिविशेषत्रचनजातबलेन सगोत्रक्वसमानाधिकरणसर्पिण्ड्यस्यैव दशाहाशौचप्रयोजकल्वाङ्गीकारेणाऽदोषात्। नचैवमपि दत्तकरूपपुत्रे प्रतिगृहीतृसापिण्ड्यं न स्यात्सर्वथा तदवयवानन्वयादिति वाच्यम्, पुत्रत्वबुद्ध्याऽऽलिङ्गनचुम्बनादिभिस्तत्रापि तदन्वयसत्वानुमानात अतिप्रसङ्गस्तु रूढयैत्र परिहार्यः। तत्रोत्पादकसापिण्ड्यमप्यस्त्येव। ‘गोत्ररिक्थे’ इत्यादिमनुवचनात्तु केषाश्चिनिवृत्तिरिति विज्ञानेश्वरादयः। मात्स्यादिप्रतिपादितं9 यथाकथञ्चिदेकपिण्डक्रियान्वयिस्वरूपं सापिण्ड्यं तु मातृसन्ताने भ्रातृपितृव्यादिषु चाऽव्याप्त्यापत्त्या समुदायशर क्त्यङ्गीकारेण रूढिपरिग्रहे तत्रतत्राऽवगम्य मातावयवशक्तिपरित्यागापत्त्याचाऽयुक्तमिति स्पष्टमन्यत्र। तथाचाऽऽद्यान्वयेन तेषामपि10 सङ्ग्रह इति बोध्यम् ॥ १३ ॥
नन्वेवं पितृकुले साप्तपौरुषं सापिण्ड्यमुक्त, तत्र च
किं गमकं, किञ्च मातृकुले कियत्पर्यन्तं तदत आह—
कूटस्थतः पञ्चमसप्तमौ चे —
द्वरस्य वध्वाः पितरौ क्रमेण॥
तयोः सपिण्डत्वनिवृत्तिरुक्ता
पूर्वैस्तु मन्वादिमुनिप्रवीरैः11॥ १४ ॥
कूटस्थत इति। ल्यब्लोपे पञ्चमीयम्। ‘पिण्डदः सप्तमः’ इति मात्स्यात्। तथाच चेत् यदि कूटस्थमाश्रित्य वधूवरान्यतरस्य साक्षात्परम्परया वा यौ मातापितरौ तौ पञ्चत्वसप्तत्वसंख्यापूरकौक्रमेण स्तः। वधूवरयोस्तमारभ्य क्रमेण षष्ठत्वेऽष्टमत्त्रे च सतीति यावत्। अत एव गौतमुस्मृतौ—‘पञ्चमादूर्ध्वम्’ इत्येवोक्तम्। तु तदा। तयोर्वधूत्ररयोर्मिथः सापिण्ड्यनिवृत्तिः प्राचीनैर्मुनिश्रेष्ठैर्मन्वादिभिरुक्तेत्यर्थः। वधूवरान्यतरस्यकूटस्थमारभ्य सप्तमादूर्ध्वत्वे पितृद्वारकं सापिण्ड्यं निवर्तते। मातृद्वारकं च तदन्यतरस्य ततः आरभ्य पञ्चमादूर्ध्वत्वे निवर्तत इति यावत्। अत्राऽतद्गुणसंविज्ञानबहुव्रीहिणा मनुभिन्नास्ते ग्राह्याः। तथाच मात्स्ये ‘सापिण्डयं साप्तपौरुषम्’ इति।
सपिण्डता तु सर्वेषां गोत्रतः साप्तपौरुषी।
इति शङ्खश्च। ‘मातृबन्धुभ्यः पञ्चमादूर्ध्वम्’ इति गौतमश्च।
पञ्चमात्सप्तमादूर्ध्व मातृतः पितृतस्तथा।
इति याज्ञवल्क्यश्च। नच लोकप्रसिद्ध्योपस्थितवधूवरान्यतरस्य साक्षाज्जननीजनकवाचकावेव तौ। एवं पञ्चमीसन्ताने षष्ठे निवृत्तस्यापि तन्मातृकुलसापिण्ड्यस्य सप्तमे पुनर्मण्डूकप्लुत्या प्रवृत्तिः स्यात् पितुः सप्तमत्वे एव तन्निवृत्तेरुक्तत्वादिति वाच्यम्, तथासति याज्ञवल्क्यवाक्ये ‘असन्देहाय पञ्चमात्’ इत्यस्यैवौचित्येन पञ्चमादित्यस्याऽसङ्गत्यापत्तेः।
तिस्रः पूज्याः पितुः पक्षे तिस्रो मातामहे तथा।
इत्येता मातरः प्रोक्ताः पितुर्मातुः स्वसाऽष्टमी॥
‘पितरो यत्र पूज्यन्ते’ इति चतुर्विंशतिमते धौम्यायुक्तेः। पितामह्यादिषु पितामहादिषु चमातृपितृशब्दप्रयोगाच्च। स्मृतौ लोकप्रसिद्ध्यपेक्षया स्मार्तप्रसिद्धेर्बलवत्त्वात्तस्मात् कूटस्थतदपत्यञ्चतुष्टयरूपपञ्चसमुदायघटिकाया द्वितीयादिकादैरपि मात्रादिशब्दो वाचक इति तत्त्वम्। नचैवं ‘पञ्चमी चेत्तयोर्माता’ इति सङ्ग्रहोक्त्या पञ्चमीत्वसमानाधिकरणमातृत्वस्यैव सा पिण्ड्य सङ्कोचकत्त्वप्रतीतेर्द्वितीयात्वादिसमानाधिकरणमातृत्वस्य कथं तत्सङ्कोचकत्वमिति वाच्यम्।
सपिण्डानां तु सर्वेषां गोत्रतः साप्तपौरुषी।
इति शङ्खेन गोत्रैक्यस्यैव सप्तमपर्यन्तं सापिण्ड्य प्रयोजकत्वस्य प्रतिपादनेन गोत्रभेदस्यैव तत्सङ्कोचकत्वेन द्वितीयादिमातर्यपि तस्य सत्त्वेन पञ्चमीत्वस्याऽकिञ्चित्करत्वात्।
सन्निकर्षेऽपि कर्तव्या त्रिगोत्रात्परतोयदि।
इति शूलपाण्युदाहृतदेवलेन तथैव प्रतीतेश्च। तथाच मातृघटितचतुः पिण्डात्मकसन्ताने सन्तानभेदावधिभूतकूटस्थादारभ्य गणनायां सन्तानघटकान्त्यो यः पञ्चमस्तत ऊर्ध्वं सापिण्ड्यं निवर्तत इति याज्ञवल्क्यवचनांशार्थः। अत एव ‘मातृतः मातृपक्षे पञ्चमात्’ इति माधवो, ‘मातुः सन्ताने पञ्चमादूर्ध्वम्’ इति मदनरत्नो विज्ञानेश्वरश्य सङ्गच्छते। एवञ्च पितृसन्तानमर्थात् पुमात्मकमेव गृह्यते शङ्खैकवाक्यत्वात्। तथाचोक्तरीत्या12 सर्वपितृकषट्पिण्डात्मकसन्ताने सन्तानभेदावधिकूटस्थमारभ्य गणनायांसन्तानघटकान्त्यो यः षष्ठस्तत आरभ्यसप्तमस्तत ऊर्ध्वं सापिण्ड्यं निवर्तत इति तस्याऽपरांशार्थः। पितृतः सापिण्ड्योक्तिश्राऽऽशौचोपयोगिनी। तथाच पुरुषरूपषट्पिण्डात्मकसन्तानघटकान्त्यजन्यः सन्तानभेदावधिभूतकूटस्थादष्टमः कूटस्थभिन्नगोत्रापत्यघटितचतुःपिण्डात्मकसन्तानघटकान्यतमजामप्युद्वहेदिति पर्यवसितोऽर्थः। एवंसति यथा वसिष्ठादिस्मृतिविरोधो न, तथाऽन्यत्र स्पष्टम्।पितृशब्देनैवाऽत्र13मातुर्बोधनेन पञ्चमसप्तमावित्यत्र न पञ्चमेत्यंशेऽनुपपत्तिः। एवंच सगोत्राष्टमस्याऽष्टमेन कूटस्थेन भिन्नगोत्रषष्ठस्य कूटस्थेन षष्ठेन च सह सापिण्ड्यनिवृत्तौ तत्कूटस्थसन्तानान्तरेषु सापिण्ड्यसम्भावनैव न। अत एव वरस्थ योऽष्टमः कूटस्थस्तस्यं दौहित्री तेन विवाह्येतिगौतमीयस्मृतिवृत्तौ हरदत्तोक्तिः सङ्गच्छते। अत एव च सर्वस्मृतिषु ‘असपिण्डा’ मिति परिणेयकन्याविशेषणमेवश्रूयते। नच ‘एतैरेव गुणैर्युक्त’ इति वरेऽपि तदतिदेशात्तन्निरूपितं तस्यां तन्निरूपितं वरे च पृथगेव सापिण्ड्यं, नतुभयनिरूपितमेकं व्यासज्यवृत्ति। एतेनाऽन्यतस्तो निवृत्तौ निवृत्तिः स्यात्। अन्यथा वरे तदतिदेशवैयर्थ्यापत्तिरिति वाच्यं, सपिण्डशब्दस्य सम्बन्धिकत्वादेवाऽसपिण्डत्वस्याऽन्यत्र लाभे एतैरेवेत्येतच्छब्देन तत्परामर्शे प्रयोजनाभावेन तदनतिदेशात। नचैकतो निवृत्तावप्यन्यत्र केषाञ्चिदभिमततन्निवृत्यभावस्य सिद्ध्यर्थं न तत्परामर्श इति वाच्यम्, केषाञ्चिदभिमतस्यातिदेशिकाऽसमानगोत्रजत्वस्य सिद्ध्यर्थससमानगोत्रजत्वस्यापि परामर्शपत्तेः। नच तत्रेवाऽत्रवचनविरुद्धस्यापि फलस्याऽभावादिदं नातिदिश्यत इति वाच्यम्, एकतो निवृत्तेऽपि समानगोत्रजत्वमन्यत्र तदा निवृत्तिरूपप्रयोजनस्य स्पष्टत्वात्। नचाऽत्रापीटापत्तिरिति वाच्यं, शब्दप्रयोजनमात्रेण वचनविरुद्धार्थस्वीकारे नहि शब्दकृतेन नामार्थेन भवितव्यम्,अर्थकृतेन नामशब्देन भवितव्यमिति महाभाष्यविरोधापत्तेः। किञ्च वधूवरयोः साक्षात् सापिण्ड्यसम्भवेन स्वसापिण्ड्यकूटस्थसपिण्डत्वमेव तद्वाच्यम्। नोकत्र निवृत्तौ सत्यामपरत्रैतत्सम्भवति। नत्वस्वसपिण्ड14कूटस्थसन्ततित्वरूपं तदिति अष्टमं वरं प्रतिकन्याया असापिण्ड्येऽपि कन्यायाःकूटस्थेन सापिण्ड्यात्तत्सन्ततित्वाद् वरस्तां प्रति सपिण्ड एवेति वाच्यं, तत्त्वेन तत्त्वे सोदकादावपि तदापत्तेः।
