संस्कारदीपकः ३

[[TODO: अपरिष्कृतम्]]

Source: TW

THE KĀSHI SANSKRIT SERIES No.95. ( Karmakāņda Section No. 8.)

संस्कारदीपकः नाम परिशिष्टदीपकः तुलादानादि-मूलशान्त्यादिनिरूपणात्मकः तृतीयो भागः महामहोपाध्याय पण्डित श्रीनित्यानन्दपन्त पर्वतीय विरचितः।

THE SAMSKĀRA DĪPAKA Bv MAHÂMAHOPADHYAYA Pandit Jitgananda Panta Parvatiga (Part III)

प्रास्ताविकम्

॥ श्रीगुरुशरणम् ॥

निवेदनम् ईश्वरकृपया सिद्धमिदं संस्कारदीपकतृतीयभागस्य परिशिष्टदीपका ख्यस्य अस्मद्गुरुवर-ब्रह्मीभूत महामहोपाध्याय-पण्डित-श्रीनित्यानन्दपन्त पर्वतीयविरचितस्य द्वितीयं संस्करणम् । एतत्खलु विद्याविलासमुद्रणयन्त्रा लयचौखम्बासंस्कृतपुस्तकालयस्वामिना श्रीजयकृष्णदासगुप्तमहोदयेन श्रद्धा चेतसा प्राकाश्यं नीतमिति । अस्य ग्रन्थस्योपादेयता अचिरादेव प्रथमसंस्कर णस्य ग्रन्थको स्वयं प्रकाशितस्य दौलभ्येनैव विदितचरेति न तत्र किमपि वक्तव्यमवशिष्यते ।

अस्मिंश्च परिशिष्टदीपके प्रथमतो विस्तरेण दानस्वरूपमभिधाय तद्विधि प्रतिग्रहविधि चोक्त्वा कुण्डमण्डपनिर्माणविधिनिरूपणपूर्वकं सहोमं होम रहितं च तुलादानविधि तुलादण्डादिनिर्माणविधिसहितमभिधाय गवादि. मूल्यनिरूपणपूर्वकं गोदान-भूमिदान-विद्यादानेति अतिदानानि तत्प्रयोगांश्च संक्षेपतो विस्तरतश्च प्रदर्य तदनन्तरं दशमहादानानि प्रसङ्गतश्च दशदानानि प्रायश्चित्तप्रयोगसहितानि पापधेनु-ऋणधेनु-मोक्षधेनु-वैतरणीधेनु-उत्क्रान्ति धेनुदानानि गृहदानप्रसङ्गाद् भूपरिग्रह-सूत्रपात-शिलान्यास-वास्तुशान्तिगृह प्रवेशप्रयोगान् प्रतिश्रयदानविधिं चोक्त्वा सुवर्णादिदेयद्रव्याणां विशेषतो दानमन्त्रांश्च प्रदर्श्य अन्ते कालविशेषे दानविशेषांश्वोक्त्वा दानप्रकरणं समाप्य गोमुखप्रसवशान्तिप्रयोगमभिधाय मूल-आश्लेषादिनक्षत्रजननशा “न्तयः त्रिकप्रसवयमलजनन-गण्डान्तशान्तयः सविस्तरं निरूपिताः ।

  • अत्र दृष्टिदोषेण अज्ञानेन सीसकाक्षरदोषेण वा सम्भाविताः सहजा; स्त्रुटीः क्षाम्यन्तु भवन्तः संगृह्णन्तु चेदं द्वितीयं संस्करणमिति नवेदयति तु श्रीवेद वेदाङ्ग पाठशाला नुमान मन्दिर, सक्काघाट, काशी विजया दशमी सं० २००८ .

विदुषामनुचरो ..
गोपाल शास्त्री नेने पृ० | विषयः

विषयानुक्रमणिका

विषयः
दानस्वरूपम्
द्रव्यमानम् दानं हेतुतो द्विविधम् धान्यमानम् दानस्य षडधिष्ठानानि भूमानम् दानस्य षडङ्गानि षोडशमहादानानां नामानि नास्तिकादिभ्यो दानं विपरी- मण्डपनिर्माणप्रकारः तफलम् नवकुए डीनिरूपणम् अङ्गवैकल्येन दानमल्पफलम् ३ पञ्चकुण्डी निरूपणम् अङ्गवैपुल्ययुक्तदान प्रशस्तम् , तुलादानादिषु चतुष्कुण्डी ध्रुवदाननित्यदानादिकम् एकुकुण्डपक्षोऽशक्तस्य दानादीनां स्वयंकीर्तनादिना होमसंख्यानुसारेण कुण्डमानम्२४ विद्वांस भोजनादौ नातिक्रामेत् , कुण्डायामविस्तारौ २५ दौहित्रादीन मूर्खानपि नाति योनिदिगादिनिरूपणम् क्रामेत् चतुरस्रकुण्डनिर्माणप्रकारः अन्नदाने न पात्रपरीक्षा - योनिकुण्डनिर्माणप्रकारः प्रायः कुटुम्बाविरोधेन दानम् बृत्तार्धकुण्डनिर्माणप्र० प्रायो दानप्रतिज्ञानतिक्रमः त्र्यश्रिकुण्डनिर्माण दत्तानपहारः। वृत्तकुण्डनिर्माणप्र० गवादिकं विभज्यं न देयम् षडश्रिकुण्डनिर्माणप्र. यतये सुवर्णादिकं, गृहस्थाय पद्मकुण्डनिर्माणप्र० पक्वान्नं भिक्षात्वेन, वानप्रस्था अष्टाश्रिकुण्डनिर्माण य गोरसं, शूद्राय होमशेषं कृ खात-कण्ठ-मेखला-नाभि सरादि च न दद्यात् शूद्रात् योनिनिर्माणप्रकारः ३० हीरादिकं न प्रतिग्राह्यम् " स्थण्डिलपक्षोऽशक्तस्य ३२ प्रणामं विना ‘स्वस्ति’इति त तुलादानोपयोगितुलादण्डतुला स्मै न ब्रूयात् इति दानस्वरू वलम्बनतोरणफलकादिनिर्माण पादिकम् प्रकारः अथ दानविधिः सहोमतुलादानप्रयोगः प्रतिग्रहविधिः होमरहिततुलादानप्रयोगः देयद्रव्यदेवताः अतिदाननिर्देशः भूम्यादिप्रतिग्रहे विशेषः गोदानकालादिनिरूपणम् दातृप्रतिग्रहीतृधर्माः गोदेहस्थदेवताः दक्षिणादिनिर्णयः | गोदानविधिः

अतिदानान्तर्गतबृहद्गोदान- शाश्वदानाख्यं महादानम् प्रयोगः ९१ अश्वदानप्रयोगः गवादिमूल्यनिरूपणम् हस्तिदानाख्यं महादानम् वाचनिक गवादिमूल्यदानम् १०७ हस्तिदानप्रयोगः १३७ संक्षिप्तगोदानप्रयोगः दासीदानाख्यं महादानम् १३८ वृषदानविधिः दासीदानप्रयोगः वृषदानप्रयोगः रथदानाख्यं महादानम् ‘महिषीदानविधिः १११ रथदानप्रयोगः महिषीदानप्रयोगः गृहदानाख्यं महादानम् अतिदानान्तर्गतभूमिदानं ११३ प्रसङ्गादेकाशीतिपदं वा त्रिविधं विद्यादानम् ११६ स्तुमण्डलस्वरूपम् अध्यापनरूपविद्यादानं प्रथमम् , वास्तुदेवतापूजनादिविधिः १४३ वेदमूर्तिदानरूपं द्वितीयम् ११७ गृहनिर्माणोपयोगिभूपरोक्षा १४४ चतुर्वेदमूर्तिदानप्रयोगः , भूपरिग्रहप्रयोगः १४५ पुस्तकदानात्मक तृतीयम् ११६ सूत्रपातप्रयोगः १४७ पुस्तकदानप्रयोगः १२० भूमिखननप्रयोगः १५१ सुवर्णदानादीनि दश शिलान्यासोपयोगिनिरू० १५२ महादानानि १२१ सवास्तुशान्तिशिलान्यास सुवर्णदानप्रयोगः प्रयोगः देयहिरण्यादिपरिमाणम् १२२ गृहप्रवेशप्रयोगे विशेषः भूम्यादिदशदानानि शिलान्यासादिसामग्री १८६ प्रसङ्गात्प्रायश्चित्तप्रयोगः गृहदानविधिः १८७ तिलदानप्रयोगः गृहदानप्रयोगः आज्यदानप्रयोगः धर्मशालादानविधिः वनदानप्रयोगः शय्यादानविधिः १६४ धान्यदानप्रयोगः शय्यादानप्रयोगः गुडदानप्रयोगः १३० महादानाख्यकन्यादानफ रजतदानप्रयोगः लादिकम् १९७ लवणदानप्रयोगः १३१ द्विजस्थापनम् १४८ पापधेनुदानप्रयोगः कपिलादानाख्यं महादानम् १९९ ऋणधेनुदानप्रयोगः नवग्रहमूर्तिदानानि ‘मोक्षधेनुदानप्रयोगः नवग्रहप्रीत्यर्थ माणिक्या वैतरणीदानप्रयोगः १३३ दिदानानि उत्क्रान्तिधेनुदानप्रयोगः १३४ | सवर्यादिदानमन्त्राः २०१ , १८१ १२८ १८९ 97 १६३ १९५ , १३२ २०० २०४ २०५

अक्षय्यतृतीयायां धर्मघटा- यमलजननशान्तिप्र० ३२२ दिदानमन्त्राः २७३ इयमेव शान्तिः भार्यादीनां श्रावणशुक्लद्वादश्यां शाक- विकारविशिष्टप्रसवे, उलूक दानमन्त्रः कक-कपोत-गृध्र-श्येनाना भाद्रशुक्लद्वादश्यां दधिदा मन्यतमस्य गृहप्रवेशे, गृहे नमन्त्रः तृणादिगुच्छप्ररोहे, गृहे तत्रैव दध्योदनादिदानमन्त्रः वल्मीकस्य मधुजालस्य आश्विनशुक्ल १२दुग्धदा०म०, बोद्भवे, उदकुम्भप्रज्वलने, मकरकुम्भसंक्रमणे कसर आसनादिभने शरीरे दानमन्त्रः गृहगोधिकादिसर्पणे, छत्र कार्तिकशुक्लनवम्यां कूष्माण्ड ध्वजविनाशे, काकसर्पमैथु दानमन्त्रः कार्तिक्यां दीपदानमन्त्राः नप्रेक्षणे चातिदिश्यते २७९ दीपप्रतिग्रहमन्त्रः गण्डान्तशान्तिः २८० नक्षत्रगण्डान्तशान्तिवि० माघे तिलपात्रदानमन्त्रः तिथिलग्नगण्डान्तशा. वि. मेषसंक्रमणे मेषदानमन्त्र: नक्षत्रगण्डान्तशान्तिप्र० छागदानमन्त्रः । उत्तरापुष्यचित्रापूर्वाषा अधिमासेऽपूपदानमन्त्राः २०६ ढाशान्तिविधिः अथ शान्तयः कृष्णचतुर्दशीशान्तिवि० तत्रादौ गोमुखप्रसर्वविधिः अमावास्याजननशान्तिविधिः २८४ गोमुखप्रसवप्रयोगः । २०८ कार्तिकदंष्ट्राशान्तिः व्यतीपातादिसर्वसाधारण- सर्पयुग्मदर्शनशान्तिः

शान्तयः २१३ सारमेयशान्तिः ૨૮૮ मूलशान्तिविधिः २१४ काकविष्टापतनशान्तिः मूलशान्तिप्रयोगः २२० श्वेतकाकदर्शनशान्तिः आश्लेषाशान्तिविधिः २४७ पल्लीपतनसरटप्ररोहण आश्लेषाशान्तिप्रयोगः शान्तिः अर्ध्वदन्तजननशान्तिप्र० २६१ अथ जलाशयोत्सर्गः २९० पित्रायेकनक्षत्रजननशान्तिविधिः जलाशयप्रशंसादिकम् पित्राधेकनक्षत्रजननशान्तिप्र० २६५ तडागादिप्रतिष्ठाविधिः २६१ त्रिकप्रसवशान्तिविधिः कूपवापीतडागानामुत्सर्ग त्रिकप्रसवशान्तिप्रयोगः प्रयोगः यमलजननशान्तिवि० २७७ । लघुजलाशयोत्सर्गप्रयोगः । २८६ २४४ २७१ ४२.

श्रीगणेशाय नमः। संस्कारदीपकः परिशिष्टदीपकः (तृतीयो भागः)

सर्वस्फूर्तिविधातारं सर्वविघ्नविनाशनम् । सर्वाभीष्टप्रदातारं सद्गुरुं प्रणमाम्यहम् ॥ पर्वतीयेन पन्तेन नित्यानन्देन धीमता। क्रियते बालबोधार्थ परिशिष्टप्रदीपकः ॥ कृतदारसंग्रहस्थाद्यत्वे अग्निहोत्रादिधर्मेषु प्रशस्ताधिकारा भावात् दानधर्मस्य च तपो धर्मः कृतयुगे ज्ञानं त्रेतायुगे स्मृतम् । द्वापरे चाध्वराः प्रोक्ताः कलौ दानं दया दमः ॥ इत्यादिबृहस्पत्यादिवचनैः कलौ प्रशस्तत्वबोधनात् शत थे च तदेतत्रयं शिक्षेत दमं दानं दयामिति” इति दाना दित्रयस्यावश्यकत्वश्रवणात् तदन्तर्मतदानधर्मस्य चेतिकर्तव्यता-. बाहुल्यात्स एव तावनिरूप्यते । तत्र दानस्वरूपमाह-देवला, अर्थानामुदिते पात्रे श्रद्धया प्रतिपादनम् । दानमित्यभिनिर्दिष्टं व्याख्यानं तस्य कथ्यते ॥ इति । उदिते-शास्त्रनिरूपिते । प्रतिपादनं नाम स्वस्वामिभावापा दनपर्यन्तस्त्यागः । न तु स्वत्वनिचिमात्रम् । तेन देशान्तर स्थदेवदचायुद्देशेन दचे धने स्वीकारं विनैव देवदचादेर्भरणेपरिशिष्टदीपके तत्पुत्राणां दायत्वेन तस्मिन् स्वत्वं सिध्यति । अस्वीकाररूप. प्रतिबन्धे च न स्वत्यनुत्पद्यते : तत्र च तस्मिन् दातुः संबिद्य तिक्रमादाविध पुनः स्वत्वमुत्पद्यते । तस्यादानमेव परस्वत्वापाद कम् । अत एव च उपेक्षा नातिव्याप्तिरिति दिक् । ___ तच्च दानं हेतुतो द्विविधम् । श्रद्धा-भक्तिभेदात् । तत्र श्रद्धा ‘अस्ति दान परलोकसाधनम्’ इति विश्वासः । स्नेहपूर्वकय भिध्यानं भक्तिः । तस्य च धर्म-फल-काम-ब्रीडा-हर्ष-भयानि षडधिष्ठानानि । तत्र प्रयोजनमनपेक्ष्य पात्रेभ्यो दानं धर्मदानम् । प्रयोजनापेक्षया दानं फलदानम् । स्त्री-पान मृगया-धूत-प्रसङ्गाद् अनहेभ्यो रागेण दानं कामदानम् । संसदि वीडया दानं ब्रीडादानम् । प्रियस्य दर्शनेन श्रवणेन वा सहर्ष दानं हर्षदानम् । निन्दा नर्थ-हिंसानां प्रतीकाराय तापकर्तृभ्यो भयेन दानं भयदानम् । ___ दाता, प्रतिग्रहीता, श्रद्धा, धर्मार्जितं द्रव्य, देशः, कालश्चेत्ये तानि दानस्य षडङ्गानि । तत्र क्षयादिपापरोगरहितो धर्मशीलो दानोत्साही दुर्व्यसनरहितः बागाभ्यन्तरशौचयुक्तः श्रनिन्दय कर्मणा जीवन् दाता श्रेष्ठ उदाहृतः । प्रतिग्रहीता च विद्यया कलेन आचारेण च विशुदैर्युक्तः कुशजीविकः कृपावानविकले न्द्रियो योनिदोषरहितः श्रेष्ठः। श्रद्धा हेतुत्वेनोक्ता पूर्व वर्णिता । अत्राङ्गत्वेनोक्ता विवियते अर्थिनां दर्शने प्रीतिः सौमुख्यं च, तेषां सत्कारोऽनसूया च श्रद्धा । परान् अपीच्य प्रयत्नेनार्जितं द्रव्यं देयम् । यस्मिन् देशे यस्मिन् काले च यद् दुर्लभं तस्य दानाय तौ देशकालौ प्रशस्तौ। अन्ये च प्रयागादयो देशाः, संक्रान्त्यादयः कालाश्च प्रशस्ताः । ___ नास्तिक-स्तेन-हिंस्र-जार-पतित-पिशुन-भ्रूणहन्तृभ्यो दत्तं विपरीतफलम् । दातारमधः पातयेदिति यावत् । श्रद्धाहीन दानं मादपि अस्पफलम् । परपाडाकरं दानमल्पफलम् । चित्त

दानप्रकरणे दानस्वरूपादिदिरूपण। ३ कालुष्येण दान प्रशस्तम् । पूर्वोत्तदात्राधङ्गल्ययुक्त दानं प्रशस्तम् । दयायुक्तं दानमहायफलम् । अपा-SSTम-तडागा दिकरणं ध्रुवदानम् । दिने दिने यदानं तन्नित्यम् । पुत्रादिफला प्त्यै दान काम्यम् । संक्रान्तिग्रहणादिनिमित्ते दानं नैमित्तिकम् । नैशित्तिके च गो-भू-सुवर्णादिदानमुत्तमम् । अशन-गृह-खट्या ऽऽसनादिदानं अध्यमम् । उपनदादिदानं कनिष्ठम् । दानं यज नमध्ययनं चेत्येतत्रितयमपि स्वयं कीर्तनात्, प्रशंलया, अनुतापेन च नश्यति । तस्माद् दानादि कृत्वा एतन्त्रर्य न सेव्यम् । अन्ये च विशेषा हेमाद्यादितो. ज्ञेयाः।। सन्निकृष्टं वेदशास्त्रादि अधीयान्न ब्राह्मणं भोजने दाने च नातिकामेत् । मूर्खानतिक्रम्य विद्वद्भ्यो दाने तु नातिक्रमदोषः । दौहित्र-जामात- भागिनेपान् संवन्धिनश्च भर्खानपि नातिकामेत् । पुरोहितोऽप्यात्पनो गुणविशेष विनाऽपि पात्रमेव । अन्नदाने च पात्रपरीक्षा नास्ति । दानं च कुटुम्बाविरोधेनैव कर्तव्यम् । महात्मने ब्राह्मणाय तु कदाचित् कुटुम्बं पीडयित्वाऽपि देयम् । एवं भिक्षवेऽन्नमपि । वाचा ‘दास्यामि’ इति प्रतिज्ञातमवश्यं दद्यात् । दत्तं च न हरेत् । प्रतिश्रुत्यापि प्राधर्मिकत्वेन ज्ञाताय न दद्या त् । गौह शय्या कन्या दासी चेत्येतेषामेकमेकस्यैव दातव्यम् । यतये सुवर्ण रजत तानं वा न देयम् । भिक्षातिरिक्तं वर्तनमपि तस्मै न देयम् । परमनं भिक्षात्वेन गृहस्थाय न देयम् । वानम स्थाय गोरसं न दद्यात् । शूद्राय होमशेषं न दद्यात् । शूद्रात क्षीरं तिलान् मधु च न प्रतिगृहीयाद , कि तु द्रव्यं दचा क्री गीत । प्रणाम विना स्वस्ति इति तस्मै न ब्रूयात् । कृसरा दिकं च तस्मै न दद्यात् । अथ दानविधिः॥ हारीत:-तस्मान्मन्त्रवदगिरवोक्ष्य दद्यादालभ्य वेति । अ वोक्ष्य-मोक्षणं कृत्वा । पालभ्य-सोदकेन पाणिना स्पृष्ट्वा । सूर्यारुणसवादे (७६ अध्याये ) श्रीसूर्य उवाच ।

JE परिशिष्टदीपके स्नात्वा नित्यक्रिय कृत्वा कर्ता शुचिरलड्कृतः । ब्राह्मणान् देववस्तूनि अन्धाधेरयेत् सुत ।। दानं ददेऽहमभुकं दद्याद्विपकरे जलम् । ददस्वेति द्विजेनोक्तमिति दानविधिः स्मृतः ।। ॐतत्सत्पूर्वमुच्चार्य गृहीत्वा तु करे जलम् । सतिलकु सहस्तस्तु कालज्ञानं समुच्चरेत् ।। प्राङ्मुखश्चोदमुखो का पैत्रे याम्यमुखस्तथा । वामेन पाणिना स्पृष्ट्वा स्परेचद्वस्तुदैवतम् ।। विभायामुकगोत्रायामुककामो यह ददे। न ममेत्युत्सृजेदेवं द्विजहस्ते जलं खग ॥ स्वस्तीत्युक्तं च विप्रेण दानमक्षयतां नयेत् । तदानमिति संमोक्तमन्यत्याग इति स्मृतम् ॥ कन्यादा त्रिपुरुषगोत्रोचारणपूर्वकम् । गो-कन्या-प्रतिमा-शय्या एकेकस्य प्रदापयेत् ॥ विभज्य विधिना दाता न तत्फलमवाप्नुयात् । प्रतिष्ठा सर्वदानानां स्वर्णमक्षयकारकम् ॥ दानमक्षयतां याति सम्पदाने तु यत् कृतम् । अभावे ब्राह्मणादानां दानमल्पफलं भवेत् ॥ तीर्थादौ त्यागविधिना सलादानसमं फलम् । तावधनुषु धेनुत्वं देवत्वं प्रतिमासु च ॥ यावद्विषो न गृह्णीयात् स्वस्तीत्युक्ते तु तद् वसु । इति । पाराहपुराणे-तोयं दद्याद्विजकरे दाने विधिरयं स्मृतः । सकुशोदकहस्तश्च ददामीति तथा बदेत् ॥ गौतमः-अन्तर्जानुकरं कृत्वा सकुशं तु तिलोदकम् । फलान्यपि च संघाय प्रदद्याच्छदयान्वितः ॥ पात्रासनिघाने नारदीयपुराणे मनसा पात्रमुद्दिश्य जलं भूमौ विनिक्षिपेत् । विद्यते सामरस्थान्तो दानस्यान्तो न विद्यते ॥ t नप्रकरणे दानशतिग्रहविधिः ५ आपस्तम्बा,“त्रिमावस्तु प्रयोक्तव्यः कर्मारम्भेषु सर्वशः । तित्रः सार्धास्तु कर्तव्या मात्रास्तत्त्वार्थचिन्तकैः ।। वृद्धवसिष्ठा, नायगोत्रे समुच्चार्य संप्रदानस्य चात्मनः । संप्रदेयं प्रयच्छन्ति कन्यादाने तु पुंस्त्रयम् ।। स्मृत्यन्तरे, संकीर्त्य देशकालादि तुभ्यं संप्रददे इति । न ममेति स्वस्वत्वस्य निचिमपि कीलयेत् ॥ ब्रह्माण्डपुराणे-शुचिः पवित्रपाश्चि गृह्णीयादुत्तरामुखः । अभीष्टदेवतां ध्यायन् मनसा विजितेन्द्रियः ॥ कृतोचरीयको नित्यमन्तर्जानुकरस्तथा । दातुरिष्टमभिध्यायन् गृह्णीयात्मयतः शुचिः ॥ प्रचेता, दक्षिणहस्तमध्ये ब्राह्मणस्याग्नेयं तीर्थम् आग्नेयेन प्रतिगृह्णीयात्” इति । विष्णुधर्मोत्तरे, अतिग्रहीवा साचित्रं सर्ववानुकीर्तयेत् । ततस्तु कीर्तयेत् सार्धं द्रव्येण द्रव्यदेवताम् ।। समापयेत् ततः पश्चात् कामस्तुत्या प्रतिग्रहम् । तदन्ते कीर्तयेत् स्वस्ति प्रतिग्रहविधिस्त्वयम् ॥ . सावित्रं सवितृदैवतं यजुः “देवस्यत्वा” इत्यादि. “प्रतिम होमि” इत्यन्तं वा. स. सं. द्वितीयाध्याये पठितम् । ( क० ११) कामस्तुतिः “कोदात्” इत्यादिका तत्रैव सप्तमाध्याये (क०४८)। आदित्यपुराणे-ॐकारभुञ्चरन् प्राज्ञो द्रविणं सकुशोदकम् । गृह्णीयादक्षिणे हस्ते तदन्ते स्वस्ति कीर्तयेत् ॥ प्रतिग्रहं पठेदुच्चैः प्रतिगृह्य द्विजोत्तमात् । मन्द्रं पठेत्तु राजन्ये उपांशु च तथा विशि ॥ मनसा तु तथा शूद्रे स्वस्तिवाचनमेव च । सोंका ब्राह्मणे कुर्यात् निरोंकारं महीपतौ ॥ उपांशु च तथा वैश्ये मनसा स्वस्ति शूद्रजे । प्रतिग्रह-प्रतिग्रहमन्त्रम् । मन्द्र-मध्यमस्वरम् । ब्राह्मणे दात

परिशष्टदपिके रि सोंकारं स्वस्तिवाचन कुर्यात् इत्यर्थः । एवं महीपतौ इत्या दावपि योज्यम् । अथ द्रव्यदेवताः। विष्णुधर्मोत्तरे हेमाद्री अभयं सर्वदैवत्यं भूमि विष्णुदेवता । कन्या दासस्तथा दोसी प्राजापत्याः प्रकीर्तिताः॥ (अ० पु०, प्राजापत्यो गजः प्रोक्तस्तुरगो यमदैवतः ।) तथा चैकशर्फ सर्वं कथितं यमदैवतम् । महिषश्च तथा बाश्य उष्टो व नतो भवेत् ॥ रौद्री धेनुर्विनिर्दिष्टा छोगमाग्नेयमादिशेत् । मेषं तु वारुणं विद्याद् वराहं वैष्णवं तथा ॥ भारण्याः पशवः सर्वे कथिता वायुदेवताः। जलाशयानि सर्वाणि वारिधानी कमण्डलुम् ॥ कुम्भं च करकं चैव वारुणानि निबोधत । समुद्रजानि रत्नानि वारुणानि द्विजोचमाः ॥ आग्नेयं कनकं प्रोक्तं सर्वलोहानि चाप्यथ । प्राजापत्यानि सस्यानि पकानमपि च द्विजाः॥ ज्ञेयाश्च सर्वगन्धास्तु गान्धर्वा वै विचक्षणः । बार्हस्पत्यं स्मृतं वासः सौम्या ज्ञेया रसास्तथा । पक्षिणस्तु तथा सर्व वायव्याः परिकीर्तिताः। विद्या ब्राह्मी विनिर्दिष्टा विद्योपकरणानि च ॥ सारस्वतानि ज्ञेयोनि पुस्तकादीनि पण्डितः। सर्वेषां शिल्पभाण्डानां विश्वकर्मा तु दैवतः ॥ दुमाणामथ पुष्पाणां शाकाहरितकः सह । फलानामपि सर्वेषां शेयो देवो वनस्पतिः॥ मत्स्यमांसे विनिर्दिष्टे प्राजापत्ये गजस्तथा । छत्रं कृष्णाजिनं शय्यां रथमासनमेव च ॥ उपानहौ तथा यानं यच्चान्यत्माणिवर्जितम् । दानप्रकरणे द्रव्यदेवताः, प्रतिग्रहरिधिश्च । ७ सर्वमाङ्गिरसत्वेन प्रतिगृह्णीत मानवः । शूरोपयोगि यत्सर्व शस्त्रवर्मध्वजादिकम् । रणोपकरणं सर्व विज्ञेयं सर्व( विश्व दैवतम् ॥ गृहं च शक्रदैवत्यं ( सर्वदैवत्यं), यदनुक्तं द्विजोत्तमाः । तज्ज्ञेयं विष्णुदैवत्यं, सर्व वा द्विजसत्तमाः॥ द्रव्याणामथ सर्वेषां देवसंश्रयण्णानरः । वाचयेज्जलमादाय करणाथ प्रतिग्रहम् ॥ दातुर्मन्त्रमयोगान्ते ह्यमुकस्मै सुराय वै । इदमों प्रतिगृह्णामि तदन्ते स्वस्ति कीर्तयेत् ।। दोतुर्मन्त्रयोगस्यान्ते दातृसमर्पितं सकुशोदकं दक्षिणहस्ते नादाय ‘अमुकदेवतायै ‘अमुकदेवताकम्’ इति वा सर्वषां द्रव्याणां प्रतिग्रहं देवाश्रयत्वेनोल्लिख्य द्रव्यं च विशेषतो निर्दिश्य ‘ॐप तिगृहामि’ इत्येवं वाचयेत् उच्चरेत् । तदन्ते च स्वस्तीति कीर्त येत् । ‘प्रतिगृहामि’ इत्यतः पूर्व पूर्वोक्तस्य “देवस्यत्वा? इति यजुषः पाठोऽपि कर्तव्यः। तत्रैव, द्रव्याण्यन्यान्यथादाय स्पृष्ट्वा तान् ब्राह्मणः पठेत् । कन्यादाने तुन पठेत् द्रव्याणां तु पृथक्पृथक् ।। प्रतिग्रहे द्विजश्रेष्ठास्तत्रैवान्तर्भवन्ति ते । इति । एवं शय्यादानादावपि बोध्यम् । तथा तत्रैव-भूमेः प्रतिग्रहं कुर्याद् भूमि कुर्वन् प्रदक्षिणम् । करे गृहीत्वा कन्यां तु दासदास्यो द्विजोत्तमः ॥ करंतु हदि विन्यस्य धन्यों ज्ञेयः प्रतिग्रहः । आरुह्य च गजस्योक्तः कर्णे चाश्वस्य कीर्तितः॥ तथाचैकशफानां तु सर्वेषां, वा विशेषतः। प्रतिगृहीत ताङ्गे, पुच्छे कृष्णाजिनं तथा ॥ भृङ्गिणामेकशफानां प्रतिग्रहः शृङ्गं स्पृष्ट्वा कार्यः, अन्येषामे कशकानां तु कर्ण स्पृष्ट्वेति व्यवस्था। . कर्णेजः पशवः सर्वे ग्राह्याः पुच्छे विचक्षणः । परिशिष्टदीपके गृलोयान्महिष शृङ्गे सरं वै पृष्टदेशतः ॥ पतिग्रहप्रथोष्ट्रस्या यानानां चाधिरोहणात् । वीजानां मुष्टिमादाय नान्यादाय सबैतः ॥ वस्त्रं दशान्तादादद्यात्परिधायाथवा पुनः । आरुह्योपानहौ मञ्चमारूदेव च पादुके ।। वर्मध्वजौ तु संस्पृश्य प्रविश्य च तथा गृहम् । अवतीर्य च सर्वाणि जलस्थानानि वै द्विजाः ॥ ईषायां तु रथो ग्राह्यः छन्नं दण्डे तथैव च । द्रुमांश्च प्रतिगृह्णीयान्मूले न्यस्तकरो द्विजः ॥ श्रायुधानि समादाय तथाऽऽमुच्य विभूषणम् । इति । ईषायाम्-स्थापदण्डे ! आमुच्य-धारयित्वा ॥ हेमाद्री परिशिष्टे प्रतिगृह्णीत गां पुच्छे कर्णे वा हस्तिनं करे। मूर्ध्नि दासीमजां चैव पृष्ठेश्वतरगर्दभौ ॥ पुत्रमुत्सङ्गमारोप्य प्रतिगृह्णीत दत्तकम् । रथ रथमुखे स्पृष्ट्वा प्रतिगृह्णीत कूबरे ॥ इति । अथ दातृ-प्रतिग्रहीतृधमाः। प्रजापतिः कर्मगुप्तेः पवित्रमसृजत् पुरा । रक्षोनमेतत्परम मुनिभिः कल्पितं सवे ॥ तस्मात् तत् करयोर्धाय ददता प्रतिगृलता । स्नान-होम-जपादीनि कुर्वता च विशेषतः ॥ संत्यज्य वैष्णवं मार्ग ब्रह्ममार्गविनिर्गतम् । सकृत्पदक्षिणीकृत्य पवित्रमभिधीयते ॥ ब्रह्ममार्गः कर्तुः संमुखो भागः । वैष्यावश्च तत्पृष्ठभागः । वायुपुराणे-दानं प्रतिग्रहो होमो भोजनं बलिरेव च ॥ साङ्गष्ठेन सदा कार्यमसुरेभ्योऽन्यथा भवेत् । . साङ्गुष्ठेन-अङ्गुलीसंगताङ्गुष्ठेन ॥ एतान्येव च कार्याणि दानादीनि विशेषतः । दानप्रकरणे दक्षिणादिनिर्णया। ९ अन्तर्जानु विधेयानि तद्वदाचमनं नृप ॥ ब्रह्माण्डपुराणे नाधिकारी मुक्तकच्छो मुक्तचूडस्तथैवच । दाने प्रतिग्रहे यज्ञे ब्रह्मयज्ञादिकर्मसु ॥ देवाः समेत्य वस्त्रं हि त्वचं पुंसाभकल्पयन् । ततश्च वाससा हीनमसंपूर्ण प्रचक्षते ॥ मनु:-योचितः प्रतिगृह्णाति योर्चयित्वा प्रयच्छति । तावुभौ गच्छतः स्वर्ग-विपरीते विपर्ययः॥ शातातप:-प्रश्नपूर्व तु यो दद्याड्राह्मणाय प्रतिग्रहम् । स पूर्व नरकं याति ब्राह्मण स्तदनन्तरम् ॥ प्रश्नपूर्वमित्यस्य ‘एतमध्यायं यदि त्वमस्खलितं पठसि तदा तुभ्यमेतावदामि’ इत्युक्त्वा तथा पठितवते यद्दद्यादित्यर्थः । नन्दिपुराणे-कि त्वं वेत्सीति वक्तव्यो न दात्रा ब्राह्मणः कचित् । सोऽपि पृष्टः स्वयं तेन दानार्थं तं न कीर्तयेत् ॥ ‘यदि त्वमेतत्पठसि तदा तुभ्यमेतददामि’ इति साक्षात्परीक्ष णमत्र निषिध्यते । पात्रत्वदोधार्थमुपायान्तरेण परीक्षणं त्वनुमतमेव । तदुक्तं यमेन-शीलं संवसनाज्ज्ञेयं शौचं संव्यवहारतः । प्रज्ञा संकथनाज्ज्ञेया त्रिभिः पात्रं परीक्ष्यते ॥ संकथन-शुद्धभावेन विद्याकथा । छन्दोगपरिशिष्टे प्रक्रिया त्रिविधा प्रोक्ता विद्वद्भिः कर्मकारिणाम् । अक्रिया च परोक्ता च तृतीया चायथाक्रिया ॥ इति । अथ दक्षिणादिनिर्णयः। भविष्यपुराणे-श्रदत्तदक्षिणं दानं व्रतं चैव नृपोत्तम । विफलं तद्विजानीयाद्भस्मनीव हुतं हविः ॥ मैत्रायणीयपरिशिष्ट– दक्षिणाऽलामे मूलानां भक्ष्याणां ददाति नत्वेवं यजेत । शतपथे च-“तस्मानादक्षिणं हविः स्यादिति ॥ भविष्योत्तरे-काम्यं यद्दीयते किंचित् तत्सममं सुखावहम् । परिशिष्टदीपके असमयं तु दोषाय भवतीह परत्र च ॥ देयं दानं महाराज समयं फलकामया। अन्यथा दीयमानं तदपकाराय केवलम् ।। प्रत्यक्षतश्चार्थहानिर्नच तत् फलदं भवेत् । भगवान् व्यास:-सुवर्ण परमं दानं सुवर्ण दक्षिणा परो। सर्वेषामेव दानानां सुवर्ण दक्षिणेष्यते ॥ एतच्च विशेषविहितगोवस्त्रादिदक्षिण कदानवर्ज सामान्यवि हितदक्षिणेषु दानेषु व्यवतिष्ठते । तत्रापि “रा दक्षिणा"इत्यु-. पादानात् सुवर्णदक्षिणायाः श्रेष्ठत्वं न वन्यदक्षिणायाः सर्वथा निराकरणम् । दक्षिणाया अस्विगानत्यर्थत्वेन तस्याश्च पुरुषा हारौपयिकतगडुलादिनाऽपि संभवात्। स्कन्दपुराणे-देयद्रव्यतृतीयांशं दक्षिणां परिकल्पयेत् । अनुक्त दक्षिणे दाने दशांशं वापि शक्तितः ॥ तुलापुरुषादिदानान्यधिकृत्य लिङ्गपुराणे-दक्षिणां च शतं चा तदर्थं वापि दापयेत् । ऋत्विजां चैव सर्वेषां दश निष्कान् प्रदापयेत् ॥ ब्रह्मवैवर्ते-दानकाले तु देवत्वं प्रतिमानां प्रकीतितम् । धेनूनामपि धेनुत्वं श्रुत्युक्तं दानयोगतः ॥ दातुर्वै दानकाले तु धेनवः परिकीर्तिताः । विमस्य व्ययकाले तु द्रव्यं तदिति निश्चयः ।। दानसंबन्धि विप्रेण द्रव्यमागच्छता गृहम् । तत्सर्वं विदुषा तेन विक्रेयं स्वेच्छया विभो । कुटुम्बभरणं कार्य धर्मकार्यं च सर्वशः । अन्यथा नरकं यातीत्येवमाह पितामहः ॥ अथ द्रव्यमानम् । मनु:-लोकसंव्यवहारार्थ याः संज्ञाः प्रथिता भुवि । ताम्ररूप्यसुवर्णानां ताः प्रवक्ष्याम्यशेषतः ॥ जालान्तरगते भानौ यत्सूक्ष्म दृश्यते रजः। F दानप्रकरणे भूमानम् । प्रथमं तत्पमाणानां त्रसरेणु प्रचक्षते ॥ सरेरावष्टकं ज्ञेया लिका परिमाणतः। तो राजसर्षपस्तिस्रस्ते त्रयो गौरसर्षपः ॥ सपोः षड् यवो मध्यस्त्रियवं त्वेव कृष्णलः । पञ्चकृष्णलको माषस्ते सुवर्णस्तु षोडश ॥ पलं सुवर्णाश्चत्वारः पलानि धरणं दश । द्वे कृष्णले समधृते विज्ञेयो रौप्यमाषकः ।। ते षोडश स्याद्धरणं पुराणश्चैव राजतः । कार्षापणस्तु विझयस्तानिकः कार्षिक: पणः ।। धरणानि दश ज्ञेयः शतमानस्तु राजतः । चतुःसौवर्णिको निष्को विज्ञेयस्तु प्रमाणतः ॥ नारदः, कार्षापणो दक्षिणस्यां दिशि रौप्यः प्रवर्तते । पणैर्निबद्धः पूर्वस्यां षोडशैव पणाः स तु ॥ पणस्तु मदनरस्ने, षोडशपणः पुराणः, पणो भवेत्काकिणीचतुष्केण । पश्चाहतैश्चतुभिर्वराटकः काकिणी चैका ॥ इति । __अथ धान्यमानम् । भविष्यपुराणे-पलद्वयं तु प्रसृतं द्विगुणं कुडवं मतम् । चतुर्भिः कुडवैः प्रस्था प्रस्थाश्चत्वार आढकः ।। पाठकैस्तैश्चतुर्भिस्तु द्रोणस्तु कथितो बुधैः। कुम्भो द्रोणद्वयं शूर्प खारी द्रोणास्तु षोडश ॥ खारी द्रोणचतुष्टयमित्यन्यत्र । अथ भूमानम् । आदित्यपुराणे, जालान्तरगते भानौ यत् सूक्ष्म दृश्यते रजः। प्रथमं तत्पमाणानां परमाणुं प्रचक्षते ॥ वसरेगुस्तु विज्ञेयो यष्टौ ये परमाणवः । त्रसरेणवस्तु ते ह्यष्टौ रथरेणुस्तु स स्मृतः ॥ . . रथरेणवस्तु ते ह्यष्टौ वालाग्रं तत्स्मृतं बुधैः । वालाग्राण्यष्ट लिता तु यूका लिक्षाष्टकं बुधैः ।।परिशिष्टदीपके अष्टौ यूका यवं माहुरङ्गुलं तु यवाष्टकम् । द्वादशाङ्गुलमात्रा वै वितस्तिस्तु प्रकीर्तिता ॥ अङ्गुष्ठस्य प्रदेशिन्या व्यासः प्रादेश उच्यते । तालः स्मृतो मध्यमया गोकर्णश्चाप्यनामया ॥ कनिष्ठया वितस्तिस्तु द्वादशाङ्गुलिका स्मृता । रनिस्त्वङगुलपर्वाणि विज्ञेयस्त्वेकविंशतिः ॥ चत्वारि विंशतिश्चैव हस्तः स्यादङगुलानि तु । किष्कुः स्मृतो द्विरत्निस्तु द्विचत्वारिंशदङ्गुलः॥ पएणवत्यङगुलैश्चैव धनुर्दण्डः प्रकीर्तितः । धनुर्दण्डयुगं नालिः, ज्ञेया ह्येते यवाङ्गुलैः॥ धनुषां त्रिशतीं नत्वमाहुः संख्याचिदो जनाः। धनुःसहस्र द्वे चापि गव्यूतिरुपदिश्यते ॥ अष्टौ धनुःसहस्त्राणि योजनं तु प्रकीर्तितम् । इति । मार्कण्डेयपुराणे-चतुर्हस्तो धनुर्दण्डो नालिका तयुगेनतु। क्रोशो धनु:सहस्रे द्वे गव्यूतिश्च चतुर्गुणा ॥ द्विगुणं योजनं तस्मात् प्रोक्तं संख्यानकोविदः । बृहस्पतिः-दशहस्तेन दण्डेन त्रिंशदण्डा निवर्तनम् । दश तान्येव गोचर्म ब्राह्मणेभ्यो ददाति यः ॥ इति । श्राद्धरत्नावल्यां-सप्तहस्तेन दण्डेन विस्तारायामतः समा । दण्डविशतिका या तु कुडवेत्यभिधीयते ।। लोके कुडवस्य (बीघा ) इति प्रसिद्धिः । पञ्चारिसप्ताष्टनवदशान्यतमहस्ततः । प्रमितेन तु दण्डेन दीर्घविस्तारयोः समा ॥ एकदण्डमिता भूमि—लीमात्रा (चूर ) प्रकीर्तिता । तेन दण्डेन विस्तारे चैकदण्डमिता तु यो॥ दण्डविंशतिदीर्घा च सा काष्ठेति ( कट्ठा ) प्रमाणतः । दीर्घ चैव तु विस्तारे दण्डविंशतिमानतः ॥ प्रमिता या भवेत्तां तु दिशेत् कुडवनामतः ॥ इति । दानप्रकरणे भूमानम्। १३ अत्र दण्डस्य लोके ( लग्गा) हात प्रसिद्धस्य पञ्च-षट् सप्त-अष्ट-नव-दशान्यतमहस्तमानत्वेन कुडवस्य (बीघा ) इति प्रसिद्धस्यापि नानामानानि बोध्यानि । तानि च देशभेदेन व्यवस्थितानीति न विरोधः । वसिष्ठः-दशहस्तेन वंशेन दश वंशान् समन्ततः । पञ्च चाभ्यधिकान् दद्यादेतगोचर्म चोच्यते ॥ सिद्धान्तशेखरे-जालान्तरगते रश्मौ दृश्यादृश्यं तु यदनः। परमाणुः स उदिष्टो वालाग्रं तैस्तथाऽष्टभिः।। बालारष्टभितिक्षा यूका लिक्षाष्टकेन च। यूकाष्टकं यवं प्राहुर्यवानामुदरैस्तथा ॥ अष्टभिश्चाङ्गुल तिर्यग्यवानामुत्तमं मतम् । सप्तभिर्मध्यमं प्रोक्तं षड्भिः स्यादधमाङ्गुलम् ॥ मानाङ्गुलमिति ख्यातं मात्राङ्गुलमथोच्यते । कर्तुः स्यान्मध्यमाङ्गुल्या मध्यमं पर्व दैर्धतः ॥ मात्राङ्गुलं च तच्छ्रेष्ठं पादोनं मध्यमं मतम् । पर्वार्धमधमं ज्ञेयं लक्ष्माङ्गुलमयोच्यते ॥ गृहीतं प्रतिमायामं तत् तालाङ्गुलसंख्यया । विभज्य तेषु भागैकं तदाहुर्लक्ष्ममङ्गुलम् ॥ प्रासादादिषु कुण्डेषु मानाङ्गुलमुदाहृतम् । मात्राङ्गुलं तु कुण्डादौ गृहोपकरणादिषु ॥ लक्ष्माङ्गुलेन कुर्वीत प्रतिमावयवं बुधः। एवमङ्गुलमाख्यातं द्वयङ्गुलं गोलकं मतम् ।। ज्यगुलं तु कला ज्ञेया भागः स्याचतुरङ्गुलः । यावकं चाष्टभिर्मात्रैर्मुखं द्वादशभिर्मतम् ॥ तालं च दशभिर्जेयं हस्तलक्षणमुच्यते । चतुर्विशतिमात्रो यः किष्कुर्हस्त इति स्मृतः ॥ पञ्चविंशतिमात्रोचः प्राजापत्यः करो मतः । षड्विंशत्यङ्गुलो हस्तो धनुर्मुष्टिरिति स्मृतः ॥ परिशिष्टदीपके सप्तविंशतिमात्रोचो धनुर्ग्रह इतीरितः । किष्कुहस्तेन कुर्वीत शयनासनमानकम् ॥ गृहप्रासादलिङ्गानि प्राजापत्येन कारयेत् । ग्रामखेटपुरादीनि धनुर्मुष्टिकरेण च ॥ धनुग्रहेण कुर्वीत क्षेत्रमानं च योजनम् । इति । विष्णुधर्मोत्तरे-यदुत्पन्नमथाश्नाति नरः संवत्सरं द्विजः । एक गोचर्ममात्रं तु भुवः प्रोक्तं विचक्षणैः॥ मत्स्यपुराणे-दण्डेन सप्तहस्तेन त्रिंशदण्डा निवर्तनम् । त्रिभागहीनं गोचर्ममानमाह प्रजापतिः ।। वृद्धवसिष्ठः-गवां शतं दृषश्चैको यत्र तिष्ठेदयन्त्रितः । एतदोचर्ममात्रं तु माहुर्वेदविदो जनाः ॥ इति । दानफलानि विस्तरेण हेमाद्रयादितो ज्ञेयानि । संक्षेपेण क चित्मदर्शयिष्यन्ते। ___ अथ तुलादानोपयोगिनिरूपणम् । तत्र-तुलापुरुषदानम्, हिरण्यगर्भदानम्, ब्रह्माण्डदानम्, क ल्पपादपदानम्, गोसहस्त्रदानम्, हिरण्यकामधेनुदानम्, हिरण्या श्वदानम्, हिरण्थाश्वरथदानम्, हेमहस्तिरथदानम्, पञ्चलाङ्गलदा नम् , धरादानम्, विश्वचक्रदानम्, कल्पलतादानम्, सप्तसागर दानम्, रत्नधेनुदानम्, महाभूतघटदानं चेति षोडश महादानानि । तत्रापि तुलापुरुषदानं सर्वदानप्रकृतिभूतम् । तुलापुरुषयागोऽयं तेषामाद्योऽभिधीयते । इति मात्स्योक्तेः । आद्या प्रकृतिभूत इति हेमाद्रिः। सम ग्राङ्गोपदेशस्य दानानामत्रैव कृतत्वात् । एषां काला अयन-विष व-पडशीतिमुख-विष्णुपदा-व्यतीपात-वैधृति-ग्रहण-युगादि मन्वाधा, देशाः प्रयागादयश्च तत्रैवोक्ताः । तुलादानस्य सर्वदान प्रकृतित्वेऽपि तदनुष्ठानं विना अन्यत्राधिकारो भवत्येव । एषामन्यतमं कुर्याद्वासुदेवप्रसादतः । इति मात्स्यवचनात । एतेन मात्स्ये ततःशब्द-तदनन्तरश M दानप्रकरणे मण्डपनिर्माणप्रकारः। १५ दाभ्यां षोडशानां क्रमापादनमप्यास्तम् । फलभेदेन प्रयोगवि धिभेदेन च काम्येष्टिवत् क्रमाकाङ्गाऽभागछ । नित्यं नैमित्तिकं हित्वा सर्वमन्यत्समण्डपम् । इति कामिकोक्ते, विशद्धस्तप्रमाणेन मण्डपं कूटमेव च । यद्वाऽष्टादशहस्तेन कलाहस्तेन वा पुनः ॥ इति लैडोक्ते, षोडशारनिमात्रं च दश द्वादश वा करान् । मण्डपं कारयेद्विद्वांश्चतुर्भद्राननं बुधः॥ इति हेमादयुक्तवचनाच मण्डएं तुलादानाद्यनुष्ठानाय का र्यम् । चतुर्भद्राननं-चत्वारि भयुक्तानि आननानि द्वाराणि यस्य तत् । अत आदौ मण्डपनिर्माणप्रकारः कथ्यते । तस्य च प्राचीसाध्यत्वात्तस्याः साक्षात् साधनस्य च दुष्कर त्वात् तत्साधनाय पूर्वमुदीचीसाधनप्रकारः कथ्यते । तथाहि घटिकादिना मध्याह्न ज्ञात्वा तस्मिन् काले सप्ताङ्गुलं शङ्क.मूर्याभिमुखं संस्थाप्य छायां पश्येत् । अथ तस्याश्छायाया अयं यस्मिन्प्रदेशे लगति तामुदीची जानीयात् । तस्मात् प्रदेशात् शङ्कमलं यावत् सरलां रेखां कुर्यात् । तस्या रेखाया अयं दक्षिणां जानीयात् । दक्षिणोत्तरायतामेनां रेखां मण्डपप्रमाणानुसारेण वर्धयेत् । यथा दशहस्तमण्डपपक्षे दशहस्तां, द्वादशहस्तपक्षे द्वादशहस्तां कुर्यात् । एवमुत्तरत्रापि ज्ञेयम् । अथ तस्या रेखाया उदक्मान्ते एक शङ्क दक्षिणप्रान्ते च अपर निखन्य रेखाया द्विगुणं सूत्रं गृहीत्वा तस्य प्रान्तयोः पाशौ कृत्वा तन्मध्ये मस्यादिना एक चिह्न च कृत्वा एकं पाशमुत्तरशङ्कौ अपरं च दक्षिणशङ्को निवेश्य मध्यचिह्न धृत्वा उदङ्मुखो दक्षिणतो वामतश्च क्रमेण कषैत । तचिह्न द क्षिणतो यत्र पतति तां प्राची जानीयात्, वामतो यत्र पतति तां पश्चिमाम् । परिशिष्टदीपके इत्थमुदीचीसाधनपूर्वकं प्राच्यादिचतस्रो दिशः साधयित्वा मण्डपस्य चतुष्कोणत्वात्कोणान् साधयेत् । तद्यथा-साधि तासु चतसृषु दिनु शकून् निखन्य उभयतः पाशयुतं मध्ये. ऽङ्कितं दक्षिणोत्तरायतरेखासंमितं सूत्रं गृहीत्वा तस्यैकं पाशं प्राचीशङ्कौ अपरं पाशं दक्षिणशङ्को निवेश्य मध्यचिह्न धृत्वा कोणं प्रति आकर्षेत् , अथ यत्र चिह्न पतति तदाग्नेय कोणम् । एवं दक्षिणशङ्कौ एक पाशं पश्चिमशङ्कौ च अपरं निवेश्य मध्य चिह्न धृत्वा कोणं प्रति सूत्रस्य आकर्षणे चिह्नपातस्थाने नैर्ऋतं कोणम् । एवं पश्चिमशङ्कौ एकम् उत्तरशङ्कौ अपरं निवेश्य मध्यचिह्न धृत्वा कोणं प्रति सूत्राकर्षणे चिह्नपातस्थाने वायुको णम् । एवमुत्तरशङ्को एक पूर्वशङ्कौ अपरं निवेश्य मध्यचिई धृत्वा कोणं प्रति सूत्राकर्षणे चिह्नपातस्थाने ऐशानं कोणम् । ___ इत्थं कोणानि साधयित्वा तेषु शकून् निखन्य सर्वान् श कून् सूत्रेण वेष्टयित्वा सूत्रानुसारेण रेखाः कृत्वा समचतुरश्रं क्षेत्रं मण्डपार्थ संपादयेत् । इदं सर्वं भूमि शोधयित्वा गणेशं संपूज्य ब्राह्मणैः पुण्याहं वाचयित्वा गन्धपुष्पादिभिः कूर्म-शेष-भूमीनां पूजनं कृत्वा कार्यम् । तत्पकारश्चाने वक्ष्यते । मण्डपभूमिश्च तलाद् हस्तो च्छिता वितस्त्युक्छिता वा कार्या । तलादाङ्गुलोच्छार्य मण्डपस्थलमीरितम् । इति सिद्धान्तशेखरोक्तः। “उच्छायो हस्तमानं स्यात् सुसमं च सुशोभनम् ।। हात कपिलपञ्चरात्रोक्तेश्च । मण्डपस्त्रिविधः-उत्तममध्य माधमभेदात् । तत्र षोडशहस्त उत्तमः, द्वादशहस्तो मध्यमः, द शहस्तोऽधमः। कनीयान् दशहस्तः स्यान्मध्यमो द्वादशोन्मितः । तथा षोडशभिईस्तैमण्डपः स्यादिहोत्तमः ॥ इति पञ्चरात्रोक्तः । तुलादाने विंशतिहस्तोऽपि उत्तमत्वे. दानप्रकरणे मण्डपनिर्माणप्रकारः। १७ नोक्तः । विस्तरस्तु कुण्डसिद्धिटीकादौ द्रष्टव्यः । मण्डपे श्रा यामविस्तारौ सपौ बोध्यौ । हस्तश्चात्र चतुर्विशत्यगुलो ज्ञेयः। अष्टौ यवा अङ्गुलम् अष्टौ यूका यवः । अष्टौ लिक्षाः यूका । अष्टौ वालाग्राणि लिता । अष्टौ रथरेण यो वालाग्रम् । अष्टौ त्रसरेणवो रथरेणुः । अष्टौ परमाणवस्त्रसरेणुः । एकविंशत्य गुलो । सार्धद्वाविंशत्यङ्गुलोरनिः । अस्याः परिभाषाया अग्रे उपयोगो भविष्यति । __ मण्डपस्य चतसृषु दिनु मध्ये चत्वारि द्वाराणि कार्याणि । तानि च अधमे मण्डपे द्विहस्तानि, मध्यमे चतुरङ्गुलाधिकद्विह स्तानि, उत्तमे अष्टाहगुलाधिकद्विहस्तानि । किंच मण्डपस्य समानि नव कोष्ठानि कृत्वा मध्यको समा हस्तमात्रोच्छिता वेदी कार्या। कनि? द्विकरं द्वारं, चतुरङ्गुलद्धितः । मध्यमोत्तमयोः, वेदो मण्डपस्य त्रिभागतः ॥ इति पञ्चरात्रोक्तः। त्रिभागं मरडपं क्त्वा मध्यभागे तु वेदिका। हस्तमात्रं तदुत्सेधं चतुरस्रं समन्ततः ॥ इति क्रियासारोक्तश्च । तुलादाने पुनः मध्ये वेदी पञ्चहस्ता मध्यमाधममण्डपयोः, उत्तमे तु सप्तहस्ता भवेत् । पञ्चहस्ता भवेद्वेदी सप्तहस्ताऽथवा भवेत् । इति मात्स्योक्तेः । वैकल्पिकमपि सप्तहस्तत्वं लाघवात् उत्तममण्डपे व्यवस्थापनीयम् । अव्यवस्थितविकल्पस्याष्टदोष ग्रस्तत्वात् । मण्डपस्येशानभागे ग्रहवेदिः आयामतो विस्तारतश्च हस्त मिता कार्या। “मण्डपस्येशानभागे ग्रहवेदिः करोन्मिता” इत्युक्तेः । सा च वितस्त्युच्छ्रिता द्विवप्रा च कार्या । गर्तस्योत्तरपूर्वेण वितस्तिद्वयविस्तृताम् । वपद्वययुतां वेदि वितस्त्युच्छायसमिताम् ॥ ३५०दी० 144P १८ परिशिष्टदीपके __इति मात्स्योक्ते । मण्डपस्य पूर्वपश्चिमयोर्दक्षिणोत्तरयोश्च अायामविस्तारयोस्तृतीये तृतीये भागे अग्निकोणमारभ्य प्रादक्षि गयेन यज्ञियवारणपलाशादिवृतोद्भवान् पञ्चहस्तप्रमाणान् समान् पलिकानिवेशनार्थचूडाकर्णान्यतरयुक्तान् दृढान् द्वादशस्तम्भान् धा रयेत् । वेद्याः कोणेषु च अष्टइस्तप्रमाणान् चूडायुक्तांस्तादृशा नेव चतुरः स्तम्मान् दध्यात् । एवं च षोडशस्तम्भा भवन्ति । स्तम्भपञ्चमांशं तु भूमौ निखनेत् । अत्र प्रमाणम् मण्डपार्थोच्छितान्वेदसंख्यांश्चूडासमन्वितान् । स्तम्भान् समांश्च संस्थाप्य स्तम्भद्वादशकं पुनः ॥ बाह्येऽप्युक्तप्रकारेण तत्तृतीयविभागतः । - इति पञ्चरात्रवचनम् । मण्डपार्थोच्छितानिति तु उत्तम षोडशहस्तमण्डपाभिप्रायेण । “षोडशस्तम्भसंयुक्तं चत्वारस्तेषु मध्यमाः। अष्टहस्तसमुच्छाया:” इति शारदातिलकोक्त। तस्मात् मध्यस्तम्भानामष्टहस्तत्वं व्यवस्थितम् । अनिको णोपक्रमश्च-~ स्तम्भोच्छाये शिलान्यासे सूत्रयोजनकीलके। खननावटसंस्कारे प्रारम्भो बहिगोचरः ॥ इति वचनात् । पञ्चमांशनिखननं तु वास्तुशास्त्रे “पञ्चमांशं खनेद् भूमौ सर्वसाधारणो विधि” इति । अथ प्रथमं वेदिकोणगेषु चतुर्यु स्तम्भेषु वलिकाख्यं ‘दासा’ इति प्रसिद्ध काष्ठचतुष्टयं चूडाप्रवेशनार्थान्तच्छिद्रयुक्तं स्तम्भ चूडासु तिर्यग निदध्यात् । तत्र पूर्वापरयोईयं दक्षिणोत्तरयोश्च दयं ज्ञेयम् । एवं द्वादशस्वपि वाह्यस्तम्भेषु द्वादश वलिकाः प्रा न्तच्छिद्रवतीश्चूडासु तिर्यग् निधाय मध्यस्तम्भचूड़ानामेकैकस्याः पूर्वापरमेकं, दक्षिणोचरमेकं, कोणे चैकमित्येवं वलिकात्रयं बाबस्तम्भचूडासु तिथंग निदध्यात् । एवमष्टाविंशतिः काष्ठानि

दानप्रकरणे मण्डपनिर्माणप्रकारः। १९ वलिकाख्यानि भवन्ति । दृढीकरणा मध्ये मध्ये च सकर्णका नि काष्ठानि देयानि । ततो वेदिस्तम्भानामुपरि शिखराकारां रचनां कृत्वा म. एडपं चत्वारि दिग्द्वाराणि वर्जयित्वा सरलवेणुभिः तृणपूलनिर्मि हैं: कटैश्च ( चटाई इतिप्र०) परितश्छादयित्वा स्तम्भान् वस्त्रादि भिर्भूपयेत् । नारिकेलदलैर्वाऽपि पल्लवैर्वाऽथ वेणुभिः। आच्छाद्या मराडपाः सर्वे द्वारवर्ज तु सर्वतः ॥ इति क्रियासारोक्तेः। “दर्पणैश्चामरैर्घण्टैः स्तम्भान् वस्त्रैविभूषयेत्” । इति पञ्चरात्रोक्तेश्च । मण्डपद्वारादहिः हस्तमात्रे पूर्वादिदिक्षु क्रमेण वटोदुम्बरा श्वत्थप्लक्षकाठैर्वा सर्वासु दिनु एषामन्यतमेन वा एषामभावे शमीजम्बूखदिराणामन्यतमेन वा अधमादिमण्डपेषु क्रमेण पञ्च षट्-सप्तहस्तदोर्पाणि द्विहस्त-सपादद्विहस्त-सार्धद्विहस्तविस्तार युतानि तोरणानि कुर्यात् ॥ देवास्तोरणरूपेण संस्थिता यज्ञमण्डपे । विघ्नविध्वंसनाय रक्षार्थमध्वरस्य च ॥ न्यसेत् न्यग्रोधमेन्द्रयां तु याम्यां चौदुम्बरं तथा । वारुण्यां पिप्पलं चैव कौबेर्यो लक्षण न्यसेत् ॥ इति महाकपिल पञ्चरात्रोक्तेः। ___“अलाभेष्वेकमेवैषां सर्वाशासु निवेशयेत् । इति पञ्चरात्रोक्तः। पञ्चहस्तप्रमाणास्ते विस्तारेण द्विहस्तकाः । षडङ्गलाभिद्धाश्च सप्तहस्तास्तथोत्तमे ॥ इति वास्तुशास्त्रोक्तेश्च । अधमोचमयोः पञ्चसमहस्तत्वेसति मध्यमे षड्हस्तत्वमर्थात् सिध्यति । तोरणस्तम्भानां च पञ्चमांशं भूमौ निखनेत् । “पञ्चमांशं न्यसेद् भूमौइति पूर्वोक्तवचनात् । परिशिष्टदीपके स्तम्भायाममानार्धमानयुतानि तत्काष्ठफलकानि (पट्टिकाख्यानि ) तिश्चि प्रान्तयोश्छिद्रेण युतानि तोरणस्तम्भेए निदध्यात् । अर्थात अधमादिषु मण्डपेषु सार्धहस्तद्वय-हस्तत्रय-सार्धहस्तत्र यायामानि फलकानि सिध्यन्ति । : “तिर्यफलकमानं स्यात् स्तम्भानामर्धमानतः” इति शारदातिलकोक्तेः। तोरणस्तम्भेषु निहितानां तिरश्ची चतुर्णो फलकानां मध्ये शिरोभागे शैवयागे त्रिशूलाकृतयः अधमादिमण्डपेषु नवैकादश. त्रयोदशाङ्गुलदीर्घाः क्रमेण सपादद्वथ-पादोनत्रय-सपादत्रया गुलविस्तारयुतास्तोरणकाष्ठभवाः कीलाः अन्तःप्रवेशनार्थलघु कीलेन समन्विताः द्वि-त्रि-चतुरङ्गुलानि अन्तः प्रवेश्य उच्छा यणीयाः । नवाङ्गुलानां द्वयङ्गुलम्, एकादशाङ्गुलानां त्र्यङ्गलं, त्रयोदशाङ्गुलानां चतुरङ्गुलमन्तः प्रवेशः । त्रिशूले मध्यशृङ्गं सरलं, ‘पार्श्वयोश्च किञ्चिद्वकं ज्ञेयम् । शूलेन चिह्निताः कार्या द्वारशाखास्तु मस्तके । शूले नवाङगुलं दैये तुरीयांशेन विस्तृतिः ॥ अजु वै मध्यशृङ्ग स्यात् किंचिद्वकं तु पक्षयोः। प्रथमं तत्समाख्यातं द्वयगुलं रोपयेत्ततः ।। शेषाणां द्वयङगुला वृद्धिर्वेशश्चाङ्गुलवृद्धितः” । इति पिङ्गलमताक्तः। वेशः अन्तःप्रवेश इत्यः। विष्णुयागे तु अप्रमादिषु मग पेषु दश-द्वादश-चतुर्दशा गुलदीर्घाः सार्द्धद्वय-त्रि-सार्धत्रयाङ्गुलविस्तारयुताः अन्तःप्रवे शनार्थलघुकीलेन - समन्वितास्तोरण काष्ठभवोः पूर्वादिक्रमेण शङ्ख-चक्र-गदा- पद्माकाराः कीलास्तोरणफलकानां मध्ये पूर्व वत् व्यङ्गग्लादि अन्तः प्रवेश्योच्छायणीया: मस्तके द्वादशांशेन शङ्ख चक्र गदाऽम्बुजम् । प्रागादिक्रमयोगेन न्यस्येत् तेषां स्वदारुजम् ॥ इति वास्तुशास्त्रातः। अधममण्ड तोरणशाखाया:प दानप्रकरणे मण्डपनिर्माणप्रकारः। २१ वहस्तत्वाद्विगत्यधिकशताङ्गुलपरिमितित्वेन तद्द्वादशांशस्य दशा जुलवाद्विष्णुयागे अधममण्डपे तोरणफलककीलानां दशाङ्गुलत्वं सिध्यति । एवं मध्यमोत्तमम डपयोः कीलानां द्वादश-चतु देशाङ्गुलत्वमुन्नेयम् । एवं सिद्धमण्डपस्य पोःशस्वपि स्तम्भमूलेषु फलातिनमान ऊर्ध्वपत्रान् कदलीस्तम्भान् स्थापयेत् । तथा परितः बहु पत्रैराम्रपल्लवैस्तं वेष्टयेत् । चामरैरादशैंः वस्त्रफलपुष्पादिभिः विभूष्य तं वितानान्वितं कुर्यात् ।। चूतपल्लवमालादिवितानरुपशोभितम् । विचित्रवस्त्रसंछन्नपट्टकूलविभूषितम् ॥ सफलैः कदलीस्तम्भैः क्रमुकै रिकेलजैः । फलैर्नानाविधैर्भोज्यदर्पणश्चापरैरपि । भूषितं मण्डपं कुर्यात् रत्नपुष्पसमुज्ज्वलम् । इति सिद्धान्तशेखरोक्तः । मण्डपस्यान्यथाभावे दोष उक्तः पञ्चरात्रे “अनुक्तसाधनैः क्लुप्तो यदि वा कुटिलाकृतिः। मानाधिकोऽथवा न्यूनो मण्डपः कर्तनाशनः ॥” इति । अथ पञ्चहस्तदीर्घान् द्विहस्तविस्तारयुतान् प्राच्यादिदिक्षु क्रमेण पीत-रक्त-कृष्ण-नील-श्वेत-कृष्ण-श्वेत-कृष्णान् अष्टौ ध्वजान् गैरिकादिना लिखितहस्ति-मेष-महिष-सिंह-मत्स्य-मृग हय-वृषस्वरूपदिक्यालवाहनान् दशहस्तवंशशिरोभागे संयोज्य वंशानां पञ्चमांशं निखन्य तान् निदध्यात् । पीतरक्तादिवर्णाश्च पञ्चहस्ता ध्वजाः स्मृताः । द्विपञ्चहस्तैर्दण्डैस्ते वंशजैः संयुता मताः॥ . इति प्रतिष्ठासारसंग्रहोक्तः।। मातङ्ग-बस्त-महिष-सिंह-मत्स्यैणचाजिनः । वृषभं च यथान्यायं ध्वजमध्ये क्रमाल्लिखेत् ॥ इति क्रियासारोक्तेश्च । पीतरक्तादीत्यत्रादिशब्देन य-

२२ परिशिष्टदीपके थोक्तकृष्णादिवर्णपरिग्रहः । दिक्पालपर्णस्यैव ध्वजेषु न्याय्य स्वात् । तेषां च तत्तद्वर्णत्वस्थान्यत्र प्रसिद्धत्वात् । एवं पूर्वोक्त पीतादिवर्णाः गैरिकादिना लिखितवन-शक्ति-दण्ड-खड्ग-पा श-अङ्कुश-गदा-त्रिशूलस्वरूपास्त्रयुताः सप्तहस्तदीर्घा एकहस्त विस्तारा अष्टौ पताकाश्च दशहस्तदीपेषु वंशेषु संयोज्य क्रमेण प्राच्यादिषु अष्टदितु तान् वंशान् पञ्चमांशनिखननपूर्वकं नि दध्यात् । ततश्चित्रवस्त्रं दशहस्तदीर्घ त्रिहस्तविस्तारयुतं प्रान्ते बद्धकिङ्किणाकं शीर्ष चामरं दशहस्तवंशशिरोभागे संयोज्य ते वंशं मध्ये निखनेत् । एवं श्वेतां नवीं पताकां पूर्वेशानयोर्मध्ये पूर्वोक्तगुणविशिष्टां न्यस्येत् । प्रतिकुण्डं पताकास्तु प्रोक्ताः स्युः शास्त्रकोपिदैः। सप्तहस्ताः पताकाः स्युः सप्तमांशेन विस्तृताः॥ लोकपालानुवर्णेन नवमी तुहिनप्रभा । पताकाश्च ध्वजाथापि गन्धपुष्पसमन्विताः ॥ इति सारसंग्रहोक्तेः। त्रिहस्तविततो दीर्थों दशहस्तो विचित्रितः । चामरेणान्वितः शीर्षे प्रान्ते सक्षुद्रघण्टिकः॥ दशहस्तोधृते दराडे पुष्पगन्धैः समन्वितः । इति परशुरामकारिकोक्तेश्च । ___ अथ कुण्डनिरूपणम् । ‘नवकुण्डीपक्षे पूर्वस्यां चतुष्कोणम् , अग्निकोणे योन्याकारं, दक्षिणस्यां वृत्ताधू, नितिकोणे त्रिकोणं, पश्चिमायां वृत्तं, वायुकोणे षट्कोणम्, उदीच्यां पद्माकारम्, ईशानकोणे अष्ट कोणं, पूर्वैशान्योर्मध्ये चतुष्कोणं वृत्तं वा नवममाचार्यकुण्डम् - एवं नव कुण्डानि कुर्यात् । . अष्टास्वाशासु रम्याणि कुण्डान्येतान्यनुक्रमात् । चतुरश्र, योनिरर्धचन्द्रं ध्यनं च वर्तुलम् ॥ षडधं पङ्कजाकारमष्टानं तानि नामतः। दानप्रकरण कुण्डनिरूपणम् । २३ आचार्यकुण्डं मध्ये स्यात् गौरीपतिमहेन्द्रयोः॥ इति शारदातिलकोक्तः।। “पुरन्दरेशयोर्मध्ये वृत्तं वा चतुरश्रकम् । तदाचार्य विनि. दिष्टम्” इति सिद्धान्तशेखरोक्तैश्च । अयं नवकुण्डीपक्ष उ चमः । परन्तु तुलादानादौ नृपक्षत्रियपर एव । लड्ने तमुद्दिश्य वोक्तेः । पञ्चकुण्डीपने पूर्वस्यां चतुरश्रम्, याम्यां वृत्तार्धम्, प श्चिमायां वृत्ताकारम्, उत्तरस्यां. पद्माकारम्, ईशानकोणे च तुरनं वृत्ताकारं वा-इत्येवं पञ्च कुण्डोनि कुर्यात् । यत्रोपदिश्यते कुण्डचतुष्कं तत्र कर्मणि । वेदाश्रमर्धचन्द्रं च वृत्तं पचनिभं तथा ॥ कुर्यात् कुण्डानि चत्वारि प्राच्यादिषु विचक्षणः । पञ्चमं कारयेत्कुण्डमीशदिग्गोचरं द्विज ॥ . इति नारदोक्तेः । अयं मध्यमः पक्षः । तुलादिषोडश दानेषु तु कुर्यात् कुण्डानि चत्वारि चतुर्दिनु विचक्षणः । । . इति मात्स्योक्तेश्चत्वार्येव कुण्डानि । मध्यवेद्याः कुण्डस्य चान्तरं सपादहस्तमितं कुर्यात् । कुण्डवेद्यन्तरं चैव सपादकरसंमितम् । इति नारदीयोक्तेः । एककुण्डपले वेद्याः पश्चिमायाम, उत्तरस्याम्, ऐशानकोणे वा चतुरनं कुण्डं कुर्यात् । एकं वा शिवकाष्ठायां प्रतीच्यां कारयेद्धः । इति सोमशम्भो उक्तः । अथवा दिशि कुण्डमुत्तरस्यां प्रविदध्याच्चतुरश्रमेकमेव । इत्याचार्योक्तेश्च । अयं कनिष्ठः पत्तः । विप्रादीनां च. तुर्णा वर्णानां क्रमेण चतुष्कोण-वृत्त-वृत्तार्ध-त्रिकोणानि वा सर्वेषां चतुष्कोणान्येव वा कुण्डानि कुर्यात् ।. . … विप्राणां चतुरनं स्याद्राज्ञां वर्तुलमिष्यते । वैश्यानामर्थचन्द्रामं शूद्राणां ज्यश्रमीरितम् ॥

-r) परिशिष्टदीपके चतुरनं तु सर्वेषां केचिदिच्छन्ति तान्त्रिकाः । इति शारदातिलकोक्त। स्त्रियां यजमानायां कुण्डानि योन्याकाराणि कुर्यात् स्त्रीणां कुण्डानि विप्रेन्द्र योन्याकाराणि कारयेत् । इति सनत्कुमारोक्तः। पञ्चाशन्मिते होमे रनिपरिमितं, शतमिते अरनिमितं, सह स्रमिते हस्तमितं, दशसहस्रहोमे द्विहस्तमितं, लक्षहोमे चतुर्हस्तं, दशलक्षहोमे षड्हस्तं, कोटिहोमे अष्टहस्तं वा दशहस्तं वा षोडश हस्तं वा कुण्डं कुर्यात् । मुष्टिमानं शतार्धे तु शते चारनिमात्रकम् सहरू त्वथ होतव्ये कुग कुर्यात् करात्मकम् ।। द्विहस्तमयुते तच लक्षहोमे चतुष्करम् । दशलक्षमिते होमे षकर संप्रचक्षते ॥ अष्टहस्तात्मकं कुण्डं कोटिहोमेर नाधिकम् । इति भविष्यपुराणोक्त।। . दशहस्तमितं कुण्डं कोटिहोमेऽपि शस्यते । इति शारदातिलकोक्तेः । कोटिहोमे चतुर्हस्तं चतुरनं समन्ततः । इति स्कान्दोक्तश्च । अत्र पञ्चाशदधिके शतन्यूनहोमे रलिपरिमितमेव कुण्ड कुर्यात्, नतु अरनिपरिमितम् । न्यूनसंख्योदिते कुण्डेऽधिको होमो विधीयते । न न्यूनसंख्यो होपश्चाधिककुण्डे कदाचन ॥ इति दानकमलाकरादौ कारिकोक्तं . युक्तं चैतत् । अ धिकसंख्यायां न्यूनसंख्याया अन्तर्भावेण न्यूनसंख्योदितकुण्डेऽधि कहोमस्य न्याय्यत्वात् । तदनङ्गीकारे मध्ये नैमित्तिकमायश्चित होमप्रसक्तो कुण्डान्तरकरणापत्तेश्च । एवं सहस्राधिके दशसहस्र न्यूनहोमेऽपि एकहस्तमितमेव कुण्डम् । एवं सवत्रोबम् ॥ दानप्रकरणे कुण्डनिर्माणप्रकारः। १५ एकहस्तकुण्डे चतुर्विंशत्यङ्गुलानि आयामो विस्तारश्च, द्विहस्ते ३४ अङ्गुलानि, चतुर्हस्ते ४८, षट्करे पादोनानि ५६, अष्टहस्ते यवोनानि ७, दशहस्ते यवोनानि ७६, षोडशहस्ते १६ अङ्गलानि । - प्राच्याङ् , अग्निकोणे, दक्षिणस्यां च कुण्डेषु योनिः दक्षि णतः उदगमा स्यात् । अतस्तत्र हवनकर्ता उदङ्मुख उपविशेत् । त्रिकोण-वृत्त-वडश्रि-पनाकाराष्टकोणेषु पञ्चसु कुण्डेषु पश्चिमतो योनिः प्रागमा स्यात् , अतस्तत्र हवनकर्ता प्राङ्मुख उपविशेत् । नवमे प्राचार्यकुण्डेऽपि दक्षिणतो योनिरुदगमा स्यात् । योनिश्च मध्यभागे कार्या, नतु कुण्डकोणेषु । योनिकुण्डे तु योनिन कार्या । प्रागनियाम्यकुण्डानां प्रोक्ता योनिरुदङ्मुखी। पूर्वामुखाः स्थिताः शेषा यथाशोमं व्यवस्थिताः ॥ इति स्वायंभुवोक्त। नवमस्यापि कुण्डस्य योनिर्दक्षदले स्थिता । इति त्रैलोक्यसारोक्तः। नार्पयेत्कुण्डकोणेषु योनि तां तन्त्रवित्तमः । योनिकुण्डे तथा योनि पद्म नाभि च वर्जयेत् ॥ इति संग्रहोत्तश्च । प्रागनियाम्यकुण्डानां योनेरुदङ्मुखत्वं नवकुण्डीपक्षे एव नत्व न्यत्रेति दानकमलाकरः। ____ अथ चतुरस्रकुण्डनिर्माणप्रकारः। एकहस्तकुण्डपक्षे द्विहस्तं सूत्रं गृहीत्वा चतुर्थे चतुर्थे भागे त मङ्कयित्वा तस्य कोणयोः पाशौ कृत्वा पूर्वोक्तप्रकारेण साधिता सु पूर्वादिचतसृषु दिक्षु शकून् निखन्य सूत्रपाशौ पूर्वपश्चिमस्थयोः शङ्कोर्दवा सूत्रमध्यचिह्नं यथा दक्षिणशङ्कसंस्थं भवति तथा सूत्रचतुर्थोशचिहं गृहीत्वा कोणयोः कर्षत् तथा. सति तचिह्नपा तस्थाने आग्नेयीनै त्यौ। एवं सूत्रमध्यचिह्नमुत्तरशङ्कसंस्थं यथा भवति तथा सूत्रचतुर्थाशचित्रं गृहीत्वा कोणयोः क्रमेण चिह्नपात स्थानयोर्वायव्यैशान्यौ बोध्ये। एवं कृते समचतुरभ्रं स्यात् । वत्र परिशिष्टदीपके खननादिना कुण्डं कुर्यात् । इदमेव सर्वेषां कुण्डानां प्रकृतिभूतम् । चतुरश्रमिदं प्रोक्तं सर्वकुण्डे कारणम् । इन्युक्तः । अस्य च क्षेत्रफलं पत्सप्तत्यधिका पञ्चशती। योन्यादिकुण्डानां च एतत्प्रकृतिकत्वात् यथा क्षेत्रफलम् ५७६ भवेत् तथा त्रिकोणादिकं कल्पयित्वा तानि संपाद्यानि ॥१॥ अथ योनिकुण्डनिर्माणप्रकार। तथाहि । उक्त विधिना चतुरस्र क्षेत्र पूर्व संपाद्य अग्निकोणे उदगग्रयोनिकुण्डन्मिाणार्थ मुदड मुखो भूत्वा चतुरश्रक्षेत्रस्य चतु विशतिभागान् कल्पयित्वा तेभ्यः पञ्च भागःन् गृहीत्वा ते तदीय द्वात्रिगत्तमभागं संयोज्य तावत्प्रमाणामुदगयां रखां पूर्वापरायता याश्चतुरस्रक्षेत्रस्योत्तरवाया मध्यात् कुर्यात् । तस्या रेखाया अयात् । प्रावोशङ्कपर्यन्तमेकां सरलां रेखां, प्रतीचोशङ्कपर्यन्तं चाप रां कुर्यात् । ततश्चतुरस्रक्षेत्रस्य चत्वारि समचतुरस्राणि कल्पयित्वा तेषु दक्षिणस्थयोतुरस्त्रयोध्यस्थान केन्द्रत्वेन परिकल्प्य केन्द्रात् कोणान्तगामिना मूत्रेण वृत्तार्धद्वयं कुर्यात् । एवं कृते भगाकारं क्षेत्रं संपद्यते । तत्र च खननादिना योनिकुण्डं कुर्यात् ॥ २॥ वृतार्धकुण्डनिर्माणप्रकारः। यवाधिकोनविंशत्यङ्गुलमितेन कर्फटकेन सूत्रेण वा व्यासार्थेन वृत्तं कृत्वा केन्द्रस्पर्शिनी पूर्वापरायतां सरलां पूर्वपरिधिप्रान्तात् पश्चि मपरिधिमान्तं यावत् रेखां कृत्वा उदगई परिमाय॑ वृत्ताध क्षेत्रं संपाद्य तत्र खननादिना कुण्डं कुर्यात् ॥३॥ ज्यधिकुण्डनिर्माणप्रकारः । __चतुरस्रक्षेत्रतृतीयांशमिता रेखा प्रागनां चतुरस्रक्षेत्रस्य प्राची शङ्कोः सकाशात् कृत्वा तदये शङ्कु निखन्य तस्यैव क्षेत्रस्य वायु कोणात् तच्चतुर्थी मितामुदगयां सरलामेकां रेखां नितिकोणाच तन्मितामेव दक्षिणायामपरां रेखां कृत्वा तदग्रयोः शकू निखन्य त्रिष्वपि शङ्ख सूत्रार्पणात् अनि क्षेत्र संपाद्य कुण्डं खननादिना कुर्यात् ॥ ४॥ दानप्रकरणे कुण्डनिर्माणकारः। २७ वृत्तकुण्डनिर्माणप्रकार। सार्धत्रयोदशाङ्गुलमितव्यासार्थेन वृत्तं क्षेत्रं संपाद्य खनना दिना कुण्डं कुर्यात् । अत्राङ्गुलशब्देन चतुःस्रक्षेत्रचतुर्विंशतितमो भागो ज्ञेयः । तेन द्विहस्तचतुरस्रक्षेत्रे अङ्गुलं सपादयवत्रयसहित भवति । ततश्च द्विहस्तवृत्तक्षेत्र सार्धाष्टादशाङ्गुलमितव्यासार्थेन संपा धम् । एवं चतुर्हस्तादावपि बोध्यम् ॥ ५ ॥ षडश्रिकुण्डनिमाणप्रकारः। सपादाष्टादशाङ्गलपरिमितेन व्यासार्धन वृत्तं संपाद्य तस्य उत्तरतः शङ्कं निखन्य ततः क्रमेण वृत्तस्य षष्टे षष्टे भागे शङ्क निखन्य वृत्तव्यासार्धद्वादशगुणं सूत्रं गृहीत्वा तस्य द्वादशे द्वादशे स्थाने विद्धं कृत्वा प्रान्ते पाशं विधाय तमुत्तरशङ्कौ दत्त्वा सूत्रस्य प्रथमचिह्न धृत्वा तथा वृत्ताध्ये कप्त् यथा द्वितीयं चिह्न धृत्वा कर्षणे तचिह्नमीशानकोणगत शङ्को पतेत् । ततः उत्तरशङ्कुस्थाना. पथमचिह्नपातस्थानं यावत् सरला रेखां कृत्वा तदेवाग्रात् ईशान शङ्कुपर्यन्त रेखां कुर्यात् । ततः ईशानशङ्कुस्थानात् सूत्र त्य तृतीय चिह्न गृहीत्वा वृत्तपध्ये तथा यत् यथा चतुर्थचिह्न धृत्वाकर्षणे अग्निकोणस्थशङ्को तचिहं पतेत् । ततस्तृतीयविद्वपातस्थानपर्यन्त मीशानशङ्कुस्थानात्सरलां रेखां कृत्वा तदनात् अग्निकोणशङ्कु स्थानं याबद्रेखां कुर्यात् । ततोऽग्निकोण राङ्कुस्थानात् पञ्चमचिह्न धृत्वा पूर्ववत्तमध्ये श्राकृष्य पष्ठचिह्न धृत्वादक्षिणशङ्खपर्यन्तमाकृष्य पूर्ववरेखाद्वयं कुर्यात् । ततो दक्षिणशङ्कुस्थानात्सप्तमचिह्न धृत्वा वृत्तमध्ये आकुष्य पूर्ववदष्ट रचिह्न धृत्वा नितिकोणशङ्कपर्यन्तमा. कृष्य पूर्ववद्रेखाद्वयं कुर्यात् । ततो निऋतिकोणशङ्कुस्थानात् नवमचित धृत्वा पूर्ववत्तमध्ये प्राकृष्य दशमचिह्न धृत्वा वायुकोण पर्यन्तमा कृष्य पूर्ववद्रेखाद्वयं कुर्यात् । ततो वायुकोण शङ्कुस्थानादेकादशचिह्नं धृत्वा पूर्ववद्वत्तमध्ये आकृष्य सूत्रमान्तं धृत्वा उत्तरशङ्कपर्यन्तमा कृष्य पूर्ववद्रेखाद्वयं कुर्यात् । एवं कृते पनि क्षेत्रं वृत्तपरिधिमा र्जनेन संपद्यते । तत्र खननादिना कुण्डं कुर्यात् ॥ ६ ॥ परिशिष्टदीपके पद्मकुण्डनिर्माणप्रकार। चतुर्विशत्यलायामविस्तारात्मक क्षेत्रस्य अष्टमांशभूतेन त्र्य मुलमितेन व्यासान कर्णिकास्थानीयमान्तरं प्रथमं हनं कृत्वा, तद्विगुणेन षडङ्गुलमितेन व्यासार्धेन ततो बहिः केसरस्थानीयं द्वितीयं, तत्रिगुणेन नवाङ्गुलमितेन व्यासार्थेन ततो बहिस्तृतीयम्प त्रमध्यस्थानीय, तच्चतुगुणेन द्वादशाङ्गुलमितेन व्यासार्धेन ततो बहिश्चतुर्थ पत्रोपान्तस्थानायं कृत्वा, क्षेत्रस्य अष्टमांशो यस्यङ्गु लात्मकस्तदीयाष्टात्रिंशत्तमांशेन ऊनितेन क्षेत्राष्टमांशपञ्चगुणेन अर्थात् पञ्चयूकोनपञ्चदशाङ्गुलमितेन व्यासार्धेन ततो बहिः अव ध्याख्यं पत्राग्रस्थानीय पञ्चमं वृवं कुर्यात् । तस्मिन् अवध्याख्ये वृने षोडशसु स्थानेह साम्येन विभक्तेषु षोडश चिह्नानि कुर्यात् । तेषां मध्ये पूर्वाग्निकोणचिह्नयोर्मध्यचिह्ने शङ्क निखन्य एवमेव सर्वेषु दिग्विदिचिह्नान्तरालचित्रेषु शङ्कु निखन्य तत: चतुर्थवृत्तस्थदिग्वि दिञ्चिद्वेषु शङ्ख निखन्य उभयवृत्तस्थसर्वशङ्कुवेष्टनयोग्यं प्रान्तयोः पाशयुक्तं सूत्रमादाय तस्य एकं पाशं चतुर्थवृत्तस्थपूर्वदिक्शङ्को दवा सूत्र पूर्वामिकोणयोर्मध्यवर्तिनं पञ्चमत्स्थशङ्ख नीत्वा सूत्रेण संवेष्ट्य ततश्चतुर्थवृत्तस्थानिकोणशङ्क, ततः पञ्चमवृत्तस्थम निकोणदक्षिणदिगन्तरालवर्तिशङ्कु, ततश्चतुर्थत्तस्थं दक्षिणशङ्कुम् इत्येवं क्रमेण सर्वान् शकून् सूत्रेण संवेष्टय अपरं सूत्रप्रान्तपाशं चतुर्थवृत्तस्थपूर्वदिक्शङ्कौ निवेशयेत् । ततो वृत्तकेन्द्रतः चतुर्थवृत्त स्थदिग्विदिक्शङ्कषु चतुर्थवृत्तव्यासार्धसूत्राण्यष्टौ दत्त्वा तानि शङ्कुवेष्टनसूत्रं चानुसृत्य रेखाङ्कनेन अष्टौ पत्राणि संपाद्य षडङ्गुल व्यासं कर्णिकावृत्तं पञ्चमवृत्तस्थामर्धभुवं च परित्यज्य केसरभुवि केसरचिह्नानि च कुर्वन् खननादिना कुण्डं कुर्यात् । कर्णिका च व्यङ्गुलोचं कुर्यात् । . उत्सेधं तु ततः कुर्यात् कर्णिकाोशमानतः । .. इति कामिकोक्तो । कुण्डसिद्धौ तु कर्णिकाया आयामो चत्वमुक्तम् । प्रतिपत्रं द्वौ द्वौ केसरौ कर्णिकावृत्ते लपमूलौ. दानप्रकरणे कुण्डनिर्माणप्रकारः। २९ कैसरहत्ते लमायौ अग्रभागे किश्चित्स्थूलौ पक्रकरणेन अन्योन्या भिमुखौ कार्यों। दलमूलेषु युगशः केसराणि प्रकल्पयेत् । ___ एतत्साधारणं प्रोक्तं पङ्कजं तन्त्रवेदिभिः । इति शारदोक्तः। ततश्च षोडश केसराः संपद्यन्ते । अत्र कर्णिकां विहाय पत्रोपान्ताख्यचतुर्थवृत्तं यावत् सर्वस्य खननात् दलान्तराले च पृथक् खननाभावेन दलानां न तावद्भागावच्छेदेन पार्थक्यावभासः । परिध्याख्यपञ्चमहत्ते च अर्धभुवं संगृह्य वन नेन दलाग्रावच्छेदेन पार्थक्यं स्पष्टतयाऽवभासते। दिग्विदिगन्त रालेष्वेव दलाप्रकरणात् पश्चिमभागे योनिनिवेशेऽपि न दलाकृति. भङ्गः । दिग्विदितु दलाग्रकरणे तु योनिनिवेशकृतो दलाकृतिभङ्गो दुर्वार एव । तस्मात् दिग्विदिगन्तराले एव दलाप्रकरणं युक्तम् । सर्वोऽप्ययं पद्मकुण्डनिर्माणप्रकारः स्मृतिकौस्तुभे माघमासीयपर्वनि रूपणप्रस्तावे अयुतहोमनिरूपणप्रसङ्गेन ‘अन्येतु’ इत्यादिनाभि हितः । अधिकजिज्ञासुभिस्तत्रैव द्रष्टव्यः ॥७॥ अष्टाश्रिकुण्डनिर्माणप्रकारः। . यूकासहितपश्चयवाधिकाष्टादशाङ्गुलपरिमितेन व्यासार्धेन वृत्त कुर्यात् । वृत्तस्य तस्य विदिग्दिशोरन्तरालेऽन्तराले अंष्टसु स्थानेषु चिह्न कुर्यात् । ततः ईशानपूर्वान्तरालवर्तिचिह्नात् मध्यचिद्वयं परित्यज्य दक्षिणनितिकोणान्तरालवर्तिचिह्नं यावत् सरलां रेखां कृत्वा ततः तस्मात् स्थानान्मध्यचिह्नद्वयं त्यक्त्वा उत्तरवायुकोणान्त रालचिह्न यावद् द्वितीयां रेखां कृत्वा ततस्तस्मात्स्थानात मध्ये चिह्नद्वयं विहाय पूर्वाग्निकोणमध्यचिहं यावत् तृतीयां रेखां कृत्वा ततस्तस्मा स्थानात् मध्यचिह्नद्वयं वर्जयित्वा पश्चिमनितिमध्यचिन्हं यावत चतुर्थी रेखां कृत्वाततस्तस्मात्स्थानात् चिद्वयं विहाय उत्तरेशानम ध्यचिन्हं यावत्पश्चर्मी कृत्वा ततस्तस्मात्स्थानात् मध्यचिन्हद्वयं परि त्यज्य अग्निकोणदक्षिणमध्यचिह्न यावत् षष्ठी कृत्वा ततस्तस्मात्स्था नान्मध्यचिवद्वयं त्यक्त्वा पश्चिमवायुकोखमध्यचिन्हें यावत्सप्तमी कृत्वा परिशिष्टदीपके तस्मात् स्थानात् मव्यचिन्हद्वयं विसृज्य ईशानपूर्वमध्यचिह्नं यावत् अष्टमी रेखां कुर्यात् । एवं कृते वृत्तपरिधिमार्जनात् मन्यदोःखण्ड मार्जनाच्च अष्टास्त्रिक्षेत्रं संपघते। तत्र खनादिना कुछ कुर्यात् ॥८॥ खातं च कुण्डक्षेत्रतुल्यं कुर्यात् । जातं कुण्डप्रमाणं स्यात्” इति सिद्धान्तशेखरोक्तः। तच्च प्रमाणमाद्यमेखलायुतं ज्ञेयनिति केचित् । “ऊर्ध्व मेखलया युतम्” इति तत्रैव तदुत्तरोक्तेः । मेखलाप्रमाणातिरिक्तमेव प्रा. यामप्रमाणं ग्राह्यमित्यन्ये । यावान्कुण्डस्य विस्तारः खननं तावदीरितम् । इति शारदातिलकोक्तः। चतुरस्रं चतुष्कोष्ठं सूत्रैः कृत्वा यथा पुनः । हस्तमात्रेण तन्मध्ये तावनिम्नायतं भवेत् ॥ इति प्रयोगसारोक्तेश्च । अनयोश्च पक्षयो?माल्पत्वबहु त्वाभ्यां व्यवस्था । योन्यादिकुण्डेषु तु चतुरस्रक्षेत्रस्यैवायामवि स्तारानुसारेण हस्तमात्रमेव खनेत् । तेषामायामविस्तारयोरनिय तत्वात् । खातमेखलाभ्यन्तरे अङ्गुलमानः कण्ठः कार्यः । खाताबाह्येऽङ्गुलः कण्ठः सर्वकुण्डेष्वयं विधिः। इति कलोत्तरोक्तेः । अङ्गुलश्चान्न क्षेत्रचतुर्विंशो भागः । चतुर्विशतिमो भागः कुण्डानामङ्गुलं स्मृतम् । इति तत्रैवोक्त। कुण्डं च त्रिमेखलं, द्विमेखलम् , एकमेखलं वा कुर्यात् । नाभियोनिसमायुक्तं कुण्डं श्रेष्ठं त्रिमेखलम् । कुण्डं द्विमेखलं मध्यं नीचं स्यादेकमेखलम् ॥ . इति क्रियासारोके। . मेखलासहितहस्तमात्रखातपक्षे पञ्चदशाङ्गुलैर्भुवं खनेत् । अथ खाताद् बहिरेकाङ्गुलमन्तरं विहाय चतुरङ्गलोत्सेधा नवा गलविस्तारा च कुण्डाकारा प्रथमा मेखला कार्या । तदुपरि द्वय गुलमितं बाह्यभागं त्यक्त्वा व्यङ्गुलोत्सेधा सप्ताङ्गुलविस्तारा ताह दानप्रकरणे नाभियोनिनिर्माणप्रकारः। ३१ श्येव द्वितीया कार्या। तदुपरि व्यङ्गु नमितं बाह्य मागं त्यक्ता द्वयङ्गु लोत्सेवा चतुरङ्गुलविस्तारा तादृश्येव तृतीया मेखला का । मेखलारहितहस्तमाखातपक्षे तु हस्तमात्रं खनित्वा उक्तप्रकारेण मेखलात्रयं कार्यम् । व्यासात्वातः करः प्रोक्तो निम्नं तिथ्यङ्गुलेन तु । कण्ठात्परं मेखला तु उन्मता सा नवाजुलैः॥ इति विश्वकर्मोक्तः। प्रधानमेखलोत्सेवमुक्तमत्र भवाङ्गलम् । तद्वाह्यमेखलोत्सेधं पञ्चाङ्गुलमिति स्मृतम् ॥ तद्वाह्य मेखलोत्सेवमङ्गुलद्वितयं क्रमात् । । चतुस्त्रिद्वयङ्गुलव्यासो मेखलात्रितयस्य तु ॥ इति क्रियासारोक्तंश्च । अत्र चतुरङ् लोत्सेवत्वं नवाजु लविस्तारत्वं च प्रथमायाः, व्यङ्गालोत्सेधत्वं सप्ताङलविस्तार च द्वितीयायाः, द्वयङ्गुलोत्सेवत्वं चतुरङ्गुल विस्तारत्वं च तृतीया याः क्रियासौकर्याभिप्रायेणोक्तम् । तथाकृते यथोक्तं मेखलानां मान सिध्यतीति अन्यथा मानं प्रोक्तमिति न भ्रमितव्यम् । सर्वेषु कुण्डेषु कुण्डाकारा नाभिर्यकुलोच्चा चतुरङ्गलायामवि स्तारा कार्या । पद्मकुण्डे तु नाभिनं भवति । तत्र तत्स्थानीयायाः कर्णिकायाः सत्वात् । “कुण्डानां कल्पयेदन्त भिमम्बुजसंमिताम् । तत्तत्कुण्डानुरूपां वा मानमस्या निगद्यते । मुष्टयरत्येकहस्तानां नाभेरुत्सेधयामता। नेत्रवेदाङ्गलोपेता” इति शारदोक्तः। योनिकुण्ड विहाय अन्येषु सर्वेषु कुण्डेषु द्वादशाङ्गुलदीर्घा अष्टाङ्गुलविस्तारा एकाङ्गुलोच्चा एकाङ्गुल मेखलायुता कुण्डप्रविष्टै काडुलाग्रभागा योनिकुण्डोक्तरीत्या साध्यवृत्तार्धद्वययुता अघो विशाला उपरि किंचित्संकोचवती मूलादारभ्य मध्ये सच्छिदपा३ परिशिष्टदीपके नालाकारयुता घृतयुक्तमुग्धारणार्थगतमध्याऽश्वत्थपत्राकृतिह्णनिः मेखलामध्ये कार्या। मेखलामध्यतः कुर्यात्पश्चिमे दक्षिणेऽपि वा । शोभनां मध्यतः किंचिनिम्नामुन्मोलितां शनैः ।। इति वायवीयोक्तेः। दीर्घा सूर्याला योनिस्यशोना विस्तरेण तु । एकाङ्गुलोच्छिता सा तु प्रविष्टाऽभ्यन्तरे तथा । कुम्भद्वयार्धसंयुक्ता चाश्वत्थदलवन्मता । अङ्गष्टमेखलायुक्ता मध्ये त्वाज्यधृतिक्षमा ॥ इति त्रैलोक्यसारोक्तः। अर्काङ्गुलोच्छितां योनि विदध्याचावदायताम् । इति पञ्चरात्रोक्तेश्च। अर्काङ्गुलोच्छायत्वं च व्यङ्गुलोच्छायत्वं योनेरङ्गीकृत्य नवा गुलमेखलाया उच्छायं परिधेरेकाङ्गुलोच्छायं च गृहीत्वा बोध्य म् । एकाङ्गुलोच्छायत्वस्यैव बहुसंमतत्वात् पूर्वोक्तमेखलापरिध्यु च्छाययोजनेन एकादशाङ्गुलोच्छायत्वमेव बहुसंमतमिति दिक् । कुण्डकरणाशक्तौ चतुरङ्गुलोच्चमेकाङ्गुलोच्चं वा चतुष्कोणं हस्तमात्रायामविस्तारं स्थण्डिलमेव कुर्यात् । मृदा सुवर्णया वाऽपि मूक्ष्मवालुकयाऽपि वा। अडगुलोच्चं तथा वेदाङ्गुलोचं स्थण्डिलं विदुः॥ चतुष्कोणमुदक्माचीप्लवमल्पाहुतौ शुभम् । पञ्चाङ्गुलोच्चमथवा स्वगुलसमन्वितम् ॥ इति तन्त्रान्तरोक्तः। तुलापुरुषदानोपयोगी तुलादण्डश्च शाकादिक्षान्यतमका ठभवः सार्धहस्तचतुष्टयदी| *दशाङ्गुलव्यासवलयाकृतिसूत्र संमितो मध्ये सुवर्णपट्टाभरण अन्यत्र चतुर्विशतिताम्रादिधातुबन्ध युतः काये। पृथुस्वमस्यास्तु दशाङ्गुलानि इति मात्स्योक्त। ra. i. . .

. दानप्रकरणे तुलादण्डादिनिर्माणप्रकार। ३३ विशेषदानं कथितं तुलादि तस्मात्तुलालक्षणमुच्यते प्राक् । तुलाप्रमाणं स्मृतमङ्गुलानि दयेऽखिले षण्णवतिः प्रमाणैः ।। प्रान्तद्वयेऽप्यङ्गुलषटकमुक्तं शतं तुलाष्टोत्तरमङ्गुलानाम् । स्युर्विशतिः पञ्च च धातुबन्धा बन्धेष्वधिष्ठातृसुरा निवेश्याः ॥ ईशा शशी मारुत रुदै यो स्याद्विश्वकर्मा गुरु रङ्गिरोगी। प्रजापति विश्व जगद्विधाता पर्जन्यशेम्भू पित देवताश्च ॥ सौम्यश्च धर्मो ऽमरराज देस्रो जलेशमित्रावरुणो मेरुदणा। धनेश गन्धर्व जैलेश विष्णुरेते चतुर्विशतिरेच देवाः ।। स्यात्पञ्चविंशः पुरुषः पुराणो यस्तोल्यमानस्तुलया महात्मा । एता विधेयास्तपनीयमय्यो रत्नाचिता दैवतमूर्तयस्ताः॥ षडङ्गुलः स्याचतुरस्त्रपिण्ड: प्रान्तद्वये विष्णुरनन्तनामा । तुलो_भागे कलशद्वयं स्यात् तथाङ्कुटद्वंद्वमधस्तुलान्ते ॥ षडङ्गुलोऽप्यङ्कटकश्च पिण्डोऽप्येकाङ्गुलो विष्णुरनन्तनामा । पाशद्वयं तचतुरङ्गुलं स्यादेवं मया ते कथितं प्रमाणम् ॥ मध्याङ्कुटे शृङ्खलिकाऽङ्गुलानि पश्चाधिका विंशतिरेव दैर्थे । एकालोऽस्या भवतीह पिण्डस्तत्राधिदेवः किल वासुकिः स्यात् ।। एकैकरज्जुर्लभतेऽङ्गुलानि त्रिसप्ततिः पिण्डगतामुला च । बच्चेलक द्वंद्वमथाङ्गुलानि त्रिंशचथा पञ्चदशाधिका च ॥. सद्धातुबन्धं शुभकाष्ठघाट पिण्डेङ्गुलद्वंद्वमथो विधेयम् । अधोद्वये भूम्यधिदेवता स्यात् तुलान्तरे भूमिपतिनिवेश्यः॥ . शत मदनरत्ने विश्वकर्मोक्त। अत्र पञ्चविंशः पुरुषः पञ्चाङ्गुलविस्तृतसुवर्णपट्टबद्धे तुला मध्यभागे स्थितषडङ्गुलदीर्घकण्टके एकाङ्गलस्थूलपञ्चविंशत्य मुखदीर्घशृङ्खलयाऽवलम्बनीयः ।। * समानजातिश्च तुलाऽवलम्ब्या हैमेन मध्ये पुरुषेण युक्ता। हात मात्स्योक्तेः । समानजाति: तोरणसमानजातिः । पञ्चविंशस्य हैमपुरुषस्य स्वरूपं पञ्चरात्रे उक्तम् अधश्चक्र गदामूचे दक्षिणे वामयोः क्रमात् । ५०टी. परिशिष्टदीपके ऊर्चे शङ्खमधः पचं गोविन्दः कपिलाङ्गकः ॥ इति । एता दैवतमूर्तयः ईशादिमूर्तयः तपनीयमच्या सुवर्णमय्यो रत्नखचिताः कार्याः । षडङ्गुलः स्यान्तुरस्रपिण्ड इति । तुलायाः प्रान्तद्वये यः षडङ्गुलो भाग उक्तः स चतुरस्रः स्यात् । अर्थात् तुलाया वर्तुलत्वं प्रान्तभागीयषडगुलं विहाय बोध्यम् । तयोश्च अनन्तनामा विष्णुरघिदेवः स्यात् । तुलान्ते तुलाप्रान्ते तुलाया उभयोः प्रान्तयोः ऊर्धभागे कलशाकारद्वयम् , अधोभागे अङ्कुटद्वन्द्वं बडिशाकारलोहमयपाशद्वयम् । तच चतुर झुलदीर्थ स्यात् । पाशद्वयं तच्चतुरङ्गलं स्यादिति अग्निमश्लोके वक्ष्यमाणत्वात् । षडङ्गुलोऽपीति । तुलामध्ये च उत्तराङ्गकाष्ठ मध्यावलम्बितषडङ्गललोहकण्टके तुलाया अवलम्बनार्थ लो हमयोऽङ्गुटको बडिशाकारः कार्यः । तस्याप्यधिष्ठाताऽनन्त नामा विष्णुः। मध्याङ्कटे इति वक्ष्यमाणोक्त्या च अत्र तुला मध्ये इति योजितम् । अयं च षडङ्गुलदीर्घ एकाङ्गुलस्थूलः । प्रान्तद्वयगताङ्कुटद्वयं च चतुरङ्गुलं पाशद्वयसंज्ञक चेलकावलम्ब नार्थशृङ्खलावलम्बनार्थं ज्ञेयम् । तुलामध्यो-भागे अङ्गलस्थूलं पडलदीर्घ कण्टकं योजयित्वा तत्र एकाङ्गुलव्यासां पञ्चविंशत्य हुलदीर्घा शृङ्खला लाहमयी रज्जुरूपां वा गोविन्दप्रतिमाऽवल म्बनार्थ योजयेत् । अस्याः शृङ्खलाया अधिपतिर्वासुकियः । चेलकं फलकम् । तच्च पञ्चचत्वारिंशदङ्गुलदीर्घ द्वयङ्गुलस्थूलं काष्ट कार्यम् । सति संभवे तानेण फलकद्वयं विधेयम् । शुल्बजौ तु दृढौ विद्वान् बन्धनेन तु कारयेत् । शिक्याधस्तात्मकर्तव्यौ पञ्चमादेशविस्तरौ ।। सहस्त्रेण तु कर्तव्यौ पलैराधारकावुभौ । शताष्टकेन वा कुर्यात् पलानां षट्शतेन वा ॥ चतुस्तालपविस्तारं मध्यमं परिकीर्तितम् । सार्धत्रितालविस्तारं कनीयश्च विधीयते ॥ दानप्र. तुलावलम्बनतोरणफलकादिनिर्माणप्रकारः । ३५ पञ्चमात्रं चतुर्मानं त्रिमात्रं फलमुच्यते । इति लैङ्गोक्तेः। तालः मध्यमासहिताङ्गुष्ठविस्तारः । मात्रम् अङ्गुलम् । शुल्वं वानम् । फलं फलकयोः प्रान्तभागः। पलसहस्रमितेन ताम्रेण फलकद्वयमुत्तमम् । तद्वयासः प्रादेशपञ्चकमितः । तत्मान्तभागश्च पञ्चाङ्गुलोच्छितः । पलशताष्टकमितेन तु मध्यमम् । तद्विस्तारः ता लचतुष्टयमितः। प्रान्तभागश्च चतुरङ्गलोच्छितः। पलशतषकमितेन तु कनिष्ठम् । तस्य विस्तारः सार्धतालत्रयमितः । प्रान्तभागश्च त्र्यङ्गुलोच्छ्रितः । ताम्रफलकद्वयं च वर्तुलं कार्यम् । व्यासपर्या यविस्तारपदोपादानात् । तच्च ताम्रवलयचतुष्टयान्वितं विधाय त्रिसप्तत्यङ्गुलदीर्घाभिरेकालस्थूलाभिश्चतमृभिः शृङ्खलाभिस्तद्वल ययोजिताभिस्तुलाप्रान्तनिविष्टचतुरङ्गुलपाशयोवलम्बयेत् , यथा भूमेः फलकयोश्च प्रादेशमात्रं चतुरङ्गुलमानं वाऽन्तरं भवेत् । मादेशं वा चतुर्मानं भूमि त्यत्त्वाऽवलम्बयेत् । इति लैङ्गोक्तः। वेद्याः पूर्वतः पश्चाच यथासंभवम् उत्तमादिमण्डपेषु भूमि त्यक्त्वा दशाङ्गुलस्थूलं चतुरनं सप्तहस्तदीर्घ तोरणनिवेशनार्थ हस्तमात्रोपरिभागकृतचूडं शाकादियज्ञियक्षकाष्ठजं. स्तम्भद्वयं हस्तचतुष्टयान्तरालं वेदिमध्ये पूर्वपश्चिमयोहस्तद्वयं निखन्य तयोरुपरि चतुरङ्गलाधिकपञ्चहस्तदीर्घ स्तम्भाद बहिनिर्गत चतुरङ्गुलपूर्वपश्चिममान्तभागं मध्ये तुलावलम्बनार्थषडङ्गुलदीर्घ ह लोहकण्टकयुतं, स्तम्भचूडयोनिवेशनार्थं प्रान्तद्वये कृतच्छिद्रं दशाङ्गुलस्थूलं तोरणाख्यं काष्ठं निधाय* तन्मध्यभागीयषडङ्गुललो

