[[संस्कारगणपतिः Source: EB]]
[
THE
CHOWKHAMBÂ SANSKRIT SERIES
A
COLLECTION OF RARE & EXTRAORDINARY SANSKRIT WORKS.
No’s. 460, 461 & 462.
<MISSING_FIG href="../books_images/U-IMG-1695881038322.png"/>
विद्वद्वररामकृष्णकृतः
संस्कारगणपतिः ।
पारस्करगृह्यसूत्रविस्तृतविवरणरूपः ।
_________
SAMSKĀRA GANAPATI
BY
PANDIT S’RĪ RĀMA KṚṢṆA
Edited by
NYĀYĀCHĀRYA KĀVYATĪRTHA
PANDIT S’RĪ DHUNDHIRÂJA S’ĀSTRĪ
Principal N, Veda Vidyalaya, Benâres.
AND
VEDĀCHĀRYA PANDIT ŚRĪ MĀRTANDA ŚĀSTRĪ
Professor of Veda, Goyanka Sanskrit
Vidyalaya, Beuares.
______
FASCICULUS. VIII-X.-20.
_______________________
PUBLISHED BY THE SECRETARY,
CHOWKHAMBA SANSKRIT SERIES OFFICE.
Benares City.
_______
1938
<MISSING_FIG href="../books_images/U-IMG-169572545810.png"/>
Printed by Jaya Krishna Das Gupta
at the Vidya Vilas Press, Benares.
1938.
THE
CHOWKHAMBĀ SANSKRIT SERIES.
A
COLLECTION OF RARE & EXTRAORDINARY SANSKRIT WORKS.
No’s. 428, 429, 430, 439, 442, 451, 452, 460, 461 & 462.
<MISSING_FIG href="../books_images/U-IMG-169572643412.png"/>
THE
SAMSKĀRA GAṆAPATI
BEING AN EXHAUSTIVE COMMENTARY OF THE PĀRASKARA
GRHYASŪTRA with Text.
(From the begining to Kandikā XII of Kāṇda II )
BY
YĀJNÌKA S’RĪ RĀMA KRIS’NA S’ARMĀ
Edited by
NYĀYĀCHĀRYA KĀVYATIRTHA
PT. DHUNDHIRĀJA S’ĀSTRI
Principal, N. V. Vidyalaya, &
VEDĀCHĀRYA
PT. MĀRTANDA S’ĀSTRI
Prof. Goyanka Sanskrit College, Benares.
FASCICULUS, I–X. - 20.
<MISSING_FIG href="../books_images/U-IMG-169572645313.png"/>
PUBLISHED BY
JAYA KRISHNADAS HARIDAS GUPTA
The Chowkhomba Sanskrit Series Office,
BENARES.
__________
1938
॥ श्रीः ॥
<MISSING_FIG href="../books_images/U-IMG-169572711800.png"/>चौखम्बा - संस्कृत ग्रन्थमाला<MISSING_FIG href="../books_images/U-IMG-16957271363.png"/>
( ग्रन्थ – संख्या ८० )
ग्रन्थाङ्काः४२८, ४२९, ४३०, ४३९, ४४२, ४५१, ४५२, ४६०,४६१, ४६२.
_________
याज्ञिकमूर्धन्य – रामकृष्ण – विरचितः
संस्कारगणपतिः ।
पारस्करगृह्यसूत्रीयप्रथमकाण्डमारभ्य द्वितीयकाण्डस्थद्वादशकण्डिकापर्यन्तविस्तृतविवरणरूपः ।
सम्पूर्णमूल क्षेपक-परिशिष्टादिसहितः ।
वाराणसेय नित्यानन्द वेदविद्यालयीय प्रधानाध्यापकेन
न्यायाचार्य पण्डित ढुण्ढिराजशास्त्रिणा
निर्ध्यातः
गोयनका संस्कृत विद्यालये यजुर्वेदाध्यापकेन
वेदाचार्य पण्डित मार्तण्डशास्त्रिणा
संशोधितः ।
_____
प्रकाशकः—
जयकृष्णदास - हरिदास गुप्तः—
चौखम्बा संस्कृत सीरिजआफिस,
बनारस सिटी ।
______
१९९५
अस्य सर्वेऽधिकाराः प्रकाशकेन स्वायत्तीकृताः ।
प्राप्तिस्थानम्—
चौखम्बा संस्कृत पुस्तकालय,
बनारस सिटी ।
॥ श्रीः ॥
पुस्तके सङ्कलितानां
विषयाणामनुक्रमणिका ।
<MISSING_FIG href="../books_images/U-IMG-1696529402Screenshot2023-10-05210906.png"/>
| विषयाः |
| भूमिका |
| विषयानुक्रमणिका |
| संस्कारगणपतिः |
| अवशिष्टगृह्यसूत्रम् |
| अवशिष्टक्षेपककण्डिकाः |
| शौचपरिशिष्टम् |
| भोजनपरिशिष्टम् |
| प्रमाणग्रन्थसूचीपत्रम् |
भूमिका \।
उपोद्धातः ।
अथायमारभ्यते संस्कारगणपतिनामा पारस्करगृह्यसूत्रीयसंस्कारप्रकरण-व्याख्यानरूपस्तत्प्रतिपादकनिबन्धनिकरेषु चूडामणिमहानिबन्धो मुद्रयित्वा प्रकाशयितुम् ।
संस्कारप्राधान्यम् ।
** **यद्यपीदमीयमूलसूत्रारणांगृह्यसूत्रमिति समाख्यया गृह्याग्निव्याप्तकर्मबोधकत्वं प्रतीयते, तथापि प्राणभृन्न्यायेन त्रेताग्निसाध्यसंस्कारेतरसंस्कारपरतया तादृक्कर्मप्रतिपादकत्वमवसेयम् । अस्य शुक्लयजुःशाखीयगृह्यसूत्रस्य विरचयिता महर्षिप्रवरः पारस्कराचार्य एव कात्यायन इति पारस्करसूत्रगदाधरभाष्यादिपर्यालोचनयाऽवगम्यत इति विद्वांसः । विक्रमसमात्पूर्व दशम-शताब्दीस्थितिकालस्यापस्तम्बस्य पूर्ववर्ती कात्यायनोऽयं वार्तिकप्रणेतुः कात्यायनापरनाम्नो वररुचेर्विभिन्न एव ।गृह्यसूत्राणां प्राचीनकर्कजयरामहरिहरगदाधराचार्यादिकृतभाष्यैः समलङ्कृतत्वेऽपि संस्काराणामेव स्मार्तकर्मसु प्राधान्यात्प्रचलितत्वाच्चेन्द्रयागादीनां परिशिष्टानामतथात्वात्तन्मात्रप्रतिपादकद्वितीयकाण्डीय चतुर्दशकण्डिकान्तग्रन्थस्यैव विवरण विहितं तत्रभवता विजयसिहदेवनृपतिसम्प्राप्तजीविकेन वाराणसीवास्तव्येन काण्वयजुःशाखीयेन कोण्डभट्टापरनामधेयकोनेर देवतनूजन्मना विद्वद्वर रामकृष्णयाज्ञिकमूर्धन्येनेति उपोद्धातीय पद्यसमुदायैः स्वयमेव निर्धारयिष्यन्ति विद्वत्प्रवराः । निखिलश्रौतस्मार्तकर्मसु संस्काराणामेव प्राधान्यमित्यत्र—
पञ्चविंशतिसंस्कारैः संस्कृता ये द्विजातयः ।
ते पवित्राश्च योग्याश्चश्राद्धादिषु नियोजिताः ॥(वीरमित्रोदये)
वैदिकैः कर्मभिः पुण्यैर्निषेकाद्यैर्द्विजन्मनाम् ।
कार्यःशरीरसंस्कारः पावनःप्रेत्य चेह च ॥
संस्कारैःसंस्कृतः पूर्वैरुत्तरैरनुसंस्कृतः ।
नित्यमष्टगुणैर्युक्तो ब्राह्मणो ब्रह्मलौकिकः ॥
ब्राह्मं पदमवाप्नोतियस्मान्न च्यवते पुनः । ( शंखस्मृतौ )
ब्राह्मसंस्कारसंस्कृत ऋषीणां समानतां गच्छति ।
दैवेनोत्तरसंस्कारेण संस्कृतो देवानां समानतां गच्छति ॥
( हारीवस्मृतौ)
स्वाध्यायेन व्रतैर्होमैस्त्रैविध्येनेज्यया सुतैः ।
महायज्ञैश्च यज्ञैश्चब्राह्मीयं क्रियते तनुः ॥( मनुस्मृतौ )
इत्यादीनि वाक्यजातानि प्रमाणीक्रियन्ते। तथा चैहिकपारलौकिकसकलकर्मजन्य-फलप्राप्तियोग्यतापादककायविशुद्धिसायुज्यतादिजनककर्मविशेषत्वं संस्कारत्वमिति संस्कारसामान्यलक्षणमव्याप्त्यादिदुष्टिविरहितत्वान्निर्दुष्टमिति बोध्यम् ।
संस्कार विभागः ।
** **ते च संस्कारा द्विविधाः—ब्राह्मा दैवाश्च । तथाच हारीतः—द्विविधो हि संस्कारो भवति ब्राह्मो दैवश्चेति । तत्राद्या गर्भाधानाद्याः, तथा चाऽत्रापि ‘हारीतः—
** गर्भाधानादिःस्मार्तो ब्राह्मःस्नानान्त इति ।**
आदिपदग्राह्यास्तु—
ग^(१)र्भाधानं पुंसव^(२)नं सीम^(३)न्तो ब^(४)लिरेव च ।
जा^(५)तकृत्यं नाम^(६)कर्म निष्क्र^(७)मोऽन्नाश^(८)नं परम् ॥
चौ^(१)लकर्मो^(१)पनयनं तद्व्रतानां चतुष्टयम् ।
स्नानोद्वाहौचाग्रयणमष्टक च यथा तथा ॥
श्रावण्यामायुज्यां च मार्गशीर्ष्या च पा^(२२)र्वणम् ।
उत्सर्गचाप्युपाकर्म महायज्ञाश्च नित्यशः ॥
संस्कारा नियता ह्येते ब्राह्मणस्य विशेषतः ।
इति वीरमित्रोदयप्रोक्ताः पञ्चविंशतिः ।
व्यासेन तु ।—
गर्भाधा^(१)नं पुंसव^(२)नं सीमन्तो जा^(४)तकर्म च ।
नामक्रिया^(४)निष्क्रमोन्नप्राश^(७)नं वर्णन क्रिया॥
कर्णवेधो व्र^(१)तांदेशो वेदारंभक्रियाविधिः ।
केशान्तः स्नान उद्वाहो विवाहोऽग्निपरिग्रहः ।
त्रेताहग्निसङ्ग्र^(१६)हश्चैव संस्काराः षोडश स्मृताः ॥
इत्यादिना षोडशै वोररीकृताः । एत एव चाधुनिकस्मार्तकर्मसु विशेषतः प्रचलितत्वात्सर्वसम्मता इत्यत्र—
त्रयोदशानामाद्यानामधिकारी पिता भवेत् ।
इतरेषां त्रयाणां स्यादधिकारी स्वयं सुतः ॥
इत्यादीनि गृह्यपरिशिष्टकारिकाद्युक्तवाक्यानिप्रमाणम् । एते च यद्यपि तत्तच्छाखासु प्रतिपादिता अभिन्ना एव, तथापि—
स्वे स्वे गृहे यथा प्रोक्तास्तथा संस्कृतयोऽख़िलाः ।
कर्तव्या भूतिकामेन नान्यथा भूतिमृच्छति ॥
इत्याद्यङ्गिरःस्मृत्यादिवाक्यसमूहैःस्वस्वशाखाविहिता एव तत्तच्छाखाशालिभिर्विधेया इत्यवधेयम्, अन्यथा शाखारण्डदोषपत्तेस्तथा चोक्तं वसिष्ठेन–
न जातु परशाखोक्तं बुधः कर्म समाचरेत् ।
आचरन्परशाखोक्तं शाखारण्डः स उच्यते ॥इति ।
एतेन सर्वदेशीयदशविवब्राह्मणानां विवाहादिसम्बन्धो वैध इति वदन्तः सर्वत्र साङ्कर्यमापादयन्तः पण्डितम्मन्याः केचिदाधुनिकाः प्रत्युक्ताः ।
संस्कारगणपतेर्विशेषः ।
ननु सत्स्वन्येषु सूत्रव्याख्यानेषु कुतोऽयमपूर्वव्याख्यानव्यापारायास इति चेत्, प्राचीनतमकर्काचार्यकृतभाष्यव्याख्यानोपजीविनां जयराम-हरिहरगदाधरादीनां यथासंख्यं मन्त्रविवरण-पद्धति - ज्योतिः शास्त्रानुसारितत्तत्कर्म शुभाशुभविहितप्रतिषिद्धयोग, प्रासङ्गिकार्कविवाहादिवर्णनरूपप्रधानविषयमात्रप्रतिपादकतया नाखिलविषयाणामेकेनैवावयवेन सम्प्रतिपत्तिरित्यालोच्य सकलसंस्कारेषु प्रासङ्गिकविषयेषु च प्रमाणभूतानि संहिता –सूत्र–स्मृति –तन्त्र –भाष्यादिवचनजातानि महता श्रमेणाऽन्विष्य ३७७ प्रमाण निबन्धानां साहाय्येन भूतपूर्वव्याख्या णां च कृत्स्नान् विषयान् यथावस्थितान् न्यायोपन्यासेन व्याचक्षाणेन श्रीरामकृष्णविदुषाऽतीत्यापि निखिलभाष्यकृतो न स्वव्याख्याने भाष्यत्वस्याभिमानलवोऽपि स्फुटीकृत इति नाव्यक्तं संस्कारगणपतिमधीयानानां याज्ञिकप्रवराणाम् । एवञ्च संस्कारोपयुक्तनि खिलविषयाणामाकरत्वात् संस्कारगणपतिः संस्कारान्तगृह्यसूत्रव्याख्याननि बन्धेषु प्रधान इत्युक्तौ न काव्यतिशयोक्तिः स्यात् ।
ग्रन्थकर्तृसमयपरिचयादि ।
** **ईदृशोऽस्य श्राद्धगणपतिसहोदरस्य महानिबन्धस्य निर्माता तत्रभवान् सुगृहीतनामधेयः श्रीरामकृष्णयाज्ञिको दाक्षिणात्य वैदिकसमाजे प्रसिद्ध एव । स चायं निर्णयसिन्धुकाराद्विद्वत्प्रकाण्डात्कमलाकरभट्टादुर्वाचीनः “शाकेत्रिनगभूपाख्ये” इत्यादिप्रस्तुतनिबन्धनिर्मातृविरचितश्राद्धगणपत्यन्तोक्तपद्येन १६८३ शालिवाहनशाके बभूवेति निर्धार्यते ।
कृतज्ञताप्रकटनम् \।
** **ईदृशस्यास्य दुर्लभस्य महानिबन्धस्य प्रकाशनाद्धर्माचार्याणां वर्णाश्रमधर्मिणाञ्च महानुपकारो भविष्यतीति मनसि कृत्वा मुद्रणाय प्रार्थितश्चौखम्बासंस्कृतपुस्तकालयाध्यक्ष प्राचीनग्रन्थानां समुद्धरणे बद्धपरिकरः श्रेष्ठकुला वतंसः श्रीजयकृष्णदासगुप्तमहोदयः स्वव्ययेनैनं महानिबन्धं स्वकीयविद्या–
विलासयन्त्रालये मुद्रितवानिति तस्मै सादरं कोटिशो धन्यवादान्प्रयुंज्महे ।
आदर्शपुस्तकत्रयमालम्व्यैतस्य संस्करणं सम्पादितं बभूव । यत्रैकं श्रीमतां प्रातः स्मरणीयानां तातपादानां तर्कतीर्थोपाधिसमलङ्कृतानां बटुकनाथशास्त्रियां नाथपुस्तकालयस्थं प्रायशः शुद्धं प्राचीनं च । द्वितीयं पुनः काण्वयजुःशाखीयानां काशीस्थकाशीनाथखोडभट्टमहोद्यानां प्रायशःप्रथमपुस्तका.‘नुकारि नवीनलेखसंयुक्तम् । तृतीयन्तु श्री पं० दुर्गाशङ्कर लक्ष्मीशङ्करभट्ट ( ‘भुज’ कच्छनिवासि ) महोदयद्वारा म०म० पं० नित्यानन्दपन्तपर्वतीयमहोदयैर्दत्तं तदेव प्रायशोऽशुद्धम् ।आदर्शत्रिकेऽपि संस्कारान्तव्याख्यानस्योपाकर्मपद्धत्त्यन्तस्यैवोपलब्धेरेवास्माभिरस्य सूत्रव्याख्याननिबन्धस्य संस्कारगण पतिरित्येतन्नामान्वर्थमिति निर्धारितम् । प्रयोजनं चास्य पुरस्तात् प्रोक्तमेव ।
अतोऽन्ते पुस्तक प्रदानेनापूर्वसाहाय्यमाचरयो बहुशो धन्यवादान् कृतज्ञतया वितीर्य मूलसंशोधनादिकर्मणि विशेषश्रमेण साहाय्यकं विदधतेऽस्मत्प्रियान्तेवासिने वाराणसेयगोयनकासंस्कृतमहाविद्यालयीयशुक्लयजुर्वेदा ध्यापयित्रे घोडेकरोपाह्णमार्तण्डशास्त्रिणे शुभाशिषं प्रदाय च हंसक्षीरन्यायेन दोषदृष्टीकज्झित्वा गुणैकपक्षपातिनां याज्ञिकानामनेन श्रमेण यदि उपकारलेशोऽपि भवेत्तदा कृतकृत्यो भवेयमित्याशासे । ग्रहमण्डलचक्रादिसंशोधनकर्मणि सामयिकमवलम्वं प्रयच्छतां दैवज्ञप्रवर पं० यागेश्वरपाठकानां चोपकृतीःकदापि न विस्मरिष्यामः । अत्र चाधुनिकै प्रकाशितेषु पारस्करगृह्यसूत्रमूलपुस्तकेषु भाष्यकारै व्याख्याताः प्राचीनतम मूलपुस्तकेष्वनुपलब्धा अपि काश्वित्क्षेपककण्डिकाःपरिशिष्टभूता मध्ये निवेश्य मुद्रिता उपयुक्ता अपि
ग्रन्थकर्ता प्रकरणवशादापतिता व्याख्याताः काचरित्यक्ता अपि कियत्यः । अतो ग्रन्थकर्तृव्याख्यावशिष्टपारस्करगृह्यसूत्रमूलकण्डिका अव्याख्यातक्षेपकपरिशिष्टकण्डिकाञ्च ग्रन्थान्ते संनिवेश्य समूलगृह्यसूत्रक्षेपकपरिशिष्टाध्येतृृणामपि हितं विहितमिति । एवं यथामति संस्कृतस्याप्यस्य निबन्धस्य विषयाणां सौकर्येण बोधार्थमखिलविषयाणां सूचीपत्रं प्रमाणग्रन्थानामकारादिक मेणानुक्रमणिका च निवेशिता ।कृतेऽपि संस्करणश्रमेऽत्र दृष्टिदोषेणाज्ञानतो वा सीसकाक्षरयोजकदोषेण वा सुलभानिस्खलितानि क्षाम्यन्तु गुणैकपक्षपातिनो विद्वांसः, प्रीयताञ्चानेन व्यापारेण त्रिलोकोलोकमनोमन्दिरचरं श्रीकृष्णाख्यं मह इति प्रार्थयते—
अगस्त्याश्रमः
विदुषामनुविधेयः
दीपावली १९९५
<MISSING_FIG href="../books_images/U-IMG-16957421420000.png"/>
दुण्ढिराजशास्त्री ।
अथ संस्कारगणपतिस्थविषयाणां—
अनुक्रमणिका ।
<MISSING_FIG href="../books_images/U-IMG-169578956702.png"/>
| विषयाः | विषयाः |
| मङ्गलाचरणम् | तैत्तिरीयशाखोत्पत्तिप्रकारः |
| ग्रन्थकर्तृपरिचयः | अस्याः षडशीतिभेदाः |
| (प्रथमा कण्डिका) | याज्ञवल्क्यस्य वेदलाभः |
| अथशद्वस्य मङ्गलार्थत्वम् | काण्वशाखायाः प्राथम्यम् |
| वेदपुरुषस्याङ्गानि | शुक्लस्य पञ्चदश भेदाः |
| उपाङ्गानि | यजुर्वेदस्य लक्षणम् |
| स्मार्तानां वेदमूलकत्वम् | साम्नः सहस्रास्ववशिष्टाः शाखाः |
| वेदप्रशंसा | अथर्ववेदस्य भेदाः |
| वेदार्थज्ञानफलम् | तेषां पञ्च कल्पानि |
| वेदानध्ययने प्रत्यवायः | वेदानामुपवेदाः |
| संस्कारद्वैविध्यम् | आदौस्वशाखीयाशीर्ग्रहणम् |
| पञ्चविंशतिसंस्काराः | वेदेषु यजुषः प्राधान्यम् |
| षोडश संस्काराः | त्रैवर्णिकानामेव वेदाध्ययनाधिकारः |
| स्वशाखीयं कर्म कार्यम् | शूद्रादीनामध्यापने दोषः |
| शाखान्तरीयकर्माचरणे दोषः | परीक्ष्य शिक्षणीयम् |
| स्वशाखानुक्तं पराक्तं ग्राह्यम् | गृह्यशब्दार्थः |
| धर्मशास्त्रकर्तार ऋषयः | स्मार्ताग्नावन्यहोमनिषेधः |
| पौरुषा आचार्याः | स्मातेषु स्वस्यैवकतृत्वम् |
| शास्त्रोच्छेदकालः | परिसमूहनविधिः |
| वेदानां शाखाभेदविषयिणो कथा | उपलेपनप्रयोजनम् |
| चतुर्विंशत्यवताराः | उल्लेखनविधिः |
| ऋग्वेदस्य शाखाः | उद्धरणविधिस्तदावश्यकता च |
| यजुर्वेदस्य द्वैविध्यम् |
| अभ्युक्षणप्रकारः | स्वाहान्ते होमः |
| अग्निप्रणयनविधिः | स्नुवमूलगोपनम् |
| ब्रह्मोपवेशनम् | पाण्याद्याहुतिपरिमाणम् |
| ब्रह्मणा दक्षिणावस्थानप्रयोजनम् | सर्वाहुतिषु हुतशेषस्थापनम् |
| कौशब्रह्मपरिमाणम् | बहिःपतितहविषां जले क्षेपः |
| प्रणीतालक्षणम् | पाकयज्ञेषु दक्षिणा |
| तत्पूरणप्रकारः | पूर्णपात्रलक्षणम् |
| परिस्तरणम् | वरलक्षणम् |
| पात्रासादनम् | कुशकण्डिकाप्रयोगः |
| पवित्रकरणविधिः | आवसथ्याधानप्रशंसा |
| प्रोक्षणीलक्षणम् | तदधिकारिणः |
| आज्यस्थालीप्रमाणम् | स्त्रीणामपि भर्त्रा सहाधिकारः |
| चरुस्थालीप्रमाणम् | मनग्निकज्येष्ठसत्वे कनिष्ठस्थानधिकारः |
| समिल्लक्षणम् | केषां चित्परिवेदनेऽप्यदोषः |
| स्नुवलक्षणम् | ज्येष्ठानुशयाऽऽधानम् |
| असञ्चरस्थानम् | अधिकारिणोऽऽकृताधानस्य दोषः |
| घृताभावे प्रतिनिधिः | (द्वितीया कण्डिका) |
| व्रीह्यादिहर्वीषि | आधानकालः |
| सम्मार्जनार्थं कुशाः | कालातिक्रमे प्रायश्चित्तम् |
| तेषां वह्नौ प्रहरणम् | मूल्याध्यायः |
| स्नुक्स्नुवयोर्दक्षिणे निधानम् | कपर्हिकोपणमानम् |
| प्रागग्रसमिदाधानम् | ताम्रपणः |
| पर्युक्षणहेतुः | कर्षपरिमाणम् |
| समन्त्रककुशकण्डिकाकरणम् | सुवर्णसंज्ञा |
| नित्या व्पाहुतयः | रौप्यपणप्रमाणम् |
| समिद्धे होतव्यम् | सौवर्णः पणः |
| अग्निधमने विशेषः | राजतः पाणः |
| मुखधमननिषेधः | रजतमाषस्वरुपम् |
| दम्पत्योस्त्यागकरणम् | वरमूल्यम |
| कर्मविशेषेऽस्थाने स्विष्टकृत् |
| वृषमूल्यम् | एकवस्त्र निषेधः |
| अनडुन्मूल्यम् | आंचमने जलप्रमाणम् |
| धेनुमूल्यम् | गोकर्णलक्षणम् |
| अश्वमूल्यम् | वस्त्राद्याच्छादिते पीठ उपवेशनम् |
| हिरण्यमुल्यम् | पोठप्रमाणम् |
| वस्त्रमूल्यम् | पत्नीकुमाराद्युपवेशनम् |
| छागमूल्यम् | आचमनप्राणायामगणपत्यादिस्मरणविधिः |
| अविमूल्यम् | सङ्कल्पकरणम् |
| वृषलीमूल्यम् | स्थालीपाका वैश्वदेवात्पूर्वं कार्याः |
| निष्कमूल्यम् | वैश्वदेवस्य पौर्वापर्यविचारः |
| गजमूल्यम् | गणपतिपूजनन् |
| दोलामूल्यम् | गणेशपूजाविधिमाह |
| रथमूल्यम् | गृह्मकर्मणि कण्डिकान्ता मन्त्राः |
| गृहमूल्यम् | षोडशोपचाराः |
| ताम्रमूल्यम् | नवग्रहमखावश्यकत्वम् |
| एतच्चक्रप्रस्तारः | पुण्याहवाचनं पारक्यं ग्राह्यम् |
| आहरणपक्षे आधानम् | तत्कुत्र कार्यम् |
| आरणेयपक्षः | तत्रेतिकर्त्तव्यता |
| अरणिलक्षणम् | अष्टदलकमलकरणप्रकारः |
| शमोगर्भलक्षणम् | कलशस्थापनम् |
| अरणिमानम् | ब्राह्मणस्य साङ्कारं पुण्याहवाचनम् |
| अरणयवयवाः | पुण्याहवाचनविधिः |
| प्रमन्थादिपरिमाणम् | त्रिस्त्रिर्वाचनम् |
| अनिरुक्तदेवता | मन्द्रमध्योश्चस्वरैः |
| गर्भाधानादिषु ब्राह्मणभोजनसंख्या | स्वस्तियोगे चतुर्थी (टिप्परायांविशेषः) |
| कर्मान्ते आशीर्वादग्रहणम् | कलशस्थजलेनाभिषेकः |
| कर्मादौ मङ्गलस्नानम् | अभिषेकमन्त्राः |
| महतादिवस्त्रलक्षणम् | प्रयोगमध्ये ऋष्यादिस्मरणनिषेधः |
| मातृकापूजा | तिलादिशब्दव्यत्ययः |
| श्राद्धस्य कर्माङ्गत्वम् | अर्घदाने विशेषः |
| षोडश मातरः | अत्र निषिद्धानि कर्माणि |
| स्वगृह्योक्त्यभावे स्वेच्छ यान्यग्रहणम् | विकरविकल्पः |
| मातृपूजाविधिः | स्वधादिनिषेधः |
| वसुधारा | प्रथमान्तः सङ्कल्पः |
| नान्दीश्राद्धे पिण्डदानं यथाकुलाचारम् | पिण्डद्रव्याणि |
| श्राद्धाकरणे वैदिककर्मककरणानषेधः | बहिःशालायां पिण्डदानम् |
| तत्कदा भवति | अत्र प्रदक्षिणमुपचारः |
| इष्टापूर्त्तशद्वार्थः | अत्र प्रपितामहपूर्वकनामग्रहणम् |
| असकृत्क्रियमाणकर्मसु एकदैव मातृश्राद्धम् | तन्निषेधः |
| युगपत्संस्कारेष्वेकमेवमातृश्राद्धम् | आश्वलायनानामप्यनुलोमक्रम एव |
| अत्र कृत्स्ना देवधर्मः | आथर्वणानां प्रतिलोमक्रमः |
| अत्र ब्राह्मणानां प्राङ्मुखत्वं वोदङ्मुखत्वम | अवनेजनपिण्डदानादि देवतीर्थेनैव |
| यजमानस्य च वा प्रागुदङूमुखत्वम | प्राजापत्यं शाखान्तरविषयम् |
| अत्र विश्वेदेवौ | अत्र क्षीरेणावनेजनम् |
| एतस्य दिनत्रयसाध्यत्वम | कातीयानां तन्निषेधः |
| इष्टिश्राद्धादिभेदः (टिप्पण्याम्) | एकैकस्मै पिण्डद्वयम् |
| एकदिने कालत्रयसाध्यत्वं वा | तन्निषेधः |
| सर्वेषां पूर्वाह्णसाध्यत्वं वा | पिण्डद्वयदानं शाखान्तरविषयं कुलधर्मविषयं वा |
| षड्दैवतमेतत् | अत्र पिण्डदानं वैकल्पिकम् |
| नवदैवतं वा | आहिताग्नेः सपिण्डकश्राद्धम् |
| अत्र उपास्मै मन्त्रजपविधानम् | यथाकुलाचार वा पिण्डदानम् |
| आवाहने विशेषः | मौनी जपं कुर्यात् |
| पित्रादित्रिभ्यः पूव षां नान्दीमुखत्वम् | सम्भाषणे प्रायश्चित्तम् |
| अत्र कर्तृनिर्णयः | दक्षिणकर्णस्पर्शः |
| अक्षय्योदकदानम् | पुरश्चरणम् |
| तद्द्रव्यम् | संन्यासिनां होमादिनिषेधः |
| अत्र युग्मा ब्राह्मणाः | होमाशक्तौ द्विगुणादिजपः |
| अत्र दक्षिणाद्रव्यम् | प्रत्यहं जपदशांशतर्पणं लक्षान्ते वा |
| अपिण्डकवृद्धिश्राद्धम् | तर्पणदशांशेन मार्जनम् |
| अग्नौकरणादिनिषेधः | होममुद्राः |
| नान्दीश्राद्धान्ते कतिदिनमध्ये मङ्गलं कर्त्तव्यम् | मुद्रालक्षणम् |
| अस्य स्पष्टप्रयोगः | अग्निकर्णादिहोमे फलम् |
| ग्रहयज्ञस्त्रिधा | नपविधिः |
| स्कान्दोक्तं ग्रहदोषपीडितानां वर्णनम् | न्यासादिरहिते फलम् |
| ग्रहशान्त्यनुकल्पाः | वेदमन्त्रे न पल्लवादिविचारः |
| नव ग्रहाः | अग्नि संस्थाप्य ग्रहान्स्थापयेत् |
| अत्र चतुर्द्वारमण्डपविधानम् | ग्रहजन्माद्यज्ञाने दोषः |
| कुण्डमेखलाविधानम् | ग्रहजन्मभुवः |
| गजोष्ठा अश्वत्थपत्रा वा योनिः कार्या | ग्रहगोत्राणि |
| ग्रहवेदिकाविधानम् | ग्रहाग्नयः |
| तत्र वप्रपरिमाणम् | ग्रहवर्णाः |
| ऋत्विग्वरणम् | ग्रहस्थानानि |
| ऋत्विगापदि कर्ताऽन्यं वृणुयात | ग्रहप्रतिमाद्रव्याणि |
| रक्षाबन्धनम् | ग्रहमुखानि |
| जपस्थानम् | ग्रहपीठाकृतयः |
| आसनविचारः | प्रकारान्तरेण पीठानि |
| जपमाला | अङ्गुलसंख्यानियमः |
| कामनायां विशेषः | वशिष्ठोका ग्रहशान्तिः |
| मालासंस्कारः | |
| आर्द्रवाससा जपादिनिषेधः |
[TABLE]
| विष्टरलक्षणम् | अनाश्रमिणः सर्वं निष्फलम् |
| मधुपर्कतौल्यम् | स्त्रियमन्तरा सर्वं व्यर्थम् |
| प्रत्यङ्मुखः प्राङ्मुखमर्हयेत् | विवाहः पञ्चाङ्गः |
| “वर्ष्मास्मी”त्यस्योपवेशन | वाग्दानात्पूर्वं प्रेक्षणीयम् |
| एव विनियोगः | विवाहयोग्या कन्या |
| मन्त्रार्थः | पुनर्भुवां व्यावृत्तिः |
| मन्त्रेण जलं गृहीत्वा | सप्त पौनर्भुवः |
| स्वयं पादौ क्षालयेत् | साप्तपौरुषं सापिण्डयम् |
| अर्ध्यग्रहणं तन्मन्त्राश्च | मातृपितृभेदेन सापिण्ड्यम् |
| अर्धशब्दवाच्यम् | तद्व्यावृत्तिः |
| विप्राणामपमृत्युकारणम् | सपिण्डाविवाहे दोषः |
| मन्त्रावृत्या त्रिर्निरुक्षणम् | नर्मदोत्तरवासिनां सापिण्ड्यम् |
| तथव प्राशनं नात्रोच्छिष्टदोषः | शाकटायनमतम् |
| पुत्राय शिष्याय वा शेषदानम् | अलाभे तृतीयां चतुर्थी वा, |
| सर्वप्राशनं वा प्राकूक्षेपणम्, | विजातीय सापिण्ड्यम् |
| आचमनं प्राणस्पर्शनञ्च | मातुलकन्यापरिणयनिर्णयः |
| गवालम्भनमावश्यकम् | उभयतस्तृतीयां विवाहयेत् |
| तच्च कलौ वर्ज्जम् | भागिनेयाय कन्यादाननिदर्शनम् |
| तच्च कलौ तुत्सृजेत् | सुभद्रोद्वाहनिदर्शनम् |
| विधिना बरार्थनान्ते तद्न्धूनपि पूजयेत् | सापिण्ड्यंसङ्कोच्य मातृपितृष्वसृसुतोद्वाहः |
| वरस्य शाखया मधुपर्कः | अत्र श्रुतिनिदर्शनम् |
| तन्निषेधः | दक्षिणोत्तरदेशयोर्विशेषः |
| ( चतुर्थी कण्डिका ) | इदं यद्देशेऽनिषिद्धं तैः कार्यम् |
| गृह्याग्नौ कर्मकरणविधिः | गतानुगतिकत्वम् |
| गार्हस्थ्यं सर्वेषामुपकोरकम् |
| मातुलकन्योद्वाहः कलिवर्ज्यः | क्षत्रवैश्ययोर्गुरुगोत्रानिषेधः |
| माध्यन्दिनोयानां निषेधः | द्व्यामुष्यायणादीनां गोत्रद्वयेऽप्यनुद्वाहः |
| विवाहितायाः पालनं न तूत्सर्गः | सप्रवशकन्योद्वाहे निष्कृतिः |
| अविरुद्धसम्बन्धाया विवाहः | अन्यथाकरणे दोषः |
| सापत्नमातृभगिन्युद्वाहनिषेधः | वरस्य सप्त गुणाः |
| अविवाद्याग्रहणे चाण्डालता | कुलस्य मुख्यत्वम् |
| प्रत्युद्वाहादिनिषेधः | वपुषः परीक्षा |
| सापत्नमातृसम्बन्धनिषेधः | षड्भ्यः कन्या न देया |
| अविवाह्यापरिगणनम् | नपुंसकलक्षणम् |
| दत्त के निर्णयः | वरगुणाः |
| दप्तकादीनामपि जनकसापिण्ड्यम् | कन्यादूषणानि |
| स्वगोत्र निवृत्तिकालः | कन्यागुणाः |
| कन्याया वरस्य च वयः | स्त्रीलग्नविचारः |
| अभ्रातृमत्या ग्रहणनिषेधः | बालवैधव्ययोगपरिहारः |
| यद्युद्वद्देत् तत्क्रयार्थं द्रव्यदानम् | वरवध्वोररिष्टयोगपरिहारः |
| पुत्रिकाकरणम् | सावित्र्यादिव्रतैः सौभाग्यम्, |
| पुत्रिकापुत्रस्य मातामहगोत्रत्वम् | व्रतग्रहणप्रकारः |
| गोत्रनिर्णयः | अश्वत्थादिविवाहः |
| प्रवरशब्दार्थः | कुम्भादिविवाहः |
| समानगोत्रत्वम् | अश्वत्थविवाहविधिः |
| सप्त ऋषयः | विष्णुप्रतिमा विवाहविधिः |
| अष्टादश गणाः | अत्र पुनर्भूत्वदोषाभावः |
| एतेषां विवेचनम् | उदाहरणम् |
| सावित्रीदातुः कन्याग्रहणनिषेधः | एतेषां प्रयोगाः |
| एतद्विधानात्कन्या शुद्धा भवति | |
| मूलजादीनां फलम् | |
| विषकन्यालक्षणम् | |
| भमेलकम् | |
| वर्णैक्यम् |
| अन्योन्यवैरिणः | सप्तविधा अन्त्यजाः |
| योनिविचारः | बृहस्पतिशान्तिविधानम् |
| ग्रहमैत्री | अस्याः प्रयोगः |
| तत्कालमैत्रीप्रकारः | आदित्यशान्तिः |
| ग्रहमत्रीचक्रम् | तत्प्रयोगः |
| गणमैत्रीविचारः | चन्द्रबलम् |
| अस्यापवादः | घातचन्द्रः |
| भकूटम् | तदपवादः |
| दुष्टकूटे परिहारः | जन्मचन्द्रविचारः |
| विवाहयोग्यं षडष्टकम् | जन्मभविचारः |
| नाडीविचारः | द्वादशचन्द्रमसः प्राशस्त्यम् |
| देशभेदेन नाडीविचारः | रोहिणीयुक्तचन्द्रः सकलदोषहारकः |
| अस्यापवादः | ताराबलम् |
| एकराशौ द्विनक्षत्रे वर्ज्यभानि | दुष्टतारापरिहारः |
| एकनक्षत्रयोगः | विवाहादौ त्याज्यम् |
| द्वितीयविवाहादौ सङ्कीर्णविषयाः | गुर्वादित्ययोगः |
| अथ पुञ्जी | वक्रातिचारविचारः |
| घर्गविचारः | सिंहस्थगुरुविचारः |
| नृदूरविचारः | तत्र शुभकर्मनिषेधः |
| कन्याया विवाहकालः | अस्यापवादः |
| रजोदर्शने दोषः | व्रतोद्वाहयोर्मङ्गलसंज्ञा |
| ऋतुमतीप्रतिग्रहे दोषः | अत्र कर्तव्यानि |
| ब्राह्मणस्यैव रजस्वलापरिग्रहनिषेधः | मकरस्थगुरोरपवादः |
| स्वयम्वरः | गुरुशुक्रमौढ्यादिविचारः |
| गुर्वर्कवलविचारः | एतद्दाषापवादः |
| दुर्बलयोः पूजा विधेया | प्रतिदिनास्तनिषेधः |
| अतिचारगते गुरौ तद्राशिफलम् | लुप्तसंवत्सरलक्षणम् |
| अस्यापवादः | अस्य क्वचिदपवादः |
| गोचरबलाभावेऽष्टवर्गादिबलं ग्राह्यम् | अधिसंवत्सरविचारः |
| शुभेषु वर्ज्योऽधिवत्सरः | द्वारदेशे नीराजनादि |
| ग्रहणात्पूर्वं परं च त्याज्यम् | देशान्तरे वधूगृहं चेद्विशेषः |
| ग्रहण नक्षत्रमृतुत्रयं वर्ज्यम् | वधूवरयोर्भोजननिर्णयः |
| ग्रहवेधदोषाभावः | रात्रिविवाहे भोजने विशेषः |
| शुभदोत्पाताः | रात्रौ स्नानविधिः |
| अशुभोत्पाताः | पञ्चभूसंस्कारनिर्णयः |
| उत्पातोर्ध्वंसप्ताहं मङ्गलनिषेधः | उत्तरायणे विवाहः |
| वाग्दानम् | वर्णभेदेनर्तुविधानम् |
| तत्प्रयोगः | प्राजापत्यादिचत्वारो विवाहा उक्तकालेष्वेव |
| कन्यावरणम् | अथ मालाः |
| तद्विधिः | मासानां फलानि |
| ततः शचीपूजनम् | मासश्चतुर्विधः |
| कन्या प्रार्थयेत् | सौरेण चान्द्रेण वा विवाहादि |
| वरवरणम् | देशभेदेन व्यवस्था |
| मृदाहरणम् | ज्येष्ठे ज्येष्ठयोविवाहादिनिषेधः |
| विवाहात्प्राक्कर्त्तव्यम् | ज्येष्ठवरस्य ज्येष्ठकन्यानिषेधः |
| विवाहादिषु मण्डपप्रकारः | ज्येष्ठपञ्चकफलम् |
| वेदीमानम् | अस्यापवादः |
| पक्षान्तरम् | जन्ममासादिविचारः |
| वाजसनेयिनां विशेषः | जन्ममासप्रवृत्तिः |
| व्रतबन्धवेदिका | तद्व्ययवस्था |
| अन्यः पक्षः | ब्राह्मणस्य शुक्लः पक्षः |
| वेदीपश्चिमे भित्तिः कार्या | पञ्चाङ्गशुद्धिः |
| मण्डपादौ स्तम्भनिवेशनकालः | तिथयः |
| तैलवन्दनम् | वाराः |
| वरपितुर्विवाहात्पूर्वं कर्तव्यम् | नक्षत्राणि |
| वरानयनम् | अत्र विशेषः |
| वरयानम् | योगाः |
| रामविवाहकथा |
| करणानि | मुहूर्त्तलक्षणम् |
| लग्नानि | दिवामुहूर्ताः |
| नवांशफलम् | रात्रिमुहूर्ताः |
| सङ्क्रान्तिदोषः | वारभेदेन निषिद्धमुहूर्ताः |
| युतिदोषः | वारदोषः |
| विषघटिकादोषः | एतच्चक्रम् |
| खार्जूरिकदोषः | अस्यापवादः |
| एकार्गलचक्रम् | लग्नानामन्धादिदोषाः |
| दशयोगचक्रम् | एषामपवादः |
| अस्यापवादः | उदयास्तशुद्धिः |
| महापातदोषः | अष्टमलग्नदोषः |
| महापातवैधृतिलक्षणम् | अस्यापवादः |
| पञ्चशलाकावेधः | षड्वर्गवलम् |
| चरणवेधः | षड्वर्गापवादः |
| पञ्चशलाकाचक्रम् | कर्तरीदोषः |
| सप्तशलाकावेधः | तदपवादः |
| तच्चक्रम् | जामित्रदोषविचारः |
| अस्यापवादः | तदपवादः |
| अथ लप्ता | रिःफषडष्टेन्दुदोषः |
| सूर्यादिलत्ताफलम् | अस्यापवादः |
| उपग्रहाः | भृगुषष्ठदोषः |
| पातः | अस्यापवादः |
| बाणः | कुजाष्टमदोषः |
| द्वितीयः प्रकारः | अस्यापवादः |
| वज्रः | भावफलम् |
| एषामपवादः | अथ गोधूलिकं लग्नम् |
| अयं खार्जूरकेऽपि | गोधूलिकसमयज्ञानम् |
| अकालवृष्टिदोषः | गोधूलीप्रशंसा |
| गण्डान्तदोषः | घटीयन्त्रप्रकारः |
| नक्षत्रगण्डान्तः | सुवर्णपरिमाणम् |
| लग्नगगण्डान्तः | घटीयन्त्रस्थापनप्रकारः |
| दुर्मुहूर्त्तदोषः | तन्मन्त्रः |
| यन्त्रभ्रमणफलम् | कन्यादातृनिर्णयः |
| लग्नपत्रलेखनम् | देशान्तरस्थे बाले वादातरि मातैव दद्यात् |
| विंशतिप्रसूतायाः पुनर्विवाहः | कन्यादानविधिः |
| शुद्रकन्याग्रहणनिषेधः | कन्यायाः प्रत्यङ्मुखत्वम् |
| मुख्या दाराः | वरस्य प्राङ्मुखत्वम् |
| प्रथमविवाहे सवर्णैव | कांस्यपात्रस्थापनादि |
| विवाहभेदाः | पुरुषोच्चारणक्रमः |
| ब्राह्मादिलक्षणानि | गोत्राद्युच्चारणम् |
| दैवलक्षणम् | अन्यदपि पात्रादि देयम् |
| आर्षलक्षणम् | तिष्ठन्कन्यादानम् |
| प्राजापत्यलक्षणम् | अक्षतारोपणविधिः |
| आसुरलक्षणम् | कन्यादानफलम् |
| आसुरनिन्दा | विशेषेणदातुः फलम् |
| तत्प्रायश्चित्तम् | कङ्कणबन्धनम् |
| गान्धर्वलक्षणम् | गौरीहरपूजनम् |
| राक्षसलक्षणम् | मङ्गलसूत्रम् |
| पैशाचलक्षणम् | दुग्धेनाम्रसेचनम् |
| एषां वर्णविशेषेण व्यवस्था | दीपप्रार्थना |
| गान्धर्वादिष्वपि पश्चाद्वैवादिकोविधिः | वामहस्ते गृहीत्वा निष्कामेत् |
| होमाभावे भार्यात्वाभावः | आदायेतिपदार्थः |
| संस्कारावश्यकता | उदकुम्भधारणम् |
| आसुरादिविवाहेषु प्रायश्चित्तम् | ( पञ्चमी कण्डिका ) |
| ब्राह्मादिफलम् | तेजनीशब्दार्थः |
| ब्राह्मणाय दाने फलातिशयम् | वेद्यामेकासने दक्षिणे वधूमुपवेशयेत् |
| विवाहविधिः | वेद्यां कन्यानयनप्रकारः |
| तण्डुलराशिप्रमाणम् | त्रयोदश जयाहुतयो घृतेनैव देयोः |
| अन्तः पटधारणम् | जयामन्त्राणां चतुर्थ्यन्तप्रयोग निषेधः |
| अहतलक्षणम् | रुद्राद्याहुत्यन्ते जलस्पर्शनम् |
| प्राशनान्ते परम्मृत्यवित्याहुतिः | दिवा विवाहश्चेत्सूर्यावेक्षणम् |
| ( षष्ठी कण्डिका ) | चतसृभिः स्त्रीभिः सुमङ्गलीकरणम् |
| लाजाशब्दार्थः | सिन्दूरदाने स्त्रियं वामत उपवेशयेत् |
| अत्रैकामाहुतिं त्रिधा जुहुयात् | गुप्तागारे रोहितानडुच्चर्मोपवेशनम् |
| गृहीताञ्जलिना पत्या सहैव | विवाहश्मशानयोर्ग्रामाचारप्राधान्यम् |
| भ्रातुरभावे बान्धवादिः | अत्र वृद्धस्त्रीवचनं प्रमाणम् |
| साङ्गुष्टोत्तानहस्तग्रहणम् | विवाहेऽभ्रातृका प्रतिषिद्धा |
| क्षत्रियादिविवाहे शरादिग्रहणम् | ध्रुवदर्शनम् |
| ( सप्तमी कण्डिका ) | विवाहमारभ्य होमान्तं वध्वा घाड्नियमनम् |
| शिलारोहणविधिः | दम्पत्योः शक्त्या व्रताचरणम् |
| वरस्यैव गाथागानम् | व्रते नियमाः |
| पुनर्हस्तग्राहं परिकामतः | त्रिरात्रादिपक्षाणां वयोविशेषाद्व्यवस्था |
| एवं पुनर्द्विः | श्वशुरालये दिनचतुष्टयंवासः |
| चतुर्थं शुर्पकुष्ठयाऽऽवपनम् | विवाहे दम्पत्योः सह भोजनम् |
| सकृत्सर्वानेव जुहोति | एकपात्रे सदैव हविष्यभोजनम् |
| अत्र तूष्णीं परिक्रमः | भोजनकाले वरस्य घृतेनापोशनम् |
| नेतरथावृत्तिः | कर्मान्तेमन्त्राशिषं गृह्णीयात् |
| लाजादीन् बाह्यतः कृत्वा परिक्रमणम् | चतुर्षु दिनेषु कर्तव्यविशेषः |
| ( अष्टमी कण्डिका ) | मधुपर्कप्रयोगः |
| सप्तपदीविधिः | इन्द्राणीपूजनम् |
| अस्या आवश्यकता | अग्निस्थापनादिविवाहविधिः |
| भार्यात्वसिद्धिः | कन्यादानम् |
| सप्तमपदातिकमे पतिगोत्रप्राप्तिः |
| गवादिदानमन्त्राः | अनापदि पक्षहोमे प्रायश्चित्तम् |
| गौरी हरेन्द्राणीप्रार्थना | ( दशमी कण्डिका ) |
| सूत्रबन्धनमन्त्रः | नैमित्तिकं कर्म |
| आम्रसेचनमन्त्राः | तत्प्रयोगः |
| दीपप्रार्थना | ऐरिणीपूजनम् |
| गृहान्निष्क्रमणादिप्रयोगः | तत्र कर्त्तव्यता |
| ( नवमी कण्डिका ) | अकृते दोषः |
| अस्तमितलक्षणम् | ऐरिणीस्वरूपम् |
| अनुदितो द्विविधः | ऐरिणीदानप्रयोगः |
| मुख्याभावे गौणकालेऽपिकर्म | ( एकादशी कण्डिका ) |
| गौणकालपरिमाणम् | चतुर्थी कर्मकालादि |
| नित्यहानौ प्रायश्चित्तम् | षडाहुतिसंस्रवो वर्द्धिन्यां देयः |
| स्वयं स्वस्थाभावे पत्न्यादयः | वधूसंस्कारत्वाद्द्व्यानाशेऽन्यत् |
| पत्न्यादिहुतं स्वहुतमेव | वध्वा सह भोजनविधिः |
| अग्निहोत्रानधिकारिणः | परदाराभिगमनं सर्वपापेभ्यस्तुल्यम् |
| पत्न्यासन्निधावनुज्ञायाऽध्वर्युः | चतुर्थी कर्मप्रयोगः |
| असमर्थयोर्यजमानपत्न्योरन्यो नियुक्तस्त्यजेत् | देवकोत्थापनमण्डपोद्वासने |
| आहुतिपरिमाणम् | तत्कालः |
| व्रीहियवाहुतिमानम् | तदवधिः |
| द्रवद्रव्याहुतिमानम् | अथ प्रयोगः |
| अन्नलाजयोराहुतिमानम् | नान्दीमुखप्रभृतिमण्डपोद्वासनावधिनियमाः |
| होमे प्रतिमन्त्रमोङ्कारः | मङ्गलान्तेऽब्द पर्यन्तं वर्ज्यम् |
| औपासनहोमप्रयोगः | कृतोद्वाहोऽपि पित्रोः क्षयाहे पिण्डंदद्यात् |
| प्रातर्होमे विशेषः | वधूप्रवेशकालः |
| गर्भकामाया विशेषः | मासनिर्णयः |
| आपदि होमद्वयसमासः | नक्षत्राणि |
| गुर्वापदि पक्षहोमः |
| बुधवारनिषेधः | मातृभेदे कुर्यात् |
| प्रतिशुक्रविचारः | षण्मासं वा परिहरेत् |
| ग्रामान्ते वधूगमने कपाटकण्टकौ वर्ज्यौ | षण्मासेऽप्यब्दभेदे कुर्यात् |
| प्रतिशुक्रापवादः | षण्मासपरिहाराशक्तौ दिनचतुष्कं त्यजेत् |
| एकवत्सरे गृहोद्वाहौ न कार्यौ | तदशक्तौ दिनमात्रं परिहरेत् |
| निश्येव वधूप्रवेशः | तदशक्तौ लग्नमेव त्याज्यम् |
| नववध्वाः प्रथमवर्षो निवासनिषेधः | तदशक्तौ मण्डपमात्रपरिहारः |
| अथ प्रयोगः | पुंविवाहान्ते नारीविवाहनिषेधः |
| पुनर्विवाहविधिः | भिन्नोदरयोरनिषेधः |
| तत्कालनिर्णयः | यमलयोरप्यनिषेधः |
| द्वितीयविवाहविधिः | ज्येष्ठानुक्रमेण कार्यम् |
| अधिवेदने कालप्रताक्षा | यमलोत्पत्तिकारणम् |
| तोषितापि निर्गच्छेत्सा रोद्धव्या | तयोर्ज्येष्ठकनिष्ठनिर्णयः |
| पत्नीबहुत्वे विशेषः | द्विशोभनादिनिर्णयः |
| द्वितीयविवाहे होमनिर्णयः | मङ्गलत्रयनिषेधः |
| तत्र कालविशेषः | मण्डनमुण्डनादिनिर्णयः |
| तत्र स्वयमेव नान्दीश्राद्धम् | लघुगुरुलक्षणम् |
| तृतीयमानुषीविवाहनिषेधः | प्रवेशनिर्गमलक्षणम् |
| तत्फलम् | परिवेत्रादिनिर्णयः |
| अर्कविवाहविधिः | कन्याविषयेऽपि |
| तद्देशादि | वाग्दानान्तेऽन्यदेशगमने निर्णयः |
| तद्विधिः | वाग्दानोत्तरं वरमरणे विशेषः |
| होमप्रकारः | कलौ पुनरुद्वाहनिषेधः |
| तत्प्रयोगः | प्रतिकूलनिर्णयः |
| संक्षेपतोऽर्कविवाहप्रयोगः | सपिण्डमरणस्यैव प्रतिकूलत्वम् |
| एकोदरविवाहनिर्णयः |
| वाचा मनसा वा निश्चयेऽपि तथैव | विवाहादिषु तस्य फलविशेषः |
| तत्परिहारः | अत्र श्रीशान्त्या शुद्धिः |
| तत्र शान्तिविधिः | विवाहकाले कन्यर्तुमती चेत्कर्तव्यम् |
| वाग्दानान्ते निषेधः | कन्यागृहे भोजननिषेधः |
| पित्राद्याशौचविशेषः | जामातरं विष्णुं मन्येत |
| पित्रादिभिन्नसपिण्डेषु निर्णयः | प्रजोत्पत्त्यनन्तरं भुक्तौ न दोषः |
| प्रेतकर्माण्यकृत्वाऽभ्युदयनिषेधः | अथ गर्भाधानम् |
| ज्वराद्युत्पाते मङ्गलनिषेधः | गर्भाधानमन्वथं कर्मनाम |
| तत्र शान्तिविधिः कन्यापितृकर्तृका | ऋतुर्नामेन्द्रकृतब्रह्महत्यायास्तृतीर्योऽशः |
| प्रातिकूल्ये वरपितृकर्तव्यम् | ऋतूत्पत्तिकालः |
| दुर्भिक्षादौ न प्रांतिकूल्यम् | प्रथमर्तौशुभाशुभमासादिफलम् |
| दीर्घरोगाभिभूतादीनांतथैव | पक्षफलम् |
| अत्र विनायक शान्तिः कार्या | तिथिफलम् |
| पित्रादिमृते शुभकर्मनिषेधः | वारफलम् |
| लग्नाभावे कन्यात्वस्याधार्यत्वे च कूष्माण्डीहोमान्ते मङ्गलं कार्यम् | नक्षत्रफलम् |
| आरब्धे सद्यः शौचम् | योगफलम् |
| सूतकेऽपि सङ्कल्पितद्रब्यदानेऽदोषः | राशिफलम् |
| प्रारब्धे सूतकं नास्ति | लग्नफलम् |
| मधुपर्कग्रहणान्ते नाशौचम् | पूर्वाह्णादिफलम् |
| आरम्भोऽत्र नान्दीश्राद्धम् | बस्त्रफलम् |
| मातृपूजनान्ते सुतकं न विशेत् | स्थानफलम् |
| कुत्र कियद्दिनं पूर्वं मातृपूजनं कार्यम् | शोणितवर्णफलम् |
| वधूवरयोरन्यतरजनन्या रजोदर्शने निर्णयः | प्रथमरजोदर्शने विशेषः |
| कालजादिदुष्टं रजः | रजस्वत्याश्चाण्डालदर्शने |
| रजस्वलाधर्माः | ऋतुगमनकालः |
| भर्तृसेवार्थे चतुर्थे शुद्धाऽन्यत्र पञ्चमे | रजोदर्शनात्प्राग्गमने दोषः |
| अकालरजसि निर्णयः | ऋतुगामी ब्रह्मचार्येव |
| रात्रौरजसि दिननिर्णयः | ऋतावगमने दोषः |
| पक्षान्तरम् | दिवानिषेधः |
| नैमित्तिकस्नानविधिः | प्रोषितविषये विशेषः |
| श्रातुरतुमतीस्नाननिर्णयः | चतुर्थ्यादिषोडशपर्यन्तासु रात्रिषूत्पन्नप्रजालक्षणम् |
| उदक्ययोरन्योन्यस्पर्शनिर्णयः | आद्याहश्चतुष्कं हित्वा षोडशर्तुनिशाः |
| निषेधातिक्रमणे उपोषणाच्छुद्धिः | एकस्यां रात्रौ सकृदेव गच्छेत् |
| उपवासाशक्तायाः पक्षान्तरम् | प्रतिबन्धेनागमने श्राद्धदिनैकादश्यादावपि |
| असम्बद्धब्राह्मण्येवशेषशुद्धिः | चतुर्थेऽपि गमनविधिः |
| अत्र त्रिरात्रमुपोषणम् | प्रतिषिद्धदिनानि |
| अत्यन्ताभ्यासे प्रायश्चित्तम् | गर्भाधानमुहूर्त्तम् |
| असवर्णयोः स्पर्शे निर्णयः | पर्वाणि |
| क्षत्रियादीनां वैश्यादिस्पर्शने निर्णयः | निषिद्धनक्षत्राणि |
| कामतः स्पर्शे | नक्षत्रनिषेधकारगम् |
| अकामतः स्पर्शे | स्त्रियं कुशां कुर्यात् |
| रजस्वलायाश्चण्डालादिस्पर्शे निर्णयः | यमलोत्पत्तिकारणम् |
| शुद्रास्पर्शे भ्वादिस्पर्श च निर्णयः | गर्भाधानविधिः |
| अकामतः | तत्कालसेव्यानि |
| असक्ताबिषये | कात्यायनपरिशिष्टोक्तविधिः |
| रजस्वत्याभोजनकाले श्वादिस्पर्शे | विशिष्टविधिः |
| आशौचे रजोदर्शने निर्णयः | बहुस्त्रीत्वे युगपद्धतौ च गमनविधिः |
| उच्छिष्टस्पर्शे |
[TABLE]
| गर्भचलनात्पुरा तत्कार्यम् | नक्षत्राणि |
| द्वितीयादिमासविधानम् | रात्रिनिषेधे विशेषः |
| गर्भास्पष्टतायां तृतीये | लग्नम् |
| गर्भव्यक्तिलक्षणम् | गर्भरक्षणोपायः |
| स्वकालेऽसम्भवे सीमन्तात्प्राक्कार्यम् | मासेश्वराः |
| गर्भसंस्कारत्वात्प्रतिगर्भ कार्यम् | स्थालीपाके तण्डुलस्यैव प्राधान्यम् |
| अत्र पूर्वोत्तरपक्षौ | पीठलक्षणम् |
| गुरुशुक्रास्ताधिमासेष्वपि भवति | सटालुग्रप्सो नाम किम् |
| पुन्नक्षत्राणि | तदभावेऽन्यो ग्रप्सः |
| तिथयः | पिञ्जुलीशब्दार्थः |
| वाराः | शललीशब्दार्थः |
| लग्नानि | वीरतरशङ्कास्त्रैविध्यम् |
| चन्द्रबलविचारः | सीमन्तशब्दार्थः |
| भर्तुरभावे देवरादिना पुंसवनं कार्यम् | अत्र भोजने प्रायश्चित्तम् |
| अभिमन्त्रणप्रकारः | अत्र चतुर्थेऽहनि मातृविसर्जनम् |
| पुंसवनप्रयोगः | सीमन्तोन्नयनप्रयोगः |
| ( पञ्चदशी कण्डिका ) | विष्णुबलिः |
| सीमन्तोन्नयनशब्दार्थः | अत्र तिथयः |
| तदनुष्ठाने कारणम् | वाराः |
| स्त्रीसंस्कारोऽयम् | नक्षत्राणि |
| आद्यगर्भसंस्कारेण सर्वेषां संस्कृतत्वम् | एतदनुष्ठाने कारणम् |
| अस्य मुख्यः कालः | तद्विधिः |
| मुख्यकालाभावे प्रसवात्प्राग्भवति | गर्भिणीधर्माः |
| प्रसवात्प्रागसम्भवे जातकर्मणः प्राक् | गर्भिणीपतिधर्माः |
| अत्र सौरसावनयोरन्यतरमासग्रहणम् | वपननिर्णयः |
| पक्षः | प्रेतकर्मनिषेधापवादः |
| तिथयः | नवमे मासि सूतिकागृहनिर्माणम् |
| वाराः |
| तच्चस्वानुकूलदिशि | आयुष्यकरणम् |
| गर्भिण्याः सूतिकागृहप्रवेशः | नालच्छेदनप्रकारः |
| तत्र निधेयद्रव्याणि | शण्डामर्क्काहवनम् |
| प्रवेशे तिथिवारादिनिर्णयः | नात्र कुशकण्डिका |
| नक्षत्रराशिलग्नानि | अत्राग्निदैवत्यम् |
| जातकर्मोत यौगिकं कर्मनाम | जातकर्मणि दानानि |
| ( षोडशी कण्डिका ) | नालच्छेदनात्प्राग्दानम् |
| जातकर्मविधिः | तत्र प्रतिग्रहेऽदोषः |
| साष्यन्तीं न पश्येत् | पक्वान्नं वर्जयेत |
| साष्यन्ती होमविधिः | अन्यथा चान्द्रायणम् |
| पुत्रोत्पत्तौ पितुः स्नानाच्छुद्धिः | पूर्वाशौचमध्ये जातकर्मनिर्णयः |
| पुत्रमुखदर्शनेन पित्रर्णमुक्तिः | मृताशौचे तदपगमे कार्यम् |
| स्नानाधिकरणान | विरुद्धतिथ्यादिजातस्य नभवति |
| एतरस्नानं रात्रावपि कार्यम् | गण्डान्तानि |
| तच्च शीतादकेन | तत्फलम् |
| रात्रांतडागादिगमनाशक्तौ विशेषः | कालातिक्रमे जातकर्मनिर्णयः |
| कन्यादिजन्मस्वपि स्नानम् | मुख्यकालाभावे जातकर्मविधिः |
| स्नानान्ते नान्दीमुखं कार्यम् | रात्रिवर्गः |
| तच्चामेन | जन्मदादिदेवतापूजनम् |
| हेम्ना वा | प्रथमादिदिनेष्वाशौचाभावः |
| नाभिच्छेदनात्प्राग्जातकर्मकालः | पञ्चायुधाभरणधारणम् |
| गौणकालः | जातकर्मप्रयोगः |
| जातकर्मस्वरूपम् | रात्रिवर्गप्रयोगः |
| घृतादिप्राशनं मन्त्रवत् | सुतिकास्नानविधिः |
| स्त्रीणां जातकर्म | षष्ठीपूजापद्धतिः |
| प्राशनस्यैव नाम मेधाजननम् |
| गण्डान्तादिदुर्निमित्तजातस्यारिष्टपरिहारः | मूलशान्तिप्रयोगः शौनकोक्तः |
| कत्यायनपरिशिष्टोच्चमूलशान्तिविधिः | |
| गोमुखप्रसवशान्तिविधानम् | अश्लेषाशान्तिविधानम् |
| स्पष्टप्रयोग गर्गोक्तः | अश्लेषाशान्तिप्रयोगः |
| नक्षत्रदेवता | ज्येष्ठाशान्तिविधानम् |
| मूलशान्तिविधानम् | ज्येष्ठाया घटिकोषट्कफलभ् |
| मूलस्थितिः | तच्छ्रान्तिविधिः |
| तत्फलम् | एकनक्षत्रजननशान्तिः |
| अभुक्तमूलफलम् | एतस्याः प्रकारान्तरम् |
| अभुक्तलक्षणम् | गण्डान्तविचारः |
| मूलवृक्षविचारः | तिथिगण्डान्तम् |
| तत्फलम् | लग्नगण्डान्तम् |
| मूलपुरुषविचारः | तत्फलम् |
| तत्फलम् | गण्डान्तदानम् |
| मुहुर्त्तफलम् | नक्षत्रगण्डान्तशान्तिविधिश्च |
| विशिष्टफलम् | नित्यादिगण्डोन्तशान्तिः |
| स्त्रीजातके विशेषः | दिनक्षयादिसर्वगण्डान्तशान्तिः |
| शान्तिकालः | विधानान्तरम् |
| शान्तिविधिः | व्यतीपातादिशान्तिः |
| शतौषधीनामानि | विषघटिकाजननशान्तिः |
| शतौषध्यलाभे | कृष्णचतुर्दशीशान्तिः |
| सप्तधान्यम् | सिनीवालीकुहूशान्तिविधानम् |
| पञ्चरक्षम् | दर्शजननशान्तिर्नारदोक्ता |
| सप्तमृत्तिकाः | भार्गवोक्ता सूर्यग्रहणसमयजननशान्तिः |
| कषायाः | यमलजननशान्तिः |
| पञ्चगव्यम् | संस्कारार्थं ज्येष्ठकनिष्ठत्वनिर्णयः |
| शान्तिवाक्यानि | वध्वा गोश्च यमलजनने प्रायश्चित्तम् |
| रुद्रादिसूकजपविधानम् |
| साग्निकस्य प्रायश्चित्तविधिः | सोदरभ्रातृृणामेकपुत्रेण पुत्रत्वम् |
| कात्यायनोक्तः शान्तिप्रकारः | भ्रातृपुत्रोऽपि पुत्रीकार्यः |
| सदन्तोपरिदन्तजननशान्तिः | अगृहीतोऽपि भ्रातृजस्तत्पुत्र एव |
| ऊर्ध्वदन्तजननमात्रशान्तिः | क्षत्रियादिनिर्णयः |
| अकालप्रसवशान्तिः | दौहित्रभागिनेयौ द्विजेन ग्राह्यौ |
| विकृतजननशान्तिः | एकपुत्रेण पुत्रदाननिषेधः |
| त्रिकशान्तिः | स्त्रियाः पुत्रदानप्रतिषेधः |
| काकमैथुनशान्तिः | भर्त्रनुज्ञयाऽर्हति दातुम् |
| कपोतशान्तिः | आपदि दानविक्रयाः |
| कदलीप्रसवशान्तिः | स्वगोत्रेण चूडादिसंकारे |
| नानाविधोत्पातलक्षणम् | पुत्रत्वमन्यथा दासतोच्यते |
| अङ्गस्फुरणम् | पौनर्भवष्टोमे पौनर्भवः |
| सरटफलम् | अन्यशाखीयोऽपि स्वगोत्रे गृहीत्वा |
| पल्लीपतनफलम् | स्वशाखयोपनीतः स्वीयो भवति |
| अन्यच्च शुभाशुभम् | दत्तपुत्रपरिग्रहविधिः |
| पल्लीशब्दफलम् | ( सप्तदशी कण्डिका ) |
| पल्लीशान्तिविधानम् | नामकरणम् |
| होमरहिता शान्तिः | नामकरणफलम् |
| रुद्रभेदाः | तच्च सूतकान्ते भवति |
| रुद्रपुरश्चरणविधिः | वर्णक्रमेण दिनविधानम् |
| दत्तपुत्रपरिग्रहविधानम् | निमित्तविशेषेण निषेधः |
| पुत्रप्रतिनिधिरेकादशविधः | अतिक्रान्ते कालान्तरम् |
| दत्तकं विहायान्येषां कलौ ग्रहणनिषेधः | अत्रत्यो विशेषः |
| ब्राह्मणैः सति सम्भवे सगोत्रःसपिण्डा ग्राह्यः | तिथयः |
| असम्भवे त्वितरे | वाराः |
| सजातीयो दत्त्रिमो नान्यः | नक्षत्राणि |
| अन्यजातीयस्थांशभाक्त्वनिषेधः | लग्नम् |
| पूर्वाह्णादिकालनिर्णयः | निष्क्रमणकालः |
| चतुर्विधं नाम | अकृते दोषः |
| मासनामानि मार्गादितः | तत्र कालान्तरम् |
| चैत्रादिक्रमः | अस्य कर्ता |
| नाक्षत्रं नाम | अत्र सावनो मासः |
| व्यावहारिकनाम | पक्षनिर्णयः |
| शतपदचक्रानुसारि नाक्षत्रं कार्यम् | तिथयः |
| शतपदचक्रोद्धारः | वाराः |
| शतपदचक्रम् | नक्षत्राणि |
| शतपदचक्रार्थः | वर्ज्ययोगादि |
| व्यावहारिकनामकरणप्रकारः | निष्क्रमणस्वरूपम् |
| वर्णभेदेन मङ्गलादिशब्दयुतम् | तदनन्तरकर्तव्यता |
| वर्णशः शर्मादिपदयुतं च | अत्र विशेषः |
| स्त्रीणां विशेषः | विशेषान्तरम् |
| स्त्रीणाममन्त्रकम् | कर्तृनिर्णयः |
| तासां मासनामानि | निष्क्रमणप्रयोगः |
| प्रकारान्तरम् | भूम्युपवेशनकालः |
| तृतीयः प्रकारः | अत्र कर्तव्यम् |
| नाम्नि विशेषः | बालस्य वृत्तिज्ञानोपायः |
| कर्तृनिर्णयः | भूम्युपवेशनप्रयोगः |
| नामकरणप्रयोगः | प्रथमादिमासेषु दन्तोत्पत्तिफलम् |
| दालारोहणम् | अस्य शान्तिः |
| तत्र दिननिर्णयः | कटिसूत्रबन्धनम् |
| दोलाचक्रम् | कर्णवेधपरिशिष्टम् |
| दुग्धपानमुहूर्तम् | तत्कालनिर्णयः |
| योगिनीलक्षणम् | मासादिः |
| राहुलक्षणम् | रात्रौ निषेधः |
| रुद्रलक्षणम् | सूचीनिर्णयः |
| जलपूजामुहूर्तम् | वर्णविशेषेण सूचीण्यवस्था |
| शिशोस्ताम्बूलभक्षणम् |
| तत्रेतिकर्तव्यता | घोसकाः |
| कर्णक्षालनम् | घारिका |
| पुरुषकर्णरन्धवृद्धिविषये विशेषः | वटकाः |
| अविद्धकर्णादिनिषेधः | भाज्यनिर्माणम् |
| छेदनप्रमाणम् | ओदनम् |
| कर्णवेधप्रयोगः | अन्यान्यपि भोज्यानि |
| ( अष्टादशी कण्डिका ) | पेयवस्तूनि |
| प्रोष्यगृहागमनविधिः | दधिकरणप्रकारः |
| प्रोष्येत्यकृत्यप्रयोगः | मञ्जिका |
| ( एकोनविंशी कण्डिका ) | शिखरिणी |
| अन्नप्राशनम् | पेयान्तराणि |
| तत्कालः | लेह्यानि |
| स्त्रीणामन्नप्राशनकालः | चोष्यानि |
| मासनिर्णयः | अन्नप्राशनस्य गुणफलम् |
| पक्षनिर्णयः | मांसभक्षणनिषेधः |
| तिथयः | पञ्च पञ्चनखा भक्ष्याः |
| वाराः | वैधमांसभक्षणेऽदोषः |
| अत्र जन्मनक्षत्रं शुभम् | आपद्ययनशने फलाधिक्यम् |
| क्वचिन्निषेधः | परिवेशनप्रकारः |
| जन्मर्क्षादीनां फलम् | स्त्रीणामन्नप्राशनविधिः |
| जन्ममासादिस्वरूपम् | कुमार्या अपि हुतकृत्यं पुंवत् |
| योगविचारः | अन्नप्राशनप्रयोगः |
| लग्नानि | अब्दपूर्त्तिकृत्यम् |
| अत्र ग्रहस्थितिः | एतज्जन्मर्क्ष कार्यम् |
| पञ्चविधं भोजयेत् | जन्मर्क्षद्वैधे निर्णयः |
| भक्ष्यनिर्माणप्रकारः | जन्मदिनकृत्यविधिः |
| मण्डककरणप्रकारः | जन्मर्क्षाद्यतिक्रमे तिथ्यादि |
| पोलिकाविधिः | अत्रत्येतिकर्तव्यता |
| सोहला | अस्मिन्दिने कृतं कर्म शतगुणं भवति |
| कासारम् | अस्य विशिष्टो विधिः |
| वेष्टिका |
| अत्र राजकृत्यम् | श्रीशान्तिविधिः |
| जन्मग्रन्थिबन्धनम् | कुमारे ज्वरिते निषेधः |
| तत्पोटलिकाद्रव्याणि | अत्रत्येतिकर्तव्यता |
| अत्र पूजनीयाः | यथामङ्गलं शिखास्थापनम् |
| जन्मदिने शनिभौमवारपाते विशेषः | स्त्रीणां चूडाकरणविधिः |
| जन्मतिथौ निषिद्धानि | हुतकृत्यं पुंवत् |
| वर्षवृद्धिकर्मप्रयोगः | स्त्रीणां शिखाधारणनिषेधः |
| शिशुरक्षाविधानम् | तासां लग्नविशेषः |
| ( अथ द्वितीयंकाण्डम् ) | शुद्राणां चूडाकर्म |
| ( प्रथमा कण्डिका ) | वारविशेषः |
| चूडाकरणम् | शुद्राणां शिखानिषेधः |
| तस्य मुख्यः कालः | शुद्रधर्माः |
| केशान्तसंस्कारकालः | शास्त्रीयवपनमन्तरा निषेधः |
| स्मृत्युकाश्चूडाकरणकालाः | कर्तनेन नीचकेशः स्यात् |
| कुलाचारतो विकल्पव्यवस्था | मुण्डने दिङ्नियमः |
| वर्ज्यमासादि | केशवापनप्रकारः |
| विशेषान्तरम् | यतीनां विशेषः |
| पक्षनिर्णयः | सामान्यक्षौरनिर्णयः |
| तिथयः | नक्षत्रादि चूडोक्तम् |
| गलग्रहनिषधः | आहिताग्नेर्विशेषः |
| गलग्रहनियमः | जन्मक्षजन्ममासनिषेधः |
| वाराः | सर्वनिषेधापवादः |
| नक्षत्राणि | नृपक्षौरे विशेषः |
| निषिद्धनक्षत्राणि | चूडाकरणप्रयोगः |
| आवश्यके परिहारः | बालकस्याक्षरारम्भविधानम् |
| लग्नशुद्धिविचारः | तत्र नक्षत्राणि |
| अष्टमस्थदोषापवादः | पक्षः |
| मातरि गर्भिण्यां निषेधः | तिथयः |
| पञ्चमासादधःकरणविधिः | वाराः |
| मातरि रजस्वत्यां न कार्यम् |
| लग्नम् | द्विजानामेवोपनयनम् |
| सिंहस्थादिनिषेधः | द्विविधाः पुत्राः |
| तत्र कर्तव्यता | तत्र भेदाः |
| अनुपनीतधर्माः | उपनेयाः |
| बालादिसंज्ञाभेदः | अनुपनेयाः |
| तस्य शुद्धिप्रकारः | कुण्डंगोलकयाः कियत्कर्माधिकारः |
| स्नानशब्दार्थः | अनयारुपनयने विकल्पः |
| अनिषिद्धानि | कुण्डगोलकशब्दार्थः |
| पित्रुच्छिष्टभक्षणफलम् | मूकाद्यपनयनम् |
| तस्य महापातके पितुः प्रायश्चित्तम् | मूकबधिरादीन्प्रति स्पृष्ट्वाजपः |
| अतिवाला मात्रा रक्षणीयः | शुद्राणामुपनयनम् |
| कर्मनिषेधः | स्त्रीणामुपनयनम् |
| पतृमेधिके कृतचूडस्याधिकारः | तच्चामन्त्रकम् |
| तदपि वेदोच्चारणरहितम् | उपनयनकालाः |
| त्रिवर्षोर्द्ध्वंकृतचूडस्य पैतृकमन्त्राधिकारः | वर्णविशेषेणायनविधिः |
| बालपितृधर्माः | ऋतुनिर्णयः |
| संस्कारातिपत्तिप्रायश्चित्तम् | वसन्तादिलक्षणम् |
| अतिक्रान्तस्य गौणकालस्याप्यसत्त्वे प्रायश्चित्तमात्रम् | ब्राह्मणम्प्रति वसन्तावश्यकता |
| प्रायश्चित्तान्ते लुप्तकर्माचरेत् | अथ मासाः |
| अतीतानां यौगपद्ये सकृदाभ्युदयिकम् | जन्ममासनिर्णयः |
| प्रायश्चित्ते होममन्त्राः | पक्षनिर्णयः |
| कृच्छ्रसंख्या | तिथयः |
| अनादिष्टप्रायश्चित्तप्रयोगः | अनध्यायाः |
| ( द्वितीया कण्डिका ) | मन्वादयः |
| उपनयनविधिः | युगादयः |
| उपनयनशब्दार्थः | अष्टकाः |
| अथर्ववेदाध्ययनार्थ पृथगुपनयनम् |
| सोपपदाः | अहतलक्षणम् |
| यजुर्वेदविषयेऽपवादः | वस्त्रविशेषाः |
| नैमित्तिका अनध्यायाः | मेखलानुकल्पाः |
| अकालवृष्टिलक्षणम् | मेखलाकरणम् |
| नान्दीश्राद्धान्त आकालिकेऽनध्यायेवेदारम्भाभावः | तद्वन्धनप्रकारः |
| नित्यादावनध्यायाभावः | आचार्यस्यैव मेखलामन्त्रपाठः |
| गल ! हाः | आचार्यमन्त्रपाठकृत्यानि |
| प्रदोषस्वरूपम् | सुत्रेऽनुक्तमपि यज्ञोपवीतं धार्यम् |
| वारनिर्णयः | तल्लक्षणम् |
| शाखेशाः | ऊर्द्धवृतलक्षणम् |
| वर्णेशाः | उपवीतनिर्माणप्रकारः |
| नक्षत्राणि | निषिद्धापवीतानि |
| वर्ज्यनक्षत्राणि | आपदि निषिद्धं ग्राह्यम् |
| वेदविशेषेण नक्षत्रविशेषः | तन्निर्माणमन्त्राः |
| पुरुषविशेषेण नक्षत्रविशेषः | यज्ञोपवीतपरिमाणम् |
| जन्मर्क्षनिर्णयः | आश्रमानुसारेणोपवीतसंख्या |
| पूर्वाह्णादिनिर्णयः | काम्ये विशेषः |
| अपराह्णनिषेधः | तदुद्धरणनिषेधः |
| लग्नविचारः | प्रक्षालनार्थं शाखाविशेषेणापवादः |
| नवांशाः | केशसंस्पृष्टे शुद्धिप्रकारः |
| तत्फलम् | भङ्गेप्रतिपत्तिः |
| दुष्टग्रहफलम् | एकैकं धार्यम् |
| कर्तृनिर्णयः | जारणे कर्मविशेषे देशविशेषः |
| आचार्यलक्षणम् | सव्यापसव्यनीवित्वप्रकारः |
| बटूपनेत्रारधिकारार्थं प्रायश्चित्तम् | ब्राह्मणादीनामजिनानि |
| आचार्यस्य विशेषः | तद्धारणप्रकारः |
| उपनयने मात्रा सहभोजनम् | तत्परिमाणम् |
| परिधानार्थं वस्त्रम् | तन्मन्त्रः |
| गृहस्थस्य कौपीननिषेधः |
| वर्णविशेषेण दण्डाः | अनभिवाद्याः स्त्रियः |
| तदनुकल्पः | अभिवादनस्वरूपम् |
| यज्ञीयवृक्षाः | अभिवादनप्रकारः |
| दण्डलक्षणम् | उत्थायैतत्कार्यम् |
| तत्परिमाणम् | आशार्दानप्रकारः |
| ( तृतीया कण्डिका ) | एकहस्ताभिवादननिषेधः |
| गायत्र्युपदेशप्रकारः | अभिवादनफलम् |
| गायत्रीमाहात्म्यम् | प्रत्यभिवादाकरणे प्रत्यवायः |
| अत्र कालविकल्पाः | आशीर्भेदाः |
| ( चतुर्थी कण्डिका ) | स्वस्तिशब्दार्थः |
| एकेन पाणिना सन्धुक्षणम् | ( पञ्चमी कण्डिका ) |
| समित्प्रक्षेपणे विशेषः | भिक्षाचरणविधिः |
| समिन्नियमः | आपदि चातुर्वर्ण्यं भक्ष्यं चरेत् |
| समिल्लक्षणम् | शद्रादामं गृह्णीयात् |
| तत्र विशेषः | शुद्रान्ननिषेधः |
| समिदाहरणविधिः | भिक्षार्थं प्रशस्ताः |