किञ्च समानगोत्रजत्वस्यापि तादृशकूटस्थसन्ततित्वात्तत्समानगोत्रजत्वेनैवाङ्गीकारापत्तौ भवदुक्तरीत्या षष्ठीं कन्यां प्रति वरस्याऽसमानगोत्रजत्वेऽपि तस्या वरसमानगोत्रजकूटस्थसन्ततित्वात् कन्या वरं प्रति समानगोत्रजैवेत्यश्याप्यापच्या अष्टमेन मातृसन्तानजा षष्ठ्यप्यविवाह्येत्यस्या- ध्यापत्तेः।
नच ‘स्वगोत्राद्भ्रश्यते नारी’ति वचनात्तत्सन्ततित्वेऽपि समानगोत्रत्वाभावान्न तदापत्तिरिति वाच्यम्,तर्हि ‘पञ्चमात्सप्तमा’दिति वचनेनाऽष्टमे तत्सन्ततित्वेऽपि सापिण्ड्याभावप्रतिपादनादविवाह्यत्वोक्तेः प्रकृतेऽपि असाङ्गत्यस्य तुल्यत्वात्। किंच- अयमस्या असपिण्ड इयं स्वस्य सपिण्डेति व्यवहारस्य वाक्यविदामनुचितत्वात्। तस्मादेकनिवृत्तौ निवृत्तिरेव सर्वथा युक्ता। एवं चोभयत्र पुंसन्ताने एकसन्तानस्थाऽष्टमपरसन्तानस्थसप्तमयोः परस्परं त्रिरात्रमेवाऽऽशौचमुचितम्। एतेनैकतः सप्तमपर्यन्तानामन्यतोऽष्टमादिजननादौ दशरात्रमष्टमादीनां च सप्तमपर्यन्तजननादौ त्रिरात्रमाशौचमि-त्यपास्तमिति दिक्॥
अयमन्त्राभिसन्धिः—
अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियमुद्वहेत्।
अनन्यपूर्विकां कान्तामसपिण्डां यवीयसीम्॥
अरोगिणीं भ्रातृमतीमसमानार्षगोत्रजाम्।
इति याज्ञवल्क्योक्तेरसपिण्डामित्यत्र सापिण्ड्यं निरवधिकं स्मृतम्। ततश्चात्सपिण्डामिति विशेषणं व्यर्थं स्यादतो याज्ञवल्क्य एवेयता विशेषमुक्तवान्।
पञ्चमात्सप्तमादूर्ध्वं मातृतः पितृतस्तथा।
इति मातृतो मातुः सन्ताने पञ्चमात्, पितृतः
पितुः सन्ताने सप्तमादू्र्ध्वंसापिड्यं निवर्तत इति विज्ञानेश्वरो व्याख्यत्। अत्र पञ्चमत्वसप्तमत्वेकूटस्थमादायैवबोध्ये ।तदुक्तम्-
सन्तानं भिद्यते यस्मात्पूर्वजादुभयत्र तु।
तमादाय गणेद्धीमान् वरं यावच्च कन्यकाम्॥
इति। एतेनात्र15 याज्ञवल्क्यवाक्ये मातृत इति श्रूयते। तत्र मातृशब्दः किं वधूत्ररयोः साक्षाज्जनन्या एव वाचक उत साक्षात्परम्परासाधारणः, अन्त्येऽपि16किमन्यतरस्य साक्षात्परम्परासाधारणजननसित्त्वे सापिण्ड्यं निवर्तते उतोभयोः। तत्र न तावदाद्यः—पञ्चमत्वस्य सामानाधिकरण्येन मातृविशेषणत्वे पञ्चमादिति निर्देशस्याऽसङ्गत्यापत्तेः।
नच—
वध्वा वरस्य वा तातः कूटस्थाद्यदि सप्तमः।
पञ्चमी चेत्तयोर्मातातत्सापिण्ड्यं निवर्तते॥
इत्यभियुक्तोक्तपद्ये सामानाधिकरण्यस्यैत्र प्रतीत्याऽसङ्गतत्वमित्युक्तिरेवाऽसङ्गता तस्यैवाऽन्यथानयनादिति वाच्यम्
बाधेऽदृढेऽन्यसाम्यात किं दृढेऽन्यदपि बाध्यताम्।
इति न्यायेंन तस्यैवाऽनार्षत्वेनाऽसङ्गतत्वात्। तस्यापि सकलऋषिवचनाविरोधेन व्याख्यातुं शक्यत्वात्। न द्वितीयः, कूटस्थतदपये चतुष्टयात्मकपञ्चसमुदायघटकद्वितीयादिमातरमादाय षष्ठयोः सापिण्ड्य निवृत्यापत्तौ भवदनभिमतविवाहापत्तेः। न तृतीयः, असपिण्डामिति परिणेयकन्याविशेषणं श्रूयते। तथाच ‘एतैरेवगुणैर्युक्त’ इति वचनेन वरेऽपि तदतिदिश्यते। अत एव च वरनिरूपितं कन्यायां कन्यानिरूपितं च वरे पृथगेत्र सापिण्ड्यं नतु संयोगवद्व्यासज्यवृत्ति; उभयनिरूपितमेकमेव, यतोऽन्यतरतो निवृत्तेरन्यतरस्मिन्निवर्तेत। तथा सति कन्यावरयोरसापिण्ड्यविशेषणवैयर्थ्यापत्तेः। अन्यतस्त्रैव तदुक्तयोभयत्रोक्तेः फललाभात्। तथाच शिष्टवरदाक्षिण्यात्यानां सर्वेषामविप्रतिपन्नो व्यवहारः, ‘एकतो निवृत्तं सापिण्ड्यं नान्यत’ इति द्वैतनिर्णयादिग्रन्थविरोधात्।
ननु ‘पञ्चमान्मातृत’ इत्यत्र ‘शक्यं चक्षुरुपहन्तु’मित्यत्रेव सामान्ये नपुंसकं स्त्रीकृत्य सामानाधिकरण्यमुपपन्नमिति चेन्न, मातृतो मातुः सन्ताने पञ्चमादूर्ध्व पितृतः पितुः सन्ताने सप्तमादूर्ध्वं सापिण्डयं निवर्तत इति विज्ञानेश्वरव्याख्यानेन भवदभिमतसामानाधिकरण्यस्यैव निरस्तत्वात अनन्यगतिकगतिसामान्यनपुंसकत्वकल्पनस्थाऽनुचितत्वाच्च।
यत्तु विष्णुपुराणवचनम्—
पञ्चमी मातृपक्षात्तु पितृपक्षातु सप्तमीम्।
गृहस्थ उद्वहेत्कन्यां न्यायेन विधिना नृप॥
इति। तत्राऽतीत्येन्यध्याहार्यम्, अन्यथा ‘पञ्चमात्सप्तमादूर्ध्व मिति याज्ञवल्क्य विरोधात्। चतुर्विंशतिमतव्याख्याग्रन्थविरोधाच्च। तत्र व्याख्यात्रा याज्ञवकल्यानुरोधेन विष्णुपुराणेऽतीत्येत्यध्याहारेणाऽविरोधसम्पादनवद्भवदभिमतसामानाधिकरण्यस्य शङ्कासमाधानयोरकृतत्वात्। अतः परिशेषाद् वधूवरयोरुभयोः साक्षान्मातृनिरूपितसापिण्डये पञ्चमादूर्ध्वं तयोः साक्षात्पितृनिरूपितसापिण्ड्ये सप्तमादूर्ध्वं तन्निवर्तत इत्यर्थः। तुरीयःपर्यवसितः। बधूवरयोः कूटस्थेन सह सापिण्डये निरूपितं माता चेत्स तयोर्मातृपक्षः। वधूवरयोः कूटस्थेन सह सापिण्ड्ये निरूपितं पिता चेत्स तयोः पितृपक्षः।
तदुक्तम्—
अस्या मातुस्तु यत्पित्र्यंमातृकं वा यदा भवेत्।
उभयं तद्वरस्यापि पितृतः परिकीर्तितम्॥
इति। अस्या वध्वा मातुर्यत्पित्र्यं पितृसम्बन्धि कुलं मातृकं वा मातृसम्बन्धि कुलं वा यत्र भवेत्तदुभयं कन्याया मातृतः मातृसम्बन्धि मातृत इति यावत्। तुरप्यर्थे, तेन वरस्यापि बोध्यमिति प्रथमः श्लोकार्थः। वरस्यापि पितुर्जनकस्य, अपिशब्दाद्वध्वा अपि इत्यादि पितृतः पितृसम्बन्धि पितृपक्ष इति यावदिति द्वितीयः श्लोकार्थः।इममेवार्थं मनसि निधाय ‘मातृतो मातुः सन्ताने’ इत्यादि विज्ञानेश्वरो व्याख्यत्। सर्वथा ‘पञ्चमा ‘दित्यादे’रूर्ध्व’मित्यत्रैवाऽन्वयः। मातृतः पितृत इत्यनयोः सपिण्ड्य एवाऽन्वयो न्याय्य इति। सोऽपि न शब्दमर्यादया लभ्यः, तथाऽऽर्षवाक्यतोऽप्रतीतेः। तस्मात्कथं तदर्थवर्णनमित्यपास्तम्। अर्थस्यप्रागुक्तेन दोषलेशाभावात्। अधिकं सापिण्डय17प्रदीपतोऽवसेयमिति॥ १४ ॥
उक्तमेवविशदयति आद्य इत्यादिपद्यत्रयेण—
आद्येऽष्टके पञ्चमके च सप्तमा -
तृतीयके सप्तमके तु षष्ठतः॥
चतुर्षु शेषेषु समेषु पञ्चमा-
त्करग्रहः स्यादिति सर्वसंमतम्॥ १५ ॥
आद्य इति। तुश्चार्थे। कूटस्थत इत्यस्याऽनुवृत्तिः। तथाच कूटस्थादारभ्य यः सप्तमस्तमभिव्याप्य सम्पादितप्रस्तारभेदानां यान्यष्टान्यष्टकानि तेषु आद्ये पञ्चमके तृतीयके सप्तमके च अष्टके, समसंज्ञकेषु चतुर्षु द्वितीयचतुर्थषष्ठाष्टमेषु अष्टकेषु पञ्चमादूर्ध्वं षष्ठतः षष्ठादारभ्य पाणिग्रहः स्यादिति सर्वमुनिसंमतमित्यर्थः। यथाश्रुते तु पञ्चमात्सप्तमादित्यनयोः कथञ्चिदुपपत्तावपि षष्ठत इत्यस्योपपत्तिश्चिन्त्या॥ १५ ॥