  • तुलामध्यभागीयावलम्बनार्थवडिशाकारलोहकण्टकस्य - डॉलोऽण्यङ्कटकश्च” इत्यनेन षडङ्गुलत्वस्य कथनात् अवलम्बनार्थ तोरणमध्यभागीयलोहकण्टकस्यापि षडङ्गुलत्वमुचितमिति भावः। अतएव हेमाद्रिणाऽपि “समानजातिश्च तुलाऽवलम्ब्या” इति “तोर. समानजातिस्तुला उत्तराङ्गमध्ये द्वादशभिरडलैरवस्तादुद्गग्राऽव लम्ब्या” इति व्याख्यातम् । उभयोरवलम्बनकरटकयो षडालत्वे तोरणावस्ताद् द्वादशाङ्गलावलम्बनस्य फलितत्वादिति। परिशिष्टदीपके हकण्टके पूर्वोक्तां तुला दक्षिणोचरायतां तुलार्ध्वमध्यभागीयषड हुललोहकण्टकेनावलम्बयेत् । शाकेगुदीचन्दनदेवदारुश्रीपर्णिबिल्वप्रियकाञ्जनोत्थम् । स्तम्भद्वयं हस्तयुगावखातं कृत्वा दृढं पञ्चकरोच्छ्रितं च ॥ तदन्तरं हस्तचतुष्टयं स्यात् तथोचराग चतुरस्रमेव । . इति मात्स्योक्तेः। पूर्वोक्तगुणविशिष्टतोरणस्यासवे यज्ञिय वृक्षकारजे स्तम्भे एव तुलां बनीयात् । आश्वयीं खादिरीं वापि पालाशी वा सुटतजाम् । चतुर्हस्तप्रमाणेन सुलक्षणां सुदृढां नवाम् ॥ सुवर्तुलां समां तद्वत् स्निग्यां छिदत्रयान्विताम् । मौञ्जशिक्याभयोपेतां बद्धां स्तम्भे तु यहिये । इति वाहिपुराणोक्तः। छिद्राणि तु द्वयोः प्रान्तयोट्टै मौञ्ज शिक्यद्वयावलम्बनार्थे, एकं स्तम्भमध्ये तुलाया बन्धनार्थम् इति त्रीणि । स्तम्भश्च सप्तहस्तो हस्तद्वयं भूमौ निखेयः । एता दृशस्य स्तम्भस्याप्यभावे कचिदपि कथंचित् तुलामवलम्बयेत् । ताम्रमययोः काष्ठमययोर्वा फलकयोः पूर्वोक्तगुणविशिष्टयोरभावे मुञ्जवंशादिनिर्मिते पिटके एव संपादयेत् । शल्या द्वयं तु बनीयात् स्थापयेत् पिटके ततः । तत्रारोहेत् सवस्त्रास्त्रः पुष्पालङ्कारभूषितः । इति विष्णुधर्मोत्तरोक्तः। सौवर्णं पट्टे, सौवर्णं वासुदेवं च तुलामध्ये स्वशक्त्यनुसारेण बघ्नीयादिति श्राद्यपादायः । तदनन्तरं पिटके-पिटकद्वयं स्थापयेत् , तत्र च वनादिविशिष्ट प्रारोहेदिति पादत्रयार्थः । तुला च दक्षिणोचरायता बन्धनीया । दक्षिणे तु सुवर्णं स्यादुत्तरे तु नराधिपः । - इति गोपथब्राह्मणोक्तेः। .. स्वमेयं चैन्द्रदिग्भागे सुवर्ण तत्र निक्षिपेत् इति लैङ्गोक्तेः कैश्चित् तुलायाः प्राक्पश्चिमायतत्वमप्युक्तम् । तत् यथासमाचारं व्यवस्थापनीयम् । दानप्रकरणे सहोमतुलादानप्रयोगः। ३७ अथ एककुण्डपक्षमाश्रित्य तुलादानप्रयोगो लिख्यते । तत्र तुलादानदिनात्पूर्व तृतीय-षष्ठ-नवमदिनानि वर्जयि त्वा कस्मिंश्चिच्छुभदिने शुभदेशे यजमानः कृतनित्यक्रियो दीपं प्रज्वलय्याचम्य प्राणानायम्य शान्तिपाठ (स्वस्तिवाचनं ) कृत्वा गणेश-विष्णु-कुलदेवता-महेश्वर-सूर्यान् पुष्पाञ्जल्युपहारपूर्व कं नमस्कृत्य गणेश-कर्म-वसुधा-ऽनन्तानां पूजनं कृत्वा मण्ड पादिकं कुर्यात् । तत्रादौ अधेह अमुकोऽहं करिष्यमाणमण्डपा दिकरणकर्मणि निर्विघ्नतासिद्धयर्थं श्रीमद्भगवतो गणेशस्य य थालब्धोपचाः पूजनं करिष्ये इति संकल्प्य उक्तविधिना गणेशं संपूज्य अयेह करिष्यमाणमण्डपाधङ्गत्वेन भूमि-कूर्मानन्तानां पूजनं करिष्ये इति संकल्प्य तान् पूजयेत् । तत्र पूर्व भूमिदेवतां पूगफलादौ एतं त इति प्रतिष्ठाप्य चतुर्भुजां शुक्लवर्णो कूर्मपृष्ठोपरि स्थिताम् । पद्मशङ्खचक्रशूलधरां स्मितवराननाम् ॥ इति ध्यात्वा आगच्छ सर्वकल्याणि वसुधे लोकधारिणि । पृथिवि ब्रह्मदत्वाऽसि काश्यपेनाभिवन्दिता ॥ इत्यावाह्य ॐभूरसि इति वैदिकमन्त्रेण ॐभूम्यै नमः इति नाममन्त्रेण वा भूमि गन्धाधुपचारैरभ्यर्च्य उपचारानिमांस्तुभ्यं ददामि परमेश्वरि । भक्त्या गृहाण देवेशि त्वामहं शरणं गतः ॥ इति पूजां निवेदयेत् । ततः पूजिते परमाचार्यैर्गन्धमाल्यैरलंकृते । भव भूतिकरी देवि गृहे भार्गवि रम्यताम् ॥ इत्येवं तां प्रार्थयेत् । ततः ॐकूर्माय नमः इत्यनेन कूर्मम्, ॐअनन्ताय नम इत्यनेन अनन्तं च पूजयेत् । दानकमलाकरे तु एतेषां पूजनानन्तरं ताम्रपात्रस्थमध्यं गृहीत्वा आगच्छ सर्वकल्याणि वसुधे लोकधारिणि । उधृतासि वराहेण सशैलवनकानना ॥ . ३८ परिशिष्टदीपके मण्डपं कारयाम्यद्य स्वध्वं शुभलक्षणम् । गृहाणाध्यं मया दत्तं प्रसन्ना शुभदा भव ॥ इति भूम्यै अर्घ्यदानमप्युक्तम् । अथ मार्जनादिभिर्भूमि सं शोध्य पञ्चगव्येनाभ्युक्षेत् । तत्प्रकारश्च गायत्र्या पलमितं माषा ष्टकमितं वा गोमूत्रं गृहीत्वा सुवर्णताम्रादिधातुपात्रे पलाशादिप त्रपुटे वा स्थापयेत् । तदर्थं गोमयं गन्धद्वारामिति मन्त्रेण गृहीत्वा तत्रैव स्थापयेत् । गोमूत्रत्रिगुणं तीरम् आप्यायस्वति गृहीत्वा तत्रैव स्थापयेत् । गोमूत्रद्विगुणं दधि दधिकाव्ण इति गृहीत्वा तत्रैव स्थापयेत् । गोमूत्रद्विगुणं घृतं तेजोऽसि इति गृहीत्वा तत्रैव स्थापयेत् । गोमूत्रसमं कुशोदकं देवस्यत्वा इत्यनेन गृहीत्वा तत्रैव स्थापयेत् । प्रणवेन हस्तेनालोड्य प्रणवे नैव यज्ञियकाष्ठेन निर्मथ्य प्रणवेनैवाभिमन्त्रयेत् एवं सिद्धेन प ञ्चगव्येन आपोहिष्ठा इति ज्यूचेन भूमिमभ्युक्षेत् । एवं शोधि तायां भूमौ पूर्वोक्तविधिना मण्डपादिकं विदध्यात् । रुद्रायतना दौ तु समीकरणपश्चगव्याभ्युक्षणसंस्कारानपेक्षयैव मण्डपादिकं विधेयम् । गणेशभूम्यादिपूजनं तु तत्रापि कर्तव्यमेव । __पूर्वोक्तविधिना स्तम्भादियुक्त मण्डपाऽनुष्टानासंभवे कूटमेव कुर्यात् । “मण्डपं कूटमेव वा" इति लैङ्गोक्तो। कूटं छायामा त्रम् । कूटमेव शालाशब्देन व्यवहियते कैश्चित् । तत्रापि पताका घलंकारादयो मण्डपधर्मा भवन्त्येव यवेषु ब्रीहिधर्मा इव । तेषाम पूर्वपयुक्तत्वात् । तस्य च वैकल्पिके विद्यमानत्वात् । इत्थं माडपं कूटं वा सम्पाद्य करिष्यमाणतुलादानाधि वासनदिनात् पूर्वेयुः कृतैकभक्तादिनियमः करिष्यमाणतुलादा नदिनात् पूर्वदिने सुस्नातः परिहितशुक्लधौतवासाः कुङ्कमा दिना कृततिलकः प्राङ्मुखो यजमानः शुभासन उपविश्य दीपं प्रज्वलय्याचम्य प्राणानायम्य शान्तिपाठं (स्वस्तिवाचन) का. रयित्वा गणेशादीन् सुमुखश्चेत्यादिभिः नमस्कृत्य तेषु पुष्पाञ्जलि दानप्रकरणे सहोमतुलादानप्रयोगः। ३९ च समर्प्य देशकालौ संकीर्त्य श्वाकरिष्यमाणतुलापुरुषमहादान कर्मणि निर्विघ्नतासिद्धयर्थं श्रीमद्भगवतो गणेशस्य पूजनं करिष्ये इति संकल्प्य यथाविधि तं संपूज्य प्रधानसंकल्पं कुर्यात् कुशविलयवसहित जलमादाय करिष्यमाणदानाधिकरण तिथ्यादीनुल्लिख्य अमुकोऽहम् ब्रह्महत्यादिसकलपापक्षयपूर्वक ___यद्यपि योगसिद्ध्यधिकरणन्यायेनैकस्मात् प्रयोगात् एक मेव फलं युक्तम्, तथापि जातेष्टौ पुत्रगतपूतत्वादीनामिव तुला दानादौ वह्निपुराणादौ श्रुतानां ब्रह्महत्यादिपापक्षयादीनां समुदि. तानामेकफलत्वमेव । साहित्यस्यैव रात्रिसत्रन्यायेन कार्यतावच्छे. दकत्वकल्पनात् एकस्यैव कामशब्दस्य कल्पनाच । सर्वेभ्यः कामेभ्यो दर्शमासौ इत्यादौ तु नानाकामशब्दैकशेषश्रवणान्नाना. फलत्वादु योगसिद्धिन्यायावतारः । अत एव मदनरबादौ सर्वेषां फलानां समुच्चयेनोल्लेखः कृत इति दिक। मात्स्यादिनानापुराणेषु उक्तस्य तुलादानादेः कर्मणः शाखा न्तराधिकरणन्यायेन स्मार्तद्वादशवार्षिकादिवतानामिवैक्यस्यैव न्याय्यत्वात्सर्वाङ्गोपसंहारे लैङ्गे नृपक्षत्रियपदयोरुपादानात्तुलादाना दौ विप्रादीनामनधिकारो यद्यपि प्राप्नोति तथापि लैङ्गव्यतिरिक्त सर्वपुराणस्वारस्येन तुलादानादेः सर्वसाधारण्यमेव । लैङ्गं तु क्षत्रि यस्य नृपस्य धर्मविशेषविधानार्थम् । तेन नवकुण्डी-सहस्रनामपूजादिप्रकारस्तत्रोक्तो नृपक्षत्रियस्यैव नान्येषाम् । मात्स्यायुक्तस्तु सर्वेषाम् । पुराणभेदेन तुलादानादि कर्ममेदवादिनामपि अन्यत्रोक्तानामङ्गानामन्यत्र नानाऽतिदेशः स्या देव कुण्डपायिनामयनस्थे नित्याग्निहोत्रधर्माणामिव । अन एव आत्मतुल्यं सुवर्ण वा दद्यादब्रह्मवघे पुमान् । इति चातुर्वयाधिकारे मनूक्ति, . ब्रह्मविदक्षत्रशूद्राणां कर्तव्या यत्नतो नृप। इति कामधेनुदाने आग्नेयोक्तिः, स्त्रीणां कुण्डानि विप्रेन्द्र योन्याकाराणि कारयेत् । इति मात्स्योक्तिश्च संगच्छते । ननु गृह्यसूत्रायुक्तहोमाजकुशक ण्डिकाद्यङ्गापेक्षेषु तुलादानादिषु तदध्ययनाभावे कथं स्त्रीशुदाणाम धिकार इति चेन्न । ‘खोभिः शूद्रश्च पुराणानि श्रोतव्यानि इत्यस्य नियमविधित्वलाघवानुरोधेन अर्थशानरूपदृष्टार्थवादर्थशानस्य च कर्मानुष्ठानोपयोगित्वात् पौराणेषु कर्मसु तेषामधिकारनौव्यात् । ४० परिशिष्टदीपके चतुर्दशमन्वन्तरकालावच्छिनप्रतिलोकपालस्थानाधिकरणकनिवा. सोत्तरकालाप्सरोगणाधिष्ठितकलरणत्करणकिङ्किणीगणमण्डिता. वर्णविमानकरणकवैकुण्ठभुवनगमनानन्तरकल्पकोटिशतावच्छि नवकुण्ठभोग्यभोगोत्तरकालाखिलभूपालमौलिमाणिक्यपालोपर ञ्जितचरणपीठत्वविशेषितराजराजत्व-श्रद्धानुविद्धयज्ञसहस्रयाजि स्व-प्रदीप्तप्रतापानलाशेषमहीपालविजयपाक्षिद्वारा श्रीपरमेश्वर प्रीतिकामः (श्रापरमेश्वरप्रीतिमात्रकामो वा ) श्वस्तुलापुरुषमहा दानं करिष्ये इति । सद्योऽधिवासनपक्षे अद्य तुलापुरुषमहादानं करिष्ये इत्येवमुल्लेखः । ततः तुलापुरुषमहादानकर्मणि निर्विघ्नता सिद्धयर्थ (१)गोविन्दस्योपापतेः विनायकस्य च पूजनं करिष्ये इति संकल्प्य यथाशक्ति लब्धोपचारैः ॐगोविन्दाय नमः ॐउमा अन्यथा तेषां तच्छवणस्य वैफल्यापत्तेः । गृह्योक्ताङ्गमानं तु उपदे शादिना सम्भवत्येव । प्रधानानुरोधेन तदाक्षेपात् । वरणाम्नानेन ऋत्विकर्तृकत्वेनैव प्रयोगविधिविधेयत्वाच । तत्र ऋत्विकर्तृकहोमे वैदिकमन्त्रो भवत्येव । श्रमन्त्रस्य तु शुद्रस्य विप्रो मन्त्रेण गृह्यते । इति वाराहोक्तः । मन्त्रेण मन्त्रपाठेन तदर्थ विप्रो गृह्यते स्वी क्रियते इत्यर्थः। दक्षिणार्थे तु यो विप्रःशूद्रस्य जुहुयाविः। ब्राह्मणस्तु भवेच्छूद्रः शूद्वस्तु ब्राह्मणो भवेत् ॥ इति पराशरोक्तश्चेति माधत्रो गोडा मैथिलाश्च । वैदिके याजमाने मन्त्रे शूद्रस्य नमोमन्त्र एव । “अनुज्ञातोऽस्य नमस्कारी मन्त्र’ इति गौतमोक। पौराणे याजमाने मन्त्रे शूद्रस्य पाठ एवेति कल्पतरू स्मार्तगौडादयः । श्रवणमात्रस्यैव विधानेन “श्रुतमन्त्ररर्यस्मृति कुर्यात्” इत्यर्थन शूद्रस्य पौराणमन्त्रश्रवणमात्रमिति कमलाकरः । एतत्सव दानकमलाकरे विस्तरेण निरूपितम् । अधिकजिज्ञासुमिस्त त्रैव द्रष्टव्यम् । (१) तस्मादाराध्य गोविन्दमुमापतिविनायको। महादानमखं कुर्यात् विप्रैश्चैवानुमोदितः॥ इति मात्स्योक्तेन तेषां पूजनस्य विहितत्वात् । वयमाणं वि. प्रानुज्ञापनं चानेनैव विहितमिति बोध्यम् । दानप्रकरणे सहोमतुलादानप्रयोगः। ४१ पतये नमः ॐविनायकाय नमः इति नाममन्त्रैस्तान् संपूज्य अनु. पतिग्रहणाय चतुरस्त्रीन् वा ब्राह्मणान् उदङ्मुखान् स्वदक्षिणतः पाक्संस्थानुपवेश्य गन्धादिभिः संपूज्य वस्त्रादिदानेन सत्कृत्य ‘तुलापुरुषमहादानमहं भवदाज्ञया करिष्ये इत्येवं भार्थयेत । “क्रि यताम्। इत्येवं तैरनुज्ञातः करिष्यमाण तुलायुरुषप्रहादानाङ्गत्वेन गणपतिसहितगौर्यादिषोडशमातृणां पूजनं नान्दीश्राद्धं पुण्याहवा चनमाचार्यब्रह्म विग्जापक-द्वारपालानां वरणं च करिष्ये इति संकल्प्य संस्कारदीपकप्रथमभागोक्तरीत्या मातृपूजनं नान्दीश्राद्धं पुण्याहवाचनं च कृत्वा वेदाथविदमार्यदेशोत्सनं कुलशीलाभिरूपं पुराणाभिरतं कर्मदतं प्रसन्नगम्भीरवाचं ब्राह्मण मुदङ्मु-जमुपवेश्य आपद्धनध्वान्तसहस्त्रभानवः समीहितार्थार्पणकामधेनवः । अपारसंसारसमुद्रसेतवः पुनन्तु मां ब्राह्मणपादपांसवः ॥ इति मन्त्रेण पादप्रक्षालनपूर्वकं “भूमिदेवाग्रजन्मासि त्वं विप्र पुरुषोत्तम । प्रत्यक्षो यज्ञपुरुषो वर्षोऽयं प्रतिगृह्यताम्” ॥ इत्यर्थ्य दखा गन्धादिभिः संपूज्य वस्त्रद्वय-हेमसूत्र-कुण्डल-केयूर कण्ठाभरण-मुद्रिकादिभिः सत्कृत्य ‘अस्मिस्तुलापुरुषमहादान कर्मणि एभिर्गन्धाक्षतपुष्पमालादिभिः तदङ्गभूतसकलकर्म कर्तुं कारयितुं च अमुकगोत्रममुकशर्माणममुकवेदाभ्यायिनममुकशा खिनं त्वाम् प्राचार्यत्वेनाह हणे’ इत्येवं वृणुयात् । स च ‘वृता ऽस्मि’इति प्रतिवदेत् । ततस्त यथा शक्रस्य बागीश प्राचार्यः सर्वकर्मसु । तथा मया त्वमाचार्यों तोऽस्मिन् यज्ञकर्मणि ॥ आचार्यस्तु यथा स्वर्गे शक्रादीनां बृहस्पतिः । तथा त्वं मम यज्ञेऽस्मिन्नाचार्यों भव सुव्रत ॥ इत्येवं प्रार्थयेत् । ततः कुलादिसंपन्नम् “अस्मिन् कर्मणि कृताकृतावेक्षणादि कर्म कर्तुम् एमिर्गन्धादिभिः ब्रह्मत्वेन त्वा महं वृणे” इति ब्रह्माणं वृणुयात् । ‘वृतोऽस्मिाइति तेनाते- परिशिष्टदीपके - यथा चतुर्मुखो ब्रह्मा सर्ववेदविदां वरः । तथा त्वं मम यज्ञेऽस्मिन् ब्रह्मा भव द्विजोत्तम ॥ इति प्रार्थयेत् । ततो यजमानः स्वशाखीयम् पूर्वोक्तगुणविशिष्टम् ब्राह्मणं स्वशाखीयमन्त्रः (१)तिलहोमकरणार्थमृत्विक्त्वेन पूर्वोक्त रीत्या वृणुयात् । तद्यथा-गन्धादिभिः संपूज्य वस्त्रादिना सत्कृत्य च ‘अस्मिन् कर्मणि ऋत्विक्त्वेन त्वामहं वृणे’ इति वृणुयात् । आज्यहोममाचार्यः कुर्यात् । तत ऋत्वि कातरातो यजुर्वेदत्रैष्टुभो विष्णुदैवतः । काश्यपेयस्तु विप्रेन्द्र ऋत्विक्त्वं मे मखे भव ॥ इति प्रार्थयेत् । ततः मण्डपस्य पूर्वद्वारे उभयोः पार्श्वयोः (२)श्रीसूक्त (१) कुर्यात्कुण्डानि चत्वारि चतुर्दिक्षु विचक्षणः। इत्युपक्रम्य हस्तप्रमाणानि तिलाज्यधूपपुष्पोपहाराणि सुशोभनानि । इति मात्स्योतस्तिलाज्याभ्यां होमो लभ्यते । अतः सोकर्याथ दयोस्तयोर्युगपद्धोमायाचार्यातिरिक्तस्य ऋत्विजो वरणम् । स्वल्पे तु होमं गुरुरेक एव कुर्यादथैकाग्निविधानयुक्त्या । इति हेमाद्री ब्रह्माण्डदानप्रकरणे मात्स्योक्तेः क्रमेणवानुष्ठाने तु नान्यस्य ऋत्विजो वरणम् । तिलाज्याभ्यां होम एव मदनरते ना रायणभट्टीये तुलादानप्रयोगे चोक्तः। लैङ्गेतु समिद्धोमश्चरूणां च घृतस्य च यथाक्रमम् । इति चरुसमिधोरपि होम उक्तः । तद्रीत्याऽनुष्ठाने सौकर्याथ युगपत्सर्वहोमानुष्ठाने च त्रयाणामन्येषामृत्विजां वरणम् । तिलहो मस्यापि उपसहारात्। दानकमलाकरे तु समिदाज्यतिलाम उक्तः । समियश्चात्र कर्तव्या अष्टोत्तरसहस्रकाः। अष्टोत्तरशतं वापि अष्टाविंशतिरेव वा ॥ इति महार्णवे ग्रहहोमप्रकरणे उक्त । अत्रापि ग्रहादीनां देवता स्वात् । तत्र लैङ्गोक्ता प्रकारस्तु नृपक्षत्रियपर एवेति पूर्वमुक्तम् । (२) श्रीसूक्तं पावमानं च सोमसूक्तं सुमङ्गलम् । शान्त्यध्यायं चेन्द्रसूक्तं रक्षोघ्नं चेति बढ़चौ। दक्षिणेतु द्वारपालो रुद्रान् पुरुषसूक्तकम् । श्लोकान्यायं शुक्रियं च मण्डलाध्यायमेव च। वामदेव्यं बृहत्साम ज्येष्ठसाम रथन्तरम् । तथा पुरुषसूक्तं च रुद्रसूक्तमतः परम् ॥ दानप्रकरणे सहोमतुलादानप्रयोगः। ४३ पावमानसूक्त-सोममूक्त-सुमङ्गलसूक्त-शान्त्यध्याय-इन्द्रसूक्त रक्षोनमुक्तपाठार्थ बढ़चौ द्वौ, दक्षिणद्वारे उभयोः पार्श्वयोः रुद्रा ध्याय-पुरुषसूक्त-श्लोकाध्याय-शुक्रिय-मण्डलाध्यायपाठार्थ शु क्लयजुर्वदिनौ द्वौ, पश्चिमद्वारे उभशेः पार्श्वयोः वामदेव्य-बृहत् ज्येष्ठ-रथन्तर-पुरुषसूक्त- रुद्रसूतः-प्राज्यदोह–शान्तिक—भारु ण्डसामगानार्थ सामवेदिनौ द्वौ, उत्तरद्वारे उभयोः पार्श्वयोः प्रा. थर्वणमूक्त-आङ्गिरसमुक्त-नीलरुद्र-अपराजितादेवी-मधुसूर : शान्तिकाध्यायपाठार्थमाथर्वणो द्वौ द्वारपालत्वेन वृणुयात् । वृत्वा च अग्वेदः पद्मपत्रातो गायत्रः सोमदैवतः । अत्रिगोत्रस्तु विप्रेन्द्र शान्तिपाठं मखे कुरु ॥ कातरातो यजुर्वेदरेष्टुभो विष्णुदेवतः। काश्यपेयस्तु विप्रेन्द्र शान्तिपाठं मखे कुरु ॥ सामवेदस्तु पिङ्गाक्षो जागतः शक्रदेवतः। भारद्वाजस्तु विमेन्द्र शान्तिपाठं मखे कुरु ॥ बृहन्नेत्रोऽथर्ववेदोऽनुष्टुभो रुद्रदैवतः । वैशम्पायन विप्रेन्द्र शान्तिपा मखे कुरु ॥ इति क्रमेण तान् प्रार्थयेत् । एकैकमेव वा द्वारपालवेन वृणुयात् । एवंत्वशक्तावर्धेन विधिष्टः स्वयंभुवा । . अल्पेष्वेकाग्निवत्कुर्यात् विचशाठ्याहते नरः॥ इत्युत्सर्गमयूखे मात्स्योक्तं : ( अ० ५८) ततः शान्त्यध्यायनपार्थं प्रतिद्वार द्वौ द्वौ अगादिविदौ एकैक वा जापकत्वेन वृणुयात् , पूर्ववत् पायेच्च । गणेशमन्त्रजपा) च स्वशाखीयमेकं वृणुयात् ।। श्राज्यदोहानि सामानि शान्तिकाध्यायमेव च। भारुण्डानि च सामानि पश्चिमे सामवेदनो॥ अथर्वाङ्गिरसं नालरुद्रं देव्यपराजिता। मधुसूक्त रोधसंच शान्तिकाध्यायमेव च। आथर्वणो द्वारपालो पठेतामुत्तराश्रितो। इति द्वारपालपाठ्यानि सूक्तादोनि मदनरत्नादावुक्तानि । -w .४४ परिशिष्टदीपके शान्त्यध्यायस्तु ऋग्वेदिनाम् “शंगहन्द्राग्नी” इत्यादि। यजुर्वेदिनाम् “ऋचंवाचम्” ( य० सं० अ० ३६ ) इत्यादिः । सामवेदिनाम् “अबोध्यग्निः” इत्यादिः । अथर्ववेदिनाम् “शान्ताद्यौः” “शं न इन्द्राग्नी शं नः सत्यस्य” इति सूक्तत्रयम् । सति विभवे सर्वेषां हैमालंकारैर्वरणं कार्यम् । (तुलादानप्रकरणे जापकानामेव (१) श्रवणात् न द्वारपाला नामत्र पृथग्वरणम् । ते चाष्टाविति कल्पतरुः ।। जापकाश्चात्र चत्वार एव । जपेयुः शान्तिकाध्यायं जाफ्काः सर्वतो दिशम् । इति सर्वदिग्द्वारमात्रसम्बन्धश्रवणात् अष्टत्वसंख्याया अश्र वणात् अस्य सर्वदानप्रकृतित्वेन सर्वाङ्गोपेतत्वेन च जलाशयोत्सर्ग विकृतित्वाभावेन तद्वतजापकाष्टत्वसंख्याया अनविदेशाच्च’ इति रत्नाकरादयः । एवं च एककुण्डपक्षे प्राचार्य, ब्रह्मा, होता चैको द्वौ वा, जापकाश्चत्वारः इति सप्ताष्टौ वा ब्राह्मणा आवश्यकाः । क्रमेण होमे तु ऋतिजोरप्यनावश्यकत्वात् षडेव )। सति संभवे सर्वषामृत्विजां मधुपर्केणार्चनं कुर्यात् । इत्थमाचार्या दीन् कृत्वा “यथाविहितं कर्म कुरुत। इत्येवं तान्मार्थ्य ‘करवाम’ इति तैरभ्युपगमथ्य शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः साचार्यों यजमान ऋत्विक्सहितो जलपूर्णकलशहस्तो मङ्गलघोषपुरःसरम् “भद्रंकर्णेभिः " इति मन्त्रेण मरा प्रदक्षिणीकृत्य(२)पश्चिमद्वारेण प्रविशेत् । तत्राचार्यः पश्चिमदेशे वासने प्राङ्मुख उपविश्य दापं प्रज्वलय्याचम्य गणेशादीन् संस्मृत्य अर्धे संस्थाप्य प्राणानायम्य अपसन्विति अपनामन्विति च गौरसर्षपान् विकार्थ गायत्र्यादीन् रक्षाविधानोक्तान् (सं० दी० ० ० १५८) द्वादश मन्त्रापठित्वा (१) “जपेयुः शान्तिकाध्यायं जायकाः सर्वतो दिशम्” इति हेमाद्रौ मात्स्ये इति शेषः। (१०२७४) (२) पश्चिमं द्वारमासाद्य प्रविशेद्यागमण्डपम् । इत्युत्सर्गमयू खे मात्स्यात। (4)

HOM दानप्रकरणे सहोमतुलादानप्रयोगः। ४५ त्रिसूत्र्या मण्डपमावेष्टय तालत्रयनादपूर्वकं विघ्नानुत्सार्य पूर्वोक्त विधिना निष्पादितेन पञ्चगव्येन “आपो हिष्टा” इत्यादिभि स्त्रिभिर्मन्त्रैः कुशैः सर्वत्र पोक्षेत् । ततः देशकालौ संकीर्त्य करि प्यमाणतुलापुरुषमहादानाङ्गतयाऽधिवासनं करिष्ये तदगतया मण्डपदेवतास्थापनादि करिष्ये इति संकल्प्य प्रधानदीपं पूर्वस्यां दशि संस्थाप्य संपूज्य च ईशानादिषु चतुर्ष कोणेषु विशन्तु भूतले नागा लोकपालाश्च सर्वतः । तिष्ठन्तु मण्डपे चास्मिन्नायुर्वलकराः सदा ॥ इति चतुरः शङ्कन् निखन्य अग्निभ्योऽप्यथ सर्पेभ्यो ये चान्ये तत्समाश्रिताः । तेभ्यो बलि प्रयच्छामि पुण्यमोदनमुत्तमम् ॥ इति शङ्कनां पार्वेषु तेनैव क्रमेण माषभक्तबलीन् दद्यात् । ततः पूर्वद्वाराभिमुखे निहितं शङ्खाङ्कितं तोरणं स्पृष्टा “अ. ग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् । होतारं रत्न. धातमम्” । इति पठेत् (१ । ततः ‘एतंते’ इत्यादिना ‘सुदृढतोरण इहा (१; “मनिमीळेतिमन्त्रेण प्रदयात्पूर्वतोरणम् । इषेत्वेत्यादिमन्त्रेण दक्षिणे तोरणं न्यसेत् ॥ अनायाहिमन्त्रेण पश्चिमस्य निवेशनम् । शंनोदेवीतिमन्त्रेण दद्यादुत्तरतोरणम् ॥” इति स्मृतिकोस्तुभोद्धृतसा रसंग्रहे तोरणस्थापने विनियुक्तानां मन्त्राणां सिद्धे मन्त्राः प्रयोक्तव्या” इत्यनेन स्थापिताना स्पर्शने विनियोगः । “पूर्वादौ तोरणार्थ तु पिप्पलादुम्बरौ वटम् । प्लक्ष सुशोभनं पूर्व सुभद्रं दक्षतोरणम् ॥ सुकर्म च सुहोत्रं च श्राप्ये सौम्ये समुच्छ्य म्। पञ्चहस्तं तु संस्थाप्य स्यानापृथ्वीत पूजयेत् ॥ तोरणस्तम्भमूले तु कलशान् मङ्गलारान् । प्रदद्यादुपरिष्टाच्च कुर्याच्चकं सुदर्श नम् ॥" इति अग्निपुराणे (अ० ५६) सुशोभन-सुभद्र-सुकर्म-सुहो प्रेति पूर्वादितोरणनामान्युपलभ्यन्ते । अत्र तु दानकमलाकरानुरो घेन पूर्वतोरणस्य सुदृढेति नाम निदिष्टम् । अन्येषां तूभयत्र समा नान्येव नामानि । यद्यप्यत्र तोरणस्योपरिष्टान्चक्रमेव कर्तव्यत्वेन निदिष्टं तथापि “मस्तके द्वादशांशेन शङ्खचक्रगदाऽम्बुजम् । प्रागा. परिशिष्टदीपके दिक्रमयोगेन न्यसेत्तेषां स्वदारुजम् ॥” इति हेमाद्री वास्तुशास्त्रो. तो शहाद्यङ्कनमत्रोक्तम् ।। (मत्स्य ०अ० २६४) “चतुर्भिस्तोरणैर्युक्तो मण्डपः स्याच्चतु मुखः” । इत्युपक्रम्य “कृत्वैवं मण्डपं पूर्व चतुर्दारेषु विन्यसेत् । श्र घणान् कलशानष्टौ ज्वलत्काञ्चनगर्भितान् ॥ चूतपल्लवसंछन्नान् सि तवस्त्रयुगान्वितान् । सवौषधिफलोपेतांश्चन्दनोदकपूरितान् ॥ एवं निवेश्य तद्गर्भ गन्धधूपार्चनादिभिः। पताकारोपणं कार्य मण्डप स्य समन्ततः॥ ध्वजांश्च लोकपालानां सर्वदिक्षु निवेशयेत् । पताका जलदाकारा मध्ये स्यान्मण्डपस्य तु ॥ गन्धधूपादिकं कुर्यात् स्वैः स्वैमन्त्रैरनुक्रमात् । बलिं च लोकपालेभ्यः स्वैः स्वैर्मन्त्रैर्निवेदयेत् ॥ ऊर्ध्वं तु ब्रह्मणे देयस्त्वधस्ताच्छेषवासुकः। संहितायां तु ये मन्त्रा . स्तदेवत्याः श्रुता स्मृताः॥ तैः पूजा - लोकपालानां कर्तव्या च स. मन्ततः । इति, (अ० २७४) “लोकेशवर्णाः परितः पताका म ध्ये ध्वजः किङ्किणिकायुतः स्यात् । दारेषु कार्याणि च तोरणानि चत्वार्यपि क्षीरवनस्पतीनाम् ॥ द्वारेषु कुम्भवयमत्र धार्य नग्गन्ध धूपाम्बररनयुक्तम्” इति च मात्स्ये दारेषु कलशस्थापनादिप्रकारों निर्दिष्टः । लोकेशवर्णाश्च कुण्डतत्वप्रदीपे-“महेन्द्रः पिशङ्गः शिस्त्री हेमवर्णो यमः कृष्णवर्णस्तथा नितिश्च । हिमाभश्च सम्राट् हरिन्मात रिश्वा विचित्रो धनेशः सुगोरो महेशः ॥ विधिोहितो मेघवर्णस्व नन्तो दिगोशानुवर्णा अमी सुप्रसिद्धाः।” इति । ब्रह्मानन्तयोर्वाहने श्रायुधे च कुण्डकल्पद्रुमे “हंसस्थोऽरुणक: कमण्डलुकरः शकेशयो. रन्तराऽनन्तोऽपांपतिरक्षसोर्यमनिभस्तााधिरूढोऽरिभृत्”। इति । ताया गरुडः। श्ररिश्चक्रम् । “पीता रक्ता श्यामा कृष्णा श्वेताऽथ धूम्राहरिते स्तः” इति कुण्डोद्योते सप्तम्या हरितत्वोक्तिरिति बोध्यम् । कलशे इन्द्रादिपूजनं द्वाररक्षणार्थ तेषां प्रार्थनं च “कुम्मेवावाह्य शक्रादीन् पूर्वादौ पूजयेत् क्रमात् । इन्द्रागच्छ देवराज वज्रहस्त गज स्थित ॥ पूर्वद्वारं च मे रक्ष देवैः सह नमोऽस्तुते । त्रातारमिन्द्रमन्त्रेण - अर्चयित्वा यजेद् बुधः” ।। इत्यादिना अग्निपुगणे (१०५६) प्रदशि तम् । अस्माभिस्तु होमावसाने तुलादानाङ्गत्वेन विहिते इन्द्रादिप्रार्थने विनियुक्ताः “रोहि” इत्यादयो मन्त्रा एव श्रादौ क्रियमाणप्रार्थनेऽपि निर्दिष्टाः । कमलाकगदिभिस्तेषामेवात्र प्रदर्शनात् । चतुरो द्वारपालांश्च द्वारेषु विनिवेशयेत् । इति द्वारपालानां दा. रेषु निवेशनं मात्स्ये (अ० २६५) उतम् । तत्पाठ्यानि च सूक्तानि एतदने तत्र निर्दिष्टानि । अस्माभिस्तु पूर्वमेव प्रदर्शितत्वादन पुनर्न लिख्यन्ते। दानप्रकरणे सहोमतुलादानप्रयोगः। ४७ गच्छ इह तिष्ठ सुप्रतिष्ठितो वरदो भव’ इत्येवं प्रतिष्ठाप्य ॐ सुदृढ तोरणाय नम इति तं पूजयित्वा तत्र राहुबृहस्पती न्यस्य कलशं संस्थाप्य तत्र ध्रुवमावाह्य पूजयेत् । ततो दक्षि. णद्वाराभिमुखे स्थापितं चक्राङ्कितं तोरणं स्पृष्ट्वा ‘इषेत्वा’ इत्यादि ‘पशुन् पाहि! इत्यन्तं पठित्वा ‘एतन्ते’ :ति सुभद्रारणत्वेन प्रतिष्ठाप्य पूजयित्वा सूर्यागारको न्यस्य कलशं संस्थाप्य धरामावाह्य पूजयेत् । ततः पश्चिमद्वाराभिमुखे स्था पितं गदाङ्कितं तोरणं स्पृष्ट्या “अनआयाहि वीतये गृणा नो हव्यदातये । निहोता सरिस बहिषि”। ___इति पठित्वा ‘एतन्ते’ इति सुकर्मतोरणत्वेन प्रतिष्टाप्य पूजयित्वा शुक्रबुधौ न्यस्य कलशं संस्थाप्य वाक्पतिमावाह्य पूजयेत् । तत उत्तरद्वाराभिमुखे स्थापितं पनाङ्कितं तोरणं स्पृष्ठा “शन्नोदेवी” इति पठित्वा ‘एतन्ते’ इति महोत्रतोरणत्वेन प्रतिष्ठाप्य पूजयित्वा तत्र सोमकेतुशनोन् न्यस्य कलशं संस्थाप्य विघ्नेशमावाह्य पूजयेत् । ततः पूर्वद्वारे उत्तरदक्षिणयोः शाखयोः क्रमेणैकैकं कलशं संस्थाप्य तत्रैरावतं संपूज्य ऋग्वेदः पद्मपत्राक्षो गायत्रः सोमदैवतः । अत्रिगोत्रस्तु विप्रेन्द्र शान्तिपाठं मखे कुरु ॥ इति मन्त्रेणाऽऽवृत्त्या ऋग्वेदिनौ द्वारपालौ जापकौ च प्रार्थ्य ‘आग्निमाळे ( पृ० ५० ) इति गन्धादिना पूजयेत् । तत इन्द्रं ध्यात्वा ‘एहोहि सर्वामरसिद्धसाध्यैरभिष्टुतो वज्रधरामरेश । संवीज्यमानोऽप्सरसां गणेन रक्षाऽध्वरं नो भगवन्नमस्ते ॥ भो इन्द्र इहागच्छ इह तिष्ठ’ इतीन्द्रम् उत्तरदक्षिणयोः कल. शयोः क्रमेणाऽऽवाय प्रतिष्ठाप्य “आशुः शिशानो वृषभो न भीमो घनाघना क्षोभणश्चर्षणीनाम् । संक्रन्दनो ४४ परिशिष्ठदीपके ऽनिमिष एकवीर शत? सेना अजयत्साकमिन्द्रः”(१) इति पीतां वज्राङ्कितां पताकां पीतं हस्त्यङ्कितं च ध्वजनुच्छ्रित्य (२) त्रातारमिन्द्रम्" इति ॐइन्द्राय नम इति वा इन्द्रं सम्पूज्य इन्द्रः सुरपतिश्रेष्ठो बज्रहस्तो महाबलः। शतयज्ञाधिपो देवस्तस्मै नित्यं नमोनमः ॥ इति नत्वा ‘सागाय सपरिवाराय इन्दाय एष माषभक्त ( दध्यक्षत) बलिनमः’ इति बलि सपर्य आचामेत् । तत आग्नेये कलशं संस्थाप्य पुण्डरीकममृतं च तत्र पूजयित्वाऽनि ध्यात्वा ‘एहोहि समिरहव्यवाह मुनिप्रवीररभितोऽभिजुष्ट । तेजोवता लोकगणेन साधु ममावरं पाहि कवे नमस्ते ।। भो अग्ने इहागच्छ इह तिष्ठ’ इति कलशेऽनिमावाह्य प्रति ष्ठाप्य “अनि दूतम्” इति रक्तां शत्यङ्कितां पताकांरक्तं छागा ङ्कितं च ध्वजमुस्छि त्य-तेनैव अग्नये नम इति वाऽनि सम्पूज्य ‘प्रायः पुरुषो रक्तः सर्वदेवमयोऽव्यया। धूमकेतुरजोऽध्यक्षस्तस्मै नित्यं नमोनमः ॥" इति नत्वा ‘सागाय सपरिवाराय अग्नये एष माषभक्त (दध्यक्षत) बलिनमः’ इति बलिं समर्प्य आचामेत् । ततो दक्षिणद्वारे पूर्वपश्चिमयोः शाखयोः क्रमेण कलशद्वयं संस्थाप्य तत्र वामनदिग्गज सम्पूज्य ‘कातराक्षो यजुर्वेदस्वैष्टुभो विष्णुदैवतः । (१) पूर्व विहितं पताकारोयणमुत्तरतः, ध्वजारोपणं च दक्षि पतः। प्रादक्षिण्यानुरोधात् । (२) “त्रातारमिन्द्रम्’ इत्यादय इन्दादिलोकपालमन्त्राः सं० वी० प्र० ( पृ० २२५-२२७) द्रष्टव्याः। “श्रग्निति मन्मेण यजेश अग्नये नमः” इग्निपुराणे (१०५६) नाममन्त्राणामपि तत्पूलने पाक्षिकत्वेन मध्येमध्ये विनियुक्तत्वात् अस्माभिरपि तथैव ते निर्दिष्टाः। “मन्त्रैस्तु लोकपालाना पताका विनियोजयेत्” इति स्मृतिकोस्तुमे सारसहोक्तः पताकारोपणे लोकपालमन्त्राणां विहितत्वात् सर्वे एव तन्मन्त्रास्तत्र विनियोगार्हाः । एवं तुल्यन्यायाद् ध्वजारोपणेऽपि बोध्यम् । दानप्रकरणे सहोमतुलादानप्रयोगः। ४९ काश्यपेयस्तु विप्रेन्द्र शान्तिपाठं मखे कुरु ।’ इति यजुर्वेदिनौ द्वारपालौ जापकौ च पार्थ्य ‘इषेत्वार्जेत्वा’ इति पूजयेत् । ततो यमं ध्यात्वा “एोहि वैवस्वत धर्मराज सर्वामरैरर्चित धर्ममूर्ते । शुभाशुभानन्दशुचामधीश शिवाय नः पाहि मखं नमस्ते ॥ __ भो यम इहागच्छ इह तिष्ठ” इति यममावाह्य प्रतिष्ठाप्य “आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः। पितरं च प्रयन्त्स्वः ” इति मन्त्रेण कृष्णां दण्डाङ्कितां पताकां कृष्णं महिषाङ्कितं च ध्वजमुच्छ्रित्य ‘असि यमो ऽअस्यादित्यः’ इति यमाय नम इति वा मन्त्रेण यमं संपूज्य ‘महामहिषमारूढं दण्डहस्तं महाबलम् । आवाहयामि यज्ञेऽस्मिन् पूजेयं प्रतिगृह्यताम् ।। इति नत्वा ‘साङ्गाय सपरिवाराय यमाय एष माषभक्त-(दध्य क्षत) बलिनमः’ इति बलि समj आचामेत् । ततो नैर्ऋत्यां कलशं संस्थाप्य तत्र कुमुदं दुर्जयं च पूजयित्वा निति ध्यात्वा ‘एोहि रक्षोगणनायकस्त्वं विशालवेतालपिशाचसङ्घः।। ममाध्वरं पाहि पिशाचनाथ लोकेश्वरस्त्वं भगवन्नमस्ते ॥ भो निते इहागच्छ इह तिष्ठ’ इत्यावाह्य प्रतिष्ठाप्य “मो धूण इन्द्रात्र पृत्सु देवैरस्ति हि ष्मा ते शुष्मिन्नवयाः। महश्चिद्यस्य मीढुषो यव्या हविष्मतो मरुतो व्वन्दते गीः” इति नीलां खङ्गाङ्कितां पताकां नीलं सिंहाङ्कितं ध्वज चोच्छित्य ‘एष ते नित भागस्तं जुषस्व’ इति निर्धतये नम इति वा मन्त्रेण निति संपूज्य ‘निति खड्गहस्तं च सर्वलोकैकपावनम् । आवाहयामि यज्ञेऽस्मिन् पूजेयं प्रतिगृह्यताम् ॥’ इति नत्वा “साङ्गाय सपरिवाराय निभृतये एष माषभक्त (द ध्यक्षत) बलिनमः’ इति बलिं समj आचामेत् । ततः पश्चिमद्वारे दक्षिणोत्तरयोः शाखयोः कलशद्वयं क्रमेण स्थापयित्वा तत्राञ्जनदि परिशिष्टदीपके ग्गज सम्पूज्य सामवेदस्तु पिङ्गाक्षो जागतः शक्रदैवतः। ___ भारद्वाजस्तु विप्रेन्द्र शान्तिपाठं मखे कुरु ॥ इति सामवेदिनौ द्वारपालौ जापकौ च प्रार्थ्य “अग्न आ याहि” इति (पृ० ५३ ) पूजयेत् । ततो वरुणं ध्यात्वा “एोहि यादोगणवारिधीनां गणेन पर्जन्य सहाप्सरोभिः । विद्याधरेन्द्रामरगीयमान पाहि त्वमस्मान् भगवन्नमस्ते ॥” भो वरुण इहागच्छ इह तिष्ठ” इति वरुणमावाह्य प्रतिष्ठाप्य “इमं मे व्वरुण” इति श्वेतां पाशाङ्कितां पताकां श्वेतं मत्स्याङ्कितं ध्वजं चोच्छ्रित्य तेनैव वरुणाय नम इति वा वरुणं संपूज्य पाशहस्तं च वरुणमर्णसा पतिमीश्वरम् । आवाहयामि यज्ञेऽस्मिन् वरुणाय नमोनमः ॥ इति नत्वा ‘साङ्गाय सपरिवाराय वरुणाय एष माषभक्त( द ध्यक्षत) बलिनमः’ इति बलिं समर्य आचामेत् । ततो वायव्यां कलशं संस्थाप्य तत्र पुष्पदन्तं सिद्धार्थं च संपूज्य वायुं ध्यात्वा ‘एोहि यज्ञे मम रक्षणाय मृगाधिरूढः सह सिद्धसङ्घः। प्राणाधिपः कालकवेः सहाय गृहाण पूजां भगवन्नमस्ते ।। भो वायो इहागच्छ इह तिष्ठ’ इत्यावाह्य प्रतिष्ठाप्य “व्वातोवा मनोवा” इति मन्त्रेण धूम्रामङ्कुशाङ्कितां पताकां धूनं मृगाङ्कितं ध्वजं चोच्छित्य, तेनैव वायवे नम इति वा वायुं संपूज्य “वायुमाकाशगं चैव पवनं वेगवद्गतिम् । आवाहयामि यज्ञेऽस्मिन् पूजेयं प्रतिगृह्यताम् ।। अनाकारो महौजाश्च यथादृष्टगतिर्दिवि । तस्मै पूज्याय जगतो वायऽहं नमामि च ॥” इति नत्वा ‘साङगाय सपरिवाराय वायवे एष माषभक्त (दध्यक्षत) बलिनमः’ इति बलिं समर्प्य आचामेत् । तत उत्तर द्वारे पश्चिमपूर्वयोः शाखयोः क्रमेण कलशद्वयं संस्थाप्य तत्र सार्वभौम दिग्गजं संपूज्य दानप्रकरणे सहोमतुलादानप्रयोगः। ५१ ‘बृहन्नेत्रोऽथर्ववेदोऽनुष्टुभो ददैवतः । वैशम्पायन विरेन्द्र शान्तिपाठं मखे कुरु ॥ इत्यथर्ववेदिनौ द्वारपालौ जापकौ च प्रार्थ्य “शन्नो देवी” इति संपूज्य कुबेरं ध्यात्वा ‘एोहि यज्ञेश्वर यज्ञरक्षां विधत्स्व नक्षत्रगणेन सार्धम् । सौंषधीभिः पितृभिः सहैव गृहाण पूजां भगवन्नमस्ते ॥ भोः कुबर इहागच्छ इह तिष्ठ’इत्यावाह्य प्रतिष्ठाप्य ‘आप्या यस्व समेतु ते विश्वतः सोम वृष्ण्यम् । भवा व्वाजस्य संगथे ‘इति हरितां गदाङ्कितां पताकां हरितं हया ङ्कितं ध्वजं चोच्छित्य ‘वय सोम’ इति कुबेराय नम इति वा कुबेरं पूजयित्वा सर्वनक्षत्रमध्ये तु सोमो राजा व्यवस्थितः। तस्मै सोमाय देवाय नक्षत्रपतये नमः॥ इति नत्वा ‘साङ्गाय सपरिवाराय कुबेराय एष माषभक्त (दध्यक्षत) बलिनमः’ इति बलिं समर्म्य आचामेत् । तत ऐशान्यां कलशं निधाय तत्र सुप्रतीकं मङ्गलं च संपूज्य ईशानं ध्यात्वा ‘एह्येहि यज्ञेश्वर नस्त्रिशूलकपालखट्वाङ्गधरेण सार्धम् । लोकेन यज्ञेश्वर यज्ञसिद्ध्यै गृहाण पूजां भगवन्नमस्ते ॥ भो ईशान इहागच्छ इह तिष्ठ’ इत्यावाह्य प्रतिष्ठाप्य “तमी शानम्” इति श्वेतां त्रिशूलाङ्किता पताका श्वेतं वृषाङ्कितं ध्वज - चोच्छुित्य तेनैव ईशानाय नम इति वा ईशानं संपूज्य वृषस्कन्धसमारूढ शूलहस्त त्रिलोचन । आवाहयामि यज्ञेऽस्मिन् पूजेयं प्रतिगृह्यताम् ।। सर्वाधिपो महादेव ईशानः शुक्ल ईश्वरः। शूलपाणिविरूपाक्षस्तस्मै नित्यं नमो नमः ॥ इति नत्वा ‘साङ्गाय सपरिवाराय ईशानाय एष माषभक्त ( दध्यक्षत) बलिनमः’ इति बलिं समर्प्य आचामेत् । ततः पूर्वे-

परिशिष्टदीपके शानयोमध्ये (१) ब्रह्माणं ध्यात्वा ‘एोहि सर्वाधिपते सुरेन्द्र लोकेन साधू पितृदेवताभिः । सर्वस्य धाताऽस्यमितप्रभावो विशाध्वरं नः सततं शिवाय ॥ भो ब्रह्मन् इहागच्छ इह तिष्ठ’इति ब्रह्माणमावाह्य प्रतिष्ठाप्य “ब्रह्म जज्ञानम्” इति रक्तां कमण्डल्वङ्कितां पताकां रक्तं हंसा ङ्कितं ध्वजं चोच्छित्य तेनैव ब्रह्मणे नम इति वा ब्रह्माणमभ्यर्य पद्मयोनिश्चतुमूतिर्वेदावासः पितामहः। यज्ञाध्यक्षश्चतुर्वक्त्रस्तस्मै नित्यं नमोनमः ॥ इति नत्वा ‘साङ्गाय सपरिवाराय ब्रह्मणे एष भाषभक्त (द ध्यक्षत) बलिनमः’ इति बलिं समर्म्य आचामेत् । ततः पश्चिम नैर्ऋतमध्येऽनन्तं ध्यात्वा एोहि पातालधरामरेन्द्र नागाङ्गनाकिन्नरगीयमान । यक्षोरगेन्द्रामरलोकसङ्घरनन्त रक्षाध्वरमस्मदीयम् ॥ (१) मदनरत्ने तु ईशानपूजनानन्तरं पश्चिमनैर्ऋतमध्ये अन न्तपूजनमुक्त्वा पूर्वेशानमध्ये ब्रह्मपूजनमुक्तम् । मत्स्यपुराणे (२७४) ईशानमन्त्रानन्तरमनन्तमन्त्रस्य तदनन्तरं च ब्रह्ममन्त्रस्योल्लेखात् । दान कमलाकरे तु प्रादक्षिण्यानुरोधेन पूर्वोक्तमत्स्यपुराणीयपाठक्रमानुरोधेन च ईशानपूजनानन्तरम् ईशानपूर्वयोर्मध्ये अनन्तपूजनमुल्लिख्य ततः पश्चिमनैर्ऋतमध्ये ब्रह्मपूजनमुल्लिखितम् । नारायणभट्टीये तु प्रयोगे ईशानपूजनानन्तरम् “ब्रह्मन्नागच्छ हंसस्थ क्वव्यग्रहस्तक । सलो कोची दिशं रक्ष यज्ञस्याज नमोऽस्तु ते। अधोदिशं रक्ष रक्ष अनन्तेश नमोऽस्तु ते” इति अग्निपुराणे(५६) ऊर्ध्वाधोदिग्रक्षकत्वेन क्रमेण ब्रह्मान न्तयोरुल्लेखात ‘अन्यत्र च ईशानपूजनानन्तरम् ब्रह्मपूजनस्य दृष्टत्वाच्च पश्चिमनैऋतमध्यमूर्ध्वत्वेनोल्लिख्य तत्र ब्रह्मपूजनमभिधाय पूर्वेशान- . मध्यं चावस्त्वेनोल्लिख्य तत्रानन्तपूजनमभिहितम् । अस्माभिस्तु “ब्रह्माणं च ततः स्थाष्य पूर्वैशान्योस्तु मध्यमे । प्रतीचीनैर्ऋतीमध्ये अनन्तं स्थापयेदिति” इति सङ्ग्रहे, “हंसस्थोऽरुणकः कमण्डलुकरः शक्रेशयोर न्तराऽनन्तोऽपांपतिरक्षसोर्यमनिभस्तादाधिरूढोऽरिभृत्” इति कुण्डक ल्पद्रुमादौ च पूर्वेशानमध्ये ब्रह्मण ईशानपूजनानन्तरं पूजनस्य विहितत्वात् ततः पश्चिमनैर्ऋतमध्येऽजन्तपूजनस्य च विहितत्वात्तथैव निर्दिष्टम् । प्राद क्षिण्यं चैवं सत्यनुगृह्यते । मत्स्यपुराणोयपाठक्रमस्तु अन्यत्रदृष्टश्रोतक्र मानुरोधादाधनीय इति दिक । दानप्रकरणे संहामतुलादानप्रयोगः। ५३ भो अनन्त इहागच्छ इह तिष्ठ’ इत्यावाह्य प्रतिष्ठाप्य “आ. ऽयं गौः” इति पूर्वोक्तमन्त्रेण मेघवर्णां चक्राङ्कितां पताकां गरुडाङ्कितं मेघवर्णं ध्वजं चोच्छित्य ‘नमोऽस्तु सर्पेभ्यः” इति अनन्ताय नम इति वा मन्त्रेण पूजयित्वा योऽसावनन्तरूपेण ब्रह्माण्डं सचराचरम् । पुष्पवद्धारयेन्मूर्ध्नि तस्मै नित्यं नमो नमः ॥ इति नत्वा ‘साङ्गाय सपरिवाराय अनन्ताय एष माषभक्त(दध्यक्षत) बलिनमः’ इति बलिं समर्प्य आचामेत् । ततः “इन्द्रस्य वृष्णो व्वरुणस्य राज्ञ ऽआदित्यानां मरुता शर्घऽउग्रम् । महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात्” इति महाध्वजसुच्छ्रित्य ‘ब्रह्म जज्ञानम्’ इति तत्र ब्रह्माणं सम्पूज्य मण्डपस्तम्भेषु सर्वेभ्यो देवेभ्यो नमः, वशेषु किन्नरेभ्यो नमः, पृष्ठे पन्नगेभ्यो नमः इति पूजयेत् । ततः पूर्वस्यां किश्चिद् भूमिमुपलिप्य करसम्पुटं कृत्वा ‘त्रैलोक्ये यानि भूतानि स्थावराणि चराणि च । ब्रह्मविष्णुशिवैः सार्धं रक्षां कुर्वन्तु तानि मे ॥ देवदानवगन्धर्वा यक्षराक्षसपन्नगाः। ऋषयो मनवो गावो देवमातर एव च ।। सर्वे ममाध्वरे रक्षां प्रकुर्वन्तु मुदान्विताः। ब्रह्मा विष्णुश्च रुद्रश्च क्षेत्रपालगणैः सह ॥ रक्षन्तु मण्डपं सर्वे नन्तु रक्षांसि सर्वतः । इति प्रार्थ्य त्रैलोक्यस्थेभ्यः स्थावरेभ्यो भूतेभ्यो नमः । त्रैलोक्यस्थेभ्यश्चरेभ्यो भूतेभ्यो नमः । ब्रह्मणे नमः । विष्णवे नमः। शिवाय नमः। देवेभ्यो नमः। दानवेभ्यो नमः। गन्धर्षेभ्यो नमः । यक्षेभ्यो नमः । राक्षसेभ्यो नमः। पन्नगेभ्यो नमः। ऋषिभ्यो नमः। मनुष्येभ्यो नमः । गोभ्यो नमः । देव मातृभ्यो नमः । इति संपूज्य ‘एष माषभक्त ( दध्यक्षत) बलिनमः’

परिशिष्टदीपके इति वलि समर्प्य आचामेत् । ततो यजमानः प्रागद्वारेण मण्डपं प्रविश्य दक्षिणद्वारपश्चिमे उत्तराभिमुख उपविश्य ‘यथाविहितं कर्म कुरुत’ इत्याचार्यादीन् प्रे षयेत् । तत आचार्यः होमकुण्डस्य ईशानकोणे (१) कलशं संस्थाप्य तत्र वरुणं संपूज्य ‘यजेथाम्’ इति होतारौ ‘उत्कृष्टमन्त्रजप्येन ति ठध्वम्’ इति जापकान्’ ‘पठध्वम्’ इति द्वारपालांश्च प्रेपयेत् । अथ जापका आकर्मसमाप्ति स्वस्वशाखीयपूर्वोक्तशान्तिकाध्यायजपं कुर्युः । द्वारपालाश्च स्वस्वशाखीयश्रीसूक्तादिपाठं कुर्युः । तत प्रा चार्यः देशकालौ संकीर्त्य अमुकतुलादानकर्मण्यग्निप्रतिष्ठां करिष्ये, तदङ्गतया मेखलायोनिदेवतानां स्थापनं पूजनं च करिष्ये इति सङ्क ल्प्य होमवेद्यां पञ्चभूसंस्कारान् कृत्वा उपरिमेखलायां श्वेतवर्णा लकृतायाम् ‘इदं विष्णुः’ इति विष्णुं, मध्यमेखलायां रक्तवर्णा लकृतायां ब्रह्मजज्ञानम् इति ब्रह्माणम् , अधोमेखलायां कृष्णव लङ्कृतायां नमस्ते रुद्र’ इति रुद्रं, योन्या रक्तवर्णालङ्कृतायाम् ‘अम्बे अम्बिके’ इत्युमामावाह्य संपूज्य अग्निं स्थापयेत् । तत आ चार्यः ईशानकोणस्थिताया ग्रहवेद्याः पश्चिमदिशि प्राङ्मुख उप विश्य वेद्यामष्टदलं पद्म विलिख्य ग्रहयागप्रयोगोक्तरीत्या ( संदी० प्र०पृ० १६४) ग्रहान् अधिदेवताः प्रत्यधिदेवताः विनायकादिपञ्च लोकपालान् वास्तोष्पति क्षेत्राधिपतिमिन्द्रादिदिक्पालांचावाह्य स्थापयेत् । तत इन्द्रस्य दक्षिणेन ध्रुवाद्यष्टवसन् , इन्द्रेशानयोर्मध्ये धात्रादिद्वादशादित्यान् , अग्नेयमस्य च मध्ये वीरभद्राये कादशरुद्रान् , कुबेरवाय्वोमध्ये आवहादिसप्तमरुद्गणांश्च व्या हृतिभिरावाह्य तत्तन्नाममन्त्रेण स्थापयेत् (१) । यमनिति (१) “कुर्यात् कुण्डानि चत्वारि” इत्युपक्रम्य “समेखलायोनियुतानि कुर्यात् सम्पूर्णकुम्भानि सहासनानि” इति मात्स्यवचनेन (२७४) कुण्ड समीपेऽपि कलशस्थापनविधानात् । “ततो मङ्गलशब्देन स्नापितो वेद पुङ्गवैः” इति विहितं (मत्स्य० २७४) स्नानं च एतत्कलशोदकेनैवेति हेमाद्रिः। “(१) इन्द्रस्य दक्षिणे पार्वे वसूनावाहयेद् बुधः । ध्रुवोऽध्वरस्तथा दानप्रकरणे सहोमतुलादानप्रयोगः। ५६ मध्ये मातृपीठं निझतेरुत्तरे गणेशपीठं च स्थापयेत् । ततो वे दिमध्ये यथावकाशं ब्रह्माच्युतशिवांश्च सौवर्णप्रतिमासु वक्ष्यमा ण(६४)होममन्त्रैर्नाममन्त्रैर्वा स्थापयेत् । तत्सन्निधावेवार्क वन स्पतिं च पूगफलादो होममन्त्रेण नाममन्त्रेण वा स्थापयेत् । तत ऐशान्यां होमरहितग्रहपूजाप्रयोगोक्तकलशस्थापनविधिना (सं० दी० प्र० पृ० १४६) कलशं संस्थाप्य तत्र वरुणमावाह्य ब्रह्मादिवर्ज सर्वान् “एतन्ते” इति प्रतिष्ठाप्य पूजयेत् । ततो रक्षाविधानप्रयो गोक्तरीत्या (१५१) रक्षासूत्राणि अभिमन्व्य कलशे स्थापयेत् । ततो ब्रह्माच्युतशिवानामवनस्पत्योश्च पूजनं कर्तव्यम् । तद्यथा सोम प्रापश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः। देवेशेशानयोर्मध्ये श्रादित्यानां तथाऽयनम् ॥धाताऽर्यमा च मित्रश्च वरुणोंऽशो भगस्तथा । इन्द्रो विवस्वान् पूषा च पर्जन्यो दशमः स्मृतः ॥ ततस्त्वष्टा ततो विष्णुरजघन्यो जघन्यजः । इत्येते द्वादशादित्या नामभिः परिकीर्तिताः॥ .अग्नेः पश्चिमतो भागे रुद्राणामयनं विदुः । वीरभद्रश्च शम्भुश्च गिरीशश्च महायशाः ॥ अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः । भुवनाधीश्वरश्चैव कपाली च विशांपतिः ॥ स्थाणुर्भगश्च भगवान् रुद्रा स्त्वेकादश स्मृताः। । प्रेतेशरक्षसोमध्ये मातृस्थानं प्रकल्पयेत् ॥ मातृणां नामानि च गौरीप मादीनि प्रथमभागे द्रष्टव्यानि । “नितेरुत्तरे भागे गणेशायतनं विदुः । कुबेरमरुतोर्मध्ये मरुतां स्थानमुच्यते ॥ मरुतो नाम ते देवा गणा वै सप्त सप्तकाः । श्रावहः प्रवहश्चैव उद्वहः संवहस्तथा ॥ विवहा सुवहश्चैव तथा परिवहोऽनिलः । इति हेमाद्रौ स्मृत्यन्तरे वस्वादयो देवा निर्दिष्टाः। ___ ग्रहादीनां पूंजनं च “पूर्वोत्तरे हस्तमिता च वेदी प्रहादिदेवेश्वर पूजनाय । अत्रार्चनं ब्रह्मशिवाच्युतानाम्” (२७४ ) इति मात्स्ये उक्तम् । ‘ग्रहादि इत्यादिशब्देन पूर्वोक्तानां सर्वेषां सङ्ग्रहः । “विनायकादिग्रह लोकपाल-चस्वष्टकादित्य-मरुद्गणानाम् । ब्रह्माच्युतेशार्कवनस्पतीनां स्वमन्त्रतो होमचतुष्टयं स्यात्” इति तत्रैवोत्तरत्र सर्वेषां होमविधानात् । अत एव वचनात् अर्कवनस्पत्योरपि सङ्ग्रहः । __ अनुक्तमन्त्रकाणां ध्रुवादीनां तु प्रणवादिभिश्चतुर्थ्यन्तै मभिर्नमोऽन्तः स्थापनादि विधेयमिति हेमाद्रिः । तेषां चतुर्थ्यन्तस्वरूपाणि तु. अग्ने होमप्रयोगे (६४) द्रष्टव्यानि । परिशिष्ट दीपके “पद्मपत्रासनस्थश्च ब्रह्मा कार्यश्चतुर्मुखः। अक्षमालास्त्रज बिभ्रत्पुस्तकं च कमण्डलुम् ॥ वासः कृष्णाजिनं तस्य पार्वे हंसस्तथैव च । इति ब्रह्माणं, प्रदक्षिणं दक्षिणाधाकरादारभ्य नित्यशः । विष्णुः कौमोदकी-पम-शङ्ख-चक्ररलङ्कृतः ।। इति विष्णुं, पञ्चवक्त्रो वृषारूढः प्रतिवक्त्रं त्रिलोचनः । कपालशूलखट्वाङ्गी चन्द्रमौलिः सदाशिवः ॥ इति शिवं, ___ रविः कार्यः शुभश्मश्रुः सिन्दूरारुणसुप्रभः । पद्मासनः पद्मकरो भूषितो रशनाधरः॥ इति सूर्य, वनस्पतये नमः इति वनस्पतिं च ध्यात्वा होममन्त्रैः (६४) नाममन्त्रैर्वा सर्वान् पूजयेत् । ततो वेयुपरि फलपुष्पोपशो भितं वितानं दद्यात् । अथाचार्यों ब्रह्मोपवेशनादिपर्यक्षणान्तं कर्म कृत्वा संस्रवधारणार्थं प्रोक्षणीपात्रं प्रणीताऽन्योर्मध्ये निदध्यात् । ततो यजमानोऽयेह तुलादानयागेनाहं यक्ष्ये । तत्र प्रजाप तिम् , इन्द्रम्., अग्निं, सोमम् , आज्येन-आदित्यादिनवग्रहान् , ईश्वराद्यधिदेवताः, अग्न्यादिप्रत्यधिदेवताः, विनायकादिपञ्चलोक पालान् , इन्द्रादिदशदिक्पालान् , (विश्वकर्माणम् ), ध्रुवाद्यष्ट · वसून , धात्रादिद्वादशादित्यान् , वीरभद्रायेकादशरुदान , श्रा वहादिसप्तमरुद्गणान् , ब्रह्मविष्णुशिवसूर्यवनस्पतींश्च समिदाज्यति लैः (तिलैरेव मदनरत्ने ) अष्टोत्तरशत-अष्टाविंशति-द्वादशान्यतमस यया-शेषेण स्विष्टकृतम्-अग्नि, वायु, सूर्यम् , अग्नीवरुणो, अग्नीवरुणौ, अग्निम् , वरुणं सवितारं विष्णुं विश्वान देवान् मरुतः स्वर्कान् , वरुणं, प्रजापति चाज्येनाहं यक्ष्ये । एतत् समिदाज्य तिलद्रव्यं पूर्वाङ्गदेवताभ्यः प्रधानदेवताभ्य उत्तराङ्गदेवताभ्यश्च मया परित्यक्तं यथादैवतमस्तु न मम इति द्रव्यदेवताभिध्यानपूर्वकं द्रव्य त्यागं कुर्यात् । दानप्रकरणे सहोमतुलादानप्रयोगः। ७ तत आचार्यः बलवर्धननामानमग्निं ‘एतन्ते’ इति प्रतिष्ठाप्य कुशकण्डिकाप्रयोगोक्तरीत्या (सं० प्र० पृ० १७०) अग्निं रेखाः अग्निजिह्वाश्च संपूज्य दक्षिणं जान्वाच्य ब्रह्मणाऽन्वारब्धः समिद्ध तमेऽनौ आधारावाज्यभागौ च जुहुयात् । तत आचार्यः आज्येन ऋत्विजौ च समित्तिलाभ्याम् “आकृष्णेन इत्यादिभिः (सं० प्र० पृ० २०९) ग्रहयागोक्तरीत्या ग्रहादिदिक्पालान्तानाम् अष्टो त्तरशत-अष्टाविंशति-द्वादशान्यतमसङ्ख्यया होमं कृत्वा ॐध्रुवाय स्वाहा, अध्वराय० सोमाय० अद्भया० अनिलाय० अनलाय. प्रत्यूषाय० प्रभासाय० इति वसूनाम् , ॐधात्रे स्वाहा, अर्यम्णे० मित्राय० वरुणाय० अंशाय० भगाय० इन्द्राय० विवस्वते० पूष्णे० पर्जन्याय० त्वष्ट्रे० विष्णवे० इति द्वादशादित्यानाम्,, ॐवीरभद्राय स्वाहा, शम्भवे. गिरीशाय० अजैकपदे० अहिर्बुध्न्याय० पिना किने भुवनाधीश्वराय. कपालिने विशांपतये० स्थाणवे. भगाय० इति रुद्राणाम् , ॐआवहाय स्वाहा, प्रवहाय० उद्वहाय० संवहाय. विवहाय० सुवहाय० परिवहाय० इति मरुद्रणानाम्, ॐ’ब्रह्मजज्ञा नम्’ इति ब्रह्मणः ‘इदं विष्णुः’ इति विष्णोः “ॐहमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतीः । यथा शमसद् द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे ऽअस्मिन्नना तुरम्” इति रुद्रस्य ‘आकृष्णेन’ इति सूर्यस्य “ॐवनस्पते व्वीड्वङ्गो हि भूया ऽअस्मत्सखा प्रतरणः सुवीरः। गो भिः सन्नद्धो ऽअसि व्वीडयस्वास्थाता ते जयतु जेत्वानि” इति वनस्पतेश्च स्वाहान्तः पूर्वोक्तान्यतमसंख्यया होमं कुर्यः(१) । ___ (१) बहादयो द्वात्रिंशत् । इन्द्रादयो दश । वस्वष्टकम् । द्वादशादि. त्याः। एकादश रुद्राः। सप्त मरुद्गणाः । पञ्च ब्रह्मादयः इतरेवं पञ्चाशी तिसङ्ख्येभ्यो देवेभ्यः द्वादशाहुतिपक्षमाश्रित्य होमकरणे विंशत्यधिकसह साइतय इति हेमाद्रौ अभिधानात् गौर्यादीनां मातृणां पूजनमेव न होमः। रुपनारायणीयेत एकादशरुभ्योऽपि होमो नोक्ता तन्मते ७४ देवाः। “जयानि सूक्तानि तथैव चैषामनुक्रमेणैव यथास्वरूपम्” इति मात्स्ये (२७४) अभिधानात् होमकर्तृभिः एषां होमानन्तरं तत्तदेवतानि सूक्ता न्यपि पाव्यानि । सूक्ताभावे तद्देवताको मन्त्र एव पठनीय इति बोध्यम् । ८०

परिशिष्टदोपके ततो होमकर्तारः सूर्यादिवनस्पत्यन्तदेवताकानि मूक्तानि जपेयुः । सूक्ताभावे तद्देवताको मन्त्र एव पठनीयः।। ___ अथ जप्यसूक्तानि । तत्र विभ्राडित्यादिकस्य सप्तदशर्चस्य रविसूक्तस्याद्याया विभ्राट, ततस्तिमृणां प्रस्कण्वः, पञ्चम्याः अवत सारः काश्यपः, षष्ठया वेनः, सप्तम्याः कुत्सः, अष्टम्या अगस्त्यः, नवम्याः श्रुतकक्षसुकलो, दशम्याः प्रस्कण्वः, ततो द्वयोः कुत्सः, ततो द्वयोर्जमदग्निः, पञ्चदश्याः नृमेधः, षोडश्याः कुत्सः, अन्त्याया हिरण्यस्तूप आङ्गिरसः इति ऋषयः-आद्यायाः पञ्चम्याश्च जगती, द्वितीयादितिसृणां नवम्या दशम्याच गायत्री, त्रयोदशीपञ्चदश्योर्च हती, चतुर्दश्याः सतोबृहती, शिष्टानां सप्तानां त्रिष्टप इति छन्दांसि सर्वासां सूर्यो देवता सूर्यप्रीतये जपे विनियोगः । विभ्राड् बृहत् पिबतु सोम्यं मध्वायुर्दधयज्ञपतावविहरुतम् । व्वातजूतो यो अभिरक्षति त्मना प्रजाः पुपोष पुरुषा विराजति ॥१॥ उदु त्यं जातवेदसं देवं वहन्ति केतवः। दृशे विश्वाय मूर्यम् ॥२॥ येना पावक चक्षसा भुरण्यन्तं जनाँ २॥ अनु । त्वं वरुण पश्यसि ॥३॥ दैव्यावध्वय अागत: रथेन सूर्यत्वचा । मध्या यज्ञ: समञ्जाथे ॥ ४ ॥ तं प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठतातिं बर्हिषद स्वर्विदम् । प्रतीचीनं जनं दोहसे धुनिमाशुं जयन्तमनु यासु व्वर्द्धसे ॥ ५॥ अयं वेनश्वोदयत् पृश्निगर्भा ज्योतिर्जरायू राजसो विमाने । इममपा सङ्गमे सूर्यस्य शिशुं न विप्रा मतिभी रिहन्ति ॥६॥ चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । आमा द्यावापृथिवीऽअन्तरिक्ष सूर्य ऽआत्मा जगतस्तस्थुषश्च ॥७॥ आ न ऽइडाभिर्विदथे सुशस्ति विश्वानरः सविता देव एतु । अपि यथा युवानो मत्सथा नो विश्वं जगदभिपित्वे मनीषा ॥ ८ ॥ यदद्य कच्च वृत्रहन्नुदगा अभि सूर्य । सर्वं तदिन्द्र ते व्वशे ॥ ९॥ तरणिविश्वदर्शतो ज्योतिष्कृदसि सूर्य । विश्वमामासि रोचनम् ॥१०॥ तत् सूर्यस्य देवत्वं तन्महित्वं मध्या कोंवितत: संज दानप्रकरणे सहोमतुलादानप्रयोगः। ५९ भार । यदेदयुक्त हरितः सधस्थादादात्री व्यासस्तनुते सिमस्मै ॥११॥ तन्मित्रस्य व्वणस्याभिचक्षे सूर्यो रूपं कृणुते धोरुपस्थे । अनन्त मन्यद्रुशदस्य पाजः कृष्णमन्यद्धरितः सम्भरन्ति ॥ १२ ॥ व्वण्महाँ २॥ असि मूथ्य बडादित्य महाँ २॥ असि । महस्ते सतो महिमा पनस्यतेऽद्धा देव महाँ२॥ असि ॥ १३॥ व्वद मूल्य श्रवसा महाँ २॥ असि सत्रा देव महाँ २|| असि । मह्ना देवानामसुय्यः पुरोहितो विभु ज्योतिरदाभ्यम् ॥ १४ ॥ श्रायन्त इव सूर्य विश्वेदिन्द्रस्य भक्षत । व्वसूनि जाते जनमान ऽओजसा प्रति भागं न दीधिम॥१५॥ अद्या देवा उदिता सूर्यस्य निरहसः पिपृता निरवद्यात् । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी ऽउत द्यौः ॥ १६ ॥ आ कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यश्च । हिरण्ययेन सविता रथेना देवो गति भुवनानि पश्यन् ॥ १७ ॥ ( य० सं० अ० ३३ मन्त्राः ३०-४३)। ५-६-७ त्रयः प्रतीकोक्ताः। ____ अषाढमित्यादिकस्य, ऋचतुष्टयात्मकस्य सोमसूक्तस्य गौतम ऋषित्रिष्टुप छन्दः सोमो देवता सोमप्रीतये ज० वि० । __अषाढं युवसु पृतनासु पनि स्वर्षामप्सां वृजनस्य गोपाम् । भरेषुजा सुक्षिति: सुश्रवसं जयन्तं त्वामनुमदेम सोम ॥१॥ सोमो धेनु सोमो ऽअर्वन्तमाशुः सोमो व्वीरं कर्मण्यं ददाति । सादन्यं विदथ्य समेयं पितृश्रवणं यो ददाशदस्मै ॥ २॥ त्वमिमा अोष धीः सोम विश्वास्त्वमपो ऽअजनयस्त्वं गाः। त्वमाततन्थोवन्तरिक्ष त्वं ज्योतिषा वि तमो व्ववर्थ ॥३॥ देवेन नो मनसा देव सोम रायो भाग सहसावन्नभियुध्य । मा त्वातनदीशिषे व्वीर्यस्योभयेभ्यः प्र चिकित्सा गविष्टौ ॥४॥ ( य० सं० अ० ३४ मं० २०-२३)। मङ्गलस्य सूक्ताभावाव(१) (सं० दी० प्र० २१०) अग्निमूर्धेति मन्त्रस्य जपः। (१) एकदेवतास्तुतिप्रयोजक ऋक्समुदायः सूक्तम् । तद् मङ्गलदेव ताया यजुःसंहितायां नास्तीति तत्पूजनादौ विनियुक्तो मन्त्र एव पठनीय इत्यर्थः । एवमुत्तरत्र सर्वत्र बोध्यम् । E २ परिशिष्टदीपके बुधस्य सूक्ताभावात् उद्बुध्यस्वेति मन्त्रस्य जपः । गुरोः मूक्ताभावात् बृहस्पते इति मन्त्रजपः। शुक्रस्य सूक्ताभावात् अन्नात्परीति मन्त्रजपः। शनेः सूक्ताभावात शंनोदेवीरिति मन्त्रजपः । कयान इत्यादितचस्य राहुसूक्तस्य वामदेव ऋषिर्गायत्री छन्दो राहुर्देवता राहुप्रीतये ज० वि०। कया नश्चित्र ऽआभुवदूती सदावृधः सखा । कया शचिष्ठया वृता ॥१॥ कस्त्वा सत्यो मदानां महिष्ठो मत्सदन्धसः। दृढा चिदाजे व्वसु ॥२॥ अभी पुणः सखीनामविता जरितॄणाम् । शतं भवास्यूतये ॥३॥ ( य० सं० अ० २७ म० ३९-४१)। केतोः सूक्ताभावात् (सं० दी०२१३) केतुं कृण्वनितिमन्त्रजपः। अथाधिदेवतानाम् । तत्र नमस्ते रुद्रेत्यादिकस्यानुवाकात्मक षोडशर्चस्य रुद्रसूक्तस्य परमेष्ठी ऋषिः-आद्यायाः गायत्री, ततस्ति सृणामनुष्टुप् , ततस्तिमृणां पतिः, ततः सप्तानामनुष्टुप् , ततो द्वयो जगती इति छन्दांसि-सर्वासामेकरुद्रो देवता-रुद्रप्रीतये जपे वि०। नमस्ते रुद्र मन्यव उतो त इषवे नमः। बाहुभ्यामुत ते नमः ॥१॥ या ते रुद्र शिवा तनूरघोराऽपापकाशिनी । तया नस्तन्वा शन्तमया गिरिशन्ताभिचाकशीहि ॥२॥ यामिषु गिरिशन्त हस्ते विभय॑स्तधे । शिवां गिरित्र तां कुरु मा हि:सीः पुरुषं जगत् ॥३॥ शिवेन व्वचसा त्वा गिरिशाच्छावदामसि । यथा नः सर्वमिजगद यक्ष्म सुमना असत् ॥ ४॥ अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् । अहीश्च सर्वाञ्जम्भयन् सर्वाश्च यातुधान्योऽधराचीः परासुव । ॥ ५ ॥ असौ यस्ताम्रो ऽअरुण उत बभ्रुः सुमङ्गलः । य चैन: रुद्रा ऽअभितो दिक्षु श्रिताः सहस्रशोवैषा हेड ईमहे ॥६॥ असौ योऽ वसर्पति नीलग्रोवो विलोहितः । उतैनं गोपा अश्रनश्रनुदहार्य: सदृष्टो मृडयाति नः ॥ ७॥ नमोऽस्तु नीलग्रीवाय सहस्राक्षाय मी दुषे । अथो ये ऽअस्य सत्त्वानोऽहं तेभ्योकर नमः ॥ ८॥ प्रमुञ्च ‘धन्वनस्त्वमुभयोरायोाम् । याच ते हस्त इषक पराता भगवो दानप्रकरणे सहोमतुलादानप्रयोगः। ६१ व्वप ॥९॥ विज्यं धनुः कपर्दिनो विशल्यो बाणवाँ२ ॥ उत । अनेशनस्य या इषव आभुरस्य निषङ्गधिः ॥१०॥ या ते हेतिर्मीढुष्टम हस्ते बभूव ते धनुः । तयाऽस्मान् विश्वतस्त्वमयक्ष्मया परिभुज ॥ ११ ॥ परि ते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः । अथो य इषुधिस्तवारे ऽअस्मन्निधेहि तम् ॥ १२ ॥ अवतत्य धनु ष्टः सहस्राक्ष शतेषुधे । निशीथ्य शल्यानां मुखा शिवो नः सुमना भव ॥ १३॥ नमस्त ऽआयुधायानातताय धृष्णवे । उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने ॥ १४ ॥ मा नो महान्तमुत मा नो ऽअ भक मा न उक्षन्तमुत मा न उ क्षितम् । मा नो व्वधीः पितरं मोत मातरं मा नः प्रियास्तन्वो रुद्र रीरिषः ॥ १५॥ मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नो ऽअश्वेषु रीरिषः । मा नो व्वीरान् रुद्र भामिनो व्वधोह विष्मन्तः सदमित्त्वा हवामहे ॥ १६ ॥ ( य० सं० अ० १६ म० १-१६ ) उदकस्प० । चन्द्राधिदेवतोमायाः सूक्ताभावात् (सं० दी० प्र० २१४) श्रीश्चते इति मन्त्रजपः। ___ भौमाधिदेवस्कन्दस्य सूक्ताभावात ( २१५ ) यदक्रन्द इति मन्त्रस्य जपः। सहस्रशीपेत्यादिकस्य षोडशर्चस्य विष्णुसूक्तस्य नारायण ऋषिरन्त्यायास्त्रिष्टुप् छन्दः शिष्टानामनुष्टुप् छन्दो नारायणपुरुषो देवता विष्णुप्रीतये जपे वि०। सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमि: सर्वत - स्पृत्वाऽत्यतिष्ठदशाङ्गुलम् ॥ १ ॥ पुरुष एवेद: सर्वं यद्भूतं यच्च भाव्यम् । उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ २ ॥ एतावानस्य महिमाऽतो ज्यायाँश्च पूरुषः। पादोऽस्य विश्वा भूतानि त्रिपादस्या मृतं दिवि ॥३॥ त्रिपादृर्ध्व ऽउदैत् पुरुषः पादोऽस्येहाभवत् पुनः । ततो विष्वङ व्यक्रामत् साशनानशने ऽअभि ॥ ४ ॥ ततो विराड जायत विराजो ऽअधि पूरुषः। स जातो ऽअत्यरिच्यत पश्चाद भूमिमथो पुरः ॥ ५॥ तस्माद्यज्ञाव सर्वहुतः सम्भृतं पृषदाज्यम् ।परिशिष्टदीपके पशुस्ताँश्चक्रे व्वायव्यानारण्या ग्राम्याच ये ॥६॥ तस्माद्यज्ञात सर्वहुत ऽऋचः सामानि जज्ञिरे । छन्दासि जज्ञिरे तस्माद्य जुस्तस्मादजायत ॥ ७॥ तस्मादश्वा ऽअजायन्त ये के चोभयादतः । गावो ह जज्ञिरे तस्मात्तस्माजाता ऽअजावयः ॥ ८॥ तं यज्ञं बर्हिषि पौक्षन् पुरुषं जातमग्रतः । तेन देवा अयजन्त साध्या ऋषयश्च ये ॥६॥ यत पुरुषं व्यदधुः कतिधा व्यकल्पयन् । मुखं किमस्या सीत् किं बाहू किमूरू पादा ऽउच्यते ॥ १० ॥ ब्राह्मणोऽस्य मुख मासीद बाहू राजन्यः कृतः। ऊरू तदस्य यद्वैश्यः पद्भया शूद्रो ऽअजायत ।।११।। चन्द्रमा मनसो जातश्चक्षोः सूर्यो ऽअजायत । श्रो त्राद्वायुश्च प्राणश्च मुखादमिरजायत ॥ १२॥ नाभ्या ऽासीदन्त रिक्षा शीर्णो द्यौः समवर्तत । पद्धयां भूमिर्दिशः श्रोत्रात्तथा लोकाँ २ ॥ अकल्पयन् ॥ १३ ॥ यत् पुरुषेण हविषा देवा यज्ञ मतन्वत । व्वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरदविः॥१४॥ सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः । देवा यद्यज्ञं तन्वाना अबधन् पुरुषं पशुम् ॥ १५ ॥ यज्ञेन यज्ञमयजन्त देवास्तानि धर्मा णि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्त यत्र पूर्व साध्याः सन्ति देवाः ॥ १६ ॥ ( य० सं० अ० ३१ म० १-१६) जीवाधिदेवब्रह्मणः मुक्ताभावात् (२१६ ) ब्रह्मजज्ञानमि तिमन्त्रजपः। आशुरित्यादिकस्य द्वादशर्चस्य शक्रसूक्तस्याप्रतिरथ ऋषिवि. ष्टुप् छन्दः शक्रो देवता इन्द्रप्रीतये ज० वि० । आशुः शिशानो वृषभो न भीमो धनाधनः क्षोभणश्चर्षणी नाम् । संक्रन्दनोऽनिमिष एकवीरः शत: सेना ऽअजयत् साकमि न्द्रः ॥१॥ संक्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्चयवनेन धृष्णुना। तदिन्द्रेण जयत तत् सहध्वं युधो नर इधुहस्तेन - ष्णा ॥ २ ॥ स इषुहस्तैः स निषङ्गिभिर्वशी सस्रष्टा सयुध इन्द्रो गणेन । ससृष्टजित सोमपा बाहुशर्युग्रधन्वा प्रतिहिताभिरस्ता ॥३॥ बृहस्पते परिदीया रथेन रक्षोहाऽमित्रा२ ॥ अपबाधमा ६ दानप्रकरणे सहोमतुलादानप्रयोगः। ६३ नः। प्रभञ्जन् सेनाः प्रमृणो युधा जयन्नस्माकमध्यविता रथा नाम् ॥ ४ ॥ बलविज्ञाय स्थविरः प्रवीरः सहस्वान् वाजी सहमान ऽउग्रः। अभिवीरो ऽअभिसत्त्वा सहोजा जैत्रमिन्द्र रथमातिष्ठ गो वित् ॥ ५॥ गोत्रभिदं गोविदं वज्रबाहुं जयन्तमज्म प्रमृणन्तमो जसा। इम: सजाता ऽअनु वीरयध्वमिन्द्रः सखायो ऽअनु सह रभध्वम् ॥ ६॥ अभि गोत्राणि सहसा गाहमानोदयो व्वीरः शत मन्युरिन्द्रः। दुश्च्यवनः पृतनापाडयुध्योऽस्माक सेना ऽअवतु प्र युत्सु ॥ ७ ॥ इन्द्र ऽासां नेता बृहस्पतिदक्षिणा यज्ञः पुर एतु सोमः । देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्त्वग्रम् ॥ ८॥ इन्द्रस्य कृष्णो व्यरुणस्य राज्ञ ऽश्रादित्यानां मरुता शर्त ऽउग्रम् । महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात् ॥३॥ उद्धषय मघवन्नायुधान्युत्सत्त्वनां मामकानां मनासि । उत्रहन् वाजिनां वाजिनान्युद्रथानां जयतां गन्तु घोषाः ॥ १० ॥ अस्माक मिन्द्रः समृतेषु ध्वजेवस्माकं या इषवस्ता जयन्तु । अस्माकं वीरा उत्तरे भवन्त्वस्माँ२ ॥ उ देवा अवता हवेषु ॥११॥ अमीषा चित्तं प्रतिलोभयन्ती गृहाणाङ्गान्यप्चे परेहि। अभि प्रेहि निर्दह हृत्सु शोकैरन्धेनामित्रास्तमसा सचन्ताम् ॥ १२ ॥ ( य० सं० अ० १७ म० ३३-४४)। शनैश्वराधिदेवयमस्य सूक्ताभावात् ( २१७ ) असि यम इति मन्त्रजपः । उदकस्पर्शः। राहुन हाधिदेवकालस्य सूक्ताभावात् ( २१८) कार्षिरसीति मन्त्रजपः । उदकस्पर्शः। केतुग्रहाधिदेवचित्रगुप्तस्य सूक्ताभावात् चित्रावसो इतिमन्त्रजपः। अथ प्रत्यधिदेवतानाम् । तत्र सूर्य प्रत्यधिदेवताग्नेः अस्याजरास इत्यादिसप्तदशर्चस्य सूक्तस्याद्याया वत्सपीषिस्त्रिष्टुप् छन्दः, द्विती याया विरूप ऋषिर्गायत्री छन्दः, तृतीयाया गौतम ऋषिर्गायत्री छन्दः, चतुर्थ्या विरूप ऋषिर्गायत्री छन्दः, पञ्चम्याः कुत्स ऋषि स्त्रिष्टुप् छन्दः, षष्ठ्या वामदेव ऋषिः एकोना जगती छन्दः, सप्त ६४ परिशिष्टदीपके म्या विश्वामित्र ऋपित्रिष्टुप्छन्दः, अष्टम्या भरद्वाजऋपिस्त्रिष्टुप्छ न्दः, नवम्या भरद्वाजऋषिर्गायत्री छन्दः, दशम्या मेधातिथिपिर्गा यत्री छन्दः, एकादश्याः शाक्त्यः पराशर ऋषिस्त्रिष्टुप् छन्दः, द्वादश्या अत्रिदुहिता विश्ववारा ऋषिस्त्रिष्टुप् छन्दः, त्रयोदश्या भरद्वाज ऋषिस्त्रिष्टुप् छन्दः, चतुर्दश्या वसिष्ठ ऋषिः बृहती छन्दः, पञ्च दश्याः प्रस्कण्व ऋषिः बृहती छन्दः, षोडश्या वामदेव अपिस्त्रिष्टुप छन्दः, सप्तदश्या लुशोधानाक ऋषिस्त्रिष्टुप् छन्दः सर्वासामग्नि देवता अग्निप्रीतये जपे वि०।। अस्याजरासो दमामरित्रा ऽअर्चदधृमासो अग्नयः पावकाः । श्वितीचयः श्वात्रासो भुरण्यवो व्वनर्षदो व्वायवो न सोमाः॥१॥ हरयो धूमकेतवो व्वातजूता उप छवि । यतन्ते वथगग्नयः ॥२॥ यजा नो मित्रावरुणा यजा देवाँ२॥ ऋतं बृहत् । अग्ने यक्षि स्वं दमम् ॥३॥ युवा हि देवहतमाँ२।। अश्वाँ२॥ अग्ने रथोरिव । निहो ता पूर्व्यः सदः ॥४॥ द्वे विरूपे चरतः स्वर्थे ऽअन्याऽन्या व्यत्स मुपधापयेते । हरिरन्यस्यां भवति स्वधावाज छुक्रो ऽअन्यस्यां ददृशे सुवर्चाः ॥ ५॥ अयमिह प्रथमो धायि धातृभिर्होता यजिष्ठो अ ध्वरेग्वीड्यः । यममवानो भृगवो चिरुरुचुर्वनेषु चित्रं विभ्वं विशे विशे ॥ ६॥ त्रीणि शता त्री सहस्राण्यग्निं त्रिशच देवा नव चास पर्यन् । औक्षन घृतैरस्तृणन् बर्हिरस्मा ऽआदिद्धोतारं न्यसादयन्त ॥७॥ मूर्द्धानं दिवो अरतिं पृथिव्या व्वैश्वानरमृत ऽाजातम मिम् । कवि सम्राजमतिथिं जनानामासन्नापात्रं जनयन्त देवाः॥८॥ अग्निवत्राणि जंघनद् द्रविणस्युर्विपन्यया। समिद्धः शुक्र आहुतः ॥६॥ विश्वेभिः सोम्यं मध्वम इन्द्रेण व्वायुना । पिवा मित्रस्य धामभिः ॥१०॥ आ यदिषे नृपति तेज ऽआनट शुचिरेतो निषिक्तं धौरभीके । अग्निः शमनवद्यं युवान स्वाध्यं जनयत् सूदमच्च ॥ ११॥ अग्ने शर्द्ध महते सौभगाय तव द्युम्नान्युत्तमानि सन्तु । सं जास्पत्या सुयममाकृणुष्व शत्रयतामभितिष्ठा महासि ॥ १२ ॥ वाएं हि मन्द्रतममर्कशोकैर्वमहे महि नः श्रोष्यग्ने । इन्द्रं न त्वा ho दानप्रकरणे सहोमतुलादानप्रयोगः। ६५ शवसा देवता व्वायुं पृणन्ति राधसा नृतमाः ॥१३ ॥ त्वे ऽअग्ने स्वाहुत प्रियासः सन्तु सूरयः । यन्तारो ये मघवानो जनानामूर्वान् दयन्त गोनाम् ॥ १४ ॥ श्रुधि श्रुतकर्ण व्वतिभिर्देवैरग्ने सयावभिः । श्रासीदन्तु बर्हिषि मित्रो ऽअर्यमा प्रातर्यावाणो ऽअध्वरम् ॥१५॥ विश्वेषामदितिर्यज्ञियानां विश्वेषामतिथिर्मानुषाणाम् । अनिर्देवाना मव ऽआणानः सुमृड़ीको भवतु जातवेदाः ॥ १६ ॥ महो ऽअग्नेः समिधानस्य शमण्यनागा मित्रे व्वरूणे स्वस्तये । श्रेष्ठ स्याम सवितुः ‘सवीमनि तद्देवानामवो ऽअद्यावृणीमहे ॥ १७॥ ( २० सं० अ० ३३ मं१-१७) . आपो हि ठेत्यादिकस्य तृचस्यापसूक्तस्य सिन्धुद्वीप ऋषिर्गायत्री छन्द आपो देवतास्तत्प्रीतये ज० वि० । आपो हि ष्ठा मयोभुवस्ता न ऽऊर्जे दधातन । महे रणाय चक्षसे ॥१॥ योवः शिवतमो रसस्तस्य भाजयतेह नः । उशतीरिव मातरः॥२॥ तस्मा ऽअरं गमाम वो यस्य क्षयाय जिन्वय । आपो जनयथा च नः॥३॥ (य. सं० अ०११ मं०५०-५२)। भौमप्रत्यधिदैवतभूम्याः सूक्ताभावात् ( २१९ ॥ स्योना पृथि वीतिमन्त्रजपः। बुधप्रत्यधिदैवतविष्णोः सहस्रशीर्षत्यादिसूक्तम् (६६) प्राग्वत् । गुरुपत्यधिदैवतशक्रस्य आशुरित्यादिमूक्तम् (७१) प्राग्वत् ।। शुक्रप्रत्यधिदैवतशच्याः सूक्ताभावात ( २२०) अदित्यै रास्ना सीतिमन्त्रजपः। शनिप्रत्यधिदैवतप्रजापतेः सूक्ताभावात् ( २२१ ) प्रजापते न त्वदेतानीतिमन्त्रजपः। __राहुप्रत्यधिदैवतसर्पाणां नमोऽस्त्वित्यादिचस्य सूक्तस्य प्रजा पतिक्रषिर्गायत्री छन्दः सर्प देवतास्तत्मोतये ज०वि० । नमोऽस्तु सर्पेभ्यो ये के च पृथिवीमनुं । ये ऽअन्तरिक्ष ये दिवि तेभ्यः सर्प भ्यो नमः ॥१॥ या इषवो यातुधानानां ये वा वनस्पती १ रनु । ये वावटेषु शेरते तेभ्यः सर्पेभ्यो नमः॥२॥ ये वाष्मी रोचने दिवो " परिशिष्टदीपके ये वा सूर्यस्य रश्मिषु । येषामप्सु सदस्कृतं तेभ्यः सर्पेभ्यो नमः ॥३॥ ( य० सं० अ० १३ मं० ६-८) केतुप्रत्यधिदैवतब्रह्मणः सूक्ताभावात् ( २१६)ब्रह्म जज्ञानमि त्यादिमन्त्रजपः प्राग्वत् । अथ लोकपालानाम् । तत्र विनायकस्य सूक्ताभावात् गणाना मित्यादिमन्त्रजपः ( २२२)। दुर्गायाः सूक्ताभावात् अम्बे इत्यादिमन्त्रजपः (२२२)। नियुत्त्वानित्यादिकस्य षड़चस्य वायुमुक्तस्याद्याया गृत्समदः, द्वितीयायाः पुरुमीढाजमीढौ, ततस्तिमृणां प्रजापतिः, षष्ठया व्यश्व आङ्गिरसः इति ऋषयः-द्वितीयाया अनुष्टुप् पञ्चम्यात्रिष्टुप , शिष्टानां गायत्री इति छन्दांसि-वायुर्देवता वायुप्रीतये जपे वि०।। नियुत्त्वान् वायवागड्या शुक्रो ऽअयामि ते । गन्तासि सु न्वतो गृहम् ॥ १॥ व्वायो शुक्रो ऽअयामि ते मध्वो ऽअग्रं दिवि ष्टिषु । आयाहि सोमपीतये स्पार्हो देवो नियुत्त्वता ॥२॥ व्वायुर ग्रेगा यज्ञप्रीः साकं गन्मनसा यज्ञम् । शिवो नियुद्भिः शिवाभिः॥३॥ व्वायो ये ते सहस्रिणो स्थासस्तेभिरागहि । नियुत्त्वान्त्सोमपीतये ॥४॥ एकया. च दशभिश्च स्वभूते द्वाभ्यामिष्टये व्विाशती च । तिसृभिश्च व्वहसे त्रिशता च नियुद्भिर्वायविह ता विमुञ्च ।। ५॥ तव व्वायतस्पते त्वष्टुर्जामातरदभुत । अवास्यावृणीमहे ॥६॥ (य० सं० अ० २७ मं० २९-३४)। आकाशस्य सूक्ताभावात् (२२३) ऊर्ध्वा अस्येतिमन्त्रजपः । अश्विनोः सूक्ताभावात् (२२३) या वां कशेतिमन्त्रजपः । अथ दिक्पालानाम् । तत्रेन्द्रस्य आशुरित्यादिसूक्तम् (७१) प्रागुवत् । वः (७२) अस्याजरास इत्यादिसूक्तम् प्राग्वत् । यमस्य सूक्ताभावात् (प्र० २१७ ) असि यम इतिमन्त्रजपः । उदकस्प० दानप्रकरणे सहोमतुलादानप्रयोगः। ६७ असुन्वन्तमित्यादिकस्य तृचस्य निऋतिसूक्तस्य प्रजापतित्र षित्रिष्टुप् छन्दो निऋतिर्देवता तत्प्रीतये जपे वि० । ___ असुन्वन्तमयजमानमिच्छ स्तेनस्येत्यामन्विहि तस्करस्य । अन्य मस्मदिच्छ सा त ऽइत्या नमो देवि निर्ऋते तुभ्यमस्तु ॥१॥ नमः सु ते निर्ऋते तिग्मतेजोऽयस्मयं विचूता बन्धमेतम् । यमेन त्वं यम्या संविदानोत्तमे नाके ऽअधिरोहयैनम् ॥ २॥ यस्यास्ते घोर ऽासन जुहोम्येषां बन्धानामवसर्जनाय । यां त्वा जनो भूमिरिति प्रमन्दते निऋतिं त्वाऽहं परिवेद विश्वतः ॥३॥ ( य० सं० अ० १२ मं० ६२-६४)। उदकस्प. । वरुणस्य मुक्ताभावात् ( २२५) इमं मे इत्यादिमन्त्रजपः । वायोः नियुत्वानित्यादि षडचं सूक्तं (७५ ) प्राग्वत् । सोमस्य अषाढं युस्वित्यादि चतुर्ऋचं सूक्तं (६७) प्रागवत् । ईशस्य नमस्ते रुद्र इत्यादि षोडशचं सूक्तं (६८) प्रागवत् । उदकस्प० । ब्रह्मणः सूक्ताभावात् ब्रह्मजज्ञानमित्यादिमन्त्रजपः ( २२७)। अनन्तस्य नमोऽस्तु सर्पेभ्य इत्यादि तृचं सूक्तं(७४)प्राग्वत् । वसूनां सूक्ताभावात् [ सुगा वो देवा इत्यस्य प्रजापतिक्रषि ‘स्त्रिष्टुप्छन्दः वसवो देवताः वसूनां प्रीतये जपे विनियोगः] इति ऋष्या दीनि स्मृत्वा-“सुगा वो देवाः सदना ऽअकर्म य ऽअाजग्मेद! सवनं जुषाणाः। भरमाणा बहमाना हवीज्यस्मे धत्त व्वसवो व्वसूनि” इति मन्त्रजपः । ( य० सं० अ० ८ मं० १८)। रुद्राणां नमस्ते रुद्रेत्यादि षोडशर्च (६८) प्रागवत् । उदकस्पा आदित्यानां सूक्ताभावात [यज्ञो देवानामित्यस्य कुत्सऋषि स्विष्टप्छन्दः आदित्या देवताः आदित्यानां प्रीतये जपे विनियोगः ] इति ऋष्यादीनि स्मृत्वा-“यज्ञो देवानां प्रत्येति सुम्नमादित्यासो भवता मृडयन्तः। आ वोर्डाची सुमतिर्ववृत्यादाहोश्चिद्या व्वरिवो वित्तराऽसत्” इति मन्त्रस्य जपः। .मरुद्रणानां सूक्ताभावात् (२२४) “मरुतो यस्य हि क्षये पाथा दिवो ब्धिमहसः। स सुगोपातमो जनः” इति मन्त्रजपः । परिशिष्टदीपके ब्रह्मणः सूक्ताभावात् ( २२७ ) ब्रह्म जज्ञानमित्यादिमन्त्रजपः प्रागवत् । अच्युतस्य सहस्त्रशीषैत्यादिकं षोडशचं सूक्तं (६९) प्राग्वत् । ईशस्य नमस्ते रुद्रेत्यादि पोडशचं सूक्तं (६८) पागवत् । उदकस्प० । अर्कस्य विभ्राडित्यादि सप्तदशचं मूक्तं (६५) प्रागवत । वनस्पतेः सूक्ताभावात व्वनस्पते इत्यस्य प्रजापतिऋषिः त्रिष्टु प्छन्दः वनस्पतिर्देवता वनस्पतिप्रीतये जपे विनियोगः। ( य० सं० अ० २९ । मं० ५२) ___“वनस्पते व्वीडवङ्गो हि भूया ऽअस्मत्सखा प्रतरणः सुवीरः । गोभिः सन्नद्धो ऽअसि व्वीडयस्वास्थाता ते जयतु जेवानि” इति मन्त्रजपः। ततो ब्रह्मणाऽन्वारब्ध आचार्यः सर्वाणि हवनीयद्रव्याण्येकीकृत्य ‘अग्नये स्विष्टकृते स्वाहा’ इति स्विष्टकृतं हुत्वा भूरादिहोमं ( सं० दी० प्र० १७४ ) कुर्यात् । ततो बर्हिोंमें संस्रवप्राशनमग्नौ पवित्र प्रतिपत्ति प्रणीताविमोकं च कुर्यात् । ततो यजमानः ब्रह्मणे सहिरण्यं पूर्णपात्रं दद्यात् । तत आचार्य: वेदीसमीपे एव माषभक्तबलिं दध्यक्षतबलि वा ग्रहादिवनस्पत्यन्तदेवताभ्यो दद्यात् । तत्र (१)इन्द्रादिदिक्पालवर्ज नवग्रहादिवास्तोष्पत्यन्तेभ्यः (सं० दी० प्र० २२९ ) ग्रहयागस्थ प्रयोगोक्तरीत्या बलिदानं कृत्वा ध्रुवाय (साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय एष सदीपो दध्यक्षत (माषभक्त ) बलिनमः) इति बलि समये हस्ते जलं गृहीत्वा भो भो ध्रुव (एतं सदीपं दध्यक्षत (माषभक्त) बलिं गृहाण सपरिवारस्य यजमानस्य आयुष्कर्ता क्षेमकर्ता शान्ति कर्ता तुष्टिकर्ता पुष्टिकर्ता भव ) (१) इन्द्रादीनां विशेषतो बलिदानस्याचाहनपूर्वकस्य मात्स्ये (२७४) विहितस्यान्तेऽनुष्ठेयत्वात्।। दानप्रकरणे सहोमतुलादानप्रयोगः। ६९ इति बल्युपरि जलं विसृजेत् । एवमुत्तरत्र सर्वत्र बोध्यम् । ॐअध्वराय साङ्गाय नमः इति वलि विसृज्य हस्ते जलं गृहीत्वा भो भो अध्वर एतं० भव इति बल्युपरि जलं विसृजेत् । ॐसोमाय साङ्गाय नमः इति बलिं विसृज्य हस्ते जलं गृहीत्वा भो भोः सोम एतं ० भव इति वल्युपरि जलं विसृजेत् । ॐअद्भयः साङ्गाभ्यः सपरिवाराभ्यः सायुधाभ्यः सशक्तिका भ्यः एष सदीपो दध्यक्षतबलिनमः इति बलि विसृज्य हस्ते जलं गृहीत्वा भो भो आपः एतं गृह्णीत सपरिवारस्य यजमानस्य अायु कन्यः क्षेमकर्व्यः शान्तिकय॑स्तुष्टिकर्त्यः पुष्टिकर्यो भवत इति बल्युपरि जलं विसृजेत् । ॐअनिलाय साङ्गाय नमः इति वलिं विसृज्य हस्ते जलं गृहीत्वा भो भो अनिल एतं ० भव इति वल्युपरि जलं विसृजेत् । ॐअनलाय साङ्गाय नमः इति बलि विसृज्य हस्ते जलं गृहीत्वा भो भो अनल एतं० भव इति वल्युपरि जलं विस जेत् । ॐप्रत्यूषाय साङ्गाय० नमः इति बलिं विसृज्य हस्ते जलं गृहीत्वा भो भोः प्रत्यूष एतं. भव इति बल्युपरि जलं विसृजेत् । ॐप्रभासाय साङ्गाय नमः इति बलिं विसृज्य हस्ते जलं गृहीत्वा भो भोः प्रत्यूष एतं. भव इति बल्युपरि जलं विसृजेत् । ॐ धात्रे नमः० इति बलि विसृज्य हस्ते जलं गृहीत्वा भो भो धातः एतं. भव इति बल्युपरि जलं विसृजेत् । ॐअर्यम्णे० नमः इति बलिं समर्प्य हस्ते जलं गृहीत्वा भो भो अर्यमन् एतं. भव इति बल्युपरि जलं विसृजेत् । ॐ मित्राय० नमः इति बलि विसृज्य हस्ते जलं गृहीत्वा भो भो मित्र एतं ० भव इति बल्युपरि जलं विसृजेत् । ॐवरुणाय नमः इति बलिं विसृज्य हस्ते जलं गृहीत्वा भो भो वरुण एतं० भव इति वल्युपरि जलं विसृजेत् । ॐशाय नमः इति बलिं विसृज्य हस्ते जलं गृहीत्वा भो.भो अंश एतं० भव इति बल्युपरि जलं विसृजेत् । ॐभगाय० नमः इति बलिं विसृज्य हस्ते जलं गृहीत्वा भो भो भग एतं० भव इति बल्यु परि जलं विसृजेत् । ॐइन्द्राय० नमः इति बलि विसृज्य हस्ते . ७० परिशिष्टदीपके जलं गृहीत्वा भो भो इन्द्र एतं भव इति बल्युपरि जलं विसृजेत् । ॐविवस्वते० नमः इति बलिं विसृज्य हस्ते जलं गृहीत्वा भो भो विवस्वन् एतं भव इति बल्युपरि जलं विसृजेत् । पूष्णे नमः इति वलि विसृज्य हस्ते जलं गृहीत्वा भो भोः पूषन् एतं ० भव इति बल्युपरि जलं विसृजेत् । ॐपर्जन्याय० नमः इति बलि विस ज्य हस्ते जलं गृहीत्वा भो भोः पर्जन्य एतं. भव इति वल्युपरि जलं विसृजेत् । ॐत्वष्ट्रे० नमः इति बलिं विसृज्य हस्ते जलं गृही त्वा भो भोस्त्वष्टः एतं. भव इति बल्युपरि जलं विसृजेत् । ॐ विष्णवे नमः इति बलिं विसृज्य हस्ते जलं गृहीत्वा भो भो विष्णो एतं० भव इति बल्युपरि जलं विसृजेत् । ___ॐवीरभद्राय नमः इति बलि विसृज्य हस्ते जलं गृहीत्वा भो भो वीरभद्र एतं. भव इति बल्युपरि जलं विसृजेत् । ॐशम्भवे. नमः इति बलि विसृज्य हस्ते जलं गृहीत्वा भो भोः शम्भो एतं. भव इति वल्युपरि जलं विसृजेत् । ॐगिरीशाय नमः इति बलि विसृज्य हस्ते जलं गृहीत्वा भो भो गिरीश एतं० भव इति बल्युपरि जलं विसृजेत् । ॐअजैकपदे० नमः इति बलिं विसृज्य हस्ते जलं गृहीत्वा भो भो अजैकपाद् एतं ० भव इति बल्युपरि जलं विसृजेत् । ॐअहिर्बुध्न्याय० नमः इति बलि विसृज्य हस्ते जलं गृहीत्वा भो भो अहिर्बुध्न्य एतं भव इति बल्युपरि जलं विसृजेत् । ॐपिना किने० नमः इति बलि विसज्य हस्ते जलं गृहीत्वा भो भोः पिना किन् एतं. भव इति बल्युपरि जलं विसृजेत् । ॐभुवनाधीश्वराय नमः इति बलिं विसृज्य हस्ते जलं गृहीत्वा भो भो भुवनाधीश्वर एतं० भव इति बल्युपरि जलं विसृजेत् । ॐकपालिने० नमः इति बलिं विसृज्य भो भोः कपालिन् एतं० भव इति बल्युपरि जलं विसृ जेव । ॐविशांपतये नमः इति बलि समय भो भो विशांपते एतं. भव इति बल्युपरि जलं विसजेत् । ॐस्थाणवे नमः इति बलिं सम प्य भो भोः स्थाणो एतं० भव इति बल्युपरि जलं विसृजेत् । ॐ भगाय० नमः इति बलिं समय भो भो भग एतं० भव इति बल्यु परि जलं विसृजेत् । … … … .. … . . .. दानप्रकरणे सहोमतुलादानप्रयोगः। ७१ ॐ आवहाय नमः इति वलिं समर्प्य भो भो आवह एतं. भव इति जलं विसृजेत् । ॐ प्रवहाय नमः इति बलिं समर्प्य भो भोः प्रवह एतं० भव इति जलं विसृजेत् । ॐ उद्वहाय नमः इति बलिं समर्प्य भो भो उद्वह एतं० भव इति जलं विसृजेत् । ॐसं वहाय० नमः इति बलि समय भो भोः संवह एतं गृहाण यज मानस्य० भव इति जलं विसृजेत् । ॐविवहाय नमः इति बलि समय भो भो विवह एतं गृहाण यजमानस्य० भव इति जलं वि सृजेत् । ॐसुवहाय नमः इति बलिं समयं भो भोः सुवह एतं० गृहाण यजमानस्य० भव इति जलं विसृजेत् । ॐपरिवहाय नमः इति बलि समय भोभोः परिवह एतं गृहाण यजमानस्य० भव इति जलं विसृजेत् । ॐब्रह्मणे० नमः इति बलिं समर्प्य भो भो ब्रह्मन् एतं. गृहाण यजमानस्य० भव इति जलं विसृजेत् । ॐ विष्णवे नमः इति बलिं समये भो भो विष्पो एतं गृहाण यजमानस्य० भव इति जलं विसृजेत् । ॐशिवाय नमः इति बलिं समय भो भोः शिव एतं गृहाण यजमानस्य० भव इति जलं विसृजेत् । ॐअर्काय नमः इति बलिं समयं भो भो अर्क एतं गृहाण यजमानस्य० भव इति जलं विसृजेत् । ॐवनस्पतये नमः इति बलिं समय भो भो वन स्पते एतं गृहाण यजमानस्य० भव इति जलं विसृजेत् । एवं वनस्पत्यन्तदेवताभ्यो दध्यक्षतबलिं दत्त्वा क्षेत्रपालाय ग्रहयागपयो गोक्तरीत्या (सं० दी०प्र० पृ० २३४) कसरबलिं दद्यात् ।। ___ ततः आचार्यों यजमानेन सह(१)तूर्यादिवायरवेषु क्रियमाणेषु गन्धपुष्पधूपादिकं माषभक्त-दध्यक्षतान्यतरं चादाय मण्डपान्तः पूर्व दिशि ‘एहि सर्वामरसिद्धसाध्यैः’ इत्यादिमन्त्रेण ( पृ० ४७), (१) होमावसाने कृततूर्यनादो गुरुहीत्वा बलिपुष्पधूपम् । आधा हयेल्लोकपतीन् क्रमेण मन्नरमीभिर्यजमानयुक्तः ॥ इति मात्स्ये (२७४) होमानन्तरमावाहनपूर्वकस्य दिक्पालानां पूजनस्य बल्युपहारस्य च विशे पतो विधानान्मण्डपपूजाकाले पूजिता अपि दिक्पाला पुनरत्र पूजनोया इति बोध्यम्।परिशिष्टदीपके इन्द्रमावाह्य ॐइन्द्राय नमः इति गन्धादिभिः संपूज्य ॐइन्द्राय सपरि पाराय एष माषभक्त (दध्यक्षत) बलिनमः इति बलिं दत्त्वा आग्नेये ‘एोहि सर्वामरहव्यवाह’ (पृ. ४८) इत्यादिमन्त्रेणानिमावाह्य ॐअग्नये नमः इति गन्धादिभिः संपूज्य ‘ॐअग्नये नमः’ इति बलिं दत्त्वा दक्षिणस्यां दिशि ‘एकेहि वैवस्वत धर्मराज’ इत्यादिम बेण (पृ० ४९) यममावाद्य ॐयमाय नमः इति गन्धादिभिः संपूज्य ॐयमाय नमः इति बलिं दत्त्वा नितिकोणे ‘एोहि रक्षोगणना यकस्त्वम्’ इति मन्त्रेण (पृ० ५५) नितिमावाह्य ‘ॐनितये नम:’ इति गन्धादिभिः संपूज्य ॐनिभृतये नमः इति बलिं दत्त्वा पश्चि मायां दिशि ‘एोहि यादोगणवारिधीनाम्’ इति मन्त्रेण (५०)वरु णमावाह्य ॐवरुणाय नमः इति संपूज्य ॐवरुणाय नमः इति बलिं दत्त्वा वायव्यकोणे ‘एोहि यज्ञ मम रक्षणाय’ इति मन्त्रेण (पृ०५०)वायुमावाह्य ॐवायवे नमः इति संपूज्य ‘ॐवायवे नमः इति बलिं दत्त्वा उत्तरस्यां दिशि ‘एछोहि यज्ञेश्वर यज्ञरक्षाम्’ इति मन्त्रेण (पृ०५१)कुबेरमावाह्य ॐकुबेराय नमःइति संपूज्य ‘ॐकुबेरा य० नमः’ इति बलिं दत्त्वा ईशानकोणे ‘एोहि विश्वेश्वर नखिशूल’ इति (पृ०५१)मन्त्रेणेशानमावाह्य ‘ॐईशानाय नमः’ इति संपूज्य ॐ ईशानाय नमः’ इति बलि दत्त्वा पूर्वेशानयोमध्ये ‘एोहि सर्वाधिपते सुरेन्द्र’ इति मन्त्रेण (पृ०५२) ब्रह्माणमावाह्य ‘ॐब्रह्मणे नमः’ इति संपूज्य ॐब्रह्मणे नमः इति बलिं दत्त्वा ततो नितिवरूणयोर्मध्ये ‘एहि पातालधरामरेन्द्र’ (पृ० ५२) इत्यनन्तमावाह्य ‘ॐअनन्ताय नमः’ इति संपूज्य ॐअनन्ताय नमः’ इति बलिं दद्यात् । । ___ ततःपूर्वस्यां त्रैलोक्ये यानि भूतानि इतिपूर्वोक्तमन्त्रान् (पृ०५३) पठित्वा ॐत्रैलोक्यस्थेभ्यः स्थावरेभ्यो भूतेभ्यो नमः ॐत्रैलोक्यस्थे– भ्यश्चरेभ्यो भूतेभ्यो नमः ब्रह्मणे० विष्णवे. शिवाय. देवेभ्यो० दानवेभ्यो० गन्धर्वेभ्यो० यक्षेभ्यो० राक्षसेभ्यो० पन्नगेभ्यो० ऋ षिभ्यो० मनुष्येभ्यो० गोभ्यो देवमातृभ्यो नमः इति संपूज्य पूर्व वन्माषभक्त(दध्यक्षत)बलि प्रत्येकं दद्यात् । दानप्रकरणे सहोमतुलादानप्रयोगः ७३ ततो यजमानः पादौ प्रक्षाल्याचम्य मध्यवेद्यां नानारजोभिः पूरितं षोड़शारं(१) कृत्वा उपरि पञ्चवर्णवितानं च पुष्पफलयुक्त (१)चक्र लिखेदारिजगर्भयुक्तं नानारजोभिर्भुवि पुष्पकीर्णम् । विता नकं वोपरि पञ्चवणे संस्थापयेत्पुष्पफलोपशोमम् ॥ इति मात्स्ये (२७४) अभिधानात् । चक्रमत्र षोडशारमेव । “षोडशारं ततश्चक्रं पद्मगर्भ चतु मुखम्” । इति तत्रैव (१०५८) तडागोत्सर्गप्रकरणे तस्यैव विधानेना त्रापि तस्यैव ग्राह्यत्वात् । तन्निर्माणप्रकारश्चेत्थं दानकमलाकरे । वेदिमध्ये त्रिहस्तायाम त्रिह. स्तविस्तारं चतुरनं कृत्वा तत् प्राक्पश्चिमायताभिः दक्षिणोत्तरायताभिश्च नवरेखाभिश्चतुष्पष्टिकोष्ठात्मकं कुर्यात् । तत्र नवाङ्गुलानि सर्वाणि कोष्ठानि भवन्ति । ततश्चतुदिक्षु वाह्यपङौ मध्यानि चत्वारि पदानि, उपान्त्यपडौ च मध्यमं पददयं मार्जयित्वा षट्पदानि चत्वारि द्वाराणि संपाद्य-मध्य स्थितकोष्ठषोडशके मध्यानि चत्वारि कोष्ठान्यवशेष्य द्वादश मार्जयित्वा पीठं संपाद्य बाह्यपको कोणेषु एकैकं कोष्ठं विहाय द्वारसलमानि पञ्चपञ्च पदानि मार्जयित्वा मध्यस्थचतुरस्रपीठस्य पादान संपादयेत्।। ततो मध्ये त्रयोदशाङ्गुलेन, दादशाङ्गुलेन, सार्धनवाङ्गुलेन, चतुरङ्गुलेन, घडलेन च व्यासार्धन षड्विंशत्यङ्गुल-चतुर्विंशत्यङ्गुल-एकोनविंशत्य अल-अष्टाङ्गुल-चतुरडलानि पञ्च वृत्तानि कुर्यात् । ततः वृत्तकेन्द्रात चतुरनपीठपर्यन्तं पूर्वाद्यष्टदितु तदन्तरेषु च षोडश रजोयुक्तसूत्राणि षोड शाराणां निर्माणाय दद्यात् । ततः कर्णिकात्मचतुरङ्गुलमध्यवृत्तावधिभूतां रेखां सितेन रजसा निर्माय तवृत्तं पीतेन रजसा पूरयित्वा अष्टाङ्गुलद्धि तीयवृत्तावधिरेखां सितेन रजसा संपाद्य तत्ते पोत-रक्त-सितरजोभिः क्रमेण संपादितमूल-मध्य-अग्राणि पूर्वाधष्टदिक्षु तदन्तरेषु च षोडश केसराणि कुर्यात् । केसराधिष्ठितं तदनधिष्ठितं च द्वितीयवृत्तभागं पत्रमू लतया कल्पयेत् । अतस्तदनधिष्ठितं भागं सितेनैव रजसा पूरयेत् । ततः एकोनविंशत्यङ्गुलतृतीयवृत्तावधिरेखां सितेन रजसा विधाय तस्मिन् वृत्ते सितरजसाऽष्टदिक्षु अष्टौ पत्रमध्यानि कुर्यात् । ततश्चतुर्विशत्यङ्गुलचतु र्थवृत्तावधिरेखामेकाङ्गुलां सितेन रजसा विधाय तद्वत्ते पद्मकुण्डवद् दला प्राणि कृत्वा तानि रक्तरजसा पूरयेत् । दलाग्राणामन्तराणि चतुर्थवृत्त सवानि त्रिकोणाकाराणि कृष्णेन रजसा पूरयेत् । ततः षडविंशत्यङ्गुलफ ञ्चमवृत्ते अष्टदिक्षु तदन्तरेषु च वृत्तकेन्द्रात् चतुरस्रपीठपर्यन्तं सूत्रदानेन संपन्नासु षोडशरेखासु यवाकारान् षोडश श्रारान् श्याम-पोत-रक्त श्वेत-रजाभिः कृत्वा तदन्तरा यथाशोमं रजोभिः पूरयेत् । तद्वहिः सित पीत-श्रण-श्याम-हरिताः पञ्च रेखा उत्तरोत्तरन्यूना लिखेत् । तत्राधा ७४ परिशिष्टदीपके दत्त्वा तत्र दक्षिणोत्तरायतायां पूर्वोक्तलक्षणायां तुलायां पूर्वोक्तरीत्या निर्मिते तोरणे तदभावे कस्मिंश्चिद्यज्ञियकाष्ठस्तम्भेऽवलम्बितायाम् ॐतुलायै नम इति तुलादेवतामाबाह्य तत्रोदक्संस्थं चतुर्विंशतिधा तुबन्धेषु अग्न्युत्तारणपूर्वकम् अवलम्बितासु स्वर्णप्रतिमासु वा पूगी फलेषु वा अक्षतपुञ्जेषु वा धातुबन्धेष्वेव वा दण्डे एव कल्पितेषु चतुर्विंशतिस्थानेषु वा ईशादिदेवताः, तुलादण्डप्रान्तयोरनन्तं, गोवि न्दप्रतिमावलम्बनार्थं तुलामध्यावलम्वितशृङ्खलायां वासुकिं, यजमा नासन-सुवर्णधारणफलकयोरघो भूमि, फलकमध्ये भूम्यधिपति, फलकावलम्बनशृङ्खलासु सश्चि आवाह्य ‘एतन्ते’ इति प्रतिष्ठाप्य ॐतुलायै नमः ॐईशाय नमः शशिने० मारुताय० रुद्रायः सूर्याय.. विश्वकर्मणे० गुरवे० अङ्गिरोऽग्निभ्यां० प्रजापतये० विश्वेभ्यो देवे भ्यो. जगद्विधात्रे० पर्जन्यशम्भुभ्यां पितृभ्यो० सौम्याय धर्माय० अमरराजाय. अश्विभ्यां० जलेशाय० मित्रावरुणाभ्यां मरुद्रणेभ्यो० धनेशाय० गन्धर्वाय जलेशाय० विष्णवे नमः इति ब न्धदेवान् सम्पूज्य, प्रान्तयो अनन्ताय नमः इति प्रत्येक मन्त्रात्त्या, मध्यशृङ्खलायां ॐवासुकये नमः इति वासुकिं, फलकयोरधः ॐभू म्यै नमः इति मन्त्रावृत्त्या भूमि, फलकमध्ये ॐभूम्यधिपतये नमः इति मन्त्रावृत्त्या भूम्यधिपति, शृङ्खलासु ॐसर्पेभ्यो नमः इति मन्त्रा वृत्त्या सोश्च पूजयित्वा अग्न्युत्तारितायां स्वर्णप्रतिमायां चतुर्भुज गोविन्दम् आवाह्य ‘एतन्ते’ इति प्रतिष्ठाप्य ध्यात्वा पुरुषसूक्तेन मेकाकुलां कुर्यात् । तद्वाह्ये पीठक्षेत्रं चतुरनं यथाशोभं पूरयित्वा पोठा वधिरेखां शुक्लां दद्यात्। द्वाराणि पूर्वादितः क्रमेण पोत-श्याम-श्वेत हरितानि कुर्यात् । कोणकोष्ठानि आग्नेयादितः क्रमेण रक्त-हरित-श्याम सितानि कुर्यात् । पीठपादान पञ्चकोष्ठकान् आग्नेयादितः सित-रक्त-पोत कृष्णान् कुर्यात् । ततो बहिश्चतुरस्ररेखामङ्गुलोनतां सितां कुर्यात्। वो बहिः दिक्पालानामायुधानि वज्र-शक्ति-दण्ड-खड्ग-पाश-अवश-गदा शूलान लिखित्वा पञ्चवचितानं फलपुष्पयुतं वेदेरुपरि दद्यादिति । अत्र मूलवचनानि नारायणभट्टोये तडागोत्सर्गविधी द्रष्टव्यानि । इदमेव वारुण मण्डलत्वेन व्यवहियत इति दिक।……… दानप्रकरणे सहोमतुलादानप्रयोगः। ७५ ॐगोविन्दाय नमः इति नाममन्त्रेण च संपूज्य तुलामध्यशृङ्खलायां द्वादशाङ्गुलया मौक्तिकस्रजा सुवर्णशृङ्खलया वा तथा तां प्रतिमामव लम्बयेत् यथा तुलोत्तरफलकस्थितः सन् तां द्रष्टुं शक्नुयात् । ततः तुलां पीतादिवस्त्रेणाच्छाद्य अग्न्युत्तारितयोः सुवर्णप्रतिमयोः सूर्य धर्मराजं चावाह्य प्रतिष्ठाप्य च नाममन्त्रण पूजयेत् । ततो ब्राह्मणाः स्वस्वशाखोक्तशान्ति पठेयुः, ततो यजमानः तिल कुशयवजलान्यादाय देशकालौ संकामुकोऽहं कृतैतदधिवासन कर्मणः प्रतिष्ठार्थमिमां दक्षिणामृत्विग्देयदक्षिणाद्विगुणां (सति संभवे एतानि हैमकुण्डलोपवीतकटकाङ्गुलीयानि(१) वस्त्राणि च) अमुकगो त्राय अमुकवेदाय अमुकशाखाध्यायिने अमुकशमणे ब्राह्मणाय श्रा चार्याय तुभ्यमहं संपददे इत्युक्त्वा तस्मै दद्यात् । आचार्यपदस्थाने ऋत्विक्पदं प्रयुज्य तदर्धमकैकस्मै ऋत्विजे दद्यात् । अस्मिन् दिने सर्वे उपवासं कृत्वा रात्री जागरणं कुर्युः । उप वामाशक्ती(२)नक्तभोजनम् । (३)अशक्तौ सद्य एवाधिवासनम् ।। ___ ततः प्रातयजमानः कृतस्नानादिक्रियः मण्डपमागत्य संक्षेपेण पुण्याहवाचनं(४) ब्राह्मणैः कारयेत् । तत आचार्यों मृडनामानौ “मूर्धान दिव” इति मन्त्रेण (सं० दी० प्र० १७९ ) कुशकण्डि काप्रयोगोक्तरीत्या पूर्णाहुतिहोमं कृत्वा महावेदेः पश्चिमभागे सकुटुम्बं यजमानं प्राङ्मुखं भद्रासनोपविष्टम् उदङमुखैाह्मणैः सहोत्थाय होमकुण्डसमीपे ग्रहवेदिसमीपे च स्थापितकलशजलै पिल्लवयुक्तैर्वै (१) इत्यावाह्य सुरान् दद्यादृस्विग्भ्यो हेमभूषणम् । कुण्डलानि च हैमानि सूत्राणि कटकानि च ॥ अङ्गुलीयपवित्राणि वासांसि शयनानि च । द्विगुणं गुरवे दद्याद् भूषणाच्छादनादि च ॥ जपेयुः शान्तिकाध्यायं जाप काः सर्वतोदिशम् । उपोषितास्ततः सर्वे कृस्वैवमधिवासनम् ॥ इति मा त्स्ये (२७४) उक्तम् । (२) उपवालो भवेदेवमशक्तौ नक्तमिभ्यते । इति पायोक्तः । (३) सद्योऽधिवासनं वाऽथ कुर्याद्यो विकलो नरः । इति अशक्तस्य सद्योऽधिवासनमभ्युक्तं हेमाद्रौ।। (४) आदावन्ते च मध्ये व कुर्याद्ब्राह्मणवाचनम् । इति मात्स्ये उत।, परिशिष्टदीपके दिकमन्त्रैः पौराणिकमन्त्रैश्च ( सं० दी० प्र० २३८ ) मङ्गलघोषपुरः सरमभिषिञ्चेत् । मन्त्राभिषेकानन्तरं यजमानः सति सम्भवे उद्वर्तन पूर्वक स्नायात् । अथ स्नानवस्त्रं त्यक्त्वा शुक्लमाल्याम्बरधरः सुग न्ध्यनुलिप्ताङ्गो धृततिलको यजमानः पुष्पाञ्जलिं गृहीत्वा तुलां त्रिः प्रदक्षिणीकृत्य तत्पश्चिमे उपविश्य वक्ष्यमाणैमन्त्रैस्तुलामभिमन्त्रयेत् “ॐनमस्ते सर्वभूतानां शक्तिस्त्वं सत्यमाश्रिता । साक्षिभूता जगद्धात्री निर्मिता विश्वयोनिना ॥ एकतः सर्वसत्यानि तथाऽनृतशतानि च । धर्माधर्मकृतां मध्ये स्थापिताऽसि जगद्धिते ॥ त्वं तुले सर्वभूतानां प्रमाणमिह कीर्तिता । मां तोलयन्ती संसारादुद्धरस्व नमोऽस्तु ते ॥ योऽसौ तत्त्वाधिपो देवः पुरुषः पञ्चविंशकः । स एकोऽधिष्ठितो देवि त्वयि तस्मानमोऽस्तु ते” ॥ इति पुष्पाणि तुलोपरि प्रक्षिपेत्र(१) । ततः पुष्पाणि संगृह्य “ॐनमो नमस्ते गोविन्द तुलापुरुषसंज्ञक । त्वं हरे तारयस्वास्मान् अस्मात्संसारसागरात् ॥” इति तुलागोविन्दोपरि पुष्पाणि क्षिप्त्वा पुनस्तुलां प्रद क्षिणीकृत्योभयोः पार्श्वयोस्तुलां समोकृत्य अलङ्कृतो यजमानो दक्षि णहस्ते सूर्यवामे धर्मराजं चादाय उत्सङ्गे इष्टदेवतां गृहीत्वा उत्तरफलके प्राङ्मुखोपविष्टः तुलामध्यशृङ्खलावलम्बितं गोविन्दं पश्यन्नासीत । दक्षि णफलके तु ऋत्विजः समादधिकं सुवर्ण प्रक्षिपेयुः। पुष्टि कामश्चेद्य जमानस्तदा यावता भूमिस्थितं सुवर्णफलकं भवति तावर प्रक्षिपेयुः । ततस्तुलायामेव क्षणमात्रं स्थितः ‘ॐनमस्ते सर्वभूतानां साक्षिभूते सनातनि । पितामहेन देवि त्वं निर्मिता परमेष्ठिना ॥ (१) ततो मङ्गलशब्देन स्नापितो वेदपुङ्गवैः। त्रि. प्रदक्षिणमावृत्य गृहीतकुसुमाञ्जलिः ॥ शुक्लमाल्याम्बरधरस्तां तुलामभिमन्त्रयेत् । इत्यादि सर्व मात्स्ये (२७४) उक्तम् । दानप्रकरणे सहोमतुलादानप्रयोगः। ७७ त्वया धृतं जगत् सर्व सह स्थावरजङ्गमम् । सर्वभूताधिभूतस्थे नमस्ते भूतधारिणि ।।’ इति मत्स्यपुराणोक्तं श्लोकद्वयं पठित्वा “ॐपुनन्तु मा देव जनाः पुनन्तु मनसा धियः । पुनन्तु विश्वा भूतानि जातवेदः पुनी हि मा ॥१॥ पवित्रेण पुनीहि मा शुक्रेण देव दीद्यत् । अग्ने क्रत्वा क्रतू २॥रनु ॥२॥ यत्ते पवित्रमर्चिष्यग्ने विततमन्त रा । ब्रह्म तेन पुनातु मा॥३॥ ( य० सं० अ० १९ मं० ३६ ४१ ) इति तृचं च हेमाद्रौ अग्निपुराणे विहितं पठित्वा-. . यथा पवित्रमतुलमपत्यं जातवेदसः। . तथा स्वेन पवित्रेण सुवर्ण हि पुनातु माम् ॥ रुद्रस्य सुमहत्तेजः कार्तिकेयस्य संभवः । तथा स्वेन० ॥ पवित्रत्वाद्यथा देवैः शिरसा धार्यते सदा । तथा स्वेन० ॥ यथाऽग्निर्देवताः सर्वास्सुवर्णं च तदात्मकम् । तथा स्वेन०॥ यत्कृतं मे स्वकायेन मनसा वचसा तथा । दुष्कृतं सत्सुवर्णस्थं यातु मुक्ति परां शुभाम् ॥ इति वह्निपुराणोक्तान मन्त्रांश्च पठेत् । ततस्तुलाफलकादवतीर्य वेदिपश्चिमभागे प्राङमुख आसने उप विश्य सुवर्णं संमोक्ष्य संपूज्य कुशयवतिलकुसुमजलान्यादाय देश कालौ संकीर्त्य असुकोऽहं मम आत्मनः सकलब्रह्महत्यादिपापक्षयपू वक मन्वन्तरकालावच्छिन्नसर्वलोकपालस्थानाधिकरणकनिवासोत्तर कालाप्सरोगणाधिष्ठितकलरणत्कनककिङ्किणीगणमण्डितार्कवर्णसव विमानकरणकवैकुण्ठभुवनगमनानन्तरकल्पकोटिशतावच्छिन्नतल्लों कमोगोत्तरकालाखिलभूपालमौलिमाणिक्यमालोपरञ्जितचरणपीठ त्वविशेषितराजराजत्व-श्रद्धानुविद्धयज्ञसहस्रयाजित्व-प्रदीप्तमतापान लाशेषमहीपालविजयप्राप्तिद्वारा श्रीपरमेश्वरप्रीत्यर्थम् अमुकगोत्राया मुकवेदायामुकशाखाध्यायिने अमुकशर्मणे ब्राह्मणायाचार्याय एतदुप कल्पितोपकरणालङ्कारसहितमिदं तुलितसुवर्णस्या) तुभ्यं संप्रददे न ममेति उदङ्मुखोपविष्टस्याचार्यस्य हस्ते कुशयवतिलकुसुमजला नि दद्यात् । ७८ परिशिष्टदीपके __एवमपरमधं ब्रह्मादिभ्यखिभ्य ऋत्विग्भ्यो विभज्य समांशेन आचार्यपदस्थाने ब्रह्मपदम् ऋत्विक्पदं च प्रयुज्य संकल्पपूर्वक दद्यात(१)। ___ “प्राप्य तेषामनुज्ञा च तथाऽन्येभ्योऽपि दापयेत्” इति मात्स्यो क्तद्वितीयपक्षाश्रयणे (२) तुलापुरुषद्रव्यं त्रेधा विभज्य एकं तृतीयं भागमाचार्याय, अपरं तृतीयं भागं समांशेन विभज्य ब्रह्मादित्रिभ्य ऋत्विम्भ्यः, तदपरं तृतीयं भाग जापकद्वारपालेभ्यो दद्यात् । अस्मि पक्षे श्रीपरमेश्वरप्रीत्यर्थम् इत्यन्तमुच्चार्य एतदुपकल्पितोपकरणादि युक्तमेतत्तुलितसुवर्णतृतीयांशममुकगोत्रायः प्राचार्याय तुभ्यमहं संप्रददे इत्येकमंशमाचार्याय दद्यात् । एवं ब्रह्मादिक्रत्विग्भ्य एतत्तु लितसुवर्णतृतीयांशं समांशेन विभज्य संप्रददे इति दद्यात् । ततो जापकद्वारपालेभ्य एतत्तुलितसुवर्णतृतीयांशं यथांशेन विभज्य संप्रददे इति दद्यात् । ___ तेषामेवानुज्ञया “दीनानाथविशिष्टादीन पूजयेत् ब्राह्मणैः सह” इति तत्रैवोक्तप्रचलिततृतीयपक्षाश्रयणे(३) श्रीपरमेश्वरप्रीत्यर्थमित्यन्त मुच्चार्य एतदुपकल्पितोपकरणादियुक्तमेतत्तुलितसुवर्ण चतुर्थभागममुक गोत्राय० आचार्याय एतत्तुलितसुवर्णचतुर्थभागम् अमुकामुकगोत्रे भ्या० ब्रह्मादिऋत्विग्भ्यः एतत्तुलितसुवर्णार्धम् अमुकामुकगोत्रेभ्यो जापकद्वारपालादिभ्यो ब्राह्मणेभ्यः सुवासिनीभ्यो दीनानाथविशिष्टे भ्यो ब्राह्मणातिरिक्तेभ्यश्च संपददे इति प्राचार्या दिब्राह्मणहस्तेषु जलादीनि दद्यात् ।।