| समित्क्षेपणप्रकारः | क्वचिदपवादः |
| अभिवादनविधिः | मात्रादीनामेव प्रथमा भिक्षा |
| गुर्वादिलक्षणम् | भाजनपर्याप्तमेव भिक्षेत |
| आचार्यलक्षणम् | निषिद्धान्नम् |
| उपाध्यायलक्षणम् | भिक्षा गुरवे देया |
| ऋत्विग्लक्षणम् | अन्नं सत्कुर्यात् |
| सर्वेभ्यो मातुर्गरीयस्त्वम् | ब्रह्मचारिण एकान्ननिषेधः |
| अनभिवाद्याः | भिक्षाऽकरणे प्रत्यवायः |
| शतवर्षस्यापि क्षत्रियादेर्दशवर्षीयोऽपि ब्राह्मणः पितृतुल्यः | भिक्षाचरणकालः |
| ब्राह्मणेन क्षत्रियादिर्मदानपि नाभिवाद्यः | भोजनकालनिर्णयः |
| क्षत्रियाद्यभिवादने प्रायश्चित्तम् | तत्प्रमाणम् |
| ब्राह्मणेष्वपि क्वचिदपवादः | मध्याह्नसन्ध्यादि कर्मारम्भः |
| वेदारम्भाभावेऽपि गायत्र्या ब्रह्मयज्ञः | अव्रतघ्नान्यष्ट |
| उपनयनकर्तुर्विशेषः | उदयादिकालेषु भास्करालोकननिषेधः |
| श्रोत्रियलक्षणम् | ब्रह्मचारिणो वर्ज्यानि |
| ब्रह्मचारिनियमाः | रेतःस्कन्दननिषेधः |
| ब्रह्मचर्यकालः | व्रतलोपे प्रायश्चित्तम् |
| स्नातकस्य त्रैविध्यम् | तत्प्रकारः |
| उपनयनस्य मुख्यकालातिक्रमे गौणकालः | बहुधर्मलोपे प्रायश्चित्तविशेषः |
| पतितसावित्रिकव्यवहारनिषेधः | प्रायश्चित्तान्तराणि दाषभेदेन |
| व्रात्यत्वम् | एकोद्दिष्टादिश्राद्धभोजने प्रायश्चित्तम् |
| एषां प्रायश्चित्तम् | अनृतप्रायश्चित्तम् |
| ब्राह्मणस्य पातित्यशुद्ध्यधिकारः | स्त्रीसङ्गे प्रायश्चित्तम् |
| पितृपितामहाद्यनुपनयनेप्रायश्चित्तविशेषः | तत्प्रकारः |
| नैष्ठिकब्रह्मचारिधर्माः | अष्टाङ्गमैथुनम् |
| गुरुपूजाफलम् | श्वदंशे प्रायश्चित्तम् |
| गुरुनिन्दाया अश्राव्यत्वम् | नैष्ठिको द्विगुणं प्रायश्चित्तं चरेत् |
| गुरुपरीवारादि फलम् | विशिष्टनियमत्यागे प्रायश्चित्तानि |
| गुर्वादिनामग्रहणनिषेधः | स्वप्ने रेतःपाते प्रायश्चित्तम् |
| गुरुशुश्रूषा कार्या | कामतः सुरादिस्पर्शेप्रायश्चित्तम् |
| इन्द्रियनिग्रहाभावे प्रज्ञाक्षरणम् | अनापद्यापोशनरहितभोजने प्रायश्चित्तम् |
| मध्वादि वर्जयेत् | अन्येष्वपि निमित्तेषु प्रायश्चित्तम् |
| व्याधितो भेषजार्थं गुरुच्छिष्टं सेवेत | भोजन उच्छिष्टादौ प्रायश्चित्तम् |
| आदर्शाददर्शननिषेधः | भाजनकाले उच्छिष्टब्राह्मणस्पर्शे |
| रुग्णादीनां रात्रौ भोजनकालः | तत्कालः |
| अस्थ्यादिस्पर्शे प्रायश्चित्तम्, | प्रावश्यके याम्यायनेऽपि |
| कर्दमादिस्पर्शे | तत्र मासाः |
| त्रुटितमेखलादिप्रतिपत्तिः | तिथयः |
| त्याज्योपवीतम् | बाराः |
| उपनयनप्रयोगः | नक्षत्राणि |
| पुनरुपनयननिमित्तानि | लग्नम् |
| कृतोत्तरक्रियो यदि जीवन्नागच्छेत्तस्य जातकर्मादि कारयेत् | तद्विधिः |
| पुनः संस्कारनिमित्तानि | मात्रङ्कोपवेशननिषेधः |
| पुनरुपनयनप्रयोगः | मन्त्रेषूहाः |
| सावित्रव्रतग्रहणोत्सर्गप्रयोगौ | व्रताकरणे प्रायश्चित्तम् |
| आग्नेयव्रतग्रहणविसर्गौ | गादानप्रयोगः |
| शुक्रियव्रतादेशविसर्गौ | समावर्त्तनसम्भाराः |
| औपनिषदुव्रतम् | तत्कालः |
| शौलभव्रतम् | एतदुदगयने कार्यम् |
| गोदानव्रतम् | तिथयः |
| ( षष्ठोकण्डिका ) | वाराः |
| प्रतिवेदं व्रताचरणकालः | नक्षत्राणि |
| वेदशब्दार्थः | राशयः |
| वेदारम्भविधिः | चौलोक्तकालो ग्राह्यः |
| वेदाध्ययनप्रकारः | ग्रहस्थितिः |
| हस्तेन स्वरं दद्यात् | समन्त्रकमेखलानिधानान्ते |
| वेदः सार्थोऽध्येतव्यः | दण्डाजिननिधानम् |
| ब्रह्मचर्येण पठनीयः | वपनविधिः |
| परम्परागतवेदशाखाध्ययनम् | दन्तधावनविधिः |
| स्वशाखां विहाय परशाखाध्ययने दोषः | उपलेपनम् |
| उपाकर्मानन्तरं वेदारम्भः | अवनेजनम् |
| वेदारम्भप्रयोगः | उत्तरीयधारणम् |
| गोदानप्रयोगः |
| अभावेऽधरीयैकभागतः | प्रातःस्मरणम् |
| वस्त्राकृतिब्रह्मसूत्रं वा | भूमिप्रार्थना |
| एकमेवोपवीतम् | मूत्रपुरीषोत्सर्गदेशः |
| यज्ञोपवीतद्वयधारणविधिः | तद्विधिः |
| पूर्वंसव्यनेत्रमङ्क्त्वा | षट्कर्मसु मौनविधानम् |
| दक्षिणाञ्जनम् | कर्णेयज्ञोपवीतकरणविधिः |
| समावर्तनप्रयोगः | दिङ्मुखविचारः |
| (सप्तमी कण्डिका) | तर्जन्यां रौप्ये ब्रह्मग्रन्धिमत्यां |
| स्नातकनियमाः | शिखायां च मूत्रादौ प्रायश्चित्तम् |
| सन्ध्यादित्यावेक्षणनिषेधः | वर्ज्यदेशाः |
| (अष्टमी कण्डिका) | नद्यादौ विशेषः |
| स्नातस्य त्रिरात्रव्रतनियमाः | आपद्यनुदकेऽप्यदोषः |
| विवादे वर्ज्याः | शौचावश्यकता |
| तत्र कारणम् | मूत्रकृत्वलक्षणम् |
| सम्पन्नादिशब्दप्रयोगविधिः | द्विविधं शौचम् |
| ज्ये नामग्रहणनिषेधः | मूत्रादौ जलपात्रस्य हस्त- |
| आयुःप्राप्तिस्तत्फलम् | ग्रहणनिषेधः |
| अनाहूतोऽध्वरं गच्छेत् | ग्राह्यमृत्तिकाः |
| विप्रादिमध्यतो गमननिषेधः | मूत्रशौचे मृण्मानम् |
| देवादीनां छायाऽऽक्रमणनिषेधः | लिङ्गशौचप्रकारः |
| अन्यान्यप्यनतिक्रमणीयानि | तदन्ते गुदशौचम् |
| अनधिष्ठेयानि | तत्प्रकारः |
| अन्यानि निषिद्धानि | |
| कृतघ्नादिदर्शने शुद्धिप्रकारः | |
| नित्यकर्मलोपे प्रायश्चित्तम् | |
| विटशूद्राणां प्रायश्चित्ताभावः | |
| उपनयनान्ते शौचाचारशिक्षणम् | |
| ब्राह्मेमुहूर्त्तउत्थानम् | |
| तत्र चिन्तनीयानि | |
| नारायणस्मरणस्तोत्रजपादि कार्यम् | |
| ब्राह्मो मुहूर्त्तः |
| पादशौचम् | स्नानविधिः |
| ब्रह्मचारिवनस्थयतीनां द्वि- | स्नानशब्दार्थः |
| त्रिचतुर्गुणं शौचम् | प्रातःस्नानं नित्यम् |
| शौचसङ्कोचः | आश्रमविशेषेण स्नानाभ्यासः |
| भावदुष्टस्य शौचं व्यर्थम् | सप्ताहं प्रातःस्नानाभावे |
| शौचातिक्रमे प्रायश्चित्तम् | दोषः प्रायश्चित्तं च |
| ततो गण्डूषोत्सर्गविधिः | प्रातस्तिलतर्पणनिषेधः |
| त्रिविधमाचमनम् | प्रातःस्तानमविस्तरम् |
| श्रौताचमनम् | समन्त्रकं विधिवन्मध्याह्नस्नानम् |
| सन्ध्यादौ श्रौताचमनविधिः | प्रातःकालसमयः |
| स्मार्तादि यथेष्टं वा | मुख्यगौणभेदेन स्नानस्यद्वैविध्यम् |
| स्मार्ताचमनम् | मुख्यमपि षड्विधम् |
| पौराणाचमनम् | नित्यस्नानम् |
| आचमनधर्माः | नैमित्तिकस्नानम् |
| द्विराचमननिमित्तानि | काम्यस्नानम् |
| सपवित्राचमने विशेषः | क्रियाङ्गस्नानम् |
| दक्षपाणौ पवित्रधारणम् | क्रियाङ्गस्नानम् |
| दन्तधावनविधिः | क्रियास्नानम् |
| तन्मानम् | गौणं सप्तविधम् |
| तत्र प्रशस्ता वृक्षाः | आपदि गौणाचरणम् |
| वर्ज्यकाष्ठानि | मन्त्रादिसप्तस्नानप्रकारः |
| पालाशाश्वत्थयोरासनादिनिषेधः | अशक्तावशिरस्कम् |
| दन्तकाष्ठालाभे गण्डूषविधिः | वस्त्रमार्जनम् |
| अमैकादश्योरपि जम्बूतृणादिविधिः | मन्त्रमार्जनम् |
| निषिद्धतिथयः | नित्यस्नानाधिकारी |
| अङ्गारादिनिषेधः | इक्ष्वादि भक्षयित्वापि |
| दन्तकाष्ठग्रहणमन्त्रः | कार्यम् |
| तद्भक्षणमन्त्रः | निमित्ते नैमित्तिकं विधाय |
| उदिते सूर्ये दोषः | नित्यं कुर्यात् |
| स्नानसूत्रम् |
| नदीशव्दार्थः | तीरस्थतटं प्रक्षाल्य पृथक् स्नानसंभारान्स्थापयेत् |
| नदीलक्षणम् | आदौ शिवं नत्वा हस्तपादयोर्मृदा क्षालनम् |
| धनुर्लक्षणम् | नियमरहितं कर्मासीनेनकार्यम् |
| सरिदादिशब्दार्थः | वामः सोपग्रहो दक्षिणः |
| स्नानस्य चातुर्विध्यम् | सपवित्रकः कार्यः |
| परजलाशये चतुरादिपि- | स्नानादिषु करयोः सपवित्रकरणम् |
| ण्डानुद्धृत्यस्नायात् | अनामिकाग्रपर्वणि पवित्रं |
| मृत्पिण्डानुद्धरणे दोषः | बिभृयात् |
| अन्त्यजखनितेषु स्नाने | चतुर्भिः कुशर्ब्राह्मणस्यपवित्रम् |
| प्रायश्चित्तम् | प्रतिवर्णमैककह्रासः |
| निषिद्धस्नानभोजने | सर्वेषां वा द्वाभ्याम् |
| शाल्मल्यादिच्छायासु | कर्माङ्गाचमनाचरणे पवित्रस्य नोच्छिष्टत्वम् |
| स्नाननिषेधः | उपवीती बद्धशिखी कर्मकुर्यात् |
| नदीप्रथमवेगोद्भवापां वर्ज- | आद्रमेकं वा वस्त्रं कदापि न धार्यम् |
| नम् | एकवस्त्रनिषेधः |
| प्रवाहरहितायां स्नानपाने | भोजनादिषु तर्जन्यां रौप्ये |
| प्रायश्चित्तम् | शिखायां ब्रह्मग्रन्थौ च |
| समुद्रगा हित्वा सिंहकर्क- | प्रायश्चित्तम् |
| टयोर्नदीस्नाननिषेधः | सप्रणवगायत्र्या शिखाबन्धनम् |
| गङ्गादयः सर्वदा शुभाः | मानस्ताकेति वा |
| कर्कादौ महानदीनां त्रिदिनान्ते शुद्धिः | पादमुखोपवीतक्षालनान्त |
| उपाकर्मादौ रजोदोषाभावः | आचामेत् |
| मार्गे नदीप्राप्तौ स्नानविधिः | |
| स्नानोपकरणानि | |
| समिदादीनां स्वयमनाहरणे दोषः | |
| अशक्तौन्यायार्जितधनक्रीतैः कुर्यात् | |
| स्नात्वासोदपात्रः सधौतवासा एवगृहमाव्रजेत् |
| मृज्जलैरुपवीतं शोधयेत् | दूर्वापामार्गमार्जनं श्रावण्यामेव |
| पादमुखोपवीतानि प्रक्षाल्य | इमम्म इत्यष्टभिरञ्जलि- |
| द्विराचम्य पवित्रे धृत्वा | नाऽभिषेचनम् |
| शिखां स्पृशेत् | दर्भैः पावनप्रकारः |
| कण्ठस्थस्यैवोपवीतस्य | दर्भकुशयोर्भेदः |
| क्षालनम् | पावनमन्त्राः |
| मन्त्रधृतोपवीतोद्धरणनिषेधः | सप्रणवव्याहृतिगायत्र्याऽऽदावन्ते च मार्जनम् |
| केषां चित्क्षालनार्थं प्रतिप्रसवः | श्रोत्रादि पिधायान्तर्जले |
| केषां चित्प्रायश्चित्तम् | त्रिरघमर्षणं जपेत् |
| आचमनार्थं दिक् | अन्तर्जलेऽघमर्षणफलम् |
| आचम्य प्राणानायम्य | प्रणवजपोविष्णुचिन्तनं वा |
| सङ्कल्पाचरणम् | प्रणवमाहात्म्यम् |
| सङ्कल्प ऊह्यानि | अघमर्षणान्ते त्रिर्न्निमज्ज्य तर्पयेत् |
| उपस्थिततीर्थादिध्यानं | त्रिविधस्नानस्य तर्पणमङ्गम् |
| नान्यस्य | जले कुशजलैस्तर्पणम् |
| सर्वत्र गङ्गास्मरणम् | स्थले तिलाञ्जलिना |
| नाभिदघ्नजले स्थितः स्तुत्वा स्नायात् | तर्पणे सव्यापसव्यनिर्णयः |
| केशान्द्विधा विभज्य कर्णादि निरुद्ध्य त्रिर्मज्जेत् | अशून्यकरेण तर्पयेत् |
| स्नानार्थं दिङ्मुखनियमः | आश्वालायनोक्तस्तर्पणप्रकारः |
| वाजसनेयिनां प्रवाहाभिमुखस्नाननिषेधः | नैमित्तिकस्नानेऽपि तर्पणम् |
| याजुषाणां सूर्याभिमुखस्नानविधिः | प्रातस्तिलतर्पणनिषेधः |
| मध्याह्नाचमनमन्त्रः | देवादितीर्थानि |
| गोमयलेपने मन्त्रविकल्पः | यक्ष्मतर्पणविधिः |
| गोमयस्नानेन सर्वतीर्थस्नानफलम् | तन्मन्त्रः |
| अपामार्गदूर्वामार्जनमन्त्रौ | केशोदकमग्रे पातयेन्नान्यत्र |
| स्नानवस्त्रत्यागे विशेषः |
| अधरीयोत्तरीयविपर्ययनिषेधः | विशेषः |
| वर्णभेदेन वस्त्राणि | प्रातरादिषु विशेषः |
| विप्रस्य नीलीधारणे दोषः | त्रिपुण्ड्रधारणप्रकारः |
| कुत्सितवस्त्राणि | ऊर्ध्वपुण्ड्रोपरि त्रिपुण्ड्र |
| पट्टसूत्रे नीलीदोषाभावः | धार्यम् |
| दग्धादि वर्ज्यानि | आसन उपविश्याचम्य |
| धौतवस्त्रप्रसारणप्रकारः | प्राणायाममाचरेत् |
| शुष्काभावे शुष्कवदार्द्रम् | प्राणायामलक्षणम् |
| वस्त्रधारणप्रकारः | तत्र गायत्रीजपप्रकारः |
| पञ्चकच्छलक्षणम् | गृहस्थेनावश्यं प्राणायामः |
| त्रिकच्छःशुचिः | कर्तव्यः |
| नग्नः पञ्चविधः | ब्रह्मचारिवनस्थयोर्विकल्पः |
| दश नग्नाः | वामेनापूर्य सन्धार्य दक्षिणेन रेचनम् |
| द्वितीयवस्त्राभाव उत्तरीयविधिः | पूरकादिशब्दार्थः |
| उत्तरीयमुपवीतवद्धार्यम् | तत्राङ्गुलिपीडनप्रकारः |
| यज्ञोपवीतेनापि द्विवस्त्रता | ऋक्सामाथर्वणां कश्चिद्भेदः |
| जीवत्पितृकस्योत्तरीयनिषेधः | अर्ध्यप्रदानविधिः |
| वस्त्रधारणान्ते पुनरूरूक्षालनम् | प्रातरादिषु स्थितिभेदः |
| मृदादितिलकधारणप्रकारः | राक्षसीमुद्रा निषेधः |
| वर्णभेदेन तिलकः | तल्लक्षणम् |
| सर्वेषां वोर्ध्वपुण्ड्रम् | प्रातर्मध्याह्नयोरुत्थाय |
| ऊर्ध्वपुण्ड्रकरणप्रकारः | जलेऽर्ध्यदानम् |
| गोपीचन्दनधारणविधिः | सायमुपविश्य स्थलेऽर्घ्यदानम् |
| कुत्र चिद्गोपीचन्दनधारणनिषेधः | सोदकपाणिना प्रदक्षिणकरणम् |
| उत्सवादिषु कस्तूरीचन्दनादिना | अर्ध्यदाने हेतुः |
| षड्विधंभस्म | प्रायश्चित्तार्थमाचमनम् |
| सर्वैरग्निहोत्रजं भस्म | |
| धार्यम् | |
| ब्रह्मचारिगृहस्थादिभेदेन |
| प्रातरादिभेदेनोपस्थाने | चतुर्विंशतिलक्षजपेन पुरश्चरणम् |
| करप्रदर्शनभेदः | गृहादिषु जपे फलभेदः |
| तिष्ठञ्जपेदकं पश्यन्नेवा- | जपनिषेधनिमित्तानि |
| न्यथा कुशासीनः | जले शुष्कवाससा स्थल |
| उपस्थानमन्त्राः | आर्द्रेण च जपादिनिषेधः |
| मन्त्रेण गायत्रीमावाह्य | मध्याह्नसन्ध्योपस्थान एव |
| जपेत् | बिभ्राडादिजपः |
| जपप्रकारः | वैकल्पिकमेतदुपस्थानम् |
| तत्र प्रणवदानप्रकारः | ब्रह्मयज्ञशब्दार्थः |
| मनसा जपेत्तल्लक्षणं च | तत्र पठनीयानि |
| जपसंख्या | ॐकारादि मनसा स्मृत्वा |
| नित्यजपसंख्या | वेदादिकमारभेत् |
| अत्रप्रातरादिकालभेदेन | नित्याध्ययनमेव स्वाध्यायः |
| स्थितौ विशेषः | स्वरादियुतपाठ एव फलम् |
| प्रातरादिषु करस्थापनप्रकारः | एतदेव परं तपः |
| हस्तमाच्छाद्यजपेत् | अत्र नानध्यायः |
| मालादर्शननिषेधः | ब्रह्मयज्ञे पुरुषसूक्तजपेन |
| मेरूल्लङ्घनादिषु प्रायश्चित्तम् | सर्ववेदजपफलम् |
| जपमालाः | ब्रह्मयज्ञकालः |
| सङ्ख्यानुसारेणोत्तमम- | बह्वचतैत्तिरीययोर्विशेषः |
| ध्यमाधमत्वम् | जपनिवेदनप्रकारः |
| मालाजपप्रकारः | सन्ध्यादिकं मुख्यकाल |
| पाणिमालास्वरूपम् | एव कार्यम् |
| पाणिस्थमेरूल्लङ्घनेऽपि दोषः | सन्ध्यात्रयस्य मुख्यः कालः |
| असंख्यातजपोनिष्फलः | मुख्यकालातिक्रमे प्रायश्चित्तम् |
| गायत्रीजपे करमालैव | प्रायश्चित्तान्तरम् |
| प्रशस्ता | अन्यदपि |
| अन्यमालानिषेधः | सायम्प्रातःसन्ध्याकालः |
| दशसहस्रगायत्रीजपे सर्वपापविनाशः | मध्यान्हसन्ध्याकालः |
| एतत्कालातिक्रम एव प्रायश्चित्तम् | सन्ध्योपस्थानसूत्रम् |
| गौणकालेऽप्यसम्भवे रात्रेः | तर्पणसूत्रम् |
| प्रथमयामे | आवाहनपूर्वकं तर्पयेत् |
| दिवाकर्माणि कुर्यात् | अनोङ्कृतमफलं भवति |
| प्राप्तकालं कर्म कृत्वातीत- | तर्पणे प्रथमा वाच्या |
| कालं कुर्यात् | क्षितौ कुशानास्तीर्य तेषु |
| सायमुभयीप्राप्तौ साया- | तर्पयेत् |
| न्हिकीं विधाय माध्याह्निकी | श्राद्धादौ पाणिद्वयेनोदक- |
| अस्तादुपरि मध्याह्णस- | दाननिषेधः |
| न्ध्यादिककर्मकरणम् | तर्पणे तूभयेनैव जलदानम् |
| रात्रौ मध्याह्नसन्ध्याप्राप्तौ | जलग्रहणोद्धरणक्षेपप्रकारः |
| सौरसूक्तजपनिषेधः | देवादीनां तर्पणे प्रागादिमुखत्वम् |
| तत्स्थाने वैश्वानरसूक्तजपविधिः | लघुसौवर्णादिपात्रस्थकरस्तर्पयेत् |
| दिवाकर्मविधायैवोत्तर | देवादीनां प्रागग्रादिकुशैस्तर्पणम् |
| कर्मकरणम् | दर्भादीनामनिर्माल्यत्वम् |
| स्नानब्रह्मयज्ञसौरजपवर्जनम् | निवीतलक्षणम् |
| सप्ताहं स्नानसन्ध्यात्यागे | प्राजापत्यतीर्थेन दवमानवतर्पणम् |
| विप्रस्य शूद्रत्वम् | ईशानीमुख उदङ्मुखो वा |
| अतोऽशौचेऽपि न त्यागः | मनुष्यांस्तर्पयेत् |
| अशौचे प्राणायामं विना | उदङ्मुखत्वनियमः |
| मानसिकी सन्ध्या | सप्त मानुषाः |
| अशौचेऽर्घ्यान्ता सन्ध्या | सव्यं जान्वाच्य दक्षिणामुखः |
| कार्या | पितृंस्तर्पयेत् |
| कैश्चिज्जपान्ताप्युक्ता | यमादयश्चतुर्दश |
| चतुर्विंशतिमुद्राः | देवतीर्थेन यमतर्पणम् |
| तासां लक्षणानि | पितृतर्पणेऽञ्जलिसंख्या |
| रहसि मुद्राः प्रदर्शयेत् | मात्रादितिसृणामञ्जलित्रयमेव |
| सन्ध्यासु गायत्रीतर्पणंकार्यम् | सपत्न्यादीनां द्वावञ्जली |
| कठादीनां निषिद्धदिनेऽपि | तर्पणादौ पितृक्रमः |
| तिलतर्पणम् | सवर्णेभ्यस्तर्पयेत् |
| तीर्थादावपि तथा | अन्यवर्णतर्पणे दोषः |
| तर्जन्यङ्गुष्ठयोगेन मुद्राकरणनिषेधः | पुरोहितैः क्षत्रियाणां तर्पणकार्यम् |
| अनामिकादिषु हेमादिधा | अतर्पणे प्रत्यवायः |
| रणेन पावित्र्यम् | स्थले वासोनिष्पीडनम् |
| शून्यहस्तेन तर्पणनिषेधः | तर्पणादौ स्नानवस्त्रं नपीडयेत् |
| रौप्यादीनामभावे पितृप्राप्त्यभावः | आदौ वस्त्रपीडने पितृशापपातः |
| पाण्यादौ तलग्रहणेन | वस्त्रपीडने विशेषः |
| पितृघातित्वम् | चतुर्धा कृत्वा पीडयेत् |
| पटादिस्थिततिलानां | द्वादश्यादिषु वस्त्रनिष्पीडननिषधः |
| क्रिमियोगः | जलदेवतार्चम् |
| मणिबन्धे तिलकरणविधिः | तल्लिङ्गमन्त्रैरेवार्चनम् |
| तर्पणस्थानुषङ्गिकफलम् | पुष्पस्य द्वैधीकरण निषेधः |
| जीवत्पितृकानां तर्पणविधिः | अवादिषटस्वेवार्चनम् |
| जीवत्पितृकस्यार्द्धापसव्यम् | क्रियावदादीनामग्न्यादिषुदेवः |
| तस्यैव कृष्णतिलतर्पणानिषेधः | आदित्यमुपस्थाय दिग्दिक्पालनमस्कारः |
| पितरि सति पितुः पितॄंस्तर्पयेत् | विसर्जनोक्तसंहारमुद्रालक्षणम् |
| वृद्ध्यादिषु पितुः पितृभ्यो | प्रातःसन्ध्यान्तेतर्पणमथ वा मध्याहस्नानान्ते |
| जलदानम् | कैश्चिन्मध्याहसन्ध्यान्ते |
| नवर्च्चंजपन्प्रसिञ्चेत् | तर्पणमुक्तम् |
| मार्जनादिकं वारिधारया | |
| निष्फलं भवति | |
| प्रसेकास्यं कर्मान्तरं नैव | |
| तर्पणम् | |
| नमो व इति जप्त्वा मातामहतर्पणम् | |
| मातृतर्पणस्य सुत्रानुक्तत्वेऽपि विधिः | |
| मातृतर्पणान्ते मातामहतर्पणम् | |
| मध्ये मातामहकरणे दोषः | |
| पूर्वं स्ववंशजानां ततः सुहृदादीनां तर्पणम् |
| श्राद्धाङ्गतर्पणे विशेषः | मध्यान्हसन्ध्यायां विशेषः |
| आमश्राद्धे पूर्वं प्रत्यद्बेपरेऽहनि तिलोदकदानम् | मुख्यकल्पाभावेऽनुकल्पः |
| परेद्युस्तर्पणाभावे पितरःशपन्ति | सन्ध्यानां मुख्यकालाः |
| नित्यतर्पणं श्राद्धदिनेऽपिभवत्येव | गौणकालाः |
| पक्षश्राद्धान्ते नित्यं तर्पणं | मुख्यकालातिक्रमे प्रायश्चित्तम् |
| महालये परेऽहनि | कात्यायनोक्तं प्रायश्चित्तान्तरम् |
| अमातृकः पितरि जीवति | सन्ध्योपासनवान्विप्रो ब्राह्मणयान्न हीयते |
| मातृश्राद्धं कुर्यान्नतर्पणम् | विकर्मणां पावनायैव |
| वृद्धयादिषु तिलतर्पणनिषेधः | सन्ध्या सृष्टा |
| यमतर्पणं काम्यम् | स्नानसन्ध्यात्त्यागे सप्ताहाच्छूद्रत्वम् |
| एतद्वाजसनेयिनां नित्यम् | अशक्तौ कुशजलरहितामानसिकी |
| जीवत्पितृकोऽपि भीष्मततर्णमाचरेत् | मानसिकसन्ध्याविधिः |
| तन्मन्त्रः | ब्रह्मयज्ञप्रयोगः |
| कालातिक्रमे दिवाकर्माणि | उपगृहीतकुशानामुत्तरतः |
| रात्रावपि शौचादिकं विना | प्रक्षेपः |
| सौरसूक्तजपादिकं रात्रौवर्ज्यम् | अथ तर्पणप्रयोगः |
| आपस्तम्बानांरात्रावपिब्रह्मयज्ञः | संक्षिप्ततर्पणम् |
| रात्रः प्रथमयामे दिवाकर्मविधानम् | तत्र मन्त्रः |
| उष्णोदकस्नानप्रशंसा | यमतर्पणप्रयोगः |
| उष्णापां वैशिष्टयम् | गृहे देवार्चनविधिः |
| पादक्षालनादिस्नानविधिः | होमान्ते पूर्वाह्न एव देवपूजनम् |
| समष्टिरूपो विनियोगः | पुरुषसूक्तेन विष्णुं सम्पूज्य |
| विनियोगाज्ञाने फलवैकल्यम् | वैश्वदेवः कार्यः |
| नित्यस्नानप्रयोगः | प्रातरादिकालत्रयेऽपि सन्ध्यावद्विष्णुपूजनम् |
| प्रातःसन्ध्याप्रयोगः | अशक्तौ प्रातः सम्पूज्यान्यत्र पुष्पाञ्जलिदानम् |
| पूज्यदेवताः | सहैव |
| अबादिपूजाधिकरणानि | शालग्रामे नावाहनविसर्जने |
| शालिग्रामपूजनफलम् | स्थिरार्चायामपि |
| पञ्चदेवानामपि शिलाः | अस्थिरायां विकल्पः |
| पूज्याः | ताम्रे वस्त्रमासाद्य देवपूजा निष्फला |
| पञ्चायतनस्थापनक्रमः | अङ्गुष्टमर्द्दनादि वर्ज्यम् |
| पञ्चायतनचक्रम् | द्वात्रिंशन्महापराधाः |
| प्राचीलक्षणम् | अन्ये चापराधाः |
| वैदिकतान्त्रिके प्राच्यौ | प्राङमुख एव विष्णुं |
| आगमविषये प्राची | पूजयेत् |
| पूजनक्रमः | अन्यानुदङ्मुर्खोवा |
| शैववैष्णवक्रमेण पूजनक्रमः | रात्रौ देवकार्यमुदङमुखः |
| विष्णुपूजायां प्राङ्मुखत्वमेव | कुर्यात् |
| अन्यत्र वोदङ्मुखत्वम् | शिवार्चनं सदोदङ्मुखः |
| रात्रौ देवकार्ये दिवा च | पादक्षालनादिशङ्खस्थापनान्तं कर्म |
| शिवपूजने सदोदङ्मुखत्वम् | पीठे शङ्खस्थापनं न भूमौ |
| गृहे पूज्यदेवतानियमः | शङ्खोदकं हरेः प्रियतमम् |
| द्विजानामेव शालिग्रामपूजनाधिकारः | शङ्खस्य निमज्जननिषेधः |
| अन्येषां स्पर्शाधिकारोऽपि | सुवर्णादिपात्रस्थं जलैः |
| नास्ति | स्नपयेत् |
| प्रतिष्ठितलिङ्गस्यापि तथैव | शङ्खे पूरणीयपदार्थाः |
| गुरुदत्तलिङ्गस्य सर्वेषां | शिवसूर्यार्चने शङ्खस्य |
| पूजाधिकारः | निषेधः |
| पार्थिवलिङ्गपूजाफलम् | तुलस्यादि स्वदक्षिणतः |
| लिङ्गमस्तकमशुन्यं कुर्यात् | स्थाप्यम् |
| प्रातर्निर्माल्योद्वासनफलम् | घृतदीप आत्मनो दक्षिणे |
| पुष्पदानोद्धरणमुद्रे | तद्विपरीतस्तैलस्य |
| प्रतिमापट्टयन्त्राणां नित्यस्नाने विकल्पः | स्वदक्षिणेगन्धपुष्पादिपात्रस्थापनम् |
| षोडशर्च्चांकरादिन्यासविधिः फलं च | |
| द्वात्रिंशदुपचाराः | |
| भावाहनाद्युपचाराः पृथक्सर्वेभ्यो धूपादिकं |
| उदकुम्भो वामे स्थाप्यः | तुलस्याद्यन्यत्पर्युषितं |
| अग्रे घण्टास्थापनम् | त्याज्यम् |
| अन्यद्यथास्थानम् | बिल्वादीनामनिर्माल्यदिनसंख्या |
| अर्घ्यादिपात्रस्थापनाय | तुलसीग्रहणे निषिद्धदिनादि |
| मञ्चकानि | दूर्वादिग्रहणे निषिद्धवासरादि |
| अर्घ्यपात्रस्थद्रव्याणि | तुलसीग्रहणमन्त्रः |
| पाद्यपात्रस्थद्रव्याणि | गन्धे देयपदार्थाः |
| आचमनीकद्रव्याणि | यक्षकर्दमः |
| मधुपर्कद्रव्याणि | सर्वगन्धः |
| उक्तद्रव्यालाभे भावनया | त्रिविधो धूपः |
| सर्वंकुर्यात् | गुग्गुलुधूपदानेन मनोरथावाप्तिः |
| वस्त्रसमर्पणविधिः | घण्टानादः कुत्र कार्यः |
| स्नानादिष्वाचमनं दद्यात् | दीपमाहात्म्यम् |
| ग्राह्यपुष्पाणि | नैवेद्यपात्रम् |
| विशिष्टपुष्पाणि | नैवेद्यार्थं ग्राह्यपात्राणि |
| समर्प्यपत्राणि | निषिद्धपात्राणि |
| कमलचम्पकान्या पुष्पकलिका वर्ज्या | विविधान्नानि |
| अस्नात्वा तुलसीपत्रग्रहणनिषेधः | भक्ष्यादि स्वप्रियं हरये |
| तुलस्या मञ्जर्याद्यभावेऽनुकल्पाः | देयम् |
| वर्ज्यपुष्पाणि | नैवेद्यसमर्पणप्रकारः |
| विष्णोर्वर्ज्यपुष्पाणि | नैवेद्यान्ते देयपदार्थाः |
| शिवस्य वर्ज्यपुष्पाणि | शङ्खस्थजलेन प्रोक्षणादिनिषेधः |
| देवताविशेषेण निषिद्धपुष्पाणि | भुक्तवते जलादिदानम् |
| विष्णवादीनामक्षतादिनिषेधः | ताम्बूलदानम् |
| पुष्पाभावेऽनुकल्पाः | पुष्पाञ्जलिं दत्वाऽऽदर्श |
| निषिद्धपुष्पाणि | दर्शयेत् |
| परानीतसाधनेन पूजा | आदर्शादिक्रमो वा |
| निष्फलाऽर्द्धफला वा | नीराजनप्रकारः |
| पूजानामुत्तमादित्वम् |
| देव्यादीनां प्रदक्षिणा- | (नवमी कण्डिका) |
| प्रकारः | पञ्च महायज्ञाः |
| स्तोत्रपाठादि | गृहिणां त्यागनिषेधः |
| अष्टाङ्गः प्रणामः | पञ्चसूनादोषपरिहारार्थं |
| चरणोदकलक्षणम् | पञ्च यज्ञाः |
| तीर्थमपीत्वा मस्तके दा- | सायंप्रातर्वैश्वदेवविधिः |
| ननिषेधः | वैश्वदेवराहित्यफलम् |
| करेण तीर्थग्रहणनिषेधः | निरग्निभिरपि वैश्वदेवाति- |
| पात्रेण तीर्थग्रहणफलम् | रिक्तः पाकोऽभक्ष्यः |
| तीर्थग्रहणस्य कालाः | वैश्वदेवस्य नित्यत्वम् |
| तीर्थग्रहणप्रकारः | ब्रह्मयज्ञादिस्वरूपम् |
| तीर्थनिर्माल्यादीनामग्रा- | पितृयज्ञः श्राद्धं बलिर्वा |
| ह्यत्वेऽपि पावित्र्यम् | वैश्वदेवानुष्ठानप्रकारः |
| शिवैकभक्तस्य तन्निर्मा- | अग्रदानासामर्थ्ये पुष्कल- |
| ल्यग्रहणम् | भिक्षादानम् |
| क्वचिच्चण्डाधिकाराभावः | भिक्षाग्रहन्तकारलक्षणानि |
| चण्डसत्वे शिवस्वम- | भिक्षुकाःषट् |
| ग्राह्यम् | अतिथिलक्षणम् |
| चण्डाभावे ग्राह्यम् | अतिथौ विमुखे गते दोषः |
| बाणलिङ्गादिषु चण्डाधि- | वैश्वदेवादौ भिक्षुकागमने |
| काराभावः | तदर्थमुद्धृत्य भिक्षुकः |
| शिवनैवेद्यस्य ग्राह्यत्वम् | सत्कार्यः |
| गणेशतीर्थवन्दनफलम् | वैश्वदेवाद्भिक्षोर्बलीयस्त्वम् |
| उच्छिष्टग्रहणविधिः | वैश्वदेवान्ते भिक्षुक आगते |
| शिवगणेभ्यः प्रसाददा- | तं यथावत्सत्कार्य बलिं |
| नमन्त्रः | न हरेत् |
| विष्णुगणेभ्यः | वैश्वदेवेऽनुकल्पद्रव्याणि |
| गणेशादिगणेभ्यो नामम- | घृताभावेऽनुकल्पाः |
| न्त्रेण दानम् | द्रवं हविः स्रुवेण जुहुयात् |
| देवपूजां विना भोजन- | आहुतिदानप्रकारः |
| फलम् | वैश्वदेवे वर्ज्यपदार्थाः |
| नित्यं देवपूजां विदध्यात् | साग्नेर्नित्यश्राद्धनिषेधः |
| निर्माल्यप्रमाणम् | साग्निनिरग्निकयोर्विशेषः |
| तुलस्यादीनां पर्यषितदोषाभावः |
| श्वाद्यर्थं भूमावन्ननिक्षेपः | श्राद्धशेषेणैव वैश्वदेवः कार्यः |
| वैश्वदेवप्रयोगः | क्वचिन्निरग्निकानामपि |
| निरग्नेविशेषः | श्राद्धात्प्राग्वैश्वदेवः |
| पृष्टोदिविविधानपरि- | कठकाण्वादेर्विशेषः |
| शिष्टम् | पाकशुद्ध्यर्थं वैश्वदेव आ- |
| साग्नेःप्रवासे वैश्वदेवाभावः | दावेव |
| यतिब्रह्मचारिणोः पा- | वैष्णवानां विशेषः |
| काभावः | हरये पितृशेषदाने दोषः |
| प्रसवोत्थानपरिशिष्टसूत्रम् | पितृयज्ञादन्यत्र वैश्वदेवादौ |
| पृष्टोदिविविधानाभावे शा- | स्थालीपाकाः |
| कलोक्तोवैश्वदेवः | विभक्तवैश्वदेवः |
| देवकृतेतिषण्मन्त्राः | विभक्तदेवार्चनादि |
| निरग्नेर्बलिदानप्रकारः | विभक्तब्रह्मयज्ञः |
| नित्यश्राद्धम् | सच्छूद्रस्यापि वैश्वदेवः |
| नित्यश्राद्ध आवाहनादि | नमस्कारमन्त्रः |
| त्याज्यम् | शुद्रादिभिरामेन कार्यः |
| तत्र विशेषः | वैश्वदेवाधिकरणम् |
| दक्षिणां दत्वा विसर्जनम् | यदग्नौ पाकस्तदग्नौ वै- |
| नित्यश्राद्धं षड्दैवतम् | श्वदेवः |
| प्रसङ्गाषड्दैवतश्राद्धसि- | चलत्कुण्डम् |
| द्धौ पुनर्नित्यश्राद्धं न | कुण्डशुद्धिप्रकारः |
| वैश्वदेवः साग्नेः पूर्व | चुल्लीहोमादिनिषेधः |
| निरग्नेः पश्चाद्भवति | भूबलिदर्शनस्य स्वयमुद्ध- |
| वैश्वदेवार्थं पृथक् पाकः | रणस्य च निषेधः |
| कार्यः | सायम्प्रातःकरणाशक्तौ |
| कातीयानामुभयार्थमेकः | द्विरावृत्या कुर्यात् |
| पाकः | वाजसनेयिनां दिबैव |
| एकादशाहिके साग्नेरपि | भोजनविधानम् |
| पश्चाद्वैश्वदेवः | पोष्यवर्गसहितभोजनविधिः |
| अनग्निमतां सर्वत्रान्त एव | पोष्यवर्गः |
| आब्दिकश्राद्ध आदौ होम- | दम्पत्योर्मध्ये गृहपतिः |
| निषेधः | पूर्वमश्नीयात् |
| पित्रर्थमुद्धृत्य वैश्वदेव- | पञ्चार्द्रो भुञ्ज्यात् |
| करण आसुरश्राद्धम् |
| कामनापरत्वेन दिग्विधानम् | भूमौ बलिदानम् |
| नित्यविधिः | तत्र मन्त्रविकल्पः |
| जीवन्मातृकस्य दक्षिणा- | एकाहुतिमेव त्रिधा द- |
| मुखभोजननिषेधः | द्यात् |
| पुत्रवत उत्तरामुखभोजन | प्रदक्षिणक्रमेण चित्राहुतिः |
| निषेधः | चित्रायेत्यादिबलिं दत्वा |
| शुचिस्थानेऽश्नीयात् | करं प्रक्षाल्य भुञ्ज्यात् |
| आसनविधिः | चित्राहुतिमुद्धृत्य भु- |
| वर्ज्यासनानि | ञ्ज्यात् |
| वर्णक्रमेण मण्डलानि | अनुद्धरणे दोषः |
| मण्डलावश्यकता | आपोशनविधिः |
| मण्डलाभावे दोषः | तदकरणे दोषः प्राय- |
| कांस्यपात्र एकस्यैव भो- | श्चित्तं च |
| जनविधिः | आपोशनक्षरणे पुनर्विधिः |
| सुवर्णादिपात्रविधिः | आपोशनकर आशीर्वादं |
| ताम्रे निषेधः | न दद्यात् |
| परपात्रे भोजने दोषः | अन्नदोषपरिहारार्थं मन्त्र- |
| पात्रपरिमाणम् | पाठः |
| गृहस्थानां पात्रपरिमाणम् | प्राणाहुतेरादावन्नमदने |
| समन्ताल्लघुपात्रस्थाप- | दोषः |
| नविधिः | पङ्क्तिदोषसम्भावनार्या |
| पत्यादीनां कांस्यनिषेधः | जलधारादिना पङ्क्तिं |
| पारणादौ कांस्यनिषेधः | भिन्द्यात् |
| पात्रशुद्धिप्रकारः | पङ्क्तावेकेन पात्रत्यागे शेषा- |
| कांस्याभावे पात्राणि | णामभोजनम् |
| निषिद्धपात्राणि | पङ्क्तिभेदप्रकाराः |
| परिवेषणप्रकारः | पङ्क्तिदोषाभावः |
| परिवेषणक्रमः | आद्यन्तयोराचमनवि- |
| ओदनादिषु घृतपात्रस्था- | धानम् |
| पने दोषः | सशब्दापोशने दोषः |
| सैन्धवादिद्रव्यान्तरयुतं | प्राणाहुतिप्रमाणम् |
| परिवेष्यम् | घृतहीनप्राणाहुतौ प्राय- |
| सायंप्रातर्जलपरिषेचनमन्त्रौ | श्चित्तम् |
| घृताभावेऽनुकल्पाः |
| प्राणाहुतौ नियमधारणम् | लवणादि हस्तदत्तं न |
| प्राणाहुतीनां चर्वणनिषेधः | भक्षयेत् |
| प्राणाहुतिमुद्राः | अपक्वादेर्हस्तदानेऽदोषः |
| नात्रोच्छिष्टदोषः | वृन्ताकादिभक्षणे प्राय- |
| ब्रह्मग्रन्थि मुक्त्वा वामहस्तं | श्चित्तम् |
| प्रक्षाल्य भुञ्ज्यात् | रात्रौ दध्यादिनिषेधः |
| भोजनावसरे तर्जन्यां | तिथिविशेषे वर्ज्यानि |
| रौप्यादिनिषेधः | अभोज्यान्नानि |
| शिरः संवेष्ट्य भोजनादौ | गणान्नादिभक्षणे प्राय- |
| दोषः | श्चित्तम् |
| दक्षिणे पानपात्रस्थापनं | शूद्रस्य ब्राह्मणान्नदाने तद्वि- |
| शिखाग्रन्थिविसर्गानु- | पर्यये च प्रायश्चित्तम् |
| कल्पश्च | शय्यासनादौ भोजने पाने |
| वामे जलस्थापने दोषः | च प्रायश्चित्तम् |
| न्यस्तपात्रः पञ्चाहुतीर्भक्षयेत् | परपाकनिवृत्ताद्यन्नभक्षणे |
| पात्रस्थापनयन्त्रम् | प्रायश्चित्तम् |
| अभिमन्त्रितान्नमेव पुन- | परपाकनिवृत्तलक्षणम् |
| ग्राह्यम् | लक्षणान्तरम् |
| पङ्क्तिभेदेन भोजने दोषः | अपचलक्षणम् |
| समुदिताङ्गुलिभिर्भुञ्जीत | आज्यपात्रे तक्रादिस्थापने |
| मधुरादिकं भक्षयेत् | दोषः |
| जलपानप्रकारः | गव्यताम्रादियोगे दोषः |
| उच्छिष्टदोषाभावः | होमादिषु ताम्रे गव्यमदुष्टम् |
| अर्द्धजठरमन्नपूरणम् | ग्रासशेषाशने पीतशेषपाने |
| मौन्यदुष्टान्नंभक्षयेत् | च प्रायश्चित्तम् |
| भोजने वर्ज्यम् | यत्यन्नभक्षणादौ प्राय- |
| देवपित्रर्थं मांसस्यादोषः | श्चित्तम् |
| पर्युषिते प्रतिप्रसवः | पङ्क्तावन्योन्यस्पर्शे प्राय- |
| पण्येषु भोज्यम् | श्चित्तम् |
| पण्येमृत्पात्रस्थं पय आदि | उच्छिष्टस्पृष्टोच्छिष्टब्राह्म- |
| पूतम् | णस्य प्रायश्चित्तम् |
| वृन्ताकादिभक्षणे दोषः | ब्राह्मणस्पर्शे |
| शाकादि दन्तच्छेदैर्न | जीवत्पितृकादेर्मौननिषेधः |
| भक्षयेत् |
| अष्टम्यादौ दिवा भोज- | पर्णमूलादिषु व्याध्यादि |
| नादौ प्रायश्चित्तम् | पर्णाभावे पूगभक्षणे दोषः |
| वनस्पतिगते सोमे परा- | पर्णसंख्या |
| न्नग्रहणनिषेधः | तर्जनीलिप्तचूर्णताम्बूल- |
| पर्वादिषु रात्रिभोजने | भक्षणफलम् |
| प्रायश्चित्तम् | चूर्णलेपनेऽङ्गुलिविधानम् |
| एकादश्यां भुक्तौ प्राय- | भुक्त्वा वह्निं स्पृष्ट्वा सप्त- |
| श्चित्तम् | पदींविधाय शयीत |
| अष्टम्यादौ दिवा भोजने | शयनप्रकारः |
| प्रायश्चित्तान्तरम् | भोजनपद्धतिः |
| दध्यादिभिन्नं सशेषं भ- | (दशमी कण्डिका) |
| क्षयेत् | अध्यायोपाकरणशब्दार्थः |
| भुक्त्वा पीत्वा शून्यपा- | उपाकरणं गुरुसंस्कारः |
| त्रत्यागे दोषः | अध्ययनशीलोऽग्निमान- |
| उच्छिष्टं भूमौ देयम् | धिकृतः |
| गण्डूषस्यार्धत्यागः | औपासनसाध्यमुपाकर्म |
| अनाचान्त उत्थिते प्राय- | लौकिकेऽनुष्ठानमाचार- |
| श्चित्तम् | मूलम् |
| गण्डूषात्पूर्वं हस्तक्षालने | याजुषाणां पौर्णमास्याः |
| दोषः | प्राधान्यम् |
| तर्जन्या वक्रशोधने दोषः | तैत्तिरीयैरौदयिकं पर्व |
| दन्तकाष्ठेन दन्तलग्नं सं- | ग्राह्यम् |
| हृत्याचामेत् | केषां चिन्मते पूर्वा परा च |
| चुलुकसंख्याविकल्पः | सङ्गवात्परतश्चेदौदयिकी |
| यावत्पात्रोद्धरणाद्यशुचिरेव | ग्राह्या |
| भोजनान्ते जलैर्नेत्रे मा- | षण्मुहूर्त्तवेधो ग्राह्यः |
| र्जयेत् | बह्वृचसामगयोः काल- |
| भार्गवादिस्मरणम् | विकल्पः |
| आहारपरिणामायाग- | घनिष्ठायुक्तश्रवणो ग्राह्यः |
| स्त्यादिस्मरणम् | उत्तराषाढयुतश्रवणे दोषः |
| पुनराचम्य ताम्बूलच- | धनिष्ठायुतश्रवणप्रशंसा |
| वर्णादि | घटिकाद्वयव्यापि विष्ण्वर्क्षं |
| प्रातरादिषु ताम्बूलभक्षणे | ग्राह्यम् |
| विशेषः |
| परवेधः सर्वेषां प्रशस्तः | आत्मसंस्कारत्वान्मातृ- |
| सिंहस्थे सूर्य उपाकर्म | पूर्वं श्राद्धम् |
| कर्तव्यम् | आदावेवनान्दीमुखं न सदा |
| कर्कस्थसूर्य उपाकर्म- | वैकल्पिकावधारणविधिः |
| निषेधः | विकल्पेब्वेकपक्षाश्रयणम् |
| देशविशेषेण व्यवस्था | अत्र परिस्तरणान्ते ब्रह्म- |
| सामगानां विशेषः | वरणम् |
| ग्रहसंक्रान्त्यादिदोषे नो- | अत्र चरुपात्राभावः |
| पाकुर्यात् | आज्यान्ते सिद्धधाना- |
| अर्धरात्रादधस्ताद्ग्रहसंक्रा- | सादनम् |
| न्त्यादिसत्वे निषेधः | धानाशब्दार्थः |
| अर्धरात्रात्परतश्चेन्न दोषः | धानाहोमादि त्रिवारं |
| ग्रहसंक्रान्त्यादियुते पर्वणि | कुर्यात् |
| पञ्चम्यामुपाकृतिः | यावच्छिष्यगणेच्छा ताव- |
| तैत्तिरीयैः प्रौष्ठपद्यां कार्या | त्तिलहोमविधिः |
| अथवाऽऽषाढ्यामुपाकर्म | धानाभ्यः स्विष्टकृत् |
| श्रावणे यदि वृष्ट्यभावस्त- | प्रणवसावित्रीं त्रिरुक्त्वा- |
| दा भाद्रे कुर्युः | ऽध्यायादीन्प्रब्रूयात् |
| भाद्रपदीयहस्तपञ्चम्योरेव | उपाकर्मणि विशिष्टोऽ |
| मलमासे निषेधः | ध्ययनप्रकारः |
| उत्कर्षविधिः | वेदविशेषेणाध्ययनविधिः |
| छन्दोगानां मलमासे भवति | ब्रह्मचारिणां विशेषः |
| शुक्रास्तादावपि भवति | अत्र मौञ्जीदण्डोपवीतकं |
| अत्र ग्रहवेधाभावः | नूतनं धार्यम् |
| प्रथमारम्भनिषेधः | नूतनयज्ञोपवीतधार- |
| निषिद्धकाले करणे दोषः | णकालाः |
| मध्यान्हादूर्ध्वं कार्यमुपाकर्म | उपाकर्मणि यज्ञोपवीतदा- |
| तन्न किन्तु पूर्वाह्न एव | नफलम् |
| अभ्यङ्गस्नानं विधाय कार्यम् | त्रिरात्रमुक्तनियमानुष्ठानम् |
| प्रथमप्रयोग आचार्येण | ब्रह्मचारिणो गृहस्थस्या- |
| नान्दीश्राद्धं कार्यम् | प्युपाकर्म |
| गुरुसंस्कारोऽयं न शिष्याणाम् | वनस्थानामपि |
| उपाकर्मणः फलम् |
| रक्षाबन्धनविधिः | कौशर्षिनिर्माणप्रकारः |
| भद्रायां निषेधः | प्रवरर्षीणामपि स्थापनम् |
| भद्रान्ते रात्रावपि भवति | सप्तर्षयः |
| तन्मन्त्रः | तेषां प्रतिष्ठापूजादिमन्त्राः |
| सर्ववर्णानां रक्षाबन्धनविधिः | अपसव्येन यज्ञोपवी- |
| उपाकर्मपद्धतिः | तदानम् |
| (एकादशी कण्डिका) | सतिलजलैरुच्चैस्तर्पयेत् |
| अनध्यायनिरूपणम् | अत्र तर्पणीयाः |
| निशाशब्दार्थः | देवास्तृप्यन्त्वितिप्रयोगः |
| रात्रेः पूर्वोत्तरयामयो- | अत्र जीवत्पितृकैरपि |
| रध्ययनविधिः | तर्पणं कार्यम् |
| (द्वादशी कण्डिका) | तत्र विशेषः |
| उत्सर्ग उच्यते | चतुःसावित्रीमुक्त्वा वि- |
| उत्सर्गशब्दार्थः | रामवाक्यपाठः |
| तत्कालः | वेदादिपाठान्ते ऋषिश्राद्धं |
| पौषे माघे वा कार्यम् | कार्यम् |
| अथवोपाकर्मदिने कार्यम् | अन्ते जले त्याग ऋषीणां |
| बौधायनादीनां पौषी माघी | कार्यः |
| वा पूर्णिमा | अतः शुक्ले छन्दांसि कृष्णे- |
| सामगाः सिंहस्थे सूर्ये | ऽङ्गानि पठेत् |
| पुष्ये कुर्युः | शुक्लेऽप्यनध्यायदिनेऽङ्गानि |
| भाद्रे हस्तात्प्राग्पुष्यसत्त्वे | पठेत् |
| श्रावणेऽपि | प्रत्यब्दमेतदुभयानुष्ठान- |
| कालस्मरणादिविधिः | फलम् |
| स्नानसामग्री | अथोत्सर्जनोपाकर्मप्रयोगः |
| ऋषिपूजनम् | अपूर्ण ग्रन्थसमाप्तिः |
श्रीगणेशाय नमः । श्रीसरस्वत्यै नमः ।श्रीगुरुभ्यो नमः ।
विद्वद्वररामकृष्णकृतः ।
संस्कारगणपतिः ।
पारस्करगृह्यसूत्रविवरणरूपः ।
<MISSING_FIG href=”../books_images/U-IMG-169573949510.png"/>
वन्दे श्रीगणनायकं सुरगुरुं सर्वार्थसिद्धिप्रदं
भक्तानां सुखदायकं गजमुखं सिन्दूरशोभाकरम् ।
ब्रह्माविष्णुशिवार्कमुख्यखचरान्श्रीशारदां शैलजाँ
ल्लक्ष्मीं पद्मनिवासिनीं निजगुरून् कार्य्यस्य संसिद्धये ॥१॥
श्रीविन्ध्याचलदक्षिणे सुललिते देशे च पुण्यालये
चातुर्वर्ण्यसमाकुलेबहुविधे नाम्ना मडूपत्तने ।
तत्रासीन्निजवंशवर्द्धनकरःश्रीवासुदेवःसुधी-
दोर्दण्डप्रथितप्रतापविभवो भूमण्डलाखण्डलः ॥२॥
शत्रूणां ललनासहस्रनयनेष्वम्भःप्रवाहं दद-
ज्जातः श्रीपरतापसाहिनृपतिः श्रीवासुदेवात्मजः ।
तेजस्वी च महायशा नृपगुणोदारो दयालुः प्रभु-
स्तत्पुत्रोऽपि महाशयः खलु महासिंहो नृपोऽभूत्ततः ॥३॥
तदङ्गजो हिम्मतिसाहिनामा बभूव राजा रजनीशवक्रः ।
गयन्दसिंहो नृपतिस्ततोऽभूत्तेजोयशोवीर्यबलान्वितश्च ॥४॥
तस्यात्मजः सेङ्गरवंशवीरो धीरो धुरीणो धरणीधरश्च।
मान्यो वदान्यो गणकाग्रगण्यो धन्यो विपूर्वोजयसिंहदेवः ॥५॥
संप्राप्तजीविकस्तस्मात्काश्याङ्कोनेरदेवविबुधः ।
तत्सूनुरामकृष्णाख्यः सूत्रविवरणङ्कुरुते ॥६॥
बालकानां सुबोधाय तोषाय विदुषामपि ।
आकल्पमपि संसारे कीर्त्त्यवस्थापनाय च ॥७॥
स्वाभिप्रायेण हि मया न किञ्चिदिह लिख्यते ।
किन्तु वाचनिकं सर्वमतो ग्राह्यं मनीषिभिः ॥८॥
आलोड्यसर्वशास्त्राणि मन्वादिभिः कृतानि च ।
परिशिष्टान्यनेकानि कात्यायनकृतानि च ॥९॥
कर्काचार्य्यकृतं भाष्यङ्गदाधरकृतन्तथा ।
भाष्यं हरिहरस्यैव त्वन्यानि च बहूनिच ॥१०॥
सारमेव समुद्धृत्य स्मृतीनां वचनं तथा ।
सिद्धान्तानि समूलानि विचार्य्यलिख्यते मया ॥११॥
शब्दतश्चार्थतश्चेह पौनरुक्तिर्न दुष्यति ।
स्फुटबोधाय बालानां ग्रन्थोऽयं रच्यते यतः ॥१२॥
इह खलु सकलमुनिगणवरिष्ठचकचूडामणिः श्रीभगवान् पारस्कराऽऽचार्यःपरमकारुणिको निर्विघ्नेन ग्रन्थसमाप्त्यर्थमध्येतॄणाञ्च शुभार्थं शिष्टाचाररक्षणार्थं ग्रन्थादौ मङ्गलाचरणमातनोति–
मू० अथातो गृह्यस्थालीपाकानां कर्म ॥१॥ परिसमुह्योपलिख्योल्लिख्योद्धृत्याभ्युक्ष्याग्निमुपसमाधाय दक्षिणतो ब्रह्मासनमास्तीर्यप्रणीयपरिस्तीर्यार्थवदासाद्य पवित्रे कृत्वा प्रोक्षणीःसंस्कृत्यार्थवत्प्रोक्ष्य निरुप्याज्यमधिश्रित्य पर्यग्निकुर्यात् ॥२॥ स्रुवं प्रतप्य संमृज्याभ्युक्ष्य पुनः प्रतप्य निदध्यात् ॥३॥आज्यमुद्रास्योत्पूयावेक्ष्य प्रोक्षणीश्च पूर्ववदुपयमनान्कुशानादाय समिधोऽभ्याधाय पर्युक्ष्य जुहुयात् ॥४॥ एष एवं विधिर्यत्र क्वचिद्धोमः ॥५॥१॥
अथेति । ग्रन्थादौ ग्रन्थमध्ये ग्रन्थान्ते मङ्गलमाचरणीयमिति शिष्टाचारः ।वेदप्रामाण्याभ्युपगन्तारः शिष्टाः \। मङ्गलं त्रिविधम् आशीर्नमस्क्रियावस्तूपनिर्देशलक्षणम् । अत्राथशब्दो मङ्गलवाची । तदुक्तं प्राति-
शाख्यभाष्ये—
ॐकारञ्चाथशब्दश्चद्वावेतौब्रह्मणः पुरा ।
( १ )1 गण्डौ भित्वा विनिष्क्रान्तौ तेन माङ्गलिकावुभौ ॥ इति ।
यथा ‘वृद्धिरादैच्’ इत्यत्र वृद्धिशब्दमादौ प्रयुङ्क्तवान्पाणिनिस्तथेहापि ग्रन्थादावथशब्दप्रयोगः । ननु सम्बन्धादिचतुष्टयकथनं विना शास्त्रारम्भवैय्यर्थ्यप्रसङ्ग स्यात्, उक्तञ्च —
सिद्धिः श्रोतृप्रवृत्तीनां सम्बन्धकथनाद्यतः ।
तस्मात्सर्वेषु शास्त्रेषु सम्बन्धः पूर्वमुच्यते ॥ इति ।
अत्र सम्बन्धस्त्वा ब्रह्मादिविनिःसृतं वेदाङ्गमिति । तथाच नारदः—
** अस्य शास्त्रस्य सम्बन्धो वेदाङ्गमिति धातृतः ॥ इति ।**
** **तत्र वेदपुरुषस्य कान्यङ्गानि तान्याह वसिष्ठः—
छन्दः पादौ शब्दशास्त्रञ्च वक्र-
ङ्कल्पः पाणी ज्योतिषञ्चक्षुषी च ॥
शिक्षा घ्राणं श्रोत्रमुक्तन्निरुक्तं
वेदस्याङ्गान्याहुरेतानि षट्च ॥ इति ॥
तथाच मूलागमे —
शिक्षा प्राणन्तु वेदस्य मुखं व्याकरणं स्मृतम् ।
ज्योतिषामयनञ्चक्षुर्निरुक्तं श्रोत्रमुच्यते ॥
छन्दः पादौ तु वेदस्य हस्तौ ( २ )2 कल्पान्प्रचक्षते ॥ इति ।
प्रतिपद^(१)मनुपदं^(२) छन्दोभाषा^(३) धर्मो^(४) मीमांसान्यायस्त^(५)र्क^(६) इत्युपाङ्गानि । ननु हस्तौ कल्पान्प्रचक्षत इत्यनेन श्रौतस्यैव वेदाङ्गत्वमायाति नतु स्मार्त्तानाम् तस्य श्रुतिमूलकत्वात् । प्रत्यक्षा हि श्रुतयः, श्रौतेषु वेदत्रयीसाध्यं ज्योतिष्टोमादिकर्मानुष्ठानं हौत्रमार्ग्वेदिकम् याजुर्वेदिकमाध्वर्य्यवम् सामवेदिकमुद्गा-तृत्वमिति । न हि ज्ञायतेऽसुकवेदोक्तं स्मार्त्तमिति । अविज्ञातं स्मार्त्तम्, यन्न ज्ञायते किमावैदिकम् किं याजुर्वेदिकम् किं वा सा-
मवेदिकमिति तस्माच्छौतस्यैव वेदाङ्गत्वमिति चेन्न ।स्मार्तनामपि वेदमूलकत्वमुक्तं भाट्टैः । स्मार्त्तषु पुनः कर्तृसामान्यादनुमेयाः श्रुतयः । तथाचापस्तम्बः ।‘तासामुच्छिन्नाःपाठाः प्रयोगादनुमीयन्ते । अतः स्मार्त्तस्यापि वेदमूलकत्वम् वेदमूलकत्वाद्वेदाङ्गत्वमिति विशेषणेनावश्याध्ययनता प्रतीयते, यतः ‘साङ्गोवेदोऽध्येतव्यो ज्ञेयश्चेति’ । श्रुतिरपि—
“ब्राह्मणेन निष्कारणः षडङ्गो वेदोऽध्येयो ज्ञेयश्चेति” ।
ब्राह्मण इति त्रैवर्णिकोपलक्षणार्थम् । निष्कारण इत्यनेन प्रयोजनजिज्ञासां विनैवाध्ये-तव्यमित्युक्तम्भवति ।
अथ वेदप्रशंसा । तत्र मनुः—
चातुवर्ण्यंं त्रयो लोकाश्चत्वारश्चाश्रमाः पृथक् ।
भूतं भव्यं भविष्यञ्च सर्वंंवेदात्मसिद्ध्यति ॥१॥
याज्ञवल्क्योऽपि—
यज्ञानां तपसाञ्चैव शुभानाञ्चैव कर्मणाम् ।
वेद एव द्विजातीनां निःश्रेयसकरः परः ॥२॥
मनुः—
वेदमेव सदाऽभ्यस्येत्तपस्तप्यन्द्विजोत्तमः ।
वेदाभ्यासो हि विप्रस्य तपः परमिहोच्यते ॥३॥
ऋषिदेवमनुष्याणां वेदश्चक्षुः सनातनः इति ॥
स्मृतिसारसमुच्चयेऽपि—
वेदो यस्य शरीरस्थो न स पापेन लिप्यते ।
वेदात्मा स तु विज्ञेयः शरीरं किं प्रयोजनम् ॥४॥
ऋग्विधाने—
वेदाक्षराणि यावन्ति पठितानि द्विजातिभिः ।
तावन्ति हरिनामानि कीर्त्तितानि न संशयः ॥५॥
वेदः शिवः शिवो वेदो वेदाभ्यासी सदाशिवः ।
पाषाणःशिवतां याति कथं विप्रः शिवं न हि ॥६॥
संहिता नयते सूर्य्यंपदानि शशिनःपदम् ।
क्रमोऽपि नयते सूक्ष्मं य ( १ )3त्तत्पदमनामयम् ॥७॥
वेदोऽत्रैका शाखा न शाखा समूहः। तथा च देवलः–
एकशाखां सकल्पाञ्च षड्भिरङ्गैरधीत्य च । इति ।
यत्तु—
तपोविशेषैर्विविधैर्व्रतैश्च विधिनोदितैः ।
वेदः कृत्स्नोऽधिगन्तव्यस्सरहस्यो द्विजन्मना ॥
इति मनुना कृत्स्न इति वेदविशेषणमुपात्तन्तदपि वेदशब्दस्य शाखापरत्वेन तस्याश्च कृत्स्नत्वमभिधत्ते नैकवेद ( २ )4 मनेकशाखासमूहमिति न विरोधः।
अथ वेदार्थज्ञानफलम् । तत्र मनुः—
वेदशास्त्रार्थतत्त्वज्ञो यत्र यत्राश्रमे वसेत् ।
इहैव लोके तिष्ठन्स ब्रह्मभूयाय कल्पते ॥१॥
हारीतोऽपि—
मन्त्रार्थज्ञो जपञ्जुह्वँस्तथैवाध्यापयन् द्विजः ।
स्वर्गलोकप्रवाप्नोति नरकन्तु विपर्य्यये ॥२॥
निरुक्तमपि—
** “योऽर्थज्ञ इत्सकलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाष्मा” इति ।**
वीरमित्रोदये—
वेदस्याध्ययने सर्वं धर्मशास्त्रस्य चैव हि ।
अजानतोऽर्थन्तद्व्यर्थन्तुषाणां कुट्टनं ( ३ )5 यथा ॥३॥
पाठमात्ररतान्नित्यं द्विजाँश्चार्थ विवर्ज्जितान् ।
पशूनिव च तान्प्राज्ञो वाङ्मात्रेणापि नार्चयेत् ॥४॥
योऽधीत्य विधिवद्वेदं वेदार्थंन विचारयेत् ।
स सान्वयः शूद्रसमः पात्रतां न प्रपद्यते ॥५॥
लघुव्यासः—
नो वेदपाठमात्रेण सन्तोषङ्कारयेद्द्विजः ।
पाठमात्रावसानस्तु पङ्के गौरिव सीदति ॥६॥
यथा पशुर्भारवाही न तस्य लभते फलम् ।
द्विजस्तथाऽर्थानभिज्ञो न वेदफलमश्नुते ॥८॥
पराशरः—
ज्ञातव्यः सर्वदैवार्थो वेदानां कर्मसिद्धये ।
पाठमात्रमधीते यः पङ्के गौरिव सीदति ॥८॥
वेदमनधीयमानस्य च प्रत्यवायवाक्यानि पुराणस्मृतिषु प्रसिद्धान्येव,
स्कन्दपुराणे—
वेदविद्याविहीनस्य शास्त्रजालं निरर्थकम् ।
कण्ठसूत्राविहीनायाः कामिन्या इव भूषणम् ॥१॥
नारदीयपुराणे—
योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् ।
सजीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥२॥
व्यासः—
वेदाभ्यासविहीनस्य शास्त्राभ्यासरतस्य च ।
न तस्य वचनं ग्राह्यं श्वानोच्छिष्टं हविर्यथा ॥३॥
स्मृतिसारसमुच्चयेऽपि—
यस्य वेदश्चवेदी च विच्छिद्येते त्रिपूरुषम् ।
स बै दुर्ब्राह्मणो नाम सर्वकर्मबहिष्कृतः ॥४॥
विधानपरिजातके—
नित्यं नैमित्तिकं काम्यं यच्चान्यत्कर्म वैदिकम् ।
अनधीतस्य विप्रस्य सर्वं भवति निष्फलम् ॥५॥
व्यासः—
तथा वेदविहीनस्य क्रियाः सर्वास्तु निष्फलाः ।
तथा—
नाधीतवेदो यो विप्र आचारेषु प्रवर्त्तते ।
नाचारफलमाप्नोति यथा शूद्रस्तथैव सः ॥६॥
अनधीतस्य विप्रस्य पुत्रो वाऽध्ययनान्वितः ।
शूद्रपुत्रः स विज्ञेयो न वेदफलमश्नुते ॥७॥
महाभारतेऽपि—
वेदविक्रयिणश्चैव वेदानाञ्चैव लेखकाः ।
वेदानान्दूषकाश्चैव ते वै निरयगामिनः ॥८॥
अथाभिधेयं निरूप्यते । अभिधेयशब्देन विषयः स, च यदि नोच्यते तदा ग्रन्थकरणं वृथैव । उक्तञ्च—
किमेवात्राभिधेयं स्यादिति पृष्टस्तु केन चित् ।
यदि न प्रोच्यते तस्मै फलशून्यन्तु तद्भवेत् ॥ इति ॥१॥
अत्र सँस्कारा अभिधेयाः । ते च द्विविधाः —ब्राह्मा दैवाश्च
तथा च हारीतः—
“द्विविधो हि सँस्कारो भवति ब्राह्मो देवश्चेति”।
तत्र ब्राह्मया गर्भाधानाद्याः । तथा च हारीतः—
गर्भाधानादिः स्मार्त्तो ब्राह्मः स्नानान्त इति ।
ते च पञ्चविंशतिः । तदुक्तम् वीरमित्रोदये—
गर्भाधानं पुंसवनं सीमन्तो बलिरेव च ।
जातकृत्यं नामकर्म निष्क्रमोऽन्नाशनं परम् ॥१॥
चौलकर्मोपनयनं तद्रतानाचतुष्टयम् ।
स्नानोद्वाहौ चाग्रयणमष्टका च यथा तथा ॥२॥
श्रावण्यामाश्वयुज्याञ्च मार्गशीर्ष्याञ्च पार्वणम् ।
उत्सर्गश्चाप्युपाकर्म महायज्ञाश्च नित्यशः ॥३॥
सँस्कारा नियता ह्येते ब्राह्मणस्य विशेषतः ॥ इति ।
बलिर्विष्णुवलिः । तद्व्रतानां वेदव्रतानां चतुष्टयम् । महानाम्नि ( १ )6
महाव्रतम् । उपनिषद्गोदानानि । स्नानं समावर्त्तनम् ।आग्रयणं नवान्नेष्टिः । अष्टका हेमन्तशिशिरयोश्च-तुर्णामपरपक्षाणामष्टमीषु विहितानि श्राद्धानि । श्रावण्याङ्क्रियमाणं श्रवणाकर्म । एवमाश्वयुज्यामाश्व-युजी कर्म ।मार्गशीर्ष्यां स्त्रस्तरारोहणङ्कर्म ।पार्वणम्पर्वण्यमावास्यायां क्रियमाणम्पार्वणश्राद्धम् । उत्सर्गो वेदानामुत्सर्जनमिति ।पाकयज्ञाद्या दैवाः । तथा च हारीतः —
पाकयज्ञा हविर्यज्ञाः सौम्याश्च देवाः इति ।
सौम्याःसोमयागाः अनिष्टोमादयः । व्यासेन तु षोडशैव संस्काराउक्ताः—
गर्भाधानं १ पुंसवनं २ सीमन्तो ३ जातकर्म ४ च ।
नामक्रिया ५ निष्क्रमो ६ ऽन्नप्राशनं ७ वपनक्रिया ८ ॥१॥
कर्णवेधो ९ व्रतादेशो १० वेदारम्भक्रियाविधिः ११ ।
के शान्तः१२ स्नान १३ मुद्वाहो १४ विवाहो १५ ऽग्निपरिग्रहः ॥२॥
त्रेताग्निसङ्ग्रहश्चैव १६ संस्काराः षोडश स्मृताः ।
नवैताः कर्णवेधान्ता मन्त्रवर्ज्यं क्रियाविधौ ॥३॥
विवाहो मन्त्रवत्तस्याः शूद्रस्य ।मन्त्रतो दश ।
गृह्यकारिकायाञ्च—
त्रयोदशानामाद्यानामधिकारी पिता भवेत् ।
इतरेषां त्रयाणां स्यादधिकारी स्वयं सुतः ॥
प्रयोजनन्निरूप्यते । उक्तञ्च—
सर्वस्यैव हि शास्त्रस्य कर्मणो वाऽपि कस्य चित् ।
यावत्प्रयोजनं ( १ )7 नास्ति तावत्केन न गृह्यते ॥
प्रयोजनन्तु गर्भाधानादिसंस्कारैः शरीरपावनता सायुज्यता च स्यात् । तथा हि वीरमित्रोदये—
पञ्चविंशतिसंस्कारैः संस्कृता ये द्विजातयः ।
ते पवित्राश्च योग्याश्च श्राद्धादिषु नियोजिताः ॥
अन्यच्च शङ्खः—
वैदिकैः कर्मभिः पुण्यैर्निषेकाद्यैर्द्विजन्मनाम् ।
कार्यः शरीरसंस्कारःपावनः प्रेत्य चेह च ॥
संस्कारैः संस्कृतः पूर्वैरुत्तरैरनुसंस्कृतः ।
नित्यमष्टगुणैर्युक्तो ब्राह्मणो ब्रह्मलौकिकः ॥
ब्राह्मं पदमवाप्नोति यस्मान्न च्यवते पुनः ।
हारीतोऽपि—
ब्राह्मसंस्कारसंस्कृत ऋषीणां समानतां गच्छति ।
देवेनोत्तरसंस्कारेण संस्कृतो देवानां समतां गच्छति ॥
मनुरपि—
स्वाध्यायेन वतैर्होमैस्त्रैविध्येनेज्यया सुतैः ।
महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः ॥
यद्यपि सर्वशाखाप्रतिपादितमेकं कर्म तथापि स्वस्वशाखाविहितङ्कुर्य्यात् । तथा चाङ्गिराः—
स्वे स्वे गृह्ये यथा प्रोक्तास्तथा संस्कृतयोऽखिलाः ।
कर्त्तव्या भूतिकामेन नान्यथा भूतिमृच्छति ॥
गृह्यकारिकायामपि—
पारम्पर्यगतो येषां वेदः सपरिबृंहण ।
तच्छाखं कर्म कर्त्तव्यन्तच्छाखाध्ययनन्तथा ॥
अधीत्य शाखामात्मीयाम्परशाखान्ततः पठेत् ।
स्वशाखान्तु परित्यज्य शाखारण्डः स उच्यते ॥
परिबृंहणान्यङ्गानि यस्य, या पित्रादिक्रमगता शाखा तच्छाखीयेन कर्मणा संस्कृतः प्रथमन्तां शाखामधीयीत इत्यर्थः ।
तथा च वीरमित्रोदये वसिष्ठः—
यच्छाखीयैस्तु संस्कारैः संस्कृतो ब्राह्मणो भवेत् ।
तच्छाखाध्ययनङ्कार्यमन्यथा पतितो भवेत् ॥
शाखान्तरीयकर्मकरणे दोषमाह वसिष्ठः—
न जातु परशाखोक्तं बुधः कर्म समाचरेत् ।
आचरन्परशाखोक्तं शाखारण्डः स उच्यते ।
यः स्वशाखोक्तमुत्सृज्य परशाखोक्तमाचरेत् ।
अप्रमाणमृषिङ्कृत्वा सोऽन्धे तमसि मज्जति ॥
स्मृत्यन्तरेऽपि—
स्वकर्मपारमुत्सृज्य यदन्यत्कुरुते नरः ।
अज्ञानादथ वा लोभात्स हतः पतितो भवेत् ॥
छन्दोगपरिशिष्टेऽपि—
स्वशाखाश्रयमुत्सृज्य परशाखाश्रयन्तु यः ।
कर्तुमिच्छति दुर्मेधा मोघं तस्य च यत्कृतम् ॥
कात्यायनोऽपि—
बह्वल्पं वा स्वगृह्योक्तं यस्य यावत्प्रकीर्त्तितम् ।
तस्य तावति शास्त्रार्थे कृते सर्वः कृतो भवेत् ॥
स्वशाखानुक्तमप्यविरुद्धं परशाखोक्तं ग्राह्यम् । तथा च कात्यायनः—
यन्नाम्नातं स्वशाखायां परोक्तमविरोधि च ।
विद्वद्भिस्तदनुष्ठेयमग्निहोत्रादिकर्मवत् ॥इति ॥
सूत्रान्तरानुक्तमपि स्मृत्युक्तङ्ग्राह्यम् ।
तत्रादौ स्मृतिकर्तार उच्यन्ते—
मन्वत्रिविष्णुहारीतयाज्ञवल्क्योशनोऽङ्गिराः ।
यमापस्तम्बसंवर्त्ताः कात्यायनबृहस्पती ॥
पराशरव्यासशङ्खलिखिता दक्षगौतमौ ।
शातातपो वसिष्ठश्व धर्मशास्त्रप्रवर्त्तकाः ॥
बुधदेवलसोमाग्निप्रजापतिविश्वामित्रपैठीनसिपितामहबौधायनछागलेयजाबालिच्यवनमरीचि-शाट्यायकाश्यपप्रचेतः सुमन्तुजातूकर्णनारदाः। चकारादेतेषां ग्रहणम् । केवलसूत्रोक्तकर्मकरणे दोषमाह पाकयज्ञप्रदीपे
देवीपुराणे वचनम्—
अन्यथा ये प्रकुर्वन्ति सूत्रमाश्रित्य केवलम् ।
निराशास्तस्य गच्छन्ति सर्वे देवा न संशयः ॥
अथ पौरुषा आचार्याःकथ्यन्ते । कर्काचार्यवासुदेव हरिहरमिश्ररेणुदीक्षितपरशुरामढौंदु मिश्र-वैजनाथमिश्रगंगाघरभर्तृयज्ञश्रीअनंतदेवयाज्ञिकमुरारिमिश्रगदाधरदीक्षितगर्गोपाध्यायजयरामादयो बहवःसन्ति । तन्मध्ये कर्काचार्यहरिहरवासुदेवदेवयाज्ञिकरेणुदीक्षितानां मतं मुनिमतमिव शिष्टैराद्रियते । अत एवास्माभिर्मूलभूतं यत्र मुनिवाक्यं लभ्यते तत्र तदेव लिखितम् । यत्र पुनर्मूलभूतं मुनिवाक्यं न लभ्यते तत्रैतानि कर्कादिवाक्यान्येव शिष्टसंमतत्वाल्लिख्यते, मुनिवाक्येभ्य उत्पन्नत्वात् । उक्तञ्च—
आर्षेयं पौरुषं वाऽपि शास्त्रं द्राक् सिद्धिमाश्रयेत् ।
यथोत्तमाज्जघन्याद्वा प्राप्तं रत्नं हि तद्भवेत् ॥ इति ।
समयभेदेन बहून्यपि शास्त्राण्युच्छिन्नानि भविष्यन्ति, विशेषतो विन्ध्योत्तरभागे, तथाच जगन्मोहने—
शते न्यूने सहस्राणां चतुष्कन्तु कलौ युगे ।
विन्ध्यस्योत्तरभागे स्यान्मूलागमपरिक्षयः ॥
कलियुगस्यैकशतोनितानि चतुःसहस्त्रमितानि ३९०० वर्षाणि यदा व्यतीतानि भविष्यन्ति तदा विन्ध्योत्तरे मूलागमाभावः, किन्तु पौरुषा एव ग्रन्थाः प्रवर्तिष्यन्ते । तथा च व्यासः—
सम्प्राप्ते तु कलौकाले विन्ध्याद्रेरुत्तरे स्थिताः ।
ब्राह्मणा यज्ञरहिता ज्योतिः शास्त्रपराङ्मुखाः॥
धर्मशास्त्रे—
विन्ध्यस्य दक्षिणे भागे यत्र गोदावरी स्थिता ।
तत्र वेदाश्चयज्ञाश्चभविष्यन्ति कलौ युगे ।
तथैवात्रिः—
विन्ध्यस्योत्तरभागे तु सम्माप्ते तु कलौ युगे ।
सिद्धान्तानां परिज्ञानं न कस्यापि भविष्यति ॥
चतुःशतींसप्तशतीं श्रीगीतास्तुतिमेव च ।
वेदत्वेन गृहीष्यन्ति स्मार्त्तकर्मविवर्ज्जिताः ॥
अथ चतुर्णां वेदानां पृथक् पृथक् किञ्चिच्छाखाभेद उच्यते । यथा अत्र किलाविच्छिन्नपारम्पर्येणेयं कथा स्मर्यते । मेरुपृष्ठे सकलेषु मुनिगणेषु निविष्टेषु श्रेष्ठः कश्चिन्मुनिस्तान् प्रत्यगमत् । ततस्तं मुनिशार्दूलमालोक्यासनपाद्यादिपूजाविधिं विधायेदमूचुः । तदुक्तम्—
मेरुपृष्ठे सुखासीनाः सकला ऋषयः पुरा ।
तदन्तरे समायातो मुनिः कश्चिद्विजोत्तमः ॥
कुतो ह्यागमनं स्वामिंस्तमूचुः श्रूयतां द्विजाः ! ।
रुद्रलोकात्समायात का कथा तत्र वर्त्तते ॥
श्रीरुद्रेणैव महता स्कन्दाय प्रतिबोधितम् ।
शाखाभेदं मया तस्मात्तद्विज्ञातं महर्षयः ।!