चतुष्के पुमांसोऽप्यविच्छिन्नरूपा
यदि स्युस्त्रिके क्वापि कन्याजनिः स्यात्
निवृत्तं सपिण्डत्वमत्राऽवसेयं
प्रमाणं तु मन्वादितोऽन्वेषणीयम्॥१६॥
चतुष्के इति। अपिश्चार्थे। अत्र एषु पूर्वोक्तेषु भेदेषु आद्यभेदचतुष्के त्रिके च सप्तसु पुरुषा अविच्छिन्नरूपा अव्यवहितरूपाः स्युः ।क्वापि द्वितीयभेदादौ कुत्रचिदपि कन्योत्पत्तिः स्याद्यदि तदा वधूवरयोः पञ्चमादूर्ध्वं सपिण्डत्वं निवृत्तं निश्चेयम्। तत्र प्रमाणं तु मन्वादितः, अतद्गुणसंविज्ञानबहुव्रीहिणा याज्ञवलक्यादिस्मृतेर्बोध्यम्। अत्र व्याख्याने पद्याधिकपदानि पूर्वतोऽनुवृत्तिलब्धान्युक्तानि। याज्ञवल्क्यादिकं तु प्रागुक्तमेव॥ १६ ॥
चतुष्के त्वविच्छिन्नविच्छिन्नरूपा
पुमुत्पत्तिरन्यत्र कन्याजनिर्न॥
त्रिके क्वापि मन्वादिभिस्तत्र चोक्तं
सपिण्डत्वमासप्तमं नान्यथैतत्॥१७॥
चतुष्के त्विति। तुरुक्तवैलक्षण्ये। यत्र आद्यभेदे चतुष्के त्रिकेच सप्तसु अविच्छिन्नविच्छिन्नरूपा18 सर्वथा अविच्छिन्नरूपा पुरुषोत्पत्तिः। अन्यत्र क्वापि द्वितीयभेदादौ क्वचिदपि कन्योत्पत्तिर्नैव, तत्र मन्वादिभि सप्तमं सप्तममभिव्याप्य सपिण्डत्वमुक्तम्। पूर्वपद्योक्तं दार्ढ्याय पुनराह नान्यथेति। अन्यथा एतत्पद्योक्तविषयाभावे पूर्वपद्योक्तविषये इति यावत्। न तत्सप्तममभिव्याप्योक्तं सापिण्ड्यं, न किन्तु पूर्वोक्तमेवेत्यर्थः। सप्तममभिव्याप्य सापिण्ड्योक्तिश्चाऽऽशौचोपयोगिनीति प्रागुक्तमेवेति बोध्यम्॥ १७ ॥
एकदेशीमतमाह—
पञ्चम्योः कन्ययोः पुत्रौ यदि स्यातां तयोः पुनः॥
सापिण्ड्यमनुवृत्तं स्यान्मण्डूकप्लुतितस्तयोः॥१८॥
पञ्चम्योरिति। यदि पञ्चम्योः कन्ययोः पुत्रौ पुत्रश्च पुत्री च ‘पुमान् स्त्रिये’त्येकशेषः; पुत्रकन्ये स्थातां, तयोः पुत्रकन्ययोः पुनर्यदि पुत्रौ पुत्रकन्ये स्थातां तदा तयोस्तत्पुत्रकन्यापुत्रकन्ययोः सप्तमयोर्मण्डूकप्लुत्या षष्ठयोर्निवृत्तमपि तन्मातृकुलसपिण्ड्यमनुवृत्तं स्यादित्यर्थः। यथाचाऽस्यैकदेश्युक्तित्वं तथा प्रतिपादितमधस्तात् ॥१८॥
एकदेशीमतमेव विशदयति—
पञ्चम्योश्चेत्कन्ययोः पुत्रकन्ये
स्यातां सापिण्ड्यं निवृत्तं तयोस्तत्॥
तत्पुत्रौ चेत्पुत्रयोः पुत्रकन्ये
तत्सापिण्ड्यं वर्तते सप्तमान्तम्॥१६॥
पञ्चम्योश्चेदिति। यदि पञ्चम्योः कन्ययोः पुत्रकन्ये स्यातां तदा तयोः पुत्रकन्ययोः षष्ठयोस्तन्मातृकुलसम्बन्धि सापिण्ड्यं निवृत्तम्। यदि तत्पुत्रौ तयोः पञ्चमकन्ययोः पुत्रौ पुमपत्ये तयोः पुत्रयोः पुमपत्ययोः पुत्रकन्ये तदा तत्सापिण्ड्यम्। उक्तोऽर्थः। सप्तमान्तं सप्तममभिव्याप्य वर्तते। यद्यपि षष्ठे निवृत्तं तथापि पुमपत्यत्वात् द्वयोर्विवाहाप्रसङ्गात, असगोत्रत्वेन दशाहाऽऽशौचाप्रसक्तेश्च तन्निवृत्तेर्न फलमित्याशयेन सप्तमान्तमित्युक्तम्। यद्वा सिद्धान्ताभिप्रायेणैवेदम्। तच्च पूर्वार्धे व्याख्यातमेव। तत्पुत्रौ पञ्चमौ पुरुषतनयौ तयोर्यो पुरुषतनयौ तयोः पुत्रकन्ये यदि स्तः तदा तत्सापिण्ड्यं सप्तमान्तं वर्तते। पितुः सप्तमत्वेऽष्टमादौ सापिण्ड्यनिवृत्तिरुक्तत्वादित्यर्थः॥ १९ ॥
सिद्धान्तोक्तिमुपसंहरति—
पित्रादिबन्धुत्रितये तु सप्तमा-
न्मात्रादिबन्धुत्रितये तु पञ्चमात्॥
सपिण्डताया विनिवृत्तिरुक्ता-
ऽथोऽन्येषु गोत्रेषु सपिण्डतां ब्रुवे॥२०॥
पित्रादीति। तदेवमित्यादिः। एकस्तुरेवार्थे, व्युत्क्रमे च। अपरश्चार्थे। सप्तमातु सप्तममेवाऽभिव्याप्प विद्यमानपित्रादीनां बन्धुत्रितयं तत्पितृष्वसृसुततन्मातुलसुततन्मातृष्वसृसुतरूपं तत्र च पञ्चमादूर्ध्वं षष्ठादारभ्य सपिण्डतया विशेषेण सर्वथा निवृत्तिरुक्तेत्यर्थः। अथ विषयान्तरं प्रतिजानीत —अथोऽन्येष्विति। अथो अथ,
अन्येषु गोत्रेषु अन्यवंशेषु स्वकूटस्थासन्नतिष्विति यावत्, तां कथयामीत्यर्थः॥ २० ॥
प्रतिज्ञातमेव क्रमेणेत्याह—
सापत्नमातुर्जनकस्य वंशे
सापिण्ड्यमुक्तं पुरुषत्रयान्तम्॥
क्रीतेषु दत्तेष्वथ देशभेदे -
ष्वयं विधिः स्यादिति चाऽऽहुरार्याः॥२१॥
सापनेत्यादि। सापत्नमातुर्जनकस्य तत्पितुः वंशे कुले पुरुषत्रयान्तं जनकं विहाय पुरुषत्रयपर्यन्तं तं गृहीत्वा तु पुरुषचतुष्टयपर्यन्तं तदपि वचनेनोक्तेष्वेव। नतु सर्वचतुष्टयपर्यन्तम्। तदाहोक्तमिति। सुमन्तुनेति शेषः। इत्थं च सुमन्तुवाक्यम्-‘पितृपत्न्यः सर्वामातरस्तदुभ्रातरो मातुलास्तद्भगिन्यो मातृष्वसारस्तददुहितरश्च भगिन्यस्तदपत्यानि भागिनेयान्यथासङ्करकारिणःस्यु’रिति। माधवीये ‘तद्भगिन्यो मातृष्वसार’ इति न पठितम्। हरदत्तोन्नीताऽऽपस्तम्बधर्मसूत्रोज्ज्वलायां तु ‘पितृपत्न्यः सर्वा मातरस्तदुभ्रातरो मातुलास्तत्सुता मातुलसुतास्तस्मात्ता नोपयन्तव्या’ इति सुमन्तुवचनं पठितम्। अत्र पितृपत्नीत्वावच्छेदेन मातृत्वातिदेश एत्र विधेयः, अग्रे तु तल्लुब्धार्थानुवादोऽतिप्रसङ्गनिरासाय। तद्भ्रातॄणां मातुलत्वे तत्कन्याया भनिनीत्वात्तेन तदविवाहः। अत एव ‘तद्भगिन्यो मातृष्वसार’ इति न पठितम्। तेन तदुभ्रातॄणां मातुलत्वे तद्भगिनीनां तत्त्वस्याऽर्थसिद्धत्वात्। अत एत्र न पाठभेदेऽपि फलभेदः। अत्र चेन ‘तत्सुता भ्रातर’ इत्यस्य समुच्चयः। अत एव तद्पत्यानि इति सामान्योक्तिः। अन्यथा भागिनेय्या तस्याऽविवाहो भगिन्या च विवाह इत्यसङ्गतिः स्पष्टैव। इदं च मातृगमनप्रायश्चित्तस्य तत्परिणयनतदुपगमतद्वधादिप्रायश्चित्तस्य तदाशौचादेर विवाह प्रयोजकतत्सापिण्डयस्य चाऽतिदेशं करोति। अत्र प्रथमवाक्ये यन्निरूपितं सपत्नमातृत्वं तं प्रत्येवाऽऽशौच सापिण्ड्याद्यतिदेशो न तत्पुत्रादिकं प्रत्यपि। एवं तत्कन्यानां भागिनेयीत्वातिदेशेऽपि न तत्कन्यायां भागिनेयिकन्यात्वातिदेशः, ‘यावद्वचनं वाचनिक’मिति सिद्धान्तात् उक्तरप्रयोजकत्वात्। एवंच परिगणितेष्वेव सापिण्डयं नतु
सप्तमपञ्चमपर्यन्तमन्यथा लक्षणापत्तेरिति बोध्यम्।