(१) ततोऽवतीर्य गुरवे पूर्वम निवेदयेत् । ऋखिग्भ्योऽपरमवधू तु दद्यादुदकपूर्वकम् ॥ इति मात्स्यवचनमेतत्पनाश्रयणे मूलम् । (२) अन्यशब्देन जापकानां द्वारपालानां च महणात् । द्वारपालानां पृथंम्वरणाभावे जापका एव प्राया इति बोध्यम् । • (३) अत्र विकल्पवाचकपदाश्रवणेऽपि पक्षान्तराश्रयणेनार्थाद्रिकल्पा सिभ्यतीति हेमाद्रिः । न चिरं धारयेद् गेहे सुवर्ण प्रोतितं बुधः” इति मात्स्यवचनातुलितं सुवर्ण शोधं परस्वीकुर्यात्।। दानप्रकरणे सहोमतुलादानप्रयोगः। ७९ आचार्यादयः स्वस्तीत्युक्त्वा स्वकीयं सुवर्णभागं स्पृष्ट्वा “देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि” ‘इदमग्नये प्रतिगृह्णामि’ इति प्रतिगृह्य “कोऽदात् कस्मा ऽअदात् कामोऽदात् कामायादात् । कामो दाता कामः प्रतिग्रहीता कामैतत्ते” इति कामस्तुति पठेयुः। ततः कृतैतत्तुलापुरुषमहादानकर्मणः साङ्गतासिद्धयर्थं तत्संपूर्ण फलप्राप्तये दक्षिणार्थं परिकल्पितं ग्राम, मुक्तायेकजातीयरत्नसहस्र (१) कृष्णलादिसहस्रपरिमितसुवर्णान्यतरच अमुकामुकगोत्रेभ्यः० ब्राह्मणेभ्य आचार्यादिभ्यो यथाशं विभज्य संप्रददे इति दद्यात् । ते च स्वस्वशाखोक्तमन्त्रपाठपुरःसरं स्वस्वमंशं. प्रतिगृह्णीयुः । सति सम्भवे (२)सहस्रब्राह्मणभोजनसंकल्पं कुर्यात् । ततो नानानामगोत्रे भ्यो ब्राह्मणेभ्योऽन्येभ्यश्च अस्य कर्मणो न्यूनातिरिक्तदोषपरिहारार्थ (१) “गुरवे ग्रामरत्नानि ऋत्विग्भ्यश्च निवेदयेद् ।” इति मात्स्ये सं ख्याविशेषानुपादानात् गोपथब्राह्मणे च ‘अलंकारं कत्रे दद्यात् सहस्रं दक्षिणां ग्रामवरं च” इत्युक्तसहस्रसंख्यायाः संख्येयाश्रवणात् परस्पराका इया, शाखान्तरे सहस्ररत्नानां दक्षिणास्थानश्रुतेध रत्नसहनमेव न्या व्यम् । तत्त यथाशक्ति यथालाभं मुक्ताद्यन्यतमैकजातीयमेव । ज्योतिष्टोमे गवामिव एकजातोयानामेव संख्यासम्बन्धादिति केचित् । ग्रामरत्नानीत्यत्र रत्नशब्दस्य श्रेष्ठताचाचित्वात् ‘सर्वेषामेवं दानानां सुवर्ण दक्षिणा स्मृता” इति वचनात् सुवर्णसहस्रमेव दक्षिणात्वेन ग्राह्यम् । सहस्रसंख्या च तस्य रक्तिकात:प्रभृति यथाशक्ति संपादनीयो । नपुंसकसुवर्णशब्दस्य हिरण्यसामान्यवाचित्वात् इत्यन्ये । पक्षद्यमपि हेमाद्रौ उपन्यस्तम् । (२) “ब्राह्मणान् भोजयेत्तत्र वेदवेदाङ्गपारगान” इति लैङ्गे तुलादान प्रकरणे ब्राह्मणभोजनश्रवणात अन्यत्रापि तदुपसंहारस्य न्याय्यत्वात् अवश्यकर्तव्ये ब्राह्मणानां भोजने तत्संख्याऽऽकाक्षायां “ततः सहनं विप्रा रणामथवाऽष्टशतं तथा । भोजनीयं यथाशक्ति पञ्चाशद्वाऽथ विंशतिः, इति तडागोत्सर्गोक्तमात्स्यवचनोपात्तसङ्ख्यासंबन्धे मुख्यकल्पे सहनसं ख्यासम्बन्धो लभ्यते इति सति सम्भवे तावतो भोजयेत् । जापकेषु तत्रत्यसंस्थाऽनतिदेशवादिनां रत्नाकरादीनां मते तु ब्राह्मणेष्वपि तत्रत्य संख्यानतिदेश पवेति बोध्यम् । , . , . . ……. परिशिष्टदीपके भूयसी दक्षिणां संप्रददे इति दद्यात् । ततः संक्षिप्तपुण्याहवाचनं कृत्वा पूजोपकरणानि गृहीत्वा ग्रहवेदीमुपगम्य यजमानः उत्तराङ्गत्वेन ग्रहा दीन् पूजयेत् । तत प्राचार्यः पूजान्ते ‘यान्तु देवगणाः सर्वे पूजामादाय पार्थिवीम् । इष्टकामसमृद्धयर्थं पुनरागमनाय च ।।’ इति ग्रहादीन तुलास्थांश्च देवान् विसृजेत् । ततो यजमानः ‘तनूपा ऽअग्नेसि’ इत्यादिभिः सप्तभिर्मत्रैः (सं० दी० प्र० १८१) ललाटात् चिबुकपर्यन्तं मुखं पाणिप्रतपनपूर्वकं माजयित्वा ‘ॐअङ्गानि च म ऽआप्यायन्ताम्’ इत्यादिभिरङ्गाप्यायनं च कृत्वा सुवलग्नं सघृतं भस्म अनामिकयाऽदाय न्यायुषकरणं कुर्यात् । “यज्ञ यज्ञं गच्छ” “गच्छ गच्छ सुरश्रेष्ठ” इत्यग्नि विसृज्य धृते छायां दृष्ट्वा तिलकरक्षाबन्धनाशीर्वादमत्रपाठादिकं कारयेत् । ग्रहपीठं ! प्रतिमा मण्डपवितानादि च आचार्याय दत्त्वा ‘यस्य स्मृत्या’ ‘प्रमा दात कुर्वतां कर्म’ ‘चतुर्भिश्च चतुर्भिश्च’ इतीश्वरापणं कृत्वा भुञ्जीत : इति । इति सहोमतुलादानप्रयोगः। तुलादाने नवकुण्डीपक्षस्य नृपक्षत्रियपरत्वाञ्चतुष्कुण्ड्याश्च बहा याससाध्यत्वादेककुण्डपक्षमाश्रित्यैव माध्यन्दिनशाखिनामनुष्ठेयस्तुला दानप्रयोगो निरूपितः । एककुण्डपक्षश्च एक वाशिवकाष्ठायां प्रतीच्यां वापि कारयेत् । इति सोमशम्भौ, नवकुण्डी-पञ्चकुण्डीपक्षद्वयमुक्त्वा ‘: ‘अथवा दिशि कुण्डमुत्तरस्यां प्रविदध्याच् चतुरस्रमेकमेव’ इति मृलागमे चाभिहितः । तदनुसारी तुलादानप्रयोगश्च राम चन्द्रभट्टादिभिः प्रदर्शितः । ताननुसत्यैवास्माभिरपि सुसाधत्वात्तथैव प्रयोगोऽभिहितः। :: तत्र च मण्डपसत्त्वे जापकद्वारपाला भवन्ति, तदभावे तु न भवन्ति इति कमलाकरादयः । भवन्त्येवेति हेमाद्रपादयः । दानप्रकरणे होमरहिततुलादानप्रयोगा। ८१ कुण्डस्याप्यभावे स्थण्डिलं कुर्यात् । तत्र च मेखलादिकं न क तव्यमिति रामचन्द्र भट्टादयः । स्थण्डिले मेखला कार्या कुण्डोक्ता स्थण्डिलाकृतिः । योनिस्तत्र न कर्तव्या कुण्डवत्तन्त्रवेदिभिः॥ इति सूतसंहितावचनात, समेखलं स्थण्डिलं तु प्रशस्तं होमकर्मणि । कण्ठं तु वर्जयेत्तत्र खाते कण्ठः प्रकीर्तितः ॥ इति वचनान्तराच्च योनिकण्ठयोनिषेधेऽपि मेखला भवत्येवेति कुण्डोदयोते नीलकण्ठः। रजततुलादानमपि पूर्वोक्तस्वर्णतुलोक्तेनैव विधिना कार्यम् । अनेनैव विधानेन केचिद्रूप्यमयं पुनः। ___ कपूरेण तथेच्छन्ति केचिद्राह्मणपुङ्गवाः ॥ इति हेमाद्रौ भविष्योत्तरवचनात् । अत्र सर्वकामसिद्धिः पापक्षयो विष्णुलोकावाप्तिश्च फलम् । एवं मुक्तादिनवरत्नतुलास्वपि । आत्मतुल्यं सुवर्ण वा रजतं रत्नमेव वा। यो ददाति द्विजातिभ्यस्तस्याप्येतत् फलं भवेत् ॥ इति विष्णुधर्मोक्तः । तेन रजततुलादानादावपि महादान त्वसिद्धिरिति । रजतादितुलादाने ‘यथा पवित्रमतुलम्’ इत्यादिमन्त्र पाठो न भवति । विलिङ्गत्वात् । ___ अथ होमरहिततुलादानप्रयोगः । तुलादानं प्रवक्ष्यामि सर्वपापप्रणाशनम् । यद् गौर्याऽऽचरितं पूर्व लक्ष्म्या नारायणेन च । पुण्यं दिनमथासाद्य तृतीयायां विशेषतः । गोमयेनानुलिप्तायां भूमौ कुर्याद्ध घटं शुभम् ॥ दारुज शुभक्षस्य चतुर्हस्तप्रमाणतः। सुवर्ण तत्र बध्नीयात स्वशक्त्या घटितं घटे । सौवर्णं स्थापयेत्तत्र वासुदेवं चतुर्भुजम् ।परिशिष्टदीपके शिक्यद्वयं तु बध्नीयात् स्थापयेत् पिटके ततः॥ तत्रारुहेत सवस्त्रास्त्रः सर्वालङ्कारभूषितः । अभीष्टां देवतां गृह्य स्नापयित्वा घृतादिभिः ॥ तुलापुरुषदानस्य विधिरेष प्रकीर्तितः । इति विष्णुधर्मोत्तरे वचनात् , तथा सिततृतीयायां नार्यः सौभाग्यदां तुलाम् । कुङ्कुमेन प्रयच्छन्ति लवणेन गुडेन वा ॥ न तत्र मन्त्रा होमो वा एवमेव प्रदापयेत् । इति भविष्योत्तरवचनाच होमादिरहितोऽपि तुलादानविधि वतीति गम्यते । अतस्तदनुसारेण घृतादितुलादानप्रयोगो लिख्यते । तत्र करिष्यमाणतुलादानदिनात् पूर्वदिने कृतैकभक्तादिनियम श्चन्द्रतारानुकूले शुभदिने पूर्वोक्तलक्षणं तोरणं तदभावे यज्ञियदारुच शोद्भवं पञ्चहस्तमितं स्तम्भ, सार्धचतुर्हस्तमितां पूर्वोक्तलक्षणां तुला च संपाद्य एकहस्तमितं गतं कृत्वा तस्मिन् स्तम्भ निखन्य तत्र दक्षि णोत्तरायतां तुला रज्ज्वादिनाऽवलम्ब्य तुलाद्रव्यस्थापनार्थं यजमाना वस्थित्यर्थं च शिक्यद्वयं काष्ठादिफलकयुगयुतं रज्ज्वादिना तथा तुलायामवलम्बयेत्, यथा भूमेः प्रादेशमात्रोच्चतां दध्यात् । ___ ततः कृतनित्यक्रियो यजमानः गोमयमृत्तिकादिना सुलिप्तायां भूमौ शुद्धासने प्राङ्मुख उपविश्य दीप प्रज्वलय्याऽऽचम्य ब्राह्मण द्वारा शान्तिपाठं ( स्वस्तिवाचन ) कारयित्वा सुमुखश्चेत्यादिना गणे शादिभ्यो देवेभ्यः पुष्पाञ्जलि समयं तुलादानकर्मणो निर्विघ्नता सिद्धयर्थं यथाविधि गणेशं सम्पूज्य प्रधानसंकल्पं कुर्यात् । __ अद्येहेत्यादिना देशकालौ संकीर्त्यामुकशर्माऽहं मम(१)आत्मनो दुष्टग्रहपीडाद्यखिलरोगादिनिवृत्तिपूर्वकदीर्घायुष्यप्राप्तिद्वारा श्रीपरमेश्व स्पीत्यर्थममुकतुलादानं करिष्ये तदङ्गत्वेन गणपतिसहितगौर्यादि (१) पुत्राधरिष्टनिवारणार्थ तुलादानाचरणे ममेत्यनन्तरम् अस्येत्या दिना पुत्रादेनामादि निर्दिशेत्। दानप्रकरणे होमरहिततुलादानप्रयोगः। ८३ षोडशमातृणां पूजनं नान्दीश्राद्धं पुण्याहवाचनं कलशे नवग्रहपूजनम् आचार्यवरणमङ्गदेवतापूजनं च करिष्ये इति संकल्प्य पूर्वोक्तविधिना ग्रहपूजनान्तानि कृत्वा तत्पतिग्रहार्थम् आचार्य्यस्य पूजनपूर्वकं वरणं करिष्ये इति संकल्प्य प्राचार्य गन्धादिना पूजयेत् । ततः एभिर्ग न्धाक्षतपुष्पपूगीफलयज्ञोपवीतपुष्पमालावासोऽलंकरणद्रव्यैः अमुकतु लादानप्रतिग्रहार्थम् अमुकगोत्रम् अमुकवेदाध्यायिनम् अमुक शाणम् आचार्यत्वेन त्वामहं वृणे इति वृणुयात् । वृतोऽस्मीति प्रतिवचनम् । तत आचार्य प्रार्थयेत् आचार्यस्तु यथा स्वर्गे शक्रादीनां बृहस्पतिः । तथा त्वं मम यज्ञेऽस्मिन्नाचार्यो भव सुव्रत ॥ इति । ततः सुवर्णनिर्मितां मृत्युञ्जयप्रतिमां गोविन्दप्रतिमां च अग्न्युत्तारणपूर्वकं स्थाल्यां निधाय पञ्चामृतेन पयः पृथिव्यामित्या दिमन्त्रैः संस्नाप्य पूजयेत् । तत्र संकल्प:-अयेहेत्यादि संकीर्त्य अमुकोऽहं मम दुष्टग्रहजनि ताखिलरोगनिवृत्तिपूर्वकदीर्घायुष्यप्राप्तिद्वारा श्रीपरमेश्वरप्रीतये करि ज्यमाणतुलादानकर्मणि सुवर्णप्रतिमयोः मृत्युञ्जयदेवस्य गोविन्द देवस्य च पूजनं करिष्ये । सुवर्णप्रतिमयोः मृत्युञ्जयदेवं गोविन्ददेवं च ‘एतन्त इत्यादिना प्रतिष्ठाप्य ध्यानम् । (१)मृत्युञ्जयश्च देवोऽयं चतुर्बाहुत्रिलोचनः । अक्षमालाधरो देवो दक्षिणेन तु पाणिना ॥ वामेनामृतकुण्डी च धारयन्नमृतान्विताम् । वरदाभयपाणिश्च दिव्याभरणभूषितः॥ शुक्ल: सुनीलवासाश्च पास्योपरि संस्थितः । . (१) इदं ध्यानम्, ॐजाँ हृदयाय नमः इत्यादिन्यासः, ॐन॑सः इति तान्त्रिकमन्त्रेण पूजनं, जयादिशक्तिपूजनं च मदनरत्नादौ देवीपुराणेऽभि हितम् । पञ्चामृतेन स्नापन, चन्दनागरुकपूराघुपवारा:, ‘देवदेव’ इत्या दिपार्थनं च स्कन्दपुराणोक्तं तत्रैव । श्रयमेव मृत्युञ्जयप्रातविधिः सर्वेषु मृत्युञ्जयोक्तदानेषु कर्तव्यत्वेन स्मृत इति ।

  • परिशिष्टदीपके इति मृत्युञ्जयं ध्यात्वा गोविन्द ध्यायेत् अधश्चक्रं गदामू दक्षिणे वामयोः क्रमात् । ऊर्चे शंखमधः पद्मं गोविन्दः कपिलाङ्गकः ॥ इति । एवं ध्यात्वा मृत्युञ्जयप्रतिमायाम् आत्मनि च न्यासं कुर्यात् । ॐजाँ हृदयाय नमः ॐजी शिरसे स्वाहा ॐघ्र शिखायै वषट् ॐ. कवचाय हुम् ॐजाँ नेत्रत्रयाय वौषट् ॐजः अस्त्राय फट् इति देवे आत्मनि च न्यासं विधाय ‘ॐ जूंसः’ इति तान्त्रिकेण ॐव्य म्बकमिति वैदिकेन च मन्त्रेण पाद्यादिभिर्मत्युञ्जयं पूजयेत् । सुग न्धिनलेन स्नानम् । ततश्चन्दनागरुकर्पूरककोलमृगनाभिभिर्विलेपनम् । अक्षतर्जात्यादिपुष्पैः बिल्वपत्रादिभिश्व संपूज्य धृपदीपनैवेद्यताम्बल दक्षिणादि निवेद्य आवरणपूजां कुर्यात्-प्रागादिप्रादक्षिण्येन ॐज यायै नमः ॐविजयायै नमः ॐअजितायै नमः ॐअपराजितायै नमः ॐभद्रकाल्यै नमः ॐकपालिन्यै नमः ॐक्षेम्यायै नमः ॐमृत्युपरा जितायै नमः इति सम्पूज्य मृत्युञ्जयं प्रार्थयेत् देवदेव जगन्नाथ कृपालो परमेश्वर । मामुद्धरस्व संसारपङ्कसंकोचदुःखितम् ।। इति, व्यम्बकमिति च संप्रार्थ्य ____ गोविन्दाय नमः इति मन्त्रेण पुरुषसूक्तेन च पाद्यादि नीराजनान्तं गोविन्दं संपूज्य (१)तोलनीयघृतादिद्रव्याधिदेवतां (१)तत्र लोहस्याधिदेवता महाभैरवा, कांस्यस्य रङ्गस्य च अश्विनी, सोसस्य वायुः, ताम्रस्य सूर्यः, पित्तलस्य भौमा, रजतस्य पितररा, सुव र्णस्य सर्वदेवता, फलानां सामः, गुडस्य आपा, ताम्बूलस्य विनायकर, पुष्पाणां गन्धर्वाः, काष्ठस्य अग्नि, माक्षिकमधुनो यक्षा, घृतस्य मृत्युख या, दुग्धस्य तारागणाः, दन: सर्पाः, पिष्टस्य प्रजापति, अन्नस्य सर्वदे पताः इति गरुडपुराणे तोलनीयद्रव्याधिदेवता निर्दिष्टाः। लोहादितुलादानानांफलविशेषाश्चगारुडोक्ताःप्रयोगान्ते प्रदर्शयिष्यन्ते। “तुलापुरुषवानं तु शृणु मृत्युञ्जयोद्भवम्” इत्युपक्रम्य सर्वेषामेव ध ताशादितुलादानानां निर्दिष्टस्वात् मध्ये मृत्युञ्जयपूजाविधिमुक्वा ‘मृत्युख. योक्तदानेषु सर्वेष्वेवं विधिः स्मृता’ इत्युपसंहाराच सर्वत्रैव मृत्युञ्जयपूज नस्यावश्यकत्वलाभात्तथैव प्रयोगो दर्शितः। R दानप्रकरणे होमरहिततुलादानप्रयोगः। ४५ मृत्युञ्जयादिकां घृतादौ सम्पूज्य गोविन्दप्रतिमां तुलामध्यावलम्बित शृङ्खलायां तथा सूत्रादिनाऽवलम्बयेत् , यथा तुलोत्तरपिटके स्थितस्तां द्रष्टुं शक्नुयात् । ततः ‘एतन्त’ इत्याधुच्चार्य तुले सुप्रतिष्ठिता भव इति प्रतिष्ठाप्य ॐतुलायै नमः इति गन्धाक्षतपुष्पैः सम्पूज्य रक्तादि वस्त्रेण तुलां समाच्छाद्य तुलायामुत्तरवृद्धया ईशादिचतुर्विंशतिदेवताः वक्ष्यमाणनाममन्त्रैः आवाह्य प्रतिष्ठाप्य पूजयेत्-ईशाय नमः १ ॐशशिने नमः २ ॐमारुताय नमः ३ ॐरुद्राय नमः ४ ॐसूर्याय नमः ५ ॐविश्वकर्मणे नमः ६ ॐ गुरवे नमः ७ ॐअङ्गिरोऽग्निभ्यां नमः ८ प्रजापतये नमः । ॐविश्वेभ्योदेवेभ्यो नमः १० ॐजग द्विधात्रे नमः ११ ॐपर्जन्यशम्भुभ्यां नमः १२ ॐपितृदेवताभ्यो नमः १३ ॐसोमाय नमः १४ ॐधर्माय नमः १५ ॐअमरराजा य नमः १६ ॐअश्विभ्यां नमः १७ ॐजलेशाय नमः १८ ॐमि त्रावरुणाभ्यां नमः १६ ॐमरुदणेभ्यो नमः २० ॐधनेशाय नमः २१ ॐगन्धर्वाय नमः २२ ॐजलेशाय नमः २३ ॐविष्णवे नमः २४ इति सम्पूज्य तुलामध्यशृङ्खलायाम् ॐवासुकये नमः इति वा सुकिं, तुलाप्रान्तयोः ॐअनन्ताय नमः इति मन्त्रावृत्त्या अनन्तं, पि टकाधोभागे ‘ॐभूम्यै नमः’ इति भूमि, पिटकमध्ये ‘ॐभूम्यधिपतये नमः’ इति भूम्यधिपति, पिटकशृङ्खलासु ‘ॐसर्पेभ्यो नमः’ इति म त्रावृत्त्या सर्वांश्च सम्पूज्य ततः शुक्लमाल्याम्बरधरः शुक्लगन्धानुले पनो गृहीतकुसुमाञ्जलिर्यजमानस्त्रिधारं तुलां प्रदक्षिणीकृत्य तुलाम भिमन्त्रयेव लोहतुलायां विशेषस्तु प्रतिग्रहीतुः हृदये, शिरसि, ललाटे जिह्वामूले, गण्डयो, नाभौ, ब्रह्मगुधे च इत्यङ्गाष्टके ॐāसः इति मन्त्रं न्यस्य षष्टिप लिकं पञ्चाशत्पलिकं वा हस्तमात्रं लोहदण्डम् अनमिश्रितं कृत्वा वस्त्रेणा च्छाद्य तुलितलोहेन सह प्राचार्याय दद्यादिति । यमदण्डनिवृत्तिश्च दण्ड दानफलमुक्तं तत्रैव। स्कन्दपुराणे तु “आत्मानं तोलयित्वा तु दद्याल्लोहं च तरसमम् । दि. जाय शिवभक्ताय यदाऽन्यस्मै द्विजातये ॥ पादुकोपानहच्छत्रचामरासन संयुतम्’ इति विशेषाऽभिहिता लोहतुलायाम् इति दिक। परिशिष्टदीपक ॐनमस्ते सर्वदेवानां शक्तिस्त्वं सत्यमाश्रिता । साक्षिभूता जगद्धात्री निर्मिता परमेष्ठिना ॥ एकतः सर्वसत्यानि तथाऽनृतशतानि च । धर्माधर्मकृतां मध्ये स्थापिताऽसि जगद्धिते ॥ त्वं तुले सर्वभूतानां प्रमाणमिह कीर्तिता । मां तोलयन्ती संसारादुद्धरस्व नमोऽस्तु ते । योऽसौ तत्त्वाधिपो देवः पुरुषः पञ्चविंशकः । स एषोऽधिष्ठितो देवि त्वयि तस्यान्नमोऽस्तु ते ॥ इति तुलोपरि पुष्पाणि क्षिप्त्वा पुनः पुष्पाणि संगृह्य गोवि न्दं प्रार्थयेत् ॐनमो नमस्ते गोविन्द तुलापुरुषसंज्ञक । त्वं हरे तारयस्वास्मानस्मात्संसारसागरात् ॥ - इत्यञ्ज लिस्थानि पुष्पाणि तुलास्थगोविन्दोपर्यवकीर्य पुनः प्रदक्षिणीकृत्य अङ्के (१)स्वेष्टदेवमादाय प्राङ्मुखस्तुलाया उत्तरभागे वस्त्रास्तृते गृहीतकुसुमाञ्जलिः सूत्रेण गोमयादिना वा तुलायामवल म्बिताया गोविन्दप्रतिमाया मुखं पश्यन् सावधानतयाऽऽसीत । दक्षि भागे समादधिकं तोलनीयताम्र-घृतादिद्रव्यमाचार्यादिः स्थापयेत् । पुष्टिकामे यजमाने भूमिसंस्थं यावता दक्षिणपिटकं भवति तावत्स्था पयेत् । ततस्तुलायां क्षणमात्रं स्थित्वा मन्त्रं पठेत् । ॐनमस्ते सर्वभूतानां साक्षिभूते सनातनि । पितामहेन देवि त्वं निर्मिता विश्वयोनिना ॥ स्वया धृतं जगत्सर्वं सह स्थावरजङ्गमैः। सर्वभूतात्मभूतेशे नमस्ते विश्वधारिणि । इति पठित्वाऽवतीयं गन्धपुष्पादिभिस्तोलितद्रव्यं (२)संपूज्य (१) तत्रारुहेत् सवस्त्रास्त्रः पुष्पालङ्कारभूषितः। अभीष्टां देवतां गृह्य स्नापयित्वा घृतादिभिः ॥ इति सामान्यतुलादाने विष्णुधर्मोत्तरे इष्टदेव ताग्रहणमात्रस्यैव निर्देशान्न सूर्यधर्मराजयोरत्र ग्रहणमिति बोध्यम्। , (२) योऽचिंतः प्रतिगृह्णाति अ यरवा प्रयच्छति । उभौ तौ गच्छत स्वर्ग नरकं तु विपर्यये ॥” इति दानकमलाकरे मनुक्वनात्। . दानप्रकरणे होमरहिततुलादानप्रयोगः। ८७ वस्त्रेणावेष्टय संकल्पं कुर्यात् । अद्येहेत्यादिना देशकालौ संकीर्त्य अमुकोऽहं मम (अस्य शिशोरिति वा) दुष्टग्रहजनितसर्वारिष्टनिवृत्ति पूर्वकदीर्घायुष्यप्राप्तिद्वारा श्रीपरमेश्वरप्रीतये आत्मसमतोलितमिदममु कद्रव्यममुकदैवतम् , एतस्य तृतीयांश, चतुर्थांशं वा प्राचार्याय सं प्रददे । अवशिष्टमिदं द्रव्यं च अन्येभ्यो ब्राह्मणेभ्यः समाश्रितबन्धु वर्गेभ्यो दीनानाथेभ्यः स्त्रीभ्यश्च यथांशेन विभज्य दास्ये । तथा अ मुकद्रव्यतुलादानकर्मणः साङ्गफलमाप्तये सादगुण्यार्थं च इदं कर्ष मितं सुवर्णं, तदर्धं, तदर्थं, यथाशक्ति वाऽचार्याय दक्षिणां संपददे। न्यूनातिरिक्तदोषपरिहारार्थम् इमां भूयसीं दक्षिणां नानानामगोत्रेभ्यो ब्राह्मणेभ्योऽन्येभ्यश्च विभज्य दास्ये। तुलादानकर्मणः साङ्गफलप्रा प्त्यर्थं यथासंख्याकान् ब्राह्मणान् यथोपपन्नेन सिद्धान्नेन वा तर्पयि ज्ये इति सङ्कल्प्य दक्षिणां दत्त्वा ‘उत्तिष्ठ ब्रह्मणस्पते’ ‘यान्तु देव गणा’ इति च सर्वान् देवान् विसृज्य आचार्याय तुलां तदुपस्करादि च देवताप्रतिमाश्च संकल्प्य दत्त्वा प्रणमेत् । घृते छायां दृष्ट्वा अभिषे कतिलकमन्त्रपाठादि कारयेत् । तुलाद्रव्यं शीघ्र ब्राह्मणेभ्योऽन्येभ्य श्व विभज्य दद्यात् , न चिरं स्थापयेत् । ‘यस्य स्मृत्या’ इति ‘प्रमा दात कुर्वता’ ‘कायेन वाचा’ इति ईश्वरार्पणं कृत्वा यथाशक्ति ब्राह्म णान्भोजयित्वा स्वयं भुञ्जीत ॥ ___ इति होमरहितघृतादितुलादानप्रयोगः । रोगविशेषनाशनार्थं द्रव्यविशेषेण तुलादानान्युक्तानि गारुडे तुलापुरुषदानं तु शृणु मृत्युञ्जयोद्भवम् ।। अथ लोहं प्रदातव्यं सर्वरोगोपशान्तये ॥ १ ॥ कांस्यं च यक्ष्मणे देयं त्रपु चार्चाविकारके । अपस्मारे च सीसं स्यात्तानं कुष्ठे सुदारुणे ॥२॥ पैत्तलं रक्तपित्ते च रूप्यं प्रदरमेहयोः । सौवर्ण सर्वरोगेषु प्रदद्यान्मृत्युनोदनम् ॥ ३ ॥ फलोद्भवं तथा दद्याद ग्रहण्यां दीर्घदारुणे। परिशिष्टदीपके गौड भस्मकरोगे तु पौगं तु गण्डमालके ॥४॥ जाङ्गलं चाग्निमान्ये तु रोमोत्पाते तु पौष्पकम् । जागलं = काष्ठजम् । मधूद्भवं तथा देयं कासश्वासजलोदरे ॥५॥ घृतोद्भवं तथा देयं छर्दिरोगोपशान्तये । क्षीरं पित्तविनाशाय दाधिकं भगदारणे ॥६॥ लावणं वेपनाशाय पैष्टं दद्रुविनाशने । अन्नं च सर्वरोगस्य नाशनं स्मृतमेव च ॥७॥ आ? यदा स्यात् पात्रं वा प्राप्नुयात् पुण्यदेशतः। नित्यं मृत्युञ्जयप्राप्तविधिना यत् प्रदीयते ॥ ८ ॥ तदेव सर्वशान्त्यर्थं भवतीह न संशयः । इति । इति तुलादानम् ॥ हिरण्यगर्भादिमहादानानां प्रयोगो हेमाद्रयादौ द्रष्टव्यः । अथातिदानानि हेमाद्रौ भविष्ये त्रीण्याहुरतिदानानि गावः पृथ्वी सरस्वती । नरकादुद्धरन्त्येता जपवापनदोहनैः ।। इति । • अथ गोदानम् । तस्य देशकाला उक्ताः स्मृत्यन्तरे अयने विषुवे पाते वैधृतौ सूर्यसंक्रमे । क्षीणेन्दौ पौर्णमास्यां वा द्वादश्यां राहुपर्वणि ।। मन्वादौ च युगादौ च जन्मः पुत्रजन्मनि । यात्राकाले महोत्पाते दुःस्वप्नेऽद्भुतदर्शने ॥ व्रते यागे प्रतिष्ठासु गावो देयाः शुभार्थिना । तोर्थे देवालये गोष्ठे सङ्गमे यज्ञमण्डपे ।। शालग्रामशिलाग्रे च शिवलिङ्गस्य सन्निधौ । इत्यादिशुभदेशेषु स्वगृहे वा पयस्विनीम् ।। दद्यादास्तिक्यबुद्धया तां सहेमां द्विजपुङ्गवे । इति । दानप्रकरणे गोदानविधिः । तत्र स्वरूपतो गोदानं महाभारते दानानामिह सर्वषां गवां दानं विशिष्यते । गावः श्रेष्ठाः पवित्राश्च पावना जगदुत्तमाः॥इति। हेमाद्रौ भविष्ये शृङ्गमूले गवां नित्यं ब्रह्मविष्णू समाश्रितो । शृङ्गाग्रे सर्वतीर्थानि स्थावराणि चराणि च ॥ शिरोमध्ये महादेवः सर्वदेवमयः स्थितः। ललाटाग्रे स्थिता गौरी नासावंशे च षण्मुखः॥ कम्बलाश्वतरौ नागौ नासापुटमुपाश्रितौ॥ कर्णयोरश्विनौ देवौ चक्षुषोः शशिभास्करौ । दन्तेषु वायवः सर्वे जिज्ञायां वरुणः स्थितः ॥ सरस्वती च हुङ्कारे मासपक्षौ च गण्डयोः। सन्ध्याद्वयं तथौष्ठाभ्यां ग्रोवामिन्द्रः समाश्रितः ।। रक्षांसि कतदेशे तु साध्याश्चोरसि संस्थिताः । चतुष्पात्सकलो धर्मः स्वयं जङ्घासु संस्थितः ॥ खुरमध्ये तु गन्धर्वाः खुराग्रेषु च पन्नगाः। खुराणां पश्चिमाग्रेषु गणा ह्यप्सरसां स्थिताः ।। रुद्राश्चैकादश पृष्ठे वसवः सर्वसन्धिषु । श्रोणीतटस्थाः पितरः सोमो लालमाश्रितः ॥ आदित्यरश्मयो वालाः पिण्डीभूता व्यवस्थिताः। साक्षाद् गङ्गा च गोमूत्रे गोमये यमुना स्थिता ॥ क्षीरे सरस्वती देवी नर्मदा दनि संस्थिता । हुताशनः स्वयं सपिाह्मणानां गुरुः परः॥ . अष्टाविंशति देवानां कोट्यो रोमसु संस्थिताः। उदरे पृथिवी ज्ञेया सशैलवनकानना ॥ चत्वारः सागराः पूर्णा गवां ये तु पयोधराः। एतद्वः कथितं सर्वं यथा गोषु प्रतिष्ठितम् ॥ जगदै देवशार्दूल सदेवासुरमानवम् । इति । Salt IPTET U परिशिष्टदीपके तत्तदङ्गे तत्तदेवतावाहनपूर्वक पूजनं कर्तव्यम् । तत्कीर्तन स्य तदर्थत्वात्। | খ লং জ্বালা। विश्वामित्र:-प्राङ्मुखीं गामवस्थाप्य सवत्सां तां सुपूजिताम् । पुच्छदेशे तु दाता वै स्नातो बदशिखो भवेत् ॥ उदङ्मुखस्तु विप्रः स्यात् पात्रलक्षणलक्षितः । आज्यपात्रं करे कृत्वा कनकेन समन्दितम् ॥ निक्षिप्य पुच्छं तस्मिस्तु घृतदिग्धं प्रगृह्य च । सतिलं विप्रपाणिं तु प्रागनं तु निधापयेत् ॥ सतिलं सकुशं चापि गृहीत्वा दानमाचरेत् । अनेनैव तु मन्त्रेण पात्रहस्ते जलं क्षिपेत् ॥ यज्ञसाधनभूता या विश्वस्याघप्रणाशिनी। विश्वरूपधरो देवः पीयतामनया गवा ॥ अनुव्रज्य तु तां धेनुं ब्राह्मणेन समन्विताम् । गोमती तु ततो विद्यां जपेच्च प्रयतः शुचिः॥ जपश्च दक्षिणादानानन्तरम् । अनुव्रज्येज्युक्तः। उद्दिश्य वासुदेवं वा प्रीयतामितिचानघः। पात्रं मनसि संचिन्त्य तोयमप्सु विनिक्षिपेत् ।। जलशायी ब्रह्मपिता पद्मनाभः सनातनः। अनन्तभोगशयनः प्रीयतां परमः पिता ॥ इति । गोमती विद्या च प्रयोगे वक्ष्यते । दक्षिणामाह वसिष्ठः-सुवर्णं दक्षिणामाहुर्गोप्रदाने महाफले । सुवर्ण परमं ह्याहुदक्षिणार्थे न संशयः॥ गोपदानं तारयते सप्त पूर्वान् परांस्तथा । सुवर्ण दक्षिणां दत्त्वा तावदद्विगुणमुच्यते ॥ सुवर्णं परमं दानं सुवर्ण दक्षिणा परा । सुवर्णं पावनं पाहुः परिमाणं परं तथा ॥ अत्र सुवर्णशब्दस्य क्लीवत्वेन हिरण्यपर्यायत्वात्परिमाणधि शेषविशिष्टावाचकत्वेन यथाशक्ति तदानं बोध्यम् । 5 दान महनणे बृहद्बोदानयोगः। ९१ अथैतदनुसारी गोहानप्रयोगः। तत्र दाता सुल्नातः लुमालितपाणिपादः सुलिप्तायां कर्म भूमौ स्वासने प्राङमुख उपविश्य दीपं प्रज्वलय्य करौ सपवित्रौ कृत्वा स्वाचान्तः यथोक्लम सवत्सां गां प्राङ्मुखीमवस्थाप्य यथोक्तलक्षणं ब्राह्मणम् उदङमुखं संस्थाप्य गणेशविष्णुगुरुन् गन्धपुष्पादिना संपूज्य नमस्कृत्य च स्वाग्रभूमौ उक्तविधिना अधु संस्थाप्य जलेनापूर्य गन्धपुष्पाक्षतादि तूष्णीं निक्षिप्य सूर्यायाऱ्या दत्त्वा पुनर संस्थाप्य तेन जलेनात्मानं सर्वा गोदानसामग्री च सम्मोक्ष्य प्राणायाम विधाय भूतोत्सादनं कृत्वा कुशतिलयवजला न्यादाय प्रधानसंकल्पं कुर्यात् ।। ॐ विष्णुः ३ ॐनमः परमात्मने इत्यादिदेशकालकीर्तनान्ते अमुकनामसंवत्सरेऽमुकायने मुझौ अमुकमासेमुकपक्षेऽमुकतिथौ अमुकनक्षत्रे असुकयोगे अमुककरणे अमुकवासरे अमुकराशिस्थिते सवितरि अमुकस्थे चन्द्रे अमुकस्थे देवगुरौ अमुकपुण्यकाले अमुक गोत्रोऽमुकराशिरमुकशाऽहम् अात्मना सह (१)एकविंशतिपुरुषता रणार्थं वा, (२)चतुर्दशकुलोदारार्थं वा स्वर्गप्राप्त्यर्थं (३) वा (४) त्रिवित्तपूर्णपृथिवीदानजन्यसमफलप्राप्त्यर्थं वा (५)सकलपापक्षय (१) गौरेकस्यैव दातव्या श्रोत्रियस्य विशेषतः। सा हि तारयते पूर्वान् सप्त सप्त च सप्त च ॥ इति हेमाद्रौ अङ्गिरोवचनात् । (२) गोप्रदानं तारयते सप्त पूर्वान् परांस्तथा । इति हेमाद्रौ वसिष्ठ वचनात् । (३) यथाकथञ्चिहत्त्वा गां धेनुं वाऽधेनुमेव वा। अरोगोमपरिक्लिष्टां दाता स्वर्ग महीयते ॥ इति तत्रैव याज्ञवल्क्यवचनात् । (४) होमार्थमग्निहोत्रस्य यो गां दद्यादयाचिताम्। निर्वित्तपूर्णा पृ. थिवी तेन दत्ता न संशयः ॥ इति तत्रैव जाबालिवचनात् । मत्र योगसि द्धयधिकरणन्यायेन एकैकप्रयोगस्यकैकफलकत्वमेव । समुञ्चयस्थात्र फल स्खे मानाभावात् । (५) कीर्तनं श्रवणं दानं दर्शनं चापि पार्थिव । गवां प्रशस्यते वीर सर्वपापहरं परम् ॥ इति हेमाद्रौ महाभारतोक्तेः। यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ इति भगवद्गीतायां कर्ममात्रस्य ईश्वरार्पणबुद्धयाऽनुष्ठान विधानाच।परिशिष्टदीपके द्वारा श्रीयज्ञपुरुषप्रीतये वा यथाशक्ति गोदानं करिष्ये । तत्पतिग्रहार्थ ब्राह्मणस्य पूजनपूर्वकं वरणं करिष्ये इति संकल्प्य स्वदक्षिणतो यज्ञियक्षोद्भवासने उपविष्टम् उदङ्मुखं ब्राह्मणं पूजयेत् । श्रोवि ष्णुस्वरूपिणे ब्राह्मणाय एतदासनं ते नमः इति कुशासनम् । श्रीविष्णुस्वरूपिणे ब्राह्मणाय पाद्यम् ॐआपद्धनध्वान्तसहस्रभानवः समीहितार्थार्पणकामधेनवः । समस्ततीर्थाम्बुपवित्रमूर्तयो रक्षन्तु मां ब्राह्मणपादपांसवः ॥१॥ समस्तसम्पत्समवाप्तिहेतवः समुत्थितागःकुलधूमकेनवः।। अपारसंसारसमुद्रसेतवः पुनन्तु मां ब्राह्मणपादपांसवः ॥२॥ विप्रौपदर्शनाक्षिण क्षीयन्ते पापराशयः। वन्दनान्मङ्गलावाप्तिरर्चनादच्युतं पदम् ॥ ३ ॥ आधिव्याधिहरं नणां मृत्युदारिद्रय नाशनम् । श्रीपुष्टिकीत्तिदं वन्दे विपश्रीपादपङ्कजम् ॥ ४ ॥ यत्फलं कपिलादाने कात्तिक्यां ज्येष्ठपुष्करे। तत्फलं पाण्डवश्रेष्ठ विप्राणां पादशोधने ॥ ५ ॥ इति पादप्रक्षालनं विधाय भूमिदेवाग्रेत्यय॑म् । गन्धद्वारामिति चन्दनादि विलेपनम् । नमोस्त्वनन्तायेति पुष्पमालादिभिः मुकुटक कुणकुण्डलादिभिश्च सम्पूज्य वरणं कुर्य्यात-एभिर्गन्धाक्षतपुष्पमा लावस्त्रयुगकङ्कणकुण्डलच्छत्रोपानत्कमण्डलुद्रव्ययज्ञोपवीतफलताम्बूला दिभिर्गोदानप्रतिग्रहार्थम् अमुकगोत्रम् अमुकवेदाध्यायिनम् अमुक शाणं ब्राह्मणं त्वामहं वृणे। वृतोऽस्मीति ब्राह्मणो वदेत् । ततो ब्राह्मणं प्रार्थयेव …. यदर्चनं कृतं विप्र तब विष्णुस्वरूपिणः । तत्सर्वं मम दीनस्य विष्णवेऽस्तु समर्पणम् ॥ इति सम्मायें स्वपुरतः प्राङ्मुखीमवस्थितां गां, वत्सं च तदु तरतोऽवस्थितं पूजयेत् । तत्र सङ्कल्पः अद्येहत्यादि संकीर्त्य अमु कोऽहं. गोदानपूर्वाङ्गत्वेन सवत्साया: गोः पूजनं करिष्ये इति संकल्प्य अक्षतपुष्पाणि गृहीत्वा दानप्रकरणे बृहगोदानप्रयोगः। ॐआवाहयाम्यहं देवीं गां त्वां त्रैलोक्यमातरम् । यस्याः स्मरणमात्रेण सर्वपापैः प्रमुच्यते । त्वं देवी त्वं जगन्माता त्वमेवासि वसुन्धरा । गायत्री त्वं च सावित्री गङ्गा त्वं च सरस्वती ॥ तृणानि भक्षसे नित्यममृतं सबसे प्रभो। भूतप्रेतपिशाचाँश्च पितृदैवतमानुषान् ॥ सर्वांस्तारयसे देवि नरकात्पापसंकटात् । इति आवाय पूजयेत् । (१)ॐसवत्साय गवे नमः पाद्यम् , अय॑म् , आचमनीयं, स्नानम् । ॐगोः अग्रपादाभ्यां नमः । ॐगोः पश्चात्पादाभ्यां नमः । ॐदेहस्था या च रुद्राणां शंकरस्य सदा प्रिया। धेनुरूपेण सा देवी मम पापं व्यपोहतु ॥ ॐगोरास्याय नमः। विष्णोक्षसि या देवि स्वाहा या च विभावसोः । चन्द्रार्कशकशक्तिों सा धेनुर्वरदाऽस्तु मे ॥ ॐगोः शृङ्गाभ्यां नमः । ॐगोः कर्णाभ्यां नमः । ॐचतुर्मुखस्य या लक्ष्मीर्या लक्ष्मीर्घनदस्य च । लक्ष्मोर्या लोकपालानां सा धेनुर्वरदास्तु मे ॥ ॐगोः पृष्ठाय नमः। अस्वधा त्वं पितृमुख्यानां स्वाहा यज्ञभुजां तथा । सर्वपापहरा धेनुस्तस्माच्छान्ति प्रयच्छ मे ॥ ॐगोपुच्छाय नमः । वस्त्रम् ॐआच्छादनं मया दत्तं सम्यकशुद्धं सुनिर्मलम् । (२)श्रा गाये अग्मन्नुत भद्रमन्त्सीदन्तु गोष्ठे ग्णयन्त्वस्मे । प्रजा वती पुरुरूपा इह स्युरिन्द्राय पूर्वीरुषसो दुहानाः ॥ इति श्राग्वैदिकेन च मन्त्रण पूजनं दानकमलाकरे उकम् । गोपथब्राह्मणे गोसहस्रदानप्रकरणे एतदादिनाऽष्टचन सूक्तेन होमविधानात्। गोस्तुतिपरेण तेन पूजनस्य न्याय्यत्वाच्च। ९४

ব্যারিষ্টাব্দ सुरभिर्वत्रदानेन प्रीयतां परमेश्वरी॥ गन्धम्-ॐसर्वदेवप्रियं देवि चन्दनं चन्द्रसचिभम् । कस्तूरीलङ्कमान्यं च गोर्गन्धः प्रतिगृह्यताम् ।। ॐगवे नमः । अक्षताः पुष्पाणि च ॐनमो वो विश्वमूर्तिभ्यो विश्वमातृभ्य एव च । लोकाधिवासिनीभ्यश्च रोहिणीभ्यो नमोनमः ।। ॐगवे नमः। अक्षतः पुष्पमालाभिश्च सम्पूज्य धूपम् –ॐआनन्दकृत सर्वलोके देवानां च सदा पिये। ___ गौस्त्वं पाहि जगनाथे धूपोऽयं प्रतिगृह्यताम् ।। अनेनैव “दीपोऽयं प्रतिगृह्यताम्” इति श्लिष्टेन दीपम् । नैवेद्यम्-ॐसुरभिस्त्वं जगन्माता नित्यं विष्णुपदे स्थिता । गोग्रासोऽयं मया दत्तो नैवेद्यं प्रतिगृह्यताम् ॥ घण्टाचामरमन्त्रः-ॐयत्ते मयापितंशुद्धं घण्टाचामरमुत्तमम् । __वेयं तद् गृहाण त्वं मुनित्रिदशवन्दिते ॥ एवमादीनि सर्वाणि जलपूर्वं दद्यात् । ततः ॐनमो गोभ्यः श्रीमतीभ्यः सौरमेयीभ्य एव च । नमो ब्रह्मसुताभ्यश्च पवित्राभ्यो नमोनमः ॥ इति नमस्कृत्य ॐगवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश । ब्रह्मादयस्तथा देवा रोहिण्यः पान्तु मातरः॥ या लक्ष्मीः सर्वदेवानां या च देवी च रोहिणी। धेनुरूपेण सा देवी मम पापं व्यपोहतु ॥ इति प्रार्थ्य गावो मे अग्रतः सन्तु गावो मे सन्तु पृष्ठतः। __ गावः शिरसि मे नित्यं गवां मध्ये वसाम्यहम् ॥ इति प्रदक्षिणीकुर्यात् । - ततो गोदेहे देवतीर्थान्यावाहयेव पूजयेच । शृङ्गमूले ॐब्रह्मविष्णु भ्यां नमः । शृङ्गाग्रे ॐसर्वतीर्थेभ्यो नमः । शिरोमध्ये ॐमहादेवाय नमः । ललाटे ॐगौर्यै नमः । नासारन्ध्र ॐषण्मुखाय नमः ।

दानप्रकरणे बृहद्गोदानप्रयोगः। ९५ नासापुटयोः ॐकम्बलाश्वतराभ्यां नमः । कर्णयोः ॐअश्विभ्यां नमः। चक्षुषोः ॐशशिभास्कराभ्यां नमः । दन्तेषु ॐवायुभ्यो नमः । जि वायां ॐवरुणाय नमः । हुंकारे ॐसरस्वत्यै नमः । गण्डयोः-ॐमा सपक्षाभ्यां नमः । श्रोष्ठयोः ॐसन्ध्यायाय नमः । ग्रीवायाम् ॐइ न्द्राय नमः । कक्षे ॐरक्षोभ्यो नमः । उरसि ॐसाध्येभ्यो नमः । जङ्घासु ॐधाय नमः । खुरमध्ये ॐगन्धर्वेभ्यो नमः । खुराग्रेषु ॐपन्नगेभ्यो नमः । खुरपश्चिमाग्रेषु ॐअप्सरोगणेभ्यो नमः । पृष्ठे ॐएकादशरुद्रेभ्यो नमः । सर्वसन्धिषु ॐवसुभ्यो नमः । श्रोण्योः ॐपितृगणेभ्यो नमः । पुच्छे ॐसोमाय नमः । पुच्छकेशेषु ॐसूर्य रश्मिभ्यो नमः । गोमूत्रे ॐगङ्गायै नमः । गोमये ॐयमुनायै नमः। क्षोरे सरस्वत्यै नमः ।दभि नर्मदायै नमः । घृते वह्नये नमः । रोम सु ॐअष्टाविंशतिदेवकोटिभ्यो नमः । उदरे ॐपृथिव्यै नमः । स्तने षु ॐचतुःसागरेभ्यो नमः। इति गोदेहे ब्रह्मादिदेवान् गङ्गादितीर्थांश्चावाह्य सम्पूज्य एते यस्यास्तनौ देवाः सा धेनुर्वरदाऽस्तु मे । इति प्रार्थ्य शक्तौ सत्यां स्वर्णशृङ्गी रौप्यखुरां ताम्रपृष्ठां लाङ्गुलसमर्पितर नमुक्ताफलां घण्टाचामरविभूषितां सुवस्त्राच्छन्नां च गां विधाय तत्स मोपै कांस्यमयं दोहनपात्रं च संस्थाप्य पुनः प्रार्थयेत् ॐनमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव च । नमो ब्रह्मसुताभ्यश्च पवित्राभ्यो नमोनमः ॥ गावो ममाग्रतः सन्तु गावो मे सन्तु पृष्ठतः। गावो मे पाश्वयोः सन्तु गवां मध्ये वसाम्यहम् ।। पश्च गावः समुत्पन्ना मथ्यमाने महोदधौ। तासां मध्ये तु या नन्दा तस्यै देव्यै नमोनमः ॥ गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश । यस्मातस्माच्छिवं मे स्यादिह लोके परत्र च ॥ ब्रह्मादयस्तथा देवा रोहिण्यः पान्तु मातरः । इति । ततो विधिवदभ्यर्च्य श्रीखण्डैः कुसुमैः शुभैः। परिशिष्टदीपके अलंकु-यथाशास्त्रं हेमशृङ्गादिभिः सुधीः ॥ कुशाक्षतजलैः साई गृहीत्वा पुच्छमादृतः । कराभ्यां तर्पयेद्देवान्देवतीर्थेन मन्त्रवित् । प्राजापत्येन मनुजान पितन पित्र्येण तर्पयेत् । इति स्मृत्यन्तरात वक्ष्यमाणश्लाकैर्देवादीस्तर्पयेत् । तत्र पूर्व सकुशाप्रतयवं गोपुच्छं गृहोत्वा प्राङ्मुखो यजमानः संततजलधारया देवतार्थन देवांस्तर्पयेत् । (१)अयानन्दिनोसुशीलाद्याः कामदाश्चैव धेनवः । ताः सर्वाः पुच्छतोयेन तर्पितास्तर्पयन्तु माम् ॥ ब्रह्मा विष्णुमहादेवः कार्तिकेयो गणाधिपः । पुष्पचापो महेन्द्रश्च भगवानच्युताग्रजः ॥ देवाः समस्ताः सगणाः सवाहनपरिच्छदाः । वसवोष्टौ द्वादशार्का रुद्रा एकादशैव तु ॥ विश्वेदेवाश्च साध्याश्च मरुतो मातरस्तथा । गन्धर्वा गुह्य काश्चैव सागराः सरितस्तथा ॥ राक्षसा यक्षवेनालाः पूननाः पर्वता द्रुमाः । तीर्थान्यप्सरसश्चैव पशवः पन्नगाः खगाः॥ ऋक्षाणि राशयो योगा मासवर्ष वासराः । अयने च युगाः कल्पास्तथा मन्वन्तराणि च ।। भुवनानि दिशौकाश्च तथा सर्वेन्द्रियाणि च । (१) “या नन्दिनो शीलाद्याः” “ब्रह्मा विष्णुर्महादेवा” इत्यादीनां लोकानां स्थाने “ब्रह्माद्या देवता सर्षा ऋषयो मुनयस्तथा” इत्यादयः साविंशतिशोका श्राचाराध्यायटीकायां बालभट्टनायां दानप्रकरणे, स्मृतिकौस्तुभादौ च उपलभ्यन्ते । श्लोकैस्तर्पणं निमुलमेवेति गोदानप्रक रणे कमलाकरा, उत्सगमयूखे नीलकण्ठभट्टश्च । गोपुच्छे देवषिपितृतर्पणं च तडागोत्सर्गविधावेज स्पष्टतयोरतम्यते न तु प्रायो गोदानविधौ इति सदाप नात धादर्तव्यं गोदानानुष्ठाने इति दिक। अत एष कमलाकर “गोपुच्छोदकेन तर्पणं कुर्यात् इति केचित्” इत्याह । 11. दानप्रकरणे बृहद्गोदानयोगः । ९७ ॐकारश्चैव गायत्री छन्दस्यङ्गानि चैव हि ॥ वेदाश्च स्मृतयश्चैव पुराणानि तथैव च । आयुर्वेदो धनुर्वेदो गान्धर्बो मन्त्रगहरः॥ ओषध्यो धनसम्भूता ग्राम्याश्चैव सपिप्पलाः। सानुगा देवताश्चैव सुनयः सगणारखथा ।। ऋषय ऋषिपत्न्यश्च सिद्धाश्च सगणास्तथा । प्रजाः प्रजापतिश्चैव येऽन्ये विन्नविनायकाः ॥ विद्याधराश्च दैत्याच प्राचार्या गुरवस्तथा। डाकिन्यः क्षेत्रपालश्च भैरवाचाष्टसंख्यकाः ॥ स्थावरा जंगमाश्चैव भूतग्रामश्चतुर्विधः । अक्षयेणामृतेनैव मङ्गलेन सुवारिणा ॥ गोपुच्छाग्रच्युतेनेह महत्तेन हि तेऽखिलाः । शाश्वती तृप्तिमायान्तु दाढ्ययुक्तवरप्रदाः॥ सूर्यः सोमः कुजः सौम्यो गुरुः शुक्रः शनैश्वरः । ग्रहाश्च तृप्तिमायान्तु राहुकेतुसमन्विताः॥ इन्द्रो वद्भिर्यमो रक्षः पाशी वायुर्धनाधिपः । ईशोऽनन्तस्तथा ब्रह्मा सर्वे ते तर्पिता मया ॥ सावित्र्या सह लोकेशः सलक्ष्मीकश्चतुर्भुजः। महेशश्चोमया सार्द्ध तृप्तिमायान्तु शाश्वतीम् । अत्रिर्वसिष्ठो भृगुगौतमौ च मरीचिदक्षौ पुलहः पुलस्त्यः । पाचेतसः काश्यपविश्वमित्रौ भरद्वाजसज्ञो जमदमिमुनिश्च ॥ अन्ये च सर्वे मुनिपुङ्गवाश्च गृह्णन्तु दत्तं जलमय तुष्टाः। इति देवतर्पणम् । ततो यज्ञोपवीतं कण्ठावलम्बितं कृत्वा अक्षतकुशजलैमनुष्यती र्थेन मनुष्यान तर्पयेत् । सनकः सनन्दनश्च सनातनस्तथैव च । कपिलचासुरिश्चैव वोदुः पञ्चशिखस्तथा ।। ते तृप्तिमखिला यान्तु गोपुच्छाग्रच्युतोदकः । २० परिशिष्टदीपके ततोऽपसव्यं कृत्वा द्विगुणितकुशतिलजलैः पितृस्तर्पयेत् । कन्यवाडनलः सोमो यमश्चैवार्यमा तथा । अग्निष्वानाः सोमपाश्च तथा बहिषदश्च ये ॥ तपितास्तृप्तिमायान्तु शाश्वती गोप्रसादतः । यमाय धर्मराजाय मृत्यवे चान्तकाय च ॥ वैवस्वताय कालाय सर्वभूतक्षयाय च । औदुम्बराय दध्नाय नीलाय परमेष्ठिने ॥ वृकोदराय चित्राय चित्रगुप्ताय वै नमः। पिता पितामहश्चैव तथैव प्रपितामहः ॥ माता पितामही चैव तथैव प्रपितामहो । मातामहः प्रमातामहो वृद्धप्रमातामहस्तथा ॥ मातामही प्रमातामही वृद्धप्रमातामही तथा । अक्षयां तृप्तिमायान्तु गोलाङगृलच्युतोदकैः॥ त्रिकं मातामहाचं च मातामह्यादिकं त्रयम् । ते च तांश्च प्रदत्तं मे स्वीकुर्वन्तु जलं मुदा ॥ ये मृता वै पितृव्याश्च मातुलाः श्वशुरास्तथा। प्राचार्या गुरुमित्राद्यास्ते गृह्णन्तु शुभं जलम् ॥ ये च सम्बन्धिनोऽपुत्रा वह्निदाहविवर्जिताः। अपमृत्युमृता ये च तृप्तिं ते च लभन्विह ॥ पितृवंशे मृता ये च मातृवंशे च ये मृताः। गुरुश्वशुरबन्धूनां ये चान्ये बान्धवा मृताः॥ ये मे कुले लुप्तपिण्डाः क्रियालोपगताश्च ये। विरूपा आमगर्भाश्च ज्ञाताज्ञाताः कुले मम ॥ ते सर्वे तृप्तिमागान्तु गोपुच्छोदकतर्पणैः । गोत्रे मदीये विसुता मृता ये गोत्रे च मातुर्मम ये विपन्नाः। गर्भच्युताः श्राद्धविवनिताश्च तेभ्यः स्वधाऽनेन जलेन कृत्वा ॥ भृग्वग्निवज्रादिजलादिशौविषाणदन्तै खरै जङ्गः। पञ्चत्वभावं विगताच ये च तेभ्यः प्रदत्तं शिवमस्तु तोयम् ॥

दानप्रकरणे बृहगोदानप्रयोगा। ९९ ये रौरवादी नरके निमनाः क्रियाविलुप्ताश्च कृतोपकाराः । जन्मान्तरे ये मम दासभूतास्तेऽप्यक्षयां तृप्तिमिहाभजन्तु । ये बान्धवा वाऽबान्धवा येऽन्यजन्मनि बान्धवाः। ते सर्वे तृप्तिमायान्तु गोपुच्छोत्सृष्टवारिभिः । धेनुपुच्छे करं कृत्वा तर्पणं च करोति यः। आत्मानं तारयेद्विमो दश पूर्वान्दशापरान् ॥ सन्तर्पिता मया ये च गोपुच्छोदकतपणे । आयुर्वृद्धि तथा तुष्टिं मेघां प्रज्ञां च सन्ततिम् ।। आरोग्यं धनलाभं च सन्तुष्टाश्च ददन्तु मे। इति गोपुच्छोदकेन तर्पणं विधाय आचम्य कांस्यमये आज्य पात्रे घृतदिग्धं कुशहेमयुतगोपुच्छं तिलकुशयुतोदङ्मुखब्राह्मणपाणी कृत्वा सङ्कल्पयेत् । ॐविष्णुः ३ अघेहेत्यादि संकीर्त्य अमुकोऽहम् इमां गां सव स्सां सुपूजितां रुद्रदैवतां यथाशक्त्यलंकृताम् [ सति संभवे सुवर्ण भृङ्गी रौप्यखुरां ताम्रपृष्ठां लाग़लसमपितरत्नमुक्ताफलां घण्टाचाम रविभूषितां सुवस्वाच्छन्नां ] आत्मना सहैकविंशतिपुरुषतारणद्वारा, चतुर्दशकुलोद्धारद्वारा, निखिलदुःखदौर्भाग्यदुःस्वमदुनिमित्तामुकन हबाधाशान्तिपूर्वकमायुरारोग्यधनधान्यद्विपदचतुष्पदसन्ततिप्राप्तिद्वारा, गोरोमतुल्यवत्सरावधि सकलभोगपरिपूर्णस्वर्गलोकप्राप्तिद्वारा वा श्रीलक्ष्मीनारायणप्रीतये अमुकगोत्रायामुकवेदाध्यायिनेऽमुकशर्मणे ब्राह्मणाय तुभ्यमहं सम्पददे ॐतत्सत् न ममेत्युत्क्वा यज्ञसाधनभूता या विश्वस्याधविनाशिनी । विश्वरूपधरो देवः प्रीयतामनया गवा ॥ इत्युच्चार्य सकुशजलाक्षतं गोपुच्छं विभहस्ते दद्यात् । विप्रस्तु ॐद्यौस्त्वा ददातु पृथिवी स्वा प्रतिगृह्णातु। देवस्य त्वा सवितुः प्रसवेऽश्विनो हुभ्यां पूष्णो हस्ता. भ्यां प्रतिगृह्णामि । ॐ स्वस्ति इमां गां रुद्राय प्रतिगृह्णामि इति

पशिष्टदीपके प्रतिगृह्य ॐ कोऽदामस्मा इअदात् कानोऽदात् कामाया दात् । कामो दाता कामः प्रतिग्रहीता कामैतत्ते ॥ इति कामस्तुतिं पठेत् । ततो दानप्रतिष्ठासंकल्पः। अद्यहेत्यादि संकीर्त्य अमुकोऽहं कृतैतद्वोदानप्रतिष्ठासिद्धयर्थं षोडशमाषमितं सुवर्णमग्निदैवतं, यथाशक्ति वा हिरण्यं, तनिष्क्रयीभूतं द्रव्यं वा ब्राह्मणाय तुभ्यं सम्पददे न ममेत्युक्त्वा दद्यात् । ततो ब्राह्मणः गोपुच्छोदकेन “द्यौः शान्तिः” इति मन्त्रेणा भिषेक कृत्वा मन्त्राशिषं दद्यात् [य० सं० अ० ३४।कं० २१1 ॐसोमो धेनु: सोमो ऽअर्वन्तमाशुः सोमो व्वीरङ्कर्मण्यं ददाति । सादन्यं विदथ्य सभेयं पितृश्रवणं यो ददाश. दस्मै ।। इति । ततो दाता लक्ष्मीर्या लोकपालानां धेनुरूपेण संस्थिता । घृतं वहति यज्ञार्थे मम पापं व्यपोहतु ।। इति मन्त्रेण ब्राह्मणसमन्वितां गां त्रिः प्रदक्षिणीकृत्यानुव्रज्य च गोमतीं पठेत् । गावः सुरभयो नित्यं गावो गुग्गुलुगन्धिकाः । गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनं महत ।। अन्नमेव परं गावो देवानां हविरुत्तमम् । पावनं सर्वभूतानां क्षरन्ति च वहन्ति च ।। हविषा मन्त्रपूतेन तर्पयन्त्यमरान्दिवि।। ऋषीणामपि होतृणां गावो होमे प्रतिष्ठिताः ।। सर्वेषामेव भूतानां गावः शरणमुत्तमम् । गावः स्वर्गस्य सोपानं गावो धन्याः सवाहनाः ॥ गावः पवित्रं परमं गावो मङ्गलमुत्तमम् ।। नमो गोभ्यः श्रीमतीभ्यः सौरमेयीभ्य एव च ॥ नमो ब्रह्मसुताभ्यश्च पवित्राभ्यो नमोनमः । ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधा कृतम् ॥ एकत्र मन्त्रास्तिष्ठन्ति हविरेकत्र तिष्ठति । दानप्रकरणे गवादिमूल्यनिरूपणम्। १०१ गावो मामुपतिष्ठन्तु हेमशृङ्गयः पयोमुचः॥ सुरभ्यः सौरमेय्यश्च सरितः सागरं यथा । गावै पश्यान्यहं नित्यं गावः पश्यन्तु मां सदा ॥ गावोऽस्माकं वयं तासां यतो गावस्ततो वयम् । एवं रात्रौ दिवा वाऽपि समेषु विषमेषु च ॥ भयेषु च नरो नित्यं कीर्तयन्मुच्यते भयात् । घृतक्षीरपदा गावो घृतयोन्यो घृतोद्भवाः॥ घृतनद्यो घृतावर्त्तास्ता मे सन्तु सदा गृहै । घृतं मे हृदये नित्यं घृतं नाभ्यां प्रतिष्ठितम् ॥ घृतं मे सर्वतश्चैव घृतं मे मनसि स्थितम् । गावो ममाग्रतः सन्तु गावो मे सन्तु पृष्ठतः ।। गावो मामुपतिष्ठन्तु गवां मध्ये वसाम्यहम् । इत्याचम्य जपन्प्रातः सायं वा पुरुषस्तथा ।। यद्राच्या कुरुते पापं तद्राच्या प्रतिमुच्यते । यदहा कुरुते पापं तदहा प्रतिमुच्यते ॥ इति गोमतीं पठित्वा भूयसीसङ्कल्पं कुर्यात् । अयेहेत्यादि स कीर्त्य अमुकोऽहं गोदानकर्मणः साङ्गफलप्राप्तये न्यूनातिरिक्तदोष परिहारार्थं चेमां भूयसी दक्षिणां नानानामगोत्रेभ्यो ब्राह्मणेभ्यो: न्येभ्यश्च यथाकालं विभज्य दातुमहमुत्सृज्ये ॐतत्सत् न मम इति । भूयसीं दत्त्वा यथाशक्तिब्राह्मणभोजनं च संकल्प्य कर्मेश्वराय समl अभिषेकतिलकमन्त्रपाठादि कारयित्वा आचम्य यस्य स्मृत्येत्यादि प ठित्वा ॐअच्युताय नमः इति विष्णं स्मरेत् । इति बृहगोदानप्रयोगः। गवामभावे दातव्यं तन्मूल्यं तु न संशयः । इति शूलपाणौ उदाहतसंवर्तवचनादिना मुख्यगोदानासम्भवे तन्मूल्यदानं विहितम् । गोदानं च ज्योतिष्टोमादिश्रौतकर्मसु लक्ष होमादिस्मातकर्मसु च अङ्गभूतं, प्रधानभूतं च । एवमश्वादिदान१०२ परिशिष्टदीपके स्थानेऽपि तन्मूल्यदानं मूल्यनिर्देशकवचनबलात् समाचाराच्च सिद्धम् । तत्र कस्य कियन्मूल्यमित्याकाङ्क्षायां वाजपेयादौ दक्षिणात्वेन नि दिष्टानां गवादीनां मूल्यानि निदिंदेश कात्यायन: द्वात्रिंशत्पणिका गावश्चतुष्कार्षापणो वरः। वृषे षट् कार्षापणका अष्टावनडुहि स्मृताः॥१॥ दश कार्षापणा धेनोरश्वे पञ्चदशैव तु । हिरण्ये कार्षापणकः पणा नव तथाऽधिकाः ॥२॥ वस्त्रे कार्षापणः, छागेष्टौ पणा, द्वादशाविके । वृषल्यामथ पञ्चाशन्मूल्यं कार्षापणाः स्मृताः॥३॥ . निके पञ्चाशदेव स्युगजे पञ्चशतानि तु । पञ्च कार्षापणाः प्रोक्ता दोलायां, षड्थे तथा ॥४॥ गृहेऽष्टौ कार्षापणकाः, ताम्रकर्षे पणः स्मृतः। ताम्रकर्षे पणः स्मृत इति ॥ तत्रादौ गोमूल्यमाह– द्वात्रिंशत्पणिका गावः। तत्र पणस्वरूपमुक्तं पञ्चधा । वराटकमानेन, ताम्रमानेन, रौप्यमानेन, सुवर्णमानेन, रजतमानेनेति भेदात् । तत्राधमुक्तं लीलावत्यां “वराटकानां दशकद्वयं च स्यात्काकिणी ताश्च पणश्ववस्त्रः” इति। मदनरत्ने च “षोडशपणः पुराणः पणो भवेत्काकिणीचतुष्केण । पश्चाहतैश्चतुभिर्वराटकैः काकिणी चैका” ॥ एवमशीतिवराटकपरिमितः प्रथमः पणः। द्वितीयं ताम्रमानेन “ताम्रकर्षे पणः स्मृतः” इति अत्रैवोक्तम् । कर्षपरिमितं तानं ताम्रपण इत्यर्थः । बृहस्पतिस्तु किञ्चिद्विशेषमाह ताम्रकर्षकृता मुद्रा विज्ञेया ताम्रिका पणः । इति । ‘कर्षपरिमाणं च “जालान्तरगते भानौ यत्सूक्ष्मं दृश्यते रजः” इत्यादिना[पृ०१२] दानप्रकरणे गवादिमूल्यनिरूपणम् । १०३ पूर्वोदाहृते मनुवचने “पलं सुवर्णाश्चत्वारः” इति सुवर्णचतु टयस्य पलत्वाभिधानात , निघण्टौ “पलं कर्षचतुष्टयम्” इत्यभिधा नाच सुवर्णकर्षपदयोः पर्यायत्वेन सुवर्णमानात्मकं सिध्यति । तेन पश्चरक्तिकषोडशमाषपरिमितः कर्षो भवतीति षोडशमाषमितं [ अद्य खे प्रचलिताष्टरक्तिकद शमाषपरिमितं ] तानं पणो द्वितीयः । ___ “सुवर्णसप्ततितमो भागो रौप्यक इश्यते”। इति हेमाद्रौ रोप्यलक्षणोक्तः किञ्चिन्यूनसर्षपत्रयाधिकगुञ्जा मात्रस्य सुवर्णस्य रौप्यसंज्ञकत्वाद “कार्षापणो दक्षिणस्यां दिशि रौप्ये प्रवर्तते” इत्यनेन रौप्यस्य कार्षापणत्वाभिधानात् पणस्य च “षोडशैव पणाः स तु” इत्यनेन कार्षापणषोडशांशत्वलाभाव सर्षपत्रयाधिक गुञ्जामात्रसुवर्णषोडशांशः अर्थात् किश्चिन्यूनराजिकाधिकसर्षपमा त्रसुवर्णांशो रौप्यः पणस्तृतीयः। पञ्चरक्तिकविंशतिमाषपरिमितसुवर्णस्य [ सपादकर्षमितसुवर्ण स्य ] सुवर्णकार्षापणत्वेन वक्ष्यमाणस्य षोडशांशः सपादैकमाषा त्मकः [ सपादषड्गुञ्जात्मकः ] सौवर्णः पणश्चतुर्थः । द्विरक्तिकराजतविंशतिमाषपरिमितस्य [ अष्टरक्तिकपञ्चमाषपरि मितस्य ] रजतस्य रजतकार्षापणत्वेन वक्ष्यमाणस्य षोडशांशः सपा दराजतमाषात्मको राजतः पणः [ सागुञ्जाद्वयमितः ] पञ्चमः । राजतमाषस्वरूपमुक्तं हेमाद्रौ ____ “दे कृष्णले समधृते विज्ञेयो रूप्यमाषकः ।” एवं च द्वात्रिंशताऽशीतेवराटकानां गुणने वराटकमानेन एकस्या गोर्मूल्यं वराटकानां षष्टयधिकपञ्चविंशतिशती भवति । [२५६०] ___ताम्रमानेन एकस्या गोर्मूल्यं ताम्रगुञ्जानां षष्टयधिकंपञ्चविंशति शती भवति । [ २५६० ] ’ रौप्यमानेन एकस्या गोर्मूल्यम् एकयवाधिकगुञ्जाद्वयपरिमितं सु वर्ण भवति । गुञ्जे २ । यवः१ १०४ परिशिष्टदीपके ___ सुवर्णमानेन एकस्या गोर्मूल्यं सार्धकर्षद्वयमितं [अष्टरक्तिक २५ माषमितं ] सुवर्णं भवति । रजतमानेन एकस्या गोर्मूल्यं राजतचत्वारिंशन्माषमितं [ अष्ट रक्तिक १० माषमितं ] रजतं भवति । ब्रह्मपुराणे “गवामभावे निष्कं स्यात्तदर्धं पाद एव वा"इति । निष्कपरिमाणन्तु “निष्कं सुवर्णाश्चत्वारः” इति याज्ञवल्क्ये नोक्तम् । अस्य च रूप्यपरिमाणपरिभाषास्थत्वात् चतुःसुवर्णसमतो लित रूप्यं निष्क इत्यर्थः । आधुनिकराजतमुद्राचतुष्टयं पर्यवस्यति । अथ वरमूल्यम् चतुष्कार्षापणो वरः। चत्वारः कार्षापणाः मूल्यं यस्य स वरशब्दाभिधेय इत्यर्थः । कार्षापणमानमपि पञ्चधोक्तम्-वराटकमान ताम्रमान-रौप्यमा न-सुवर्णमान-रजतमानभेदात् । तत्र धराटकमानेन ___“पणैनिबद्धः पूर्वस्यां षोडशैव पणाः स तु”। इति मदनरत्नाद्युक्तेः वराटकमानेन सिद्धाशीतिवराटकात्मकपण षोडशकात्मकः कार्षापणः प्रथमः वराटकानाम् अशीत्यधिकद्वादशश तीरूपः सिध्यति । [१२८० ]] ताम्रमानेन “ताम्रकर्षे पणः स्मृतः” इति कात्यायनोक्तः पञ्चर क्तिकषोडशमाषात्मककर्षपरिमितताम्रपणानां षोडशकात्मकः कार्षा पणः द्वितीयः षट्पञ्चाशदधिकशतद्वय[ २५६ ]माषपरिमितताम्रमयः सिध्यति । रौप्यमानेन “सुवर्णसप्ततितमो भागो रौप्यक इष्यते”। इति हैमाद्रौ उक्तः, “कार्षापणो दक्षिणस्यां दिशि रौप्ये प्रवर्तते”। इति नारदोक्तेश्च किञ्चिन्न्यूनसर्षपत्रयाधिकैकगुञ्जात्मकसुवर्ण रूपः तृतीयः कार्षापणः। DH दानप्रकरणे गवादिमूल्यनिरूपणम् । १०५ सुवर्णमानेन “माषो विंशतिभागश्च ज्ञेयः कार्षापणस्य तु”। इति हेमाद्रौ कात्यायनोक्तेः विंशतिमाषपरिमित ( सपादकर्षमि त ) सुवर्णात्मकः चतुर्थः कार्षापणः । रजतमानेन द्विरक्तिकराजतविंशतिमाषपरिमित (अष्टरक्तिकप ञ्चमापपरिमित ) रजतरूपः पञ्चमः कार्षापणः । एवं कार्षापणस्य प श्वविधत्वात्तच्चतुष्टयरूपो वरोऽपि पञ्चविधः सिध्यति । एषां च मानानां शक्त्यपेक्षया व्यवस्था द्रष्टव्या । वृषमूल्यमाह वृषे षट् कार्षापणकाः। वृषो नाम प्रजोत्पादनसमर्थोऽस्पृष्टधुरः। तस्य षट् कार्षापणा मूल्यं भवति इत्यर्थः। अनडुन्मूल्यमाह अष्टावनडुहि स्मृताः। कार्षापणा इत्यनुवर्तते । ते चाष्टौ अनड्डहो मूल्यमित्यर्थः । श्र नड्वान्नाम प्रजोत्पादने धूर्वहने च समर्थः । धेनुमूल्यमाह दश कार्षापणा धेनोः। धेनुर्नाम सवत्सा प्रचुरदुग्धयुता च गौः। तस्या दश कार्षापणा मूल्यमित्यर्थः। अश्वमूल्यमाह अश्वे पञ्चदशैव तु। पञ्चदश कार्षापणा अश्वमूल्यमित्यर्थः । हिरण्यमूल्यमाह हिरण्ये कापापणक पणा नव तथाऽधिकाः । नवपणाधिक एकः कार्षापणो हिरण्यस्य मूल्यमित्यर्थः । परिशिष्टदीपके वस्त्रच्छागमेषाणां मूल्यमाह वख्ने कार्षापणः, छागेऽष्टी पणा, द्वादशाविके। एकः कार्षापणो वस्त्रस्य मूल्यम् , अष्टौ पणाः छागस्य मूल्यं, द्वादश पणा अविके अविकस्य मेषस्य मूल्यमित्यर्थः । वृषलीमूल्यमाह वृषल्यामथ पञ्चाशन्मूल्यं कार्षापणाः स्मृताः । वृषली दासी । तस्याः पञ्चाशत्कार्षापणा मूल्यमित्यर्थः । निष्कमूल्यमाह निष्के पश्चाशदेव स्युः। निष्को भूषणविशेषः। तस्यापि पञ्चाशत्कार्षापणा मूल्यमित्यर्थः। गजमूल्यमाह गजे पञ्चशतानि तु। गजे गजस्य हस्तिनः पञ्चशतानि, कार्षापणानामिति शेषः।। कार्षापणशतपञ्चकं हस्तिनो मूल्यमित्यर्थः । दोलारथयोर्मूल्यमाह पञ्च कार्षापणाः प्रोक्ता दोलाय, षड्थे तथा। दोला नरवाह्यं यानम् । तस्य पञ्च कार्षापणा मूल्यम् । रथः प्रसिद्धः। तस्य षट् कार्षापणा मूल्यमित्यर्थः। गृहमूल्यमाह गृहेऽष्टौ कार्पोपणकाः। गृहं प्रसिद्धम् । तस्य अष्टौ कार्षापणा मूल्यमित्यर्थः । पपलक्षणमाह ताम्रकर्षे पणः स्मृतः,ताम्रकर्षे पणः स्मृतः। इति । कर्षमात्रं ताम्र पणशब्दाभिधेयमित्यर्थः। यद्यपि वराटकादि मानैः पणस्य पञ्चविधत्वमुक्तं तथापि कात्यायनस्य ताम्रमानमेवाभिषे तमिति तदनुयायिभिस्तदेवाङ्गीकार्य न तु वराटकमानसिद्धम् । रजता दिमानं च फलाधिक्याकाक्षिभिराश्रयणीयमेव । अभ्यासो ग्रन्थस माप्तिसूचकः। इति कात्यायनकृतमूल्याध्यायस्य संक्षेपविकृतिः । गवायभावे गवादिमूल्यदानं च तत्स्थाने वाचनिकम् । न तु दानप्रकरणे संक्षिप्तगोदानप्रयोगः। १०७ मूल्यस्य नीवारादेरिव गवादेः प्रतिनिधित्वम् । सुसदृशत्वाभावात् । न वा विसदृशानां “यदि सोमं न विन्देत्पूतोकानभिषुणुयात्” इत्य नेनेव नियमः । ईषत्सदृशानामपि पूतोकानां पक्ष प्राप्तानां यागसम्प त्तिरूपदृष्टार्थत्वानुरोधेन नियममात्रविधित्वलाघवानुरोधेन च यागा क्षिप्तविसदृशद्रव्यनिर्वर्तकत्वाङ्गोकारेऽपि अत्यन्तविसदृशस्य मूल्यस्य पक्षेऽपि प्राप्त्यभावेन तन्नियमस्य विधातुमशक्यत्वात् । तस्मात् “एषामसम्भवे कुर्यादिष्टिं वैश्वानरी द्विजः” । इतिवत् मूल्यदानस्य गोदानस्थाने “गवामभावे दातव्यं तन्मूल्यं तु न संशया” ___ इत्यादिना विधानात् स्थानापत्त्या “तत्स्थानापन्नस्तद्धर्म लभते” इति न्यायेन मूल्ये गोधर्माणां पूजनादीनां प्राप्त्या मन्त्रा ऊहेन पठनीयाः । न तु नीवार-पूतीकादौ ब्रोहि-सोममन्त्रा इवाविकारेण । प्रतिनिधिभूतानां तद्बुद्धया उपादानेन तच्छब्दभाक्त्वेऽपि तत्स्था नापन्नानां तत्त्वे मानाभावात् । एवं च संकल्पवाक्ये ‘इदं गोमूल्य द्रव्यममुकदैवतम्’ इत्येवोल्लेखो न तु ‘इमां गां रुद्रदैवताम्’ इत्युल्लेखः । दानवाक्यमपि “यज्ञसाधनभूता या” इत्यादि गोपदघटितं न पठनीयम् । यज्ञसाधनभूता या विश्वस्याघप्रणाशिनी । अस्या मूल्यप्रदानेन प्रीयतां विश्वरूपधृत् ।। इत्येवं पाठ्यम् । एवं सर्वत्र मूल्यदाने बोध्यमिति दिक् । अथ सङ्क्षिसगोदानप्रयोगः ॥ गोदानफलमुक्त स्कान्दे यो नरो गां प्रयच्छेत सवत्सां कांस्यदोहनाम् । यावन्ति रोमकूपाणि सवत्साया भवन्ति हि ॥ तावत्कोटिसहस्राणि वर्षाणां दिवि मोदते । इति । अथ पात्रापात्रलक्षणं भारते तद्भक्तास्तद्धना राजन् तद्गृह्यास्तद्वयपाश्रयाः । १०८ परिशिष्टदीपके अर्थिनश्च भवन्त्येते तेषु दत्तं महाफलम् ।। विष्णुः पुरोहितस्त्वात्मन एवं पात्रं विद्याविहीनो गुणवर्जितश्च । स्ववर्णधर्माचरणोपपन्नो गृही यदा चेत्सुतपौत्रयुक्तः ॥ इति । तीर्थसम्मुखे शालग्रामादिसन्निधौ वा पुण्यकाले यथोक्तलक्ष एणवती गां प्राङ्मुखीमवस्थाप्य गोमूल्यं वा पुरतो निधाय स्वयञ्च प्राङ्मुखो भूत्वा तिलकुशयवजलान्यादाय अद्येहेत्यादिना देशकालौ संकीर्त्यामुकोऽहं तीर्थयात्रायाः साङ्गोपाङ्गफलप्राप्तये दानकल्पोक्तफ लावाप्तये वा गोदानं [ गोमूल्यदानं ] करिष्ये । तदङ्गतया ब्राह्म णस्य गोश्च [ गोमूल्यद्रव्यस्य च ] यथामिलितोपचारैः पूजनं वरणं च करिष्ये इति संकल्पं कृत्वा ब्राह्मणस्य पादौ प्रक्षाल्य “भूमिदे वाग्र” इति अयं दत्त्वा “नमोऽस्त्वनन्ताय” इति गन्धादिभिः संपू ज्य “नमो ब्रह्मण्यदेवाय” इति प्रार्थ्य वरणसामग्री गृहीत्वा एभिर्ग न्धाक्षतपुष्पपूगीफल-माला-यज्ञोपवीत-वासोऽलंकरण-द्रव्यैः गोदा नप्रतिग्रहार्थं त्वामहं वृणे। वृतोऽस्मीति प्रत्युक्तिः। सवत्सां गां पाद्या दिभिः समभ्यर्च्य ॐगोः अग्रपादाभ्यां नमः ॐगोरास्याय नमः ॐगोशृङ्गाभ्यां नमः ॐगोः पुच्छाय नमः ॐगोः पश्चात्पादाभ्यां नमः ॐगोः पृष्ठाय नमः ॐगोः वत्साय नमः। सवत्साय गवे वस्त्रं समर्प्य गवा धूपमाघ्राप्य दीपंतांप्रदा नैवेद्यं च गवे ग्रासं दत्त्वा सति सम्भवे गोपुच्छोदकेन देवादितपणं, गो ङ्गमूलादिषु ब्रह्मविष्ण्वादिपूजनं च पूर्वोक्तरीत्या [ १०९ ] विधाय प्रार्थनां कुर्यात गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश । यस्मात्तस्माच्छिवं मे स्यादिह लोके परत्र च ॥ या लक्ष्मीः सर्वभूतानां या च देवेववस्थिता । धेनुरूपेण सा देवी मम पापं व्यपोहतु ।। इति । गोरभाव मूल्यद्रव्यं संप्रोक्ष्य गोमूल्यद्रव्यायामुकस्मै नम इति नाममन्वेण पूजयेत् । ततो यवतिलकुशजलसहित पुच्छं हस्ते गृहीत्वा दानप्रकरणे संक्षिप्तगोदानप्रयोगः । १०९ अयेहामुकोऽहं गोरोमसंख्यवर्षाणि स्वर्गप्राप्तिकामो दिनुभो तापी वा इमां गां सवत्सां सुपूजितां यथाशक्त्यलंकृतई सपकाई गोमूल्यद्रव्यममुकदेवतम् ] अशुक्रगोत्रायामुकशर्मणे ब्राह्मणायलाई संपददे ॐतत्सम मम इति ब्रामणहस्ते जलादियुत गोपुच्छं ॐयज्ञसाधनभूता या विश्वस्यावविनाशिनी । विश्वरूपधरो देवः प्रोयतामनया गया ।। इति मन्त्रं पठन् [“अस्या मूल्यप्रदानेन भोयता विश्वरूपवृत्” । इत्युत्तराई पूर्वार्धे संयोज्य पठन् गोमूल्यं ] दद्याद । प्रालयः “देवस्य त्वा” इति प्रतिगृह्य कोऽदादिति कामस्तुति पठेत् । तस्य गोदानकर्मणः साङ्गफलमाप्त्यर्थमिदं सुवर्ण घृतपात्रसहितं नाम णाय तुभ्यमहं सम्प्रददे इति दानप्रतिष्ठासिद्धयर्थं दक्षिणा दद्यात् । ब्राह्मणः “देवस्यत्वा” इति पठित्वा प्रतिगृह्य “स्वस्ति । इति पुच्छेनाभिषेकं कुर्यात् । ततो दाता धेनुं विप्रं च नमस्कृत्य गावो मे अग्रतस्सन्तु गावो मे सन्तु पृष्ठतः। गावो मे पार्श्वतः सन्तु गवां मध्ये वसाम्यहम् ।। इति प्रदक्षिणीकृत्य च गावो मामुपतिष्ठन्तु हेमशृङ्गयः पयोमुचः । सुरभ्यः सौरभेय्यश्च सरितः सागरं यथा ॥ गावै पश्यान्यहं नित्यं गावः पश्यन्तु मां सदा । गावोऽस्माकं वयं तासां यतो गावस्ततो वयम् ॥ एवं रात्रौ दिवा वापि समेषु विषमेषु च । महाभयेषु च नरः कीतयन्मुच्यते भयात् ।। इति भारतोक्तां गोमती पठेत् । अथ भूयसी न्यूनातिरिक्तदो पपरिहारार्थं दत्त्वा कर्मेश्वरार्पणं कृत्वा बिष्णुं स्मरेत् ।

  • इति संक्षिप्तगोदानप्रयोगः ।। परिशिष्टदीपके अथ वृषदानं गोदानप्रसङ्गेन । भविष्योत्तरे-दशधेनुसमोऽनड्वानेकश्चैव धुरंधरः। दशधेनुषदानाद्धि वृष एको विशिष्यते ॥ अलंकृत्य वृषं शान्तं पुण्येऽह्नि समुपस्थिते । रौप्यलाङगुलसंयुक्तं ब्राह्मणाय निवेदयेत् ॥ मन्त्रेणानेन राजेन्द्र तं शृणुष्व वदामि ते। धर्मस्त्वं वृषरूपेण जगदानन्दकारकः ॥ अष्टमूर्तेरधिष्ठानमतः पाहि सनातन । दत्त्वैवं दक्षिणायुक्तं परिणपत्य विसर्जयेत् ॥ सप्तजन्मकृतं पापं वाङमनःकायसंभवम् । तत्सर्वं विलयं याति गोदानसुकृतेन वै ।। यावन्ति तस्य रोमाणि गोवृषस्य महोपते । तावद्वर्षसहस्राणि गवां लोके महीयते ॥ गोलोकादवतीर्णस्तु इह लोके द्विनो भवेत् । सत्रयाजी महातेजाः सर्वब्राह्मणपूजितः ॥ इति । अथ वृषदानप्रयोगः। दाता पुण्यकाले गोमयेन सुलिप्तायां भूमौ प्राङ्मुख उपविश्या चम्य प्राणायामं विधाय पश्चिमाशामुखं वृपमवस्थाप्य तृपमूल्यं वा निधाय सति विभवे रौप्यलायूलादिभिरलंकृत्य ब्राह्मणमुदङ्मुख मासने उपवेश्य गणेशवन्दनादि भूतोत्सादनान्तं कृत्वा कुशतिलय बजलान्यादाय देशकालौ संकोयं अमुकोऽहं सप्तजन्मकृतकायिक वाचिकमानसिकत्रिविधसकलपापक्षयपूर्वकं-परोमसमसंख्यवर्षस हस्रावधिगोलोकवासोत्तरमिह लोके सत्रयाजित्वब्राह्मणपूजितत्वमा प्त्यर्थं वा सकलपापक्षयद्वारा परमेश्वरप्रोत्यर्थं वा यथाशक्ति वृषदानं (वृषमूल्यदानं ) करिष्ये इति प्रतिज्ञाय तत्मतिग्रहार्थं ब्राह्मणस्य पूजनपूर्वकं वरणं, वृषस्य (वृषमूल्यस्य) पूजनं च करिष्ये इति संकल्प्य ब्राह्मणं गन्धादिभिः संपूज्य वरणसामग्री करे गृहोत्वा एभिगन्धाक्षतपुष्पवनयज्ञोपत्रोतकलताम्बूनद्रव्यैः वृष (पमूल्य)

दानप्रकरणे महिषीदानविधिः। १११ प्रतिग्रहार्थं त्वामहं वृणे इति गोत्रादि निर्दिश्य ब्राह्मणं वृणुयात् । वृतोऽस्मि इति ब्राह्मणो वदेत् । ततः ॐतीक्ष्णशृङ्गाय विद्महे धर्मपादाय धीमहि । तन्नो वृषः प्रचोदयात् ॥ इति वृषगायच्या वृष (वृषमूल्यद्रव्यायामुकस्मै नम इति वृष मूल्यं ) संपूज्य कुशतिलयवजलान्यादाय देशकालौ संकीर्त्य सप्तज न्मकृतकायिकवाचिकमानसिकत्रिविधज्ञाताज्ञातसकलपापक्षयपूर्वकष रोमसमसंख्यवष सहस्रावधिगोलोकवासोत्तरमिह लोके सत्रयाजित्व ब्राह्मणपूजितत्वप्राप्तिकामो वा सकलपापक्षयद्वारा परमेश्वरप्रीतिकामो वा इमं वृषं यथाशक्त्यलंकृतं रुद्रदेवताकं ( इदं वृषमूल्यद्रव्यममुक दैवतं ) ब्रह्मणे तुभ्यं संप्रददे न मम इति संकल्प्य धर्मस्त्वं वृषरूपेण जगदानन्दकारकः । अष्टमूर्तेरधिष्ठानमतः पाहि सनातन ।। इति पठित्वा ब्राह्मणहस्ते ककुदं स्पर्शयन् दद्यात् । वृषमूल्यं तु धर्मो हि षरूपेण जगदानन्दकारकः । अतस्तन्मूल्यदानेन पातु मां वृषवाहनः॥ इति पठन् दद्यात् । ब्राह्मणश्च “देवस्य त्वा” इति प्रतिगृह्य ॐ स्वस्ति इत्युक्त्वा कामस्तुति पठेत् । ततो दानप्रतिष्ठासिद्धयर्थं यथा शक्ति सुवर्णदक्षिणां दत्त्वा भूयसीं च दत्वा कर्मेश्वरार्पणं कुर्यात् । वृषमूल्यं च षट् कार्षापणा बोध्याः। इति वृषदानप्रयोगः। अथ प्रसङ्गत एक महिषीदानम् । हैमाद्रौ भविष्ये … महिषीदानमाहात्म्यं कथयामि युधिष्ठिर । पुण्यं पवित्रमायुष्यं सर्वकामप्रदं तथा ॥ इति । सा च प्रथमप्रसूता दोषवर्जिता चन्द्रसूर्यग्रहे, कार्तिक्याम् , अयनयोः, शुक्लचतुर्दश्या, संक्रान्तौ च सर्वारिष्टविनाशाय चित्तोद्वे. गशान्तये च देयेति तत्रैवोक्तम् ।१

११२ परिशिष्टदीपके अथ महिषीदानप्रयोगः । गोषयमृजलसुलिप्तायां धूमौ पूजासामग्री रक्तवस्त्र-रक्तमाला स्वर्णशृङ्ग-रौप्यपुर-तान्नदोह-हेमतिलक-सप्तधान्य-घण्टापिण्याक पिटकोपेतां धृत्वा, महिषी शाउमुखी, तन्मूल्यं वा तत्रोपस्थाप्य यथोत्तलक्षणं प्रामाणमुदङ्मुखं हुशास्तृतपीठादाजुपवेश्य पवित्रपा णि स्वासन उपविश्याचम्य सुमुखश्चेत्यादिना यथाविधि गणेशादि बन्दनादिभूतोत्सादनान्तं कृत्वा प्रतिज्ञासंकल्पं दुर्यात्-ॐविष्णुः ३ शोहत्यादि संकीर्ण अमुकोऽहं मम सर्वारिष्टनिवृत्तिपूर्वकमा युण्याअभिवृद्धये विशेषतः शनैश्चरजनितपीडाशान्त्यर्थं दानकल्पोक्त फलावाप्तये वा महिषी यथाशक्त यलं कृतां [ महिपीमूल्य ] ब्राह्मणाय दास्ये । तत्पूर्वाङ्गत्वेन ब्राह्मणस्य पूजनपूर्वकं वरणं, महिपी [ महिषीमूल्य ] पूजनं च करिष्ये इति । ब्राह्मणं भूमिदेवाग्रेत्या दिनाज़ दत्त्वा ॐनमोऽस्त्वनन्तायेत्यादिना गन्धाक्षतादिभिः सम्पूज्य वरणसामग्री करयोः कृत्वा एभिर्गन्धाक्षतपुष्पमालापूगी फलद्रव्यवासोभिः महिषी [ महिपीमूल्य ] दानप्रतिग्रहार्थम् अमुकगो नम् अयुकवेदाध्यायिनम् अमुकशाणं ब्राह्मणं त्वामहं वृणे। वृतोऽस्मीति घालणो वदेत् । अथ महिपीपूजनम् । तत्रादौ ॐयम स्वरूपायै महिण्यै नमः इति नत्वा मार्थयेत्— महिषी ब्रह्मसूता च लक्ष्मीरूपेण संस्थिता। प्रार्थिताऽसि मया देवि यममार्ग निवारय ॥ इति । अथ पूजामन्त्रः। पूजिता हर मे पाएं सर्वदानफलप्रदे ॥ महिपी यमरूपा त्वं विश्वामित्रविनिर्मिते। अनेन मन्त्रेण आवाहनम् आसनं पायम् अयम् आचमनं स्नानं रक्तवस्त्रं गन्धाक्षतपुष्परक्तमाल्यानि स्वर्णतिलकं च समl स्वर्णशृङ्गी रौप्यखुरी महिषी संपाद्य सप्तधान्यं ताम्रदोहनं च पुरतो निधाय धूपदीपनैवेद्यानि च समयं घण्टां च गले बचा [ मूल्यद्र व्यं संप्रोक्ष्य संपूज्य ] दानसंकल्पं कुर्यात् । ॐविष्णुः३ अघेहे

दानप्रकरणे भूमिदानप्रयोगः। ११३ त्यादि संकीर्त्य अमुकोऽहं पूर्वोक्तदानकल्पोक्तफलावाप्तये विष्णुप्रीत ये वा यथाशक्त्यलंकृतां सूपूजितामिमां महिषीं यमदैवताम् [ इदं महिषीमूल्यद्रव्यममुकदैवतम् ] अमुकगोत्राय अमुकवेदाध्यायिने सुपू जिताय अमुकशर्मणे ब्राह्मणाय तुभ्यमहं संप्रददे ॐतत्सन्न ममेति सकुशतिलजलेन दक्षिणहस्तेन महिषीपृष्ठं स्पृशन् इन्द्रादिलोकपालानां या राजमहिषी शुभा । महिषीदानमाहात्म्यात्साऽस्तु मे सर्वकामदा ॥ धर्मराजस्य साहाय्ये यस्याः पुत्रः प्रतिष्ठितः। महिषासुरस्य जननी या साऽस्तु वरदा मम ॥ इति मन्त्राभ्यां [ महिषीमूल्यं तु प्रथमश्लोकस्य तृतीयपा दस्थाने “तस्या मूल्यप्रदानेन” इति योजयन् ] ब्राह्मणहस्ते दद्यात् । विप्रो देवस्यत्वेति पठित्वा (१) पृष्ठदेशं स्पृष्टा ॐस्वस्तीति प्रतिगृह्य ॐकोऽदादिति कामस्तुतिं पठेत् । ततो यजमानः सविनां महिषीं प्रदक्षिणीकृत्य नमस्कृत्य आसन उपविश्य दानप्रतिष्ठासिद्धये यथाश क्ति सुवर्ण संकल्प्य दत्त्वा भूयसी संकल्प्य विभज्य कर्मेश्वरार्पणं कुर्यात् । तत आचार्यादीन्भोजयित्वा स्वयमपि भुञ्जीत । महिषीमूल्यं दशकार्षापणात्मकं कल्प्यम् । प्रचुरदुग्धत्वेन धेनुसाम्याद । इति महिषीदानम् । । . अथ द्वितीयमतिदानं भूमिदानाख्यम् । ___ ताम्रपात्रे देयभूमिसंबन्धिमृत्पिण्डं, तदभावेतपुञ्जादिकं सं स्थाप्य [ भूमिमूल्यदानं चिकीर्षुस्तन्मूल्यं पुरतो निधाय ] स्वासने उपविश्याचम्य शुक्लाम्बरधरमिति विष्णुं ध्यात्वा गणेशं च नत्वा अधु संस्थाप्य प्राणानायम्य कुशयवजलतिलपाणिः अद्येहेत्यादि संकीर्त्य अमुकोऽहं सकलपापक्षयपूर्वकषष्टिसहस्रवर्षमितस्वर्गवासका मः शिवपुरमाप्तिकामो वा भूमिदानं [ भूमिमूल्यदानं ] करिण्ये, त दङ्गतया ब्राह्मणस्य पूजनपूर्वकं वरणं भूमेश्च [ भूमिमूल्यस्य च] . (१) दद्यास्प्रदक्षिणीकस्य ब्राह्मणं तां पयस्विनीम् । प्रतिग्रहः स्मृतस्त. स्याः पृष्ठदेशे स्वयंभुवा॥इति पृष्ठदेशे स्पर्शपूर्वका प्रतिग्रहो भविष्योत्तरेखता • १४५० ११४ परिशिष्टदीपके पूजन(१)करिष्ये इति संकल्प्य भूमिदेवेति अयं दत्त्वा गन्धादि भिरुपचारैः संपूज्य वरणसामग्री करे गृहीत्वा एभिर्गन्धाक्षतपुष्प पूगीफलद्रव्यैः करिष्यमाणभूमि [ भूमिमूल्य ] दानप्रतिग्रहार्थं ब्रह्म न त्वामहं तृणे । वृतोऽस्मोति प्रत्युक्तिः । ततो भूमि सम्पूजयेत् । ध्यानम्(२)। शुक्लवर्णा मही कार्या दिव्याभरणभूषिता । चतुर्भुजा सौम्यवपुश्चन्द्रांशुसदृशाम्बरा ॥ रत्नपात्रं सस्यपात्रं पात्रमोषधिसंयुतम् । पद्मं करे च कर्त्तव्यं भूमेदवनन्दन ॥ दिङ्नागानां चतुर्णां तु कार्या पृष्ठगता मही । सौषधियुता देवी शुक्लवर्णा ततः स्मृता ॥ इति ध्यात्वा सर्वभूताश्रया भूमिवराहेण समुद्धृता । कश्यपस्य सुता पुण्या ह्यतः शान्ति प्रयच्छ मे॥ ॐभूरसिभूमिरस्यदितिरसि विश्वधाया विश्व स्थ भुवनस्य धीं। पृथिवीं यच्छ पृथिवी छह पृथिवीं मा हिल्सीः । इति मन्त्राभ्याम् ॐभूम्यै नम इति नाममन्त्रेण च पञ्चोपचारै यभूमिसम्बन्धिमृत्पिण्डं [ भूमिमूल्यं संप्रोक्ष्य नाममन्त्रेण ] स म्पूज्य दानसंकल्पं कुर्यात्-अधेहेत्यादि संकीयं अमुकोऽहं षष्टिस हस्रवर्षमित(३)स्वर्गवासकामो वा (४)शिवपुरमाप्तिकामो वा (१) सर्वदानानां तुलादानप्रकृतिकत्वेन तत्रत्यदेयद्रव्यपूजनब्राह्मण पूजनादीतिकर्तव्यतायाः अत्राप्यतिदेशेन लामात् । “योऽर्चितं प्रतिगृहा ति” इत्याधनारम्याधीतानां वाक्यानां तु “प्रकृतौ वाऽद्विरुक्तत्वात्” इति न्यायेन तुलादानरूपप्रकृतिगामित्वस्यैव न्याय्यत्वात् । (२) इदं च ध्यानं हेमाद्री विश्वचक्रदाननिरूपणे विष्णुधर्मोत्तरे (३) दानकमलाकरे बृहस्पतिः-पष्टिं वर्षसहस्राणि स्वर्गे वसति भूमिदः । उच्छेत्ता चानुमन्ता च तापन्ति नरके वसेत् ॥ (४) हेमाद्रौ महाभारते-“प्रादेशमात्रां भूमितुयो दद्यादनुपस्कृताम् दानप्रकरणे भूमिदानप्रयोगः। ११५ (१)सकलपापक्षयकामो वा इमां भुवं प्रियदत्तां विष्णुदैवताम् अमुक गोत्रोत्पन्नाय अमुकवेदाध्यायिने अमुकशर्मणे ब्राह्मणाय तुभ्यं सम्प ददे ॐतत्सन्न मम इति संकल्प्य दानवाक्यम्(२) यथा भूमिप्रदानस्य कला नाहन्ति षोडशोम् । दानान्यन्यानि मे शान्तिभूमिदानाद्भवत्विह ॥ इति पठन् [ भूमूल्यं तु चतुर्थपादस्थाने “भूयाद् भूमूल्यदान तः” इति योजयन् ] दद्यात् । ब्राह्मणश्च संनिधौ सति सम्भवे दत्तां भूमि साक्षात्प्रदक्षिणीकृत्याथवा मनसा प्रदक्षिणीकृत्य असंनिधौ देयभूमिपिण्डम् अक्षतपुञ्जादिकं वा प्रदक्षिणीकृत्य ॐदेवस्य त्वेत्यादि प्रतिगृह्णामीत्यन्तं यजुः पठित्वा विष्णवे भुवं प्रतिगृह्णामि ॐस्वस्ती त्युक्त्वा प्रतिगृह्य कोदादिति कामस्तुतिं पठेत् । ततो यजमानः कृतस्य भूमिदानकर्मणः प्रतिष्ठासिद्धयर्थम् इदं सुवर्णमनिदैवतं ब्राह्मणाय तुभ्यं सम्प्रददे इति संकल्प्य दद्यात् (३)। [ नहि भूमेः परं वस्तु गोः सुवर्णाच किंचन । न स सीदति कृच्छेण न च दुर्गाण्युपाश्नुते ॥ मुदितो राजते प्राशः शक्रेण सह नन्दति ।” “यावन्ति लाङ्गलमुखेन रजांसि भूमर्भासां पते? हितुरजजरोमकाणि । तावन्ति शङ्करपुरे स युगानि तिष्ठेत् भूमिप्रदानमिह यः कुरुते मनुष्यः॥” (१) विश्वामित्रः-गोचर्ममात्रां यः पृथ्वी ब्राह्मणाय प्रयच्छति । सर्वदः स तु विज्ञेयः शक्रवहिवि मोदते ॥ ग्रामं वा नगरं वापि विप्रेन्यो यः प्रयच्छति । क्षेत्र वा सस्यसंपन्नं सर्वपापैः प्रमुच्यते ॥ मदनरले वृद्धवसिष्ठा यत्किञ्चित्कुरुते पापं जन्मप्रभृति मानवः। अपि गोचर्ममात्रेण भूमिदानेन शुध्यति ॥ अपि पापकृतो राक्षः प्रतिगृह्णन्ति साधवः । पृथिवीं, नान्यदिच्छन्ति पावनं घेतदुत्तमम् ॥ (२) इदं च दानवाक्यं मत्स्यपुराणे।। (३) अत्र पुराणेषु नानाफलश्रवणेऽपि स्वकामनानुसारेणान्यतमं फलं संकीर्त्य एतस्काम इति दानवाक्ये योजयित्वा भूमि दद्यात् । ११६ परिशिष्टदीपक अतो भुवि गवि प्राज्ञैः सुवर्णं दक्षिणा मता ॥ इति हेमाद्रौ माण्डव्योक्तेः ] । ब्राह्मणश्च अभिषेकतिलकमन्त्र पाठादिकं कुर्यात् । 1 इति भूमिदानप्रयोगः। [भूमर्मूल्यं यद्यपि कात्यायनकृतमूल्याध्यायेऽन्यत्र च निर्दिष्टं नोपलभ्यते तथापि दातव्यभूमिमानस्य गोचर्म-निवर्तनादिरूपस्या नेकविधस्योक्तत्वात् तदनुसारेण तत् कल्प्यम् । तथा च हस्तमात्रं तु यो दद्याद् भुवः पुरुषसत्तमः। तेनैव ध्रुवमायाति भूमिदानफलं नरः॥ मादेशमात्रां भूमि तु यो दद्यादनुपस्कृताम् । न स सीदति कृच्छ्रेण न च दुर्गाण्युपाश्नुते ॥ इत्यादिविष्णुधर्मोत्तरादिवचनैः हेमाद्रौ उधृतैः हस्तमात्रप्रादे शमात्रभूमेरपि दानस्यानुमतत्वलाभाव तावन्मात्रभूमेर्मूल्यस्य तत्तद्दे शकालोचितस्य दानमपि भूम्यसत्त्वे अनुमतं भवति । तच्च मूल्यम् अद्यत्वे मुद्राङ्कितरूप्यकार्यरूपमत्यन्तदरिद्रस्य भवति, न ततो न्यू नमिति दिक् । ____ दानवाक्यं तु सुवर्णरजतादिरूपमूल्यदाने मूल्यनिर्देशद्वारेणैव पठनीयं न तु यत्स्थाने दीयते तस्यैव साक्षानिर्देशेनेति गोमूल्यदाने निरूपितम् ] ॥ इति भूमिदानम्। अथ विद्यादानाख्यं तृतीयमतिदानम् । - तच त्रिविधम्-अध्यापनरूपं, वेदमूचिदानरूपं, पुस्तकदान रूपश्च । तत्राद्यमाह याज्ञवल्क्या सर्वधर्ममयं ब्रह्म प्रदानेभ्योऽधिकं यतः। तहदत्समवाप्नोति ब्रह्मलोकमविच्युतम् ॥ ब्रह्म घेदः । परब्रह्मविद्यादानं तु संपदानस्य मोक्षफलक, न तु ब्रह्मनिष्ठस्य तदातुः । पूर्णकामत्वेन फलानपेक्षत्वात् । हेमाद्रौ गारुडे “अथदानविधिवक्ष्ये” इत्यादिना वेदमूर्तिदानमुक्त्वा अनधीतवतो वेदान् वेददानविधिस्त्वयम् । दानप्रकरणे चतुर्वेदमूर्तिदानप्रयोगः। ११७ सदाऽध्ययनयुक्तस्य शिल्याध्यापनमेव हि ॥ स्वयं शुचिः शुचीन विप्रान् प्रातः स्नातो यतेन्द्रियः । दर्भानादाय पाणौ तु पाठयेत् तांस्तथाविधान् ।। अनध्यायान् परिहरन् नीचानश्रावयन्नपि । एवं विधानतो यस्तु ऋचमेकां प्रयच्छति ॥ त्रिवित्तपूर्णसंपूर्णा तेन दत्ता मही भवेत् । इत्युक्तम् । तथा तत्रैव-उपाध्यायस्य यो वृत्तिं दत्त्वाभ्यापयते जनम् । किं न दत्तं भवेत्तेन धर्मकामार्थदर्शिना ॥ छात्राणां भोजनाभ्यङ्ग वस्त्रं भिक्षामथापिवा । दत्त्वा प्राप्नोति पुरुषः सर्वकामान् न संशयः॥ विवेकी जीवितं दीर्घ धर्मकामार्थमाप्नुयात् । सर्वमेव भवेदत्तं छात्राणां भोजने कृते ।। वह्निपुराणे-प्रातरुत्थाय यो वेदान् वेदाङ्गमपि पाठयेत् । पृथिवीदानतुल्यं स्यात् फलं तस्य नृपोत्तम । यमः-य इमां पृथिवीं दद्यात् सर्वरत्नोपशोभिताम् । दद्याच्छास्त्रं च विप्राणां तच्चैतानि च सत्समम् ॥ इति हैमादौ विस्तरः। अथ द्वितीय विद्यादानं वेदमूर्तिदानरूपम् । तच्च गारुडे आम्नायरूपाणि विधाय सम्यक हैमानि पूर्वोदितलक्षणानि । विशुद्धनानामणिभूषितानि ऋगादिवेदक्रमतो निवेश्य ॥ अथ दानविधि वक्ष्ये रहस्यं परमं मतम् । यं विधाय नरो घोरान् निरयान् नोपसर्पति ।। वासांसि देयानि यथाक्रमेण पीतानि शुक्लान्यथ लोहितानि । नीलानि चैवं कुसुमानि दत्त्वा संपूज्य गन्धाक्षतधूपदीपैः ॥ इति ।