स्वामिन्नः कथयस्वेति शृणुध्वं स्वस्थमानसाः ॥इति ।
ततस्तेन श्रीरुद्रस्कन्दसंवादो मुनीन् प्रत्याह । शिव उवाच—
कदाचिद्विश्वकर्त्ताऽसौ तपसि स्कन्द ! संस्थितः ।
ध्यानस्थितं निरीङ्यैनं शङ्खोदुष्टमनाः खलः ॥
जहार वेदशास्त्राणि पुराणानि च षण्मुख ! ।
प्रविवेश समुद्रं स ब्रह्मणा नेक्षितस्तदा ॥
गतेषु वेदशास्त्रेषु पुराणेषु गतेष्वपि ।
श्रौतस्मार्त्तक्रियाः सर्वा आसल्ँलुप्ता जगत्रये ॥
त्यक्त्वा ध्यानं पुरो नैक्षत्पुस्तकानि प्रजापतिः ।
शङ्खस्य चरितं बुध्वा ययौ विष्णुं निवेदितुम् ॥
क्षीराब्धौ शयितं ज्ञात्वा विष्णुं ब्रह्मा शिवं ययौ ॥
सुखासीनं शिवं दृष्ट्वा प्रणम्य कमलासनः ॥
उवाच दनिवचनं लोकानां हितकाम्यया ।
** ब्रह्मोवाच**
शङ्खेन वेदशास्त्राणि पुराणानि च शङ्कर ! ॥
नीतानि ध्यायतो मोहात्सायं मम जगत्पते ! ।
मम चैवाथ देवानामृषीणां कर्मलोपनम् ॥
श्रौतस्मार्त्तक्रियागुप्तिः कृता दुःखस्य कारणम् ।
उपायं वद मे किञ्चिच्छ्रौतस्मार्त्तक्रियावहम् ॥
शिव उवाच
ब्रह्माणमवदच्छम्भुः श्रुत्वा तद्वचनं पुरा ।
ब्रह्मन् ! शङ्कं स निद्रान्ते विष्वक्सेनो हनिष्यति ॥
तदनन्तरं कतिपयदिनैः श्रीकृष्णः शङ्खासुरं हत्वा वेदानानयि ब्रह्मणे ददौ । वराहपुराणे—
दैत्यं विदार्य तान्वेदान् ब्रह्मणे स ददौ हरिः । इति ।
ब्रह्मणः सकाशात्परम्परया पृथिव्यां प्राप्तः स तु केनापि ज्ञातुमशक्यो गाथारूपत्वात् । तत्पृथकरणार्थं भगवान्परमकृपाविष्टःसन् व्यासावतारगृहीतवान् ।उक्तञ्च—
मत्स्यः१ कूर्मो २ वराहो ३ नृहरि ४ लघुतनू ५ भार्गवो ६ रामचन्द्रः ७ कृष्णो ८ बौद्धो ९ ऽथ कल्की १० कपिल ११ हयमुखौ १२ नारदो १३ हंस १४ यज्ञौ १५ ॥दत्तात्रेयो १६ विराण्नऽ१७ ऋषभ १८ मुनिचयौ२० व्यास २१ वेन्यौ २२ धुवश्च २३ स्वायम्भूः २४ पापशान्त्यै युगपतिगदिता विष्णुतत्त्वावताराः ॥१॥
उक्तश्च द्वादश स्कन्धे—
अस्मिन्मन्वन्तरे ब्रह्मन्भगवाल्ँलोकभावनः ।
ब्रह्मेशाद्यैर्लोकपालैर्याचितो धर्मगुप्तये ॥
पराशरात्सत्यवत्यामंशांशकलया विभुः।
अवतीर्णो महाभाग ! वेदञ्चक्रे चतुर्विधम् ॥
ऋगथर्वयजुःसाम्नां राशिमुद्धृत्य सर्वशः ।
चतस्रः संहिताश्चक्रे सूत्रैर्मणिगणा इव ॥
तासां स चतुरः शिष्यानुपहूय महामतिः ।
एकैकां सहितां ब्रह्मन्नेकैकस्मै ददौ विभुः ॥
पैलाय संहितामाद्यां बह्वृचाख्यामुवाच ह ।
वैशंपायनाशिष्याय निगदाख्यं यजुर्गणम् ॥
साम्नां जैमिनये प्राह तथा च्छन्दोगसंहिताम् ।
अथर्वाङ्गिरसे प्राह स्वशिष्याय सुमन्तवे ॥
तैश्च शिष्यप्रशिष्यादिद्वारा शाखाःप्रवर्तिताः । इति ।
तत्र ऋग्वेदस्य पञ्चशाखा भवन्ति— आश्वलायनाः२ सांख्यायनाः२ शाकलाः३ वाष्कलाः४ माण्डुकाश्चेति ५ । तेषामध्ययनम्—
अध्यायाश्च चतुःषष्ठिर्मण्डलानि दशैव तु ।
वर्गाणाम्परिसंख्यातं द्वे सहस्रे पडुत्तरे ।
सहस्रमेकं सूक्तानां निर्विशङ्कं विकल्पितम् ॥इति ।
अथ यजुर्वेदस्य शाखाभेदो विधीयते । स द्विविधः कृष्णः शुक्लश्च। तत्र तैत्तिरीयादिभिः पठ्यमानो यजुर्वेदः कृष्णः, तदुक्तं वेदभाष्ये सायनाचार्यैःश्रीपादैः—
कृपालुः सायनाचार्यो वेदार्थं व्याकरोत् खलु ।
ऋग्यजुःसामवेदा ये ख्यातास्तेषु च यद्यजुः ॥
कृष्णं शुक्लमिति द्वेधा तत्कृष्णं तैत्तिरीयकम् ॥इति ।
प्रसङ्गतोऽत्र तैत्तिरीयशाखोत्पत्तिप्रकारमाह विष्णुपुराणे तृतीयेंऽशे,
पराशर उवाच—
यजुर्वेदतरोःशाखा आसन्नेकोत्तरं शतम् ॥
एकोनषष्ठिशाखाश्च कठादय उदीरिताः ॥
सप्तविंशतिशाखा ततः कृष्णाह्वयाः स्मृताः ।
वैशंपायननामाऽसौ व्यासशिष्यश्चकार सः ॥
शिष्येभ्यःप्रददौ ताश्च जगृहुस्तेऽप्यनुक्रमात् ।
भाविवृत्तान्तमाज्ञाय व्यासः सत्यवतीसुतः ॥
दशपञ्चाथ याः शाखाःसूर्य्यायोपदिदेश ह ।
वैशम्पायनशिष्यस्तु याज्ञवल्क्यः प्रकृष्टधीः ॥
ब्रह्मरातसुतो ब्रह्मन् ! गुरुवृत्तिरतोऽभवत् ।
ऋषीणां यो महामेरौ समाजे नागमिष्यति ॥
तस्य वै सप्तरात्रात्तु ब्रह्महत्या भविष्यति ।
पूर्वमेवं मुनिगणैः समयोऽभूत्कृतो द्विजैः ॥
वैशंपायन एकस्तु तं व्यतिक्रान्तवाँस्तदा ।
स्वस्त्रीयं बालकं सोऽथ पदात्यर्थमघातयत् ॥
शिष्यानाह च भोः शिष्याः ! ब्रह्महत्यापहं व्रतम् ।
चरध्वं मत्कृते सर्वे न विचार्य्यमिदं तथा ॥
अथाह याज्ञवल्क्यस्तु किमेभिर्भगवन् ! द्विजैः ।
क्लेशितैरल्पतेजोभिश्चरिष्येऽहमिदं व्रतम् ॥
ततः क्रुद्धो गुरुः प्राह याज्ञवल्क्यं महामतिम् ।
मुच्यतां यत्त्वयाऽधीतं मत्तो विप्रावमन्यक ! ॥
निस्तेजसो वदस्येतान् यस्त्वं ब्राह्मणपुङ्गवान् ।
तेन शिष्येण नार्थोऽस्ति समाज्ञाभङ्गकारिणा ॥
याज्ञवल्क्यस्ततः प्राह भक्त्यैतत्ते मयोदितम् ।
ममाप्यलं त्वयाऽधीतं जन्म यातमिदं द्विज ! ॥
पराशर उवाच—
इत्युक्त्वा रुधिराक्तानि सरूपाणि यजूंषिसः ।
छर्दयित्वा ददौ तस्मै प्रययौ स्वेच्छया मुनिः ।
यजूंष्यथ विसृष्टानि याज्ञवल्क्येन वै द्विजाः ।
जगृहुस्तित्तिरीभूत्वा तैत्तिरीयास्तु ते ततः ॥
ब्रह्महत्याव्रतं चीर्णं गुरुणाऽऽदेशितैस्तु यैः ।
चरकाध्वर्यवस्ते तु चरणान्मुनिसत्तम ! ॥
व्यवस्थितप्रकरणं यजुः कृष्णमितीर्यते । इति ॥
अथास्य षडशीतिर्भेदा भवन्ति । तत्र चरका नाम द्वादशभेदा भवन्ति । चरकाः१ आहूरकाः२ कठाः३ प्राच्यकठाः ४ कपिष्ठकठाः ५ चारायणीयाः ६ वार्त्तान्तवेयाः ७ श्वेताः ८ श्वेततराः९ औपमन्यवः १० पान्ताजिनीयाः ११ मैत्रायणीया १२ श्चेति । तत्र मैत्रायणीया नाम सप्तभेदा भवन्ति । मानवाः ? दुन्दुभाः२ चैकेयाः३ वाराहाः ४ हारि द्रवेयाः ५ श्यामाः ६ श्यामायणीयाश्चेति ९ । तैत्तिरीयानामपि द्विभेदा भवन्ति । औख्यायाः १ खण्डिकेयाश्च २ इति । खाण्डिकेया नाम पञ्च भेदा भवन्ति । आपस्तम्बी १ बौधायनी २ सत्याशाढी ३ हिरण्यकेशी ४ औधेयाश्च ५ इति । तेषामध्ययनं अष्टशतं यजुः सहस्राण्यधीत्य शाखापारो भवति । तान्येव द्विगुणान्यधीत्य पदपारो भवति । तान्येव त्रिगुणान्यधीत्य क्रमपारो भवति । तेषां मध्ये कतिपयभेदा उच्छिन्ना जाताः । वमनानन्तरं याज्ञवल्क्यःकिङ्कृतवानित्याह, विष्णुपुराणे तृतीयेंऽशे पञ्चमाध्याये—
याज्ञवल्क्योऽथ मैत्रेयः प्राणायामपरायणः ।
तुष्टाव प्रयतः सूर्यंयजूंष्यभिलषेस्तथा ॥
याज्ञवल्क्य उवाच—
नमः सवित्रे द्वाराय विमुक्तेस्तिग्मतेजसे ।
ऋग्यजुःसामभूताय त्रयीधाम्ने च ते नमः ।
नमोऽग्निसोमभूताय जगतः कारणात्मने ।
भास्कराय परं तेजः सौषुम्णमुरु बिभ्रते ॥
कलाकाष्ठानिमेषादिकालज्ञानात्मने नमः ।
ध्येयाय विष्णुरूपाय परमाक्षररूपिणे ॥
विभर्ति यःसुरगणानाप्यायेन्दुः स्वरश्मिभिः ।
स्वधामृतेन च पितृृंस्तस्मै तृष्णात्मने नमः ॥
हिमाम्बुघर्मवृष्टीनां कर्त्ता हर्त्ता च यः प्रभुः ।
तस्मै त्रिकालरूपाय नमः सूर्य्याय वेधसे ॥
अवहंति तमो यस्य जगतोऽस्य जगत्पतिः ।
सत्त्वधामधरो देवो नमस्तस्मै विवस्वते ॥
सत्कर्मयोग्यो न जनो नैवापः शौचकारणम् ।
यस्मिन्ननुदिते तस्मै नमो देवाय भास्वते ॥
स्पृष्टो यदंशुभिर्लोकः क्रियायोग्योऽभिजायते ।
पवित्रकारिणे तुभ्यं नमः शुद्धात्मने नमः ॥
नमः सवित्रे सूर्य्याय भास्कराय विवस्वते ।
आदित्यायादिभूताय देवादीनां नमो नमः ॥
हिरण्मयं रथं यस्य केतवोऽमृतवाजिनः ।
वहन्ति भुवनं लोकचक्षुषं त्वां नमाम्यहम् ॥
श्रीपराशर उवाच—
इत्येवमादिभिस्तेन स्तूयमानः स्तवै रविः ।
वाजिरूपधरः प्राह व्रियतामिति वाञ्छितम् ॥
याज्ञवल्क्यस्ततः प्राह प्रणिपत्य दिवाकरम् ।
यजूंषि तानि मे देहि यानि सन्ति न मे गुरौ ॥
एवमुक्तो ददौ तस्मै यजूंषि भगवात्रविः ।
अयातयामच्छन्दांसि यानि वेत्तिन तद्गुरुः ॥
याज्ञवल्क्यस्ततो ब्रह्मन्स्वशिष्येभ्य उवाच ह ।
यजूँषि परिधीतानि तानि विप्रैर्द्विजोत्तम ! ॥
वाजिनस्ते समाख्याताः सूर्य्यस्त्क्श्वोऽभवद्यतः ।
शाखाभेदस्तु तेषां वै दश पञ्च च वाजिनाम् ॥
कण्वाद्यास्तु महाभाग ! याज्ञवल्क्यप्रकीर्त्तिताः ।
तासां मध्ये काण्वशाखा विशिष्टा प्रथमा यतः ॥
अतः प्रथमशाखेति यजुषामुत्तमा स्मृता ।
इति श्रीविष्णुपुराणे तृतीयेंऽशे पञ्चमोऽध्यायः ।
श्रीभागवतेऽपि—
याज्ञवल्क्यस्ततः सूर्य्यमाराध्यास्मादधीतवान् ।
व्यवस्थितप्रकरणं यजुः कृष्णमितीर्य्यते ॥
पौराणिकीं कथामेतां वेदव्याख्यान आदरात् ।
आदिशन्मह्यमाचार्याःश्रुतावपि मया श्रुतम् ॥
काण्ववेदगता विद्या वंशब्राह्मण ईर्यते ।
यजूंषि शुक्लान्यादित्यान्मुनिः प्रापेत्यपि स्फुटम् ॥
तथा च श्रुतिः**“आदित्यानीमानि शुक्लानि यजूषि व्वाजसनेयेन याज्ञवल्क्येनाख्यायन्ते”।** आदित्येनाध्यापितत्वादादित्यान्युच्यन्ते ।वाज इत्यन्नस्य नामधेयम् “अन्नं वै वाजः” इति श्रुतेः । वाजस्य
सनिर्द्दानंयस्य महर्षेरस्ति सोऽयं वाजसनिस्तस्य पुत्रो वाजसनेयस्तस्य याज्ञवल्क्य इति नामधेयम्, तेन याज्ञवल्क्येन तानि शुक्लयजूँषि महर्षिभ्यः पञ्चदशम्य आख्यायन्ते समन्तादुपदिश्यन्ते । एवंसति याज्ञवल्क्येन प्रवर्त्तिताः शुक्लयजुर्विषयाःशाखाःपञ्चदश सम्पद्यन्ते । तच्छाखाध्यायिनश्चरण-व्यूहादिग्रन्थे जाबालादिभिः पञ्चदशभिर्नामभिरित्थं व्यवह्नियन्ते–जाबालाः १ गौधेयाः२ काण्वाः३ माध्यन्दिनीयाः ४ श्यापीयाः५ स्थापीयाः ६ कपोलाः७ पौण्ड्रवत्साः८ आवटिकाः२ परमावटिकाः१० पाराशर्य्याः११ वैर्णयाः१२ बौधेयाः१३ वैजपाः १४ कात्यायनीयाश्च १५ इति पञ्चदश नामानि । तत्र काण्वाभिधेन महर्षिणा लब्धो यजुर्वेदशाखाविशेषः काण्वः । तल्लाभश्च स्मर्यते—
युगान्तेऽन्तर्हितान्वेदान्सेतिहासान्महर्षयः
लेभिरे तपसा पूर्वमनुज्ञाताः स्वयंभुवा ॥इति ॥
यद्यप्ययं वेदः परमेष्ठ्यादिभिः परम्परया प्राप्त आदित्यशिष्येण याज्ञवल्क्येन बहुभ्यः शिष्येभ्य उपदिष्टस्तथापि महता तपसा तुष्टस्येश्वरस्यानुग्रहात् काण्वसम्बन्धितयैव लोके प्रख्यायते । तमेतं काण्ववेदमधीयते विदन्ति वा इति व्युत्पत्त्या काण्वशिष्यप्राशेष्यादिपरम्परया वर्तमानाःसर्वेऽपि काण्वा इत्युच्यन्ते । एवं ज्ञात्वा जाबालादिषु द्रष्टव्यम् । यद्यप्यनयोः शाखयोरुभयोराध्वर्य्यव एव प्रयोगः प्रतिपाद्यते, तथापि मन्त्रपाठविशेषैः प्रयोगविशेषैर्वाऽस्ति महान्भेदः, स चानुष्ठातृभेदेन व्यवस्थितवि
षयत्वान्न विकल्पते । अत एव “स्वाध्यायोऽध्येतव्य” इति स्वकीयशाखाऽध्ययनमनुष्ठानविशेषाय विहितम् । ननु किं काण्वमाध्यन्दिनादिभिः पठ्यमानो मुख्यो यजुर्वेद उत शाखामात्रमिति ? उभयथा वचनदर्शनात्सन्देहः । तथा हि तैत्तिरीयब्राह्मणे—
** “भारद्वाजो ह त्रिभिरायुभिर्ब्रह्मचर्यमुवास, त<MISSING_FIG href=”../books_images/U-IMG-1697261767Capture.PNG”/>ह जीर्णँस्थविरँशयानमिन्द्र उपव्रज्योवाच–भारद्वाज ! यत्ते चतुर्थमायुर्दद्याम्, किमनेन कुर्य्यादिति । ब्रह्मचर्यमेवैनेन चरेयमिति होवाच । त<MISSING_FIG href=”../books_images/U-IMG-1697261767Capture.PNG”/>हत्रीन् गिरिरूपानविज्ञातानिव दर्शयाञ्चकार ॥तेषाँहैकैकस्मान्मुष्टिनाददे स होवाच भरद्वाजेत्यामन्त्र्य वेदा वा एते अनन्ता वै वेदाः । एतद्वा एतैस्त्रिभिरायुर्भिरन्ववोचथाः । अथान्तरतरदाननूक्तमेव एहीमं विद्धि । अयं वै सर्वविद्येति ॥” सर्वासां** शाखानां वेदशब्दाभिधानात् । स्कन्दपुराणे तु—
अवतीर्णो महायोगी सत्यवत्यां पराशरात् ॥
उत्सन्नान्भगवान्वेदानुज्जहार हरिः स्वयम् ।
चतुर्द्धा व्यभजत्तांश्चचतुर्विंशतिधा पुनः ॥
शतधाचैकधाचैव तथैव च सहस्रधा ।
अथर्वणं द्वादशधा भित्वाशाखा अवाक्लृपत् ॥
इति सामान्यतः शाखा शब्दश्रवणात् । तत्र पूर्वः पक्षः । द्वापरादौ वेदव्यासेन स्वशिष्येभ्यश्चतुर्भ्यो य उपदिष्टास्त एव मुख्या वेदाः । तैर्व्यासशिष्यैर्विभज्य स्वशिष्येभ्यो दत्ताः शाखा इति । तथा चापस्तम्बादिवेदानामेवोपदेशात् त एव मुख्या वेदाः ।काण्वादयस्तु तदनन्तरभाबित्वादमुख्या इति द्वादश स्कन्धोक्तत्वात् ।
भाविवृत्तान्तमाज्ञाय व्यासः सत्यवतीसुतः ।
दश पञ्चाथ याःशाखाःसूर्य्यायोपदिदेश ह ॥
इति विष्णुपुराणोक्तत्वात् काण्वादीनामपि पूर्वभावित्वम् । एवमुभयत्रापि मुख्यत्वे प्राप्ते पुनरपि सन्देहः ।तन्निर्णयश्चरणव्यूहे शौनकेन दर्शितः ।
मन्त्रब्राह्मणयोर्वेदस्त्रिगुणं यत्र पठ्यते ।
यजुर्वेदः स विज्ञेयो ह्यन्ये शाखान्तराः स्मृताः ॥
इति कात्यायनपरिशिष्टप्रमाणेन शुक्लयजुष्ट्वेनायातयामत्वेन च काण्वादयो मुख्या इतरे त्वमुख्या इति ।
परिशिष्टवचनमितरत्रापि समानमिति चेत् । न । इतरत्र वचनार्थाऽसम्भवात् । तथा हि ” मन्त्र ब्राह्मणयोर्वेदनामधेयम्" इत्युक्त्वा यजुर्वेदे विशेषमाह–‘त्रिगुणं पठ्यते यत्र स यजुर्वेद ’ इति । तत्र त्रिगुणमिति पदं क्रियाविशेषणं वा, मन्त्रब्राह्मणयोरिति समस्तस्यापि पदस्य बुद्ध्या विविक्तस्य ब्राह्मणपदस्य नपुंसकलिङ्गस्य विशेषणं वा, अन्यद्वा ? अत्र प्रथमे पक्षे मन्त्रब्राह्मणात्मको यो वेदः स यत्र शाखायां त्रिगुणं यथा स्यात्तथा पठ्यतेस मुख्यो यजुर्वेद इत्यर्थः सम्भवति । तत्र त्रैगुण्यं किं ( १ )8 विध्यर्थवादरूपेण वा, आहोस्वित्संहितापदक्रमरूपेण वा ? नाद्यः ।शाखामात्रस्य ब्राह्मणस्य विध्यर्थवादमन्त्ररूपत्वेनातिव्याप्तेः । द्वितीयस्तु काण्वादेरेव सम्भवति, तेषाम्मन्त्र ब्राह्मणात्मकस्य वेदस्य संहितादित्रिगुणपाठसत्त्वात् । ननु शतपथब्राह्मणस्य पदक्रमपाठाभावान्मन्त्रब्राह्मणात्मकवेदस्य त्रिगुणः पाठः काण्वमाध्यन्दिनानां न सम्भवति, सम्भवति चापस्तम्बादीनां तादृशः पाठः । तथा हि तैत्तिरीयप्रथमाष्टके, “सम्पश्यामि प्रजा अहमिडप्रसो मानवी “रित्युपक्रम्य, “संपश्यामि प्रजा अहमित्याह यावन्त एव ग्राम्याः पशवस्तानेवावरुन्धेऽम्भस्थाम्भो वो भक्षीयेत्याहांभो ह्येता महस्थ महो वो भक्षीयेत्याह मह्येताः सहस्थ सहो वो भक्षीयेत्याह सह्येताः” इत्यादौ मन्त्रभागे ब्राह्मणस्य दर्शनात् । हन्त तर्हि काण्वमाध्यन्दिनादीनां संहितायाम् “व्वसन्ताय कपिञ्जलानालभते **ग्रीष्माय कलविंकान्”**इत्यादौ, तथा “ब्राह्मणे ब्राह्मणम् क्षत्राय राजन्य” मित्यादेशश्चब्राह्मणभागस्य सत्त्वमेव हि । अथ तर्हि उभयेषामपि लक्षणसत्त्वान्मुख्यवेदत्वम्, अन्येषां शाखान्तरत्वमस्तीति चेन्न ।वैलक्षण्यात् ।तथा हि काण्वादीनां संहिता
ऽन्तःपाति ब्राह्मणमित्यत्र महर्षिणा कात्यायनेनानुक्रणिकाऽध्यायेषु ‘अश्वस्तूपरो ब्राह्मणोऽध्यायो ब्रह्मणे ब्राह्मणमिति ब्राह्मणोऽध्यायः’इत्युक्तत्वाद्भवति ब्राह्मणभागत्वम्। आपस्तम्बादीनामनु-क्रमणिकादिप्रमाणाभावात्संहितान्तःपातिमन्त्रव्याख्यानरूपस्य ब्राह्मणत्वे प्रमाणाभावात्। अन्यथा ब्राह्मणान्तःपातिनो मन्त्रभागस्यापि संहितात्वापत्तेः। किञ्च व्याख्यानमात्रत्वेन ब्राह्मणत्वे “केसीन्द्रं ज्योतिरुच्यते” इत्यादेः“सूर्य्य एकाकी चरति” इत्यादेश्चसंहिताभागस्यापि व्याख्यानत्वेन ब्राह्मणत्वं स्यात् । अपि च मीमांसायां द्वितीयाऽध्याये तच्चोदकेषु मन्त्रात्यधिकरणेवेदो द्वेधा मन्त्रो ब्राह्मणमिति । तत्र मन्त्रानघतिमन्त्रानध्यापयाम इति यत्र वैदिकानां मन्त्रे प्रसिद्धिः स इन्द्रदेवताप्रकाशनसमर्थः संहिताभागो मन्त्र इत्युक्त्वा शेषे ब्राह्मणशब्द इति अवशिष्टभागस्यैव ब्राह्मणत्वमिति जैमिनिरप्यवोचत् । तस्मा " द्यावद्वचनं वाचनिकमि " तिन्यायेन वाजसनेयिनां काण्वादीनामेवेदं लक्षणं नान्येषामिति सिद्धम् । नद्वितीयः।
त्रिगुणशब्दस्य सन्निहितवेदशब्देनान्वये सम्भवति समस्तंब्राह्मणपदंविविच्य तेनान्वयकथने व्यवहितान्वयत्वदोषप्रसङ्गात् क्लिष्टकल्पनाच्च । भवतु वा व्यवहितान्वयः, ब्राह्मणस्य किं
त्रिगुणत्वं संहितापेक्षया, ग्रन्थतो वा, किं वा आदौ मन्त्रप्रतीकतो गृहीत्वा तस्य व्याख्यानं कृत्वा पश्चान्मन्त्रप्रतीकस्योपसंहार इति, तथा च ब्राह्मणे **“आब्रह्मन्ब्राह्मणो ब्रह्मवर्चसी जायतामित्याह ब्राह्मणएव ब्रह्मवर्चसं दधाति तस्मात्पुरा ब्राह्मणो ब्रह्मवर्चस्व्यजायत”**इत्यादौ तथात्वदर्शनादिति । अत्रापि प्रथमपक्षस्तु काण्वादीनामेव सम्भवति नापस्तम्बादीनाम्, शतपथब्राह्मणस्य संहितापेक्षया ग्रन्थतस्त्रिगुणत्वोपलब्धेः । आपस्तम्बादीनां संहितायां ब्राह्मणस्य च ग्रन्थतः साम्यात् । अत्रापि किं मंत्रव्याख्यानत्वेन त्रिगुणः पाठः, किंवा मंत्रैकदेशव्याख्यानत्वेन । एवमपि प्रथमः पक्षः काण्वादीनामेव सम्भवति, तेषां शतपथब्राह्मणे मन्त्रमात्रस्य व्याख्यानात् । आपस्तम्बादिब्राह्मणस्य ग्रन्थतो
मन्त्रसमानत्वेन मन्त्रमात्रव्याख्यानासंभवात् । नान्त्यः, शाखान्तरेष्वपि ब्राह्मणस्य मन्त्रैकदेशव्याख्यानत्वेनातिव्याप्तेः । मन्त्रैकदेशव्याख्यानन्तु मैत्रायणीयादिशाखासु प्रसिद्धम् ।अन्यद्वेति तृतीयोऽपि न, तस्यानिर्वचने नवत्वेन विकल्पासहत्वात् । किञ्च “शुक्लानीमानि यजूँषि वाजसनेयेन याज्ञवल्क्येनाख्यायन्ते” इति बृहदारण्यकश्रुतेरिमानि काण्वादीनि शुद्धानि यजूंषि वाजसनेयेन याज्ञवल्क्येन व्याख्यायन्ते स्वशिष्येभ्यः उपदिश्यन्त इति विद्यारण्यश्रीपादैर्व्याख्यातत्वेन,
आध्वर्य्यवं क्वचिद्धौत्रं क्वचिदित्यव्यवस्थया ।
बुद्धिमालिन्यहेतुत्वाद्यजुः कृष्ण मितीर्यते ॥
व्यवस्थितप्रकरणं यजुः शुक्लमितीर्यते ।
इति स्मृत्या च शुक्लयजुष्ट्वविधानेनापि मुख्यत्वात् । अपि च “अयातयामान्येव रवेरेव ये भविष्यन्ती” त्यथर्ववचनेन “यजूंव्या तयामानी “ति भागवतादिवचनेन च काण्वादिशाखाना वीर्यवत्त्वाभिधानाच्च मुख्यवेदत्वमिति सिद्धम् । यदुक्तम्–वेदव्यासेन द्वापरादौ अनुपदिष्टत्वात्काण्वादीनाममुख्यत्वम् इति । तदपि न, सर्वज्ञेन वेदव्यासेन भाविवृत्तान्तं ज्ञात्वा सारभूतं यजुर्गणं सूर्य्यायोपदिश्य निधित्वेन स्थापितत्वात् । तदुक्तं वाराहपुराणे–
हयग्रीवः कदाचित्तु सुरद्वेषी महाबलः ।
सुराणामपकाराय वेदानाहृत्य चौर्यतः ॥
भक्षयित्वा बहून् वेदान्स पातालं समाविशत् ।
दैत्यं विदार्य तान्वेदान्ब्रह्मणे स ददौ हरिः ॥
द्वापरादौ ततो योगी पाराशर्य्योमहातपाः ।
अवतीर्य्याथ तान्वेदान्स्वशिष्येभ्य उवाच ह ॥
भाविवृत्तान्तमाज्ञाय त्रिकालज्ञो मुनिस्तदा ।
यजूंष्ययातयामानि सूर्य्यमध्याप्य निक्षिपत ॥
च्छर्दिवा याज्ञवल्क्योऽथ च्छन्दांस्यथ गवेषयन् ।
गुरोरविद्यमानानि उपतस्थे दिवाकरम् ॥
सूर्यं प्रसाद्य कालेन प्राप तस्माद्यजुर्गणम् ।
शुक्लान्ययातयामानि यजूंषि माध्य भास्वतः ॥
शाखाशुक्ले पञ्चदश कण्वाद्याश्च महामुनिः ॥इति ।
पञ्चदशस्वपि शाखासु काण्वशाखा मुख्या वेदितव्या । तदुक्तम् बृहन्नारदीये—
यजुर्वेदमहाकल्पतरोरेकशतं स्मृताः ।
शाखास्तत्र शिवाकारा दश पञ्चाथ शुक्लगाः ।
तत्रापि मुख्या प्रथमा शाखा वै काण्वसंज्ञिका ॥इति ।
तस्मातिसद्धं यजुषु प्रथमा शाखा मुख्येति । सामवेदस्याखिलसहस्रभेदा भवन्ति अनध्यायेष्वघीयमानास्ते शतक्रतोर्वज्रेणाभिहताः प्रनष्टाः । शेषान्त्रवक्ष्यामि ।आसुरायणीया १वासुरायणीया २ वार्त्तान्तवीया ३ प्राञ्जलिः४ ऋत्वैर्णभिदाः५ प्राचीनयोग्याश्च ६ इति । तत्र राणायनीया नाम नवभेदा भवन्ति । राणायनीयाः १ शाक्यायनीयाः २ सत्यमौद्गलाः ३ खल्वलाः ४ महाखल्बला ५ लाङ्गला ६ कौथुमाः ७ गौतमाः ८ जैमिनीयाश्च ९ इति । तेषामध्ययनमष्टौ सहस्राणि सामानि ।अथर्ववेदस्य नव भेदा भवन्ति । पैप्पलाः १ दान्ताः२ प्रदान्ताः ३ तौन्ताः ४ औन्ताः ५ ब्रह्मदावलाः६ शौनकी ७ देवदर्शी ८ चरण विद्याश्च ९ इति । तेषामध्ययनम् पञ्चकल्पानि भवन्ति । नक्षत्रकल्पो १ विधानकल्पो २ विविधानकल्पः ३ संहिताकल्पः४ शान्तिकल्पश्च५ इति । ऋग्वेदस्यायुर्वेद उपवेदो यजुर्वेदस्य धनुर्वेद उपवेदः सामवेदस्य गान्धर्ववेद उपवेद अथर्ववेदस्यार्थशास्त्राणि । एवंसति यच्छाखोक्तं कर्म सम्प्राप्तं तत्र तच्छाखोक्ताशीर्ग्रहणमादौ भवति । सङ्ग्रहे—
सर्वत्र कर्मणामन्ते मन्त्राशिषमनुत्तमाम् ।
दद्युर्विप्राः स्वशाखोक्तामादौ तत्कर्मशाखिनः ॥ इति ॥
तत्र ऋग्वेदस्य ततः काण्वादेःतत आपस्तम्बादेः ततः सामगादेः, इति क्रमो भवति मुख्यक्रमानुग्रहादिति । वेदेषु यजुर्वेदः प्रधानभूतः
अन्ये उपसर्ज्जनभूताः, “सर्वा गतिर्याजुषांहैव शश्वत् ।तस्य यजुरेव शिर ऋग्दक्षिणः पक्षः सामोत्तरः पक्ष इति । ऋग्भ्यो जातं वैश्यवर्णं यजुर्वेदं क्षत्रियस्याहुर्योनिं सामवेदं ब्राह्मणानां प्रसूतिम् । तथा असृक्षि वा इममि “त्युपक्रम्य यजुर्वेदसामवेदर्ग्वेदोत्पत्तिक्रमस्योक्तत्वात् । आपस्तम्बशाखायाम् प्राधान्यं कर्मोत्पादकत्वेन ।कर्म त्वग्निहोत्रचातुर्मास्यज्योतिष्टोमादि । तेन च प्राधान्यकर्मणि विहिते तदुपकारित्वेन हौत्रांद्वात्रपूरकत्वेन तयोः प्रवेशः, सति राज्ञि सचिवादेरिव ।
अथाधिकारी निरूप्यते । एतच्च त्रैवर्णिकैरेवाध्येतव्यम् न तु शूद्रैः । तथा च भास्करः—
तस्माद्द्विजैर ध्ययनीयमेतत्पुण्यं रहस्यं परमञ्च तत्त्वम् । इति ।
शूद्राणामध्यापने दोषमाह गर्गः—
स्नेहाल्लोभाच्च मोहाच्च यो विप्रो ज्ञानतोऽपि वा ।
शुद्राणामुपदेशन्तु दद्यात्स नरकं व्रजेत् ॥
एतच्च सुपरीक्षितेभ्यो देयम् न तु शुद्रेभ्य इत्याह शाकल्यसंहितायाम्—
न देयं यस्य कस्यापि रहस्यं शास्त्रमुत्तमम् ।
एतद्देयं सुशिष्याय मुने ! वत्सरवासिने ॥
ज्योतिषे—
नैतद्देयं दुर्विनीताय जातु ज्ञानं गुप्तं तद्धि सम्यक् फलाय ।
अस्थाने हि स्थाप्यमानैव वाचां देवी कोपान्निर्दहेनो चिराय ॥
श्रुतावपि—
‘विद्या ह वै ब्राह्मणमाजयाम गोपाय मां शेवधिस्तेऽहमस्मि ।
असूयकायानृताय न मां ब्रूयादवीर्यवती तथा स्याम्” इति ।
नन्वस्मिन्मन्थे वाहुल्यमेव दूषणमिति चेन्न । यतो ग्रन्थसंक्षेपे अन्यग्रन्थापेक्षया विचारसंशयश्च भवति, ग्रन्थविस्तारे संशयापेक्षयोरभावो भव ति, तस्माद्ग्रन्थविस्तारो न दोषाय इति ज्ञेयम् ।
उक्तञ्च—
संक्षेपे संशयापेक्षे श्रोतुःस्यातामसंशयः ।
वरीयान् विस्तरस्तस्मादपेक्षा संशयापहः ॥
इत्यलमतिप्रसङ्गेन । प्रकृतमनुसरामः । “अथातोऽधिकारः” इत्यादिना श्रौतानि कर्माण्युक्तानि तदनन्तरं स्मार्त्तानि विधीयन्ते । तत्रैतस्प्रथमं सूत्रम् “अथातो गृह्यस्थाली पाकानां कर्म” । उच्यते इति सूत्रशेषः। ग्रन्थादौ मङ्गलबोधकोऽथशब्दः । यद्वा अथशब्द आनन्तर्यवाची । श्रौतकर्मविधानानन्तरं स्मार्त्तकर्माण्याभिधेयानि ।अतःशब्दो हेत्वर्थः । यतः श्रौतान्युक्तानि स्मार्त्तान्येवावशिष्यन्ते अतस्तान्युच्यन्ते । ननु पूर्वं गर्भाधानादीनामनुष्ठानं पश्चाच्छौतानामिति, अतोऽनुष्ठानक्रमेण स्मार्त्तान्येव पूर्वमभिधेयानि पश्चाच्छौतानि ।सत्यमुच्यते । श्रौतेषु हि प्रत्यक्षाः श्रुतयःस्मार्तेषु च पुनः कर्तृसामान्यादनुमेयाः श्रुतयः ।तस्मात्प्रत्यक्षश्रुतित्त्वाच्छौतानामेव पूर्वमभिधानम् पश्चारमार्तानामिति । किञ्च स्मृत्वा स्मृत्वा कर्म क्रियते इति स्मार्त्तम् तच्च स्मरणम् श्रौतानामेव तद्विना स्मरणाऽनुपपत्तेः। गृह्यः शालाग्निस्तत्र ये स्थालीपाकास्ते गृह्यस्थालीपाकास्तेषां कर्म क्रियानुष्ठानमिति यावत् । कारिकायाम्—
आधाने चावसध्ये च अग्निहोत्रे गृहाश्रमे ।
दायाद्यवित्तभागे च गृह्यशब्दो भवेदिति ॥
गृहाय हितं गृह्यम् ।गृह्यशब्दो दम्पत्योरिति वर्त्तते तस्मिन्नित्यावसथ्ये । अतश्च यत्किञ्चिद्दम्पत्योर्हितं कर्म शान्तिकं पौष्टिकं व्रताङ्ग्रहोमादिकं स्मार्त्तम्, तत्सर्वमावसथ्येऽग्नौभवति । अत एवाह कात्यायनः—
न स्वेऽग्नावन्यहोमःस्यान्मुक्त्वैकां समिदाहुतिम् ।
स्वगर्भत्क्रियार्थांश्च यावन्नासौ प्रजायते ॥
अग्निस्तु नामधेयादौ होमे सर्वत्र लौकिकः ।
न हि पित्रा समानीतः पुत्रस्य भवति क्वचित् ॥
अतः**“सीमन्तोन्नयनमपि स्मार्त्ताग्नावेव कार्यम्”** इति देव-
भाष्ये परिभाषायाम् ।उत्पत्यनन्तरं तत्संस्कारकं सर्वमन्नप्राशनादिहवनं लौकिकाग्नावेव कर्त्तव्यम् । किमावसथ्याधानादिषु वक्ष्यमाणेषु सर्वकर्मसु अध्वर्योः कर्तृत्वमुत यजमानस्य इति ? “अध्वर्युः कर्मसु वेदयोगात्” इति परिभाषणात् “पूर्णपात्रो दक्षिणा वरो वा” इति दक्षिणाम्नानात् अध्वर्योःकर्तृत्वमिति चेत् । उच्यते । न स्मार्केषु कर्मस्वध्वयोःकर्तृत्वम् वेदयोगाभावात् । समाख्यया हि अध्वर्योः कर्मसु योगः ।समाख्या हि वेदयोगात् । न च स्मार्त्तेषु वेदयोगोऽस्ति । न हि ज्ञायते अमुकवेदोक्तं स्मार्त्तमिति ।अविज्ञातं स्मार्त्तंयन्न ज्ञायते किमार्ग्वेदिकं किं याजुर्वेदिकम् किं वा सामवैदिकमिति ।नापि दक्षिणाऽन्यथाऽनुपपत्त्याऽन्यस्य कर्त्तृत्वम् । अस्ति ह्यत्रान्योऽपि ब्रह्माऽऽख्यः कृताकृतावेक्षणत्वेन कर्त्ता तदर्थःपरिक्रयोऽयमिति दक्षिणार्थापत्तिः । तस्मात्स्वस्यैव कर्त्तृत्त्वम् ।
अथ साधारणो विधिरुच्यते । तत्र पारस्करः“परिसमुह्योपलिप्योलिलख्योद्धृत्याभ्युक्ष्याग्निमुपस-माधाय” इति सूत्रम् ।परिसमूहनं पांसूनामपसारणम् । तच्च सामर्थ्यात्पांसूपसारणयोग्यैर्दर्भादिभिर्यावत्
स्वपसारणम्भवति तावत्कार्य्यम् ।“प्राञ्च्युदग्वा” इति कात्यायनपरिभाषातः प्राक्संस्थमुदक्संस्थं वा । एकदर्भेण वारत्रयमिति कारिकाकारः । त्रिभिर्दर्भैर्वारत्रयमेव परिसमूहनमित्यन्ये । साधनान्तरानुक्त-त्वात् हस्तेनैव वेदिंपरिसमुह्य इत्यत्र श्री अनन्तः “अग्निं गुह्ये त्रिभिर्दर्भैः” । उक्तञ्च—
गृहीत्वा तु त्रयो दर्भाऽनामिकाङ्गुष्टमेव च ।
दक्षिणे चोत्तरे कुर्य्यात्परिसमूह इति स्मृतः ॥
कृमिकीटपतङ्गाद्या भ्रमन्ति वसुधातले ।
तेषां संरक्षणार्थाय कुर्य्यात्परिसमूहनम् ॥
‘उपलिप्य’ । उपलेपनं भूमेरुद्वर्त्तनम् ।तच्च गोमयेन ।स्थण्डिलं गोमयेनोलिप्य “मण्डलं चतुरस्रं वाऽग्निं निर्मथ्याभिमुखं प्रणयेदिति” मैत्रायणीयगृह्यात् ।
पुरा इन्द्रेण वज्रेण हतो वृत्रो महासुरः ।
मेदसा व्यापिता भूमिस्तदर्थमुपलेपनम् ॥
इदमपि वारत्रयम्भवतीति केचित् ।‘उल्लिख्य’ उल्लेखनं रेखाकरणम् । तच्च स्फ्येन । ‘‘अथ स्फ्यमादाय परिलिखति व्वजो वै स्फ्यो व्यज्रेणैव तत्परिलिखति त्रिःकृत्वः परिगलिखति” इति श्रुतेः । “स्फ्येनान्तर्लिखिति तप्तापनीति प्रतिमन्त्रमिति" कात्यायनसूत्रात् । अन्ये तु—
खादिरं स्फ्यंप्रकल्प्याऽथतिस्रो लेखाश्च पञ्च वा ।
स्थण्डिलोल्लेखनङ्कुर्य्यात्स्रुवेण च कुशेन वा ॥
इति वासनाभाष्यधृतवचनात् । रेखाश्च प्राक्संस्था उदक्संस्था वा कुण्डायामपरिमिताः प्रागग्राउदगग्रावा तिस्रः कार्याः।
त्रीणि पञ्चाथवा रेखा न भिद्यन्ते कदाचन ।
रेखा रेखाभिर्भिद्यन्ते तमाहुर्ब्रह्मघातकम् ॥
प्रथमा दक्षिणारेखा द्वितीया मध्यमा भवेत् ॥
उत्तरा च तृतीया स्यात्र्युल्लिख्यैवंसदा बुधैः ॥२॥
वायुपुराणे—
कण्डनं पेषणं चैत्र तथैवोल्लेखनक्रिया ।
सकृदेव पितॄणां स्यादेवतानां त्रिरुच्यते ॥
वसुन्धरा यदा सृष्टा हीना वा यदि वा समा ।
ततः समात्समः कुर्य्याच्छेषोद्धृत्य बहिः प्लुतः ॥ इति ॥
‘उधृत्य’ उद्धरणं रेखातःपांसूनामुद्वापनम् । तच्चोल्लेखनक्रमेण अनामिकाङ्गुष्ठाभ्याङ्कर्तव्यम् इति साम्प्रदायिकाः ।
अङ्गुष्ठाङ्गुलिपर्वाभ्यामुद्धरेत्यांसुमेव हि ॥
पांसुयुक्ता तु पूर्वेण त्यक्त्वा दारा धनं तथा ।
विचरन्ति पिशाचा ये आकाशस्थाःसुखासिनः ।
तेभ्यः संरक्षणार्थाय उद्धृत्य चैव कारयेत् ॥
‘अभ्युक्ष्य’ अभ्युक्षणं सेचनम् ।तच्च अद्भिः ।
गङ्गादिसर्वतीर्येषु समुद्रेषु सरित्सु च ।
सर्वतश्चाप आदाय अभ्युक्ष्य च पुनः पुनः ॥
अभ्युक्षणञ्च न्युब्जेन हस्तेन कार्यमित्याह वर्द्धमानादिघृतपरिशिष्टान्तरं वचनम्—
उत्तानेन तु हस्तेन प्रोक्षणं समुदाहृतम् ।
तिरश्चावेक्षणं प्रोक्तं नीचेनाभ्युक्षणं स्मृतम् ॥
प्रोक्ष्यमुद्राविहीनस्तु प्रोक्षणङ्कुरुते यदि ।
तत्तोयं रुधिरं ज्ञेयं तत्पात्रमशुचि भवेत् ॥
त्रिरुल्लेखनं त्रिरुद्धरणमिति हरिहरः ।परिसमूहनादि पञ्चापि त्रिस्त्रिरित्यन्ये । कर्कोपाध्यायैरपि दैवे परिसमूहनादि त्रिस्त्रिः पित्र्ये सकृत् इत्युक्तम् । परिसमूहनादयः पञ्च पदार्था भूमिशुद्ध्यर्था इति केचित् । तदयुक्तम् । नह्यशुद्धदेशे अग्नेः स्थापनप्रवृत्तिर्युक्ता इति । तस्मादग्न्यर्था इति युक्तम् । यत्र यत्राग्नेः स्थापनं तत्र तत्र एते कर्त्तव्याः । न च गृह्यस्थालीपाकादिकर्मान्तर्भाव एषाम्, येन “एषएवं विधिर्यत्र क्वचिद्धोम” इति अभिहितेऽपि पुनरभिधीयते “उद्धृतावोक्षितेऽग्निमुपसमाधायेति” नूनमनेनाप्रवृत्तिः । तस्मादग्न्यर्था एवेति । तथा च लिङ्गम् “उद्धृतावोक्षितेग्निमुपसमादधीतेति” प्रयोजनं स्वस्थानस्थित एवाग्नौ क्रियमाणे स्थालीपाकादौ न क्रियन्ते । “अग्निमुपसमाधाय" इति सूत्रम् ।उप समीपवर्त्तिनि उक्तसंस्कारसंस्कृते देशे कांस्यादिना सम्म्यक् प्रकारेण, आ अभिमुखं यथा भवति तथा स्थापयित्वेत्यर्थः । उक्तम् गृह्यसंगृहे—
शुभं पात्रन्तु कांस्यस्य तेनाग्निं प्रणयेद्बुधः ॥
तस्याभावे शरावेण नवेनाभिमुखेन तम् । इति ॥
तथा च अग्निगुह्ये—
पात्रद्वये न्यसद्वेह्निंसंपुटेधारयेत्करैः ।
प्रणीता दक्षिणे हस्ते वामहस्ते च प्रोक्षणीः ॥
सुवासिन्याऽऽनयेद्वह्निंसंपुटे पात्रयोर्मृदः ।
विन्यस्याभिमुखं स्वस्य निक्षिपत्कुण्डमध्यतः ॥
“दक्षिणतो ब्रह्मासनमास्तीर्य” इति सूत्रम् ।अग्नेरुपस्थितत्वात्तद्दक्षिणतः । ननु “दक्षिणतो ब्रह्मयजमानयोरासने” इति परिभाषातो दक्षिणत आसनं प्राप्तं किमर्थं पुनर्दक्षिणग्रहणम् ? सत्यमुच्यते । पुनर्दक्षिणग्रहणं यजमानस्य तत्रासनं माभूदित्येतदर्थमित्यदोषः । आसनमात्रं स्यान्न ब्रह्मा आस्तरणमात्रोपदेशात्, क्वचिच्च **“दक्षिणतो ब्रह्माणमुपवेश्य”**इति । नैतत् । अदृष्टप्रसङ्गात् । नह्यदृष्टाय कश्चिदासनप्रकल्पनं कुर्वीत, ब्रह्मासनव्यपदेशानुपपत्तेश्च ।तस्माद्दक्षिणतो ब्रह्माणमुपवेश्येति हिरण्यकेशिगृह्यसूत्र स्पष्टतरम् । सर्वसाधारणतिकर्त्तव्यतासु ब्रह्मोपवेशनस्योक्तत्वात् । तद्यथा “ब्रह्मा यज्ञोपवीतङ्कृत्वाऽऽचम्यापरणाग्निं दक्षिणाविक्रम्यब्रह्मासनात्तृणं निरस्याप उपस्पृश्याग्निम-भिमुख उपविशतीति” । ब्रह्मण उपवेशनार्थमासनं ब्रह्मासनम् बारुणदारुानोर्मतं पीठम् आस्तीर्य्य आच्छाद्य सामर्थ्यात्कुशैः । अन्ये तु आसनं तृणमयम् । अन्यत्रासनात्तृणनिरसनदर्शनादित्याहुः । तथा चोक्तम अग्निगुह्ये—
ब्रह्माचार्यप्रणीतानामासनञ्च त्रिभिः कुशैः ।
न द्वाभ्यां नैकदर्भेण ऋषयो बहवो विदुः ॥
उत्तरे सर्वपात्राणि उत्तरे सर्वदेवताः ।
उत्तरे प्रणीता यास्ताः किमर्थं ब्रह्म दक्षिणे ॥
यमो वैवस्वतो राजा वसते दक्षिणा दिशि ।
तस्य संरक्षणार्थाय ब्रह्मा तिष्ठति दक्षिणे ॥
हरिहरेण तु अत्रैव ब्रह्मवरणमुक्तम् । अग्नेरुत्तरतः स्वशाखिनं प्राङ्मुखमासीनं स्वयमुदङ्मुख आसीनः सम्पूज्य वृत्वा उपवेश्य तदभावे पञ्चाशत्कुशनिर्मितम् ।उक्तञ्च विधानपारिजातके—
पञ्चाशत्कुशको ब्रह्मा तदर्द्धेन तु विष्टरः ।
ऊर्ध्वकेशो भवेद्ब्रह्मा लम्बकेशस्तु विष्टरः ॥
दक्षिणावर्त्तको ब्रह्मा वामावर्त्तस्तु विष्टरः ॥
“प्रणीय” इति सूत्रम् ।अप इति शेषः । तद्यथा अग्नेरुत्तरतः प्रागग्रंकुशैरासनद्वयं कल्पयित्वा चमसं सव्यहस्ते कृत्वा दक्षिणोद्धृतपात्रस्थोदकेन पूरयित्वा पश्चिमासने निधाय उपलभ्य पूर्वासने स्थापयति ।प्रणीतालक्षणन्तु पाकयज्ञप्रदीपे यज्ञपार्श्वोक्तम्—
चमसानान्तु वक्ष्यामि दण्डाः स्युश्चतुरङ्गुलाः ।
त्र्यङ्गुलन्तु भवेत्खातं विस्तारैश्चतुरङ्गुलम् ॥
विकङ्कतमयाः श्लक्ष्णास्त्वग्विलाश्रमसाःस्मृताः ।
अन्येभ्यो वाऽपि कार्याः स्युस्तेषां दण्डेषु लक्षणम् ॥
इति चमसलक्षणं सौमिकचमसस्येव इति न विरोधः । चतुरङ्गलखातमिति हरिहरः । प्रणीतापूरणं मध्यमातर्जन्यङ्गुष्ठाग्रे ।
नो भूमौ नैव हस्ते च न काष्ठोपरि संस्थितिः ।
उदकं पूरयेत्तत्र आकाशवति संस्थिते ॥
आकाशवरल्लक्षणमाह अग्निगुह्ये—
मध्यमा तर्जनीयुक्तका अंगुष्ठेन समर्पिता ।
आकाशसहिता ख्याता प्रणीता पूरणं भवेत् ॥ इति ।
अन्यच्च—
सांगुष्ठे चाङ्गुलित्रीणि प्रणीता सव्यहस्तके ।
पूरयेद्दक्षिणा धारा आकाशे शब्दतन्मतम् ॥
सरत्निःस्यादरत्निस्तु निष्कनिष्ठेन मुष्टिना ।
कुण्डस्योत्तरदिग्भागे प्रणीतास्थापनं भवेत् ॥ इति ।
एवं सभ्यहस्तेन पात्रं गृहत्विा दक्षिणेन पूरणम् पश्चिमासने निधानम् पात्रालम्भः पूर्वासने निधानं भवति । “परिस्तीर्य” इति सूत्रम् ।परिस्तरणञ्च कुशैरग्नेःसमन्तादाच्छादनम् ।उक्तञ्च श्रौते कात्यायनेन “तृणैरग्नीन्परिस्तीर्य्य पुरस्तात्प्रथमम्” इति । तृणशब्देन बर्हिरुच्यते बर्हिःशब्देनकुशा एवोच्यन्ते । “कौशं वर्हि” रिति तेनैव परिभाषणात् । पुरस्ता-
त्प्रथमम् ।तच्च पूर्वस्यां दिशि प्रथमङ्कर्त्तव्यम् । एवञ्च “आवृत्तिसामन्तेषु प्रदक्षिणम्” इतिसूत्रबोधित-प्रादक्षिण्यानुग्रहाय ईशानकोणादारभ्य प्रागग्रैःकुशैःपरिस्तरणं भवति । उक्तञ्च अग्निगुह्ये—
ईशान्यादिषु पूर्वाग्रैःकुशैः सव्यं परिस्तरः । इति ।
स्मृत्यन्तरे—
यज्ञवास्तुनि मुष्टौ च स्तम्भे दर्भबटौ तथा ।
दर्भसंख्या न विहिता विष्टरास्तरणेषु च ॥ इति ॥
अभिगुह्ये—
वह्नितस्तु परित्यज्य द्वादशाङ्गुलतो बहिः।
परिस्तरणदर्भास्तु षोडश द्वादशापि वा ॥
“अर्थवदासाद्य “ इति सूत्रम् ।अर्थ।प्रयोजनम् । नन्वत्र “अर्थ प्रसंख्यया द्रव्योपकल्पनम्” इति कात्यायनपरिभाषातः प्राप्नोत्येवासादनम् किमर्थम्पुनरिदं सूत्रमिति चेन्न । “श्रपणस्य पश्चादुत्तरतो वा”
इति कात्यायनस्य देशविशेषद्वंद्वतादिविशिष्टबोधनार्थत्वेनाऽस्य सार्थकत्वात् । एतच्च आसादनं विनियोगक्रमेण ।तदाऽऽह च्छन्दोगपरिशिष्टे कात्यायनः—
प्राञ्चं प्राञ्चमुदगग्नेरुदगग्रं समीपतः ।
तत्तथा सादयेत्पात्रं यद्यथा विनियुज्यते ॥ इति ॥
प्राञ्चं प्राञ्चमिति पुंस्त्वमार्षम् । विशिष्टो नियोगो विनियोगः मुख्यः प्रयोग इति यावत् । तथा च यत्कार्य्यार्थं यत्पात्रमुपादीयते तत्कार्य्यक्रमेण तस्यासादनम् ।कारिकायाम्—
पश्चादुत्तरतो वा स्यात्पात्रासादनमग्नितः ।
उत्तरे चेदुदक्संस्थं प्राक्संस्थं पश्चिमे भवेत् ॥
प्राग्बिलान्युदगग्राणि प्राक्संस्थान्यग्नितो यदि ।
प्रागग्रोदग्बिलान्यग्रेरुदक्संस्थानि चैव हि ॥
अग्निगुह्ये—
आसादयति पात्राणि प्रादेशे करके बुधैः ।
अङ्गुलित्रिप्रमाणेन पात्रपात्रान्तरे स्थितिः ॥
दर्भास्त्रयः पवित्रे द्वे प्रोक्षणीपात्रमुत्तमम् ।
आज्यस्थाली चरुस्थाली संमार्गोपयमौ कुंशौ॥
पालाश्यःसमिधस्तिस्रः स्रुव आज्यं गवेधुका ।
तण्डुलान्पूर्णपात्रञ्च दक्षिणाऽथ वरोऽथ वा ॥
एतच्च विपुलस्थानसम्भवे, असम्भवे तु कात्यायनोक्तम्—
प्राञ्चं प्राञ्चमुदगग्नेरुदगग्रं समीपतः ।
इति देवयाज्ञिकाः । “पवित्रे कृत्वा" इति सूत्रम् । प्रथमैस्त्रिभिः कुशतरुणैग्ग्रतः प्रादेशमात्रं विहाय द्वे कुशतरुणे प्रच्छिद्य ।कात्यायनसूत्रम् “कुशौ समावप्रशीर्णाग्रावनन्तर्गर्भौकुशैश्छिनत्ति” इति । अत्र कुशाविति कुशतरुणे उच्येते । तथा च शाङ्खायनः**“कुशतरुणे अविषमे अविच्छिन्नाग्रे अनन्तर्गर्भे प्रादेशेन मापयित्वा कुशेन च्छिनत्ति"** इति ।
छन्दोगपरिशिष्टे च—
अनन्तर्गर्भिणं साग्रंकौशं द्विदलमेव च ।
प्रादेशमात्रं विज्ञेयं पवित्रं यत्र कुत्रचित् ॥इति ॥
पवित्रे द्वे त्रीणि वा इति विकल्पः । तथा च श्रुतिः “अथो पवित्रा स्युर्वा नो हि तृतीयो द्वे त्वेव" ।प्रोक्षणीपात्रलक्षणमाह प्रोक्षणीपात्रं वारणं द्वादशाङ्गुलदीर्घं करतलमितखातं पद्मपत्राकृति कमलमुकु-लाकृति वा भवतीति हरिहरादयः ।कारिकाकारस्तु—
वैकङ्कतं पाणिमात्रं प्रोक्षणीपात्रमुच्यते ।
हंसवक्वमसेकञ्च त्वग्बिलं चतुरङ्गुलम् ॥
दण्डस्तस्य प्रणीतानां स्वादप्यङ्गुष्ठमात्रतः । इति ।
यज्ञपार्श्वे तु—
अश्वत्थदलवत्प्रोक्तं दीर्घं स्याद्वादशाङ्गुलम् ।
पूर्णपात्रं तथा कुर्यात्प्रोक्षणीनाञ्चपात्रकम् ॥इति ।
आज्यस्थाल्याःस्वरूपमाह च्छन्दोगपरिशिष्टे कात्यायनः—
आज्यस्थाली प्रकर्त्तव्या तैजसद्रव्यसम्भवा !