एतेनाप्यसपत्नमात्रा19 सह कथं सापिण्ड्यंतच्छरीरावयवान्वयाभावात्। नतु पितृशरीरावयवानां स्वस्मिन्नारम्भकत्वेन सपत्नमातरि बोधयत्वेनाऽन्वयादेकशरीरावयवान्वयेनैव सापिण्ड्यसिद्धिरिति वाच्यम्, पित्रवरुद्धदासीभुजिष्यादिभिरपि सापिण्डयापत्तेः। नच स्वसपिण्ड पितृसपिण्डत्वेन सपत्नमात्रा सह सापिण्ड्यमिति वाच्यम्, सापत्नमातामहादिभिरप्येतत्सापिण्ड्यातिप्रसङ्गापत्तेः। तथाहि —स्वसपिण्डः पिता तत्सपिण्डा सपत्नमातेति तयासह सापिण्डयं यथा, तथा तत्सपिण्डेन तत्पित्रा सपत्नमातामहेनापि समं सापिण्डयं केन वार्यते। नच तत्र पितृशरीरावयवान्वयिनि सपत्नभ्रातरि सपत्नमातुरप्यवयवान्वयात् स्वारम्भकेन सहैकशरीरारम्भकतया तथा सह सापिण्डयमिति वाच्यम्, तत्रापि प्रागुक्तातिप्रसङ्गात्तस्यापि स्वकन्याद्वारा दौहित्रशरीरावयवान्वयात्।
अत्रोदाहरणं यथा—श्रीरामस्य पिता दशरथस्तदवयवान्वयिनि भरतशरीरे केकयराजस्थाप्यवयवान्वयात्रामकेयराजयोः सापिण्ड्यमिति। एवं सपत्नमातुलादिभिरध्येकशरीरारम्भकारभ्यत्वेनसापिण्ड्यापत्तिः। यथा साक्षात्पराम्पराभ्यामेकस्य भरतशरीरस्यारम्भकौ दशरथकेकयराजौ तद्दाह्यत्वेन रामयुधाजितोरपि सापिण्डयम्। एवमेत्र सापत्नमातुलकन्यापुत्रादिभिरपि सापिण्डयमुन्नेयं, साक्षात्परम्पराविवक्षायाः सर्वशेषत्वात्॥
ननु यत्र यत्र सपिण्डशब्दप्रयोगस्तत्र तत्र साक्षात्परम्परया वा एकशरीरावयवान्वयो वेदितव्य इति मिताक्षराग्रन्थस्वारस्यात् सापिण्डयावयवान्वययोर्व्याप्यव्यापकभावावगमात् सपत्नमातुलादावेकशरीरावयवान्वयसत्स्वस्थ व्यापकव्यभिचारित्वेनाऽदोषत्वं सपिण्डशब्दप्रयोगा- भावादिति चेन्मैवम्, ‘पितृपत्न्यः सर्वा मातरस्तद्भ्रातरो मातुलास्तद्भगिन्यो मातृष्वसारस्तद्दुहितरोभगिन्यो भगिनीसपत्न्यश्च भगिन्यस्तदपत्यानि भागिनेयान्यथासङ्करकारिणीति याप्यापतिता भवन्तीति सुमन्तुना सापिण्ड्यव्याप्यमातुलत्वादिव्यपदेशात्। यद्येवं तर्हि न कोपि दोषो लक्ष्यलक्षणोभयसत्त्वादिति चेन्न, तथाहि सति सहजसिद्धावयवान्वयरूपसापिण्ड्यसद्भावेन सापत्नमातुलादिषु सापिण्ड्यानिदेशाय वचनारम्भोऽनर्थकःस्यात्। तथाच सुमन्तुवचनारम्भान्यथानुपपत्त्यैव सापत्नमातुलादिष्ववयवान्वयरूपसापिण्डयाभावोऽवगम्यत इत्यतिप्रसङ्गः सुस्थः, तस्मान्न सापत्नमात्रा सह सापिण्डयमत्रयवान्त्रयाभावादिति प्राप्ते उच्यते— ‘यत्र यत्रे’ त्यादिग्रन्थस्वरसात् सपत्नमातरि सर्वजनीनसपिण्डशब्दप्रयोगान्यथानुपपत्त्याऽवयवान्त्रयोऽवश्यं वाच्यः। स च यथा सपत्न्योरेकेन भर्त्रा सहैकशरीरारम्भकतया तथा स्वारम्भकेन सहैकशरीरारम्भकतया सपत्नमात्रा सहापि सिद्ध्यत्येव। एवमेकतः सिद्धावन्यतोऽप्येकशरीरारम्भणसहकार्यारब्धत्वेन तत्सिद्धिः। यथा पुत्रस्य पितृशरीरावयवान्वयेन पित्रा सहेत्युक्ते पुत्रेऽपि स्वशरीरात्रयवान्वयेन पुत्रेण सहेत्यपि सिद्धम्। तस्मादस्ति सपत्नमात्रा सहाऽप्यवयवान्त्रय इति न दोषः।
नच सपत्नमातामहादिष्वतिप्रसङ्गः, इष्टापत्तेः। नचैवं सपत्नमातुलादिष्वप्येकशरीरारम्भकारब्धत्वादिना सहजसिद्धे सापिण्ड्ये ‘तद्भ्रातरो मातुला’ इत्यादिवचनारम्भवैयर्थ्यमिति वाच्यं, पञ्चमसप्तमादिसंख्यान्तरपरिसंख्यार्थक्योपपत्तेः। तथाहि मातृपितृसापिण्ड्येनाऽविवाह्यत्वेऽवधिद्वयं स्वपरमतेनोपन्यस्य मातृसपत्न्या मातृपितृत्वाभावेन सापिण्ड्यद्वारताऽसम्भवात्तत्सम्बन्धिनां सापिण्ड्याभावादविवाह्यत्वाप्रसक्तौ ‘पितृपत्न्यः सर्वा मातर’ इत्यारभ्यते। तत्र मातृसपत्नी सपत्नमातेत्यादिशब्दैरभिधानसम्भवेऽपि यत् पितृपत्नीशब्देनोपादानंतत्तस्याः पितृद्वारकसम्बन्धद्योतनाय। यच्च पत्नीशब्दोपादानं तपित्रवरुद्धदासीभुजिष्पादिभिः सापिण्ड्यावारणाय।यच्च सर्वशब्दोपादानं तद्विजाती-यादिभिरपि सापिण्ड्यद्योतनाय। तेन च तत्सम्बन्धानामप्यासप्तमादापञ्चमाद्वाऽविवाह्यत्वप्रसक्तौ ‘तद्भ्रातरो मातुला’ इत्यादिपरिसंख्यायते। तथा —एते एवाऽविवाह्यानान्ये —इति। ‘पञ्च पञ्चनखा भक्ष्या’ इतिवत्। नचाऽयं नियमः सम्भवति, यथोक्तरीत्या सापिण्ड्यसद्भावेनाऽविवाह्यत्वस्य नित्यवत्प्राप्ततया पाक्षिकत्वाभावात्। नचाऽयमपूर्वोऽविवाह्यत्वप्रतिषेध एव कुतो नेष्यते सर्वजनितसापिण्ड्याभावेन प्रसक्तिसम्भवादिति चेन्न, साक्षात्परम्परया वा स्वारम्भकेण सह्रैकशरीरारम्भकत्वादिति सिद्धस्य सापिण्ड्यस्याऽपलपितुमक्यत्वात्।
तत्सिद्धौ चाऽतिप्रसङ्गभङ्गायाऽवश्यापेक्षितव्यवस्थाऽभिधानमस्मत्पक्षे। अपूर्वनिषेधपक्षे त्वनपेक्षितार्थवचनमपूत्रन्तरकल्पना क्लेशश्चेति दोषद्वयम्। तथाहि व्यवस्थातिक्रमे हि सपिण्डोद्वाह निषेधाश्रितत्वेन व्यवस्थायाः सपिण्डोद्वाह निषेधातिक्रमजन्यमेव दुरितं कल्प्यते न पृथक्। अपूर्वनिषेधपक्षे तु सापिण्ड्याभावात् सपिण्डोद्वाह निषेधातिक्रमजन्यदुरिताद् दुरितान्तरकल्पनाक्लेशः प्रकृतनिषेधातिक्रमे इति। तस्मात् स्वभावसिद्धसापिण्डयस्याऽपलपितुमशक्यत्वात्तदतिप्रसङ्गभङ्गायाऽवश्यापेक्षितव्यवस्थाभि- धानार्थमिदमुदेतीति सर्वंसुस्थम्। अथ वाक्यार्थः—तद्भातर इत्यत्र तच्छब्देन पितृपत्नी परामृश्यते प्रधानत्वात्। तद्भगिन्य इत्यत्रापि सैव, पूर्वपरामर्शेन सन्निहितत्वात्प्रधानत्वाच्च। तद्दुहितर इत्यत्र तु न तत्परामर्शस्तद्दुहितॄणां साक्षात्पित्रारब्धत्वेन सापिण्डयेनाऽसपिण्डामिति सामान्यवचनेनैव विषयीकरणादेतद्विशेषवचनविषयान्त-र्भवानर्थक्यात्। किन्तु सपत्नमातुलमातृष्वस्रोरेव परामर्शः। ततश्च तत्कन्यानामेवाऽविवाह्यत्वमत्रोच्यत इति सम्यक्।
पुत्रस्पैत्र सापत्नमातृकुले सापिण्ड्यं, न सापत्नमातृकुलस्य पुत्रकुले इति शङ्कापनोदायाह भगिनीसपत्न्यश्च भगिन्य इति। भगिनीसपत्नीत्वव्यपदेशेनोभयतोऽपि सापिण्ड्यप्रदर्शनात्परस्परसन्ततेरविवाह्यत्वं दर्शयति। तदेवाह तदपत्यानीति। तासामपत्यानीत्यत्रापि तच्छब्देन सापत्नमातुलमातृष्वसृतदुभयदुहितॄणां भगिनीमपत्नीनां च परामर्शः। पितृृपत्नीपरामर्शेतु तदपत्यानां भगिनीत्वेन भागिनेयत्वव्यपदेशानुपपत्तेः। ततश्च सापत्नमातुलमातृष्वसृतदुभयदुहितृतदपत्यानि भगिनीसपत्न्यपत्यानि चाऽविवाह्यानीति वाक्यार्थ इति।