  • अथ चतुर्वंदमूर्तिदानप्रयोगः। पुण्यकाले सुस्नातः धौतपाणिपादः सुलिप्तायां भूमौ शुद्धासने उपविश्य दीप प्रज्वलय्याचम्य गणेशादीन् प्रणम्य कर्मपात्रं संपाद्य कुशतिलयवजलहस्तो देशकालौ सङ्कीर्त्य सर्वनरकबाधानिवृत्त्यर्थ ११८ परिशिष्टदीपके चतुर्वेदमूतिदानं करिष्ये तत्पूर्वाङ्गत्वेन चतुर्णां ब्राह्मणानां पूजन पूर्वकं वरणं, वेदमूर्तीनां पूजनं च करिष्ये इति सङ्कल्प्य ब्राह्मणान् सम्पूज्य वृत्वा द्वादशकोंन्मितेन, चतुष्कर्षोन्मितेन, एककर्षोन्मितेन वा सुवर्णेन एकैकां वेदमूर्ति विरचय्य ताश्चतस्रोऽपि अग्न्युत्तारण पूर्वकं पुरतः स्थापयित्वा तत्र ऋग्वेदमूर्तिमक्षसूत्रधारिणी, यजुर्वेद मूर्ति पङ्कजधारिणी, सामवेदमूर्ति वीणाधारिणी, अथर्ववेदमूर्ति मुक वकमलधारिणी च कृत्वा नानामणिभूषिताश्च ताः कृत्वा पूर्वम् ऋग्वेदमूर्ति दक्षिणतो न्यस्य उदक्संस्थमन्याः क्रमेण न्यस्येत् । ततः “एतं ते” इति प्रतिष्ठाप्य “ऋग्वेदः पद्मपत्राक्षः प्रलम्बजठरः शुचिः। आत्रेयो वरदश्चैष गायत्रः सोमदैवतः ॥ कातराक्षो यजुर्वेदस्त्रैष्टुभो विष्णुदैवतः । कृशमध्यः काश्यपेयः पूज्यः सर्ववरप्रदः ॥ सामवेदस्तु पिङ्गाक्षो जागतः शक्रदैवतः। भारद्वाजः क्षमी दान्तः सूर्यवर्णः शुभप्रदः ।। बृहन्नेत्रोऽथर्ववेदोऽनुष्टुभो रुद्रदैवतः। वैशम्पायनगोत्रश्च नीलोत्पलदलच्छविः॥ इत्येवं क्रमेण चतुरो वेदान् ध्यात्वा व्याहृतिभिरावाह्य गायत्र्या पाचादिभिरुपचारैः संपूज्य क्रमेण पीतानि, शुक्लानि, लोहितानि, नीलानि च वस्त्रादीनि समl ऋग्वेद पद्मपत्रात रक्ष रक्ष क्षिपाशुभम् । शरणं त्वां प्रपन्नोऽस्मि देहि मे हितमद्भभुतम् ॥ यजुर्वेद नमस्तेऽस्तु लोकत्राणपरायण । त्वत्प्रसादेन मे क्षेमा निखिलाः सन्तु सन्ततम् ॥ सामवेद महावाहो त्वं हि साक्षादधोक्षजः। . प्रसादसुमुखो भूत्वा कृपयाऽनुगृहाण माम् ।। अथर्वन् सर्वभूतानां त्वदायत्ते हिताहिते । शान्ति कुरुष्व देवेश पुष्टिमिष्टां प्रयच्छ हि ॥ . इत्येवं सम्पार्थ्य संकल्प्य एकैका मूर्ति तेभ्यो दद्यात् । दानप्रकरणे पुस्तकदानविधिः। ११९ तत्र सङ्कल्पः-तिलकुशयवजलान्यादाय देशकालौ सङ्कीर्त्य अखिलनरकोद्धरणद्वारा श्रीपरमेश्वरप्रीत्यर्थम् इमा वेदमूर्तीः सुपूजि तेभ्यो ब्राह्मणेभ्य एकशो विभज्य सम्पददे ॐतत्सन्न मम इति । ब्राह्मणाश्च “देवस्य त्वा” इति यजुः पठित्वा ॐस्वस्तीति प्रतिगृह्य कामस्तुति पठेयुः। ततो दानप्रतिष्ठासिद्धयर्थं ( १ ) द्वादश चतुरो वा कर्षान् एकं वा कर्ष सुवर्णस्य दक्षिणामेकैकस्मै ब्राह्मणाय दद्या व । ततो भूयसी संकल्प्य कर्मेश्वरार्पणं कृत्वा विष्णुं स्मरेत् । इति वेदमूर्तिदानम् । अथ तृतीयं पुस्तकदानात्मकं विद्यादानम् । तच वह्निपुराणे-शुभेऽह्नि शुभनक्षत्रे मण्डपं शुभवेदिकम् । चतुरस्त्रं वितानं वा कृत्वा तत्रोपलेपयेत् ॥ गोमयेनोपलिप्ते तु पुष्पप्रकरशोभिते । तत्र न्यस्यासनं दिव्यं दिव्यगन्धाधिवासितम् ।। संस्थाप्य पुस्तकं तत्र धर्मशास्त्रस्य धीमतः । चन्द्रसूर्योपरागे वा संक्रान्त्ययनवासरे ॥ पुण्येऽह्नि तत् सुसंपूज्य वस्त्रालङ्कारभूषणैः । घृतधेन्वा युतं रत्नदद्याद गुणवते ततः ।। शास्त्रसद्भावविदुषि वाचकेऽतिप्रियंवदे । तच्छास्त्रं शृण्वतां नित्यं जनानां नाशयत्ययम् ॥ दातुस्तस्माद्भवेनैकफलं तच्छृणु भूपते । यत्पुण्यं सर्वतीर्थानां विधिवद्यजतां तथा ॥ तत्पुण्यं समवाप्नोति विधिवच्छास्त्रदः पुमान् । ब्राह्मणान् वेदसम्पूर्णाश्छन्दोलक्षणपारगान ।। लिखापयित्वा यत्नेन तत्समग्रं शुभाक्षरैः । इति । वाराहपुराणे-सौवर्णी लेखनी कार्या मसीभाण्डं च रौप्यकम् । (१) प्रदद्यादेकमेकस्मिन् सुवर्णत्रिपलान्वितम् । दद्यादेकपलोपेतमे कैकमिह दुर्बलः ॥ अथ स्वशक्तिो वाऽपि दानमेषां विधोयते । एतदेव प्रमाणं स्यात् तेषां मूर्ति विनिर्मिती ॥ इति हेमाद्री गारुडोक्तः । १२० परिशिष्टदीपके जयशब्दं समुद्धोष्य प्रारभेल्लेखकः सुधीः ।। इति लेखनप्रकारः फलविशेषाश्चाभिहिताः । अथ पुस्तकदानप्रयोगः । यजमानः कर्मपात्रसंपादनान्तं पूर्वोक्तविधिना कृत्वा कुशादियुतं जलमादाय देशकालौ संकोयं दानकल्पोक्तस्वर्गादिफलकामो वि. अणुप्रीतिकामो वा अमुकपुस्तकदानं करिष्ये इति तदङ्गत्वेन ब्राह्मणस्य पूजनपूर्वकं वरणं, सौवर्णप्रतिमासु अक्षतपुञ्जादिषु वा ब्रह्मादीनां, पुस्तके अमुकशास्त्रस्वरूपस्य पूजनं च करिष्ये इति च संकल्प्य ब्राह्म णं संपूज्य वृत्वा सौवर्णप्रतिमासु अक्षतपुञ्जादिषु वा ब्रह्मविष्णुशि वान् सरस्वतीम् इन्द्रादिदशदिक्पालान् विनायकादिपञ्चलोकपालांश्च आवाह्य ‘एतं ते” इति प्रतिष्ठाप्य संपूज्य पुस्तके शास्त्रस्वरूपं च संपूज्य हस्ते कुशादिकमादाय देशकालौ संकीर्त्य एतत्पुस्तकस्थिताक्षरसम संख्य(१) वर्षसहस्रावधिस्वर्गवास-पक्तिसमसंख्य (२)कुल जोदारपूर्वकस्वर्गनयन-पत्र (३) समसंख्ययुगसहस्रावधिसकुल स्वर्गवासप्राप्तिकामः, सकलपापक्षय (४) पूर्वकपरमेश्वरप्रीतिकामो वा इदममुकपुस्तकं सरस्वतीदेवताकं स्वयं लिखितं लेखितं वा अमु कगोत्रायामुकवेदाध्यायिने अमुकशर्मणे ब्राह्मणाय तुभ्यं संप्रददे ॐतत्सन्न मम इत्युक्त्वा सर्वविद्याश्रयज्ञानकारणं ललिताक्षरम् । पुस्तकं सम्प्रयच्छामि प्रीता भवतु भारती॥ (१) यावदक्षरसंख्यानं विद्यते शास्त्रसंश्रये । ताववर्षसहस्राणि स्वर्ग विद्याप्रदो भवेत् ॥ इति हेमाद्रौ नन्दिपुराणे । (२) यावत्यः पङ्यश्चात्र पुस्तकेऽक्षरसंश्रिताः। तावतो नरकात् कुल्यानुफ़्त्य नयते दिवि ॥ इत्यपि तत्रैव।। (३) यावश्च पत्रसंख्यानं पुस्तके विद्यते शुभम् । तावद्युगसहस्राणि सकुलो मोदते दिवि ॥ इति तत्रैव। (४) यावञ्च पातकं तेन कृतं जन्मशतैरपि । तत्सर्व तस्य नश्येत विद्यादानेन देहिनः । इत्यपि तत्रैव । दानप्रकरणे सुवर्णदानप्रयोगः। १२१ इति पठित्वा ब्राह्मणहस्ते पुस्तकं दत्त्वा सुवर्णत्रयं, सुवर्णद्वयम् , एकं वा सुवर्णं, यथाशक्ति वा हिरण्यं, वस्त्रयुगं च पुस्तकदानपति ष्ठासिद्धयर्थं दद्यात् । कर्मशेषः पूर्ववत् । ___ अयं सर्वपुस्तकसाधारणदानविधिः। पुराणादिदाने विशेषस्तु हेमायादौ द्रष्टव्यः। इति पुस्तकदानम् । इति त्रीण्यतिदानानि ॥ अथ दश महादानानि । तत्संग्रहः कूर्मपुराणे कनकाश्वतिला नागो दासी-रथ-मही-गृहाः । कन्या च कपिला धेनुर्महादानानि वै दश ॥ तत्र प्रथमनिर्दिष्टत्वात् सुवर्णदानमेव तावदुच्यते । वह्निपुराणे अग्निस्तु देवताः सर्वाः सुवर्ण हि तदात्मकम् । तस्मात् सुवर्ण ददता प्रीताः स्युः सर्वदेवताः ।। इति । दश पूर्वान् परांश्चैव नरकात् तारयन्ति ते।। सुवर्ण ये प्रयच्छन्ति प्रोवाचेदं बृहस्पतिः ॥ इति । ___ अथ सुवर्णदानप्रयोगः। दाता आचमनादि भूतोत्सादनान्तं गोदानवत् कृत्वा कुशयघ तिलजलपाणिः देशकालौ संकीर्त्य अक्षयस्वर्गकामः, पापक्षयकामः, पितृतारणकामः, ईश्वरप्रीतिकामो वा सुवर्णदानं करिष्ये इति प्रति ज्ञाय तदङ्गत्वेन ब्राह्मणस्य पूजनपूर्वकं वरणं सुवर्णस्य पूजनं च करिष्ये इति संकल्प्य गन्धादिना ब्राह्मणं संपूज्य पूर्ववत वृत्वा सुवर्ण संप्रोक्ष्य हिरण्यगर्भगर्भस्थं हैम बीजं विभावसोः। अनन्तपुण्यफलदमतः शान्ति प्रयच्छ मे ॥ इति संपूज्य पूर्ववदेशकालौ फलं च संकीर्त्य ब्राह्मणस्य गोत्र नामनी उल्लिख्य इदं कर्षमात्रसुवर्णमग्निदैवतं तुभ्यमहं संगददे १५५०१२२ परिशिष्टदीपके ॐतत्सत् न मम इत्युक्त्वा “हिरण्यगर्भगर्भस्थम्” इति दानवाक्यं पठित्वा ब्राह्मणहस्ते सकुशोदकं सुवर्ण दद्यात् । ततः सुवर्णदानप्र तिष्ठासिद्धयर्थम् इदं सुवर्णमनिदैवतं दक्षिणां तुभ्यमई संप्रददे न मम इति दक्षिणां दद्यात् । सुवर्णदाने रजतं दक्षिणेति केचित् । तन्निर्मूलमिति हेमाद्रिः । ब्राह्मणश्च “देवस्यत्वा” इतियजुः पठित्वा ॐस्वस्ति अग्निदेवतायै सुवर्ण प्रतिगृह्णामि इत्युच्चार्य प्रतिगृह्य “कोऽदात” इति कामस्तुतिं पठेत् । इति सुवर्णदानप्रयोगः । प्रसङ्गतः देयहिरण्यादीनां परिमाणं निरूप्यते । तच्च दानकमलाकरे शातातपीये कर्मविपाके उक्तम् निवर्तनमिता भूमिर्दोणत्रयाद्वय]मितास्तिलाः । कर्षमात्रं सुवर्ण स्यादाज्यं सप्रस्थमाढकम् ॥ वाससो द्वितयं दद्याद गुडं च पलषष्टिकम् । ६०पलमितम् । निष्कत्रयमितं रौप्यं लवणं सार्धवारिकम् ।। कर्षचतुष्टयमितं रजतं रजतनिष्कः । तस्त्रयमितं १२कर्षमितं रजतम् । १६पलाधिक-७७सेटकमितं लवणं सार्धवारिकं भवति । सेटकश्च अशीतिकर्षात्मकः। वस्त्रं च सूक्ष्ममष्टहस्तायतं द्विहस्तविशालम् । सार्घखारीमितं [व]धान्यं परिमाणं प्रकीर्तितम् । इति । मिताक्षराटीकायां दानप्रकरणे पुराणान्तरे भूमिरश्चो यथाशक्ति तिलद्रोणोच्चयं तथा । गौः सुशीला च दोग्धी च कुम्भैराज्यं च पञ्चभिः ॥ कुम्भो द्रोणद्वयम् । पलमेकं तु रौप्यस्य सुवर्णस्य सुवर्णकः । सुवर्णकः कर्षः। दशवस्त्रैर्महादानं दातव्यं च मुमुक्षुणा ॥ इति । पूर्वोक्तानि भूम्यादीनि गोसहितानि दशदानानीत्युच्यन्ते । तथाचोक्तं महार्णवे संग्रह गो-भू-तिल-हिरण्या-ज्य-वासो-धान्य-गुडानि च । रौप्यं लवणमित्याहुर्दश दानानि पण्डिताः ।। एतानि च शक्ती सत्यामासनमृत्युना स्वयं कार्याणि । अन्य AD धानेप्रकरणे प्रायश्चित्तप्रयोगः। था पुत्रादिरवश्यं कुर्यात् । तदुक्तं दिवोदासीये दृष्ट्वा चास्वस्थमासनमर्धोन्मीलितलोचनम् । भूमिष्ठं पितरं पुत्रो यदि दानं प्रदापयेत् ॥ तद्विशिष्टं गयाश्राद्धादश्वमेधशतादपि । इति । तत्रादौ प्रायश्चित्तं गोमूल्यदानात्मकं कुर्यात् । तत्र प्रायश्चित्तप्रयोगः। स्वयं पुत्रादिर्वा स्वशक्तिमनुसृत्य षडब्द-व्यब्द-सार्धान्दा न्यतमकृच्छप्रायश्चित्तं चिकीर्षुः यथाक्रमम् अशोत्यधिकशत-नवति-प वचत्वारिंशत्संख्याकानां गवां मूल्यं पुरतो निधाय सति संभवे ताव द्वत्समूल्यं च (१)धृत्वा धर्माधिकारिणश्च सभ्यान् सप्त गोमूल्याधर्ष णेन संतोष्य साष्टाङ्ग प्रणमेव । तैश्च ‘किं ते कार्यम्’ इति पृष्टे [मम-जन्मप्रभृति अद्य यावत्कामाकामाभ्यां सकृदसकद्वा कृतानां ज्ञाताज्ञातानां कायिकवाचिकमानसिकसांसर्गिकाणाम् अस्पृश्यस्पर्श नाभक्ष्यभक्षणापेयपानागम्यगमनाभाज्यभापणादृश्यदर्शनादिजनिता नां पातकानुपातकोपपातकसंकरीकरणमलिनीकरणजातिभ्रंशकरम कोर्णकादिनानाविधपापानां मध्ये संभावितानां सर्वेषां पापानां निरासार्थम् ] ___ ‘अनुगृह्य प्रायश्चित्तमुपदिशन्तु भवन्तः’ इति शोध्यो भूयात् । पुत्रादिश्चेदाचरति तदा ‘ममास्य पित्रादेः’ इति वाच्यम् । सर्वे धर्मविवेत्तारो गोप्तारः सकला द्विजाः । मम देहस्य संशुद्धिं कुर्वन्तु द्विजसत्तमाः॥ मया कृतं महाघोरं ज्ञातमज्ञातकिल्बिषम् । प्रसादः क्रियतां मह्यं शुभानुज्ञां प्रयच्छत ।। पूज्यैः कृतः पवित्रोऽहं भवेयं द्विजसत्तमैः। इति पठेत् , पाठयित्वा शृणुयाद्वा । अथ शोध्यः [पुत्रादिः] ग न्यादिना पुस्तकस्य सभ्यानामनुवादकस्य च पूजां कृत्वा अनुवाद काय पापानुसारेण दक्षिणां दत्त्वा गोमूल्यं निबन्धपूजात्वेन पुस्तके (1) “बस पौराणिको मत” इति लक्षितम् । पुराणः कापिणः । १२४ परिशिष्टदीपके निवेदयेत् इत्याचारः । ततः सभ्याग्रणीः शोध्येन [पुत्रादिना] पूजि तस्य अनुवादकस्याने ‘षडब्द-ज्यब्द-सार्धाब्दान्यतमेन अमुक प्रायश्चित्तेन पूर्वोत्तराङ्गयुतेन प्रत्याम्नायद्वारा यथाशक्ति आचरितेन तव [पित्रादेः] शुद्धिर्भविष्यति तेन त्वं कृतार्थो भविष्यसि ( तव पित्रादिः कृतार्थो भविष्यति ) इति ब्रूहि इति वदेत् । अनुवादकश्च सभ्येन प्रेरितः ‘षडब्द’ इत्यादि ‘कृतार्थो भविष्यसि’ ( भविष्यति) इत्यन्तं शोध्यं वदेत् । ततः शोध्यः ( पुत्रादिः) ‘अनुग्रह’ इत्युक्त्वा प्रायश्चित्तमङ्गीकृत्य पर्षदं विसृज्य आचम्य गणेशादिप्रणामादि भूतो स्सादनान्तं कृत्वा कुशयवतिलजलमादाय देशकालौ संकीर्त्य मम [पित्रादेः ] ‘जन्मप्रभृति’ इत्यादि ‘निरासार्थम्’ इत्यन्तं पूर्वोत्तमुल्लि ख्य सभ्योपदिष्टम् (पूर्वोक्तान्यतमम् अमुकप्रायश्चित्तं ) पूर्वोत्तराङ्ग युतं गोमूल्यदानरूपप्रत्याम्नायद्वारा यथाशक्ति करिष्ये इति प्रधान प्रतिज्ञासंकल्पं कृत्वा तदङ्गत्वेन केशश्मश्रुनखानि वापयिष्ये [वस्ये] इति सङ्कल्प्य—- . " यानि कानि च पापानि ब्रह्महत्यासमानि च । केसानाश्रित्य तिष्ठन्ति तस्मात् केशान्वपाप्यहम् ॥ इति पठित्वा कक्षोपस्थशिखावण केशादीनि नापितद्वारा वपैत् । ( पुत्रादिद्वारा प्रायश्चित्ताचरणेऽपि केशादिवपनं शोध्यस्यैव । फलि त्वात् । संस्काराणां तद्तत्वस्यैव न्याय्यत्वात् । ततः विहितकाष्ठेन आयुर्बलं यशो वर्चः प्रजापशुवसूनि च । ब्रह्म प्रज्ञां च मेधां च त्वं नो देहि वनस्पते ॥ इति मन्त्रेण दन्तधावनं कृत्वा तूष्णीं मार्जनात्मकं स्नानं कुर्यात् । ततः सति सम्भवे भस्मादिभिर्दशभिः दश स्नानानि क्रमेण कुर्यात् । तत्र प्रथमं भस्मस्नानम् । तद्यथा-श्रौत-स्मार्ताग्निजं भस्म तदभावेऽन्यद्वा भस्मादाय धामपाणौ धृत्वा दक्षिणेनाच्छाद्य “ॐअग्नि रिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्म व्योमेति भस्म सर्व हवा इदं भस्म मनएतानि चक्षुषि भस्मानि” इति मन्त्रेण भस्माभिमन्त्र्य ॐईशानाय नम इति शिरसि, ॐतत्पुरुषाय नमः दानप्रकरणे प्रायश्चित्तप्रयोगः। १३५ इति मुखे, ॐअघोराय नमः इति हृदये, ॐवामदेवाय नमः इति गुह्ये ॐसद्योजाताय नमः इति पादयोश्च भस्म विलिप्य प्रणवेन सर्वाङ्गे विलिम्पेत् । ततः शुद्धगोमयमादाय अग्रमग्रं चरन्तीनामोषधीनां रसं वने । तासामृषभपनीनां पवित्रं कायशोधनम् ॥ यन्मे रोगं च शोकं च नुद गोमय सर्वदा । इत्यनेन “मा नस्तोके” इत्यनेन च अभिमन्त्र्य प्रणवेन दक्षि भागं चतुर्दिनु, उत्तरभागं च तीर्थे प्रक्षिप्य शेषं सूर्य प्रदर्य दक्षि णहस्तेन शिरसि तूष्णीं सकृदनुलिप्य नाभेरुपरितनेश्वङ्गेषु द्विरनुलि प्य नामेरधस्तात्पादपर्यन्तं वामकरण त्रिरनुलिम्पैन् । • अथ मृत्तिकास्नानम् । मृत्तिकां गृहीत्वा अश्वक्रान्ते रथक्रान्ते विष्णुकान्ते वसुन्धरे । … ., मृत्तिके हर मे पापं यदैवं यच्च मानुषम् ॥ इत्यभिमन्व्य उद्धृतासि वराहेण कृष्णेन शतबाहुना । शिरसा धारयिष्यामि रक्ष मां त्वं पदेपदे । इति पठित्वा शरीरे गोमयवदनुलिम्पैन । अथ जलस्नानम् । ॐआपोऽअस्मान् मात शुन्धयन्तु घृतेन नो घृत. या पुनन्तु । विश्व हि रिप्रं प्रवहन्ति देवी॥ इति मन्त्रेण स्रोतसि निमज्ज्य ॐ"उदिदाभ्यः शुचिरापूत ऽएमि” इत्युन्मज्जेत् । स्रोतसोऽभावे ॐइदं विष्णुर्विचक्रमे त्रेधा निदधै पदम् । समूढमस्यपामुरे” इत्यनेन जलम भिमन्व्य स्नाया । शक्त्यभावे “ॐआपोहिष्ठा” इत्यादिभिस्ति मुभिजियेत् । ततो गायच्या गोमूत्रमभिमन्य गोमयमिवानुलिप्य गोमयं पुनः पूर्ववदनुलिप्य ॐआप्यायस्व समेतु ते विश्वतः सोम ब्वृ. ण्यम् । भवा व्वाजस्य संग” इति दुग्धयभिमन्व्य अनुलिप्य परिशिष्टदीपक ॐदधिक्राणोऽअकारिषं जिष्णोरश्वस्य वाजिनः । सुराभ नो मुखा करत् प्र ण आयूषि तारिषत् ॥ इति । दघि अभिमन्व्य अनुलिप्य ॐ’तेजोऽति शुक्रमस्थमृतमसि धामनामासि प्रियं देवानामनावृष्टं देवयजनमसि” इत्या ज्यमभिमन्व्य अनुलिप्य ॐ"देवस्यत्वा” इति कुशोदकमभिमन्व्य अनुलिप्य स्नायात माजयेद्वा । ___ ततो धौतं वासः परिचाय भस्मना त्रिपुण्डू गोपीचन्दनादिना अर्ध्वपुण्डूवा कृत्वा गोदानोक्तविधिना प्रायश्चित्ताधिकारसिद्धयर्थ पूर्वाङ्गभूतं गोदानं कृत्वा विष्णुप्रोत्यर्थं ब्राह्मणचतुष्टयाय भोजनपर्या सानद्विगुणं तत्सम वा आम, मिष्टलड्डुकादिकं, तनिष्क्रयं वा दत्त्वा संस्कारदीपकस्य द्वितीयभागोक्तरोत्या [पृ०२४०-२४२] पञ्चगव्यं विधाय स्थण्डिले पञ्चभूसंस्कारपूर्वकमग्नि प्रतिष्ठाप्य तत्सन्निधौ पञ्च गव्यं निधाय ब्रह्मणो वरणमुत्तरतः कृत्वा दक्षिणतो ब्रह्मासनमास्तीर्य तत्र ब्रह्माणमग्नेः पूर्वत उपवेश्य कुशकण्डिकोक्तरीत्या[सं० दी०प्र० पृ०१६८] प्रणीताप्रणयनादिपर्युक्षणान्तं कर्म कृत्वा नामकर्मप्रयोगो क्तरीत्या [सं० दी० द्वि० पृ० २४२—] द्रव्यदेवताभिध्यानाग्निपू. जनाधाराज्यभागहोमपञ्चगव्यहोमान् कृत्वा ‘भो विषा व्रतं ग्रहीष्ये’ इति ब्राह्मणान् प्रार्थ्य ‘गृहाण’ इति तैरनुज्ञातो हुतशेष पञ्चगव्यं प्रणवेन हस्तेनालोड्य, यज्ञियकाष्ठेन प्रणवेनैव निर्मथ्य, तेनैव उभा भ्यां हस्ताभ्यामुत्य, शब्दमकुर्वन् तेनैव पिवेत् । तदिने आहारा न्तरं परित्यजेत् । अशक्तौ दुग्धाद्याहारी वा भवेत् (१)। पञ्चगव्य (१) यत् स्वगस्थिगतं पापं देहे तिष्ठति देहिनाम् । ब्रह्माकूर्च दहेत सर्व प्रदीप्तोऽनिरिवेन्धनम् ॥ इति पराशरेण ( श्रध्या० ११ । ३७) ब्रह्म कूर्चस्य भोज्यभोजनादिषु प्राहारपरिणामेन दुष्टावयवोपचयरूपस्य दो. षस्य निवर्तकस्वाभिधानात्, “ब्रह्मकोंपवासेन योज्या पर्णस्य निष्कृति” इत्यनेन ‘उपवासपूर्वकेण ब्रह्मकर्वस्य पञ्चगव्यस्य पानेन शुद्धियोंज्या’ इत्यर्थकेन अपेयपाने, “ब्रह्मकूच तु पावनम् इत्यनेन अमोज्यभोजनेच पञ्चगव्यपानविधानाच अपेयपानादा पञ्चगव्यपानमावश्यकम् । “इरा पती, विष्ण, मानस्तोकेच, शंवती। पाभिव होतम्यं इतशेष

दानप्रकरणे प्रायश्चित्तप्रयोगः। १५७ पानानन्तरं तहिने एव वा निशामतिबाह्य दिनान्तरे वा ब्राह्मणान् संपूज्य वृत्वा देयद्रव्यं च संप्रोक्ष्य संपूज्य देशकालौ संकीर्त्य कुशय वतिलजलान्यादाय मम (पित्रादेः) ‘जन्मप्रभृति’ इत्यादि ‘निरा सार्थम्’ (१२३ ) इत्यन्तमुल्लिख्य इमानि अशीत्यधिकशत-नव ति-पञ्चचत्वारिंशदन्यतमसंख्याककृच्छपत्याम्नायभूतानां गवां मू ल्यभूतानि पूर्वोक्तान्यतमसंख्याकानि सुवर्णनिष्काणि, तदर्धानि, तदर्थार्धानि वा वहिदैवतानि-रजतनिष्काणि, तदर्धानि, तदर्धार्धानि वा चन्द्रदैवतानि-पणद्वात्रिंशत्कानि वा (१) सूर्यदेवताकानि-का पिणानि वा सूर्यादिदैवतानि यथाविधि विभज्य नानानामगोत्रेभ्यो ब्राह्मणेभ्यो (युष्मभ्यं संप्रददे ) यथाकालं दास्ये ॐ तत्सत् न मम इति संकल्प्य दद्यात् । प्रतिगोमूल्यदानं गोमूल्यतृतीयांश, तद्दशमांशं, यथाशक्ति बा दक्षिणां दानप्रतिष्ठासिद्धयर्थं दद्यात् । ततो भूरादिहोमं संस्रवपाशना दि पूर्णपात्रदानान्तं च तत्रैवोक्तरीत्या कृत्वा विष्णुश्राद्धानुकल्पभू तं ब्राह्मणचतुष्टयाय आमानादिदानं पूर्ववत्कृत्वा उत्तरगोदानं सति सम्भवे स्वरूपतः कुर्यात् । तदशक्तौ मूल्यं सुवर्णनिष्कात्मक, तत्रा पिबेद् द्विजः ॥” इत्यनेन तत्रैव तत्पानस्य होमपूर्वकस्य विधानाद्धामोऽनु ठेयः। “शुद्राणां नोपवासः स्याच्छूद्रो दानेन शुध्यति । ब्रह्मकूर्चमहोरात्रं श्वपाकमपि शोधयेत् ॥” इत्यनेन तत्रैव ब्रह्मकूर्चानाथे विहितपूर्वदिनोप पासनिषेधपुरःसरं पञ्चगव्यानस्य सर्वसाधरण्येन विधानात् स्त्रोशूद्रा णामपि प्रायश्चित्तार्थ तत्पानमनुमतम् । “पश्चगव्यं पिबेच्छद्रो ब्राह्मणाचा सुरां पिबेत् । उमौतौ तुल्यदोषौ हि पूयाख्यं नरकं गतौ ॥” इति अत्रि वचनं तु प्रायश्चित्तातिरिक्तपञ्चगव्यपाननिषेधपरम् । “अग्निवर्णो सुरां पिवेत्” इति प्रायश्चित्तभूतसुरापानातिरिक्तपरतुरापाननिषेधवत् । स्त्रीणां शूद्राणां च होमोन कार्यः इत्येके। ब्राह्मणद्वारा कार्य एवेस्यन्ये । पञ्च गज्यपाने कालविशेषमाह जाबालि:-“चतुर्दश्यामुपोष्याथ पौर्णमास्यां विशेषतः। पञ्चगव्यं पिवेत् प्रातर्ब्रह्मकूर्चमिति स्मृतम्” ॥ इति । देशमाह शातातप:-“नदीतीरेषु गोष्ठेषु पुण्येष्वायतनेषु च । तत्र गत्वा शुचो देशे ब्रह्मकूर्व समाचरेत् ॥ इति । (१) “तान्ने सूर्यस्तथा प्रोक” इति गारोतः। १२८ परिशिष्टदीपके प्यशक्तो रजतनिष्कात्मकं, तत्राप्यशक्तौ यथाशक्ति अन्यगोमूल्यापे भयाऽधिकं सर्वथा दद्यात् । अत्रापि दक्षिणा दानप्रतिष्ठासिद्धयर्थं देया। ब्राह्मणाश्च “देवस्य त्वा” इति यजुः पठित्वा द्रव्यमनुसृत्य अमु कदेवतायै प्रतिगृह्णामि “ॐस्वस्ति” इति प्रतिगृह्य “ॐकोऽदात्” इति कामस्तुतिं पठेयुः । शोध्यश्च [पुत्रादिः ] उत्तराङ्गत्वेन अग्निं सम्पू ज्य विसृजेत् । ____एवं सर्वप्रायश्चित्तं कृत्वा पूर्वोक्तानि दश दानानि कुर्यात् । तत्र गोदानप्रयोग: व्याससमासाभ्यामुक्तः ( पृ० १०७)। भूमिदानप्र योगोऽप्युक्तः (पृ० ११३ )। तदनुसारेण ते कुर्यात् । अथ तिलदानप्रयोग उच्यते । दाता आचमनादिभूतोत्सादनान्तं कृत्वा द्रोणत्रयपरिमितान् वा द्रोणयपरिमितान् वा द्रोणपरिमितान् वा [ पलाधिकपादोनत्र योदशसेटकमितान् ] यथाशक्ति वा तिलान् पुरतः कस्मिंश्चित्पात्रे वस्त्रे वा संस्थाप्य कुशयवादिकमादाय देशकालौ संकीर्त्य मम [ पि त्रादेः ] सकलपापक्षयद्वारा श्रीविष्णुप्रीतये तिलदानं करिष्ये इति प्रतिज्ञाय ब्राह्मणं सम्पूज्य वृत्वा तिलान् संप्रोक्ष्य विष्णोर्देहसमुद्भूताः कुशाः कृष्णतिलास्तथा । धर्मस्य रक्षणायालमेतत्माहुर्दिवौकसः॥ इति संपूज्य विष्णुप्रोतये इत्यन्तं पूर्वोक्तमुल्लिख्य इमान् द्रोण त्रय-द्रोणद्वय-एकद्रोणान्यतमपरिमितान् तिलान् प्रजापतिदेवताकान् सुपूजिताय ब्राह्मणाय तुभ्यमहं संप्रददे ॐतत्सत् न मम इति जला दिक ब्राह्मणहस्ते प्रक्षिप्य महर्षेत्रिसंभूताः कश्यपस्य तिलाः स्मृताः। . . तस्मादेषां प्रदानेन मम पापं व्यपोहतु ॥ इति मन्त्रं पठित्वा तिलद्रोणं स्पर्शयेत् । तिलपात्रदानं तु षोडशपलनिर्मिते यथाशक्ति. परिमाणनिर्मिते वा ताम्रपाने तिलान् निधाय हिरण्यं च यथाशक्ति तत्र धृत्वा पूर्वो तविधिना m ०० दानप्रकरणे आज्याहिदानप्रयोगः। १२९ यानि कानि च पापानि ब्रह्महत्यासमानि च । तिलपानप्रदानेन तानि नश्यन्तु मे सदा ॥ इति मन्त्रविशेष पठन् कुर्यात् ! यथाशत्ति सुवर्णं तन्मूल्यं वा दक्षिणां दानप्रतिष्ठासिद्धयर्थं दद्यात् । तिलमूल्य तिलपरिमाणानुसा रेण कल्प्यम् । हिरण्यदानप्रयोगस्तु उक्त (४० १६१)। तदनुसारेण तहानं कर्तव्यम् । नवपणाधिक कार्षापणो हिरण्यस्य मूल्यम् । ___अथाज्यदानम् । सेटकचतुष्टयमितं, लेटकमात्र वा आज्यं पुरतो निधाय पूर्ववदानप्रतिज्ञा कृत्वा ब्राह्मणं सम्पूज्य वृत्वा आज्यं संप्रोक्ष्य संपूज्य मम (पित्रादेः ) सकलपापक्षयद्वारा विष्णुप्रीतये इदमाज्यं विष्णुदैवतं (मृत्युञ्जयदैवतं ) तुभ्यमह संपददे ॐतत्सत् न मम इति संकल्प्य कामधेनोः समुद्भूतं देवानामुत्तमं हविः। आयुर्वृद्धिकरं दातुराज्यं पातु सदैव माम् ।। इति पठित्वा दद्यात् । सुवर्ण दक्षिणां तन्मूल्यं वा दानप्रति ष्ठासिद्धयर्थं दद्यात् । आज्यमूल्यं कल्प्यम् ।। ___ अथ वस्त्रदानम् । सूक्ष्मतन्तुनिर्मितं वस्त्रद्वयम् अष्टहस्तायतं हस्त द्वयान्यूनविशालं प्रान्तयोरच्छिन्नं नूतनं पुरतो निधाय पूर्ववत् दान प्रतिज्ञा-ब्राह्मणपूजन-वरण-वस्त्रमोक्षण-पूजनानि विधाय मम (पित्रादेः) सकलपापक्षयद्वारा विष्णुप्रीतये इदं वासोयुग्मं बृहस्पतिदैवतं तुभ्य महं संप्रददे ॐतत्सत् न मम इति संकल्प्य शीतवातातपत्नाणं लजाया रक्षणं परम् । देहालंकरणं वस्त्रमतः शान्ति प्रयच्छ मे ॥ इति पठित्वा दद्यात् । सुवर्णं तन्मूल्यं वा दक्षिणां दानप्रतिष्ठा सिद्धयर्थं दद्यात् । वस्त्रमूल्यं कार्षापणः। ___अथ धान्यदानम् । १६पलाधिक-सप्तसप्ततिसेटकमितं धान्य ब्रीह्यादिरूपं पुरतो निधाय दानप्रतिज्ञादिकं पूर्ववत् कृत्वा धान्यं संप्रो त्य संपूज्य मम (पित्रादेः) सकलपापक्षयद्वारा विष्णुप्रीतये इदं धान्यं प्रजापतिदैवतं तुभ्यमहं संप्रददे ॐतत्सत् न मम इति संकल्प्य परिशिष्टदीपके सर्वदेवमयं धान्यं सर्वोत्पत्तिकरं महत् । प्राणिनां जीवनोपायमतः शान्ति प्रयच्छ मे ॥ इति पठित्वा दद्यात् । दानमतिष्ठासिद्धयर्थं सुवर्ण तन्मूल्यं वा दक्षिणां दद्यात् । धान्यमूल्यं परिमाणानुसारेण कल्प्यम् । अथ गुडदानम् । सेटकत्रयमितं यथाशक्ति वा गुडं पुरतो निधाय दानप्रतिज्ञादि विधाय गुडं संप्रोक्ष्य संपूज्य मम (पित्रादेः) सकलपापक्षयद्वारा विष्णुप्रीतये इमं गुडं सोमदैवतं तुभ्यमहं संप्रददे ॐतत्सत् न मम इति संकल्प्य यथा देवेषु विश्वात्मा प्रवरश्च जनार्दनः । सामवेदस्तु वेदानां महादेवस्तु योगिनाम् ॥ प्रणवः सर्वमन्त्राणां नारीणां पार्वती यथा । तथा रसानां प्रवरः सदैवेचुरसो मतः॥ मम तस्मात्परां लक्ष्मी ददस्व गुड सर्वदा । . इति पठित्वा दद्यात् । दानप्रतिष्ठासिद्धयर्थं सुवर्ण तन्मूल्यं वा दक्षिणां दद्यात् । गुडमूल्यं परिमाणानुसारेण कल्प्यम् । . अथ रजतदानम् । पलत्रयमितं, पलमितं, यथाशक्ति वा रजतं पुरतो निधाय दानप्रतिज्ञादि विधाय रजतं संप्रोक्ष्य संपूज्य मम (पित्रादेः) सकलपापक्षयद्वारा विष्णुप्रीतये इदं रजतं चन्द्रदैवतं (१) तुभ्यमहं संप्रददे ॐतत्सत् न मम इति संकल्प्य प्रीतिर्यतः पितृणां च विष्णुशंकरयोः सदा । शिवनेत्रोद्भवं रौप्यमतः शान्ति प्रयच्छ मे ॥ (१) यद्यपि “आग्नेयं कनकं प्रोक्तं सर्वलोहानि चाप्यथ” इति विष्णु धर्मात्तरोत लोहशब्दस्य सर्वधातुवाचकत्वात् रजतस्याग्निदेवतस्वं लम्य ते, “रूप्ये च पितरो ज्ञेयाः” इति तुलादानप्रकरणस्थगारुडोत्या च पितृदै. वतत्वं, तथापि रजतस्य शिवनेत्रोद्भवत्वात्तदामनेत्रस्य च चन्द्रारमकत्वात् वर्णसाम्येन तदुद्भवत्वनिश्चयात् रजतस्य चन्द्रदेवतत्वम् । पितृदेवतत्वो क्तिस्तु पितृणां चन्द्राधिष्ठानत्वेन । तेषां तद्धिष्ठानत्वं च “विधूवभागे पितरो वसन्ति” इति सिद्धान्तशिरोमण्यादिप्रन्थेषु स्पष्टम् इति दिक। वानप्रकरणे लवणादिवानप्रयोगः। १३१ इति पठित्वा दद्यात् । दानप्रतिष्ठासिद्धयर्थं सुवर्णं तन्मूल्यं वा दक्षिणां दद्यात् । अथ लवणदानम् । (१६) षोडशपलाधिक(७७)सप्तसप्त तिसेटक्रमितं यथाशक्ति वा लवणं पुरतो निधाय दानप्रतिज्ञादि विधाय लवणं संप्रोक्ष्य संपूज्य मम ( पित्रादेः) सकलपापक्षयद्वारा विष्णुप्रीतये इदं लवणं सोमदैवतं तुभ्यमहं संप्रददे ॐतत्सत् न मम । यस्मादन्नरसाः सर्वे नोत्कृष्टा लवणं विना। शम्भोः प्रीतिकरं यस्मादतः शान्ति प्रयच्छ मे ॥ ___ इति पठित्वा दद्यात् । दानप्रतिष्ठासिद्धयर्थं सुवर्ण तन्मूल्यं वा दक्षिणां दद्यात् । लवणमूल्यं परिमाणानुसारेण कल्प्यम् । इति दश दानानि । अथ प्रसङ्गात् पञ्चधेनूनां दानानि । तत्रादौ पापधेनुदानम् । श्वेतां गां तन्मूल्यं वा पुरतः संस्थाप्य दानप्रतिज्ञां विधाय ब्राह्मणं संपूज्य वृत्वा “नमो गोभ्य” इति गां संपूज्य तदभावे “हिरण्यगर्भगर्भस्थम्” इत्यादिना मूल्यं संपूज्य मम (पित्रादेः) मनोवाकायैः आजन्मोपार्जितज्ञाताज्ञातसकलपापक्षयद्वारा विष्णुप्रीतये इमां पापापनोदधेनुं रुद्रदैवतां [ इदं पापापनोदधेनुमूल्यं सुवर्णादिद्रव्यं वह्नयादिदैवतं ] तुभ्यमहं संप्रददे ॐतत्सत् न मम । आजन्मोपार्जितं पापं मनोवाकायसंभवम् । तत्सर्वं नाशमायातु गोप्रदानेन केशव ॥ इति पठित्वा ब्राह्मणहस्ते गोपुच्छं दद्यात् । गोमूल्यं तु गोमूल्यदानात् तत्सर्वं नाशमायातु केशव । इत्युत्तरार्धयुक्तं पूर्वार्धं पठन् दद्यात् । दानप्रतिष्ठासिद्धयर्थं सुवर्ण तन्मूल्यं वा दक्षिणां दद्यात् ।। अथ ऋणधेनुदानम् । गां तन्मूल्यद्रव्यं वा पुरतो निधाय दानप्रतिज्ञादिकं पूजनान्तं पापधेनुवत्कृत्वा मम [ पित्रादेः ] ऐहिका मुष्मिकानेकजन्मार्जितदेवऋषिपितृमनुष्यादिसमस्तऋणपापक्षय-द्वारा१३२ কাহিন্থিীযঞ্জ विष्णुमीतये इमाम् ऋणापनोदधेनु यथाशक्त्यलंकरणयोजित रुद्रदैवतां [इदम् ऋणापनोदधेनुमूल्यं सुवर्णादिद्रव्यं वयादिदैवतं ] तुभ्यमहं संप्रददे ॐतत्सत् न मम । ऐहिकामुष्मिकं यच्च सप्तजन्मार्जितं तृणम् । तत्सर्वं शुद्धिमायातु गामेतां ददतो मम ॥ इति पठित्वा पूर्ववद् दद्यात् । गोमूल्यं तु-चतुर्थपादस्थाने “गोमूल्यं ददतो मम”। इति चतुर्थपादं योजयन् दद्यात् । दानप्रतिष्ठासिद्धयर्थं सुवर्ण तन्मूल्यं वा दक्षिणां दद्यात् । __ अथ मोक्षधेनुदानम् । गां द्रव्यं वा पुरतो निधाय दानप्रतिज्ञादि पूर्ववत्कृत्वा मम [पित्रादेः ] भगवत्प्रसादात मोक्षप्राप्तये इमां मोक्षधेनुं रुद्रदैवतां [ इदं मोक्षधेनुमूल्यं सुवर्णादि वह्नयादिदैवतम् ] तुभ्य महं संप्रददे ॐतत्सन्न मम। मोक्षं देहि ऋषीकेश मोक्षं देहि जनार्दन । मोक्षधेनुप्रदानेन मुकुन्दः प्रीयतां मम [ पित्रादेः ] ॥ इति पठित्वा दद्यात् । मूल्यं तु “मोक्षधेनुमूल्यदानात्” इति तृतीयपादस्थाने योजयन् दद्यात् । दानप्रतिष्ठासिद्धयर्थं सुवर्ण तन्मूल्यं वा दक्षिणां दद्यात् । इमानि पापधेन्वादीनि त्रीणि मिताक्षराटीकायां “पुराणान्तरे” इत्युपक्रम्योक्तानि । प्रायश्चित्तधेनुश्च श्राद्धरत्नावल्याम् । तस्या दानमन्त्रः प्रायश्चित्ते समुत्पन्ने निष्कृतिर्न कृता यदि । तस्य पापस्य शुद्धयर्थं धेनुमेतां ददामि ते ॥ इति । मूल्यदाने तु ‘धेनुमूल्यं ददामि ते इत्यूहः। दानप्रयोगस्तु पापधेनुवद्धोध्यः । प्रेतमञ्जयां तु इयं दशदानेभ्यः पूर्व निर्दिष्टा । युक्तं चैतत् । अस्याः सर्वप्रायश्चित्तस्थानीयत्वेन दशदानानां च सर्वप्रायश्चित्तानन्तरमनुष्ठेयत्वेन तेभ्यः पूर्वमेवास्या अनुष्ठेयत्वात् ।

दानप्रकरणे वैतरणीदानप्रयोगः। १३३ अथ वैतरणीदानम् । तत्र व्यासः आसन्नमृत्युना देया गौः सवत्सा तु पूर्ववत् । तदभावे तु गौरेव नरकोत्तारणाय वै ।। इति । ब्रह्मवैवर्ते वैतरणीनदीस्वरूपं भयानकमुपवर्ण्य तस्यास्तरणाय अयनादिषु पुण्यकालेषु पाटलायाः कृष्णाया वा गोर्दानम् उक्तम् । तद्यथा-द्रोणपरिमितकार्यासस्य शिखराकारं सम्पाद्य पूर्व सजलं गत कृत्वा तस्मिन् पट्टवस्त्रबद्धामिक्षुदण्डमयीं नौका संस्थाप्य तत्र द्रोण मितकासं शिखराकारं धृत्वा तत्र वस्त्राच्छन्नं ताम्रपानं निधाय तत्र सौवर्णं यमं लोहदण्डयुतं धृत्वा उपरिभागे कांस्यपात्रं धृत्वा तत उपरिभागे कार्पासे सुवर्णशृङ्गादियुतां कृष्णवस्त्रयुगच्छन्नां गां सप्तधा न्ययुतामुपवेश्य मम [ पित्रादेः ] वैतरणीनदीतरणार्थं गोदानं करि ज्ये इति दानप्रतिज्ञां कृत्वा ब्राह्मणं संपूज्य वृत्वा “ॐनमो गोभ्य” इति गां संपूज्य कुशादिकमादाय गोपुच्छं करे कृत्वा पादतः नाव माश्रित्य ब्राह्मणं पुरस्कृत्य मम (पित्रादेः) वैतरणीनदीतरणार्थमि मां कृष्णां गां यथाशक्तचलंकृतां रुद्रदैवतां सवत्सां यमप्रतिमायुतां कृष्णवस्त्रयुगच्छन्नां सप्तधान्ययुतां स्वर्णशृङ्गाद्युपस्करोपेतां कासद्रो णशिखरासीनां सजलगर्ने स्थापितायामिक्षुदण्डमयनौकायां स्थितां तुभ्यमहं संपददे ॐतत्सत् न मम । यमद्वारे महाघोरे कृष्णा वैतरणी नदी। तां ततुकामो यच्छामि कृष्णां वैतरणी तु गाम् ।। विष्णुरूप द्विजश्रेष्ठ भूदेव पंक्तिपावन । सदक्षिणा मया दत्ता तुभ्यं वैतरणी नमः ॥ भवसागरमन्नानां शोकतापोर्मिदुःखिनाम् । त्राता त्वं हि जगन्नाथ शरणागतवत्सलः॥ इति पठित्वा दद्यात् । धर्मराजं ब्राह्मणं गां च प्रदक्षिणीकृत्य गोपुच्छ करे धृत्वा सप्तपदान्यनुव्रज्य धेनुके मां [पेनो एतं ] प्रतीक्षस्व यमद्वारे महाभये । १३४ परिशिष्टदीपके उत्तितीर्घरहं [ रयं ] देवि वैतरण्यै नमोऽस्तु ते ॥ इति प्रार्थयेत् । गोरभावे मूल्यमेव पुरतो निधाय दानप्रतिज्ञादि विधाय इदं वैतरणीमूल्यं सुवर्णादि अमुकदैवतं मम (पित्रादेः) वैतर णीनदी-तरणार्थ संप्रददे ॐतत्सत् न मम । वैतरण्यास्तु गोर्मूल्यं ततुकामो ददामि ताम् । इत्युत्तरार्धं प्रथमश्लोके योजयित्वा पठन् गोमूल्यं दद्यात् । दानप्रतिष्ठासिद्धयर्थं सुवर्णं तन्मूल्यं वा दक्षिणां दद्यात् । अथ उत्क्रान्तिधेनुदानम् । गां तन्मूल्यं वा पुरतो निधाग दान प्रतिज्ञादि पूर्ववत्कृत्वा मम (पित्रादेः ) सुखेन प्रणोत्क्रमणप्रतिबन्धको तनिष्कृत्यनुक्तनिष्कृतिसकलपातकक्षयद्वारा सुखेनप्राणोत्क्रमणसिद्धये इमामुत्क्रान्तिधेनुं दैवतां ( इदमुत्क्रान्तिधेनुमूल्यं सुवर्णादि वह्नया दिदैवतं ) तुभ्यमहं संप्रददे ॐतत्सत् न मम । अप्युत्क्रान्ती प्रवृत्तस्य सुखोत्क्रमणसिद्धये । तुभ्यमेनां संप्रददे धेनुमुत्क्रान्तिसंज्ञिकाम् ॥ इति पठित्वा दद्यात् । गोमूल्यं तु धेनोरुत्क्रान्तिसंज्ञाया मूल्यं तुभ्यं ददाम्यहम् । इत्युत्तरार्ध योजयन् दद्यात् । दानप्रतिष्ठासिद्धयर्थं सुवर्ण तन्मूल्यं वा दक्षिणां दद्यात् । इति पञ्च धेनुदानानि । ___ अथ अश्वदानम् ॥ देयसुवर्णपरिमाणकथनप्रसङ्गेन दशदानानि, प्रसङ्गागतं सर्व प्रायश्चित्तं, पञ्चधेनुदानानि चाभिधाय दशमहादानेषु सुवर्णदानोत्तर पठितमश्वदानमिदानीं निरूप्यते । महाभारते सर्वोपकरणोपेतं युवानं दोषवर्जितम् । योऽश्वं ददाति विप्राय स्वर्गलोके महीयते ॥ यावन्ति रोमाणि हये भवन्ति हि नरेश्वर । तावतो वाजिदा लोकान् प्राप्नुवन्तीह पुष्कलान् । दानप्रकरणे अश्वदानप्रयोगः। १३५ कौमैं अश्वं तन्मूल्यमथवा कनीयोमध्यमोत्तमम् । दद्याद्वित्तानुसारेण तारागणपरिच्छदम् ।। तारागणस्तारानुकार्यश्वालंकारविशेषः । अश्वमूल्यं च-कात्यायनेन “कार्षापणा” इत्यनुवर्तमाने “अश्वे पञ्चदशैव तु” इति कार्षापणपञ्चदशकम् उक्तम् । तच्चोत्तमं, तदर्धं मध्यमं, तदर्धं कनीयः। शफैः पञ्चपलै रौप्यैः सुवर्णालंकृतं क्रमात् । सदक्षिणं सवस्त्रं च ब्राह्मणस्याग्निहोत्रिणे ॥ इति । मन्वादियुगाद्ययनविषुवोपरागादिपुण्यकालेषु दानं कार्यम् । अथ अश्वदानप्रयोगः। सुलिप्तायां भूमौ सर्वोपस्करसंयुतं यथाशक्ति सुवर्णपट्टवस्त्राद्य लंकृतमश्वं पूर्वाभिमुखमुपस्थाप्य यथोक्तलक्षणं ब्राह्मणमुत्तराभिमुखमु पवेश्य स्वयं यजमानः स्वासने पूर्वाभिमुख उपविश्य पवित्रपाणिरा चम्य ॐसुमुखश्चेत्यादिसामान्यवद्विधाय अर्घस्थापनान्ते संकल्पं कुर्यात्-ॐविष्णुः३ अबेहेत्यादि संकोयं अमुकोऽहं समस्तपापक्ष यपूर्वकाश्वरोमसमसंख्याकान्दान् सूर्यलोकनिवासकामः स्वर्गकामो वा अश्वदानं करिष्ये । तत्पूर्वाङ्गत्वेन ब्राह्मणस्य पूजनपूर्वकं वरणम् , अश्वपूजनं च करिष्ये । ततो ब्राह्मणं पादप्रक्षालनपूर्वकमादिभिः नमोऽस्त्वनन्तायेत्यादिना सम्पूज्य वरणसामग्री करयोः कृत्वा एभि गन्धाक्षतपुष्पमालायज्ञोपवीतपूगीफलद्रव्यवासोभिः अमुकगोत्रम् अमु कवेदाध्यायिनम् अमुकशाणं ब्राह्मणम् अश्वदानप्रतिग्रहार्थं त्वामहं वृणे। ॐनृतोऽस्मीति प्रत्युक्तिः। अथाश्वपूजनम् । तत्र सर्वोपचारमन्त्रः महार्णवे समुत्पन्न उच्चैःश्रवसपुत्रक।। मया वं पूजितो वाजिन् शान्तिदो भव सर्वदा ॥ अनेन पाचादिनीराजनान्तं सम्पूज्य सकुशयवतिलजलहस्तो L १३६ परिशिष्टदोष के दानसंकल्पं कुर्यात् । ॐविष्णः३ अघेहेत्यादि संकीर्त्य अमुकोऽहं पूर्वोक्तफलसिद्धिकामः सुपूजितमिममश्व सु-वर्ण [ सति संभवे तिल कालंकृतललाट, अवेयकसुपर्याणान्वितं, रौप्यरत्नकटकशोभितं, वज्र नेत्रं, ताम्रखुरं, क्षौमपुच्छं, सुवाससं, शुभ्रपट्टकसंवृतं, स्वायुधान्वितं, धान्यरत्नोपरिस्थितं, सुबद्धकक्षं ] यमदैवतं सुपूजिताय ब्राह्मणाय तुभ्यमहं संप्रददे ॐतत्सन्न मम । इति संकल्प्य सकुशतिलोदकम् अश्वस्य दक्षिणं कर्ण धृत्वा ब्राह्मणहस्ते उच्चैःश्रवास्त्वमश्वानां राज्ञां विजयकारकः । सूर्यवाह नमस्तुभ्यमतः शान्ति प्रयच्छ मे ॥ इति दानवाक्यम्-(मत्स्यपुराणे) पठित्वा दद्यात् । ब्राह्मणश्च कर्णे एव स्पृशन्"ॐदेवस्य त्वा” इति पठित्वा ॐस्व स्तीति प्रतिगृह्णीयात् । कामस्तुति च पठेत् । यजमानः सब्राह्मण मश्वं प्रदक्षिणीकृत्य अश्वसप्तसप्ततिपदानि यावत् अश्वस्य पुरतो गत्वा भास्करं मनसि ध्यात्वाऽवलोक्य च स्वगृहं परावर्तेत । आसने उपविश्य दानप्रतिष्ठासिद्धयर्थं सुवर्ण संकल्प्य दत्त्वा भूयसीं च सं कल्प्य विभज्य कर्मेश्वरार्पणं कृत्वा प्राचार्यादीन्भोजयित्वा स्वयमपि भुञ्जीत । इत्यश्वदानम् । तिलदानस्य दशदाननिरूपणप्रसङ्गेनैव प्रदर्शितत्वात् क्रमप्राप्त हस्तिदानं निरूप्यते । . अथ हस्तिदानम् ॥ कूर्मपुराणे-दद्याद्गजं पुराणोक्तमूल्यं, पञ्च शतानि वा । वित्तानुसारात तत्रापि कनिष्ठोत्तममध्यमम् ॥ पुराणोक्तं मूल्यमत्र हेममाषशतद्वयम् । स्वरूपतो गनदानमुत्तमम् । पञ्चशतानीत्यत्र हैममाषाः संबध्यन्ते। तथाच विंशतिगुञ्जाधिकैकत्रिंशत्कर्षपरिमितसुवर्णदानं मध्यमम् । सार्धद्वादशकर्षपरिमितसुवर्णदानं कनिष्ठम् । कात्यायनेन तु पञ्चशत कार्षापणा गजमूल्यमुक्तम् । तत्र कार्षापणः पञ्चविध इति पूर्व निरूपितम् । दानप्रकरणे हस्तिदानप्रयोगः। स्वरूपतो गजदानयुक्तं विष्णुसंहितायाम् कक्षारज्जुभिरायत्तं शुभासनसमन्वितम् । मणिकाञ्चनमालाभिभूषितं कर्णचामरैः ।। सूत्रखण्डैश्च पुष्पैश्च भूषितं दोषवजितम् । यथालाभोपपत्र वा यः प्रयच्छति दन्तिनम् ॥ ब्राह्मणाय दरिद्राय स्वर्गलोके महीयते । कर्मक्षयादिक्षागत्य महाराजो गजाधिपः ।। सर्वपापविनिर्मुक्तो जायते नात्र संशयः। इति । __ अथ हस्तिदानप्रयोगः। ___ सुलिप्तायां भूमौ दाता प्राङ्मुख उपविश्य दीप प्रज्वलय्याचम्य गणेशमणामादिभूतोत्सादनान्तं कृत्वा प्रत्यङ्मुखं गजं संस्थाप्य ब्रा मणं चोदङमुखं पुरत उपवेश्य दानप्रतिज्ञां कृत्वा ब्राह्मणं संपूज्य वृत्वा गजं च शुण्डायां संपूज्य यथाशक्ति कक्षारज्जुस्थिरासनाद्युपचा रयुतं संपाद्य कुशादिकमादाय देशकालौ संकीर्त्य अक्षयस्वर्गकामः सकलपापक्षयकामो वा रोगनिवृत्तिकामो वा इमं हस्तिनं [ कक्षा रज्जुस्थिरासनसहितं काञ्चनमालाकीर्णं चामरगन्धपुष्पालंकृतं ] प्रजापतिदैवतं [ गजमूल्यममुकदैवतम् ] तुभ्यमहं संप्रददेॐतत्सन्न मम इति विप्रहस्ते शुण्डादण्डं कुशादियुतं त्रिलोकीनाथ देवेश सर्वभूत दयानिधे । गजदानेन तुष्टस्त्वं प्रयच्छ मम वाञ्छितम् ॥ __ इति मन्त्रं पठित्वा दद्यात् । ब्राह्मणश्च गजमारुह्य देवस्य त्वा” इति यजुः पठित्वा प्रजापतये प्रतिगृह्णामि ॐस्वस्ति इति शुण्डां धृत्वा प्रतिगृह्य कामस्तुतिं पठेत् । गजमूल्यं तु __गजमूल्यस्य दानेन तुष्टस्त्वं देहि वाञ्छितम् । इत्युत्तरार्धं योजयन् दद्यात् । दानप्रतिष्ठासिद्धयर्थं सुवर्ण तन्मू ल्यं वा दद्यात् । ब्राह्मणसहितं गजं प्रदक्षिणीकृत्य भूयसी-ब्राह्मण भोजनसंकल्पं कृत्वा कर्म ईश्वरापणं कुर्यात् । इति गनदानम् । ..TA परिशिष्टदीपके अथ दासीदानम् । कौम-दासीं दद्याद्यथाशक्ति मूल्येनालंकृतां शुभाम् । सुवर्णरजतैः सार्धं विधिवदक्षिणायुताम् ॥ वित्तानुसारात तां दत्त्वा विमाय गृहमेधिने । मोदतेऽप्सरसां लोके यावत्कल्पशतत्रयम् ॥ इति । वहिपुराणे दासीदानं प्रशस्य पर्वादिकं तत्कालं च प्रदय अलंकृत्य यथाशक्ति वासोभिर्भूषणैस्तथा । ब्राह्मणाय प्रदातव्या मन्त्रेणानेन शक्तितः ॥ इयं दासी [अयं दासोमयातुभ्यं श्रीवत्स प्रतिपादिता[तः]| सर्वकर्मकरी भोग्या करो भोग्यो] यथेष्टं भद्रमस्तु ते ॥ इति। पञ्चवर्षाधिका सा तु चत्वारिंशत्समावधिः। दासी द्विजाय दातव्या दासदानेऽप्ययं विधिः॥ दासदाने पुंलिङ्गनिर्देशो मन्त्र। अथ दासीदानप्रयोगः। दाता भूतोत्सादनान्तं दानप्रतिज्ञादिकं च पूर्ववत्कृत्वा कुशा दिपाणिर्देशकालौ संकीर्त्य कल्पशतत्रयम् अप्सरसां लोके निवा सकामो विष्णुलोकप्रीतिकामो वा इमां दासी यथाशक्त्यलंकृतां गन्धपुष्पादिभिरचितां प्रनापतिदैवतां [ दासोमूल्यममुकदैवतम् ] तुभ्यमहं सम्पददे ॐ तत्सत् न मम इति संकल्प्य “इयं दासी” इति पूर्वोक्तं मन्त्रं पठित्वा मूर्धानं स्पर्शयन् दद्यात् । दासीमूल्यं तु सर्वकर्मकरी भोग्या दासी प्रोक्ता मनीषिभिः । तस्या मूल्यं मया दत्तं तेनेशः प्रीयतां मम ॥ इति ऊहेन पठन् दद्यात् । दानप्रतिष्ठासिद्धयर्थं सुवर्ण तन्मूल्यं वा दक्षिणां दद्यात् । दासीमूल्यं पञ्चाशत्कार्षापणाः । अथ रथदानम् । कूर्मपुराणे-रथं चतुर्बलीवर्दैरूढं धान्यावृतं त्रिधा। वित्तानुसारात सर्वैश्व रथोपकरणैर्युतम् ॥ दानप्रकरणे गृहदाननिरूपणम् । १३९ सदक्षिणं च विप्राय दत्त्वा शिवपुरं व्रजेद। धान्यावृतम्-अष्टादशभिः धान्यैर्युतम् । विधेति त्रिकर्षदिकर्ष एककर्षान्यतममितसुवर्णदक्षिणानुसारच उत्तममध्यमकनिष्ठभेदेन त्रिविधम् । रथोपकरणानि युग-योका-प्रतोद-वस्त्रादोनि । अथ स्थदानप्रयोगः। दाता भूतोत्सादनान्तं, दानप्रतिज्ञादिकं च कृत्वा कुशादियुत हस्तः देशकालौ संकीर्त्य निरतिशयस्वर्गादिसुखशिवपुरगमनकामः विष्णुप्रीतिकामो वा इमं रथं चतुर्भिर्वलोवर्दैर्युक्तमष्टादशधान्यपरिवृतं सकलोपस्करयुतं विश्वकर्मदैवतम् ( अङ्गिरोदैवतं ) [ रथमूल्यममु कदैवतम् ] ब्रह्मणे तुभ्यमहं सम्प्रददे ॐतत्सन्न मम । रथाय रथनाथाय नमस्ते विश्वकर्मणे । विश्वरूपाय नाथाय अरुणाय नमोनमः ॥ इति स्कन्दपुराणोक्तं मन्त्रं पठित्वा ईषादण्डं स्पर्शयन् ब्राह्म एहस्ते जलादिकं दद्यात् । रथमूल्यं तु मूल्यदानमन्त्रं पठन्नेव द द्यात् । दानप्रतिष्ठासिद्धयर्थं सुवर्णं तन्मूल्यं वा दद्यात् । रथमूल्यं षट् कार्षापणाः। अथ भूमिदानस्य अतिदानेष्वेव निरूपितत्वात् अष्टमं गृहदानाख्यं महादानं निरूप्यते । तत्पकारो हेमाद्रौ मात्स्ये पक्केष्टकामयं कृत्वा शैलजं वापि दारुजम् । मृन्मयं वापि भवनं शुभलक्षणसंयुतम् ॥ पश्चावरणशोभाब्यं धेन्वा चैव समन्वितम् । अर्जुनैः सरलैः सालैरन्यैश्चैव मनोरमैः ।। तिनिशैः सर्जवृक्षश्च कदम्बैः सह वञ्जुलैः। शुभस्थानसमुत्पन्नैर्वास्तुलक्षणसंयुतम् ।। अत्रार्जुनादिक्षोपादानं वास्तुशास्त्रोक्तक्षमात्रोपलक्षणम् । एतै रिभिर्भवनं कृत्वेत्यर्थः। १४० परिशिष्टदीपके स्थापनं च यथान्यायं भूमेश्चैव तु शोधनम् । मार्जनं सिञ्चनं चैव शन्तातीयेन कारयेत् ।। शन्तातीयेन- “शंन इन्द्राग्री” इत्यादिना सूक्तेन । मङ्गल्यानुपहारांश्च वास्तुविद्योदितांस्तथा । देवतापञ्चकं तत्र चत्वारिंशत्समन्वितम् ॥ पूजयित्वा यथान्यायं ततो दद्याद गृहं गृही। इति । वास्तुलक्षणं पञ्चचत्वारिंशदेवताक्रमश्च वास्तुशास्त्रे एकाशीतिपदं कुर्यात् रेणुभिः कनकेन च । पश्चापिष्ट नानुलिम्पेत् सूत्रेणालोड्य सर्वतः ॥ दश पूर्वापरा रेखा दश चैवोत्तरायताः। सर्ववास्तुविभागेषु विज्ञेया नवका नव ॥ शान्ता यशोवती कान्ता विशाला प्राणवाहिनी । सती च सुमना नन्दा सुभद्रा सुस्थिता तथा ॥ पूर्वापरागता ह्येताः, उदग्याम्याश्रितास्तथा । हिरण्या सुव्रता लक्ष्मोर्विभूतिर्विमला प्रिया । जया काला विशोका च तथेन्द्रा दशमी स्मृता । अशष्ठकेन वा कुर्यात् मध्याङ्गल्या तथैव च ।। प्रदेशिन्या वाऽपि तथा स्वर्णरोप्यादिधातुना। मणिना कुसुमैर्वापि दध्यक्षतफलैस्तथा ॥ अपसव्यक्रमे वैरं सव्ये संपदमादिशेद । आदौ सम्पूज्य गमपं दिक्पालान्पूजयेत्ततः॥ धरित्रीकलशं स्थाप्य, मातृकाः पूजयेत्ततः ।। नान्दीश्राद्धं ततः कुर्यात् पुण्याहं वाचयेत्ततः॥ अमिसंस्थापनार्थाय मेखलात्रयसंयुतम् । कुण्डं कुर्याद्विधानेन योन्याकारं विशेषतः ॥ स्थण्डिलं वा प्रकुर्वीत मतिमान् सर्वकर्मसु । पदस्थान्यूजयेद्देबान त्रिंशत् पञ्चदशैव च ॥

दानप्रकरणे गृहदाननिरूपणम् । १४१ शिखी चैकपदः प्रोक्तः पर्जन्यश्च तथैव च । जयन्त इन्द्रः सूर्यश्च सत्यभृशौ द्विकोष्ठकाः ।। पदैकमन्तरितं तु वायुश्वकपदः स्मृतः । पूषा चैकपदो बरिस्मन् द्विपदो वितथस्तथा । द्विपदौ दक्षिणाशास्थौ गृहक्षत्यमाबुभो। गन्धर्वमृगराजौ तु द्विपदौ परिकीर्तितौ ॥ मृगः पितगणश्चैव दौवारिकथैकपदाः । सुग्रीवः पुष्पदन्तश्च वरुणश्च तथैव च ॥ असुरश्च तथा शोषः पञ्चैते द्विपदाः स्मृताः। पापो रोगस्तथा सर्पस्त्रयश्चैकपदा मताः । मुख्यभल्लाटसोमाख्याः सपश्चैिवादितिस्तथा । पञ्चैते द्विपदाः प्रोक्ता दितिरेकपदा स्मृता ॥ ईशानकोणमारभ्य द्वात्रिंशद्वाह्यतः स्थिताः। श्रापश्चैवाथ सावित्रो जयो रुद्रस्तथैव च । तदन्तर्गाश्चैकपदान् ईशानादिषु विन्यसेत् । अर्यमा त्रिपदः पूर्व सविताऽऽग्नेय एकपात् ।। विवस्वास्त्रिपदो याम्ये इन्द्रश्चैकपदस्तथा । नैऋते पश्चिमे मित्रस्त्रिपदः परिकीर्तितः॥ वायव्ये राजयक्ष्मा च एकपादः प्रकीर्तितः । उत्तरे त्रिपदः पृथ्वीधरो यश्चापवत्सकः ॥ एकपात् स तु विज्ञेयः स्थाप्यश्वेशानकोणके । मध्ये नवपदो ब्रह्मा पीतः श्वेतश्चतुर्भुजः ॥ इति । एषां वर्णाश्च विश्वकर्मप्रकाशे उक्ताः प्रयोगे प्रदर्शयिष्यन्ते। मण्ड लादहिः ईशानादिकोणेषु चरक्यादीनां, पूर्वादिषु स्कन्दादीनां च पूजनं तत्रोक्तं तदपि प्रयोगे द्रष्टव्यम् । अत्र पूर्वस्यांबाह्यपङ्क्तौ ईशान कोणात् तृतीय-चतुर्थ-पञ्चम-षष्ठ-सप्तमानां पञ्चानां पदानां द्विको ठकत्वं तत्तत्पश्चिमस्थितकोष्ठकेन सहकीकरणाद्धोध्यम् । एवं दक्षिण बाह्यपङक्तौ अग्निकोणात्तृतीयादीनां पञ्चानां तत्चदुत्तरस्थितकोष्ठकनै१४२ परिशिष्टदीपके कीकरणात् , पश्चिमबाह्यपङ्क्तौ नैतकोणात्तृतीयादीनां पञ्चानां तत्तत्पूर्वस्थितकोष्ठकनैकीकरणाव , उत्तरवाह्यपङ्क्तौ च वायुकोणात्तु तीयादीनां तत्तदक्षिणस्थितकोष्ठकनकीकरणात् द्विकोष्ठकत्वम् ।। पर्जन्यात पश्चिमे आपः, आकाशात्पश्चिमे सावित्रः, दौवारिका त्पूर्वस्मिन् जयः, पापात् पूर्वस्मिन् रुद्र इति अन्तर्गताश्चत्वारः स्था प्याः। “अर्यमा त्रिपदः पूर्व” इत्यादौ पूर्वत्वादिकं नवपदब्रह्मापे क्षया । नैते इति पूर्वान्वयि । गृहदानार्थ गृहनिर्माणस्य पूर्वोक्तमात्स्ये विधानाव प्रासादभवनोद्यानपारम्भे परिवर्तने । इत्यादिना च तत्रैव गृहारम्भ वास्तुशान्तेविधानात् , वास्तुशा न्त्यन्ते च ईशानादिकोणेषु मध्यभागे च इति वास्तुविधानं तु कृत्वा तां स्नानमण्डपात् । समानीय शिलां तत्र सूत्रधारो गुणान्वितः ॥ तत्र दिक्साधनं कुर्याद् गृहमध्ये सुसाधिते । ईशानादिक्रमेणैव स्वर्णकुद्दालकेन तु ॥ खनित्वा कोणभागे तु मध्ये चैव विशेषतः । नाभिमात्रे तथा गर्ने शिलानां स्थापनं शुभम् ।। इति शिलान्यासविधानाच पूर्व शिलान्याससहितो वास्तुशान्तिप्रयोगः प्रदर्शनीयः । तत्र सर्वेषां कार्याणामारम्भ शौनकेन कार्यारम्भेषु सर्वेषु नववेश्मप्रवेशने । इत्यादिना ग्रहयागस्यापि विधानाद सति सम्भवे ग्रहयागस हिता वास्तुशान्तिः कर्तव्या। “कार्यारम्भेषु” इत्यर्धानन्तरम् - “आरोग्यस्नानसमये संक्रान्तौ रोगसम्भवे । अभिचारे च यः कुर्यात् ग्रहशान्ति विधानतः ॥ सोभीष्टफलमामोति” इत्युक्त्या सर्वकार्यारम्भेषु ग्रहशान्तेः काम्यत्वात्, वास्तुशास्त्रे गृहारम्भाङ्गवास्तुशान्तौ “धरित्री कलशं दानप्रकरणे गृहदान निरूपणम् । १४३ स्थाप्य” इति कलशस्थापनं निर्दिश्य मध्ये मातृपूजन-नान्दीश्राद्ध पुण्याहवाचनानि, कुण्ड-स्थण्डिलान्यतरनिर्माणं च निर्दिश्य पूर्वो क्तकाशीतिपदवास्तुमण्डले पूजनीयदेवानां पञ्चचत्वारिंशत्संख्या, शिख्यादीनि नामानि, एकपदत्व-द्विपदत्वादीनि स्वरूपाणि, रक्ता दिवर्णाश्च मध्ये निर्दिश्य कलशे स्थापयेद्देवं वरुणं वरुणेत्यतः। कलशं पूरयेत्तीर्थवारिणा सर्वबीजकैः ।। सर्वोषधैः सर्वरत्न गन्धैश्च विविधैस्तया । पल्लवैः पञ्चकाषायैदा शुद्धोदकेन वा ।। इत्यनेन कलशस्थापनं तस्य जलेन पूरणं च विधाय मुरा मांसी बचा कुष्ठं शैलेयं रजनीद्वयम् । शठो- चम्पक-मुस्ताश्च सर्वौषधिगणः स्मृतः॥ अश्वत्थो-दुम्बर-प्लक्ष-चूत-न्यग्रोधपल्लवाः। पञ्चभङ्गा इमे प्रोक्ताः सर्वकर्मसु शोभनाः॥ वटी-चटो-दुम्बरस्य वेतसस्य तथैव च ।। अश्वत्थस्यैव मूलं च पञ्च काषायकाः स्मृताः॥ इति सवौंषधादीनि कलशे प्रक्षेपणीयानि निर्दिश्य ग्रहांश्च पूजयेत्तत्र वास्तुमण्डलमास्थितान् । इत्यनेन ग्रहपूजनमात्रस्यैव विधानात् तावन्मात्रमेव वा कर्तव्यम् । शिख्यादिपञ्चचत्वारिंशदेवांस्तत्र पूजयेत् । वेदमन्त्रैर्नाममन्त्रैः प्रणवव्याहृतिभिस्तथा ।। इति ग्रहपूजनानन्तरं वास्तुमण्डलस्थानां पञ्चचत्वारिंशदेवानां पूजनमभिधाय होमस्त्रिमेखले कार्यः कुण्डे हस्तप्रमाणके । यवैः कृष्णतिलैस्तद्वत्समिद्भिः क्षीरक्षकैः॥ पालाशैः खादिरैर्वाऽपामार्गोदुम्बरसंभवैः। . कुशदूर्वामयैर्वाऽपि मधुसर्पिःसमन्वितैः॥ कार्यस्तु पञ्चभिर्बिल्वैबिल्वबीजैरथापि वा। . . १४४ परिशिष्टदीपके होमान्ते भक्ष्यभोज्यैश्च वास्तुदेशे बलि हरेत् ॥ नमस्कारान्तयुक्तेन प्रणवाद्येन सर्वतः। ततो व्याहृतिभिर्होम स्विष्टकद्धोममेव च ॥ पूर्णाहुतिं च जुहुयात् संस्रवप्राशनं ततः। इति शिख्यादिदेवोद्देशेन होमबलिदानयोविंधानात् ग्रहपूजना नन्तरं वास्तुमण्डलदेवतापूजनं कृत्वा तदुद्देशेन होमं च कृत्वा बलि दानं कार्यम् । अतएव ग्रहयागकरणेऽपि वेद्या ग्रहाणां पूजनं वास्तु देवतापूजनापेक्षया पूर्वमेव कार्यम् । होमोऽपि ग्रहोद्देश्यकः वास्तु देवतोद्देश्यकहोमापेक्षया पूर्वमेव । ग्रहशान्तेः सकलकर्मसाधार णत्वेन पुण्याहवाचनादीनामिव कर्मारम्भात्पूर्वमेवानुष्ठातुमुचितत्वात इति दिक् । गृहनिर्माणाय भूपरीक्षा चोक्ता पूर्तकमलाकरे मात्स्ये पूर्व भूमि परीक्षेत पश्चाद्वास्तुं प्रकल्पयेत् । अरनिमात्रे गर्ने तु परीक्ष्यं खातपूरणे ॥ अधिक श्रियमामोति न्यूने हानिः समे समम् । फालकृष्टेऽथवा देशे सर्वबीजानि वापयेत् ॥ . त्रि-पञ्च-सप्तरात्रेण यत्र रोहन्ति तान्यपि । ज्येष्ठोत्तमा कनिष्ठा भूया वया॑ च सा मता ॥ इति । अररिनमात्रे गर्ने वै अनुलिप्ते तु सर्वशः॥ घृतमामशरावस्थं कृत्वा वर्तिचतुष्टयम् । ज्वलयेद् भूपरीक्षार्थं संपूर्ण सर्वदिङमुखम् ॥ दीप्त्या पूर्वादि गृह्णीयाद् वर्णानामनुपूर्वशः । सर्वतो दीप्तौ सर्वेषां शुभदा। यदि गृहारम्भे स्वामिनोऽङ्गे कण्डूतिः अन्यद्वा अपशकुन जायते तदा भूमौ शल्यं विजानीयात् । तां भुवं परित्यजेत् । शल्योद्धारं वा कुर्यात् । तदर्थं पुरुषमात्र गर्त खनेत् । शल्यालाभे शल्यदोषापनु दानप्रकरणे भूपरिग्रहप्रयोगः। १४५ त्तये(१) वास्तुशान्ति कृत्वा गृह तत्र कुर्यात् । पुरुषमात्रादधिकं गृह निर्माणे न खनेत् । पुरुषाधःस्थितं शल्यं न गृहे दोषदं भवेत् । प्रासादे दोषदं शल्यं भवेद्यावजलान्तिकम् ॥ इति गृहे पुरुषाधःस्थितस्य शल्यस्यादृषकत्वात् । अदूषकत्वेऽपि दोषशङ्कायां शान्त्याचरणं युक्ततरम्। एवं भूमिं शुद्धां ज्ञात्वा गृह निर्माणाय यावती भूमिरपेक्षिता तावत्याः परिग्रहः कर्त्तव्यः। स च कथं कर्तव्य इत्याकाङ्क्षायाम् भूपरिग्रहप्रयोगः संक्षेपणोच्यते ॥ ज्योतिषिकोक्ते शुभेऽहनि वास्तुभूमेरासन्ने गोमयादिना सुलिप्ते स्थले सपत्नीको यजमान आसने उपविश्य दीप प्रज्वलय्या चम्य भूपरिग्रहविधेनिर्विघ्नतासिद्धयर्थं यथाविधि गणेशं संपूज्य गृहनिर्माणाय भूपरिग्रहं करिये इति प्रधानसंकल्पं कृत्वा करिष्य माणभूपरिग्रहाङ्गत्वेन कलशस्थापनं तत्र ब्रह्मवरुणसहितादित्यादिन वग्रहाणां साविप्रत्यधिदेवानां विनायकादिपश्चलोकपालेन्द्रादिदशदि क्पालानां वास्तोपतेः क्षेत्रपालस्य एकाशीतिपदाधिष्ठितशिख्यादिप श्वचत्वारिंशदेवानां च यथामिलितोपचारैः पूजनं करिष्ये इति संक ल्प्य होमरहितग्रहपूजाप्रयोगोक्तरीत्या दिक्पालान्तान् वास्तुमण्डल चक्रानुसारेण ॐशिखिने नमः इत्यादिनाममन्त्रैः शिख्यादींश्च संपूज्य ॐनमः शंभवाय च मयोभवाय च नमा शंकराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥ इति मन्त्रेण शिवश्च तत्र गन्धादिभिः पञ्चोपचारैः संपूज्य भूप रिग्रहलग्ने आसन्ने लग्नदानं कृत्वा अन्य कलशं दध्यक्षतचन्दनच चितं तोयपूर्ण वस्त्रयुगाच्छन्नमक्षतोपरि संस्थाप्य तत्र शिवं संपूज्य (१)“तस्मादनेकशल्यानां ज्ञानं नास्ति तदा नरैः। अवश्यमेव कर्त व्यः शल्योद्धारो हितेमुभिः ॥ वास्तुपूजां च विधिवत्कारयेत्पूर्वकं दिने’ इत्यादिना विश्वकर्मप्रकाशे द्वादशाध्याये शल्योद्धारवास्तुशान्तिर्विहिता। १८५० ( १४६ परिशिष्टदीपके . कुम्भं द्विजेन ग्राहयित्वा तं पुरस्कृत्य गीत-वादिन-ब्रह्मघोषेण क्षेत्रस्य पूर्वसीमानं गत्वा तत्र स्थित्वा गणेशगुर्वादीन् प्रणम्य “ऋ चंवाचम्” इति शान्त्यध्यायं पठन पाठयंश्व ईशानकोणादारभ्य क्षेत्र सीमान्तचिह्नानि परितः सिञ्चन् घटं प्रदक्षिणं भ्रमयेत् यावदीशान कोणम् । ततो भूमि तुलादानप्रयोगोक्तरीत्या ( ३७ ) गन्धादिना कलशे संपूज्य अयं दत्त्वा जनसमक्षं साधुप्रयोगेण भूपरिग्रहं कुर्यात् । ____तत आचार्यः ब्राह्मणैः सह कलशोदकेन दूर्वापल्लवयुतेन सगोत्रं यजमान विश्वकर्मप्रकाशे पञ्चमाध्याये उक्तः वक्ष्यमाणम न्त्रैरभिषिञ्चेत सुरास्त्वामभिषिश्चन्तु ये च वृद्धाः पुरातनाः । ब्रह्मा विष्णुश्च शम्भुश्च साध्याश्च समरुद्गणाः ॥ आदित्या वसवो दा अश्विनौ च भिषग्वरौ। अदितिर्देवमाता च स्वाहा सिद्धिः सरस्वती ।। कीर्तिलक्ष्मी तिः श्रीश्च सिनीवाली कुहूस्तथा । दितिश्च सुरसा चैव विनता कद्रुरेव च ॥ देवपत्न्यश्च यायोक्ता देवमातर एव च । सर्वास्त्वामभिषिञ्चन्तु शुभावाप्सरसां गणाः ॥ नक्षत्राणि मुहूर्ताच पक्षाहोरात्रसंधयः । संवत्सरा दिनेशाश्च कलाकाष्ठालवक्षणाः ।। सर्वे त्वामभिषिञ्चन्तु कालस्यावयवाः शुभाः। वैमानिकाः सुरगणा मनवः सागरैः सह ॥ सरितश्च महाभागा नागाः किंपुरुषास्तथा । वैखानसा महाभागा द्विजा वैहायसाश्च ये ।। सप्तर्षयः सदाराश्च ध्रुवस्थानानि यानि च । मरीचिरत्रिः पुलहः पुलस्त्या क्रतुरङ्गिराः ॥ भृगुः सनत्कुमारश्च सनकोऽथ सनन्दनः । सनातनश्च दक्षश्च जैगीषव्यो भगन्धरः ॥ एकतच द्वितश्चैव त्रितो जाबालिकश्यपौ । दानप्रकरणे मूत्रपातप्रयोगः। दुर्वासा दुर्विनीतश्च कविः कात्यायनस्तथा ॥ मार्कण्डेयो दीर्घतपाः शुन शेपो विदूरथः । और्वः संवर्तकश्चैव च्यवनोऽत्रिः पराशरः ।। द्वैपायनो यवक्रीतो देवरातश्च सानुगः। प्रजापतिदितिश्चैव गावो विश्वस्य मातरः ॥ पर्वतास्तरवः कल्पाः पुण्यान्यायतनानि च । वाहनानि च रत्नानि लोकाश्चापि चराचराः ॥ अग्नयः पितरस्तारा जीमूताः खं दिशो जलम् । एते चान्ये च बहवः पुण्यसंकीर्तनाश्च ये ।। तोयैरेतैः पवित्रैश्च मन्त्रौषधिबलान्वितैः । शुभैस्त्वामभिषिञ्चन्तु सर्वोत्पातनिबर्हणैः ॥ इति । एवमभिषिक्तो यजमान आचार्यमन्यांश्च ब्राह्मणान् यथाशक्ति. पूजयित्वा वस्त्रादिना संतोषयेत् । ब्राह्मणाश्च तिलकमन्त्रपाठादिकं कृत्वा आशीर्वाद दधुः। इति भूपरिग्रहप्रयोगः। अथ सूत्रपातप्रयोगः । अथ सांवत्सरोक्ते शुभे पुण्येऽहनि परिगृहीतगृहभूमेरुत्तरतः सुरक्षिते गोमयादिनोपलेपिते शुचिस्थले स्नातः शुचिभूतो भूषितो यजमानः, सूत्रपातकर्मणि वृत प्राचार्यो वा प्रविश्यासने उपविश्या चम्य दीप प्रज्वलय्य “स्वस्ति नो मिमीनाम्” “आनो भद्राः” इति शान्ति पठित्वा पाठयित्वा वा गणेशवन्दनादि भूतोत्सादनान्तं कर्म कृत्वा सूत्रपातकर्मणो निर्विघ्नतासिद्धयर्थं गणेशं संपूज्य प्रधा नसंकल्पं कृत्वा ईशानकोणे धान्यपुञ्जोपरि कलशस्थापनविधिना कलशं संस्थाप्य अभिमन्य तत्र वरुणं संपूज्य __ “विश्वकर्मन् हविषा व्वधनेन त्रातारमिन्द्रमक णोरवध्यम् । तस्मै विशः समनमन्त पूरियमुग्रो वि. हव्यो यथाऽसत् ॥” इति मन्त्रेण विश्वकर्माणम् आवाहनादि भिरुपचारैः, गन्धादिभिः पञ्चोपचारैर्वा तत्रैव संपूज्य १४८ परिशिष्टदीपके परशुं, लोहमुष्टिं, मानहस्तं, कौशं शाणं कार्पासं वा अर्धाङ्ग लविशालं ग्रन्थिवर्जितं सूत्रं, शमी-चट-बिल्वाद्यन्यतमवृक्षसंभूतान् ऋजून निर्बणान् दृढान् तीक्ष्णाग्रान् मूलभागान्वितान् चतुष्कोणान् आचार्यहस्तमात्रान् षडङ्गुलपरिणाहान् ऊर्ध्वाग्रान अधोमूलान् चतुरः शकून कलशात् उत्तरोत्तरान् स्थापयित्वा परश्वादीनि निजनाम मन्त्रैः, शङकून् “अग्निं दूतम्” “एषते निळते भागस्तं जुष. स्व” “व्वातो वा मनोवा” “तमीशानम्’ इति मन्त्रैः अान्या दिनाममन्त्रैर्चा गन्धादिभिः पूजयित्वा विश्वकर्माणं विज्ञाप्य शोधिता यां भूमौ मण्डपनिर्माणप्रकारोक्तरीत्या (पृ० १५) उदीचीसाधन पूर्वकं चतस्रो दिशः चतुरः कोणांश्च संसाध्य चतुरस्र क्षेत्रं सूत्रपातेन संपाद्य दिचिह्नानि कोणचिह्नानि च दिक्षु विदिक्षु च क्षेत्राद् बहिः शिलादिषु समुत्कीर्य भित्तिनिर्माणार्थं चिरं धारयेत् । ततो मौ हूर्तिकोक्तलग्ने क्रियासौकर्यार्थं वह्नयादिकोणेषु पादक्षिण्येन अधिवासितान्यशकून् निवेश्य ईशानकोणशङ्कौ अधिवासितान्य सूत्रं बध्वा अग्निकोणशङ्कु नीत्वा तं सूत्रेण द्विवेष्टयित्वा नितिशङ्क वायुशङ्कम् ईशानशङ्ख च क्रमेण तथैव वेष्टयित्वा ईशानशङको सूत्र दृढं बध्नीयात् । सांवत्सरोक्ते लग्ने प्राप्त विश्वकर्माणं विज्ञाप्य कल शोचरे अधिवासितशकूनां मूलानि मधुसर्पिद धिक्षीरैर्विलिप्य अल क्तकरसेन तेषु त्रिशूलं चक्रं वा विलिख्य चन्दनेनानुलिप्य त्रिसूत्र्या वेष्टयित्वा तान केनचिद् द्विजेन ग्राहयित्वा आचार्यः स्वीकृतगृहक्षेत्र स्य वह्निदिशं गत्वाऽऽसने प्राङ्मुख उपविश्य पूर्वनिवेशितशङ्कमुत्पाट्य दक्षिणपाणिना शङ्कुमुत्थाप्य वाममुष्टिना गृहीत्वा पूर्वशवधिष्ठित भूम्यामवर्क दृढं धृत्वा अष्टकृत्वः ॐविशन्तु भूतले नागा लोकपालाच सर्वतः । अस्मिन् स्थाने तु तिष्ठन्तु आयुर्वलकराः सदा ॥ इति मन्त्रं पठन् शुभनिमित्तं दृष्ट्वा लोहमुष्टिना ताडयेत् । ततः प्रधानशिल्पी ताडयेत् लोहमुष्टिना, यथा शनैः शनैः शङ्करवटभूमौ प्रविशेत् । शङ्कोर्भेदे भङ्गे चानिष्टम् । पूर्वतः, उत्तरतः, ईशाने च: दानप्रकरणे सूत्रपातप्रयोगः। १४९ शङ्कौ प्रणते शुभम् , अन्यदिशि प्रणतेऽशुभम् । एवं नैऋते वायव्ये ऐशाने च शङ्कुमारोप्य प्रागधिवासितं सूत्रमीशानशकौ दृढं वध्वा जन्यादिकोणशङकून् प्रदक्षिणक्रमेण द्विष्टियित्वा पूर्ववदीशानको पशङ्कौ दृढं बनीयात् । ततः आग्नेयकीलके तदभिमुखः ॐअग्निभ्योऽप्यथ सर्पेभ्यो ये चान्ये तत्समाश्रिताः । बलिं तेभ्यः प्रयच्छामि पुण्यमोदनमुत्तमम् ।। स्वाहा इति बलिं दत्त्वा-नैऋतकीलके तदभिमुखो भूत्वा ॐनैर्ऋताधिपतिश्चैव नैर्ऋत्यां ये च राक्षसाः । बलिं तेभ्यः प्रयच्छामि सर्वे गृह्णन्तु मन्त्रितम् ॥ स्वाहा इति बलिं दत्वा-वायव्यकोलके तदभिमुखो भूत्वा नमो वायुस्थरक्षोभ्यो ये चान्ये तत्समाश्रिताः। बलिं तेभ्यः प्रयच्छामि गृह्णन्तु पुण्यमोदनम् ॥ स्वाहा इति बलिं दत्त्वा-ईशानकीलके तदभिमुखो भूत्वा ॐ रुद्रेभ्यश्चैव सर्वेभ्यो ये चान्ये तत्समाश्रिताः । बलिं तेभ्यः प्रयच्छामि गृहन्तु सततोत्सुकाः ।। स्वाहा इति बलिं दद्यात् । तत आचम्य ( सति सम्भवे गन्धादिना वास्तुभूम्येकदेशे हस्तमात्रे मध्यभागे एकाशीतिपदं वास्तुमण्डलं वि लिख्य उत्तराभिमुख उपविश्य अघस्थापनादिकं विधाय शङ्कस्था नस्थदेवान् संपूज्य (१) ब्रह्मस्थाने गन्धोदकेन चतुरस्रं कृत्वा (१) ततः संपूजयेत्तस्मिन् सर्वलोकधरी महोम् । सुरूपां प्रमदा रूपां दिव्याभरणभूषिताम् ॥ ध्यात्वा तामर्चयेहवीं परितुष्टां स्मिताननाम् । ब्रह्मस्थाने ततो विद्वान् कुर्यादाधारमक्षतैः॥ तस्मिन् संस्थापयेत् कुम्भ वर्धन्या सह पूरितम् । तस्मिश्चतुर्मुखं देवं प्रजेशं मन्त्रविग्रहम् ॥ गन्धः पुष्पैश्च धूपैश्च नैवेद्यैः सुमनोहरैः। तनो मण्डलबाह्ये तु प्रतीच्या प्राङ्मुखः स्थितः ॥ प्राचार्यो गृह्यसभारं ब्रह्मादीस्तर्पयेत् सुरान् । प्रजेश तर्पयनि द्वानाहुतीनां शतेन च ॥ इतरान् दशभिर्देवानाहुतिभिः प्रतपयेत् । ततः प्रणम्य विज्ञाप्य कृत्वा वै स्वस्तिवाचनम् ॥ प्रगृह्य कर्करी सम्यङमण्डः खान्तः प्रदक्षिणम् । सूत्रमार्गेण तेनैव तोयधाराञ्च कारयेत् । पूर्ववत्तेन मार्गेण सप्तबीजानि चापयेत् । प्रारम्भं तेन माग तस्य खातस्य कारयेत् ॥ १५० परिशिष्टदीपके तदुपरि अक्षतैः चतुरस्त्रं कृत्वा तत्र “स्योना पृथिवि” इति मन्त्रेण प्रमदारूपिणीं पृथिवीमावाह्य प्रतिष्ठाप्य ध्यात्वा गन्धादिना पूजयित्वा ततो वास्तुपुरुषं सर्वदेवमयं ध्यात्वा “वास्तोष्पते प्रतिजानीह्य. स्मान् स्थावेशोऽअनमीवो भवा नः । त्वमहे प्रति त. नो जुषस्व शं नो भवद्विपदे शं चतुष्पदे” इति मन्त्रेण ध्या नाधुपचारैः संपूज्य ब्रह्मस्थानेऽक्षतोपरि कलशम् “प्राजिघ्र” इति प्रतिष्ठाप्य तत्र “ब्रह्मजज्ञानम्” इति ब्रह्माणं ध्यात्वा गन्धादिना संपूज्य वास्तुदेवांश्च शिख्यादीन् संपूज्य ) (१) कलशे एव वा सर्वान् संपूज्य (सति संभवे वास्तुभूमेवहिः सार्वभौतिकं बलि दत्त्वाऽऽचम्य वास्तुभूमेः प्रतीच्या प्राङ्मुखः स्थण्डिलेग्नि प्रतिष्ठाप्य आज्यभागा न्तं कृत्वा “शास्तोष्पते” इति मन्त्रेण, अष्टोत्तरशतसंख्यवास्तोप तिहोमं कृत्वा प्रणवादिभिः स्वाहान्तैः नाममन्त्रैः ॐशिखिने स्वाहा (२) इत्यादिभिः वास्तुदेवानां दशदशाहुती त्वा पूर्णाहुतिं कृत्वा

ततो गत खनेन्मध्ये हस्तमान प्रमाणतः। चतुरङ्गुलमात्रं तु अधः खन्यासु संमितम् ॥ गोमयेन प्रलिप्याथ चन्दनेन विलेपितमामध्ये दत्त्वा तु पुष्पाणि शुक्लान्यक्षतमेव च ॥ प्राचार्य प्राङ्मुखो भूत्वा ध्यायेद्देवं चतुर्भुजम् । तूर्य मङ्गलघोषेण ब्रह्मघोषरवेण च ॥ अध्यं दद्यात् सुरश्रेष्ठ कुम्भतोयेन मन्त्रवित् । प्रगृह्य कर्करी तां तु तत्खातं पूरयेजलैः॥ सर्वरत्नसमायुक्तैर्विमलेश्च सुग विभिः । तस्मिन् पुष्पाणि शुक्लानि प्रक्षिपेदोमिति स्मरन् ॥ तदावर्त परी क्षेत दधि भक्तान्वितं क्षिपेत् । शुभं स्याइक्षिणावर्तेऽशुभं पामे भवेत्ततः॥ बीजै शालियवादीनां गत वं पूरयेत्ततः। क्षेत्रजाभिः पवित्राभिम॒द्भिर्गत प्रपूरयेत् ॥ एवं निष्पाद्य विधिना वास्तुयागं सुरोत्तम । सुवर्ण गां च वस्त्रं च प्राचार्याय निवेदयेत् ॥ इति वास्तुयागतत्वे देवीपुराणादो। __(१)“प्रतिमास्थानेष्वन्तु आवाहनविसर्जनवर्जम्” इति वास्तुयागतत्त्वे बौधायनवचनात् । आवाहनादिमुद्रया तयोर्वजनेऽपि उन्मुखीकरणार्थमा वाहनमन्त्रस्य पुष्पाञ्जलिदाने, यागपूनिसिद्धये वान्ते पुष्पाञ्जलिदाने विस र्जनमन्त्रस्य “प्राधाहनऋचा कुर्यात् पूर्व पुष्पाञ्जलिं हरेः। तस्यैवोन्मुख ताप्राप्त्यै यागे चोदासनऋचा ॥ श्रन्ते पुष्पाञ्जलिं दद्याद्यागसंपूर्तिसिद्धये।” इति मन्त्रराजानुष्टुम्विधानोक्तर्विनियोगो शेयः। (२)पकैका देवतां राम समुद्दिश्य यथाविधि । चतुर्थ्यन्तेन धर्मको दानप्रकरणे भूमिखननप्रयोगः। १५१ ब्रह्माणं प्रणम्य क्षमस्वेति विज्ञाप्य ब्राह्मणान् स्वस्ति वाचयित्वा जलकलशमादाय ईशानादिप्रादक्षिण्येन सूत्रमार्गेण तोयधारां दत्त्वा स्वस्थाने कलशं प्रतिष्ठाप्य तेनैव मार्गेण सर्वबीजानि प्रक्षिपेत् । ततः कलशं ब्रह्मकलशस्योत्तरतो न्यस्य अर्बोदकेन प्रोक्ष्य गन्धादिना नाममन्त्रेणाऽभ्यर्च्य त्रिमूच्याऽऽवेष्टय) प्राश लग्ने आचार्यः कलश मादाय शान्तिपाठादिपुरःसरं गृहीतपिटककुद्दालेन शिल्पिना सह वास्तोराग्नेयकोणं गच्छेत् । ततः उदङ्मुखेन शिल्पिना आज्यमध्व तमुखेन कुदालेन बहिः पदं खानयेत् । ततो मृदमुद्धृत्य वैणवेन नवेन सुबद्धेन पिटकेन सप्तकृत्वो नैऋत्यामुत्किरं प्रक्षिपेत् । प्राचार्य: शान्तिकलशोदकेन तत्खातमासिच्य भूमि सर्वत्र शान्तिपाठपुरःसरं संप्रोक्ष्य कुदालादिकं जले प्राप्लाव्य गन्यादिना पूजयेत् । अथ यजमान आचार्यादीन् सूत्रधारादींश्च दक्षिणादानादिना तोषयेत् । इति सूत्रपातः। अथ भूमिखननप्रयोगा। अथापरेऽह्नि.गृहभूमि प्रादक्षिण्येन आग्नेयकोणादारभ्य खान येत् अधः पुरुषपर्यन्तं चतुर्हस्तं द्विहस्तं वा, न ततोऽधिकम् । पुरुषाधः स्थितं शल्यं न गृह दोपदं भवेत् । इति मात्स्यात् । चतुर्हस्तं द्विहस्तं वा जलान्तं वाऽपि शोधयेत् । इति लैङ्गाच्च । अत्र जलान्तमिति प्रासादादिपरम् । प्रासादे दोषदं शल्यं भवेद्यावजलान्तिकम् । इति मात्स्यात् । पाषाणान्तं जलान्तं वा शर्करान्तमथापि वा। प्रासादपादभूमिष्ठं सच्छल्यं दोषदं यतः॥ प्रासादादिभुवं तस्मात्चत्तन्मानेन शोधयेत् । इति त्रिविक्रमपद्धतौ स्मृत्यन्तराञ्च । अथ खन्यमानायां भुवि शङ्खादि, सुवर्णादि, रत्नादि, सजीवो मण्डूकः, कच्छपो वा दृश्येत तत्सर्वं सुरक्षितमन्यत्र धारयेत् । सिद्धे खाते आचार्यः प्रातरागत्यो नाम्ना च प्रणवादिना ॥ इति विष्णुधर्मोत्तरवचनात् । स्वाहावसाने जुहु याद् ध्यायन्वै मन्त्रदेवताम् । इति वास्तुयागतत्त्वे स्मृत्यन्तराख। -१५२ परिशिष्टदीपके पविश्याचमनादि विधाय खातस्य ईशानभागे अक्षतोपरि कलशं प्रतिष्ठाप्य तत्र “तमीशानम्” इति मन्त्रेण शिवं गन्धादिभिः संपूज्य कलशोत्तरतः अक्षतैः एकाशीतिपदं वास्तुमण्डलं कृत्वा पूर्ववत वास्तुमिष्ट्वा ( सति संभवे कलशस्य पश्चिमे अग्निं प्रतिष्ठाप्य आज्यभा गान्तं कृत्वा वास्तुदेवताभ्यो नाममन्त्रैर्दशदशाहुतीर्तुत्वा भूरादिहोमं पूर्णाहुतिं च कृत्वा कर्मशेष समाप्य दिक्पालेभ्यः (१)भूतेभ्यश्च बलि दत्त्वा कलशपूजां समाप्य कलशमादाय अग्निकोणं गत्वा प्राङ्मुखोऽ वस्थाय बहिःपदं कलशोदकेनाभ्युक्ष्प खातलब्धं सुवर्णादिकं तत्र सुरक्षितं निक्षिप्य अष्टाङ्गुलं मृदा अपूर्य कलशाम्भसाऽभ्युक्ष्य कपि शीर्षप्रमाणैः प्रोक्षिताचितैः पाषाणैः निबिडतरं कृत्वा जलेन आप्ला व्य पालाशादिकाष्ठमयैः हस्तपः (पिटना) आकोटयेत् (आकोचयेत्)। अथाचार्यः कलशोदकेन सपरिवारं यजमानमभिषिच्य आशीर्वाद मन्त्रान् ब्राह्मणैः सह पठेत् । यजमानश्च दक्षिणादिना सर्वांस्तोषयेत् । ततः प्रभृति सर्व खातं तावत्या मृदा प्रपूर्य तथाविधैरेव पाषाणैः चित्वा प्राप्लाव्य आकोच्य चतुर्थभागावशेषं खातपूरणं कुर्यात् । इति भूमिखननादिकम् । अथ शिलान्यासः। तत्रादौ तदुपयोगिनिरूपणम् । ज्योतिर्विदादिष्टे मुहूर्ते यजमाना नुज्ञातः स्थपतिः आचार्योक्त्यनुसारेण पञ्च शिलाः शिरःपृष्ठविभक्ता काः एकविंशत्यङ्गुलदीर्घाः, सप्तदशाङ्गुलदीर्घाः, त्रयोदशाङ्गुलदीर्घाः, नवाङ्गुलदीर्घाः क्रमेण विप्र-क्षत्रिय-वैश्य-शूद्राणां-तथा दैयप्रमा णाप्रमाणविशालाः विशालता?च्छयाश्चतुरस्राः समाः श्लक्ष्णा घटयेत् । शिलाप्रमाणं क्रमशः प्रदिष्टं वर्णानुपूर्येण तथाङ्गुलानाम् । (१)“चतुःषष्टिपदे क्षेत्रे” इत्यादिना ईशादीनां वास्तुदेवानां बलिव धानमुक्त्वा “रक्षोमातृगणेभ्यश्च पिशाचादिभ्य एव च । पितृभ्या क्षेत्रपाले भ्यो बलोन दद्यात्प्रकामतः ॥ अड्दुत्वैतानसंतर्य प्रासादादीन न कारयेत् । इति राक्षसादीनां च बलिविधानमुक्कमग्निपुराणे। दानप्रकरणे शिलान्यासोपयोगिनिरूपणम् । १५३ अथैकविंशद् धन-विश्व-नन्दा-विस्तारके व्यासमितं तदर्षम् ॥ तदर्धमानं त्वथ पिण्डिका स्यादृर्वाधिका न्यूनतरा न कार्या । इति विश्वकर्मोक्तः। एकविंशद द्विजाग्याणां क्षत्राणां दश सप्त च । त्रयोदश तु वैश्यानां शूद्राणां तु नवाङ्गुलम्॥इति स्मृत्यन्तराच्च। हस्तायामत्वादिकं त्रिविक्रमायुक्तं प्रासादपरम् । प्रासादमधिकृत्य प्रासादादौ विधानेन न्यस्तव्याः सुमनोहराः। चतुरस्राः समाः कृत्वा समन्ताद्धस्तसंमिताः॥ इति विश्वकर्मोक्तेः। नन्दा-भद्रा-जया-रिक्ता-पूर्णा इत्याख्यासु पञ्चसु शिलासु क्रमेण पन, सिंहासनं, तोरणच्छत्रे, कूर्म, चतुर्भुज विष्णुं च टङ्कन लेखयेत् । नन्दादिशिलानां च स्थापनार्थं किचित्तदधिकप्रमाणान् शिलामयानेवाधारान् कल्पयेत् । ता उपशिला इत्युच्यन्ते । उप शिलासु पनादिनिधिकुम्भस्थापनार्थ मध्ये एकैकं गतं कारयेत् । ऐष्टकं चेद् गृहं तदा वितस्त्यायताः (१) षडङ्गुलविस्ताराः द्विच तुराङ्गुलोच्छया इष्टकाः कारयितव्याः। ताश्च सुपकाः अकृष्णवर्णाः अस्फुटिता अपेक्षिताः। पद्मादिनिधिकुम्भाश्च ताम्रमया मृन्मया वा विषादीनां क्रमेण पञ्चाङ्गुलाः, सार्धद्वयङ्गुलाः सपादाङ्गुलाः पञ्च कार्याः । शूद्राणामपि सपादाङ्गुला एव । चतुर्थमानस्यानुक्तेः। ध्रुवे शिलायास्तु ततः खनित्वा कुम्भं प्रतिष्ठाप्य शराङ्गुलीयम् । विप्रादिवर्णानुगतः प्रशस्तस्तदर्धमानं तु तदर्धमानम् ॥ इति विश्वकर्मोक्तेः । कुम्भानां पिधानानि च कार्याणि । ततो यजमानः खातभूमेरुत्तरतः सति संभवे अष्टहस्तं मण्डपं, अन्यथा तावत्प्रमाणां भुवं सुलिप्तां संपाद्य तन्मध्ये तत्रिभागपरिमा णां, हस्तपरिमाणां वा वेदिं कुर्यात् । (१) इष्टकाच सुपक्काः स्युादशाङ्गुल संमिता । विस्तारस्य त्रिभा गेण वैपुल्येन समन्विताः ॥ इति अग्निपुराणे (१०४१) उक्तः । आयाम तुल्यविस्तारकरणे चतुरङ्गुलस्थूला, तदर्थविस्तारकरणे व्यङ्गुलस्थूला इष्टका कर्तव्याः। शिलाविस्तारस्य विविधस्य इष्टत्वेन इष्टकाविस्तार स्थापि तथाविधस्य ग्रहीतुमुचितत्वात् । १४५० १५४ परिशिष्टदीपके त्रिभागं मण्डपं कृत्वा मध्यभागे तु घेदिका । इति क्रियासारोक्तः, “निर्माणे मन्दिराणां च प्रवेशे त्रिविधेऽपि वा। वास्तुपूजा तु कर्तव्या तस्मात्तां कथयाम्यतः ॥ गृहमध्ये हस्तमात्रे समन्तात्तण्डुलोपरि । एकाशीतिपदं कार्यम्” इति वसिष्ठसंहितोक्तेश्च । सा च चतुर ङ्गालोच्छिता कार्या । “ईशान्यां चतुरस्त्रां चतुरङ्गलमुच्छिता हस्तमात्रीं वेदिं कृत्वा” इति आश्वलायनगृह्मपरिशिष्टोक्तेः । अत्र ‘ईशान्याम्’ इत्युक्तेः, वसिष्ठसंहितायां च मध्ये इत्युक्तविकल्पः। आश्वलायना नाम् ईशाने, अन्येषां मध्ये इति व्यवस्था । संहितानां सर्व साधारणत्वात् । पञ्चकुण्ड्यादौ तु कुण्डव्यवस्थानुरोधेन तेषामपि मध्ये एवेति दिक् । वास्तुवेदेः पश्चिमे उत्तरतो वा मेखलायोनियुतं हस्तमात्रं कुण्डं, तावत्परिमाणं चतुरङ्गुलमुच्छ्रितं स्थण्डिलं वा कुर्या त् । कुण्डात् ईशानभागे ग्रहवेदि हस्तमिता द्वादशाङ्गुलमुच्छिता कुर्या व । तत्र प्रथमो वो व्यङ्गुलोछायो द्वितीयस्व्यङ्गुलोच्छायः । द्वाव पि व्यङ्गुलविस्तारौ । मण्डपं च चतुर तोरणपताकाद्यलंकृतं पू र्वोत्तरीत्या कुर्यात् । तस्य पुरतः शिलानां स्नानमण्डपं तदर्धपरिमाणं (पादोनषोडशाङ्गुलाधिकपञ्चहस्तायामविस्तार) विदध्यात् । यद्यपि सूत्रपाते तथा कार्य तथा स्तम्भोदये पुनः । द्वारबन्धोच्छये तद्वव प्रवेशसमये तथा ।। वास्तूपशमने तद्वत् वास्तुयज्ञस्तु पञ्चधा । इति शब्दकल्पद्रुमे मात्स्योक्तः सूत्रपातादौ वास्तुशान्तेः कर्त व्यता प्रतीयते तथापि प्रासादभवनोद्यानप्रारम्भे परिवर्तने । पुरवेश्मप्रवेशेषु सर्वदोषापनुत्तये ।। इति सर्वदोषापनोदफलश्रवणात प्रारम्भप्रवेशयोरावश्यकत्वम् । गृहप्रारम्भश्च शिलादिन्यासरूप एव । तत्स्वरूपस्य तन्मयत्वात् । अतः शिलान्यासाय वास्तुशान्तिरवश्यं विधेयेति दानप्रकरणे मवास्तुशान्तिशिलान्यासप्रयोगः । १५५ वास्तुशान्तिसहितः शिलान्यासप्रयोगः प्रदश्यते । तत्र पूर्वेऽहनि कृतैकभक्तादिनियमो यजमानः सत्रीकः शुचिः प्राङ्मुख उपविश्य दोपं प्रज्वलय्याचम्य स्वस्तिवाचनं पठित्वा ॐ सुमुखश्चेत्यादिना गणेशाय पुष्पाञ्जलिं समर्प्य विष्ण्वादीन्प्रणम्य अर्घ संस्थाप्य सूर्यायायं दत्त्वा पुनरर्व संस्थाप्य प्राणायाम कृत्वा सर्षपाक्षतैर्भूतोत्सादनं विधाय कुशतिलयवनलान्यादाय संक ल्पं कुर्यात् । अद्यहेत्यादि संकीर्त्य अमुकोऽहं सवास्तुशान्तिशिला न्यासकम्मणि (१) अवास्तुशान्तिगृहप्रवेशकम्मणि वा निर्विघ्नता सिद्धये श्रीभगवतो गणेश्वरस्य पूजनं करिष्ये इति संकल्प्य यथा विधि गणेशं संपूज्य . प्रधानसंकल्पं कुर्य्या । अयेहेत्यादि संकोयं अमुकोऽहं गृहनि मणाय शिलान्यास [ अध श्वो था गृहमवेशं ] करिष्ये । तत्रादौ सर्वोपद्रवशान्तिपूर्वकम् आयुरारोग्यपुत्रपौत्र द्विपदचतुष्पदधनधान्यादि समृद्धये, श्रीपरमेश्वरमोतये वा ग्रहयज्ञसहितां वास्तुशान्ति करिष्ये । तत्पूर्वाङ्गत्वेन मातृपूजा-नान्दोश्राद्ध-पुण्याहवाचनानि करिष्ये इति संकल्प्य प्रधानदोपं संस्थाप्य मातृपूजा-नान्दीश्राद्ध-पुण्याहवाच नानि यथाविधि विधाय आचार्य ब्रह्मविक्तदस्यानां पौराणशान्ति काध्यायसप्तशत्यादिपाठकानां गणेशादिमन्त्रनापकानां च यथाक्रम वरणं कुर्यात् । [मण्डपकरणे वैदिकशान्त्यध्यायजापकानां द्वारपा लानां च वरणं कुर्यात] । तत्र संकल्पा-अद्येहेत्यादि संकीर्त्य अमु कोऽहं सवास्तुशान्तिशिलान्यासकर्मणि ( गृहप्रवेशकर्मणि ) आचा . (१) हेमाद्रौ मत्स्यपुराणे-एतद्वास्तुपशमनं कृत्वा कर्म समाचरेत् । प्रासादभवनोद्यानप्रारम्मे परिवर्तने । पुरवेश्मप्रवेशे च सर्वदोषोपशान्तये । वास्तूपशमनं कृत्वा तत: सूत्रेण वेष्टयेत् ॥ रक्षानपावमानेन सूक्तेन भव नादिकम् । नृत्यमङ्गलवाद्यैश्च कुर्यादब्राह्मणवाचनम् । अनेन विधिना यस्तु प्रतिसंवत्सरं बुधः । गृहे वाऽऽयतने कुर्यान स दुःखमवाप्नुयात् ॥ नच व्याधिभयं तस्य नचबन्धनलयःजीवेर्षशतं स्वर्ग कल्पमेकं घसेनारा इति गृहनिर्माणगृहप्रवेशादौ वास्तुशान्तिः सर्वाशुभनिवृत्यादिफलिका विहिता। सपनाया परिशिष्टदीपके य॑ब्रह्मविक्सदस्य ( जापकद्वारपाल ) शान्तिकाध्याय-सप्तशतीपाठ कानां गणेशादिमन्त्रजापकानां च पूजनपूर्वकं वरणं करिष्ये इति संकल्प्य आचार्यादिभ्योऽयं दत्त्वा गन्धाक्षतपुष्पैः संपूज्य एभिर्ग न्याक्षतयज्ञोपवीतपुष्पमालावासोलंकरणद्रव्यैः सवास्तुशान्तिशिलान्या स[गृहप्रवेश ] कर्मणि आचार्यत्वेन त्वामहं तृणे । वृतोऽस्मीति प्रत्युक्तिः । आचार्यस्तु यथा स्वर्गे शक्रादीनां बृहस्पतिः । तथा त्वं मम यज्ञेऽस्मिन्नाचार्यो भव सुव्रत ॥ इति प्रार्थयेत् । तथा कृताकृतावेक्षणादिकर्म कर्तुं ब्रह्मत्वेन त्वामहं वृणे । वृतो ऽस्मि इति प्रत्युक्तिः । यथा चतुर्मुखो ब्रह्मेत्यादिना ब्रह्माणं सम्पा र्थ्य ऋत्विजौ द्वौ [वैदिकशान्त्यध्यायजापकान्, द्वारपालान्, ] शान्ति काध्यायसप्तशत्यादिपाठकान्, गणेशादिमन्त्रजापकाँश्च वृणुयात् । ततो यजमान आचार्यादिसहितो दीपादीनि सर्वोपकरणानि द्विजै हियित्वा मङ्गलघोषपुरःसरं मण्डपं (सुसंस्कृतस्थलं ) प्रदक्षि णीकृत्य “भद्रं कर्णेभिः” इति मन्त्रेण पश्चिमद्वारेण प्रविशेत् । तत आचार्यः यजमानानुज्ञातः पश्चिमे उपविश्याचम्य अर्धस्थापनं विधाय अघेहेत्यादि संकीर्त्य अमुकोऽहं वास्तुशान्त्यामाचार्यकर्म करिष्या मि इति संकल्प्य प्रथमं सर्षपाक्षतैर्भूतोत्सादनं कुर्याद यदत्र संस्थितं भूतं स्थानमाश्रित्य सर्वदा । स्थानं त्यक्त्वा तु तत्सर्वे यत्रत्यं तत्र गच्छतु ।। अपक्रामन्तु भूतानि पिशाचाः सर्वतो दिशम् । सर्वेषामविरोधेन ब्रह्मकर्म समारभे भूतप्रेतपिशाचाद्या अपक्रामन्तु राक्षसाः। स्थानादस्माद वजन्त्वन्यत्स्वीकरोमि भुवं त्विमाम् ॥ इति भूतोत्सादनं कृत्वा पञ्चगव्येन कुशैः गृहनिर्माणाय परि गृहीतां सर्वां भुवं, निवृत्ते गृहे गृहप्रवेशाङ्गवास्तुशान्तौ सर्वं गृहं, मण्डपभूमि च “आपोहिष्ठा” इति संप्रोक्ष्य तोरणेषु मण्डपस्य दारेषु दानप्रकरणे सवास्तुशान्तिशिलान्यासप्रयोगः । १५७ च कलशस्थापनपूर्वकं ध्रुवादीन् इन्द्रादींश्च तुलादानप्रयोगोक्तरीत्या (पृ०४७ ) संपूज्य संक्षेपेण ध्वजपताकोच्छ्यणवर्ज बलिदानान्तं कृत्वा मण्डपमध्ये प्राच्यां यजमानहस्तेन हस्तमितायामविस्तारां चतु रङ्गुलोच्छितां वास्तुवेदि निर्माय तत्पश्चिमे ‘सयोनिमेखलं हस्तमात्रं कुण्ड, स्थण्डिलं वा चतुरङ्गुलोच्छ्रितं कृत्वा कुण्डात् ऐशान्यां हस्तमितां वितस्त्युच्छितां ग्रहवेदी निर्माय तत्राष्टदलं पद्म विलिख्य स्थण्डिलेऽग्नि पश्चभूसंस्कारपूर्वक प्रतिष्ठाप्य ग्रहयागप्रयोगोक्तरीत्या तत्र ग्रहान् अधिदेवतापत्यधिदेवतालोकपालवास्तोष्पतिक्षेत्रपालदिक्पालसहिताना वाह्य तदोशाने कलशे वरुणमावाह्य ग्रहादीन् सर्वान् “एतं ते” इति प्रतिष्ठाप्य संपूज्य रक्षासूत्रं चाभिमन्त्र्य वेधुपरि वितानं कृत्वा ततो वास्तुवेदेः ईशानादिकोणचतुष्के विशन्तु भूतले नागा लोकपालाश्च सर्वतः। अस्मिन्गृहे तु तिष्ठन्तु आयुर्बलकराः सदा ॥ इति मन्त्रेण (१) शम्यादिकाष्ठोद्भवहस्तमात्रकीलकारोपणं विधाय कोलकारोपणक्रमेण तत्पाश्र्वे माषभक्तबलि अग्निभ्योऽप्यथ सर्पेभ्यो ये चान्ये तत्समाश्रिताः। तेभ्यो बलिं प्रयच्छामि पुण्यमोदनमुत्तमम् ॥ इति ( दध्यक्षतबलिं) दद्यात् । ततः वास्तुवेद्युपरि वस्त्रे सुव र्णरजतान्यतरशलाकया कुङ्कुमादिना ॐ शान्तायै नमः, यशोवत्यै नमः, कान्तायै नमः, विशालायै नमः, प्राणवाहिन्यै नमः, सत्यै नमः, सुमनायै नमः, नन्दायै नमः, सुभद्रायै नमः, सुरथायै नमः १० इत्योंकारपूर्वक नमोऽन्तनामभिः पश्चादारब्धाः प्रागन्ता उदकसंस्थाः समा अङ्गुलद्वयान्तराला दश रेखाः कृत्वा, ततः ॐहिरण्यायै नमः, (१) वास्तुमण्डलकोणेषु ईशानादिक्रमेण च । शङ्कनां रोपणं शस्तं प्रादक्षिण्येन मार्गतः ॥ इति विश्वकर्मकृतवास्तुशास्त्रे शकुरोपणं विधाय ‘विशन्तु इति तन्मन्त्रं निर्दिश्य “अग्निभ्योऽस्यथ सन्य” इति वक्ष्यमाणेन बलिदानं च विहितम् । इदं वेदिकोणेषु शहरोपणं बलिदानं च सूत्रपातस मये वास्तुभूमेश्रतुषु कोणेषु भवते शहरोपणे बलिदाने च बोभ्यम् । १६० परिशिष्टदीपके ॐ भ० विवस्वते नमः पू० विवस्वन् इहा० ३९ । रक्त चत्वारिंशे तृ० पं० निर्ऋतिकोणे ए० ॐ भू० विबुधाधिपाय नमः पू० विबु धाधिप इहा० ४० । शुक्ले एकचत्वारिंशे त० ५० ब्रह्मपदात पश्चिमे त्रि० ॐ भू० मित्राय नमः पृ० मित्र इहा० ४१ । रक्त द्विचत्वारिंशे तृ० ५० वायुकोणे ए० ॐ भू० राजयक्ष्मणे नमः पू० राजयक्ष्मन् . इहा० ४२ । रक्ते त्रिचत्वारिंशे तृ० पं० ब्रह्मपदादुत्तरे त्रि० ॐ भू० पृथ्वीधराय नमः पू० पृथ्वीधर इहा० ४३ । शुक्ल चतुश्चत्वारिंशे ४० ५० ऐशाने ए० ॐ भूः आपवत्साय नमः पू० आपवत्स इहा० ४४ । मध्ये पञ्चचत्वारिंशे नवपदे पीतवर्णे ॐभर्भुवः स्वः ब्रह्मणे नमः पू० ब्रह्मन् इहागच्छेह तिष्ठ ॥४५॥ ततस्तास्मिन्नेव पदे तदुत्तरतः स्त्रीरूपां पृथिवीं ॐभू० पृथिव्यै नमः पृथिवि इहागच्छ इह तिष्ठ (१)। __ ततस्तस्मिन्नेव तदुत्तरतो माषान्यूनहिरण्यप्रतिमायां रजतप्रतिमा याम् अक्षतपुजे वा वृषवास्तुं सर्पाकार ( २ ) विलिख्य स्थापयेत् ॐभूर्भुवः स्वः वास्तुपुरुषाय नमः पू० वास्तुपुरुष कपिलजटाभार पृथ्वीधर देवानां प्रधानपुरुष सकलकर्मप्रधानपुरुष सकलकर्मप्र साधक पुष्करकूपोद्यानगृहप्रथमारम्भकाले सर्वसिद्धिप्रदायक सर्व सिद्धदेवमनुष्यैः सर्वदा पूज्यमान गृहस्थाने प्रजापतिक्षेत्रे शीघमाग च्छागच्छेति ॥ (१) वास्तुमण्डलमध्ये तु ब्रह्मस्थाने प्रपूजयेत् । सुरूपां पृथिवीं दिव्यरूपामरणसंयुताम् ॥ इति विश्वकर्मप्रकाशे [अ०५ । ३४] पृथि वीपूजनमुक्तम् । तदनुरोधेनात्रावाहनमुक्तम् । एतदनन्तरं वास्तुपुरुषस्य गन्धादिभिरर्चनं “वास्तुपुरुष नमस्तेऽस्तु” इत्यादिना तस्य प्रार्थन चाभिधाय स्वस्तिवाचनपूर्वकं वेष्टितसूत्रमार्गेण कर्या जलधाराकरणं बोजप्रक्षेपणं च तत्र विहितम् । (२) इति प्रार्थ्य ततो भूमौ संलिखेदास्तुपूरुषम् । पिष्टातकैस्त पडुलैर्धा नागरूपधरं विभुम् ॥ इति तत्स्वरूपं विश्वकर्मप्रकाशे [अ०१। १७] उक्तम् । सूवर्णेन मूर्तिकरणं तु श्राश्वलायनगृह्यपरिशिष्टेऽभिहि वम् [ ४]।