महीमयी वा कर्त्तव्या सर्वास्वाज्याहुतीषु च ॥
आज्यस्थाल्याः प्रमाणन्तु यथाकामन्तु कारयेत् ।
सुदृढामवणां भद्रामाज्यस्थाली प्रचक्षते ॥
तैजस सुवर्णादि । चरुम्थालीप्रमाणमाह स एव—
तिर्य्यगूर्द्धंसमिन्मात्री तिबृहन्मुखी ।
मृण्मय्यौदुम्बरी वापि चरुस्थाली प्रचक्ष्यते ॥ इति ।
हरिहरकारिकाकारादयस्तु द्वादशाङ्गुलबिला प्रादेशा आज्यस्थाली चरुस्थाली च भवति इत्याहुः। समिधो लक्षणमाह ब्रह्मपुराणे—
पालाशाश्वत्थन्यग्रोधप्लक्षवैकङ्कतोद्भवाः ।
वेतसौदुम्बरौ विल्वश्चन्दनं सरलस्तथा ॥
शालश्च देवदारुश्चखादिरश्चेति याज्ञिकाः ।
मरीचिः—
विशीर्णा विदला हवा वक्राःससुषिराः कृशाः ।
दीर्घाःस्थूला घुणैर्जुष्टाः कर्मसिद्धिविनाशकाः ॥
गृह्यसङ्घन्हेऽपि—
प्रागग्राः समिधो देयास्ताच काम्येष्वपाटिताः ।
शान्त्यर्थेषु सवल्कार्द्रा विपरीता जिघांसताः ॥ इति ॥
परिशिष्टान्तरेऽपि—
समित्पवित्रं वेदश्च त्रयं प्रादेशसम्मितम् ।
इध्मस्तु द्विगुणः कार्यस्त्रिगुणः परिधिः स्मृतः ।
अथ सुवलक्षणमाह कात्यायनः—
“अरन्त्रिमात्रः स्रुवोऽङ्गुष्ठपर्ववृत्तपुष्करः” । इति ।
अङ्गुष्ठपर्वणा तुल्यं वृत्तं पुष्करं यस्य सोऽङ्गुष्ठपर्ववृत्तपुष्कर इति । तच्च खादिरं “खादिरःस्रुवः स्फ्यश्चेति " तेनैवोक्तत्वात् । स्फ्योऽपि खादिरः खड्गाकृतिः । शेषं स्पष्टम् । “प्रोक्षणीःसँस्कृत्य "
इति सूत्रम् ।प्रोक्षणीपात्रं प्रणितासन्निधौ निधाय तत्र पात्रान्तरेण हस्तेन वा प्रणीतोदकमासिञ्च्य पवित्राभ्यामुत्पूय पवित्रे प्रोक्षणीषु निधाय दक्षिणेन प्रोक्षणीपात्रमुत्थाप्य सव्ये कृत्वा तदुदकं दक्षिणेनोत्थाप्य प्रणीतोदकेन प्रोक्ष्य । तथा च कात्यायनसूत्रम् **“हविर्ग्रहण्यामपः कृत्वा ताभ्यामुत्पुनाति सवितुर्व इति ताः स्थानं तयोः सव्ये कृत्वा दक्षिणेनोदिङ्गयति देवीराप इति प्रोक्षितास्थेति तासां प्रोक्षणमिति” ।**अस्यार्थः । यस्यां हविर्ग्रहणमाम्नातं सा हविर्ग्रहणी स्रुक् अग्निहोत्रहवणी इति यावत् तस्यामपः कृत्वा ताभ्यां पवित्राभ्यामुत्पुनाति उत्पवनङ्करोति उत्क्षिपति इति यावत् ।ताःस्थानं तयोः, ताः प्रोक्षण्य आपस्तयोः पवित्रयोः स्थानं निधानस्थलम् । सव्ये कृत्वा सव्यहस्ते ताः पात्रे स्थिताः प्रोक्षणीःस्थापयित्वा दक्षिणेनोदिङ्गयति दक्षिणहस्तेनोर्ध्वं गमयति । तासाम्प्रोक्षणम् प्रणीतोदकेन प्रोक्षणानां प्रोक्षणम् । “अर्थवत्प्रोक्ष्य” इति सूत्रम् ।अर्थवत्प्रयोजनवत् तज्जलेन यथासादितानाम्पात्राणाम्प्रत्येकम्प्रोक्षणम् । इदम्प्रोक्षणमुत्तानहस्तेन इत्युक्तं प्रागभ्युक्षणप्रसङ्गे । न चैवं तण्डुलानामपि प्रत्येकम्प्रोक्षणं स्यादिति वाच्यम् ।अर्थव त्प्रोक्ष्यत्यनेन प्रयोजनवतः प्रोक्षणविधानात् न च तण्डुलानाम्प्रत्येक प्रयोजनमस्ति समुदितानामेव प्रयोजनवत्त्वात् । एवञ्च तिसृणां समिधामपि न प्रत्येकं प्रोक्षणम् । अभिसमिन्धनरूपकार्थोपयोगित्वात् । अत एव श्रौते कपालानां परिधीनां च न प्रत्येकं प्रोक्षणम् इति । आर्थिकञ्च प्रोक्षणीनां निधानम् प्रणीताग्न्योरन्तरालरूपे असञ्चरे भवति, श्रौते तथा दृष्टत्वात् । उक्तञ्च अभिगुह्ये—
तेन दर्भद्वयेनैव सपवित्र करेण च।
क्रमात्पात्रगणं मोक्ष्य प्रोक्षणीपात्रवारिणा
निदध्यात्प्रोक्षणीपात्रं सपवित्रं समाचरेत् ।
अनन्तरं प्रणीताग्न्योरसञ्चरस्तु स स्मृतः इति ॥
** “निरुप्याज्यम्”** इति सूत्रम् ।आसादितमाज्यं आज्यस्थायां पश्चा-
दग्नेर्निहितायां प्रक्षिप्य, चरुश्चेच्चरुस्थाल्यां प्रणीतोदकमासिच्य आसादिततण्डुलान्प्रक्षिप्य । एवञ्चर्बादीनामाज्यनिर्वापोत्तरं निर्वापस्यैवाप्रामाणिकत्वात् चरुपात्रे प्रणीतोदकमासिञ्च्य तण्डुलप्रक्षेप इति प्रकारविशेषकथनन्त्वसंगतमेवेति चेन्न । “पवित्रान्तर्हितेऽप आनीय तण्डुलानोप्य मेक्षणेन पर्यायुवन् जीवतण्डुलं श्रपयति” इति मैत्रगृह्ये, गृह्यान्तरेऽप्याज्यनिर्वापाद्युत्तरमेव सधर्मकचरु निर्वापादिदर्शनात् । “अधिश्रित्य “ इति सूत्रम् ।अधिश्रयणम् अग्नौ स्थापनम् ।तन्त्र आज्यं ब्रह्मा अधिश्रयति । तदुत्तरतः स्वयं चरुमेव युगपदग्नावारोप्य ।अत्र आज्यचर्वेायुगपदधिश्रयणं, दर्शपौर्णमासयोस्तथा दृष्टत्वात् । न च तत्रापि सूत्रकारेण स्पष्टतयाऽनुक्तत्वात् कथमेवमिति वाच्यम् ।“तद्वा एतदुभयँसह क्रियते तद्यदेतदुभयँसह क्रियतेऽर्द्धोवा एष आत्मनो यज्ञस्य यदाज्यमर्द्धो यदि भवति स यश्वासावर्द्धोय उ चायमर्द्धस्ता उभावग्निं गमयावेति तस्माद्वा एतदुभयँसह क्रियते” इति श्रुतेः सूत्रकारस्यापि तत्र तात्पर्यकल्पनात् । **‘‘पर्यंग्नि कुर्य्यात्” इति सूत्रम् ।**आज्यमित्यनुवर्तते । अधिश्रि स्याज्यस्य परितः अग्निङ्कर्य्यात् इति तात्पर्यम् ।पर्य्यग्निकरणम् परिलः उल्मुकभ्रमणं न तु परितः अग्निस्थापनम् । अत्र “निरुप्याज्यमधिश्रित्य पर्य्यग्नि कुर्य्यात्” इति सूत्रस्थमाज्यपदं चर्वादीनामुपलक्षणार्थम् । एवं चर्चादीनामपि निर्वापाधिश्रयणपर्य्यग्निकरणानि भवन्ति ।
**अत्र नियते सामान्यतः प्रतिनिधिः स्यात्”**इति सूत्रात् मुख्यद्रव्याभाव तत्सदृशं प्रतिनिधेयम् । तत्र मुख्यं द्रव्यं गव्यमाज्यं ब्रहियो यवाश्च । तत्र घृतमात्राभावे प्रतिनिधिग्रह्यः । तदाह मण्डनः—
घृताभावे भरद्वाजबौधायनमुनी पृथक् ।
आहतुःसूत्रबौधायनोक्तमादौ वदिष्यते ।
घृतार्थे गोघृतङ्ग्राह्यं तदभावे तु माहिषम् ।
आजं वा तदभावे तु साक्षात्तैलमपीप्यते ॥
तैलाभावे गृहीतव्यं तैलं यत्तिकसम्भवम् ।
तदभावेऽतसीस्नेहः कौसुम्भः सर्षपोद्भवः ॥
वृक्षस्नेहोऽथ वा ग्राह्यः पूर्वालाभे परः परः ।
तदभावे यवव्रीहिश्यामाकान्यतमोद्भवम् ॥
भरद्वाजोऽन्यथा प्राह घृतप्रतिनिधिं मुनिः ।
गव्याज्याभावतश्छागमहिष्यादेर्घृतङ्क्रमात् ॥
तदभावे गवादीनां क्रमात्क्षीरं विधीयते ।
तदभावे दधि ग्राह्यमलाभे तैलमिष्यते ॥
ब्रीहीनां यवानाञ्च मुख्यत्वमाह कात्यायनः “ब्रीहीन्यवान्चा हवीषीति” । तदभाव एतत्सुसदृशं ग्राह्यम् । अत्र मण्डनोक्ता मुख्या विशेषाः—
हविर्ब्रीहिमयङ्कार्य्यं यद्वायवमयम्भवेत् ।
तयोरभावे श्यामाका नीवारा वा हविर्भवेत् ॥
वेणुयवा गोरसं वा कंदमूलफलं जलम् ।
सत्यं वा हविरेतेषां यथासम्भवमाहरेत् ॥
प्रतिनिध्यन्तरं सत्यं विज्ञेयं हविरत्यये ।
प्रधानदेवतोद्देशात्सन्त्यजेत्सत्यमात्मनः ॥
अतोऽन्यदपि वा ग्राह्यं सदृशं धान्यमात्रकम् ।
न ग्राह्यं सर्वथा माषमसूरदरकोद्रवम् ॥
यद्वा ब्रीहियवाभावे तुषतण्डुलयोगिनीः ।
ओषधीः प्रतिगृह्णीयादणुकोद्रववर्ज्जिताः ॥
ग्राम्याणां वा भवेद्धाम्यमारण्यानामरण्यजम् ।
यवाभावे तु गोधूमास्ततो वेणुयवादयः \।\।
छन्दोगगृह्यवचनाज्जुहुयाद्धविरत्यये ।
फलंयज्ञियवृक्षस्थ तत्पत्रमथवा जलम् ॥
आग्रायणे न लभ्यन्ते श्यामाकाश्चेत्कथञ्चन ।
श्यामाकप्रस्तरस्तत्र कार्य्योबौधायनाशयात् ॥इति ।
** " स्रुवं प्रतप्य"** स्रुवप्रतपनमधोमुखस्यामौ तापनम् “समृज्य”
इति सूत्रम् ।सम्मार्जनञ्च कात्यायनेनोक्तम् **“वेदाग्रैरन्तरतः प्राक् संमार्ष्ट्यनिशित इति विपर्य्यस्य बहिर्मूलैःप्राडुत्क्रम्य इति" ।**वेदः—ग्रथितकुशमुष्टिविशेषः । तदग्रैः अन्तरतः मुखप्रदेशे उपरि प्रदेशे इति यावत् । प्राक्प्राक्संस्थं संमार्ष्टि सम्यक् प्रकारान्तरेण तत्संलग्नं रजःपातः यथा स्यात्तथा मार्जनङ्करोति । विपर्य्यस्येति । प्राक् इत्यस्य विपर्यासः प्रत्यक् इत्यर्थः । बहिः बाह्यतः मूलैःवेदाग्रमूलैः प्राडुत्क्रम्य ( १ )9 पाग्गत्वा । अत्र स्मार्ते वेदाभावेन तदग्रस्याभावात् संमार्गार्थं कुशा एवोपादीयन्ते, वेदस्यापि कुशात्मकत्वेन कुशांशे बाधायोगात् । तथा च च्छन्दोगपरिशिष्टे कात्यायनः—
तेषां प्राक्शः कुशैः कार्यः सम्प्रमार्गो जुहूषता ।इति ।
तेषां कुशानामग्नौप्रक्षेप इति आह आश्वलायनकारिका—
“तान्कुशान्कृतसम्मार्गान्प्रोण्याग्नौप्रहरदथेति " ।
युक्तञ्चैतत् श्रौते दर्शनात् । “अभ्युक्ष्य” इति सूत्रम् । अभ्युक्षणं सेचनम् । तच्च प्रणीतोदकेन, यावदुदककार्य्यार्थं प्रणीतानामुपादानात् ।" पुनःप्रतप्य निदध्यात्" इतिसूत्रम् ।पुनरुक्तप्रकारेण प्रतपनङ्कृत्वा निदध्यात् । निधानञ्चाज्यदेशाद्दक्षिणतः, दर्शपूर्णमासयोस्तथा दृष्टत्वात् । आत्मनो दक्षिणतो निधानमिति पद्धतिकाराः । पठन्ति च—
पुनः प्रतथ्य तौ मन्त्री दर्भानग्नौ विनिक्षिपेत् ।
आत्मनो दक्षिणे भागे स्थापयेत्तौ कुशान्तरे ॥
** **तौ स्रुक्स्रुवौ । स्रुवस्यायं संस्कारो होमार्थः। एवञ्च दृष्टार्थता तत्संस्कारस्य । अतः संस्कारविस्मरणे प्रायश्चित्तपूर्वकम्प्रागन्त्यहोमात्कार्यः । ऊद्र्ध्वन्तु प्रायश्चित्तमात्रम् । “प्रोक्षण्युदकेनाभ्युक्षणमि" ति गर्गः। “आज्यमुद्रास्य “ इति सूत्रम् ।उद्वासनमुत्तारणम् ।तच्च उत्तरतः । तथा च कात्यायनसूत्रम् “उदगुद्वासयति हविश्चेति” । ” उत्तरत उपचारो वै -
_______________________
यज्ञ इति" श्रुतेश्च । आज्यमिति चरोरप्युपलक्षणार्थम् तस्यापि होमार्थत्वेनावश्यकत्वात् । तत्र आज्यमुत्थाप्य चरोः पूर्वेण नीत्वाऽग्नेरुत्तरतः स्थापयित्वा चरुमुत्थाप्य आज्यपश्चिमतो नीत्वा आज्यस्योत्तरतः स्थापयेत् इति सम्प्रदायः। अपरे तु “हविष्पात्रस्वाम्मृत्विजां पूर्वं पूर्वमन्तरं ऋत्विजाञ्च यथापूर्वमिति” परिभाषा सूत्रात् । शृतानान्तु पूर्वेणोद्वासितानान्तु पृष्ठत इति रीत्यैव स्मार्त्तेउद्वासनमाहुः । उद्वासितमाज्यं चरुञ्चाग्नेः पश्चिमतो निदध्यात्। श्रौते हविरासादनस्य तथा दृष्टत्वात् इति सम्प्रदायः। ” उत्पूय" इति सूत्रम् ।आज्यमित्यनुवर्त्तते । उत्पवनमुत्क्षेपणमात्रमिति बहवः । उदगग्रे पवित्रे धारयन्नङ्गुष्ठाभ्याम् चोपकनिष्ठिकाभ्याञ्चोभयतः प्रतिगृह्योद्-र्ध्वाग्ने प्रह्णेकृत्वाऽज्ये प्रत्यस्यति । “सवितस्त्वा प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्य्यस्य रश्मिभिरि " त्याज्यसंस्कारः । सर्वत्र “नासंस्कृतेन जुहुयात्” इति शाङ्खायनगृह्यप्रकारेणोत्पवनम् उत्पवनप्रकारविशेषस्थाकांक्षितत्वात् । आकांक्षितं परोक्तमपि गृह्यते अविरोधात ! सवितुत्वेति मन्त्रस्तु न गृह्यते । “एष एव विधियंत्र कचिद्धोमः" इत्यनेन विरोधादित्यन्ये । “अवेक्ष्य” इति सूत्रम् । अवेक्षणमवलोकनमाज्यस्य ।“प्रोक्षणीश्व पूर्ववत्” इति सूत्रम् ।चकारात्पूय ।पूर्ववत् श्रौतवन्, तेन पवित्राभ्यामिति लभ्यते । गदाधरमते व्याख्या- पूर्ववदिति पवित्राभ्यां प्रोक्षणीरुत्पूय तास्वेव पवित्रनिधानम् ।चशब्दादाज्यमपि । पूर्ववदेव पवित्राभ्यामुत्पवनम् । प्रोक्षणीसंस्कारोऽयं पर्य्युक्षणार्थः । **“उपयमनकुशानादाय"**इति सूत्रम् ।उपयमनकुशा उपग्रहार्थाः कुशाःतान् दक्षिणहस्तेनादाय सव्ये निधाय । “समिधोऽभ्याधाय" इति सूत्रम् ।तिष्ठन् सामिधः प्रक्षिप्य " तिष्ठन् समिध आदधात्यस्थीनि वै समिधस्तिष्ठतीववा अस्थीनीति" श्रुतेः । “तिष्ठन् समिधः सर्वत्र मध्ये” इति कात्या यनसूत्राच्च । ताश्च प्रागमा आदधाति ।
प्रागग्राः समिधो देया स्ताश्च काम्येष्वपाटिताः ।
शान्त्यर्थेषु सवल्कार्द्राविपरीता जिघांसता ॥
इति गृह्यपरिशिष्टात् । “पर्य्युक्ष्य" इति सूत्रम् ।चुलकगृहीतेनोदकेनाग्निईशानादि तदन्तं परिषिच्य ।एतच्च प्रोक्षण्युदकेन, उत्पवनरूपप्रोक्षणीसंस्कारस्योत्तरकार्यार्थत्वात् ।
ऊर्द्धपादवधोवक्रःप्राङ्मुखो हव्यवाहनः ।
ईदृशे वह्निरूपे तु आहुतिः कस्य दीयते ॥
सपवित्राम्बुहस्तेन वह्नेःकुर्य्यात्प्रदक्षिणम् ।
हव्यवाट् सलिलं दृष्ट्वा बिभीतः सन्मुखो भवेत् ॥
** “जुहुयात्”** इति सूत्रम् ।वक्ष्यमाणहोमङ्कुर्यात् । संस्रवधारणार्थम्पात्रं प्रणीताग्न्योर्मध्ये निदध्यात् । “एष एव विधिर्यत्र क्वचिद्धोमः" इति सूत्रम् ।एषः परिसमूहनादिर्प्युक्षणपर्य्यन्तो विधिरेव न मन्त्राः, एवकारो मन्त्रप्रतिषेधार्थः । क्व ? यत्र क्व चन लौकिके स्मार्ते वाग्नौहोमस्तत्र वेदितव्यः । अत्र देवीपुराणे प्रत्येकं परिसमूहनादिषु मन्त्रा उक्ताः । " यद्देवा देवहेडनमिति परिसमूहनम् ।मानस्तोक इत्यनुलेपनम् ।त्वां वृत्रेष्विन्द्र सप्ततिमित्युल्लेखनम् ।ब्रजं गच्छेत्युद्धरणम् ।देवस्य त्वेत्यभ्युक्षणम् । अग्निर्मूर्द्धेत्यग्न्युपसमाधानम् ।समिधाग्निंदुवस्यतेति समिदाधानम् । मयि गृह्णामीत्यग्नेः सन्धुक्षणम् । हिरण्यगर्भेति ब्रह्मासनम् । आपोहिष्ठेति प्रणीताः ।कया नश्चित्र इति प्रणीतापूरणम् । पवित्रेस्थो वैष्णव्याविति पवित्रकरणम् । इषेत्वेत्याज्यनिर्वपनम् । त्रातारामिन्द्रमिति स्रुवप्रतपनम् । अनिशितोऽसि सपत्नक्षिदिति संमार्ज्जनम् ।धूरसीत्यभ्युक्षणम् । प्रत्युष्टँरक्ष इति पुनः प्रतपनम् । सवितुर्वःप्रसव इत्युत्पवनम् । धूरसीति पर्य्युक्षणम्" । इति ।
एवंलक्षणसंयुक्तं सर्वहोमेषु याज्ञिकम् ।
विधानं विहितं तत्र ब्रह्मणाऽमिततेजसा ॥
अन्यथा ये प्रकुर्वन्ति सूत्रमाश्रित्य केवलम् ।
निराशास्तस्य गच्छन्ति सर्वे देवा न संशयः ॥
सूत्रे मन्त्रवर्ज्जितकुशकण्डिकाकरणमुक्तम्, देवीपुराणे तु समन्त्रकम्
कुशकाण्डिकाकरणम् इत्येवं सन्देहे प्राप्ते निर्णयमाह संहिताप्रदीपः—
एकार्थरूढानि वचांसि यानि मिथोविरुद्धार्थपदानि सन्ति ।
न तानि मिथ्या मुनिभाषितानि विद्वान्विदध्याद्विषयव्यवस्थाम् ॥
इदं तु देवीपुराणोक्तशान्तिकस्थालपिकपरम्, तदन्ते एव तत्र पाठात् । सामान्यतः स्मार्त्तकर्ममात्रपरत्वे च “एष एवं विधिर्यत्र क्वचिद्धोम” इति इत्यादिसूत्रविरोधःस्यात् ।कर्काचार्य्येण एवं निर्णीतम् — यत्रक्वचिद्वोमः शान्तिकपौष्टिकादिष्वपीति क्वचिच्छदः गृह्याग्निव्यतिरेकेणापि यथाऽयं विधिः ।
अथात्र वक्ष्यमाणविवाहहोमप्रसङ्गेन सर्वकर्मसाधारणीं परिभाषामाह**“अन्वारब्ध आधारावाज्यभागौ महाव्याहृतयः सर्वप्रायश्चित्तं प्राजापत्य<MISSING_FIG href=”../books_images/U-IMG-1697392004Capture.PNG"/>स्विष्टकृच्चैतन्नित्यँसर्वत्र “** इति सूत्रम् । अस्यार्थः । अन्वारब्धः ब्रह्मणा कृताऽन्वारम्भः । यद्यपि **“दानवाचनान्वारम्भवरवरणव्रतप्रमाणेषु यजमानं प्रतीयादिति”**कात्यायनपरिभाषातः यजमान कर्त्तृकोऽन्वारंभः सर्वत्र, तथाप्यत्र होमे यजमान एवं कर्त्तेति स्वस्मिन् स्वकर्तृकान्वारम्भासम्भवेन होमकर्त्तुरन्वारम्भस्य यजमानकर्त्तृकस्यासम्भबात् अन्यकर्तृक एवान्बारम्भो वाच्यः । अन्यश्च न पत्नी “अक्लृप्तो वा कश्चित्कर्माणि पुरुषाणामि" ति कात्यायनपरिभाषया ल्कृप्तऋत्विजामेव कर्मकर्त्तृत्वबोधनात् प्रकृते च ब्रह्मणः सत्त्वात् तत्कर्तृक एवान्वारम्भ इति । अथैवमुक्तपरिभाषया ब्रह्मण एव सकलेतिकर्त्तव्यताकलापकर्त्तृत्वमस्तु अन्वारम्भे यजमानस्यैव कर्त्तृत्वमस्त्विति चेन्न ।परिसमूह्येत्यादिभिर्ल्यबन्तैः परिसमूहनादीनां सर्वेषां पदार्थानां समानकर्तृकत्वलाभात् । परिसमूहनादौ तु न ब्रह्मणः कर्त्तृत्वम् तदानीं तस्याविद्यमानत्वात् । न हि ब्रह्मोपवेशनात्पूर्वमपि तस्मिन्कर्मणि ब्रह्मास्ति येन तत्कर्त्तृकं परिसमूहनादि भवेत् इति ।
“ब्रह्मैवैक ऋत्विक् पाकयज्ञेषु स्वयं होता भवति” ॥ इति
गोभिलगृह्याच्च । ब्रह्मणा दक्षिणे बाहौ दक्षिणहस्तेन अन्वारब्धे कृते सति आधारसंज्ञके आहुतिजुहोति । आधारशब्देन होमविशेषो । तत्र
पूर्वाधारःप्राजापत्यःअग्नेरुत्तरभागे ।उत्तराघार ऐन्द्रःअग्नेर्दक्षिणभागे । पूर्वाधारोऽग्नेरुत्तरप्रदेश उत्तराघारश्च दक्षिणप्रदेश इति । “स यदुभयत आघारयतीति" श्रुतेः । “दक्षिणहस्तेनान्तरेण जानुनी आसीन आघारौ जुहोति प्राजापत्यमुत्तरार्द्धे प्राञ्चंमनसा ऐन्द्रं दक्षिणार्द्धे प्राञ्चमेवेति’ मैत्रायणीगृह्याच्च। आज्यभागौ अग्निदैवत्यसोमदैवत्यौ होमविशेषौ। तत्राग्नेयमुत्तरपूर्वार्द्धे सौम्यं दक्षिणपूर्वार्द्धे अतिप्रज्वलितप्रदेशे वा तदुभयं जुहोति । “आग्नेयमुत्तरपूर्वार्द्धे दक्षिणपूर्वार्द्धे सौम्यँस
मिद्धतम वेति" कात्यायनोक्तेः । अत्र च सर्वत्रान्ते स्वाहाकारः कार्यः । सीतायज्ञप्रकरणे “मन्त्रवत्पदानमेकेषा<MISSING_FIG href=”../books_images/U-IMG-1697392425Capture.PNG"/>स्वाहाकारप्रदाना इति श्रुतेर्विनिवृत्तिरिति” सूत्रेण पारस्करेणैव सर्वत्र स्वाहाकारेणैव होमस्योक्तत्वात् ।“स्वाहाकारः सर्वत्रेति स्वाहाकारमदाना" इति च कात्यायनसूत्रात् ।स्वाहाकारपरिप्राप्तौ तदेकवाक्यत्वाय चतुर्थ्यन्तं देवतापदं उच्चार्य्य स्वाहान्तेन होमः कार्य इति । तथा च शाख्यायनं गृह्यम्**“अनाम्नातमन्त्रास्वादिष्टदेवतासु अमुष्मै स्वाहेति जुहुयादिति” ।**हिरण्यकेशीगृह्यञ्च “सर्वदर्विहोमानामेषकल्पो मन्त्रान्ते स्वाहाकारोऽमन्त्रास्त्रामुष्मै स्वाहेति यथादैवतमिति । एते सर्वेपि होमाः समिद्धे कार्याः। तथा च च्छन्दोगपरिशिष्ट कात्यायनः—
योऽनर्चिषिजुहोत्यग्नौव्यङ्गारिणि च मानवः ।
मन्दाग्निरामयावी च दरिद्रश्चापि जायते ॥
तस्मात्समिद्धे होतव्यं नासामिद्धे कदाचन ।
आरोग्यमिच्छन्नायुश्च श्रियमात्यन्तिकीं तथा ॥
अग्निश्मनेऽपि विशेष उक्तस्तत्रैव—
जुहूषंश्च हुते चैव पाणिशूर्पास्यदर्विभिः ।
न कुर्य्यादग्निधमनं कुर्य्याद्वाव्यजनादिना॥
मुखेनैके धमन्त्यग्निं मुखाध्येशोऽध्यजायत । इति ।
मुखेन धमनङ्कलौ न भवति इत्याहतुर्माधव पृथ्वीचन्दोदयौ—
प्रजार्थन्तु द्विजाग्य्राणां प्रजाऽरणिपरिग्रहः ।
ब्राह्मणानां प्रवासित्वं मुखाग्निधमनन्तथा ॥
इति न भवति इत्यनुवर्त्तते । यत्तु वंशादि व्यवधाय धमनमाचरन्ति तन्मुखवित्रुट्पतनशङ्कया । गौतमस्तु सामान्येनैव मुखं निषेधयति**“अग्निमुखोपधमनविगृह्यवादादि वर्जयेत्”** इति । एवं “प्रजापतये स्वाहा “ इति मन्त्रेण पूर्वाधारो भवति इति तु पद्धतयः \।
त्यागश्च इदं प्रजापतये नमम इत्येवम् ।स च पत्नीयजमानाभ्याम् उभाभ्यामपि कार्यःउभयोः स्वामित्वाविशेषात् । **“प्रधानर्ठ० स्वामीफलयोगादिति” ।**कात्यायनेन सामान्यतः स्वामिन एव त्यागकरणस्योक्तत्वात् ।मण्डनेन तु विशेष।(१)10—
तुल्य एवाधिकारः स्यादृम्पत्योरुभयोरपि ।
कर्तृत्वञ्च तयोस्तुल्यं द्रव्यत्यागे प्रचक्षते ॥
यद्वा त्यागं पतिः कुर्य्यात्पत्नी तदनुमन्यते ।
अधिकारे च वैषम्यं प्रोक्तं शब्दानुसारिणा ॥
प्राधान्येन स्वनिष्ठःसन् यजमानोऽधिकारवान् ।
पत्नी तत्परतन्त्रा सत्यङ्गभूताधिकारिणी ॥
तथा—
सन्निधौ यजमानः स्यादुद्देशत्यागकारकः ।
असन्निधौ तु पत्नी स्यादुद्देशत्यागकारिका ॥
असन्निधौ तु पत्नी स्यादध्वर्य्युस्तदनुज्ञया ।
उन्मादे प्रसवे चर्त्तौ कुर्वीतानुज्ञया विना ॥
तथा—
उभावप्यसमर्थौ चेन्नियुक्तः कश्चन त्यजेत् । इति ।
महाव्याहृतऽध्येतृप्रसिद्धाः भूर्भुवः स्वस्तिस्रः ।सर्वानुक्रमेऽपि “भूर्भुवःस्वस्तिस्रो महाव्याहृतयोऽग्निवायुसूर्य्यदेवत्याः क्रमेणेति” । सर्वप्रायश्चित्तम् इति त्वन्नो अग्नइत्यादिमन्त्रकरणकपञ्चहोमानां संज्ञा । “सर्वप्रायश्चित्तं पञ्चभिः प्रत्यृचं त्वन्नो अग्न इति द्वा-
**भ्याम् आयाश्चाग्नेये ते शतमुदुत्तममिति”**च कात्यायनसूत्रम् ।प्राजापत्यं प्रजापतिदैवत्यकर्म होम इति यावत् ।स्विष्टकृच्च ।स्विष्टकृच्छब्देन स्विष्टकृद्दैवत्यो होम इत्युच्यते । स च ‘अग्नये स्विष्टकृते स्वाहा’ । अत्रावदाने हविष उत्तरार्द्धादवदाय अनेरुत्तरार्द्धे होतव्यम् । स्विष्टकृतं प्रकृत्यैव **“सर्व्वा उत्तरार्द्धादवद्यत्युत्तरार्द्धे जुहोति”इति श्रुतेः । पूर्वं हुताभिराहुतिभिः संसर्गो यथा न भवति तथा च होतव्यम्।“असंसृष्टामाहुतिभिरिति”कात्यायनसूत्रम् ।“अग्नये स्विष्टकृतेस्वाहेत्यसंसक्तामुत्तरार्द्धपूवार्द्धे जुहोति”**इति मैत्रायणीयगृह्याच्च । अत्र कदाचिन्महाव्याहृतिभ्यः प्राक् स्त्रिष्टकृद्धोमो भवति कदाचित्पश्चात् । स च कर्मविशेषस्थानान्तरे भवति **“प्राङ्महाव्याहृतिभ्यः स्विष्टकृदन्यच्चेदाज्याद्धविः”**इतिवक्ष्यमाणसूत्रम् ।महाव्याहृतिभ्यः प्राक् स्विष्टकृद्धोमो भवति चेद्यदि आज्यात्सकाशादन्यदपि चरुप्रभृति हविर्भवति । केवलाज्ययागे सर्वाहुतिशेषे भवति । कर्मकौमुद्याम् —
स्वाहान्ते जुहुयाद्धोता स्वाहया सह वा हविः ।
त्यागान्ते ब्रुवते केचिद्द्रव्यप्रक्षेपणं बुधाः ॥
हीयते यजमानश्चेत्स्रुवमूलस्य दर्शनात् ।
तस्मात्संगोपयेन्मूलं होमकाले स्रुवस्य च ॥
पाण्याहुतिर्द्वादशपर्वपूरिका कंसादिना चेत्स्रुवपूरमात्रकम् ।
दैवेन तर्थिन च हूयते हविः स्वङ्गारिणि स्वर्चिषि तच्च पावके ॥
उत्तानेन तु हस्तेन त्वङ्गुष्ठाग्रेण पीडितम् ।
संहताङ्गुलिपाणिस्तु वाग्यतो जुहुयाद्धविः ॥
इति विधानपारिजातात् । **“एतन्नित्यँसर्वत्र”**इति सूत्रम् । एतच्चतुर्दशाहुतिकं कर्म नित्यं सर्वकर्मसु च भवति । ततः संस्रवप्राशनम् । अत्र सर्वहोमार्थं स्रुवेण गृहीतस्यासर्वहोमः हुत्वा च पात्रान्तरे तस्य शेषस्य स्थापनम् । सर्वहोमान्ते च सर्वशेषाणां प्राशनम् । तथा च कात्यायनः “पाकयज्ञेष्ववत्तस्यासर्वहोमो हुत्वा शेषप्राशनम्” इति । अस्यार्थःपाकयज्ञशब्देन स्मार्त्तहोमा उच्यन्ते । अत्र होमार्थं यद-
वत्तं गृहीतं तस्य असर्वहोमः कर्त्तव्यः ।स्रुवादिभिर्यद्गृहीतं तद्धुत्वा किंचित्परिशिष्य पात्रान्तरे स्थापनमित्यर्थः । सर्वहोमाद्धुत्वापात्रान्तरस्थापितसर्वशेषाणां प्राशनमाह रेणुः —
स्रुवहोमे सदा त्यागः प्रोक्षणीपात्रमध्यतः ।
पाणिहोमे सदा त्यागो विना प्रोक्षणिकं द्विज ! ॥
शोधः—
ऋत्विजां जुह्वतां वह्नौ बहिः पतति यद्धविः ।
स ज्ञेयो वारुणो भागः प्रक्षेप्यो विमले जले ॥
इति रङ्गनाथकृतरुद्रपद्धतौ ।
अथ दक्षिणा । तत्र कात्यायनः पाकयज्ञेष्वनुवर्त्तमानेषु “पूर्णपात्रे दक्षिणा वरो वा” इति। मैत्रायणीगृह्येच “पूर्णपात्रं दक्षिणा बर्हिरनुप्रहरत्येतेन स्थालीपाकेन स्थालीपाकाः सर्वे **व्याख्याता”**इति । पूर्णपात्रञ्च परिभाषितं यज्ञपार्श्वे—
अष्टमुष्टिर्भवेत्किञ्चित्किञ्चिदष्टौ च पुष्कलम् ।
पुष्कलानि च चत्वारि पूर्णपात्रं तदुच्यते ॥
एतदशक्तौ तु—
यावता बहुभोक्तुस्तु तृप्तिः पूर्णेन विद्यते ।
नावरार्ध्यमतः कुर्य्यात्पूर्णपात्रमिति स्थितिः ॥
इति च्छन्दोगपरिशिष्टीयकात्यायनवचनात् । ततो न्यूनमपि भवति । “औषधस्य मानपात्रं पूर्णं पूर्णपात्रमिति”तु कर्कः । तथा गोभिलगृह्यम् “पूर्णपात्रो दक्षिणान्नं ब्रह्मणे दद्यात् कंसं वा चमसं वाऽन्नस्य पूरयित्वा कृतस्य वापि वा फलानामेवैतत् पूर्णपात्रमित्याचक्षत इति” । अत्र च शक्तितो व्यवस्था **“स्वाधीनं द्रव्यं वरशब्देनोच्यते”**इति कर्कः। **“गौर्बाह्मणस्य वरो ग्रामो राजन्यस्याश्वो वैश्यस्येति”**पारस्करपरिभाषित एव वरः सर्वत्र ग्राह्यः ॥
इति श्रीप्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्रविवरणे संस्कारगणपतौप्रथमकण्डिका ॥१॥
अथास्य स्पष्टप्रयोगः ।कर्त्ता प्राङ्मुखः शुचिपीठे उपविश्यशुद्धायां भूमौ सप्तविंशत्यङ्गुलं मण्डलं परिलिख्य तत्र त्रिभिर्दर्भैः पांसूनपसार्य, गोमयोदकेनोपलिप्य, खादिरेण स्फ्येन प्रागग्रोदक्संस्थाःस्थण्डिलपरिमाणास्तिस्रो लेखा लिखेत् । अनामिकाङ्गुष्ठाभ्यां यथालिखिताभ्यो रेखाभ्यःपांसूनुद्धृत्य, उदकेनाभ्युक्ष, कर्मसाधनभूतमग्निंसीमन्तिन्या स्थापयित्वा, अग्नेर्दक्षिणतो ब्रह्मासनमास्तीर्य्य, तत्र ब्रह्मोपवेशनम् ।अग्नेरुत्तरतः प्रागग्रंकुशैरासनद्वयं स्थापयित्वा चमसं वामहस्ते कृत्वा दक्षिणहस्तोद्धृतपात्रस्थोदकेन पूरयित्वा पश्चिमासने निघायालभ्य ब्रह्मणो मुखमवलोक्य पूर्वासने स्थापयित्वा, बहिर्मुष्टिमादाय, ईशानादिप्रागग्रैर्बहिभिरुदक्संस्थमग्नेःपरिस्तरणम् ।अग्नेरुत्तरतः पश्चाद्वा पात्रासादनम् । पवित्रच्छेदनानि त्रीणि ।पवित्रे द्वे ।प्रोक्षणीपात्रम् आज्यस्थाली । चरुस्थाली ।संमार्गकुशाः पञ्च ।उपयमनकुशाः सप्त ।समिधस्तित्रः स्रुवः। आज्यम् । व्रीहयः । तण्डुलाः । पूर्णपात्रम् ।दक्षिणा । पवित्रच्छेदनैः पवित्रीकरणम्। द्वयोरुपरि त्रीणि निधाय ।द्विमूलेन प्रदक्षिणीकृत्य त्रिभिश्छिद्य । द्वौ ग्राह्यौ त्रिस्त्याज्यः।प्रोक्षणीपात्रे प्रणीतोदकमासिच्य पवित्राभ्यामुत्पवनम् । पवित्रयोः प्रोक्षणीसु निधानम् ।प्रोक्षणीनां सव्यहस्तकरणम् दक्षिणेनोदिङ्गनम् । प्रणीतोदकेन प्रोक्षणीनां प्रोक्षणम् । प्रोक्षण्युदकेन आज्यस्थाल्याः प्रोक्षणम् ।चरुस्थाल्याःप्रोक्षणम् ।सम्मार्गकुशानां प्रोक्षणम् । उपयमनकुशानां प्रोक्षणम् । समिघां प्रोक्षणम् ।स्रुवस्य प्रोक्षणम् ।आज्यस्य प्रोक्षणम् ।तण्डुलानां प्रोक्षणम् ।पूर्णपात्रस्य प्रोक्षणम् । असञ्चरे प्रोक्षणीनां निधानम् आज्यस्थाल्यामाज्यनिर्वापः ।चरुपात्रे प्रणीतोदकासेकपूर्वकं तण्डुलप्रक्षेपः ।आज्याधिश्रयणम् ।चरोरधिश्रयणम् ।आज्यस्योत्तरतः ।पर्यग्निकरणमुभयोः । अर्धशृतचरौ स्रुवस्य प्रतपनं न्युब्जपुष्करस्य । म्मार्गकुशैःसम्मार्जनमुत्तानपुष्करस्य ।बुध्न्यादारभ्य कुशैरग्रपर्य्यन्तं सम्मृज्याग्रादारभ्य अधस्तान्मूलैर्मूलान्तम् । प्रणीतोदकेनाभ्युक्षणम् पुष्करादारभ्य पुनः प्रतपनम् । दक्षिणतो निधानम् ।
आज्योद्वासनम् । चरोः पूर्वेणानीयाग्नेरुत्तरतः स्थापयेत् (१)11 चरुमुदगुद्वास्य आज्यस्य पश्चिमतो नीत्वा उत्तरतः स्थापयेत् । ततः स्वपुरतो दक्षिणत आज्यम् उत्तरतश्चरुं च कृत्वा । मूलपुस्तके रहितोऽप्ययं पाठोऽत्रापेक्षितः ।”) ।आज्योत्पवनम् । अवेक्षणम् ।अपद्रव्यनिरसनम् ।प्रोक्षण्युत्पवनम् ।उपयमनकुशादानम् । तिष्ठन्समिदाधानम् ।प्रोक्षण्युदकेन प्रदक्षिणम् पर्य्युक्षणम् । पवित्रयोः प्रणितासु निधानम् । अथ दक्षिणं जान्वाच्य जुहोतिस्थान उपविष्ट उपयमनकुशसहितं प्रसारितांङ्गुलिकं सव्यहस्तं हृदि निधाय ब्रह्मणा कुशैरन्वारब्धः स्रुवेण जुहोति । अग्नेरुत्तरभागे ॐ प्रजापतये स्वाहा । इदं प्रजापतये नमम ।अग्नेर्द्दक्षिणभागे ॐ इन्द्राय स्वाहा । इदमिन्द्राय नमम । समिद्धतमे ॐ अग्नये स्वाहा ।इदमग्नये नमम ।ॐ सोमाय स्वाहा । इदं सोमाय नमम । ॐ भूः स्वाहा ।इदमग्नये नमम। ॐ भुवः स्वाहा । इदं वायवे नमम ।ॐ स्वः स्वाहा ।इदं सूर्य्याय नमम। ॐ त्वन्नो अग्नेव्वरुणस्य व्वद्वान्देवस्य हेडो अवयासिसीष्ठाः ।यजिष्ठो वह्नितमः शोशुचानो व्विश्वा द्वेषाँसि प्रमुमुग्ध्यस्मत्स्वाहााइदमग्नीवरुणाभ्यां नमम । ॐ सत्वन्नो ऽअग्नेऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ ।अवयक्ष्व नो व्वरूणर्ठ॰रराणो व्वीहि मृडीकर्ठ॰सुहवो न एधि स्वाहा ।इदमग्नीवरुणाभ्यां नमम । अयाश्चाग्नेऽस्यनभिशस्तिपाश्च सत्यमित्वमया असि । अयानो यज्ञं वहास्यया नो घेहि भेषजस्वाहा । इदमग्नये अयसे नमम । ॐ ये ते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितता महान्तः । तेभिर्नोअद्य सवितोत विष्णुर्विश्वे मुञ्चन्तु मरुतः स्वर्काःस्वाहा । इदं वरुणाय सवित्रे विष्णवे विश्वेभ्यो देवेभ्यो मरुद्भ्यः स्वर्केभ्यश्च नमम ।ॐ उदुत्तमं व्वरुण पाशमस्मदवाधमं व्वि मध्यमँ श्रथाय । अथा व्वयमादित्य व्रते तवानागसो अदितये स्वाम स्वाहा । इदं वरुणायादित्यायादितये नमम । ॐ प्रजापतये स्वाहा । इदं प्रजापतये नमम । ॐ अग्नये स्विष्टकृते स्वाहा । इदमग्नये स्विष्टकृते नमम ।एवं केवलाज्यहोमे । यदि चर्वाद्यन्यदपि होमे द्रव्यं तदा महाव्याहृतिभ्यः प्राक् स्विष्टकृद्धोमः ।
घृते होमद्रव्ये तदा प्रोक्षणीपात्रे प्रक्षेपः ।चर्वादिद्रव्ये सति पात्रान्तरे । ततः संस्रवप्राशनम् । आचमनम् । पवित्राभ्यां नाभितो दक्षिणाङ्गेन शिरःपर्यन्तं मार्जनम् ।पवित्रत्यागोऽग्नौ। प्रणिताविमोकः प्रत्यक् । ब्रह्मन् अस्य कर्मणः साङ्गतासिद्ध्यर्थं पूर्णपात्रमेतत्तुभ्यमहं सम्प्रददे।यत्र यत्राग्निस्थापनं तत्र तत्रेतै पदार्था भवन्ति ॥
अथावसथ्याधानं तत्साध्यानि कर्माणि च लिख्यन्ते । तत्रादौ तत्प्रशंसा तदधिकारी च लिख्यते ।
तत्र वाक्यम् गृहस्थकाण्डे—
नावसथ्यात्परो धर्मो नावसथ्यात्परं तपः ।
नावसथ्यात्परं दानं नावसथ्यात्परं धनम् ॥
नावसथ्यात्परः सेव्यो नावसथ्यात्परं यशः ।
नावसथ्यात्परा सिद्धिर्नावसथ्यात्परा गतिः ॥
नावस्थ्यात्परं स्थानं नावसथ्यात्परं तपः ॥इति॥
अतः आवसथ्याधानमवश्यमेव कर्त्तव्यम् । आथर्वणगृह्ये च “अथ योऽयमनग्निकः स कुम्भलोष्ठस्तद्यथा कुम्भे लोष्ठःप्रक्षिप्तो नैवशोचार्थाय कल्प्यते नैव शस्यं निवर्त्तयत्येवमेवायं ब्राह्मणोऽनग्निकः तस्य ब्राह्मणस्यानग्निकस्य मा दैवं दद्यात् न पित्र्यं न चास्य स्वाध्यायाशिषो न यज्ञाशिप इति”। केन कर्त्तव्यमित्यपेक्षायामाह। तत्र अङ्गहीनाश्रोत्रियषण्ढशूद्रवर्जितब्राह्मणराजन्यवैश्यानुलोम्यरथकाराणां स्त्रीणां चाधिकारः। तत्राङ्गहीनस्यासमर्थत्वात् ,अश्रोत्रियस्यावैदिकत्वात्, षण्ढस्याशुचित्वात्, शूद्रस्यावैदिकत्वात् । ननु रथकाराणां स्त्रीणां चावैदिकत्वात्कथमधिकार इति चेत्, न । **“वर्षासु रथकार आदधीत”**इति पार्थक्येनाधानश्रुतेः । **“मेखलया यजमानं दीक्षयति योक्रेण पत्नी”**मित्यादिना स्त्रीणां दीक्षादिदर्शनेन रथकाराणां स्त्रीणाञ्चाधिकारः ।
तथा चात्रिः—
ब्राह्मणाःक्षत्रिया वैश्याः शूद्रं हित्वाऽनुलोमजाः ।
अधिकुर्वन्ति गार्ह्येषु सह भर्त्रास्त्रियस्तथा ॥
स्त्रीणाश्चात एव भर्त्रासहाधिकारो न पृथक् ।मनुरपि—
नास्ति स्त्रीणां पृथक् यज्ञो न व्रतं नाप्युपोषणम् ।
शुश्रूषयति भर्त्तारं तेन स्वर्गे महीयते ॥ इति ॥
अकृताधाने ज्येष्ठे सोदर्ये पितरि पितामहे वा तिष्ठति तु नाधिकारः । तदाहतुःशातावपसुमन्तू—
सोदर्येतिष्ठति ज्येष्ठे न कुर्य्याद्दारसङ्ग्रहम् ।
आवसथ्यं तथाधानं पतितस्तु तथा भवेत् ॥
ज्येष्ठभ्राता यदा तिष्ठेत्पिता वाऽपि पितामहः ।
कनिष्ठपुत्रपौत्राणामाधानं नैव कारयेत् ॥
तिष्ठति इति अकृताधाने तिष्ठति इत्यर्थः ।
अग्रजस्तु यदाऽनग्निरधिकारोऽनुजे कथम् ।
** इत्यनेनैकवाक्यत्वात् । कारयेत् कुर्य्यादित्यर्थः । अत्र सोदर्यपदं स्वपितृजन्यसोदर्यपरम् । तेन तथाविधे भिन्नपितृजन्यसोदर्ये तिष्ठति तुनाधिकारविघ्नात् ।** तदाहात्रिः—
क्षेत्रजादावनीजाने विद्यमानेऽपि सोदरे ।
नाधिकारविघातोऽस्ति भिन्नोदर्येपि चौरसे ॥इति॥
देशान्तरस्थादौ ज्येष्ठे सत्यपि नानधिकार इत्याह च्छन्दोगपरिशिष्टे कात्यायनः—
देशान्तरस्थक्लीबैकवृषणानसहोदरान् ।
वेश्यातिसक्तपतितशुद्रतुल्यातिरोगिणः ॥
जड़मूकान्धवधिरकुब्जवामनखोडकान् ।
अतिवृद्धानभार्य्यांश्चकृषिसक्तान्नृपस्य च ।
धनवृद्धिप्रसक्तांश्च कामतोऽकारिणस्तथा ।
कुहकाँस्तस्करांश्चापि परिविन्दन्न दुष्यति ॥
** **एकवृषण एकाण्डः।शुद्रतुल्याःगोरक्षणादिकर्मपराः। मनुः—
गोरक्षकान्वाणिजकांस्तथा कारुकुशीलवान् ।
प्रेष्यान्वार्धुषिताँश्चैव विप्रान् शूद्रवदाचरेत् ॥
खोडकः चरणरहितः । कामतोऽकारिणः स्वेच्छयैवाधानमकुर्वाणाः । कुहकः वृथा परवंचनायोद्योगपरः । शातातपोऽपि—
क्लीवे देशान्तरगते पतिते भिक्षुकेऽपि वा ।
योगशास्त्राभियुक्तं च न दोषः परिवेदने ॥
भिक्षुको यतिः गद्गदः अस्पष्टवाक् ।हेमाद्रौ सुमन्तुः—
ज्येष्ठो भ्राता यदा तिष्ठेदाधानं नैव कारयेत् ।
अनुज्ञातस्तु कुर्वीत शङ्खस्य वचनं यथा ॥ इति ॥
भ्रातृपदञ्च स्वपितृजन्यसोदरपरम् ।तत्राधिकारिणोऽकृताधानस्य दोषश्रवणादाधानं नित्यम् । तदाह स्मृतिचन्द्रिकायां गर्गः—
कृतदारो न वै तिष्ठेत्क्षणमप्यग्निना विना ।
तिष्ठन्भवोद्द्विजो व्रात्यस्तथा च पतितो भवेत् ॥
तच्च कदा भवतीत्यपेक्षायामाह—
** सृ० आवसथ्याधानं दारकाले दायाद्यकाल एकेषां वैश्यस्य बहुपशोर्गृहादग्निमाहृत्य चातुष्प्राश्यपचनवत्सर्वमरणिप्रदानमेके पञ्चमहायज्ञा इति श्रुतेरग्न्याधेय देवताभ्यः स्थालीपाक श्रपयित्वाऽऽज्यभागाविष्वाऽऽज्याहुतीर्जुहोति त्वन्नो अग्ने सत्वन्नो अग्न इमम्मे व्वरुण तत्वा यामि ये ते शतमयाश्वाग्न उदुत्तमं भवतन्न इत्यष्टौ पुरस्तादेवमुपरिष्टात्स्थालीपाकस्याग्न्याधेयदेवताभ्यो हुत्वा जुहोति स्विष्टकृते चायास्यग्नेर्वषट्कृतं यत्कर्मणाऽत्यरीरित्रं देवा गातुविद इति बहिर्हुत्वा प्राश्नाति ततो ब्राह्मणभोजनम् ॥२॥**
‘आवसथ्याधानन्दारकाले’ इति सूत्रम् ।आवसथ्यस्य गृह्यस्याग्नेराधानमावसथ्याधानम् । तद्दारकाले विवाहकाले चतुर्थीकर्मानन्तरं कुर्य्यात् । प्राक् चतुर्थीकर्मणःपत्न्या भार्यात्वस्यानुपपत्तेः । सभार्यस्य च आधाने अधिकारः । केचित्तु ‘पित्रा पत्तामादाय गृहत्विा निष्क्राम-
ति’ इत्येष दारकालः। प्राग्ध्रुवदर्शनाद्दारकाल इति भर्तृयज्ञः। वैवाहिकोऽग्निरेवौपासनाग्निरित्याश्वलायनादीनां पक्षः । ते हि विवाहहोममेव दाराग्न्योः संस्कारकं मन्यन्ते । अस्माकन्तु **“आवसथ्याधानं दारकाले”इत्यारभ्याऽग्निसंस्कारस्य पारस्कराचार्येण पृथगभिधानात्तत्संस्कारसंस्कृतोऽग्निरौपासनः ।“दायाद्यकाल एकेषाम्”**इति सूत्रम् ।दायं पैतृकं धनम् तस्य विभागादिना स्वीयत्वेन आद्यः(१)12 कालः। तस्मिन्काले आवसथ्याधानं कर्त्तव्यम् इत्येकेषामाचार्य्याणां मतम। एवञ्चात्र पारस्करकल्पानां माध्यन्दिनीयानामविभक्तदायादरहितानां दारकाले अविभक्तदायादवताञ्चतेषां दायाद्यकाल एवाधानं भवतीति व्यवस्थितविकल्प इति ।
अत एव रेणुः—
आधानं दारकाले वा कुर्य्याद्दायाद्यकालतः ।
अभ्रातृमान्दारकाले दायाद्ये भ्रातृमाँस्तथा ।
चतुर्थीकर्मनिवृत्तौ दारकालः प्रकीर्त्तितः ॥
भ्रातॄणां धनभागे सत्युक्तदायाद्यकालतः ।
व्यवस्थितविकल्पोऽयं भाष्यकारेण दर्शितः ॥
कालातिक्रमे तु—
यावदब्दान्यतीतानि निरग्नेर्विप्रजन्मनः ।
तावन्ति कृच्छ्राणि चरेद्धौम्यं दद्याद्यथाविधि ॥
अस्यार्थःअतिक्रान्तसंवत्सरसंख्यया प्राजापत्यरूपं प्रायश्चित्तं कृत्वा अतिक्रान्तदिवसान् गणयित्वा सायं प्रातर्होमद्रव्यं प्रत्यहमाहुतिचतुष्टयपर्याप्तं ब्राह्मणेभ्यो दद्यात् । प्राजापत्यलक्षणन्तु स्मृत्यर्थसारे—
त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम् ।
त्र्यहंपरन्तु नाश्नीयात्प्राजापत्योऽयमुच्यते ॥
अत्र ग्राससंख्या पाराशरेणोक्ता—
सायन्तु द्वादश ग्रासाःप्रातः पञ्चदश स्मृताः ।
चतुर्विंशतिरयाच्याः परं निरशनं स्मृतम् ॥
**कुक्कुटाण्डप्रमाणस्तु यथा वास्य विशेन्मुखम् ॥ इति ।**कृछ्राद्यनुष्ठाने साधारणेतिकर्त्तव्यता मनुनोक्ता—
महाव्याहृतिभिर्होमः कर्त्तव्यः स्वयमन्वहम् ।
इदं मुख्यविधिना प्राजापत्यम् । तदशक्तौ प्रतिप्राजापत्यं गां दद्यात् तदभावे तन्मौल्यम् । तदुक्तं मनुना—
प्राजापत्यक्रियाऽशक्तौ धेनुं दद्याद्द्विजोत्तमः ।
धेनोरभावे दातव्यं मूल्यं तुल्यं न संशयः ॥
निष्कं निष्कार्धपादं वा पञ्च कार्षापणानि च ॥
तदशक्तौ द्वादशब्राह्मणभोजनमयुतगायत्रीजपं वा गायत्र्या तिलाज्य होमसहस्रं वा । तदुक्तं षट्त्रिंशन्मते—
कृच्छ्रोऽयुतञ्च गायत्र्या द्वादश ब्रह्मभोजनम् ॥
तिलहोमसहस्रं च वेदाध्ययनमेव च ॥
अत्र प्रसङ्गात्सर्वेषां मूल्यान्याह । कात्यायनमूल्याध्यायपरिशिष्टे—
द्वात्रिंशत्पणिका गावश्चतुष्कार्षापणो वरः ।
वृषे षट्कार्षापणका अष्टावनडुहि स्मृताः ॥
दश कार्षापणा धेनोरश्वे पञ्चदशैव तु ।
हिरण्ये कार्पापणकः पणा नव तथाऽधिकाः ॥
वस्त्रे कार्षापणश्छागेऽष्टौ पणा द्वादशाविके ।
वृषल्यामथ पञ्चाशन्मूल्यं कार्षापणाः स्मृताः ॥
निष्के पञ्चाशदेव स्याद्गजे पञ्चशतानि तु ॥
पञ्च कार्षापणाः प्रोक्ता दोलायां षड्रथे तथा ।
गृहेऽष्टौकार्षापणकास्ताम्रकर्षे पणः स्मृतः ।
ताम्रकर्षेऽपि च पण इति मूल्यप्रकल्पना ॥
अधिकं कल्पयेन्मूल्यं नोनं वित्तानुसारतः ॥इति॥
दक्षिणाविषय आवश्यकदाने मुख्यासम्भवे ग्राह्यः । अधमो ह्ययं पक्षः सति वित्ते नाश्रयणीयः । वित्तासम्भवेऽप्यतो न्यूनं न कुर्य्यात् । पणा वराटकामान–ताम्रमान रौप्यमान –सुवर्णमान–रजतमान–भेदात्पञ्चधा । अ–
शीतिकपर्द्दिकाभिः एकः पणः । अशीतिगुञ्जामितं ताम्रं ताम्रपणः । सार्द्धसर्षपमितं सुवर्णं रौप्यपणः । सपादषड्गुञ्जामितं सुवर्णं सुवर्णपणः।सपादषड्गुञ्जापरिमितं रजतं राजतःपणः।कपर्द्दिकापणप्रमाणमाह लीलावत्याम्–
वराटकानां दशकद्वयं २० यत्
सा काकिणी ताश्चपणश्चतस्त्रः ८० ॥
ते षोडश द्रम्म १२८० इहावगम्यो
द्रम्मैस्तथा षोडशभिश्च २०४८० निष्कः ॥१॥
एवमशीति ८० वराटकपरिमितः प्रथमः पण इति । ताम्रपणप्रमाणमाह याज्ञवल्क्यः । **“कार्षिकस्ताम्रिकःपणः”**इति । कर्षपरिमितन्ताम्रं ताम्रपण इत्यर्थः। बृहस्पतिस्तु किञ्चिद्विशेषमाह—
ताम्रः कर्षमितं प्राप्तो विज्ञेयस्ताम्रिकः पणः । इति ।
तत्र कर्षपरिमाणमाह मनुः—
जालान्तरगते भानौ यत्सूक्ष्मं दृश्यते रजः ।
प्रथमं तत्प्रमाणानां त्रसरेणुः प्रचक्षते ॥
त्रसरेणवोऽष्टौ विज्ञेया लिक्षा तु परिमाणतः ।
ता राजसर्षपस्तिस्रस्ते त्रयो गौरसर्षपः ॥
सर्षपाः षड् यवो मध्यस्त्रियवस्त्वेक (१13) कृष्णलः ।
पञ्चकृष्णलको माषस्ते सुवर्णस्तु षोडश ॥
पलं सुवर्णाश्चत्वारः पलानि धरणन्दश ।
इत्येवं प्रमाणसिद्धस्य सुवर्णस्य द्वितीया संज्ञा कर्ष इति । तथा च लीलावत्याम्—
दशार्द्धगुञ्जंप्रवदन्ति माषं माषाह्वयैःषोडशभिश्च कर्षम् ।
कर्षैश्चतुर्भिश्च पलं तुलाज्ञाः कर्षं सुवर्णस्य सुवर्णसंज्ञम् ॥
यद्यपि लीलावत्यां**“तुल्या यवाभ्यां कथिताऽत्र गुंजा”इत्यत्र यवद्वयेनोक्ता**, अत्र तु मध्ययवत्रयेणोक्तत्वात्तत्र गुरुयवद्वयं बोध्यमित्यदोषः । तेन कर्षपरिमिते ताम्रेऽपि पणो भवतीत्ययं द्वितीयः । रौप्यपणप्रमाणमाह—
कार्षापणो दक्षिणस्यां दिशि रौप्ये प्रवर्त्तते(१)14 तदेव दक्षिणस्यां दिशि रौप्यकार्षापणे प्रवर्त्तते प्रचलतीति ।तादृशमूल्योऽपि रौप्यीयः पण इति भावः । तेन द्विविधोऽयम् । तुलारूपो द्रव्यरूपश्चेति ध्येयम् ।”) ॥
** ** इति हेमाद्रौ नारदेनोक्तेः । कार्षापणं प्रकृतो वात् । अर्थात् कार्षापणस्य षोडशोंऽशः पणो भवतीति विज्ञायते तेन सार्द्धसर्षपमितं सुवर्णं रौप्यीयः पणस्तृतीयः । तथा विंशति षप्रमितस्य सुवर्णस्य सुवर्णकार्षापणत्वेन वक्ष्यमाणस्य षोडशोंऽशःसपादैकमाषात्मकः सौवर्णःपणश्चतुर्थः । तथा रजतस्य राजतविंशतिमाषप्रमितत्वेन वक्ष्यमाणषोडशोंऽशःसपादराजतमाषात्मको राजतः पणः पञ्चमः । रजतमाषस्वरूपमुक्तं हेमाद्रौ—
द्वे कृष्णले समधृते विज्ञेयो रूप्य(२)15माषकः।इति।
एवं कृते एकस्या गोर्मूल्यं वराटकामानेन षष्ठ्यधिकपञ्चविंशतिवराटका २५६० भवन्ति । ताम्रमानेन मृदुमुद्रांकितढबुकस्य चतुश्चत्वारिंशदधिकशत १४४ गुञ्जात्मकत्वात् अष्टादश १८ ढबुका (३)16 भवन्ति । रौप्यमानेन द्वियवाधिकगुञ्जाद्वयं सुवर्णं भवति । सुवर्णमानेन चत्वारिंशन्माषप्रमितं ४० सुवर्णं भवति । राजतमानेन चत्वारिंशन्माषप्रमितं ४० रजतं भवति । अथ वरमूल्यमाह ।“चतुष्कार्षापणो वर” इति । चत्वारः कार्षापणा मूल्यं यस्य इति । तत्र कार्षापणमानमपि पञ्चघोक्तम् । वराटकामान–ताम्रमान–रौप्यमान–सुवर्णमान– रजतमान–भेदात् । एतत्प्रमाणसंख्यादिकं पूर्वोक्तमेव ।एवं सर्वत्र । अथ वृषमूल्यमाह ।“वृषे षट् कार्षापणका” इति । वृषो नाम प्रजोत्पादनसमर्थोऽस्पृष्टधुरः ।तस्य षट् कार्षापणका मूल्यं भवति । अथानडुहि मूल्यमाह **“अष्टावनडुहिस्मृताः”**इति ।
कार्षापणका इत्यनुवर्त्तते । ते चानडुहोऽष्टौ मूल्यं भवति । अनडुन्नाम प्रजोत्पादने धूर्वहने च समर्थः । अथ धेनुमूल्यमाह ।“दश कार्षापणा धेनोः” इति । धेनुर्नाम वत्सप्रचुरदुग्धयुता धेनुः ।तस्या दश कार्षापणा मूल्यम् । अथाश्वमूल्यमाह **“अश्वे पञ्चदशैव तु”**इति स्पष्टम् ।
हिरण्यमूल्यमाह—
हिरण्ये काषापर्णकः पणा नव तथाधिकाः ।इति।
नवपणाधिकैककार्षापणक इत्यर्थः । अथ वस्त्रमूल्यमाह **“वस्त्रे कार्षापण”**इति । एकः कार्षापणो वस्त्रमूल्यं भवति । अथ च्छागमूल्यमाह “छागेऽष्टौ पणा”इति । छागे अष्टौ पणा भवन्ति । अत्र “गोरपेक्षया क्रमेण पादमात्रं भवति । अथाविमूल्यमाह “द्वादशाविके”इति । आविके द्वादश पणा मूल्यं भवति । अत्राजापेक्षया क्रमेण सार्द्धमधिकं बोध्यम् । अथ वृषलीमूल्यमाह—
वृषल्यामथ पञ्चाशन्मूल्यं कार्षापणाः स्मृताः ।इति।
वृषली दासी तस्याः पञ्चाशत्कार्षापणा मूल्यं भवति । अत्र धेन्वपेक्षया क्रमेण पञ्चगुणं बोध्यम् । अथ निष्कमूल्यमाह **“निष्के पञ्चाशदेव स्यात्”**इति । निष्को भूषणविशेषः । तत्र पञ्चाशत्काषार्पणा मूल्यं भवति । अत्र दासीतुल्यमूल्यं बोध्यम् । अथ गजमूल्यमाह **“गजे पञ्चाशतानि तु”**इति । गजे हस्तिनि पञ्चाशतानि शतपञ्चकं मूल्यं भवति । अथ दोलामानमाह **“पञ्च कार्षापणाःप्रोक्ता दोलायामिति”**दोला नरवाह्यं यानम् । तत्र पञ्च कार्षापणा मूल्यं भवति । अत्र घेन्वपेक्षयाऽर्द्धक्रमेण बोध्यम् । अथ रथमूल्यमाह **“षड्थे तथा ”**इति । रथे षट् कार्षापणा मूल्यं भवति । अत्र वृषबन्धो बोध्यः । अथ गृहमूल्यमाह **“गृहेऽष्टौ कार्षापणकाः”इति । गृहेऽष्टौ कार्षापणका मूल्यं भवति । अत्रानडुहोद्वहक्रमेण बोध्यम् । अथ ताम्रमूल्यमाह“ताम्रकर्षे पणः स्मृतः”**इति । अत्र गवापेक्षयाऽर्द्धक्रमेण बोध्यम् । अथ पणलक्षणमाह **“ताम्रकर्षेऽपि च पणः”**इति । कर्षवति ताम्रे पणो बोध्य इत्यर्थः । अभ्यासो ग्रन्थसमाप्तिसूचकः ।
<MISSING_FIG href=”../books_images/U-IMG-1695887330100.png"/>
अथाहरणपक्षे आधानमाह । तत्रादौ स्वशाखाध्यायिनं कर्मसुतत्वज्ञं ब्राह्यणं गन्धपुष्पमाल्यवस्त्रालङ्कारादिभिरभ्यर्च्य अमुकगोत्रं अमुकशर्माणं अमुकशाखाध्यायिनं आवसथ्याधानं करिष्यन् कृताकृतावेक्षणत्वेन ब्रह्माणमेभिश्चन्दनपुष्पाक्षतवस्त्रालङ्कारैः त्वामहं वृणे ।वृतोस्मीति तेन वाच्यम्।केचिद्ब्रह्माणं मधुपर्केणार्चयन्ति ।ऋत्विक्त्वाविशेषात् । ततः पल्या सह अहते वाससी परिधाय अग्न्याधानदेशे स्थण्डिलमुपलिप्य पञ्चभूसँस्कारान्कृत्वा तं देशं वस्त्रेण पिधाय ब्रह्मणा सह मृदः स्थालीमादाय ब्राह्मणैः परिवृतो गत्वा**“वैश्यस्य बहुपशोर्गृहादग्निमाहृत्य चातुष्प्राश्यपचनवत्सर्वम्”**इति सूत्रम् ।वैश्यस्य तृतीयवर्णस्य बहुपशोः बहुभिः पशुभिः समृद्धस्य गृहात् स्थाल्यामग्निंगृहीत्वा ब्राह्मणैः परिवृतो वेदघोषगीतवादित्रादिभिः जनितोत्साहः स्वगृहमागत्य परिसमूहनादिपञ्चभूसँस्कारसंस्कृते स्थण्डिले प्राङ्मुख उपविश्यात्माभिमुखमग्निं निदध्यात् । ततो ब्रह्मोपवेशनादिब्राह्मणभोजनान्तं वक्ष्यमाणं कर्म कुर्यात् । चातुष्प्राश्यस्य पचनवत्सर्वमिति । वैश्याभावे गोभिलादिसूत्रवचनात् । गोभिलसूत्रम् “वैश्यकुलाद्वांबरीषाद्वाग्निमाहृत्याभ्यादध्यादपि वा बहुयाजिन एवागाराद्ब्राह्मणस्य वा राजन्यस्य वा वैश्यस्य वाऽपि वाऽन्यं मथित्वाऽभ्यादध्यात्पुण्यस्त्वेवानर्द्धुकोभवतीति । पुण्यःपुण्यकृत् केवलपुण्यकोषकृदेवायमारणेयोऽग्निरिति । अनर्द्धुकःऋद्धिवृद्धिब्रह्मवर्चसादीनामृर्द्धिंन करोतीति अनर्द्धुकः ।तुशब्दो विशेषार्थः । इति गोभिलगृह्यसूत्रभाष्ये । अथ वा पुण्यः पुण्यकृदेवायमारणेयोऽग्निः।अनर्द्धुकः अनृद्धिकरः ।
तत्र कात्यायनः—
पुण्यमेवादधीताऽग्निं स हि सर्वैः प्रशस्यते ।
अनर्द्धुकत्वं यत्तस्य काम्यैस्तन्नीयते शमम् ॥
इत्यपि तदीयभाष्यान्तरे । एवं च सति यथा कामयेत्तथा कुर्य्यात् । अम्बरीषो भ्राष्ट्रः।बहुयाजिनो ब्राह्मणगृहादाहितोग्निस्तेन तस्मिन्ननुगते पुनराधाने वा तत एवानेय इत्येवं विधिर्नियमार्थः । बह्वन्नपाकाद्ब्राह्मण–
महानसाद्वा ।तथा पाकयज्ञप्रदीपोक्ताः स्मृतयः—
ब्रह्मक्षत्रियवैश्येभ्यो वित्तवदभ्योऽग्निमाहरेत् ।
तथा च श्रोत्रियागारादिति तन्त्रान्तरं यतः ॥
अम्बरीषो भवेद्भ्राष्ट्रस्तद्रूपात्कन्दुकादपि ।
महानसादपि भवेद्वहुशो यत्र पच्यते ॥
बहुयज्ञकृतो विप्रात्क्षत्रियाद्विट्कुलादपि ।
अन्नसत्रप्रवृत्ताद्वा श्रुतवृद्धादपीष्यते ॥
अधुना आरणेयपक्षमाह ।**“अरणिप्रदानमेके”**एके आचार्य्याः, अरणिप्रदानम् । प्रशब्द उपशब्दार्थे । अरणिप्रदानमुपादानं कारणं उत्पत्तिस्थानं यस्याग्नेःसोऽरणिप्रदानस्तमरणिप्रदानमग्निमादधीतेति मन्यन्ते । “पञ्च महायज्ञा इति श्रुतेः” पञ्चमहायज्ञानां श्रौतत्वादारणेयाऽग्नावनुष्ठानं युक्तमित्यभिप्रायः । अरणिलक्षणमाह च्छन्दोगपरिशिष्टे—
अश्वत्थो यः शमीगर्भःप्रशस्तोर्वीसमुद्भवः ।
तस्य या प्राङ्मुखी शाखा वोदीची वोर्द्धगापि वा ॥
अरणिस्तन्मयी ज्ञेया तन्मय्येवोत्तरारणिः।
शमीगर्भलक्षणमाह च्छन्दोगपरिशिष्टे—
संसक्तमूलो यः शम्याः स शमीगर्भ उच्यते ॥
उक्तगर्भाभावे अश्वत्थमात्राद्ग्राह्या ।स एवाह—
अलाभेत्वशमीगर्भाद्धरेदेवाविलंबितः ।इति।
दैर्ध्यपृथुत्वोच्चत्वप्रमाणान्याह स एव—
चतुर्विंशतिरङ्गुष्ठादैर्ध्यं षडपि पार्थिव ।
चत्वार उच्छ्रयो मानमरण्योः परिकीर्त्तितम् ॥
अन्यच्च—
चतुर्विंशांगुला दीर्घा विस्तारेण षडङ्गुला ।
चतुरङ्गुलमुत्सेधा अरणिर्याज्ञिकैः स्मृता ॥
मन्थने स्थलविशेषबोधनायारण्यवयवानाह यज्ञपार्श्वे “प्रथमानि चत्वार्य्यङ्गुलानि शिरचक्षुः श्रोत्रमास्यञ्च यानि चत्वार्य्यङ्गुलानि
ग्रीवाऽसौ यदन्यानि चत्वार्य्यङ्गुलानि सा श्रोणी यदन्यानि चत्वार्य्यङ्गुलानि तान्यूरूयान्यन्यानि चत्वार्य्यङ्गुलानि जङ्घेपादौ इत्येषा अरणिः सर्वैरङ्गैः सम्पूर्णा भवति, यच्छिरसि मन्थति शिरोरोगेण यजमानः प्रमीयते, यद्ग्रीवांसेषु मन्थति पक्षहतो यजमानो भवति, यदुदरे मन्थति क्षुधया यजमानः प्रमीयते, यच्छ्रोण्यां मन्थति सा देवयोनिर्यदूर्वोर्मन्थति सा यातुधानानां यज्जङ्घायां मन्थति सा पिशाशानां प्रथमे मन्थने कल्पना नेतरे”इति ।
छन्दोगपरिशिष्टे तु—
मुर्द्धाक्षिकर्णवक्राणि कन्धरा चापि पञ्चमी ।
अङ्गुष्ठमात्राण्येतानि द्व्यङ्गुष्ठं वक्ष उच्यते ॥
अङ्गुष्ठमात्रं हृदयं त्र्यङ्गुष्ठमुदरं तथा ।
एकाङ्गुष्ठाकटिर्ज्ञेयाद्वौ बस्ती द्वौ च गुह्यकम् ॥
ऊरू जङ्घेच पादौ च चतुस्त्र्येकैर्यथाक्रमम् ।
अरण्यवयवा ह्येते याज्ञिकैः परिकीर्त्तिताः ॥
यत्तद्गुह्यमिति प्रोक्तं देवयोनिस्तु सोच्यते ।
तस्यां यो जायते वह्निः स कल्याणकृदुच्यते ॥
अन्येषु ये तु मथ्नन्ति ते रोगभयमाप्नुयुः \।
प्रथमे मन्थने त्वेष नियमो नोत्तरेषु च ॥
मृलादष्टाङ्गुलं त्यत्क्त्वाअग्राच्च द्वादशाङ्गुलम् ।
अन्तरं देवयानिः स्यात्तत्र मथ्यो हुताशनः ॥इति॥
प्रमन्थादिपरिमाणमाह च्छन्दोगपरिशिष्टे कात्यायनः । यज्ञपार्श्वपरिशिष्टञ्च—
अष्टाङ्गुलं प्रमन्थः स्याच्चात्रं स्याद्द्वादशाङ्गुलम् ।
ओविली द्वादशैव स्यादेतन्मन्थनयन्त्रकम् ॥
प्रमन्थः मन्थनकरणीभूतोत्तरारणिखण्डः।
उत्तरारणिनिष्पन्नः प्रमन्थः सर्वदा भवेत् ।
इति तेनैवोक्तेः । चात्रं प्रमन्थप्रोतनायोत्कर्णिमूलं रज्जुवेष्टनका–
ष्ठम् । ओविली उपरिधारणकाष्ठम् । इति मन्थनयन्त्रम् \। अथ पात्राणि पूर्वोक्तानि । ततो ब्रह्मोपवेशनादि आज्यभागान्तं कर्म कृत्वा । **“अग्न्याधेयदेवताभ्यः स्थालीपाक<MISSING_FIG href="../books_images/U-IMG-1697449836Screenshot2023-10-16124911.png"/>श्रपयित्वाऽज्यभागाविष्ट्वाऽऽज्याहुतीर्जुहोति त्वन्नो अग्ने स त्वन्नो अग्न इमम्मे व्यरुण तत्वायामि ये ते शतमयाश्चाग्नउदुत्तमं भवतन्न इत्यष्टौ”**इति सूत्रम् ।अग्न्याधेयस्य श्रौतस्य देवताः अग्निः पवमानोऽग्निः पावकोऽग्निः शुचिरदितिश्च अग्न्यधेयदेवताः ताभ्यः स्थालीपाकं चरुं श्रपयित्वा यथाविधि पक्त्वा आज्यभागौ आग्नेयसौम्यौ आधारपूर्वको हुत्वा । आज्येन आहुतयो होमा आज्याहुतयस्ता आज्याहुतीर्जुहोति । ‘त्वन्नो अग्न’इत्यादिर्भिर्भवतन्न’ इत्यन्ताभिरष्टाभिः प्रत्यृचमष्टौ । ननु “**अग्न्याधेयदेवताभ्यो हुत्वा जुहोति”**इति वक्ष्यति तत्किमर्थमत्र अग्न्याधेयदेवताभ्यइत्युक्तम्? बह्वीनां देवतात्वज्ञापनायेति चेत् । ननु बहुत्वमस्त्येव कुतः शङ्का ? पवमानादिविशेषणविशिष्टस्याग्नेरेकत्वात् । अग्निरेकाअदितिर्द्वितीयेति द्वे अग्न्याधेयदेवते इति द्वयोरेव देवतात्वं मा भूदिति पुनर्ग्रहणम् ।बह्वीनामेव देवतात्वं विशिष्टस्य देवतान्तरत्वमिति इन्द्रमहेन्द्राधिकरणे जैमिनीयैर्निर्णीतत्वात् । आज्यभागाविष्ट्वेतिकिमर्थं पुनर्वचनम् आधारादीनां चतुर्दशाहुतीनां क्रमेण पठिष्यमाणत्वात् ? उच्यते । आज्याहुतीनां किं स्थानमिति संशये आज्याहुतिस्थानविधानार्थम् ।अष्टग्रहणन्तु मन्त्रप्रतीकसंशयनिवृत्त्यर्थम् । **“पुरस्तादेवमुपरिष्टात्स्थालीपाकस्याग्न्याधेयदेवताभ्यो हुत्वा जुहोति”**इति सूत्रम् ।पुरस्तात्पूर्वं कस्याग्न्याधेयदेवताहोमस्याष्टौ जुहोति यथा एवमुपरिष्टात् एवं तथा त्वन्नो अग्न इत्यादिन। क्रमेण उपरिष्टात् कुर्वन् जुहोत्यष्टौ । किंकृत्वा ? हुत्वा ।काभ्यः अग्न्याधेयदेवताभ्यः पूर्वोक्ताभ्यः । कस्य स्थालीपाकस्य चरोः । स्थालीपाकस्येत्यवयवलक्षणा षष्ठी। “स्विष्टकृते च” इति सूत्रम् ।स्विष्टकृते चाग्नये स्विष्टकृते इत्यष्टर्च्चहोमान्ते स्थालीपाकस्य हुत्वा ।चशब्दात् **“अयास्यग्नेर्व्वषट्कृतम्”**इत्यनेन मन्त्रेण आज्याहुर्तंजुहोति । ननु स्विष्टकृते इति किमर्थमुक्तम् ?