नन्वत्रोभयतः सापिण्ड्यं न सिद्ध्यत्ति प्रमाणाभावात्। तथाहि पितृपत्नीशब्दो हि सपत्नमातुः पितृद्वारकमेवसापिण्ड्यं वदतीत्युक्तमेव प्राक्। तच्च सापिण्ड्यं यस्य पितुः सा पत्नी तस्यैवेति सापिण्ड्यावधिपरिच्छेदाकाङ्क्षाऽपि तस्यैव, न तत्पितृनापत्नीपक्षस्थानां पितृपत्नीरूपसपिण्ड्य- प्रयोगिताभावात्। नहि सा तेषां पितृपत्नी भवति, येनेदं वाक्यं तत्सापिण्डयं परिच्छिन्द्यात्। अस्ति तु भगिनीत्वादिना तेषां तत्सापिड्यं, तत्र चाऽस्त्येव परिच्छेदकं पञ्चमात्सप्तमादूर्ध्व’मित्यादि। अत एव यद्धर्मपुरस्कारेण येन सह सापिण्ड्यं तद्धर्मपुरस्कारेणैव तदुपादानम्। यथा ‘तद्भ्रातरो मातुला’ इत्यादिषु। तद्भातृत्वादिना यदीदमेव वाक्यमुभयतोऽपि सापिण्ड्यपरिच्छेदकं स्यात्तर्हि पुरुषसंख्याविशेषपुरस्कारेणैव प्रवर्तते। यथा ‘पञ्चमात्सप्तमादूर्ध्व’मित्यादि न तद्भ्रातृत्वादिपुरस्कारेण प्रवर्तते। तस्मान्नोभगतः सापिण्डयपरिच्छेदक मिद मिस्यबसीयते। किन्तु यद्धर्मपुरस्कारेण यदुपादानं तस्यैवाऽविवाह्यत्वं प्रतिपादयति नान्येषाम्। अन्यथा तद्भ्रातृपदादीनां तत्पित्राद्युपलक्षकतापत्तेः। तथाच पुनरतिप्रसङ्गस्तद्वारणाय ‘पञ्चमा ‘दित्यादि वाक्यमेव स्त्रीकार्यमिति चेत्, एतद्वाक्यारम्भाय यथोपपत्त्यैव ब्रूमः। ततश्च परिगणितातिरिक्तेषु येषु सापत्नमातामहसापत्न-मातुलपुत्रसापत्नमातृष्वसृसुतेष्वेतद्वाक्यं न प्रवृत्तं, ‘पञ्चमादित्यादिवाक्येन तत्र विवाह्यतापत्तिरवशिष्यते। नचेष्टापत्तिः, उक्तरीत्याऽवयवसम्बन्धसत्त्वेन सापिण्ड्यसद्भावात् सपिण्डानिषेधस्याऽत्राप्यक्षतत्वात्। तर्हि सपिण्डानिषेधादेवोक्तविषयेषु विवाह्यताप्रसङ्ग इति चेन्न, सापिण्ड्यस्याऽऽसहस्रपुरुषमप्यविच्छेदेन परिच्छेदकाभावे निषेधस्यातिप्रसङ्गात्। तस्मादनन्यगत्या तद्भ्रात्रादिपदं तत्पित्रादीनामप्युपलक्षणं वाच्यम्। ततश्च शब्दोपत्तानां प्रचयेन यावतां कथञ्चिदुपस्थितिस्तावद् दूरं सापिण्ड्यमनेन परिच्छिद्यत इति पर्यवसन्नम्। तद्यथा-सपत्न मातामहो मूलपुरुषः प्रथमः, तत्पुत्रः सापत्नमातुलो द्वितीयः, तत्पुत्रः सापत्नमातुलपुत्रस्तृतीयः। किमस्याऽश्रुतस्य ग्रहणे प्रमाणमिति चेत्—‘तद्दुहितरच भगिन्य’ इति मातुलमातृष्वसृहितृ-उपगदानमेवेति ब्रूमः। दुहितॄणामिव पुत्राणामपि सम्बन्धविशेषात् तत्पुत्रः सापत्नमातुलपुत्रश्चतुर्थः। अत्रापि तदपत्यानि भागिनेयानीति मातुलमातृष्वसृदुहित्रपत्यानां मातुलमातृष्वसृपुत्रापत्यानामप्युपलक्षणं तुल्यसम्बन्धतया बाधकाभावात्। एवं सापत्नमातृकुले चतुःपुरुषं सापिण्ड्यं सिद्ध्यति। एवं सापत्नमातृष्वसूसन्तानेऽपि ज्ञेयम्, मातुलमातृष्वस्रोर्मूलपुरुषस्यैकत्वात्। ततश्च सापत्नमातामहादेव मूलपुरुषाद् दुहितृसपत्नीसन्तानं तत्सन्ताने च यावच्चतुर्थं परस्परमविवाह्यताप्रदर्शनेन चतुःपुरुषं सापिण्ड्यमनेनोक्तमिति सिद्धम्। ‘तदभ्रातरो मातुला भगिनीसपत्न्यश्च भगिन्य’ इत्यन्योन्यं तुल्यसम्बन्धप्रतिपादनलिङ्गादुभयतः सापिड्यसिद्धेः।
यत्तु मदनपारिजातेन—
पञ्चमी सप्तमी चैवमातृतः पितृतस्तथा।
इति वसिष्ठवाक्यं सापत्नमातामहकुलविषयमवयवानुवृत्तेरभावादिति व्याख्यानं तदाकाशलतेव मूलानपेक्षमेवोज्जृम्भते। उक्तरीत्याऽवयवानुवृत्तिसद्भावात् सापत्नादिपदाश्रवणात् सापत्नवाक्यैकवाक्यत्वाभावात् सौमन्त विशेषवाक्यविरोधाञ्चेति।नच वसिष्ठवाक्या- न्यथानुपपत्तिरेव मूलमिति वाच्यम्, अन्यथोपपत्तेर्वक्ष्यमाणत्वात्। तस्मादुक्तमेत्र साधीय इत्यलमतिविस्तरेणेति वीरमित्रोदयोक्तमपास्तम्। प्रागुक्तवक्ष्यमाणसकलदोषापत्तेः। सुमन्तुवाक्यस्योक्तरीत्योपपत्तेः। ‘भगिनीसपत्न्यश्च भगिन्य’ इति पाठस्थ हेमाद्रिमाधवहरदत्ताद्यसंमतत्वाचेति। सापिण्ड्यप्रदीपे तु विस्तरः। इदं च माधवमते गान्धर्वादिविवाहविषयमेव, तेन तथा पाठाङ्गीकारात्। हेमाद्रेस्तु हरदत्तोक्त एवपाठः सम्मतः। एवञ्चाऽऽद्यपाठमुररीकृत्य यत्प्रजल्पितं द्वैतनिर्णयकृता तत्सर्वं भ्रान्तिमूलकमिति स्पष्टं गुरुचरणोन्नीते सापिण्ड्यप्रदीपे।
नचैवमपि ‘असपिण्डा चेति मनूक्तेश्चकारेण पितुसपिण्डाया अपि ग्रहणात् यस्य सपत्नमाता तदपत्यस्य सापिण्डयाभावेऽपि निषेधः स्यादिति वाच्यम्, तस्याः ‘पञ्चमात्सप्तमा दिति याज्ञवल्क्यैकवाक्यत्वात् पितुरित्यादेः पितृत इत्यतोऽवशिष्टार्थत्वेन लक्षणाया अप्रसक्तेरेकमूलक- ल्पनालाघवानुरोधन लक्षणाया अप्युचितत्वात्। वस्तुतस्तु दत्तकादिविषयमिति तत्रैव स्पष्टं, शिष्टाचारात्रिरुद्धं याज्ञवल्क्येन तस्य तद्विषयत्वकल्पनात्। किञ्चैवं सपत्नमातरि मातृत्वातिदेशात्तस्या मनुवचने ग्रहणापत्तौ तत्पितुः पञ्चम्यादेरपि मातृसपिण्डात्वेन तत्सापत्नपुत्रस्य निषेधापत्तौ ‘पितृपत्न्यः सर्वा मातर’ इत्येव सिद्धौ सुमन्तुवचनस्य वैयथ्यार्पत्ते-रिति दिक्। एवं च हरदत्तरीत्या पुरुषत्रयान्तमिति भूलं यथाश्रुतमेव साधु।
अथ साप्तपौरुषं त्रिपुरुषं च सापिण्ड्यं विषयभेदेनाह क्रीतेष्विति। अथ क्रीतेषु देशभेदेषु देशनं देशः, दिश अतिसर्जने, अतिसर्जनं दानं तद्भेदभिन्नेषु दत्तेषु दत्तकेषु च। अयं चाऽव्यवहितोक्तः पुरुषत्रयपर्यन्तसापिण्ड्यसत्तारूपः, चाद्व्यत्रहितः साप्तपौरुषसापिण्डयसत्तारूपो विधिः प्रकारः स्यादित्यार्या मन्वादय आहुरित्यर्थः। क्रीतेष्वित्यस्य कृत्रिमेष्वित्यर्थः, तेषां कलिवर्ज्यत्वात्। नच दत्तौरसेतरेषां तु पुत्रत्वेन परिग्रह इति शौनकेन तेषामपि कलौ निषेधात्, कथमेतेऽपीति वाच्यं, दत्तकपदेन तस्याप्युपलक्षकत्वात्।
औरसः क्षेत्रजश्चैवदत्तकः कृत्रिमः सुतः।
इति कलिधर्मप्रस्तावे पराशरस्मरणात्। अत एव—
श्रेयसः श्रेयसोऽलाभे पापीयान् रिक्थमर्हति।
बहवश्चेत्तु सदृशाः सर्वे रिक्थस्य भागिनः॥
इति मनूक्तिः सङ्गच्छते। औरसादीनां सर्वेषां पुत्राणां प्रद्युतत्वादौरसादीनुपक्रम्य ‘तेषां पूर्वःपूर्वः श्रेयान् स एव दायहरः स चाऽन्यान् बिभृया’दिति विष्णुपुराणवचनात्। औरसादीना पुत्राणां पूर्वपूर्वाभावे परःपरो रिक्थमर्हति। पूर्वसद्भावे परसंवर्धन स एव कुर्यात्तदप्यपवादेतरविषयम्। यदि तु समानरूपा बहवः पुत्रास्तदा सर्वे एत्र विभज्य धनं गृह्णीयुरिति तद्व्याख्यातारः। इदं चौरसपरम्—
एक एचौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः।
शेषाणामानृशंस्यार्थं प्रदद्यात्तु प्रजावतम्॥
‘ऊर्ध्वं पितुश्च मातुश्चे’त्यादिनैव तद्विभागोक्तेः। किन्तु गौणानेकपरम्। एवञ्चात्राद्यार्थेन कृत्रिमसिद्धिरन्त्यार्धेन दत्तकसिद्धिरिति बोध्यम् \। नचैत्रं क्षेत्रजस्थापि स्वीकारापत्तिः, नियोगनिषेधेनैवतन्निषेधात्। तत्र क्षेत्रज इति त्वारैसविशेषणम्। कृत्रिमस्वरूपं तु मातापितृविहीनः प्रौढो विप्रत्वादिना परीक्षितः सवर्णो धनादिलोभेन स्वयं पुत्रार्थिना पुत्रीकृत इति।
सदृशं तु प्रकुर्याद्यं गुणदोषविचक्षणम्।
पुत्रं पुत्रगुणैर्युक्तं स विज्ञेयश्च कृत्रिमः॥
इति मनूक्तेः। विधिस्तु दत्तकोक्तवत् सर्वोऽत्र बोध्य20 इत्याहुः।