दानप्रकरणे सवास्तुशान्तिशिलान्यासप्रयोगा। १६१ ततो वाह्यदेवतानां स्थापनम् । ईशाने धूने ॐभू० चरक्यै नमः पू० चरकि इहा० १। आग्नेये रक्तवर्णे ॐभू० विदारक्यै नमः पू० विदारकि इहा० २। नैते पीतवर्णे ॐभू० पूतनायै नमः पू० पूतने इहा० ३। वायव्ये धूम्रवणे ॐभू० पापराक्षस्यै नमः पू० पापराक्षसि इहा० ४ । पूर्व रक्तवर्णे ॐथू० स्कन्दाय नमः पू० स्कन्द इहा० ५। दक्षिणे कृष्णवणे ॐभू० अर्यम्णे नमः पू० अय्यमन् इहा०६। पश्चिमे रक्तवर्णे ॐभू० जम्भकाय नमः पू० जृम्भक इहा० ७। उत्तरे पीतवणे ॐभू० पिलिपिच्छाय नमः पू० पिलिपिच्छ इहा० ८ । एवं पूर्वादिदिक्षु इन्द्रादिदशदिक्पालांचावाह्य सर्वेषामुत्तरतः मण्डलादहिः “ॐ भूर्भुवः स्वः क्षेत्रपालाय नमः पू० क्षेत्रपाल इहागच्छेह तिष्ठ । ॐनमो भगवते क्षेत्रपालाय त्रयस्त्रिंश कोटिदेवाधिनिजिताय भास्वद्भासुरकिंकिणीज्वालामुखाय भैरवरू पिणे तुरु २ मुरु २ लल २ षष २ फेफे काररूपिणे हुँफट्” इति मन्त्रेण क्षेत्रपालमावाहयेत् । एवमावाहनं विधाय पूजासंकल्पं कुर्य्यात् । अथेहेत्यादि सङ्को यं अमुकोऽहं गृहारम्भशिलान्यासकमणि[गृहप्रवेशकर्मणि वेधुपरि शिख्यादिब्रह्मपय॑न्तानां पञ्चचत्वारिंशदेवानां, पृथिव्याः, वास्तुपुरु षस्य, चरक्यादीनामष्टानाम्, इन्द्रादीनां दशदिक्पालानां बाह्यदेव ताना, क्षेत्रपालस्य च पूजनं करिष्ये इति संकल्प्य “एतन्ते” इत्या दिमन्त्रं पठित्वा ॐभूर्भुवः स्वः शिख्यादिपञ्चचत्वारिंशदेवताः पृथिवी वास्तुपुरुषः चरक्याद्यष्टौ इन्द्रादयो दश बाह्यदेवताः क्षेत्रपा लश्च सुपतिष्ठिता वरदा भवन्तु इति प्रतिष्ठाप्य नाममन्त्रैर्ध्यानावाहनास नपाद्यााचमनस्नानवस्त्र यज्ञोपवीतगन्धाक्षतपुष्पधूपदोपनैवेद्यताम्बूल भूषणनीराजनादिभिः पूजयेत् । ॐशिखिने नमः१ ॐपर्जन्याय नमः२ ॐजयन्ताय नमः३ ॐकुलिशायुधाय नमः४ ॐसूर्याय नमः५ ॐसत्याय नमः६ ॐभृशाय नमः ॐआकाशाय नमः८ ॐवायवे नमः ॐपूष्णे नमः१० ॐवितथाय नमः११ ॐगृहक्षताय नमः१२ ॐयमाय नमः१३ ॐगन्धर्वाय नमः१४ ॐभृङ्गराजाय नमः१५ २०५० परिशिष्टदीपके ॐमृगाय नमः१६ अपितृगणाय नमः१७ ॐदौवारिकाय नमः१८ ॐसुग्रीवाय नमः१६ ॐपुष्पदन्ताय नमः२० ॐवरुणाय नमः२१ ॐ असुराय नमः२२ ॐशोणाय नमः२३ ॐपापाय नमः२४ ॐरोगाय नमः२५ ॐग्रहये नमः २६ ॐमुख्याय नमः २७ ॐभल्लाटाय नमः २८ ॐमोमाय नमः २९ ॐमप॑भ्यो नमः ३० ॐअदितये नमः ३१ ॐदितये नमः ३२ ॐआपाय नमः ३३ ॐपावित्राय नमः ३४ ॐजयाय नमः ३५ ॐरुद्राय नमः ३६ ॐअय्यम्णे नमः ३७ ॐमवित्रे नमः ३८ ॐ विवस्वते नमः३९ ॐ विबुधाधिपाय नमः ४० ॐ मत्राय नमः ४१ ॐाजयक्ष्मणे नमः ४२ ॐथ्वीधराय नमः ४३ ॐापवत्साय नमः ४४ ॐब्रह्मणे नमः ४५ ॐपृथिव्यै नमः ४६ ॐवास्तोष्पतये नमः ४७ ॐचरक्यै नमः ४८ ॐविदा रक्यै नमः ४९ ॐपूतनायै नमः ५० ॐपापराक्षस्यै नमः ५१ स्कन्दाय नमः ५२ ॐअर्यम्णे नमः ५३ ॐजम्भकाय नमः ५४ ॐपिलिपिच्छाय नमः ५५ ॐइन्द्राय नमः ५. ॐ प्रग्नये नमः ५७ ॐयमाय नमः ५८ ॐनिर्ऋतये नमः ५९ ॐ वरुणाय नमः ६० ॐवायवे नमः ६१ ॐकुबेराय नमः ६२ ॐईशानाय नमः ६३ ॐब्रह्मणे नमः ६४ ॐअनन्ताय नमः ६५ इति चतुर्थ्यन्तनाममन्त्रैः पाचादिनीराजनान्तं सम्पूजयेत् । वास्तुपूजायां मन्त्रविशेषः ___ॐवास्तापने प्रातजानीरगन्स्वावशो ऽअनमी वो भानः। यत्त्वेमह प्रति तन्नो जुषस्व शन्नो भव द्विपदे शं चतुष्पदं ।। इति मन्त्रेण वास्तुदेवं संपूजयेत् । तत ईशा नदेशे कलशविधिना कलशं संस्थाप्य तत्र ब्रह्माणं तीर्थानि वरुणं चावाह्य संपूजयेत् । ततः क्षेत्रपालं ॐक्षत्राय योोनरमि क्षत्र स्य नाभिरांस । मा मा सिमीन्मामा हिमी ॥इति मन्त्रे ण नाममन्त्रेण च पाद्यादिभिः पूजयेत् । तन’ रक्षासूत्रमभिमन्य कलशे स्थापयेत् , वेदिद्वयोपरि वितानं च कुर्यात् । ततो होमवेदो समीपमागत्य ब्रह्मासनास्तरणादिपर्युक्षणान्तं कर्म कृत्वा शिला नामभिषेकार्थसंखवधारणार्थ जलकुम्भमग्नेरुत्तरतः यथाविधि संस्था दानप्रकरणे अवास्तुशान्तिशिलान्यासयोगः । १६३ पयेत् । ततः “एतंते” इत्यादिना (१)वरदनामानं प्रजापतिनामानं वाग्नि प्रतिष्ठापयेत् । ततो यजमानः द्रव्यदेवताभिध्यानं कुन्वा द्रव्यत्यागं कुर्यात् । अयेह स शलान्यास[गृहप्रवेशाङ्ग]वास्तुकर्मणा यक्ष्ये । तत्र प्रजाप तिम् इन्द्रम् अग्निं सोमम् आज्येन, आदित्यादिग्रहान् समिचर्वाज्य कृष्पतिलैः प्रत्येकमष्टसंख्याहुतिभिः, अधिदेवताः प्रत्यधिदेवताश्च तैरेव चतुस्संख्याहुतिभिः, शिख्यादीन् पञ्चचत्वारिंशदेवान् मधु ताक्तोदुम्बरखदिरापामार्गपलाशान्यतमसमिदाज्ययवकृष्णातिलैः दश संख्याहुतिभिः, पृथिवीं तैरेवाष्टसंख्याहुतिभिः, वास्तोपतिं तैरे वाष्टोत्तरशताहुतिभिः पञ्चभिः बिल्वफलैश्च [ बिल्वबीजैश्च ], चर क्यादीन् समिदादिभिरष्टसंख्याहुतिभिः, शेषेण विष्टकृतम् , अन्यादीन् प्रजापत्यन्तानन्दाद्याः शिलाश्चाज्येनाहं यक्ष्ये । एतत्सं. पादितमाज्यादिव्यम् आघाराज्यभागदेवताभ्यः आदित्यादिनवग्रहा दिभ्यः शिख्यादिपश्चचत्वारिंशदेवताभ्यः पृथिव्यै वास्तुपुरुषाय चर क्याघष्टदेवताभ्यः स्विष्टकृदग्नये महान्याहृतिसर्वप्रायश्चित्तदेवताभ्यो नन्दादिशिलाभ्यश्च मया परित्यक्तं यथादैवतमस्तु न मम इति । तत प्राचार्यः “तदेवामिः” इत्यादिना मन्त्रेण अग्नि पाद्यादि नोराजनान्त रेखा जिवाश्च सम्पूज्य ब्रह्मणाऽन्वारब्धो दक्षिणं जावा च्य मनसा प्रजापति ध्यात्वा ॐप्रजापतये स्वाहा (इदं प्रजापतये ) ॐइन्द्राय स्वाहा (इदमिन्द्राय) ॐअग्नये स्वाहा (इदमनये) ॐसोमा य स्वाहा (इदासोमाय ) इत्याधारावाज्यभागौ च हुत्वा ऋत्विग्भिः सहानन्वारब्धस्तिलादिना प्रत्येकमष्टसंख्यया ग्रहहोम, चतुःसंख्ययाऽ धिदेवतामत्यधिदेवताहोम, द्विसंख्यया लोकपालदिक्पालहोमं च कृत्वा प्रधातशिख्यादिहोमं मधुघृताक्तोदुम्बराधन्यतमसमिदादिभिः दशसंख्यया कुर्यात् । ॐकारः सर्वत्र योज्यः। शिखिने स्वाहा १ (१) “शान्तिके वरदो नाम"ति वचनात् । “वास्तुयागे प्रजापतिः” इति मत्स्यसूक्तवचनात् “श्र प्रजापतिनामाऽग्निः” इति वास्तुयागतवेपरिशिष्टदीपके पर्जन्याय स्वाहा २ जयन्ताय स्वाहा ३ कुलिशायुधाय स्वाहा ४ सूर्याय स्वाहा ५ सत्याय स्वाहा ६ भृशाय स्वाहा ७ आकाशाय स्वाहा ८ वायवे स्वाहा ९ पूष्णे स्वाहा १० वितथाय स्वाहा ११ गृहक्षताय स्वाहा १२ यमाय स्वाहा १३ गन्धर्वाय स्वाहा १४ भृङ्ग राजाय स्वाहा १५ मृगाय स्वाहा १६ पितृगणाय स्वाहा १७ दौवारिकाय स्वाहा १८ सुग्रीवाय स्वाहा १९ पुष्पदन्ताय स्वाहा २० वरुणाय स्वाहा २१ असुराय स्वाहा २२ शोषाय स्वाहा २३ पापाय स्वाहा २४ रोगाय स्वाहा २५ अहये स्वाहा २६ मुख्याय स्वाहा २७ भल्लाटाय स्वाहा २८ सोमाय स्वाहा २६ सर्पेभ्यः स्वा हा ३० अदितये स्वाहा ३१ दितये स्वाहा ३२ पापाय स्वाहा ३३ सावित्राय स्वाहा ३४ जयाय स्वाहा ३५ रुद्राय स्वाहा ३६अय्यम्णे स्वाहा ३७ सवित्रे स्वाहा ३८ विवस्वते स्वाहा ३९ विबुधाधिपाय स्वाहा ४० मित्राय स्वाहा ४१ राजयक्ष्मणे स्वाहा ४२ पृथ्वीधराय स्वाहा ४३ प्रापवत्साय स्वाहा ४४ ब्रह्मणे स्वाहा ४५ इति मन्त्र होमं प्रत्येकं दशसंख्यया कृत्वा पृथिवीहोमं “स्योनापृथिवि” इति मन्त्रेण अष्टसंख्यया कृत्वा वास्तोष्पतिहोमं वक्ष्यमाणेन “वास्तोष्पते प्रतिजानीयस्मान्” इति मन्त्रेण वसिष्ठ, त्रिष्टुप्छन्दो वास्तोष्प तिर्दे. होमे वि.’ इति स्मृत्वा अष्टोत्तरशतसंख्यया तैरेव द्रव्यैः कृत्वा बिल्वपञ्चकेन घृताक्तेन “वास्तोष्पते” इत्यादिमन्त्रपञ्चकेन जुहुयात् । वास्तोष्पते प्रतीति चतसृणां वसिष्ठऋषिः । आद्यास्तिस्रत्रिष्टु भः अन्त्या गायत्री । वास्तोपतिर्देवता । वास्तोपते ध्रुवेत्यस्या रि रिम्मिठिषिः । बृहतीछन्दः । वास्तोपतिर्देवता । सर्वासां होमे वि नियोगः । [ पा० ऋ० कां०३ कं०४ ] व्वास्तोष्पते प्रतिजानीयस्मानस्वावेशो ऽअनमीवो भवानः। यत्वेमहे प्रति तन्नो जुषस्व शन्नो भव द्विपदे शं चतुष्पदे स्वाहा ॥१॥ वास्तोष्पते प्रतरणो न sएषि गयस्फानो गोभिरश्वेभिरिन्दो। अजरासस्ते सख्ये दानप्रकरणे सवास्तुशान्तिशिलान्यासप्रयोगः । १६५ स्याम पितेव पुत्रान्प्रति नो जुषस्व स्वाहा ॥२॥ व्या. स्तोष्पते शग्मया सासदा ते सक्षीमहि रण्वया गातु मत्या। पाहि क्षेम उत योगे वरं नो यूयं पात स्वस्तिभिः सदा नः स्वाहा ।। ३॥ [ऋ.सं.५ । ४ । ११ । १-३] __ अमीवहा वास्तोष्पते विश्वा रूपाण्याविशन् । सखा सुशेव एधि नः स्वाहा ॥४॥[ऋ. सं.५।४।२२॥ १][६१२४] वास्तोष्पते धुवास्थूणांसत्रं सोम्या. नाम् । द्रप्सो भेत्ता पुरां शश्वतीनामिन्द्रो मुनीनां सखा स्वाहा ।। ५॥ इति बिल्वपञ्चकहोमं विधाय ततश्चरक्यादिबाह्यदेवताभ्यः प्रत्ये कमष्टसंख्याहुतिभिस्तैरेव द्रव्यैर्जुहुयात् । चरक्यै स्वाहा १ विदा रक्यै स्वाहा २ पूतनायै स्वाहा ३ पापराक्षस्यै स्वाहा ४ स्कन्दाय स्वाहा ५ अर्यम्णे स्वाहा ६ जृम्भकाय स्वाहा ७ पिलिपिच्छाय स्वाहा ८ । ततः ब्रह्मान्वारब्धेन सर्वशेषेण स्विष्टकृद्धोमम् , अाज्येन भूरादिनवाहुतिहोमं च विधाय संस्रवप्राशनम् , पवित्रपतिपत्तिः, प्रणीताविमोकश्च कार्याणि ।। ततो यजमानः ब्रह्मणे पूर्णपात्रम् अद्येहेत्यादि संकीर्त्य अमु कोऽहं शिलान्यासवास्तूपशमनाङ्गहोमकर्मणः सादगुण्यार्थमपूर्णपूरणा थं च इदं पूर्णपात्रं ससुवर्णं तुभ्यमहं संप्रददे इति संकल्प्य दद्यात् । ब्रह्मा च अक्रन्कर्मेति मन्त्राशिषं दद्यात् । तत आचार्यों वास्तुदेवता भ्यः प्रत्येकं पायसबलिं दध्यक्षतबलिं वा दद्यात् । तत्र संकल्प: अद्येहेत्यादि संकीर्त्य अमुकोऽहं सपुत्रसपरिवारस्य मम यजमानस्य आयुरारोग्याभिवृद्धिपूर्वकं सर्वोपद्रवशान्त्यर्थं नवग्रहादिभ्यः शिख्या दिपञ्चपञ्चाशदेवताभ्यश्च पायसेन दध्यक्षतैर्वा बलिदानं करिष्ये । ॐकारः सर्वत्र योज्यः । बलिं गृहीत्वा ग्रहयागप्रयोगोक्तरोत्या ग्रहा दिभ्यो बलिं दत्वा वास्तुचेदेः पश्चात् शिखिने __साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय एष सदीप पायसवलिः। [दध्यक्षतवलिः ] नमः। १६६ परिशिष्ठदीपके इति बलि समये हस्ते जलं गृहीत्वा भोभोः शिखिन् एनं सदीपं सद्रव्यं पायसबलिं [ दध्यक्षतबालें ] गृहाण मम यजमानस्य सपुत्रसपरिवारस्य रक्षाकर्ता आयुष्क क्षमकर्ता शान्तिका तुष्टिकर्ता पुष्टिकर्ता स्थिरकर्ता भव इति बल्युपरि जलं विसृजेत् १ । पर्जन्याय० नमः भोभोः पर्जन्य एनमित्यादि पू० २ जयन्ता य० नमः भोभो जयन्त एनं. ३ कुलिशायुधाय० नमः भोभोः कु लिशायुध एनं. ४ सूर्याय. नमः भोभोः सूर्य एनं. ५ सत्याय. नमः भोभोः सत्य एनं. ६ भृशाय. नमः भोभो भृश एनं. ७ श्रा काशाय. नमः भोभो आकाश एनं. ८ वायवे. नमः भोभो वायो एनं. पूष्णे. नमः भोभोः पूषन् एनं. १० वितथाय. नमः भोभो वितथ एनं. ११ गृहक्षताय. नमः भोभो गृहक्षत एनं. १२ यमाय. नमः भोभो यम एनं. १३ गन्धर्वाय. नमः भोभो गन्धर्व एनं. १४ भृङ्गराजाय. नमः भोभा भृङ्गराज एनं. १५ मृगाय. नमः भोभो मृग एनं. १६ पितगणाय. नम. भोभोः पितृगण एनं. १७ दौवा रिकाय नमः भोभो दौवारिक एनं. १८ सुग्रीवाय. नमः भोभोः सुग्रोव एनं. १९ पुष्पदन्ताय. नमः भोभोः पुष्पदन्त एनं. २० वरु पाय. नमः भोभो वरुण एनं. २१ असुराय. नमः भोभो असुर एनं. २२ शोषाय. नमः भोभोः शोष एनं. २३ पापाय. नमः भो भोः पाप एनं. २४ रोगाय. नमः भोभो रोग एनं. २५ अहये. नमः भोभो अहे एनं. २६ मुख्याय. नमः भोभो मुख्य एनं. २७ भल्लाटाय. नमः भोभो भल्लाट एनं. २८ सोमाय. नमः भोभोः सोम एनं. २६ सर्पेभ्य: नमः भोभोः सर्पा एनं. बलिं गृह्णीत यजमा नस्यायुष्कर्तारः भवत ३० अदिनये. नमः भोभो अदिते एनं. आ युष्की . ३१ दितये. नमः भोभो दिते एनं. आयुष्की. ३२ श्रा पाय. नमः भोभो आप एनं. ३३ सावित्राय. नमः भोभोः सावि त्र एनं. ३४ जयाय. नमः भोभो जय एनं. ३५ दाय. नमः भोभो रुद्र एनं. ३६ अर्यम्णे. नमः भोभो अर्यमन् एनं. ३७ सवित्रे. दानप्रकरणे सवास्तुशान्तिशिलान्यासप्रयोगः । १६७ नमः भोभोः सवितः एनं. ३८ विवस्वते. नमःभोभो विवस्वन् एनं. ३९ विबुधाधिपाय. नमः भोभो विबुधाधिप एनं. ४० मित्राय. नमः भोभो मित्र एनं. ४१ राजयक्ष्मणे. नमः भोभो राजयक्ष्मन् एनं. ४२ पृथ्वीधराय. नमः भोभोः पृथ्वीधर एनं. ४३ आपवत्साय. भोभो अापक्त्स एनं. ४४ ब्रह्मणे. नमः भोभो ब्रह्मन् एनं. ४५ पृथिव्य. नमः भोभोः पृथिवि एनं. आयुष्की. ४६ वास्तोपतये. नमः भोभो वास्तोपते एनं. ४७ ई०चरक्यै, नमः भोभोश्चरकि एनं. पयसबलि ( दध्यातबलि ) सद्रव्यं गृहाण मम यजमानस्य सपुत्रसपरिवारस्य रशकी श्रायुष्की क्षेमकी शान्तिकी तुष्टि की पुष्टिकर्ती स्थिरकी भव ४८ श्रा० विदारक्य: नमः भोभी विदारकि एनमित्यादि चरकीवत् ४९ नै० पूतनायै० नमः भोभोः पूतने एनं. ५० वा. पापराक्षस्यै० नमः भोभोः पापराक्षसि एनं. ५१ पू.स्कन्दाय नमः भोभो स्कन्द एनं. ५२ द० अर्यम्णे० . नमः भोभो अर्यमन एनं. ५३ प.ज़म्भकाय० नमः भोभो जृम्भक एनं. ५४ उ०पिलिपिच्छाय० नमः भोभोः पिलिपिच्छ एनं. ५५ । ततः इन्द्रादिदिक्पालेभ्यो गृहप्रवेशवक्ष्यमाणरीत्या वलिं दत्त्वा क्षेत्रपालाय बलिं दद्यात् । चतुर्वत्तिकदीपयुतं द्रव्यताम्बूलकुसराना दिभिः क्षेत्रपालवलिं संपाद्य संकल्पं कुर्यात् । अयेहेत्यादि संकीर्त्य अमुकोऽहं मम यजमानस्य सपुत्र सपरिवारस्य रक्षार्थ सर्वारिष्ट परि हारार्थं च क्षेत्रपालाय बलिदानं करिष्ये । तदङ्गत्वेन क्षेत्रपालस्य पूजनं करिष्ये । कसरबल्युपरि चतुर्वत्तिकं दीप प्रज्वलय्य बलि सम्पोक्ष्य रक्तचन्दनादिभिः पूजयेत् । ध्यानम् भ्राजद्वक्त्रजटाधरं त्रिनयनं नीलाञ्जनाद्रिप्रभं दोर्दण्डान्तगदाकपालमरुणस्रग्गन्धवस्त्रावृतम् । घण्टाघुघुरमेखलध्वनिमिलधुंकारभीमं विभुं वन्दे संहितसर्पकुण्डलधरं श्रीक्षेत्रपालं भजे ॥ इति ध्यात्वा ॐक्षौं क्षेत्रपालाय भूतप्रेतपिशाचडाकिनीशाकिनो १६८ परिशिष्टदीपके घेतालादिपरिवारयुताय एष सदीपताम्बूलदक्षिणः कृसरानवलिनमः ॐनमो भगवते क्षेत्रपालाय त्रयस्त्रिंशत्कोटिदेवाधिनिाजितय भास्वद्भा सुरकिङ्किणीज्वालामुखभैरवरूपिणे तुरु२ सुरु२ लल२ षष२ फे फे काररूपिणे भोः२ क्षेत्रपाल एनं सदीपं कृसरानबलिं गृह्ण२ मम यज मानं पाहि२ दिशो रक्ष२ बलि भक्ष २ मम यजमानस्य सपुत्र सपरि वारस्य रक्षाकर्ता आयुक” क्षेमकर्ता शान्तिकर्ता तुष्टिकर्ता पुष्टिकर्ता स्थिरकर्ता भव इति क्षेत्रपालाय बलिदानं विधाय आचामेत् । वक्ष्यमा रणं सायंकालिकभूतबलिदानं चेदानीमेवापकृष्याचरन्ति । एवं होमा न्ते [वि.क.प.]विहितं बलिदानं विधायाचार्यः सपरिवार यजमानं प्राङ्मुखं स्वयं प्रत्यङमुखः शान्तिकलशोदकेन पूर्वोक्तैः(१४६) “सुरास्त्वामभिषिञ्चन्तु” इत्यादिभिर्वेदिकैश्च मन्त्रैर्ऋत्विभिः सहो स्थाय तत्रैव बलिदानान्ते विहितमभिषेकं कुर्यात् । ततः सर्वोषधीर नुलिप्य तं शुद्धोदकेन स्नापयित्वा नवपदे ब्रह्मस्थाने पृथिवीं सुभू पितां स्त्रीरूपां ध्यात्वा “ॐ भूर्भुवः स्वः धरायै नमः” इति विश्वक मप्रकाशोक्तेन मन्त्रेण संपूज्य संपार्थ्य “सर्वदेवमयं वास्तु वास्तु देवमयं परम्” इति वास्तुदेवं च तत्र भावयित्वा संपूज्य संप्रार्थ्य च वास्तुभूमि[ गृह ] प्रागादितस्विसूच्या। (१)ॐकृणुष्व पाजःप्रसितिं न पृथ्वीं याहि राजेवामवाँ २॥ इभेन। त्रिवीमनु प्रसितिं द्रुणानोऽस्ताऽसि विध्य रक्षसस्तपिष्ठैः ॥१॥ तव भ्रमास ऽआशुया पतन्त्यनुस्पृश धृषता शोशुचानः । तपूज्यग्ने जुबा पतङ्गानसंदितो विसृन विश्वगुल्काः ॥२॥ प्रति स्पशो विसृज तूर्णितमो भवा पायुविशो ऽअस्या ऽअदब्धः। यो नो दूरेऽअधशासो यो ऽअन्त्यग्ने मा किष्ट व्यथिरादधर्षीत् ॥३॥ (१) वास्तूपशमनं कृत्वा ततः सूत्रेण वेष्टयेत् । रक्षोनपावमानेन सूक्तेन भवनादिकम् ॥ इति हेमाद्री मात्स्यात् । रक्षोध्नं सूक्तं “कृणुष्य पाज” इति पश्चर्चम् [य० सं० १०१३। ०६-१३] । पाषमान पुन न्तु मा पितरः सोम्यास"इति नवर्चम् अष्टकण्डिकात्मकम् [य० सं० अ०१६। ०३७-४४] ३ दानप्रकरणे सवास्तुशान्तिशिलान्यासप्रयोगः । १६९ उदग्ने तिष्ठ प्रत्यातनुष्व न्यमित्राँ२॥ ओषतात् तिग्महेते। यो नो ऽअराति समिधान चक्र नीचा तं धक्ष्यतसं न शुष्कम् ।।४।। · भव प्रतिविध्याध्यस्मदाविष्कृणुष्व दैव्यान्यग्ने । अवस्थिरा तनुहि यातुजूनां जामिम नामि प्रमृणीहि शत्रून् ॥५॥ इति रोनेन- . ॐपुनन्तु मा पितरः सोम्यासः पुनन्तु मा पितामहाः । पुनन्तु प्रपितामहाः पवित्रेण शतायुषा ॥१॥ पुनन्तु मा पितामहाः पुनन्तु प्रपितामहाः। पवित्रेण शतायुषा विश्वपायुयश्नवै ।। २॥ अग्न आयूषि पवस ऽासुवोर्जमिषं च नः। आरे बाधस्वदुच्छुनाम्।।३।। पुनन्तु मा देवजनाः पुनन्तु मनसा धियः । पुनन्तु विश्वा भूतानि जातवेदः पुनोहि मा ॥ ४ ॥ पवित्रेण पुनीहि मा शुक्रण देव दीयत् । अग्ने क्रत्वा क्रतूंशारनु॥५॥ यत्ते पवित्रमचिंष्यग्ने विततमन्तरा । ब्रह्म तेन पुनातु मा ॥६॥ पवमानः सोऽअध नः पवित्रेण विचर्षणिःाया पोता स पुनातु मा॥७॥ उभाभ्यां देव सवितः पवित्रेण सवेन च । मां पुनाहि विश्वतः ॥८॥ व्वैश्वदेवी पुनती देव्यागाद्यस्यामिमा बयस्तन्वो बोतपृष्ठाः । तया मदन्तः सधमादेषु व्वयस्याम पतयो रयीणाम् ॥९॥ इति पावमानेन च सूक्तेन वेष्टयेत् । ततो (१)दुग्धपूर्णया जलपूर्ण या च स्तनकुम्भीभ्यां (झारियोंस)वास्तुभूमि [गृहं]पागादितः अवि च्छिन्नधाराद्वयेन सिञ्चेत् सप्तधान्यबीजानि प्रक्षिपेञ्च । ___अथ यजमानः गृहस्याग्नेये ईशानकोणाव अष्टमे(२)आकाशपदे (१) “बलि च सम्यग्विधिवत्प्रयुज्य क्षीरेण धारां परितस्तु दद्यात्” इति मदनरस्ने गृहदानप्रकरणे मात्स्योतो, विश्वकर्मप्रकाशे वास्तुपुरुष प्रार्थनान्तं कर्माभिधाय “चाचयित्वा ततः स्वस्ति कर्करों परिगृध च । सूत्रमार्गेण तोयस्य धारां कुर्यात् प्रदक्षिणम् ॥ प्रतिपेत्तन मागेण सर्वबी जानि चहि” । इत्युक्तेश्च जलदुग्धोभयधाराकरणं लभ्यते । कर्करो, मा. री’ इति प्रसिद्धा। (२) “होमशेष समाच्याथ यजमानो वास्तुभूति रौद्रकोणेऽधोमुखी परिशिष्टदीपके भूमि जानुमात्रं खानयित्वा गोमयमुज्जलैरुपलेप्य शुक्लगन्धपुष्पादि भिरलंकृत्य सप्तधान्यानि दधि च तत्र प्रक्षिप्य जलपूर्ण गन्धादिभि रचितं नवकुम्भं हस्ताभ्यामादाय जानुनी भूमौ निपात्य ॐ नमो. वरुणाय इति जलेन गत पूरयेत् । ततो मुन्निमितपेटिकायां सप्तधान्य दधिशैवालपुष्पाणि प्रक्षिप्य ब्रह्मस्थाने पूजितषवास्तुपतिमा मङ्गल घोषपूर्वकमानीय तस्यां संस्थाप्य गन्धादिभिः संपूज्य प्रसीद पाहि विश्वेश देहि मे गृहजं सुखम् । पूजितोऽसि मया वास्तो होमाद्यैरर्चनैः शुभैः॥ वास्तुपुरुष नमस्तेऽस्तु भूमिशय्यारत प्रभो । मद्गृहं धनधान्यादिसमृद्धं कुरु सर्वदा ।। इति प्रार्थयेत् । ततः मन्मयपिधानेन पेटिकामाच्छाद्य पैटिकां गृहीत्वा तस्मिन् गर्ने सशैलसागरां पृथ्वीं यथा वहसि मूर्धनि । ___ तथा मां वह कल्याणसंपत्संततिभिः सह ॥ इति मन्त्रेण शनैर्निक्षिपेत् । गत पूर्वोत्खातमृदा पूरयेत् । मृद आधिक्ये शुभं, साम्ये मध्यमं, न्यूनत्वेऽधमम् । गर्वोपरि भूमि गोम यादिनोपलेप्य गन्धादिभिभूषयेत् । गृहनिर्माणाय एतत्सर्वं कर्म कृत्वा शिलान्यासमुपक्रमेत । पूर्व वर्णप्रमाणतः निर्माप्य स्थापिताः नन्दा भद्रा जया रिक्ता पूर्णेति पञ्च गर्ने प्रच्छादयेत्’ इति पूजितवास्तुप्रतिमाया गर्ने प्रच्छादनम् आश्चल: यनगृह्यपरिशिष्टे [अ० ख०२] अभिहितम् । “मृस्पेटिकां स्वर्णरत्न. धान्यशैवालसंयुताम् । गृहमध्ये हस्तमात्रे गर्ने न्यासाय विन्यसेत् ॥ इति नारदसंहितायां मृत्पेटिकाया गर्ते निधानमुकम् । शान्तिसारादिपद्धतिका रैस्तु उभयैकवाक्यतया वास्तुप्रतिमां पेटिकायां निधाय गर्ने तस्या नि धानमुल्लिखितम् । अस्माभिरपि तदेवाश्रितम् । वास्तुभूमेरेकाशीतिपदा नि कल्पयित्वा ईशानकोणात् अष्टमे आकाशपदे निधानमपि शान्तिसा राधनुरोधात्। परिशिष्टे रौद्रकोणे, नारदरहितायां च मध्ये निधानस्यो तत्वात् । आकाशपदस्यैव वा रौद्रत्वं लिङ्गोभद्रमण्डले इन्द्राग्न्योर्मण्य स्य रुद्रायतनत्वकथनात्कथंचिद्योज्यमिति दिक् । दानप्रकरणे सवास्तुशान्तिशिलान्यासयोगः । १७१ शिलाः पद्मावङ्किता उपशिलासहिताः स्नानमण्डपमानीय कुशशय्यायां भद्रासने स्थापयित्वा ताम्रमयान् मृन्मयान्वा१७स्नानकलशान् मृत् पञ्चकषाय-गोमूत्र-गोमय-समस्तपञ्चगव्य-व्यस्तपञ्चामृत-फल-रत्र सुवर्ण-वृषशृङ्ग तीर्थ-गन्धोदकयुक्तान् कृत्वा नन्दादिषु ब्रह्म-विष्णु-रुद्र ईशान-सदाशिवान् आवाह्य प्रतिष्ठाप्य वस्त्रेणाच्छाद मन्त्रः नन्दा द्याः शिलाः स्नापयेत् । तद् यथा-प्रथम सप्तमृत्तिकोदकेन __ अग्निमूर्द्धा दिवः ककुत्पतिः पृथिव्या ऽअयम् । अ. पा रेतासि जिन्वति ।। इति मन्त्रेण । अथ अश्वत्थप्लक्षवटोदुम्बरवेतसमूलसंभवैः पञ्चकषायैः यज्ञा यज्ञा शो ऽअग्नये गिरागिरा च दक्षसे । प्रप्र वयममृतं जातवेदसं प्रिय मित्रं न शहसिषम् ॥ [य. सं.अ. २७ । कं. ४२] इति मन्त्रेण ।। गायच्या गोमूत्रेण, “गन्धद्वाराम्” इति गोमयेन गन्धोदकेन च मलस्नानं कारयित्वा “पयः पृथिव्याम्” इति समुदितेन पञ्च गव्येन स्नापयित्वा “आप्यायस्व” इति दुग्धेन संस्नाप्य “गन्ध द्वाराम्” इति गन्धतोयेन संस्नाप्य “दधिक्राण” इति दन्ना संस्नाप्य “गन्धद्वाराम्” इति गन्धोदकेन सं. “घृतवती” इति घृतेन सं. पूर्ववद्गन्धतोयेन सं., “मधुव्वाता ऋतायते मधु क्षरन्ति सिन्धवः । मा. ध्वीनः सन्त्वोषधीः” इति मधुना सं० गन्वतोयेन पू० सं० आऽयं गौः पृश्निरक्रमीदसवन्मातरं पुरः। पितरं च प्रगन्ना “इति शर्करया सं. पू. गन्धतोयेन स्ना., याः फलिनीर्य ऽअफला अपुष्पा याश्च पुष्पिणीः । बृहस्पनिप्रसूनास्ता नो मुश्चन्त्वहसः ॥ इति फलोदकेन, परिवाजनिः कविहव्यान्यक्रमीत् । दधद्रनानि दाशुषे ।। इति रनोदकेन, हिरण्यगर्भः समवर्तताने भूतस्य जातः पतिरेका १७१ परिशिष्टदीपक आसीत् । स दाधार पृथिवीं चामुतेमां कस्नै देवाय ह. विषा विधेम ॥ इति सुवर्णोदकेन, हविष्मतीरिमा ऽआपो हविष्मा २॥ आदिवास. ति। हविष्मान्देवो ऽअध्वरो हविष्माँ २॥ अस्तु मूर्यः॥ इति वृषभृङ्गोदकेन, - ओषधयः समवदन्त सोमेन सह राज्ञा। यस्मै कृणो. ति ब्राह्मणस्त: राजन् पारयामसि ॥ इति सप्तधान्योदकेन, हमम्मे वरुण श्रुधी हवमथा च मृडय । स्वामव स्युराचके ॥ इति तीर्थोदकेन, गन्धबारां दुराधर्षी नित्यपुष्टां करीषिणीम् । ईश्वरी सर्वभूतानां तामिहोपह्वये श्रियम् ॥ इति गन्धोदकेन च (१) संस्नाप्य वस्त्रेण परिमार्य सरलासने निवेश्य केसरादि युतेन सुगन्धिना चन्दनेनानुलिप्य सुवर्णादिशलाकया कुङ्कमादिना नन्दाशिलायां पचं, भद्राशिलायां सिंहासनम् , जयायां तोरणं छत्रं च, रिक्तायां कूर्मम् , पूर्णायां चतुर्भुज विष्णुंच टङ्कोत्किरणमनुसृत्य लिखित्वा वस्त्रेणाच्छाद्य नन्दादिशिलानां मूलेषु (२)अभिषेकं कुर्यात् । (१)सर्वासामधिशेषेण तनुत्रेणावगुण्ठनम् । मृद्भिर्गोमयगोमूत्रकाषा येर्गन्धवारिणा ॥ विधिना पञ्चगव्येन स्नानं पञ्चामृतेन च । गन्धतोयान्तरं कुर्यान्निजनामाङ्किताणुना ॥ फलरत्नसुवर्णानां गोशासलिलैस्ततः । चन्द नेन समालम्य वनराच्छादयेच्छिलाः॥ इति स्नापनप्रकारः अग्निपुराणे २] उनी । मन्त्राश्च “अग्निर्मूर्धा” इत्यादयः विश्कर्मप्रकाशे श्लो०६४] उता। अन्यानि च स्नापनद्रव्याणि समन्त्राणि तत्रोक्तानि । “श्राऽयं गोः” इति शर्करया, “ओषधय” इति धान्योदकेन, “हविष्मती” इति कोदकेन, “हिरण्यगर्भ” इति सुवर्णोदकेन इति त्रि विक्रमपद्धतौ। यद्यपि तत्र तोर्थोदकम्नाने “इमं मे गड़े” इति मन्त्री वि नियुक्तस्तथापि तस्य यजुम्संहितायामनभिधानात् अस्माभिस्तत्स्थाने “इमं मेयरुण” इत्युक्त । सम्प्रदायपद्धतो तस्यवोके। (२) श्राब्रह्मन्निति नन्दाया भद्रं कर्णति वै तथा। जातवेदसेति तथा यमायत्वे त मन्त्रकैः॥ पूर्णादाति पूर्णायाः क्रमेणापि समाचरेत। मले,मध्येअपच तथा नाभिर्मेतिच मन्त्रकः । ब्रह्मजज्ञानमिति च विष्णो रामिति च । नमस्ते रुद्र इति च इमं देवेति संस्नपेत् ॥ शीर्षे चावाह

. . . बालप्रकरणे सवास्तुशान्तिशिलान्यासप्रेयागः । १७३ तत्र पूर्व नन्दाशिलाया मूलेऽभिषिञ्चेत्-आ ब्रह्मन्ब्राह्मणो ब्रह्मवर्चसी जायतामा राष्ट्र राजन्यः शूर इषव्योऽति. व्याधी महारथो जायतां दोग्धी धेनुर्वोढाऽनड्वानाशुः सप्तिः पुरन्धिर्योषा जिष्णू रपेष्ठाः। सभेयो युवाऽस्य यजमानस्य व्वीरो जायतां निकामेनिकामे नः पर्जन्यो वर्षतु फलबत्यो न ऽओषधयः पच्यन्तां योगक्षेमो नः कल्पताम् ॥ १॥ इति मन्त्रेण । __ अथ भद्राशिलायामूलेऽभिषिञ्चेव-भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः। स्थिरैरङ्गैस्तुष्टुवास. स्तनूभिर्व्यशेमहि देवहितं यदायुः ॥२॥ इति मन्त्रेण । अथ जयाशिलाया मूलेऽभिषिञ्चत जातवेदसे सुनबाम साममरातीयतो निदहाति वेदः । स नः पर्षदति दुर्गाणि विश्वा नावेध सिन्धु दुरिताऽत्यग्निः ॥ ३ ॥ इति ऋग्वेदोक्तेन मन्त्रेण । अथ रिक्ताशिलाया मूलेऽभिषिञ्चेद यमाय त्वा मखाय त्वा सूर्यस्य त्वा तपसे देव. स्त्वा सावता मध्वाऽनक्तु पृथिव्याः सस्पृशस्पाय. चिरसि शोचिरसि तपोसि ॥४॥ इति मन्त्रेण ।।३१० अथ पूर्णाशिलाया मूलेऽभिषिञ्चेत पूर्णा दर्वि परापत सुपूर्णा पुनरापत। व्वलेव वि क्रीणावहाऽइषमूर्ज शतक्रतो ॥५॥ इति मन्त्रेण । [३१४९] __एवं शिलानां मूलेषु अभिषेकं कृत्वा-नन्दाया मध्ये नाभिमैं चित्तं विज्ञानं पायुर्मेऽपचितिर्भसत् । आनन्दनन्दावाण्डौ कर्यात तद्विष्णोः परमं पदम् । इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् ॥ समध्ये देव्या धिया इति च त्र्यम्बकं यजामहे इति च । मूर्धानं दिवेत्य चया सम्पूज्य च यथाविधि ॥ इति नन्दादिशिलानां मुलमध्यशिरःसु अभिः षेका, शिरसि आवाहनं चोकम् । “शीर्ष चावाहनं कुर्यात्’ इत्यत्र चशब्दो भिन्नक्रमः । शीर्ष आवाहनं च कुर्यादिति तदर्थः। “ब्रह्मजज्ञानम् इत्या. दयः शिवानापनमन्त्री ग्रहयागप्रयोगे द्रष्टव्याः।१७४ परिशिष्टदीपके मे भगः सौभाग्य पसः ॥ (२०18 ) इति मन्त्रेण, भद्रामध्ये “ब्रह्म जज्ञानम्” इति, जयामध्ये “विष्णो रराटम्” इति, रिक्तामध्ये “नमस्ते रुद्र” इति, पूर्णामध्ये “इमं देवा” इति चाभिषिच्य-“तद्विष्णोः परमं पदम्”, “इदं विष्णुर्विच. क्रमे”, “समख्ये देव्या धिया”, “यम्बकं यजामहे”, “मूर्धानं दिवो’ इति मन्त्रः क्रमेण तासां शिरसि अभिषिच्य नन्दायाः शिरसि ब्रह्माणं, भद्रायाः शिरसि विष्णुम, जयाया: शिरसि रुद्रम् , रिक्तायाः शिरसि ईश्वरम् , पूर्णायाः शिरसि सदा शिवं क्रमेणाबाह्य स्थापयेत् । ॐ भूर्भुवः स्वः ब्रह्मणे नमः पूजार्थे स्वामावाहयामि स्थापयामि ॐभू. विष्णवे नमः पू. ॐ भू. रुद्राय नमः पू. ॐभू. ईश्वराय नमःपू. ॐभू. सदाशिवाय नमःपू० इत्यावाह्य-नाममन्त्रैः पाद्यादिभिः सम्पूज्य ॐभूर्भुवः स्वः इति शिलानामावाहनं नन्दात्वादिना कुर्यात् । तत्र प्रथमम् अओंभूर्भुवः स्वः नन्दे इहागच्छेह तिष्ठेति नन्दाया आवाहनम् १। ततः ओंभू० भद्रे इ० भद्रावाहनम् २। अथ ओंभू० जये इ० जयावाहनम् ३॥ अथ ओंभू० रिक्त इ० रिक्तावाहनम् ४ । अथ ओंभू० पूर्णे इ० पूर्णा वाहनम् ५। एवमावाह्य नाममन्त्रैः गन्धादिनाऽभ्यर्थ्य अधिवासन मण्डपमानीय वेद्यां भद्रासने कुशतल्पास्तीर्णे निवेश्य पाद्यादि-नीरा जनान्तं सम्पूज्य सुवर्णवस्त्रादिभिरलं कुर्यात् । ततः ___ श्रीनन्दायै स्वाहा१ ओभद्रायै स्वाहार ओंजयायै स्वाहा३ ओरिक्तायै स्वाहा४ ओपूर्णायै स्वाहा५ इति शिलानाममन्त्रैः घृतेन अष्टोत्तरशत-अष्टाविंशति-अष्टान्यतम संख्यया हुत्वा ओं या ते रुद्र शिवा तनूरघोराऽपापका शिनी । तया नस्तन्वा शंतमया गिरिशन्ताभिचाक शीहि ॥ इत्यघोरमन्त्रेण शुक्लयजुःसंहितोक्तेन शान्त्यर्थं रुद्रायाष्टोत्त रशताज्याहुतिभिर्जुहुयात् । एवं होमं विधाय “मूर्धानं दिव” इति पूर्णाहतिं कृत्वा आचार्यः प्रोक्षणीस्थान संस्रवान् सथिण्डलस्योत्तरतः स्थापितकलशे निक्षिप्य तेनोदकेन शिलानां मूलमध्यशिरःसु कुशैर

दानप्रकरणे सवास्तुशान्तिशिलान्यासप्रयोगः। १७५ भिषिञ्चेत [ “प्रोक्ष्याः शान्तिजलैः शिला” इत्यग्निपुराणात्[१२] । तत आचार्यः वास्तुभूमिं गत्वा ईशानादिकोणेषु मध्ये च प्रादक्षि ण्येन नन्दा-भद्रा-जया-रिक्ता-पूर्णा इत्येतासां नामभिश्चितानि कृत्वा भूमि प्रार्थयेत् । विश्वे त्वं कमले भूते पृथिदी लोकधारिणी। यज्ञार्थ क्षोभिता देवि प्रसीद परमेश्वरि ।। तस्मात्त्वां खानये देवि सानुकूला मखे भव । सर्वदेवमयी भूमिः सर्वदेवरसान्विता ।। इति भूमि सम्पार्थ्य दिक्साधनं कृत्वा वास्तुभूमेः ईशानादिको णेषु(१)मध्ये च सुवर्णकुहालादिना (२)नाभिमानं चतुर्हस्तं रनि (१) इति वास्तुविधानं तु कृत्वा ताः स्नानमण्डपात् । समानीय शिलास्तत्र सूत्रधारो गुणान्वितः ॥ तत्र दिक्साधनं कुर्यात् गृहमध्ये सुसा धिते। ईशानादिक्रमेणैव स्वर्णकुहासकेन तु ॥ खनिस्वा कोणभागेषु मध्ये चैव विशेषतः। नाभिमात्रे तथा गर्ने शिलानां स्थापनं शुभम् ॥ (अ० ५। श्लो० ४२-४४ ) गृहकोणेषु सर्वेषु पूजां करवा विधानतः। ईशान मादितः कृत्वा प्रादक्षिण्येन विन्यसेत् ॥ नन्दा-मद्रा-जया-रिक्ता-पूर्णा नाम्नीर्यथाक्रमम् । नन्दायां पद्ममालिख्य भद्रा सिंहासनं तथा ॥ जयायां तोरणच्छत्रे रिक्तायां कूर्ममेव च । पूर्णायां च चतुर्बाहुं विष्णु संलेख येद् बुधः ॥ भूर्भुवः स्वरिति तथा तासामावाहनं स्मृतम् । ब्रह्मा विष्णुश्च रुद्रश्चईशानश्च सदाशिवः॥ भतान्येतानि पश्चैव पञ्चस्वावाहयेत्पनः। स्नपनं च ततः कुर्यात् विधिदृष्टेन कर्मणा ॥ इति विश्वकर्मप्रकाशे [श्ली० ५७-६२] अभिहितम् । अनेन हि खननेऽपि ईशानादिक्रम एव लभ्यते । “स्खननावटसंस्कारे प्रारम्भो वह्निगोचर” इत्यादि तु संपूर्णवास्तुभूमि खनने प्रारम्भस्य आग्नेये कर्तव्यताबोधकम् । शिलान्यासस्य आग्नेयो. पक्रमपक्षे तत्र खननोपकमकर्तव्यताबोधकं वा । (२) “नामिमाने तथा गर्ते” इति पूर्वोक्तवचनात् । “चतुर्हस्तप्रमाणं तु कृत्वा गत समन्ततः” इति निर्णयसिन्धौ शान्तिरत्नोद्धृतं वचनं तु “चतुहस्तं द्विहस्तं वा” इति पूर्वोक्त (१५१) लैङ्गवचनसिद्धचतुर्हस्ताधा परिमाणबोधकमेव, एकवाक्यत्वात् । भित्तिरचनायं वास्तुभूमे समन्ततः खातम्य कर्तव्यत्वेन खातपरिमाणस्य वास्तुभूमिपरिमाणाधीनस्वेन तत्र चतुर्हस्तत्वस्य नियमयितुमशक्यत्वात् । अर्थात् परिमाणम्” इति कात्या यनसूत्रात् प्रयोजनानुरूपपरिमाणस्यैव न्याय्यत्वेन रनिदीर्घाणां तदर्थ १७६ परिशिष्टदीपके मात्रं वा गतं कृत्वा गोमयेनोपलिप्य तत्र सर्पाकारं वास्तुपुरुषं पिष्टातकैरक्षतेर्वा लिखित्वा आवाहयाम्यहं देवं भूमिष्ठं चाप्यधोमुखम् । वास्तुनाथं जगत्प्राणं पूर्वस्यां प्रमथाश्रितम् ।। इत्यावाह्य “एतं ते” इति प्रतिष्ठाप्य ___ओंव्वास्तोष्पते प्रतिजानी ह्यस्मान्त्स्वावेशोऽअन. मीवो भवा नः । यत्वेमहे पनि तन्नो जुषस्व शन्नो भव द्विपदे शश्चतुष्पदे ॥ इति मन्त्रेण सम्पूज्य प्रार्थ येत् विस्ताराणां शिलानां न्यासार्थ च तावत्परिमाणल्यानुपयोगात् । तस्मात् अधाखननपरिमाणमेव चतुर्हस्तत्वम् । नाभिमाखननं तु लैलोक्तद्रिह स्तखननैकवाक्यतापनम् । तदुच्छायस्य द्विहस्तोच्छायतुल्यत्वात् । रति मानं तु भूपरीक्षार्थ रनिमात्रखननस्य दृष्टत्वादभिहितम् । त्रिविक्रमेण तु “किश्चित खातं कृस्वा” इत्युक्तम् । तस्यायं भावा सूत्रपातस्यानन्तरं चतुर्हस्तं खननस्य पादोनखातपूरणस्य चानुष्ठितत्वेन इदानीमधिकखननस्यानुपयोगात् किञ्चिदेव शिलान्यासार्थ खननस्योपयो गात् तावन्मात्रमेव खननं विधेयम् इति । एवं च पूर्वमकृते एव खनने अस्मिन्नवसरे एतावत्खननम् । कन्यासिंहे तुलायां भुजगपतिमुखं शम्भुकोणेऽग्निखातं वायव्ये स्यात्तदास्यं वलिधनुमकरे, ईशखातं वदन्ति । कुम्मे मीने चनेषे निऋतिदिशि मुखं, खात वायव्यकोणे अग्नेः कोणे मुखं वै वृषमिथुनगते कर्कटे, रक्षखातम् ॥ अस्था। सिंहकन्यातुलासु वास्तुसर्पस्य मुखमीशानको भवति। अतः खातं खातस्योपक्रमः सिंहकन्यातुलास्थे सूर्ये अग्निकोणे कार्यः। वृश्चिकादिराशित्रयस्थे सूर्ये सपास्यं वायव्ये भवति, अतस्तदा ईशाने खातोपक्रमः । कुम्भादिराशित्रयगे सूर्ये नैसे सर्पमुखम् , अतो वायु कोणे तदा खातोपक्रमः। वृषादिराशित्रयगे सूर्ये अग्निकोणे सर्पमुख, अतो नेते तदा खातोपक्रम इति । इदमपि [नि. सि. ] शिल्पिशास्त्र. वचनं भित्त्यर्थ समन्ततः कर्तव्यस्य, भूमिदोषनिवारणार्थं समस्तवास्तु भूमौ कर्तब्यस्य वा खातस्योपक्रमे दिग्विशेषनियामकम् । न तु शिक्षा ग्यासाय कतम्यखातस्योपक्रमे दिग्विशेषनियामकम् । तत्र सर्वदा दिग्धि ‘शेषस्य व्यवस्थितत्वेन कालविशेषे दिगन्तरस्य नियमयितुमशक्यत्वात् । इत्यमेव सामञ्जस्ये वाध्यबाधकभावकल्पनाऽनघकाशात् इति दिक। दानप्रकरणो सवास्तुशान्तिशिलान्यासप्रयोगः १७७ वास्तोपते नमस्तेऽस्तु भूमिशय्यारत प्रभो । मदगृहं धनधान्यादिसमृद्धं कुरु सर्वदा ॥ इति । (१)ततः सुलग्ने समागते लग्नदानं विधाय स्वस्तिवाचनं पठि त्वा गीतवादितरवे जायमाने देवपितृब्राह्मणान्नमस्कृत्य शिलास्थापन कुर्यात् । तदुक्तं विश्वकर्मप्रकाशे-(अ. ५१०५। १०६) मृदादिना दृढीकृत्य प्रादक्षिण्येन सर्वतः । ईशानादिक्रमेणैव स्थायाः सर्वार्थसिद्धये । अन्येषां चैव वर्णानामाग्नेयादिक्रमेण च । सर्वेषामपि वर्णानां केचिदिच्छन्ति सूरयः ॥ इति । तत्र प्रथमम् ईशाने आधारशिलां न्यस्य तस्या मध्यगत॑क्षनो (१) ततः सुलग्ने संप्राप्ते पञ्चवाद्यानि वादयेत् । नन्दा प्रगृह्य च शिलां तत्राधारशिलां न्यसेत् ॥२॥ तत्रोपरि न्यसेत्पनकलशं मन्त्रमन्त्रि तम्। सौषधिजलोपेतं पारदाज्यघृतप्लुतम् ॥३॥ पिहितं रत्नगर्भ च तेजोगशिभिरन्वितम् । सदाशिवस्वरूपां च ध्यात्वा पञ्चोप रिकी ॥४॥ संपूज्य दीपं विन्यस्य वामभागेऽथ गर्तके । तत्रोपरि न्यसेन्नन्दा संपूज्य च यथाविधि ॥५॥-नाभिर्मेति च मन्त्रेण स्थिगे भवेति वै तथा। प्रार्थनं च तथा कुर्यात् आगमोक्तेन मन्त्रवित् ॥८६॥ नन्दे त्वं० ॥८॥ ॥८॥ महापनं न्यसेत्तत्र [प्राधारशिलायां] पूजयेद्रनगभितम् । तत्र भद्रां च संस्थाप्य पूजपेनाममन्त्रकैः ॥८६॥ भद्रं कर्णेति ऋचया स्थाप येदारुणैस्तथा। भद्र स्वं ॥१०॥१॥ श्राधारोगरि विन्यस्य कलश शङ्क संज्ञकम् । कोणे संपूज्य विधिवजयां संस्थापयेत्ततः ॥२॥ जातवेदसति मन्त्रेण पूर्वोक्तेन च मन्त्रतः। गर्गगोत्रसमुदभूतां ॥६॥३४॥ प्राधारो परि विन्यस्य विजयं कलशं ततः। रिक्ता संस्थापयेत्तत्र मन्प्रेणानेन मन्त्ररित् ॥६५॥ त्र्यम्बकं यजामहेनि तथा वरुणमन्त्रक। पूजयेत्प्रार्थयेत्त दिक्तां रिक्तानिहारिणाम् ॥६॥ रिक्त त्वं ॥१७॥ श्राधारे विन्यसेन्मध्ये सर्वतामद्रसंज्ञकम् । पूर्ण रत्नान्वितं पुष्टं सर्वमन्त्राभिमन्त्रितम् ॥८॥ तं च संपूज्य विविध ध्यात्वा तत्र सदाशिवम् ॥ तत्रोपरि न्यसेत् पूर्ण पूर्णानन्दप्रदायिनोम् ॥६६॥ पूर्ण स्वं ॥१०॥१०१॥ पूर्णादीति मन्त्रण इमं देवेति वै तथा। मूर्धानं दिवेति तथा शान्तिमन्त्रैस्तथैव च ॥१०२॥ सहस्रशोर्षेति षोडभिरग्निमीळेति बै तथा। इषेत्वोर्जत्यनमायाहीति तथा पुनः पुनः ॥१०३॥ शन्नोदेवाति मन्त्रेण स्थापयेत् प्रयतः शुचिः। इति शिलानां स्थापनप्रकार उपदिष्टो वि.क.प्र. [ ५] । ० १७८ परिशिष्टदीपके परि मध्वाज्यपारदपञ्चरत्नगर्भितं पिहितमुखं पद्मकलशं गन्धाक्षत पुष्पादिभिरलंकृतं निधाय ओं पद्माय नमः इति नाममन्त्रेण आवाह नप्रतिष्ठापनपूर्वकं सम्पूज्य आधारशिला सदाशिवरूपिणीं तेजोमयीं ध्यात्वा-“एतन्ते” इत्यादि पठित्वा ओंभूर्भुवःस्वः आधारशिले सुप तिष्ठिता भवेति प्रतिष्ठापयेत् । ततस्तां संपूज्य मृदा दृढीकृत्य तस्या वामे दीपं च विन्यस्येत् । ततः पनकलशोपरि प्राक्शिरसं नन्दाम् [१११४४] ओं स्थिरो भव ब्वीड्वाऽभाशुभव व्वाज्यर्व न् । पृथुर्भव सुषदस्त्वमग्ने पुरीषवाहणः॥[२०९]नभिर्मे चित्तं विज्ञानं पायुर्मेऽपचितिर्भसत् । आनन्दनन्दाता. ण्डौ मे भगः सौभाग्यं पसः॥ इति मन्त्राभ्यां संस्थाप्य गन्धा दिभिः सम्पूजयेत् । ततः– नन्दे त्वं नन्दिनी पुंसां त्वामत्र स्थापयाम्यहम् । वेश्मनि स्विह सन्तिष्ठ यावचन्द्रार्कतारकाः। आयुः कामं श्रियं देहि देववासिनि नन्दिनि । अस्मिन् रक्षा त्वया कार्या सदा वेश्मनि यत्नतः ।। इति प्रार्थयेत् । इति नन्दास्थापनम् । तत आग्नेयकोणे आधारशिलां विन्यस्य तस्या मध्यगर्तेक्षतोप रि मध्वाज्यपारदपञ्चरत्नगर्भितं पिहितमुखं महापद्मकलशं निधाय ओं महापमाय नमः इति गन्धाक्षतपुष्पैः आवाहनादिपूर्वक सम्पूज्य आधारशिला सदाशिवरूपिणीं ध्यात्वा “एतन्ते” इत्यादि पठित्वा ओंभूर्भुवः स्वः आधारशिले सुप्रतिष्ठिता भवेति प्रतिष्ठापयेत् । तत स्तां संपूज्य तस्या वामे दीपं संस्थाप्य मृदा दृढीकृत्य प्राकशिरसं भद्राशिलाम्"ओं भद्रं कर्णेभिः इति मन्त्रेण, “वरुणस्योत्तम्भनमसि” इत्यादिभिः एककण्डिकात्मकैः पञ्चभिर्वारुणैर्यजुभिश्च स्थापयित्वा गन्धपुष्पाक्षतः संपूज्य भद्रे त्वं सर्वदा भद्रं लोकानां कुरु काश्यपि । आयुर्दा कामदा देवि सुखदा च सदा भव ॥ स्वामत्र स्थापयाम्यद्य गृहेऽस्मिन् भद्रदायिनि । इति प्रार्थयेत् । दानप्रकरण सवास्तुशान्तिशिलान्यासयोगः । १७२ ततो नैर्ऋतकोणे आधारशिलां न्यस्य तस्या मध्यगर्तेतोपरि मध्वाज्यपारदयुक्तं पञ्चरत्नगर्भितं पिहितमुखं शङ्खनामककुम्भं निधाय गन्धाक्षतपुष्पैः संपूज्य आधारशिला सदाशिवरूपिणीं ध्यात्वा “एतंते’ इत्यादि पठित्वा ओंभूर्भुवः स्वः आधारशिले सुपतिष्ठिता भवेति प्रतिष्ठाप्य सम्पूज्य वामे दीपं संस्थाप्य मृदा दृढीकृत्य प्राकृशिरसं जयाशिला “जातवेदसे” इति मन्त्रेण “वरुणस्योत्तम्मनम्” इति च संस्थाप्य गन्धाक्षतपुष्पैः संपूज्य __गर्गगोत्रसमुद्भूतां त्रिनेत्रा च चतुर्भुजाम् ।। गृहेऽस्मिन् स्थापयाम्यद्य जयां चारुविलोचनाम् । नित्यं जयाय भूत्यै च स्वामिनो भव भार्गवि । इति प्रार्थयेत् । ततो वायव्यकोणे आधारशिला न्यस्य तस्या मध्यगर्तेक्षतोपरि मध्वाज्यपारदपञ्चरत्नगर्भितं पिहितमुखं विजयनामककुम्भं निधाय गन्धाक्षतपुष्पैः संपूज्य आधारशिला सदाशिवरूपिणीं ध्यात्वा “एतं ते"इति प्रतिष्ठाप्य संपूज्य वामे दीपं संस्थाप्य मृदा दृढीकृत्य प्राक शिरसं रिक्ताशिला “च्यम्बकं यजामहे” इति मन्त्रेण “वरुणस्यो तम्भनमसि” इत्यनेन च संस्थाप्य गन्धपुष्पाक्षतैः पूजयित्वा रिक्त त्वं रिक्तदोषघ्ने सिद्धिभुक्तिमदे शुभे । सर्वदा सर्वदोषनि तिष्ठास्मिस्तत्र नन्दिनि ।। इति प्रार्थयेत् । ततो वास्तुभूमेमध्ये आधारशिला न्यस्य तस्या मध्यगर्तेऽक्ष तोपरि सर्वतोभद्रनामकं कुम्भं मध्वाज्यपारदपञ्चरत्नगमितं पिहित मुखं निधाय गन्धाक्षतपुष्पैः संपूज्य आधारशिलां सदाशिवरूपिणी ध्यात्वा “एतं ते"इति प्रतिष्ठाप्य संपूज्य वामे दीपं संस्थाप्य मृदा दृढीकृत्य प्राशिरसं पूर्णाशिला “पूर्णा दर्वि"इति (१)मन्त्रेण संस्थाप्य गन्धाक्षतपुष्पैः पूजयित्वा - (१) सति संभवे “इमं देवा” “मूर्धानं दिवो” “द्यौः शान्तिः” इत्येते, “सहस्रशीर्षा” इत्यादिषोडशभिः, “अग्निमीले” “इषेत्वार्जेत्वा” “अन्न श्रआयाहि” “शनोदेवी” इत्येतेश्च स्थापयेत् । वि. क. प्र. एषां सर्वेषां पूर्णास्थापने करणत्वेनोपदेशात् । परिशिदीप पूर्णे त्वं सर्वदा पूर्णान् लोकानां कुरु काश्यपि । आयुर्दा कामदा देवि धनदा सुतदा तथा ॥ गृहाधारा वास्तुमयी वास्तुदीपेन संयुता। त्वामृते नास्ति जगतामाधारश्च जगत्प्रिये ॥ इति प्रार्थयेत् । ततः पञ्चशिलासु अष्टधातूंश्च निक्षिप्य क्रमेण ओं नन्दायै नमः १ ओं भद्रायै नमः २ श्री जयायै नमः ३ ओं रिक्तायै नमः ४ ओं पूर्णायै नमः ५ इति सदीपं पायसवलिं दध्यक्षत बलिं वा दत्त्वा हस्तौ पादौ प्रक्षाल्याचम्य शान्तिकाध्यायं पठित्वा शिख्यादिदेवानां वास्तुपुरुषस्य क्षेत्रपालस्य च उत्तराङ्गत्वेन पूर्व वत्पूजनं विदध्यात् । ततः सपत्नीकः सपुत्रपौत्रो यजमानः (१)प्राङ् मुख उदङ्मुखाय प्राचार्याय गां, ब्रह्मणे ऋत्विग्भ्यः सप्तशत्यादि पाठकेभ्यश्च [ मण्डपकरणे जापकेभ्यो द्वारपालेभ्यश्च ] यथांशेन सु वर्णादिदक्षिणां, सर्वेभ्यो भूयसीं च-अद्येहेत्यादि संकीर्त्य अमु कराशिः सपनीका सपुत्रपौत्रोऽहं कतैतत्सवास्तुशान्तिशिलान्यासक मणः साङ्गफलमाप्तये साद्गुण्यार्थं च इमां गां गोनिष्क्रयद्रव्यं वा प्राचार्याय, सुवर्णरजतान्यतरदक्षिणां ब्रह्मादिभ्यः, न्यूनातिरिक्त दोषपरिहारार्थम् इमां भूयसी दक्षिणां नानानामगोत्रेभ्यो ब्राह्मणे भ्यो नटनर्तकगायकेभ्यो दीनानाथेभ्यश्च विभज्य दास्ये इति सं कल्प्य दद्यात् । ततो यथासंख्याकान् ब्राह्मणानन्यांश्च भोजयिष्ये (१) ततस्तु प्राङ्मुखो भूत्वा आवाय विवेदयेत् । दक्षिणां ब्रह्मणे दद्याद्यवित्तानुसारतः ॥ उदङ्मुखाय च ततः क्षमस्वेति पुनः पुनः। गां सवत्सां स्वणयुतां तथा पासोयुगान्वितार ॥ यज्ञान्ते प्राप्लुतान्व स्नानाचार्याय निवेदयेत् । दववं च ततस्तोष्य स्थपतान्वैष्णवानपि । दक्षिण च ततो दद्याद घृते छायां विलोकयेत् । रक्षाबन्ध मन्त्रपाठं ज्या यषं च समाचरेत् ॥ ऋास्वग्भ्यो दक्षिणां दद्याच्छिष्टेभ्यश्च स्वशक्तितः॥ दानाधिकृपणेभ्यश्च दद्याद्वित्तानुसारतः। शिल्पिवगोस्तु संतोज्य दानमान स्तथैव च ॥ दध्यक्षतच संपूज्य यथावत्तानुसारतः। संप्राप्नोति नरो लक्ष्मी पुत्रपौत्रधनान्विताम् ॥ यावदस्मिन्वसेल्लोके सर्वसंपरसमन्धितः । इति श्रन्ते गोदानादि उपदिष्टम [वि.क.प्र.५ अन्याये। दानप्रकरणे गृहप्रवेशप्रयोगे विशेषः। १८१ इति संकल्पयेत् । अधुना वा सपरिवारं यजमानम् आचार्य्यादयो ब्राह्मणाः शान्तिकलशोदकेन वैदिकैः पौराणैश्च मन्त्रैरभिषिञ्चेयुः । ततो यजमानः सहस्रधाराभिः सचैलं स्नात्वा शुक्लाम्बरधरो भूत्वा आसने उपविशेत् । आचार्यादयश्च तिलकामतारोपणं रक्षाबन्धनं व्यायुषलापनं मन्त्रपाठादिकं कुर्युः । यजमानश्च घृते छायादर्शनं कृत्वा ब्राह्मणाय तद् दत्त्वा ब्राह्मणान्प्रणम्य । यान्तु देवगणाः सर्वे पूजामादाय मामिकाम् । इष्टकामसमृद्धयर्थं पुनरागमनाय च ॥ इति । देवान्विसृज्य कायेन वाचेति कर्मेश्वरार्पणं कृत्वा यस्य स्मृत्ये त्यादि पठेत् ॥ इति सवास्तुशान्तिशिलान्यासप्रयोगः ॥ सधया अथ गृहप्रवेशप्रयोगे विशेषः । तत्र शिख्यादिपिलिपिच्छान्तेभ्यो बलिदानान्तं कर्म पूर्ववत्कृ त्वा गृहात बहिः पूर्वादिदिनु (शिलान्यासे वास्तुभूमेः पूर्वादिदिनु) दशदिक्पालानां नाममन्त्रैर्वैदिकमन्त्रैश्चावाहनादिपूजनं विधाय दधिमधुघृतमिश्रितभक्तं, दध्यक्षतं वा सदोपं बलिं संपाद्य दद्याद पताकाधारोपयेत् । *वितानस्तोरणैः पुष्पैः पताकामिविशेषतः । अलंकृत्य नवं गेहं देहली पूजयेत्ततः॥ दिक्पालांश्च तथा क्षेत्रपालं प्रामाधिदेवतान् । प्रणम्य विधिवत्पूज्य द्वारमार्गे विशेद् गृहम् ॥ पूजयेद्गणनाथं व मातृकाश्च विशे षतः। सोर्धारां पातयित्वा ग्रहांचव तु पूजयेत् ॥ वास्तुनाथं च संपू ज्य ब्राह्मणान्पूजयेत्ततः। गोदानं भूमिदानं च कारयेच [ कुर्यात् ] यथा विधि ॥ इति पताकारोपणादिप्रकारो गृहप्रवेशाङ्गत्वेन [वि.क० प्र० दशम अध्याये उपदिष्टः । शिलान्याले तु अस्मिन्नवसरे पताकागेपणादिक वास्तमौन विहितम् । मण्डपपूजावसरे तत्रैव तद यहच्छया कतव्य “कपाटमनाच्छन्नमदत्तलिभोजनम् । गृहं न प्रविशेदेव विपदा. माकरं हि तत्” ॥ इति नारदमहितायाम् एकोनत्रिंशाध्यायस्यान्तेऽभि. धानात् गृहात पूर्वादिषु दिक्पालेभ्यो बलिदानं गृहे ब्राह्मणानां भोजनं च कृत्वा गृहं पूर्वोक्तरीत्या प्रविशेत् ।१८२ परिशिष्टदीपके तत्र पूर्व पूर्वे इन्द्र प्रार्थयेत् इन्द्रः सुरपतिः श्रेष्ठो वज्रहस्तो महाबलः। शतयज्ञाधिपो देवस्तस्मै नित्यं नमोनमः ॥ ओम् इन्द्राय-साङ्गाय सायुधाय सपरिवाराय सश क्तिकाय नमः एतं सदीपं बलि समर्पयामि। भोर इन्द्र दिशं रक्षर बलिं भक्ष२ यजमानस्यायुष्का पुष्टिकर्ता तुष्टिकर्ता क्षेमकर्ता भव । बलिना सह वज्राङ्कितां पीतपताकां च गृहाण इति दत्त्वा आचामेत् १ । तत आग्नेय्यामनिं प्रार्थयेत् । आग्नेयः पुरुषो रक्तः सर्वदेवमयोऽव्ययः। धूम्रकेतुर्ध्वजो यस्य तस्मै नित्यं नमोनमः । अग्नये साङ्गाय० । भोर अग्ने दिशं रक्ष२ बलिं भक्ष२ यजमान स्यायुष्कर्ता० शक्त्यङ्किता रक्तपताकाश्च गृहाणेति दत्त्वा आचामेत् २। ततो दक्षिणे-~-महामहिषमारूढं दण्डहस्तं महाबलम् । आवाहयामि यज्ञेऽस्मिन्पूजेयं प्रतिगृह्यताम् ।। यमाय साङ्गायः । भोर यम दिशं रक्ष२ बलिं भक्ष२ यजमानस्यायुष्कर्ता० दण्डाङ्कितां कृष्णवर्णपताकां च गृहाणेति दत्त्वा आचामेत् ३। ततः नैऋते निति खड्गहस्तं च सर्वलोकैकभावनम् । आवाहयामि यज्ञेऽस्मिन्पूजेयं प्रतिगृह्यताम् ॥ निर्धतये साङ्गाय । भोर निते दिशं रक्षर बलिं भक्ष२ यजमानस्यायुष्कर्ताः खड्गाङ्कितां नीलवर्णपताकां च गृहाणेति दत्त्वाऽचामेत् ४ । ततः पश्चिमे पाशहस्तं च वरुणमर्णसां पतिमीश्वरम् । आवाहयामि यज्ञेऽस्मिन्पूजेयं प्रतिगृह्यताम् ॥ वरुणाय साङ्गाय० । भो२ वरुण दिशं रक्षर बलिं भक्षर यजमानस्यायुष्कर्ता० पाशाङ्कितां श्वेतपताकाच गृहाणेति दत्त्वाऽ चामेत् ५। ततो वायव्ये दानप्रकरणे गृहप्रवेशप्रयोगे विशेषः। १८३ वायुमाकाशगं चैव पवनं मृगवाहनम् । आवाहयामि यज्ञेऽस्मिन्पूजेयं प्रतिगृह्यताम् ॥ वायवे साङ्गाय० । भो भो राया दिशं रक्षर बति भत्तर यज मानस्यायुष्कर्ता० धूम्रामङ्कशाङ्किता पताकां च गृहाणेति दत्त्वाऽऽ चामेत् ६ । तत उत्तरदिशि सर्वनक्षत्रमध्ये तु सोमो राजा व्यवस्थिनः । तस्मै सोमाय देवाय कुबेराय नमोनमः ।। कुवेराय साङ्गाय० । भोभोः कुबेर दिशं रक्षर बलिं भक्ष २ यज मानस्यायुष्कर्ता० गदाङ्कितां हरितपताका व गृहाणेति दत्त्वाऽऽ चामेत् ७ । तत ईशानदिशि वृषभस्कन्धमारूढं शूलहस्तं पिनाकिनम् । आवाहयामि यज्ञेऽस्मिन्पूजेयं प्रतिगृह्यताम् ॥ ईशानाय साङ्गाय० । भो भो ईशान दिशं रक्षर बलिं भक्षर यजमानस्यायुष्कर्ता० त्रिशूलाङ्किता श्वेतपताकां च गृहाणेति दत्त्वा ऽऽचामेत् ८ । ततः पूर्वेशानयोर्मध्ये पद्मपाणिश्चतुर्भूतिघेदावासः पितामहः । यज्ञाध्यक्षश्चतुर्वक्त्रस्तस्मै नित्यं नमोनमः ॥ ब्रह्मणे साङ्गाय० । भो भो ब्रह्मन् दिशं रक्षर बलिं भक्ष २ यजमानस्यायुष्कर्ता० कमण्डल्वाङ्कितां रक्तपताकां च गृहाणेति दत्त्वा आचामेत् ९। नैर्ऋतपश्चिमयोर्मध्ये अनन्तरूपिणा येन विष्णुना सचराचरम् । पुष्पवद्धारितं नित्यं तस्मै तुभ्यं नमोनमः ॥ अनन्ताय साङ्गाय० । भो भो अनन्त दिशं रक्षर बलिं भक्ष२ यजमानस्यायुष्कर्ता० चक्राङ्किता मेघवर्णपताकां च गृहाणेति दत्त्वाऽऽचामेत् १०। १८१ परिशिष्दीपके एवं दशदिक्पालेभ्यो गृहप्रवेशाङ्गत्वेन बलीन् पताकाश्च दत्त्वा पूर्वोक्तरीत्या क्षेत्रपालाय मापभक्तबलिं दत्त्वा नैर्ऋत्यां दिशि भूतेभ्यः संध्याकाले विशेषतः । बलिं दद्याद्विधानेन मन्त्रविनक्तभुग्यमी ॥ [अ०५] इत्यनेन सायंकाले विहितं सर्वभूतेभ्यो बलिदानम् अस्मिन्नेव समयेऽपकृष्य गृहान्नैऋते [ शिलान्यासे वास्तुभूमे ते ] कुर्यात । तद्यथा-उत्तराभिमुखो भूत्वा पाणिपुटकद्वयेन बलिशेषमादाय देव्यो देवा मुनीन्द्राः सभुवनपतयो दानवाः सर्वसिद्धा यक्षा रक्षांसि नागा गरुडमुखखगा गुह्यका देवदेवाः । योगिन्यो देववेश्या हरिदधिपतयो मातरो विघ्ननाथाः . प्रेता भूताः पिशाचाः पितृवननगराधाधिपाः क्षेत्रपालाः॥१॥ गन्धर्वाः किन्नराः सर्वे गुह्यकाः पितरो ग्रहाः। कूष्माण्डाः पूतना रोगास्तथा वेतालकाः शिवाः ॥२॥ असृक्प्लुताश्च पिशुना मांसभक्षान्यनेकशः। लम्बक्रोडास्तथा ह्रस्वा दीर्घाः शुक्लास्तथैव च ॥३॥ खञ्जाः स्थूलास्तथैकाक्षा नानापक्षिमुखास्तथा। व्यालास्या उष्ट्रवक्त्राश्च अवक्त्राः क्रोडवर्जिता ॥४॥ धमनाभास्तमालामा द्विपाभा मेघसन्निभाः। गवलामाः क्षितिनिभा प्रशनिस्वनसन्निभाः॥५॥ द्रुतगाश्च मनोगाश्च वायुवेगसमाश्च ये । बहुवक्त्रा बहुशिरा बहुबाहुसमन्विताः ॥६॥ बहुपादा बहुदृशः सर्पाभरणभूषिताः । विकटामुकुटाः केचित् तथा वै रनधारिणः ॥७॥ सूर्यकोटिप्रतीकाशा विद्युत्सदृशवर्चसः । कपिला हुतभुवर्णाः प्रमथा बहुरूपिणः ॥८॥ गृहन्तु च बलिं सर्वे तृप्ता यान्तु बलिनमः । इति विश्वकर्मप्रकाशे [अ० ५। श्लो०५-१३]। दानप्रकरणे गृहप्रवेशप्रयोगे विशेषः। १८५ उक्तैः मन्त्रैः सर्वेभ्यो भूतेभ्यो बलिं दत्त्वा हस्तौ पादौ प्रक्षाल्या चामेत् । ततः यजमानाभिषेकं गृहस्य त्रिसूच्या वेष्टनं कर्करीभ्यां जल दुग्धोभयधाराकरणं वास्तुप्रतिमासहितमृत्पेटिकानिखननं पूर्णाहु तिहोमं शिख्यादीनामुत्तराङ्गत्वेन पूजनम् आचार्याय ब्रह्मादिभ्यः सुवर्णरजतान्यतरदक्षिणादानं सर्वेभ्यो भूयसीदानं च पूर्ववत्कुर्यात् । (१) ततो नवगृहे ब्राह्मणान् आवाहितदेवताप्रीतये भोजयित्वा अग्निं देवांश्च विसृज्य द्वितीयदिने तदिन एव वा दैवज्ञबोधिते सुलग्ने शुक्लाम्बरधरः सपत्नीको यजमानः स्वगृहदेवान्भूमिदेवाँश्च प्रणम्य सदुग्धजलां कर्करी पत्नीहस्ते दत्त्वा, पीवरां वर्तिकां प्रज्वलय्य दासी हस्ते अग्रे दत्त्वा, स्त्रिया अञ्चलग्रन्थि बध्वा, मार्गे जलं सिञ्चत्या तया पुस्तकपुत्रादिभिश्च सहितो मङ्गलकलशान्वितः-उपरि विता नैः, समन्तात् आम्रपल्लवतोरणैः फलपुष्पकदलोस्तम्भैश्च, पूर्वादिदिनु मध्ये च पताकाभिरलंकृतं दध्यक्षतविभूषितं दत्तबलि भोजितब्राह्मणं धूपधूपितं गृहम्-एकवारं प्रदक्षिणीकृत्य मङ्गलगीतवादित्रतूर्यघो. षेण प्रसन्नमना देहलीसमोपमागत्य देवताः प्रणम्य देहली द्वारमा तृश्च पूजयित्वा लग्नदानं कुर्यात् । तद्यथा-अघेहेत्यादिसंकीर्त्य अमुकशर्मा सपत्नीकोऽहं गृहप्रवेशलमाधवकुत्र स्थितादित्यादिनव गृहाणां दुष्टानां दुष्टफलोपशान्त्यर्थं शुभानां शुभफलाधिक्यप्राप्तये इमा दक्षिणां दैवज्ञाय संप्रददे इति दत्त्वा स्वस्तिवाचनं [ शान्तिपाठं ] कुर्वन् कारयश्च गृहाभ्यन्तरं प्रविश्य गणेशं संपूज्य पुण्याहं वाच यित्वा ग्रहान् वास्तुनाथं च कलशे संपूज्य गोदानं[ सति संभवे भूमिदानं च ] कृत्वा गणपतिसहितजीवमातृपूजनं विधाय दक्षिणां दत्त्वा महानीराजनं तिलकं च कारयित्वा मुहृदन्धुयुतो भुञ्जीत । (१)कृत्वाऽग्रता द्विजवरानथ पूर्णकुम्भंदध्यक्षताम्रदल-पुष्प-फलोपशोमम्। कृत्वा हिरण्यवसनानि तदा द्विजेभ्यो मङ्गल्यशान्तिनिलयाय गृहं विशेतु ॥ गृह्योकहोमविधिना बलिकर्म कुर्यात् प्रासादवास्तुशमने च विधिर्यरतः। संतर्पयेद् द्विजवरानथ भक्ष्यभोज्यः शुक्लाम्बरः स्वभवनं प्रविशेत् सधूपम् ॥ इति मात्स्ये(२५७) गृहप्रवेशप्रकार उपविष्टः। १८६ परिशिष्टदीपके ततः संध्यासमये अश्वत्थपत्रसहितेन सूत्रेण पादक्षिण्येन गृह प्रवेष्टय शेषकलशोदकेन गृहं स्नापयित्वा गृहोपरि पञ्चवर्णपताका रोपणं कृत्वा महाध्वजं नूपुरसहितं एकादशहस्तप्रमाणं गृहदेहली मध्यभूमौ आरोग्य सति सम्भवे पुनरपि क्षेत्रपालाय बलिं दद्यात् । ___ भूतबलिं च सति संभवे पुन:-“भोभो भूत-प्रेत-डाकिनो शाकिनी-पिशाच-चेतालादिपरिग्रहाः एतं कृसरानबलिं भक्षत यजमानं रक्षत यजमानस्य आयुष्कर्तारः क्षेमकर्तारः शान्तिकर्तारः पुष्टिकर्तारः तुष्टिकर्त्तारश्च भवत” इति मन्त्रेण दक्षिणस्यां दिशि दद्यात । ततो गृहे यथासुखं पञ्चरात्रपर्यन्तं शयनाशनादि अविच्छेदेन कर्तव्यम् इति शिवम् ॥ इति गृहप्रवेशप्रयोगसम्बन्धी विशेषः। अथ शिलान्यासादिकमणि सामग्रीसूचिका। शिख्यादिदेवानां पञ्चचत्वारिंशत् ४५, चरक्यादीनामष्ट८, आ दित्यादिग्रहाणां नव९, वरुणस्य१, एवं ६३ देवानां प्रतिमाः सौ वर्ण्यः, पूगीफलानि वा। वास्तुपुरुषप्रतिमा सौवर्णी सर्पाकारा१ । सुवर्णशलाका वास्तुमण्डललेखनार्था१ । ताम्रमया निधिकलशाः५ । नन्दादिशिलासु निक्षेपणार्थ सुवर्णाद्यष्टधातवः। कलशमुखपिधा नाय ताम्रपात्राणि५। आज्यस्थाली । चारुस्थाली१ । यवस्था ली। तिलस्थाली । शिलानां वामभागे स्थापनार्थ ताम्रदीपा:५। नन्दा भद्रा जया रिक्ता पूर्णा इति पञ्च शिलाः५। आधारभूता. उपशिलाः ५। निधिकलशेषु प्रक्षेपार्थं मध्याज्यपारदपञ्चरत्नानि । कस्रवौ। प्रणीता । प्रोक्षणी। पीता, रक्ता, कृष्णा, नीला, श्वेता, धूम्रा, हरिता, श्वेता, रक्ता, मेघवर्णा चेति दिक्पालपताका दश १० । वास्तुपताका पश्चवर्णा १। महाध्वजः पञ्चवर्णः सकि किणीकः१ । दिद्वयाय वितानद्वयम् । नवग्रहषेदी वितस्त्युछाया हस्तायामविस्तारा च १ । वास्तुमण्डलबेदी चतुरङ्गलोच्छाया हस्त विस्तृतायता ११ बिल्वकाष्ठशङ्कचः ४ । सरलसमिधः३। सर्वोषध्यः। दानप्रकरणे गृहदानाविधिः। १८७ सप्तमृत्तिकाः । सप्तधान्यानि । पञ्चपल्लवाः । पञ्चरत्नानि । पञ्चसुगन्धयः-कस्तूरिका, केसरम् , कर्पूरम् , श्रीखण्डचन्दनम् , अगुरुश्च । पञ्चवर्णत्रिसूत्री गृहवेष्टनार्था । नारिकेलफले २ । होमार्थं बिल्वफलानि, विल्दबीजानि वा ५। गव्यं घृतं होमसंख्यानुसारेण । होमसंख्यानुसारेण कृष्णास्तिलाः, चवाश्च । आचार्यब्रह्मवरणार्थ धौतवस्त्रोपवस्त्रयज्ञोपवीतादि, पुष्पमालाश्च । सदस्यविक्शान्तिका ध्यायसप्तशत्यादिपाठजपकतेणां वरणसामग्री च । पूर्णपात्रद्वयम् । उदुम्बरसमियः होमसंख्यानुसारेण । बलिदानार्थं पायसं दध्यक्षतं वा । क्षेत्रपालबलिदानाय माषभक्तम् । ग्रहहोमार्थ चरु अर्कादि समिस्तिला आज्यं च । गोदानार्थ सवत्सा पयस्विनो च गौः। अभिषेकार्थमष्ट चत्वारो वा कुम्भाः। सहस्रधारघटः । रक्षासूत्रम् । घृतच्छायापात्रम् । भूयसी दक्षिणा । ब्राह्मणभोजनसामग्री चेत्यादि । इति सामग्रीसूचिका। अथ गृहदानविधिः। इत्थं वास्तुशान्तिपूर्वक शिलान्यासं कृत्वा शिलामयमैष्टकं वा गृहं गृहाणि वा वास्तुशास्त्रोक्तरीत्या निर्माप्य संभृतसंभारं कृत्वा यजमानो विनिमन्त्रणादिकं कुर्यात् । तदुक्तं मदनरत्ने वहिपुराणे एवं संभृतसंभारं गृहं कृत्वा द्विजोत्तमान् । कुलशीलसमायुक्तान्गृहसंख्यानिमन्त्रयेत् ।। गृहधर्मरताञ्छान्तानिःस्वान्बहुकुटुम्बिनः । अधीतबेदांस्तत्त्वज्ञान्पुराणस्मृतिपारगान् ॥ निराश्रयांस्तथा राजस्तेभ्यो दत्तं महाफलम् । अलंकृत्य सपत्नीकान्वस्त्राभरणकुण्डलैः॥ . कृत्वाऽग्नियजनं भूयो वास्तुं पूज्य विधानतः । समुच्चरन्निदं दाता विदधीत गतस्मयः॥ जगदीशो गृहावासो गोविन्दः प्रीयतामिति । १८८ परिशिष्टदीपके ब्रह्मवैवर्तेऽपि गृहाङ्गणे कारयित्वा कुण्डमेकं समेखलम् । ग्रहयज्ञः प्रकर्तव्यस्तुष्टिपुष्टिकरः सदा ॥ रक्षोनानि च सूक्तानि पठेयुर्ब्राह्मणास्ततः । वास्तोः पूजा प्रकर्तव्या दिक्पालानां बलिं क्षिपेत् ॥ ततः पुण्याहघोषेण ब्राह्मणांस्तेषु धेश्मसु । प्रवेशयित्वा सर्वांस्तु सभार्यानुपवेशयेत् ॥ यजमानस्ततः स्नातः शुक्लाम्बरधरः शुचिः। यद्यस्य विहितं (देयत्वेन निर्दिष्ट) पूर्वं तत्तस्मै प्रतिपादयेत् ।। मत्स्यपुराणे प्राप्ते दानदिने कार्य मैशान्यां हस्तसम्मितम् । चतुरखं समं कुण्डं मेखलायोनिभूषितम् ॥ पूर्वोत्तरे हस्तमिताऽथ वेदी ग्रहादिदेवेश्वरपूजनाय । अथार्चनं ब्रह्मशिवाच्युतानां सूर्यस्य कार्य फलमाल्यगन्धैः ॥ द्वारेषु कार्याणि च तोरणानि पत्रैरपि क्षीरवनस्पतीनाम् । मध्ये च संस्थाप्य सतोयकुम्भं स्त्रङ्गन्यधूपाम्बररत्नयुक्तम् । गृह्योक्तेन विधानेन कृत्वा चानिमुखं ततः। गन्येन पयसा दिव्यं स्थालीपाकं चरुं श्रपत् ॥ ततः भृतं चैव चरु जुहोति मध्यस्थिताभ्यो गृहदेवताभ्यः। बलिं च सम्यग्विधिवत्प्रयुज्य क्षीरेण धारां परितस्तु दद्यात् ॥ शय्यां दक्षिणभागे तु सोपधानां सदीपिकाम्। सितवस्त्रैः सुसञ्छना लक्ष्मीनारायणान्विताम् ॥ सिताम्बरं कुण्डलहेमभूषितं केयूरकण्ठाभरणाभिरामम् । पत्नीसमेतं च करे गृहीत्वा दाता पठेन्मन्त्रमिमं गृहस्थः॥ *एहोहि नारायण दिव्यरूप सर्वामरेन्दितपादपन्न । शुभाशुभानन्दशुचामधीश लक्ष्म्या युतस्त्वं हि गृहं गृहाण॥१॥ नमः कौस्तुभनाथाय हिरण्यकवचाय च । क्षीरोदार्णवसुताय जगद्धात्रे नमोनमः ॥२॥ दानप्रकरणे गृहदानप्रयोगः। १८९ नमो हिरण्यगर्भाय विश्वगर्भाय वै नमः । चराचरस्य जगतो गृहभूतविदे नमः ॥३॥ भूलोकप्रमुखा लोकास्तव देहे व्यवस्थिताः। नन्दन्ति यावत्कल्पान्तं तथाऽस्मिन्भवने गृही ॥४॥ त्वत्प्रसादेन देवेश पुत्रपौत्रैर्युतो गृहै। पञ्चयज्ञक्रियायुक्तो वसेदाचन्द्रतारकम् ॥ ५॥ एवमुक्त्वाऽथ देवेशं सपत्नीकं द्विजोत्तमम् । तिलप्रस्थोपरिस्थायां शय्यायामुपवेश्य च ।। वदेदिदं ततो वाक्यं सर्वधान्ययुतं त्विदम् । सर्वोपस्करसंयुक्तं गृहं गृह द्विजोत्तम । तत्रोपकरणं सर्व दम्पत्योविनिवेदयेत् । पादुकोपानहच्छत्रभूषणासनभाजनम् ॥ संपन्नं वाऽप्यसम्पन्नं गृहोपस्करभूषणम् । सर्व संपूर्णमेवास्तु पठित्वैवं निवेदयेत् ॥ . य एवं सर्वसम्पन्न पकष्टं विनिवेदयेत् । कल्पकोटिशतं यावद्ब्रह्मलोके महीयते ॥ शैलज दारुजं वापि यो दद्याविधिपूर्वकम् । वसेत्सीराणवे रम्ये नारायणसमीपतः ॥ मृन्मयं चैव यो दद्याद गृह चोपस्करान्वितम् । पुरेषु लोकपालानां प्रतिमन्वन्तरे वसेत् ॥ इति । इति गृहदानविधिः। अथ गृहदानप्रयोगः। अथ दाता निमितं गृहं सुधाधात्वादिभिरलंकृत्य वक्ष्यमाणैर पकरणैहं सुसंचितं कृत्वा गृहाङ्गणस्येशानदिमागे यथासंभवम टहस्तादिकं मण्डपं कयादिना कृत्वा तत्र चत्वारि द्वाराणि विधाय द्वारेषु क्षीरद्रुमपत्रैस्तोरणचतुष्टयं बवा मण्डपान्तर्मेखलायोनियुतं हस्तमितं कुण्डं स्थण्डिलं वा कुत्वा तदीशाने हस्तमिता ग्रहवेदी परिशिष्टदीपक विरचय्य तत्र प्रविश्य शुभासने उपविश्य दीप प्रज्वलय्याचम्य शान्तिपाठ (स्वस्तिवाचन)कृत्वा गणेशवन्दनादिभूतोत्सादनान्तं कर्म कृत्वा गृहदानकर्मणो निर्विघ्नतासिद्धयर्थं गणेशं संपूज्य देशकालौ संकीर्त्य दानकल्पोक्तफलकामः सकलपापलयपूर्वकविष्णुप्रीतिकामो वा गृहदानं करिष्ये इति संकल्प्य तत्पूर्वाङ्गत्वेन मातृपूजनं नान्दी श्राद्धं पुण्याहवाचनम् आचार्यादिवरणं ग्रहपूजनं (ग्रहशान्ति) वास्तुपूजनं च करिष्ये इति संकल्प्य क्रमेण मातृपूजां नान्दोश्राद्धं पुण्याहवाचनं च कृत्वा तुलादानोक्तरीत्या ‘गृहदानकर्मणि’ इति विशेषमुल्लिख्याचार्यादीन्पञ्चविंजो ब्राह्मणान्तृणुयात् । तत प्राचार्यो होमकुण्डात् ईशाने यजमानाभिषेकार्थं कलशं संस्थाप्य तत्र वरुणं संपूज्य पञ्चभूसंस्कारपूर्वकमग्निं प्रतिष्ठाप्य कुण्ड सत्त्वे मेखलायोनिपूजनं च कृत्वा ग्रहयागोक्तरीत्या ग्रहवेद्यां ग्रहादी संस्थाप्य ब्रह्मशिवाच्युतमूर्याणामग्न्युत्तारितासु सुवर्णप्रतिमासु ग्रहो त्तरत आवाहनस्थापने कृत्वा ग्रहवेद्या ईशानकोणे कलशं संस्थाप्य तत्र वरुणमावाह्य पाचादिभिरुपचारः ग्रहादीन् ब्रह्मादीन् वरुणं च संपूज्य रक्षासूत्रमभिमन्व्य कलशे प्रतिष्ठाप्य मण्डपस्य मध्ये एकाशी तिपदं वास्तुमण्डलमुदधृत्य तत्र शिख्यादीन्पश्चचत्वारिंशदेवानावाह्य प्रतिष्ठाप्य संपूज्य-वेदिद्वयोपरि फलपुष्पोपशोभितं वितानद्वयं दद्यात् । ___ ततो ब्रह्मोपवेशनादिपात्रोक्षणान्तं कर्म कृत्वा गव्येन पयसा ब्रह्मादिदेवताभ्यश्च श्रपयित्वा पर्युक्षणान्तं कर्म कुर्यात् । संस्त्रवधा रणार्थं प्रोक्षणीपात्रं च प्रणीतारन्योर्मध्ये निदध्यात् । ततो यजमानः ‘अयेह गृहदानाङ्गहोमेनाहं यक्ष्ये । तत्र प्रजा पतिम् , इन्द्रम् , अग्निम् , सोमम् श्राज्येन-श्रादित्यादिनवग्रहान्, ईश्वराधधिदेवताः, अग्न्यादिप्रत्यधिदेवताः, विनायकादिपञ्चलोक पालान्, इन्द्रादिदशदिक्पालान्, विश्वकर्माणम् , ब्रह्मशिवविष्णु ‘मुंयांश्च चरुणा, यवैः, कृष्णतिलैः, औदुम्बरादिसमिद्भिः, आज्येन च अष्टोत्तरशत-अष्टाविंशति-अष्टान्यतमसंख्यया-शिख्यादि अमान्तदेवान्पायसचरूणा पूर्वोक्तान्यतमसंख्यया-शेषेण स्वि दारप्रकरणे गृहदानप्रयोगः। १९१ ष्टकृतम्-अग्न्यादिप्रजापत्यन्तांश्चाज्येनाहं यक्ष्ये । एतच्चादिद्रव्य जातं पूर्वाङ्गदेवताभ्यः प्रधानदेवताभ्य उत्तराङ्गदेवताभ्यश्च मया परित्यक्तं यथादैवतमस्तु न मम’ इति द्रव्यदेवताभिध्यानपूर्वक द्रव्यत्यागं कुर्यात् । तत प्राचार्यो वरदनामानं प्रजापतिनामानं वा अग्निम् “एतं ते"इति प्रतिष्ठाप्य कुशकण्डिकोक्तरीत्या (सं० दी० ० १७०) अनि रेखा अमिजिह्वाश्च संपूज्य दक्षिणं जान्याच्य ब्रह्मणाऽन्वारब्ध आधारावाज्यभागौ च हुत्वा-अनन्वारब्धो ग्रहादीनां विश्वकर्मा न्तानां ब्रह्मशिवाच्युतमूर्याणां च ग्रहयागोक्तवैदिकमन्त्रैः, प्रणवा दिभिश्चतुर्थ्यन्तैः स्वाहान्तै ममन्त्रैर्वा यथासंभवम् अष्टोत्तरशत अष्टाविंशति-अष्टान्यतमसंख्याहुतीविग्भिः सह पूर्वोक्तचर्वा दिद्रव्यैर्जुहुयात् । ततः शिख्यादिब्रह्मान्तदेवेभ्यः पायसचरुणा पूर्वोक्तान्यतम सङख्याहुती ममन्त्रैर्जुहुयात् । ततो ब्रह्मणान्यारब्ध आचार्यः सर्वाणि हवनीयद्रव्याण्येकीकृत्य स्विष्टकृतं हुत्वा भूरादिप्रजापत्यन्त होमं चाज्येन कृत्वा बर्हिोंमें संस्रवप्राशनमनौ पवित्रप्रतिपत्ति प्रणी ताविमोकं च कुर्यात् । ततो यजमानो ब्रह्मणे सहिरण्यं पूर्णपात्रं दधाच । तव आचार्यों वेदिसमीपे सर्वेभ्यः पायसबलिं दध्यक्षतबलिं वा वास्तुशान्त्युक्तमकारेण दत्त्वा क्षेत्रपालाय माषभक्तवलिं, कसरबलि वा दत्त्वा आचामेत् । तत प्राचार्यो मृडनामानौ “मूर्धानं दिव” इति मन्त्रेण पूर्णाहुतिहामं कुर्यात् । __ततो यजमानो होमसाङ्गतासिद्धयर्थं सर्वेषां देवानां प्रोतये ऋ विग्भ्यः सुवर्णरजतान्यतरदक्षिणाम् आचार्याय धेनुं च दद्यात् । ___तत आचार्यादयः सपरिवार यजमानमभिषेकमन्त्रैर्होमकुण्डस मीपस्थितस्य ग्रहवेदिसमीपस्थितस्य च कलशस्य जलै पिल्लव युतैरभिषिञ्चेयुर्मङ्गलघोषपुरस्सरम् । तत उद्वर्तनपूर्वकं यजमानः सति सम्भवे स्नायात् ।१९२ परिशिदीपके अथ स्नानवस्त्रं त्यक्त्वा शुक्लवस्त्रान्तरं परिधाय शुक्लमाल्यप्रा वारधरो धृततिलकोऽनुलिप्ताङ्गो यजमानो गीतमङ्गलवाद्यादिभिह पूर्वोक्तः (१६८) रसोनपावमानमन्त्रैः त्रिसूत्र्या प्रदक्षिणमावेष्टय तैरेव स्तनकुम्भ्या(कर्कर्या)क्षीरधारां परितः पातयित्वा गृहमध्ये दक्षि भागे अष्टदलं पद्म लिखित्वा तदुपरि प्रस्थमात्रांस्तिलान् प्रक्षिप्य तत्र उपधानादिसर्वोपकरणसहितां शय्यां पूर्वापरायतां स्थापयित्वा तत्र अग्न्युत्तारितां पञ्चामृतस्त्रापितां सौवर्णलक्ष्मीनारायणप्रतिमां संस्थाप्य यथाविधि सम्पूज्य प्रतिग्रहीतारं सपत्नीकं ब्राह्मणं कुण्ड लवस्त्रकेयूरादिभिरलंकृत्य गृहदानप्रतिग्रहार्थं मण्डपै एव वृत्वा-तं करे गृहीत्वा सुलग्ने मङ्गलवाद्यादिभिः सह पूर्वोक्तः (१८८) “एथेहि नारायण” इत्यादिभिः “वसेदाच न्द्रतारकम्” इत्यन्तैः पञ्चभिर्मन्हें प्रवेशयेत् । ततो ब्राह्मणं सपत्नीक पूर्वस्थापितशय्योपरि उदङ्मुखमुपवेश्य स्वयं भूमौ प्राङ्मुख उपविश्य सकुशोपग्रहपाणिः आचम्य कुशयव तिलजलान्यादाय देशकालौ सङ्कीर्त्य अहं मम आत्मनः सकलपाप क्षयपूर्वकं (पकेष्टकानिमितं गृहं चेत् तदा) सिद्धसंघपूजितत्वाप्स रस्संघकरकलितचामरवीज्यमानत्वसहितसम्भावितनरकनिमजनपित्रा दिपुरुषशतपुत्रपौत्रादिबन्धुतारणपूर्वकं कल्पकोटिशतावधिककालब झलोकमहीयमानत्वकामः, (शैलनं दारु वा गृहं चेत् तदा ) कल्पकोटिशतावधिककालनारायणसमीपक्षीरार्णवनिवासकामः, (मन्म यं गृहं चेत् तदा) एकैकमन्वन्तरावच्छिन्नप्रतिलोकपालपुरनिवास कामः इति गृहानुसारेण फलमुल्लिख्य इदं गृहं पकष्टकारचितं, शि लारचितं, दारुज, मृत्तिकारचितं वा यथाशक्ति सम्पादितकांस्य ताम्रादिभाजन-सर्वधान्य-लवण-घृत-गुड-शर्करा-समञ्चलिका वितानादिसर्वोपकरणसहितं ( सति सम्भषे गो-बलीवर्ददासीदासा दियुतम् ) सदीपपभोइयोतं सर्वदैवतम् अमुकगोत्राय अमुकवेदाध्या यिने अमुकशर्मणे ब्राह्मणाय तुभ्यं सम्पददे ॐतत्सन्न मम इति ब्राह्मणहस्ते जलादिक दत्त्वा दानप्रकरणे प्रतिश्रयदानविधिः। १९३ इदं गृहं गृहाण त्वं सर्वोपस्करसंयुतम् । तव विप्र प्रसादेन ममास्त्वभिनवं गृहम् ।। गृहं मम विभूत्यर्थं गृहाण त्वं द्विजोत्तम । भोयतां मे जगद्योनिर्वास्तुरूपी जनार्दनः ॥ इति पठेत् । ततो ब्राह्मणः “देवस्य त्वा” इति पठित्वा ओं स्वस्ति सर्वदेवताभ्यः प्रतिगृह्णामीत्युक्त्वा प्रतिगृह्य “कोऽदाद"इति कामस्तुति पठेत् । ततो यजमानः कृतैतद्वग्रहदानप्रतिष्ठासिद्धयर्थमिदं सुवर्णम् अग्निदैवतं दक्षिणां तुभ्यमहं सम्प्रदर्द इति सुवर्णसहस्रमारभ्यैक सुवर्णावरां दक्षिणां यथाशक्ति दद्यात् । ततस्तस्मै पादुकोपानहच्छ त्रचामरादिकं दत्त्वा सम्पन्न वाऽप्यसंपन्नं गृहोपस्करभूषणम् । __सर्वं सम्पूर्णमेवास्तु त्वत्प्रसादाद् द्विजोत्तम ॥ इति ब्राह्मणं संपार्थ्य न्यूनातिरिक्तदोषपरिहारार्थं भूयसीं दक्षिणां सङ्कल्प्य यथाशक्ति ब्राह्मणभोजनं च सङ्कल्प्य मण्डपमु पगम्योत्तराङ्गत्वेन सर्वान्देवान्संपूजयेत् । तत आचार्य: “यान्तु देवगणाः सर्वे” इति ग्रहादीन्विसृजेत् । ततो यजमानः “तनूपा ऽअग्नेऽसि"इत्यादिभिर्मन्त्रैम्सप्तकृत्वो मुखं मार्जयित्वा अङ्गान्याप्याय्य व्यायुषकरणं कुर्यात् । ततोऽनि विसृज्य घृते छायां दृष्ट्वा ब्राह्मणैस्तिलकरक्षाबन्धनादि कारयित्वा प्रतिमादिकम् आचार्याय दत्त्वा ‘यस्य स्मृत्ये’त्यादि पठित्वा कर्मेश्व रार्पणं कृत्वा स्वगृहं गच्छेत् । इति गृहदानप्रयोगः। अथ प्रसङ्गात्प्रतिश्रय(धर्मशाला)दानविधिः । स चोक्तः स्कन्दपुराणे कृत्वा मठं प्रयत्नेन शयनासनसंयुतम् । । पुण्यकाले द्विजेभ्योऽर्थे यतिभ्यो वा निवेदयेत् ॥ १९४ परिशिष्टदीपके सर्वान्कामानवाप्नोति निष्कामो मोक्षमाप्नुयात् । मार्कण्डेयपुराणे कुर्यात्प्रतिश्रयगृहं पथिकानां हितावहम् । निजगेहैकदेशं वा साधूनां यो निवेदयेत् ॥ अक्षयं पुण्यमुद्दिष्टं तस्य स्वर्गापवर्गदम् । सर्वकामसमृद्धोऽसौ देववदिवि मोदते ॥ प्रतिश्रयो धर्मशाला । भविष्यपुराणे प्रतिश्रये सुविस्तीर्णे कारिते सजलेन्धने । दीनानाथजनार्थाय वद किं न कृतं भवेत् ॥ इति । इति प्रतिश्रयदानविधिः । अथ गृहंदानप्रसङ्गात् शय्यादानम् । तदुक्तं हेमाद्रौ भविण्ये शय्यादानं प्रवक्ष्यामि तव पाण्डुकुलोद्वह । यां दत्त्वा शिवभागी स्यादिहलोके परत्र च ॥ तस्माच्छय्यां समासाद्य साल-[ सखुवा ] दारुमयीं दृढाम् । दन्तपत्रचितां रम्या हेमपट्टैरलंकृताम् ॥ हंसतूली[गदी]प्रतिच्छन्नां शुभगण्डोपधानिकाम् [तकिया] । प्रच्छादनपटी [ चादर ] युक्तां धूपगन्धादिवासिताम् ॥ तस्यां संस्थापयेद्धमं हरिं लक्ष्म्या समन्वितम् । उच्छीर्षके [ शिरम्भदेशे ] घृतभृतं कलशं परिकल्पयेत् ।। विज्ञेयः पाण्डवश्रेष्ठ स निद्राकलशो बुधैः। ताम्बूलकुङ्कुमक्षोदकर्पूरागरुचन्दनम् ॥ दीपिकोपानहच्छत्रचामरासनभाजनम् । पार्वेषु स्थापयेद्भक्त्या सप्तधान्यानि चैव हि ॥ शयनस्थस्य भवति यदन्यदुपकारकम् । भृङ्गारकरकाचं तु पञ्चवर्ण वितानकम् [ चान्दनी ॥ शय्यामेवं विषां कृत्वा ब्राह्मणायोपपादयेत् । दानप्रकरणे शय्यादानप्रयोगा। १९५ सपत्नीकाय सम्पूज्य पुण्येऽह्नि विधिपूर्वकम् ॥ यथा न कृष्णशयनं शून्यं सागरजातया [ लक्ष्म्या || शय्या(१)ममाप्यशून्याऽस्तु तथा जन्मनिजन्मनि ॥१॥ यस्मादशून्यं शयनं केशवस्य शिवस्य च । शय्या ममाप्यशून्याऽस्तु तथा जन्मनिजन्मनि ॥२॥ दत्त्वैवं तल्पममलं प्रणिपत्य विसर्जयेत् । एवं शय्यामदाने तु विधिरेष प्रकीर्तितः ॥ स्वर्गे पुरन्दरगृहे सूर्यपुत्रालये तथा । सुखं वसत्यसो जन्तुः शय्यादानप्रभावतः ॥ पीडयन्ति न तं याम्याः पुरुषा भीषणाननाः । न घर्मेण न शीतेन बाध्यते स नरः कचित् ।। अपि पापसमायुक्तः स्वर्गलोकं स गच्छति । विमानबरमारूढः सेव्यमानोऽप्सरोगणैः ॥ आभूतसंप्लवं यावत्तिष्ठत्यातङ्कवर्जितः । कल्पं विकल्परहितः स्वयं स्वर्गे विराजते ॥ इति । विष्णुसंहितायां पूर्ववत्सर्वमुक्त्वा चतुष्कोणेषु संस्थाप्य यथाशक्ति युधिष्ठिर । घृत-कुङ्कम-गोधूम-पूर्णपात्रं जलस्य च ।। शय्यां संपूजयित्वा तु मद्भक्तो मत्परायणः । कृताञ्जलिपुटो भूत्वा कुर्याच्छय्यां प्रदक्षिणम् ।। नमः प्रमाण्यै देव्यै च प्रणम्य च चतुर्दिशम् । ब्राह्मणाय दरिद्राय श्रुताध्ययनशालिने । तथाऽऽत्मज्ञानविदुषे शय्यां दद्याद्विचक्षणः । इत्युक्तम् । अथ शय्यादानप्रयोगः। दाता पुण्यकाले सूपलिप्तायां भूमौ प्राङ्मुख उपविश्य दीपं प्रज्वलय्याचम्य इंसतूल्यादिसमायुक्तां शय्यां पूर्वापरायतामास्तीर्य (१) प्रेतोद्देशेन शय्यावाने ममेत्यस्य स्थाने प्रेतस्य प्रेताया इति वा ऊहं कृत्वा पाव्यम् । १९६ परिशिष्टदीपके शिरपदेशे निद्राकलशाख्यं घृतपूर्ण ताम्रकलशं निधाय पादप्रदेशे ज्वलन्तं चतुर्वतियुतं दीपं संस्थाप्य अधाप्रदेशे कर्पूरादिवासितं जल कलशं संस्थाप्य अन्यानि चोपकरणानि पार्श्वयोः संस्थाप्य शय्योपरि अग्न्युत्तारितां पञ्चामृतस्नापितां पञ्चगुञ्जाऽन्यूनसुवर्णनिर्मितां लक्ष्मी नारायणप्रतिमा संस्थाप्य यथोक्तलक्षणं ब्राह्मणमुदङमुखमुपवेश्य गणेशादीन् गुर्वादींश्च प्रणम्य पुष्पाञ्जलिं च तेभ्यः समर्म्य अर्घस्था पनादि भूतोत्सादनान्तं कृत्वा कुशादिकमादाय देशकालौ सङ्कीर्त्य दानकल्पोक्तफलकामः सकलपापक्षयपूर्वकविष्णुप्रीतिकामो वा शय्या दानमहं करिष्ये इति प्रतिज्ञां कृत्वा शय्यादानप्रतिग्रहार्थं ब्राह्मणस्य पूजनपूर्वकं वरणं करिष्ये इति सङ्कल्प्य ब्राह्मणं संपूज्य वृत्वा लक्ष्मी नारायणमतिमाम् “एतं ते” इति प्रतिष्ठाप्य पुरुषसूक्तादिना षोडशो पचारैः संपूज्य शय्यां च नाममन्त्रेण गन्धादिना संपूज्य “ॐनमः प्रमाण्यै देव्यै” इति चतुर्दिशं तां प्रदक्षिणीकुर्वन् प्रणम्य तदुपरि सप्तधान्यानि क्षिप्त्वा ___हस्ते कुशादिकमादाय देशकालौ संकीर्त्य अहं (१) ममा स्मनः स्त्रीसहस्रातदशवर्षसहस्रस्वर्गलोकवास-सर्वसुखमाप्तिपूर्वकेन्द्र लोकयमलोकवास-याम्यपुरुषपीडाभाव-धर्मशीतादिपीडाऽभाव-अप्स रोगणसेव्यमानविमानारोहणपूर्वकाभूतसंप्लवकालावधिस्वर्गवासकामः [सकलपापक्षयपूर्वकपरमेश्वरप्रीतिकामः] इमां सालदारुमयी हंसतूली गमडोपधान-प्रच्छादनपटादिवस्त्र-घृतकुम्भजलकलशताम्बूलकुङ्कुमा गरुकर्पूरचन्दनदीपिकापादुकोपानच्छत्रचामरासननानाविधभाजनसप्त धान्यसुवर्णरजतभूषणविविधभक्ष्यभोज्यादर्शकङ्कणयथासंभवपट्टकौशे यक्षौमौर्णकार्पासवस्त्र [ वाहनायुध ] हैमलक्ष्मीनारायणप्रतिमायुतां शय्यां प्रजापतिदैवतां यथानामगोत्राय ब्राह्मणाय तुभ्यमहं संप्रददे न मम इत्युक्त्वा “यथा न कृष्णशयनम्” इति पूर्वोक्तं [१९५] श्लोकद (१) प्रेताहेशेन शय्यादाने प्रेतस्य प्रेताया वा सकलनरकयातना धर्मयोताविवणा-याम्यपुरुषप्रहारनिवृत्तिपूर्षकानेकपुरन्दरादिलोकमाप्ति काम इत्युल्लिखेत्। ALA दानप्रकरणे कन्यादानफलादिकम्। १९७ यात्मकं मन्त्रं पठित्वा ब्राह्मणहस्ते कुशादिकं दत्त्वा शय्या स्पर्शयेत् । [“शय्यासनगृहक्षेत्रं संस्पृश्य” इति हेमाद्रौ परिशिष्टवचनात् ] । द्विजश्च"देवस्यत्वा” इति यजुः पठित्वा ‘ॐस्वस्ति प्रजापतिदेवतायै प्रतिगृह्णामि’ इत्युक्त्वा प्रतिगृह्णीयात् । “कोदात्” इति कामस्तुति च पठेत् । ततो यजमानः शय्यादानप्रतिष्ठासिद्धयर्थं कषत्रय-कर्षद्वय केवलकर्षान्यतममितं सुवर्ण दक्षिणां यथाशक्ति दद्यात् । ततो यथा शक्ति भूयसीं ब्राह्मणभोजनं च संकल्प्य कर्मेश्वरार्पणं कुर्यात् । इति शय्यादानप्रयोगः । गृहदानानन्तरमुद्दिष्टं कन्यादानाख्यं महादानं संस्कारदीपकस्य द्वितीयभागे सप्रयोगं निरूपितमेव, तथापि कन्यादानफलादिकं तावदत्रोच्यते । तत्र हैमाद्रौ वसिष्ठः सर्वेषामेव दानानामेकजन्मानुगं फलम् । हाटकक्षितिगौरीणां सप्तजन्मानुगं फलम् ।। वह्निपुराणे-कन्यां ये तु प्रयच्छन्ति यथाशक्त्या स्वलंकृताम् । __ ब्रह्मदेयां द्विजश्रेष्ठ ब्रह्मलोकं प्रजन्ति ते ॥ लिङ्गपुराणे-कन्यां लक्षणसंपन्नां सर्वदोषविवर्जिताम् । मातापित्रोस्तु संवादं कृत्वा दत्त्वा धनं महत् ॥ आत्मीकृत्य तु संस्थाप्य वस्त्रं दत्त्वा नवं शुभम् । भूषणैभूषयित्वा च गन्धमाल्यैरथार्चयेत् ॥ दातव्या श्रोत्रियायैव ब्राह्मणाय तपस्विने । साक्षादधीतवेदाय विधिना ब्रह्मचारिणे ॥ यावन्ति सन्ति रोमाणि कन्यायाश्च तनौ पुनः । तावद्वर्षसहस्राणि रुद्रलोके महीयते ॥ इति । स्कन्दपुराणे-वैवाहिकपदानं वा यो ददाति दयापरः। विमानेन विचित्रेण किङ्किणीजालमालिना ॥ महेन्द्रभवने याति सेव्यमानोऽप्सरोगणैः । इति कन्यादानफलादिकम् । १९८ परिशष्टदीपके अथ द्विजस्थापनम् । हेमाद्रौ दक्षः-मातापितृविहीनं तु संस्कारोद्वहनादिभिः।. __या स्थापयति तस्येह पुण्यसंख्या न विद्यते ॥ इति । विवाहं कारयित्वा गृहं सोपस्करं दत्त्वा वृत्त्यर्थं ग्रामादिकं च दत्त्वा अग्निहोत्रादिधर्मानुष्ठापन, यज्ञ-दान-व्रतादि-तीर्थयात्रा दिकारणं च सफलं प्रतिपादितं कालिकापुराणे कारयित्वा तथोद्वाहं श्रोत्रियाणां कुलेषु च । वेदवच्छीलवृत्तेषु द्विजेभ्वेकादशस्वथ ॥ ततो गृहाणि रम्याणि कुर्यादेकादशैव तु । कारयित्वा तु धान्यैश्च विविधैश्च प्रपूरयेत् ।। दासी-गो-महिषीश्चापि शयनासनपादुकाः। भोजनानि विचित्राणि, ताम्रमृन्मयकानि च ॥ पात्राणि भोजनार्थं च कृत्स्नं चोपस्करं च यत् । लोहं च कनकं चैव वस्त्राणि च विशेषतः॥ संभृत्यैवं सुसंभारं तद्गृहेषु नियोजयेत् । योजयेचैव वृत्त्यर्थं शक्तितो वा शतं शतम् ।। पृथक्पृथक् लागलानां निवर्तनशतार्धतः। विषयं खटं खेटं ग्रामं ग्रामाधमेव वा ॥ योजयेत् सोममूर्तिं च चिन्तितेषु द्विजेषु वै । एकादशैव तास्तत्र दांपत्योमाहरात्मिकाः॥ विचिन्त्य परया भक्त्या तदरहेषु प्रवेशयेत् । ग्राहयेदमिहोत्राणि प्रवेश्यैतान् द्विजोत्तमान् ॥ विधिपूर्वं यथान्यायमात्मनः श्रेयसे नरः । अदुष्टकुलजानां च विधिरेष सनातनः ॥ शिवभक्त्या विभक्तानां द्विजानां कारयेत्सदा। यश्च प्रेभ्यान द्विजान् मूढो योजयेद्धव्यकव्ययोः । न भवेत् तत्फलं तस्य वैदिकीयं श्रुतिधवा। यज्ञो दानं व्रताचं च तीर्थयात्रादिकं च यत् ।। दानप्रकरणे नवग्रहमुर्तिदानानि । १९९ यस्त्वेवं कारयेजन्तुं तेन सर्वमनुष्ठितम् । स यात्यर्कसमानाभं विमानं रत्नमालिनम् ॥ आरय तत्पदं पुण्यं सुरस्त्रीभिरलंकृतम् । विमानश्वापरैर्दिव्यैः सहस्रः परिवारितः॥ सर्वलोकगतान् भोगान् भुक्त्वा तस्मिन् प्रपद्यते। ज्ञात्वा स्ववित्तसामर्थ्य मेकं वोराहयेत् द्विजम् ।। तेन प्राप्नोति तत्स्थानं शिवभक्तो नरो ध्रुवम् । स्थानेन स्थानसंप्राप्तिविंघिदत्तेन जायते ॥ इति द्विजस्थापनम् । अथ दशमं कपिलादानम् । तहानवाक्यं मात्स्ये कपिले सर्ववर्णानां पूजनीयाऽसि रोहिणि । तीर्थदेवमयी यस्मादतः शान्ति प्रयच्छ मे ॥ इति । कपिलादानप्रयोगस्तु गोदानप्रयोगवरोध्यः । इति दश महादानानि सौरोक्तानि । अथोपयोगिनां केषांचिदानानां मन्त्राः देयद्रव्यदेवतासहिताः। तत्रादौ नवग्रहमूर्तिदानानि प्रदर्श्यन्ते । तत्र स्कन्दपुराणे आदित्यादिषु वारेषु सहिरण्याः सदैव तु । या प्रयच्छति तन्मूर्तीस्तस्य तुष्यन्ति चै ग्रहाः ॥ दद्यादादित्यमादित्ये सोमे सोमं कुजे कुजम् । एवं बुधादीन्मन्दे तु राहुकेतुशनैश्वरान् ।। ब्रह्मपुराणे-अहान् स्वर्णमयान्कृत्वा यो विप्रेभ्यः प्रयच्छति । तदिनेषु यथाशक्त्या सर्वान्कामानवाप्नुयात् ॥ इति । ‘अथ धारदानानि’ इत्युपक्रम्योक्तानि हेमादौ नवग्रह मूर्तिदानानि । तेषां मन्त्राश्च “पद्मासनः पद्मकरो द्विबाहुः” इत्या दयः सं० दी० प्र० (पृ० २०२-२०३) ग्रहध्यानत्वेनोक्ता एव बोध्या। मूर्तीनां लक्षणानि तु “पद्मासनः पद्मकरः पद्मगर्भस २०० परिशिष्टदीपके मद्युतिः” इत्यादीनि होमरहितग्रहपूजाप्रयोगे ( पृ० १५६ ) सं० दी० प्र० द्रष्टव्यानि । अथ नवग्रहाणां प्रीतये माणिक्यादीनां दानानि मिताक्षरा टीकायां (४८५) माणिक्य-गोधूम-सवत्सधेनुः कौसुम्भवासो गुड-हैम-ताम्रम् । आरक्तकं चन्दनमम्बुजं च वदन्ति दानं हि विरोचनाय । सद्वंशपात्रस्थिततण्डुलाश्च कर्पूर-मुक्ताफल-शुभ्रवस्त्रम् । युगोपयुक्तं वृषभं च रौप्यं चन्द्राय दद्याद घृतपूर्णकुम्भम् ॥ प्रवाल-गोधूम-मसूरिकाश्च वृषोऽरुणश्चापि गुडः सुवर्णम् । आरक्तवस्त्रं करवीरपुष्पं ताम्र च भौमाय वदन्ति दानम् ।। चैलं सुनीलं कलधौतकांस्य मुद्राश्च-गारुत्मतसर्वपुष्पम् । दासी च दन्तो द्विरदस्य नूनं वदन्ति दानं विधुनन्दनाय ॥ शकरा च रजनी तुरङ्गमः पीतधान्यमपि पीतमम्बरम् । पुष्पराग-लवणं सकाञ्चनं प्रीतये सुरगुरोः प्रदीयते ॥ चित्राम्बरं शुभ्रतरस्तुरङ्गमो धेनुश्च वज्रं रजतं सुवर्णम् । सुतण्डुलाश्चोत्तमगन्धयुक्ता वदन्ति दानं भृगुनन्दनाय ॥ माषाश्च तैलं विमलेन्द्रनीलं तिलाः कुलित्था महिषी च लोहम् । कृष्णा च धेनुः प्रवदन्ति नूनं दुष्टाय दानं रविनन्दनाय ॥ गोमेदरत्नं च तुरङ्गमश्च सुनीलचेलामलकम्बलौ च । तिलाश्च तैलं खतु लोहमिश्र स्वर्भानवे दानमिदं वदन्ति ॥ वैडूर्यरत्नं सतिलं च तैलं सुकम्बलश्चापि मदो मृगस्य । शस्त्रं च केतोः परितोषहेतोश्छागस्य दानं कथितं मुनीन्द्रः।।इति । तत्र माणिक्य [ चुनी ] मुक्ताफल [ मोती] विद्रुम [ मूंगा ] गारुमत [पन्ना ] पुष्पराग [ पोखराज ] वज्र [ हीरा] इन्द्रनोल [ नीलम ] गोमेद [गोमेद ] चैडूर्याणि [ लहसुनिया ] नवरना नि वरुणदेवतानि । गोधूमादिधान्यानि दासी च प्रजापतिदेवतानि । धेनू रौद्री वृषश्च । सुवर्णमाग्नेयमजश्च । रजतं चन्द्रदेवतम् । वस्त्राणि बृहस्पतिदेवतानि । अश्वो महिषी च यमदैवतौ । लोह भैरवदैवतम् ।