**“प्राङ्महाव्याहृतिभ्यः स्विष्टकृदन्यच्चेदाज्याद्धवि”रिति वक्ष्यमाणत्वात् । अत्र चान्यस्य हविषः सद्भावात् ।प्राङ्महाव्याहृतिभ्यः प्राप्तस्य स्विष्टकृद्धोमस्य अयास्याग्नेरिति आज्याहुतेः महाव्याहृतिभ्यः पूर्वं प्राप्त्यर्थम् ।“बर्हिर्हुत्वा प्राश्नाति”**बर्हिः प्रस्तरणार्थम् ।अग्नौप्रक्षिप्य प्राश्नाति भक्षयति । अत्र प्राशनोपदेशसामर्थ्यात्प्राश्यमाकाङ्क्षितम् । तत्किम् हुतशेषःअन्यद्वा किञ्चित् ? उच्यते । पाकयज्ञेष्ववत्तस्यासर्वहोमो हुत्वा होमशेषरक्षणं भक्षणं च श्रौतसुत्रे उक्तमस्ति “पाकयज्ञेष्ववत्तस्यासर्वहोमो हुत्वा शेषप्राशनमिति” । अस्यार्थः ।पाकयज्ञशद्वेन स्मार्त्तहोमा उच्यन्ते । तत्र होमार्थं यदवत्तं गृहीतं तस्य असर्वहोमः कर्त्तव्यः ।स्रुवादिभिर्यद्गृहीतं तद्धुत्वा किञ्चित् परिशिष्य पात्रान्तरे स्थापनमित्यर्थः । सर्वहोमान्हुत्वा पात्रान्तरस्थापितसर्वशेषाणां प्राशनम् । अत्र प्राशनग्रहणं न कर्त्तव्यम् । “श्रौतपरिभाषां स्मार्ते संयोजयाञ्चकार”इति सांख्यायनसूत्रोक्तत्वात् । श्रौते सूत्रे प्राशनस्य विधानात् । प्राश्नातीति पुनरुक्तिर्मार्जनादिनिवृत्त्यर्थम् । श्रोते यथा मार्जनम् पवित्रप्रतिपत्तिर्बर्हिर्होमः प्रणिताविमोकस्तथा स्मार्ते न भवति । उक्तञ्च —अत्र मार्ज्जनम् पवित्रप्रतिपत्तिः प्रणिताविमोकःबर्हिहोम इत्येते चत्वारः पदार्था न भवन्ति मानाभावात् । भाष्यकारहरिहरादयोऽपि ‘बर्हिहोमश्चात्रैव (१)17 वचानाद्भवति नान्यकर्मसु, बर्हिर्होमेप्रजापतिर्देवता अनिरुक्तत्वात् । तथा च लिङ्गम् ।“अनिरुक्तो वै प्रजापतिरिति” ।
आज्यं द्रव्यमनादेशे जुहोतिषु विधीयते ।
मन्त्रस्य देवतायाश्च प्रजापतिरिति स्थितिः ॥
इति च्छन्दोगपरिशिष्टे कात्यायनोक्तेश्च । ननु अकृते वैश्वदेवे त्वित्यादिवचनात् वैश्वदेवात्प्राक्स्थालीपाकानुष्ठानं प्राप्तम्, तत्र च संस्रवप्राशनं विहितम्, तत्कथं माध्याह्निकवैश्वदेवादिकर्मण्यधिकार इति चेत् ? उच्यते । शेषप्राशनस्य कर्माङ्गत्वेन विधानात्। अप्राशनेऽस्य कर्मणो
वैगुण्यात् । नोत्तरकर्माधिकारनिवृत्तिः। **“ततो ब्राह्मणभोजनम्”**सूत्रम् । ततः समाप्ते कर्मणि ब्राह्मणभोजनं दद्यात् । ब्राह्मणभोजनमित्यत्र एकस्मै द्वाभ्यां बहुभ्यो वा भोजनं ब्राह्मणभोजनमिति समासस्य तुल्यत्वात् । एकस्मिन्नपि ब्राह्मणे भोजिते अर्थस्यानुष्ठितत्वात् । एकस्यैव भोजनमिति युक्तम् । यज्ञपार्श्वे—
गर्भाधानादिसंस्कारे ब्राह्मणान्भोजयेद्दश।
शतं विवाहसंस्कारे पञ्चाशन्मेखलाविधौ ॥
** ननु ततो ब्राह्मणभोजनमिति भोजनशब्दस्याशीर्वादोपलक्षकत्वात् कर्मसमाप्त्यनन्तरमाशीर्वचनं ग्राह्यमित्युक्तम्, किं बलादेतत्कल्प्यते,“स्वस्तिवाचनमत्रेष्ट”**मित्याश्वलायनकारिकायास्तु स्वस्तिवाचनप्रकरणोक्तत्वात् कर्मणामाद्यन्तयोः स्वस्तिवाचनङ्कर्त्तव्यामित्येतत्परत्वात् इति चेत् ? सत्यम् । आशीर्वचनस्यापि पुण्याहवाचनान्तःपातित्वेन तद्विधायकत्वसम्भवात् । किञ्च शतपथब्राह्मणे “एता आशिष आशास्ते यजमानाय”
इत्यादेरनारभ्याधीतत्वादाख्यातसमानाधिकरणत्वेनानारभ्याधीतत्वात्सर्वगुण इति कात्यायनेन परिभाषाध्यायेऽभिहितत्वात् प्रमाणमप्यस्ति । तथा शिष्टाचाराच्चेति सर्वमङ्गलम् ।सङ्ग्रहेऽपि—
सर्वत्र कर्मणामन्ते मन्त्राशिषमनुत्तमाम् ।
दद्युर्विप्राःस्वशाखोक्तामादौ तत्कर्मशाखिनः ॥
इति श्री प्रथमशाखीयरामकृष्णविरचिते गृह्यसूत्रविवरणे संस्कारगणपतौद्वितीया कण्डिका ॥२॥
<MISSING_FIG href="../books_images/U-IMG-169587985001.png"/>
अथ सकलसाधारणशिष्टाचारप्राप्तस्येतिकर्त्तव्यतामाह । तथा हि कृतमङ्गलस्नानः स्वलङ्कृतः कृताचमनः प्राङ्मुखो यजमानो वस्त्राच्छादिते पीठे उपविश्य पत्नीञ्च स्वदक्षिणतः प्राङ्मुखीमुपवेश्य संस्कार्यञ्च तथैवोपवेश्य कर्म कुर्य्यात् । उक्तञ्च—
कर्मादौ मन्त्रसंयुक्तं मङ्गलस्नानमाचरेत् ।
दिव्याभरणवासोभिरलङ्कृत्य ततः शुचिः ॥
अन्यच्च—
विवाहादिदिने प्राप्ते तत्कर्त्त्राभार्यया सह ।
कुलदेवादिसम्प्रीत्यै ब्राह्मणांश्चसुवासिनीम् ॥
स्नापयित्वा सकन्येन स्नातव्यं ससुतेन तु ।
परिधायाहतं वस्त्रं द्विपटीञ्च स्त्र्यपि द्वयम् ॥इति।
मङ्गलस्नानमाह—
तैलाभ्यङ्गं बुधैः प्रोक्तं मङ्गलस्नानमुच्यते ।
उत्सवादों प्रकर्त्तव्यं सर्वदा शुभकाङ्क्षिभिः ॥
वसिष्ठसंहितायाम्—
नरकाख्यचतुर्दश्यां विवाहादिमहोत्सवे ।
तथा संवत्सरस्यादौ सूतकान्ते शिरोरुजि॥
श्रावण्यां बलिराज्ये च वसन्तस्योदये तथा ।
तैलाभ्यङ्गो न दुष्येत संक्रान्तिग्रहणादिषु ॥
अलंकृतो वस्त्रादिना ।
अहतञ्च नवं श्वेतं सदशं यन्न धारितम् ।
पवित्रं तद्विजानीयाद्वस्त्रं सकलकर्मसु ॥
इति धर्मप्रवृत्तिवचनम् । **“कार्पासे अन्तरीयोत्तरीये द्वे वस्त्रे परिधीय”**इति सूत्रान्तरात् । याज्ञवल्क्यः—
दग्धं जीर्णञ्च मलिनं मूषकोपहतं तथा ।
खादितं गोमहिष्याद्यैस्तत्त्याज्यं सर्वथा बुधैः ॥
नीलीरक्तन्तु यद्वस्त्रं दूरतः परिवर्जयेत् ।
द्रव्यान्तरयुता नीली न दुष्यति कदाचन ॥
केवलं पहसूत्रे च नीलीदोषो न विद्यते ।
स्त्रियोवस्त्रं सदा त्याज्यमन्यवस्त्रं विवर्जयेत् ॥
अधौतं क्षारधौतञ्च पूर्वेद्युर्धृतमेव च ।
त्रयमेतदसंबद्धं सर्वकर्मसु वर्जयेत् ॥
गौतमः—
एकवस्त्रो न भुञ्जीत श्रौत स्मार्त्ते च कर्मणि ।
न कुर्याद्देवकार्याणि दानं होमं जपन्तथा ॥
मनुः—
खण्डवस्त्रावृतश्चैव वस्त्रार्द्धालम्बितस्तथा ।
उत्तरीयव्यतीतस्य तत्कृतं निष्फलं भवेत् ॥
विधानपारिजातके—
एकवस्त्रा तु या नारी कच्छहीना व्यवस्थिता ।
न साऽधिकारिणी ज्ञेया श्रौते स्मार्ते च कर्मणि ॥
कृताचमनः —
गोकर्णकृतहस्तेन माषमात्रं जलं पिबेत् ।
तन्न्यूनमधिकं पीत्वा सुरापानसमं भवेत् ॥
गोकर्णलक्षणम्—
अङ्गुष्ठाग्रं समाकुंच्य मध्यमाङ्गुलिपर्वणि ।
मुक्ताङ्गुष्ठकनिष्ठाभ्यामेष गोकर्ण उच्यते ॥
देवकर्माङ्गाचमने प्राङ्मुखस्योपवेशनम् ।
उदङ्मुखेन वा कुर्य्यादीशानाभिमुखेन वा ॥
वत्राच्छादिते पीठे उपविश्य ।
स्नात्वा चैव शुचौ देशे पीठे यज्ञियदारुजे ।
अभावे कुशविस्तृते तूपविश्य सुखासने ॥
अन्यच्च—
पीठद्वयेऽबराच्छन्न उपविश्येन्द्रदिङ्मुखः ।
अथ पीठप्रमाणं धर्मप्रवृत्तौ—
अष्टत्रिंशाङ्गुलं पीठमुन्नतं स्यात्षडङ्गुलम् ।
अष्टाङ्गुलन्तु विस्तारं कुर्यादौदुम्बरादिकम् ॥
अथ पत्नीकुमारोपवेशनम् प्रयोगपारिजाते—
संस्कायःपुरुषो वाऽपि स्त्री वा दक्षिणतः सदा ।
संस्कारकर्त्ता सर्वत्र तिष्ठेदुत्तरतःसदा ॥
धर्मप्रवृत्तौ—
जातके नामके चैव ह्यन्नप्राशनकर्माणि ।
तथा निष्क्रमणे चैव पत्नी पुत्रस्य दक्षिणे ॥
गर्भाधाने पुंसवने सीमन्तोन्नयने तथा ।
वधूप्रवेशने चैव पुनः सन्धान एव च ॥
पूजने मधुपर्कस्य कन्यादाने तथैव च ।
कर्मस्वेतेषु वै भार्य्यांदक्षिणे तूपवेशयेत्
स्मृतिसमहे—
व्रतबन्धे विवाहे च चतुर्थीसहभोजने ।
व्रतदाने मखे श्राद्धे पत्नी तिष्ठति दक्षिणे ॥
धर्मप्रवृत्तौ—
आशिर्वादेऽभिषेके च पत्नी तूत्तरतो भवेत् ।
अनन्तपाठककारिकायाम्—
दूर्वापाणिर्द्विराचम्य त्रिःकृत्वाऽमून्नियम्य च ।
गणाधिपं गुरुं स्मृत्वा कुलपूजितदेवताम् ॥
इष्टमन्यत्ततो देशकालौ स्मृत्वैकमानसः ।
ततः सङ्कल्पं कुर्यात् । उक्तञ्च विधानपारिजातके—
मासपक्षतिथीनाञ्च निमित्तस्य च सर्वशः ।
उल्लेखनमकुर्वाणो न तत्फलमवाप्नुयात् ॥
अथ गणपतिपूजनपुण्याहवाचनमातृकापूजननान्दीश्राद्धं विवक्षुस्तत्रादौ वैश्वदेवमाह । यतः श्राद्धापूर्वं पिण्डपितृयज्ञो विहितस्तस्मादपि पूर्वं वैश्वदेवः । तथा च देवलः—
अकृतै वैश्वदेवे तु स्थालीपाकाःप्रकीर्त्तिताः ।
अन्यत्र पितृयज्ञात्तु सोऽपराविधीयते ॥इति॥
अत्र स्थालीपाकसाध्यानि कर्माणि स्थालीपाकशब्देनांच्यन्ते । तानि च पिण्डपितृयज्ञादन्यत्राकृत एव वैश्वदेवे क्रियन्ते । पिण्डपितृयज्ञस्तु कृते
वैश्वदेवे पश्चादपराह्ने क्रियते । पिण्डपितृयज्ञश्च श्राद्धात्पूर्वमुक्तो मनुना—
पितृयज्ञन्तु निर्वृत्य विप्रश्चन्द्रक्षयेऽग्निमान् ।
पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम् ॥इति ॥
अमुमेवार्थं स्पष्टमाह हेमाद्रौ लौगाक्षिः—
पक्षान्तं कर्म निर्वृत्य वैश्वदेवञ्च साग्निकः ।
पिण्डयज्ञं ततः कुर्यात्ततोऽन्वाहार्यकं बुधः ॥ इति ॥
अत्र साग्निकस्त्रेताग्निमान्, पक्षान्तं कर्माऽन्वाधानमन्वाहार्यंदर्शश्राद्धम् \। परिशिष्टे—
सम्प्राप्ते पार्वणश्राद्धे एकोद्दिष्टे तथैव च ।
अग्रतो वैश्वदेवः स्यात्पश्चादेकादशेऽहनि ॥
तथा च हेमाद्रौ शालङ्कायनः—
श्राद्धात्प्रागेव कुर्वीत वैश्वदेवन्तु साग्निकः\।
एकादशादिकं मुक्त्वा तत्र ह्यन्ते विधीयते ॥इति ॥
शाङ्खायनपरिशिष्टेऽपि—
वृद्धावादौ क्षये चान्त्ये दर्शे मध्ये तु कुर्वते ।
महालये च पिण्डान्ते वैश्वदेवं विधीयते ॥ इति ।
रेणुकारिकायामपि—
निर्णजनान्तं निर्वृत्य वैश्वदेवं ततो द्विजः ।
श्राद्धं करिष्ये संकल्प्य तत्कृत्वा पुर्ववत्स्थितः ॥
अतो निरग्निनाप्याभ्युदयिकश्राद्धे चिकीर्षिते पूर्वं वैश्वदेवः कार्यः ।आवसथ्याधानपक्षादिस्थालीपाकाङ्गभूतमाभ्युदयिकंश्राद्धमपि वैश्वदेवानुष्ठानपूर्वकम् ।विधानपारिजातके बृहत्पराशरः—
वैश्वदेवोऽग्रतश्चैव साग्नेर्हीनाग्निकस्य च । इति ।
यत्तु—
अकृते वैश्वदेवे तु स्थालीपाकाः प्रकीर्त्तिताः ।
** **इति देवलवचनं तद्द्वितीयादिप्रयोगविषयम् । गणपतिपूजनात्पूर्व बैश्वदेवः ।
अभ गणपतिपूजनम् । तदुक्तं पद्मपुराणे—
नार्चितो हि गणाध्यक्षो यज्ञादौ यत्सुरोत्तमाः ! ।
तस्माद्विघ्नं समुत्पन्नमक्रोधजमिदं तव ॥इति ॥
ब्रह्मवैवर्त्तेऽपि—
ढुण्ढिराजःप्रियः पुत्रो भवान्याः शङ्करस्य च ।
तस्य पूजनमात्रेण त्रयोऽपि वरदाः सदा ॥
त्रयो ब्रह्मविष्णुशिवाः । भवानीशङ्करगणेशा इति वा । रुद्रकल्पद्रुमेऽपि—
गणेशःसर्वदेवानामादौ पूज्यः सदैव हि ।
सर्वैरपि महाविघ्ननाशकोऽन्यो न विद्यते ॥ इति ।
पूजाविधिमाह रुद्रपद्धतिकृत्परशुरामः—
गणेशं पूजयेत्पूर्वं निर्विघ्नार्थं स्वकर्मणः ।
यद्देवा मृन्मये पीठे रक्तवस्त्रारुणाक्षतैः ॥
कार्य्यमष्टदलं पद्मं तस्योपरि गणेश्वरम् ।
गणानान्त्वेति संस्थाप्य पूजयेत्तदनन्तरम् ॥
गणेश्वरं संस्थाप्य गणानांत्वेति मन्त्रेण पूजयेदित्यन्वयः । स्थापनं गणेशप्रतिमायाः ।गणानान्त्वेति मन्त्रपरिसमाप्तिस्तु कण्डिकापरिसमात्या ज्ञेया ।सर्वत्र स्मार्त्तेकर्मणि मंत्रावसाने बोधकप्रमाणाभावे मन्त्रस्य काण्डकान्तत्वात् । उक्तञ्च रेणुकारिकायाम्—
गृह्यकर्मसु ये मंत्रा ज्ञेयाः स्वाध्यायपाठतः ॥
किञ्च मध्यमवृत्त्या ते न द्रुता न विलंबिताः ॥ इति ॥
यत्तु काशीदीक्षितैर्विश्वनाथभट्टैश्च प्रयोगरत्ने रुद्रपद्धतौ च गणानान्त्वेत्ययं मन्त्रो वस्त्रो ममेत्यन्त इत्युक्तन्तत् काण्वशाखाविषयम् । कण्वशाखायां गणानांतति काण्डिकाया वसो ममेत्यन्ताया एव समधीतस्वात् । गणानान्त्वेत्यादि गर्भधमित्यन्तो मन्त्रो माध्यन्दिनानाम् । तत्रैव कण्डिकाबसानात् । ततः पूजा प्रकारमाह ।रुद्रकल्पद्रुमे मत्स्यपुराणवचनम्—
उपचारैःससिन्दूरैश्चन्दनै रक्तचन्दनैः ।
पुष्पैर्धूपैस्तथा दीपैराच्छादनसुशोभनैः ॥
इति पञ्चोपचारैश्च यन्मया पूजनं कृतम् ।
मारब्धकर्मसिद्ध्यर्थं देवाय कल्पयामि तत् ॥
नारिकेलेण देयोऽर्घः फलेन फलकांक्षिभिः ॥ इति ।
रक्ष रक्ष गणाध्यक्षेत्यादि अर्थमन्त्रान् प्रार्थनामन्त्रांश्च प्रयोगे वक्ष्यामः । पथ्चोपचारैरिति वाक्ये पञ्चोपचारग्रहणमुपलक्षणार्थम् । तेन षोडशोपचारा अपि भवन्ति । षोडशोपचार पूजनं विष्णुपुराणे -
पूर्वमावाहनं प्रोक्तमासनं तदनन्तरम् ।
ततश्च पाद्यमर्ध्यञ्च ततस्त्वाचमनीयकम् ॥
स्नानं वस्त्रं चोपवीतं ततो गन्धादिचन्दनम् ।
पुष्पं धूपञ्च दीपञ्च नैवेद्यं तदनन्तरम् ॥
ततो देयः प्रणामश्च ततो देवा प्रदक्षिणा ।
विसर्जनं ततो दद्यादुपचरास्तु षोड़श ॥
क्वचित्तु प्रणामप्रदक्षिणा स्थाने ताम्बूलदक्षिणा इति ।
वैद्यनाथकृतरुद्रपद्धतौ—
आदौ विनायकं पूज्य ग्रहांश्चैव विधानतः ।
कर्मणां सिद्धिमाप्नोति श्रेयश्चाप्नोत्यनुत्तमम् ॥
इति याज्ञवल्क्यवचनात्संकल्पपूर्वकमविघ्नसमाप्त्यर्थं विनायकस्य महाणाच्यादौ पूजा ।कर्मतत्त्वदीपिकायाञ्च
विवाहोत्सवयज्ञेषु प्रतिष्ठादिषु कर्मसु ।
निर्विघ्नार्थं मुनिश्रेष्ठ ! तथोद्वेगोद्भवेषु च ॥
वश्यकर्माभिचारेषु तथैवोच्चाटनादिषु ।
नवग्रहमखं कृत्वा ततः कार्य्यं समाचरेत् ॥
पितृभक्तितरङ्गिण्यां वाचस्पतिमिश्रास्तु वृषोत्सर्गे आदौ प्रधानसङ्कल्पः ततः पुण्याहवाचनम् ततो मातृपूजा तत आभ्युदयिकम् ।
उक्तञ्च - - आदौ प्रधान सङ्कल्पस्ततः पुण्याहवाचनम् ।
मातृपूजा ततः कृत्वा वृद्धिश्राद्धं ततः परम् ॥ इति ॥
अथ पुण्याहवाचनम् ।तच्च यद्यप्यस्मच्छाखायां नोक्तं तथापि परशास्त्रीय ग्राह्यम् ।
यन्नाम्नातं स्वशाखायां पारक्यमविरोधि यत् ।
इति कात्यायनवचनात् । व्यासः—
सम्पूज्य गन्धमाल्या द्यैर्ब्राह्मणान् स्वस्ति वाचयेत् ।
धर्मकर्मणि मांगल्ये संग्रामेऽद्भुतदर्शने ॥
धर्मप्रवृत्तौ—
पत्नीपुत्रैः समायुक्तः शुभार्थैर्ब्राह्मणैः सह ।
पुण्याहवाचनं कुर्य्यात्सर्वेषु वृद्धिकर्मसु ॥
विवाहान्तेषु सर्वेषु गर्भाधानादि कर्मसु ।
नान्दीश्राद्धं समुद्दिश्य स्वस्तिवाचनमाचरेत् ॥
गृह्यपरिशिष्टे –“अथ स्वस्तिवाचनमृद्धिपूर्तेषु" ऋद्धिर्विवाहान्ता अपत्यसंस्काराः प्रतिष्ठोद्यपने पूर्वं तत्कर्मणश्चाद्यन्तयोः कुर्यादिति ।
आश्वलायनस्मृतिः—
वैदिके तान्त्रिके चादौ ततः पुण्याह इष्यते ।
गृहतत्त्वदीपिकायाम्—
आदौ मध्यावसाने च कुर्य्याद्ब्राह्मणवाचनम् ॥
** **शौनकः—
पुण्याहवाचनविधिं वक्ष्यामोऽथ यथाविधि ।
प्रयोक्तुः कर्मणामादावन्ते चोदयसिद्धये ॥
तच्चकर्म प्रयोगान्तर्गतमिति केचित् \। बद्दवस्तु प्रयोगबहिर्मूतमिति ।आद्यपक्षेतु कर्मप्रयोगसंकल्पं कृत्वा कार्यम् । द्वितीये तुतत्कृत्वा कर्मसंकल्पः । अथ पुण्याहवाचनेतिकर्त्तव्यता ।
कलशस्थापनं कार्ये कमलेऽष्टदलेऽमले।
उदकुम्भं समानीय रुद्रकुम्भवदर्चितम् ॥
अष्टदलकमलकरणप्रकारमाह—
" आद्यं तृतीयं १ /३ तृतीयश्च भूता ३ /५ ।
भूता द्वितीयं ५ / २ द्वितीय चतुर्थम् २ / ४ ॥
चतुर्थमाद्यं ४ /१ च पुनस्तथेति ।
संयोजयेद्विन्दुशरप्रमाणे ॥
भूमिं भूरसि सम्प्रार्थ्याथाजिघ्रेत्यम्बुजे न्यसेत् ।
एवं कलशमापूर्य्यं” इति ॥
हारीतोऽपि—
गोमयेनोपलिप्योर्वी रङ्गवल्लिकयार्च्चयेत् ।
प्रस्थधान्योपरि स्थाप्यं पूर्णं हि कलशद्वयम् ॥
दक्षिणे चोत्तरे चैव उत्तरे तु निधापयेत् ।
पात्रमक्षतपूर्णन्तु फलपुष्पसमन्वितम् ॥
** **उत्तरे तु निघापयेदिति वचनात् उत्तरकलश एव पूर्णपात्रम् निधाय तत्र वरुणपूजां कुर्यात् \। परशुरामेण एकस्यैव कलशस्य स्थापनमुक्तम् । एतदनुसारी शिष्टाचारोऽपि ।कलशद्वयस्थापनन्तु दाक्षिणात्या एवाचरन्ति । “कलशस्य मुखे विष्णु " रित्यादिना कलशं स्थाप्य “अवनिकृतजानुमण्डलम्” इत्यादि बहूवृचपरिशिष्टोक्तं “ब्राह्मणानन्नेन परिविश्य पुण्याहं स्वस्तिकृद्भिरित्योङ्कारपूर्व त्रिस्त्रिरित्येकामाशिषं वाचयेत्” इति बौधायनोक्तं वा यथाऽचारं कार्यम् । उक्तञ्च—
पद्मासने समाविष्टो नमस्कुर्य्यात्प्रयत्नतः ।
पुण्याहवाचनं पूर्वं सतारं ब्राह्मणस्य च ॥
तदेव च निरोङ्कारं कुर्य्यात्क्षत्रियवैश्ययोः ।
** **इति पारिजाते यमोक्तेः । वैद्यनाथकृतरुद्रपद्धतावपि—
सोङ्कारं ब्राह्मणे कुर्य्यान्निरोङ्कारं महीपतौ ।
उपांशु च तथा वैश्ये स्वस्ति शुद्रे प्रकीर्त्तितम् ॥ इति ।
** **आशिषःप्रार्थनामाह “एताःसत्या आशिषःसन्तु” ।कलशपश्चिमदेशे युग्मान् द्विचतुरादिकान् ब्राह्मणानुपवेश्य गन्धादिभिः सम्पूज्य पुण्याहं वाचयिष्ये इति वदेत् ।उक्तञ्च महतत्त्वदीपिकायाम्–
पुण्याहवाचने विप्रा युग्मा वेदविदःशुभाः ।
यज्ञोपवीतिनः शस्ताः प्राङ्मुखाः स्युः पवित्रणः ॥
गन्धपुष्पार्चिताः शुद्धाःसोत्तरीयाःकुशायुधाः ।
आसीनाः पश्चिमे मागे पूर्णकुम्भस्य सत्तमाः ॥
गुरोर्दक्षिणभागे तु कर्त्ताऽसीत तदाज्ञया ।
सूत्रेण वेष्टितं कुम्भमद्भिः पूर्णं सुशोभितम् ॥
मृत्ताम्रादिमयं भूमौ रत्नगर्भसमार्चतम्
सिततण्डुलपूर्णेन पात्रेण पिहिताननम् ॥
पल्लवाद्यैश्च संगृह्य गुरुस्तिष्ठेदुदङ्मुखः ।
वक्तारश्चापि तिष्ठेयुर्विप्रास्तान्वाचयेद्गुरुः ॥
मनः समाधीयतामित्युक्तास्ते गुरुणा द्विजाः ।
समाहितमनसः स्म इति ब्रूयुस्ततः स्थिताः ॥
प्रसीदन्तु भवन्तश्चेत्युक्ते ते चानुमन्त्रिणम् ।
ब्रूयुः प्रसन्नाः स्म इति ततो गुरुमुखा द्विजाः ॥
ततो यजमानो वामहस्ते कलशं निवाय दक्षिणहस्तं तन्मुखोपरि दत्वा सुवर्णादिपात्रे जलं प्रसिञ्चत् “शान्तिरस्तु पुष्टिरस्तु” इत्यादिभिः । ततः पुण्याहकालं वाचयिष्ये यजमानः । विप्राः वाच्यताम् । यजमानः पुण्याहं कुरुते - भो ब्राह्मणाः मम गृहे अस्य कर्मणः पुण्याहभवन्तो ब्रुवन्तु ।ॐ पुण्याहं ब्राह्मणाः । उक्तञ्च शौनककारिकायाम्—
पुण्याहं वाचयिष्येऽहमिति वाचयिता वदेत् ।
वाच्यतामिति भाषन्ते वक्तारश्च सुचेतसः ॥
ओमुक्तिपूर्वंं पुण्याहं भवन्त इति भाषते ।
परे ब्रुवन्त्विति ब्रूयुरों पुण्याहमितीतरे ॥
पुनरप्येवमेव द्विः कृत्वा पुण्याहवाचनम् ।
स्वयं प्रथमं मन्द्रस्वरेणोक्त्वा पुनरेवं मध्यमस्वरेणोक्त्वा पुनरेवमुञ्चस्वरेणोक्ते तथैव तैरुक्तैः । उक्तश्च विधानपारिजाते—
पुण्याहादेस्त्रिरभ्यासे मन्द्रमध्योच्चनिःस्वनम् ।
आश्रवेरन्निमे सर्वे यथाऽगमपरंपरम् ॥इति॥
एवं ऋद्धिं कल्याणं स्वस्ति श्रीम् । स्वस्तिवाचने शौनकेन विशेषो दर्शितः—
प्रारीप्सितं चतुर्थ्योक्त्या कर्मवाचयिता ततः ।
वक्तारश्च चतुर्थ्यन्तं तत्तत्कर्मोक्तिपूर्वकम् ॥
तथा च पाणिनीयसूत्रम् " नमः स्वस्ति स्वाहा स्वधाऽलं वषड्योगाच्च” एभिर्योगे चतुर्थी स्यात् । ‘भो ब्राह्मणाः मम गृहे अस्मै कर्मणे स्वस्ति भवन्तो ब्रुवन्तु’ इति प्रयोगः कर्त्तव्यः (१18) । ततः कर्तुर्वामतःपत्नीमुपवेश्य पात्रपाणिजलेन पल्लवदूर्वाभिरुदङ्मुखा विप्रा अभिषिञ्च युस्तिष्ठन्तः । विशेषस्तु शौनकीये—
ततो वाचयिता कुम्भजलं संस्कार्य मूर्द्धनि ।
किञ्चित्किञ्चित्तथैवान्ये ब्रूयुश्च विविवाशिषः ॥
अभिषेक मन्त्रास्तु स्मृत्यन्तरोताः—
चतुः स्वस्ति पयः पञ्च विष्णोर्द्वादश देवताः ।
प्रातः षट् पञ्च भगः पञ्चेन्द्रैः पञ्च वारुणैः ॥
षड् वातैस्तु शान्तिरष्टौ जपान्मृत्युविनश्यति ।
चतुः स्वस्ति इत्यनेनोक्तेन यस्मिन्मंत्रे स्वस्ति पदानि चत्वारि सन्ति स ग्राह्यः । एवं सर्वत्र व्याख्येयम् ।चतुः स्वस्ति ‘स्वस्तिन इन्द्र’ इति कण्डिका ।पयः पञ्च ‘पयः पृथिव्या ‘मिति कण्डिका । विष्णोरपि ‘विष्णोरराटमसी’ ति कण्डिका द्वादश देवताः’अग्निर्देवता व्वातो देवता’ इति
कण्डिका ।प्रातः षट् ‘प्रातरग्निम्’ इति काण्डका ।पञ्च भगः’भगप्रणेतः’ इति कण्डिका ।पश्चेन्द्रैः ‘त्रातारमिन्द्र’ मिति काण्डका ।पञ्च वारुणैः’व्वरुणस्योत्तम्भनमसि’ इति काण्डका । षट् वातैः ‘नियुत्वान्वाय’ विति कण्डिका । शान्तिरष्टौ ’ द्यौः शान्तिः’ इति कण्डिका । एते अभिषेकमन्त्राः । रूपनारायणादयस्तु यजमानः प्राङ्मुखस्त्रीनधिकान्बोदङ्मुखान्ब्राह्मणानुपवेश्य चन्दनवस्त्रताम्बूलादिभिः परितोष्य ॐ पुण्याहं भवन्तो ब्रुवन्तु इति त्रिस्तान् श्रावयेत् ।ते ब्रूयुः ।ॐ पुण्याहमिति । ॐ स्वस्ति भवन्तो ब्रुवन्त्विति त्रिस्तान् श्रावयेत् । ॐ स्वस्तीति ते त्रिब्रूयुः ।ऋद्धिं भवन्तो ब्रुवन्विति तान् श्रावयेत् ।ॐ ऋद्ध्यतामिति त्रिर्ब्रूयुः । इदं ब्राह्मणस्यैव सोङ्कारम् ।क्षत्रियादिकस्य निरो-
ङ्कारम् । ततः कुशाग्रैः सपल्लवैर्विप्रा अभिषिञ्चेयुः । ततः सुवासिनीभिर्नीराजनं कुर्य्यात् । इति पुण्याहवाचनम् । अत्र रेणुहरिहरगङ्गावराद्याः प्रयोगमध्ये प्रतिमन्त्रं ऋष्यादिकमनुस्मरन्ति । तन्न कर्कादिसम्मतम् । तथा हि—
प्रयोगमध्य ऋष्यादि प्रतिमन्त्रं च न स्मरेत् ।
मानाभावात्प्रयोगस्य प्रांशुभावस्य हानितः ॥
** **“एतान्यविदित्वा योऽधीतेऽनुव्रते जपति जुहोति यजते याजयते तस्य ब्रह्म निर्वीर्य्यं यातयामं भवति” इति सर्वानुक्रमण्यामुक्तत्वात्प्रतिमन्त्रं ऋष्यादिचिन्तनमिति चेन्न । किन्तु तत्र परिज्ञानमात्रं प्रकीर्त्तितम् । न तु कर्मकालोच्चारणम् ।यथार्थज्ञानम् । तथाचोक्तं गोभिलेन—
भार्गवेण तथैवोक्तं जपकालेऽस्य चिन्तनम् ।
न होमादौ कर्मकाले न चापि श्रौतकर्मणि ॥
तस्मादेषां परिज्ञानमात्रं कर्त्तुरपेक्षितम् ॥इति ।
कारिकायामपि—
प्रतिमन्त्रङ्कर्मकाले नेष्टमृष्यादिचिन्तनम् ॥इति ।
अथ मातृकापूजा विष्णुपुराणे—
अकृत्वा मातृयागन्तु वैदिकं यः समाचरेत् ।
तस्य क्रोधसमायुक्ता हिंसामिच्छन्ति मातरः ।
यत्र यत्र भवेच्छ्राद्धं तत्र तत्र च मातरः ॥
इति परिशिष्टात् ।
नानिष्ट्वातु पितृृश्राद्धे कर्म कुर्याच्च वैदिकम् ।
तेभ्योऽपि मातरः पूर्वं पूजनीया प्रयत्नतः ॥
इति शातातपोक्तेः । नैतावता श्राद्धाङ्गं मातृपूजा ।
कर्मादिषु च सर्वेषु मातरः सगणाधिपाः ।
पूजनीयाःप्रयत्नेन पूजिताः पूजयन्ति ताः ॥
इति कात्यायनेन साक्षात्कर्मान्वयोक्तेः । अत एव श्राद्धसङ्कल्पात् पृथगेवास्याः सङ्कल्पः । स्मार्त्तकर्माङ्गेषु पृथक् सङ्कल्प आचारप्रमाणकः । श्रौते तु न तथा ।श्राद्धस्य कर्माङ्गतायां मानम्—
यज्ञोदाहप्रतिष्ठासु मेखलाबन्धमोक्षयोः ।
पुत्रजन्मवृषोत्सर्गे वृद्धिश्राद्धं समाचरेत् ॥
इति विष्णुपुराणीयं वचः ।मातरश्च च्छन्दोगपरिशिष्टे कात्यायनः—
गौरी पद्मा शची मेधा सावित्री विजया जया
देवसेना स्वधा स्वाहा मातरो लोकमातरः ॥
धृतिःपुष्टिस्तथा तुष्टिरात्मनःकुलदेवता ।
गणेशेनाधिका ह्येता वृद्धौ पूज्यास्तु षोडश ॥
अन्ते श्रुतमपि गणपतिपूजनमादौ कार्य्यम् ।
आदौ विनायकः पूज्यो ह्यन्ते च कुलमातरः ।
इति स्मृतिकौस्तुभे बव्हचपरिशिष्टात् । एतेन मदनरत्नादीनां मते गणपतिपूजोक्तिर्नादरणीया ।इदञ्च गणपतिपूजनं मातृपूजाङ्गम् “मातरः सगणाधिपाः” इत्यनेनोक्तत्वात् । अत एव कर्मारम्भे निर्विघ्नफलसिद्ध्यर्थमपि गणपतिपूजनम् । अत्र चतुर्दशपदसमभिव्याहारान्मातरो लोकमातर इति सर्वासां विशेषणम् । एता मातरो लोकमातरो भवन्ति । एता मातरो वृद्धौ पूज्या इत्यर्थः । एवमेव नारायणवृत्तावादित्यभाष्ये च परशुरामादीनां मतेऽध्येवम् । हेमाद्रिरूपनारायणमदनरत्नदानसागरदानप्रदीपादिकारास्तु
“पूज्याश्च षोडशेत्येव मातरो लोकमातरः” इति परिगणनातः पठन्ति अत एव पद्धतिकारैर्द्धौ पक्षावुपन्यस्तौ। वस्तुतस्तु चतुर्दशमन्त्राणामेव सत्त्वात् चतुर्दशत्येव पाठःसाधीयान् । अत एवअविच्छिन्नाध्ययनसम्प्रदायसमागतं पाठं सम्यग् जानन्तः परिशिष्टाध्येतारोऽपि ‘वृद्धौ पूज्याश्चतुर्द्दशे “त्येव पठन्ति ।वाजसनेयिभिश्च यद्यपि स्वगृह्ये मातृपूजाविधेरनुक्तत्वात्
सर्वेषामपि पक्षाणां स्वगृह्योक्तं विधीयते ।
स्वगृह्योक्तस्य चाभावे ग्रहणं स्वेच्छया भवेत् ॥
इति सङ्ग्रहवचनाद्यद्यपि स्वेच्छयोक्तं तथाऽपि च्छन्दोगपरिशिष्टोक्ता एव मातरः पूज्याः । सूत्रपरिशिष्टयोरेककर्त्तकत्वात् पारस्करमतस्याप्याश्रयणीयत्वाच्च । तथा च स्मृतिसङ्ग्रहः—
न गृह्याणि स्मृतिर्येषां श्राद्धादाबुपलभ्यते ।
कर्तुमर्हन्ति ते सर्वे पारस्करमुनीरितम् ॥इति ॥
मातॄणां पूजाविधिमाह च्छन्दोगपरिशिष्टे—
प्रतिमासु च शुभ्रासु लिखित्वा वा षटादिषु ।
अपि वाऽक्षतपुञ्जेषु नैवेद्यैश्च पृथग्विधैः ॥ इति ॥
नैवेद्यैरिति पश्चोपचारान्तरोपलक्षणम् । अत्र केचित् - “मातरः सगणाधिपाः” इत्यत्र मातॄणां गौर्य्यद्याविशेषितानां पूज्यत्वावगमात् तासामेव मिलितानां देवतात्वम् । न तु गौर्य्यादिविशेषितानाम श्रुतत्वात्तासाम् । यद्यपि “गौरी पदमे” त्यादिना विशेषिता एव मातरो देवतात्वेन श्रूयन्ते, तथाऽपि तस्य वचनस्योद्देशमात्रपरत्वानिमलितानामेव मातॄणां देवतात्वमिति मन्यन्ते । अन्ये तु गौर्य्यादीनां प्रत्येकं देवतात्वमाहुः । युक्ततरमिति चैतत् । अन्यथा बहुत्वविशिष्टमातृणामेकदेवतात्वे**“वृद्धौ** पूज्याश्चतुर्दश” इति चतुर्दश संख्याऽनुपपत्तेः ।
दशोपचारैर्देवेशि ! प्रत्येकं नामभेदतः ।
इति रुद्रयामले प्रत्येकं पूज्यत्वविधानानुपपत्तेश्च । तस्मात्प्रत्येकं देवतात्वम् ।
ततो वसुधारा । छन्दोगपरिशिष्टे मातृपूजामुक्त्वा
कुड्यलग्ना वसोर्द्धारा पञ्च धारा घृतेन तु ।
कारयेत्सप्तधाराश्चनातिनीचा न चोच्छ्रिताः” ॥इति ॥
कुड्यादौ “बसोः पावत्रमति" इति ।
घृतधारा उदक्संस्थाःकुर्य्याद्गुडघृतेन च ॥ इति ।
सगुडेन घृतेन वसोर्द्धाराः कार्य्याइत्युक्तं रुद्रकल्पद्रुमे मदनरत्ने। ततो ‘वसोर्द्धारादेवताभ्यो नम इति पंचोपचार पूजाङ्कुर्यात् । बसोर्द्धाराकरणं च कातीयानामेवनान्येषाम् ।वसोर्द्धारेऽपि स्वन्तत्रैव ।नापि सा मातृसांप्रदायिका ।मन्त्रलिङ्गादेश्वोदकस्याभावात् । वसोर्द्धारेति समानाख्यानात् । एषा वसोर्द्धारामातृन्निहितकुड्यादिलग्नाविवक्षिता। पाञ्चालदेशीयास्तु मातृपट्टंकुड्यलग्नं विधाय तस्योपरि बसोद्धीरां पातयन्ति तत्र प्रमाणमन्वेषणीयम् । अन्येऽपि देशाचारा बहवो दृश्यन्ते । गोमयमातृकाः तृणतोरणमातृकाः हरिद्वामातृकाःब्राह्म्यादिमातृकादयोऽश्रुतसंख्याः ।इति मातृपूजा ।
** अथाभ्युदयिकं श्राद्धमुच्यते ।** अभ्युदये पुत्रजन्मादौ यत् क्रियते तदाभ्युदायिकम् ।तच्च द्विविधं सपिण्डकमपिण्डकं वा । इदं यथा कुलदेशाचारं सपिंडकमपिण्डकं दा । तदुक्तं भविष्यपुराणे—
पिण्डनिर्वपणं कुर्य्यान्न वा कुर्य्याद्विचक्षणः ।
वृद्धिश्राद्धे कुलाचारदेशकालाद्यवेक्ष्य हि ॥
** **रुद्रकल्पद्रुमे मत्स्यपुराणवचनम्—
नानिष्ट्वा तु पितॄन् श्राद्ध कर्म वैदिकमाचरेत् ॥
तत्कदा भवतीति नियममाह विष्णुपुराणे—
कन्यापुत्र विवाहेषु प्रवेशे नववेश्मनः ।
शुभकर्मसु बालाना चूडाकर्मादिके तथा ॥
सीमन्तोन्नयने चैव पुत्रादिमुखदर्शने ।
नान्दीमुखान्पितॄनादौ तर्पयेत्यतो गृहा ।
पुत्रादिमुखदर्शने पुत्रजन्मनीत्यर्थः । धर्मप्रवृत्तौ जाबालिः—
यज्ञोद्वाहप्रतिष्ठासु मेखलावन्धमोक्षयोः ।
पुत्रजन्मवृषोत्सर्गे वृद्धिश्राद्धं समाचरेत् ॥
वृद्धगार्ग्यः—
अग्न्याधानाभिषेकादाविष्टापूर्ते स्त्रियाऋतौ ।
वृद्धिश्राद्धं प्रकुर्वीत आश्रमग्रहणे तथा ॥
इष्टशब्देन विवाहादि ।पूर्त्तशब्देन वाप्यादि । मदनरत्ने जातूकर्ण्यः—
वापीकूपतडागादि देवतायतनानि च ।
अन्नप्रदानमारामाःपूर्त्तमित्यभिधीयते ॥ इति ।
आदिशब्दात् ग्रहयज्ञवापीकूपतडागारामदेवतायतनारम्भप्रतिष्ठाऽयुतलक्षकोटिहोममहादानारम्भ-शालारंभशालाप्रवेशकर्मस्वग्निमताऽनमिमता चाभ्युदयिकं कार्य्यम्।आवसथ्याघानसायंप्रातर्होमपक्षादि-कर्मपश्चमहायज्ञोपा कर्मलांगलयो जनश्रवण कर्मप्रौष्ठपदी कर्माश्वयुजीकर्मसीतायज्ञनवान्नप्राशना-प्रयणीयकर्मत्रस्तरारोहणानीत्येवं सर्वदा कर्मादौ श्राद्धेप्राप्तेऽपवादमाह कात्यायनः—
असकृद्यानि कर्माणि क्रियन्ते कर्मकारिभिः ।
प्रतिप्रयोगं नैता स्युर्मातरः श्राद्धमेव च ॥
यानि कर्माणि श्रावण्याग्रयणादीनि वारंवारमनाहिताग्यादिना क्रियन्ते एषु प्रथमप्रयोग एवं मातृपूजाऽभ्युदयिके न तु प्रतिप्रयोगमित्यर्थः । असकृत्क्रियमाणेष्वपि येषु कर्मसु न प्रतिप्रयोगं श्राद्धावृत्तिस्तानि नियमयितुं विशेष्य दर्शयति स एव—
आधाने होमयोश्चैव वैश्वदेवे तथैव च ।
नवयज्ञेषु यज्ञज्ञा वदन्त्येवं मनीषिणः ॥
एकमेव भवेच्छ्राद्धमेतेषु न पृथक् पृथक् ॥
आधानभेदा नित्यनैमित्तिककाम्यरूपाः ।होमयोः सायंप्रातर्होमियोः । नवयज्ञ आग्रयणेष्टिः। एवं चान्येषु सोमयागादिषु प्रतिप्रयोगं श्राद्धावृत्तिरित्यायातम् । एतानि यद्यपि चेदसकृत्क्रियन्ते तदा प्रथमप्रयोग एव श्राद्धं न प्रतिप्रयोगे ।तदुक्तं ब्रह्मपुराणे—
नाष्टकासुभवेच्छ्राद्धं न श्राद्धे श्राद्धमिष्यते ।
न सोष्यंतीजातकर्मप्रोषितागतकर्मसु ॥
इदमाभ्युदयिकं श्राद्धं वक्ष्यमाणं च मातृपूजनमेकस्थाने कर्मसंस्कारेषु एककर्तृकेषु युगपदुपस्थितेषु सर्वादौ तन्त्रेण कार्यम्, न तु प्रतिसंस्कारमावृत्त्या।यथा दैवतकृतजातकर्मादिकस्योपनयनकाले जातकर्माद्यनुष्ठानेदेशान्तरगतस्य मृतबुद्धया कृतौर्ध्वदेहिकस्यागतस्य पुनर्जातकर्मादिसंस्काराणां विहितानां युगपद्नुष्ठाने कर्मनाशाजलस्पशादीनां प्रायश्चित्ततया’ पुनःसंस्काराणां विहितानां युगपदनुष्ठाने वा । तदुक्तं ब्रह्मपुराणे—
गणशःक्रियमाणानां मातृभ्यःपूजनं सकृत् ।
सकृदेव भवेच्छ्राद्धमादौ न तु पृथक् पृथक् ॥ इति ।
तथा च च्छन्दोगपशिशष्टे—
गणशः क्रियमाणानामेकं स्यान्मातृपूजनम् ।
नान्दीश्राद्धं भवेदेकं होममन्त्राः पृथक् पृथक् ॥
इदं बह्वपत्यानां युगपत्संस्कारविषयमिति वोपदेवः । तत्कथं कर्तव्यमित्याह “प्रदक्षिणमुपचारः “ इति सूत्रम् ।उपचरणमुपचारः।अनुष्ठानं करणमिति यावत् । तेनात्र सर्वमनुष्ठानं प्रदक्षिणं भवतीत्यर्थः । अत्र प्रदक्षिणग्रहणं कर्मकर्तृनिष्ठसकलदेवधर्मोपलक्षणार्थम् । ततश्च प्राक्संस्थत्वोदक्संस्थत्वोपवीतित्वप्राङ्मुखोदङ्मुखत्वदक्षिण जानुनिपातित्वदेवतर्थिवत्वादि दैवधर्मः कृत्स्नोऽत्र भवति । यथाऽह हेमाद्रौ शातातपः—
कर्तव्यं चाभ्युदयिकं श्राद्धमभ्युदयार्थिना ।
सव्येन चोपवीतेन ऋजुदर्भैश्चधीमता ॥
पितॄणां रूपमाख्याय देवा अन्नं समश्नुते ।
तस्मात्सव्येन दातव्यं वृद्धिकाले तु नित्यशः ॥
यथैवोपचरेहेवांस्तथा वृद्धौ पितॄनपि ।
छन्दोगपरिशिष्टे कात्यायनोऽपि—
दक्षिणं पातयेज्जानु देवान्परिचरन् सदा ।
पातयेदितरज्जानु पितॄन्परिचरन्नपि ॥
निपातो न हि सव्यस्य जानुनो विद्यते क्वचित् ।
सदा परिचरेद्भक्त्या पितृृनप्यत्र देववत् ॥
अत्रैके प्राङ्मुखस्य कर्तुरुदक्संस्थताया विधानसामर्थ्यात्प्रादक्षिण्यमपास्येदित्याहुः । तत्राऽपि प्रादक्षिण्यमेवेत्युदङ्मुखस्यैव कर्तृत्वामित्यन्ये । एतच्च मतद्वयं काशिकाकार उपन्यस्तवान् । अत्र ब्रूमः—
प्रागग्रेष्वथ दर्भेषु आद्यमामन्त्र्य पूर्ववत् ।
अपः क्षिपेन्मूलदेशेऽवनेनिक्ष्वेति निस्तिलाः ॥
द्वितीयं च तृतीयं च मध्यदेशाप्रदेशयोः ।
मातामहमप्रभृतिस्तु एतेषामेव वामतः ॥ इति ।
पार्वणवद्दैव प्राङ्मुखान्पित्र्ये चोदङ्मुखान् ।हेमाद्रौ भविष्यपुराणेऽपि—
प्राङ्मुखांश्चतुरश्चैव चतुरश्च उदङ्मुखान् ।
निवेश्य ऋजुर्भैर्दद्यादासनमादरात् ॥
सर्वानेव तु तान्विप्रान्प्राङ्मुख नुपवेशयेत् ॥
इति हेमाद्रौ छागलेयोक्तेर्दैवे पित्र्ये च ये विप्रास्ते सर्वेऽपि प्राङ्मुखा उदङ्मुखा बोपवेशनीया इत्ययमपि पक्षोऽस्ति । तथाऽपि च्छन्दोगपरिशिष्टे कात्यायनेन प्रकृतिप्राप्तस्यापि ब्राह्मणोपवेशनस्य पुनर्विधानात्प्रकृत्यनुग्रहाच्च पूर्वोदाहृतपक्ष एव कात्यायनादिसम्मत इति वाजसनेयिमिः स एवाश्रयणीयः ।परन्त्वेतावान्विशेषः । अत्र प्रदक्षिणोपचारताविधानात्तदनुग्रहाय ब्राह्मणपंक्तिनिवेशः प्रागुपक्रमः पश्चादवर्ग एव विधेय इति । अत्र कर्तुर्दिङ्नियमोऽमिति आश्वलायनगृह्यपरिशिष्टे —“आभ्युदयिके युग्मा ब्राह्मणा अमूला दर्भाः प्राङ्मुखेभ्य उदङ्मुखो दद्यादुङ्मुखेभ्यो वा प्राङ्मुखो द्वौ दर्भौपवित्रे” इति । अत्र प्राङ्मुखेभ्य उदङ्मुखो दद्यादित्युदङ्मुखतानियमः । उदङ्मुखेभ्यो वा प्राङ्मुख इत्यनेन प्राङ्मुखत्वोदङ्मुखत्वयोर्विकल्प उक्तः । अत एव हेमाद्री मार्कण्डेयपुराणे—
उदङ्मुखः प्राङ्मुखो वा यजमानः समाहितः ।
वृद्धिश्राद्धं प्रकुर्वीत नान्यवक्रःकदाचन ॥ इति ।
अत्र वृद्धिश्राद्धवाच्यं पितृपार्वणं मातामहपार्वणं चेति पार्वणद्वयमेव न तु वैश्वदोविकम् वृद्धिश्राद्धांशेन वैश्वदेविकधर्माणामेव विधेयत्वात् । केचित्तु यद्यपि सूत्रकारेण विश्वेदेवौ नोक्तौ तथापि स्मृतिवचनाद्ग्राह्यौ
(१)19इष्टिश्राद्धे क्रतूदक्ष सत्यौ नान्दीमुखे वसू ।
इति हेमाद्रौ शङ्कोक्तेः ।वृद्धिश्राद्धे कालमाह “पूर्वाह्णे” इति सूत्रम् । पूर्वाह्नेआभ्युदयिकं विधेयमित्यर्थः । अत्र पूर्वाह्णस्त्रेधाविभक्तस्याह्नः प्रथमो भागः । “पूर्वाह्णोवै देवानां मध्यन्दिनो मनुष्याणामपराह्णः पितॄणाम्” इति श्रुतेः । अत एव च्छन्दोगपरिशिष्टे कात्यायनः—
पिण्डान्वाहार्यकं श्राद्धं क्षीणे राजनि शस्यते ।
वासरस्य तृतीयेंशे नातिसन्ध्यासमीपतः ॥ इति ।
त्रेधाविभागमाह —“विभागस्तु समो ज्ञेयः” । पुत्रजन्मादौ तु तत्काल एव ।पूर्वेयुर्मातृपार्वणम् ।कर्माहे पितृपार्वणम् । कर्मोत्तराहे मातामहपार्वणम् । अस्याप्यसम्भव पूर्वेद्युरेव पू र्वाह्ने मातृपावणं मध्याह्ने पैतृकमपरराद्धे मातामहानाम् । तथाच हेमाद्रौ गार्ग्यशातातपौ—
मातृश्राद्धं तु पूर्वेद्युःकर्माहनि तु पैतृकम् ।
मातामहं चोत्तरेद्युर्वृद्धौ श्राद्धत्रयं स्मृतम् ॥
______________________________________
इष्टिश्राद्धलक्षणमाह श्राद्धचन्द्रिकायाम् —“इष्टिमाद्धमाधान सोमयागादौक्रियमाणं श्राद्धम्” इति । कर्माङ्गश्राद्धलक्षणमपि तत्रैव पारस्करः—
निषेककाले सोमे च सीमन्तोन्नयने तथा ।
ज्ञेयं पुसवने श्राद्धं कर्माङ्गं वृद्धिवत्कृतम् ॥
इति मञ्जर्याम् । इष्टिश्राद्धमेव कर्माङ्गश्राद्धमिति कौस्तुभे । अभ्युदयो वृद्धिरित्यनर्थान्तरम् ।वृद्धिश्राद्धमेव नान्दीमुखम् । संज्ञाभेदः प्रयोगविशेषार्थः । तथा च वृद्धवसिष्ठः—
पुत्रजन्मविवाहादौ वृद्धिश्राद्धमुदाहृतम् ।
तत्र नान्दीमुखमिति विशेषः समुदाहृतः ॥
इति श्राद्धकाशिकायाम् । तेन सर्वत्रेष्टिश्राद्धे कर्माङ्गश्राद्धे च क्रतुदक्षसंज्ञकानां विश्वेषान्देवानामुल्लेखः । नान्दीमुखे वृद्धिश्राद्धे आभ्युदयिके च सत्यवसुसंज्ञकानामिति भावः ।
अस्याप्यसम्भवे पूर्वेद्युरेव पूर्वाण्हेमातृपावर्णम् । मध्याह्ने पैतृकम् । अपराह्णेमातामहानाम् ।
पूर्वाह्णेमातृकं श्राद्धं मध्याह्ने पैतृकं तथा ।
ततो मातामहानां च वृद्धौ श्राद्धत्रयं स्मृतम् ॥ इति ।
कालत्रयं तु तदन्यशाखाविषयम् ।वाजसनेयिनान्तु एकवचननिर्देशादेकस्मिन्पूर्वा-ह्णेआभ्युदायिकं कार्यमित्यर्थात् पूर्वाह्णेइति सूत्रादाभ्युदयिकश्राद्धस्यैककालसाध्यतावगमात् । यदि तु मात्रादित्रीणि श्राद्धानि सूत्रकृता उक्तानि स्युस्तदा तेषां दिनत्रयसाध्यता पूर्वाह्नादिकालत्रयसाध्यता वा स्यात् । नैव सूत्रकृता त्रीणि श्राद्धान्युक्तानि किन्तु पितृमातामहपार्वणद्वयात्मकं श्राद्धद्वयमेवोक्तम् । अपि च मात्रादिश्राद्धानां कालभेदात्प्रयोगभेदो भविष्यति । सूत्रकारस्तु द्वयोर्द्वयोः प्रयोगैकत्वं दर्शयति - “नान्दीमुखाः पितरः पितामहाः प्रपितामहा मातामहाः प्रमातामहा वृद्धप्रमातामहाश्च प्रियन्तामिति” । एतच्च प्रकृ ( १ )20 तिमिव सह प्रयोग एवोपपद्यते ।
प्रागग्रेष्वथ दर्भेषु आद्यमापन्त्र्यपूर्ववत् ।
अपः क्षिपेन्मुलदेशेऽवनेनिक्ष्वेति पात्रतः ॥
द्वितीयं च तृतीयं च मध्यदेशाग्रदेशयोः ।
मातामहप्रभृतींस्तु एतेषामेव वामतः ॥
इति च्छन्दोगपरिशिष्टे कात्यायनेन निःसन्दिग्धं सह प्रयोगो दर्शितः । आद्यं पितरं द्वितीयं पितामहं तृतीयं प्रपितामहम् । न हि प्रयोगभेदे पित्रादीनां वामतो मातामहादीनामवनेजनं सम्भवति । यदपि—
अलाभेभिन्नकालानां नान्दीश्राद्धत्रयं बुधः ।
पूर्वेद्युर्वैप्रकुर्वीत पूर्वाह्णे मातृपूर्वकम् ॥
इति वृद्धमनुवचनं तदपि शाखान्तरविषयम् । अत एव च्छन्दोगपरिशिष्टे—
आयुष्याणि च शान्त्यर्थजप्त्वा तत्र समाहितः ।
षड्भ्यः पितृम्यस्तदनु श्राद्धदानमुपक्रमेत् ॥
तथा च कात्यायनः—
कर्षूसमन्वितं मुक्त्वा तथाऽद्यं श्राद्धषोडशम् ।
प्रत्याब्दिकविशेषेषु पिण्डाः स्युः षडिति स्थितिः ॥ इति ।
दाहदिनादारभ्य दशमदिनपर्यन्तं तैलकल्कोदकक्षीरनिवेशनार्थं गर्तः कषूशब्देनोच्यते, तद्युक्तं श्राद्धमित्यर्थः । अत्र मंत्रे पित्रादिषण्णामेव संकीर्तनमाभ्युदयिकं षड्दैवत मिति प्रज्ञप्त्यर्थम् ।तुल्ययोगिताऽर्थश्वकारः । तथा काशिकायाम्—
पितरो यत्र पूज्यन्ते तत्र मातामहा ध्रुवम् ॥ इति ।
‘नान्दीमुखाः पितरः पितामहा’ इति ‘षड्भ्यः पितृभ्य’ इति ‘पिण्डाःस्युः षडिति स्थितिः।
इत्यादिवचनविरोधात् । तस्मात्पित्रादीनां षण्णामेवेह देवतात्वम् । यत्तु कैश्चिदुक्तं षड्भ्यः पितृभ्य इति वाक्यं कोकिलविषयमिति तन्न । यतश्छन्दोगपरिशिष्ट एव षड्भ्यः पितृभ्य इति वाक्यमधि पित्रादीनामवनेजनमुक्त्वा
मातामहप्रभृतींस्तु एतेषामेव वामतः ।
इत्यादिना मातामहादीनामवनेजनं कात्यायनो ब्रूते ।नचैवं कोकिलमते सम्भवति, मातृमातामहप्रमातामहानां त्रयाणामुद्देशेनैव द्वितीयपार्वणस्य सर्वत्र तन्मते विहित्वात् । तस्मान्न षड्भ्यः पितृभ्य इति वचनं कोकिलविषयमिति । अतश्च कात्यायनसूत्रानुसारिणां वाजसनेयिनां वासिष्ठसूत्रानुसारिणां छन्दोगानां च षड्दैवत्यमेवाभ्युदयिकश्राद्धं भवतीति सिद्धम् । यत्तु “अन्वष्टकासु वृद्धौ च” इति स्मृत्यन्तरवचनं तच्छा खान्तरविषयम् । यानि तु—
मातृश्राद्धं तु पूर्वं स्यात्पितॄणां तदन्तरम् ।
ततो मातामहानां च वृद्धौ श्राद्धत्रयं स्मृतम् ॥
इत्यादीनि वचनानि शाखान्तरविषयाणि । यद्यपि श्राद्धकाशिकायाम्—
नवानां नवकं वृद्धौ तथैवान्वष्टके विदुः ।
कुर्याद्द्वादशदैवत्यं प्रेते तीर्थे गयासु च ॥
इति कात्यायननाम्ना लिखितवचनं तदप्यन्यशाखाविषयम् ।सूत्रस्मृत्योर्विरोधे सूत्रस्यैवासाधारणत्वेन बलीयस्त्वात् ।स्मृतेस्तु सर्वशाखासाघारण्येनात्र सावकाशवेन दुर्बलत्वात् । एतेन हलायुधश्राद्धकाशिकाकारादिभिः कात्यायनसूत्रानुसारिभिर्यद्वाजसनेयिनामाभ्युदायकं नवदैवत्यमित्युक्तं तत्कात्यायनसूत्रविरुद्धत्वात्कात्यायनप्रणीतच्छन्दोगपरिशिष्टादिवचनविरुद्ध-त्वाच्चोपेक्षणीयम् (१)21। “पित्र्यमन्त्रवर्जंजपः” इति सूत्रम् ।पित्र्यमन्त्रा अश्नत्सु जपेदित्यत्रोक्ता “उदीरतामवर” इत्यादयस्तान्वर्जयित्वा जपेदित्यर्थः । पित्र्यमन्त्रग्रहणं मधुमतीपितृसंहितयोरुपलक्षणार्थम् । तथा च श्राद्धकाशिकायां मनुकात्यायनौ—
मधुव्वाता जपस्थाने कुर्यात्तत्र प्रयत्नतः ।
उपास्मै गायतेत्यादि ऋचः पञ्च जपेत्तथा ॥
इति पञ्चर्चां जपविधानं ऋक्शाखीयविषयम् । अत्र जपशब्दाद्यो भुञ्जानेषु द्विजेषु पितृलिङ्गकानां मन्त्राणां जपः स एव निषिध्यते, न तु पदार्थानुकरणीभूतानामपि । अत एवाह जातूकर्ण्यः —
पितृलिङ्गेन मन्त्रेण यत्कर्म मुनिभिः स्मृतम् ।
तेनैव तद्विधातव्यममन्त्रमकृतं यतः ॥इति ।
“ऋजवो दर्भाः” इति सूत्रम् । अत्रामूला ऋजवो दर्भा भवन्ति न
द्विगुणा इत्यर्थः। दर्भाणाममूलत्वविशेषणमुक्तं रुद्रकल्पद्रुमे आश्वलायनसूत्रे “आभ्युदयिके युग्मा ब्राह्मणा अमूला दर्भा” इति । “यवैस्तिलार्थाः” इति सूत्रम् । अत्र ये तिलार्थास्ते सर्वे यवैःकार्याः । तदत्र मन्त्रे यवोऽसीति ऊहः कार्यो मुख्यद्रव्याभिधायकत्वात् । मन्त्रोहश्चाश्वलायनसूत्रे प्रदर्शितः “यवोऽसि सोमदैवत्यो गोसवो देवनिर्मितः ॥ प्रत्नमद्भिः पृक्तः पुष्ट्या नान्दीमुखान् पितॄन् लोकान् प्रीणाहि नः स्वाहा ” इति । रुद्रकल्पद्रुमेऽपि—
तिलोऽसीति पदस्थाने यवोऽसीति पदं वदेत् ।
स्वधयेति पदस्थाने पुष्ट्याशब्दं वदेदिह ॥
पितॄनिति पदात्पूर्वं वदेन्नान्दीमुखानिति ।
अत्रार्घदाने विशेषमाह च्छन्दोगपरिशिष्टे कात्यायनः—
ज्येष्ठोत्तरकरान् युग्मान् कराग्राग्रपवित्रकान् ।
कृत्वाऽर्घःसम्प्रदातव्यो नैकैकस्यात्र दीयते ॥ इति ।
युग्मान् पित्र्यब्राह्मणान् ज्येष्ठोत्तरकरान् ज्येष्ठस्य प्रथमोपवेशितस्य कर उपरि येषान्ते तथा कराग्रेपवित्राग्रं येषां ते कराग्राग्रपवित्रकास्तांस्तथाविधान् कृत्वाऽर्घोदातव्य इत्यर्थः । इदं च च्छन्दोगविषयं तत्परिशिष्टगतत्वादिति स्मृतिरत्नावलीकारः । तेनाऽस्य मते प्रकृतिवदेवार्घदानं नत्विह कश्चिद्विशेषः । अन्ये मदनरत्नढोंदूपद्धतिकारादयस्तु-अर्घदाने विशेषविधेर्वाजसनेयिशाखासाधारण्यं मन्यन्ते । अत्र च “शेषं प्रकृतिव” दित्यतिदेशेन प्राप्ताऽर्घपात्रस्य न्युज्बता भवत्येव । श्राद्धकाशिकाकारस्तु—
अपसव्यं पित्र्यमन्त्रा वामजानुनिपातनम् ।
न्युब्जपात्रं न कर्तव्यं वृद्धिश्राद्धेषु सर्वदा ॥
इतीश्वरवाक्यान्न विधेयमित्याह । तद्विशेषवाक्यानवलोकननिबन्धनमित्युपेक्षणीयम् । “सम्पन्नमिति तृप्तिप्रश्नः” इति सूत्रम् ।तृप्तास्स्थेत्यस्य स्थाने सम्पन्नमित्ययं प्रश्नो भवति । सुसम्पन्नमितीतरे ब्रूयुरिति पठन्ति । तत्त्वनाहतं कर्कोपाध्यायादिभिर्भाष्यकारैः । छन्दोगपरिशिष्टे कात्यायनोऽपि—
सम्पन्नमिति तृप्ताःस्थ प्रश्नस्थाने विधीयते ।
**सुसम्पन्नमिति प्रोक्ते शेषमन्नं निवेदयेत् ॥**इति ।
केचित्तु विकरो वृद्धिश्राद्धे न कार्यः ।
आमश्राद्धे च वृद्धौ च प्रेतश्राद्धे तथैव च ।
विकरं नैव कुर्वीत मुनिःकात्यायनोऽब्रवीत् ॥
इति धर्मप्रदीपादित्याहुः, तन्न ।
नान्दीमुखान् पितॄन् पूज्य पितृकार्यं विधानवत् ॥
इति प्रकृत्य—
विकरं च तथा पिण्डान्दद्याच्च नियमं विना ।
ब्रूयात्तृप्तेषु सम्पन्नं वृद्धिश्राद्धे समाहितः ॥
इति हेमाद्रौ चतुर्विंशतिमतोक्तेः, सर्वजातीयसिद्धमन्नमेकपात्रे समुद्धृत्य विकरं कुर्यादिति सार्थकात्,
सुसम्पन्नं च ते ब्रूयुः सर्वसिद्धान्नतः क्षिपेत् ॥
इति हेमाद्रौब्रह्मपुराणाच्च। वस्तुतस्तु धर्मप्रदीपवचने “कात्यायनोऽब्रवीत्” इत्युक्तेःकात्यायनसूत्रपरिशिष्टादिविरुद्धत्वात्तन्निर्मूलम् । “न स्वधां प्रयुञ्जीत” इति वक्ष्यमाणसूत्रम् । इदं सूत्रं किंचित्पूर्वमेव व्याख्यातम् । तदुपयोगीनि किञ्चिद्वचनान्याहतथा च पुराणसमुच्चये—
न स्वधा शर्म वर्मेति पितृनाम न चोच्चरेत् ।
न कर्म पितृतीर्थेन न कुशा द्विगुणीकृताः ॥
न तिलैर्नापसव्येन पित्र्यमन्त्रविवर्जितम् ।
अस्मच्छब्दं न कुर्वीत श्राद्धे नान्दीमुखे क्वचित् ॥
अत्र “पितृनाम न चोच्चरेत् । अस्मच्छब्दंन कुर्वीत” इति शाखान्तरविषयम् । अत्र सङ्कल्पादौ विशेषः सङ्ग्रहे—
शुभाय प्रथमान्तेन वृद्धौ सङ्कल्पमाचरेत् ।
न षष्ठ्या यदि वा कुर्यान्महादोषोऽभिजायते ॥
** **अथ पिण्डदानम् । “दधिबदराक्षतमिश्राः पिण्डाः” इति सूत्रम् ।
अक्षता यवाः मिश्रणं मिश्रः ।दध्यादिभिर्मिश्रितौदनेन पिण्डा अत्र देया इत्यर्थः। बहुव्रीह्युपलब्धेः । छन्दोगपरिशिष्टे कात्यायनोऽपि—
सर्वस्मादन्नमृद्धृत्व व्यञ्जनैरुपसिञ्च्य च ।
संयोज्ययवकर्कन्धुदधिभिः प्राङ्मुखस्ततः ॥ इति ।
अत्र पक्षप्राप्तायाः प्राङ्मुखतायाः प्राङ्मुख इत्ययमनुवादो न पुनरुदङ्मुखतायाः परिसंख्या । अत एव हेमाद्रौ पद्मपुराणे—
प्रदक्षिणोपचारेण दध्यक्षतफलोदकैः ।
प्राङ्मुखोदङ्मुखो वाऽपि प्रदद्याद्बदरैर्युतान् ॥ इति ।
पिण्डानिति शेषः । अत्र पिण्डादानं बहिःशालायां कार्यम् । यथाऽह रुद्रकल्पद्रुमे वृद्धशातातपः—
प्रदद्यात्प्राङ्सुखः पिण्डान्वृद्धौ नाम्ना स बाह्यतः ॥ इति ।
स श्राद्धकर्ता बाह्यतो भोजनशालाया बहिर्न तूच्छिष्टसमीप इत्यर्थः । अत्र दक्षिणसंस्थमेव लेखाकरणावनेजनपिण्डदानादि कार्यम् ।’आभ्युदयिके प्रदक्षिणमुपचारः’ इत्युक्तत्वात् । अत्र केचित्तु अप्रदक्षिणस्वेऽप्यस्यानौचित्यत्वादुदक्संस्थमेवेत्याहुः, तदयुक्तम् ।”आभ्युदयिके प्रदक्षिणमुपचारः” इति विरोधात् । नचोदक्संस्थायाम्प्रमाणमुपलब्धम् । दक्षिणसंस्थत्वे च प्रदक्षिणप्रमाणमस्ति । तस्माद्दक्षिणसंस्थमेव लेखाकरणादि ।नारायणवृत्तौ श्राद्धकाशिकायाञ्चाप्येवम् । अत्र केचित्प्रपितामहमारभ्य प्रतिलोमक्रमेण पिण्डदानादिप्रयोगमारचन्ति, तदुक्तं वशिष्ठेन—
नान्दीमुखे विवाहे च प्रपितामहपूर्वकम् ।
नाम संकीर्त्तयेद्विद्वानन्यत्र पितृपूर्वकम् ॥
तन्न, “नान्दीमुखाः पितरः पितामहा” इत्यादिना भगवताऽऽचार्येणानुलोमक्रमेणैव विहितत्वात्, छन्दोगसूत्रेऽप्येवम्।
माता पितामही चैव तथैव प्रपितामही ।
पित्रादयस्त्रयश्चैव मातुः पित्रादयस्त्रयः ॥
एते नवार्चनीयाः स्युः पितरोऽभ्युदये द्विजैः ।
इत्याश्वलायनस्मृतावनुलोमक्रमाभिधानादाश्वलायनानामप्यनुलोमक्रम—
एवेति पारिजातादयः । यत्तु वृद्धवशिष्ठवचनं तच्छाखान्तरविषयम् । आथर्वणानां तु पिण्डपितृयज्ञदर्शश्राद्धादौ सर्वत्र प्रतिलोम एव तद्गृह्य उक्तोऽस्ति । अत्रावनेजनपिण्डदानादि सर्वकर्म देवतीर्थेन कुर्यात् । तदुक्तं छन्दोगपरिशिष्टे—
नात्रापसव्यकरणं न पित्र्यं तीर्थमिष्यते ।
पात्राणां पूरणादीनि दैवेनैव हि कारयेत् ॥ इति ।
आदिशब्दादन्नोत्सर्गपिण्डदानादि यावदेव पित्र्यं कर्म दैवेन तीर्थेन कुर्यात् । एवकारस्तु—
नान्दीमुखानां कुर्वीत प्राज्ञः पिण्डोदकक्रियाम् ।
प्राजापत्येन र्तार्थेन यच्च किञ्चित्प्रजापतेः ॥
इति मार्कण्डेयपुराणोक्तप्राजापत्यव्यावृत्त्यर्थ इत्युक्तं नारायणवृत्तौ । तेन मार्कण्डेयोक्तं प्राजापत्यं तु शाखान्तरपरम् ।आदित्यभाष्येऽप्येवम् ।
प्राङ्मुखास्त्वथ दर्भा वै दद्यात्क्षीरावनेजनम् ।
इति ब्रह्मपुराणे । अत्र क्षीरेणावनेजनं कर्तव्यमिति श्राद्धकाशिकाकृत्, तन्न ।
अपः क्षिपेन्मूलदेशेऽवनेनिक्ष्वेतिनिस्तिलाः ॥
इति च्छन्दोगपरिशिष्टे कात्यायनेनाद्भिरेव विहितत्वात् । यत्तु क्षीरावनेजनन्तच्छाखान्तरविषयम् । छन्दोगपरिशिष्टे कात्यायनेन पुनरवनेजनं पिण्डपात्रप्रक्षालनोदकेनैवाभिहितं तच्छन्दोगविषयम् ।वाजसनेयिनान्तु “अथोदपात्रमादायावनेजयति” इति शतपथश्रुत्या पुनरवनेजनस्योदपात्रेणैव विहितत्वात् । अत्र कश्चिदाह—
द्वौ द्वौ चाभ्युदये पिण्डावेकैकस्य पृथक् पृथक् ।
एकं नाम्ना परं तूष्णीं दद्यात्पिण्डद्वयं बुधः ॥
इति चतुर्विंशतिमतादेकैकस्मै पिण्डद्वयं देयमिति, तन्न ।सूत्रकृता भगवताऽस्य विशेषस्यानुपदिष्टत्वात् । प्रकृतित एकैकस्मा एकैकपिण्डदानप्राप्तेश्च । अत एवोक्तं ब्रह्मपुराणे—
उक्तमादाय पिण्डं तु कृत्वा बिल्वप्रमाणकम् ।
**दद्यात्पितामहादिभ्यो दर्भमूले यथाक्रमम् ॥ **इति ।
पिण्डद्वयमेकैकस्मै देयमित्युक्तं तच्छाखान्तरविषयं कुलधर्मविषयं वा । पिण्डदानं चात्र वैकल्पिकमित्युक्तं मिताक्षरायाम्—
वृद्धिश्राद्धे विकल्पेन पिण्डदानं बुधैः स्मृतम् ॥इति ।
हेमाद्रौविष्णुपुराणे—
दध्यक्षतैः सबदरैःप्राङ्मुखोदङ्मुखोऽपि वा ।
दैवतीर्थेन वै पिण्डान् दद्यात्कामेन वै नृप ! ॥ इति ।
कामेन इच्छया । आभ्युदयिकं प्रकृत्य “आहिताग्नेः पित्रर्चनं पिण्डैरेव” इति निगमपरिशिष्टोक्तत्वादाहिताग्नेःसपिण्डकाभ्युदयिकश्राद्धनियमः । तदितरस्य तु सपिण्डकमपिण्डकं वेति विकल्पः । अत्र पिण्डकरणाकरणयोः कुलाचारत्वेन व्यवस्थाऽभिहिता, रुद्रकल्पद्रुमे भविष्यपुराणे—
पिण्डनिर्वपणं कुर्यान्न वा कुर्यान्नराधिप ! ।
वृद्धिश्राद्धे महाबाहो कुलधर्ममवेक्ष्य वै ॥इति ।
अनेन येषां कृले वृद्धपरम्परया वृद्धिश्राद्धे पिण्डदानमनुष्ठीयते तैरनुष्ठेयमेव । येषां तु कुले नानुष्ठीयते तैर्नानुष्ठेयमिति व्यवस्थाऽभिहिता भवति । वृद्धिश्राद्धे विकल्पेन पिण्डदाने मिताक्षरायामभिहितं वचनं तदन्यशाखाविषयम् ।वाजसनेयिनां सर्वेषां सपिण्डकमेवाभ्युदायिकं श्राद्धं भवति स्वसूत्रानुरूपम् । **“नान्दीमुखान् पितॄनावाहिष्य इति पृच्छति"**इति सूत्रम् ।पितॄनावाहिष्ये इत्यस्य स्थाने नान्दीमुखान् पितृृनावाहयिष्येइति पृच्छेदित्यर्थः । अत्र पितृग्रहणाद्देवानां नान्दीमुखविशेषणं न भवतीत्युक्तं भवति । वृद्धपराशरेण तु देवानामपि नान्दीमुखविशेषणमुक्तम् ।
नान्दीमुखेभ्यो देवेभ्यः प्रदक्षिणं कुशासनम् ॥इति ।
अतश्च विकल्पः । स च शाखाभेदेन व्यवस्थितो द्रष्टव्यः । अत्रावाहने विशेषो रुद्रकल्पद्रुमे ब्रह्मपुराणे—
नान्दीमुखान् पितॄन् भक्त्या साञ्जलिश्च समाह्वयेत् ।
पठेत्पवित्रं मन्त्रं तु विश्वे देवास आगत ॥ इति ।
यद्यपि नान्दीमुखान् पितॄनित्युक्तेः पित्राद्यावाहन एवायं विशेषो न
देवावाहन इति प्रतिभाति । तथापि **‘पठेत्पवित्रं मन्त्रन्तु विश्वे देवास आगते’**त्युत्तरार्द्धे वैश्वदेविकावाहनेविनियुक्तमन्त्रपाठविधानादुभयसाधारण्यमस्य बोध्यम् । यत्तु ब्रह्मपुराणे—
पिता पितामहश्चैव तथैव प्रपितामहः ।
त्रयो ह्यश्रुमुखा ह्येते पितरः सम्प्रकीर्तिताः ॥
**तेभ्यः पूर्वे त्रयो ये तु ते तु नान्दीमुखाः स्मृताः ॥ **इति ।
महालयप्रकरणपठितप्रौष्ठपदपौर्णमासीनिमित्तकश्राद्धविषयम् । तत्प्रकरणपाठादित्येवं हेमाद्यादय ऊचिरे ।
नान्दीमुखानां प्रत्यब्दं कन्याराशिगते रवौ ।
पौर्णमास्यां तु कर्तव्यं वराहवचनं यथा ॥ इति ।
अत्र मदनरत्ने दानखण्डे ढोंढूमिश्रपद्धतौ चाभ्युदयिकश्राद्धे सर्वत्र गोत्रशर्म्मशब्दनाम्नामुच्चारणं लिखितम् । यत्तु—
सम्बन्धनामरूपाणि वर्जयेदत्र कर्माणि ।
इदन्तु शाखान्तरविषयम् । आभ्युदयिके कर्तृनिर्णयः प्रयोगरत्ने सायणीये—
नान्दीश्राद्धं पिता कुर्यादाद्ये पाणिग्रहे पुनः ।
अत ऊर्ध्वं प्रकुर्वीत स्वयमेव तु नान्दिकम् ॥
स्मृत्यर्थसारे कात्यायनः—
स्वपितृभ्यः पिता दद्यात्सुतसंस्कारकर्मसु ।
तेषां सुतानामूहनात्प्रथमविवाहपर्यन्तं पिता स्वपितृभ्यः पिण्डान् तदुपलक्षितं वृद्धिश्राद्धं कुर्यात् । जीवत्पितृकस्तु पितुर्मात्रादिभ्यो वृद्धिश्राद्धं कुर्यात् । संग्रहे—
वृद्धौ तीर्थे च संन्यस्ते ताते च पतिते सति ।
येभ्य एव पिता दद्यात्तेभ्यो दद्यात्स्वयं सुतः ॥