स्वगोत्रेण कृता ये स्युर्दत्तक्रीतादयः सुताः।
विधिना गोत्रमायान्ति न सापिण्ड्यं विधीयते॥
इति वृद्धगौतमात्।
दत्तक्रीतादिपुत्राणां बीजवस्तुःसपिण्डता।
सप्तमीं पञ्चमीं चैव गोत्रं तत्पालकस्य च॥
इति बृहन्मनोश्च क्रीतस्यापि कलौ स्त्रीकारस्तद्वद्युगान्तरविषयप्रतिपादनं वेति। क्रीतेष्विति यथाश्रुतमेव साध्विति केचित्।
माता पिता वा दद्यातां यमद्भिः पुत्रमापदि।
सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्त्रिमः सुतः॥
इति मनूक्तेः। मातापितृभ्यां प्रत्येकमन्यतराभावेऽन्यतरेणोभाभ्यां वा भरणासामर्थ्येन विधिपूर्व दत्तः प्रतिगृहीतृसवर्णो दत्तकः। अनापदि तु पुत्रदानं निषिद्धम्। अत्र पत्युःपत्न्यनुमत्यैव दातृत्वम्। अत्यन्तापदि तदनुमत्यलाभे स्वातन्त्र्यमपि। पत्न्यास्तु पत्यनुमत्यैत्र। मृते तु तस्मिन् स्वातन्त्र्यम्। ज्येष्ठस्तु सर्वथा न देय इति दिक् ॥ २१ ॥
अथ सापिण्ड्याभावेऽपि वाचनिकनिषेधमाह पितृव्येति सार्धेन—
पितृव्यभार्याभगिनी च तत्सुता-
ऽथो मातुलानीभगिनी च तत्सुता॥
ज्येष्ठस्य भार्याभगिनी जनन्याः
स्वसुः सपत्नात्मजजाऽविवाह्या॥ २२॥
पितृव्येति। अथो अनन्तरं, पितृव्यपत्न्या भगिनी तत्कन्या चाऽविवाह्या। तथा मातुलपत्न्या भगिनी तत्सुता चाऽविवाह्या। तथा ज्येष्ठस्य भ्रातुः पत्न्या भगिनी अविवाह्या। तथा स्वमातुर्भगिन्या या सपत्नी तत्सन्ततिकन्या अविवाह्येत्यर्थः॥ २२ ॥
अथ स्वभार्याभगिनी च तत्सुता
करग्रहे नैव भवेत्प्रशस्ता॥
क्वचित्तृतीयेऽथ चतुर्थके वा
विवाह इष्टः कुलदेशभेदात्॥ २३ ॥
अथेति। अथ अनन्तरं, स्वपत्न्यां भगिनी तत्कन्या च करग्रहे पाणिग्रहणे प्रशस्ता नैवभवेदिदित्यर्थः। अत्र—
मातुः सपत्न्या भगिनीं तत्सुतां चापि वर्जयेत्।
पितृव्यपत्न्या भगिनीं तत्सुतां चापि वर्जयेत्॥
इति बौधायनोक्तेः। ‘भार्यास्वसूदुहिता पितृव्यपत्नीस्वसा चेति बहुवृचगृह्यपरिशिष्टाच्च। किञ्चिदंशस्य समूलत्वेऽप्यन्यांशे मूलं चिन्त्यम्।
अथ मातुलकन्यादिपरिणयनमाह —क्वचिदिति। अथाऽनन्तरं तृतीये चतुर्थे वा, कः स्वार्थे, विवाह इष्टः।
तृतीया वा चतुर्थी वा पक्षयोरुभयोरपि।
विवाहयेन्मनुः प्राह पाराशर्योऽङ्गिरा यमः॥
इति चतुर्विंशतिमतोक्तेः।
चतुर्थीमुद्वहेत्कन्यां चतुर्थः पञ्चमोऽपि वा।
पराशरमते षष्ठीं पञ्चमो न तु पञ्चमीम्॥
इति पराशरोक्तेश्च। ‘तस्मात् सप्तमाना दत्ताश्चाद्यस्य जायतेऽत उत तृतीये सङ्गच्छावहे चतुर्थे सङ्गच्छावहे’ इति शतपथश्रुतेश्च। ‘तृप्तां जहुर्मातुलस्येव योषे ति बह्वृश्रुतेश्च। अयमपि न सार्वत्रिक इत्याह क्वचिदिति। मुख्यासम्भवे इत्यर्थः। चतुर्विंशतिमते तद्भावेत्युक्त्या शाकटायन इत्याद्युक्त्या चाऽस्याऽनुकल्पत्वस्य स्पष्टं प्रतिपादनात्। तथाचाऽनुकल्पत्वेनायं भवतीति सिद्धम्। सोऽपि न सर्वत्रेत्याह कुलदेशभेदादिति। तथाच येषां कुले देशे वा तदाचारों नास्ति तद्विषयाःसर्वे निषेधाः। येषां तु देशादौ तथाऽऽचारोऽस्ति तेषां न दोषः, ‘येनास्य पितरो याता’ इति मनूक्तेश्चेति केचित्। अन्ये तु ब्राह्मादिविवाहे पितृगोत्रनिवृत्तेर्गान्धर्वादिविवाहे तदनिवृत्तेर्ब्राह्मादिविवाहोढापुत्रादेरनुकल्पत्वेन तृतीयादिविवाहे न बाधकम्। एवं मातृष्वसृकन्याया अपि निषेधास्तु गान्धर्वादिविवाहोढासन्तानविषयाः। एवं कलिवर्ज्यत्वपि। यद्वा आसुरादिष्वपि देशविशेषेण मातुलसुतादिविवाहो धर्म्यः। तथाच बौधायनः —‘पञ्चधा विप्रतिपत्तिर्दक्षि-
णतः अनुपनीतेन भार्यया च भोजनं पर्युषितभोजनं मातुलपितृष्वसृदुहितृपरिणयनमित्यादि’ इति दिक् ॥२३॥
न्यूनत्वादिव्यवच्छेदायाऽध्येतृणां प्ररोचनाय चाह—
पद्यप्रसूनैः शरनेत्रसंख्यै-
रलङ्कृता कल्पलता मदीया॥
अध्यापकाऽध्येतृजनाय नित्यं
दद्यादभीष्टानि परःशतानि॥ २४ ॥
पद्येति। शरनेत्रसंख्यैः पञ्चविंशतिसंख्याकैः। इदं चोद्दिष्टाङ्केत्यर्धस्य, अन्त्यो द्विनिघ्न इत्यर्धस्य च श्लोकत्वमभिप्रेत्य। अन्यथा तु युगनेत्रसंख्यैरित्याद्यूह्यम्। पद्यान्येवप्रसूनानि पुष्पाणि तैर्भूषिता मदीया कल्पलता अध्यापकश्चाऽध्येता च जनश्चोदासीनः प्रेक्षकस्तत्समाहारस्तस्मै, अध्यापकाऽध्येत्रोर्जनः समूहस्तस्मै वा, अध्यापकश्चाऽध्येतृजनश्च तयोः समाहारस्तस्मै वा परःशतानि शतात्पराणि सहस्रादीनि अनन्तानीति यावत् पारस्करादित्वात्सुडागमः, वाञ्छितानि नित्यं सर्वदा दद्यात् प्रार्थनायां लोट्। इति शिवम्॥ २४ ॥
देवालयपुरावासिदेवश्रीपतिजन्मनः॥
आपदेवस्य ग्रन्थोऽयं जगज्जानातु तत्त्वतः21॥ २५ ॥
इति श्रीदेवालयपुरावासिश्रीनीलकण्ठसूनुश्रीपतिसूनुना आपदेवाऽपरनामधेयेन श्रीसदाशिव
देवेन विरचिता सापिण्ड्य कल्पलतिका
समाप्तिमगमत्।
<MISSING_FIG href="../books_images/U-IMG-17096251765th_february-removebg-preview.png"/>
इति श्रीमद्रामकृष्णदेवसूरिसूनुश्रीमन्नारायणदेव विरचिता सापिण्ड्यकल्पलतावृत्तिः समाप्त।
<MISSING_FIG href="../books_images/U-IMG-17096252415थफेव्रुयारी-removebg-preview.png"/>
॥ श्रोः ॥
सापिण्ड्य कल्पलतिकायाः पद्यानामकारानुक्रमणिका।
<MISSING_FIG href="../books_images/U-IMG-170962674315फेव्रुयारी-removebg-preview.png"/>
| पद्यानि |
| अथ स्वभार्याभगिनी.. |
| अन्त्यो द्विनिघ्नो |
| आद्येऽष्टके |
| उद्दिष्टाङ्कसमा ० |
| एकाङ्कान् द्विगुणान् |
| एकादिकाङ्कान् |
| कूटस्थतः पञ्चम० |
| कूटस्थपुंसा |
| चतुष्के त्ववि० |
| चतुष्के पुमांसो |
| जाताश्च षट् |
| तृतीयमथ |
| देवालयपुरावासि |
| नष्टाङ्कस्य दले |
| पञ्चम्योः कन्ययोः |
| पञ्चम्योश्चेत्कन्ययोः |
| प्रद्यप्रसूनैः |
| पितृव्यभार्याभगिनी |
| पित्रादिबन्धुत्रितये |
| प्रस्तारोऽग्रे |
| भूनेत्राब्धिगजान् |
| वर्णान् प्रस्तृति० |
| श्रीमद्गजानन० |
| षट्पावाद्यात् |
| समानि शुद्धा ० |
| सापत्नमातुः |
<MISSING_FIG href="../books_images/U-IMG-1709884747Screenshot(46"/>.png)
॥ श्रीः ॥
टीकायां स्थितानां पद्यानां पद्यांशानां च
अकाराद्यनुक्रमणिका ।
<MISSING_FIG href="../books_images/U-IMG-1709628408कौ-removebg-preview.png"/>
| श्लोकाः |
| अत्रैतावतिथो भेदः |
| अरोगिणीं भ्रातृमतीं |
| अविप्लुतब्रह्मचर्यो |
| अस्या मातुस्तु य० |
| आदिमध्यावसानेषु |
| एक एवौरसः पुत्रः |
| एतैरेव गुणैर्युक्तः |