दानप्रकरणे एषां दानमन्त्राः । २०१ तानं सूर्यदैवतम् । कांस्यमश्विदैवतम् । रक्तचन्दनं कर्पूरं कमला दिपुष्पाणि च वनस्पतिदैवतानि । गुडशर्कराइयो रसाः सोमदेवताः बंशादिपात्राणि भूषणानि च विश्वकर्मदेवतानि । हस्तिदन्तः अङ्गि रोदैवतः । कस्तूर्यादयो गन्धा गन्धर्वदेवताः । घृतं मृत्युञ्जयदैवतम् ! शस्त्रं विश्वदैवतम् । अथ एषां दानमन्त्राः । सुवर्णस्य-हिरण्यगर्भगर्भस्थं हम बीजं विभावसोः । अनन्तपुण्यफलदमतः शान्ति प्रयच्छ मे॥ रजतस्य-पितृणां वल्लभं यस्माद्विष्णोई शङ्करस्य च । ___ रजतं पाहि तस्मात्त्वं शोकसंसारसागरात् ॥ ताम्रस्य-सूर्यप्रीतिकरं ता प्राणिनां बलवर्धनम् । तस्मादस्य प्रदानेन प्रीयतां मे दिवाकरः ॥ कांस्यस्य-कांस्यं ब्रह्म शिवं साक्षात् स्वयमेव विभावसुः । कांस्यं विष्णुमयं साक्षादतः शान्ति प्रयच्छ मे ।। लोहस्य-यस्मादायस कर्माणि त्वदधीनानि सर्वदा। लाङ्गलाद्यायुधादीनामतः शान्ति प्रयच्छ मे॥ रत्नानां-यथा रत्नेषु सर्वेषु सर्वे देवा व्यवस्थिताः। तथा शान्तिं प्रयच्छन्तु रत्नदानेन मे सुराः ॥ मुक्तानां ताम्रवर्णावोत्पन्नाः पानादिकल्पवर्णिताः। मुक्ताः शुक्त्युद्भवाः सन्तु भुक्तिमुक्तिपदा मम ॥ अङ्गुलीयकस्य-हिरण्यगर्भसंभूतं सौवर्णं चाङ्गलीयकम् । धर्मप्रदं प्रयच्छामि प्रीयतां कमलापतिः ।। हस्तवलयस्य-काञ्चनं हस्तवलयं रूपकान्तिसुखपदम् । विभूषणं प्रदास्यामि विभूषयतु मां सदा ॥ कुण्डलयुग्मस्य-क्षीरोदमथने पूर्वमुद्धतं कुण्डलद्वयम् । श्रिया सह समुद्भूतं ददे श्रीः प्रीयतां मम ।। सुवर्णतुलस्या:-मणिकाञ्चनपुष्पाणि मणिमुक्तामयानि च । तुलसीपत्रदानस्य कलां नाईन्ति षोडशीम् ॥ २५५०परिशिष्टदीपके वस्त्रस्य-शरण्यं सर्वलोकानां लज्जाया रक्षणं परम् । सुवेषधारि वस्त्र त्वमतः शान्ति प्रयच्छ मे ॥ और्णवस्त्रस्य–अर्णा मेषसमुत्पन्ना शीतवातभयापहा । यस्मात्तुषारहारी स्यादतः शान्ति प्रयच्छ मे ॥ चन्दनस्य-नन्दनावास मन्दारसख वृन्दारकाश्रित । __ चन्दन त्वं प्रसादेन सान्द्रानन्दप्रदो भव ॥ कस्तूर्याः-समस्तेभ्योऽपि वस्तुभ्यः संस्तुताऽसि सुरासुरैः। . विन्यस्ताऽङ्गेषु कस्तूरी सुखदाऽस्तु सदा मम ॥ कर्पूरस्य-कन्दर्पदर्पदं यस्मात्कर्पूरं माणतर्पणम् । अहर्पतिभवस्तापस्तदानादपसर्पतु ॥ धान्याना-सर्वदेवमयं धान्यं सर्वप्रीतिकरं महत् । प्राणिनां जीवन धान्यमतः शान्ति प्रयच्छ मे ॥ यवानां-धान्यराजाच माङ्गल्या द्विजप्रीतिकरा यवाः । तस्मादेषां प्रदानेन मम सन्तु मनोरथाः॥ गोधूमानां-धान्यचूडामणिजम्बू-द्वीपे गोधूमसंज्ञकः । गन्धवर्धनसौख्याय अतः शान्ति प्रयच्छ मे ॥ माषाणां यस्मान्मधुवधे काले विष्णोर्देहसमुद्भवाः । पितृप्रीतिकरा माषा अतः शान्ति प्रयच्छ मे ॥ मुद्रानां मुद्गवीजानि वै यस्मात्प्रियाणि परमेष्ठिनः । तस्मान्मुद्रमदानेन प्रीतिः सिध्यतु मे सदा॥ तण्डुलाना-प्राणिनां जीवनोपायाः सोमेनाधिष्ठिताः पुरा । तस्मादेषां प्रदानेन प्रोयतां मे जनार्दनः॥ चणकानां-गोवर्धनगिरे तिसमये हरिरक्षिताः। ___ चणकाः सर्वपापन्ना अतः शान्तिं प्रयच्छ मे। कुलत्थानां अग्निगर्भोद्भवाः सौम्या बलामेययशामदाः। कुलत्थाः सर्वपापना अतः शान्ति प्रयच्छ मे॥ गुडस्य-सर्वदेवस्तु देवानां महादेवस्तु योगिनाम् । प्रणवः सर्वमन्त्राणां नारीणां पार्वती यथा ॥

दानप्रकरणे अक्षयतृतीयायां धर्मघटादिदानम् । २०३ तथा रसानां प्रवरः सदैवेचुरसो मतः। तस्मान्मां परमां लक्ष्मी ददस्व गुड सर्वदा॥ आज्यस्य-कामधेनोः समुद्भूतं देवानामुत्तमं हविः । आयुर्वृद्धिकरं दातुराज्यं पातु सदैव माम् ।। शर्करायाः-मनोभवधनुर्मध्यादुत्पन्ना शर्करा यतः। तस्मादस्याः प्रदानेन शान्तिर्भवतु मे सदा ॥ क्षौद्रस्य मधुन:-यस्मापितृणां श्राद्ध त्वं पीतं मध्वमृतोद्भवम् । तस्मात्तव प्रदानेन रक्ष मां दुःखसागरात् ॥ पुष्पाणां-हादयन्ति मनो यस्मात्तस्मात्सुमनसः स्मृताः। दत्ता ददत मे नित्यमत्याह्लादं सदा श्रियम् ॥ ताम्बूलस्य-ताम्बूलं श्रीकरं भद्रं ब्रह्मविष्णुशिवात्मकम् । अस्य प्रदानाद ब्रह्माद्याः श्रियं ददतु पुष्कलाम् ॥ ताम्बूलकरङ्कस्य-पूरितं पूगपूगेन (पूगन्देन)नागवल्लीदलान्वितम् । चूर्णपूर्णेन पात्रेस कर्पूरपिटकेन च ॥ युक्तं खदिरपात्रेण गन्धर्वाप्सरसां प्रियम् । करङ्क त्वं निरातङ्कं त्वत्मसादात्कुरुष्व माम् ।। अथ अक्षयतृतीयायां धर्मघटादिदानम् । धर्मघटस्य-एष धर्मघटो दत्तो ब्रह्मविष्णुशिवात्मकः । वरुणदेवतस्य-अस्य प्रदानात्सकला मम सन्तु मनोरथाः॥ गन्धोदकतिलयुक्तं सान्नं कुम्भं जलान्वितम् । विष्णवे (पितृभ्यः ) संप्रदास्यामि अक्षय्यमुपतिष्ठतु ॥ (पोसरा)प्रपायाः-अपैयं सर्वसामान्यभूतेभ्यः प्रतिपादिता ॥ (वरुणदै०)एतदानेन पितरः प्रीति यान्तु पितामहाः ॥ व्यजनस्य-व्यजनं वायुदेवत्यं धर्मकालसुखपदम् । (वायुदै०)अस्य दानेन मे शान्ति सदा यच्छतु मारुतः ।। छत्रस्य-छत्रं वर्षातपत्राणं भूषणं सर्वसंपदाम् । (अङ्गिरोदै०)वाङ्मनाभीतिदं यस्मादतः शान्ति प्रयच्छ मे ॥ २०४ . परिशिष्टदीपके पादुकयोः कण्टकोच्छिष्टपाषाणश्चिकादिनिवारणे। __ (अङ्गिरोदै०)पादुके संप्रदास्यामि विष प्रोत्या प्रगृह्यनाम्।। उपानहोः-उपानही प्रदास्यामि कण्टकोच्छिष्टवारणे। (अङ्गिरोदै०) पादत्राणाय ते विष गृहाण त्वं सुखायते ॥ सक्तूना-प्राजापत्या यतः प्रोक्ताः सक्तवो यज्ञकर्मणि । (प्रजापतिदै०) तस्मात्सतून्प्रयच्छामि प्रीयतां मे प्रजापतिः । फलानां यतोऽफलेषु सर्वेषु वसन्ति नरकोदयाः। (वनस्पतिदै०)तस्मात्फलप्रदानेन फलावाप्तिर्भवेत्सदा ॥ श्रावणशुक्लद्वादश्यां वनस्पतिदेवतशाकदानमनेनैव । भाद्रशुक्लद्वादश्यां सर्पदैवतदधिदानम् दधि त्वं भजतः पुंसः सदा संतुष्टिकृन्मतम् । अतस्तव प्रदानेन इहामुत्रास्तु शर्म मे ॥ तत्रैव वामनप्रीतये प्रजापतिदैवतस्य [सर्वदैवतस्य] दध्योदनस्य पानीय-शर्करा-फल-दक्षिणासहितस्य दानम् पानीयसहितं चैव सदध्योदनपात्रकम् । सशर्करं च सफलं सदक्षिणं गृहाण मे। आश्विनशुक्लद्वादश्यां तारागणदैवत-दुग्धदानम् सत्त्वानामाद्यममृतं प्राणिनां वलतुष्टिकृत् । पयस्तव प्रदानेन सर्वदा शान्तिरस्तु मे ॥ कार्तिक शुक्लद्वादश्यां प्रजापतिदैवत-द्विदलमुद्दादिधान्यदानम् । तेषां दानमन्त्रा उक्ताः (२०२)। शिशिरे सर्वस्मिन् (मकरकुम्भयो.) तदसम्भवे संक्रान्तिदिने प्रजापतिदैवत-कृसरदानम् सर्वात्मा सर्वलोकेशः सर्वव्यापी जनार्दनः । नारायणः प्रसन्नः स्यात्सरानप्रदानतः ॥ यद्यपि “कृसरस्तु तिलौदनः” इत्यमराभिधानात् तिलमिश्री दनस्यैव कसरत्वं प्राप्तं तथापि मदनपालनिघण्टवायुक्त्या, प्रसिद्धि दानप्रकरणे कालविशेषे दानानि । २०५ वशाच द्विदलमिश्रतण्डुलादिसिद्धौदनमात्रस्यापि कसरत्वं निश्चीयते ।.. कार्तिक शुक्लनवम्यां वनस्पतिदैवत-कूष्माण्डदानम् कूष्माण्डं बहुवीजाब्यं ब्रह्मणा निर्मितं पुरा । ब्रह्महत्याऽपनुत्त्यर्थमतः शान्ति प्रयच्छ मे ॥ कार्तिक्यां विष्णुदैवत-दीपदानम् । तन्मन्त्रा: दीपो ज्ञानप्रदो नित्यं देवतानां प्रियः सदा । दानेनास्य भवेत्सौख्यं शान्ति, वाञ्छितं फलम् ।। सज्योतिर्गुणपात्रं च दीपं घृतसमन्वितम् । सुखं चास्य प्रदानेन शान्तिरस्तु सदा मम ।। त्वं दीपो ज्योतिषां पत्युरंशभूतोऽसि ते नमः । ध्वान्तध्वंसन संतुष्य संकल्पं मम साधय ॥ दीपः पापहरः प्रोक्तश्चान्धकारविनाशनः । दीपेन लभ्यते तेजस्तस्माद्दीपं ददामि ते ॥ दीपो ज्ञानपदो नित्यं दीपः सौभाग्यवर्धनः । तस्मादस्य प्रदानेन संततिधतां मम ॥ इति । दोपप्रतिग्रहमन्त्रः-यथाऽन्धकारे वसतां साहाय्यं वितनोत्यसौ। दीपो नृणां तथा मेऽपि कृषीष्ट द्युतिमुत्तमाम् ॥ इति । माघे प्रजापतिदैवततिलपात्रस्य-तिलस्वर्णसमायुक्त दुरितक्षयकारक । विश्वमूर्तेरधिष्ठान तिलपात्र नमोऽस्तु ते ॥ देवदेव जगन्नाथ वाञ्छितार्थफलप्रद । तिलपात्रं प्रदास्यामि तवाग्रे सुस्थितोऽस्म्यहम् ।। मेषसंक्रान्तौ मेषस्य-देवानां यो मुखं हव्यवाहनः सर्वदैवतः । [वरुणदै०] तस्य त्वं वाहनं पूज्यं देवैः सेन्ट्रैमहर्षिभिः ॥ अग्निमान्धं पूर्वकर्मविपाकोत्थं तु यन्मम। तत्सर्वं नाशय शिमं जठरामिं विशालय ॥ इति । छागस्य-यस्मात्त्वं छाग यज्ञानामाहुतित्वे व्यवस्थितः । (अनिदै०)यानं विभावसोर्नित्यमतः शान्ति प्रयच्छ मे ॥ अधिमासे प्रजापतिदैवतान् त्रयस्त्रिंशदप्रपान साज्यान सहिर २०६ परिशिष्टदीपक ण्यान् कांस्यपात्रे संस्थाप्य संपूज्य पापक्षयपूर्वकधनपुत्राधभिवृद्धि द्वारा वसुरुद्रादित्यप्रजापतिवषटकारात्मकश्रीपुरुषोत्तमदेवप्रीत्यर्थ चन्द्रां निर्मलापूपाः शालितण्डुलनिर्मिताः । आहारः सर्वदेवानां ते मे कुर्वन्तु मङ्गलम् । विष्णुरूपो सहस्रांशुः सर्वपापप्रणाशनः । अपूपान्नपदानेन मम पापं व्यपोहतु ॥ यस्य हस्ते गदाचक्रे गरुडो यस्य वाहनः । शङ्कः करतले यस्य स मे विषमुः प्रसीदतु ॥ कलाकाष्ठादिरूपेण निमेषघटिकादिना । यो वञ्चयति भूतानि तस्मै कालात्मने नमः ॥ कुरुक्षेत्रमयं देशः कालः पर्ष द्विजो हरिः। पृथ्वीसममिदं दानं गृहाण पुरुषोत्तम ॥ मलानां च विशुद्धयर्थं पापप्रशमनाय च । पुत्रपौत्राभिवृद्धयर्थं तव दास्यामि भास्कर ॥ इति मन्त्रर्दत्त्वा- नारायण जगबीज भास्करप्रतिरूपक । दानेनानेन पुत्रांश्च सम्पदं चाभिवर्षय ॥ इति संभार्थ्य दानप्रतिष्ठासिद्धयर्थं दक्षिणां दद्यात् । इति दानानि। __ अथ शान्तयः। तत्र सर्वशान्तिप्रकृतिभूतायाः ग्रहशान्तेः संस्कारदीपकस्य प्रथ मभागे निरूपितत्वात्, प्रथमरजोदर्शनशान्तेश्च गर्भाधानसंस्कारप्रस ड्रेन द्वितीयभागे निरूपितत्वात, वास्तुशान्तेश्च गृहदानमसङ्गेन परि शिष्टदीपकस्य दानप्रकरणे निरूपितत्वात काश्चित् जननशान्तयोत्र प्रदर्श्यन्ते । तत्रादौ मूलादिबहुशान्तिभिः सह समुच्चयेनानुष्ठेयत्वाद गोमुखप्रसवविधिलिख्यते । सच गोमुखमसवो मूलादिशान्तिषु प्रथमं कार्यः । तदुक्तं भयोगपारिजावे गर्गेण— शान्तिप्रकरणे गोमुखप्रसवविधिः। २०७ (१)पित्ररिष्टे मात्ररिष्टे सुतारिष्टे तथैव च । प्रायश्चित्तं तदा कुर्य्यात्तत्तदोषस्य शान्तये ।। पूषाऽश्विनौ गुरुः साप्पं मघा चित्रैन्द्रमूलमे । ऋक्षेज्वेतेषु जातस्य कुर्याद गोजननं (२)तथा । जन्मङ्के वा त्रिजन्मीं शुभवारे शुभे दिने । कृत्वाऽभ्यङ्गादिकं सर्व प्रहालङ्कारपूर्वकम् ॥ गोमयेनोपलिप्याऽथ गृहस्येशानभागके। पङ्कजं कर्णिकायुक्तं रजोभिः श्वेतवर्णकैः ॥ वोहीस्तत्र विनिक्षिप्य यथावित्तानुसारतः । नवशूर्प तु तन्मध्ये रक्तवस्त्रं प्रसारयेत् ।। स्थापयित्वा शिशुं तत्र पुनः सूत्रेण वेष्टयेत् । प्राङ्मुखं (प्राग्दिङमस्तकं) तमवाक्पादं तिलगर्भगतं शिशुम् ॥ गोमुखं दर्शयित्वा तु पुनर्जातं तु गोमुखात् । विष्णुर्योनीति सूक्तेन गव्येन स्नापयेच्छिशुम् ।। गवामङ्गेषुमन्त्रेण गवामङ्गेषु संस्पृशेत् । विष्णोःश्रेष्ठेनमन्त्रेण गोप्रसूतं तु बालकम् ।। प्राचार्यस्तु समादाय पश्चान्मात्रे ददेत्तदा । माता जघनभागस्था शिशुमादाय तन्मुखात् ।। ततः पित्रे तु सा दद्याचतो मात्रे स दापयेत् (दद्यात्) । वस्त्रे स्थाप्य पिताऽस्याथ पुत्रस्य मुखमीक्षयेत् [ईक्षेत] ॥ गोमूत्रं गोमयं क्षीरं दधि सर्पिश्च संयुतम् । आपोहिष्ठादिभिर्मन्त्रैरभिषिचेत्ततः शिशुम् ॥ मूर्ध्नि चाघ्राय तं पुत्रं तन्मन्त्रण(अङ्गादङ्गादित्यनेन)तदा पिता। मूर्धनि त्रिरवघ्राय तं शिशुं स्थापयेत्ततः ॥ (१) अत्र पित्ररिष्टादिशब्दाः तत्तदरिष्टसूचकनक्षत्रादिजननबोधकाः। (२)तथाशब्दः चार्थे । तचच्छान्तिरूपं प्रायश्चित्तं, गोजननं च कुर्यादित्यर्थः। २०८ COD परिशिष्टदीपके पुण्याहं वाचयेत्पश्चाद्रामणैर्वेदपारगैः। दरिद्रायाथ विप्राय तां गामभ्यर्च्य दापयेत् [दद्यात् ॥ गोवस्त्रस्वर्णधान्यानि दद्यादर्कादितः(सूर्यादिग्रहेभ्यः)क्रमात् । यथाशक्ति धनं दद्याद्राह्मणेभ्यस्तदा पिता ॥ ततो होम होमोपक्रम]प्रकुर्वीत स्वस्वशाखोक्तमार्गतः । उल्लेखनादिकं कृत्वा आज्यभागान्तमाचरेत् ॥ [होमस्थलस्य होमस्येशानदिमागे धान्योपरि घटं शुभम् । स्थापयित्वा, पश्चगव्यं तिलावात्र विनिक्षिपेत् ।। क्षीरद्रुमकषायाँश्च पञ्चरत्नानि च क्षिपेत् । वस्त्रयुग्मेण सञ्छाद्य गन्धादिभिरथार्चयेत् ।। विष्णुं वरुणमभ्यर्थ्य प्रतिमां च(१) विधानतः । यतइन्द्रादिभिर्मन्त्रैः कुम्भं स्पृष्ट्वाऽभिमन्त्रयेत् ॥ दधिमध्वाज्ययुक्तेन[योगेन होमं कुर्याद्विधानतः । आपोहिष्ठेति तिमृभिरप्सुमेसोम इत्यथ ।। तद्विष्णोःपरमपदमक्षीभ्यामिति सूक्ततः । ऋम्भिराभिः प्रत्यूचं च अष्टाविंशतिसंख्यया ॥ अशक्तौ चाष्टसंख्यं वा, दधिमध्वाज्यसंयुतम् । आदित्यादिग्रहाणां च होमं कुर्यात्समन्त्रकम् ॥ इति । आदित्यादिग्रहाणां च होमं दधिमध्वाज्यसंयुतं कुर्यात् इत्यन्वयः । पुनर्दध्यादिपदोपादानसामर्थ्यात् ॥ अथ गोमुखप्रसवप्रयोगः । जातस्य बालस्य पिता जनननक्षत्रदिवसे, अन्यस्मिन् शुभ दिने, नामकर्मदिवसे एव वा शुद्धदेशे शुभासने उपविश्य दीपं प्रज्वलय्याचम्य शान्तिपाठ (स्वस्तिवाचन) कृत्वा अघ संस्थाप्य गणेशं नमस्कृत्य सम्पूज्य च प्रधानसंकल्पं कुर्यात् । (९) अप्रेक्षीभ्यामिति सूक्तेन होमविधानात् तत्सूक्तप्रतिपाद्ययम हदेवताप्रतिमापूजनं समुधीयते। शान्तिप्रकरणे गोमुखप्रसवप्रयोगः। २०९ अद्येहेत्यादि संकीर्त्य अमुकोऽहम् अमुकराशेरस्य शिशोरमुक नक्षत्रोत्पत्तिमुचितारिष्टनिरसनद्वारा श्रीपरमेश्वरप्रीतये गोमुखप्रसवं करिष्ये । तत्पूर्वाङ्गत्वेन मातृपूजाभ्युदयिकपुण्याहवाचनानि, आचा य॑स्य पूजनपूर्वकं वरणं च करिष्ये इति सङ्कल्प्य आचार्यावरणान्तं यथाविधि कुर्यात् । ___ सत आचार्यः उपलिप्तभूमौ श्वेताष्टदलपङ्कजं विलिख्य तन्मध्ये यथाशक्ति द्रोणादिप्रमाणत्रीहीनिक्षिप्य तत्र नवीनं शूर्प निधाय तस्मिन् रक्तवस्त्रं प्रसार्य्य तिलपूरितं कृत्वा तस्मिन् तिलगर्भगतं शिशुं प्राङ्मस्तकं प्रत्यक्पादं कृत्वा सशूप्पं शिशुं रक्तसूत्रेणावेष्टय शिशुसमीपे गोमुखमानीय गोमुखात्प्रसवं भावयित्वा शिशुं “विष्णु योनिम्” इति सूक्तेन मिलितेन पञ्चगव्येन (शतपथान्तोक्तेन) स्नापयेत् अभ्युक्षेद्वा। ॐविष्णुर्योनि कल्पयतु त्वष्टा रूपाणि पिशतु । आसिञ्चतु प्रजापतिर्धाता गमन्दधातु ते ॥१॥ गर्भ धेहि सिनीवालि गर्भ घेहि पृथुष्टुके । गर्भ ते ऽअश्विनौ देवावायत्तां पुष्करस्रजो ॥२॥ हिरण्ययी अरणी याभ्यां निर्मन्थतामश्विनौ देवौ। तं ते गर्भ दधामहै दशमे मासि सूतवे ॥३॥ इति पञ्चगव्येन शिशुं स्नापयित्वाऽभ्युक्ष्य वा ॐगवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश । यस्मात्तस्माच्छिवं मे स्यादिह लोके परत्र च । - इति मन्त्रेण गोः सर्वाङ्गेषु स्पृशेत् । तत आचार्यः प्रसूतं बालक ॐविष्णोः श्रेष्ठेन रूपेणास्यां नार्या गवीन्याम् । .. पुमांसं पुत्रानाधेहि दशमे मासि सूतवे॥ [ऋ.अष्ट.८।८।परि.] अनेन मन्त्रेण समादाय गोजघनभागस्थायै मात्रे दद्यात् । माता च बालकं गोमुखपर्यन्तमानीय पित्रे दद्यात् । ततः पिता मात्रे . दद्यात् । माता च नववस्त्रे स्थापयेत् । ततः पिता नववस्त्रस्थितस्य २६५० २१० परिशिष्टदीपके पुत्रस्य मुखं पश्येत् । तत आचार्यः आपोहिष्ठेति तिमृभिः पश्चगव्येन शिशुमभिषिञ्चेत् । ततः पिता ॐअङ्गादङ्गात्संभवसि हृदयादधिजायसे । __ आत्मा वै पुत्रनामासि स जीव शरदः शतम् ॥ इति मन्त्रेण मूर्ध्नि शिशुं त्रिरवघ्राय मात्रे दद्यात् । ततः “पु प्याहं भवन्तो ब्रुवन्तु” इति ब्राह्मणान्पुण्याहं वाचयित्वा तां गां दरि दाय कुटुम्बिने ब्राह्मणाय अद्यहेत्यादि संकीर्त्य अमुकोऽहम् अमुक राशेरस्य बालकस्य अमुककालोत्पत्तिसूचितारिष्टनिरसनद्वारा श्रीपर मेश्वरप्रीत्यर्थं कृतैतद्गोमुखप्रसवकर्मणः साङ्गतासिद्धयर्थमिमां सवत्सां गां रुद्रदैवतां ब्राह्मणाय तुभ्यमहं संप्रददे इति संकल्प्य दत्त्वा दान प्रतिष्ठासिद्धयर्थं दक्षिणां दद्यात् । ततः प्रत्येक ग्रहाणां प्रीतये गोव त्रसुवर्णादि यथाशक्ति दत्त्वा भूयसीं दद्यात् । ___तत आचार्यों घेद्यां (स्थण्डिले ) पञ्चभूसँस्कारपूर्वकमग्नि संस्थाप्य तदीशाने ___ महीधौरित्यादिना कलशद्वयम् उदक्संस्थं स्थापयेत् । तत्रैकस्मि कलशे यथाविधि ब्रह्मवरुणसहितादित्यादिनवग्रहानाबाह्य पूजयेत् । ततो द्वितीये पञ्चरत्नपञ्चपल्लवादीनिक्षिप्य पञ्चगव्यं तिलान् क्षीरद्रुम त्वकषायांश्च निक्षिप्य वस्त्रयुग्मेण सञ्छाद्य गन्धादिभिरभ्यर्च्य पूर्णपात्रो परि ताम्रपात्रे अग्न्युत्तारितासु पश्चगुजाऽन्यूनसुवर्णप्रतिमासु उद क्संस्थं देवतात्रयं स्थापयेत् । ॐतद्विष्णोः परमं पदसदा पश्यन्ति सूरयः। दि. धीव चक्षुराततम्” ॥ इति विष्णुं, __ॐतत्त्वा यामि ब्रह्मणा व्वन्दमानस्तदाशास्ते यज मानो हविभिः। अहेडमानो वरुणेह बोध्युरुशास मा न आयु: प्रमोषीः ।। इति वरुणं, ॐअक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकादधि । यक्ष्मं शीर्षण्यं मस्तिष्काजिताया विरहामि ते ॥ शान्तिप्रकरणे गोमुखप्रसवप्रयोगः। २११ इति यक्ष्महणं चावाहनपूर्वकं संस्थाप्य “एतन्ते"इति पठित्वा ॐभूर्भुवः स्वः विश्णुवरुणयक्ष्महणः इहागच्छन्त्विह तिष्ठन्तु सुप्रति ष्ठिता वरदा भवन्तु इति प्रतिष्ठाप्य अर्घ संस्थाप्य पूजासंकल्पं कुर्यात् अथेहेत्यादि संकी| अमुकोऽहम् अमुकराशेरस्य बालकस्य अमु ककालोत्पत्तिमुचितारिष्टनिरसनाय कलशे सुवर्णप्रतिमासु ावाहि तानां विष्णुवरुणयक्ष्मनां यथामिलितोपचारैः पूजनं करिष्ये । तत्रादौ विष्णुध्यानम् प्रदक्षिणं दक्षिणाधाकरादारभ्य नित्यशः । विष्णुः कौमोदकी-पद्म-शङ्ख-चक्रधरः स्मृतः॥ वरुणध्यानम्-नागपाशधरो रक्तभूषणः पद्मिनीप्रियः । ___ वरुणोऽम्बुपतिः स्वर्णवों मकरवाहनः ॥ यक्ष्मन्नो ध्यानम्-तुत्क्षामोऽधोमुखो नग्मचारी काकसमस्वरः। __ यक्ष्मा चैवंविधः सृष्टो ब्रह्मणा तपसो निधिः ॥ इति । एवं सर्वान् ध्यात्वा पूर्वोक्तमन्त्रैरादिनीराजनान्तं संपूज्य कुम्भं स्पृशनिमान्मन्त्रान् पठेत-(ऋक्सं. अष्ट. ६।४।३८-३९) ॐयत इन्द्र भयामहे ततो नो अभयं कृधि । मघवञ्छन्धि तव तन्न अतिभिर्विद्विषो विमृधो जहि ॥ त्वं हि राधस्पते राधसो महः क्षयस्यासि विषतः । तं त्वा वयं मघवनिन्द्र गिर्वणः सुतावन्तो हवामहे ॥ इन्द्रः स्पलत वहा परस्यानो वरेण्यः। स नो रक्षिषञ्चरम स मध्यमं स पश्चात्पातु न:पुरः ।। त्वं नः पश्चादधरादुत्तरात्पुर इन्द्र निपाहि विश्वतः । आरे अस्मत् कृणुहि दैव्यं भयमारे हैतीरदेवीः॥ अद्याया श्वश्व इन्द्रवा स्वपरे च नः। विश्वा च नो जरितॄन् सत्पते अहा दिवा नक्तं च रक्षिषः॥ प्रभङ्गी शूरो मघवा तुवीमघः संमिश्लो वीर्याय कम् । उभा ते बाहू वृषणा शतक्रतो निया वर्ज़ मिमिक्षतुः ।। इति ।परिशिष्टदीपके ततो द्रव्यत्यागं यजमानो द्रव्यदेवताभिध्यानपूर्वकं कुर्यात्-अयेह अमुकोऽहं गोमुखप्रसवशान्तिकर्मणा यक्ष्ये । तत्र प्रजापत्या दीनाज्येन-विष्णुं “तद्विष्णोः” इति ऋचा अष्टाविंशति-अष्टान्यतर संख्याहुतिभिः, वरुणम् “आपोहिष्ठा” इति तिसृभिः “अप्सु मे सोम” इत्यनया च प्रत्यूचमुक्तसंख्याहुतिभिः, यक्ष्महणम् “अक्षी भ्याम्” इति सूक्तेन प्रत्युचमुक्तसंख्याहुतिभिः, ग्रहांश्च तत्तन्मन्त्रैरुक्त संख्याहुतिभिः मिश्रितदधिमध्वाज्यद्रव्यैः-शेषेण स्विष्टकृतम्-अग्न्या दिमजापत्यन्तांचाज्येनाहं यक्ष्ये । इदं सम्पादितं दधिमध्वाज्यद्रव्यं पूर्वाङ्गदेवताभ्यः प्रधानदेवताभ्य उत्तराङ्गदेवताभ्यश्च मया परित्यक्त यथादेवतमस्तु न मम इति। ___ तत आचार्यः ब्रह्मोपवेशनादिपर्युक्षणान्तं कर्म कृत्वा वरद. नामानमनिम् “एतं ते” इति प्रतिष्ठाप्य अग्न्यादिपूजनं कृत्वा अग्नि प्रणीतयोमध्ये प्रोक्षणीपात्रं संस्थाप्य ब्रह्मणाऽन्वारब्धः आधारावा ज्यभागौ च हुत्वा अनन्वारब्धः प्रधानं होमं कुर्यात् । तत्र प्रथमं [तद्विष्णोरिति मेधातिथिषिर्गायत्री छन्दो विष्णु देवता मिलितदधिमध्वाज्यहोमे विनियोगः] । ॐतद्विष्णोः परमं पदः सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम्-स्वाहा-इत्यनया अष्टाविंशति-अष्टान्यतर संख्यया विष्णवे हुत्वा [आपोहिष्ठेति तिसृणां सिन्धुद्वीपऋषिर्गायत्रीछन्द आपो देवता मिलितदधिमध्वाज्यहोमे विनियोगः] ॐआपोहिष्ठा. पूर्वोक्तसं. ख्यया वरुणाय हुत्वा ॐयो वः पूर्वोक्तसंख्यया वरुणाय हुत्वा- . ॐतस्माऽअरं० पूर्वोक्तसंख्यया वरुणाय हुत्वा (अप्सु मे सोम इति मेधातिथिषिरनुष्टुप्छन्द आपो देवता मिलितदधिमध्वाज्यहोमे विनियोगः)। [ऋक्सं. अष्ट. १।२।११] ॐअप्सु मे सामो अब्रवीदन्तविश्वानि भेषजा। 5

शान्तिप्रकरणे सर्वसाधारणशान्तयः। २१३ अग्निं च विश्वशम्भुवमापश्च विश्वभेषजी:-स्वाहा इत्य नया च पूर्वोक्तसंख्यया वरुणाय हुत्वा [अक्षीभ्यामिति षण्णां काश्यपो विटहा ऋषिरनुष्टुप्छन्दो यक्ष्महा देवता मिलितदधिमध्वाज्यहोमे विनियोगः]। अक्सं. अष्ट. ८।८।२१] ॐअक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुचुकादधि । यक्ष्मं शीर्षण्यं मस्तिष्काजिह्वाया विवृहामि ते-स्वाहा १ इत्यनया उक्तसंख्यया यक्ष्मघ्ने हुत्वा-ॐग्रीवाभ्यस्त उष्णि हाभ्य: कीकसाभ्यो अनुक्यात् । यक्ष्मं दोषण्यमंसा. भ्यां बाहुभ्यां विवृहामि ते-स्वाहा २ उक्तसंख्यया यक्ष्मघ्ने हुत्वा-ॐआन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोहदयादधि । यक्ष्म मतस्नाभ्यां यतः प्लाशिभ्यो विवृहामि ते-स्वाहा ३ उक्तसंख्यया यक्ष्मध्ने हुत्वा-ॐऊरुभ्यां ते अष्ठीवडूयां पाणिभ्यां प्रपदाभ्याम् । यक्ष्मं श्रोणिभ्यां भासदाद भंससो विहामि ते-स्वाहा ४ उक्तसंख्यया यक्ष्मध्ने हुत्वा ॐमेहनादूनं करणाल्लोमभ्यस्ते नखेभ्यः । यक्ष्मं सर्वस्मा. दात्मनस्तमिदं विवृहामि ते-स्वाहा ५ उक्तसंख्यया यक्ष्मध्ने हुत्वा-ॐअङ्गादङ्गाल्लोनोलोनो जातं पणिपर्वणि । यक्ष्मं सर्वस्मादात्मनस्तमिदं विहामि ते-स्वाहा ६ इत्यनया च अष्टाविंशत्यष्टान्यतरसंख्यया दधिमध्याज्यं यक्ष्मघ्ने हुत्वा, नवग्रहमन्त्रैश्च उक्तसंख्यया दधिमध्वाज्यं नवग्रहेभ्यो हुत्वा, स्विष्टकदादिकर्मशेष कुशकण्डिकाप्रयोगोक्तरीत्या समापयेत् ॥ इति गोमुखमसवशान्तिः। अथ सर्वसाधारणशान्तयः । गर्गः-दिनक्षये व्यतीपाते व्याघाते विष्टिवैधृतौ । शूले गण्डेऽतिगण्डे च परिघे यमघण्टके॥१॥ कालदण्डे मृत्युयोगे दग्धयोगे सुदारुणे। परिशिष्टदीपके तस्मिन्गण्डदिने प्राप्त प्रसूतिर्यदि जायते । २॥ विचार्य तत्र दैवज्ञः शान्ति कुर्याद्यथाविधि । यजनं देवतानां च ग्रहाणां चैव पूजनम् ॥ ३॥ दीपं शिवालये शक्त्या घृतेन परिदापयेत् । अभिषेक शंकराय ह्यश्वत्थस्य प्रदक्षिणम् ॥ ४॥ आयुर्वृद्धिकरं जाप्यं सर्वारिष्टविनाशनम् । गुरुदैवतविषाणां पूजनं गोत्रवर्द्धनम् ॥ ५॥ गाणपत्यं पुरुषसूक्तं सौरं मृत्युञ्जयं शुभम् । शान्ति नाप्यं रुद्रजाप्यं कृत्वा मृत्युञ्जयो भवेत् ॥ ६ ॥ मुले वा साप्पंगण्डेषु कुर्यादेतानि यत्नतः । इति । अथ मूलशान्तिविधिः । विधानपारिजाते शौनकः– अथातः संप्रवक्ष्यामि मूलजातहिताय वै । मातापित्रोर्धनस्यापि कुलज्ञातिहिताय च ॥१॥ त्यागो वा मूलजातानां स्यादष्टान्दात्तु दर्शनम् । (१)अभुक्तमूलजातानां परित्यागो विधीयते ॥ २ ॥ अदर्शने वाऽपि पितुः सोऽपि तिष्ठेत्समाष्टकम् । एवं दुहितरि प्रोक्तं मूलजायां फलं बुधैः ॥३॥ ग्रन्थान्तरे कन्यायाः फलमन्यथा पठ्यते । यथा न बाला हन्ति पितरं मूलः मातरं तथा। मूलजा श्वशुरं हन्ति व्यालजा श्वशुराऽङ्गनाम् ।। माहेन्द्रजाग्रज हन्ति देवरं तु द्विदेवजा । इति । तत्र शान्तिः पुष्कला चेत्तर्हि दोषो न कश्चन । मुख्यं कालं प्रवक्ष्यामि शान्तिहोमस्य यत्नतः ॥ ४॥ जातस्य द्वादशाहे वा जन्मझे वा शुभे दिने । (१) अभुक्तमूलमाह वसिष्ठा ज्येष्ठान्ते घटिका चैका मूलादौ घटिकादयम् । अभुक्तमूलमिल्याहुर्जातं तत्र विवर्जयेत् ॥ इति । शान्तिप्रकरणे मूलशान्तिविधिः। २१५ समाष्टके द्वादशाब्दे कुर्याच्छान्तिकमादगत् ।। ५ ॥ यदैव शान्तिकं कुर्यात्कर्म तत्र प्रचक्ष्महे । संस्कृते पुण्यदेशे तु मण्डपं कारयेद् बुधः ॥६॥ मन्त्राभिमन्त्रितैस्तोयैः प्रोक्षितायां क्षितौ ततः। तत्रोदकुम्भं सुश्लक्षणं रक्तं व्रणविवर्जितम् ॥ ७॥ सुवर्तुलं च निर्णिक्तं कारयेभिर्मलाम्भसा। वस्त्रावगुण्ठितं कुर्यात्पूर येत्तीर्थवारिणा ॥ ८ ॥ कूर्चमसमायुक्तं चूनपल्लवशोभितम्।। स्वस्तिकोपरि विन्यस्य सक्षीरद्रुमपल्लवम् ॥ ६ ॥ द्रोणतीहीच निक्षिप्य चेशाने च निधापयेत् । पञ्चरत्नानि निक्षिप्य सर्वोषधिसमन्वितम् ॥ १० ॥ अर्चितं गन्धपुष्पाद्यैः श्रीरुद्रं च (कुम्भ)स्पृशन जपेत् (१)। षडङ्गसहितं शान्त्यै जपेद्वै रुद्रसंख्यया ॥११॥ बचो रुद्रसूक्तैर्वा छन्दोगो रुद्रसामभिः । एकादशाष्टत्रिद्वयकसंख्यया शक्तितो जपेत् ॥ १२ ॥ (२)तत्रापतिरथं सूक्तं शतरुद्रानुवाककम् । रक्षामन्त्र तथा पुण्यं रक्षोघ्नं च स्पृशञ्जपेत् ॥ १३ ॥ त्रयम्बकं जपेत्सम्यगष्टोत्तरसहस्रकम् । एकवारं तथा जापी पावमानीः स्पृशन् जपेत् ॥ १४ ॥ (३)जपस्य पञ्च कुम्भाः स्युयं वा तदलामतः । .(१) “तत्कुम्भवस्त्रप्रतिमां तस्मै दद्यात्प्रयत्नतः” इत्यन्ते दर्शनात् पूर्णपात्रोपरि रुद्रप्रतिमा पूजयित्वा जपा कार्यः। __ (२) “आशुः शिशान” इति अप्रतिरथं, “नमस्ते” इति षोडशचं शत. रुद्रानुवाकं, “वं यविष्ठ दाशुषा’ इति वा “रक्षोहणं बलगहनम्” इति वा रक्षामन्त्रम् , “कृणुष्य पाज” इति पञ्चचं रक्षोध्नं च एकादशवारं कुम्भ स्पृशन् जपेत् इत्यर्थः। पूर्वोपस्थितसंख्यान्वयस्यौचित्यात् । (३) अत्रायं सम्प्रदायः। श्राद्यपक्षे षट् कुम्मा-एको रुद्रस्य-तस्मिन् शतरुद्रियं, चत्वारि रुद्रसूक्कानि, एकादश रुद्रसामानि च जयानि । अभिषेकार्थ पञ्चकुम्भा:-तत्र कुम्भचतुष्टये तत्राप्रतिरथं सूक्तं शतरुद्रा

२१६ परिशिष्टदीपके श्रीरुद्रस्यैककुम्भश्च सर्व(ख)मुक्तानि तत्र तु ॥१५॥ तथाऽन्यं च शुभं कुम्भ पूर्वोक्तैर्लक्षणैर्युतम् । चतुष्प्रस्रवणं कुर्यात्पश्चवक्त्रं तु तद्भवेत् ॥ १६ ॥ गजाश्वरथ्यावल्मोकात्संगमाद्धदगोकुलाद । राजद्वारप्रदेशाच सूदमानीय[तस्मिन् ]निक्षिपेत् ॥ १७ ॥ कुम्भस्य नैऋते देशे होमस्थानं प्रकल्पयेत् । गोमयालेपिते देशे कुर्यात्स्थण्डिलमुत्तमम् ॥ १८॥ मण्डपपक्षेऽपि स्थण्डिलमेव । मण्डपमुपक्रम्यैव स्थण्डिलविधानात् । कृत्वाऽग्निमुखपर्यन्तमुल्लेखादि स्वशास्त्रतः [ स्वशाखतः ] । पूर्णपात्रनिधानान्तं कृत्वा पूजां (तत्सामग्री) समारभेत् ॥१६॥ नक्षत्रदेवतारूपं सुवर्णेन प्रयत्नतः। निष्कमात्रेण वार्दैन पादेनाथ स्वशक्तितः ॥ २० ॥ प्रतिमां लक्षणोपेतां कारयित्वा विचक्षणः । यद्वा मूल्यं सुवर्णस्य स्थापयित्वा प्रपूजयेत् ।। २१ ॥ मूल्यमिति प्रतिमामूल्यमित्यर्थः। सुवर्ण सर्वदेवत्यं सर्वदेवात्मकोऽनलः । सर्वदेवात्मको विप्रः सर्वदेवमयो हरिः ॥ २२ ॥ संस्मरेन्निति श्याम सुमुखं नरवाहनम् । रक्षोऽधिपं खड्गहस्तं दिव्याभरणभूषितम् ॥ २३ ॥ प्रतिमापूजनार्थाय वस्त्रयुग्मं प्रकल्पयेत् । पङ्कजं कारयेभूमौ रञ्जितै हितण्डुलैः॥ २४ ॥ चतुर्विंशहलोपेतं शुक्ला कर्णिकान्वितम् । नुवाककम् । रक्षामन्त्र तथा पुण्यं रक्षोनं च स्पृशन् जपेत्” । इत्युक्त दिशा क्रमात् अप्रतिरथसूतादिवतुष्टयविधिः, मध्यकुम्भे त्र्यम्बकमन्त्र पावभानीजपविधिः। __एवं पञ्चकुम्भाशक्तौ चतुष्प्रनषण एक एव । द्वयं वा तदलाभत इति विस्वं तु रुद्रकुम्ममावायेति । चतुअन्नघणमेष पञ्चकुम्भस्थाने कुर्यात् । एवं पञ्चवक्त्रं भवेत् । । शान्तिप्रकरणे मूलशान्तिविधिः। २१७ तस्योपरि न्यसेत्पात्रं(कलश)सौवर्ण रौप्यमन्मयम् ॥२५॥ शुद्धवस्त्रेण संछाद्य तत्र मूलानि निक्षिपेत् । मूलानि शतमूलानि स्वयमुत्पाटयेत्पिता ॥ २६ ॥ मङ्गल्याश्च पवित्राश्च [या:] श्रोषध्यः, [ताः] कथयाम्यहम् । आसां मूलानि गृह्णीयाच्छतालामे विशेषतः ॥ २७ ॥ विष्णुकान्ता सहदेवी तुलसी च शतावरी। स्थापयेत्कर्णिकामध्ये वस्त्रगन्धाधलंकृतम् ।। २८ ॥ कूर्चहेमजलोपेतं कुम्भमोषधिसंयुतम् । कूर्ची दर्भस्तम्बः । कुम्भोपरि न्यसेद्विद्वान्मूलनक्षत्रदैवतम् ॥ २६ ॥ अधिप्रत्यधिदेवौ च दक्षिणोत्तरदेशतः । अधिदेवं यजेदादौ ज्येष्ठानक्षत्रदैवतम् ॥ ३०॥ पूर्वाषाढापत्यधिदैवतं पूजयेचतः। उत्तराषाढमारभ्य अनुराधान्तमर्चयेत् ॥ ३१ ॥ ऐन्द्रादीशानपर्यन्तं पूजयेत्स्वस्वनामतः । स्वलिङ्गोक्तैश्च मन्त्रैश्च प्रधानादीन्मपूजयेत् ॥ ३२ ।। लिङ्गोक्ता मन्त्रा “यं ते देवी” इत्यादयः । भूमिष्ठचतुर्विंश तिदलेषु पूर्वदलमारभ्य चतुर्विंशतिनक्षत्राणि स्थाप्यानीत्यर्थः । नक्ष त्रदेवताः स्थाप्या इत्यन्ये । पञ्चामृतेन संस्नाप्य आवाह्याथ समर्चयेत् । उपचारैः षोडशभिर्यद्वा पञ्चोपचारकैः॥३३॥ रक्तचन्दनगन्धायैः पुष्पैश्चैव सितासितैः। मेषशृङ्गादिधूपैश्च घृतदीपैस्तथैव च ॥ ३४॥ सुरापोलिकमांसाधैनैवेद्यैश्चौदनादिभिः । मत्स्यमांससुरादीनि ब्राह्मणश्च विवजयेत् ॥ ३५॥ सुरास्थाने प्रदातव्यं क्षीरं सैन्धवमिश्रितम् । पायसं लवणोपेतं मांसस्थाने प्रदापयेत् ॥ ३६॥ रक्तगन्धाधलामे तु यथालाभं समर्चयेत् । . २७५० OM २१८ परिशिष्टदीपके पुष्पाञ्जल्यन्तमभ्यर्थ्य होमं कुर्याद्यथोदितम् ॥ ३७॥ निर्वापरोक्षणादीनि चरोः कुर्य्यायथाविधि । हविहीत्वा विधिवन्नैऋत्यैव ऋचा हुवेत् ॥ ३८॥ (१) ‘मोषु णः परापरेति” “यं ते देवीति” वा पुनः। .पायसं घृतसम्मिश्रं हुवेदष्टोत्तरं शतम् ॥ ३६॥ समिदाज्यचरून् पश्चाच्छक्तितः संख्यया हुवेत् । अधिदैवतयोश्चापि जुहुयात्स्वस्वमन्त्रवः ॥४०॥ चतुर्थ्यन्तैर्नमोऽन्तैश्च स्वाहान्तैश्च स्वमन्त्रकैः । (नाममन्त्रैः) नक्षत्रदेवताभ्यश्च पायसेन तु होमयेत् ॥ ४१ ।। कृणुध्वेति पञ्चदशभिः जुहुयात्कृसरं ततः । गायच्या, जातवेदसे, त्र्यम्बकमिति[कुसरंजुहुयात्]क्रमात् ॥४२॥ सीरा युञ्जन्ति, तामग्नि, वास्तोष्पत्यग्निमेव च । क्षेत्रस्य पतिना, गृणाना, अग्निं दूतं तथैव चाकुसरं जु०]॥४३॥ श्रीसूक्तेन तथा विद्वान् समिदाज्यचरून् क्रमात् । अष्टोत्तरशतैर्वापि अष्टाविंशतिभिः क्रमात् ॥४४॥ अष्टाष्टसंख्यया वाऽपि जुहुयाच्छक्तितो बुधः। · … नः सोमेन जुहुयात् पायसं तु त्रयोदश ॥४५॥ चतुर्ग्रहीतमाज्यं च यातेरुद्रेति मन्त्रतः । सुवेण जुहुयादाज्यं महाव्याहृतिभिः क्रमात् ॥ ४६॥ हुत्वा स्विष्टकृतं पश्चात प्रायश्चित्ताहुतीहुवेत् । आचार्यो यजमानो वा वह्नौ पूर्णाहुति हुवेत् ॥ ४७ ॥ समुद्रादिति सूक्तेन, प्राजापत्यऋचा प्रजापत नेति तथा । पूर्णादर्वि, सप्तते अग्ने एतैः पूर्णाहुति हुवेत् ॥४८॥ (१) माषुणः परापरा नितिदुईणाऽवधीत् । पदीष्ट तृष्णया सह ॥ (ऋक्सं० अष्ट० १६)। यं ते देवी निऋतिराबबन्ध पाशं प्रीवास्वविचत्यम्। तं ते विष्याम्यायुषो न मध्यादथैतं पितुमद्धि प्रसूतः ॥ (य० सं० अभ्या० १२। कं०६४) अनया शाखामेदेन व्यवस्था। शान्तिप्रकरणे मूलशान्तिविधिः। २१९ होमशेष समाप्याथ वह्निमारोपयेद् बुधः। लौकिकाग्निपक्षे न समारोपः। कुम्भाभिमन्त्रणं कुर्यादक्षिणेनाभिमर्शयेत् ॥ ४६॥ मृत्युपशमनायाथ जपेत्त्रयम्बकं शतम् । रुद्रकुम्भोक्तमार्गेण रुद्रमन्त्रं स्पृशन् जपेत् ॥ ५० ॥ रुद्रकुम्भं स्पृशन पूर्वोक्तरुद्रादिमन्त्र जपेदित्यर्थः। धूपदोपौ च नैवेद्यं कुम्मयुग्मे निवेदयेत् । कुम्भयुम्मे-रुद्रकुम्भे नितिकुम्भे च । प्रसादयेत्ततो देवमभिषेकार्थमादरात् ॥५१॥ निति रुद्रं च। तस्मिन्काले ग्रहातिथ्यं कर्तव्यं भूतिमिच्छता । पृथक् प्रशस्तं, तेनैव नक्षत्रेष्टया सहैव वा ॥ ५२ ।। ग्रहातिथ्यं ग्रहयागः । तेनैव मूलशान्त्यग्निनैव । नक्षत्रेष्टया मूलशान्त्या। अभिषेकविधि वक्ष्ये पूर्वाचार्यैरुदाहृतम् । भद्रासनोपविष्टस्य यजमानस्य ऋत्विजः ॥ ५३ ॥ दारपुत्रसमेतस्य कुर्युः सर्वेऽभिषेचनम् । अक्षीभ्यामिति सूक्तेन पावमानीभिरेव च ॥ ५४॥ आपोहिष्ठेति नवभिर्यतइन्द्रद्वयेन च । सहस्राक्षत्चेनापि देवस्यत्वेति मन्त्रकैः ॥ ५५ ॥ शिवसंकल्पमन्त्रेण वक्ष्यमाणैश्च मन्त्रकैः। वक्ष्यमाणा मन्त्रा"योऽसौ वज्रधर"इत्यादयः प्रयोगें वक्ष्यन्ते । तच्छंयोरभिषेकं तु सर्वदोषोपशान्तिदम् ॥ ५६ ॥ सर्वकामप्रदं दिव्यम् मङ्गलानां च मङ्गलम् । वस्त्रान्तरितकुम्भाभ्यां पश्चात्तु स्त्रपयेद्बुधः ॥ ५७ ॥ ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः । यजमानो दक्षिणाभिस्तोषयेदृस्विगादिकान् ॥ ५८॥ धेनुं [कृष्णां] पयस्विनी दद्यादाचार्याय सवत्सकाम् । २३०

परिशिष्टदीपक नितिप्रतिमां वस्त्रं हेम कुम्भं च दापयेत् ।। ५९ ॥ वस्त्रकुम्भौ नितिसंबन्धिनौ, हैम स्वतन्त्रं यथाशक्ति । ग्रहाणां प्रतिमा वस्त्रं तत्तज्जापेभ्य अर्पयेत् । श्रीरुद्रजापिने देयः कृष्णोऽनड्वान्प्रयत्नतः ॥ ६ ॥ इतरेभ्योऽपि विप्रेभ्यो यथाशक्त्या च दक्षिणाम् । उक्तालामे तथा दद्यादाचार्यब्रह्मऋत्विजाम् ॥ ६१ ॥ तत्तन्मूल्यं प्रदातव्यं शक्तथा वाऽथ प्रदापयेत् । आचार्याय च यदत्तं तदई ब्रह्मणे [देयं] भवेत् ॥ ६२ ।। सदस्याय ब्रह्मणोधमृत्विग्भ्यश्च तदर्धकम् । गृहीयादाशिषस्तेभ्यः प्रणम्याथ क्षमापयेत् ॥ ६३॥ दद्यादन्नं पायसादि ब्राह्मणान्भोजयेच्छतम् । अलामे सति पश्चाशद, दशकं तदलाभतः ॥ ६४॥ सर्वशान्तेश्च पठनं ब्राह्मणैराशिषस्ततः । गृही क्षमापयेद्विद्वान्नितिः प्रीयतामिति ॥ ६५ ॥ विधाने चरिते यस्मिन् ततः शान्तिभवेद ध्रुवम् । गण्डान्तेष्वेवमेव स्यात्साये येवमेव हि ॥ ६६ ॥ “पुण्याद्यर्थे तथैव च” इति शान्तिरत्नादौ पाठः। इति शौनकोक्तो मूलशान्तिविधिक्रमः । ___ अथ मूलशान्तिप्रयोगः। तत्र मूलजातस्य पिता द्वादशाह वा जन्मनक्षत्रे वा शुभदि नेष्टमे मासे वाष्टमे वर्षे वा द्वादशाब्दे वा मूलशान्त्यर्थं मण्डपं शाला वा विधाय पूर्व गणेशपूजनं कुर्यात् । तथाहि शुभासने उप विश्य दीप प्रज्वलय्याचम्य शान्तिपाठं [स्वस्तिवाचन] कृत्वा अर्थ संस्थाप्य संकल्पं कुर्यात् । अथेहेत्यादि संकीर्त्य अमुकराशिरमुक शाऽहम् अमुकराशेः पुत्रस्य कन्याया वा मूलनक्षत्रस्यामुक पादजननशान्तिकमणि गोमुखप्रसवकर्माणि च निर्विघ्नतासिद्धये श्रीमदभगवतो गणेश्वरस्य पूजनं करिष्ये इति संकल्प्य गणेशं यथो- . शान्तिप्रकरणे मूल शान्तिप्रयोगः। २२१ क्तमकारेणाभ्यर्च्य तिल-कुश-यव-जलान्यादाय पञ्चाङ्गस्मरणपू र्वकं प्रधानसंकल्पं कुर्यात् । अधेहेत्यादि संकीर्त्य अमुकगोत्रोऽमुकराशिरमुकशर्माहम् अमु कराशेः पुत्रस्य मूलनक्षत्रामुकपादजननसूचितपित्रावरिष्टनिवृत्तिपूर्व कसर्वोपद्रवशान्तिद्वारा परमेश्वरप्रीत्यर्थं शुभफलप्राप्तये च शौनकोक्त प्रकारेण गोमुखप्रसवपूर्वकं ग्रहयागसहितां मूलशान्ति करिष्ये । तत्पू ङ्गित्वेन मातृपूजा-पुण्याहवाचन-नान्दीश्राद्धानि करिष्ये । तथा मूलशान्तिकर्मसम्पत्तये आचार्यब्रह्मणोः सदस्यस्याष्टानां चतुर्णा वा ऋत्विजां रुद्रकादशिनी-अप्रतिरथसूक्तादिपाठकर्तृणां च ब्राह्म णानां पूजनपूर्वकं वरणं करिष्ये इति सङ्कल्प्य मातृपूजा-नान्दी श्राद्ध-पुण्याहवाचनानि यथाविधि विधाय आचार्यादीनां पूजनपूर्वक वरणं च ‘मूलशान्तिकर्मणि’ इति विशेषमुल्लिख्य तुलादानप्रयोगो क्तरीत्या कृत्वा यजमानः साञ्जलिपुटो भूत्वा “यथाविहितं कर्म कुरुध्वम्” इति ब्रूयात् । ते च “करवाम यथामति” इति ब्रूयुः। तत आचार्यः सयजमानः उक्तप्रकारेण [ २०८ ] गोमुखप्रसवं पूर्व विधाय आचम्य प्राणानायम्य मूलशान्तिकर्मणि आचार्य कर्म करिष्ये इति संकल्प्य अर्धस्थापनादिभूतोत्सादनान्तं कर्म कृत्वा यथावद्विहिते मण्डपै शालायां वा ऋत्विक्सदस्यान् यथास्थानं संनि बेश्य पुण्यतीर्थाभिमन्त्रितैस्तोयैः पञ्चगव्येन च आपोहिष्ठेत्यादिभिः भूमि सम्मोक्ष्य मण्डपसत्त्वे मण्डपपूजां तुलादानप्रयोगोक्तरीत्या कृत्वा नैर्ऋत्यां दिशि स्थण्डिलेऽग्निमुपसमाधाय ___मण्डपस्य शालाया वा ऐशान्यां रुद्रकलशं स्थापयेत् । तद्यथा पञ्चवर्णैः स्वस्तिकं विधाय तत्र द्रोणपरिमितान् ब्रोहीन् निक्षिप्य तत्र श्लक्ष्णं रक्तमवणं सुवर्तुलं कलशं कलशविधिना संस्थाप्य वस्त्रेण कलशमावेष्टय तदुपरि तण्डुलपूर्णे ताम्रादिपात्रे वस्त्रोपरि सुवर्णघटि तां श्रीरुद्रप्रतिमाम् अग्न्युत्तारणपूर्वकं पञ्चामृतेन संस्नापितां संस्थाप्य पूजयेत् । तत्र संकल्पः अधेहेत्यादि संकीर्त्य अमुकोऽहं मूलशान्ति२२२ परिशिष्टदीपके कर्मणि रुद्रकलशे सुवर्णप्रतिमायां श्रीरुद्रस्य पूजनं करिष्ये । “ए तन्ते” इत्यादि पठित्वा ॐ भूर्भुवः स्वः सुवर्णप्रतिमायां श्रीद सुपति ष्ठितो वरदो भव इति प्रतिष्ठाप्य ध्यायेत ॐव्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात् ॥ अनेनैव आवाहनासनपाद्यादिभिः श्रीरुद्रं पूजयेत् । उ० स्प० ततो रुद्रकलशादुत्तरत्र चतुर्दिनु पूर्वादिषु चतुरः कलशान मध्ये च पञ्चमं यथाविधि संस्थाप्य तेषु वरुणमावाह्य पूजयेत् । यद्वा रुद्रकुम्भादुत्तरत्र चतुष्प्रस्रवणमेकमेव कुम्भं स्थापयेत् । चतुष्प्रस्रवणे चास्मिन् कुम्मे पूर्णपात्रोपरि मयूरशिखादीनि शतमू लानि तदलामे विष्णुकान्ता, सहदेवी, तुलसी, शतावरी, कुशान् तदलामे शतावरी केवलां निधाय सामान्यप्राप्तं वरुणं पूजयेत् । चतुष्प स्त्रवणकुम्भयुक्तकुम्भद्वयपक्ष एव सति संभवे माध्यन्दिनैः स्वीकार्यः। “द्वितीयोदकुम्भं कृत्वा चतुष्पस्रवणसंयुक्तं तदुपरिष्टान्मूलानिधारयेत्” इति कात्यायनपरिशिष्टोक्तेः। शतमूलानि शान्तिसारादौ द्रष्टव्यानि । चतुष्प्रस्रवणालामेन स्वीकृतपञ्चकुम्भपक्षे मध्यकुम्मे पूर्वोक्तमू लानि निदध्यात् । कुम्भचतुष्टयसहितस्य मध्यकुम्भस्य चतुष्प्रनव णस्थानापन्नत्वेन तद्धर्मप्राप्तः। ततो रुद्रजापकत्वेन वृतो रुदकुम्भं स्पृशन् षडङ्गन्यासपूर्वकं सा गो रुद्रकादशिनी (१)जपेत् । (१) रुद्राध्यायस्य परमेष्ठी प्रजापतिर्वा ऋषिः “नमस्ते” इति गाय त्री ततस्तिस्रोऽनुष्टमः ततस्तित्रः पतयः ततः समानुष्टभः ततो दे ज गत्यौ, “नमस्ते” इत्यादिषोडशर्चस्य एकरुद्रो देवता। “नमोहिरण्यबाह वे” इत्यादीनि ४५ पञ्चचत्वारिंशधषि, तेषां बहुरुद्रा देवताः । “द्रापे अन्धसस्पते” इति उपरिष्टाबृहती “इमा रुद्राय” इति जगती “यातेरुद्र” इति अनुष्टुप् “परिनोरुद्रस्य” “मीदुष्टम” इत्येते “त्रिष्टुभौ विकिरुद्र” इत्यादिद्वे अनुष्टुभो, सप्तानामेकरुद्रो देवता। “असंख्याता सहस्राणि” इत्यादयो दशानुष्टुभः, तासां बहुरुद्रा देवताः। “नमोऽस्तु” इत्यादीनि श्रीणि यषि , तेषां बहुरुद्वा देवताः। कलशे जपे सर्वेषां विनियोगः। शान्तिप्रकरणे मूलशान्तिप्रयोगः। २२३ बहुचचेयजमानो रुद्रैकादशिनी वा रुद्रमुक्तानि वा ऋत्विज पेत् । सामगश्चेद्यजमानो रुद्रकादशिनी वा रुद्रसामानि वा ऋत्विग्ज पेत् । उ०प०। ततः अप्रतिरथादिसूक्तजापकत्वेन वृतः “आशुः शिशान” इति अप्रतिरथं सूक्तम् ( पृ० ६२) ऋष्यादि स्मृत्वा एकादशवारं पूर्व कुम्भं चतुष्प्रस्रवणस्य पूर्वप्रस्रवणं वा स्पृशन् जपेत् । “नमस्तेरुद्र मन्यव” इति षोडशचं शतरुद्रानुवाकं [पृ० ६० ] दक्षिणकुम्भं दक्षिणप्रस्रवणं वा स्पृशन् एकादशवारं जपेत् । रक्षोहणमिति वा (संदी०प्र०१६० )“त्वंयविष्ठ दाशुष"इति (१) वा (संदी० प्र० १६३) रक्षामन्त्रं पश्चिमकुम्भं पश्चिमप्रस्रवणं वा स्पृशन् ए. कादशवारं जपेत् । रक्षोन “कृणुष्वपाज” (२) इत्यादिपञ्चर्चम् [पृ० १६८ ] उत्तरकुम्भम् उत्तरप्रस्रवणं वा स्पृशन् एकादशवारं जपेत् । मध्यकुम्भ, चतुष्प्रस्रवणस्य मध्यमुखं वा स्पृशन् अष्टोत्तर सहस्रकृत्वः त्र्यम्बकमन्त्रम् (३) “पुनन्तुमा पितरः” (8) इति पा वमानीश्च [ पृ० १६९ ] नव एकवारं जपेत् ।। [कुम्भद्वयपक्षे चतुष्पस्रवणे द्वितीयकुम्भे पञ्चमुख पञ्चकुम्भ कार्याणि । तत्र मध्यमुखे मध्यकुम्भकार्य, चतुदिग्वर्तिषु चतुर्पु प्रस्र वणेषु चतुष्कुम्भकार्याणीति विवेकः] । (१) त्वयविष्ठ” इति उशना ऋषिः गायत्रीछन्दः अग्निदेवता कलशे जपे विनियोगः। (२)“कृणुष्धपाज” इति पञ्चर्चस्य वायदेव ऋषिस्त्रिष्टुप्छन्दः अग्नि दैवता कलशे जपे विनियोगः। (३)“त्र्यम्बकं यजामहे” इति वसिष्ठ,ऋषिरतुष्टुप्छन्दः रुद्रो देवता कलशे जपे विनियोगः। (४) पुनन्तु मा पितर” इति नवर्चस्य प्रजापतिर्ऋषिः आधे द्वे अनुष्टुभौ पितरो देवता, तृतीया गायत्री अग्निदेवता, चतुर्थी अनुष्टुप देवजन-विश्वभूत-जातवेदसो देवताः, पञ्चम्याग्नेयी अग्निर्देवता, षष्ठी गायत्री अग्निब्रह्मा च देवते, सप्तमी गायत्री सोमो वायुश्च देवते, अष्टमी गायत्री सविता देवता, नवमी त्रिष्टुप् विश्वेदेवा देवताः कलशे जपे विनियोगः। २२४ परिशिष्टदीपके निक्रतिस्थापनार्थं कुम्भस्तु एभ्योऽन्य एव । “तस्योपरि न्य सेत्पात्रम्” इत्यादिना तस्य पृथग्विधानात् । एतेषां च “जपस्य पञ्च कुम्भा” इत्यादिना जपसंबन्धित्वबोधनात् । स च एतेषामुत्तरतः स्थाप्यः । तद्यथा शुद्धभूमौ चतुर्विंशतिदलं कमलं कर्णिकाकेसरान्वितं रक्तशुक्ल तण्डुलैलिखित्वा तन्मध्ये कर्णिकायां सुश्लक्ष्णं रक्तं वणवर्जितं सुवर्तुलं सुवर्ण-रजत-ताम्र-मृदन्यतमकुम्भं संस्थाप्य तत्र शतमूलानि मयूरशिखादीनि निक्षिप्य तदभावे विष्णुकान्ता-सहदे वी-तुलसी-शतावरी-कुशान् कुङ्कुमं च प्रक्षिप्य तदभावे केवला शतावरी प्रक्षिप्य पूर्णपात्रनिधानान्तं कृत्वा तदुपरि वस्त्रेऽष्टदलं सक र्णिकं विलिख्य कर्णिकायां निष्क-निष्कार्द्ध-तदर्धान्यतमघटितां यथो क्तलक्षणां मूलनक्षत्रस्वामिनिऋतिप्रतिमां सौवर्णीम् अग्न्युत्तारण पूर्वकं पञ्चामृतस्नापितां यं ते देवी निऋतिराबबन्ध पाशं ग्रीवास्ववित्यम् । तं ते विष्याम्यायुषो न मध्यादथैतं पितुमद्धि प्रसूतः॥ इति (य० सं० अ० १२॥६५) मन्त्रेण मध्ये संस्थाप्य “एतन्ते” इत्यादि पठित्वा ॐभूर्भुवःस्वः मूलनक्षत्रस्वामिनिळते इहागच्छेह तिष्ठ सुमतिष्ठितो वरदो भव १ इति निक्रति प्रतिमायां प्रतिष्ठाप्य तदक्षिणभागे अधिदैवतं ज्येष्ठानक्षत्रदेवम् ॐभू० इन्द्र इहागच्छेह तिष्ठेति इन्द्रं प्रतिमायां स्थापयेत् २ तद्वामभागे प्रत्य विदैवतं पूर्वाषाढादेवं तोयम् ॐभू०तोय इहागच्छेह तिष्ठेति प्रतिमायां स्थापयेत् ३ । तत “एतं त” इति प्रतिष्ठापयेत् ।। ततो भूमिष्ठचतुर्विंशतिदलेषु अक्षतपुञ्जान पूगफलानि वा संस्थाप्य तेषु पूर्वादीशानपर्यन्तं उत्तराषाढायनुराधान्तनक्षत्रदेवता यथाक्रमं स्थापयेत् । तत्रायं क्रमः ॐभूर्भुवःस्वः उत्तराषाढादेवाः विश्वेदेवा इहागच्छन्तु इह तिष्ठन्तु [ सुपतिष्ठिता वरदा भवन्तु ] ४ एवं ॐभूर्भुवस्वः श्रवणदेव गोविन्द इहा० ५ ॐपूर्भुवःस्वः धनिष्ठादेवाः वसवः इ० ६ ॐभूर्भुवःस्वः शतभिषग्देव वरुण इ०७ शान्तिप्रकरणे मूलशान्तिप्रयोगः। २२५ ७ भूर्भुवःस्वः पूर्वभाद्रपदादेव अजचरण० ८ ॐभूर्भुवःस्वः उत्तराभाद्रपदादेव अहिर्बुध्न्ग० ९ ॐभूर्भुवःस्वः रेवतोदेव पूषन्। १० ॐभूर्भुवःस्वः अश्विनोदेवौ दस्रौ इहागच्छतम्० ११ ॐभूर्भुवः स्वः भरणीदेव यम० १२ ॐभूर्भुवःस्वः कृत्तिकादेव अग्ने० १३ ॐ भूर्भुवःस्वः रोहिणीदेव ब्रह्मन्० १४ ॐभूर्भुवःस्वः मृग शिरोदेव चन्द्र० १५ ॐभूर्भुवःस्वः आर्द्रादेव रुद्र० १६ उ. स्प. । ॐ भूर्भुवःस्वः पुनर्वसुदेवते अदिते. १७ ॐ भूर्भुवःस्वः पुण्यदेव गुरो० १८ ॐ भूर्भुवःस्वः आश्लेषादेवाः सर्पाः इहागच्छन्तु० १९ भूर्भुवःस्वः मघादेवाः पितरः इहागच्छन्तु २० उ. प.। ॐभूर्भुवः स्वः पूर्वफल्गुनीदेव भग० २१ ॐ भूर्भुवः स्वः उत्तरफल्गुनीदेव अर्य्यमन्० २२ भूर्भुवःस्वः हस्तदेव रवे० २३ ॐभूर्भुवःस्वः चित्रादेव त्वष्टः० २४ ॐ भूर्भुवःस्वः स्वातिदेव वायो० २५ ॐभू र्भुवःस्वः विशाखादेवी इन्द्राग्नी इहागच्छतम् ० २६ ॐ भूर्भुवःस्वः अनुराधादेव मित्र इहा. २७ इति क्रमेण संस्थाप्य “एतन्ते” इत्यादि पठित्वा ॐभूर्भुवःस्वः विश्वान्देवान् आरभ्य मित्रपर्यन्ता देवताः सुप्रतिष्ठिता वरदा भवन्तु इति प्रतिष्ठापयेत् । ततो होमवेद्या ईशाने कलशविधिना कलशं संस्थाप्य तत्र ब्रह्मवरुणसहिवादित्यादिनवग्रहानधिदेवादिसहितानावाह्य(१) सर्वान् पूजयेत् । तत्र पूजासंकल्पः अद्य हेत्यादि संकीर्त्य अमुकराशिर मुकशाऽहम् अमुकराशेः पुत्रस्य मूलनक्षत्रामुकपादजननसूचिता मुकारिष्टनिवृत्तये शुभफलप्राप्तये च क्रियमाणमूलशान्तिकर्मणि सुवर्णमतिमासु अधिदेवताप्रत्यधिदेवतासहितस्य मूलाधिष्ठातृदेवस्य नितेः, चतुर्विंशतिदलस्थाक्षतपुञ्जेषु उत्तराषाढादिनक्षत्रदेवतानां विश्वदेवादिमित्रान्तानां च पूजनं करिष्ये। तथा कलशे आवाहि तानां ब्रह्मवरुणसहितादित्यादिनवग्रहाणां साधिप्रत्यधिदेवानां, लोक (१) गोप्रसवहोमस्य तन्त्रेणाचरणे प्रहकलशोत्तरता अपर कलशम् उक्तरीत्या[२४४] संस्थाप्य तत्र विषावादीनावाह्य पूर्वोक्तरीत्या पूजयेत् । सप० २२६ परिशिष्ठधीपके पालदिक्पालानां च यथामिलितोपचारैः पूजनं करिष्ये इति संकल्प्य प्रथमं निऋतिं ध्यायेद संस्मरेन्नितिं श्याम सुमुखं नरवाहनम् । रक्षोऽधिपं खड्गहस्तं दिव्याभरणभूषितम् ।। तत इन्द्रं ध्यायेद वराभयकरः साक्षाद्विभुनो रक्तवर्णकः । पद्मासनोपविष्टश्च ध्यातव्यो मघवा नरैः ॥ तोयध्यानम् पाशयुग्मधरो देवो द्विभुजः श्वेतवाहनः । ध्यातव्यस्तोयदेवस्तु मीनस्योपरि संस्थितः ॥ अन्येषां विश्वदेवादीनां नाममन्त्रैः ध्यानम् । अथ नितिम् अयं ते देवी नितिराबबन्ध पाशं ग्रीवास्ववित्यम् । तं ते विष्याम्यायुषो न मध्यादथैतं पितुमद्धि प्रसूतः॥ इति मन्त्रेण आवाहनासनादिभिः पूजयेत् । अधिदेवप्रत्य घिदेवयोस्तु ॐअधिदेवाय इन्द्राय नमः ॐप्रत्यधिदेवाय तोयाय नमः इति नाममन्त्राभ्यामावाहनादिकम् । एवम् अन्येषां च नाममन्त्रैः पूजनम् । ते यथा ॐविश्वेभ्यो देवेभ्यो नमः ॐगोविन्दाय नमः ॐवसुभ्यो नमः ॐवरुणाय नमः ॐअजचरणाय नमः ॐअहिर्बुध्न्याय नमः ॐ पूष्णे नमः ॐद ‘स्त्राभ्यां नमः ॐयमाय नमः ॐअग्नये नमः ॐब्रह्मणे नमः ॐच न्द्राय नमः ॐदाय नमः (उ. स्प.)अदितये नमः ॐगुरवे नमः ॐसर्पेभ्यो नमः ॐपितृभ्यो नमः (उ. स्प.)ॐभगाय नमः ॐ य॑म्णे नमः ॐरवये नमः ॐत्वष्ट्रे नमः ॐवायवे नमः ॐ इन्द्रा निभ्यां नमः ॐ मित्राय नमः इति सर्वेषां नाममन्त्रैः पूजनम् । एवं कलशे आदित्यादिनवग्रहाणाम् आकृष्णेनेत्यादिवेदमन्त्रैः ॐा दित्याय नमः इत्यादिनाममन्त्रैश्च पूजनम् । एवं नितिदेवं रक्त चन्दनगन्धाद्यैः कृष्णसितादिभिः पुष्प्रैश्च उक्तगन्धाधलाभे च यथाँ शान्तिप्रकरणे मूलशान्तिप्रयोगः। २२७ प्राप्तेन पूजयेत् । एवं पुष्पसमर्पणान्तं नितिम् अन्याः देवताथ पूजयेत् । [प्रधाननितिपूजायां धूपादिविशेषाः मेषशृङ्गादिधृपैश्च दीपेश्चैव विशेषतः । सुरापोलिकमांसाचैस्तथा गोरोचनादिभिः॥ मत्स्यमांससुरादीनि ब्रामणः परिवर्जये। सुरास्थाने प्रदातव्यं क्षीरं सैन्धवमिश्रितम् ।। पायसं लवणोपेतं मांसस्थाने प्रदापयेत् ।] एवं यथालाभं समर्प्य सर्वेषां देवानां नोराजनं विधाय पुष्पा अलि समर्प्य रक्षासूत्रमभिमन्य ग्रहकलशे प्रतिष्ठाप्य होमवेदीसमी पमागत्य स्वगृह्योक्तप्रकारेण ब्रह्मोपवेशनादि अर्थवत्प्रोक्षणान्तं कर्म कृत्वा सति संभवे कृष्णां गां, कृष्णतिलान् , कृष्णमनड्वाहं, वासा, सुवर्णं चोपकल्प्य पायसं (दुग्धसिद्धौदन), घरुम् (अनवस्रावितोदन) कुसरं (तिलौदन) च श्रपयित्वा पर्युक्षणान्तं कृत्वा वरदनामानम ग्निम् “एतं ते” इति प्रतिष्ठाप्य पाद्यादिनीराजनान्तं सम्पूज्य रेखा जिहाच पूजयेत् । ततो यजमानो द्रव्यत्यागं कुर्यात् __ अद्येह अमुकोऽहं सग्रहयाग (१)मूलशान्तिकर्मणा यक्ष्ये । तत्र प्रजापतिम् , इन्द्रम् , अग्निं, सोमम् अाज्येन-नवग्रहान् अष्ट संख्याभिः समिञ्चज्यतिलाहुविभि:-अधिदेवताः प्रत्यधिदेववाश्च चतुःसंख्याभिः समिञ्च,ज्यतिलाहुतिभिः-विनायकादिपञ्चलोकपा लान् इन्द्रादिदशदिक्पालांश्च द्विद्विसंख्याभिः समिदाद्याहुतिभिः(२) निऋति प्रतिद्रव्यमष्टोत्तरशतसंख्याभिः घृतमिश्रपायस-समिद्-आ ज्य-चर्वाहुतिभिः-इन्द्रम् अपश्च प्रतिद्रव्यमष्टाविंशतिसंख्याभिघृत (१) गोमुखप्रसवहोमस्यापि तन्त्रणाचरणे ‘सगोमुखासव’ इत्यपि योज्यम् । (२) तन्त्रेण गोमुखप्रसवहोमाचरणे एतदनन्तरम् विष्णुं “तद्विष्णोः” इति ऋचा श्रष्टाविंशत्यष्टान्यतरसंख्याहुतिभिः, घरुणम् “श्रीपहिष्ठा” इति तिभिः “श्रम मे सोम” इत्यनया च प्रत्युवमुकसंख्याहुतिभिः, यहाहणम् “श्रक्षीभ्याम्” इति सूक्तंन प्रत्यचमुक्कसंख्याहुतिभिः ग्रहांश्च तत्तन्मन्त्रैरुक्कसंख्याहुतिभिः मिलितदधिमवाज्यद्रव्यः” इति योज्यम्। ५२८ परिशिष्टदीपक मिश्रपायस-समिद्-प्राज्य-चर्चाहुतिभिः-विश्वदेवाद्याश्चतुर्विंशतिदेव ता अष्टसंख्याभिः पायसाहुतिभिः-रक्षोहणं “कृणुष्व इति पञ्चद शभिग्भिः ऋक्संहितोक्ताभिः प्रत्यूचमष्टसंख्याभिः कृसराहुतिभिः सवितारं दुर्गा त्र्यम्बकम् ऋत्विक्स्तुति दुर्गा वास्तोष्पतिम् अग्निं क्षेत्राधिपति मित्रावरुणौ अग्निं च अष्टसंख्याभिः कसराहुतिभि: श्रियम् “हिरण्यवर्णाम्” इति पञ्चदशभिग्भिः प्रतिमन्त्रमष्टसं ख्याभिः समिदाज्यचर्वाहुतिभिः सोमं त्रयोदशसंख्याभिः पायसाहु तिभिः-रुद्रं चतुर्ग्रहीतेनाज्येन-शेषेण स्विष्टकृतम्-अग्न्यादिप्रजापत्य न्तांश्चाज्येनाहं यक्ष्ये । इदं संपादितं पायसादिद्रव्यजातम् आघाराज्यभागदेवताभ्यः नवग्रहेभ्योऽधिदेवताभ्यः प्रत्यधिदेवताभ्यो विनायकादिलोकपालेभ्यः इन्द्रादिदिक्पालेभ्यः (१)निर्धतीन्द्र-तोय-विश्वदेव-गोविन्द-वसु वरुणाजपादहिर्बुध्न्य-पूष-दस-यमाग्नि-प्रजापतीन्दु-रुद्रादिति-गुरु सर्प-पितृ-भगार्य्यम-रवि-त्वष्ट-वायु-इन्द्राग्नि-मित्र-रक्षोहाग्नि सवित-दुर्गा-ऋत्विक्स्तुति-दुर्गा-वास्तोष्पत्यग्नि-क्षेत्राधिपति-मित्रा वरुण-अग्नि-श्री-सोम-रुद्रेभ्यः स्विष्टकृदग्नये महाव्याहृतिदेवताभ्यः सर्वप्रायश्चित्चदेवताभ्यः प्रजापतये च मया परित्यक्तम् ॐतत्सद यथादैवतमस्तु न मम इति द्रव्यदेवताभिध्यानपूर्वक द्रव्यत्यागं दक्षिणतः स्थितो विदध्यात् । ___तत आचार्यः दक्षिणं जान्वाच्य ब्रह्मणाऽन्वारब्धो मनसा प्रजापति ध्यात्वा ॐप्रजापतये स्वाहा (इदं प्रजापतये०)(२) इति हुत्वा ॐइन्द्राय स्वाहा(इदमिन्द्राय) ॐअग्नये स्वाहा (इदमग्नये.) (१)पूर्वोक्तहोमस्य तन्त्रेणाचरणे"विष्णवे घरुणाय यक्ष्मध्ने” इति निभृतेः पूर्व योज्यम्। (२) पूर्व यजमानेन त्यागस्थ कृतत्वात् पुनस्त्यागोरलेखो वाचस्प तिमिश्राद्यसंमत इति कोष्ठकेषु त्यागवाक्यानि केषांचित् पद्धतिकाराणां संमतत्वात् स्थापितानि । कचित्तु नैव स्थापितानि । पद्धतिकारेषु कृवनिर्मरैरूहानि। . . शान्तिप्रकरणे मूल शान्तिप्रयोगः। २२९ ॐसोमाय स्वाहा ( इदः सोमाय० ) इति आधारावाज्यभागौ च जुहुयात् । अथ प्रधानहोमः। त्यक्तान्वारम्भ प्राचार्यः ऋत्विभिः सह प्रथमम् आदित्यादिग्रहादिभ्यो ग्रहयागोक्तरोत्या हुत्वा (गोपसवस्य समा नतन्त्रत्वे उक्तरीत्या विष्ण्वादिभ्योऽपि हुत्वा ) अष्टोत्तरशतसंख्यया घृतमिश्रेण पायसेन, पालाशखादिरान्यतरसमिद्भिः, प्राज्येन, चरुणा च नितिमन्त्रेण जुहुयात् । (यं ते देवीति प्रजापति षिस्त्रिष्टुप्छन्दो नितिर्देवता घृतमिश्रपायसादिद्रव्यहोमे विनियोगः)। ॐ ते देवी नितिराबबन्ध पाशं ग्रीवास्वविघ्त्यम् । तं ते विष्याम्पायुषो न मध्यादथैतं पितुमद्धि प्रसूत: स्वाहा ( इदं नितये न मम ) । (१०८) । ततः अघिदेवताप्रत्यधिदेवतयोरष्टाविंशतिसंख्यया घृतमिश्र पायसादिचतुष्टयेन होमः। (इन्द्र आसामिति प्रजापतिषिनिष्ट छन्दः इन्द्रो देवता घृतमिश्रपायसादिद्रव्यहोमे विनियोगः)। ॐइन्द्रऽआसान्नेता बृहस्पतिक्षिणा यज्ञा पुरऽएतु सोमः । देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्त्वयम्-स्वाहा (इदमिन्द्राय०) । (२८)। (आपोहिष्ठेति सिन्धुद्वीप ऋषिर्गायत्रीछन्द आपो देवताः घृतमि अपायसादिहोमे विनियोगः)। ॐआपो हि ष्ठा मयोभुवस्ता न उर्जे दधातन । महे रणाय चक्षसे-स्वाहा ( इदमद्भयो०) (२८)। तत उत्तराषाढादिदेवानां नाममन्त्रैः प्रत्येकमष्टसंख्यया घृतमि भपायसेन जुहुयात् । यथा ॐविश्वेभ्योदेवेभ्यो नमः स्वाहा ८ (इदं विश्वेभ्योदेवेभ्यो०) ॐगोविन्दाय नमः स्वाहाट (इदं गोवि न्दाय०) ॐवसुभ्यो नमः स्वाहाट (इदं वसुभ्यो०) ॐवरुणाय नमः स्वाहाद (इदं वरुणाय०) ॐअजचरणाय नमः स्वाहाट (इद मजचरणाय०) ॐअहिर्बुध्न्याय नमः स्वाहा८ (इदमहिर्बुध्न्याय०) २३० परिशिष्टदीपके ॐपूष्णे नमः स्वाहा८ (इदं पूष्णे०) ॐदसाभ्यां नमः स्वाहाट (इदं दस्राभ्यां०)ॐयमाय नमः स्वाहाट (इदं यमाय०) ॐअग्नये नमः स्वाहाट (इदमग्नये०) ॐधात्रे नमः स्वाहाट (इदं धात्रे०)ॐच न्द्रमसे नमः स्वाहाट (इदं चन्द्रमसे०)शर्वाय नमः स्वाहा८ (इद: शर्वाय०)उ०प०ॐअदितये नमः स्वाहाट (इदमदितये०) ॐबृह स्पतये नमः स्वाहा८ (इदं बृहस्पतये०)सर्पेभ्यो नमः स्वाहाट (इद: सर्पेभ्यो०) ॐपितृभ्यो नमः स्वाहाट (इदं पितृभ्यो०)ॐभ गाय नमः स्वाहाट (इदं भगाय०) ॐअय्यम्णे नमः स्वाहाट (इदमयंम्णे०) ॐसवित्रे नमः स्वाहाट (इद: सवित्रे०) ॐत्वष्टे नमः स्वाहाट (इदं त्वष्ट्रे०) ॐवायचे नमः स्वाहाट (इदं वायवे.) ॐइन्द्राग्निभ्यां नमः स्वाहा ८ (इदमिन्द्राग्निभ्यां०) ॐमित्राय नमः स्वाहाट (इदं मित्राय०) इति नक्षत्रदेवताभ्यो जुहुयात् । ___अथ कृसरहोमः। (कृणुष्वेति पञ्चदशर्चस्य वामदेवऋ पिंत्रिष्टुप्छन्दो रक्षोहानिर्देवता कृसरहोमे विनियोगः)। ___ अकृणुष्व पाजः प्रसितिं न पृथ्वी याहि राजेवा. मयाँ इभेन । तृष्वीमनुप्रसितिं द्रूणानोऽस्तासि विध्य रक्षसस्तपिष्ठः-स्वाहा १ (ऋ. अष्ट.३।४।२३) इत्यनया रक्षो नेऽनयेऽष्टकृत्वो हुत्वा ॐनव भ्रमास ऽआशुया पतन्त्यनुस्पृश धृषता शोशुचानः। तपूंष्यग्ने जुह्वा पतङ्गानसन्दिनो विसृज विष्वगुल्का-स्वाहा २ इत्यनयाऽष्टकृत्वो रक्षोध्ने० हुत्वा ॐप्रतिस्पशो विसृज तुर्णितमो भवा पायुर्विशो “अस्या अदब्धः। यो नो दूरे ऽअघशंसो यो अन्त्यमे माकिष्टे व्यथिरादधर्षीत्-स्वाहा ३ इत्यनया रसोध्नेज्मयेऽष्ट कृत्वो हुवा–. . .. ॐउदग्ने लिष्ट प्रत्यातनुष्व न्यमित्रों ओषतात्ति ग्महते । यानी अराति समिधान चक्र नीचा ध. क्ष्यतसं न शुरुक-रवाहा ४ इत्यनया. रक्षोध्नेऽष्टकृत्वो हुत्वा शान्तिप्रकरणे मूलशान्तिप्रयोगः। १३१ ॐऊो भव प्रतिविध्याध्यस्मदाविष्कृणुष्व दै. व्यान्यग्ने । अवस्थिरा तनुहि यातुजूनां जामिमजामि प्रमृणीहि शत्रुन्-स्वाहा ५ इत्यनया रक्षोध्नेऽष्टकृत्यो हुत्वा ___ॐ स ते जानाति सुमतिं यविष्ठ य ईवते ब्रह्मणे गातुमैरत् । विश्वान्यस्मै सुदिनानि रायो द्युम्नान्यों विदुरोऽअभिद्यौत-स्वाहा। इत्यनया रक्षोध्नेष्टकृत्वो हुत्वा-. ॐ सेदग्नेऽअस्तु सुभगः सुदानुर्यस्त्वा नित्येन हविषा य उक्थैः। पिप्रीषति स्वऽआयुषि दुरोणे विश्वेदस्मै सुदिनासासदिष्टिः-स्वाहा। इत्यनया रक्षोनेष्टकृत्वो हुत्वा ॐ अर्चामि ते सुमतिं घोण्याक्सते वा वाताजरतामियं गीः। स्वश्वास्त्वा सुरथा मर्जयेमा स्मे क्षत्राणि धारयेरनुवून-स्वाहा ८ । इत्यनया रक्षोध्नेऽष्टकृत्वो हुत्वा ॐ इह त्वा भूर्याचरेदुपत्मन् दोषावस्तीदिवांसमनुद्यून् । क्रीळन्तस्त्वा सुमनसः सपैमाभिद्युम्ना तस्थिवांसो जनानाम्-स्वाहा। इत्यनया रक्षोनेष्टकृत्वो हुत्वा ___ॐ यस्त्वा स्वश्वः सुहिरण्यो अनउपयाति वसुमता रथेन । तस्य त्राता भवसि तस्य सखा यस्तातिथ्यमानुषग्जुजोषत-स्वाहा १०॥ इत्यनया रक्षोन्नेष्टकृत्वो हुत्वा ॐ महो रुजामि बन्धुतावचोभिस्तन्मा पितुर्गोतमादन्वियाय । त्वं नो अस्य वचसश्चिकिद्धि होतयविष्ठ सुक्रतो दमूना:-स्वाहा११॥ · इत्यनया रक्षोप्नेष्टकृत्वो हुत्वा ॐ अस्वमजस्तरणयः सुशेवा अतन्द्रासो का अश्रमिष्ठाः । ते पायवः सध्यञ्चो निषद्याग्ने तव नः पान्त्वमूर-स्वाहा १२। इत्यनया रक्षोनेऽष्टकृत्वो हुत्वा ॐ ये पायवो मामते यं ते अग्ने पश्यन्तो अन्धं दुरितादरक्षन् । ररस तान सुकृतो विश्ववेदा दिप्सन्त इद्रिपवो नाहदे ः-स्वाहा१३॥ इत्यनया रक्षोलेष्टकृत्वो हुत्वा __ॐत्वया वयं स धन्यस्त्वोतास्तव प्रणीत्यश्यामवाजान् । उमा शंसा सूदय सत्यतातेऽनुष्ठुया कृणुधहयाण-स्वाहा १४ : .