एतत्साग्निविषयमित्येके, तन्न ।विष्णुः “पितरि जीवति यः श्राद्धं कुर्यात्स येषां पिता कुर्यात्तेषां कुर्यात्पितरि पितामहे च येषां पितामहःपितरि पितामहे प्रपितामहे च नैव दद्यादिति" आश्वलायन-
गृह्यपरिशिष्टे तु जीवत्पिता सुतसंस्कारेषु मातृमातामहयोः कुर्यात्तस्यां जीवत्यां मातामहस्यैव कुर्यात् । यत्तु पितरि पितामहे प्रपितामहे च जीवति न कुर्यादिति विष्णुवचनम्, तज्जीवत्पित्रादित्रिककर्तकतीर्थश्राद्धविषयम् । एवमेव रुद्रकल्पद्रुमे कल्पतरौ हलायुधभाष्ये च । वृद्धिश्राद्धे तु पितरि पितामहे प्रपितामहे च जीवति तदा वृद्धप्रपितामहादित्रिकेभ्यो देयम् ।
दद्यात्रिभ्यःपरेभ्यस्तु जीवेच्चेत्रितयं यदि ।
इति निगमोक्तेः । जीवन्मातृकस्य न मातृपार्वणं जीवन्मातामहस्य न मातामहपार्वणं द्वारलोपात्। तस्य पितुरभावे तु तत्प्रतिनिधिः पितृव्यादिस्तत्पुत्रादेर्जातकर्मादिविवाहान्तसंस्कारेषु तेषां संस्कार्यस्य पित्रादीनामेव क्रमेण दद्यात्, इति विधानपारिजाते सम्यक् प्रतिपादितम् । अथाक्षय्योदकम् । हेमाद्रौ—
** अक्षय्यं च ततः कुर्याद्देवपूर्वं विधानतः ॥इति ।**
कर्कभाष्ये तु अक्षय्योदकदाने अक्षय्योदकमन्त्रस्थाने नान्दीमुखाः पितरः प्रीयन्तामिति मन्त्रः स्यादित्यर्थः । यत्तु वृद्धिश्राद्धं प्रकृत्य—
अक्षय्योदकदानन्तु अर्घदानवदिष्यते ।
षष्ठ्यैव नित्यं तत्कुर्यान्न चतुर्थ्या कदाचन ॥
इति च्छन्दोगपरिशिष्टे कात्यायनेन अक्षय्योदकदानं षष्ट्या विहितन्तच्छन्दोगविषयम् । “नान्दीमुखाः पितरः" इति मन्त्रे पितृशब्दस्य प्रथमान्तप्रयोगविधानादेव सङ्कल्पवाक्यमपि प्रथमान्तमेवात्र प्रयोज्यम् । तदुक्तं रुद्रकल्पद्रुमे सङ्ग्रहे—
शुभाय प्रथमान्तेन वृद्धौ सङ्कल्पमाचरेत् ।
न षष्ठ्या यदि वा कुर्यान्महादोषोऽभिजायते ॥
इति प्रकृतिप्राप्तषष्ठया अपवादोऽयम् ।हलायुधविष्णुमिश्रभाष्यश्राद्धकाशिकाकारादयस्तु प्रकृतिश्राद्धे—
अर्घेऽक्षय्योदके चैव पिण्डदानेऽवनेजने ।
मन्त्रस्य तु निवृत्तिः स्यात्स्वधावाचिनके जपे ॥
इति च्छन्दोगपरिशिष्टे कात्यायनवचनादक्षय्योदकदाने तन्त्रताया
अभावः, आभ्युदयिके तु ‘नान्दीमुखाः पितरः प्रीयन्तामित्यक्षठ्यस्थाने’ इति कात्यायनसूत्राच्च तन्त्रतेत्याहुः । स्वधावाचनेऽपि तन्त्रतैव भवति । ‘पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यो मातामहेभ्यः प्रमातामहेभ्यो वृद्धप्रमातामहेभ्यश्च स्वधोच्यताम्’ इति मन्त्रप्रयोगं दर्शयता भगवताऽऽचाय्येणतन्त्रतासूचनात् । अत्र क्षीरयवोदकैरक्षय्योदकदानं कार्यम् । तदुक्तं ब्रह्मपुराणे—
तथाऽक्षय्योदकस्थाने दद्यात्क्षीरयवोदकम् ॥ इति ।
** “युग्मानाशयेदत्र “** इति सूत्रम् ।अत्राभ्युदयिके युग्मान् बहुवचनोपदेशाच्चतुरादीन् ब्राह्मणानाशयेद्भोजयेदित्यर्थः । तेन पित्र्येऽपि युग्मानाशेयत् । तथा च च्छन्दोगपरिशिष्टे कात्यायनः—
प्रातरामन्त्रितान् विप्रान् युग्मानुभयतस्तथा ॥ इति ।
आशयेदित्यर्थः । दक्षिणा ब्रह्मपुराणे—
द्राक्षामलकमूलानि यवांश्चाथ निवेदयेत् ।
तान्येव दक्षिणां चैव दद्याद्विप्रेषु सर्वदा ॥
इति सपिण्डकं वृद्धिश्राद्धम् । अथापिण्डकवृद्धिश्राद्धमुच्यते ।
सत्क्रियां देशकालौ च शौचं ब्राह्मणसम्पदम् ।
पञ्चैतान्विस्तरो हन्ति तस्मान्नैतत्सविस्तरम् ॥
इत्यादिवाक्यदर्शनात्पूर्वाह्णादिषु सुहूर्तकर्तव्येऽनल्पकर्मकलापादि**भयादासन्नफलमूला-**दिमिर्यथालाभं संक्षिप्तमपि श्राद्धमाचार्या मन्यन्ते । तच्च पिण्डादिवर्जितं कर्तव्यम् । यथा भविष्यपुराणे—
पिण्डनिर्वपणं कुर्यान्नवा कुर्याद्विचक्षणः ।
वृद्धिश्राद्धे कुलाचारदेशकालाद्यवेक्ष्य हि ॥
अतश्चाग्नौकरणादीनामपि निषेधः । तथाहि—
अग्नौकरणमर्ध्यंचावाहनं चावनेजनम् ।
पिण्डश्राद्धे प्रकुर्वीत पिण्डहीने निवर्तते ॥
** **तथा—
पिण्डनिर्वापरहितं यत्र श्राद्धं विधीयते ।
स्वधावाचनलोपोऽस्ति विकिरस्तु न लुप्यते ॥
अक्षय्या दक्षिणा स्वस्ति सौमनस्यं यथास्थितम् ॥
इति दाक्षिणात्यानां विस्तृतवृद्धिश्राद्धाभावात् प्रयोगरत्ने काशीदीक्षितैलिखितम् । विशेषमाह धर्मप्रवृत्तौ स्मृत्यर्थसारे—
पुंसवने च सीमन्ते तथा चौलोपनायने ।
गोदाने स्नान उद्वाहे नान्दीश्राद्धं पुरोदिने ॥
एकविंशत्यहर्यज्ञे विवाहे दश वासराः ।
त्रिषट् चौलोपनयने नान्दीश्राद्धं विधीयते ॥
** इति श्रीप्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्रविवरणे संस्कारगणपतौ गणपतिपूजनपुण्याहवाचनमातृकापूजननान्दीश्राद्धं समाप्तम् ॥**
अथास्य स्पष्टप्रयोगः ।
आचम्य पवित्रपाणिःप्राणानायम्य ।
विश्वेशम्माधवण्ढुण्ढिन्दण्डपाणिञ्च भैरवम् ।
वन्दे काशीङ्गुहाङ्गङ्गाम्भवानीम्मणिकर्णिकाम् ॥
तीक्ष्णदंष्ट्र महाकाय कल्पान्तदहनोपम \।
भैरवाय नमस्तुभ्यमनुज्ञान्दातुमर्हसि ॥
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्ननाशो गणाधिपः ॥
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।
द्वादशैतानि नामानि यः पठेच्छृणुयादपि ॥
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ।
संग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ॥
शुक्लाम्बरधरन्देवं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनन्ध्यायेस्सर्वविघ्नोपशान्तये ॥
अभीप्सितार्थसिध्यर्थं पूजितो यः सुरासुरैः ।
सर्वविघ्नहरस्तस्मै श्रीगणाधिपतये नमः ॥
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तुते ॥
सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् ।
येषां हृदिस्थो भगवान् मङ्गलायतनं हरिः ॥
तदेव लग्नं सुदिनन्तदेव ताराबलञ्चन्द्रबलन्तदेव ।
विद्याबलन्दैवबलन्तदेव लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि ॥
ॐ लक्ष्मीनारायणाभ्यान्नमः ।उमामहेश्वराभ्यान्नमः । शचीपुरन्दराभ्यान्नमः ।मातापितृभ्यान्नमः। कुलदेवताभ्यो नमः । श्रीष्टदेवताभ्यो नमः । सर्वेभ्यो ब्राह्मणेभ्यो नमः ।विष्णुस्मरणपूर्वकं देशकालौ सङ्कीर्त्यअमुकफलसिध्यर्थे श्वोऽद्य वा अमुककर्म करिष्ये । तदङ्गतयाऽऽदौ गणपतिपूजनं स्वस्तिपुण्याहवाचनादि करिष्ये ।
ॐ गणना॑न्त्वा ग॒णप॑ति हवामहे प्रि॒याणा॑न्त्वा प्रि॒यपति हवामहे निधनान्त्वा निधि॒पतिहवामह व्यसो मम ।आहमंजानि ग॒र्व्भधमात्वम॑जासि गर्भ॒धम् ॥
इत्यनेन मन्त्रेण षोडशोपचारैः पञ्चोपचारैर्वा गणपतिं सम्पूज्य नारिकेलाद्यन्यतमं फलमर्ध्यपात्रे निधाय
रक्ष रक्ष गणाध्यक्ष त्र्यक्ष त्रैलोक्यरक्षक ।
भक्तानामभयङ्कर्त्ता त्राता भव भवार्णवात् ॥
द्वैमातुर कृपासिन्धो षाण्मातुराग्रज प्रभो ।
वरदस्त्वं वरन्देहि वाञ्छितं वाञ्छितार्थद ॥
अनेन सफलार्घेण फलदो भव मे सदा ।
इत्यर्घ्यन्दत्वा नमस्कारः—
विघ्नेश्वराय वरदाय सुरप्रियाय
लम्बोदराय सकलाय जगद्धिताय ।
नागाननाय श्रुतियज्ञविभूषिताय
गौरीसुताय गणनाथ नमो नमस्ते ॥
भक्तार्तिनाशनपराय गणेश्वराय
सर्वेश्वराय शुभदाय सुरेश्वराय ।
विद्याधराय विकटाय च वामनाय
भक्तप्रसन्नवरदाय नमो नमस्ते ॥
नमस्ते ब्रह्मरूपाय विष्णुरूपाय ते नमः ।
नमस्ते रुद्ररूपाय करिरूपाय ते नमः ॥
विश्वरूपस्वरूपाय नमस्ते ब्रह्मचारिणे ।
भक्तप्रियाय देवाय नमस्तुभ्यं विनायक ॥
लम्बोदर नमस्तुभ्यं सततम्मोदकप्रिय ।
अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥
इति नमस्कारः । अथ प्रार्थना -
त्वान्देव विघ्नदलनेति च सुन्दरेति
भक्तप्रियेति सुखदेति फलप्रदेति ॥
विद्याप्रदेत्यघहरेति च ये स्तुवन्ति
तेभ्यो गणेश वरदो भव नित्यमेव ॥
इति प्रार्थना ।
अथ पुण्याहवाचनम् ।
तच्च मातृका पूजनात् प्रागेव कार्यमिति । तद्यथा महीद्यौरिति भूमिंस्पृष्ट्वा
ॐ म॒हीद्यौ<MISSING_FIG href=”../books_images/U-IMG-1695639927Screenshot2023-09-25162130.png"/>पृ॑थि॒वी च॑ न इ॒मं य़॒ज्ञम्मि॑मिक्षताम् ।
पि॒पृ॒तान्नो॒ भरी॑मभि<MISSING_FIG href="../books_images/U-IMG-1695639699Screenshot(34"/>.png)॥
ॐ ओष॑धय॒<MISSING_FIG href="../books_images/U-IMG-1695639699Screenshot(34"/>.png) सम॑वदन्त॒ सोमे॑न स॒ह राज्ञा॑ ।
य़स्मै॑ कृ॒णोति॑ ब्राह्म॒णस्तँरा॑जन्पारयामसि ॥
ति यवान्प्रक्षिप्य,
ॐ आजि॑घ्रक॒लश॑म्मह्य़ात्वा॑ व्विश॒न्त्विन्द॑व<MISSING_FIG href="../books_images/U-IMG-1695639699Screenshot(34"/>.png)।
पुन॑रू॒र्ज्जानिव॑र्तस्व॒ सा नं+सहस्र॑न्धुक्ष्वो॒रुधा॑रा॒
पय॑स्वती॒ पुन॒र्म्मावि॑शताद्र॒यि<MISSING_FIG href="../books_images/U-IMG-1695639244Screenshot2023-09-25162130.png"/>॥
इति कलशं निधाय,
ॐ व्वरु॑णस्यो॒त्तम्भ॑नमसि॒ व्वरु॑णस्य स्कम्भ॒सर्ञ्ज॑नी स्थो॒ व्वरु॑णस्य
ऋत॒सद॑नन्यसि॒ व्वरु॑णस्य ऋत॒सद॑नमसि॒ व्वरु॑णस्य ऋत॒सद॑न॒मासी॑द॥
इति जलेनापूर्य,
ॐ त्वाङ्ग॑धर्व्वाअ॑खनँ॒स्त्वामिन्द्र॒स्त्वाम्बृह॒स्पति॑÷॥
त्वामो॑षधे॒ स्रोमो॒ राजा॑ व्वि॒द्वान्यक्ष्मा॑दमुच्यत ॥
इति गन्धम्,
ॐ य़ाओषधी॒<MISSING_FIG href="../books_images/U-IMG-1695639699Screenshot(34"/>.png) पूर्व्वा॑ जा॒ता दे॒वेभ्य॑स्त्रियु॒गम्पु॒रा ।
मनै॒ नु ब॒ब्भ्रूणा॑म॒हँश॒तन्धामा॑नि स॒प्त च॑ ॥
इति सर्वौषधीः,
ॐ काण्डा॑त्काण्डात्प्र॒रोह॑न्ती परु॑ष<MISSING_FIG href="../books_images/U-IMG-1695639699Screenshot(34"/>.png) परुष॒स्परि॑।
ए॒वा नो॑ दूर्व्वे॒ प्रत॑नु स॒हस्रे॑ण श॒तेन॑ च ।
इति दुर्वा,
ॐ अ॒श्व॒त्थे वो॑ नि॒षद॑नम्प॒र्ण्णेवो॑व्वस॒तिष्कृ॒ता ।
गो॒भाज॒ इत्किला॑सथ॒ य़त्स॒नव॑थ॒पूरु॑षम् ॥
इति पञ्चपल्लवान्,
ॐ स्यो॒ना पृ॑थिवि नो भवाऽनृक्ष॒रा नि॒वेश॑नी ।
यच्छा॑न॒<MISSING_FIG href="../books_images/U-IMG-1695639699Screenshot(34"/>.png)शर्म्म॑ स॒प्रथा॑<MISSING_FIG href="../books_images/U-IMG-1695639699Screenshot(34"/>.png)॥
इति पञ्च सप्त वा मृदः,
ॐ य़ाःफ॒लिनी॒र्य़ाअ॑फ॒ला अ॑पु॒ष्पा य़ाश्च॑पु॒ष्पिणी॑<MISSING_FIG href="../books_images/U-IMG-1695639699Screenshot(34"/>.png)।
बृह॒स्पति॑प्रसूता॒स्ता चो॑ मुञ्च॒न्त्वँह॑स<MISSING_FIG href="../books_images/U-IMG-1695641921Screenshot(34"/>.png) ॥
इति फलम्,
ॐ परि॒ वाज॑पति<MISSING_FIG href="../books_images/U-IMG-1695641921Screenshot(34"/>.png)क॒विर॒ग्निर्ह॒व्यान्न्य॑क्रमीत् ।
दध॒द्रत्ना॑नि दा॒शुषे॑ ॥
इति पञ्च रत्नानि,
ॐ हि॒र॒ण्य॒ग॒र्ब्भ<MISSING_FIG href="../books_images/U-IMG-1695641983Screenshot2023-09-25162130.png"/>सम॑वर्त्त॒ताग्रे॑ भू॒तस्य॑ जा॒त<MISSING_FIG href="../books_images/U-IMG-1695641983Screenshot2023-09-25162130.png"/>पति॒रेक॑ आसीत् ।
स दा॑धार पृथि॒वीन्द्यामु॒तेमाङ्कस्मै॑ दे॒वाय॑ ह॒विषा॑व्विधेम ॥
इति हिरण्यम्,
ॐ य़दश्वा॑य॒ व्वास॑ उपस्तृ॒णन्त्य॑धीवा॒सं य़ाहिर॑ण्यान्यस्मै ।
स॒न्दान॒मर्व्व॑न्त॒म्पड्बी॑शम्प्रि॒या दे॒वेष्वा या॑मयन्ति ॥
इति रक्तसूत्रेणावेष्ट्य,
ॐ पू॒र्ण्णाद॑र्व्वि॒परा॑पत॒ सुपू॑र्ण्णा॒पुन॒राप॑त ।
व्व॒स्नेव॒व्विक्री॑णावाहा॒इष॒मूर्ज्ज॑ँशतक्रतो ॥
इति शरावं धान्यपूर्णं पूर्णपात्रमुपरि निधाय, तत्र ‘तत्त्वा यामीति शुनःशेप ऋषिःवरुणो देवता त्रिष्टुप्छन्दः वरुणावाहने विनियोगः ।
ॐ तत्त्वा॑य़ामि॒ ब्रह्म॑णा॒ व्वन्द॑मान॒स्तदाशा॑स्ते॒ य़ज॑मानो ह॒विर्ब्भ॑÷।
अहे॑डमानो व्वरुणे॒ह बो॒ध्युरु॑शँस॒मान॒ आयु॒<MISSING_FIG href="../books_images/U-IMG-1695641921Screenshot(34"/>.png)प्रमो॑षी<MISSING_FIG href="../books_images/U-IMG-1695641921Screenshot(34"/>.png) ॥
इति वरुणमावाह्य, आवाहनादिषोडशोपचारैः गन्धादिभिः पञ्चोपचारैर्वा सम्पूजयेत् । तीर्थान्यावाह्य यथा
ॐ सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः ।
आयान्तु यजमानस्य दुरितक्षयकारकाः ॥
ततः कुलशाभिमन्त्रणम् -
कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः ।
मूले तस्य स्थितो ब्रह्मां मध्ये मातृगणाः स्मृताः ॥
कुक्षौ तु सागराः सप्त सप्तद्वीपा वसुन्धरा ।
ऋग्वेदोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः ॥
अङ्गैस्तुसहिताः सर्वे कलशन्तु समाश्रिताः ।
अत्र गायत्री सावित्री शान्तिपुष्टिकरी तथा ॥
आयान्तु मम शान्त्यर्थं दुरितक्षयकारिकाः ।
ततः कलशप्रार्थना -
देवदानवसंवादे मध्यमाने महोदधौ ।
उत्पन्नोऽसि यदा कुम्भ विधृतो विष्णुना स्वयम् ॥
त्वत्तोये सर्वतीर्थानि देवाः सर्वे त्वयि स्थिताः ।
त्वयि तिष्ठन्ति भूतानि त्वयि प्राणाः प्रतिष्ठिताः ॥
शिवः स्वयन्त्वमेवासि विष्णुस्त्वञ्च प्रजापतिः ।
आदित्या वसवो रुद्रा विश्वेदेवाः सपैतृकाः ॥
त्वयि तिष्ठन्ति सर्वेऽपि यतः कामफलप्रद ।
त्वत्प्रसादादिमं यज्ञङ्कर्तुमीहे जलोद्भव ॥
सान्निध्यङ्कुरु मे देव प्रसन्नो भव सर्वदा ॥ इति ॥
ततो यजमानःअवनिकृतजानुमण्डलःकमलमुकुलसदृशमञ्जलिंशिरस्याधाय दक्षिणेन पाणिना सुवर्णपूर्णकलशं धृत्वा, दीर्घा नागा नद्यो निरयस्त्रीणि विष्णुपदानि च,
ॐ त्रीणि॑ प॒दा व्विच॑क्रमे॒ विष्णु॑र्गो॒पा अदा॑भ्य<MISSING_FIG href="../books_images/U-IMG-1695643727Screenshot(34"/>.png) ।
अतो॒ धर्मा॑णि धा॒रय॑न् ॥
“तेनायुःप्रमाणेन पुण्यं पुण्याहंदीर्घमायुरस्तु” इति त्रिः । “ॐशिवा आपः सन्तु" इति ब्राह्मणहस्ते जलदानम् । “ॐसन्तु शिवा आपः" इति प्रतिवचनम् । “ॐसौमनस्यमस्तु" इति पुष्पदानम् \। “ॐअस्तु सौमनस्यम्” “ॐअक्षतं चारिष्टं चास्तु" “ॐअस्त्वक्षतमरिष्टं च" “ॐगन्धाःपान्तु" इति गन्धेनार्चनम् । “ॐसुमङ्गल्यं चास्तु” इति प्रतिवचनम् । “ॐअक्षताः पान्तु” ‘‘ॐआयुष्यमस्तु” “ॐपुष्पाणि पान्तु" इति पुष्पाणि ।
“ॐसौश्रियमस्तु”। “ॐफलं पातु" इति फलम् ।“ॐ ऐश्वर्यमस्तु”। “ॐ दक्षिणाः पान्तु” इति दक्षिणादानम् । “ॐ बहुदेयं च वोऽस्तु" इति प्रतिवचनम् । ‘ॐदीर्घमायुः शान्तिः पुष्टिस्तुष्टिः श्रीर्यशो विद्या विनयो वित्तं बत्रुपुत्रत्वमायुष्यं चास्तु । यं कृत्वा सर्ववेदयज्ञक्रियाकरणकर्मारम्भाः शुभाः शोभनाः प्रवर्तन्ते ।तमहमोंकारमादिं कृत्वा ऋग्यजु22राशीर्वचनं बह्वृषिमतं समनुज्ञातं भवद्भिरनुज्ञातः पुण्यं पुण्याहं वाचयिष्ये" इति पृच्छेत् । “ॐ वाच्यताम्" इत्यनुज्ञातः ।
ॐ भ॒द्रङ्कर्ण्णे॑भि<MISSING_FIG href="../books_images/U-IMG-1695649472Screenshot(34"/>.png)शृणुयाम देवा भ॒द्रम्प॑श्येमा॒क्षभि॑र्य़जत्रा<MISSING_FIG href="../books_images/U-IMG-1695649472Screenshot(34"/>.png)।
स्थि॒रैरङ्गै॑स्तुष्टु॒वाँ॑सस्त॒नूभि॒र्व्व्यशेमहि दे॒वहि॑तं॒ य़दायु॑÷ ॥
दे॒वाना॑म्भ॒द्रा सु॑म॒तिर्ऋ॑जूय॒तान्दे॒वाना॑ँरा॒तिर॒भि नो॒ नि व॑र्तताम् ।
दे॒वाना॑ँस॒ख्यमुप॑ सेदिमा व्व॒यन्दे॒वा न॒ आयु॒<MISSING_FIG href="../books_images/U-IMG-1695649472Screenshot(34"/>.png)प्र ति॑रन्तु जी॒वसे॑ ॥
दी॒र्घा॑युस्त ओषधे खनि॒ता य़स्मै॑ च त्वा॒ खना॑म्य॒हम् ।
अथो॒ त्वन्दी॒र्घायु॑र्भू॒त्वा श॒तव॑ल्शा॒ व्वि रो॑हतात् ॥
न तद्रक्षा॑ँसि॒ न पि॑शा॒चास्त॑रन्ति दे॒वाना॒मोज॑÷प्रथम॒जँह्य़े॒तत् ।
य़ोबि॒भर्त्ति॑ दाक्षाय॒णँहिर॑ण्य॒ँस दे॒वेषु॑ कृणुते
दी॒र्ग्घमायु॒<MISSING_FIG href="../books_images/U-IMG-1695649472Screenshot(34"/>.png)स म॑नु॒ष्येषु कुणुते दी॒र्ग्घमायु॑÷ ॥
द्र॒वि॒णो॒दा द्रवि॑णसस्तु॒रस्य॑ द्रविणो॒दाः सन॑रस्य॒ प्रयं॑सत् ।
द्र॒वि॒णो॒दा वीर॑वती॒मिष॑न्नो द्रविणो॒दा रा॑सते दी॒र्ग्घमायुः॑॥ (ऋक् )
स॒वि॒ता प॒श्चा॑तात्सवि॒ता पु॒रस्ता॑त्सवि॒तोत्त॒राना॑त्सवि॒ताऽध॒रात्ता॑त् ।
स॒वि॒तानः॑ सुवतु स॒र्वता॑तिंसवि॒ता नो॑ रासतां दी॒र्ग्घमायुः॑ ॥ (ऋक्)
नवो॑ नवो भवति॒ जाय॑मा॒नोऽ॑ह्नाङ्के॒तुरु॒षसा॑मे॒त्यग्र॑म् ।
भा॒गन्दे॒वेभ्यो॒ विद॑धात्या॒यं प्र च॒न्द्रमा॑स्तिरते दी॒र्ग्घमायुः॑ ॥ (ऋक्)
उ॒च्चा दि॒वि दक्षि॑णावन्तो अस्थु॒र्ये अश्व॒दाः स॒ह ते सूर्ये॑ण ।
हि॒र॒ण्य॒दा अ॑मृत॒त्वं भ॑जन्ते वासो॒दाः सो॑म॒ प्रतिर॑न्त॒ आयुः॑ ॥(ऋक्)
“व्रतजपनियमतपःस्वाध्यायक्रतुशमदमदयादानविशिष्टानां
ब्राह्मणानां मनः समाधीयताम् \। समाहितमनसः स्मः” इति
ब्राह्मणाः।"प्रसीदन्तु भवन्तः" इति कर्त्ता “प्रसन्नाः स्मः” ।इति ब्राह्मणाः । ततः कलशं वामहस्ते धृत्वा दक्षिणहस्तं तन्मुखोपरि दत्त्वा देशाचारात्सुवर्णादिपात्रे जलं प्रसिञ्चेत् । ॐ शान्तिरस्तु ।पुष्टिरस्तु ।तुष्टिरस्तु ।वृद्धिरस्तु ।अविघ्नमस्तु ।आयुष्यमस्तु । आरोग्यमस्तु । शिवङ्कर्मास्तु । कर्मसमृद्धिरस्तु । वेदसमृद्धिरस्तु। शास्त्रसमृद्धिरस्तु । धर्मसमृद्धिरस्तु ।पुत्रसमृद्धिरस्तु ।धनधान्यसमृद्धिरस्तु । इष्टसम्पदस्तु" । पात्राद्बहिः। “अरिष्टनिरसनमस्तु । यत्पापं रोगमशुभमकल्याणं दूरे तत्प्रतिहतमस्तु" पुनर्मध्येपात्रम् । “यच्छ्रेयस्तदस्तु । उत्तरे कर्मण्यविघ्नमस्तु । उत्तरोत्तरमहरहरभिवृद्धिरस्तु । उत्तरोत्तराः क्रियाः शुभाः शोभनाः सम्पद्यन्ताम् । तिथिकरणमूहूर्त्तनक्षत्रग्रहलग्नसम्पदस्तु । तिथिकरणमूहूर्त्तनक्षत्रग्रहलग्नाधिदेवताः प्रीयन्ताम् । तिथिकरणे समुहूर्ते सनक्षत्रे सग्रहे सदैवते प्रीयेताम् । दुर्गापाञ्चाल्यौप्रीयेताम् । अग्निपुरोगा विश्वे देवाः प्रीयन्ताम् । इन्द्रपुरोगामरुद्गणाः प्रीयन्ताम् । वशिष्ठपुरोगा ऋषिगणाःप्रीयन्ताम् । माहेश्वरीपुरोगा उमामातरः प्रीयन्ताम् । अरुन्धतीपुरोगा एकपत्न्यः प्रीयन्ताम् । विष्णुपुरोगाः सर्वे देवाः प्रीयन्ताम् । ब्रह्मपुरोगाःसर्वे वेदाः प्रीयन्ताम् । ब्रह्म च ब्राह्मणाश्च प्रीयन्ताम् । श्रीसरस्वत्यौ प्रीयेताम् । श्रद्धामेधे प्रीयेताम् । भगवती कात्यायनी प्रीयताम् । भगवती माहेश्वरी प्रीयताम् । भगवती वृद्धिकरी प्रीयताम् । भगवती पुष्टिकरी प्रीयताम् । भगवती तुष्टिकरी प्रीयताम् । भगवान्विनायकः प्रीयताम् । सर्वाः कुलदेवताः प्रीयन्ताम् । सर्वा ग्रामदेव-
ताःप्रीयन्ताम्” ।पुनः पात्राद्बहिः। “हताश्च ब्रह्मद्विषः । हताश्च परिपन्थिनः ।हताश्च विघ्नकर्तारः ।शत्रवः पराभवं यान्तु ।शाम्यन्तु घोराणि ।शाम्यन्तु पापानि ।शाम्यन्त्वीतयः” । अन्तः। “शुभानि वर्द्धन्ताम् ।शिवा आपः सन्तु । शिवा ऋतवः सन्तु ।शिवा ओषधयः सन्तु ।शिवा अग्नयः सन्तु । शिवा आहुतयः सन्तु ।शिवा वनस्पतयः सन्तु ।शिवा अतिथयः सन्तु ।अहोरात्रे शिवे स्याताम् ।
नि॒का॒मे नि॑कामे न<MISSING_FIG href="#"/><MISSING_FIG href="../books_images/U-IMG-1695661354Screenshot(34"/>.png)प॒र्जन्यो॑ व्वर्षतु॒ फल॑वत्यो
न॒ ओष॑धय<MISSING_FIG href="../books_images/U-IMG-1695661354Screenshot(34"/>.png) पच्यन्तां य़ोगक्षे॒मो न॑÷ कल्पताम् ॥
शुक्राङ्गारकबुधबृहस्पतिशनैश्वरराहुकेतुसोमसहिता आदित्यपुरोगाः सर्वे ग्रहाः प्रीयन्ताम् ।भगवान्नारायणः प्रीयताम् ।भगवान्पर्जन्यः प्रीयताम् । भगवान् स्वामी महासेनः प्रीयताम् । पुण्याहकालं वाचयिष्ये।“ॐ वाच्यताम्" इत्यनुज्ञातः ।
ब्राह्मं पुण्यमहर्यच्च सृष्ट्युत्पादनकारकम् ।
वेदवृक्षोद्भवं नित्यं तत्पुण्याहं ब्रुवन्तु नः ॥
भो ब्राह्मणाः मम गृहेऽस्य कर्मणः पुण्याहं भवन्तो ब्रुवन्तु । “ॐपुण्याहम्" एतदुभयं मन्द्रस्वरेण । एवं पुनर्मध्यस्वरेण । एवं पुनरुच्चस्वरेण । तथैव प्रैषप्रतिवचने ।
ॐ पु॒नन्तु॑ मा देवज॒ना<MISSING_FIG href="../books_images/U-IMG-1695661354Screenshot(34"/>.png)पु॒नन्तु॒ मन॑सा॒ धिय॑÷ ।
पु॒नन्तु॒ व्विश्वा॑भू॒तानि॒ जात॑वेद<MISSING_FIG href="../books_images/U-IMG-1695661354Screenshot(34"/>.png) पुनी॒हि मा॑॥
स्वस्तिस्तु या विनाशाख्या पुण्यकल्याणवृद्धिदा ।
विनायकप्रिया नित्यं तां स्वस्तिं प्रब्रुवन्तु नः ॥
भो ब्राह्मणाः मम गृहे अस्मै कर्मणे स्वस्ति भवन्तो ब्रुवन्तु ।
“ॐ आयुष्मते स्वस्ति" इति प्रैषप्रतिवचने मन्द्रमध्योच्चस्वरैस्त्रिवारम् ॥
ॐ स्व॒स्तिं न॒ इन्द्रो॑ व्वृ॒द्धश्र॑वा<MISSING_FIG href="../books_images/U-IMG-1695661354Screenshot(34"/>.png)स्व॒स्ति न॑÷पू॒षा व्वि॒श्ववे॑दा<MISSING_FIG href="../books_images/U-IMG-1695661354Screenshot(34"/>.png)।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरिष्टनेमि<MISSING_FIG href="../books_images/U-IMG-1695661354Screenshot(34"/>.png)स्व॒स्ति नो॒ बृह॒स्पति॑र्द्धधातु ॥
सागरस्य यथा वृद्धिर्महालक्ष्म्यादिभिः कृता ।
सम्पूर्णा सुप्रभावा च तामृद्धिं प्रब्रुवन्तु नः ॥
भो ब्राह्मणाः मम गृहेऽस्य कर्मण ऋद्धिं भवन्तो ब्रुवन्तु । “ॐ ऋध्यताम्" ।पूर्ववत्त्रिवारम् ।
ॐ स॒त्रस्य॒ ऋद्धि॑र॒स्यग॑न्म॒ ज्योतिर॒मृता॑अभूभ ।
दिव॑म्पृथि॒व्या अध्या रु॒॑हामा वि॑दाम दे॒वान्त्स्व॒र्ज्योति॑÷॥
पृथिव्यामुद्धृतायान्तु यत्कल्याणम्पुरा कृतम् ।
ऋषिभिः सिद्धगन्धर्वैस्तत्कल्याणं ब्रुवन्तु नः ॥
भो ब्राह्मणाः मम गृहेऽस्यकर्मणः कल्याणं भवन्तो ब्रुवन्तु । “ॐ कल्याणम्" इति त्रिः ।
ॐ य़थे॒मां व्वाच॑ङ्कल्या॒णीमा॒वदा॑नि॒ जने॑भ्य<MISSING_FIG href="../books_images/U-IMG-1695704360Screenshot(34"/>.png)।
ब्र॒ह्म॒रा॒ज॒न्याभ्याँशू॒द्राय॒ चार्य़ा॑य च॒ स्वाय॒ चार॑णाय च ॥
प्रि॒यो दे॒वाना॒न्दक्षि॑णायै दा॒तुरिह॒ भू॑यासम॒य-
म्मे॒ काम॒<MISSING_FIG href="../books_images/U-IMG-1695704360Screenshot(34"/>.png) समृ॑ध्यता॒मुप॑ मा॒ऽदो न॑मतु ॥
समुद्रमथनाज्जाता जगदानन्दकारिका ।
हरिप्रिया च माङ्गल्या तां श्रियं प्र ब्रुवन्तु नः ।
भो ब्राह्मणाः मम गृहेऽस्य कर्मणः श्रीरस्त्विति भवन्तो ब्रुवन्तु । “ॐ अस्तु श्रीः" त्रिवारम् ।
ॐ श्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्या॑वहोरा॒त्रे
पा॒र्श्वे नक्ष॑त्राणि रु॒पम॒श्विनौ॒ व्यात्त॑म् ।
इ॒ष्णन्नि॑षाणा॒मुम्म॑ इषाण सर्व्वलो॒कम्म॑ इषाण ॥
पुण्याहसमृद्धिरस्तु । श्रीभगवान् प्रजापतिः प्रीयताम् । ततः कुशाग्रैः सपल्लवैर्विप्रा अभिषिञ्चेयुः । ततः सुवासिनीर्भिनीराजनं कार्य्यम् ।अत्र वस्त्रादिदानमाचरेत् ॥
इति पुण्याहवाचनप्रयोगः ।
अथ मातृकापूजनम् ।
ताश्च पटे लिखितप्रतिमादिषु अक्षतपुञ्जेषु वा । यथा -
गौरी पद्मा शची मेधा सावित्री विजया जया ।
देवसेना स्वधा स्वाहा मातरो लोकमातरः ॥
धृतिः पुष्टिस्तथा तुष्टिरात्मनः कुलदेवता ।
गणेशेनाधिका ह्येता वृद्धौ पूजास्तु षोडश ॥
पूजोपाकरणान्युपकल्प्यप्राङ्मुख उपविश्य कुशयवजलान्यादाय ।अद्येत्यादि विवाहकर्माङ्गभूतं गौर्यादिषोडशमातृकापूजनमहं करिष्ये । इति सङ्कल्प्य पुष्पाक्षतैः पृथक् पृथगावाहनम् । ॐ भूर्भुवः स्वः गणपते इहागच्छ इहतिष्ठ ।ॐ भूर्भुवः स्वः गौरि इहागच्छ इह तिष्ठ । एवं “पद्मे शचि मेधेसावित्रि विजये जये देवसेने स्वधे स्वाहेमातरो लोकमातरो धृते पुष्टे तुष्टे आत्मकुलदेवते" इति प्रत्येकमाबाह्य “मनो जूतिः" इति प्रतिष्ठाप्य प्रणवादिनमोन्तचतुर्थ्यन्तस्वस्वनाममन्त्रेण षोडशोपचारैः पूजयेत् । तत्र प्रयोगः “गौर्यैनमः एषोऽर्घः। इदमनुलेपनम् । इमानि पुष्पाणि । अयं धूपः । अयं दीपः । इदं नैवेद्यम् । इदं ताम्बूलम् । इदं वासः । इयं दक्षिणा” । एवमेव सर्वासां पृथक् २ पूजनम् । मातॄणां गणदेवतात्वपक्षे तु “गौर्यादिमातृभ्यो नमः” इति पूर्ववदुपचारैः पूजयेत् ।
अथ वसोर्द्धारा ।तत्र पञ्च सप्त वा नातिनीचा न चोच्छ्रिताः कुड्यादिषु “ॐ व्वसो॑<MISSING_FIG href=”../books_images/U-IMG-1695705450Screenshot(34”/>.png)प॒वित्र॑मसि श॒तधा॑रं॒॰काम॑धुक्षः" इत्यन्तं मन्त्रं पठित्वा घृतधारा उत्तरसंस्थाः कार्याः । ता यथा -
श्रीश्चलक्ष्मीर्धृतिर्मेधा स्वाहा पद्मा सरस्वती ।
माङ्गल्येषु तु पूज्यन्ते सप्तैता घृतमातरः ॥
ततो “वसोर्धारा देवताभ्यो नमः” इति पूर्ववत् षोडशोपचारैः पञ्चोपचारैर्वा पूजयेत् । वसोर्धाराकरणं च कातीयानामेव नान्येषाम् ।तत आयुष्यमन्त्रजपः । “ॐआ॒यु॒ष्यं व॒र्च॒स्यँरा॒यस्योष॒ मित्यादि दीर्घमायु॑÷"
इत्यन्तम् ।यस्मिन्कर्मणि मण्डपकरणं तत्र मण्डपसम्बन्धिदेवताः स्थापयेत् । तद्यथा ।**अथाविघ्नमातृपूजा ।**तण्डुलपूर्णहरिद्राखण्डक्रमुकफलयुक्ते न्युव्जशरावपिहिते हरिद्रादिमण्डिते शरावे सूत्रवेष्टिते सूक्ष्मकलशे अविघ्नसंज्ञं गणपतिमावाह्य पूजयेत् ।
मोदश्चैव प्रमोदश्चसुमुखो दुर्मुखस्तथा ।
अविघ्नो विघ्नहर्ता च षडेते विघ्नमातरः ।
“मनो जूतिः” इति मन्त्रेण प्रतिष्ठाप्य षोडशोपचारैः पञ्चोपचारैर्वा पूजयेत् । आदिशब्दादुद्वर्तनोष्णोदकैरभ्यङ्गस्नानादिना । ततो मण्डप मातरः पूज्याः।दुर्वाशमीपल्लवकुशदेववृक्षपल्लवानाम्रादिप्रशस्तपत्रवेष्टितान् सूत्रेण षोढा वेष्टयेत् । तत्रैकत्र मुसलं एकत्र च्छुरिकां शस्त्रं वा सर्वाणि वंशपात्रे निधाय तन्मध्ये उदक्संस्थेषु चर्तुषु क्रमेण । नन्दिनीं १ नलिनीं २ मैत्रां ३ उमां ४ च तदुत्तरे मुसलगर्भे पशुवर्द्धनीं ५ तदुतरशस्त्रगर्भे भगवतीम् ६ ।आग्नेयकोणस्तम्भात्प्रदक्षिण्येन आग्नेयकोणस्तम्भोपरि नन्दिनीनामकं वेष्टितं “मनो जूतिः" इति प्रतिष्ठाप्य ।"स्थिरो भव" इति तत्र नन्दिनीं पूजयेत् । “निकामे निकामे नः" इति मन्त्रेण प्रोक्ष्य पूर्ववद्गन्धादिना पूजयेत् । स्तम्भमालभ्य “ऊर्ध्व ऊषुणः” इति जपः । एवं सर्वेषु स्तम्भेषु ज्ञेयम् । ततो नैऋत्यस्तम्भे नलिनीं वायव्यस्तम्भे मैत्रां ईशानस्तम्भे उमां मण्डपमध्ये पशुवर्द्धिनीं भगवतींच उक्तवत्स्थापयित्वा पूजयेत् । केचित्तु शूर्पे एव कुङ्कुमादिना षोडशमातॄःसप्तमातॄः अविघ्नमातॄः षट् लिखित्वा पूजयन्ति । ततो वंशपात्रेण सह गौर्यादिमातृकास्थापनम् । वंशपात्रं च स्वयं गृहीत्वा अविघ्नकलशं च पत्न्या ग्राहयित्वा सब्राह्मणः**‘आ नो भद्राः । स्वस्ति न इन्द्रः**’ सुमङ्गलसूक्तानि23 पठन्मङ्गलवाद्यघोषेण गृहद्वारसमीपे गत्वा तत्र द्वार मातृकाः पूजयेत ।
जयन्ती विजया नाम पिङ्गला च सुशोभना ।
भद्रकाली प्रपूज्यन्ते पञ्चैता द्वारमातृकाः ॥
अथ वा -
जया च विजया चैव भद्रकाली च पिङ्गला ।
सुभगा चैव विज्ञेया द्वारमातॄःप्रपूजयेत् ॥
“मनो जूतिः" । इति प्रतिष्ठाप्य पूर्ववत्पूजयेत् । ततो वसोर्द्धाराकरणं शान्तिसूक्तपाठञ्च कुर्य्यात् । ततो जलमातृकापूजनम् ।ताश्च -
मत्सी कूर्मीच वाराही कुर्क्कुटी दुर्दुरी तथा ।
जलृकीसोमपा चैव सप्तैता जलमातरः ॥
पूर्ववत्प्रतिष्ठाप्य पूजयेत्24॥
इति मातृकापूजा समाप्ता ।
अथाभ्युदयिकम् ।
अक्रोधनैरिति नियमश्रावणम् । ततो निमन्त्रणक्रमेणैव “नान्दीमुखाः अस्मत्पित्रादित्रयमातामहादित्रयश्राद्धसम्बन्धिनः सत्यवसुसंज्ञकविश्वेदेवाः एष वः पादार्घः” । गन्धपुष्पादियुतं पाद्यं दद्यात् । “अमुकगोत्रा अस्मत्पितृपितामहप्रपितामहाः अमुकामुकशर्माणःसपत्नीकाः एष वः पादार्घः” । ब्राह्मणचरणयोर्दद्यात् । एवं मातामहयोर्विप्रयोः । विप्रानाचाम्य स्वयं चाचम्य “इदमासनमास्यताम्” ।इति सकुशेष्वासनेषूपवेशयेत् । कर्मपात्रं जलेनापूर्य प्राणानायम्य विष्णुं स्मृत्वा तज्जलेनोपकरणानि प्रोक्ष्य । “अद्यामुकगोत्राणां पितृपितामहप्रपितामहानां सपत्नीकानां नान्दीमुखानां तथा च मातामहप्रमातामहवृद्धप्रमातामहानां सपत्नीकानां नान्दीमुखानां अमुककर्मनिमित्तं सत्यवसुसंज्ञकविश्वेदेवपूर्वकं अपिण्डकमाभ्युदयिकं श्राद्धमहं करिष्ये । ॐ कुरुष्व” इति प्रतिवचनम्। प्रणवव्याहृतिपूर्विकां गायत्रीं त्रिर्जपेत्। “पित्रादित्रयमातामहादित्रयश्राद्धसम्ब-न्धिनां सत्यवसुसंज्ञकानां विश्वेषान्देवानामिदमासनं नमः" ।
इत्यासनं दद्यात्। “अमुकगोत्राणां पितृपितामहप्रपितामहानाममुकामुकशर्मणां सपत्नीकानामिदमासनं नमः" । एवं मातामहानामपि ।“सत्यवसुसंज्ञकाः विश्वेदेवाः एष गन्धः । इमानि पुष्पाणि । एष धूपः । एष दीपः । इदमाच्छादनार्थे हिरण्यम्” ।जलयवकुशान्यादाय ।“पित्रादित्रयमातामहादित्रयश्राद्धसम्बन्धिनो विश्वे देवाःइमानि पुष्पगन्धधूपदीपवासांसि युष्मभ्यन्नमः” । एवमेव पित्रादीनामपि । “गोत्राःपितृपितामहप्रपितामहाः अमुकामुकशर्माणः सपत्नीकाःनान्दीमुखाःइमानि गन्धपुष्पधूपदीपवासांसि वो नमः" ।एवं मातामहानामपि । अन्नपरिवेषणाग्नौकरणाभावात्पात्रालम्भाभावः । कुशयवजलान्यादाय । “पित्रादित्रयमातामहादित्रयश्राद्धसम्बन्धिसत्यवसुसंज्ञकेभ्यो विश्वेभ्यो देवेभ्यः इदं युग्मब्राह्मणभोजनपर्याप्तमन्नन्दातुमहमुत्सृजे” । गोत्रेभ्यः पितृपितामहप्रपितामहेभ्यः अमुकामुकशर्मभ्यः नान्दीमुखेभ्यः युग्मब्राह्मणभोजनपर्याप्तमन्नमहमुत्सृजे" ।एवं मातामहादिभ्यः । ततोऽश्नत्सु पित्र्यमन्त्रवर्ज्य जपः । तृप्तान् ज्ञात्वा अन्नं विकीर्यसकत्सकृदपो दत्वा पूर्ववद्गायत्रीं जपित्वा मधुमतीर्मध्विति च “सम्पन्नम्” इति पृष्ट्वा “सुसम्पन्नम्” इति प्रत्युक्तिः। “शेषमन्नं किं क्रियताम्” इति पृष्ट्वा“इष्टैःसह भुज्यताम्" इति तैरुक्ते ब्राह्मणानाचामयेत् । “सुप्रोक्षितमस्तु ।शिवाऽआपः सन्तु ।सौमनस्यमस्तु । अक्षतं चारिष्टं चास्तु ।नान्दीमुखाः पितरः प्रीयन्ताम् ।नान्दीमुखाः पितामहाः प्रीयन्ताम् । नान्दीमुखाः प्रपितामहाः प्रीयन्ताम् ।नान्दीमुखा मातामहाः प्रीयन्ताम् । नान्दीमुखाःप्रमातामहाः प्रीयन्ताम् ।नान्दीमुखा वृद्धप्रमातामहाः प्रीयन्ताम्” । इति यवोदकं दद्यात् । प्राञ्जलिः । “ॐअघोराः पितरः सन्तु ।ॐसन्तु" इति प्रतिवचनम् । “गोत्रन्नो वर्द्धताम् । वर्द्धतां वो गोत्रम् ।दातारो नोऽभिवर्द्धन्ताम् ।वेदाः सन्ततिरेवच श्रद्धा च नो मा व्यगमद्बहुदेयं च नोऽस्तु ।ॐअस्तु" इति प्रतिवचनम् । कृतैतन्नान्दीश्राद्धप्र
तिष्ठासिद्ध्यर्थं द्राक्षामलकयवमूलनिष्क्रयिणीं दक्षिणां दातुमहमुत्सृजे “ ।इति सङ्कल्पं कुर्यात् । यदि दद्यात्तदा दक्षिणा दत्तेति ब्रूयात् । पितृब्राह्मणे तु हरीतक्यामलकयवमूलनिष्क्रयिणीं दक्षिणां दद्यात् । ततः “विश्वे देवाः प्रीयन्ताम्” इति देवे वाचयित्वा । “प्रीयन्तां वो विश्वेदेवाः । स्वति भवन्तो ब्रुवन्तु ।ॐस्वस्ति” इति सर्वैरुक्ते । “नान्दीश्राद्धं सम्पन्नम्” इति तेनोक्ते । “ॐसुसम्पन्नम्” इति ते ब्रूयुः । “स्वस्ति नः" इति पठेत् । ब्राह्मणान् प्रणिपत्य प्रसाद्य “व्वाजेवाजेऽवत” इति पित्रादित्रयमातामहदित्रयपूर्वकं देवद्विजौ विसृज्य ‘आ मा व्वाजस्य’ इति विप्राननुव्रज्य प्रदक्षिणीकृत्य आचामेत् ।
इति श्री प्रथमशारवीयरामकृष्णविरचिते पारस्करगृह्यसू-
त्रविवरणे संस्कारगणपतौगणपतिपूजनपुण्याहवाच-
नमातृकापूजननान्दीश्राद्धप्रयोगः ।
** अथ ग्रहयज्ञस्वरूपमभिधीयते** । स च नित्यनैमित्तिककाम्यभेदेन त्रिधा । तत्र अयनविषुवोपरागादिषु नित्यः । गर्भाधानादिसंस्कारकर्मसु नैमित्तिकः । विपदपगमसम्पदादिकामेषु काम्यः । तत्र नित्यनैमित्तिकयोः प्रतिपदोक्तवस्त्वभावेऽनुकल्यानि ग्राह्याणि । काम्ये तु प्रतिनिध्यभावात्प्रतिपदोक्तान्येव वस्तूनि । तथा च शौनकः -
ग्रहशान्तिं प्रवक्ष्यामि शौनकोऽहं द्विजन्मनाम् ।
पुण्येऽहनि शुभे वारे कुर्याद्वा च त्रिजन्मसु ॥
अयने विषुवे चैव सोमसूर्योपरागयोः ।
ग्रहाणामुग्रचेष्टानामेतां शान्तिं समाचरेत् ॥
नित्योऽयं ग्रहयज्ञः स्यान्नैमित्तिक इतः परम् ।
गर्भाधानादिसंस्कारकर्मस्वपि विशेषतः ॥
कार्यारम्भेषु सर्वेषु नववेश्मप्रवेशने ।
अत्र कार्यारम्भेष्वित्यादौसर्वत्र निमित्तसप्तमी ज्ञेया ।
आरोग्यज्ञानसमये संक्रान्तौ रोगसम्भवे ।
अतिचारे च यः कुर्याद्ग्रहपूजां विधानतः ॥
सोऽभीष्टफलमाप्नोति" इति ।
तथाचोक्तं रुद्रपद्धतौ -
आदौ विनायकं पूज्य ग्रहांश्चैव विधानतः ।
कर्मणां सिद्धिमाप्नोति श्रेयश्चाप्नोत्यनुत्तमम् ॥
कर्मतत्त्वदीपिकायां च -
विवाहोत्सवयज्ञेषु प्रतिष्ठादिषु कर्मसु ।
निर्विघ्नार्थं मुनिश्रेष्ठ तथोद्वेगोद्भवेषु च ॥
वश्यकर्माभिचारेषु तथैवोच्चाटनादिषु ।
नवग्रहमखं कृत्वा ततः काभ्यं समाचरेत् ॥
स्कन्दपुराणे -
सुखासीनममुं गार्ग्यं कौशिकः परिपृच्छति ।
निखिलां ग्रहशान्तिं मे भगवन्वक्तुमर्हसि ॥
गार्ग्य उवाच -
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ।
पीड्यन्ते ग्रहपीडाभिः किं पुनर्भुवि मानवाः ॥
शनैश्चरेण सौदासो नरमांसेन योजितः ।
राहुणा पीडितो राजा नलो भ्रान्तो महीतले ।
अङ्गारकविरोधेन रामो राष्ट्राद्विवासितः ।
अष्टमेन शशाङ्केन हिरण्यकशिपुर्हतः ॥
रविणा चाष्टमस्थेन रावणो विनिपातितः ।
गुरुणा जन्मसंस्थेन हतो राजा सुयोधनः ॥
पाण्डवा बुधपीडायां विकर्मणि नियोजिताः ।
षष्ठेनोशनसा युद्धे हिरण्याक्षो निपातितः ॥
एते चान्ये च बहवो ग्रहदोषैस्तु पीडिताः।
यतः -
ग्रहाधीनो नरेन्द्राणामुच्छायःपतनानि च ।
भावाभावौ च जगतस्तस्मात्पूज्यतमा ग्रहाः ॥
इति याज्ञवल्क्यवचनम् । अत्र नरेन्द्रग्रहणमुपलक्षणम् । गर्गः -
सुरार्चनेन दानेन साधूनां सङ्गमेन च ।
शुश्रूषया च विप्राणां ग्रहारिष्टं विनश्यति ॥
याज्ञवल्क्यः -
श्रीकामः शान्तिकामो वा ग्रहयज्ञं समारभेत् ।
वृष्ट्यायुः पुष्टिकामो वा तथैवाभिचरन्नपि ॥
मत्स्यपुराणेऽप्येवमेव ।अपि च -
यश्च यस्य यदा तुष्टः स तं यत्नेन पूजयेत् ।
ब्रह्मणैषां वरो दत्तः पूजिताः पूजयिष्यथ ॥।
ग्रहानाह -
सूर्यः सोमो महीपुत्रः सोमपुत्रो बृहस्पतिः ।
शुक्रःशनैश्चरो राहुःकेतुश्चेति ग्रहाःस्मृताः ॥
गृहस्योत्तरपूर्वेण मण्डपं कारयेद्बुधः ।
रुद्रायतनभूमौ वा चतुरस्रमुदक्प्लवम् ॥
दशहस्तमथाष्टौ वा हस्तान्कुर्याद्विधानतः ।
तस्य द्वाराणि चत्वारि कर्तव्यानि विचक्षणैः ॥
स्कान्दे -
नवग्रहमखे कुण्डं हस्तमात्रं समं भवेत् ।
चतुरस्रमधोहस्तं योनिवक्रं स मेखलम् ॥
चतुरङ्गुलविस्तारा मेखलास्तद्वदुच्छ्रिताः ।
मानहीनाधिकं कुण्डमनेकभयदं भवेत् ॥
मात्स्ये -
वितस्तिमात्रा योनिः स्यात्षट्सप्ताङ्गुलविस्तृता ।
गजोष्ठसदृशी तद्वदायता च्छिद्रसंयुता ॥
मेखलोपरि सर्वत्र अश्वत्थदलसन्निभा ।
साच पश्चिमतो ज्ञेया योनित्वादिति के चन ॥
विधानपारिजाते -
मानहीनाधिकं कुण्डमनेकभयदं भवेत् ।
तस्माच्चोत्तरपूर्वेण स्थण्डिलं हस्तमात्रकम् ॥
त्रिवप्रंचतुरस्त्रं च वितस्त्युच्छ्रायसम्मितम् ।
स्थण्डिलं वेदिः । वप्रा मेखलाः । तदुक्तं विधानपारिजाते मात्स्ये -
द्विरङ्गुलोच्छितो वप्रः प्रथमः समुदाहृतः ।
अंगुलोच्छ्रायसंयुक्तं वप्रद्दूयमथोपरि ॥
व्द्यङ्गुलस्तत्र विस्तारः सर्वेषां कथितो बुधैः” इति ।
अथ ऋत्विग्वरणं स्कन्दपुराणे -
नवग्रहमखे कुर्यादृत्विजश्चतुरः शुभान् ।
अथवा चैकमभ्यर्च्य विधिना ब्रह्मणा सह ॥
ग्रहदीपिकायाम् -
ऋत्विजोऽष्टौ च चत्वारो द्द्वावप्येकस्तथैव च ।
नवग्रहमखे कुर्यादृत्विजश्चतुरः शुभान् ॥
एतच्चोपलक्षणम् ।बहवोऽपि कर्तव्याः ।होमसंख्याकान् ऋत्विजो वृणीत ।सर्वत्राचार्यब्रह्माणौ नियतौ । वरणं विनाऽनर्त्विजत्वापत्तेः । तथाचोक्तं श्री अनन्तभाष्ये -
होतृत्वप्रापणायैतद्वरणं त्विष्टसाधनम् ।
यजमानेन कर्तव्यमानन्त्यार्थमिहापि तत् ॥
वरणानन्तरं ऋत्विजे ज्वरादियुक्ते मृते वा तदा यजमानस्तत्स्थानेऽन्यं वृत्वा कर्मणि योजयेत् । तथा च श्रौतसूत्रभाष्ये ब्रह्मवरणप्रकरणे श्री अनन्तेन लिखितम् । तद्यथा -
यावन्नयोज्यतेऽन्यस्तु वरणेन स्वकर्मणि ।
न तावत्तत्समाख्यानं लभते कर्तृहेतुकम् ॥
अथ रक्षाबन्धनम् ।रक्षाकङ्कणबन्धनमिति मत्स्यपुराणात् । तत्तुप्रयोगे वक्ष्यामि । अथ जपस्थानानि नारदीये -
शिवस्य सन्निधाने च सूर्याग्न्योर्वा गुरोरपि ।
दीपस्य ज्वलितस्यापि जपकर्म प्रशस्यते ॥
तथा च शिवः -
गृहे जपं समं विद्याद्गोष्ठे शतगुणं भवेत् ।
नद्यां शतसहस्रं स्यादनन्तं शिवसन्निधौ ॥
समुद्रतीरे च हृदे गिरौ देवालयेऽप्यथ ।
पुण्याश्रमेषु सर्वेषु जपं कोटिगुणं भवेत् ॥
अन्यच्च -
अग्रे पृष्ठे तथा वामे समीपे गर्भमन्दिरे ।
जपं प्रदक्षिणं होमं न कुर्याद्धि शिवालये ॥
अथासनविचारः । मन्त्रमुक्तावल्याम् -
वंशचर्मधरादारुतृणपल्लवनिर्मितम् ।
वर्जयेदासनं धीमान् दारिद्र्यव्याधिदुःखदम् ।
तूलकम्बलवस्त्राणि पट्टव्याघ्रमृगाजिनम् ॥
कल्पयेदासनं धीमान् सौभाग्यज्ञानद्धिदम् ॥
अथ जपमाला मन्त्रखण्डे -
स्फाटिकी मौक्तिकी वाऽपि प्रोतव्या सितसूत्रकैः ।
सर्वकर्मसमृद्ध्यर्थं जपेद्रुद्राक्षमालया ॥
अरिष्टपुत्रजीवैश्च शङ्खः पद्ममणिस्तथा ।
कुशग्रन्थिश्च रुद्राक्ष उत्तमं चोत्तरोत्तरम् ॥
अन्यत्रापि -
रुद्राक्षश्वेतपद्माक्षमालेतु ह्यखिले जपेत् ।
अतिस्थूलोऽतिसूक्ष्मश्च स्फुटितो भङ्गुरो लघुः ॥
भिन्नःपुरा धृतो जीर्णो रुद्राक्षो न वरः स्मृतः ।
अलाभे जपमालानां करशाखासु पर्वभिः ॥
अनामिकाया यो मध्यस्तस्मादधःक्रमेण तु ।
तर्जन्यादौ जपान्तश्च अक्षमाला करे स्थिता ॥
अङ्गुल्यग्रेषु यज्जप्तं यज्जप्तं मेरुलङ्घने ।
असंख्येन तु यज्जप्तं तत् सर्वं निष्फलं भवेत् ॥
कामनायां विशेषः -
त्रिषड्भिः स्याद्धनं पुष्टिः सप्तविंशतिभिर्भवेत् ।
पञ्चविंशतिभिर्मोक्षो पञ्चदश्याभिचारके ॥
पञ्चाशद्भिः कुले शान्तिः सर्वसिद्धिरुदीरिता ।
अन्यच्च -
कम्पनात्सिद्धिहानिः स्याद्धननं बहुदुःखदम् ।
शब्दे जाते भवेद्रोगो करभ्रष्टा विनाशकृत् ॥
छिन्ने सूत्रे भवेत्मृत्युस्तस्माद्यत्नपरो भवेत् ।
अनुलोमविलोमाभ्यां गणयेन्मन्त्रवित्तमः ॥
अथ मालासंस्कारः -
प्रक्षाल्यपञ्चगव्येन तथा पञ्चामृतेन च ।
संस्नाप्य पञ्चगव्येन शिवकुम्भस्थितेन च ॥
सर्वं वैमूलमन्त्रेण गन्धपुष्पाक्षतादिभिः ।
धूपदीपनैवेद्यादि दत्वा चाष्टशतं स्पृशेत् ॥
मूलमन्त्रं जपेत्पश्चाद्दण्डवत्प्रणमेत् पुनः ।
एवं या संस्कृता माला जपकर्मणि सिद्धिदा ॥
गोभिलः -
नार्द्रवासा जपं कुर्याद्धोमं दानं प्रतिग्रहम् ।
सर्वन्तद्राक्षसं विद्याद्बहिर्जानु च यत्कृतम् ॥
मौनेन जपं कुर्यात् । तदुक्तमङ्गिरसा -
सन्ध्ययोरुभयोर्जाप्ये भोजने दन्तधावने ।
पितृकार्ये च दैवे च तथा मूत्रपुरीषयोः ॥
गुरूणां सन्निधौ दाने योगे चैव विशेषतः ।
एषु मौनं समातिष्ठन्स्वर्गं प्राप्नोति मानवः ॥
योगियाज्ञवल्क्यः -
यदि वाग्यमलोपःस्याज्जपादिषु कथं च न ।
व्याहरेद्वैष्णवं मन्त्रं स्मरेद्वा विष्णुमव्यम् ॥
शाकटायनोऽपि -
क्षुते निष्ठीवने चैव उच्छिष्टे च तथाऽनृते ।
पतितानां च सम्भाषे दक्षिणं श्रवणं स्पृशेत् ॥
अग्निरापश्च वेदाश्च सोमसूर्यानिलस्तथा ।
सर्व एव हि विप्रस्य कर्णे तिष्ठन्ति दक्षिणे ॥
अथ पुरश्चरणम् ।कुलार्णवे -
पञ्चाङ्गानि महादेवि जपो होमञ्च तर्पणम् ।
स्वाभिषेकश्च विप्राणामाराधनमपीश्वरि ॥
सनत्कुमारोपि -
तर्पयेत्तद्दशांशेन सघृतेन फलाम्भसा ।
कुर्यात्तद्देशांशहोमस्ततः सिद्धो भवन्मनुः" इति ।
स्वाहाऽन्तेनैव मन्त्रेण होमः कार्यो विधानतः ।
नमोऽन्तेन नमस्कारो मकारान्तेन वै जपः ॥
संन्यासिनां न होमोऽस्ति न च ब्राह्मणतर्पणम् ।
जपमात्रेण सिद्धिःस्यात्तर्पणाद्यं विकल्पितम् ॥
गौतमीये -
होमकर्मण्यसक्तानां विप्राणां द्विगुणो जपः ।
इतरेषां तु वर्णानां त्रिगुणादि विधीयते ॥
कश्चित्तु प्रत्यहं जपदशांशतर्पणं करोति । कश्चित्तु लक्षे पूर्णे करोति ।
उक्तं च नारदीये -
स्वजपस्य दशांशेन होमं कुर्याद्दिने दिने ।
अथ वा लक्षपर्यन्ते होमः कार्यो विपश्चिता ॥
वैशम्पायनः-
तर्पणस्य दशांशेन नमोऽन्तं मन्त्रमुच्चरेत् ।
अभिषिञ्चेस्वमूर्धानं जलैः कुम्भाख्यमुद्रया ॥
होमे मुद्राः -
होमे मुद्राः स्मृतास्तिस्रो मृगी हंसी च शूकरी ।
शान्तिके तु मृगी ज्ञेया हंसी पौष्टिककर्मणि ॥
शूकरी त्वभिचारेषु कार्या तन्त्रविदुत्तमैः ।
मुद्रालक्षणमाह -
शूकरी करसङ्कोची हंसी मुक्तकनिष्ठिका ।
कनिष्ठातर्जनीहीना मृगी मुद्रा प्रकीर्तिता ॥
अभिचारादिहोमेषु शूकरी कथिता बुधैः ।
शूकरी पुत्रकामाय धनकामाय हंसिनी ॥
मृगी मोक्षे प्रकर्तव्या आहुतिः सर्वकामिका ।
हुतेयन्मुद्रया हीनं तत्सर्वं निष्फलं भवेत् ॥
अग्निकर्णादिहोमे फलमाह -
बधिरत्वं कर्णहोमे नेत्रे त्वन्धत्वमामुयात् ।
नासिकायां मनः पीडा शिरोहोमो हि मृत्युदः ॥
यतः काष्ठं ततः श्रोत्रं यतो धूमोऽपि नासिका ।
यतोऽल्पज्वलनं नेत्रं यतो भस्म ततः शिरः ॥
यतः प्रज्वलितो वह्निस्तन्मुखं जातवेदसः ।
अथ जपविधिः । ऋष्यादिस्मरणम् । उक्तं च सर्वानुक्रमे कात्यायनेन “एतान्यविदित्वा योऽधीतेऽनुब्रूते जपति जुहोति यजते याजयते तस्य ब्रह्म निर्वीर्यं भवतीति” ।
तथा च गोविन्दभट्टकारिकायाम्-
ऋष्यादीन्यविदित्वा योऽनुब्रूते यजते तथा ॥
याजयेद्वा तस्य कर्म निर्वीर्यं जायते स्फुटम् ।
न्यासः कार्यो ग्रहेन्द्राणां देवताभिः सहानघ” इति ।
न्यास उपलक्षणमेव शिरःपल्लवासनादीन्यपि । उक्तं च -
न्यासहीनो भवेन्मूको मृतः स्याच्छिरसा विना ।
अपल्लवस्तु नग्नः स्यासुप्तःस्यादासनं विना ॥
गुरुं विना वृथा मन्त्रः श्रव्यजापस्तु शून्यकः ।
निर्वीर्यो दुष्टदत्तः स्यात्सोऽन्यबीजस्तु कीलितः ॥
दुष्टदत्तःदुष्टाय दत्त इत्यर्थः ।
देवच्छन्दर्षिहीनो यः स तु सुप्तो भुजङ्गमः ।
मूकादयो मन्त्रवर्ज्याः। वैदिके मन्त्रे न पल्लवादिविचारः । एवं जपं कृत्वा होममारभेत् । अथ स्वगृह्योक्तविधिना अग्निस्थापनं कृत्वा ग्रहादीन्देवान् स्थापयेत् । तथा चोक्तं मत्स्यपुराणे -
अग्निप्रणयनं कृत्वा तस्यामावाहयेत्सुरान् ।
देवतास्तत्र संस्थाप्य विंशतिर्द्वादशाधिकाः ॥
तस्यां वेदिकायाम् ।
जन्मभूर्गोत्रमग्निश्च वर्णस्थानमुखानि च ।
योऽज्ञात्वा कुरुते शान्तिं ग्रहास्तेनावमानिताः ॥
अथ ग्रहभूमयः -
उत्पन्नोऽर्कःकलिङ्गेषु यमुनायां च चन्द्रमाः ।
अङ्गारकस्त्ववन्त्यां वै मगधायां हिमांशुजः ॥
सैन्धवेषु गुरुर्जातः शुक्रो भोजकटे तथा ।
शनैश्चरस्तु सौराष्ट्रेराहुर्वै राठिने पुरे ॥
अन्तर्वेद्यां तथा केतुरित्येता ग्रहभूमयः ॥
अथ ग्रहाणां गोत्राणि -
आदित्यःकाश्यपो गोत्र आत्रेयश्चन्द्रमा भवेत् ।
भारद्वाजो भवेद्भौमस्तथाऽत्रेयश्च चन्द्रजः ॥
शक्रपूज्योऽङ्गिरागोत्रः शुक्रो वै भार्गवस्तथा ।
शनिःकाश्यप एवाथ राहुःपैठीनसिस्तथा ॥
केतवो जैमिनीयाश्च ग्रहाग्निस्तदनन्तरम् ।
आदित्ये कपिलो नाम पिङ्गलः सोम उच्यते ॥
धूमकेतुस्तथा भौमे जाठरोऽग्निर्बुधे स्मृतः ।
गुरौ चैव शिखी नाम शुक्रे भवति हाटकः ॥
शनैश्चरे महातेजा राहुकेत्वोर्हुताशनः ॥
अथ वर्णाः -
भास्कराङ्गारकौरक्तौ शुक्लौशुक्रनिशाकरौ ।
सोमपुत्रो गुरुश्चैव तावुभौ पीतकौ स्मृतौ ॥
कृष्णं शनैश्चरं विद्याच्चित्रा राहुश्च केतवः ॥
अथ स्थानानि -
मध्ये तु भास्करं विद्याच्छशिनं पूर्वदक्षिणे ।
दक्षिणे लोहितं विद्याद्बुधं पूर्वोत्तरेण तु ॥
उत्तरे तु गुरुं विद्यात्पूर्वतो भार्गवं न्यसेत् ।
पश्चिमेन शनिं विद्याद्राहुंदक्षिणपश्चिमे ॥
पश्चिमोत्तरतः केतुः स्थाप्यो वै शुक्लतण्डुलैः ॥
अथ ग्रहाणां प्रतिमाद्रव्याणि ग्रहदीपिकायां याज्ञवल्क्यः -
ताम्रकात्स्फटिकाद्रक्तचन्दनात्स्वर्णकादुभौ ।
राजतादयसः सीसात्कांस्यात्कार्या ग्रहाः क्रमात् ॥
स्ववर्णैर्वा पटे लेख्या गन्धैर्मण्डलकेषु वा ॥
स्कन्दपुराणे -
शुक्रार्कौप्राङ्मुखौ ज्ञेयौगुरुसौम्यावुदङ्मुखौ ।
प्रत्यङ्मुखः शनिः सोमः शेषा दक्षिणतोमुखाः ॥
तथा च चिन्तामणौ -
आदित्याभिमुखाः सर्वे साधिप्रत्यधिदेवताः ।
स्थापनीया मुनिश्रेष्ठ ! नान्तरेण पराङ्मुखाः ॥
नान्तरेणेति आदित्यस्यान्यस्य च स्थापितस्य ग्रहस्य मध्ये अन्यो ग्रहो न स्थापनीय इत्यर्थः । न च पराङ्मुखाः स्थापनीयाः ।पीठानामाकृतिनियमनमाह वशिष्ठः -
वृत्तमण्डलमादित्ये चतुरस्रेनिशाकरे ।
भूमिपुत्रे त्रिकोणं स्याद्बुधे वै बाणसन्निभम् ॥
गुरौ तु पट्टिशाकारं पञ्चकोणं च भार्गवे ।
शनौ स्याद्धनुषाकारं शूर्पाकारं तु राहवे ॥
केतोश्चैव ध्वजाकारं मण्डलानि यथाक्रमम् ॥
प्रकारान्तरेण ग्रहमण्डलान्युच्यन्ते -
पद्ममध्ये रविं रक्तं प्राङ्मुखं वर्तुलं सदा ।
अग्निकोणे मितं चन्द्रं चन्द्रार्धसदृशं विधुम् ॥
दक्षिणे मङ्गलं विद्यात्त्रिकोणं लोहितं शुभम् ।
ईशान्ये धनुषाकारं पीतवर्णन्तु सोमजम् ॥
उत्तरे पीतवर्णं च पद्माकारं बृहस्पतिम् ।
चतुरस्रं तु पूर्वस्यां शुक्लवर्णं तु भार्गवम् ॥
पश्चिमे कृष्णवर्णन्तु दण्डाकारं शनैश्चरम् ।
नैर्ऋत्यां मकराकारं कृष्णाङ्गं रविमर्दनम् ॥
धूम्रवर्णास्तु वायव्ये केतवः खड्गसन्निभाः ॥
अङ्गुलसंख्यानियममाह वशिष्ठः -
द्वादशाङ्गुलमादित्ये सोमे तु द्विगुणं भवेत् ।
वेदाङ्गुलं भूमिपुत्रे तदेव बुधमालिखेत् ॥
षडङ्गुलं गुरौ चैव भृगौ चैव नवाङ्गुलम् ।
सौरौ रसाङ्गुलं चैत्र राहौ स्याच्छ्रुतिनेत्रकम् ॥
केतौ गजाङ्गुलं प्रोक्तं मण्डलानि यथाक्रमम् ॥
द्वादशाङ्गुलमादित्ये इत्यत्र सूर्यपीठस्य द्वादशाङ्गुलं क्षेत्रफलं ग्राह्यमित्यर्थः । अत्र केचिद्भुजप्रमाणमिच्छन्ति । तदतीव मन्दम्, हस्तमितवेद्याः नवभागे कृतेऽष्टाङ्गुलदीर्घमष्टाङ्गुलविस्तारात्मकमेकं कोष्ठं भवति । तत्र चतुर्विंशत्यङ्गुलभुजस्य चन्द्रमसो निवेशाभावादतो क्षेत्रफलं ग्राह्यम् । मण्डलं पीठमिति पर्यायशब्दः । अत्र विशेषमाह वशिष्ठः -
ग्रहशान्तिं प्रवक्ष्यामि पुराणश्रुतिचोदिताम् ।
पुण्येऽह्नि विप्रकथिते कृत्वा ब्राह्मणवाचनम् ॥
ग्रहान् ग्रहाधिदेवांश्च स्थाप्य होमं समाचरेत् ।
ग्रहयज्ञस्त्रिधा प्रोक्तः पुराणश्रुतिकोविदैः॥
प्रथमोऽयुतहोमः स्याल्लक्षहोमस्ततः परम् ।
तृतीयः कोटिहोमस्तु सर्वकामफलप्रदः ॥
अयुते आहुतीनां च नवग्रहमखः स्मृतः ।
तावत्तस्य विधिं वक्ष्ये पुराणश्रुतिभाषितम् ॥
गर्त्तस्योत्तरपूर्वेण वितस्तिद्वयविस्तृताम् ।
वप्रद्वयवृतां वेदीं वितस्त्युच्छ्रायसंमिताम् ॥
संस्थापनाय देवानां चतुरस्रामुदक्प्लवाम् ॥
वितस्तिद्वयमेकहस्तमानं तन्मिता वेदी अयुतहोमग्रहमखे ज्ञेया ।
लक्षहोमे ग्रहमखे वितस्तित्रयसंमिता ।
कोटिहोमे ग्रहमखे सा चतुष्टयसंमिता ॥
वितस्तिचतुष्टयसम्मितेत्यर्थः । होमपरत्वेन ग्रहवेदीमानं भिन्नंभिन्नम्, अतस्तत्तद्धोमे तत्तन्मानयुतां ग्रहवेदीं विधाय तामेकहस्तमितां प्रकल्प्य तच्चतुर्विंशांशोऽगुलमित्यादि कृत्वोक्तवद्ग्रहपीठानि कार्याणि । एतदाशयेनैव करमितां ग्रहवेदीमित्युक्तमापादेवकृतग्रहपीठमालायाम् -
मुनिवाक्यतःकरमितां ग्रहवेदीं
नवधा विधाय खगपाठनिवेशान् ।इति ॥
ग्रहपीठक्षेत्रफलसाधनान्याह स एव । अथ सूर्यपीठसाधनमाह -
एका १ ङ्गुलाचल ७ यवाऽहित ६ संख्ययूका
व्यासार्द्धकेन मिहिरस्य विधेहि वृत्तम् ।
स्याद्द्वादशाङ्गुलफलं १२ खलु काश्यपाख्य-
गोत्रस्य रक्तवपुषोहरिदिङ्मुखस्य ॥१ ॥
अङ्गुल १ यव ७ यूका ६ एतत्प्रमाणेन कर्कटेन वृत्तं कुर्यादित्यर्थः ॥ १ ॥
अथ चन्द्रपीठसाधनमाह -
वेदाङ्गुलाद्रियवपक्ष ४।७।२।समान यूकै-
र्वदैर्भुजैः कुरु कृतास्रमनुष्णरश्मेः ।
सिद्धाङ्गुलं २४ क्षितिफलं परदिङ्मुखस्य
चात्रेयगोत्रजनुषो धवलाङ्गभासः ॥ २ ॥
अङ्गुल ४ यव ७ यूका २ एतत्प्रमाणाश्चतुरो भुजाः कर्तव्या इत्यर्थः ॥२ ॥
अथ भौमपीठसाधनमाह -
त्र्यङ्गुलखयवांबुधियूकं३।०।४
त्रिभुजकृतत्रिकोणमिदमारस्य ।
भारद्वाजसगोत्रस्या -
ऽवाग्वदनस्य श्रुति४फलमनलभासः ॥ ३ ॥
अङ्गुल ३ यव०यूका ४ एतत्प्रमाणं भुजत्रयं कतर्व्यमित्यर्थः ॥ ३ ॥
अथ बुधपीठसाधनमाह -
तिर्यग्वेदयवान्तरौ ४ कुरु भुजौ वेदाङ्गुलौ ४ ये तयो-
रग्रे चोर्ध्वमधः पृथक् त्रियवकैः ३ संवर्ध्य ताभ्यां पुनः ।
देहि द्व्यङ्गुलषड्यवोन्मित२।६ गुणद्वन्द्वं मिथः सम्मिल-
द्वक्रं नेत्रयवैश्च ३ चापसहितं वेदाङ्गुलं वै विदः ॥ ४ ॥
दक्षिणोत्तरभुजौ चतुरङ्गुलौ कर्तव्यौ । कोटिश्चतुर्यवात्मकः । तदुत्तरभागे संलग्नंपूर्वापरं सूत्रं यवद्वयाधिकमेकाङ्गुलात्मकम् ।अंगुल २ यव ६ एतत्प्रमितं गुणद्वेयं देयं त्रिकोणम् ॥ ४ ॥
अघ बुधस्य गोत्रादि -
कुङ्कुमसङ्काशरुचेःश्रेष्ठतरात्रेयगोत्रजातस्य ।
उदगाशाभिमुखस्य प्रोच्चं पीठं बुधस्योक्तम् ॥
अथ गुरुपीठसाधनमाह -
दास्रा२ङ्गुलानल ३मिताङ्गुलबाहुकोटी-
जातं च दीर्घचतुरस्रमिदं गुरोः स्यात् ।
तर्काङ्गुल६्क्षितिफलं खलु पीतभासः
सौम्याननस्य परमाङ्गिरसान्वयस्य ॥५ ॥
द्व्यङ्गुलोरयाम्योत्तरो भुजः । ज्यङ्गुल ३मिता पूर्वापरा कोटिरित्यर्थः ॥ ५॥
अथ शुक्रपीठसाधनम् । तत्रादौ समकलमाह -
व्यासार्धतः कुनगबाण १।७।५ मिताङ्गुलाद्या-
द्वृतेकृतेऽश्वियमराम २।२।३ मिताङ्गुलाद्याः।
ज्याः पञ्च शक्रहरितः कुरु तत्र मृड्ढि-
वृत्तं नवाङ्गुल९फलं हि कवेः शरास्त्रम् ॥ ६ ॥
प्रकारान्तरेणोत्कलिकं शुक्रपीठसाधनमाह -
वृत्तं द्व्यङ्गरसाङ्गुलादिक २।६।६ वितत्यर्धेन कृत्वाङ्कय
प्राच्यास्त्रि३ द्वि २ रसां ६ गुलादिभिरमुष्मिन्पञ्च बाहून्तनु ।
पञ्चाग्निद्विमितां ५।३।२ स्तृतीयमिलितान्वृत्तं च कोणाधरान्
बाहून मृड्ढि भृगोर्नवाङ्गुलफलं पीठं शरास्त्युत्कलम् ॥
भार्गवगोत्राप्तजनेर्वासवकाष्ठाकृतास्येन्दोः ।
शुक्लतरदेहभासः पीठं शुक्रस्य साधु स्यात् ॥
अथ शनिपीठसाधनमाह -
वेदाब्धिवेदाब्धिमिताङ्गुलादिना ४।४।४।४
व्यासार्धकेन भ्रमणाङ्घ्रिकाग्रयोः ।
ज्यामङ्गरामेषुमिताङ्गुलादिकां ६।३।५
देहाङ्ग६कुःस्याद्धि शनेर्धनुर्निभम् ॥ ७ ॥
अञ्जननीकाशरुचेः काश्यपगोत्रस्य सूर्यपुत्रस्य ।
वरुणाशाभिमुखस्य पीठं श्रेष्ठं च निर्द्दिष्टम् ॥
अथ राहुपीठसाधनमाह -
कृत्वा वेदास्त्रि ४ वेदाङ्गुलमित ४ भुजजं वर्धयेदङ्गुलाद्यैः
पक्षाग्न्यम्भोधिसंख्यै २।३।४ रुभयत इह तिर्यक्चकोणौ पुरोजौ।