| औरसः क्षेत्रश्चैव |
| चतुर्थीमुद्वहेत्कन्यां |
| तिस्रः पूज्याः पितुः |
| तृतीया वा चतुर्थी |
| त्रिके क्वापि स्त्र्यपत्यं |
| दत्तक्रीतादिपुत्राणां |
| दशाहं शावमाशौचं |
| नागेश्वरं गुरुं नत्वा |
| पञ्चमात्सप्तमा दूर्ध्वं |
| पञ्चमी सप्तमी चैव |
| पञ्चमीं मातृपक्षातु |
| पितरो यत्र पूज्यन्ते |
| बाघेऽदृढेऽन्यसाम्यात् |
| मगणाद्यष्टकयुक्तं |
| माता पिता वा दद्यातां |
| मातुः सपत्न्या भगिनीं |
| वध्वा वरस्य वा तातः |
| श्रेयसः श्रेयसोऽलाभे |
| सदृशं तु प्रकुर्याद्यं |
| सन्निकर्षेऽपि कर्तव्या |
| सपिण्डता तु सर्वेषां |
| सपिण्डानां तु सर्वेषां |
| स्वगोत्राद् भ्रश्यते नारी |
| स्वगोत्रेण कृता ये स्युः |
<MISSING_FIG href="../books_images/U-IMG-170962810115फेव्रुयारी-removebg-preview.png"/>
॥ श्रीः ॥
ग्रन्थान्तर्गतानां ग्रन्थानां ग्रन्थकर्तॄणां च वर्णानुक्रम-
सूचीपत्रम् ।
<MISSING_FIG href="../books_images/U-IMG-1709885316Screenshot(47"/>.png)
| नामानि |
| अभियुक्तः**….** |
| आपस्तम्बः …. |
| उज्ज्वला ( आपस्तम्बधर्म सूत्रवृत्तिः )…. |
| गर्भोपनिषत् …. |
| गौतमः …. |
| गौतमस्मृतिः …. |
| गौतमस्मृतिवृत्तिः**….** |
| चतुर्विंशतिमतम् …. |
| चतुर्विंशतिमतव्याख्या …. |
| देवलः …. |
| द्वैतनिर्णयः …. |
| द्वैतनिर्णयकृत् …. |
| धौम्यः …. |
| नरहरिसप्तर्षी …. |
| निरुक्तम्**….** |
| पराशरः**….** |
| पिङ्गलः …. |
| बहुवचगृह्यपरिशिष्टम्**….** |
| बवृचश्रुतिः …. |
| बृहन्मनुः**….** |
| बौधायनः …. |
| मदनपारिजात :…. |
| मदनरत्नम् …. |
| मनुः …. |
| महाभाष्यम् …. |
| मात्स्यम् …. |
| माधवः …. |
| मिताक्षरा**….** |
| याज्ञवल्क्यः …. |
| वसिष्ठः …. |
| वसिष्ठस्मृतिः**….** |
| विज्ञानेश्वरः**….** |
| विष्णुपुराणम् …. |
| विष्णुपुराणव्याख्यातारः …. |
| वीरमित्रोदयः**….** |
| बृद्धगौतमः**….** |
| शङ्खः …. |
| शतपथश्रुतिः …. |
| शाकटायनः …. |
| शूलपाणिः …. |
| शौनकः …. |
| श्रुतिः …. |
| सङ्गीतरत्नाकरः**….** |
| सङ्ग्रहः**….** |
| सापिण्डयप्रदीपः**….** |
| सुमन्तुः …. |
| हरदत्तः …. |
| हेमाद्रिः**….** |
.
<MISSING_FIG href="../books_images/U-IMG-1709885802Screenshot(48"/>.png)
॥ श्रीः ॥
शुद्धिपत्रम् ।
| अशुद्धम् | शुद्धम् |
| श्रोतॄणामनुषङ्गतो | श्रोतॄणामानुषङ्गतो |
| ययौस्तौ | ययोस्तौ |
| षडित्युक्तिर्न्यृनाधि- | षडित्युक्तिर्न्यूनाधि- |
| द्विगुणनुपर्युपरि | द्विगुणानुपर्युपरि |
| विशाङ्कं | विंशाङ्कं |
| समूहः | सा तु | समूहः सा तु |
| द्वात्रिंदङ्काः | द्वात्रिंशदङ्काः |
| सन्त्रिमा | सन्निमां |
| एष | एव |
| पितामहदिभिः | पितामहादिभिः |
| मातामहाभिदिरपि | मातामहादिभिरपि |
| नतुभय० | नतूभय० |
| ० तन्निवृत्य - | ० तन्निवृत्त्य - |
| दाक्षिण्यात्यानां | दाक्षिणात्यानां |
| पञ्चमी मातृपक्षा० | पश्चमी मातृपक्षा ० |
| पञ्चमादृर्ध्वं | पञ्चमादूर्ध्वं |
| प्रागुक्तेन | प्रागुकत्वेन |
| उक्तोऽर्थः | सप्तमान्तं |
| त्तिरूक्तत्वादित्यर्थः ॥ | त्तेरूक्तत्वादित्यर्थः ॥ |
| सपिण्डतया | सपिण्डताया |
| भागिनेयान्यथास० | भागिनेयान्यन्यथा स० |
| स्वारम्भकेन | स्वारम्भकेण |
| रामकेयराजयोः | रामकेकयराजयोः |
| भागिनेयान्यथास० | भागिनेयान्यन्यथा स० |
| सङ्करकारिणीति | सङ्करकारीणीति |
| स्वारम्भकेन | सङ्करकारीणीति |
| परिसंख्यार्थक्यो ० | परिसंख्यानर्थक्यो ० |
| पितृृपत्नी ० | पितृपत्नी ० |
| त्नीपक्ष ० | स्त्रीपक्ष |
| इत्यादिषु | तद्भ्रातृत्वा |
| दिना यदीद — | दिना |
| प्रद्युतत्वादौरसा ० | प्रस्तुतत्वादौरसा ० |
| ० वचनात् | औरसादांना |
| पुत्राणा | पुत्राणां |
| प्रजावतम् ? ॥ | प्रजीवनम् ॥ |
| स्वसुः सपत्नात्मजजा | स्वसुः सपत्न्यात्मजजा |
| तृप्तां जहु ० | तृप्ता जहु० |
| ऽध्येतणां | ऽध्येतॄणां |
.
<MISSING_FIG href="../books_images/U-IMG-1709886047Screenshot(48"/>.png)
THE PRINCESS OF WALES SARASVATI
BHAVANA TEXTS.
Edited by
GOPINATH KAVIRAJ, M. A.
No. 1—The Kiraṇāvālī Bhāskara, a Commentary on Udayana’s Kiraņāvali, Dravya section, by Padmanabha
Miśra.Ed.with Introduction and Index by Gopinath Kaviraj, M.A. Rs. 1-12
No. 2-The Advaita Chintāmaņi, by Rangoji Bhaṭṭa, Ed. with Introduction etc. by Nārâyaṇa S’āstri Khiste
Sahityacharya.Rs. 1-12
No. 3-The Vedānta Kalpalatikā,by Madhusudana Sarasvati.Edited with Introduction etc. by Rāmājñā Pâṇḍeya
Vyakaraṇācharya. Rs. 1-12
No. 4-The Kusumāñjali Bodhani, a Commentary on Udayana’s Theistic Tract, Nyāya Kusumāñjali, by Varadarāja.
Ed. with Introduction etc. by Gopinath Kaviraj, M.A,Rs. 2-0
No. 5-The Rasasāra, a Commentary on Udayana’s Kiraṇāvalī, Guņa Section, by Bhaṭṭa Vādīndra.Ed, with
Introduction etc.by Gopinath Kaviraj, M.A. Rs. 1-4
No. 6-(Part I)-The Bhāvanā Viveka by Maṇḍana Miśra, with a Commentary by Bhaṭṭa Umbeka.
Ed, with Introduction etc. by M. M. Gañgānātha Jha, M. A., D. Litt. Rs. 0-12
No. 6-(Part II)-Ditto Ditto Rs. 0-12
No. 7-(Part I)-Yoginīhṛdaya dīpikā, by Amṛtānanda Nātha, being a Commentary on Yoginihṛdaya, a part of
Vāmakesvara Tantra. Ed.with Introduction etc. by Gopinath Kaviraj, M.A. Rs. 1-4
No 7-( Part II) DittoRs, 1-8
No. 8-The Kavyaḍākinī, by Gangānanda Kavindra. Ed. with Introduction etc. by Jagannatha S’āstri Hoshing
Sahityopadhyāya. Rs, 0-10-6
No. 9-(Part 1)-The Bhakti Chandrikā, a Commentary on S’aṇḍilya’s Bhaktisūtras, by Nārāyaṇa Tirtha. Ed.with a
PrefatoryNote by Gopinath Kaviraj, M.A. Rs. 0-15
No. 10-(Part I)-The Siddhantaratna, by Baladeva Vidyabhūṣaṇa. Ed, with a Prefatory Note by Gopinath Kaviraj,
M.A.Rs.1-2
No. 10-(Part-II)-The Siddhantaratna by Baladeva Vidyabhūṣaṇa. Ed. with Introduction by Gopinath Kaviraj, M. A.