परिशिष्टदीपके इत्यनया रक्षोनेऽष्टकृत्वो हुत्वा ॐ भयाते अग्ने समिधा विधेम प्रतिस्तोमं शस्यमानं गृभाय । दहाशसो रक्षसः पाह्यस्मान् द्रुहोनिदो मित्रमहो अवद्याव-स्वाहा१५। इत्यनया च रक्षोनेष्टकृत्वः कृसरं जुहुयात् । (गायच्या विश्वामित्र ऋषिर्गायत्री छन्दः सविता देवता कृ सरहोमे विनियोगः) ॐ भूर्भुवःस्वः तत्त. प्रचोदयात्-स्वा. हा (इद: सवित्रे०) इत्यष्टकृत्वो जुहुयात् । (जातवेदस इति कश्यप ऋषिस्त्रिष्टुप्छन्दो दुर्गा देवता कृसरहोमे विनियोगः) (ऋ. अष्ट. ११७१७) ॐजातवेदसे मुनधाम सोम. मरातीयतो निदहाति वेदः । स नः पर्षदति दुर्गाणि विश्वा नविष सिन्धुं दुरिताऽस्थग्नि:-स्वाहा इत्यष्टकत्वो दुर्गायै कसरंजुहुयात् । ( त्र्यम्बकमिति वसिष्ठऋषिः अनुष्टुप्छन्दः रुद्रो देवता कुसरहोमे विनियोगः)। __ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनम् । उवा रुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात्-स्वाहा ( इदं दाय०) इत्यष्टकृत्वो रुद्राय जुहुयात् । उ० स्प० (सीरायुञ्जन्तीति सौम्यबुधऋषिर्गायत्रीछन्द ऋत्विकस्तुतिर्देवता कुसरहोमे विनि०)। . ॐनीरा युनन्ति कवयो युगा वितन्वते पृथक् । धीरा देवेषु सुन्नया-स्वाहा इत्यष्टकृत्वो ऋत्विक्स्तुतये कुसरं . जुहुयात् । ( तामग्निवर्णामिति सौभरिऋषित्रिष्टुप्छन्दो दुर्गा देवता कुसरहोमे विनियोगः) (ऋ. अष्ट. ८७॥ परि. व. ४) ॐनामग्निवर्णा तपसा ज्वलन्ती वैरोचनी कर्म फलेषु जुष्टाम् । दुर्गा देवीं शरणमहं प्रपद्ये सुतरमि. तरसे नमः सुतरमितरसे. नमः-स्वाहा इत्यष्टकृत्वो दुर्गायै जुहुयात् । (वास्तोष्पते इति वसिष्ठऋषित्रिष्टुप्छन्दो वास्तो पति देवता कसरहोमे विनियोगः)। शान्तिप्रकरणे मूलशान्तिप्रयोगः। २३३ ॐ व्यास्तोष्पते प्रतिजान ह्यस्मानस्वावेशोऽअनमी. वो भवानः। यत्त्वेमहे प्रनि तन्नो जुषस्व शं नो भव द्विपदे शं चतुष्पदे-स्वाहा इत्यष्टकृत्वो वास्तोष्पतये जुहुयात् । (अग्निमोळ इति काण्वो मेधातिथिऋषिर्गायत्री छन्दोऽग्निर्देवता कुसरहोमे विनियोगः)। (ऋ. अष्ट. १।१।१) ॐ अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् । हो तारं रत्नधातमम्-स्वाहा इत्यष्टकृत्वोऽग्नये जुहुयात् । (क्षेत्रस्येति घामदेव ऋषिरनुष्टुप्छन्दः क्षेत्रपालो देवता कृसरहोमे विनियोगः )। (ऋ० अष्ट० ३८९) __ॐ क्षेत्रस्य पातना वयं हितेनेवजयामसि । गामश्वं पोषयित्वा सनो मृळातीहशे-स्वाहा इत्यष्टकृत्वः क्षेत्रपालाय हुयात् । (गृणानेति जमदग्निऋषिर्गायत्री छन्दो मित्रावरुणो देव ते कृसरहोमे विनियोगः) । (ऋ० अष्ट० ३ । ४ । ११) __ॐ गृणाना जमदग्निना योनावृतस्य सीदतम् । पातं सोममृतावृधा-स्वाहा इत्यष्टकृत्वो मित्रावरुणाभ्यां जुह यात् । (अग्निदूतमिति विरूप ऋषिर्गायत्री छन्दोऽग्निर्देवता कृसरहोमे विनियोगः)। ॐअग्निं दूतम्पुरो दधे हव्यवाहमुपब्रुवे। देवा ।।२।। आसादयादिह-स्वाहा इत्यष्टकृत्वोजनये जुहुयात् । इति कृसरहोमः ।। अथ प्रत्यूचं श्रीसूक्तेन अष्टसंख्यया समिदाज्यचद्रव्याणि जुहुयात् । तत्र ऋण्यादयः । (हिरण्यवर्णामिति पञ्चदशर्चस्य सूक्तस्य आनन्दकर्दमचिक्लीतेन्दिरासुता ऋषयः आद्यास्तिस्रोऽनुष्टुभश्चतुर्थी प्रस्तारपङ्क्तिः पञ्चमोषष्ठयौ त्रिष्टुभौ सप्तम्यादिचतुर्दशीपर्यन्तं अनु. ष्टुभः पञ्चदशी प्रस्तारपङ्क्तिः सर्वमन्त्राणां श्रीदेवता प्रत्याचं समि दाज्यचरुहोमे विनियोगः) (ऋ० अष्ट० ४। परि०) ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् । चन्द्रां हिरण्मयीं लक्ष्मी जातवेदो म ऽभावह-स्वाहा १ ॥ २६ प० २३४ परिशिष्टदापके अष्टकृत्वः श्रियै समिदाज्यचख्न जुहुयात् । ॐ ताम्म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम्-स्वाहा।अष्टकृत्वः० ॐ अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् । श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम्-स्वाहा ३ । अष्टकृ० ॐ का सोस्मितां हिरण्यप्राकारामार्दा ज्वलन्ती तृप्तान्तर्पयन्तीम् । ___ पद्मे स्थितां पद्मवर्णा तामिहोपह्वये श्रियम्-स्वाहा४।अष्टक० ॐ चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् । तां पानीमी शरणं प्रपद्येऽलक्ष्मीम्र्मे नश्यतां त्वां वृणोमि-स्वाहा५५० ॐ आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ विल्वः । तस्य फलानि तपसा नुदन्तु मायाऽन्तरा याश्च बाह्याऽअलक्ष्मो: स्वाहा ६ अ० ॐ उपैतु मां देवसखः कीर्तिश्च मणिना सह । प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन्कोर्तिमृद्धिं ददातु मे-स्वाहा७ । अष्टः ॐ चुत्पिपासामला ज्येष्ठामलक्ष्मी नाशयाम्यहम् । अभूतिमसमृद्धिं च सा निर्णद मे गृहात्-स्वाहा ८ । अष्ट० ॐ गन्धद्वारा दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरी सर्वभूतानां तामिहोपह्वये श्रियम् -स्वाहा है । अष्ट. ॐ मनसः काममाकूति वाचः सत्यमशीमहि । पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः-स्वाहा १० । अष्ट० ॐ कर्दमेन प्रजा भूता मयि सम्भव कर्दम । श्रियं वासय मे कुले मातरं पद्ममालिनीम्-स्वाहा ११।अष्ट० ॐ आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहै। नि च देवीं मातरं श्रियं वासय मे कुले-स्वाहा १२ । अष्ट० ॐ आर्द्रा पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् । चन्द्रां हिरण्मयीं लक्ष्मी जातवेदो म आवह-स्वाहा१३।अष्ट. ॐ आर्द्रा याकरिणीं यष्टीं सुवर्णा हैममालिनीम् । सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो मावह-स्वाहा१४ अष्ट. . शान्तिप्रकरणे मूलशान्तिप्रयोगः। २३५ ॐ ताम्म ऽश्रादह जातवेदो लक्ष्मीपनपगामिनीम् । यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पुरुषानहम् स्वाहा १५ इति चाष्टकृत्यः समिदाज्यचरून् श्रियै जुहुयात् । इति पञ्चदशहोमः ॥ ततः पायसेन सोमं त्रयोदशसंख्यया जुहुयात्-( स्वनः सोम विश्वतो गोपा इति ऐन्द्रो विमद ऋषिः प्रास्तारपक्तिश्छन्दः सोमो देवता पायसहोमे विनियोगः) (ऋ० अष्ट ७७/१२) ॐ त्वन्नः सोम विश्वतो गोपा अदाभ्यो भव । सेघराजन्नपनिधो विवोपदे मानो दुःशंस इंशनाविव क्षसे-स्वाहा ॥ (यातेरुद्रेति प्रजापतिर्ऋषिरनुष्टुप्छन्दः एकदो देवता चतुर्मू हीताज्यहोमे विनियोगः ) स्रुचि जुवेण चतुराज्यं गृहीत्वा ॐ याते रुद्र शिवा तनूरघोराऽपापकाशिनी । तया नस्तन्वा शन्तमया गिरिशन्ताभिचाकशीहि-स्वाहा इति रुद्राय होमं विधाय अन्वारब्ध प्राचार्य: चरु-पायस-कृसराज्यसमिद्भिः ॐ अग्नये स्विष्टकृते स्वाहा (इदमनये स्विष्टकृते०) इति स्विष्टकृद्धोमं कुर्यात् । ततो भूरादिनवाहुतिहोमः । ( व्याहृतीनां प्रजापतिक्रषिः गायत्र्युष्णिगनुष्टुभश्छन्दांसि अग्निवायुसूर्या देवताः प्रायश्चित्तहोमे विनियोगः) ॐ भूः स्वाहा ( इदमनये०) ॐ भुवः स्वाहा ( इदं वायवे०) ॐ स्वः स्वाहा ( इदा सूयि० ) ( त्वं नो ऽअग्ने स त्वं नो अग्ने इत्यनयोर्वामदेव ऋषिस्त्रिष्टुप्छन्दः अग्नीवरुणो देवते । अयाचाग्ने इत्यस्या वामदेव ऋषिस्त्रिष्टुप्छन्दः अग्निर्देवता। ये ते शतम् इति वामदेव ऋषिस्त्रिष्टुप्छन्दो वरुणो देवता । उदुत्तमम् इति शुनाशेप ऋषित्रिष्टुप्छन्दः वरुणो देवता। सर्वेषां सर्वप्रायश्चित्तहोमे विनियोगः) ॐ त्वन्नो ऽअग्ने व्वरुणस्य विद्वान्देवस्य हैंडो ऽअवयासिसीष्ठाः । पार २३६ परिशिष्टदीपक यजिष्ठो व्यतितमः शोशुचानो विश्वा द्वेषासि प्रमुमुग्ध्यस्मत स्वाहा (इदमग्नीवरुणाभ्यां०) ॐ स वनो अग्नेऽवमो भवोऽती नेदिष्ठो ऽअस्या उषसो व्युष्टौ । अव यक्ष्व नो वरुण: रराणो वीहि मृडीक: सुहवो न sएघि स्वाहा (इदमग्नीवरुणाभ्यां०) ॐअयाश्चाग्नेऽस्यनभिशस्तिपाश्च सत्यमित्त्वमयाऽअसि । अया नो यज्ञ व्वहास्यया नो धेहि भेषन स्वाहा (इदमग्नये०) ॐये ते शतं वरुण ये सहसं यज्ञियाः पाशा बितता महान्तः। तेभिन्नॊऽअद्य सवितोत विष्णुविश्वे मुश्चन्तु मरुतः स्वर्णाः स्वाहा (इदं वरुणाय सवित्रे विष्णवे विश्वेभ्योदेवेभ्यो मरुद्भयः स्वर्केभ्यश्च०) ॐ उदुत्तमं वरुण पाशमस्मदवाधर्म विमध्यम श्रथाय । अथा बयमादित्य व्रते तवानागसोऽअदितये स्याम-स्वाहा (इदं वरुणाय०)ॐ प्रजापतये स्वाहा ( इदं प्रजापतये०)। बहिर्होमः । संस्रवप्राशनम् । पवित्रप्रतिपत्तिः। प्रणीताविमोकः । ततो यजमानो ब्रह्मणे पूर्णपात्रम् अद्येहेत्यादि संकीयं अमुको ऽहं मूलशान्तिकाङ्गहोमकर्मणः साङ्गफलप्राप्तये साद्गुण्यार्थम् अपू र्णपूरणार्थं च सद्रव्यं पूर्णपात्रं ब्रह्मणे तुभ्यं सम्प्रददे इति संकल्प्य दद्यात् । मन्त्रपाठः ॐ अक्रन्कर्म कर्मकृतः सह व्वाचा मयोभुवा । देवेभ्यः कर्म कृत्वाऽस्तं प्रेत सचाभुवः ॥ तत आदित्यादिनवग्रहेभ्यः अधिदेवताभ्यः प्रत्यधिदेवताभ्यः विनायकादिपञ्चलोकपालेभ्य इन्द्रादिदशदिक्पालेभ्यः वास्तोष्पतये च ग्रहयागप्रयोगोक्तरीत्या पायस-दध्यक्षतान्यतरबलीन् दत्त्वा __ॐ नितये साङ्गाय सपरिवाराय सायुधाय सश क्तिकाय एष सदीपा पायस(दध्यक्षत)वलिनमः। इति बलिं समय इस्ते जलं गृहीत्वा भोभो निऋते एतं सदीपं पायस( दध्यक्षत बलिं गृहाण मम शान्तिप्रकरणे मूल शान्तिप्रयोगः। २३७ सपरिवारस्य यजमानस्य आयुष्कर्ता क्षेमकर्ता शान्ति कर्ता तुष्टिकर्ता पुष्टिकर्ता भव इति बल्युपरि विसृजेन । ॐ इन्द्राय नमः । भोभो इन्द्र०। ॐ अद्धयः साङ्गाभ्यः सपरि वाराभ्यः सायुधाभ्यः सशक्तिकाभ्यः नमः । भोभो श्रापः गृहीत. आयुष्कर्य:० भवत । ॐ विश्वेभ्योदेवेभ्यः० नमः । भोभो विश्वे. देवाः० गृह्णीत० आयुष्कर्तारः । ॐ विष्णवे नमः भोभो विष्णो। ॐवसुभ्यः नमः। भोभो वसवः। ॐवरुणाय नमः। भोभोवरुण ॐ अनचरणाय नमः । भोभो अजवरण । ॐ अहिबुन्याय० नमः । भोभो अहिर्बुध्न्यः । ॐ पूरणे० नमः । भोभोः पूषन् । ॐ अश्विभ्यां नमः । भोभो अश्विनौ० । ॐ यमाय नमः ! भोभो यमः। ॐ अग्नये नमः । भोभो अग्ने० । ॐ धात्रे नमः। भोभो धात:। ॐचन्द्राय नमः। भोभोः चन्द्र० । ॐरुद्राय नमः। भोभो रुद्र०उ०प० । ॐअदितये साङ्गायै नमः। भोभो अदिते. आयुष्क/० । ॐगुरवे नमः । भोभोगुरोः । ॐ सर्पेभ्यः० नमः। भोभोः सर्पाः । ॐपितृभ्यः० नमः । भोभोः पितरः । ॐभगायः नमः । भोभो भगः । ॐ अर्यम्णे० नमः । भोभो अर्यमन् । ॐ सवित्रे नमः। भोभोः सवितः । ॐ त्वष्ट्र० नमः । भोभी स्त्वष्टः । ॐ वायवे० नमः । भोभो वायो। ॐ इन्द्राग्निभ्यां साङ्गाभ्यां नमः । भोभो इन्द्रामी० गृहीतम् आयुष्कर्तारौ । ॐ मित्राय नमः । भोभो मित्र० । ॐरुद्राय नमः । भोभो रुद्र० । एवं निर्ऋत्यादिभ्यो बलीन् दत्त्वा उदकस्पर्श कृत्वा क्षेत्रपा लाय सदीपमाषभक्तबलिं यथाविधि उकरीत्या दद्यात् । ___ ततः पूर्णाहुतिं यजमानो वा आचार्यो वा समुद्रादू मिरित्या दिमन्त्रैः सुवेण द्वादशधा चतुर्षा वा स्रुचि गृहीतेनाज्येन जुहुयात् । तत्र संकल्प:-अयेहामुकोऽहं पुत्रस्य मूलनक्षत्रजननशान्तिहोमकर्मणः न्यूनातिरिक्तपरिहारार्थं मृडनामाग्नौ पूर्णाहुतिहोम करिष्ये । नारि २३८ परिशिष्टदीपके केलं पूगीफलं वा रक्तवस्त्रसहितं कृत्वा नुवं खुचं च सम्पूज्य जुहु यात् । होममन्त्राः समुद्रादूमिरिति एकादशर्चस्य सूक्तस्य वामदेवऋषिः श्राद्या दश त्रिष्टुभः अन्त्या जगती अग्निर्देवता । प्रजापते न त्वदिति हिरण्य गर्भऋषिसिन्टुप्छन्दः प्रजापतिर्देवता । पूर्णादर्वीति और्णनाभ ऋषिर नुष्टुप्छन्दः इन्द्रो देवता । सप्ततेऽअग्ने इति सप्तर्षय ऋषयस्त्रिष्टुप्छन्दः अग्निर्देवता। मूर्धानमिति भरद्वाज ऋषित्रिष्टुप्छन्दः वैश्वानरो देवता। सर्वेषां पूर्णाहुतिहोमे विनियोगः। ॐ समुद्रादम्मिम्मधुमॉ२।। उदारदुपाशुना सममृतत्वमानट। घृतस्य नाम गुह्यं यदस्ति जिह्वा देवानाममृतस्य नाभिः १ व्वयं नाम प्रबवामा घृतस्यास्मिन्यज्ञे धारयामा नमोभिः। उप ब्रह्माणवच्छस्यमानं चतु:शृङ्गोऽवमोद्गौरऽएतत् २ चत्वारि भृङ्गा त्रयोऽअस्य पादा द्वे शोर्षे सप्त हस्तासोऽअस्य । त्रिधा बद्धो वृषभो रोरवीति महोदेवो मया २॥ आविवेश ३ त्रिधा हितं पणिभिर्गुह्यमानं गवि देवासो धृतमन्वविन्दन् । इन्द्र एकठसूर्य एक जजान वेनादेक स्वधया निष्टतनुः ४ एता अर्षन्ति हृद्यात्समुद्राच्छतवना रिपुणा नावचक्षे । घृतस्य धाराऽअभिचाकशोमि हिरण्ययो व्वेतसो मध्यऽअासाम् ५ सम्यक्त्रवन्ति सरितो न घेनाऽअन्तर्हदा मनसा पूयमानाः। एतेऽअर्षन्त्यूमयो घृतस्य मृगा इव क्षिपणोरीषमाणाः ६ सिन्धोरिव प्राध्वने शूधनासो व्वातप्रमियः पतयन्ति यहाः। घृतस्य धाराऽअरुषो न वाजी काष्ठा भिन्दन्नर्मिभिः पिन्वमानः । अभिप्रवन्त समनेव योषाः कल्याण्यः स्मयमानासो ऽअग्निम् । घृतस्य धाराः समिधो नसन्त ता जुषाणो हर्यति जातवेदाः ८ कन्या ऽइव बहतु मेतवा उ अञ्ज्यञ्जाना अभिचाकशीमि । यत्र सोयः सूयते यत्र यज्ञो घृतस्य धाराऽअभि तत् पवन्ते है अभ्यर्षत सुष्टुतिं गव्यमाजिमस्मासु भद्रा द्रविणानि धत्त । इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत्पवन्ते १० शान्तिप्रकरणे भूलशान्तिप्रयोगः। २३९ धामन्ते विश्वं भुवनमधिश्रितमन्तःसमुद्रे हृयन्तरायुपि । अपामनीके समिथे यऽाभृतस्तमश्याम मधुमन्तं त ऊर्मिम् ११ प्रजापते न त्वदेतान्यन्यो विश्वा रूपाणि परि ता बभूव । यकामास्ते जुहुमस्तमो ऽअस्तु वयस्याम पतयो रयीणाम् १२ पूर्णा दवि परापत सुपूर्णा पुनरापत । वस्नेव विक्रोणावहा इषसूज: शतक्रतो १३ सप्त तेऽअग्ने समिधः सप्त जिहाः सप्त ऋषयः सप्त धाम प्रियाणि । सप्त होत्राः सप्तधा त्वा यजन्ति सप्त योनीरापृणस्व धृतेन १४ मूर्धानं दिवो ऽअरतिं पृथिव्या ब्वैश्वानरमृत ऽआजातमग्निम् । कविः सम्राजमतिथिं जनानामासन्ना पात्रं जनयन्त देवाः-स्वाहा१५ इति मन्त्रैः वैश्वानरायाग्नये पूर्णाहुति हुत्वाग्नि मेधां प्रार्थ येत् ॐ सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् । सनिम्मेधामयासिष स्वाहा १ याम्मेषां देवगणाः पितरथोपासते । तया मामद्य मेधयाऽग्ने मेधाविनं कुरु स्वाहा २ मेघां मे व्वरुणो ददातु मेघामग्निः प्रजापतिः। मेधामिन्द्रश्च व्वायुश्च मेधां धाता ददातु मे स्वाहा ३ श्रद्धां मेघां यशः प्रज्ञां विद्यां पुष्टिं बलं श्रियम् । आयुज्यं द्रव्यमारोग्यं देहि मे हव्यवाहन ४ इति । ॐ तनूपा अग्नेऽसि तन्वं मे पाहि। ॐ आयुर्दा अग्नेऽस्यायुमें देहि। ॐ वक़दा अग्नेऽसि बों मे देहि । ॐ अग्ने यन्मे तन्वा ऽऊन तन्म ऽश्रापृण । __ॐ मेघों मे देवः सविता आदधातु । ॐ मेघों मे देवी सर स्वती आदधातु । ॐ मेधामश्विनौ देवावायत्तां पुष्कररजौ ___ इति सप्तभिर्मन्त्रैः प्रतिमन्त्रं ललाटाञ्चिबुकपर्यन्तं मुखं पाणि प्रतपनपूर्वक माजयेत् । ॐअङ्गानि च म आप्यायन्ताम् इति सर्वाङ्गान्युपस्पृशेत् । ॐ वाक् च म ऽआप्यायतामिति मुखे । ॐ प्राणश्च म ऽआप्यायता AIL- T1 २४० परिशिष्टदीपके मिति नासिकायाम् । ॐ चक्षुश्च म आप्यायतामिति नेत्रयोः। ॐ श्रोत्रं च म आप्यायतामिति श्रोत्रयोः। ॐयशो बलं च म ऽश्रा प्यायतामिति बाहोः उ०प० । ततस्त्र्यायुषकरणं भस्मना ॐ व्यायुषं जमदग्नेः इति ललाटे । ॐ कश्यपस्य त्र्यायुषम् इति ग्रीवायाम् । ॐ यद्देवेषु व्यायुषम् इति दक्षिणांसे। ॐ तन्नोऽअस्तु व्यायुषम् इति हृदि । ॐ व्यायुषं जमदग्नेः कश्यपस्य व्यायुषम् । यदेवेषु व्यायुषं तन्नोऽअस्तु व्यायुषम् - इति सर्वाङ्गमालमेत। ततः चतुष्कुम्भमध्यवर्तिनः कुम्भस्य, चतुष्प्रस्रवणकुम्भमध्य मुखस्य वा दक्षिणतः स्पृष्ट्वा रुद्रकादशिनी, शतवारं त्र्यम्बकमन्त्रं च जपेत् । ततो रुद्रं निति ग्रहादींश्च पञ्चोपचारैः पूजयेत् ।। ततः प्राङ्गणे शान्तिमण्डपस्योचरतः कल्पिते स्नानमण्डपे गोम योपलिप्तदेशे स्वस्तिकादिशोभितश्रोपादिपीठं संस्थाप्य तत्र नव्य वस्त्रं प्रसायं तत्रोपविष्टः पुत्रपन्नीसहितो यजमानः शङ्खवाद्यादिर जायमाने मङ्गलगीतानि शृण्वन् स्नानसंकल्पं कुर्य्याद–अद्येहेत्यादि संकीर्त्य सपुत्रः सपत्नीकोऽहं मम पुत्रस्य मूलनक्षत्रामुकपादजननसू चितारिष्टनिवृत्तये शुभफलमाप्तये च अभिषेकमन्त्रैर्य ज्ञान्तस्नानं करिष्ये। ततो दारपुत्रसहितस्य सर्वोषधीभिरनुलिप्ताङ्गस्य धृतनू तनववस्य प्राङ्मुखस्योदङ्मुखस्य वा यजमानस्य शिरसि आचा व्दयो ब्राह्मणाः “य ते देवी"इति निर्ऋतिं व्यम्बकमिति रुदञ्चो पस्थाय सर्वकलशोदकं पात्रान्तरे कृत्वा उत्थाय वक्ष्यमाणमन्त्रैर भिषेकं कुर्युः। तत्र मन्त्राणां संग्रह उच्यते (अक्षीभ्यामिति सूक्तेन पावमानीभिरेव च । आपोहिष्ठेति नवभिर्यत इन्द्रद्वयेन च १ । सहस्राक्षतचेनापि देवस्यत्वेति मन्त्रकैः। शिवसंकल्पमन्त्रेण वक्ष्यमाणैश्च मन्त्रकैः २ । शान्तिप्रकरणे मूलशान्तिप्रयोगः २४१ तच्छंयोरभिषेकं तु सर्वदोपोपशान्तिदम् । इति ।) ॐअक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुचुकादधि । यक्ष्मं शीर्षण्यं मस्तिष्काजिह्वाया विहामि ते १ । ग्रोवाभ्यस्त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात् । यक्ष्म दोषण्यमंसाभ्यां बाहुभ्यां विहामि ते २! प्रान्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोहृदयादधि । यक्ष्म मतस्नाभ्यां यतः प्लाशिभ्यो विवहामि ते ३। ऊरुभ्यान्ते अष्ठीवद्भया पाणिभ्यां प्रपदाभ्याम् । यक्ष्म श्रोणिभ्यां भासदाससो विहामि ते ४ । मेहनादनंकरणालोमभ्यस्ते नखेभ्यः। यक्ष्म सर्वस्मादात्मनस्तमिदं विहामि ते ५। अङ्गादङ्गाल्लोनोलोनो जातं पर्वणिपणि । यक्ष्मं सर्वस्मादात्मनस्तमिदं विहामि ते ६ । ॐ पुनन्तु मा पितरः सोम्यासः पुनन्तु मा पितामहाः। पुनन्तु प्रपितामहाः पवित्रेण शतायुषा ॥ ७॥ पुनन्तु मा पितामहाः पुनन्तु प्रपितामहाः। पचित्रेण शतायुषा विश्वमायुयश्नवै ॥ ८॥ अनऽआयूषि पवसऽासुवोर्जमिषं च नः। आरे बाधस्वदुच्छुनाम् ।। पुनन्तु मा देवजनाः पुनन्तु मनसा घियः । पुनन्तु विश्वा भूतानि जातवेदः पुनीहि मा ॥१०॥ पवित्रेण पुनीहि मा शुक्रण देव दीयत् । अग्ने क्रत्वा क्रतूंशारनु११ यत्ते पवित्रमर्चिष्यग्ने विततमन्तरा । ब्रह्म तेन पुनातु मा१२ पवमानः सोऽअद्य नः पवित्रेण विचर्षणिः। य: पोता स पुनातु मा१३ उभाभ्यां देव सवितः पवित्रेण सवेन च । मां पुनीहि विश्वतः १४ वैश्वदेवी पुनती देव्यागाद्यस्यामिमा बयस्तन्वो ब्बीतपृष्ठाः । तया मदन्तः सधमादेषु व्वयस्याम पतयो रयीणाम् १५ (ऋ० अष्ट० ७।६।५) ॐआपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन । महे रणाय चक्षसे१६ ३०प०२४२ परिशिष्टदीपके यो वः शिवतमो रसस्तस्य भाजयतेह नः । उशतीरिव मातरः१७ तस्मा ऽअरं गमाम बो यस्य क्षयाय जिन्वथ। आपो जनयथा च नः१८ शं नो देवीरभिष्टय ऽआपो भवन्तु पीतये । शं योरभि स्रवन्तु नः १९ ईशाना वार्याणां क्षयन्तीश्चर्षणीनाम् । अपो याचामि भेषजम् २० अप्सु मे सोमोऽअब्रवीदन्तर्विश्वानि भेषजा। अग्निं च विश्वशंभुवम् २१. आपः पृणीत भेषजं वख्यं तन्वे ३ मम । ज्योक्च सूर्य दृशे २२ इदमापः प्रवहत यत्किं च दुरितं मयि । यद्वाहमभिद्रुद्रोह यद्वा शेप ऽउतानृतम् ॥ २३॥ आपो ऽअद्यान्वचारिषं रसेन समगस्महि । पयस्वानग्न डा गहि तं मा संसृज वर्चसा २४ (ऋ० अष्ट०६।४। ३८) ॐ यत इन्द्र भयामहै ततो नो अभयं कृधि । मघवञ्छन्धि तव तन्न ऊतिभिर्विद्विषो विमृषो जहि २५ त्वं हि राधस्पते राधसो महः क्षयस्यासि विधतः । तं त्वा वयं मघवनिन्द्र गिर्वणः सुतावन्तो हवामहे २६ (ऋ० अष्ट०८1८१९) ॐ सहस्राक्षेण शतशारदेन शतायुषा हविषा हार्षमेनम् । शतं यथेमं शरदो न यातीन्द्रो विश्वस्य दुरितस्य पारम् २७ शतञ्जीव शरदो वर्द्धमानः शतं हेमन्ताञ्छतमु वसन्तान् । शतमिन्द्रानो सविता बृहस्पतिः शतायुषा हविषेमं पुनर्दुः २८ आहापं त्वा विदन्वा पुनरागाः पुनर्नव । सर्वाङ्ग सर्वं ते चक्षुः सर्वमायुश्च तेविदम् २९ ॐ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् । सरस्वत्यै व्वाचो यन्तुर्यन्त्रिये दधामि बृहस्पतेष्ट्वा साम्राज्येना भिषिञ्चामि ३० देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् । सरस्वत्यै व्याचो यन्तुर्य्यन्त्रेणाग्नेः साम्राज्येनाभिषिञ्चामि ३१ देवस्य त्वा सवितुः प्रसवेऽश्विनो हुभ्यां पूष्णो हस्ताभ्याम् । शान्तिप्रकरणे मूलशान्तिप्रयोगः। २४३ अश्विनोभैषज्येन तेजसे ब्रह्मवर्चसायाभिषिञ्चामि ३१ देवस्यत्वा० सरस्वत्यै भैषज्येन व्वोर्यायान्नाधायाभिषिञ्चामि ३३ देवस्यत्वा० इन्द्रस्येन्द्रियेण बलाय श्रियै यशसेऽभिषिञ्चामि ३४ ॐ यज्जाग्रतो दूरसुदैति दैवन्तदु सुप्तस्य तथैवैति । दूरङ्गमञ्ज्योतिषाज्योतिरेकं तन्मे मनः शिवसंकल्पमस्तु ३५ येन काण्यपसो मनीषिणो यज्ञे कृण्वन्ति विदथेषु घोराः। यदपूर्व यक्षमन्तः प्रजानान्तन्मे मनः शिवसङ्कल्पमस्तु ३६ यत्मज्ञानमुत चेतो धृतिश्च यज्ज्योतिरन्तरमृतं प्रजासु । यस्मानऋते किंचन कर्म क्रियते तन्मे मनः शिवसंकल्पमस्तु ३७ येनेदं भूतम्भुवनम्भविष्यत्परिगृहीतममृतेन सर्चम् । येन यज्ञस्तायते सप्तहोता तन्मे मनः शिवसंकल्पमस्तु ३८ यस्मिन्नृचः साम यजूऽपि यस्मिन्मतिष्ठिता रथनाभाविवाराः । यस्मिंश्चिचा सर्चमोतम्मजानान्तन्मे मनः शिवसङ्कल्पमस्तु ३९ सुषारथिरश्वानिव यन्मनुष्यानेनीयतेऽभीशुभिर्वाजिन इव । हृत्पतिष्ठं यदजिरञ्ज विष्ठं तन्मे मनः शिवसङ्कल्पमस्तु ४० (का० हौत्रपरि० अ० १ । ०६) ॐ तच्छय्योरावृणीमहे गातुं यज्ञाय गातुं यज्ञपतये । दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः। ऊचं निंगातु भेषजः शन्नो ऽअस्तु द्विपदे शं चतुष्पदे(१) ४१ (ऋ० अष्ट० ५।४।१६) ॐ समुद्रज्येष्ठाः सलिलस्य मध्यात्पुनाना यन्त्यनिविशमानाः। इन्द्रो या वज्रो वृषभो रराद ता आपो देवीरिह मामवन्तु ४२ (१) यद्यपि शिवसंकल्पमन्त्रानन्तरं “वक्ष्यमाणैश्च मन्त्रकैः” इति वक्ष्य माणत्वेन निर्दिष्टा: “योऽसौवज्रधरोदेवः” इत्यादयो वक्ष्यमाणा मन्त्रा निर्देष्टुमुचिताः तथापि वैदिकत्वेन प्राधान्यात् शंयुवाकमन्त्रं प्रकरणान्तर निर्दिष्टान् समुद्रज्येष्ठा इत्यादींश्च निर्दिश्य तत उपस्थितान् “सुरास्त्वाम मिषिश्चन्तु” इत्यादींश्च निर्दिश्य"योऽसौ बज्रधरोदेवः” इत्यादयः ‘मूलजा तशिशुदोषनिवृत्तिप्रार्थनारूपा मन्त्रा अन्ते निर्देशाही’ इति अन्ते निर्देश्यन्ते। १४४ परिशिष्टदीपक या आपो दिव्या उत वा स्रवन्ति खनित्रिमा उतवा या:स्वयं जाः। समुद्रार्था याः शुचयः पावकास्ता आपो देवीरिह मामवन्तु ४३ यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यन्जनानाम् । मधुश्चुतः शुचयो याः पावकास्ता आपो देवीरिह मामवन्तु ४४ यासु राजा वरुणो यासु सोमो विश्वेदेवा यासूज मदन्ति । वैश्वानरो यास्वग्निः प्रविष्टस्ता आपो देवीरिह मामवन्तु ४५ स्वस्तिन इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः। स्वस्ति नस्तायो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ४६ पयः पृथिव्यां पयऽओषधीषु पयो दिव्यन्तरिक्ष फ्यो धाः। पयस्वतीः प्रदिशः सन्तु मह्यम् ४७ विष्णो रराटमसि विष्णोः श्नप्त्रे स्थो विष्णोः स्यूरसि विष्णोध्रुवोऽसि । ब्वैष्णवमसि विष्णवे त्वा ४८ अग्निदेवता व्वातो देवता मूर्यो देवता चन्द्रमा देवता व्वसवो देवता रुदा देवताऽऽदित्या देवता मरुतो देवता विश्वेदेवा देवता बृहस्पतिर्देवतेन्द्रो देवता वरुणो देवता ४६ मूर्द्धाऽसि राड ध्रुवासि धरुणा धय॑सि धरणी। आयुषे त्वा व्वर्चसे त्वा कृष्य त्वा क्षेमाय त्वा ५० द्यौः शान्तिरन्तरिक्ष शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिर्वनस्पतयः शान्तिविश्वेदेवाः शान्तिब्रह्म शान्तिः सर्व शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि ५१ विश्वानि देव सवितदुरितानि परासुव । यद्भद्रं तन्न आसुव ५२ अथ पौराणिकमन्त्राः । तत्रादौ मात्स्योक्ताः सर्वे समुद्राः सरितस्तीर्थानि जलंदा नदाः। आयान्तु यजमानस्य दुरितक्षयकारकाः॥ सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः । वासुदेवो जगन्नाथस्तथा संकर्षणो विभुः १ प्रद्युम्नश्वानिरुद्धश्च भवन्तु विजयाय ते । आखण्डलोऽग्निर्भगवान्यमो वै निर्गतिस्तथा २ । २४५ शान्तिप्रकरणे मूलशान्तिप्रयोगः। वरुणः पवनश्चैव धनाध्यक्षस्तथा शिकः । ब्रह्मणा सहिताश्चैव दिक्पालाः पान्तु वः सदा ३ कीर्तिर्लक्ष्मोतिम्र्मेधा पुष्टिः श्रद्धा क्रिया मतिः । बुद्धिलजा वपुः शान्तिस्तुष्टिः कान्तिश्च मातरः ४ एतास्त्वामभिषिञ्चन्तु धर्मपल्यः समागताः। आदित्यश्चन्द्रमा भौमो बुधजीवसितार्कजाः ५ ग्रहास्त्वामभिषिञ्चन्तु राहुः केतुश्च पूजिताः । देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ६ ऋषयो मनवो गावो देवमातर एव च । देवपल्यो द्रुमा नागा दैत्याचाप्सरसां गणाः ७ अस्त्राणि सर्वशस्त्राणि राजानो वाहनानि च । औषधानि च रत्नानि कालस्यावयवाश्च ये ८ सरितः सागराः शैलास्तीर्थानि जलदा नदाः। एते त्वामभिषिश्चन्तु सर्वकार्यार्थसिद्धये ९ अथ शौनकोक्तरेष्टदिक्पालमन्त्रैरभिषेक:- . योऽसौ वज्रधरो देवो महेन्द्रो गजवाहनः । मूलजातशिशोर्दोष मातापित्रोद्यपोहतु १ योऽसौ शक्तिधरो देवो हुतभुम्मेषवाहनः । सप्तजिहः स देवोऽग्निर्मूलदोषं व्यपोहतु २ योऽसौ दण्डधरो देवो धर्मो महिषवाहनः । मृलजातशिशोर्दोषं मातापित्रोळपोहतु ३ योऽसौ खड्गधरो देवो निती राक्षसाधिपः । प्रशामयतु मूलोत्थं दोषं गण्डान्तसम्भवम् ४ योऽसौ पाशधरो देवो वरुणश्च जलेश्वरः। नक्रवाहः प्रचेता नो मूलोत्था, व्यपोहतु ५ योऽसौ देवो जगत्माणो मारुतो मृगवाहनः । प्रशामयतु मृलोत्यं दोष बालस्य शान्तिदः ६ योऽसौ निधिपतिर्देवो गदाभृन्नरवाहनः । परिशिष्टदीपके मातापित्रोः शिशोश्चैव मूलदोषं व्यपोहतु ७ योऽसाविन्दुधरो देवः पिनाकी वृषवाहनः । आश्लेषामूलगण्डान्तदोषमाशु व्यपोहतु ८ विघ्नेशः क्षेत्रपो दुर्गा लोकपाला नवग्रहाः । सर्वदोषप्रशमनं सर्वे कुर्वन्तु शान्तिदाः ॥ ___ॐ शांतिरस्तु पुष्टिरस्तु वृद्धिरस्तु यच्छ्रेयस्तदस्तु रोगः शोकः कष्टं दुःखं दारिद्रयं तत् दूरे प्रतिहतमस्तु ॐ भूर्भुवः स्वः अमृताभि षेकोऽस्तु इत्यभिषेक कृत्वा सपुत्रं सपत्नीकं यजमानं कलशजलेन सहस्रधारोधृतेन स्नापयेयुः । स्नातो यजमानश्च शुक्लाम्बरधरो भूत्वा ऋक्संहितोक्तन रूपंरूपमिति मन्त्रेण घृते छायादर्शनं कुर्यात् । मन्त्र: ॐरूपंरूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय । इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शतादश ।। इति । ततः स्नानवस्त्राणि आचार्याय समयं सुमुहर्ते गीतवाद्य शङ्खरखे जायमाने ( शान्तिपाठं ) स्वस्तिवाचनं पठत्सु विप्रेषु पुत्रमुखं पश्यन् अङ्गादङ्गात्सम्भवसि हृदयादधिजायसे । श्रात्मा वै पुत्रनामासि स जीव शरदः शतम् ।। इति मन्त्रेण पुत्रं स्वाङ्के निधाय गोदानादिसंकल्पं कुर्य्याव अधेहेत्यादि संकीर्त्य अमुकराशिरमुकशा सपुत्रसपरिवारोऽहं मम पुत्रस्यास्य मूलनक्षत्रामुकपादजनिसूचितारिष्टनिवृत्तिपूर्वकशुभफल प्राप्तये सर्वोपद्रवशान्त्यर्थं शौनकोक्तमकारेणानुष्ठितस्य मूलशान्तिक मणः साङ्गफलप्राप्तये सादगुण्यार्थं च सवत्सामिमां कृष्णां धेनुं तनिष्क्रयं ( दशकापणात्मकं ) वा तथा अधिदेवताप्रत्यधिदेवता प्रतिमासहितां सवस्त्रकुम्भां मूलनक्षत्रदेवनितिप्रतिमां ग्रहपूजासामग्री च प्राचार्याय (संपददे ) दास्ये । तथा श्रीदप्रतिमां कृष्णमनड् वाहं तनिष्क्रय वा (अष्टकार्षापणात्मक) वस्त्रं कुम्भं च रुद्रजापिने दास्ये। तथा ब्रह्मसदस्यत्विाभ्योपतिरयमुक्तादि-शान्तिकाध्यायादि पाठकारकेभ्यो ब्राह्मणेभ्यो यथाशं विभज्य दक्षिणां दास्ये । तथेमां शान्तिप्रकरणे आश्लेषाजननशान्तिविधिः । २४७ भूयसीं दक्षिणाम् ब्राह्मणेभ्योऽन्येभ्यश्च विभज्य दास्ये ॐतत्सत् न मम इति संकल्प्य यथाक्रमेण दद्यात् । ___ तत्र पूर्वम् आचार्याय निष्क ( राजतचतुष्कर्षात्मक ) निष्का ई वा दक्षिणा । तदद्धं ब्रह्मणे। ब्रह्मणोऽद्धं सदस्याय । तदर्द्धमृत्वि ग्भ्यः । तदई सूक्तादिपाठकेभ्य इति । ततः पायसादिना यथाशक्ति शतं, पञ्चाशत् , दश वा ब्राह्मणान् भोजयिष्ये इति संकल्पयेत् । तत प्राचार्यादयो यजमानस्य तिलकाक्षतारोपणं मन्त्रपाठादिकं रक्षाबन्धनं व्यायुषकरणं च कुर्युः। यजमानश्च तेभ्य आशिषो गृहीत्वा प्रणिपत्य क्षमापयेत् । ततः आवाहितदेवानामग्नेश्वोचराङ्ग त्वेन पूजनं विधाय तान् “थान्तु देवगणा” इति, “गच्छगच्छ” इति च विसृज्य कांस्यपात्रोपरि स्थाप्य दीपान्प्रज्वलितान्पुनः । प्रकुर्यान्मङ्गलार्थं च महानीराजनं विधिम् ॥ इत्युक्तप्रकारेण नीराजनं कारयित्वा यथाशक्ति ब्राह्मणान्मो जयित्वा आमं मिष्टं वा दत्त्वा तेभ्य आशिषो गृहीत्वा “कायेन वाचा” इत्यादि पठित्वा ‘अनेन शान्तिकर्मणा ॐतत्सत् यज्ञपुरुषः प्रीयतां तत्पीत्या नितिदेवः प्रीयतामिति वदेत् । ततो ब्राह्मणानुज्ञया स्वजन बन्धुभिः सहितो भुञ्जीत । इति शौनकोक्तो मूलशान्तिप्रयोगः । अधाश्लेषानक्षत्रजननशान्तिविधिः ॥ तत्र फलं मूलनक्षत्रवत् व्यत्ययेन ज्ञेयम् । यथा आये पिता नाशमुपैति मूलपादे द्वितीये जननी तृतीये । धनं चतुर्थेऽस्य शुभोऽथ शान्त्या सर्वत्र सत्स्यादहिभे विलोमम् । ____ इति । अहिमे आश्लेषानक्षत्रे विलोमं विपरीतं फलं स्यात् । यथा-चतुर्थपादे पितृनाशः, तृतीये जननीनाशः, द्वितीये धननाशः, प्रथमः शुभ इति । तत्र यस्य यस्मिन्पादे जनिस्तदरिष्टपरिहाराय मूलनक्षत्रवत् अत्रापि शान्तिः कर्तव्या । २४८ परिशिष्टदीपके तत्र शान्तिसारे शौनकः आश्लेषायां तु जातानां शान्ति वक्ष्याम्यतः परम् । जातस्य द्वादशाहे च शान्तिहोम समाचरेत् ।।। असम्भवे तु जन्मर्वे अन्यस्मिन्वा शुभे दिने । स्नातोऽभ्यङ्गादिभिस्तस्मिन्वरयेत्तु द्विजोत्तमान् ॥ विभवे पञ्च कुम्भास्तु द्वयं वा तदलाभतः । देवतास्थापने चैकमेकं रुद्राभिमन्त्रणे ॥ मृलक्तिप्रकारेण कुम्मे निक्षिप्य पूजयेत् । गोमयालेपिते देशे धात्वाद्यैरुपशोभिते ॥ पङ्कजं कारयेत्तत्र चतुर्विंशदलान्वितम् । तण्डुलैः कारयेद्यद्वा रक्तपीतसितासितैः॥ कर्णिकायां न्यसेद ब्रीहीन् स्थापयेत्तेषु कुम्भकम् । आजिघ्रकत्तशेत्यनया कलशस्थापनं शुभम् ।। इमं मे इति मन्त्रेण पूरयेचीर्थवारिणा। कुम्भं च वस्त्रगन्धायैस्तत्तन्मन्त्रैः प्रपूजयेत् ॥ याः फलिनीरित्यनया क्षिपेद्रनौषधादिकान् । कुम्भोपरिस्थपाने तु आश्लेषापतिमां यजेत् ॥ सर्पप्रतिमाम् । निष्क-निष्का-पादैर्वा कारयित्वा स्वशक्तितः। तत्पूर्वोत्तरनक्षत्रे (नक्षत्रदेवते) दक्षिणोत्तरयोर्यजेत् ॥ ऐन्द्रादीशानपर्यन्तमितराणि पूजयेत् । इतरांदेवताः । मूलोक्तेन विधानेन कुम्भयोरभिमन्त्रणम् ।। रुद्रार्चा रुद्रकुम्भे तु पूर्ववच्छेषमाचरेत् । नमो अस्तु सर्पेभ्यः पूजामन्त्र इतीरितः ॥ सर्पा रक्तास्त्रिनेत्राश्च द्विभुजाः पीतवस्त्रकाः। ।’ फलकासिघरास्तीक्ष्णा दिव्याभरणभूषिताः ॥ एवं ध्यात्वा ततोऽभ्यर्च्य होमकर्म समाचरेत् । कतुः शाखोक्तमार्गेण आचार्यस्याथवाऽचरेत् ॥ मुखान्तं कर्म निर्वयं हषिरादाय शास्त्रतः।

A शान्ति प्रकरणे आश्लेषाशान्निप्रयोगः। २४९ इदं सर्पेभ्यो जुहुयात्साधिप्रत्यधिदैवतम् ॥ इदं हविः । अष्टोतरबतं हऽथ प्रविशनिदेव क। मूलनक्षत्रदच्छे होर्म समाचरे । पूर्णाहुत्यनमार्माणि कृत्वा संचालक तथा ! कुम्भे जलं व प्रक्षिप्य अभिषेकमथाचरेत् ।। दारपुत्रसमेतत्य यजमानस्य पूर्ववत् । अभिषिञ्चेस्याऽचा ऋरिक्षभिः सहितस्तथा ॥ अभिमन्त्रितकुम्भाद्भिरभिषेचनमाचरेद । तथा पौराहमन्त्रैश्च पल्लवैरभिषेचयेत् ॥ आश्लेषाऋाजातस्य मातापित्रोधनस्य च ! भ्रातृज्ञातिकुल्लानां दोषं सई व्यपोहतु । योऽसो वागीश्वरः नाम अधिदेको बृहस्पतिः । मातापिनी शिमोर गाण्डान्तं च व्यपोहतु ।। पितरः रूईमूकान सामन्तु पितरः [ पितृन् ? सदा । सर्प नक्षत्र जातस्य वित्तं च झातिबान्धवान् ॥ एवं कृतेऽभिषेके तु सार्पशान्तिभवेद् ध्रुवम् । ततः शुक्लाम्बरधरो यजमानः सुभूषितः ॥ दक्षिणाभिस्ततो विमान् मूलपञ्च प्रतोषयेत् । भुक्तवद्भयच विप्रेभ्यः स्वीकुर्यादाशिषं गृही।। इत्युक्तेन विधानेन सर्वारिष्टं व्यपोहति । साधीश नमस्तुभ्यं नागानां च गणाधिप । गृहाणायं मया दत्तं सर्वारिष्टप्रशान्तये। इत्युत्तरपूजायावर्षः। मूलनक्षत्रवत्कुर्यात् सार्पगण्डे स्वनामतः ॥ इति । अथाश्लेषाशान्तिप्रयोगः । __तत्र आश्लेषाजातस्य पिता द्वादशाहादौ शान्त्यर्थं मूलनक्षत्रक न्मण्डपं शाला वा विधाय तदुत्तरतः स्नानमण्डपं च विधाय गोम ३१.६० २५० परिशिष्टदीपके योपलिप्तभूमौ शुभासने उपविश्य दीप प्रज्वलय्याचम्य शान्तिपाठं ( स्वस्तिवाचनं ) कृत्वा प्रथमं गणेशपूजनं कुर्यात् । ततः अधेहे त्यादिसंकीयं अमुकराशेः पुत्रस्य आश्लेषानक्षत्रामुकपादजननसू चितपित्रावरिष्टनिरसनद्वारा श्रीपरमेश्वरप्रीत्यर्थं गोमुखप्रसवपूर्वक शौनकोक्तप्रकारेण ग्रहयागसहिताम् श्राश्लेषाशान्ति करिष्ये। तत्पूर्वा ङ्गत्वेन मातृपूजानान्दीश्राद्धपुण्याहवाचनानि करिष्ये इति संकल्प्य पुण्याहवाचनान्तमनुष्ठाय प्राचार्यादीनां वरणं कुर्यात् । तत्र संकल्प: अधेहेत्यादि संकीर्त्य अमुकोऽहं करिष्यमाणाश्लेषाशान्तिकर्म कर्त्त कारयितुं च प्राचार्यादीनां पूजनपूर्वकं वरणं करिष्ये इति संकल्प्य प्राचार्य ब्रह्माणं सदस्यम् ऋत्विजः एकादशिनी-अप्रतिरथमूक्ता दि-सप्तशती-शान्तिकाध्याय-पाठकारकांश्च वृत्वा ‘यथाविहितं कर्म कुरुध्वम्’ इति यजमानो ब्रूयात् । ततः ‘करवाम’ इति ते वदेयुः। ततः गोमुखप्रसवं पूर्वोक्तविधिना ( २०८) अनुष्ठाय आचार्यो मूलनक्षत्रशान्तिवत् मण्डपे गृहशालायां वा पञ्चगव्येन पुण्यतीर्थतो येन च आपोहिष्ठेति तिसृभिः भूमि प्रोक्ष्य मण्डपसत्त्वे तत्पूजां कृत्वा तत्र नैर्ऋत्यां स्थण्डिले पञ्चभूसंस्कारपूर्वकमग्निमुपसमादध्यात् ।। . ततः होमवेद्या ईशाने पञ्चवर्णैः स्वस्तिकं विधाय तत्र द्रोणत्री हीनिक्षिप्य तत्र सुलक्षणं रक्तं व्रणविवर्जितं कुम्भं संस्थाप्य तस्य चतुर्दिनु कलशचतुष्टयं संस्थाप्य, चतुष्प्रस्रवणम् एकमेव वा पश्चानां स्थाने संस्थाप्य मध्यकलशे मध्यमुखे वा मयूरशिखादीनि शतमू लानि तदलामे विष्णुकान्ता, सहदेवी, तुलसी, शतावरी: तदलामे केवलां शतावरी निक्षिप्य तदुपरि ताम्रादिपूर्णपात्रे वस्त्रोपरि अग्न्यु तारितां पञ्चामृतस्नापितां सुवर्णनिर्मितां रुद्रप्रतिमां “व्यम्बकम्” इति मन्त्रेणावाह्य उक्तरीत्या ( २२२ ) पूजयेत् । तत्र रुद्रजापक खेन वृतः कुम्भं स्पृष्ट्वा रुदैकादशिनी जपेत् । ततस्त्र्यम्बकमन्त्रम् अ टोत्तरसहस्रवार, पावमानीच नव सकुज्जपेत् । ततः ( २२३ ) पूर्वो तरीत्या अप्रतिरथसूक्तादीनि सूक्तजापकत्वेन वृतः पूर्वादिकुम्भान् प्रस्रवणानि वा स्पृशन् एकादशवारं जपेत् । शान्तिप्रकरणे आश्लेषाशान्तिप्रयोगः। २५१ (“देवतास्थापने चैकमेकं रुद्राभिमन्त्रणे” इति कुम्भवयस्य मूलशान्तिव्यवस्थातो वैलक्षण्यस्य उक्तेः प्रधानसर्पदेवतास्थापना थमेकः कुम्भः, रुद्रादिजपार्थं च चतुष्प्रस्रवणो द्वितीय इति द्वावेव कुम्भौ। न तु मूलशान्तिवत् प्रधानस्थापनार्थं तृतीयः। पञ्चकुम्भपक्षे तु प्रधानकुम्भात भिन्ना एव चतुष्प्रस्रवणस्थानीयाः पञ्च कुम्भाः। पश्चा नामेव पञ्चमुखचतुष्प्रस्त्रवणसाध्यन्द्रादिजपरूपकार्यपञ्चकसाधनक्षम त्वात् । रुद्रकुम्भस्तु पञ्चभ्यो नात्रातिरिक्तः । चतुष्प्रस्रवणपक्षे मध्य मुखेनेव मध्यकुम्भेनैव तत्कार्यसिद्धः)। । रुद्रकुम्भोत्तरतश्चतुर्विंशतिदलं कर्णिकान्वितं पङ्कज शुक्लादि तण्डुलैः कृत्वा मन्मध्ये कर्णिकायां मूलशान्त्युक्तविधिना कलशं संस्था प्य तत्र शतमूलानि, विष्णुकान्तादिचतुष्टयं, केवलशतावरी वा निक्षिप्य तदुपरि ताम्रादिपूर्णपात्रे वस्त्रोपरि अष्टदलं विलिख्य तत्क र्णिकायां स्थापितासु अग्न्युत्तारितासु पञ्चामृतस्नापितासु सुवर्ण प्रतिमासु सर्पाणां गुरोः पितॄणां च आवाहनं वक्ष्यमाणरीत्या कुऱ्यांव ॐभूर्भुवः स्वः सुवर्णप्रतिमायाम् मध्ये आश्लेषानक्षत्रदेवाः सर्पाः इहागच्छन्त्विह तिष्ठन्तु पूजार्थं युष्मान् आवाहयामि स्थापयामि । तद्दक्षिणे ॐ भूर्भुवः स्वः साधिदेव पुष्यनक्षत्रदेव गुरो इहागच्छेह तिष्ठ पूजार्थं त्वाम् आवाहयामि स्था०२।तद्वामे ॐभूर्भुवः स्वः सर्प प्रत्यधिदेवाः मघानक्षत्रदेवाः पितर इहागच्छन्तु इह तिष्ठन्तु पूजार्थं युष्मानावाहयामि स्था० ३। ततो भूमिष्ठचतुर्विंशतिदलेषु पूगफलानि अक्षतपुञ्जान् वा संस्थाप्य तेषु पूर्वतः ईशानपर्यन्तम् ॐ भू० पूर्वफल्गुनीदेव भग इहा० ४ ॐ भू० उत्तरफल्गुनीदेव अर्यमन् इहा० ५ ॐ भू० हस्तदेव रवे इहा० ६ ॐ भू० चित्रादेव त्वष्टः इहा० ७ ॐ भू० स्वातीदेव वायो इहा०८ ॐ भू० विशाखादेवौ इन्द्राग्नी इहागच्छ तम् इह तिष्ठतं पूजार्थं युवाम् आवाहयामि स्था०९ ॐ भू० अनु राधादेव मित्र इहा. १० ॐ भू० ज्येष्ठादेव इन्द्र इहा. ११ ॐ भू०शहर कोहाही . मूलदेव निऋते इहा. १२ उ. स्व. ॐ भू. पूवीमाबादेत तोव इहा० १३ ॐ भू० उत्तराषाढादेवा विश्वेदेवाः साना हतियन्तु पूजार्थ युग्मानाबाहयायि स्था० १३ ॐ यू० पदणदेव गोविन्द इहा. १५ ॐ ५० धनिष्ठादेवा बसक झगच्छन्त्विह तिष्ठन्तु पूजार्थं युष्मानाबाहयामि स्था०१६ ॐ भू० शतभिषग्देव वरुण इहा. १७ ॐ भू० पूर्वभाद्रपदादेव अजचरण इहा. १८ ॐ थू. उत्तरभाद्र पदादेव अहिर्बुध्न्य इहा. १६ ॐ शू रेवतीदेव पूषन् इहा. २० ॐ भू. अश्विन देवौ दसौ इहायच्छरम् इह तिष्ठतं पूजार्थं युवाम् आवाहयामि स्था. २१ ॐ भू. भरणादेव यम इसा. २२ ॐ भू. कृत्तिकादेव अग्ने इहा. २३ ॐ भू. रोहिणीदेव ब्रह्मत् इहा. २४ ॐ भू. मृगशिरोदेव चन्द्र इहा. २५ ॐ. आदिश रुद्र इहा. २६ उ. स्प.। ॐ भू. पुनर्वसुदेवते अदिते इसापच्छेह तिष्ठ पूजार्थं त्वा मावाहयामि स्था. २७ एवं संस्थाप्य “एतन्ते” इत्यादि पठित्वा ॐ भूर्भुवः स्वः चतुर्विंशतिदलकमलकर्णिकामध्ये कलशोपरि सुवर्णप तिमासु पुष्यनक्षत्रदेवाधिदेवगुरुसहिता मघानक्षत्रदेवप्रत्यधिदेव पितृसहिता आश्लेषानक्षत्रदेवाः सर्पा इहागच्छन्त्विह तिष्ठन्तु तथा चतुर्विशतिदलस्थेषु पूगफलेषु अक्षतपुञ्जषु वा पूर्व फल्गुन्यादिचतु विंशतिनक्षत्रदेवाः भगाधदितिपर्यन्ताः इहागच्छन्तु इह तिष्ठन्तु सुप्र तिष्ठिता वरदा भवन्तु इति प्रतिष्ठाच्य तदुत्तरतः अपरं कलशं संस्था प्य तत्र ब्रह्मवरुणसहितानधिदेवतादिसहिताधादित्यादिग्रहानाबाह्य “एतं ते” इति पठित्वा ॐ भू० कलशे ब्रह्मवरुणसहिताः आदि त्यादिनवग्रहाः साधिदेवभत्यधिदेव-पश्चलोकपाल-वास्तोष्पतिक्षेत्र पालदशदिक्पालाः सुप्रतिष्ठिता वरदा भवन्तु इति प्रतिष्ठाप्य पूजा संकल्पं कुर्यात् अधेहेत्यादि संकीर्त्य अमुकोऽहम् अमुकराशेरस्य बालकस्य आश्लेषानक्षत्रामुकपादजननसूचितारिष्टनिरसनपूर्वकसर्वोपद्रवशान्त्य थं दीर्घायुरारोग्यप्राप्तये च चतुर्विंशतिदलकर्णिकायां स्थापितकलशो शान्तिप्रकरणे आश्लेषाशान्तिप्रयोगः। २५३ परि सुवर्णप्रतिमासु आवाहितानाम् अधिदेवताप्रत्यधिदेवतासहितानां सप्पाणां तथा चतुर्विशतिदलस्थेषु दध्यक्षतपुञ्जनागहितान भगा धदितिपर्यन्तानां देवानां तथा तदुत्तरकलशे आवाहितानां ब्रह्मवरुण सहिलादित्यादि नवग्रहाणां साधिदेवप्रत्यधिदेवानां वास्तोस्पतिक्षेत्रपा लपञ्चलोकपालदशदिक्पालसहितानां च पूजनं करिष्ये इति संक ल्प्य प्रथमं सर्पान् ध्यायेत सर्प रक्तास्त्रिनेत्राश्च द्विभुजाः पीतवस्त्रकाः । वरदाभयहस्ताश्च दिव्याभरणभूषिताः॥ अथ गुरुध्यानम् पीताम्बरः पीतवपुः किरीटी चतुर्भुजो देवगुरुः प्रशान्तः । दधाति दण्डं च कमण्डलुं च तथाक्षसूत्रं वरदोऽस्तु मह्यम् ।। अथ पिवृध्यानम् . शुक्लाम्बराः शुक्लगन्धाः शुक्लयज्ञोपवीतिनः । ___ आत्मनोऽभिमुखासीना ज्ञानमुद्रा निरायुधाः ।। अन्येषां भगाद्यदितिपर्यन्तानां ब्रह्मवरुणसहितादित्यादिनवग्र हाणां च वक्ष्यमाणनाममन्त्रैर्ध्यानं कुर्यात् । सर्पपूजने मन्त्रः ॐ नमोऽस्तु सर्पेभ्यो थे के च पृथिवीमनु । ये ऽअन्तरिये ये दिवि तेभ्यः सर्पेभ्यो नमः। ॐसर्पेभ्यो नमः । गुरुमन्त्रः ॐ बृहस्पते ऽअति यदर्यो ऽअर्हाद घुमद्विभाति ऋतुमज्जनेषु । यहोदयच्छवसऽऋतप्रजात तदस्मासु द्रविणं धेहि चित्रम् ॥ ॐ गुरवे नमः। अथ पितृमन्त्र: ॐ पुनन्तु मा पितरः सोम्यासः पुनन्तु मा पितामहाः । पुनन्तु प्रपितामहाः पवित्रेण शतायुषा॥ पुनन्तु मा पितामहाः पुनन्तु प्रपितामहाः । पवित्रेण शतायुषा विश्वमायुय॑श्नवै ॥ २५४ परिशिष्टदीपके ॐ पितृभ्यो नमः । एतैर्मन्त्री प्रधानदेवताधिदेवताप्रत्यधिदेव तानां पूजनम् ३। ___ अन्येषांपूर्वफल्गुन्यादिदेवतानां नाममन्त्रैः पू०। यथा-पूर्वफल्गु नीदेवाय ॐ भगाय नमः ४ उत्तरफल्गुनीदेवाय ॐ अर्यम्णे नमः ५ हस्तनक्षत्रदेवाय ॐ रवये नमः ६ चित्रादेवाय ॐ त्वष्ट्रे नमः ७ स्वातीदेवाय ॐ वायवे नमः ८ विशाखादेवाभ्याम् ॐ इन्द्राग्निभ्यां नमः ९ अनुराधादेवाय ॐ मित्राय नमः १० ज्येष्ठादेवाय ॐइ न्द्राय नमः ११ मूलदेवाय ॐ नितये नमः १२ उ. प.। पूर्वा. षाढादेवाय ॐ तोयाय नमः १३ उत्तराषाढादेवेभ्यः ॐविश्वेभ्यो देवेभ्यो नमः १४ श्रवणदेवाय ॐ गोविन्दाय नमः १५ धनिष्ठा देवेभ्यः ॐ वसुभ्यो नमः १६ शतभिषग्देवाय ॐ वरुणाय नमः १७ पूर्वभाद्रपदादेवाय ॐ अजचरणाय नमः १८ उत्तरभाद्रपदा देवाय ॐ अहिर्बुध्न्याय नमः १६ रेवतीदेवाय ॐ पूष्णे नमः २० अश्विनीदेवाभ्याम् ॐ अश्विभ्यां नमः २१ भरणीदेवाय ॐ यमाय नमः २२ कृत्तिकादेवाय ॐ अग्नये नमः २३ रोहिणीदेवाय ॐ ब्रह्मणे नमः २४ मृगशिरोदेवाय ॐ चन्द्रमसे नमः २५ आर्द्रादेवाय ॐ रुद्राय नमः २६ उ. प. । पुनर्वसुदेवतायै ॐ अदितये नमः २७ इति नाममन्त्रैः पाद्यादिभिः पूजनम् । अन्यस्मिन्कलशे ॐ ब्रह्मणे नमः ॐ वरुणाय नमः ॐ श्रा दित्याय नमः ॐ सोमाय नमः ॐ भौमाय नमः ॐ बुधाय नमः ॐ गुरवे नमः ॐ शुक्राय नमः ॐ शनैश्चराय नमः ॐ राहवे नमः ॐ केतुभ्यो नमः ॐ अधिदेवताभ्यो नमः ॐ प्रत्यधिदेवता भ्यो नमः ॐ विनायकादिपञ्चलोकपालेभ्यो नमः ॐ वास्तोष्पतये नमः ॐ क्षेत्राधिपतये नमः ॐ इन्द्रादिदशदिक्पालेभ्यो नमः इति नाममन्त्रैः सर्वेषां पाद्यादिनीराजनान्तं पूजनं (१)विदध्यात् ॥ ततो होमवेद्यां ब्रह्मोपवेशनादि अर्थवलोक्षणान्तं कर्म कृत्वा (१) गोप्रसवहोमस्य तन्त्रेणाचरणे ग्रहकलशोत्तरतः अपर कल शमुक्तरीत्या (२१०) संस्थाप्य तत्र विष्ण्वादीनावाह्य पूर्वोक्तरीत्या पूजयेत्। शान्तिप्रकरणे आश्लेषाशान्तिप्रयोगः। २५५ होमद्रव्याणि पायसं, चरुं, कसरं चेत्येतानि श्रपयित्वा समिदाज्यादि संपाद्य पर्युक्षणान्तं कुर्यात् । ततो वरदनामानमग्निम् “एतंते” इति प्रतिष्ठाप्य संपूज्य रेखा जिहाश्च पूजयित्वा अग्निप्रणीतयोमध्ये प्रोक्षणीपात्रं स्थापयेत् । ततो यजमानो द्रव्यदेवताभिध्यानपूर्वक द्रव्यत्यागं कुर्य्यात् । अयेह अमुकोऽहं सग्रहयागेन आश्लेषाशान्तिकर्मणा(१)यक्ष्ये । तत्र प्रजापतिम् इन्द्रम् अग्निं सोमम् आज्येन-नवग्रहान् अष्टसंख्याभिः समिञ्चर्वाज्यतिलाहुतिभिः-अधिदेवताः प्रत्यधिदेवताश्च चतुःसंख्या भिः समिचर्चाज्यतिलाहुतिभिः-विनायकादिपञ्चलोकपालान् इन्द्रा दिदशदिक्पालांश्च द्विद्विसंख्याभिः समिदाद्याहुतिभिः-(२) सन्ि प्रतिद्रव्यमष्टोत्तरशतसंख्याभिघृतमिश्रपायस-समिद्-आज्य-चर्वाहु तिभिः-बृहस्पतिम् पितुंश्च प्रतिद्रव्यमष्टाविंशतिसंख्याभिधुतमिश्रपाय ससमिदाज्यचर्चाहुतिभि:-भगाद्याश्चतुर्विंशतिदेवता अष्टसंख्याभिः पायसाहुतिभिः-रक्षोहणं “कृणुष्वपाज” इति पञ्चदशभिग्भिः प्रत्युचमष्टसंख्याभिः कसराहुतिभिः-सवितारं दुर्गा त्र्यम्बकम् ऋत्वि क्स्तुति दुर्गा वास्तोपतिम् अनि क्षेत्राधिपतिं मित्रावरुणौ अग्नि च अष्टसंख्याभिः कुसराहुतिभिः श्रियं “हिरण्यवर्णाम्” इति पञ्च दशभिग्भिः प्रत्यूचमष्टसंख्याभिः समिदाज्यचर्चाहुतिभिः सोमं त्रयोदशसंख्याभिः पायसाहुतिभिः- रुद्रं चतुर्ग्रहोतेनाज्येन-शेषेण स्विष्टकृतम्-अग्न्यादिप्रजापत्यन्तांचाज्येनाहं यक्ष्ये। इदं सम्पादितम् प्राज्य-पायस-समित्-तिल-कृसर-चरुद्रव्य (१) गोमुखप्रसवहोमस्य तन्त्रेणाचरणे ‘सगोमुखप्रसवेन’ इत्यपि योज्यम्। (२) तन्त्रेण गोमुखप्रसवहोमाचरणे अत: पूर्व ‘विष्णुं “तद्विष्णोः” इति ऋचा अष्टाविंशत्यष्टान्यतरसंख्याहुतिभिः, वरुणम् “आपोहिष्ठा” इति तिसृमिः “अप्सुमेसोम” इत्यनया च प्रत्यृचमुक्तसंख्याहुतिभिः, यत्महणम् “श्रतीभ्याम्” इति सूक्तेन प्रत्यचमुक्तसंख्याहुतिभिः, ग्रहांश्च तत्तन्मन्त्रैरुक्तसंख्याहुतिभिः मिलितदधिमध्वाज्यद्रव्यैः’ इति योज्यम् । २५६ परिशिष्टदीपके जातम् आधाराज्यभागदेवताभ्यः नवग्रहेभ्यः अधिदेवताभ्यः प्रत्यधि देवताभ्यो विनायकादिलोकपालेभ्यः इन्द्रादिदिक्पालेभ्यः(१)सर्प गुरु-पित-भगार्यम-रवि-त्वष्ट-पायु-इन्द्राग्नि-मिनेन्द्र-निति तोय-विश्वदेव-विष्णु-वसु-वरुणाजपादहिर्बुध्न्य-पूष-दर–यमा नि-ब्रह्म-चन्द्र-रुद्रादितिभ्यः रतौह-सवित-दुर्गा-रुद्र-ऋत्विकस्तु ति-दुर्गा-वास्तोष्पति-अग्नि-क्षेत्राधिपति-मित्रावरुण-अग्नि-श्री-सोम रुद्र-स्विष्टकदग्निभ्यो महाव्याहृतिदेवताभ्यः सर्वप्रायश्चित्तदेवताभ्यः प्रजापतये च मया परित्यक्तम् ॐ तत्सत् यथादैवतमस्तु न मम इति दक्षिणतः स्थितो विदध्यात् । तत आचार्यः कृतरक्षासूत्राभिमन्त्रणः ब्रह्मणाऽन्वारब्धः दक्षिणं जानु निपात्य आधारावाज्यभागौ च हुत्वा त्यक्तान्वारम्भः प्रथम ग्रहयागप्रयोयोक्तरीत्या ऋत्विग्भिः सह द्रव्यदेवताभिध्यानोक्तक्रमण आदित्यादिग्रहादिदिक्पालान्तेभ्यः समिञ्च ज्यतिलैर्तुत्वा (गोप सवहोमस्य तन्त्रेणाचरणे उत्तरीत्या विषण्यादिभ्योऽपि हुत्वा ) घृत मिश्रितेन पायसेन, पालाशखादिरान्यतरसमिद्भिः, प्राज्येन, चरुणाच प्रधानसर्पेभ्यः अष्टोत्तरशतधा होमं कुर्य्याव नमोऽस्तुसर्पेभ्य इति प्रजापतिऋषिरनुष्टुप्छन्दः सर्प देवताः पायसादिहोमे विनियोगः। ॐ नमोऽस्तु सर्पेभ्यो ये के च पृथिवीमनु । ये ऽअन्तरिक्ष ये दिवि तेभ्यः सर्पेभ्यो नमः-स्वाहा ॥ . ( इदई सर्पेभ्यो.) १०८। ततः अधिदेवबृहस्पतये अष्टाविंशतिसंख्यया पायसादिभिर्जुहुयात् । बृहस्पते इति गृत्समद ऋषिस्त्रिष्टुप्छन्दः बृहस्पतिर्देवता पाय सादिहोमे विनियोगः। ॐबृहस्पते ऽअति यदों ऽअदि घुमद्विभाति ऋतुमज्जनेषु । . (१) गोमुखप्रसवहोमस्य तन्त्रेणाचरणे इतः पूर्व “विष्णवे धरुणाय यक्ष्मन्ने” इति योज्यम्। शान्तिप्रकरणे आहलेषाशान्तिप्रयोगः। २५७ यहीद यच्छवस ऽऋतरजात तहस्मासु द्रविणं हि चित्रस्— स्वाहा ( इदं वृहस्पतये.) २८॥ ततः पुनन्द या पिनर इति प्रताप ने परतुष्टुप्छन्दः पितगे देवताः पारमाडिकोने विनियोः । ॐ पुनन्तु मा पितरः लोम्बाला पुजन्तु मा पितामहाः । पुनन्तु प्रपितामहाः पवित्रेण शतायुषा ।। पुनन्तु मा पितामहाः पुनन्तु प्रपितामहाः । पवित्रेण शतायुषा विश्वमायुर्व्यश्नवै-स्वाहा ( इदं पितृभ्यो. ) इति पायसादिभिः प्रत्यधिदेवपितृभ्यः अष्टा विंशतिसंख्यया (२८) हुत्वा उ. स्प.। नाममन्त्रैर्भगा देचतुर्विंशतिदे वताभ्योऽष्टसंख्यया पायलेन जुहुयाद ॐ भगाय नमः स्वाहा ८ ( इदं भगार.) ॐ अर्यम्णे नमः स्वाहा ८ (इदमयेणे.) ॐ रवये नमः स्वाहा ८ ( इदठरवये.) ॐ त्वष्ट्रे नमः स्वाहा ८ ( इदं त्वष्ट्रे.) ॐ चायवे नमः स्वाहा ८ (इदं वायदे.) ॐ इन्द्राग्निभ्यां नमः स्वाहा ८ ( इदमिन्द्राग्निभ्यां.) ॐ मित्राय नमः स्वाहा ८ ( इदं मित्राय) ॐ इन्द्राय नमः स्वाहा ८ (इदमिन्द्राय.) ॐ निऋतये नमः स्वाहा ८ (इदंनि तये.) उ. स्प. । ॐ तोयाय नमः स्वाहा ८( इदं तोयाय.) ॐविश्वेभ्योदेवे भ्यो नमः स्वाहा ८ (इदं विश्वेभ्योदेवेभ्यो.) ॐ गोविन्दाय नमः स्वाहा ८ ( इदं गोविन्दाय.) ॐ वसुभ्यो नमः स्वाहा ८ ( इदं वसुभ्यो.) ॐवरुणाय नमः स्वाहा ८ (इदं वरुणाय.) ॐअजच रणाय नमः स्वाहा ८ (इदमजचरणाय.) ॐ अहिर्बुदन्याय नमः स्वाहा ८ (इदमहिबुदन्याय.) ॐपूष्णे नमः स्वाहा ८ (इदं पूष्णे.) ॐदस्राभ्यां नमः स्वाहा ८ ( इदं दस्राभ्यां.) ॐयमाय नमः स्वा हा ८ ( इदं यमाय ) ॐअग्नये नमः स्वाहा ८ ( इदमग्नये.) ॐब मणे नमः स्वाहा ८ ( इदं ब्रह्मणे.) ॐ चन्द्रमसे नमः स्वाहा ८ ( इदं चन्द्रमसे.) ॐरुद्राय नमः स्वाहा ८ (इदं रुदाय.) उ.प.। ३२५० २५८ परिशिष्टदीपके ॐ अदित्यै नमः स्वाहा ८ ( इदमदित्यै.) इति प्रत्येकमष्टसंख्यया हुत्वा “कृणुष्वपाज” इति पञ्चदशभिर्मन्त्रैः प्रत्येकमष्टधा मूलशा न्तिवत् कृसरहोमं रक्षोहणे विधाय सवित्रादिभ्योऽन्यन्तेभ्यश्च कृसरं गायच्यादिमन्त्रैरष्टसंख्यया मूलशान्त्युतप्रकारेण हुत्वा समिदाज्यच. रुभिः श्रीसूक्तेन प्रत्यचमष्टसंख्यया हुत्वा “त्वन” इति मन्त्रेण सोमाय त्रयोदशसंख्यया पायसं हुत्वा यातेरुद्रेति मन्त्रेण चतुर्ग्रही ताज्यहोमं कुर्य्यात् । मन्त्राश्चैते मूलशान्तौ द्रष्टव्याः। उ. स्प.। ___ ततोऽन्वारब्ध आचार्यः स्विष्टकद्धोमं भूरादिनवाहुतिहोमं संत्र वप्राशनादि च कुर्यात् । ततो यजमानः पूर्णपात्रं ब्रह्मणे दद्यात् । तत आचार्यों ग्रहादिभ्यो ग्रहयागोक्तरीत्या बलीन् दत्त्वा सर्पेभ्यो गुरवे पितृभ्यः भगाधदित्यन्तेभ्यो रुद्राय च मूलशान्त्युक्तरीत्या (बलीन् दत्त्वा क्षेत्रपालाय बलिं दद्यात् ) उ. स्प. । ततः साचार्यों यजमानः पूर्णाहुतिं जुहुयात् । तत्र संकल्प: अद्येहेत्यादि संकीयं अमुकोऽहम् आश्लेषानक्षत्रजननशान्तिहोमक मणः न्यूनातिरिक्तदोषपरिहारार्थं मृडनामानौ पूर्णाहुतिहोमं करिष्य। ततो नारिकेलं पूगीफलं वा रक्तवस्त्रसहितं कृत्वा खुवे निधाय नुवं स्रुचं च संपूज्य ब्रह्मणा सुवेण चि चतुर्वारं द्वादशवारं वा दत्त माज्यं समुद्रादूमिरित्यादिमन्त्रैः यजमानेनान्वारब्ध प्राचार्यो मूल शान्तिवत् जुहुयात् । “तनूपा अग्नेऽसि” इत्यादिभिः मुखमार्जनम् “अङ्गानि च म आप्यायन्ताम्” इत्यादिभिरङ्गालम्भनं च कुर्यात् । उ. प.। ___ ततः कुम्भद्वये पूर्ववद्ध धूपदीपादिभी रुद्रस्य सर्पाणां च (१)पू जनं विधाय यजमानाभिषेकार्थम् आचार्य श्रादरात् सन् “नमोऽस्तु सर्पेभ्य” इति, रुद्रं “व्यम्बकम्” इति प्रसादयेत् । ततो यजमानः प्राङ्गणकल्पितस्नानमण्डपे श्रीपाद्यासने नव्यवस्त्रं प्रसार्य सपुत्र (१) पूर्णाहुत्यन्तकर्माणि कृत्वा संपातकं तथा। कुम्मे जल च प्रक्षिष्य अभिषेकमथाचरेत् ॥ इति विशेषोक्त्या प्रत्र पुना रुद्रादिजपो नास्ती त्यवधेयम्। शान्तिप्रकरणे आश्लेषाशान्तिप्रयोगः। २५९ सपनीकः शङ्खादिरवे जायमाने मङ्गलगीतवाद्यानि शण्वन् स्नानसंकल्पं कुर्यात्-अयेहेत्यादि संकोच॑ अमुकराशिरमुकशा सपुत्रसपनो कोऽहं मम पुत्रस्य आश्लेषानक्षत्रामुकपाइजननमुचितपित्रावरिष्टदोष परिहारार्थ शुभफलप्राप्तये च अभिषेशमन्त्रैय ज्ञान्तस्नानं करिये इति । तत आचार्य्यादयो ब्राह्मणाः ॐ “प्रक्षोभ्याम्” इत्यादिभिः (२७६) “सर्वे कुर्वन्तु शान्तिदा” इत्यन्तैः (२८५) मूलशान्तिप्रक रणोक्तैरभिषेकमन्त्रैः आश्लेषाऋक्षजातस्य मातापित्रार्थनस्य च । भ्रातृज्ञातिकुलस्थानां दोषं सर्व व्यपोहतु ।। योऽसौ वागीश्वरो नाम अधिदेवो बृहस्पतिः । मातापित्रोः शिशोश्चैव गण्डान्तं च व्यपोहतु ॥ पितरः सर्वभूतानां रक्षन्तु पितरः (पितृन् ) सदा। सर्पनक्षत्रजातस्य वित्तं च ज्ञातिबान्धवान् ॥ इत्येतेश्च अभिषेकं कुर्युः। अभिषेकान्ते यजमानः सहस्रधारा भिः स्नात्वा शुक्लाम्बरधरो भूत्वा रूपंरूपमिति मन्त्रेण (२८५) घृत च्छायादर्शनं कृत्वा स्नानवस्त्राण्याचार्याय दत्त्वा सुमुहूर्चे शङ्खादिरचे जायमाने स्वस्तिवाचनं पठत्सु विप्रेषु पुत्रमुखं पश्यन् अङ्गादङ्गादिति मन्त्रेण(२८५) पुत्र स्वाङ्के निधाय मूर्त्यवघ्राय गोदानप्रतिमादानहो मदक्षिणादिसंकल्पं कुर्यात् । तद्यथा-अधेहेत्यादि संकीर्त्य अमुक राशिरमुकशा सपुत्रसपत्नीकोऽहं मम पुत्रस्य आश्लेषानक्षत्रे जन्म सूचितारिष्टनिवृचिद्वारा शुभफलमाप्तये सर्वोपद्रवशान्त्यर्थं च शौनको क्तप्रकारेण कृतस्याश्लेषाशान्तिहोमकर्मणः साङ्गफलमासये साहु ण्यार्थं च इमां सवत्सां कृष्णां गां (तन्निक्रय) तथा वस्त्रकुम्भसहिता धिदेवताप्रत्यधिदेवताप्रतिमासहिताश्लेषानक्षत्रदेवसप्पप्रतिमां तथेमां नवग्रहपूजासामग्री च प्राचार्याय दास्ये। तथा श्रोद्रजापिने सकु म्भवस्त्रां श्रीमतिमां कृष्णमनड्वाहं (तनिष्क्रय) च दास्ये। तथा ब्रह्मसदस्यर्विक्सप्तशतोशान्तिकाध्यायाप्रतिरथमुक्तादिपाठकारकेभ्यो

१६. एकाकीपक ब्राह्मणेभ्यो यथांश दक्षिा विभज्या दास्ये। तथा भूयसी द क्षिणां यथाविभवसिद्धलिष्टं च ब्राह्मणेभ्योऽन्योन्याश विभज्य दास्ये ॐतत्सन मम इदि संकल्छ यथाम याचाच सुवर्ण लदई ब्रह्मणे तद सदस्याय तदई मृत्विरभरः तदई सूक्तादिपाठकेभ्यो दद्यात् । तत आचार्य्यादयो ब्रामणास्तिलकालतारोपण-रक्षाबन्धन व्यायुषकरण-मन्त्रपागदिकं कुयुः । यजमानश्च तेभ्य आशिषो गृहीत्वा प्रणिपत्य क्षमापयेत् । ततः सर्यादीनां देवतानामग्नेश्चोत्त राङ्गपूजनं विधाय ताम्रपाने फलपुष्पादियुतमध्यं गृहीत्वा – सर्पाधीश नमस्तुभ्यं नागानां च साधिप । गृहाणायं मया दत्तं सर्वारिष्टप्रशान्तये ॥ इत्ययं दत्त्वा “यान्तु देवगणा” इति देवान्विसृज्य गच्छग च्छेत्यग्निं च विसृज्य कांस्यपात्रोपरि स्थाप्य दीपान्प्रज्वलितान्बुधः । प्रकुर्यान्मङ्गलार्थं च महानीराजनं विधिम् ।। इत्युक्तपकारेण नीराजनं कारयित्वा ततः पायसादिना,सिद्धा नेन शतं, पञ्चाशतं, दश वा ब्राह्मणान्भोजयिष्ये इति संकल्प्य ता भोजयित्वा आमं मिष्टं वा तेभ्यो दत्त्वा “ऋचंवाचम्” इति शान्त्य ध्यायपाट कारयित्वा तेभ्य आशिषो गृहोत्या कर्मसंपूर्णतां वाचयित्वा “कायेन वाचा” इति पठित्वा ‘अनेन शान्तिकर्मणा ॐ तत्सत श्रीपरमेश्वरः प्रीयतां तत्पीत्या सर्पाः प्रीयन्तां न मम’ इति ईश्वराय समर्प्य ब्राह्मणानुज्ञया सुहृद्वन्धुयुतः स्वयं भुञ्जीतेति । आश्लेषा शान्तिः प्रायो मूलशान्तिवत् ॥ इति शौनकोक्ताश्लेषानक्षत्रजननशान्तिप्रयोगः॥ अथ प्रथमोर्वदन्तजननशान्तिविधिः । हेमाद्रौ पाझे विष्णुधर्मोत्तरे च परशुरामं प्रत्याह पुष्करः दन्तजन्मनि बालानां लक्षणं तन्निबोध मे। उपरि प्रथमं यस्य जायन्ते हि शिशोद्विजाः॥ दन्तैर्वा सह यस्य स्याजन्म भार्गवसत्तम । RER शान्तिप्रकरणे प्रथमोर्वदन्तजननशान्तिप्रयोगः। २६१ मातरं पितरं चैव खाढत्यात्मानमेव च।। शान्ति तत्र प्रवक्ष्यामि तां मे निगदतः शृणु। गजपृष्ठस्थितं बालं नौस्यं वा स्नापयेद् बुधः ॥ तदभावे तु धर्मज्ञ काञ्चने च वरासने । सर्वोषधैः सर्वगन्धै-जैः पुष्पैः फलैस्तथा । पञ्चगव्यैः पञ्चरत्नमृत्तिकाभिश्च भार्गव ( स्नापयेत् ) । स्थालीपाकेन धातारं पूजयेत्तदनन्तरम् ॥ सप्ताहं चात्र कर्त्तव्यं तथा ब्राह्मणभोजनम् । अष्टमेऽहनि विवाण तथा देया च दक्षिणा ।। काश्चनं रजतं गां च भुवं वा धान्यमेव च । इति । प्रकारान्तरमुक्तं पद्मपुराणे दन्तजन्मनि सामान्ये (निषिद्धे ) शृणु स्नानमतः परम् । भद्रासने निवेश्यैनं मूर्ध्नि मूलफलैस्तथा ।। सौषधैः सर्व्वबीजैः सर्वगन्धैस्तथैव च । स्नापयेत्पूजयेञ्चाथ वह्निसोमसमीरणान् ॥ पर्वतांश्च तथा ख्यातान् देवदेवं च केशवम् । एतेषामेव जुहुयात् धृतमनौ यथाविधि ॥ ब्राह्मणानां तु दातव्या यथाशक्त्या च दक्षिणा । ततस्त्वलंकृतं बालमासने तूपवेशयेत् ॥ पूज्याश्चाविधवा नार्यो ब्राह्मणाः सुहृदस्तथा । इति । अथ प्रथमोवदन्तजननशान्तिप्रयोगः। चन्द्रतारानुकूले शुभदिने नित्यमनुष्ठाय शुभासने उपविश्य दीपं प्रज्वलय्याचम्य अधू संस्थाप्य प्राणानायम्य शा. पा. गणेशपूज नसंकल्पं कुर्यात् । अथेहेत्यादि संकीर्त्य अमुकोऽहम् अमुकराशेरस्य बालकस्य प्रथमोर्ध्वदन्तजननशान्तिकर्मणि सर्वविघ्नोपशान्त्यर्थं श्रीभ गवतो गणेश्वरस्य पूजनं करिष्ये इति संकल्प्य यथोक्तविधानेन ग पेशं संपूज्य प्रधानसंकल्पं कुर्यात् । अयेह अमुकोऽहम् अमुकराशे२६२ परिशिष्टदीपके रस्य बालकस्य प्रथमम् ऊर्ध्वदन्तजननेन सुचितारिष्टनिवृत्तिद्वारा श्री परमेश्वरमीतये सर्वोपद्रवशान्त्यर्थं च पायोक्तां शान्तिं करिष्ये । तत्पूर्वाङ्गत्वेन मातृपूजानान्दोश्राद्धपुण्याहवाचनानि करिष्ये इति सं कल्प्य यथोक्तविधिना तानि विधाय अयेहेत्यादि संकीर्त्य अमुकोऽ हम् अमुकराशेः पुत्रस्य प्रथमोर्ध्वदन्तजननशान्तिकर्म कर्तुम् आ चार्यब्रह्मणोः पूजनपूर्वकं वरणं करिष्ये इति संकल्प्य तौ वृणुया द। ततो वृत प्राचार्यः होमवेदी निर्मायाग्नि पञ्चभूसंस्कारपूर्वक संस्थाप्य तदोशाने कलशं संस्थाप्य तत्र नवग्रहानाबाह्य तदुत्तरतः द्वितीयं कलशं संस्थाप्य तस्मिन् सवौषधि-स-बीज-सर्वगन्ध-प श्वगव्य-पञ्चरत्नानि निक्षिप्याभिमन्व्य तजलेन भद्रासनोपविष्टं बाल कं देवस्यत्वेत्यादिमन्त्रः (२८१) सुरास्त्वेत्यादिमन्त्रैश्च नवभिः ( २८३ ) अभिषिच्य वयादिसुवर्णप्रतिमाः अग्न्युत्तारणपञ्चामृत स्नापनपूर्वकं ताम्रपाने संस्थाप्य पूजादिसंकल्पं कुर्यात् । तद्यथा सुवर्णपतिमासु वहिसोमवायुपर्वतदेवदेवकेशवान पूजनं कलशे नवग्र हपूजनं च कारण्ये इति। “एतते” इति पठित्वा ॐ भूर्भुवः स्वः सुवर्णप्रतिमासु वह्नि-सोम-वायु-हिमवदादिपर्वत-देवदेवकेशवाः कलशे ब्रह्मवरुणसहितादित्यादिनवग्रहाश्च सुप्रतिष्ठिता वरदा भवन्तु इति प्रतिष्ठाप्य नाममन्त्रैर्ध्यानावाहनादि कुर्यात् । तद्यथा-ॐ ब्रह्म वरुणसहितादित्यादिनवग्रहेभ्यो नमः इत्यादिभिः ॐ वह्नये नमः ॐ सोमाय नमः ॐ वायवे नमः ॐ हिमवदादिपर्वतेभ्यो नमः ॐ देवदेवकेशवाय नमः इत्येतेश्च मन्त्रैः पाद्यादिनीराजनान्तं संपूज्य रक्षा सूत्रमभिमन्व्य ग्रहकलशे प्रतिष्ठाप्य होमवेदोसमीपमागत्य ब्रह्मोपवेश नादि पर्युक्षणान्तं कृत्वा वरदनामानमग्निम् “एतं ते” इति प्रतिष्ठाप्य अनिं रेखा जिहाश्च सम्पूजयेत् । __ ततो यजमानो द्रव्यदेवताभिध्यानपूर्वक द्रव्यत्यागं कुर्यात् । अधेह अमुकोऽहं प्रथमोर्ध्वदन्तजननशान्तिकर्मणा यक्ष्ये । तत्र प्रजाप तिम् , इन्द्रम् , अग्निं, सोमम् आज्येन-वहिं सोमं वायुं हिमवदा शान्तिप्रकरणे प्रथमोर्ध्वदन्तजननशान्तिप्रयोगः। २६३ दिपर्वतान् देवदेवं केशवम् अष्टाविंशतिघा श्राज्येन-अग्न्यादिप्रजा पत्यन्तान् स्विष्टकृतं चाज्येनाहं यक्ष्ये । ___ इदमाज्यम् आधाराज्यभागदेवताभ्यः वह्नि-सोम-वायु-हिमव दादिपर्वत-देवदेवकेशवेभ्यः महाव्याहृतिसर्वप्रायश्चित्तदेवताभ्यः प्र जापतये स्विष्टकृते च मया परित्यक्तम् ॐ तत्सत् यथादैवतमस्तु न मम इति । तत प्राचार्यः ब्रह्मणाऽन्वारब्धो मनसा प्रजापति ध्यात्वा ॐ प्रजापतये स्वाहा ( इदं प्रजापतये.) इति हुत्वा ॐ इन्द्राय स्वाहा ( इदमिन्द्राय.) ॐ अग्नये स्वाहा ( इदमग्नये, ) ॐ सोमाय स्वा हा (इदासोमाय.) इति जुहुयात् । अथ अन्वारम्भं त्यक्त्वा प्रतिदै वतं नाममन्त्रैः अष्टाविंशतिधा प्रधानहोमः। ॐ वह्नये स्वाहा २८ ( इदं वह्नये.) ॐ सोमाय स्वाहा २८ ( इदासोमाय.) ॐ वायवे स्वाहा २८ ( इदं वायवे.) ॐ हिमवदादिपर्वतेभ्यः स्वाहा २८ ( इद: हिमवदादिपर्वतेभ्यो.) ॐ देवदेवकेशवाय स्वाहा २८ (इदं देवदेवकेशवाय ) इति मन्त्रैः प्रत्येकमाज्यहोमम् अष्टाविंशतिधा कृत्वा अन्वारब्धो भूरादिनवाहुतिहोमं स्विष्टकृद्धोमं च कुशकण्डिको तरीत्या विधाय बहिर्होम संस्रवप्राशनम् पवित्रप्रतिपत्ति प्रणीतावि मोकं च कुर्यात् । ततो यजमानः ब्रह्मणे पूर्णपात्रदानं विदध्यात् । तत प्राचार्यः पूर्णाहुतिं कृत्वा कलशजलेन पूर्वोक्तमन्त्रैर्वालकमभि पिच्य उत्तराङ्गत्वेन देवान् सम्पूज्य होमसाङ्गतासिद्धयर्थं दक्षिणा दानसंकल्पं कुर्या-अद्येहेत्यादि संकीयं अमुकोऽहम् अमुकराशेः पुत्रस्य प्रथमम् ऊर्ध्वदन्तजननेन सूचितपित्रावरिष्टनिवृत्तये शुभफल प्राप्त्यै सर्वोपद्रवशान्त्यर्थं च कृतस्य शान्तिकर्मणः साङ्गतासिद्धयर्थ म् इमां सुपूजितां सवत्सां गाम् ( तन्निष्क्रयम् ) आचार्याय दास्ये। तथेमां भूयसी दक्षिणां न्यूनातिरिक्तदोषपरिहारार्थ ब्राह्मणेभ्योऽन्ये भ्यश्च विभज्य दास्ये। तथा यथाशक्ति यथासंख्याकान् ब्राह्मणान् भोजयिष्ये । भोजनपर्याप्तमिष्टान्नादिकं वा दास्ये । ॐ तत्सत् न मम इति संकल्प्य प्रतिमाः गां (गोनिष्क्रय ) होमदक्षिणां चाचार्याय २६४ परिशिष्टदीपके दत्त्वा अन्येभ्यो ब्राह्मणेभ्यो दक्षिणां दत्त्वा अभिषेक-तिलक-रक्षा बन्धन-व्यायुपकरण-मन्त्रपाठादिकं कारयित्वा घृतच्छायां दृष्ट्वा ब्राह्मणान् भोजयित्वा मिष्टादिकं वा तेभ्यो दत्त्वा कर्मेश्वरार्पणं कृत्वा ब्राह्मणानुज्ञातः सुहृदादियुतो भुञ्जीतेति ॥ इति प्रथमोदन्तजननशान्तिप्रयोगः॥ सदन्तबालजननेऽपि अयमेव प्रकापोऽनुष्ठेयः । अथ वृद्धगर्गोक्ता पित्राधेकनक्षत्रजननशान्तिविधिः । एकस्मिन्नेव नक्षत्रे भ्रानो, पितृपुत्रयोः। भ्रात्रोः-भ्रातृभगिन्योनक्षत्रे भ्रातृभगिन्योरित्यर्थः। प्रसूतिश्चेत्तयोर्मृत्युभवेदेकस्य निश्चयात् ॥ पितृपुत्रयोः-मातापिनक्षत्रे पुत्रकन्ययोरित्यर्थः। तत्र शान्ति प्रवक्ष्यामि सर्वाचार्यमतेन तु । शुभर्स शुभवारे च चन्द्रतारावलान्विते ॥ रिष्टविष्टिविवर्जे च प्रारभेदिवसे सुधीः । आचार्य वरयेत्पूर्व चतुरोऽथ द्विजोत्तमान् ॥ । कृताकृतावेक्षणाय ब्रह्माणं, होमार्थं त्रीनिति चतुर इत्यर्थः । पुण्याहं वाचयित्वा तु शान्तिकर्म समाचरेत् । अग्नेरीशानदिग्भागे नक्षत्रप्रतिमा ततः॥ तत्तदृक्षोक्तमन्त्रेण पूजयेत्कलशोपरि । नक्षत्रदेवतामन्त्राश्च वसिष्ठप्रोक्तसंहितायाम् ४६ अध्याये उक्ताः । रक्तवस्त्रेण सञ्छाद्य वस्त्रयुग्मेण चेष्टयेत् ॥ स्वशाखोक्तेन तन्त्रेण कुर्य्यादग्निमुखं ततः। अनेनैव तु ( ऋक्षोक्तेनैव ) मन्त्रेण हुवेदष्टोत्तरं शतम् ॥ प्रत्येकं समिदनाज्यैः प्रायश्चित्तान्तमेव च । अभिषेकं ततः कुर्यादाचार्यः पितृपुत्रयोः ॥ पितृपदमुपलक्षणम् । यन्नक्षत्रे जन्म तेन सह बालस्याभिषेकः । वस्त्रालंकारगोदानैराचार्य पूजयेत्ततः । ऋत्विम्भ्यो दक्षिणां दद्यान्माषत्रयसुवर्णकम् ॥ शान्तिप्रकरणे पित्राोकनक्षत्रजननशान्तिप्रयोगः । ३६५ देवताप्रतिमादानं धान्यवस्त्रादिभिः सह । यानशय्यासनादीनि दद्यात्तदोषशान्तये ॥ भोजयेद्राह्मणाशक्त्या वित्तशाठ्यविवर्जितः । एवं कृत्वा विधानं तु शान्तिर्भवति निश्चितम् ॥ इति । अथ पित्रायेकनक्षत्रजननशान्तिप्रयोगः । मातापितनक्षत्रे पुत्रकन्याजन्मनि जाते प्रथमं गोमुखप्रसववि धानं कार्यम् । “पित्ररिष्टे मात्ररिष्टे” इति पूर्वोक्तवचनात् । प्रात् भगिनीनक्षत्रे भ्रातभगिन्युत्पत्तौ तु एतदङ्गमेव कर्त्तव्यम् । चन्द्रतारानुकूले शुभदिने प्रातर्नित्यं कर्म समाप्य शुभासने उप विश्य दीप प्रज्वलय्याचम्य शान्तिपाठ (स्वस्तिवाचनं) कृत्वा पित्रा येकनक्षत्रजननशान्तिकर्मणो निर्विघ्नतासिद्धयर्थं गणेशं यथाविधि संपूज्य प्रधानसंकल्पं कुर्यात् । ____ अधेहेत्यादि संकीयं अमुकोऽहम् अमुकराशेरस्य पुत्रस्य पित्रा येकनक्षत्रजननसूचितारिष्टनिवृत्तये शुभफलप्राप्तये सर्वोपद्रवशान्त्यर्थ श्रोपरमेश्वरप्रीतये च एकनक्षत्रजननशान्ति करिष्ये। तत्पूर्वाङ्गत्वेन मातृपूजा-नान्दीश्राद्ध-पुण्याहवाचनानि करिष्ये । तथा होमार्थम् आचार्यब्रह्मविजा सप्तशतीशान्तिकाध्यायादिपाठकारकाणां च पूज नपूर्वकं वरणं करिष्ये-इति संकल्प्य मातृपूजनादि पुण्याहवाचना न्तं विधाय आचार्यब्रह्मादीनां वरणं कुर्यात् । ___ तत आचार्यः सर्षपान्विकीर्य भूमि सम्मोक्ष्य तत्र होमवेदी कृत्वा तत्र पञ्चभूसंस्कारपूर्वकमग्निं संस्थाप्य द्या ईशाने कलशवि. धिना कलशं संस्थाप्य तत्र नवग्रहानाबाह्य कलशोपरि ताम्रादिपू. पर्णपात्रे पनाङ्कितवस्त्राच्छन्ने जन्मनक्षत्रदेवतापतिमाम् अग्न्युत्तारण पूर्वकं पञ्चामृतेन संस्नाप्य स्थापयेत् । “एतन्ते” इत्यादि पठित्वा ॐ भूर्भुवः स्वः सुवर्णप्रतिमायाम् अमुकजन्मनक्षत्रदेव सुमतिष्ठितो वरदो भव इति प्रतिष्ठाप्य तन्नक्षत्रदेवमन्त्रेण पाद्यादिभिः पूजयेत् । ततः कलशं रक्तवस्त्रेण संछाद्य श्वेतवस्त्रयुग्मेण वेष्टयेत् । कलशे २६६ परिशिष्टदीपके ब्रह्मवरुणसहितादित्यादिनवग्रहांश्च सम् ज्य रक्षासूत्रमभिमन्व्य कल शे संस्थाप्य होमवेद्यां ब्रह्मोपवेशनादिपर्युक्षणान्तं चरुश्रपणसहि तं कर्म कुर्यात् । ___ ततो यजमानो द्रव्यदेवताभिध्यानपूर्वक द्रव्यत्यागं कुर्यात् । अघेह एकनक्षत्रजननशान्तिकर्मणाऽहं यक्ष्ये । तत्र प्रजापतिमिन्द्र मग्नि सोमम् आज्येन-अमुकनक्षत्रामुकदेवता समिञ्च,ज्यद्रव्यैः प्रत्येकमष्टोत्तरशतसंख्याहुतिभिः शेषेण स्विष्टकृतम्-अग्न्यादिप्रजा पत्यन्तांश्चाज्येन यक्ष्ये। तदेतद्धोमद्रव्यजातम् आघाराज्यभागदेवनाभ्यः अमुकनक्षत्रदे वतायै स्विष्टकृते अग्न्यादिप्रजापत्यन्तेभ्यश्च म या परित्यक्तम् ॐ त त्सत् यथादैवतमस्तु न मम इति । तत प्राचार्यः “एतन्ते” इत्यादिना वरदनापानमग्निं प्रतिष्ठाप्य पाचादिभिः सम्पूज्य रेखा जिह्वाश्च संपूज्य प्रोक्षणीपात्रं प्रणीताग्न्यो मध्ये निधाय अन्वारब्ध आधारावाज्यभागौ च जुहुयात् । ’ (१)ततः नक्षत्रदेवतामन्त्रेण त्रय ऋत्विजो वा, प्राचार्यब्रह्माणी ऋत्विक् चेति त्रयो वा वरणानुसारेण अष्टोत्तरशतसंख्यया समिच्च ज्यद्रव्यैः प्रत्येक प्रधानहोम कुर्युः। (१) मातुः पितुः भ्रातुः भगिन्या चा जन्मनक्षत्रे अपत्यस्योत्पादे एकनक्षत्रजननशान्तावनुष्ठीयमानायामुपयोगिनो याजुधैदिकाः अश्चिन्या दिनक्षत्रदेवतामन्त्राः क्रमेण प्रदर्श्यन्ते यावांकशेतिमेघातिथिक्रषिः गायत्री छन्दः अश्विनौ देवते नक्षत्रदे वताहोमे विनियोगः । यावांकशामधुमत्यश्विनासूनृतावती। तयायॉमिमिक्षतम् ॥१॥ ( वसिष्ठसंहितायां “देवस्यत्वा” इति अश्विनोमन्त्र उक्तः) यमायत्वेति दध्याथर्षणऋषिः यजूभृषि यमोदेवता न. .. यमायत्वामखायत्वासूर्यस्यत्वातपसे । देवस्त्वासविताम ध्वानक्तुपृथिव्या सस्पृशस्पाहि । अचिरसिशोचिरसितपोऽसिर … (व. सं. “व्यम्बकम्” इति यममन्त्र उक्तः) शान्तिप्रकरणे पिनाकनक्षत्रजननशान्तिप्रयोगः। २६७ तत प्राचार्यः अन्वारब्धः स्विष्टकृद्धोम, भूरादिनवाहुतिहोम, पूर्णाहुतिहोमं, बलिदानं च विधाय बहिहोमं संस्रवपाशनादिकं च कुर्यात् । अनिंदूतमितिविरूपऋषिः गायत्री. अग्निदेवता न. अमिंदृतं पुरोदधे हव्यवाहमुपवे । देवाँ २॥ आसादयादिह३ (व. सं. “पुनन्तु माम्” इति अग्निमन्त्र उक्तः) ब्रह्मनज्ञानमितिप्रजापतिऋषिस्त्रिष्टुप्छन्दः ब्रह्मादेयता न. ब्रह्म जज्ञानं प्रथम पुरस्ताद्विसीमतः सुरुचोव्येन ऽश्रावः । सबुध्न्याऽउपमाऽअस्यन्विष्ठाः सतश्चयोनिमसतश्चधिवः४ (व. सं. “नमो ब्रह्मण” इत्युक्तः) आप्यायस्वेतिगौतमऋषिर्गायत्री. सोमोदेवता न. आप्यायस्वसमेतुते विश्वतः सोमवृष्ण्यम्।भवावाजस्यसंगथे५ (व. सं. “नवोनवोभवति” इत्युक्तः) नमस्ते इति प्रजापतिबंषिर्गायत्री. एकदो देवता न. नमस्तेन्द्रमन्यवऽउतोतइषवेनमः । बाहुभ्यामुततेनमः ६ (व. सं. “नमः शङ्कराय” इत्युक्तः) अदितिधोरिति गोतमऋषिस्त्रिष्टुप्छन्दः अदितिर्देवता न, अदितिधौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः। विश्वेदेवाऽअदितिः पञ्चजनाऽअदितिर्जातमदितिर्जनित्वम् ७ बृहस्पते इति गृत्समदऋषिस्त्रिष्टुप्छन्दः बृहस्पतिर्देवता न. बृहस्पतेऽप्रतियदर्योऽअर्हादधुमद्विभाति ऋतुमज्जनेषु । यहीदयच्छवसऋतप्रजाततदस्मासुद्रविणं धेहि चित्रम् ८. नमोऽस्तुसर्पभ्य इति प्रजापतिऋषिरनुष्टुप्छन्दःसादेवताः न. नमोऽस्तु सर्पेभ्यो ये केच पृथिवीमनु । येऽअन्तरिक्ष ये दिवि तेभ्यः सर्पेभ्यो नमः (एते एव व. सं.) पुनन्तुमापितर इतिद्वयोः प्रजापतिक्रषिरनुष्टुप्छन्दः पितरोदे वताः न. २६८ परिशिष्टदीपके ततो यजमानः ब्रह्मणे पूर्णपात्रदानं कृत्वा गां ( तनिष्क्रयं) होमदक्षिणां प्रतिमावस्त्रालङ्कारयुतामाचार्याय दत्त्वा ऋत्विग्भ्यो माषत्रयमितसुवर्ण दक्षिणां दत्त्वा सप्तशतीशान्तिकाध्यायादिपाठ कर्तृभ्यो ब्राह्मणेभ्योऽपि दक्षिणां दद्यात् । धान्यवस्त्रशय्यासनादीनि पुनन्तु मा पितरः सोम्यासः पुनन्तु मा पितामहाः। पुनन्तु प्रपितामहाः पवित्रेण शतायुषा ॥ पुनन्तु मा पितामहाः पुनन्तु प्रपितामहाः। पवित्रेण शतायुषा विश्वमायुर्व्यश्नवै १० (“आयन्तुन” इति व. सं.) भगप्रणेतरितिवसिष्ठऋषित्रिष्टुप्छन्दःभगोदेवता न. भगमणेतर्भगसत्यराधो भगेमांधियमुदवाददनः। भगमनोजनयगोभिरश्वैर्भगानृभिवन्तःस्याम ११ . (“भग एव भगवाँ २॥” इति व. सं.) अर्यमणंबृहस्पतिमिति तापसऋषिरनुष्टुप्छन्दः अर्यमादेवता न अर्यमणं बृहस्पतिमिन्द्रं दानाय चोदय । व्वाचं विष्णु सरस्वती, सवितारं च व्वाजिन स्वाहा १२ (“अर्यमायाति” इति व. सं.) आकृष्णेनेतिहिरण्यस्तूपऋषिस्त्रिष्टुप् . सवितादे. न. आकृष्णेनरजसान्वर्तमानोनिवेशयन्नमृतंमत्यंच । हिरण्ययेनसवितारथेना देवोयातिभुवनानि पश्यन् १३ (“उदुल्यम्” इति व. सं.) त्वष्टादधदिति श्राङ्गिरसऋषिस्त्रिष्टुप्, त्वष्टादेवता न. स्वष्टादधच्छुष्ममिन्द्रायवृष्णे ऽपाकोचिष्टुयेशसेपुरूणि । वृषायजन्तुषणंभूरिरेता मूर्धन्यज्ञस्यसमनक्तुदेवान् १४ . (“चित्रंदेवानाम्” इति व. सं.) वासोति बृहस्पतिऋषिरुषिणक्छन्दः वायुर्देवता न. पातो वा मनो वा गन्धर्वाः सप्तविशतिः । शान्तिप्रकरणे पित्राोकनक्षत्रजननशान्तिप्रयोगः। २६९ च यथाशक्ति दद्यात् । प्राचार्यादिभ्यः अन्येभ्यश्च भूयसीं दत्त्वा अभिषेकतिलकरक्षावन्धनव्यायुषलापनमन्त्रपाठादिकं कारयित्वा धृत च्छायादर्शनं कृत्वा यथाशक्ति पायसान्नादिना ब्राह्मणान्भोजयित्वा तेऽअग्रेऽश्वमयुञ्जस्तेऽअस्मिञ्जवमादधुः १५ (“स नः पिता” इति व. सं.) इन्द्रानोागतमिति विश्वामित्रऋषिर्गायत्री. इन्द्रामीदे.न. इन्द्राग्नी आगत: सुतं गीर्भिनभो व्वरेण्यम् । अस्य पातं धियेषिता १६ (अयमेव व. सं.) नमोमित्रस्येतिसूर्यऋषिजगती. मित्रोदेवता न. नमोमित्रस्यव्वरुणस्यचक्षसे महोदेवायतहतः सपर्यत । दूरदृशेदेवजातायकेतवे दिवस्पुत्रायसूर्यायश:सत १७ (“मित्रस्य चर्षणी” इति व. सं.) इन्द्र आसामिति प्रजापतिषित्रिष्टुप्छन्दः इन्द्रोदेवता न. इन्द्रऽासानेताबृहस्पतिदक्षिणायज्ञः पुरऽएतुसोमः । देवसेनानामभिभञ्जतीनां जयन्तीनांमरुतोयन्त्वग्रम् १८ (“इन्द्रव”) इति व. सं.) यतेदेवीति प्रजापतिपिस्त्रिष्टुप्छन्दोनितिर्दे.न. यतेदेवीनितिराषबन्ध पाशंग्रीवास्वविवृत्यम् । तंतेविष्याम्यायुषोनमध्यादथैतं पितुमद्धिमसूतः १९ (“मोपुण” इति व. सं.) आपोहिष्ठेति सिन्धुद्वीपऋषिर्गायत्रील. आपोदेवताः न. आपोहिष्ठामयोभुवस्तान ऊर्जेदधातन । महरणायचक्षसे २० (“आप्यायस्वे"ति व. सं.) विश्वेदेवासइतिगृत्समदऋषिर्गायत्री. विश्वेदेवादेवताः न. विश्वेदेवासऽआगत शृणुतामइम हवम् । एदबहिनिपीदत२१ (अयमेव व. सं.) इदंविष्णुरिति मेधातिथिर्कषिर्गायत्री. विष्णुर्देवता न. २७० परिशिष्टदीपक मिष्टान्नं वा तेभ्यो दत्त्वा क्षमापयित्वा कर्मेश्वरार्पणं कुर्यात् । अनेन सुख शान्तिर्भवति । इति पित्रायेकनक्षत्रजननशान्तिप्रयोगः ॥ अथ त्रिकप्रसवशान्तिविधिः ॥ स च शान्तिसर्वस्वे सुतत्रये सुता चेत्स्यात्तत्रये वा सुतो यदि । मातापित्रोः कुलस्यापि तदाऽनिष्टं महद्भवेत् ॥ ज्येष्ठनाशो धने हानिदुःखं च सुमहद्भवेत् । इदं विष्णुर्विचक्रमे त्रेधानिदधेपदम् । समूढमस्यपासुरे २२ (“अतो देवा” इति व. सं.) सुगावोदेवा इति प्रजापतिक्रषिस्त्रिष्टुप् . वसवोदेवादेवताः न. सुगावोदेवाः सदनाऽअकर्म यऽआजम्मेदासवनंजुषाणाः । भरमाणावहमाना हवी व्यस्मे धत्तव्वसवो वसूनिस्वाहा २३ (“त्रायन्ता"मिति व. सं.) इसमेइतिशुनाशेपऋषिर्गायत्री. वरुणोदेवता न. इममेवरुणश्रुधीहवमद्याचमृडय । त्वामवस्युराचके २४ (अयमेव व. सं.) उतनोऽहिर्बुध्न्य इति ऋत्विजऋषयस्त्रिष्टुप् . अजैकपाद्देवता न. उतनोऽहिर्बुध्न्यः शृणोत्वजएकपात्पृथिवीसमुद्रः । विश्वेदेवाजताधोहुवानाः स्तुतामन्त्राः कविशस्ताभवन्तु ३५ (“शममि"रिति व. सं.) अहिर्बुध्न्यदेवताकोऽप्ययमेवेति केचित् । वस्तुतस्तु “नमस्ते” इतिमन्त्रः अहिर्बुध्न्यदेवताकः । वसिष्ठसंहितोक्तः। तस्य ऋण्या दिक स्वरूपं च पूर्वनिर्दिष्टम् २६ पूषन् तति सुहोत्रऋषिर्गायत्रीछन्दः पूषादेवता न. पूषन्तवव्रतेव्वयं न रियेम कदाचन । स्तोतारस्तइहस्मसि २७ (“एस” इति व. सं.) शान्तिप्रकरणे त्रिकप्रसवशान्तिप्रयोगः। २७१ जातस्यैकादशाहे वा द्वादशाहे शुभे दिने । प्राचार्यमृत्विजो वृत्वा ग्रहयज्ञपुरस्सरम् । ब्रह्मविष्णुमहेशेन्द्रमतिमाः स्वर्णतः कृताः । पूजयेद्धान्यराशिस्थकलशोपरि संस्थिताः । पञ्चमे कलशे रुद्रं पूजयेद्रुद्रसंख्यया ॥ रुद्रसूक्तानि चत्वारि शान्तिमुक्तानि सव्वशः। द्विज एको जपेद्धोमकाले शुचिसमाहितः ॥ कलशे रुदसंख्यया एकादशवारं चत्वारि रुद्रमुक्तानि, शान्तिसूक्तानि सर्वशः कात्स्न्येन ( सर्वाणि ) जपेदित्यर्थः । आचार्यो जुहुयात्तत्र समिदाज्यतिलांश्चरुम् । अष्टोत्तरसहस्रं वा शतं वा त्रिशतं तु चा ॥ देवताभ्यश्चतुर्वक्त्रादिभ्यो ग्रहपुरस्सरम् । ब्रह्मादिमन्त्रैरिन्द्रस्य यतइन्द्रभयामहै ॥ ततः स्विष्टकृतं हुत्वा बलि पूर्णाहुतिं ततः । अभिषेक कुटुम्बस्य कृत्वाऽऽचार्य प्रतोषयेत् ।। हिरण्यं धेनुरेका च ऋत्विजा दक्षिणा तथा । प्रतिमा गुरवे देया उपस्करसमन्विताः ॥ प्राज्यस्य वोक्षणं कृत्वा शान्तिपाठं च कारयेत् । इति । ___ अथ त्रिकप्रसवशान्तिप्रयोगः। बालकस्य पिता एकादशाहै, द्वादशाहै, अन्यस्मिन्वा शुभदिने शान्तिसामग्री सम्पाद्य शुभासने उपविश्य दीप प्रज्वलय्याचम्य शान्तिपादं कृत्वा गणेशपूजनं कुर्यात् । अधू संस्थाप्य पूजासंकल्पः ॐ विष्णुः३अग्रेहेत्यादि संकीर्त्य अमुकोऽहं त्रिकमसवशान्तिकर्मणि निर्विघ्नतासिद्धये श्रीमदभावतो गणेश्वरस्य पूजनं करिष्ये । ततो यथाविधि गणेशपूजनं विधाय प्रधानसंकल्पं कुर्यात-अद्येहेत्यादि संकीर्त्य अमुकोऽहं मम सुता त्रयजननानन्तरं सुतजननेन सुतत्रयजननानन्तरं सुताजननेन वा सूचि तारिष्टनिवृत्तिद्वारा सर्वोपद्रवशान्त्यर्थं श्रीपरमेश्वरप्रीतये सग्रहमखां२७२ परिशिष्टवीपके शान्ति करिष्ये । तत्पूर्वाङ्गत्वेन मातृपूजानान्दीश्राद्धपुण्याहवाचनानि करिष्ये । तथा शान्तिकर्मार्थम् आचार्यब्रह्मविजां सूक्तादिपाठ कर्तृणां वरणं च करिष्ये इति संकल्प्य मातृपूजानान्दीश्राद्धपुण्या हवाचनानि विधाय आचार्यादीनां वरणं च विदध्यात् । तत आचा यः होमवेदी कृत्वा शान्तिभूमि सम्प्रोक्ष्य होमवेद्यां पञ्चभूसंस्कार पूर्वकमग्नि संस्थाप्य तत्पूर्वभागे नवग्रहवेदी कृत्वा तत्र नवग्रहानावा हयेव । तदसम्भवे कलशोपरि तानावाहयेत् । ग्रहवेद्या ग्रहकलशस्य वा उत्तरतः पञ्चसु धान्यराशिषु पञ्च कलशान् कलशविधानेन संस्थाप्य माषान्यूनसुवर्णनिर्मिताः ब्रह्मविष्णुमहेशेन्द्ररुद्रेति पञ्चानां देवानां प्रतिमाः अग्न्युत्तारणपूर्वकं पञ्चामृतेन संस्नाप्य पञ्चमु कल शेषु पञ्च प्रतिमाः संस्थाप्य पूजयेत् । पूजासंकल्पः ॐ विष्णुः ३ अधेहेत्यादि संकीर्त्य अमुकोऽहं त्रिकासवशान्तिकर्मणि सुवर्णपति मासु ब्रह्मविष्णुमहेशेन्द्ररुद्राणां, घेद्यां कलशे वा नवग्रहाणां च पूजनं करिष्ये । “ॐ एतन्तेदेव” इत्यादि पठित्वा ॐ भूर्भुवः स्वः वेद्या पङ्कजस्थकर्णिकाऽष्टदलस्थितेषु अक्षतपुञ्जषु, कलशे वा ब्रह्मवरुण सहितादित्यादिनवग्रहाः तथा सुवर्णप्रतिमासु ब्रह्मादिपञ्चदेवताः सुप्रतिष्ठिता वरदा भवन्तु इति प्रतिष्ठाप्य रक्षासूत्रं चाभिमन्य नाम मन्त्रैर्वेदमन्त्रैश्च ध्यानादि नीराजनान्तं ब्रह्मवरुणादिसहितान् ग्रहान् संपूज्य ब्रह्मादीन् वक्ष्यमाणमन्त्रैः पूजयेत् । मन्त्राश्च— ॐ ब्रह्म जज्ञानं प्रथम पुरस्ताद्विसीमतः सुरुचो व्वेन ऽावः । स बुधन्या ऽउपमा ऽअस्य विष्ठाः सतश्च योनिमसतश्च विवः ॥ ॐ ब्रह्मणे नमः॥१॥ ॐ इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्य पासुरे ॥ ॐ विष्णवे नमः ॥२॥ ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः प्रचोद यात् ॥ ॐ महेशाय नमः ॥ ३ ॥ ॐ यत इन्द्र भयामहे ततो नो ऽअभयं कृधि । . मघवञ्छन्धि तव तन्न ऊतिभिर्विद्विषो विमृषो जहि ॥ ॐ इन्द्राय नमः ॥ ४॥

शान्तिप्रकरणे त्रिकप्रसवशान्तिप्रयोगः। २७५ ॐ नमस्ते रुद्र मन्यवऽउतोत इषवे नमः । बाहुभ्यामुत ते नमः। ॐ रुदाय नमः ॥५॥ इति । ततः सूक्तजापकत्वेन वृत एकादशवारं वक्ष्यमाणानां चतुर्णा रुद्रसूक्तानां रुद्रकलशं स्पृशन् पश्यन् वा जपं कुर्यात् । ऋ० सं० अष्ट० १।३।२६ । कबुद्रायेति नवर्चस्य रुद्रमुक्तस्य कण्व ऋषिः आद्या अष्टौ गा यव्यः अन्त्याऽनुष्टुप रुद्रो देवता कलशे जपे विनियोगः। ॐ कद्रुद्राय प्रचेतसे मीढुष्टमाय तव्यसे । वोचेम शन्तमं हृदे ११ यथा नो अदितिः करत्पश्वे नृभ्यो यथा गवे । यथा तोकाय रुद्रियम् २। यथा नो मित्रो वरुणो यथा रुद्रश्चिकेतति । यथा विश्वे सजोषसः३ । गाथपतिं मेधपति रुद्रं जलापमेषजम् । तच्छंयोः सुम्नमीमहे । यः शुक्र इव सूर्यो हिरण्यमिव रोचते । श्रेष्ठो देवानां वसुः५ । शं नः करत्यर्वते सुगं मेषाय मेष्ये । नृभ्यो नारिभ्यो गवेद । अस्मे सोम श्रियमधि निधेहि शतम्य तृणाम् । महिश्रवस्तुवित्रम्णम् । मा नः सोम परिबाधो मारातयो जुहुरन्त । आन इन्दो वाजे भज८ । यास्ते प्रजा अमृतस्य परस्मिन्धामन्नृतस्य । मूर्धा नाभा सोमवेन आभूषन्ती सोमवेदाः ९ । ऋ० सं० अ० १।८।५। “इमा दाय” इत्येकादशस्य सूक्तस्य कुत्स ऋषिः श्राद्या नव जगत्यः अन्त्ये द्वे त्रिष्टुभौ रुद्रो देवता कलशे जपे विनियोगः । ॐ इमा रुदाय तवसे कपर्दिने क्षयद्वीराय प्रभरामहै मतीः । यथा शमसद् द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम्? मुळा नो स्रोत नो मयस्कृधि क्षयद्वीराय नमसा विधेम ते। यच्छं च योश्चमनुरायेजेपिता तदश्याम तव रुद्र प्रणीविषु २ अश्याम ते सुमतिं देवयज्यया क्षयद्वीरस्य तव रुद्र मीढ्वः । सुम्नायनिद्विशो अस्माकमाचरारिष्टवीरा जुहवाम ते हविः ३ त्वेषं वयं रुद्र यज्ञसाधं वङ्क कविमवसे निहयामहै । ३४५० २७४ परिशिष्टदीपके आरे अस्मद् दैव्यं हैलो अस्यतु सुमतिमिद्वयमस्यावृणीमहे ४ दिवो वराहमरुष कपर्दिनं त्वेषं रूपं नमसा निहयामहे । हस्ते बिभ्रद्धेषजावार्याणि शर्मवर्मच्छदिरस्मभ्यं यसत् ५। इदं पित्रे मरुतामुच्यते वचः स्वादोः स्वादीयो रुद्राय वर्धनम् । रास्वा च नो अमृतमतभोजनं त्मने तोकाय तनयाय मूळ ६ मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न उक्षितम् । मा नो वधीः पितरं मोत मातरं मा नः प्रियास्तन्वो रुद्र रीरिषः ७ मा नस्तोके तनये मा न आयौ मा नो गोषुमा नोअश्वेषु रीरिषः । वीरान्मा नो रुद्र भामितो वधीहविष्मन्तः सदमित् त्वा हवामहे ८ उपते स्तोमान् पशुपा इचाकरं रास्वापितमरुतां सुम्नमस्मे । भद्रा हि ते सुमतिर्मूळयन्तमाथा वयमव इत्ते वृणीमहे ।। आरे ते गोनमुत पूरुषघ्नं क्षयद्वीर सुम्नमस्मे ते अस्तु । मृळा च नो अधिच ब्रूहि देवाधाचनः शर्म यच्छद्विबर्हाः १० अवोचाम नमो अस्मा अवस्यवः शृणोतु नो हवं रुद्रो मरुत्वान् । तं नो मित्रो वरुणो मामहंतामदितिः सिन्धुः पृथिवो उत द्यौः ११ .. - ऋ० सं. अष्ट० २। अ.७ । व. १६-१७-१८।। “आतेपितः” इति पञ्चदशर्चस्य सूक्तस्य गृत्समद ऋषिः आद्याश्चतुर्दश जगत्या अन्त्या त्रिष्टुप् रुद्रो देवता कलशे जपे विनियोगः। ॐाते पितर्मरुतां सुम्नमेतु मा नः सूर्यस्य संदृशो युयोथाः। अभि नो वीरो अर्वति क्षमेत प्रजाये महि रुद्र प्रजामिः ॥ त्वाऽदत्तेभी रुद्र शंतमेभिः शतं हिमा अशीय भेषजेभिः। .व्यस्मद्वेषो वितरं व्यहो व्यमीवाश्चातय स्वा विधूचीः २। श्रेष्ठो जातस्य रुद्र श्रियाऽसि तवस्तमस्तवसा बज्रबाहो । पर्षिणः पारमंहसः स्वस्ति विश्वा अभीतीरपसो युयोधि ३ मा त्वाद्ध चुधा मा नमोभिर्मा दुष्टुती वृषम मा सहूती। उन्नो वीराँ अर्पय भेषजेभिभिषकतमं त्वा भिषजां शृणोमि ४ हवीमभिहवसे यो इविमिरवस्तोमेभीरुद्र दिषीय । शान्तिप्रकरणे त्रिकप्रसवशान्तिप्रयोगः। २७५ ऋदूदरः सुहवो मा नो अस्यै बभ्रुः सुशिप्रो रीरधन्मनायै ५ उन्माममन्द वृषभो मरुत्वान् त्वक्षोयसावयसा नाधमानम् । घृणीवच्छायामरपा अशीयाविवासेयं रुद्रस्य सुम्नम् ६ कस्यते रुद्र मुळ्याकुर्हस्तो यो अस्तिभेषजो जलापः । अपभर्तारपसो दैव्यस्याभीनुमा वृषभ चक्षमीथाः ७ प्रबभ्रवे वृषभाय श्विती चे महोमहीं सुष्टुतिमीरयामि । नमस्याकल्मलीकिनं नमोभिणीमहि त्वेषं रुद्रस्य नाम ८ स्थिरेभिरङ्गैः पुरुरूप उग्रो बभ्रुः शुक्रेभिः पिपिशे हिरण्यः। ईशानादस्य भुवनस्य भूरेनवाउ योषद्बुद्रादसुर्यम् । अर्हन् विभर्षि सायकानि धन्वाह निष्कं यजतं विश्वरूपम् । अर्हनिदं दयसे विश्वमभ्वं न वा ओजीयो रुद्र त्वदस्ति १० स्तुहि श्रुतं गतसदं युवानं मृगं न भीममुपहनुमुग्रम् ।। मृळा जरित्रे रुद्र स्तवानोऽन्यं ते अस्मन्निवपन्तु सेनाः ११ कुमारश्चित्पितरं वन्दमानं प्रतिनाना मरुदोपयन्तम् । भूरेर्दातारं सत्पतिं गृणीषे स्तुतस्त्वं भेषजारास्यस्मे १२ या वो भेषजा मरुतः शुचीनि या शन्तमा वृषणो या मयोभु। यानि मनुरणीता पिता नस्ता शश्च योश्च रुद्रस्य वश्मि १२ परिणो हैती रुद्रस्य वृज्याः परि त्वेषस्य दुर्मतिमहीगाव । अवस्थिरा मघवद्भयस्तनुश्व मीढ्वस्तोकाय तनयाय मुळ १४ एवा बभ्रो वृषभ चेकितान यथा देव न हृणीषे न हंसि । हवनश्रुनो देह बोधि बृहद्वदेम विदथे सुवीराः १५ ऋ० सं० श्रष्ट० ५।४।१३।। “इमा रुद्राय स्थिरपन्चने” इति चतुर्ऋचस्य सूक्तस्य वसिष्ठ ऋषिः आद्यास्तिस्रो जगत्यः अन्त्यामुष्टुप् दो देवता । कलशे जपे विनियोगः।। ॐइमा रुद्राय स्थिरधन्वने गिरः क्षिप्रेषवे देवाय स्वधान्ने । अपाळाय सहमानाय वेधसे तिग्मायुधाय भरता शृणोतु नः १ सहि क्षयेण क्षम्यस्य जन्मन साम्राज्येन दिव्यस्य चेतति । २७६ परिशिष्टदीपके अवनवन्तीरुपनो दुरश्चरानमीवो रुद्र जासु नो भव २ या ते दिधुदवसृष्टा दिवस्परि क्ष्मया चरति परिसा तृणक्तु नः। सहस्रं ते स्वपि वातभेषजा मा नस्तोकेषु तनयेषु रीरिषः ३ मा नो वधी रुद्र मा परादा मा ते भूम प्रसितौ हीळितस्य । आ नो भज बर्हिषि जीवशं से यूयं पात स्वस्तिभिः सदा नः ४ ___ एवं रुद्रसूक्तानि जपित्वा “शन इन्द्राग्नी” इत्यादीनि ऋग्वेद पठितानि शान्तिमुक्तानि “ऋचं वाचम्” इति याजुर्वेदिकं शान्त्य ध्यायं वा जपेत् । ____ जप्यमानेषु सूक्तेषु प्राचार्यों होमवेद्यां ब्रह्मोपवेशनादि पर्युक्ष णान्तं कर्म कृत्वा प्रोक्षणी प्रणीताग्न्योमध्ये निधाय “एतंते” इति वरदनामानमनि प्रतिष्ठाप्य सम्पूजयेत् । ततो यजमानो द्रव्यदेवताभि ध्यानपूर्वक द्रव्यत्यागं कुर्यात् । अयह त्रिकप्रसवशान्तिकर्मणाऽहं यक्ष्ये । तत्र प्रजापतिमिन्द्रमनिं सोममाज्येन-आदित्यादिग्रहान् समि दाज्यतिलचरुद्रव्यैः प्रत्येकमष्टसंख्यया-अधिदेवताः प्रत्यधिदेवताश्च तैरेव चतुःसंख्यया-विनायकादिलोकपालान् इन्द्रादिदिक्पालांश्च तैरेव द्विसंख्यया ब्रह्माणं विष्णुं महेशम् इन्द्रं रुद्रं च समित्तिलाज्य चरुभिः प्रत्येकमष्टोत्तरशतसंख्यया-शेषेण स्विष्टकृतम्-अग्न्यादिप्र जापत्यन्तांचाज्येन यक्ष्ये । __इदं समित्तिलाज्यचरुद्रव्यजातं तत्तद्देवताभ्यो मया परित्यक्तं यथादेवतमस्तु ॐ तत्सत् न मम इति । तत आचार्यः ब्रह्मणाऽन्वारब्धः दक्षिणं जान्वाच्य ॐ प्रजाप तये स्वाहा इत्यादिनाआधारावाज्यभागौ च हुत्वा त्यक्तान्वारम्भ ऋ विक्सहितो ग्रहयागप्रयोमोक्तरीत्या ग्रहादिहोमं कृत्वा ॐ ब्रह्म जज्ञा नमित्यादिभिः पूर्वोक्तः पञ्चभिर्मन्त्रैः प्रत्येक प्रधानब्रह्मादिदेवेभ्यः समिचिलाज्यचदन्यैरष्टोत्तरशतसंख्यं होमं विधाय अन्वारब्धः शे पेण स्विष्टकृते हुत्वा आज्येन भूरादिनवाहुतिहोमं कृत्वा बहिर्होम कृत्वा संस्रवपाशनादिकं विद्ध्यात् । ततो यजमानः ब्रह्मणे पूर्ण पान दया। शान्तिप्रकरणे यमलजननशान्तिविधिः। २७७ तत आचार्यः पायसेन दध्यक्षतैर्वा नवग्र हेभ्यो दिक्पालेभ्यो ब्रह्मादिदेवताभ्यश्च बलिदानं विधाय क्षेत्रपालाय बलिं दत्त्वा पूर्णा हुतिहोमम् उत्तराङ्गपूजनं च कुर्यात् । ततो यजमानः होमदक्षिणापतिमादानसंकल्पं कुर्यात् । ॐविष्णुः३ अद्येहेत्यादि संकीर्त्य सपत्नीकोऽहं मम सुतात्रयानन्तरं सुतजननेन सूचितारिष्टनिरसनद्वारा सुतत्रयानन्तरं सुताजननेन सूचितारिष्टनिर सनद्वारा वा सर्वोपद्रवशान्त्यर्थं नवग्रहयज्ञपुरस्सरं कलशोपरि सुवर्णम तिमासु ब्रह्मादिपञ्चदेवानां पूजापूर्वकं समित्तिलाज्यचरुद्रव्यैर्ब्रह्मादिप वमन्त्रैरष्टोत्तरशतसंख्यया कृतस्य होमकर्मणः साङ्गफलमाप्त्य इमां गां गोप्रत्याम्नायीभूतं सुवर्णादिद्रव्यं वा दक्षिणां तथेमाः सुपूजिता सौवर्णीः पञ्च प्रतिमाश्च प्राचार्याय दास्ये । तथेमां सुवर्णादिदक्षिणामृत्विग्भ्यः रुद्रादिसूक्तसप्तशतोपाठादिकर्तृभ्यो ब्राह्मणेभ्यो, भूयसी दक्षिणां चा न्येभ्यश्च विभज्य दास्ये । सिद्धान्नेन यथासंख्याकान्ब्राह्मणांश्च भो जयिष्ये मिष्टादिकं वा तेभ्यो दास्ये ॐ तत्सत् न मम इति सङ्कल्प्य प्राचार्याय प्रतिमादि, अन्येभ्यश्च सुवर्णादिदक्षिणां भूयसी च सर्व भ्यो दत्त्वा अग्निं देवांश्च विसृज्य षटकलशोदकेन “स्वस्तिन” इत्या दिमन्त्रैः सपत्नीकस्य सपुत्रस्य स्वस्य अभिषेकम् आचार्यादिभिः कारयेत् । ततः कांस्यपानं घृतपूरितं “ध्रुवासि” इत्यादिमन्त्रेणावेक्ष्य शान्तिपाठं कारयित्वा तिलकरक्षाबन्धनन्यायुषलापनमन्त्रपागदि का रयित्वा कर्मेश्वरापणं कृत्वा ब्राह्मणान्भोजयित्वा इष्टबन्धुसहितः स्वयं भुञ्जोत । एवं कृत्वा शान्तिर्भवति । इति विकासक्शान्तिः। अथ यमलजननशान्तिविधिः। शान्तिरत्ने कात्यायन: अथातो यमलजनने प्रायश्चित्तिर्यस्य भार्या गौर्दासी महिषी घडवा वा विकृति प्रसव पूर्णे दशाहे चतुर्णां क्षीरवृक्षाणां कषायम् (निर्यासम् ) उपसंहरेव प्लक्षवडोदुम्बराश्वत्थशमीदेवदागौरसर्ष पास्तेषां मिश्रमापो हिरण्यं दूर्षाधुरैः सपल्लभैरष्टौ कलशान्यपूर्य सौं २७८