ताभ्यां प्रत्यक्स्थकोणद्वयगगुणयुते सत्कृतेऽ घोभुजार्धा-
द्वृत्तार्द्धे द्वे लिखाब्ध्यस्त्रि गमय तमसोऽर्हत्फलं २४ शूर्परूपम् ॥
कालजलदनीलतनोर्यमहरिदास्यस्य सैंहिकेयस्य ।
पैठीनसिगोत्रभवस्य पीठमिति सम्यग्जिना२४ङ्गुलं हि ॥ ८ ॥
केतुपीठसाधनमाह -
कुर्याःपूर्वपरौगजाङ्गुल८भुजौ तत्कोटिमर्धाङ्गुला-
मत्रार्वाक्स्थभुजं शराङ्गुलमधो हित्वाऽर्धमेकाङ्गुलम् ॥
शेष मृड्ढि ततो गुणौ श्रुतिधरातुल्याङ्गुलाढ्यौ ४।१ मिथो
लग्नास्यौ कुरु साचिगोगज८फलं केतोर्ध्वजाभं फलम् ॥ ९ ॥
जैमिनिसगोत्राप्तजनेर्याम्यदिशावक्रविधोः ।
धूमसवर्णाङ्गरुचेःपीठमिदं स्याच्छिखिनः ॥ इति ॥
रूपनारायणस्तु प्रकारान्तरेणाह -
वर्तुलं भास्करं विद्यादर्धचन्द्रं निशाकरम् ।
त्रिकोणं तु कुजं विद्याद्बुधं च धनुषाकृतिम् ।
पद्माकृतिं गुरुं विद्याच्चतुःकोणं तु भार्गवम् ॥
नराकृतिं शनिं विद्याद्राहुं च मकराकृतिम् ।
खड्गाकृतिं च केतुं च एवमाकृतिमालिखेत् ॥
द्वादशाङ्गुलं सूर्यस्य सोमस्य द्विगुणं तथा ।
चतुरङ्गुलकं भौमं बुधस्थ तु षडङ्गुलम् ॥
नवाङ्गुलं गुरुं विद्याच्छुक्रं कुर्याद्दशाङ्गुलम् ।
द्वाविंशतिं शनिं विद्याद्राहुःस्यात्पञ्चविंशतिः ॥
पञ्चविंशतिमानं च केतुं च कथितं नृप ! ॥
अथैषां क्षेत्रफलानयनम् ॥एकाङ्गुलसप्तयवषड्यूका १।७।६ प्रमितेन कर्काटकेन वृत्तं विधाय द्वादशाङ्गुलात्मकं सूर्यस्य क्षेत्रफलं भवति ॥ १ ॥अथ चन्द्रबिम्बानयनम् । त्र्यङ्गुलसप्तयवद्वियूका चतुर्लिक्षा ३।७।२।४ प्रमितेन कर्काटकेन वृत्तं कृत्वा तन्मध्ये याम्योत्तरा ज्या सप्ताङ्गुलषड्यवपंचयूका ७।६।५ प्रमिता देया । तत्र जाते द्वे वृत्तार्द्धे । तत्र पश्चिमवृतार्द्धसंमार्जनेन चतुर्विंशाङ्गुलात्मकं चन्द्रबिम्बं भवति ॥ २ ॥ अथ भौममण्डलानयनम्।अङ्गुलत्रयवेदयूकात्मक ३।०।४ भुजत्रयं परस्परं संलग्नं कृतम् चतुरङ्गुलात्मकं भौममण्डलं भवति ॥ ३ ॥ अथ बुधमण्डलानयनम् । एकाङ्गुलसप्तयवषड्यूका १।७।६ प्रमितेन वृत्तं विधाय तन्मध्ये ज्या देया ।जाते द्वे वृत्तार्द्धे । एकं सम्मार्जयेत् । षडङ्गुलक्षेत्रफलात्मकं बुधमण्डलं भवति ॥ ४ ॥ अथ गुरोर्मण्डलानयनम् । अङ्गुलद्वययवचतुष्टययूकाद्वय २।४।२ प्रमितेन कर्काटकेन प्रथमं वृत्तं विधाय तथैवं वेदाङ्गुलवेदयूकालिक्षाद्वय ४।०।४।२ प्रमितेन द्वितीयं वृत्तं षोडशचिह्नात्मकं कृत्वा विदिक्स्थचिन्हस्थितकर्काटकेन पञ्चमचिह्नमारभ्य अष्टौपत्राणि कुर्यात् । एवं कृते सति नवाङ्गुलक्षेत्रात्मकं पद्माकृति गुरुमण्डलं भवति ॥ ५ ॥ अत्र शुक्रमण्डलम्॥अङ्गुलत्रय एकयवयूकाद्वयलीक्षाग्रचतुष्टय३।१।२।४ प्रमितभुजैश्चतुर्मिनिबद्धं क्षेत्रं चतुरस्रदशाङ्गुलक्षेत्रफ-
लात्मकं शुक्रमण्डलं भवति ॥ ६ ॥ अथ शनिमण्डलम्।सार्धत्रयाङ्गुलमिता ३।४ पूर्वभागे भूः ।तत्पश्चिमभागे सार्द्धाङ्गुलद्वयमितं २।४ मुखम् ।मध्ये त्र्यङ्गुलमितो लम्बः । तत्पश्चिमभागे चरणौ कार्यौ। सपादमेकाङ्गुला भूः १।२ षड्यवोन्मितं ६ मुखम् ।त्र्यङ्गुलमितो लम्बः३ ।एतादृशो दक्षिणचरणः। तथैव वामः ।सपादमेकाङ्गुला १।२ भूः, षड्यवोन्मितं मुखं, सार्द्धद्वयमिताङ्गुलो लम्बः । एतादृशो दक्षिणहस्तः । तथैव वामः ।तत्पूर्वभागे षड्यवयूकात्रय ६।३ मितेन कर्कटेन वृत्तं तच्छिरः । [ एवङ्कृते सति द्वाविंशत्यङ्गुलक्षेत्रफलात्मकं २२ नराकृति शनिमण्डलं भवति ॥ ७ ॥ अथ राहुमण्डलम् । तत्र उदरे अङ्गुलत्रयमितो भुजः । अङ्गुलचतुष्टयमिता कोटिः । ऊर्द्ध्वभागे पार्श्वयोः सार्द्धाङ्गुलदीर्घौ एकाङ्गुलविस्तृतौ द्वौ करौ । तावन्मितावधोभागे पार्श्वयोर्द्वौचरणौ । यवाधिकैकाङ्गुलव्यासार्द्धेन कृतं मण्डलं मुखम् । मुखोदरयोर्मध्ये यवद्वयमितश्चतुरस्रो गलः ।मुखादग्रेयवद्वयेनोष्ठौ । पुच्छे त्रिभुजेअङ्गुल त्रयमिता भूमिः ।सार्द्धाङ्गुलोलम्बः । एवङ्कृते पंचविंशत्यङ्गुलक्षेत्रफ़लात्मकं मकराकृति राहुमण्डलं भवति ॥ ८ ॥ अथ केतुमण्डलम् ।तत्र खड्गाकृतौ फलकस्य चतुरङ्गुलो भुजः ।पंचाङ्गुला कोटिः। खड्गाग्रत्रिकोणे अङ्गुलद्वयमितो लम्बः । चतुरङ्गुला भूमिः । उपरि समचतुरस्राअङ्गुलैका मुष्टिका ।एवङ्कृते पंचविंशत्यङ्गुलक्षेत्रफलात्मकं खड्गाकृति केतुमण्डलं भवति ॥ ९ ॥ ] (१)
एवं सूर्यादीनावाह्य संस्थाप्य अघिदेवताः प्रत्यधिदेवताः स्थापयेत् ।
(१) अत्र उपलब्धेषु पञ्चसु पुरातनादर्शपुस्तकेषु रुपनारायणमतेन द्वितीयरीत्या ग्रन्थकृता साधितानि ग्रहमण्डलानि शनिपर्यन्तं सप्तैवोपलब्धानि ।राहुकेत्वोर्मण्डलेऽनवेक्ष्य श्राम्यन्तं मां वीक्ष्य सदयमलब्धराहुकेत्वोर्मण्डले संसाध्य गणितपरिपाट्या पाठमापूर्य गुरुवर्य श्री ५ यागेश्वर पाठक ज्योतिषि महोदयाः सर्वानुपचक्रुः । तदिदं साधितमण्डलद्वयम् [.] एवं चिह्नितस्थलमध्ये निवेश्य पाठमपूरयमिति ज्ञेयम् । श्रीमद्भिश्चन्द्रमण्डले च महाननर्थकरः पाठः संशोध्य योजितः ।
अधिदेवान् दक्षिणतो वामे प्रत्यधिदेवताः ।
स्थापनीयाः प्रयत्नेन व्याहृतीभिःपृथक् पृथक् ॥
इति संग्रहकारः । अन्यत्रापि -
शिवोमास्कन्दगोविन्दब्रह्मेन्द्रयमकालभाः ।
चित्रगुप्तश्च सर्वेषां दक्षिणे त्वधिदेवताः ॥
चिन्तामणौ तु अधिदेवतास्थापनप्रदेशः प्रकारान्तरेणदर्शितः -
सूर्यस्यैवोत्तरे शम्भुमुमां सोमस्य दक्षिणे ।
स्कन्दमङ्गारकस्यैव दक्षिणस्यां निवेशयेत् ॥
सौम्यात्पश्चिमतो विष्णुं ब्रह्मा जीवस्य पूर्वतः ।
इन्द्रमैन्द्र्यांसिताद्विद्धिमन्दादाग्नेयतो यमम् ॥
राहोःपूर्वोत्तरे कालं सर्वभूतभयावहम् ।
केतोर्नैर्ऋतिदिग्भागे चित्रगुप्तं निधापयेत् ॥
ततः प्रत्यधिदेवताः स्थापयेत् ।
अग्निरापस्तथा भूमिर्विष्णुरिन्द्रस्तथा शची ।
प्रजापतिस्तथा सर्पा ब्रह्मा प्रत्यधिदेवताः ॥
ग्रहाणामुत्तरे स्थाप्या एताःप्रत्यधिदेवताः ।
एवं ग्रहाणामधिदेवताप्रत्यधिदेवतास्थापनानन्तरं विनायकादीन्पञ्चलोकपालान् स्थापयेत् । मत्स्यपुराणे -
विनायकन्तथा दुर्गां वायुमाकाशमेव च ।
आवाहयेव्द्याहृतिभिस्तथैवाश्विकुमारकौ ॥
राहुमन्ददिनेशानामुत्तरस्यां यथाक्रमम् ।
गणेशदुर्गावायूंश्चराहुकेत्वोस्तु दक्षिणे ॥
आकाशमश्विनौ चेति पञ्चैताः स्थापयेद्बुधः ।
इति सङ्ग्रहकारः । अथ सर्वानुत्तरतः स्थापयेदिति साम्प्रदायिकाः । एवं द्वात्रिंशद्देवता आवाह्य स्थापयित्वा इन्द्रादिलोकपालान् सूर्याभिमुखानावाह्य स्थापयेत् । शिष्टसमाचारान्महाव्याहृतिभिरावाहनं तत्प्रकाशकमन्त्रैर्वा । पौराणिकमन्त्रैरित्येके ।समुच्चयेन वेति केचित् ।
स्मृत्यन्तरे ग्रहदीपिकायां च -
इन्द्रं पूर्वे तु संस्थाप्य प्रेतेशं दक्षिणेतथा ।
वरुणं पश्चिमे भागे कुबेरं चोत्तरे तथा ॥
अग्न्यादिलोकपालांश्च कोणभागेषु विन्यसेत् ।
एवं ग्रहादीन् संस्थाप्य तद्वर्णान् रक्तचन्दनादीन् गन्धान्तद्वर्णानि पुष्पाणि च यथोपपन्नानि चन्दनानि कुसुमानि समर्पयेत् । उक्तं च ग्रहदीपिकायाम् -
यथावर्णं प्रदेयानि वासांसि कुसुमानि च ।
गन्धाश्च बलयश्चैव धूपो देयश्च गुग्गुलुः ॥
अथ चन्दनानि चिन्तामणौ तु -
दिनकरकुजाभ्यां हि दापयेद्रक्तचन्दनम् ।
चन्द्रे तु भार्गवे चैव सितवर्णं प्रदापयेत् ॥
कुङ्कुमेन तु संयुक्तं चन्दनं जीवसौम्ययोः ।
अगरुं चन्दनं दद्याद्राहुकेत्वर्कजेषु च ॥
ग्रहवर्णानि पुष्पाणि गायत्र्या धूपमाहरेत् ।
अथ धूपः -
रवेः कुन्दुरुकं धूपं शशिनस्तु घृताक्षताः ।
भौमे सर्जरसं चैवं अगरुं च बुधे स्मृतः ॥
सिल्हकं गुरवे दद्याच्छुक्रेबिल्वागरुस्तथा ।
गुग्गुलुं मन्दचारे तु लाक्षा राहोश्च केतवे ॥
कुन्दुरुकं सल्लकीरसः । सिल्हकःपिण्डकः ।बिल्वागरुःबिल्वफलमज्जासहितः अगरुः । पूर्वोक्तकुन्दुरुकादिधूपाभावे सर्वेषां गुग्गुलुरेव धूपः । तथा च याज्ञवल्क्यः -
“धूपो देयश्च गुग्गुलुः" इति ।
आदित्यादीनां कुन्दुरुकादिधूपदाने तत्तदधिदेवताप्रत्यधिदेवतयोरपि त एव धूपाः ।विनायकादीनां तु गुग्गुलुरेव तेषां सर्वसाधारणत्वात् ।
अथ दीपः -
उद्दीप्यस्येति मन्त्रेण दीपं दद्यादतन्द्रितः ।
अथ नैवेद्यम् । ग्रहदीपिकायां चिन्तामणौ -
गुडौदनं रवेर्दद्यात्सोमाय घृतपायसम् ।
लोहिताय हविष्यान्नं बुधाय क्षीरषाष्ठिकम् ॥
दध्योदनं गुरोर्दद्याच्छ्रुक्राय च घृतौदनम् ।
मिश्रितं तिलमाषैश्च नैवेद्यं तु शनैश्चरे ॥
राहोर्मांसौदनं दद्यात्केतोश्चित्रौदनं तथा ।
हविष्यान्नं नीवारादि । क्षीरषाष्ठिकःक्षीरमिश्रःषाष्ठिकौदनः ।
चित्रौदनन्तु -
अजाक्षीरेण संसिद्धा विमलाः सिततण्डुलाः ।
यवचूर्णेन संयुक्ताश्चित्रौदनमुदाहृताः ॥
पूर्वोक्तनैवेद्याभावे यथालाभोपपन्नमोदनादि निवेदयेत् ।
यथाह याज्ञवल्क्यः -
शक्तितो वा यथालाभं सत्कृत्य विधिपूर्वकम् ॥इति ॥
एवमधिदेवतादीनां तत्तद्ग्रहनैवेद्यंयथालाभौदनादि वा समर्पयेत् । विनायकस्य तु मोदकसहितं ओदनादि सर्वनैवेद्यं दद्यात् । मत्स्यपुराणे -
धूपो देयोऽत्र सुरभिरुपरिष्टाद्विनायकम् ।
शोभनं स्थापयेत्प्राज्ञः फलपुष्पसमन्वितम् ॥ इति ।
ततो ग्रहवेद्या ईशान्यामव्रणं कलशं निदध्यादित्युक्तं मत्स्यपुराणे -
प्रागुत्तरेण तस्माच्च दध्यक्षतविभूषितम् ।
चूतपल्लवसञ्छन्नं फलवस्त्रशुभान्वितम् ॥
पञ्चरत्नसमायुक्तं पञ्चभङ्गयुतं तथा ।
स्थापयेदव्रणं कुम्भं वरुणं तत्र विन्यसेत् ॥
गङ्गाद्याः सरितः सर्वाः समुद्राश्चसरांसि च ।
पञ्चभङ्गाः पञ्चपल्लव-सप्तमृत्तिका-सप्तधान्य पञ्चगव्य-पञ्चामृतादयः ।
सप्तमृत्तिकाः -
अश्वस्थानाद्गजस्थानाद्वल्मीकात्सङ्गमाद्ध्रदात् ।
राजद्वाराच्च गोष्ठाच्च विज्ञेयाः सप्तमृत्तिकाः ॥
पञ्चगव्यम् -
पलमेकं दुग्धभागं गोमूत्रं तावदिष्यते ।
घृतं च पलमात्रं तु गोमयं तोलकद्वयम् ॥
दधिप्रसृतमात्रं स्यात्पञ्चगव्यमिदं स्मृतम् ।
अथवा पञ्चभागानां समानो भाग इष्यते ॥
सर्वौषधीः -
कुष्ठं मासं हरिद्रे द्वे वचाचन्दनशैलजम् ।
कर्पूररोचनामुस्ताः सर्वौषध्यो दश स्मृताः ॥
इदं च सेतिकर्तव्यताकमुक्तं मानवसंहितायाम् -
गोमयालेपिते देशे धात्वाद्यैरुपशोभिते ।
पङ्कजं कारयेत्तत्र चतुर्विंशदलान्वितम् ॥
तण्डुलैःकारयेद्वापी रक्तपीतसितासितैः ।
कर्णिकायां न्यसेद्व्रीहीन्स्थापयेत्तेषु कुम्भकम् ॥
ततोऽस्मिन्वरुणमावाह्य स्थापयेत् तत्प्रकाशकमन्त्रै “स्तत्वा॑य़ामी" त्यादिभिः । “ॐ भूर्भुवः स्वः वरुण इहागच्छ इह तिष्ठे" ति संस्थाप्य गङ्गाद्यावाहनं कुर्यात् ।
कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः ।
इत्याद्या अपि । एवं कर्म समाप्य होमः कार्यः ।
उक्तं च विधानपारिजाते -
निवेदयित्वाऽऽहुतिभिर्होमं कुर्यादतन्द्रितः ।
तत्र प्रतिदैवतं निर्वापः कार्यः । ग्रहेभ्यः"सूर्याय त्वा जुष्टं निर्वपामि ।सोमाय त्वा जुष्टं निर्वपामि" इत्यादिप्रकारेण चतुरश्चतुरो मुष्टीन्निरुप्य इतरासां देवतानां सकृदेव “देवेभ्यो जुष्टं निर्वपामी” ति चतुरो मुष्टीन्निर्वपेत् । यदा तु प्रतिग्रहमष्टोत्तरशतं सहस्रं वा
होमं कर्तुमिच्छति तदा मुष्टिचतुष्टयनिर्वापसम्पादितद्रव्यस्य होमस्यापर्याप्तत्वेन पूर्वोक्तनिर्वापानन्तरं होमपर्याप्तं द्रव्यं तूष्णींनिर्वपेत् । एवं निरुप्य देवतार्थत्वात्त्रिः प्रक्षाल्य चरुं श्रपयित्वाऽभिघार्योदगुद्वासयेत् । याज्ञवल्क्यः -
कर्तव्या अम्बुवन्तश्च चरवः प्रतिदैवतम् । इति ।
ततो यजमानेन द्रव्यत्यागः कार्यः । एवं त्यागे कृते आधारावाज्यभागौ हुत्वा सूर्यादिग्रहानुद्दिश्य होमार्थसम्पादितेन समिदादिद्रव्येण प्रतिग्रहद्रव्यं दश दशाहुतीर्हुत्वाऽधिदेवतादीनुद्दिश्य प्रत्येकं तिस्रस्तिस्र एकैका वा आहुतीर्हुत्वा चतसृभिर्व्याहृतिभिश्चतस्र आहुतीर्हुत्वा पश्चात्प्रतिग्रहमष्टाविंशतिरष्टोत्तरशतमष्टोत्तरसहस्रं वाऽऽवाहितक्रमेण होमः कार्यः ।
तदाह याज्ञवल्क्यः -
एकैकस्याष्टशतमष्टाविंशतिरेव वा ।
होतव्या मधुसर्पिर्भ्यांदध्नाचैव समन्विताः ॥
मात्स्ये तु -
देवानामपि सर्वेषामुपांशु परमार्थवित् ।
स्वेन स्वेनैव मन्त्रेण होतव्याः समिधः पृथक् ॥
होतव्यं च घृताद्यत्र चरुभक्तादिकं पुनः।
मन्त्रैर्दशाहुतीर्दद्याद्धोमं व्याहृतिभिः पुनः ॥
अथैषां ग्रहाणां समिध आह याज्ञवल्क्यः -
अर्कःपलाशः खदिरस्त्वपामार्गोऽथ पिप्पलः ।
उदुम्बरः शमी दूर्वाः कुशाश्च समिधः क्रमात् ॥
अधिदेवतादीनामप्रधानदेवतात्वाद्धोमे न्यूनसंख्यास्वीकरणम् ।आसां च समिधः पालाश्य एव मत्स्यपुराणोक्तवचनात् । समिधां लक्षणमाह विधानपारिजाते चिन्तामणौ -
समिधां लक्षणं वक्ष्ये संख्या तासां तथैव च ।
विशीर्णा विदला ह्रस्वा वक्राःससुषिराः कृशाः ॥
अतिस्थूलातिदीर्घाश्च समिधः कार्यनाशनाः ।
विशीर्णाऽऽयुःक्षयं कुर्याद्विदला पुत्रनाशिनी ॥
सुषिरा व्याधिजननी कृशा च रिपुवर्द्धिनी ।
दीर्घा विदेशगमनी स्थूला चात्मविनाशिनी ॥
अकृशा सुसमाऽस्थूला सार्द्रा च सुपलाशिनी ।
प्रादेशान्नाधिका न्यूनाः समिधः सर्वकर्मणि ॥
अर्को नाशयते व्याधिं पलाशः सर्वकामदः ।
खादिरश्चार्थलाभश्च अपामार्गःसुदर्शनः ॥
अश्वत्थःसर्वकर्मार्थः सौभाग्येदुम्बरस्तथा ।
शमीशमयते पापं दुर्वायुःसुविवर्द्धनी ॥
कुशा धर्मार्थकामानां रक्षणं रक्षसां विदुः ।
इत्युक्तप्रकारेण होमं हुत्वा तदुत्तरकर्त्तव्यतामाह -
पूजां कृत्वा ग्रहाणां च हुते स्विष्टकृदाहुतिः ।
नवाहुति ततो हुत्वा बलिदानमथाचरेत् ॥
मूर्द्धानमिति मन्त्रेण दद्यात्पूर्णाहुतिं ततः ।
होमशेषं समाप्याथ आचार्योऽथ द्विजैः सह ॥
अथाभिषेकमन्त्रेण वाद्यमङ्गलगीतकैः ।
सहार्थे तृतीया ।
पूर्णकुम्भेन तेनैव होमान्ते प्रागुदङ्मुखैः ॥
अव्यङ्गावयवैर्ब्रह्मन् ! हेमस्रग्दामभूषितैः ।
यजमानस्य कर्तव्यं चतुर्भिःस्नपनं द्विजैः ॥
अभिषेकमन्त्राःस्वस्वशाखोक्ताः “सुरास्त्वामभिषिञ्चन्त्वि"त्यादिपौराणिकाश्च ग्राह्याः ।
ततः शुक्लाम्बरधरः शुक्लगन्धानुलेपनः ।
सर्वौषधैः सर्वगन्धैः स्नातव्यो विप्रपुङ्गवैः ॥
यजमानः सपत्नीक ऋत्विजस्तान्समाहितः ।
दक्षिणाभिः प्रयत्नेन पूजयेद्गतविस्मयः ॥
होमान्ते दक्षिणां दद्याच्छान्त्यर्थपुष्टिवर्द्धिनीम् ।
आदित्याय शुभां धेनुं शङ्खंसोमाय दापयेत् ॥
भौमाय रक्तवृषभं सोमपुत्राय काञ्चनम् ॥
गुरवे पीतवासांसि शुक्रायाश्वं तु दापयेत् ।
कृष्णा गौर्मन्दचाराय राहवे त्वायसं शुभम् ॥
केतवे च्छागमांसानि सर्वेषामेव काञ्चनम् ।
एवं समग्रं निष्पाद्य देवान्सर्वान्विसर्जयेत् ॥इति ।
अथास्य स्पष्टप्रयोगः । सुमुखश्चेत्यादि पठित्वा देशकालौ सङ्कीर्त्य “अमुकगोत्रस्यामुकशर्मणो ममामुकराशिस्थितामुकग्रहसूचितारिष्टनिवृत्तिपूर्वकदीर्घायुष्ट्वनैरुज्यफलावाप्तिकामो ब्राह्मणद्वारा नवग्रहयागमहं करिष्ये” इति सङ्कल्पः ।“तत्र निर्विघ्नार्थंगणपतिपूजनमहं करिष्ये” । अत्र पूर्ववद्गणपतिपूजनस्वस्तिपुण्याहवाचनमातृकापूजननान्दीश्राद्धानि कृत्वा आचार्यादीनां वरणं कुर्यात् । तद्यथा तत्र यजमानः श्रीपर्णाद्यासने प्राङ्मुख उपविश्य यथोक्तलक्षणं आचार्यं उदङ्मुखं उपवेश्य एक ऋत्विग्देयद्विगुणवस्त्रमुद्रिकाकुण्डलादिभिरभ्यर्च्य “अमुकप्ररान्वितममुकगोत्रोत्पन्नं अमुकवेदान्तर्गतामुखशाखाध्यायिनं अमुकप्रवरान्वितामुकगोत्रोत्पन्नोऽहं नवग्रहयागं कर्तुं आचार्यत्वेन त्वामहं वृणे । वृतोस्मी” ति प्रतिवचनम् ।
आचार्य ! त्वं यथा स्वर्गे शक्रादीनां बृहस्पतिः ।
तथा त्वं मम यज्ञेऽस्मिन्नाचार्यो भव सुव्रत ॥
इति प्रार्थयेत् । पुनरन्यं ब्राह्मणमुपवेश्य गन्धादिभिरभ्यर्च्य पूर्ववद्गोत्राद्युच्चार्य “नवग्रहशान्तिकर्मणि कृताकृतावेक्षणार्थं ब्रह्माणं त्वामहं वृणे ।वृतोस्मी” ति प्रतिवचनम् ।
यथा चतुर्मुखो ब्रह्मा सर्ववेदविशारदः ।
तथा त्वं मम यज्ञेऽस्मिन्ब्रह्मा भव द्विजोत्तम ! ॥
इति प्रार्थयेत् । पुनरन्यं ब्राह्मणं उदङ्मुखमुपवेश्य पूर्ववत्पूजादिकं विधाय गोत्राद्युच्चारणं कृत्वा “नवग्रहजपार्थं ऋत्विजं त्वामहं वृणे । वृतोस्मीति” प्रतिवचनम् । अनेनैव प्रकारेणान्येषामपि ऋत्विजांवरणं कार्यम् ।
ऋग्वेदः पद्मपत्राक्षो गायत्रः सोमदैवतः ।
अग्निगोत्रस्तु विप्रेन्द ! ऋत्विक् त्वं मे मखे भव ॥
इति ऋग्वेदिनं ऋत्विजं प्रार्थयेत् ।
कातराक्षो यजुर्वेदस्त्रैष्टुभो ब्रह्मदैवतः ।
भारद्वाजस्तु विप्रेन्द्र ! ऋत्विक् त्वं मे मखे भव ॥
इति यजुर्वेदिनं प्रार्थयेत् ।
सामवेदस्तु पिङ्गाक्षो जागतः शक्रदैवतः ।
काश्यपः स तु विप्रेन्द्र ! ऋत्विक् त्वं मे मखे भव ॥
इति सामवेदिनं प्रार्थयेत् ।
बृहन्नेत्रोऽथर्ववेदस्त्रैष्टुभो रुद्रदैवतः ।
वैखानगोत्रो विप्रेन्द्र ! ऋत्विक् त्वं मे मखे भव ॥
इति अथर्ववेदिनं प्रार्थयेत् ।
अस्य यागस्य निष्पत्तौ भवन्तोऽभ्यर्थिता मया ।
सुप्रसन्नाः प्रकुर्वन्तु शान्तिकं विधिपूर्वकम् ॥
इति वा सर्वान् प्रार्थयेत् । आचार्यादीनां हस्ते कङ्कणबन्धनं कुर्यात् ।
व्व्र॒तेन॑ दी॒क्षामा॑प्नोति दी॒क्षया॑ऽऽप्नो॒ति दक्षि॑णाम् ।
दक्षि॑णा श्र॒द्धामा॑प्नोति श्र॒द्धया॑स॒त्यमा॑प्यते ॥
य़दाब॑न्धन्दाक्षाय॒णा हिर॑ण्यँश॒तानी॑काय सुमन॒स्यमा॑ना<MISSING_FIG href=”../books_images/U-IMG-1695881026Screenshot(34"/>.png)।
तन्म॒ आब॑ध्नामि श॒तशा॑रदा॒यायु॑॑ष्माञ्ज॒रद॑ष्टि॒र्य़थास॑म् ॥
इति मन्त्रेण । तत ऋत्विजो नवग्रहजपं कुर्युः । तत्रादौ जपसंख्यामाह -
रवेः सप्त सहस्राणि चन्द्रस्यैकादशैव तु ।
कुजे दशसहस्राणि बुधे चतुःसहस्रकम् ॥
एकोनविंशतिर्जीवे शुक्रे षोडशमेव च ।
त्रयोविंशतिर्मन्दस्य राहोरष्टादशैव तु ॥
केतोःसप्तदश ह्येवं संख्या च ग्रहजापके ।
एवं सङ्ख्याविधिं कृत्वा ग्रहदुष्टे त्वयं विधिः ॥
आचम्य प्राणानायम्य देशकालौस्मृत्वा “एवं गुणविशेषणविशिष्टायां पुण्यतिथौ अमुकगोत्रोत्पन्नस्य अमुकशर्मणः यजमानस्य जन्मराशेः यथास्थानस्थितामुकग्रहसूचितारिष्टनिवृत्तिपूर्वकरोगपीडादिनिरसनार्थं एकादशस्थानस्थितवच्छु-भफलप्राप्त्यर्थं अमुकग्रहजपमहं करिष्ये” इति संकल्प्य दीपं दत्धाभूतशुद्धिं कुर्यात् ।
अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः ।
ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ॥
इति दिग्बन्धः । ‘ॐयँ’ इति वायुबीजं द्वादशवारं जपित्वा तेन पापपुरुषरुपं देहं ध्यानद्वारा शोषयेत् । ‘ॐरँ’१२ इत्यग्निबीजेन दहेत् । ‘ॐलँ’ १२ इति पृथ्वीबीजेन प्लावयेत् । एतत्सर्वंभावनया कार्यम् । अथ सूर्यस्य । करसंपुटं कृत्वा “आकृष्णेने” ति हिरण्यस्तूप ऋषिःत्रिष्टुच्छन्दः सविता देवता सूर्यप्रीत्यर्थे जपे विनियोगः । ॐ भूर्भुवः स्वः ॐ आकृष्णेन अङ्गुष्ठाभ्यान्नमः। रजसा तर्जनीभ्यान्नमः । व्वर्तमानो निवेशयन् मध्यमाभ्यान्नमः । अमृतं मर्त्यंच अनामिकाभ्यान्नमः । हिरण्ययेन सविता रथेन कनिष्ठिकाभ्यान्नमः । आ देवो याति भुवनानि पश्यन् करतलकरपृष्ठाभ्यान्नमः । एवं हृदयादि । ॐ आकृष्णेन हृदयाय नमः । रजसा शिरसे स्वाहा । व्वर्तमानो निवेशयन् शिखायै वषट् । अमृतं मर्त्यं च कवचाय हुम् । हिरण्ययेन सविता रथेन नेत्रत्रयाय वौषट् । आ देवो याति भुवनानि पश्यन् अस्त्राय फट् । अथाङ्गन्यासः । आकृष्णेन शिरसि । रजसा ललाटे । व्वर्तमानो मुखे ।निवेशयन् हृदि । अमृतं नाभौ । मर्त्यंच कट्याम् । हिरण्ययेन सविता जङ्घयोः । रथेन ऊर्वोः । आ देवो याति जान्वोः । भुवनानि पश्यन्पादयोः । अथ ध्यानम् -
पद्मासनः पद्मकरो द्विबाहुः पद्मद्युतिः सप्ततुरङ्गवाहनः ।
दिवाकरो लोकगुरुःकिरीटी मयि प्रसादं विदधातु देवः ॥
अथ रवेर्मन्त्रः ।
“ॐ ह्राँह्रीँ ह्रूँसः ॐ भूर्भुवः स्वः ॐ आकृष्णेन रजसा व्वर्तमानो निवेशयन्नमृतं मर्त्यं च । हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् ॐ स्वः भुवः भूः ॐ सः ह्रूँ ह्रीँ ह्राँ ॐ” ।
एवं मन्त्रजपः ।अथ चन्द्रस्य । “इमन्देवे” ति मन्त्रस्य गौतम ऋषिः द्विपदा विराट् छन्दः सोमो देवता सोमप्रीत्यर्थे जपे विनियोगः । ॐ भूर्भुवः स्वः ॐ इमन्देवा असपत्नँ सुवध्वं अङ्गुष्ठाभ्यान्नमः। महते क्षत्राय महते ज्यैष्ठ्याय तर्जनीभ्यान्नमः । महते जानराज्यायेन्द्रस्येन्द्रियाय मध्यमाभ्यान्नमः । इमममुष्य पुत्रममुष्यै पुत्रं अनामिकाभ्यान्नमः । अस्यै व्विश एष वोऽमी राजा कनिष्ठिकाभ्यान्नमः । सोमोऽस्माकं ब्राह्मणानाँराजा करतलकरपृष्ठाभ्यान्नमः । एवं हृदयादि । अथाङ्गन्यासः । ॐ इमन्देवा इति शिरसि । असपत्न<MISSING_FIG href=”../books_images/U-IMG-1695884076Screenshot2023-09-28122413.png"/>सुवध्वमिति ललाटे । महते क्षत्रायेति मुखे । महते ज्यैष्ठयायेति हृदये । महते जानराज्यायेति नाभौ । इन्द्रस्येन्द्रियायेति कट्याम् । इमममुष्य पुत्रमिति जङ्घयोः । अमुष्यै पुत्रमित्यूर्वोः । अस्यै व्विश इति जान्वोः । एष वोऽमी राजेति गुल्फयोः । सोमोऽस्माकं ब्राह्मणाना<MISSING_FIG href="../books_images/U-IMG-1695884237Screenshot2023-09-28122656.png"/>राजेति पादयोः । अथ ध्यानम् -
श्वेताम्बरः श्वेतविभूषणश्च श्वेतद्युतिर्दण्डधरो द्विबाहुः ।
चन्द्रोऽमृतात्मा वरदः किरीटी मयि प्रसादं विदधातु तेजः ॥
अथ मन्त्रः ।
“ॐ श्राँ श्रीँ श्रौँसः ॐभूर्भुवः स्वः ॐ हमन्देवा ०राजा ॐ स्वः भुवः भूः ॐसः श्रौँश्रीँ श्राँ ॐ" । एवं जपः । अथ कुजस्य ।“अग्निर्मृर्द्धे” तिविरूपाक्ष ऋषिर्गायत्रीच्छन्दः अङ्गारको देवता भौमप्रीत्यर्थे जपे विनियोगः । ॐ भूर्भुवः स्वः अग्निर्मूर्द्धा अङ्गुष्ठाभ्यान्नमः ।दिवः ककुत्तर्जनीभ्यान्नम ।पतिः पृथिव्या अयंमध्यमाभ्यान्नमः । अपाअनामिकाभ्यान्नमः । रेताँसि
कनिष्ठिकाभ्यान्नमः ।जिन्वति करतलकरपृष्ठाभ्यान्नमः । एवं हृदयादि । अग्निर्मूर्द्धाहृदयाय नमः । ककुदिति शिरसे स्वाहा । पतिः पृथिव्या अयं शिखायै वषट् ।अपामिति कवचाय हुम् । रेताँसिनेत्रत्रयाय वौषट् ।जिन्वति अस्त्राय फट् । अथाङ्गन्यासः । अग्निरिति शिरसि । मूर्द्धेति ललाटे ।दिव इति मुखे । ककुदिति हृदये । पतिरिति नाभौ । पृथिव्या इति कन्याम् ।अयमित्यूर्वोः । अपामिति जान्वोः । रेताँसि इति गुल्फयोः ।जिन्वति इति पादयोः ।
अथ ध्यानम् -
रक्ताम्बरो रक्तवपुः किरीटी चतुर्भुजो मेषगतो गदाधरः ।
धरासुतः शक्तिधरश्चशूली सदा मम स्याद्वरदः प्रशान्तः ॥
अथ मन्त्रः ।
“ॐ क्राँ क्रीँक्रौँसः ॐ भूर्भुवः स्वः ॐ अग्निमूर्द्धादिवः०ति ॐ स्वः भुवः भूः ॐ सः क्रौँ क्रीँ क्राँ ॐ" । एवं जपः । अथ बुधस्य ।“उद्बुध्यस्वे"ति परमेष्ठी ऋषिःत्रिष्टुप्छन्दः बुधो देवता बुधप्रीत्यर्थे जपे विनियोगः । ॐ भूर्भुवः स्वः उद्बुध्यस्वाग्ने प्रतिजागृहीति अङ्गुष्ठाभ्यान्नमः । त्वमिष्टापूर्ते समिति तर्जनीभ्यान्नमः । स<MISSING_FIG href=”../books_images/U-IMG-1695884979Screenshot2023-09-28122413.png"/>सृजेथामयञ्चेति मध्यमाभ्यान्नमः । अस्मिन्त्सधस्थे इत्यनामिकाभ्यान्नमः । अध्युत्तरस्मिन्विश्वे देवाःकनिष्ठिकाभ्यान्नमः । यजमानश्च सीदत इति करतलकरपृष्ठाभ्यान्नमः । एवं हृदयादि । अथाङ्गन्यासः । उद्बुध्यस्वेति शिरसि । अग्ने प्रति ललाटे । जागृहि त्वं मुखे । इष्टापूर्ते सं हृदि । सृजेथामयं चेति नाभौ । अस्मिन्त्सधस्थे इति कट्याम् । अध्युत्तरस्मिन्नूर्वोः । व्विश्वे देवा इति जान्वोः । यजमानश्चेति पादयोः । सीदतेति दिग्बन्धः ।
अथ ध्यानम् -
पीताम्बरः पीतवपुः किरीटी चतुर्भुजो दण्डधरश्च हारी ।
चर्माक्षधृक् सोमसुतः सदा मे सिंहाधिरूढो वरदो बुधश्च ॥
अथ मन्त्रः । “ॐ व्राव्ँरीव्ँरौँसः ॐ भूर्भुवः स्वः ॐ उद्बुध्यस्वाग्ने० त ॐ स्वः भुवः भूः ॐ सः व्रौँ व्रीँ व्राँ ॐ" । एवम् । अथ गुरोः। “बृहस्पते अतीति मन्त्रस्य गृत्समद ऋषिःत्रिष्टुप्छन्दःबृहस्पतिर्देवता बृहस्पतिप्रीत्यर्थे जपे विनियोगः । ॐ भूर्भुवः स्वः बृहस्पते अति यदर्य्योऽङ्गुष्ठाभ्यान्नमः । अर्हाद्युमद्विभाति तर्जनीभ्यान्नमः क्रतुमज्जनेषु मध्यमाभ्यान्नमः । यद्दीदयच्छवसाऽनामिकाभ्यानमः । ऋतप्रजात कनिष्ठिकाभ्यान्नमः ।तदस्मासु द्रविणं धेहि चित्रं करतलकरपृष्ठाभ्यान्नमः । एवं हृदयादि । अथाङ्गन्यासः ।बृहस्पते इति शिरसि । अति यदर्यइति ललाटे । अर्हाद्युमदिति मुखे । व्विभाति क्रतुमदिति हृदि ।जनेष्विति नाभौ । यद्दीदयदिति कट्याम् । शवस ऋत प्रज्ञात ऊर्वोः । तदस्मासु द्रविणं जान्वोः । धेहि चित्रं पादयोः । अथ ध्यानम् -
पीताम्बरः पीतवपुः किरीटी चतुर्भुजो देवगुरुः प्रशान्तः ।
तथाऽक्षसूत्रं च कमण्डलुं च दण्डं च बिभ्रद्वरदोऽस्तु मह्यम् ॥
अथ मन्त्रः ।
“ॐ ज्ञाँ ज्ञीँ ज्ञौँसः ॐ भूर्भुवः स्वः ॐ बृहस्पते अति०त्रम् ॐस्वः भुवः भूः ॐ सः ज्ञौँज्ञीँ ज्ञाँ ॐ” एवं जपः । अथ शुक्रस्य ।“अन्नात्परिस्त्रुत” इत्यस्य अश्विसरस्वतीन्द्रा ऋषयःअतिजगतीच्छन्दः शुक्रो देवता शुक्रप्रीत्यर्थे जपे विनियोगः । ॐ भूर्भुवः स्वः अन्नात्परिस्त्रुतो रसं अङ्गुष्ठाभ्यान्नमः ।ब्रह्मणा व्यपिबत्क्षत्रं तर्जनीभ्यान्नमः । पयः सोमं प्रजापतिः मध्यमाभ्यान्नमः ।ऋतेन सत्यमिन्द्रियं व्विपानं अनामिकाभ्यान्नमः । शुक्रमन्धस इन्द्रस्येन्द्रियं कनिष्ठिकाभ्यानमः । इदं पयोऽमृतं मधु करतलकरपृष्ठाभ्यान्नमः । एवं हृदयादि । अथाङ्गन्यासः ।अन्नात्परिस्त्रुत इति शिरसि । रसं ब्रह्मणा ललाटे । व्यपिबत् क्षत्रं मुखे । पयः सोमं हृदि । प्रजापतिः नाभौ । ऋतेन सत्यमिति कट्याम् । इन्द्रियं व्विपानमिति गुदे ।शुक्र-
मिति वृषणयोः ।अन्धस इत्यूर्वोः। इन्द्रस्येन्द्रियमिदं पय इति जान्वोः ।अमृतं मधु पादयोः । अथ ध्यानम् -
श्वेताम्बरः श्वेतवपुः किरीटी चतुर्भुजो दैत्यगुरुःप्रशान्तः ।
तथाऽक्षसूत्रं च कमण्डलुं च दण्डं च विभ्रद्वरदोऽस्तु मह्यम् ॥
अथ मन्त्रः ।
“ॐ ह्राँह्रीँ ह्रौँसः ॐ भूर्भुवः स्वः ॐ अन्नात्परि० धु ॐ स्वः भुवः भूः ॐ सः ह्रौँ ह्रीँ ह्राँ ॐ” एवं जपः । अथ शनैश्चरस्य ।“शन्नो देवीरि"ति दध्याङ्ङाथर्वण ऋषिः गायत्रीच्छन्दः शानिर्देवता शनिप्रीत्यर्थे जपे विनियोगः ।ॐ भूर्भुवः स्वः शन्नो देवीरिति अङ्गुष्ठाभ्यान्नमः । अभिष्टये तर्जनीभ्यान्नमः ।आपो भवन्तु मध्यमाभ्यान्नमः ।पीतये अनामिकाभ्यान्नमः । शंयोरिति कनिष्ठिकाभ्यान्नमः । स्रवन्तु नः करतलकरपृष्ठाभ्यान्नमः । एवं हृदयादि । अथाङ्गन्यासः । शन्नः शिरसि ।देवीःललाटे । अभिष्टये मुखं । आपो भवन्तु नाभौ ।पीतये कट्याम् । शं योः ऊर्वोः । अभिजान्वोः । स्रवन्तु नः पादयोः । अथ ध्यानम् -
नीलाम्बरः शूलधरः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान्।
चतुर्भुजः सूर्यसुतः प्रशान्तः सदाऽस्तु मह्यं वरदोऽस्तु नित्यम् ॥
अथ मन्त्रः ।
“ॐ खाँ खॉँखौँ सः ॐभूर्भुवः स्वः ॐ शन्नोदेवी० नः ॐ स्वः भुवः भूः ॐ सः खौँ खीँखाँ ॐ” एवं जपः । अथ राहोः । “कया न” इति मन्त्रस्य वामदेव ऋषिर्गायत्रीच्छन्दो राहुर्देवता राहुप्रीत्यर्थे जपे विनियोगः ।ॐ भूर्भुवः स्वः कया न इति अङ्गुष्ठाभ्यान्नमः ।चित्र आ भुवत् तर्जनीभ्यान्नमः । ऊती सदावृधः मध्यमाभ्यान्नमः ।सखा अनामिकाभ्यान्नमः ।कया कनिष्ठिकाभ्यान्नमः । शचिष्ठया वृता करतलकरपृष्ठाभ्यान्नमः । एवं हृदयादिन्यासः । अथाङ्गन्यासः । कयेति शिरसि ।न इति ललाटे । चित्र
इति मुखे । आभुवत्हृदि । ऊती नाभौ । सदावृधःकट्याम् । सखा ऊर्वोः । कया जान्वोः ।शचिष्ठया गुल्फयोः । वृतेति पादयोः । अथ ध्यानम् -
नीलाम्बरो नीलवपुः किरीटी करालवक्रःकरवालशूली ॥
चतुर्भुजश्चक्रधरश्च राहुःसिंहासनस्थो वरदोऽस्तु मह्यम् ।
अथ मन्त्रः ।
“ॐ भ्राँ भ्रीँ भ्रौँसः ॐ भूर्भुवः स्वः कयान०वृता ॐ स्वः भुवः भूः ॐ सः भ्रौँ भ्रीँ भ्राँ ॐ” एवं जपः । अथ केतोः । “केतुं कृण्वन्नि” ति मन्त्रस्य मधुच्छन्द ऋषिर्गायत्रीच्छन्दः केतुर्देवता केतुप्रीत्यर्थे जपे विनियोगः ।केतुं कृण्वन् अङ्गुष्ठाभ्यां० ।अकेतवे तर्जनीभ्यां०।पेशो मर्याः मध्यमा०।अपेशसे अनामिका० । समुषद्भिः कनिष्ठिकाभ्यां० ।अजायथाः करतलकरपृष्ठाभ्यां० । एवं हृदयादि । अथाङ्गन्यासः ।केतुमिति शिरासि।कृण्वन् ललाटे ।अकेतवे मुखे ।पेशो हृदि । मर्या नाभौ । अपेशसे कट्याम् । समुर्वोः । उषद्भिर्जान्वोः ।अजायथाः पादयोः ।
अथ ध्यानम् -
धूम्रो द्विबाहुर्वरदो गदाधरो गृध्रासनस्थो विकृताननश्च ।
किरीटकेयूरविभूषितो यः स चास्तु मे केतुगणः प्रशान्त्यै ॥
अथ मन्त्रः ।
“ॐ प्राँप्रीँप्रौँसः ॐ भूर्भुवः स्वः ॐ केतुं कृण्वन्० थाःॐ स्वः भुवः भूः ॐ सः प्रौँ प्रीँप्राँ ॐ” । एवं जपः ।जपानन्तरं पुनर्न्यासं विधाय ।
गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देव ! त्वत्प्रसादात्वयि स्थिते ॥
इत्यनेन देवहस्ते जपं समर्पयेत् । इति नवग्रहजपविधिः ।
ततो यथासम्भवं जपं कृत्वा तदम्ते यथासम्भवप्रकारेण
शुभदिवसे होमं कुर्यात् । तत्रादौ होमानुसारं कुण्डं स्थाण्डलं वा कुर्यात् । ततः शुक्लाम्बरधर : शुक्लमाल्यानुलेपनः साचार्यब्रह्मऋत्विग्यजमानो मङ्गलघोष सम्पूर्णकलशहस्तो “भद्रंकर्णेभि " रिति मण्डपं प्रदक्षिणीकृत्य पश्चिमद्वारेण प्रविशेत् । ततो मण्डपान्तः कुण्डपश्चिमदेशे उपविश्याचम्य प्राणानायम्य देशकालौ स्मृत्वा “ अद्यैवंविधे देशकाले ब्राह्मणद्वारा कृतस्यग्रहजपस्थदशांशेन अमुकद्रव्येण यथाशक्ति ब्राह्मणद्वारा होममहं करिष्ये । तदङ्गतया निर्विघ्नार्थ गणपतिपूजनमहं करिष्ये" इति सङ्कल्प्य, षोडशोपचारैर्गणाधिपं सम्पूजयेत् । ततो गौरसर्षपैः सर्वतो मण्डपान्तरं विकिरेत् ।
तत्र मन्त्रः-
यदत्र संस्थितं भूतं स्थानमाश्रित्य सर्वदा ।
स्थानं त्यक्त्वा तु तत्सर्व यत्रस्थं तत्र गच्छतु ॥
अपक्रामन्तु भूतानि पिशाचाः सर्वतो दिशम् ।
सर्वेषामविरोधेन ब्रह्मकर्म समारभेत् ॥
ततः पञ्चगव्येन कुशैः सर्वत्र प्रोक्षणम् । “आपोहिष्ठेत तिसृभिः । ततः कृताञ्जलिः “स्वस्तिन इन्द्र " इति मन्त्रं पठेत् । ततो वेद्यां सर्वतोभद्रमण्डलं विलिख्य यजमानोऽन्यायतनाइक्षिणत उपविशेत् । आचार्यस्तु कुण्डस्य पश्चिमे देशे उपविश्य आचम्य प्राणानायम्य देशकालौ स्मृत्वा “ग्रहहोमकर्मणि अग्निस्थापनमहं करिष्ये” । कुण्डे स्थण्डिले बापञ्चभूसंस्कारान् कुर्यात् । तत्र लौकिकामि कांस्यादिपात्रेण आत्माभिमुख प्रणयेत् । तत” चत्वारिशृङ्गे" त्यावाहनम् । “मनो जूति" रिति प्रतिष्ठाप्य \। अथाग्निध्यानम्-
रुद्रतेजः समुद्भुतं द्विमूर्द्धानं द्विनासिकम् \।
पण्नेत्रं च चतुःश्रोत्रं त्रिपादं सप्तहस्तकम् \।\।
याम्यभागे चतुर्हस्तं सव्ययागे त्रिहस्तकम् ।
स्रुवं स्रुचं च शक्तिं च अक्षमालां च दक्षिणे ॥
तोमरं व्यजनं चैव घृतपात्रं तु वामके ।
बिभ्रतं सप्तभिर्हस्तैर्द्विमुखं सप्तजिह्वकम् ॥
दक्षिणं च चतुर्जिह्वं त्रिजिह्वमुत्तरं मुखम् ।
द्वादशकोटिमूर्त्याख्यं द्विपञ्चाशत्कलान्वितम् ॥
स्वाहास्वधावषट्कारैरङ्कितं मेषवाहनम् ।
रक्तमाल्याम्बरधरं रक्तपद्मासनस्थितम् ॥
रौद्रं त्वां वह्निनामानं वह्निमावाहयाम्यहम् ।
त्वं मुखं सर्वदेवानां सप्तार्चिरमितद्युते॥
आगच्छ भगवन्देव ? यज्ञेऽस्मिन्सन्निधो भव ॥
एवं कुण्डे अग्निप्रणयनं विधाय ग्रहवेद्यां ग्रहदेवतास्थापनं कुर्यात् । तत्रायं प्रयोगः । ‘अद्येत्यादि ग्रहपीठदेवतास्थापनमहं करिष्ये’ । तत्र ग्रहपीठमध्ये वर्तुले द्वादशांगुले मण्डले प्राङ्मुखं सूर्यं रक्तपुष्पाक्षतैः “ॐ आकृष्णेने" ति हिरण्यस्तूप ऋषिःत्रिष्टुप्छन्दः सविता देवता सूर्यावाहने विनियोगः । ‘ॐ आकृष्णेन० भूर्भुवः स्वः कलिङ्गदेशोद्भव काश्यपसगोत्र सूर्य इहागच्छे’ त्यावाह्य ‘इह तिष्ठेति" स्थापयेत् । तत आग्नेये चतुरस्रे चतुर्विंशत्यङ्गुले मण्डले प्रत्यङ्मुखं सोमं श्वेतपुष्पाक्षतैः “इमन्देवा” इत्यस्य वरुण ऋषिः यजुः सोमो देवता सोमावाहने विनियोगः ।ॐ इमन्देवा० ॐ भूर्भुवः स्वः यमुनातीरोद्भव आत्रेय सगोत्र सोम इहागच्छे’ त्यावाह्य’इह तिष्ठेति’ स्थापयेत् । ततो दक्षिणे त्रिकोणे चतुरङ्गुले मण्डले दक्षिणाभिमुखं भौमं रक्तपुष्पाक्षतैः “अग्निमूर्धे” ति विरूपाक्ष ऋषिः गायत्रीच्छन्दः अङ्गारको देवता भौमावाहने विनियोगः ।‘ॐ अग्निर्मूर्द्धा० ॐ भूर्भुवः स्वः अवन्तिदेशोद्भव भारद्वाजसगोत्र भौम इहागच्छे’ त्यावाह्य ‘इहतिष्ठेति’ स्थापयेत् । तत ईशान्ये बाणाकारे चतुरङ्गुले उदङ्मुखं बुधं पीतपुष्पाक्षतैः “उद्बुध्यस्वे"ति परमेष्ठी ऋषिः त्रिष्टुप्छन्दः बुधो देवता बुधावाहने विनियोगः । ‘ॐ उद्बुध्यस्वाग्ने० ॐ भूर्भुवः स्वः मगधदेशोद्भव
आत्रेयसगोत्र बुध इहागच्छे’त्यावाह्य ‘इह तिष्ठे’ति स्थापयेत् । तत उत्तरे दीर्घचतुरस्रे मण्डले उदङ्मुखं बृहस्पतिं पीतपुष्पाक्षतैः बृहस्पत इति गृत्समद ऋषिः त्रिष्टुप्छन्दःबृहस्पतिर्देवता बृहस्पत्यावाहने विनियोगः । ‘ॐ बृहस्पते ॐ भूर्भुवः स्वः सिन्धुदेशोद्भव आङ्गिरसगोत्र बृहस्पते इहागच्छे’त्यावाह्य ‘इह तिष्ठेति’ स्थापयेत् । ततः पूर्वे पञ्चकोणे नवाङ्गुलमण्डले प्राङ्मुखं शुक्रं शुकपुष्पाक्षतैः अन्नात्परिस्त्रुत इत्यस्य अश्विसरस्वतीन्द्रा ऋषयःअतिजगतीच्छन्दः शुक्रो देवता शुक्रावाहने विनियोगः । ‘ॐअन्नात्परिस्त्रुतो० ॐ भूर्भुवः स्वः भोजकटदेशोद्भव भार्गवसगोत्र शुक्र इहागच्छे’त्यावाह्य ‘इह तिष्ठेति’ स्थापयेत् । ततः पश्चिमे धनुषि षडङ्गुले मण्डले प्रत्यङ्मुखं शनिंकृष्णपुष्पाक्षतैः शन्नोदेवीरिति दध्यङ्ङाथर्वण ऋषिःगायत्रीच्छन्दः शनिर्देवता शनेरावाहने विनियोगः ।‘ॐ शन्नोदेवी० ॐ भूर्भुवः स्वःसौराष्ट्रदेशोद्भव काश्यपसगोत्र शनैश्चर इहागच्छे’त्यावाह्य ‘इह तिष्ठेति’ स्थापयेत् । ततो नैर्ऋत्ये शूर्पाकारे चतुर्विंशाङ्गुलमण्डले दक्षिणाभिमुखं राहुं कृष्णपुष्पाक्षतैः कयान इति वामदेव ऋषिः गायत्रीच्छन्दः राहुर्देवता राह्वावाहने विनियोगः । ‘ॐ कयानश्चित्र० ॐ भूर्भुवः स्वःराठीनापुरोद्भव पैठीनसगोत्र राहो इहागच्छे’त्यावाह्य ‘इइ तिष्ठेति’ स्थापयेत् । ततो वायव्ये ध्वजाकारे अष्टाङ्गुले मण्डले दक्षिणाभिमुखं केतुं धूम्रपुष्पाक्षतैःकेतुं कृण्वन्निति मधुच्छन्द ऋषिर्गायत्रीच्छन्दः केतुर्देवता केत्वावाहने विनियोगः ।‘ॐकेतुं कृण्वन्० ॐ भूर्भुवः स्वः अन्तर्वेदिसमुद्भव जैमिनिसगोत्र केतो इहागच्छे’त्यावाह्य ‘इह तिष्ठेति’ स्थापयेत् । यथोक्तकुसुमतण्डुलाभावे यथालाभोपपन्नैः कुसुमतण्डुलैः स्थापयेत् । अथाधिदेवताः सर्वाः श्वेतपुष्पतण्डुलैःस्थापयेत् । त्र्यम्बकमिति वशिष्ठ ऋषिः अनुष्टुप्छन्दःरुद्रो देवता रुद्रस्थापने विनियोगः ।‘ॐत्र्यम्बकं यजामहे० ॐ भूर्भुवः स्वः ईश्वर इहागच्छे’त्यावाह्य ‘इह तिष्ठेति’ सूर्यस्य दक्षिणपार्श्वे ईश्वरं स्थापयेत् । श्रीश्चत इति नारायण ऋषिस्त्रिष्टुप्छन्दः उमा देवता उमा-
स्थापने विनियोगः । ‘ॐ श्रीश्च ते० ॐ भूर्भुवः स्वः उमे इहागच्छे’त्यावाह्य ‘इह तिष्ठेति’ सोमदक्षिणपार्श्वेउमां स्थापयेत् । य़दक्रन्द इति भार्गवजमदग्निदीर्घतमा ऋषयःत्रिष्टुप्छन्दः स्कन्दो देवता स्कन्दावाहने विनियोगः ।‘ॐ य़दक्रन्दः प्रथमं० ॐ भूर्भुवः स्वः स्कन्द इहागच्छे’त्यावाह्य’इह तिष्ठेति’ भौमस्य दक्षिणपार्श्वेस्कन्दं स्थापयेत् ।विष्णोरराटमित्यस्य प्रजापतिर्ऋषिः यजुर्विष्णुर्देवता विष्ण्वावाहने विनियोगः । ‘ॐविष्णोरराट० ॐ भूर्भुवः स्वः विष्णो इहागच्छे’त्यावाह्य ‘इह तिष्ठेति’ बुधस्य दक्षिणपार्श्वे विष्णुं स्थापयेत् । आ ब्रह्मन्निति प्रजापतिर्ऋषिः यजुःब्रह्मा देवता ब्रह्मस्थापने विनियोगः ।‘ॐ आब्रह्मन्ब्राह्मणो० ॐ भूर्भुवः स्वः ब्रह्मन्निहागच्छे’त्यावाह्य ‘इह तिष्ठेति’ बृहस्पतेर्दक्षिणपार्श्वेब्रह्माणं स्थापयेत् । सजोषा इन्द्रेति विश्वामित्र ऋषःत्रिष्टुप्छन्दः इन्द्रो देवता इन्द्रस्थापने विनियोगः ।‘ॐ सजोषा इन्द्र० ॐ भूर्भुवः स्वः इन्द्रेहागच्छे’त्यावाह्य ‘इह तिष्ठेति’ शुक्रस्य दक्षिणपार्श्वेइन्द्रं स्थापयेत् । य़माय त्वेति दध्यङ्ङाथर्वण ऋषिर्यजुःयमो देवता यमस्थापने विनियोगः । ‘ॐ य़मायत्वाङ्गिर० ॐ भूर्भुवः स्वः यम इहागच्छे’त्यावाह्य’इह तिष्ठेति’ शनैर्दक्षिणपार्श्वेयमं स्थापयेत् । कार्षिरसीति प्रजापतिर्ऋषिरनुष्टुप्छन्दः कालो देवता कालावाहने विनियोगः । ‘ॐ कार्षिरसि० ॐ भूर्भुवः स्वः काल इहागच्छे’त्यावाह्य ‘इइ तिष्ठेति’ राहोदक्षिणपार्श्वे कालं स्थापयेत् । चित्रावसो इति ॠषय ऋषयः यजुर्जगतीच्छन्दः चित्रगुप्तो देवता चित्रगुप्तस्थापने विनियोगः । ‘ॐ चित्रावसो० शीय ॐ भूर्भुवःस्वःचित्रगुप्तेहागच्छे’त्यावाह्य’इइ तिष्ठेति’ केतोर्दक्षिणपार्श्वेचित्रगुप्तं स्थापयेत् । अथ प्रत्यधिदेवताः । ततः शुक्लतण्डलैरेव सर्वाः प्रत्यधिदेवताः स्थापयेत् । अग्निन्दूतमित्यस्य विरूपाक्ष ऋषिर्गांयत्रीच्छन्दः अग्निर्देवता अग्निस्थापने विनियोगः । ‘ॐ अग्निन्दूतं० ॐ भूर्भुवः स्वः अग्ने इहागच्छे’त्यावाह्य’इह तिष्ठेति’ सूर्यस्य वामपार्श्वेऽग्निंस्थापयेत् ।आपो हिष्ठेति सिन्धु-
द्वीप ऋषिर्गायत्रीच्छन्दःआपो देवता अपां स्थापने विनियोगः । ‘ॐ आपोहिष्ठा० से ॐ भूर्भुवः स्वः आपः इहागच्छते’ त्यावाह्य ‘इह तिष्ठतेति’ सोमस्य वामपार्श्वेअपः स्थापयेत् ।स्योना पृथिवीति मेवातिथिर्ऋषिः गायत्रीच्छन्दः पृथ्वी देवता पृथ्वीस्थापने विनियोगः । ‘ॐ स्योना पृथिवि० ॐ भूर्भुवः स्वः पृथ्वि इहागच्छे’त्यावाह्य ‘इह तिष्ठेति’ भौमस्य वामपार्श्वेभूमिं स्थापयेत् । इदं विष्णुरिति मेधातिथिर्ऋषिः गायत्रीच्छन्दः विष्णुर्देवता विष्णुस्थापने विनियोगः । ‘ॐ इदं विष्णु० ॐ भूर्भुवः स्वः विष्णो इहागच्छे’त्यावाह्य ‘इह तिष्ठेति’ बुधवामपार्श्वेविष्णुं स्थापयेत् । त्रातारमित्यस्य गर्ग ऋषिस्त्रिष्टुप्छन्दः इन्द्रो देवता इन्द्रस्थापने विनियोगः ।‘ॐ त्रातारमिन्द्र० ॐ भूर्भुवः स्वःइन्द्रेहागच्छे’त्यावाह्य ‘इह तिष्ठेति’ गुरोर्वामपार्श्वेइन्द्रं स्थापयेत् । अदित्यै रास्नेति दध्यङ्ङाथर्वण ऋषिः यजुस्त्रिष्टुप्छन्दः प्रजापतिर्देवता प्रजापतिस्थापने विनियोगः । ‘ॐ आदित्यै रास्ना० ॐ भूर्भुवः स्वः इन्द्राणि इहागच्छे’त्यावाह्य ‘इह तिष्ठेति’ शुक्रस्य वामपार्श्वेइन्द्राणीं स्थापयेत् । प्रजापते नेति हिरण्यगर्भ ऋषिस्त्रिष्टुप्छन्दःप्रजापतिर्देवता प्रजापतिस्थापने विनियोगः । ‘ॐ प्रजापते० ॐ भूर्भुवः स्वः प्रजापते इहागच्छे’त्यावाह्य ‘इहतिष्ठेति’ शनिवामपार्श्वेप्रजापतिं स्थापयेत् ।नमोस्तु सर्पेभ्य इति मन्त्रस्य प्रजापतिर्ऋषिरनुष्टुप्छन्दः सर्पो देवता सर्पस्थापने विनियोगः । ‘ॐ नमोऽस्तु सर्पेभ्यो० ॐ भूर्भुवः स्वः सर्पाःइहागच्छते’त्यावाह्य ‘इह तिष्ठतेति’ राहोर्वामपार्श्वेसर्पान् स्थापयेत् । ब्रह्म यज्ञानमित्यस्य प्रजापतिर्ऋषिस्त्रिष्टुप्छन्दः ब्रह्म देवता ब्रह्मस्थापने विनियोगः ।‘ॐ ब्रह्म यज्ञानं० ॐ भूर्भुवः स्वः ब्रह्मन्निहागच्छे’त्यावाह्य ‘इह तिष्ठेति’ केतोर्वामपार्श्वेब्रह्माणं स्थापयेत् । अथ पञ्चलोकपालपूजनम् । ततः शुक्लपूष्पाक्षतैर्विनायकादिपञ्चदेवताः स्थापयेत् । गणानान्त्वेत्यस्य प्रजापतिर्ऋषिः यजुश्छन्दः गणपतिर्देवता गणपतिस्थापने विनियोगः ।‘ॐ गणानान्त्वा० ॐ भूर्भुवः स्वः गण-
पते इहागच्छे’त्यावाह्य ‘इह तिष्ठेति’ राहोरुत्तरभागे गणपतिं स्थापयेत् । अम्बे अम्बिके इत्यस्य प्रजापतिर्ऋषिरनुष्टुप्छन्दः दुर्गा देवता दुर्गास्थापने विनियोगः । ‘ॐ अम्बे अम्बिके० ॐ भूर्भुवः स्वः दुर्गे इहागच्छे’त्यावाह्य’इहतिष्ठेति’ शनेरुत्तरतो दुर्गां स्थापयेत् । आनो नियुद्भिरित्यस्य वशिष्ठ ऋषिःत्रिष्टुप्छन्दःवायुर्देवता वायुस्थापने विनियोगः ।‘ॐ आ नो नियुद्भिः० ॐ भूर्भुवः स्वः वायो इहागच्छे’त्यावाह्य ‘इह तिष्ठेति’रवेरुत्तरतो वायुं स्थापयेत् । घृतं घृतपावान इति प्रजापतिर्ऋषिः ऋचां पङ्क्तिश्छन्दःआकाशो देवता आकाशस्थापने विनियोगः । ‘ॐ घृतं घृतपावानः ॐ भूर्भुवः स्वःआकाशेहागच्छे’त्यावाह्य’इह तिष्ठेति’राहोदक्षिणत आकाशं स्थापयेत् ।य़ावाङ्कशेति मेधातिथिर्ऋषिर्गायत्रीच्छन्दः अश्विनौ देवते अश्विनोः स्थापने विनियोगः । ‘ॐ य़ावाङ्कशा० ॐ भूर्भुवः स्वः अश्विनाविहागच्छतम्’ इत्यावाह्य ‘इह तिष्ठतमिति’ केतोर्दक्षिणे अश्विनौ स्थापयेत् । यद्वा विनायकादीन्पञ्चोत्तर एव स्थापयेत् । उत्तरेक्षेत्राधिपतिं वास्तोस्पतिं चावाहयेदित्येके । न हि स्पशमित्यस्य विश्वामित्र ऋषिस्त्रिष्टुप्छन्दः क्षेत्राधिपतिर्देवता क्षेत्रपालस्थापने विनियोगः । ‘ॐ न हि स्पश० ॐ भूर्भुवः स्वः क्षेत्राधिपते इहागच्छे’त्यावाह्य ‘इह तिष्ठेति’ स्थापयेत् । वास्तोष्पत इत्यस्य वशिष्ठ ऋषिःवास्तोष्पतिर्देवता वास्तुस्थापने विनियोगः ।
‘ॐ वास्तोष्पते प्रतिजानीह्यस्मांन्स्वावेशो अनमीवो भवा नः ।
य़त्वेमहेप्रति तन्नो जुषस्व शन्नो भव द्विपदे शं चतुष्पदे ॥
‘ॐभूर्भुवः स्वः वास्तोष्पते इहागच्छे’ त्यावाह्य ‘इह तिष्ठेति’वास्तोष्पतिं स्थापयेत् । तत इन्द्रादिलोकपालस्थापनम् । त्रातारमिन्द्रमित्यस्य गर्ग ऋषिस्त्रिष्टुप्छन्दः इन्द्रो देवता इन्द्रस्थापने विनियोगः । ‘ॐ त्रातारपिन्द्र० ॐ भूर्भुवः स्वः इन्द्रेहागच्छे’त्यावाह्य’इह तिष्ठेति’ पूर्वे इन्द्रं स्थापयेत् । त्वन्नो अग्न इत्यस्य हिरण्यस्तूप ऋषिस्त्रिष्टुप्छन्दः अग्निर्देवता अग्न्यावाहने विनियोगः । ‘ॐ त्वन्नो अग्ने० ॐ मर्भुवः स्वः अग्ने
इहागच्छे’त्यावाह्य ‘इह तिष्ठे’त्यग्निं स्थापयेत् । सुगन्नुपन्थामित्यस्य प्रजापतिर्ऋषिस्त्रिष्टुप्छन्दः यमो देवता आवाहने विनियोगः ।‘ॐ सुगन्नुपन्थां ॐ भूर्भुवः स्वः’ इत्यादि पूर्ववत्सर्वत्र ज्ञेयम् । असुन्वन्तमित्यस्य विवस्वानृषिस्त्रिष्टुप्छन्दः निर्ऋतिर्देवता आवाहने विनियोगः ।‘ॐ असुन्वन्त० स्तु’ ।तत्त्वायामीति शुनःशेप ऋषिस्त्रिष्टुप्छन्दः वरुणो देवता आवाहने वि० । ‘ॐतत्वा यामि० षीः’ । आनो नियुद्भिरित्यस्य वशिष्ठ ऋषिस्त्रिष्टुप्छन्दः वायुर्देवता आवाहने विनियोगः । ‘ॐ आनो नियुद्भिः० नः’ । वयँसोमेत्यस्य बन्धुर्ऋषिस्त्रिष्टुप् छन्दः सोमो देवता आवाहने वि० । ‘ॐ वयँसोम० हि’ ।तमीशानमित्यस्यगौतम ऋषिर्जगतीच्छन्दः ईशानो देवता आवाहने विनियोगः ।‘ॐ तमीशानं० ये’ । अस्मे रुद्रा इत्यस्य प्रगाथ ऋषिस्त्रिष्टुप्छन्दः ब्रह्मा देवता ब्रह्मावाहने विनियोगः ।‘ॐ अस्मे रुद्रा०वाः’ ।ईशानपूर्वयोर्मध्ये स्योना पृथिवीत्यस्य मेधातिथिऋषिर्गायत्रीच्छन्दः अनन्तो देवता अनन्तावाहने विनियोगः ।‘ॐ स्योना पृथिवि० थाः’ । ततः शेषाणाम् ।ततो रवेः पूर्वे शेषं नाममन्त्रेण, सोमस्याग्रे वासुकिं, भौमस्याग्रे तक्षकं, बुधोत्तरे कर्कोटकं, बृहस्पतेरग्नेपद्मं, शुक्रोत्तरे महापद्मं, शनिपश्चिमे शंखपालं, राहोः पुरतः कम्बलं, केतोः पुरतः कुलिकम् । ततो बहिर्भूगृहे पूर्वतःअश्विन्यादिसप्त नक्षत्राणि । विष्कुंभादिसप्त योगाः ।बवबालवे करणे ।सप्त द्वीपानि । ऋग्वेदश्च । दक्षिणे पुष्यादिसप्त नक्षत्राणि ।धृत्यादि योगाः ।कौलवतैतिले करणे ।सप्त सागराः यजुर्वेदश्च । पश्चिमे स्वात्यादिसप्त नक्षत्राणि । वज्रादिसप्त योगाः।गरवणिजे करणे ।सप्तपातालानि । सामवेदश्च । उत्तरे अभिजिदादि सप्त नक्षत्राणि ।साध्यादि षड् योगाः । विष्टिकरणं । सप्त कुलाचलाः।अष्टौ वसवः । द्वादशादित्याः ।एकादश रुद्राः । एकोनपञ्चाशन्मरुतः । षोडश मातरः ।षड् ऋतवः । द्वादश मासाः ।द्वे अयने ।पञ्चदश तिथयः । षष्ठिसंवत्सराः ।सुपर्णाः।नागाः ।
सर्पाः ।यक्षाः ।गन्धर्वाः। विद्याधराः ।अप्सरसः । रक्षांसि । भूतानि । मनुष्याः । इत्येते स्थाप्याः ।मनोजूतिरिति प्रतिष्ठां विधाय पूजयेत् । तत्रादौ ग्रहध्यानं मत्स्यपुराणे -
पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः ।
सप्ताश्वरथसंस्थश्चद्विभुजः स्यात्सदा रविः ॥
श्वेतः श्वेताम्बरधरो दशाश्वः श्वेतवाहनः ।
गदापाणिर्द्विबाहुश्च कर्तव्यो वरदः शशी ॥
रक्तमाल्याम्बरधरः शक्तिशूलगदाधरः ।
चतुर्भुजो मेषगमो वरदः स्याद्धरासुतः ॥
पीतमाल्याम्बरधरः कर्णिकारसमद्युतिः ।
खड्गचर्मगदापाणिः सिंहस्थो वरदो बुधः ॥
देवदैत्यगुरू तद्वत्पीतश्वेतौ चतुर्भुजौ ।
दण्डिनौ वरदौ कार्यौसाक्षसूत्रकमण्डलू॥
इन्द्रनीलद्युतिः शूली वरदो गृध्रवाहनः ।
बाणबाणासनधरः कर्तव्योऽर्कसुतः सदा ॥
करालवदनः खड्गचर्मशूली वरप्रदः ।
नीलःसिंहासनस्थश्चराहुरत्र प्रशस्यते ॥
धूम्रादि वा रुचः सर्वे गदिनोविकृताननाः ।
गृध्रासनगता नित्यं केतवः स्युर्वरप्रदाः ॥
सर्वे किरीटिनः कार्या ग्रहा लोकहितावहाः ।
अङ्गुलेनोच्छ्रिताः सर्वे शतमष्टोत्तरं शतम् ॥
एवं ध्यात्वा ततः षोडशपचारैः पूजा कार्या । ‘ॐ आकृष्णेने’ति पठित्वा ॐ सूर्याय नमः सूर्यमावाहयामि ।सूर्याय नमः इदमासनम् । इदं पाद्यम् । एष वोऽर्घः । इदमाचमनीयं सूर्याय नमः ।पयसा सूर्यं स्नपयामि \। दध्नासूर्यं स्नपयामि । आज्येन सूर्यं स्नपयामि ।मधुना सूर्यंस्नपयामि । शर्करया सूर्यं स्नपयामि ।शुद्धोदकेन सूर्यं
स्नपयामि । इदमाचमनीयम् । इदं रक्तवस्त्रम् ।इदं रक्तचन्दनम् । इमानि रक्तपुष्पाणि । एषधूपः । एषदीपः । इदं नैवेद्यम् । इदं ताम्बूलम् । अयं नमस्कारः’ इति सूर्यं सम्पूजयेत् । एवमेव सर्वान्स्थापितदेवान् पूजयेत् । ततो ग्रहवेद्या ईशानभागे गोमयोपलिप्ते रक्तपीतसितैस्तण्डुलैर्वा चतुर्विंशतिदलान्वितं सकर्णिकं कमलं विधाय तस्य कर्णिकायां व्रीहीन्विन्यस्य तदुपरि अव्रणं बहिर्दध्यक्षतभूषितं चन्दनमालाचर्चितं पूर्ववत्कलशं निदध्यात् । ततः कलशे गङ्गाद्यावाहनादि कुर्यात् । तस्मिन्कलशे ‘ॐतत्वा य़ामी’ति वरुणमावाहयेत्पूजयेच्च ।तत आचार्यःअग्नेःपश्चादुपविश्य प्राणानायम्य देशकालौ स्मृत्वा अस्मिन्नवग्रहमखारव्ये कर्मणि होममहं करिष्ये । तत्र वैकल्पिकस्मरणम्–पूर्वेण ब्रह्मणो गमनम्, उत्तरेण पात्रासादनम्, द्वे पवित्रे, ताम्रमयी आज्यस्थाली, ताम्रमयी चरुस्थाली, पालाश्यः समिधः प्राञ्चावाघारौ, समिद्धतमे आज्यभागौ, पूर्णपात्रं दक्षिणा, एतान्वैकल्पिकपदार्थानहं करिष्ये । अथदेवताऽभिधानम्– अत्र ‘प्रजापतिं इन्द्रम् अग्निं सोमम्’ एता आज्येन ।अथ प्रधानदेवताः ।आदित्यादिकेत्वन्तान् ग्रहान् अर्कादिसमिद्भिः । ईश्वरम् उमां स्कन्दं विष्णुं ब्रह्माणम् इन्द्रं यमं कालं चित्रगुप्तम् । इत्यधिदेवताः ।अग्निम् आपः धरां विष्णुम् इन्द्रम् इन्द्राणीं प्रजापतिं सर्पान् ब्रह्माणम् । इति प्रत्यधिदेवताः । विनायकं दुर्गां वायुम् आकाशम् अश्विनौ । इति पञ्चलोकपालान् । ‘अमुकसंख्याभिः पलाशसमिद्भिः एकैकयाऽज्याहुत्या एकैकया चर्वाऽहुत्या तिलाज्याद्युपकल्पितद्रव्येण दशाहुतिभिःमहाव्याहृतिभिश्चतस्रआहुतिभिर्जपदशांशेन तिलाज्याद्युपकल्पितद्रव्येण होममहं करिष्ये’ इति सङ्कल्पः । शेषेणाग्निंस्विष्टकृतम् अग्निं वायुं सूर्यम् अग्नीवरुणौ२ अग्निंवरुणं सवितारं विष्णुं विश्वान्देवान्मरुतः स्वर्कान् वरुणम् आदित्यमदितिं प्रजापतिम् अग्निं स्विष्टकृतम् एता अङ्गप्रधानार्थदेवताअस्मिकर्मण्यहं यक्ष्ये । ब्रह्मोपवेशनादिपर्युक्षणान्तं कृत्वा आधारावाज्यभागौ हुत्वा ततो यजमानेन द्रव्यत्यागः कार्यः । स च बहुकर्तृके यथा-
कालं प्रत्याहुतित्यागस्य कर्तुमशक्यत्वात्सर्वमेव होमजातं मनसा ध्यात्वा देवताश्च ‘इदं यथा दैवतमस्तु नमम’ इत्येवं रूपः । अथवा ‘आदित्यादि अश्विनीकुमारान्तेभ्य इदं सम्पादितं समिच्चर्वाज्यतिलादिद्रव्यं मया त्यक्तं नमम’ इति द्रव्यत्यागः । अथाग्निं पञ्चोपचारैः सम्पूज्य ततःसूर्याद्युद्देशेन अर्कादिसमिधोमधुसर्पिर्दध्यक्ताः सूर्यादिमन्त्रैः प्रतिग्रहमष्टोत्तरसहस्रमष्टोत्तरशतमष्टाविंशतिरष्टसंख्यया वाऽऽवाहितक्रमेण होमःकार्यः । तत्रापि समिच्चर्वाज्यतिलादय इति क्रमः । समिदाज्यचरुतिलादय इति वा । अधिदेवतादीनामप्रधानदेवतात्वाद्धोमे न्यूनसंख्यास्वीकरणम् । आसां च समिधः पालाश्य एव॥
अथ नवग्रहहोमः ।आकृष्णेन० ।इमन्देवा०।अग्निर्मूर्द्धा० । उद्बुद्ध्यस्व० । बृहस्पते० ।अन्नात्परिस्रुतो० ।शन्नो देवी० ।कयानश्चित्र० ।केतुं कृण्वन्० ।अथाधिदेवतानाम्— त्र्यम्बकं० । श्रीश्चते० । य़दक्रन्दः० । विष्णो रराटमसि० ।आ ब्रह्मन्० ।सजोषा० । य़माय त्वा० ।कार्षिरसि० ।चित्रावसो० ।अथ प्रत्यधिदेवतानाम्- अग्निन्दूतं० ।आपो हिष्ठा० । स्योना पृथिवि० । इदं विष्णु० । त्रातारमिन्द्र० । आदित्यैरास्नासी० । प्रजापतेन० ।नमोस्तु सर्पेभ्यो० । ब्रह्मयज्ञानं० । अथ पञ्चलोकपालानाम्— गणानान्त्वा० । अंबे अंबिके० आ नो नियद्भिः० । घृतं घृतपावनः० ।पावांकशा० ।तत ‘आकृष्णेने’ त्यादि स्वेन स्वेन मंत्रेण देवतां मनसा ध्यात्वैकैकामाज्याहुतिं जुहुयात् । ततः साधितचरोः स्रुवेणावदाय ‘आकृष्णेने्’त्यादि स्वेन स्वेन मंत्रेणैकैकामाहुतिंजुहुयात् । एतावदाचार्य एव कुर्यात् । ततो जपदशशिन तिलयवव्रीह्यादि यजमानेनोपकल्पितद्रव्येण ऋत्विग्भिस्तत्तद्देवतां मनसा ध्यायद्भिरुपांशु प्राङ्मुखैरुदङ्मुखैश्च होमः कार्यः । होमसंख्या च सावधानैः कार्या । ततः शुभे मुहुर्त्तेहोमसंख्यां संपूर्णां कुर्यात् । एवं होमं परिसमाप्य चन्दनाद्युपचारैः ‘अग्ने नये’ति मंत्रेण संकल्पपूर्वकं स्वहास्वधायुतमग्निं पूजयेत् । अग्नये गंधादि बहिरेव दद्यात् । ततो ग्रहपीठदेवतानां च उत्तरपूजां केचिदाहुः । पूजासंपूर्णतां वाचयित्वा ।यस्य स्मृत्या०, आवाहनं न