No. 11-The S’rī Vidyā Ratna Sūtras, by Gauḍapada, with a Commentary by S’ankarāraṇya. Ed. with Introduction
etc. by Narayana S’astri Khiste Sāhityācharya. Rs. 0-9
No. 12-The Rasapradipa, by Prabhākara Bhaṭṭa.Ed. with Introduction etc. by Narayana S’astri Khiste
Sahityacharya. Rs. 1-2
No. 13-The Siddhasiddhānta Sangraha, by Balabhadra. Ed, with Introduction by Gopinath Kaviraj, M. A. Rs. 0-14
No. 14-The Triveṇikā, by Āśādhara Bhaṭṭa. Ed. with Introduction by Batukanātha S’arma Sahityopādhyāya, M. A.
and Jagannātha S’astri Hoshing Sāhityopādhyāya. Rs. 0-14
No. 15-(Part 1)-The Tripurārahasya, ( Jñāna Khaṇḍa) Ed, with a Prefatory Note by Gopinath Kaviraj, M.A.Rs.0-14
No. 15-( Part-II )-The Tripurārahasya (Jnānakhaṇḍa ) Ed. by Gopinath Kaviraj, M. A,
No. 16-The Kāvya Vilāsa, by Chiranjiva Bhaṭṭācharya. Ed, with Introduction etc. by Batukanātha S’armă
Sahityopadhyāya, M. A. and Jagannātha S’astri Hoshing Sahityopadhyaya.Ps. 1-2
No. 17-The Nyaya Kalikā, by Bhaṭṭa Jayanta.Ed. with Introduction by M, M. Ganganatha Jha, M. A.,D. Litt. Rs. 0- 14
No. 18-(Part -The Gorakṣa Siddhanta Sangraha. Ed. with a Prefatory Note by Gopinath Kaviraj, M. A. Rs, 0-14
No. 19-( Part. I )-The Prākṛita Prakāśa by Vararuchi with the Prakrita Sanjivani by Vasantarāja and the Subodhini
by Sadananda. ina. with Prefatory note etc. by Batuk Nath S’armā, M. A. and Baladeva Upadhyāya, M. A.
No. 19- Part. II) Ditto Ditto
No 19- part. III) Introduction ete. (In Preparation. i)
No. 20-The Mansatattvaviveka by Visvanatha Nyäyapañehänana Bhaṭṭācharya. Edited with Introduction etc. by P.
Jagannatha S’astri Hoshing Sahityopadhyâya, Sädholal Research Scholar, Sanskrit College Benarcs, with a
Foreword by Pandit GopiNath Kavirāja, M. A., Principal, Government Sanskrit College, Benares.
No. 21-( Part I) The Nyaya Siddhanta Mala by Jayarama Nyaya Panchanana Bhaṭṭācārya,Edited with Introduction
etc. by Mangal Deva S’āstrī M. A. D., Phil, ( Oxon ), Librarian, Govt.Sanskrit Library, Sarasvati Bhavana, Benares.
No. 22-The Dharmanubandhi S’lokachaturdasi by S’ri S’eşa Kṛṣṇa with a Commentary by Räma Pandit. Edited
with Introduction etc. by Nārāyaṇa Shastri Khiste Sahityacharya Assistant Librarian Government Sanskrit
LibrarySaraswati Bhavan Benares.
No. 23-Navaratrapradipa by Vanda Pandit Dharmādhikārī. Ed, with Introduction etc. by Vaijanātha S’āstrī
Varakale, Dharmasastra-S’astrī, Sadholal Research Scholar, Sanskrit College,Benares.
No. 24-Sri Pamatapiniyopaniṣad with the Commentary called RamaKäsikā in Pürvatäpini and Anandanidhi in
Uttaratäpini by Anandavana.Ed. with Introduction etc. by Anantaran S’astri Vetāla Sahityopadhyaya, Post
AcharyaScholar, Govt. Sanskrit College, Benares, with a Foreword by Pandit Gopi Natha Kaviraja, M. A.,
Principal,Government Sanskrit College,Benares.
No. 25-Sapindyakalpalatika by Sadasiva Deva alias Apadeva with a commentary by Nārāyaṇa Deva.
Edited with Introduction etc, by Jagannātha S’āstrī Hośinga, Sāhityopādhyāya, Sâdholāl Research Scholar, Govt. Sanskrit
College, Benares.
______________
THE PRINCESS OF WALES SARASVATI
BHAVANA STUDIES.
Edited by
GOPINATH KAVIRAJ, M. A.
Vol. I —
(a) Studies in Hindu Law cly its evolution, by Ganganatha Jhä.
(b) The View point of Nyaya Vaiseșika Philosophy, by Gopinath Kaviraj.
(c) Nirmāņa Kāya, by Gopinath Kaviraj.
Vol. II —
(a) Parasurama Miśra ALIAS Vāņi Rasala Raya, by Gopinath Kaviraj.
(b) Index to Sabara’s Bhagya, by the late Col, G. A. Jacob.
(c) Studies in Hindu Law (2):-its sources, by Ganganath Jha,
(d) A New Bhakti Sätra, by Gopinath Kaviraj.
(e) The System of Chakras according to Gorakṣa natha, by Gopinath Kaviraj.
(f) Theism in Ancient India, by Gopinath Kaviraj.
(g) Hindu Poetics, by Batuka nātha S’armă,
(h) A Seventeenth Century Astrolabo, by Padmakara Dvivedi.
(i) Some aspects of Vira S’aiva Philosophy, by Gopinath Kaviraj
(j) Nyaya Kusumanjali ( English Translation, by GopinathKaviraj.
(k) The Definition of Poetry, by Nārāyaṇā S’ästri Khiste.
(l) Sondala Upadhyaya, by Gopinath Kaviraj .Rs. 5
Vol. III —
(a) Index to S’abara’s Bhaṣya, by the late Col. G.A.Jacob.
(b) Studies in Hindu Law (3% Judicial Proceduro: by Ganganátha Jha,by Gopinath Kaviraj.
(c) Theism in Ancient India. by Gopinath Kaviraj.
d) History and Bibliography of Nyaya Vaišeşika Literature. Rs. 5
(e) Naiṣadha and S’ri Harsa by Nilakamala
(f) Indian Dramaturgy, by P. N. Pätankar. Rs. 5
Vol. IV —
(a) Studies in Hindu Law (4): Judicial Procedure: bnātha Jhā.
(b) History and Bibliography of Nyaya Vaiseșika Liby Gopinath Kaviraj.
(c) Analysis of the Contents of the Rgveda Prātiśākl Mangala Deva S’āstrī.
(d) Nārāyaṇa’s Ganita kaumudī, by Padmākara Dvived
(e) Food and Drink in the Rāmāyanic Age, by M+natha Roy
(f) Satkāryavāda: Causality in Sankhya, by Gopinath J
(g) Discipline by Consequences, by G. L. Sinha.
(h) History of the origin and expansion of the by A. C. Ganguly.
(i) Punishments in Ancient Indian Schools, by G.L. Sinh
Vol. V —
(a) Ancient Home of the Aryans and their migration toby A. C. Ganguly.
-190.
(b) A Satrap Coin, by Shyamalal Mehr.
(c) An Estimate of the Civilisation of the Vanaras as dein the Rāmāyaṇa, by Manmatha nātha Roy.
(d) A Comparison of the Contents of Pugveda, Vājasaneyatiriya & Atharvaveda Prātiśākhyas, by Mangala Deva S
(e) Formal Training and the Ancient Indian Thought, Sinba sya Bibliography of Nyaya Vais’eṣika Liter.by Gopinath Kaviraj.
(g) A Descriptive Index to the names in the RāmāyaṇManmatha näth Roy.
(i) Notes and Queries (1) Virgin Worship, by Gopi Kaviraj.
Vol. VI—(In progress)
(a) Index to S’abara’s Bhāṣya, by the late Col. G. A. Jaco
(b) Some Aspects of the History and Doctrines of the Nãby Gopinath Kaviraj.
(c) Studies in Hindu Law (5): Evidence, by Ganganatha J
To be had of
The Superintendent, Government Pr
ALLAHABAD, U. P. (INDIA).
]
-
“कैश्चिदिति सर्वत्र पाठः।” ↩︎
-
“प्राचीनग्रन्थे सत्वात् इति घ. पुस्तके टिप्पणी” ↩︎
-
" तोकान् इति पुंलिङ्गनिर्देशांऽयुक्तः, ‘अपत्यं तोकं तयोसमे’ इति कोशाद्यनुसन्धानेन तस्य सर्वथा नपुंसकत्वात्। व्याख्यानानुरोधेन ग्रन्थकृतस्तादृश एव प्रयोग इति प्रतिभाति। ‘तो कानि न्यसेत् इति पाठपरिवर्तनेन सौशयं छन्दःपूर्तिश्च स्यात्।" ↩︎
-
“वि, नि -इत्युपसर्गद्वयपूर्वकात् वृञ्धातोः क्तप्रत्ययेरूपम् ।” ↩︎
-
“मिलितं - इति सर्वपुस्तकेषु पाठः।” ↩︎
-
“पद्यगतः पठोऽशुद्धः छन्दोभङ्गात्। टीकाकर्ता तत्स्थाने कल्पितः पाठः सङ्गच्छते।” ↩︎
-
" प्रत्तानां विवाहितानाम्।" ↩︎
-
“आदिना मार्कण्डेयपरिग्रहः।” ↩︎
-
“तेषां भ्रात्रादीनाम्।” ↩︎
-
“प्रवीणैः इति क०ख०ग०पुस्तकेषु पाठः।” ↩︎
-
“पितरो यत्र पूज्यन्ते तत्र मातामहा अपि। अविशेषेण पूज्यन्ते विशेषान्नरकं ध्रुवम् ॥ इति घ॰पुस्तके टिप्पणी ।” ↩︎
-
“अत्र = वरस्य वध्वाः पितरा वित्यत्रः।” ↩︎
-
" निर्णयसिन्धुमतम् इति घ. पु. टिप्पणी " ↩︎
-
“अपास्तमित्यत्राऽन्वयः- इति घ. पु. टिप्पणी ।” ↩︎
-
“द्वितीयपक्षेऽपि।” ↩︎
-
" व्याख्यातृगुरुनागेशभट्टकृतात्।" ↩︎
-
“विच्छिन्नं च विच्छिन्नं च विच्छिन्नविच्छिन्नं, विच्छिन्नविच्छिन्नं रूपं यस्याः सा तादृशी न भयतीत्यविच्छिन्न- विच्छिन्नरूपा।” ↩︎
-
" अपास्तमित्यनेनाऽन्वयः" ↩︎
-
“बोध्यम् – इति सर्वपुस्तकेषु पाठः।” ↩︎
-
“स्पष्टार्थमिदं पद्यं बहुषु पुस्तकेषु नास्ति, नैव चैकस्मिन्नपि टीकापुस्तके” ↩︎