परिशिष्टदीपक षधीनां दम्पती स्नापयित्वा “आपोहिष्ठा” इति तिसृभिः, “कयान चित्र” इति द्वाभ्यां, पञ्चैन्द्रेण, पञ्चवारणेन, “इदमापः प्रवहता” इति “अपाघम्” इति स्नापयित्वाऽलंकृत्य तौ दर्भेषूपवेश्य तत्र मा रुतं स्थालीपाकं श्रपयित्वाऽऽज्यभागाविष्ट्वाऽऽज्याहुतीर्जुहोति पूर्वो तैः स्नपनमन्त्रैः। स्थालीपाकस्य जुहोति-अग्नये स्वाहा, सोमाय स्वा हा, पवमानाय स्वाहा, पावकाय स्वाहा, मरुताय स्वाहा, मारुताय स्वाहा, मरुद्धयः स्वाहा, यमाय स्वाहा, ऽन्तकाय स्वाहा, मृत्यवे स्वाहा ब्रह्मणे स्वाहा, अनये स्विष्टकृते स्वाहेति । एतदेव गृहोत्पातेषु-उलूकः कङ्कः कपोतो गृध्रः श्येनो वा प्रविशेत् , स्तम्बो वा प्ररोहेव ,वल्मीक मधुजालं वा भवेद , उदकुम्भप्रज्वलने, आसनशयनयानभङ्गेषु, गृह गोधिकाककलासशरीरसपणे, छत्रध्वजविनाशे, ऽन्येष्वप्युत्पातेषु भू कम्पोल्कापात काकससङ्गमप्रेक्षणादिश्वेतदेव प्रायश्चित्तं ग्रहशान्ति चोक्तविधिना कृत्वाऽऽचार्याय वरं दत्त्वा ब्राह्मणान् भोजयित्वा स्वस्ति वाच्याशिषः प्रतिगृह्णीयात् शान्तिर्भवति इति । अथ प्रयोगः । आपोहिष्ठेति तिस्रः प्रसिद्धाः। कयानश्चित्र आभुवदूतीसदावृधः सखा । कयाशचिष्ठयारता ।। कस्त्वा सत्यो मदानां महहिष्ठो मत्सदन्धसः। दृढाचिदारुजेव्वसु ॥ इति द्वे। त्रातारमिन्द्रमवितारमिन्द्र हवेहवे सुहवः शूरमिन्द्रम् । हयामिशक्रपुरुहूतमिन्द्र स्वस्तिनोमधवाधाविन्द्रः ॥ इति पञ्चैन्द्रः । वरुणस्योत्तम्भनमसिव्वरुणस्यस्कम्भसर्जनीस्थोवरुणस्यऋत सदन्यसिव्वरुणस्य ऋतसदनमसिव्वरुणस्य ऋतसदनमासीद ।। इति पञ्चवारुणः। इदमापः प्रवहतावद्यं च मलं च यत् । यचाभिदुद्रोहानृतं यच्च शेपेऽअभीरुणम् । आपो मा तस्मादेनसः पवमानश्च मुञ्चतु ॥ इति, अपाघमप किल्बिषमप कृत्यामपो रपः । … अपामार्ग त्वमस्मदप दुःस्वप्न्या सुव ।। इति च । शान्तिप्रकरणे यमलजननशान्तिप्रयोगः। २७९ एतैर्मन्त्रैर्दम्पत्योः स्नापनम् । एतैरेवाज्येन होमश्च । तत्र द्रव्यदेवताभिध्याने त्यागे च विशेषः प्रजापतिम् इन्द्रम् अग्निट सोमम् आज्येन इत्यनन्तरम् अपः इन्द्र वरुणम् अपः अपा आर्गम् आज्येन-अान्यादीन स्विष्टकृदन्तान् स्थालीपाकेन-महान्या हृतिदेवताः सर्वप्रायश्चित्तदेवताः प्रजापतिवाज्येनाई यक्ष्थे । एतदा ज्यादिद्रव्यमाघाराज्यभागदेवताभ्यः प्रधानदेवताभ्य उत्तराङ्गदेवता भ्यश्च मया परित्यक्तम् ॐ तत्सन्न मम । ___ अथैषामृषयच्छन्दांसि देवता विनियोगाचोच्यन्ते । आपोहि ष्ठेति तिमृणां सिन्धुद्वीपऋषिर्गायत्रीछन्दः आपो देवताः होमे विनि योगः । कयान इति द्वयोर्वामदेवऋषिः गायत्रीछन्दः रुदो देवता होमे वि० । त्रातारमिन्द्रमितिगर्गऋषिस्त्रिष्टुप्छन्दः इन्द्रो देवता होमे वि० । वरुणस्येति प्रजापतिक्रषिः पञ्चयजूंषि वरुणो देवता होमे वि० । इदमाप इति प्रजापतिऋषिः महापतिश्छन्दःआषो देवताः होमे वि० । अपाघमिति शुनाशेपऋषिर्गायत्रीछन्दः अपामार्गो देवता होमे वि०। अग्न्ये स्वाहेत्यादिभिः स्थालोपाकहोमः। स्विष्टकृद्धोमानन्तरं भूरा दिनवाहुतिहोमः । ततः संस्रवप्राशनादिकमशेषं पूर्ववत् । इति यमलजननशान्तिः । इयमेव शान्ति र्यायाः, गोः, दास्याः, महिण्या वडवाया वा द्विशीर्षत्वादिविकारविशिष्टप्रसवे उलूकस्य, कङ्कस्य, कपोतस्य, गृध्रस्य, श्येनस्य ( वाजस्य ) वा गृह प्रवेशेगृहे तृणादिगुच्छपरोहै ___ गृह वल्मीकस्य (देउका वाळवी इति वा प्रसिद्धस्य ) मधु जालस्य वा उद्भवे उदकुम्भस्य जलोणीकरणाथ स्थापितस्य प्रज्वलने आसनस्य, शय्यायाः, यानस्य वा भङ्गे- . गृहगोधिकायाः, कलासस्य वा शरीरे सपणे छत्रस्य ध्वजस्य वा विनाशे काकमैथुनस्य सर्पमैथुनस्य वा प्रेक्षणे च कर्तव्या॥ परिशिष्टदीपके ॥ अथ गण्डान्तशान्तिः॥ गण्डान्तस्त्रिविधा नक्षत्रगण्डान्तस्तिथिगण्डान्तो लग्नगण्डान्तश्च । तत्र रेवत्यश्विन्योः, सार्पपैत्रयोः, ज्येष्ठामूलयोश्चान्तरालवर्तिघटी चतुष्टयं नक्षत्रगण्डान्तः । पञ्चदशोप्रतिपदोः, पञ्चमीषष्ठयोः, दश म्येकादश्योश्च मध्यवर्तिघटीद्वयं तिथिगण्डान्तः। कर्कसिंहयोः, वृश्चि कधनुषोर्मीनमेषयोश्च लग्नयोर्मध्यवर्तिघटिका) लमगण्डान्तः । तत्र नक्षत्रगण्डान्तशान्तिमाह-शान्तिरत्ने गर्गः, अश्विनीमधमूलादौ नाडिकाद्वितयं तथा । इत्युपक्रम्य तस्य शान्ति प्रवक्ष्यामि सोममन्त्रेण भक्तिमान् । कांस्यपात्रं प्रकुर्वीत पलैः षोडशभिनवम् ।। अष्टाभिर्वा चतुर्भिर्चा द्वाभ्यां वा शोभनं तथा। तन्मध्ये पायसे शङ्ख नवनीतेन पूरिते ॥ राजतं चन्द्रमर्चेत सितपुष्पसहस्रकैः। दैवज्ञः क्षोमवासास्तु शुक्लमाल्याम्बरार्चितः ।। सोमोऽहमिति संचिन्त्य पूजां कुर्यादतन्द्रितः । जपेत्साहस्रक मन्त्रं श्रद्दधानः समाहितः ॥ आप्यायस्वेति मन्त्रेण पूजां कुर्यात समाहितः । दद्याद दक्षिणामिष्टां गण्डदोषप्रशान्तये॥ शुक्लं वागीश्वरं चैव ताम्रपात्रसमन्वितम् । . गण्डदोषोपशान्त्यर्थ दद्याद्वेदविदे शुचिः ॥ इति । तिथिगण्डादौ शान्तिमाह शान्तिसारे गर्ग: तिथिगण्डे त्वनड्वाहं नक्षत्रे धेनुरुच्यते । काञ्चनं लमगण्डे तु गण्डदोषो विनश्यति ।। आधभागे पितुर्गण्डे प्रयाणामभिषेचनम् । इतरत्र शिशोर्मातुरभिषेकं तु कारयेत् ॥ इति । त्रयाणां मातापितृशिशूनामित्यर्थः। अथ नक्षत्रगण्डान्तशान्तिप्रयोगः । तत्र गोमुखास गणेशपूजादिपूर्वाङ्ग च विधाय द्रव्यवस्त्रा शान्तिप्रकरणे उत्तरापुष्यचित्रापूर्वाषाढाशान्ति २४१ चैत आचार्यः पोडशायन्यतमपलात्मकं नवं कांस्यपात्रं पायसेन पूरयित्वा तत्र शङ्ख नवनीतपूरितं पूर्वाग्रं संस्थाप्य तत्र राजती चन्द्र प्रतिमा प्रतिष्ठाच्य प्राप्यायस्टेति मन्त्रेण संपूज्य श्वेतपुश्पतहस त्रयेण पुष्पाञ्जलिं दत्त्वा तदुत्तरतः ताम्रपात्रे बृहस्पतिप्रतिमां तन्मन्त्रण पूजयेत् । ततो यजमान आचार्याय प्रतिमां दक्षिणां च दत्त्वा अन्ये भ्यो क्भ्यिश्च दक्षिणां दद्यात् । ब्राह्मणांश्च भोजयेत् । ज्योतिनि बन्धे तु कुङ्कमचन्दनकुलमोरोचनानि चत्वारि वृनकुम्भचतुष्टये प्रक्षि प्य सहस्राक्षेण मन्त्रेण वालकं स्नापयित्वा घृतपूर्णकांस्यपात्रेण सह क्षीरमौक्तिकशकश्वेतवस्त्रयुग्मं यजुर्वेद विदे दद्यात् इति विशेष उक्तः। इति नक्षत्रगण्डान्तशान्तिप्रयोगः। अथोत्तरापुष्यचित्रापूर्वाषाढाशान्तिविधिः । उत्तरातिष्यचित्रासु पूर्वापाहोद्भवस्य च । कुर्याच्छान्ति प्रयत्नेन नक्षत्राकारजां बुधः । सुवर्णेन तदर्धेन यथावित्तानुसारतः। नक्षत्राधिपते रूपं कृत्वा वस्त्रद्वयान्वितम् ॥ वरुणस्यार्चनं कार्य स्वस्तिवाचनपूर्वकम् । कुम्भे वरुणमभ्यर्च्य पूर्णपात्रोपरि नक्षत्राधिपति पूजयेदित्यर्थः । कुम्भे प्रक्षेपणीयान्याह शतौषधानि रत्नानि मृत् त्वक्पल्लवसंयुता ॥ पूजान्ते समिदनाज्यों में तिलयवैस्तथा । ततः पूर्णाहुति हुत्वा वेदाध्यायिकृटुम्बिने । उत्तरापथमे पादे तिलपात्रं तथैव च । तिष्ये तु गां सवत्सां च सुशीलां च पयस्विनीम् ॥ अजां चित्रासु वै दद्यात्पूर्वाषाढे तु काञ्चनम् । यवांश्च व्रीहिमाषांश्च तिलमुगान् प्रदापयेत् ॥ यथावित्तानुसारेण कुर्याद्राह्मणभोजनम् । पितुरायुज्यद्धयर्थं शान्तिरत्र विधीयते ॥ इति । प०३५२८२ परिशिष्टदीपके अथ कृष्णचतुर्दशीजननशान्तिविधिः । शान्तिरत्ने गर्ग: कृष्णपक्षे चतुर्दश्यां प्रसूतेः षड्विधं फलम् । चतुर्दश्यास्तु षड् भागाकुादाये शुभं भवेत् ॥ द्वितीये पितरं हन्ति तृतीये मातरन्तथा । चतुर्थे मातुलं हन्ति पञ्चमे वंशनाशनम् ( मातुलस्य)॥ षष्ठे तु धनहानिः स्यादात्मनो वंशनाशनम् । तस्मात् सर्वप्रयत्नेन शान्ति कुर्यात्प्रयत्नतः ॥ आचार्य वरयेद्धीमान पुत्रदारसमन्वितम् । स्वकर्मनिरतं शान्तं श्रोत्रियं वेदपारगम् ॥ सर्वालंकारसंयुक्तं सर्वलक्षणसंयुतम् । ब्रह्माणमृत्विजश्चैव स्वस्तिवाचनपूर्वकम् ॥ रुद्राधिदेवतां तस्याः कर्षमात्रसुवर्णतः । तदर्धेन तदर्धेन कुर्याद्वा शाठ्यवर्जितः ॥ प्रतिमा कारयेच्छक्त्या सर्वलक्षणसंयुताम् । वृषभे च समासीनं वरदाभयपाणिनम् ॥ शुद्धस्फटिकसंकाशं श्वेतमाल्याम्बरान्वितम् । त्रयम्बकेन मन्त्रेण पूजां कुर्याद्विधानतः ॥ स्थापयेचतुरः कुम्भान चतुदिक्षु यथाक्रमम् । आग्नेयादिषु । पुण्यतीर्थजलोपैतान्धान्यस्योपरि विन्यसेत् ॥ तन्मध्ये स्थापयेत्कुम्भं शतच्छिद्रसमन्वितम् । पश्वमृत्पश्चरत्नानि पञ्चत्वपञ्चपल्लवान् ।। पञ्चधान्यं सुवर्णं च तत्तन्मन्त्रैर्विनिक्षिपेत् । सर्वोषधानि निक्षिप्य श्वेतवस्त्रेण वेष्टयेत् ॥ सुरभीणि च पुष्पाणि श्वेतानि परिकल्पयेत् । सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः॥ आयान्तु यजमानस्य दुरितक्षयकारकाः । आवाह्य वारुणैमन्त्रैरनेन च विधानतः ॥ शान्तिप्रकरणे कृष्णचतुर्दशीजननशान्तिविधि।। २८३ इमम्मेवरुणेत्यनया तत्त्वायामीत्यचा तथा । त्वन्नोऽअमइत्यनया सत्वनइति मन्त्रतः ।। आग्नेयकुम्भमारभ्य पूजां कुर्याद्यथाविधि । आनोभद्रा इति सूक्तं भद्रा अग्नेश्व(ऋ.अष्ट.(८।२।१९)मुक्तकम्। जाप्यं तु पौरुषं मूक्तं च यथाक्रमम् । ईश्वरस्याभिषेकं च ग्रहपूजां च कारयेत् ॥ पूजाकम्म सुनिवत्ये होमं कुर्याद्विधानतः। गृहादीशानदिग्भागे कुण्डं कुर्याद्यथाविधि ।। विस्तारायामखातं च अरनिद्वयसंमितम् । कुण्डकण्ठं परित्यज्य समन्तादङ्गलं क्रमात् ।। मेखलोच्छायविस्तारौ चतुनियङ्गुलैः क्रमात् । पश्चिमे मध्यभागे तु योनि कुर्याद्विधानतः॥ योनि षडङ्गलां तिर्यग् द्वादशाङ्गुलदै यकाम् । अश्वत्थदलसंकाशा किंचिनिम्नायतां शुभाम् ॥ कुर्यादाघारपर्यन्तं स्वगृह्योक्तविधानतः । समिदाज्यचरूंश्चैव तिलमाषांश्च सर्षपैः (सहितान्) । अश्वत्थप्लक्षपालाशसमिद्भिः खदिरैः क्रमात् । अष्टोत्तरसहस्रं वा अष्टोत्तरशतं तु वा ॥ अष्टाविंशतिमेतैश्च होमं कुर्यात् पृथक् पृथक् । त्रयम्बकेन मन्त्रेण तिलान् व्याहृतिभिः क्रमात् ।। ग्रहहोमश्च कर्त्तव्यः अस्मदुक्तविधानतः । एवं क्रमेण होतव्यं होमशेष समापयेत् ।। सर्वालङ्कारयुक्तानां त्रयाणामभिषेचनम् । त्रयाणां मातापितृशिशूनाम् । चतुर्भिः कलशेरद्भिबृहत्कुम्भ(शतच्छिद्र)समन्वितैः ।। धौताम्बराणि धृत्वाऽथ कुर्यादाज्यावलोकनम् । पूर्णाहुतिं च जुहुयायजमानः समाहितः ।। तत्सर्वं परया भक्त्या ईश्वराय निवेदयेत् । २८४ परिशिष्टदीपक सर्वालंकारसंयुक्तां सवत्सां गां पयस्विनीम् ।। प्रतिमां वस्त्रयुग्मं च आचार्य्याय निवेदयेत् । भूयसीं चैव दत्त्वाऽथ ब्राह्मणान् भोजयेत्तथा । एवं यः कुरुते शान्तिं स च पापविवजितः। सर्वान् कामानवाप्नोति स्थिरजीवी सुखी भवेत् ॥ इति । इति कृष्णचतुर्दशीजननशान्तिविधिः। अथ अमावस्याजननशान्तिविधिः । शान्तिसारे नारद: अथातो दर्शजातानां मातापित्रोदरिद्रता । तदोषपरिहारार्थं शान्ति वक्ष्यामि ते सदा ।। पुण्याहं वाचयित्वाऽऽदो क्रतुसंकल्पपूर्वकम् । कुण्डं वा स्थण्डिलं कुर्यात्तद्देशे स्थापयेद्घटम् ।। तद्देशे तत्समीपे। तत्कुम्भे निक्षिपद व्यं दधिक्षीरघृतादिकम् । आदिशब्दागोमूत्रगोमये। न्यग्रोधोदुम्बराश्वत्थाः सचूता निम्बकस्तथा ।। एतेषां वृक्षमूलानां त्वगादीन्पल्लवांस्तथा । पञ्चरत्नानि निक्षिप्य वस्त्रयुग्मेण वेष्टयेत् ॥ सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः । आयान्तु यजमानस्य दुरितक्षयकारकाः ॥ आपोहिष्ठाव्यचेनाथ कयानश्चित्रइत्यूचा । यत्किञ्चेदमृचा चैव समुद्रज्येष्ठइत्यूचा ॥ अभिमन्व्योदकं पश्चादग्नेः पूर्वप्रदेशके । हारिद्रं रक्तकं चैव कृष्णं श्वेतं च नीलकम् ॥ एतेषां तण्डुलैश्चैव सर्वतोभद्रमुद्धरेत् । कुम्भतः पश्चादग्नेश्च पूर्वतो हारिद्रादिरङ्गरक्तस्तण्डुलैः सर्वतो भद्रमुद्धरेदित्यर्थः। दर्शस्य देवतायाच सोमसूर्य स्वरूपकम् ॥ शान्तिप्रकरणे अमावस्थाजननशान्तिविधिः। २८५ प्रतिमा स्वर्णजां नित्यं राजतीं ताम्रजां तथा। पितरूपाया दर्शदेवतायाः सोमसूर्ययोश्च स्वरूपं प्रतिमारूपं स्थापयेदित्यर्थ इति प्रयोगपारिजातः । सर्वतोभद्रमध्ये च स्थापयेदर्शदेवताम् ।। ग्रहवर्ण वस्त्रयुग्मं तद्वर्णं गन्धपुष्पकम् । आप्यायस्वेति मन्त्रेण सवितापश्चात्तथैव च । उपचारैः समाराध्य ततो होमं चरेत्सुधीः । कृत्वा वह्नि प्रतिष्ठाप्य क्रतुसंकल्पमीदृशम् ।। आयुरारोग्यसिद्धयर्थं सर्वारिष्टप्रशान्तये । पुत्रस्य दर्शजननं तस्य दोषनिवर्हणम् ॥ मातापित्रोः कुमारस्य सर्वारिष्टप्रशान्तये। तेषामायुःश्रिये चैव शान्तिहोमं करोम्यहम् ।। आयुरारोग्येति श्लोकद्वयेन क्रतुसंकल्पं कृत्वेत्यर्थः । समिधश्च चरुद्रव्यं क्रमेण जुहुयाद् गृहो । हुवेत्सवितृमन्त्रेण सोमोधेनुंच मन्त्रतः ॥ एतैर्मन्त्रैश्च प्रत्येकं हुवेदष्टोत्तरं शतम् । एतैरिति बहुवचनास्तिहोमोऽप्यष्टोत्तरशतमिति प्रयोगपारिजातः । दर्शस्य देवताहोमः अष्टाविंशतिसंख्यया ॥ होममेवं तु कृत्वाऽथ विदध्याचाभिषेचनम् । श्रीसूक्तमायुष्यमूक्तं समुद्रज्येष्ठइत्यूचा ॥ एतैर्मन्त्रैरभिषेकं मातापित्रोः शिशोस्तथा । ततः स्विष्टकृदादि स्याद्धोमशेष समापयेत् ॥ हिरण्यं रजतं चैव कृष्णां धेनु सदक्षिणाम् । अन्येभ्योऽपि यथाशक्ति दातव्या दक्षिणा तथा॥ ब्राह्मणान् भोजयेत्तत्र कारयेत्स्वस्तिवाचनम् । इति नारदोक्तदर्शशान्तिविधिः॥ वैधृतिव्यतीपातादिजननशान्तयः सर्वसाधारणशान्तित्वेन पूर्व मुक्ताः (२४८)। २८६ परिशिष्टदीपके अथ कार्तिकदंष्ट्राशान्तिः । स्मृत्यन्तरे दिनषटकं कन्यकायाः सप्ताहानि च कार्तिके। वराहदंष्ट्रा विज्ञेया वर्जयेत्सर्वकर्मसु ॥ इति केषांचिन्मतम् । अथ सर्वसम्मतम् दंष्ट्राग्रभागे भगवान्धरित्री त्रयोदशाहेऽधृत कार्तिकस्य । तस्मिन्न कुर्याद् व्रतगेहवास्तुविवाहयात्राशुभमङ्गलानि ॥ तत्र शान्तिः प्रकर्तव्या दंष्ट्रादोषनिवारिका । धेनुं पयस्विनीं दद्यात्सर्वदोषोपशान्तये ॥ गर्ग उवाच अथातः सम्प्रवक्ष्यामि दंष्ट्राया जनने फलम् । सिंहः सर्पस्तथाश्वानस्त्रयोदश व्यवस्थिताः ॥ प्रथमे ह्यात्मनाशाय पितृनाशो द्वितीयके । तृतीये मातृनाशाय चतुर्थे वंशनाशनम् ॥ पञ्चमे भ्रातरं हन्ति षष्ठे गोत्रक्षयो भवेत् । सप्तमे मातुलं हन्ति सर्वस्वं चाष्टमे तथा ।। नवमे द्रविणं हन्ति दशमे स्वामिनं तथा । श्वश्रूमेकादशे हन्ति द्वादशे श्वशुरं तथा । त्रयोदशे शुभं विद्यात दंष्ट्रायाः फलमीदृशम् । पाताले स्वर्गमयै च चत्वारि दिनसंख्यया ॥ फलं वक्ष्यामि लोकेषु दंष्ट्राद्वादशके तथा । स्वर्गलोके भवेत्सौख्यं मर्त्यलोके महद्भयम् ।। पाताले च भवेल्लाभो दंष्ट्रायास्तु व्यवस्थितिः । तत्र शान्ति प्रवक्ष्यामि सर्वाचार्यमतेन तु ॥ ब्राह्मणान् वृणुयात्पूर्व कुलीनान्वेदपारगान् । प्रतिमां कारयेद्विष्णोनिष्कनिष्काधपादतः॥ मण्डलं कारयेत्तत्र रक्ताब्जनीहितण्डुलैः। तत्रैकं कलशं स्थाप्य पञ्चपल्लवसंयुतम् ॥ शान्तिप्रकरणे सप्र्पयुग्मदर्शनशान्तिः। २८७ शतौषधानि निक्षिप्य सर्वोषधियुतानि च । वेदोक्तेन विधानेन कलशं स्थापयेत् बुधः ॥ तत्रोपरि न्यसेत्पात्रं स्वर्णं वा रौप्यताम्रकम् । तन्मध्ये प्रतिमा स्थाप्य पीताम्बरधरां शुभाम् ।। विष्णोरराटमन्त्रेण प्रतिमां पूजयेत्सुधीः । उपचारैः षोडशभिः किंवा पञ्चोपचारकैः॥ तस्मात्तु नैऋते देशे स्थण्डिलेऽग्निं प्रकल्पयेत् । स्वस्वशाखोक्तविधिना कुर्यादग्निमुखं ततः ॥ त्रिमध्वक्तैस्तिलैर्विद्वान् होमं कुर्यात्स्वशक्तितः । निर्वर्त्य चाज्यहोमान्तमभिषेकं समाचरेत् ।। दारपुत्रसमेतस्य यजमानस्य सविजः। अक्षोभ्यामिति सूक्तेन पावमानीभिरेव च ॥ विष्णोरराटमन्त्रेण शिवसंकल्पमन्त्रकैः । ततः शुक्लाम्बरधरः सुभगो धातुलेपनः ॥ यजमानो दक्षिणाभिस्तोषयेदृत्विगादिकान् । धेनं पयस्विनी तद्वत्पतिमा वस्त्रसंयुताम् ।। सुप्रसन्नमना भूत्वा आचार्याय प्रदापयेत् । अन्येभ्यो दक्षिणां दद्यात्तथा वित्तानुसारतः ॥ भूयसी दक्षिणा देया ब्राह्मणान् भोजयेदश । एवं कार्तिकदंष्ट्रायाः शान्तिकं कुरुते नरः॥ सर्वान् कामानवाप्नोति जीवेद्वर्षशतं सुधीः । व्रतबन्धे भवेत्कुष्ठी दीक्षा चापि सुनिष्फला । विवाहे चैव वैधव्यं दंष्ट्रायाः फलमीदृशम् । इति कार्तिकदंष्ट्राजननशान्तिः ।। अथ सप्प्युग्मदर्शनशान्तिः ॥ ईश्वर उवाच सर्पयुग्मं यदा पश्येत्तदा हानिः प्रजायते । अर्थहानिर्भवेत्तस्य शरीरे व्याधिपीडनम् ।। २८८ परिशिष्टवीपके तत्र चाष्टोत्तरशतं जुहुयादाज्यसंयुताम् । नमोऽस्तु सर्पभ्य इति गुडूची तु यथाविधि । मृत्युञ्जयस्य प्रतिमां व्यम्बकेति प्रपूजयेत् । इति सर्पद्वन्द्वदर्शनशान्तिः॥ अथ सारमेयशान्तिः ॥ ईश्वर उवाच सारमेयो यस्य गृहे चास्थि चादाय मानुषम् । प्रविशेञ्चोपरि रुदन् तस्य शान्ति वदाम्यहम् ।। स्वामिनस्तस्य नाशाय पुत्रार्थस्त्रीक्षयाय च । नरकागमनायाथ सप्ताहात्कथयत्यसौ ॥ शान्ति तत्र प्रवक्ष्यामो यथा कृत्वा भवेत् सुखम् । मृत्युञ्जयस्य प्रतिमां कारयेद्वित्तसम्भवाम् ॥ ॐजूंस इति मन्त्रेण ऋचा वा व्यम्बकेति च । पुनराधेति(पुनरासद्य)मन्त्रेण जुहुयाच शतत्रयम् ॥ मधुपायसयो)मः शिवसंकल्पमन्त्रकैः । वेदमन्त्रैश्च शान्त्युक्तैरभिषेकं प्रकल्पयेत् ॥ प्रतिमां वस्त्रसंयुक्तां वृषमेण समन्विताम् । श्रीरुद्रजापिने दद्यात्ततः शान्तिर्भविष्यति ॥ इति सारमेयशान्तिः ॥ अथ काकविष्ठापतनशान्तिः ॥ आश्रयस्थो यदा काको विष्ठां सम्पद्यते यदि । क्षीरवृक्ष समारूढस्तस्य सिद्धिरनेकधा ॥ शुष्कष्टक्षसमारूढो विष्ठां सम्पद्यते यदि । तस्य लक्ष्मीः क्षयं याति त्रिभिर्मासैन संशयः ॥ निरालम्बो यदा काको विष्ठां सम्पद्यते यदि । शिरसि पतति यस्य षण्मासात्तस्य मृत्युदः ॥ स्कन्धे वा ह्यथवा पृष्ठे विष्ठा पतति यस्य चेत् । भ्रातृकष्टं भवेत्तस्य अथवा देहनाशनम् ।। शान्तिप्रकरणे पल्लीपतनसरटप्ररोहणशान्तिः । २८९ वाहोः पतति विष्ठा तु मित्रनाशो भवेत्तदा । कुक्षों पुत्रानिहन्त्याशु उदरे रोगमादिशेत् ॥ गुह्ये पतति यस्यैव पुत्रनाशो भवेत्तदा। ऊवों, जानुनीर्यस्य काकविष्ठा प्रपद्यते ॥ तद्वाहनस्य नाशः स्याद्भयं राज्ञः सकाशतः। चरणे प्रपतेयस्य देशत्यागो भवेत्तदा । निरालम्बो यदा काको विष्ठां श्वेतां करोति चेत् । उत्तरतः पूर्वमायाति शत्रुनाशो भवेत्तदा ॥ याम्याः परां दिशं याति कृष्णां विष्ठां प्रपद्यते । अदाभ्यन्तरतो मृत्युः सर्वनाशो भवेत्तदा ॥ यस्याङ्गे प्रपतेद्विष्ठा सचैल स्नानमाचरेत् । वस्त्रत्यागो भवेत्तस्य सद्यः शान्तिकरो हि सः ।। धेनुरेका च दातव्या सर्वालङ्कारशोभिता। पञ्चरत्नं च दातव्यं दक्षिणा चैव शक्तितः॥ सतिलैर्मधुभिर्होममष्टोत्तरशतं चरेत् । इति काकविष्ठापतनशान्तिः ॥ अथ श्वेतकाकदर्शनशान्तिः ॥ श्वेतपक्षो यदा काको दृश्यते यस्य मण्डले । स्वामिमण्डलयोन शो याम्याशायां तु निश्चितम् ॥ तत्र शान्तिः प्रकर्त्तव्या सर्वदोषोपशान्तये । यमाय त्वेति मन्त्रेण तिलमाषादि होमयेत् ॥ विप्राय महिषं दद्याद्यथाऽलंकारभूषितम् । इति श्वेतकाकदर्शनशान्तिः ।। अथ पल्लीपतनसरटप्ररोहणशान्तिः ॥ . पल्ल्याः प्रपतने पूर्व फलमुक्तं शुभाशुभम् । शीर्षे राज्यश्रियोज्वाप्तिमौलौ वैश्वर्यवर्धनम् ॥१॥ पल्ल्याः प्रपतने चैव सरटस्य प्ररोहणे । शुभाशुभं विजानीयात्तत्तत्स्थाने विशेषतः॥२॥ ३६ प.. २९० রুইত্মক सव्ये भुजे जयः प्रोक्तो पसव्ये महद्भयम् । कुक्षौ दक्षिणभागस्य धनलाभस्तथैव च ॥३॥ वामकुक्षौ तु निधनं गदितं पूर्वपरिभिः । सव्यहस्ते मित्रलाभो दामहस्ते तु निःस्वता ॥ ४॥ उदरे सव्यभागे तु सुपुत्रावाप्तिरुच्यते । वामभागे महारोगः कटयां सव्ये महद्यशः ॥ ५॥ वामकटयां तु निधनं शुनिभिस्तत्त्वदशिभिः । जान्बोरेवं विजानीयात्सव्यपादे शुभावहम् ॥६॥ वामपादे तु गमनम् इति पाहुमहर्षयः । स्त्रीणां तु सरटस्यैवं व्यस्तमेतत्फलं वदेत् ॥ ७॥ फलं प्ररोहणे चैव सरटस्य प्रचारतः।। सर्वाङ्गेषु शुभं विद्याद शान्ति कुर्यात्स्वशक्तितः ॥ ८॥ शुभस्थाने शुभावाप्तिरशुभे दोषशान्तये । तत्स्वरूपं सुवर्णेन रुद्ररूपं तथैव च ॥९॥ मृत्युंजयेन मन्त्रेण वस्त्रादिभिरथार्चयेत् । अग्नि तत्र प्रतिष्ठाप्य जुहुयात्तिलपायसैः ॥ १० ॥ आचार्यों वारुणः सूक्तैः कुर्यात्तत्राभिषेचनम् । आज्यावलोकनं कृत्वा शक्त्या ब्राह्मणभोजनम् ॥ ११॥ गणेशक्षेत्रपालार्कदुर्गाक्षोण्यङ्गदेवताः। तासां प्रीत्यै जपः कार्यः शेषं पूर्ववदाचरेत् ॥ १२ ॥ ऋत्विाभ्यो दक्षिणां दद्यात्षोडशभ्यः स्वशक्तितः । इति । इति शान्तयः॥ अथ जलाशयोत्सर्गः। बहुपकारकत्वेन सप्रयोगाः. शान्तीः पूर्व प्रदर्श्य भोगमात्रफ लकभूतमात्रस्वत्वोत्पादकव्यापाररूपस्योत्सर्गस्य दानपदार्थघटकत्वात् तत्प्रयोगदर्शनावसरे स्मृतो जलाशयोत्सर्ग इदानीं समयोगःप्रदर्श्यते। तत्र जलाशयमशंसा विष्णुधर्मोत्तरे उदकेन विना वृत्तिर्नास्ति लोकद्वये सदा। जलाशयोत्सर्गविधिः। २९१ तस्माजलाशयाः कार्याः पुरुषेण विपश्चिता ।। अग्निष्टोमसमः कूपः सोऽश्वमेधसमो मरौ । कूपः प्रवृत्तपानीयः सर्वं हरति दुष्कृतम् ।। कूपकृत्स्वर्गमासाच सर्वान्भोगानुपाश्नुते । तत्रापि भोगनैपुण्यं स्थानाभ्यासात्मकीर्तितम् ॥ . नन्दिपुराणे यो वापीमथवा कूपं देशे तोयविवर्जिते । । खानयेत्स नरो याति स्वर्गे प्रेत्य शतं समाः॥ आदित्यपुराणे सेतुबन्धरता ये च तीर्थशौचरताश्च ये । तडागपकर्तारो मुच्यन्ते ते तृषाभयात् ॥ विष्णुः कूपारामतडागेषु देवतायतनेषु च । पुनः संस्कारकर्ता च लभते मौलिकं फलम् ॥ कूपपरिमाणमाह गर्गः कुर्यात्पञ्चकरादूर्ध्वं पञ्चविंशत्करावधि । कूपं वृत्तायतं प्राज्ञः सर्वभूतसुखावहम् ।। देवीपुराणे कूपः पञ्चकरादूचं यावद्वर्गस्तदुद्भवः । वापी दण्डमयादूचं दशवर्गा तृपोत्तमैः ।। कूपस्थानफलान्याह वसिष्ठसंहिताया ऐश्वर्य पुत्रहानिश्च स्त्रीनाशो निधनं भवेत् । संपत शत्रुभयं सौख्यं पुष्टिः प्रागादितः क्रमात् ॥ पूर्वस्यां पश्चिमायामुत्तरस्यामैशान्यां च कूपकरणं शुभमन्यत्रा शुभमित्यर्थः। ___ अथ तडागादिप्रतिष्ठा । मत्स्यपुराणे प्राप्य पक्षं शुभं शुक्लमतीते (भाप्से) चोत्तरायणे । पुण्येऽह्नि विपकथिते कृत्वा ब्राह्मणवाचनम् ॥ ITHS.२९२ । परिशिष्टदायके प्रागुदक्पवणे देशे तडागस्य समीपतः । चतुर्हस्तां शुभां वेदी चतुरस्त्रां चतुर्मुखीम् ॥ तथा षोडशहस्तः स्यान्मण्डपश्च चतुमुखः। वेद्याश्च परितो गर्ता रनिमात्रास्त्रिमेखलाः॥ नव सप्ताथवा पञ्च नातिरिक्ता नृपात्मज । वितस्तिमात्रा योनिः स्यात् षट्सप्ताङ्गलविस्तृता ॥ गर्ताश्च तत्र शस्ताः स्युस्त्रिपर्वोच्छितमेखलाः । सर्वतस्तु सवर्णाः स्युः पताकाध्वजसंयुताः ॥ अश्वत्थोदुम्बरप्लक्षवटशाखाकृतानि तु ।। मण्डपस्य प्रतिदिशं द्वाराण्येतानि कारयेत् ।। शुभास्तत्राष्ट होतारो द्वारपालास्तथाऽष्ट वै । अष्टौ तु जापकाः कार्या ब्राह्मणा वेदपारगाः ॥ कुलशीलसमायुक्तः स्थापकः स्यादद्विजोत्तमः। प्रतिगर्तेषु कलशा यज्ञोपकरणानि च ॥ व्यजनं चासने शुभ्रे ताम्रपात्रे सुविस्तृते । ततस्त्वनेकवर्णाः स्युः बलयः प्रतिदैवतम् ।। श्राचार्य: प्रक्षिपद भूमावनुमन्य विचक्षणः। ध्यरनिमात्रो यूप: स्यात्क्षीरवृक्षविनिर्मितः ॥ यजमानप्रमाणो वा संस्थाप्यो भूतिमिच्छता। हैमालंकारिणः कार्याः पञ्चविंशतिऋत्विजः॥ दक्षयेच समं सर्वानाचार्ये द्विगुणं पुनः। दद्याच्छयनसंयुक्तमात्मनश्चापि यत्प्रियम् ॥ सौवौँ कूर्ममकरौ राजतौ मत्स्यडुण्डुभौ । ताम्रौ कुलीरमण्डूकावायसः शिशुमारकः॥ एवमासाद्य तान्सर्वानादावेव विशांपते । शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः॥ सौंषधियुताम्भोभिः स्नापिठो घेदपुङ्गवैः ।। यजमानः सपत्नीक पुत्रपौत्रसमन्वितः॥ जलाशयोत्सर्गविधिः। पश्चिमं द्वारमाश्रित्य प्रविशेद्यागमण्डपम् । ततो मङ्गलशब्देन मेरीणां निस्वनेन च ॥ रजसा मण्डलं कुर्यात् पश्चवर्णेन तत्त्ववित् । षोडशारं ततश्चक्रं पद्मगर्भ चतुर्मुखम् ॥ चतुरस्त्रं च परितो वृत्तं मध्ये सुशोभनम् । घेद्याश्चोपरि तत्कृत्वा ग्रहान् लोकपतींस्तथा ॥ विन्यसेन्मन्त्रतः सर्वान्प्रतिदिक्षु विचक्षणः। झषादीन्स्थापयेन्मध्ये वारुणं मन्त्रमाश्रितः ॥ ब्रह्माणं च शिवं विष्णुं तथैव स्थापयेद् बुधः। विनायकं च विन्यस्य कमलामम्बिकां तथा ॥ शान्त्यर्थं सर्वलोकानां भूतग्रामं न्यसेत्ततः । पुष्पभक्षफलैर्युक्तमेवं कृत्वाऽधिवासयेत् ॥ कुम्भांश्च रत्नगर्भास्तान्चासोभिरभिवेष्ट्य च । गन्धपुष्पैरलंकृत्य द्वारपालान्समन्ततः॥ पठध्वमिति तान्ब्रूयादार्चायस्त्वभिपूजयन् । बढ़चौ पूर्वतः स्थाप्यौ दक्षिणेन यजुर्विदौ ॥ सामगौ पश्चिमे स्थाप्यावुत्तरेण त्वथर्वणी । उदङमुखो दक्षिणतो यजमान उपाविशेत् ॥ यजध्वमिति तान्यारोतकान्पुनरेव तु । उत्कृष्टमन्त्रजप्येन तिष्ठध्वमिति जापकान् ॥ एवमादिश्य तान्त्सर्वान्प्रयुज्याग्निं च मन्त्रवित् । जुहुयाद्वारुणैर्मन्त्रैराज्यं च समिधस्तथा ।। ऋत्विम्भिश्चैव होतव्या वारुणैरेव सर्वशः। ग्रहेभ्यो विधिवद्धुत्वा तथेन्द्रायेश्वराय च ॥ मरुद्धयो लोकपालेभ्यो विधिवद्विश्वकर्मणे। रात्रिसूक्तं च रौद्रं च पावमानं सुमङ्गलम् ॥ जपेरन्पौरुष सूक्तं पूर्वतो (१)बढचाः पृथक् । (१)जापकयोरपालयोश्च समुच्चयेन बहुत्वमुपपद्यते। एवमुत्तरत्रापि । ना २९४ शानं रौद्रं च सौम्यं च कौष्माण्डं जातवेदसम् ।। सौरसूक्तं जपेरस्ते दक्षिणेन यजुर्विदः। वैराज पौरुषं सूक्तं सौपर्ण संहिताम् । शैशवं पञ्चनिधनं गायत्रं ज्येष्ठसाम च । वामदेव्यं बृहत्साम रौरवं सरथन्तरम् ॥ गवां व्रतं विकर्ण च रक्षोघ्नं च यशस्तथा । गायेयुस्सामगा राजन पश्चिमद्वारमाश्रिताः॥ आथर्वणाश्चोत्तरतः शान्तिकं पौष्टिकं तथा। जपेरन्मनसा देवमाश्रिता वरुणं प्रभुम् ॥ पूर्वेदयुरभितो रात्राओवं कृत्वाऽधिवासनम् । गजाश्वरथ्यावल्मीकसंगमहदगोकुलात् ।। मृदमानीय कुम्भेषु पक्षिपेञ्चत्वरात्तथा । रोचनां च ससिद्धार्थान्गन्धान् गुग्गुलुमेव च ॥ स्नपनं तस्य कर्तव्यं पश्वभङ्गसमन्वितैः । पूर्तकतुमहामन्त्रैरेवं कृत्वा विधानतः ॥ एवं क्षपामतीवाह्य विधियुक्तेन कर्मणा। ततः प्रभाते विमले सञ्जातेऽथ शतं गवाम् ॥ ब्राह्मणेभ्यः प्रदातव्यमष्टषष्ट्यथवा पुनः । पञ्चाशद्वाऽथ षड्विंशत्पञ्चविंशति वा पुनः ॥ ततः सांवत्सरमोक्ते शुद्ध लग्ने सुशोभने । वेदशास्त्रैः सगान्धर्वैर्वाद्यैश्च विविधैः शुभैः॥ कनकालकृतां कृत्वा तत्र गामवतारयेत् ॥ सामगाय च सा देया ब्राह्मणाय विशांपते ॥ जलाशयं च त्रिता सूत्रेण परिवेष्टयेत् । पात्रीमादाय सौवर्णी पञ्चरत्नसमन्विताम् ।। ततो निक्षिप्य मकरं मत्स्यादींस्तांश्च सर्वशः। धृतां चतुभिर्विप्रैश्च वेदवेदाङ्गपारगैः ।। महानदीजलोपेतां दध्यक्षतविभूषिताम् ।

– जलाशयोत्सर्गप्रयोगः २९५ उत्तराभिमुखो न्युब्जा जलमध्ये तु कारयेत् ।। पाथर्वणेन साम्ना च पुनर्मामित्यूचेति च । आपोहिष्ठेति मन्त्रेण लिप्त्वाऽऽत्य च मण्डपम् ॥ पूजयित्वा सदस्यांस्तु बलिं दद्यात्समन्ततः । पुनर्दिनानि होतव्यं चत्वारि युनिसलमाः ।। चतुर्थीकर्म कर्तव्यं देया तत्रापि शन्धितः । दक्षिणा राजशार्दूल वरुणं संस्मरंस्ततः॥ कृत्वा तु, यज्ञपात्राणि यज्ञोपकरणानि च । ऋत्विग्भ्यस्तु समं दत्त्वा मण्डपं विभजेत्पुनः॥ हेमपात्रीं च शय्यां च स्थापकाय निवेदयेत् । ततः सहस्रं विप्राणामथवाऽष्टशतं तथा ॥ भोजयेच्च यथाशक्त्या पश्चाशद्वाऽथ विंशतिम् । एवमेव पुराणेषु तडागविधिरुच्यते ॥ कूपवापीषु सर्वासु तथा पुष्करिणीषु च । एष एव विधिदृष्टः प्रतिष्ठासु तथैव च ॥ मन्त्रतस्तु विशेषः स्यात्मासादोद्यानभूमिषु । अयं त्वशक्तावर्धेन विधिष्टः स्वयंभुवा ॥ स्वल्पेबेकाग्निवत्कार्य बित्तशाठ्यादृते नृभिः । इति । अथ कुपवापतिडागामामुत्सर्गप्रयोगः । तत्र तावत् उत्सर्ग चिकीर्षुर्यजमान उत्तरायणे शुक्लपक्षे सांव सरोक्ते शुभदिने जलाशयस्य पूर्वत उत्तरतः पूर्वोत्तरतो वा समीपे मागुदक्पवणे सुसंस्कृते देशे (३७) उक्तरीत्या गणेशभूम्यादिपूजनं कृत्वा षोडशहस्तं दशहस्तं वा चतुर्दारमण्डपं सति संभवे कृत्वा, तद संभवे षोडशहस्तायतापष्टहस्तविस्तृतां दशहस्तायतां पञ्चहस्तविस्तृतां वा शालां कृत्वा तन्मध्ये पञ्चहस्तां चतुर्हस्तां वा चतुरस्रां हस्तोच्छितां बेदिकां कुर्यात् । वेदिकायाः पश्चिमायामुत्तरस्यां वा मेखलायोनियुतं हस्तमात्रं कुण्डं तावन्मानं स्थण्डिलं वा कुर्यात् । प्रधानवेद्यां च सहो मतुलादानप्रयोगटिप्पणोक्तरीत्या (७३ पृ०) पञ्चवर्णरजोभिर्वारुणं २९६ परिशिष्टदीपके मण्डलं लेखयेत् । क्षीरक्षकाष्ठजं कदम्बाश्वत्थवैकङ्कतपालाशबि ल्वान्यतमकाष्ठजं वा यजमानमात्रं यूपं, कूर्ममकरौ सुवर्णेन, मत्स्य डुण्डुभौ रजतेन, कुलोरमण्डूको तानेण, शिशुमारकमयसा, सौवर्णी ताम्रमयीं कांस्यमयीं वा पात्री च संपादयेत् ।। अथ जलाशयोत्सर्गाधिवासनदिनात्पूर्वदिने कृतहविष्यभोजना दिनियमो जलाशयोत्सर्गाधिवासनदिने कृतनित्यक्रियो यजमानः मण्डपादन्यत्रैव गोमयादिनोपलिप्ते स्थले आसने उपविश्य दीपं प्रज्वलय्याचम्य शान्तिपाठं कृत्वा उत्सर्गकर्मणो निर्विघ्नतासिद्धयर्थं यथाविधि गणेशं संपूज्य करिष्यमाणोत्सर्गाधिकरणतिथ्यादीनुल्लि ख्य अमुकशर्माऽहम् अशेषपापक्षयकामः स्वर्गकामो मोक्षकामो वा स्व पितॄणां स्वर्गादिकामो वा नानाभूतेभ्यः अमुकजलाशयोत्सर्ग करिष्ये इति प्रतिज्ञाय तत्पूर्वाङ्गत्वेन गणपतिसहितषोडशमातृपूजनं नान्दीश्राद्धं पुण्याहवाचनम् प्राचार्यादिवरणं वारुणमण्डलदेवतापूजनमावाहितदे वानां हवनं च करिष्ये इति संकल्प्य पुण्याहवाचनान्तं कृत्वा ‘अयेहामुकगोत्रममुकशर्माणममुकजला शयप्रतिष्ठाङ्गहोमादि कर्तुमेभिर्गन्धपुष्पवस्त्रालङ्करणद्रव्यैराचार्यत्वेन त्वामहं वृणे’ इत्याचार्य कृत्वा “प्राचार्यस्तु यथा स्वर्गे” इति संप्रार्थ्य तथैव ब्रह्माणं वृत्वा “यथा चतुर्मुख” इति संपार्थ्य चरुसमिद्धो मार्थ स्वशाखीयावन्यऋत्विजौ वृत्वा सति संभवे मधुपर्कविधिना स न्सिंपूज्य मण्डपसत्वेष्टौ चतुरो वा जापकांस्तावत एव द्वारपालांश्च वृत्वा “ऋग्वेदः पद्मपत्राक्ष” इत्यादिना संप्रार्थ्य सति संभवे सौव कुण्डलादिकं च सर्वेभ्यो दत्त्वा प्राचार्याय द्विगुणं दत्त्वा ब्रह्मघोषेण तूर्यमालशब्देन च ऋत्विक्सहितो यजमानो यजनदेशं गत्वा मण्डपं . प्रदक्षिणीकृत्य उपकरणजातं तत्र परिचारकादिभिः संस्थाप्य पश्चिम द्वारेण सर्वैः सह प्रविशेत् । . अथाचार्यो मण्डपपश्चिमे उपविश्य तुलादानप्रयोगोक्तरीत्या (४५)मण्डपपूजां कुर्यात् । मण्डपाभावे तु वास्तुपूजा नियमेन कार्या । “वास्तु पूजामकुर्वाणस्तवाहारो भविष्यति” इति मात्स्ये निन्दाश्रव- . जलाशयोत्सर्गप्रयोगः। २९७ णात् । सा च गृहदानोक्तप्रकारेणेति हेमाद्रिरिति पूर्तकमलाकरः। ततो यजमानः प्रारद्वारेण मण्डपं प्रविश्य दक्षिणद्वारपश्चिमे उ. त्तराभिमुख उपविश्य ‘यथाविहितं कर्म कुरुत’ इत्याचार्यादीनध्ये षयेत् । ___ अथाचार्य: महावेदेरुपरि पञ्चवर्ण वितानं मध्ये बध्वा तस्या धस्तुलापुरुषदानोक्तप्रकारेण वारुणमण्डलं विलिख्य कुण्डे स्थण्डिले वा पञ्चभूसंस्कारपूर्वकमामिं प्रतिष्ठाप्य मेखलायोनिदेवतानां स्थापनं पू जनं च कृत्वा वेद्यां षोडशारचक्रमध्यगतपनकर्णिकायां सूर्य मध्यस्थि तवरुणकलशात पूर्वदेशे प्रतिष्ठाप्य प्रागादिदलक्रमेण शुक्रादीन्य हान्ग्रहयागोक्तरीत्या स्थापयित्वा अधिदेवताः प्रत्यधिदेवताः विनाय कादिलोकपालांच तत्रैवोक्तरीत्या स्थापयित्वा रक्षासूत्रं च संस्थाप्य मण्डलाइहिः मध्यवेद्यामेव पूर्वादिषु कलशेषु इन्द्रादीन्दिक्पालान् तु लादानप्रयोगोक्तैः(४७-५३) एोहि’इतिपदघटितैः आवाह्य “त्राता रमिन्द्रम्” इत्यादिभिर्ग्रहयागप्रयोगोक्तः स्थापयित्वा कर्णिकाया मध्ये कलशे सौवर्णप्रतिमासु वरुणं तत्परितः ब्रह्म-विष्णु-रुद्र-गण पति-लक्ष्मी-अम्बिका-भूतग्रामं च, तत्रैव निर्दिष्टैमन्त्रैः संस्थाप्य सन्षिोडशोपचारैः पञ्चोपचारैर्वा वैदिकमन्त्रैर्नाममन्त्रैर्वा संपूज्य सौवौँ कूर्ममकरौ, राजतौ मत्स्यडुण्डुभौ, ताम्रमयौ कुलीरमण्डूको, लौहं शिशुमारकञ्चैकस्मिन्वंशपात्रे निधाय प्रक्षाल्य गन्धादिना सं पूज्य तान सुवर्णपान्यां कास्यपाच्यां ताम्रपाच्यां वा सति सम्भवे सु वर्ण-रजत-मुक्ता-लाजावर्त-प्रवालेति पञ्चरत्नयुतायां निधाय वेदि मध्ये “इमं मे” इति मन्त्रेण स्थापयित्वा सति संभवे सर्वेभ्यः पाय सबलिं दध्यक्षतबलि वा दद्यात् । (१)तत आचार्यो होमवेदेः ईशानकोणे पञ्चवर्णैश्चतुर्विंशतिदलम् अष्टदलं वा पनं कृत्वा तत्र गन्धाधर्चितं कलशं यथाविधि संस्था प्य तत्र गजाश्वाद्यष्टस्थानेभ्य आहृता अष्टमृदो रोचनासर्षपगन्धगु (१) एककुण्डपक्षमाश्रित्यैव प्रयोगस्य प्रचलितत्वात् एकस्यैव कल शस्य स्थापनम् । ३७ प० २९८ परिशिष्टदीपके ग्गुलूनश्वत्थादीपञ्चपल्लवांश्च क्षिप्त्वा तत्र “इमं मे” इति वरुण मावाह्य संपूज्य सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः। प्रायान्तु यजमानस्य दुरितक्षयकारकाः ॥ अश्वत्थो भास्करो गङ्गा नैमिषारण्य एव च । एतानि सर्वतीर्थानि घटेऽस्मिन्निवसन्तु मे ॥ सरस्वती गण्डकी च कौशिकी सरयूस्तथा । एताश्च सरितः पुण्याः कलशे सन्तु मे सदा ।। गङ्गे च यमुने चैव गोदावरि सरस्वति । नर्मदे सिन्धु कावेरि जलेऽस्मिन्सन्निधिं कुरु ॥ इत्येतैर्देवदानवसंवादे इत्याद्यैश्च तीर्थानि तस्मिन् कलशे न्यस्येत् । ततो रक्षासूत्रमभिमन्त्रितं यदावनन्निति, येन बद्धो वली राजेति च हस्ते बन्धयेयुः(१)। ___ ततो महावेदेः उत्तरदेशे अरनिमात्रं गत खात्वा तत्राक्षतान्द भांश्च प्रक्षिप्य यवोऽसोत्यप्सु यवानोप्य तद्युक्ताभिरद्भिर्यज्ञियक्षीरस क्षजं व्यरनि यजमानमात्रं वा अष्टास्त्रिं मूनि वतुलं यूपमग्रमध्यमू लेषु प्रोक्ष्य, ॐ उदिवा स्तमानान्तरिक्षपृणाहस्व पृथिव्याम् इत्युच्छ्रित्य, ॐ द्युतानस्त्वा मारुतो मिनोतु मित्रावरुणो धुवेण धर्मणा ___ इति गर्ने यूपं निखनेत् ततस्तं हरिद्रातैलाभ्यामभ्यज्याभिषिच्य च गोरोचना-गुग्गुलु-निम्बपत्रगर्भा पोटलिकां तदग्रभागे बध्वा “युवासुवासा” इति वासोयुगेनाच्छाध गन्धादिना संपूज्य “या ओषधीः” इति पुष्पमालां बध्वा प्रदक्षिणीकृत्य गाढमालिङ्गय पुत्रा धुपेतो यजमानो नमेत् । . (१) यजमानहस्ते अन्येषामृत्तिगादीनां च हस्ते प्राचार्य, आचार्य: स्तेच यजमाना बध्नीयादित्याचारः। जलाशयोत्सर्गप्रयोगः। २९९ तत आचार्यः पादौ प्रक्षाल्याचम्य द्वारपालान् पठध्वमिति, जापकान् जपध्वमिति प्रेषयेत् । ते चाकर्मसमाप्ति स्वस्वसूक्तानि पठेयुजपेयुश्च । ____ अथाचार्यः होमकुण्डसमीपमागत्योपविश्य ब्रह्मोपवेशनादिप र्युक्षणान्तं बीहितण्डुल-यवयोः चरुसंपादनसहितं कर्म कृत्वा संस्रव धारणार्थ प्रोक्षणीपात्रं प्रणीताग्न्योर्मध्ये निदध्यात् । ततो यजमान:-अद्यह अमुकजलाशयोत्सर्गयागेनाई यक्ष्ये । तत्र प्रजापतिमिन्द्रम् अग्निम् सोममाज्येन, नवग्रहान् अष्टाविंशति संख्याकाभिस्समिञ्च,ज्यतिलाहुतिभिः, अधिदेवताः प्रत्यधिदेवताः विनायकादिलोकपालांश्च चतुःसंख्याभिः समिञ्चज्यतिलाहुतिभिः, इन्द्र-शिव-मरुद्रण-लोकपालदशक-विश्वकर्मणः प्रत्येकम् अष्टा विंशतिसंख्याभिः समिदाद्याहुतिभिः, अग्नीवरूणादीनग्न्यन्तान्दश आज्येन, अग्न्यादीन्स्वर्गान्तान्यवमयेन चरुणा, वरुणमष्टोत्तरशतसं ख्याभिरुदुम्बरसमिदाज्याहुतिभिः, ब्रह्म-विष्णु-शिव-विनायक-कम. ला-ऽम्बिका-भूतग्रामान अष्टाविंशतिसंख्याभिः समिदाज्याहुतिभिः, शेषेण स्विष्टकृतम् , अग्न्यादिप्रजापत्यन्तांश्चाज्येनाहं यक्ष्ये । इदमु पकल्पितं समिच्चर्वाज्यतिलद्रव्यम् आघाराज्यभागदेवताभ्यः, नवग्र हेभ्यः, अधिदेवताभ्यः, प्रत्यधिदेवताभ्यः, विनायकादिलोकपालेभ्यः, इन्द्रशिवमरुदणेभ्यः, इन्द्रादिदिक्पालेभ्यः, विश्वकर्मणे, अग्नीवरूणा दिदशभ्यः, अग्न्यादिस्वर्गान्तेभ्यः, वरुणाय, ब्रह्मादिभूतग्रामान्तेभ्यः अग्नये स्विष्टकृते, अग्न्यादिप्रजापत्यन्तेभ्यश्च तत्तदुक्तसंख्यया मया परित्यक्तम्, ॐ तत्सन्न मम इति त्यजेत् । ततो द्वारपालादिजपे प्रस्तूयमाने सति आचार्यों वरुणनामान मग्निम् “एतते” इति प्रतिष्ठाप्य कुशकण्डिकाप्रयोगोक्तरीत्या (सं० दी०प्र० १७० अग्निं रेखा अग्निजिहाश्च संपूज्य दक्षिणं जान्वाच्य ब्रह्मणाऽन्वारब्ध आधारावाज्यभागौ च जुहुयात् । ततस्त्यक्तान्वारम्भ आचार्य प्राज्येन, अपरे ऋत्विजः समिद व्रीहितण्डुलचरु-तिलः ग्रहयागोक्तरीत्या ग्रहादिपञ्चलोकपालान्तेभ्यो ३०० परिशिष्टदीपके अष्टाविंशत्यादिसंख्याहुतिभिः-इन्द्र-शिव-भरुद्रण-दिक्पालदशक विश्वकर्मभ्यः ॐ “त्रातारमिन्द्रम्” इति ॐ"तमीशानम्” इति ॐ “मरुतोयस्य.“इति ॐ “त्रातारमिन्द्रम्” इत्यादिद शमन्त्रैः “विश्वकर्मन् हविषा” इत्यनेन च अष्टाविंशतिसंख्या हुतिभिर्जुहुयुः। (१) अथाचार्यः “त्वन्नो अग्ने०"इति वामदेवऋषिस्त्रिष्टुप्छन्दः अग्नीवरुणो देवते भाज्याहुतिहोमे विनियोगः । ॐ त्वन्नोऽअग्ने वरुणस्य विद्वान्देवस्य हेडो ऽअवयासिसीष्टाः । यजिष्ठो वहितमः शोशुचानो विश्वा द्वेषासि प्रमुमुग्ध्यस्मत् स्वाहा १ “सत्वन” इति वामदेव ऋषिः, त्रिष्टुप् अग्नीवरुणौ० श्रा ज्या० ॐ स त्वं नोऽअग्नेऽवमो भवोऽती नेदिष्ठोऽअस्या उषसो व्युष्टौ ॥ अवयश्व नो वरुणः रराणो वीहि मृडीक: सुहवो न एधि-स्वाहा २ “इमं मे” इति शुनःशेषऋषिः, गायत्री छन्दः, वरुणो देवता, आज्या०। ॐ इमं मे वरुण श्रुधी हवमद्या च मृडय ॥ त्वाम वस्युराचके-स्वाहा ३ ___ “तत्त्वायामि” इति शुनःशेष० त्रिष्टुप्छन्दः, वरुणो देवता प्राज्या०॥ ॐ तत्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यज मानो हविभिः। अहेडमानो वरुणेह बोध्युरुशास मा न आयुः प्रमोषी:-स्वाहा ४ “ये तेशतम्” इति वामदेव ऋषिः, त्रिष्टुप् छन्दः, वरुणस्सवि ताविष्णुर्विश्वेदेवामरुतस्स्वांश्च देवताः आज्या० । (१) त्वंनो अग्ने इत्याद्या दशाज्याहुतयः, अग्नये स्वाहा इत्याधा नव यवमयचोंहुतयश्च पारस्करगृह्योक्ताः। पा.गृ. का.३ अन्तिमा परिशि एकण्डिका।

जलाशयोत्सर्गप्रयोगः ३०१ ॐ ये ते शतं वरुण ये सहस्रं यज्ञिया पाशा वित. ता महान्तः ॥ तेभिनों अद्य सवितोतविष्णुर्विश्चे मुश्चन्तु मरुतः स्वर्ण-स्वाहा ५ “अयाश्चाग्ने” इति वामदेव० बिष्टुप् छन्दः, अग्निर्देवता प्राज्या०। ॐ अयाश्चाग्नेऽस्यनभिशस्तिपाच सत्यमित्वमया ऽअसि ॥ अया नो यज्ञं वहास्यया नो धेहि भेषज स्वाहा ६ “उदुत्तमम्” इति शुनःशेप ऋषिः त्रिष्टुप् छन्दः वरुणो देवता आज्यहोमे० ॐ उदुत्तमं वरुण पाशमस्मध्वाधर्म विमध्यम श्रथाय । अथा व्वयमादित्य व्रते तवानागसो ऽअदितये स्थाम-स्वाहा ७ “उरुाहि” इति शुनाशेप ऋषिः त्रिष्टुप् छन्दः वरुणो देवता आज्याहुति। ॐ उरुहि राजा वरुणश्चकार सूर्याय पन्थामन्वेत वाऽउ ॥ अपदे पादा प्रतिधातवे करतापवक्ता हृदयावि. धश्चित-स्वाहा ८ । “वरुणस्योत्तम्भनमसि"इति प्रजापतिषिः, यजुश्छन्दः वरुणो देवता आज्या०। ॐ वरुणस्योत्तम्भनमसि वरुणस्य स्कम्भसर्जनी स्थो वरुणस्य ऋतसदन्यसि व्वरुणस्य ऽऋतसदन मसि व्वरुणस्य ऋतसदनमासीद-स्वाहा ९ ___ “अग्नेरनीकमिति” प्रजापतिऋषिः। त्रिष्टुप् छन्दः वरुणो देवता आज्या० । ॐ अनेरनीकमप आविशापांनपात्प्रतिरक्षन्नसुर्य: म् । दमे दमे समिधं यक्ष्यग्ने प्रति ते जिह्वा घृतमुच्चर ण्यत् स्वाहा १० इत्याज्येन दशाहुतीर्तुत्वा- ३०१ परिशिष्टदीपके ___ यवमयस्थालीपाकं घृतेनाभिधार्य जुहुयात् । ॐ अग्नये स्वाहा । ॐ सोमाय स्वाहा । ॐ वरुणाय स्वाहा । ॐ यज्ञाय स्वाहा । ॐ भीमाय स्वाहा । ॐ उग्राय स्वाहा । ॐ शतक्रतवे स्वाहा । ॐ व्युष्टयै स्वाहा । ॐ स्वर्गाय स्वाहा । इति एकैकामाहुति यत्रम येन स्थालीपाकेन (चरुणा) जुहुयात् ।। अथाचार्य प्राज्येन, अन्य ऋत्विक च उदुम्बरसमिधा ॐ “इमं मेवरुण” १, ॐ “तत्वायामि०” २, ॐ “त्वंनो अग्ने बरु णस्य.” ३, ॐ सत्वंनो अग्ने०” ४, ॐ “अयाश्चाग्ने०” ५ ॐ येते शतं०५६ ___ आदित्यास्त्वगसि इति प्रजापतिऋषिर्यजुश्छन्दः “अस्तभ्ना ब” इति “वनेषु व्यन्तरिक्षम्” इति अनयोः प्रजापतिक्रपिः त्रिष्टुप छन्दः वरुणो देवता औदुम्बरसमिदाज्ययोहोंमे विनियोगः। ___ ॐ अदित्यास्त्वगस्थदित्यै सद आसीदास्तभ्नाद चां वृषभो ऽअन्तरिक्षममिमीत व्यरिमाणं पृथिव्याः। आसीदद्विश्वा भुवनानि सम्राड् विश्वेत्तानि वरुणम्य व्रतानि । ॐ वनेषु व्यन्तरिक्षं ततान व्याजमर्वत्सु पय उम्रियासु ॥ हृत्सु क्रतुं वरुणो विश्वग्निं दिवि सूर्यमदधास्सोममद्रौ ॥८ .. “उदुत्तमम्” : “वरुणस्योत्तम्भनमसि०” १० निषसादेति शुन शेप ऋषिः गायत्री छन्दः वरुणो देवता औदु म्बरसमिदाज्य० । ॐ निषसाद धृतवतो वरुणः पस्त्यास्वा ॥ साम्रा ज्याय सुक्रतुः ॥ ११ __ “घृतवती” इति याज्ञवल्क्य ऋषिः जगती छन्दः वरुणो देवता औः । ॐ घृतवती भुवनानामभित्रियो पृथ्वी मधुदुधे सुपेशसा ॥ द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते ऽअजरे भूरिरतसा ॥ १२ इति द्वादशानां मन्त्राणां स्वाहान्तानां

ALL जलाशयोत्सर्गप्रयोगः। ३०३ प्रणवादीनां नवावृत्त्या अष्टोत्तरशतसंख्यया उदुम्बरसमिदाज्ये वरुणाय हुत्वा ॐ “ब्रह्मजज्ञानम् ०” ॐ “इमारुद्रायः” ॐ “इदं विष्णु०” ॐ “गणानां त्वा०” ॐ “श्रीश्चते.” ॐ “अम्बेअम्बिके.” ॐ भूतग्रामाय स्वाहा इत्येतै मन्त्रैः ब्रह्मादिभूतग्रामान्तेभ्यश्च समि दाज्ये जुहुयाताम् । ___ ततोऽन्वारब्ध प्राचार्यः शेषेण स्विष्टकृते हुत्वा भूरादिप्रजा पत्यन्ताहुतीर्जुहुयात् । (१)ततो बहिहोम संस्रवप्राशनम् अग्नौ पवित्रप्रतिपत्ति प्रणी ताविमोकं च कुर्यात् । ततो ग्रहादिदिक्पालान्तेभ्यो ग्रहयागोक्तरी त्या पायसेन दध्यक्षतैर्वा बलिं दत्त्वा ॐ वरुणाय० एष बलिनमः, भो भो वरुए इमं बलि० । ॐ ब्रह्मणे० एष बलिः । भो भो ब्रह्मन् । ॐ शिवाय० भो भोः शिव. ॐ विष्णवे० भो भो विष्णो । ॐ गणपतये० भो भो गणपतेः । ॐ लक्ष्म्य० भो भो लक्ष्मि० ॐ अम्बिकायै० भो भो अम्बिके० ॐ भूतग्रामाय० भो भो भूतग्राम०॥ इति बलिं दत्वा क्षेत्रपालाय बलि दद्यात् । तहिने सर्वे ऋत्विन्यजमाना रात्री जागरणं कुर्युः। अत्र शक्ती सत्यां सर्वे पामुपवासोऽन्यथा हविष्याशनम् । इत्यधिवासनम् । ततः प्रभाते होमवेदीशानेऽधिवासितकलशोदकै पिल्लवयुतः सकुटुम्ब यजमानम् आचार्यादय ऋत्विजोऽभिषिञ्चेयुः। ततो यज मानोऽधिवासनकर्मणः साङ्गतासिद्धयर्थं तत्संपूर्णफलप्राप्त्यर्थं शतम् अष्टषष्टिं पञ्चाशतं, षड्विंशतिं वा गाः तन्निक्रयं वा दक्षिणा श्रा चार्यादिभ्य ऋत्विग्भ्यो दद्यात् ।। ___ अथाचार्यः जलाशयं त्रिवृता सूत्रेणेशानादिप्रादक्षिण्येन परि वेष्टयेत् । अस्मिन्नवसरे श्वेतोष्णीषं यजमानः शिरसि बध्नीयादिति भविष्योत्तरे। पूर्व वेधुपरि अधिवासितां पञ्चरत्नसमन्वितां संस्था (१) चत्वारि दिनानि यावद्धोमपक्षे तदन्ते स्विष्टकदादिकं कुर्यात् ।

३०२ परिशिष्टदीपके यवमयस्थालीपाकं घृतेनाभिधार्य जुहुयात् । ॐ अग्नये स्वाहा। ॐ सोमाय स्वाहा । ॐ वरुणाय स्वाहा । ॐ यज्ञाय स्वाहा । ॐ भीमाय स्वाहा । ॐ उग्राय स्वाहा । ॐ शतक्रतवे स्वाहा । ॐ व्युष्टयै स्वाहा । ॐ स्वर्गाय स्वाहा । इति एकैकामाहुति यवम येन स्थालीपाकेन (चरुणा) जुहुयात् । अथाचार्य प्राज्येन, अन्य ऋत्विक च उदुम्बरसमिधा ॐ “इमं मेवरुण” १, ॐ. “तत्त्वायामि०” २, ॐ “त्वंनो अग्ने व्वरु णस्य.” ३, ॐ सत्वंनो अग्ने०” ४, ॐ “अयाश्चाग्ने०” ५ ॐ येते शतं.“६ ___ आदित्यास्त्वगसि इति प्रजापतिऋषिर्यजुश्छन्दः ‘अस्तभ्ना " इति “वनेषु व्यन्तरिक्षम्” इति अनयोः प्रजापतिपिः त्रिष्टुप छन्दः वरुणो देवता औदुम्बरसमिदाज्ययो)मे विनियोगः । ॐ अदित्यास्त्वगस्यादित्यै सद आसीदास्तभ्नाद् द्यां वृषभो ऽअन्तरिक्षममिमीत व्यरिमाणं पृथिव्याः। आसीदद्विश्वा भुवनानि सम्राड् विश्वेत्तानि वरुणस्य व्रतानि । ॐ वनेषु व्यन्तरिक्षं ततान व्याजमवत्सु पय उम्रियासु । हृत्सु क्रतुं वरुणो विश्वग्निं दिवि सूर्यमदधात्सोममद्रौ ॥ ८ .. “उदुत्तमम्” : “व्वरुणस्योत्तम्भनमसि.” १० निषसादेति शुन शेप ऋषिः गायत्री छन्दः वरुणो देवता औदु म्बरसमिदाज्य। ॐ निषसाद धृतवतो वरुणः पस्त्यास्वा ॥ साम्रा ज्याय सुक्रतुः ॥ ११ ___ “घृतवती” इति याज्ञवल्क्य ऋषिः जगती छन्दः वरुणो देवता औः । ॐ घृतवती भुवनानामभित्रियो पृथ्वी मधुदुधे सुपेशसा ॥ द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते ऽअजरे भूरितिसा ॥ १२ इति द्वादशानां मन्त्राणां स्वाहान्तानां जलाशयोत्सर्गप्रयोगा। ३०३ प्रणवादीनां नवावृत्त्या अष्टोत्तरशतसंख्यया उदुम्बरसमिदाज्ये वरुणाय हुत्वा ___ॐ “ब्रह्मजज्ञानम्” ॐ “इमारुद्राय.” ॐ “इदं विष्णु०” ॐ “गणानां त्वा०” ॐ “श्रीश्चते.” ॐ “अम्बेअम्बिके.” ॐ भूतग्रामाय स्वाहा इत्येतैर्मन्त्रैः ब्रह्मादिभूतग्रामान्तेभ्यश्च समि दाज्ये जुहुयाताम् । ततोऽन्वारब्ध आचार्यः शेषेण स्विष्टकृते हुत्वा भूरादिप्रजा पत्यन्ताहुतीर्जुहुयात्। (१)ततो बहिर्होमं संस्रवपाशनम् अग्नौ पवित्रप्रतिपत्ति प्रणी ताविमोकं च कुर्यात् । ततो ग्रहादिदिक्पालान्तेभ्यो ग्रहयागोक्तरी त्या पायसेन दध्यक्षतैर्वा बलिं दत्त्वा ॐ वरुणाय० एष बलिनमः, भो भो वरुण इमं बलिः । ॐ ब्रह्मणे० एष बलिः । भो भो ब्रह्मन् । ॐ शिवाय० भो भोः शिव० ॐ विष्णवे० भो भो विष्णो। ॐ गणपतये० भो भो गणपतेः । ॐ लक्ष्म्यै भो भो लक्ष्मि० ॐ अम्बिकायै० भो भो अम्बिके० ॐ भूतग्रामाय० भो भो भूतग्राम० ॥ इति बलिं दत्त्वा क्षेत्रपालाय बलिं दद्यात् । तद्दिने सर्वे ऋत्विग्यजमाना रात्री जागरणं कुर्युः। अत्र शक्तौ सत्यां सर्वे षामुपवासोऽन्यथा हविष्याशनम् । इत्यधिवासनम् । ततः प्रभाते होमवेदीशानेऽधिवासितकलशोदकैपिल्लवयुतः सकुटुम्बं यजमानम् आचार्यादय ऋत्विजोऽभिषिञ्चेयुः । ततो यज मानोऽधिवासनकर्मणः साङ्गतासिद्धयर्थं तत्संपूर्णफलप्राप्त्यर्थं शतम् अष्टषष्टिं पञ्चाशतं, षड्विंशतिं वा गाः तनिष्क्रयं वा दक्षिणा श्रा चार्यादिभ्य ऋत्विग्भ्यो दद्यात् ।। ___अथाचार्यः जलाशयं त्रिता सूत्रेणेशानादिपादक्षिण्येन परि वेष्टयेत् । अस्मिन्नवसरे श्वेतोष्णीषं यजमानः शिरसि बध्नीयादिति भविष्योत्तरे। पूर्व वेद्युपरि अधिवासितां पञ्चरत्नसमन्विता संस्था (१) चत्वारि दिनानि यावद्धोमपते तदन्ते स्विष्टकदादिकं कुर्यात् । ३०४ परिशिष्टदीपके पितमकरादिकां सौवीं कांस्यमयीं ताम्रमयीं वा पात्रीं चतुर्भिा ह्मणैभृतां सयादाय जलाशये प्राङमुखस्तिष्ठन् दक्षिणहस्तेनागाधे जले पूर्वदेशे कूर्स(१) प्रत्यङ्मुखं प्रक्षिप्य, आग्नेये मकरं तथैव प्रक्षि प्य मत्स्यडुण्डुभौ दक्षिणप्रतोच्योरुदङमुखौ, कर्कटकमण्डूको वायव्ये प्राङ्मुखौ, शिशुमारसुदीच्यां दक्षिणाभिमुखं प्रक्षिपेत् । ततः सवि गाचार्य उदङ्मुखः “शं नोदेवीः” इति ऋचि गीतेनाथर्वणेन साना ॐपुनर्मामैत्विन्द्रियं पुनरायुः पुनर्भगः। पुनद्रविणतु मां पुनब्राह्मणमैतु माम् ॥ इति ऋचा, “आपोहिष्ठा” इति चेन च अगाधे जले गङ्गा दिमहानदीजलोपेतां दध्यक्षतविभूषितां पात्री न्युजां कृत्वा तद्वस्तूनि सुवर्णादीनि जले क्षिप्त्वा तामादाय मण्डपं गच्छेत् । प्राचार्यादयः सर्वे अन्यवासांसि परिधाय द्विराचामेयुः ॥ तत उष्णीषबन्धपक्षे उष्णीषमाचार्याय यजमानो दद्यात् । (२)ततः सुलग्ने हमशृङ्गादियुतां गां संपूज्य शान्तिपाठे वाद्य घोषे च जायमाने आचार्येण पुत्रादिना चान्वारब्धो यजमानो गोपु छं धृत्वा जलाशयस्य पश्चिमत ऐशान्यभिमुखीं गाम् ॐ इरावती धेनुमती हि भूत: सूयवसिनी मनवे दशस्या । व्यस्कभ्ना रोदसी विष्णवेते दार्थ पृथिवीमभितो मयूखैः इति मन्त्रेण( य. सं. ५। १६ )पुरुषसूक्तं जपन् वा जलाशये अवतारयेत् । कूपे तु गो वतारणम् । असंभवात् । किन्तु वापीकूपोत्सर्गे गां त्रिरुपरि भ्रमयेत् । (१)क्रमः’कछुवा’ इति प्रसिद्धः। मकर ‘मगर’ इति प्र० डुण्डभो द्विमुखः सर्पः। कर्कट: ‘खेकडा’ इति प्र०। मण्डूकः ‘मेचुका’ ‘मेढक’ इति च प्र० । शिशुमारको जलजन्तुविशेषः । (२) यद्यपि मात्स्ये गोरवतारणं पूर्व, ततः पात्रीस्थजलचरप्रक्षेप उक्तः तथापि पारस्करगृहो जलचरप्रक्षेपानन्तरं गोरवतारणस्योक्तस्वात् तदनुरोधेनेत्थमुक्तम् ।।

M जलाशयोत्सर्गप्रयोगा। जलाशये अवतार्यमाणां गाममन्त्रयेव … ॐ इदं सलिलं पान कुरुष्ध शुद्धाः पूता अमृताः सन्तु नित्यम् । म सामन्ती कुरु कीर्थाभिषिक्तं लोका लोकं वरते तीयेत च–इत्यदल। यजमानः पुच्छाग्ने स्वयं लश प्राचार्येरणान्वारब्धः __ॐसमुद्रादुर्मिनधुमा२।। उदारदुपाशुना समभृत. त्वमानट् । घृनस्य नाम गुह्यं य इस्ति जिह्वा देवानाम तस्य नाभिः॥ ( य० सं० १७ । ८९) (१३ । ८) ॐ येवाऽमी रोषने दिवो ये बा सूर्यस्थ रश्मिषु । येषामप्सु सदस्कृतं तेभ्य: सर्पेभ्यो नमः॥ इति मन्त्रद्वयं पठन् उत्तरेत् । तत ऐशान्यां परपारं गत्वा जानुदध्ने जले स्थितो हस्ते यवकुशादिकं गृहीत्वा गोः पुच्छेन स्व शाखोक्तं देवर्षिपितृणां स्वपितृणां च तर्पणं(१) कृत्वा वक्ष्यमाण पौराणैः कोकैः कुर्यात् पिता पितामहश्चैव तथैव प्रपितामहः । स्वस्वपत्नीसमेतास्ते प्रीयन्तां जलतर्पणात् ।। अजातदन्ता ये केचिद्ये च गर्ने व्यवस्थिताः । तेषामुद्धरणार्थाय (२)तडागोदकमस्तु मे ।। पितृव्यकाश्च येऽस्माकं भ्रातरश्च सहोदराः। गुरवो मातुलाः पुत्रा आचार्य-सखि-बान्धवाः ।। तेषां पुत्राश्च पल्यश्च श्वशुरा ये सपुत्रकाः। एतेषां प्रीणनार्थाय तडागोदकतर्पणम् ॥ (१) देवपितृमनुष्येभ्यः पुच्छे तस्यास्तिलोदकम् । दत्त्वा निवेदयेत् पश्चात् सर्वालंकारभूषिता ॥ इति हेमाद्रौ वह्निपुराणे उक्तवादितर्पण समूलं, पौराणश्लोकतर्पणं तु निर्मूलमेवेति मयूखकारादयः। (२) अत्र उत्तरत्र च सर्वत्र कूपोत्सर्गे तडागपदस्थाने कूपपदं, पाप्यु समें वापीपदं पठनीयम् । प०३८ पाराष्टदापक A ब्राह्माद्या देवताः सर्वा ऋषयो मुनयस्तथा। असुरा यातुधानाच भावश्चण्डिकास्तथा ॥ दिक्पाला लोकपालाश्च ग्रहदेवाधिदेवताः । ते सर्वे तृप्तिमायान्तु तडागोदकतर्पणैः॥ विश्वेदेवास्तथाऽऽदित्याः साध्याश्चैव मरुद्गणाः । क्षेत्रपीठोपपीठानि नदा नाश्च सागराः॥ ते सर्वे तृप्तिमायान्तु तडागोदकतर्पणैः । पाताले नागपत्न्यश्च नागाश्चैव सपर्वताः ॥ पिशाचा गुह्यकाः प्रेता गन्धर्वा गणराक्षसाः। पृथिव्यापश्च तेजश्च वायुराकाश एव च ॥ दिवि भुव्यन्तरिक्षे च ये च पातालवासिनः। शिवः शिवा तथा विष्णुस्सिद्धिलक्ष्मीः सरस्वती ॥ तपोधनश्च भगवानव्यक्तः परमेश्वरः। क्षेत्रीषधिलतादृक्षा वनस्पत्यधिदेवताः ॥ कपिलः शेषनागश्च तक्षकोऽनन्त एव च । अन्ये जलचरा जीवा असङ्ख याताः सहस्रशः। चतुर्दश यमाश्चैवं ये चान्ये यमकिङ्कराः। सर्वेऽपि यक्षराजानः पक्षिणः पशवस्तथा ॥ स्वेदजा उद्भिदो जीवा अण्डजाश्च जरायुजाः। अन्येऽपि वनजीवा ये दिवानिशविहारिणः ।। अजागोमहिषीरूपा ये चान्ये पशवस्तथा। शान्तिदाः शुभदास्ते स्युस्तडागोदकतर्पिताः ॥ आब्रह्मस्तम्बपर्यन्तं ये चान्ये गोत्रिणस्तथा । ते सर्वे तृप्तिमायान्तु तडागोदकतर्पिताः॥ सव्याघहता ये च शृङ्गिदंष्ट्रयनिलाग्निभिः । अपुत्रा अक्रिया ये च अदारा धनवर्जिताः ॥ मगर्भमृता ये च शस्त्रघातमृताश्च ये। संस्काररहिता ये च रौरवादिषु गामिनः॥ जलाशयोत्सर्गप्रयोगः आब्रह्मस्तम्बपर्यन्तं देवर्षिपितृमानवाः । तृप्यन्तु पितरस्सर्वं मातृमातामहादयः॥ अतीतकुलकोटीनां सप्तद्वीपनिवासिनाम् । आब्रह्मभुवनाल्लोकास्तडागोदकमस्त्विदम् ॥ पितृवंशे मृता ये च मातृवंशे च ये मृताः। गुरुश्वशुरबन्धूनां ये चान्ये बान्धवा मृताः। ये मे कुले लुप्तपिण्डाः पुत्रदारविवर्जिताः। क्रियालोपगता ये च जात्यन्धाः पङगवस्तथा ॥ विरूपा श्रामगर्भाश्च ज्ञाताज्ञाताः कुले मम । तेभ्यो दत्तं तडागस्य जलमेतत् सुकृप्तये॥ येबान्धवा बान्धवा ये येऽन्यजन्मनि बान्धवाः । वृक्षत्वं च गताः केचित् तृणगुल्मलता स्थिताः ॥ यातनासु च घोरासु जातीषु विविधासु ये । नरकेषु च घोरेषु पतिता ये स्वकर्मणा ।। तेषामुद्धरणार्थाय जलमेतबदाम्यहम् । आब्रह्मणो ये पितृवंशजाता मातस्तथा वंशभवा मदीयाः। वंशद्वयेऽस्मिन्मम दासभूता भृत्यास्तथैवाश्रितसेवकाश्च ।। मित्राणि सख्यः पशवश्च हृष्टा दृष्टाश्च पृष्टाश्च कृतोपकाराः। जन्मान्तरे ये मम सङ्गताश्च तेभ्यस्तडागोदकमेतदस्तु ॥ इति । ( वापीकूपयोस्तडागपदस्थाने तत्तत्पदप्रक्षेपः )। इदं श्लोकतपणं बहूनां न सम्मतम् । तपणान्ते यजमानः पुच्छलग्न एव ॐआपो अस्मान्मातरः शुन्धयन्तु घृतेन नो घृत. प्वः पुनन्तु । विश्वहि रिप्रं अवहन्ति देवीरुदिदाभ्या शुचिरापूत sएमि ॥ इति मन्त्रं पठन् ऐशान्यां स्वयमुत्तीर्य ॐ सूयवसाद्भगवती हि भूया अथो वयं भगवन्तः स्याम । अद्धि तृणमध्न्ये विश्वदानी पिब शुद्धमुदकमाचरन्ती ।। ३०८ परिशिष्टदीपक इति मन्त्रेण(ऋक्सं.अष्ट. २३।२१)गा जलादुत्तारयेक्ष ऐशान्याम् । उत्तार्यमाणा यदि गौर्हिकरोति तदा ॐहिकृपणती बसुनी वन खिच्छन्ती म. नसाऽभ्यागात् ।। दुहामश्विभ्यां पयो अन्ये यं सा वर्ध तां महते सौभगाय ॥ इति मन्त्रं (ऋक्सं.अष्ट. २।३ । १६) जपेत । ततो गोपुच्छं त्यक्त्वा धौलवस्त्रे धृत्वा दधिदूर्वागन्धायैस्तां गां “नमो गोभ्य” इति संपूज्य वसनां दुहिताऽसि त्वं संसाराणवतारिणी । तीर्थ पुण्योदके स्नाता पावयस्व जलाशयम् ॥ अर्चिताऽसि सुगन्धेन चन्दनेनामरार्चिते। सत्कीर्ति सद्गलिं कर्तुं पावयस्व जलाशयम् ।। सर्वदेवमयी यस्मात्पूजनीयाऽसि रोहिणो। सर्वकामदुघे धेनो सर्वपातकनाशिनी ॥ सर्वाङ्गैः सर्वभावेन पावयस्व जलाशयम् । त्वया कृतं पवित्रं तु त्रैलोक्यं सचराचरम् ॥ अतोऽस्माकमिमं धेनो पावयस्व जलाशयम् । इति गां प्रार्थयेत् । ततो गोदेहे गोदानप्रयोगोक्तरीत्या (१०६) ब्रह्मादिदेवानावाह्य संपूज्य तत्रैवोक्तरीत्या उत्सर्गकर्मणः साङ्गतासि द्धयर्थं सामगाय अन्यस्मै वा ब्राह्मणाय तुभ्यमहं सम्पददे ॐ तत्स न ममेति तां गां दद्यात् । _ विप्रस्तु “देवस्यत्वा"इति ॐ स्वस्तीति प्रतिगृह्य “कोऽदात” इति कामस्तुतिं पठेत् ।। ततो यजमानस्सपरिवारोऽवभृथस्नानं कृत्वा वस्त्रान्तरे परिधाय कुशतिलजलहस्तः देशकालो सङ्कोयं सर्वपापक्षयपूर्वकरदालयगमना नेककल्पावच्छिन्नस्वर्गलोकसुखपरार्द्धद्वयावच्छिन्नमहस्तपःप्रभृतिलोका जनासहितभोगपूर्वकविष्णुपदप्राप्तिकामः केवलविष्णुपदमाप्तिकामो वा अमुकजलाशयं वरुणदेवताकं स्नानपानावगाहनाद्यर्थम् अहं सर्वभूते

जलाशयोत्सर्गप्रयोगः। ३०९ भ्य उत्सृजामि ॐतत्सत् न ममेति जलाशयं पश्यञ्जलमुत्सृजेत् । ॐसर्वभूतेभ्य उत्सृष्टं मर्यंतजलमूर्जितम् । रमन्तु सर्वभूतानि स्नानपानावगाहनैः ।। सामान्यं सर्वभूतेभ्यो मया दत्तमिदं जलम् । रमन्तु सर्वभूतानि स्नानपानावगाहनैः॥ इति मन्त्रद्वयं पठेत् ॥ (अत्र सर्वभूतान्तर्गतात्मात्मोयपुत्रदाराबुद्देशेनाप्युत्सर्गात्परस्व त्वापत्त्यभावाद्यागत्वेन परस्वत्वापत्त्यभावाच्च स्वयं पुत्रादेश्च तत्र जल पानादौ न दोषः । प्रपानसत्रवदवशिष्टे स्वत्वानपायाच) ततो विप्रेभ्यो दक्षिणां दत्त्वा दिक्पालेभ्यो माषभक्तबलौन्दध्य क्षतबलीन्या दद्यात् । अथ नागयाष्टिः। __आचार्यों भूमौ यवान् क्षिप्त्वा तत्र कलशं संस्थाप्य अभ्यर्थ्य आम्रपत्राष्टके अनन्त-वासुकि-तक्षक-कर्कोटक-पद्म-शंख-महापद्म कुलिशेत्यष्टौ नामानि विलिख्य तानि पत्राणि कुम्भे निधाय एकमाकृष्य तमामानं नागं जलाशयमहत्त्वानुसारेण द्वादश-पञ्चद श-विंशत्यन्यतमारनिमितायां यज्ञियकाष्ठस्थूणायामावाह्य संपूज्य च ‘अयं नागोऽस्य जलस्य रक्षकोऽस्तु’ इत्युक्त्वा ॐनागयष्टयै नमः इति संपूज्य नागयष्टिशोर्षे लौहं चक्रं निखाय संपूज्य पार्थयेत __ॐ चक्र सुदर्शनाख्यं त्वं नागदण्डशिरोगतम् । तत्र विघ्नस्य कर्तारं जहि दुष्टं हरिपिय ॥ इति । ततः सपरिवारो यजमानः यष्टिं स्कन्धे गृहीत्वा वायघो षेण जलाशयं प्रदक्षिणोकृत्य जलान्तर्गतभूमिमध्ये यष्ट्यारोपणार्थ पूर्वमेव कृते अवटे नीलतृण-गोमय-दधि-मधु-अक्षत-कुश-नदी जलानि पञ्चरत्नानि च क्षिप्त्वा ॐध्रुवाऽसि धरुणाऽऽस्तुता विश्वकर्मणा । मात्वा समुद्रऽउद्बधीमा सुपर्णोऽव्यथमाना पृथिवीं ? ह।।१३।१६)परिशिष्टदीपके इति मन्त्रेण तस्मिन्नवटे नागयष्टिं दृढं निखनेत् । इदं नागयष्टि निखननं कूपवाप्योन भवति । अथ यजमानो महानदीजलानि जलाशये क्षिप्त्वा पठेत् कुरुक्षेत्रं गया गङ्गा प्रभासः पुष्करं तथा । एतानि पञ्चतीर्थानि तडागे [ कूपके ] निवसन्तु मे ॥ दशार्णा मुरुडा सिन्धू रथावर्ता दृषद्वती। एतानि०। वितस्ता कोशिकी सिन्धुः सरयूश्च सरस्वती । एतानि । यमुना नर्मदा रेवा चन्द्रभागा च देविका । एतानि । गोमती वाग्मती शोणो गण्डकी सागरस्तथा । एतानि । ततो जलं स्पृष्ट्वा पठेत प्रपद्ये वरुणं देवमम्भसा पतिमूजितम् । याचितं देहि मे पुण्यं सर्वपापापनुत्तये ॥ सानिध्यमत्र तोयेऽस्तु तवेश मदनुग्रहात् । रुद्राप्रपद्ये वरदान्सर्वानप्सुषदस्त्वहम् ॥ शमयन्त्वशुभं पापं रक्षन्तु तेऽप्सु मां सदा । आपः पुण्याः पवित्राश्च प्राणिनां प्राणदास्तथा ॥ शमयन्त्वाशु मे पापं तस्माद्रक्षन्तु सर्वदा । इति । ततः अक्षतैः जलमातः ॐहियै नमः, ॐश्रिय० ॐ शच्यै० ॐ मे धायै० ॐविश्वायै० ॐलक्ष्म्यै० इति आवाह्य “एतं ते” इति प्रति ष्ठाप्य सम्पूज्य गीतवाद्यादिघोषे जायमाने आपोहिष्ठेति सूक्तं पठन विच्छिन्नगोदुग्धधारया सिञ्चन् जलाशयं त्रिः प्रदक्षिणीकृत्य शेषं दु ग्धं कंचिद्विनं यथेष्टं प्राशयेत् ॥ ___ ततः उत्सर्गोत्तरं त्रीणि दिनानि स्थापितदेवतानां पञ्चोपचारैः पूजनं, पूर्वोक्तं ग्रहादिहोमं च प्रत्यहम् प्राचार्यादयः कुर्युः। चतुर्थ दिने होमोत्तरं ब्रह्मणे हविरुच्छिष्टपूर्णपात्रं सहिरण्यं दद्याद्यजमानः। तत आचार्यः यजमानान्वारब्धः “मूर्धानं दिव” इति पूर्णाहुति जुहुयात् । जलाशयोत्सर्गप्रयोगः। ३११ अयं च मुख्यः पक्षः । तदसंभवे तु उत्सर्गदिने एव दुग्धपाश नान्ते यजमानेन पूर्णपात्रं दापयित्वा पूर्णाहुतिमाचार्यः कुर्यात् । ततः-“अर्ध शतं, शतं वापि, विशं, वाष्टोत्तरं शतम् । गोसहस्रं शतं वापि, शतार्धं वा प्रदीयते ॥ अलाभे चैव गां दद्यादेकामपि पयस्विनीम्” । इति पारस्करगृह्यपरिशिष्टकण्डिकाभाष्ये पराशरस्मृतेः पार्थक्र मानुरोधेन सति सम्भवे गवामेकादश शतानि, तदसम्भवे सार्द्ध शतं, तदसम्भवेऽष्टोत्तरं शतं, तदसम्भवे शतं, तदसम्भवे पञ्चाशतं, तदसम्भवे विंशति, तदसम्भवे एकां गां ‘कृतस्यामुकजलाशयस्योत्सर्गकर्मण: साङ्गतासिद्धयर्थं तत्संपूर्णफलप्राप्त्यर्थं चेदं वस्त्रचतुष्टयं वस्त्रद्वयं वा बृहस्पतिदैवत्यम् इमां रुद्रदेवत्यां धेनुं सति संभवे कर्णवेष्टको च दक्षि सामाचार्याय तुभ्यमहं सम्पददे ॐतत्सन्न मम’ इति श्राचार्याय यज मानो दद्यात् । अनेन कर्मणा श्रीकर्माङ्गदेवताः प्रीयन्तामिति वदेव । ततः शरण्यं सर्वलोकानां लजाया रक्षणं परम् । सुवेषकारि त्वं यस्माद्वासः शान्ति प्रयच्छ मे ॥ धेनो त्वं पृथिवी सर्वा यस्यात्केशवसन्निभा । सर्वपापहरा नित्यमतः शान्ति प्रयच्छ मे ॥ इति दानमन्त्रौ पठेत् । आचार्यश्च प्रतिग्रहविधिना प्रतिगृह्णीयात् । ततः कृतैतदमुकजलाशयोत्सर्गकर्मणः साङ्गतासिद्धयर्थमिमां दक्षिणामाचार्यादिभ्य ऋत्विग्भ्यो जापकेभ्यो द्वारपालेभ्यश्च यथाशं विभज्य संपददे ॐ तत्सन्न ममेति संकल्प्य दद्यात् । उत्तराङ्गत्वेन वन्हि संपूज्य भस्मना व्यायुषकरणमात्मनो यजमानस्य च कुर्यात् । यजमानोऽङ्गाप्यायनादिकं च कुर्यात् । (१)अथ चतुर्थीकर्म । उत्सर्गदिनाच्चतुर्थे, द्वितीये, तस्मिन्नेव दिने वा यजमानानु (१) कल्पतरौ भविष्ये–अतः परं चतुर्थेऽह्नि द्वितीये वा समाहितः । प ३१२ परिशिष्टदीपके ज्ञात प्राचार्योऽमुकजलाशयोत्सर्गाङ्गभूतं चतुर्थीकर्म करिष्ये इति संकल्प्य “यदेवादेवहेडनम्” इति भूमि प्रोक्ष्य पञ्चभूसंस्कारपूर्वकम् अग्नि प्रतिष्ठाप्य ब्रह्माणं कृत्वा दक्षिणतो ब्रह्मासनमास्तीर्य तत्र ब्रह्मा णमुपवेश्य प्रणोतापात्रमुत्तरतो निधायैशान्यां कुम्भं संस्थाप्य तत्र वरुणं संपूज्य परिस्तरणादिपर्युक्षणान्तं कृत्वा प्रोक्षणीपात्रं प्रणी ताग्न्योर्मध्ये निदध्यात् । ततो यजमानो द्रव्यदेवताभिध्यानपूर्वक द्रव्यत्यागं कुर्यात् । अयह चतुर्थीकर्मणा यक्ष्ये। तत्र प्रजापतिम् इन्द्रम् अग्निं सोमं सवितारं वरुणम् अग्निं वायु सूर्यम् अग्नीवरुणौ अग्नीवरुणौ अग्निं वरुणं सचिनारं विष्णुविश्वान् देवान् मरुतः स्वर्का न वरुणं प्रजापतिम् अग्निं स्विष्टकृतं चाज्येनाहं यक्ष्ये । एतद्धोम द्रव्यं तत्तद्देवताभ्यो मया परित्यक्तं ॐ तत्सत् यथादैवतमस्तु न म मेति । तत आचार्यों वरुणनामानमग्निं प्रतिष्ठाप्य संपूज्य ब्रह्मणाs न्वारब्धः आधारावाज्यभागौ च हुत्वा प्रणवादिना हुंफटकारान्तेन इममेवरुणेति मन्त्रेण तोयमभिमन्य तेनैनमग्निमभ्युक्ष्य गायच्या सवित्रे पञ्चदशाज्याहुतीहुत्वा इसमेवरुणेति मन्त्रेण वरुणाय शतमा ज्याहुतीर्जुहुयात् । ततो भूरादिहोमं स्विष्टकृदन्तं कुर्यात् । ___ अथ दानदर्पणोक्तं वरुणस्य महास्नानम् । तत्रादौ दध्यक्षतकुशाग्रक्षीरदूर्वामधुयवसर्षपफलयुतमय ताम्र पात्रेण वरुणाय दत्त्वा नवस्वक्षतपुञ्जोपरि स्थापितेषु कुम्मेषु गजा श्वस्थानरथ्यावल्मीकवराहोत्खाताग्न्यगारतीर्थहदसङ्गमगोष्ठानां मृदः क्षिप्त्वा शनोदेवीरिति जलेन कुम्भानापूर्य आपोहिष्ठेत्यादिभि ऋभिर्वेद्यामधिवासितं वरुणं स्नापयेत् । ततो गायच्या गोमूत्रं गन्ध तस्मिन् वाऽहन्यनुद्विग्नश्चतुर्थीहोममाचरेत् ॥ कृत्वाऽग्निस्थापनं मौनी पर्युक्ष्य जुहुयात्ततः। बिभिव्याहृतिभिः पूर्व हुत्वाऽग्निं मनसा सकृत् ॥ इंफटकारान्तजतेन तोयेनाम्युक्ष्य पावकम् । आहुतीः पञ्च गायच्या जुहुयात् पञ्च पञ्चच॥ एकैकां पञ्चभिर्दद्यात् सकृद् व्याहृतिभिः पुनः। पूर्णाहुति शिवेनैकां दत्त्वोपरि यथाविधि ॥ कृतकृत्योऽग्निमभ्यय॑ प्रणि पत्य विसर्जयेत् । इति।

FRIENDER-BOAS APP NI जलाशमोन प्रयोगः ३१३ द्वारेति गोमयम् “प्राध्यायले"ति क्षोरं “दधिक्राव्ण” इति दधि “तेजोऽसि"इति श्राज्यं “देवस्यत्वा” इति कुशोदकं चैकीकृत्य वरु एमभिषिञ्चत । ततः “पयापृथिव्याम्” इति पयसा “दधिक्रावण” इति दना “तेजोऽसि” इति घृतेन “अधुनाता” इति त्रयेण अधुना “आप्या यस्व” इति शर्करया “सरस्वत्यै भैषज्येन वोर्यायानाथायाभिषि शामि’’ इति पुष्पोदकेन। ॐ हिरण्यपाणिः सविता विचर्षणिरुभे द्यावापृथि वीऽअन्तरीय ॥ अथानीय बाधते वेति सूर्यमभि कृष्णेन रजसा द्यामृणोति ( य० सं० अ० ३४ । २५) इत्यनेन रत्नोदकेन । “देवस्यत्वा” इति कुशोदकेन । ॐ अग्न आ याहि वीतये गृणानो हव्यदातये। निहोता सत्सि बर्हिषि ॥ इति फलोदकेन । सावित्र्या गन्धतोयेन स्नापयेत् । ततो घटानां सहस्रेण पञ्चशत्या सार्द्धद्विशत्या अष्टोत्तरशतेन चतुःषष्ट्या द्वात्रिंशता षोडशकेन चतुष्टयेन वा शक्त्या स्नपयेत् । घटाश्च शक्तिमनुसृत्य सुवर्ण-रजत-कांस्य-ताम्र-पत्तल-मृन्मयान्य तमा ग्राह्याः। ततः सहदेव्यादिमहौषधियुतजलकलशेन स्नपयेत् । ततो यवगोधूमनोवारतिलश्यामाकशालिप्रियङ्गुब्रीहिबीजाष्टकयुतकल शेन स्नपयेत् । ततो वरुण नोराज्य वगन्धादिना संपूज्य त्वं सूर्यचन्द्रज्योतींषि विद्युदग्निस्तथैव च। त्वमेव सर्वज्योतींषि दीपोऽयं प्रतिगृह्यताम् ॥ इति चत्वारिंशद्दोपान् दत्त्वा प्रदक्षिणीकृत्य धूपदीपनैवेद्यानि दद्यात्(१)। ततः संस्रवप्राशनं पवित्रप्रतिपत्ति प्रणीताविमोकं च कुर्यात् । यजमानो ब्रह्मणे सहिरण्यं पूर्णपात्रं दद्यात् ।। (१) महास्नानानन्तरं च वैवाहिकविधिप्रकार उक्त: भविष्ये मध्यपर्वणि द्वितीयमागे अध्याये २०। Ed ३१४ परिशिष्टदोष तत आचार्यों “मूर्धानं दिव” इति पूर्णाहुति कृत्वाऽग्निसुत्त राङ्गत्वेन संपूज्य व्यायुषकरणादिकं कृत्वा अग्नि विसृजेत् । ततो यजमान प्राचार्यादिभ्यो गोसुवर्णादिदक्षिणां दद्यात् । ततः वेदिकुण्डसमीपस्थितकलशोदकैपिल्लवयुतै र्यजमानभाचार्याद योऽभिषिञ्चेयुः । अभिषिक्तो यजमानो वेद्यायधिवासितान्ग्रहादीनुत्त राङ्गत्वेन संपूज्य विसृज्य ग्रहप्रतिमादिकमाचार्याय दत्वाऽन्यज्ञोप करणमाचार्यविग्भ्यो विभज्य दत्त्वा हेमपात्री सति संभवे शय्यादा नविधिना शय्यां च प्राचार्याय दद्यात् । नवग्रहप्रीतये दक्षिणां ज्योतिर्विदे दद्यात् । ततोऽमुकजलाशयोत्सर्गकर्मणः साङ्गतासिद्धयर्थं सहस्रम् अष्टोत्तरशतं पञ्चाशतम् विशति वा ब्राह्मणान् भोजयिष्ये इति संकल्प्य यथाकालं यथोपपन्नेनान्नेन तान्भोजयेत् । न्यूनातिरि क्तदोषपरिहारार्थमिमां भूयसीं दक्षिणां नानानामगोत्रेभ्यो ब्राह्मणे भ्योऽन्येभ्यश्च दोनानाथविशिष्टेभ्यो दातुमहमुत्सृजामि ॐतत्सन्न मम इति संकल्प्य यथाशक्ति भूयसीं दद्यात् । घृते छायामवलोक येत् । तद्घृतं ब्राह्मणाय दद्यात् । ब्राह्मणाश्च सपरिवारस्य यजमा नस्य रक्षाबन्धनं तिलकं च कृत्वा आशीर्वादं दद्युः।। यजमानः “यस्यस्मृत्या” “कायेन वाचा” “प्रमादात्कुर्वतां कर्म” इति कर्म ईश्वरापणं कृत्वा भुञ्जोत । इति मात्स्यानुसारी जलाशयोत्सर्गप्रयोगः । ततः सुशोभने स्थाने मह्यं निर्माय देशिकः। वरुणं विन्यसेत्तत्र तथा पुष्करिणीमपि ॥ विवाहोक्तेन विधिना कुर्यान्निर्मन्थनादिकम् । गन्ध पुष्पं ततो दद्याद्गां च दद्यात् सदक्षिणाम् ॥ चामरं व्यजनं छत्रं कांस्यं खोहं तथैव च । कुर्यात्पुष्करिणी रम्यां राजती च त्रिपादिकाम् ॥ चतु कोणां च सुषमा द्वयङ्गुष्ठपरिमण्डलाम् । सुवर्णप्रतिमां कुर्यात्पलेनैकेन मो द्विजा अथवा स्वर्णपत्रे च कुङ्कमेन तले लिखेत् । बाणरक्तिप्रमा. ऐन स्वर्णपत्रं तु दयङ्गुलम् ॥ कारयेचतुरनं च पीठोपरि न्यसेद् वुधः। नीराजनान्ते विप्रेन्द्रा संस्मरेदनृतं तरेत् ॥ अशक्तस्तु तथैवैककाष्ठे वा पिप्पलच्छदे । ताम्रपट्टे लिखेदाऽपि अलकन यथाविधि ॥ प्राणप्रतिष्ठा कुर्यात्तु वरुणाय निवेदयेत् । इति । अयं च प्रकार: कैश्चिदनुष्ठीयते न सर्वैरद्यत्वे इति बोध्यम् । ३१५ जलाशयोत्सर्गप्रेयोगा। महास्नानप्रकारश्च कल्पतरौ भविष्ये अथातः संप्रवक्ष्यामि देवस्नपनमुत्तमम् । दध्यक्षतकुशाग्याणि क्षीरं दुर्वास्तथा मधु । यवास्सिद्धार्थ कास्तद्वदर्घोऽष्टाङ्गः फलैः सह । गजाश्वरथ्यावल्मीकवराहोत्खातसंगमात् ॥ अग्न्यगारात्तथा तीर्थाद् दागोमण्डलादपि । कुम्भेषु मृत्तिकां दद्यादुधृतासीति मन्त्रवित् ॥ शबोदेवोत्यपो दद्यात् आपाहिष्ठेति वा ततः। साविच्या चैव गोमूत्रं गन्धद्वारेति गोमयम् ।। आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि । तेजोऽसीति घृतं तद्वद् देवस्यत्वेति चोदकम् ॥ कुशमिश्रं क्षिपेद् विद्वान्पश्चगव्यं भवेत्ततः। स्नाप्याथ पञ्चगव्येन दध्ना शुद्धन वै ततः ॥ दधिक्राणेति मन्त्रेण कर्तव्यमभिमन्त्रणम् । आप्यायस्वेति पयसा तेजोऽसीति घृतेन च ॥ मधुवातेति मधुना ततः पुष्पोदकेन तु। सरस्वत्यै भैषज्येन कार्य तस्याभिमन्त्रणम् ॥ हिरण्याक्षेति मन्त्रेण स्नापयेद्रत्नवारिणा । कुशोदकैस्ततः स्नानं देवस्यत्वेति कारयेत् ॥ फलोदकेन च स्नानमग्नायाहि कारयेत् । ततस्तु गन्धतोयेन साविच्या चाभिमन्त्रयेत् ।। ततो घटसहलेण सहस्रार्द्धन वा पुनः । तस्याप्यर्द्धन वा कुर्यात् अथवाऽष्टशतेन च ॥ चतुःषष्ट्या तदर्थेन तदर्द्धनाथवा पुनः । चतुर्भिरथवा कुर्याद्धटानामल्पवित्तवान् । सौवर्णं राजतैर्वाऽपि तात्रैर्वा रीतिकोद्भवैः। कांस्यैर्वा पार्थिवैर्वाऽपि स्नपनं शक्तितो भवेत् ॥ सहदेवी वचा व्याघ्री बला चातिवला तथा ।

५॥ वरिके शङ्खपुष्पी तथा सिंहो ह्यष्टमा च सुवर्चला ।। महौषध्यष्टकं चैतन्महास्नान’ योजयेत् । यवगोधूमनीवारतिलाः श्यामाकशालयः ।। प्रियङ्गवो बीहयश्च स्नानघु परिकल्पिताः। स्वस्तिकं पनं शङ्ख श्च उत्पलं कमलं तथा ॥ श्रीवत्सं दर्पणं लद्वनन्यावर्तमथाष्टमम् । एतानि गोमयः कुर्यान्मृदा वा शुभया तथा ।। पञ्चवरणोदनं तद्वत्पञ्चवरजस्तथा । दूर्वाकृष्णवलिस्तद्वन्नीराजनविधिस्तथा ।। ततो वस्त्रयुगं दद्यान्मन्त्रेणानेन पननः । देवसूत्रसमायुक्ते यज्ञदामसमन्विते ।। सर्वकर्मशुभे देव वाससी तव निमिते । मन्त्रेण चन्दनं दद्यात्सम कपूरकुङ्कमैः ।। शरीरं ते न जानामि रूपं नैव च नैव च । मया निवेदितान्गन्धान्प्रतिगृह्य विलिप्यताम् ।। चत्वारिंशत्ततो दीपान्दद्याच्चैव प्रदक्षिणम् । त्वं सूर्यचन्द्रष्योतींषि विद्युदग्निस्तथैव च ॥ त्वमेव सर्वज्योतीपि दोपोऽयं प्रतिगृह्यताम् । ततस्त्वन्नमयान्दद्यान्महाभूपाय ते नमः ॥ अनेन विधिना कृत्वा सप्तरात्रं महोत्सवम् । देवकुम्भैस्ततः कुर्याधजमानाभिपेचनम् ।। चतुभिरष्टभिर्वाऽपि द्वाभ्यामेकेन वा पुनः । सपञ्चरत्नकनकसितवस्त्राभिवेष्टितैः ।। देवस्यत्षेतिमन्त्रेण साम्ना चावणेन च । अभिषेके च ये मन्त्रा नवग्रहमखे स्थिताः ।। सिताम्बरधरः स्नात्वा देवान्संपूज्य यत्नतः । स्थापकं पूजयेद्वक्त्या वस्त्रालंकारभूषणैः ॥ यज्ञाङ्गानि च सर्वाणि मण्डपोपस्करादिकम् । जलाशयोत्सर्गप्रयोगः: ३१७ यच्चास्य वित्तं गे सदाचार्याय प्रदापयेत् ॥ इति । अथ लघुजलाशयोत्सर्गविधिः । तत्प्रकारच भविष्ये मध्यपर्वणि तृतीयभागे १३ अध्याये उक्तः मण्डपे क्षुद्ररूपे च प्रतिष्ठा मृणुत द्विजाः । गणेशं वरुवं कुशे विधिवत्पूजयेत्सुधीः ।। वेष्टयेद्वक्तसूत्रैश्च ततः कूपं समुत्सृजेत् । दक्षिणां विधिवद दद्यात् विधान संपूजयेत्ततः ॥ इति । अथ प्रयोग:–पूर्व दिने कृतनियमो ज्योतिषिकोक्त दिने यज मानः जलाशयस्य पूर्वत उत्तात ईशाने वागोमयादिनोपलिप्य गङ्गा दिजलेन पञ्चगव्येन वा मोक्ष्य सुसंपन्ने स्थले आसने उपविश्य दीपं प्रज्वलय्याचम्य शान्तिपाठं कृत्वा निविघ्नतासिद्धयर्थं गणेशं संपूज्य देशकालौ संकोयं अमुकशान पापक्षयकामः, स्वर्गकामो, मोक्ष कामो वा जलाशयोत्सर्ग करिष्ये इति प्रधानसंकल्पं कृत्वा तत्पूर्वा ङ्गत्वेन मातृपूजनं नान्दोश्राद्धं पुण्याहवाचनं कलशे वरुणपूजनपू वकं ग्रहपूजनं च करिष्ये इति संकल्प्य पुण्याहवाचनान्तं कृत्वा ईशानप्रदेशे कलशविधिना कलशं संस्थाप्य तत्र वरुणं ग्रहांश्च यथा विधि संपूज्य रक्षास्त्रमभिमन्व्य कलशे संस्थाप्य रक्तवर्णया त्रिमू ज्य) जलाशयं प्रदक्षिणं परिवेष्ट्य कुशादिकं हस्ते गृहीत्वा देशका लौ संकीर्त्य पूर्वोक्तपापक्षयायन्यतमकामः इमं जलाशयं वरुणदेव ताकं सर्वभूतेभ्यः .स्नानपानाद्यर्थमहमुत्सृजामि ॐ तत्सन्न मम(१) इति जलाशयं पश्यन् जलमुत्सृजेत् । ततः “सर्वभूतेभ्य उत्सष्टम्” (३५७ पृ०) मन्त्रद्वयं पठेत् । ततः सति संभवे महानदीजलानि जलाशये क्षिप्त्वा “कुरुक्षेत्र गया गङ्गा” [३५६] इत्यादीन् पञ्च पठेत् । ततो जलाशयस्थजलं स्पृष्ट्वा “प्रपद्ये वरुणं देवम्” (३५६) इत्यादीन् पठेत् । ततस्तत्रै वोक्तरीत्या जलमातृः पूजयित्वा गोतवाद्यादिघोपे जायमाने आपोहि (१) नममेत्यनेन असाधारणस्थत्वत्यागेऽपि साधारणस्वत्यानपायान सजलपाने यजमानस्य दोष इति बोध्यम् । ३१८ परिशिष्टदीपके ठेति ऋक्त्रयं पठन् अविच्छिन्नगोदुग्धधारया सिञ्चन् जलाशयं त्रिः प्रदक्षिणीकृत्य शेपं दुग्धं कंचिद्विनं यथेष्टं प्राशयेत् । ____ ततः उत्सर्गकर्मणः साङ्गतासिद्धयर्थं स्वपुरोहिताय अन्येभ्यो ब्राह्मणेभ्यश्च दक्षिणां संप्रददे इति संकल्प्य ब्राह्मणान् संपूज्य द. द्यात् । यथाशक्ति भूयसी च न्यूनातिरिक्तदोपपरिहारार्थं दद्यात् । ब्राह्मणाश्च यजमानस्य हस्ते रक्षासूत्रं बवा निलकं कृत्वा आशी दं दद्युः । ततः त्रीन् ब्राह्मणान् एकं वा संभोज्य स्वयं भुञ्जीत । इति लघुजलाशयोत्सर्गप्रयोगः। ग्रहमुन्यङ्कभूवर्षे आश्विने धवले दले । महाष्टम्यां समाप्तोऽभूत परिशिष्टप्रदीपकः॥ नित्यानन्दः पर्वतीयः श्रीपन्तकुलपूजकः। काश्यां वसन् ग्रन्थमेनं गुरू ध्यायन समग्रहीत् ।। गुरुप्रसादाद ग्रन्थोऽयं गुरुपादापितत्वतः।। निर्मत्सराणां विदुषां भूयान्मोदाय सर्वदा ॥ इति शम् । इति परिशिष्टदीपकः समाप्तः। सं० १९७९ आश्विने शु०८ गुरौं ।