जानामि० ।प्रार्थयित्वा ततश्चरुशेषादवदाय ‘अग्नये स्विष्टकृतेस्वाहा’ इति जुहोति । इदमग्नये स्विष्टकृते नमम ।ततो नवाहुतिः । एवं नवाहुतिहोमं कृत्वा बलिदानं कुर्यात् । तच्चैवम्– अग्न्यायतनस्य समन्ताद्दिक्षु विदिक्षु च माषभक्तबलिं दिक्पालेभ्यो दद्यात् । ‘ॐत्रातारमिन्द्र०’ । इन्द्राय साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय एष माषभक्तबलिर्न मम । भो इन्द्र दिशं रक्ष बलिं भक्ष मम (यजमानस्य वा) सकुटुम्बस्यआयुःकर्ता क्षेमकर्ता शुभकर्ता शान्तिकर्ता पुष्टिकर्ता तुष्टिकर्ता वरदो भवेति । पुष्पाक्षतजलानि पूर्वाभिमुखस्त्यजेत् ।‘त्वन्नो अग्ने०’ अग्नये० भो अग्ने० ।‘सुगन्नु पन्थां०’ ।यमाय साङ्गायेत्यादि । भो यम इत्यादि । ततो नैर्ऋते ‘असुन्वन्त०’ निर्ऋतये इत्यादि । भो निर्ऋते साङ्गायेत्यादि० । ततः पश्चिमे ‘तत्त्वायामि०’ वरुणायेत्यादि । भो वरुण इत्यादि । ततो वायव्ये ‘आनो नियुद्भिः०’ । वायवे साङ्गायेत्यादि । भो वायो इत्यादि । तत उत्तरे ‘वय<MISSING_FIG href=”../books_images/U-IMG-1697856416Screenshot(14"/>.png)सोम्०’। सोमायेत्यादि । भो सोमेत्यादि । तत ईशान्ये ‘तमीशानं०’ \। ईशानायेत्यादि । तत ईशानपूर्वयोर्मध्ये ‘अस्मे रुद्रा०’ ।ब्रह्मणे इत्यादि । भो ब्रह्मन् इत्यादि । ततः पश्चिमनैर्ऋतयोर्मध्ये ‘स्योना पृथिवि०’ । अनन्तायेत्यादि । भो अनन्तेत्यादि । ततो ग्रहवेद्याः समन्ताद्गहबलयो देयाः । तत्र पूर्वे ‘आकृष्णेन०’ ।आदित्याय साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय ईश्वराग्निरूपाधिदेवताप्रत्यधिदेवतासहिताय इमं सदीपदधिमाषभक्तबलिं समर्पयामीति पुष्पाक्षतजलं क्षिपेत् । भो रवे इत्यादि पूर्ववत् । एवमुत्तरत्रापि । ततो वेद्या आग्नेये ‘इमन्देवा०’ । सोमायोमाम्बुरूपाधिदेवताप्रत्यधिदेवतासहितायेत्यादि । ततो दक्षिणे ‘अग्निर्मूर्धा०’ । भौमाय स्कन्दभूमिरूपाधिदेवता- प्रत्यधिदेवतासहिताय । तत ईशान्याम् ‘उद्बुध्यस्व०’ । बुधाय नारायणविष्णुरूपाधिदेवताप्रत्यधिदेवतासहिताय ।तत उत्तरे‘बृहस्पते अति०’ । बृहस्पतये ब्रह्मेन्द्ररूपाधिदेवताप्रत्यधिदेवतासहिताय ।ततः पूर्वे ‘अन्नात्परि०’ । शुक्रायेन्द्रेन्द्राणीरूपाधिदेवताप्रत्यधिदेवतास-
हिताय । ततः पश्चिमे ‘शन्नो देवी०’ । शनये यमप्रजापतिरूपाधिदेवताप्रत्यधिदेवतासहिताय । ततो नैर्ऋत्ये ‘कया न०’ । राहवे कालसर्परूपाधिदेवताप्रत्यधिदेवतासहिताय । ततो वायव्ये ‘केतुं कृण्वन्०’ ।केतवे चित्रगुप्तब्रह्मरूपाधिदेवताप्रत्यधिदेवतासहिताय । अथ वेद्युत्तरतो गणपत्यादिपञ्चकस्य ‘गणानान्त्वा०’ गणेशाय० । ‘अम्बे अम्बिके०’ दुर्गायै० । ‘आनो नियुद्भिः०’ वायवे० । ‘घृतं घृतपावानः०’ आकाशाय० । ‘यावाङ्कशा०’ अश्विभ्यां० । ततो वास्तोष्पतिबलिः —
‘वास्तोष्पते ? प्रतिजानीह्यस्मान्स्वावेशो अनमीवो भवा नः ।
यत्वेमहेप्रति तन्नो जुषस्व शन्नो भव द्विपदे शञ्चतुष्पदे॥
वास्तोष्पते० इत्यादि । ततो महाबलिं कुङ्कुमादिरक्तपुष्पादियुतं सदीपं सदक्षिणं क्षेत्रपालाय दद्यात् । ‘नहि स्पशम० देवाः’। क्षेत्रपालाय भूतप्रेतपिशाचराक्षसशाकिनीडाकिनीवेतालादिपरिवारयुताय इमं बलिं समर्पयामि । भो भो क्षेत्रपाल इमं बलिं गृहाण मम (यजमानस्य वा) आयुःकर्ता क्षेमकर्ता शान्तिकर्ता शुभकर्ता पुष्टिदस्तुष्टिदो भव । इमं बलिं शुद्रेण दुर्ब्राह्मणेन वा चतुष्पथे क्षिपेत् । ततः प्रक्षालितपाणिपाद आचम्य देशकालौ स्मृत्वा, ‘कृतस्य नवग्रहहोमस्य सम्पूर्णतासिध्यर्थं पूर्णाहुतिहोममहं करिष्ये' इति सङ्कल्प्य स्रुचि चतुर्गृहीतं द्वादशगृहीत्माज्यं गृहीत्वा वस्त्रयुतं नारिकेलादिफलं चन्दनमालादियुतं तदुपरि निधाय पूर्णाहुतिं यजमानान्वारब्ध आचार्योजुहुयात् । तत्र मन्त्राः — समुद्रादूर्मिरित्यष्टर्चस्यवामदेव ऋषिस्त्रिष्टुच्छन्दःयज्ञपुरुषो देवता पूर्णाहुतिहोमे विनियोगः ।ॐ ‘समुद्रादूर्मिः०’ ८ । पुनस्त्वेति प्रजापतिर्ऋषिस्त्रिष्टुप्छन्दः अग्निर्देवता पूर्णाहुतिहोमे विनियोगः । ॐ'पुनस्त्वा० १’॥ पूर्णादर्वीत्यौर्णवाभऋषिरनुष्टुप्छन्द इन्द्रो देवता पूर्णाहुतिहोमे विनियोगः । ॐ ‘पूर्णा दर्व्वि०’ १। सप्त ते अग्न इत्यस्य सप्तर्षय ऋषयःत्रिष्टुप्छन्दःअग्निर्देवता पूर्णाहुतिहोमे विनियोगः । ‘ॐ सप्त ते अग्ने०’ । धामन्त इति वामदेव-
ऋषिः जगतीच्छन्दः आपो देवता पूर्णाहुतिहोमे विनियोगः ‘ॐ धामन्ते०’ १ ।स्वाहाकारेणाग्नौप्रक्षिपेत् ।इदमग्नये वैश्वानराय वसुरुद्रादित्येभ्यः शतक्रतवे अग्नये अद्भ्यश्च न ममेति त्यागं कुर्यात् । ततो वसोर्धारामपि केचिदाहुः । तत्र क्रमः ।वह्नेरुपरि स्तम्भद्वयविधृतामौदुम्बरीं ऋज्वीमकोटरां बाहुप्रमाणामार्द्रांस्रुचं पूर्वग्रांनिधाय तदुपरि शृङ्खलावधृतेन निर्मलघृतपूरितेन ताम्रमृदादिकुम्भेनाधो यवमात्रच्छिद्रेणाज्यं विमुञ्चताऽग्नेरुपरि वसोर्धारां पातयेत् । तस्यां च घृतधारायां स्रुक्प्रणालिकयाऽग्नौ पतन्त्यां चमकाग्नेयादीनि सूक्तानि श्रावयेत् । आज्यं संस्कृत्य वसोर्धारार्थं स्रुचि पञ्चगृहीतग्रहणम् । तत्र वसोर्धारायां मन्त्राश्चमकानुवाकाः । मन्त्रान्तराण्यपि श्रूयन्ते ।
श्रावयेत्सूक्तमाग्नेयं वैष्णवं रौद्रमैन्दवम् ।
महावैश्वानरं चैव ज्येष्टसाम च पाठयेत्॥
ॐ व्वाजश्व मे प्र० व्वेट् स्वाहा ।अनुवाकाः ८ ।समास्त्वा० ।व्विष्णोर्नुकं व्वीर्याणि०।६ ।नमस्ते रुद्र० ।१६ ।अषाढं य़ुत्सु० ।४ ।आप्यायस्व समे० ३ ।महावैश्वानरं ज्येष्ठसाम च पठेत् । एवं वसोर्धारां निधाय अग्निंप्रदक्षिणीकृत्य पश्चात्प्राङ्मुख उपविशेत् । ततस्त्र्यायुषाणि करोति भस्मना ललाटे ग्रीवायांदक्षिणेंसे हृदि च त्र्यायुषमिति प्रतिमन्त्रम् । ततः संस्रवप्राशनम् ।पवित्राभ्यां मार्जनम् । पवित्रप्रतिपत्तिः । प्रणिताविमोकः । ब्रह्मणे पूर्णपात्रदानम् ।‘कृतस्य नवग्रहहोमस्य साङ्गतासिद्ध्यर्थं ब्रह्मणे इदं पूर्णपात्रदानं तुभ्यमहं संम्प्रददे’ इति दद्यात् । अथ श्रेयःसम्पादनम् । तदनन्तरं वरणक्रमेण ऋत्विज उदङ्मुखाः प्राङ्मुखयजमानहस्ते श्रेयःसम्पादनं कुर्वन्ति तच्चैवम्– ‘शिवा आपः सन्त्वि’ति यजमानहस्ते जलं क्षिपेत् । ‘सौमनस्यमस्त्वि’ति पुष्पम् । ‘अक्षतं चारिष्टं चास्त्वि’त्यक्षताः । ‘दीर्घमायुः शान्तिः पुष्टिस्तुष्टिश्चास्त्वि’ति पुनर्जलम् । मया भवन्नियोगेन ग्रहमखप्रीत्यर्थं यः कृतो जपः तद्दशांशेन यः कृतो होमः तस्माज्जपाद्धोमाच्च यज्जातं श्रेयः तत्तुभ्यमहं सम्प्रददे ।
अथाभिषेकः । तदनन्तरं ग्रहवेदीस्थापितवरुणकलशमादाय तदुदकेन दुर्वापञ्चपल्लवैरुदङ्मुख आचार्य ऋत्विजस्तिष्ठन्तः प्राङ्मुखं सकुटुम्बमुपविष्टं यजमानं वक्ष्यमाणमन्त्रैरभिषिंचेयुः । अभिषेकसमये वामभागे पत्नी । अभिषेकसमये गीतवादित्रमङ्गलघोषाः कार्याः। तत्र मन्त्राः । “आपोहिष्ठा० ।त्रिभिः ३ । त्रातारमिन्द्रम० । पञ्चभिः ५ । इमम्मे व्वरुण० । पञ्चभिः५ ।भग प्रणेत० ।१ ।इमा आपः०।१ ।समुद्राय त्वा० ।१ । पुनन्तु मा० । नवभिः ९ ।आप्यायस्व० ।१ ।पञ्च नद्यः० ।१ ।शिरोमे० ।चतसृभिः ४ । देवस्यत्वा० । त्रिभिः ३ । सोमस्य त्वा० । १ । “पालाशं भवति तेन ब्राह्मणोऽभिषिञ्चति ब्रह्म वै पलाशो ब्रह्मणैवैनमेतदभिषिञ्चति । १ । औदुम्बरं भवति तेन स्वोऽभिषिञ्चित्यन्नं वा ऊर्गुदुम्बर ऊर्ग्वैस्वं य़ावद्वैपुरुषस्य स्वं भवति नैव तावदशनायति तेनोऽर्क्यस्तस्मादौदुम्बरे स्वोऽभिषिञ्चति । २ । नैयग्रोधपादं भवति तेन मित्र्यो राजन्योऽभिषिञ्चति पद्भिर्वै न्यग्रोधः प्रतिष्ठितो मित्रेण वै राजन्यः प्रतिष्ठितस्तस्मान्नैय्यग्रोधपादेन मित्र्यो राजन्योऽभिषिञ्चति । ३ । आश्वत्थं भवति तेन व्वैश्योऽभिषिञ्चति स य़देवादोऽश्वत्थे तिष्ठतीन्द्रो मरुत उपामन्त्रयत तस्मादाश्वत्थेन व्वैश्योऽभिषिञ्चति । ४ । सर्वसुरभ्युन्मर्द्दनं भवति परमो वा एष गन्धो य़त्सर्वसुरभ्युन्मर्दनं गन्धेनैवैनमेतदभिषिञ्चति ।५ ।यद्वेव कल्यां जुहोति प्राणा वै कल्या अमृतमु वै प्राणा अमृतेनैवैनमेतदभिषिञ्चति ।६ ।सर्व्वेषां वा एषव्वेदाना<MISSING_FIG href="../books_images/U-IMG-1697856416Screenshot(14"/>.png)रसो य़त्साम सर्वेषामेवैनमेतद्वेदाना<MISSING_FIG href="../books_images/U-IMG-1697856416Screenshot(14"/>.png)रसेनाभिषिञ्चति । ७ ।अन्येऽपि स्वशाखोक्ता मन्त्रा ग्राह्याः ।
पौराणास्तु—
सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः ।
वासुदेवो जगन्नाथस्तथा सङ्कर्षणो विभुः॥
प्रद्युम्नश्चानिरुद्धश्चभवन्तु विजयाय ते ।
आखण्डलोऽग्निर्भगवान्यमो वै निर्ऋतिस्तथा॥
वरुणःपवनश्चैव धनाध्यक्षस्तथा शिवः ।
ब्रह्मणा सहिताः सर्वे दिक्पालाः पान्तु ते सदा॥
कीर्त्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया मतिः ।
बुद्धिर्लज्जा वपुः शान्तिः पुष्टिः कान्तिश्च मातरः॥
एतास्त्वामभिषिञ्चन्तु देवपत्न्यः समागताः ।
आदित्यश्चन्द्रमा भौमो बुधजीवसितार्कजः॥
ग्रहास्त्वामभिषिञ्चन्तु राहुः केतुश्च तर्पिताः ।
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः॥
ऋषयो मनवो गावो देवमातर एव च ।
देवपत्न्योद्रुमा नागादैत्याश्चाप्सरसां गणाः॥
अस्त्राणि सर्वशस्त्राणि राजानो वाहनानि च ।
औषधानि च रत्नानि कालस्यावयवाश्च ये॥
सरितः सागराः शैलास्तीर्थानि जलदा नदाः ।
एते त्वामभिषिञ्चन्तु सर्वकामार्थसिद्धये॥
एवमभिषेकानन्तरं सर्वौषधिभिरनुलिप्य शुद्धोदकेन स्नात्वा शुक्लमाल्यानुलेपनधरः सपत्नीको यजमानोऽग्नेःपश्चिमभागे प्राङ्मुखोपविष्ट उदङ्मुखानाचार्यादीन्पूजयित्वा दक्षिणां दद्यात् । तद्यथा तत्र सूर्याय कपिलां दद्यात् । ततः पूजादिकं विधाय कुशयवजलान्यादाय—
ॐकपिले सर्वभूतानां पूजनीयाऽसि रोहिणी ।
तीर्थदेवमयी यस्मादतः शान्तिं प्रयच्छ मे॥
इति मन्त्रं पठित्वा अद्येत्यादिसमयमुच्चार्य ‘कृतैतद्ग्रहयज्ञप्रतिष्ठार्थंइमां कपिलां धेनुं रुद्रदैवतां अमुकगोत्रायामुकशाखाध्यायिने अमुकशर्मणे ब्राह्मणाय दक्षिणां सम्प्रददे ।तेन श्रीसूर्यः प्रीयताम्’ इति वदन् ऋत्विक्करे जलं क्षिपेत् । ब्राह्मणस्तु ‘स्वस्ती’त्युक्त्वा ‘कोदात्कस्मा अदादि’ति पठेत् । ततः सोमाय शङ्खम् । ततः पुजादिकं विधाय कुशादीनादाय—
ॐपुण्यस्त्वं शङ्ख ! पुण्यानां मङ्गलानां च मङ्गलम् ।
विष्णुना च धृतो नित्यमतः शान्तिं प्रयच्छ मे॥
इति पठित्वा अद्येत्यादि ‘इमं विष्णुदैवतं अमुकगोत्राये’त्यादि ‘सम्प्रददे’ इत्यन्तमुक्त्वा ‘सोमः प्रीयतामि’ति ऋत्विक्करे जलं क्षिपेत् । ब्राह्मणस्तु ‘देवस्य त्वा० हस्ताभ्यां प्रतिगृह्णामी, त्युक्त्वा ‘कोदात्कस्मा० ॐ स्वस्ती’ति वदेत् । ततो भौमाय वृषभम् । ततो वृषभ सम्पूज्य कुशादीनादाय—
ॐ धर्मस्त्वं वृषरूपेण जगदानन्दकारकः ।
अष्टमूर्त्तेरधिष्ठानमतः शान्तिम्प्रयच्छ मे॥
इति पठित्वा, अद्येत्यादि ‘इमं रक्तवृषभं ककुदान्वितं अमुकगोत्राये’त्यादि ‘सम्प्रददे भौमः प्रीयता’मिति ऋत्विक्करे जलं क्षिपेत् । ब्रह्मणस्तु ‘देवस्य० प्रतिगृह्णामी’त्युक्त्वा ‘कोदादिति ॐ स्वस्तीति’ वदेत् । बुधाय सुवर्णम् । हिरण्यपूजादिकं विधाय—
ॐ हिरण्यगर्भगर्भस्त्वं हेम ! बीजं विभावसोः ।
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे॥
इति पठित्वा, अद्येत्यादि ‘इमं सुवर्णं अग्निदैवतं०’ । शेषं पूर्ववत् । गुरवे पीतवस्त्रम् ।पूजादिकं विधाय—
ॐ पीतवस्त्रयुगं यस्माद्वासुदेवस्य बल्लभम् ।
प्रदानात्तस्य मे विष्णो ! अतः शान्तिं प्रयच्छ मे॥
अद्येत्यादि ‘इदं वस्त्रयुगं बृहस्पतिदैवतं०’ ।शेषं पूर्ववत् । शुक्राय श्वेताश्वम् ।अश्वपूजादिकं विधाय—
ॐ विष्णुस्त्वमश्वरूपेण यस्मादमृतसम्भवः ।
चन्द्रार्कवाहनो नित्यमतः शान्तिं प्रयच्छ मे॥
इति पठित्वा ‘इदं श्वेताश्वं वरुणदैवतं गोत्राये’ति पूर्ववत् । शनैश्चरायकृष्णा गौः। पूजादिकं विधाय—
ॐ यस्मात्त्वं पृथिवी सर्वा धेनुःकेशववल्लभा ।
सर्वपापहरा नित्यमतः शान्तिं प्रयच्छ मे॥
इति पठित्वा, अद्येत्यादि ‘इमां गां रुद्रदैवतां अमुकगोत्राये’ति पूर्ववत् ।राहवे आयसम् । ततो लोहपूजादि ।
ॐ यस्मादायस ? कर्माणि तवाधीनानि सर्वदा ।
हलार्गलायुधादीनि अतः शान्तिं प्रयच्छ मे॥
इति पठित्वा, अद्येत्यादि ‘इदमायसं विष्णुदैवतं’ शेषं पूर्ववत् । केतवेच्छागम् । ततः पूजादिकं विधाय—
ॐ यस्मात्त्वंसर्वयज्ञानामङ्गत्वेन व्यवस्थितः ।
यानं विभावसोर्नित्यमतः शान्तिं प्रयच्छ मे॥
इति पठित्वा, अद्येत्यादि ‘इमंछागं अग्निदैवतं०’ शेषं पूर्ववत् । एता दक्षिणा आदित्यदक्षिणाधेनोर्यावता मूल्येन न्यूना भवन्ति तावन्मौल्यसौवर्णन्तस्यास्तस्याः पूरणीयम् । तत्तन्मन्त्रेणैव दातव्यम् । न च सुवर्णस्य मन्त्रः पठनीयः । अयं मुख्यो दक्षिणाकल्पः ।अनुकल्पन्तु अदित्यादिभ्यो दक्षिणां ऐकैकां गां सुर्वणभूषितां दद्यात् । तद्दानमन्त्रः—
गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश ।
यस्मात्तस्माच्छिवं मे स्यादिह लोके परत्र च॥
अद्येत्यादि ‘एकां गां रुद्रदैवतां सुवर्णभूषिताममुकगोत्रायामुकशाखाध्यायिने अमुकशर्मणेब्राह्मणाय तुभ्यमहं सम्प्रददे ।श्रीसूर्यः प्रीयताम् ’ ।अथ वा सर्वेभ्यः सुवर्णं दद्यात् । ततो यजमानोऽग्निं प्रदक्षिणीकृत्य वेदिसमीपे गत्वा ग्रहपीठदेवतानां गन्धाद्युपचारैः उत्तरपूजांप्रदक्षिणां नमस्कारं निर्वर्त्य पुष्पांजलिं दत्वा—
विरञ्चिनारायणशङ्करेभ्यः
शचीपतिस्कन्दविनायकेभ्यः॥
लक्ष्मीभवानीकुलदेवताभ्यो
नमोऽस्तु दिक्पालनवग्रहेभ्यः॥
आदित्यसोमौ बुधभार्गवौच
शनैश्चरो वा गुरुलोहिताङ्गौ॥
प्रीणन्तु सर्वे सहराहुकेतुभिः
सर्वे ग्रहाः शान्तिकरा भवन्तु॥
आवाहनं न जानामि० । अपराधसहस्राणि० यस्य स्मृत्या च० ।
मन्त्रहीनं क्रियाहीनमिति पठित्वा क्षमाप्य,
यान्तु देवगणाः सर्वे पूजामादाय पार्थिवीम् ।
इष्टकामप्रसिद्ध्यर्थं पुनरागमनाय च॥
न्यूनातिरिक्तान्यपरिस्फुटानि
यानीहकर्माणि मया कृतानि॥
क्षम्यानि चैतानि मम क्षमस्व
प्रयाहि तुष्टः पुनरागमाय॥
आचार्यःपुष्पाञ्जलिं दत्वा ‘उत्तिष्ठ ब्रह्मणस्पते०’ । पुष्पाक्षतप्रक्षेपेण ग्रहपीठदेवता विसृज्य ग्रहपीठं चोपस्कारयुतमाचार्याय दत्त्वा अग्निंसम्पूज्य ‘व्वयँ हि त्वा प्र० । अनु वीरै० । य़ज्ञ य़ज्ञं गच्छ० ।
गच्छ त्वं भगवन्नग्ने ! स्वस्थानं कुण्डमध्यतः ।
हव्यमादाय देवेभ्यः शीघ्रं देहि प्रसीद मे॥
गच्छ गच्छ सुरश्रेष्ठ ? स्वस्थाने परमेश्वर ? ।
यत्र ब्रह्मादयो देवास्तत्र गच्छ हुताशन ?॥
अग्निं विसृज्य, ततः ‘कृतस्य नवग्रहमखस्य कर्मणः सम्पूर्णतासिध्यर्थं यथोपपन्नेन्नान्नेन यथाकालं नानानामगोत्रान् नानाशर्मणःद्वात्रिंशत्संख्याकान् ब्राह्मणान् भोजयिष्ये’ इति संकल्पयेत् । भूरिदक्षिणासङ्कल्पानन्तरं वा ब्राह्मणभोजनसङ्कल्पः । ततो ‘ब्रह्मार्पणं ब्रह्म हविः० । चतुर्भिश्चतुर्भिश्च’त्युक्त्वा ‘मया यत्कृतं यथाकालंयथादेशं यथाज्ञानं यथाशक्ति नवग्रहमखाख्यं कर्म तेन श्रीपरमेश्वरः प्रीयताम्, तत्सद्ब्रह्मार्पणपस्त्वि’ति कुशजलं क्षिपेत् । ततः सदस्यांश्चन्दनाक्षतवस्त्रताम्बूलदक्षिणाभिः पूजयित्वा अञ्जलिं बध्वा ‘मया यत्कृतं नवग्रहशान्तिकर्म तत्कालहीनं भक्तिहीनं श्रद्धाहीनं भवतां ब्राह्मणानां प्रसादात्सर्वंपरिपूर्णमच्छिद्रं चास्तु’ इति प्रार्थयेत् । ततः ‘सम्पूर्णमस्त्वि’ ति वदेयुः सर्वे ।
जपच्छिद्रं तपछिच्द्रं यच्छिद्रं व्रतकर्मणि ।
सर्वंभवतु मेऽच्छिद्रं ब्राह्मणानां प्रसादतः॥
ततस्तेषां मन्त्राशिषो गृहीत्वा तांस्तान्सानुनयं विसर्ज्य ब्राह्मणान्भोजयित्वा दीनानाथांश्चान्नादिना सन्तोष्य स्वयं सुहृन्मित्रादियुतः सोत्साहः सन्तुष्टो हविष्यं भुञ्जीतेति । प्रतिकूलग्रहपूजा तत्तद्वासरे कर्तव्या राहुकेत्वोः पृथग्वासराभावान्मन्दवारो ग्राह्यः ।
शन्यादीन्मन्दवारे तु पूजयेत्प्रयतो नरः ॥ इति ।
एवं कुर्वतः फलं मात्स्ये—
विधिना यस्तु ग्रहपूजां समाचरेत् ।
सर्वान्कामानवाप्नोति प्रेत्य स्वर्गे महीयते ॥
अन्नहीनो दहेद्राष्ट्रं मन्त्रहीनस्तु ऋत्विजः ।
यजमानमदक्षिण्यो नास्ति यज्ञसमो रिपुः ॥
इति श्री प्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्र-
विवरणेसंस्कारगणपतौ ग्रहमखः समाप्तः ।
<MISSING_FIG href="../books_images/U-IMG-1696310933Screenshot(39"/>.png)
अत्र क्रमप्राप्तसर्वसाधारणमधुपर्कविधिमाह ।
तृतीयाकाण्डिका
षडर्घ्याभवन्त्याचार्य़ऋत्विग्वैवाह्यो राजा प्रियः स्नातक इति प्रतिसंवत्सरानर्हयेयुर्य़क्ष्यमाणास्त्वृस्विज आसनमाहार्य़ाह साधु भवानास्तामर्चयिष्यामो भवन्तमित्याहरन्ति विष्टरं पद्यं पादार्थमुदकमर्घमाचमनीयं मधुपर्कं दधिमधुघृतमपिहितं का<MISSING_FIG href="../books_images/U-IMG-1696311498Screenshot2023-09-28122656.png"/>स्ये का<MISSING_FIG href="../books_images/U-IMG-1696311498Screenshot2023-09-28122656.png"/>स्येनान्यस्त्रिस्त्रिःप्राह विष्टरादीनि विष्टरं प्रतिगृह्णाति व्वर्ष्मोऽस्मि समानानामुद्यतामिव सूर्यः । इमन्तमभितिष्ठामि य़ोमा कश्चाभिदासतीत्येनमभ्युपविशति पादयोरन्यं विष्टर आसीनाय सव्यं पादं प्रक्षाल्य दक्षिणं प्रक्षालयति ब्राह्मणश्चेद्दक्षिणं प्रथमं व्विराजो दोहोऽसि व्विराजो दोहमशीय मयि पाद्यायै व्विराजो दोह इत्यर्घं
प्रतिगृह्णात्यापःस्थ य़ुष्याभिः सर्वान्कामानवाप्नवानीति निनयन्नभिमन्त्रयतेसमुद्रं वः प्रहिणोमि स्वां य़ोनिमभिगच्छत ।अरिष्टा अस्माकं वीरा मा परासेचि मत्पयइत्याचामत्यामागन्यशसा स<MISSING_FIG href="../books_images/U-IMG-1696311854Screenshot2023-09-28122413.png"/>सृज व्वर्च्चसा ।तम्मा कुरु प्रियं प्रजानामधिपतिं पशूनामरिष्टिन्तनृनामिति मित्रस्यत्वेति मधुपर्क्कंप्रतीक्षते देवस्य त्वेति प्रतिगृह्णाति सव्ये पाणौ कृत्वा दक्षिणस्यानामिकया त्त्रिः प्रयौति नमः श्यावास्यायान्नशने य़त्तआविद्धन्तत्ते निष्कृन्तामीत्यनामिकाङ्गुष्ठेन च त्रिर्न्निरुक्षपति तस्य त्रिः प्राश्नाति य़न्मधुनो मधव्यं परम<MISSING_FIG href="../books_images/U-IMG-1696311854Screenshot2023-09-28122413.png"/>रूपमन्नाद्यम् ।तेनाहम्मधुनो मधव्येन परमेण रूपेणान्नाद्येन परमो मधव्योऽन्नादोऽसानीति मधुमतीभिर्वा प्रत्य़ृचं पुत्रायान्तेवासिने वोत्तरत आसीनायोच्छिष्टं दद्यात्सर्व्वंवा प्राश्नीयात्प्रारवाऽसञ्चरे निनयेदाचम्य प्राणान्त्संस्मृशति वाङ्म आस्ये नसोः प्राणोऽक्षणोश्चक्षुः कर्णयोः श्रोत्रं बाह्वोर्बलमूर्वोरोजोऽरिष्टानि मेऽङ्गानि तनूस्तन्वा मे सहेत्याचान्तोदकाय शासमादाय गौरिति त्रिः प्राह प्रत्याह माता रुद्राणां दुहिता वसूना<MISSING_FIG href="../books_images/U-IMG-1696312318Screenshot2023-09-28122656.png"/>स्वसाऽदित्यानाममृतस्य नाभिः । प्रनुवोचञ्चिकितुषे जनाय मा गामनागामदितिं वधिष्ट । मम चामुष्य च पाप्मान<MISSING_FIG href="../books_images/U-IMG-1696311854Screenshot2023-09-28122413.png"/>हनोमीति य़द्यालभेताथ य़द्युत्सिसृक्षेन्मम चामुष्य च पाप्मा हत ॐ मुत्सृजत तृणान्यविति ब्रूयान्न त्त्वेवामा<MISSING_FIG href="../books_images/U-IMG-1696312318Screenshot2023-09-28122656.png"/>सोऽर्घः स्यादधियज्ञमधिविवाहं कुरुतेत्येव ब्रूयाद्यद्यप्यसकृत्संवत्सरस्य सोमेन य़जेत कृतार्घ्याएवैनं य़ाजयेयुर्नाकृतार्घ्या इति श्रुतेः ॥ ३ ॥
“षड़र्घ्या भवन्ति” इति सूत्रम् ।अर्ह पूजायामिति धातोर्भावे घञ् प्रत्ययः । न्यङ्क्वादित्वात्कुत्त्वम् । दण्डादिभ्यो यदिति यत्प्रययः । अर्धमर्हन्तीत्यर्ध्याः षट्
पुरुषा अर्घार्हाभवन्तीत्यर्थः । तानाह “आचार्य ऋत्विक्वैवाह्य़ोराजाप्रियः स्नातक” इति सूत्रम् । उपनयनपूर्वककृत्स्त्रवेदाध्यापयिता आचार्यः । ऋत्विक् यो दक्षिणया परिक्रीतः कर्माणि करोति । वैवाह्य़ोजामाता । राजा दण्डपूर्वकं परिपालनकर्ता ।प्रियो य इष्ट उत्कृष्टजातिः समानजातिर्वा । स्नातको ब्रह्मचर्यात्समावृतः । तस्य चार्हणमाचार्यकर्तृकं स्मृतम् । उक्तं च मनुना—
तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः ।
स्रग्विणं तल्पमासीनमर्हयेत्प्रथमं गवा॥इति ॥
सूत्रे षट्ग्रहणं प्रियस्नातकयोः पृथक्करणार्थम् । “प्रतिसंवत्सरानर्हयेयुः" इति सूत्रम् । प्रतिसंवत्सरे गृहे आगतानाचार्यादीन् अर्घेणार्चयेयुः । न संवत्सरादर्वाक् । प्रतिसंवत्सरानर्हयेयुरित्याविशेषेणोक्तत्वादृत्विजोऽपि संवत्सरान्तेऽर्हयितव्या इति प्राप्ते आह - “य़क्ष्यमाणास्त्वृत्विजः” इति सूत्रम् । ‘ऋत्विजस्तु यक्ष्यमाणा यागकाल एव पूजनीयाः न ततोऽन्यत्र’ एवं गदाधरेण व्याख्यातम् । इदमेव सूत्रं हरिहरमिश्रेणान्यथा व्याख्यातम् – ‘यज्ञं करिष्यन्तो यजमानाः ऋत्विजो याजकानि’ति । पूजनीया उक्ताः कालश्च । आश्वलायनोऽपि “ऋत्विजो वृत्वा मधुपर्कमाहरेत्स्नातकायोपस्थिताय राज्ञे चाऽऽचार्याय श्वशुरपितृव्यमातुलानां चेति” । इदानीमर्हणप्रकारमाह - “आसनमाहार्य़ाह साधु भवानास्तामर्चयिष्यामो भवन्तम्” इति सूत्रम् ।अर्ध्यायासनं पीठादि आसनमाहरेतिप्रैषपूर्षकं अनुचरद्वाराऽऽनाय्य साधुभवानित्यर्घयिता अर्घ्यंप्रतिवदति । अर्घ्यं प्रत्यध्येषणमेतत् । “आहरन्ति विष्टरं पद्यं पादार्थमुदकमर्धमाचमनीयं मधुपर्कं दधि मधु घृतमपिहितं काँस्ये काँस्येने”ति सूत्रम् ।बहुवचनादर्धयितुः पुरुषा विष्टरादीनि आहरन्ति । तत्र विष्टरलक्षणं वीरमित्रोदये—
कतिमिस्तु भवेद्ब्रह्मा कतिभिर्विष्टरो मतः ।
परिशिष्टे—
पञ्चाशता भवेद्ब्रह्मा तदर्धेन तु विष्टरः॥
ऊर्ध्वकेशो भवेद्ब्रह्मा लम्बकेशस्तु विष्टरः ।
दक्षिणावर्त्तको ब्रह्मा वामावर्तस्तु विष्टरः॥
ऊर्ध्वकेशःऊर्ध्वाग्रः।लम्बकेशः तिर्यगग्रः। दक्षिणावर्तको ग्रन्थिरिति विशेषः । परिशिष्टान्तरेऽपि—
**पञ्चविंशतिदर्भाणां वेण्यग्रे ग्रन्थिभूषितम् ।
विष्टरं सर्वयज्ञेषु लक्षणं परिकीर्तितम्॥**इति ।
विष्टरस्त्रिवृदरत्निमात्र इति गदाधरः ।कौशो रज्जुविशेष इति भर्तृयज्ञः ।
प्रादेशमात्रं त्रिवृतं कौशं वा काशनिर्मितम् ।
विष्टरं सूरयः प्राहुरलाभे वल्बजादिकम्॥
इति रेणुः। पञ्चविंशतिदर्भतरुणमयं कूर्चमिति हरिहरः ।
गृह्यकारिकायाम्—
यज्ञवास्तुनि मुष्टौ च स्तम्भे दर्भबटौ तथा ।
दर्भसंख्या न विहिता विस्तरास्तरणेषु च॥ इति ।
पादयोरन्यमिति वचनादत्र द्वयोराहरणमिति भर्तृयज्ञः । पद्यं पादयोरधस्तान्निधानार्थे विष्टरमिति गदाधरः ।भर्तृयज्ञमते तु पादप्रक्षालनार्थमुदकं पद्यशब्देन । पादार्थमुदकं पादप्रक्षालनार्थं जलं सुखोष्णम् । अर्धम् । अर्धशब्देनोदपात्रमेवोच्यते । अर्धं हस्तप्रक्षालनार्थजलमिति वीरमित्रोदयकारः । उदकगन्धपुष्पाण्यक्षतबदरणीति भर्तृयज्ञः । गन्धपुष्पाक्षतकुशतिलशुभ्रसर्षपदधिदूर्वान्वितं सुवर्णादिपात्रस्थमुदकमिति हरिहरः । आचमनीयम् –आचमनार्थमुदकमेव । दधिमधुघृतमेकस्मिन्कांस्यपात्रे कृतमपरेण कांस्यपात्रेणापिहितं मधुपर्कशब्देनोच्यते । मधुपर्के दध्यलाभे पयो जलं वा प्रतिनिधिरिति गदाधरः । मध्वलाभे घृतं गुडो वेत्याश्वलायनः ।त्रितयमपि समुच्चितमिति हिरण्यकेशिनः । तथा च तत्सूत्रम्–“अथास्मा आवसथं कल्पयित्वाऽर्ध इति प्राह कुरुतेति प्रत्याह कुर्वन्त्यस्मै त्रिवृतं पांक्तंवा दधि मधु घृतमिति त्रिवृद्दधि मधु घृतमापःसक्तव
इति पाङ्क्तः” । अथैषां तौल्यमाह—
आज्यमेकं पलं ग्राह्यं दध्नस्त्रिपलमेव च ।
मधुनः पलमेकन्तु मधुपर्कः स उच्यते॥
बासोयुगलं चन्दनपुष्पाणि यज्ञोपवीतमलङ्काराणिएतान्युपकल्प्य ।मनुः—
द्विराचम्य समासीनः कर्ता प्रत्यङ्मुखो वरम् ।
प्राङ्मुखन्तु समासीनं मधुपर्केण पूजयेत्॥
“अन्यस्त्रिस्त्रिःप्राह विष्टरादीनि” इति सूत्रम् ।अर्चयितुर्व्यतिरिक्तोऽन्यो विष्टरादीनि द्रव्याणि त्रिस्त्रिर्वारत्रयं वदति । “विष्टरो विष्टरो विष्टरः प्रतिगृह्यतामि"ति सकृत् । ततो वरः अर्धयितुः सकाशात् विष्टरं प्रतिगृह्णाति । “व्वर्ष्मोऽस्मि समानानामुद्यतामिव सूर्यः । इमन्तमभितिष्ठामि य़ोमा कश्चाभिदासती"त्येनमभ्युपविशति । ततोऽर्चयितुः सकाशाद्विष्टरं तूष्णीमेव प्रतिगृह्य तं विष्टरमासने निधाय “व्वर्ष्मोस्मि” इति मन्त्रेणोपविशति । ग्रहणोपवेशनयोर्मध्ये पठितोऽपि मन्त्र इमन्तमभितिष्ठामीति लिङ्गादुपवेशने विनियुज्यते । उक्तं च गृह्यकारिकायाम्—
अर्ध्यायार्घयिता तस्मै विष्टरं तं प्रयच्छति ।
तूष्णीं स प्रतिगृह्णीयादुदगग्रं तमासने॥
निधायोपविशेत्तस्मिन्वर्ष्मोस्मीत्यादिमन्त्रतः ।
अन्तरा पठितो मन्त्र उपादानोपवेशने॥
अपि चेन्मत्रलिङ्गात्स नियोज्य उपवेशने॥
‘पाणिभ्यां विष्टरप्रतिग्रहः’ इति हरिहरमिश्रः । तत्र प्रमाणमन्वेषणीयम् । मन्त्रार्थः– अर्घ्यआत्मानं स्तौति अर्धत्वाय कुलाचारवपुर्वयोगुणैरहं समानानां सजातीयानां मध्ये वर्ष्मः श्रेष्ठः अस्मि भवामि । उद्यतां– उदयं प्रकाशं कुर्वतां ग्रहनक्षत्रादीनां मध्ये सूर्य इव । किं च इमं विष्टरं पुरुषमुद्दिश्य विष्टराद्बाह्यमभिलक्षीकृत्य तिष्ठाभ्यधः कृत्वा पर्युपविशामि । यः कश्चन मा मां अभिदासति उपक्षीणंकर्तुमिच्छति । दसु उपक्षये । “पादयोरन्यं विष्टर आसीनाय” इति सूत्रम् ।विष्टरे आसीनायोप-
विष्टायार्घ्याय पादयोरधस्तान्निधानार्थमन्यं विष्टरं ददाति । एतच्च पादप्रक्षालनोत्तरं द्रष्टव्यम् । तथा सति दृष्टार्थःस्यात् । प्रक्षाल्य हि पादौविष्टरे क्रियेत इति । तेनार्थेन पाठो बाधितः । पाठक्रमादर्थक्रमो बलीति न्यायात् ।“सव्यं पादं प्रक्षाल्य दक्षिणं प्रक्षालयति ब्राह्मणश्चेद्दक्षिणं प्रथमं व्विराजो दोहोऽसि व्विराजो दोहमशीय मयि पाद्यायै व्विराजो दोहः” इति सूत्रम् ।ततः पाद्यं प्रतिगृह्य विराजो दोहोऽसीति मन्त्रेण सव्यं पादं प्रक्षाल्य दक्षिणं प्रक्षालयति क्षत्रियादिरर्ध्यऽश्चेद्ब्राह्मणोऽर्घ्यःस्यात्तदा दक्षिणं पादं प्रथमं प्रक्षाल्य ततः सव्यं प्रक्षालयति । तेन च पादौ प्रक्षालयेद्वरस्य कन्यादाता ।स्वयं प्रक्षालयेदिति रेणुः । तदुक्तं गृह्यकारिकायाम्—
एवं पादार्थमुदकं त्रिः सकृत्प्रतिगृह्यताम् ।
विराज इति मन्त्रेण तद्गृहीत्वोदकं वरः॥
पादौ प्रक्षालयेत्तूष्णीं स तेन स्वयमात्मनः ।
मन्त्रार्थः- प्राणधारणादिगुणैः सकलसाहित्येन विविधतया राजतइति विराट् अन्नं तस्या विराजो दोहः परिणामः सारो रसः स त्वं असि भवसि । हे उदक तत्त्वं विराजो दोहं अशीय अश्नुवै व्याप्नुयाः । किं च मयि विषये या पाद्या पादयोः साध्वी सपर्या तस्यै तदर्थं विराजो दोहः मन्त्रसंस्कृतं जलं भवेति शेषः । “अर्घंप्रतिगृह्णात्यापः स्थ युष्माभिः सर्वान्कामानवाप्नवानीति” सूत्रम् ।अर्घ्यःसमर्पितं अर्घं प्रतिगृह्णाति “आपःस्थ युष्माभि”रिति मन्त्रेण । उक्तं च गृह्यकारिकायाम्—
अभूमयाऽर्घपात्रस्थमर्घं तस्मै प्रयच्छति ।
तं गृह्णाति स पश्चादापः स्थ युष्माभिमन्त्रतः॥
हे आपः? आपःस्थ आप्तिहेतवो भवथ ।युष्माभिः कृत्वा सर्वान् कामान् अभीष्टार्थान् आप्नवानि लभेयम् । “निनयन्नभिमन्त्रयते समुद्रं वः प्रहिणोमि स्वां योनिमभिगच्छथ ।अरिष्टा अस्माकं वीरा मा परासेचि मत्पय” इति सूत्रम् ।तमर्धंभूमौ निनयन् प्रापयन्नभिमन्त्रयते
समुद्रं व इति मन्त्रेण । ननु मन्त्रान्ते अर्धं शिरसाऽभिवन्द्य प्रागुदग्वा निनयनमिति वासुदेवः । तथा च रेणुः—
मूर्ध्ना तमाभिवन्द्यार्घं निनयन्नभिमन्त्रयेत् ।
प्रागुदग्वा समुद्रं वः प्रहिणोमीति मन्त्रतः॥
जलं तदर्घशब्देन लिङ्गादेवावगम्यते ।
मन्त्रार्थः— हे आपः ? वो युष्मान् समुद्रं प्रहिणोमि गमयामि । अतः स्वां योनिं स्वकारणभूतं समुद्रं अभिलक्षीकृत्य गच्छत । किञ्च युष्मत्प्रसादाच्चास्माकं वीराः पुत्राः भ्रातरः अरिष्टाः अहताः सन्तु ।मत्तः पयः अर्घादिमङ्गलजलं मा परासेचिअपगतं माऽस्तु ।सदैवाहमर्घ्योभवानीत्यर्थः । “आचामत्यामागन्यशसासँसृज व्वर्चसा ।तं मा कुरु प्रियं प्रजानामधिपतिं पशूनामरिष्टिं तनुनामि"ति सूत्रम्। ततो दत्तमाचमनीयं प्रतिगृह्य “आमागन्नि"ति आचामति सकृद्भक्षयति । ततः स्मार्ताचमनम् । मन्त्रार्थः–हे वरुण जलेश ? तमेवंरूपेण त्वामाश्रितं मा मां यशसा सहभावं सामीप्यं वा आगन् आगमय । आङुपसर्गो अगन्निति क्रियापदेन सम्बध्यते । तथा वर्चसा ब्रह्मवर्चसेन संसृज संसृष्टं कुरु । किञ्च प्रजानां पुत्रपौत्रादीनां प्रियं पशुनां गोऽश्वादीनां अधिपतिं स्वामित्वेन च तथा तनूनां देहावयवानां शरीराणां चारिष्टं अहिंसकं कुरु । हिंसाऽत्र—
अनभ्यासेन वेदानामाचारस्य च लङ्घनात् ।
आलस्यादन्नदोषाच्च मृत्युर्विप्रान् जिघांसति॥
इत्यादि दर्शिता । “मित्रस्य त्वेति मधुपर्कं प्रतीक्षते” इति सूत्रम् ।ततोऽर्ध्योऽर्घयितुर्हस्तस्थितमुद्घाटितं मधुपर्कं मित्रस्य त्वेति प्राशित्रमन्त्रेण प्रतीक्षते पश्यतीत्यर्थः। “देवस्य त्वेति प्रतिगृह्णातीति” सूत्रम् । ततो देवस्य त्वेति प्राशित्रप्रतिग्रहणमन्त्रेण मधुपर्कं प्रतिगृह्णाति । “सव्ये पाणौ कृत्वादक्षिणस्यानामिकया त्रिः प्रयौति नमः श्यावास्यायान्नशने य़त्त आविद्धं तत्ते निष्कृन्तामीति” सूत्रम् । अत्र सव्यहस्तस्थितस्यैव दक्षिणस्यानामिकया त्रिर्लोडनं यथा स्यादित्येतदर्थं दक्षिणग्रहणम् ।
मन्त्रार्थः -हे अग्ने ? तुभ्यं नमः ।किंभूताय श्यावास्याय कपिशमुखाय ते तव अन्नशने अद्यत इत्यन्नं तस्याशने अदनीये मधुपर्के ह्रस्वश्छान्दसः । यद्रव्यं आविद्धं संश्लिष्टं अनदनीयं तन्निष्कृन्तामि निरस्यामि । “अनामिकाङ्गुष्ठेन च त्रिर्निरुक्षयति” सूत्रम् ।अनामिका च अङ्गुष्ठश्च इत्यनामिकाङ्गुष्ठं तेनानामिकाङ्गुष्ठेन वारत्रयं निरुक्षयति मधुपर्कैकदेशं पात्राद्बहिःप्रक्षिपति इति । च शब्दात्प्रतिसंयवनं निरुक्षणम् । एवं च निरुक्षणव्यवधानात्प्रतिसंयवनं मन्त्रावृत्तिः । तथा च गृह्यकारिकायाम् -
**त्रिरेवानामिकाङ्गुष्ठेन तत्स्थस्य निरुक्षयति ।
निरुक्षेत्प्रत्युत्पवनं च शब्दकरणादिह॥
मन्त्रावृत्तिर्भवेत्प्रत्युच्चालनव्यवधानतः॥**इति ।
“तस्य त्रिः प्राश्नाति य़न्मधुनो मधव्यं परमँरूपमन्नाद्यम् ।तेनाहं मधुनो मधव्येन परमेण रूपेणान्नाद्येन परमो मधव्योऽन्नादोऽसानीति" इति सूत्रम् ।मधुपर्कपात्रं भूमौ निधाय ।तस्येत्यवयवलक्षणा षष्ठी। तस्य मधुपर्कस्य त्रिः प्राश्नीया ‘धन्मधुनोमधव्य’मित्यनेन मन्त्रेण । प्राशनत्रयेऽपि हविग्रहणन्यायेन मन्त्रावृत्तिः ।उच्छिष्टस्यैव मन्त्रोच्चारणम् । तथाचोक्तं गृह्यकारिकायाम्—
भूमौ निधाय तत्पात्रं सर्वंमधुन इत्यतः ।
आवृत्तिःप्रतिभक्षं स्यान्मन्त्रस्य द्रव्यभेदतः॥
उच्छिष्टस्य भवेन्मन्त्रोच्चारणं मनुरब्रवीत् ।
गदाधरभाष्येप्युक्तम्—
ताम्बूलेक्षुफले चैव भुक्तस्नेहानुलेपने ।
मधुपर्के च सोमे च नोच्छिष्टं मनुरब्रवीत्॥
ननु ‘एकद्रव्ये कर्मावृत्तौ सकृन्मन्त्रपाठ’ इति कात्यायनपरिभाषाऽतो द्रव्यत्रयं दधिमधुघृतं तेनादोषः । मन्त्रार्थः -हे देवाः ? मधुनः मकरन्दस्य यत् मधव्यं मधुनि साधु परमं उत्कृष्टं रूपयति प्रकाशयति देहसङ्घातमिति रूपम्, अन्नाद्यं व्रीह्यादिवत्प्राणधारकं च, तेन सर्वरूपोपपन्नरसेनोक्तविशेषणविशिष्टेनाहं परमः सर्वेभ्यो गुणाधिकः मधव्यः मधुपर्कार्हः
अन्नादः सदन्नभोक्ता च असानि भवानि । “मधुमतीभिर्वा प्रत्य़ृचं" इति सूत्रम् ।वा विकल्पेन “मधु व्वाता ऋतायते मधु क्षरन्ती” त्येतामिर्ऋग्भिः प्रत्यूचं प्राश्नाति । ततश्चैवम् । ‘मधु व्वाते’ति प्रथमम् ! ‘मधु नक्त’मिति द्वितीयम् । ‘मधुमान्न’ इति तृतीयम् ।“पुत्रायान्तेवासिने वोत्तरत आसीनायोच्छिष्टं दद्यात्" इति सूत्रम् ।अवशिष्टं मधुपर्कस्योच्छिष्टं पुत्रायान्तेवासिने शिष्यायोत्तरत उपविष्टाय दद्यात् । तथा च कारिकायाम्—
दद्यात्पुत्राय तच्छेषमस्ति चेत्स समीपतः ।
आसीनायोत्तरे यद्वाशिष्याय तदभावतः॥
“सर्व्वंवा प्राश्नीयादिति" सूत्रम् । अथ वा सर्वं प्राश्नाति । “प्राग्वाऽसञ्चरे निनयेदिति” सूत्रम् ।प्राक् प्राच्यां दिशि यत्र जना न सञ्चरन्ति तस्मिन्नसञ्चरे मधुपर्कशेषं प्रक्षिपेत् । तथाचोक्तं कारिकायाम्—
सर्वं वा द्रव्यमश्नीयात्क्षिपेद्वाप्रागसञ्चरे ।
“आचम्य प्राणान् संमृशति वाङ्म आस्ये नसोः प्राणोऽक्ष्णोश्चक्षुः कर्णयोः श्रोत्रं बाह्वोर्बलमूर्वोरोजोऽरिष्टानि मेऽङ्गानि तनूस्तन्वा मे सहेति” सूत्रम्। आचम्य -
“द्विराचमेत्समृद्धयर्थं प्राणसम्मर्शनं क्रमात्” इति रेणुः ।
स्मार्तमाचमनं कृत्वा वाङ्म आस्य इत्येतैर्मन्त्रैः प्रतिमन्त्रं यथालिङ्कं प्राणायतनानि सम्मृशति । सर्वत्र साकाङ्क्षत्वादस्त्वित्यध्याहारः । अरिष्टानि मेऽङ्गानि सन्तु ।सन्त्वित्यध्याहारः । मे पदस्य सर्वत्रानुषङ्गः । नन्वध्याहारानुषङ्गयोः को विशेषः? उच्यते - अनुषङ्गःश्रुतपदानयनम् । अध्याहारःअश्रुतपदस्य लौकिकस्यानयनम् ।वाक्यनिराकाङ्क्षार्थंप्रयोजनम् । नन्वध्याहृतपदस्य संहितावत्प्रयोगो न भवति सावसानं प्रयोग इत्यर्थः । अत्रैवं ‘वाङ्म आस्येऽस्त्वि’ति मुखम् । ‘नसोर्मेप्राणोऽस्त्वि’ति नासिकाच्छिद्रद्वयं युगपत् । ‘अक्ष्णोर्भे चक्षुरस्तु’ इत्यक्षिणी युगपत् । ‘कर्णयोर्मेश्रोत्रमस्त्वि’ति दक्षिणकर्णमभिमृश्य ततो वाममनेनैव मन्त्रेण ।‘बाह्वोर्मेबलमस्तु’ दक्षिणबाहुं ततो बाममनेनैव मन्त्रेण । ‘ऊर्वोर्मे ओजोऽस्त्वि’ति उरूद्वयं
युगपदेव । ‘अरिष्टानि मेऽङ्गानि तनूस्तन्वा मे सह सन्त्वि’ति शिरःप्रभृति सर्वाङ्गानां युगपद् ।हरिहरेण प्राणायतनस्पर्शःसजलहस्तेन कर्तव्य इत्युक्तम् । नह्यत्र सूत्रे जलग्रहणमस्ति । तत्र प्रमाणमन्वेषणीयम् । सर्वाङ्गालम्भे उभाभ्यां हस्ताभ्यामालम्भ उक्तः । सोऽपि नोक्तः । आचम्येति ग्रहणं आचान्तोदकायेति वक्ष्यमाणत्वादनाचान्तस्यैव प्राणायतनसम्मर्शनं माभूदित्येतदर्थम् । मन्त्रार्थः - मेमम वागिन्द्रियं आस्येऽस्तु । नसोर्नासिकयोः प्राणः प्राणवायुः, अक्ष्णोः नेत्रगोलयोः चक्षुरिन्द्रियं, श्रोत्रं श्रवणेन्द्रियं, बलं शक्तिः, ओजस्तेजः, मे मम तनूर्देहः तन्वा देहस्याङ्गानि च सह युगपत् अरिष्टानि अनुपहतानि सन्तु ।“आचान्तोदकाय शासमादाय गौरिति त्रिःप्राहेति” सूत्रम् ।आचान्तमुदकं येनासौ आचान्तोदकः तदर्थं शासमसिंआदाय गामानीय गौरित्यर्धयिता त्रिः प्राह आलभ्यतामित्यध्याहारः । आचान्तोदकग्रहणात्पुनराचमनमिति केचित् ।आचान्तोदकायेति तादर्थ्येचतुर्थी ।शासदानस्य तादर्थ्यंतु तदर्थं पश्वालम्भनद्वारकम् ।“प्रत्याह माता रुद्राणां दुहिता वसूनाँ स्वसाऽऽदित्यानाममृतस्य नाभिः । प्रनु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट । मम चामुष्य च पाप्मानँहनोमीति यद्यालभेत । अर्ध्योयजमानं प्रत्याह मातेत्यमुं मन्त्रं यदि गामालभेत तदा मम चामुष्य च पाप्मानँ हनोमीति तदन्ते प्रयोगः । अत्रामुष्यशब्दमुद्धृत्यार्धयितुर्नामग्रहणं कार्यम् । मन्त्रार्थः - अमृतस्य क्षीरस्य नाभिराश्रयः । नु वित्तर्के, ‘छन्दसि व्यवहिताश्चे’तिप्रोपसर्गस्य वोचमित्यत्रान्वयः । प्रवोचं ब्रवीति चिकितुषे चेतनावते जनाय ।यूयमिमां गां मा वधीष्ट मा घ्नन्तु, किन्तु गोपशुं विधातुं घ्नन्तेति तात्पर्यार्थः । किंभूतां गाम् ? अनागामनपराधांअदितिं देवमातरं पयोदानात् । अहं ममामुष्यार्घयितुश्च पाप्मानं गोस्थाने हनोमि हृन्मीति । अथ “यद्युत्सिसृक्षेन्मम चामुष्य च पाप्मा हृत ॐउत्सृजत तृणान्यत्त्विति ब्रूयात्” इति सूत्रम् ।यदि अर्घ्योगामुत्स्रष्टुमिच्छेत्तदैवं प्रयोगः ।मातारुद्राणामित्युक्त्वा मम चामुष्य च पाप्मा हतः ।अत्राप्यमुष्य स्थाने अर्धयितुर्नामग्रहणम् । ॐ उत्सृजत तृणान्यत्त्वित्युच्चै-
र्ब्रूयात् । शेषमुपांशु । एवं गवालम्भनस्य सर्वत्र विकल्पे प्राप्ते क्वचिन्नियममाह “नत्वेवामाँसोऽर्घःस्यादधियज्ञमधिविवाहं कुरुतेत्येव ब्रूयात्” इति सूत्रम् ।यज्ञविवाहयोरमांसोऽर्घोन भवति । यज्ञमधिकृत्य विवाहमधिकृत्य कुरुतेत्येव प्रयोगः ।अतश्चालम्भनियमो यज्ञविवाहयोः । तदुक्तं गृह्यकारिकायाम्—
आलम्भनं गोरधिकृत्य यज्ञमावश्यकं स्याच्च तथा विवाहम् ।
न स्यादमांसोऽर्घ इति ब्रवीति पारस्करो यज्ञविवाहकृत्ये॥ १ ॥
गोलक्षणं वीरमित्रोदये हिरण्यकेशीसूत्रम् “अथास्मै गौरिति प्राह तस्याः कर्मोत्सर्गो वा गौर्धेनुर्भव्येति” । अनेन च ‘आन्तोदकाय गां वेदयन्त’ इत्याश्वलायनादिसूत्रस्थमपि गोपदं धेनुरपरतया व्याख्यातम् ।स्त्रीत्वस्य तस्या इत्युदाहृतसूत्रान्मातारुद्राणामित्यादिलिङ्गाच्च स्वत एव सिद्धत्वात्तस्याश्चालम्भनमुत्सर्गो वा ।गोरालम्भनेतु कलौ निषिद्धम् ।तदुक्तं गदाधरभाष्ये पाराशरः—
यज्ञाधानं गवालम्भं सन्न्यासं पलपैतृकम् ।
देवराच्च सुतोत्पत्तिः कलौ पञ्च विवर्जयेत्॥
आदित्यपुराणेऽपि—
कन्यायाः पुनरुद्वाहं ज्येष्ठांशं गोवधन्तथा ।
कलौ पञ्च न कुर्वीत भ्रातृजायां कमण्डलुम् ॥इति ॥
अतश्च गवालम्भनस्य कलौ निषिद्धत्वादुत्सर्गस्य च यज्ञविवाहयोरप्राप्तत्वाद्गौरित्युच्चारणादि यज्ञविवाहयोःकलौ न प्रवर्तते ।यज्ञविवाहयोरन्यत्र तूत्सर्गपक्ष एव कलौ ।तदुक्तं गृह्यकारिकायाम्—
क्रतोर्विवाहादन्यत्रालम्भनं पाक्षिकं भवेत् ।
गोरालम्भनिषेधः स्यात्सर्वत्रोत्सर्जनं कलौ॥
अनेन विधिना विद्वानाचार्यादीन्समर्पयेत्॥ इति ।
कलौ गोपशोर्निषिध्य तत्स्थाने अजालम्भइति गदाधरः ।पायसं चेति जयरामः । परिगतसंवत्सरा अर्घ्याभवन्तीत्युक्तन्तदपवादमाह - “यद्यप्यसकृत्संवत्सरस्य सोमेन यजेत कृतार्घ्या एवैनं याजयेयुर्ना
कृतार्ध्या इति श्रुतेः" इति सूत्रम् । यद्यपि संवत्सरस्य मध्ये असकृत्पुनःपुनःसोमेन यजेत तथाप्येनं यजमानं कृतार्घ्याएव ऋत्विजो याजयेयुः, नाकृतार्घ्याः, कुतः ? श्रुतेः । एतत्सूत्रादेवं ज्ञायते सोमयागार्थमेव वृता ऋत्विजोऽर्घ्या नेतरयागार्थमिति यक्ष्यमाणास्त्वृस्त्विज इत्येनेनैव यागार्थत्वात्सोमेन यक्ष्यमाणा एवार्घ्या इति नियमविधानार्थं पृथगारम्भः । ननु “वसन्ते ज्योतिषा यजेते"त्येकस्मिन्संवत्सर एक एव सोमयागः प्राप्तस्तत्कथमुच्यते असकृत्संवत्सरस्य सोमेन यजतेति ? सत्यम्, उच्यते - यद्यपि नित्यः सोमयागः सकृदेवानुष्ठातव्यस्तथापि कामनया चोदितानां पुनः पुनरनुष्ठानानि सम्भवन्त्येव द्वादशाहादीनाम् ।यद्वा नित्यो वाजपेयस्तस्यानुष्ठानं तदङ्गभूतानां यज्ञानामनुष्ठानं भवति । तस्मात्साधूक्तमसकृत्संवत्सरस्य सोमेन यजेतेति । अत्र वराय गन्धमाल्यादिकमपि देयमित्युक्तं भगवता शौनकेन -
**दाताऽथ गन्धमाल्याद्यैर्विधितोऽभ्यर्चयेद्वरम् ।
पश्चात्तेन सहायाताँस्तद्बन्धूनपि पूजयेत्॥**इति ॥
आदिशब्दाद्भूषणमपि, तथा च कारिकायाम्—
गन्धमाल्याम्बरैस्तद्वद्भूषणैः पूजयेद्वरम् । इति ।
भूषणैः कुण्डलमुद्रिकादिभिर्यज्ञोपवीतमपि शिष्टाचाराद्देयम् । रेणुकारिकायामपि—
**उत्सर्जनान्ते स वराय वाससी दद्यात्सुगन्धः कुसुमानि चेष्टकौ॥
धत्ते स सर्वंविधिवत्क्रमाद्वरः संस्थापयेल्लौकिकमग्निमुद्धतः॥**इति ॥
अयञ्च मधुपर्को वरशाखानुसारेणकर्तव्यः । तथा च वीरमित्रोदये गृह्यपरिशिष्टान्तरम्—
**वरस्य या भवेच्छाखा तच्छाखागृह्यचोदितः ।
मधुपर्कःप्रदातव्योऽप्यन्यशाखेऽपि दातरि ॥**इति ।
वर इत्यर्हणीयमात्रोपलक्षणं मधुपर्काम्नानात् । स चर्त्विजां यच्छाखीयमार्त्विज्यं तच्छाखीयगृह्यानुसारेण कार्य्यः, आर्त्विज्यशाखीयमधुपर्कसंस्कृतस्यैव तत्तदार्त्विज्याधिकारात् तत्तच्छाखीयोपनयनसंस्कृतस्यैव
तत्तच्छाखाध्ययनाधिकारवत् । याज्ञिकास्तु अर्च्यस्य यच्छाखीयं कर्म तच्छाखीयो मधुपर्क इति वदन्ति । तथा गदाधरभाष्येजगन्नाथकारिका—
तत्तद्गृह्योक्तविधिना विष्टराद्यर्हणं ततः॥ इति ।
यजमानशाखयैव मधुपर्क इति जयन्तः । धर्मप्रवृत्तौ अन्यशाखिने कन्यादानविषयेऽपि—
स्वशाखी चेद्वरो न स्यात्कस्मै देवा तु कन्यका ।
स्वगृह्योक्तविधानेन दद्यात्तां परशाखिने॥
पूजयेन्मधुपर्केण स्वशाखाविधिना वरम् ।
आकन्यादानपर्यन्तं पिता कुर्यात्स्वशाखतः॥ इति ।
तत्तु कैरपि नादृतम् ।
इति श्री प्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्य-
सूत्रविवरणे संस्कारगणपतौ तृतीया कण्डिका ।
<MISSING_FIG href=”../books_images/U-IMG-1696310933Screenshot(39"/>.png)
चतुर्थी कण्डिका
चत्वारः पाकयज्ञा हुतोऽहुतः प्रहुतः प्राशित इति पञ्चसु बहिःशालायां विवाहे चूडाकरण उपनयने केशान्ते सीमन्तोन्नयन इत्युपलिप्त उद्धतावोक्षितेऽग्निमुपसमाधाय निर्मन्थ्यमेके विवाह उदगयन आपूर्य़माणपक्षे पुण्याहे कुमार्य़ाःपाणिङ्गृह्नीयात्त्रिषु त्रिषूत्तरादिषु स्वातौमृगशिरसि रोहिण्यां वा तिस्रो ब्राह्मणस्य वर्णानुपूर्व्येण द्वे राजन्यस्यैका वैश्यस्य सर्व्वेषा<MISSING_FIG href="../books_images/U-IMG-1696336600Screenshot2023-09-28122656.png"/>शुद्राणामप्येके मन्त्रवर्जमथैनां वासः परिधापयति “जरां गच्छ परिधत्स्व वासो भवाकृष्टीनामभिशस्तिपावा ॥शतञ्च जीवशरदः सुवर्च्चारयिञ्च पुत्राननु संव्ययस्वायुष्मतीदंपरिधत्स्व वास” इति, अथोत्तरीयं ‘या अकृन्तन्नवयं य़ाअतन्वत ॥याश्च देवीस्तन्तूनभितो ततन्थतास्त्वा देवी-
र्जरसे संव्ययस्वायुष्मतीदं परिधत्स्व वास’ इति, अथैनौ समञ्जयति ‘समञ्जन्तु व्विश्वे देवाः समापो हृदयानि नौ ॥सम्मातरिश्वा सन्धाता समुदेष्ट्री दधातु नावि’ति, पित्रा प्रत्तामादाय गृहीत्वा निष्क्रामति ‘यदैषि मनसा दूरं दिशोऽनु पवमानो वा ॥ हिरण्यपर्ण्णोवैकर्ण्णःस त्वा मन्मनसां करोत्वि’ति, अथैनौ समीक्षय ‘त्यघोरचक्षुरपतिघ्न्येधिशिवा पशुभ्यः सुमनाः सुवर्च्चाः॥ वीरसूर्द्देवकामा स्योना शन्नो भव द्विपदे शञ्चतुष्पदे ॥सोमः प्रथमो विविदे गन्धर्व्वोविविद उत्तरः ॥ तृतीयोऽग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः ॥ सोमोऽददद्गन्घर्व्वाय गन्धर्व्वोदददग्नये ॥रयिञ्च पुत्रांश्चादादग्निर्मह्य़मथोइमाम् ॥सानः पूषा शिवतमामैरय सा न ऊरू उशती विहर ॥ य़स्यामुशन्तः प्रहराम शेपं यस्यामुकामा बहवो निविष्ट्या’ इति॥ ४ ॥
“चत्वारःपाकयज्ञाः" इति सूत्रम् ।पच्यते श्रप्यते ओदनादिकं यस्मिन्निति पाको गृह्याग्निःतस्मिन्पाके नान्यत्रेति भावः ।पाके यज्ञाः पाकयज्ञाः । यतः—
वैवाहिकेऽग्नौकुर्वीत गार्ह्यंकर्म यथाविधि ।
पञ्चयज्ञविधानं च पक्तिं चान्वाहिकींगृही॥
इति मनुना दैनन्दिनपाको गृह्येऽग्नौस्मर्थते । ते चत्वारः चतुर्विधा भवन्ति । कथं ? “हुतोऽहुतःप्रहुतः प्राशित” इति सूत्रम् । तत्र हुतः होममात्रं यथा सायम्प्रातर्होमः । अहुतः होमबलिरहितं कर्म यथा स्रस्तर रोहणम् । प्रहुतो यत्र होमो बलिकर्म भक्षणं च यथा पक्षादिकर्म । प्राशितः यत्र प्राशनमात्रं न होमो न बलिः यथा सर्वासां पयसि पायसश्रपणानन्तरं ब्राह्मणभोजनम् । इत्थं चतुर्विधाः पाकयज्ञाः । अथ मण्डपे कानि कर्माणि कार्याणि तान्याह – “पञ्चसु बहिःशालायां विवाहे चूडाकरण उपनयने केशान्ते सीमन्तोन्नयने" इति सूत्रम् ।विवाहादिषु पञ्चसु कर्मसु गृहाद्बहिः शालायां कर्म भवति । बहिःशाला मण्डप इति
यावत् । तस्यां कर्म भवति । अन्यत्र कर्मणि गृहाभ्यन्तरे मुख्यशालायामेव । विवाह इति कर्मणो नामधेयम् । स च सर्वाश्रमाणामुपकारकत्वान्मुख्यः । तदुक्तं नारदेन—
सर्वाश्रमाणामाश्रेयं गृहस्थाश्रममुत्तमम् ।
यतस्तदपि योषायां शीलवत्यां स्थितं ततः॥
तथा च दक्षः—
जपे होमे तथा दाने स्वाध्याये च रतः सदा ।
नासौ तत्फलमाप्नोति ह्याश्रमेण वहिष्कृतः॥
समावर्तनपूर्वन्तु लक्षण्यां स्त्रियमुद्वहेत्॥ इति ।
ज्योतिस्तिलके—
रत्नहेमाद्यलङ्कारा भोगा मृगमदादयः ।
व्यर्थाः सर्वे न राजन्ते हर्म्याणि स्त्रियमन्तरा॥
विवाहस्तु पञ्चाङ्गः—
वाग्दानं च प्रदानं च वरणं पाणिपीडनम् ।
सप्तपदीतिपञ्चाङ्गोविवाहःपरिकीर्त्तितः॥
तत्र वाग्दानात्पूर्वकर्तव्यतामाह ज्योतिर्निबन्धे—
सापिण्ड्यं गोत्रशुद्धिं च शीलसामुद्रिकाणि च ।
जातकादिभमेलं च वीक्ष्यंवाग्दानतः पुरा॥
याज्ञवल्क्यः—
अनन्यपूर्विकां कान्तामसपिण्डां यवीयसीम् ।
अरोगिणीं भ्रातृमतीमसमानार्षगोत्रजाम्॥ इति ।
अस्यार्थः— या दानेनोपभोगेन वा पुरुषान्तरपूर्विका न भवति साऽनन्यपूर्विका भवति । अनेन पुनर्भ्वोव्यावर्त्तन्ते । ताश्चोक्ताः काश्यपेन—
सप्त पौनर्भवाः कन्या वर्जयित्वा कुलाधमाः ।
वाचा दत्ता मनोदत्ता कृत्तकौतुकमङ्गला॥
उदकस्पर्शिता या च या च पाणिगृहीतका ।
अग्निं परिगता या च पुनर्भूः प्रसवाय च॥
इत्येताःकाश्यपेनोक्ता दहन्ति कुलमग्निवत्॥
बौधायनसूत्रेऽपि “वाचा दत्ता मनोदत्ताऽग्निं परिगता सप्तमं पदं नीता भुक्ता गृहीतगर्भां प्रसूता चेति सप्तविधा पुनर्भूस्तां गृहीत्वा न प्रजां न धर्मं विन्देते"ति । वरचक्षुर्मनसोराल्हादकरी कान्ता ।समान एकःपिण्डो यस्याः सा सपिण्डा तादृशी न भवतीत्यसपिण्डा ।सपिण्डता च सप्तपुरुषावसायिनी । तत्रैकः पिण्डदाता, त्रयः पिण्डभाजः पितृपितामहप्रपितामहाः, त्रयो लेपभाजःवृद्धप्रपितामहादयस्त्रयः । तथा च विधानपारिजातके मात्स्यः—
लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः।
पिण्डदःसप्तमस्तेषां सापिण्ड्यं साप्तपौरुषम्॥
सप्तपुरुषमभिव्याप्येत्यर्थः। अपरे पुनरवयवसापिण्ड्यमाहुः । तथा हि समान एकः पिण्डो देहावयवो येषान्ते सपिण्डाः । तत्र पुत्रस्य साक्षात्पितृदेहावयवान्वयेन पित्रा सह सापिण्ड्यम् । तथाऽपि पितामहादिभिरपि पितृद्वारेण तच्छरीरावयवान्वयात् । तथा मातृष्वसृमातुलादिभिरपि मातामहदेहान्वयात् । तथा पितृव्यपितृष्वस्रादिभिरपि पितामहदेहान्वयात् । तथा पत्या सह एकशरीरारम्भकतया स्त्रियाः । एवं भ्रातृभार्याणामप्येकशरीरावयवाब्धैःस्वपतिभिः सहैकशरीरारम्भकत्वेन ।एवं च साक्षात्परम्परया वा एकशरीरावयवान्वयेन सापिण्ड्यं योजनीयम् । उक्तद्विविधसापिण्ड्यं यस्यां नास्ति सेयमसपिण्डा ।नन्वेवं सति न क्वाप्युद्वाहः सम्भवति । सर्वत्र सापिण्ड्यस्य कथञ्चिद्योजयितुं शक्यत्वात् विधातृशरीरावयवानुवृत्तेर्दुष्परिहरत्वात् । “बहु स्यां प्रजायेये"ति श्रुतेरिति चेत्? सत्यम् ।अविशेषेण प्राप्तस्य सापिण्ड्यस्य सप्तसु पुरुषेषु सङ्कुचितत्वेन तत ऊर्ध्वं सापिण्ड्यनिवृत्तिः । तथाहि याज्ञवल्क्यः—
पञ्चमात्सप्तमादूर्ध्वं मातृतः पितृतस्तथा । इति ।
मातृपक्षे पञ्चमात्पुरुषात् पितृपक्षे सप्तमात्पुरुषादूर्ध्वं सापिण्ड्यं निवर्तत इति शेषः । तथा च देवलः—
पञ्चमात्सप्तमादूर्ध्वं मातृतः पितृतः क्रमात् ।
सपिण्डता निवर्तेत सर्ववर्णेष्वयं विधिः॥ इति ।
कूटस्थमारभ्य गणना । तदुक्तं प्रयोगरत्ने—
वध्वा वरस्य वा तातः कूटस्थाद्यदि सप्तमः ।
पञ्चमी च तयोर्माता तत्सापिण्ड्यं निवर्तते॥
कूटस्थो मूलपुरुषो यतः सन्तानभेदकः । इति ।
एवं च मातृपितृद्वारकसापिण्ड्यवतीनां कन्यानामियं सङ्कलना । बृहद्विष्णुः —
**सप्तमात्पञ्चमाद्वा यः कन्यकामुद्वहेद्द्विजः ।
गुरुतल्पी स विज्ञेयः सगोत्रामपि चोद्वहन्॥**इति ।
विधानपरिजातके मरीचिः—
पञ्चमे सप्तमे चैव येषां वैवाहिकी क्रिया ।
क्रियापरा अपि हि ते विज्ञेयाः शूद्रतां गताः॥ इति ।
धर्मप्रवृत्तावाचार्यः—
**सापिण्ड्यं मुनिभिः प्रोक्तं मातृतः पितृतः क्रमात् ।
तत्सापिण्ड्यं विजानीयान्नमर्दोत्तरवासिनाम्॥**इति ।
चतुर्विंशतिमते—
दशभिः पुरुषैः ख्याताच्छ्रोत्रियाणां महाकुलात् ।
उद्वहेत्सप्तमादूर्ध्वं तदभावे तु सप्तमीम्॥
पञ्चमीं तदभावे तु पितृपक्षे त्वयं विधिः ।
सप्तमी च तथा षष्ठी पञ्चमी च तथैव च॥
एवमुद्वाहयेत्कन्यां न दोषः शाकटायनः ।
स्मृतिचन्द्रिकायाम् —
मूलगोत्रादन्यगोत्रामुद्वहेदष्टमोऽष्टमीम् ।
अन्यगोत्रादन्यगोत्रात्षष्ठःषष्ठीं समुद्वहेत्॥
तृतीयां वा चतुर्थ्यां वा पक्षयोरुभयोरपि ।
उद्वहेत्सर्वथाऽलाभ इति कैश्चिदुदीरितम्॥
असपिण्डाच या मातुरसगोत्रा च या पितुः ।
सा प्रशस्ता द्विजातीनां दारकर्मणि मैशुने॥
अथ विजातीयसपिण्ड्यनिर्णयः । तत्र शङ्खः—
यद्येकजाता बहवः पृथक्क्षेत्राःपृथक्जनाः ।
एकपिण्डक्ःपृथक्शौचाः पिण्डस्त्वावर्त्तते त्रिषु॥ इति ।
अस्यार्थः । एकजाता एकस्माद्ब्राह्मणादेर्जाताः पृथक्क्षेत्राः परस्परं भिन्नजातीयासु ब्राह्मणीक्षत्रीयवैश्याशूद्रासु स्त्रीषु जाताः पृथक्जनाः, भर्त्रपेक्षया भिन्नजातीयासु परस्परं समानजातीयासु स्त्रीषु जातास्त एकपिण्डाःसपिण्डाः, पृथक्शौचाः पितृजात्यपेक्षया विजातीयाशौचाः । पिण्डस्त्वावर्तते त्रिषु तेषां सापिण्ड्यं त्रिपुरुषमेवेत्यर्थः । ब्रह्मपुराणेऽपि—
सपिण्डता तु पुरुषे सप्तमे विनिवर्तते ।
सजातीयेषु वर्णेषु चतुर्थे भिन्नजातिषु॥
अथ मातुलकन्यापरिणयननिर्णयः । तत्र तदनुष्ठातारः श्रुतिस्मृतिपुराणेतिहासशिष्टाचारान् प्रमाणानि प्रदर्शयन्ति । तत्र ऋग्वेदश्रुतिः - “आयाहीन्द्र ? पथिभिरीलितेभिर्यज्ञमिमन्नो भागधेयं जुषस्व । तृप्तां जहुर्मातुलस्येव योषा भागस्ते पैतृष्वसेयी वपामिवे"ति । अस्यार्थः–हे इन्द्र ईलितेभिः पथिभिः स्तुतैर्भागैर्नोऽस्माकं अस्माभिरनुष्ठीयामानमिमं यज्ञमायाहि आगच्छ । आगत्य च स्वीयं भागधेयं जुषस्व ‘जुषी प्रीतिसेवनयोः’ प्रीतिपूर्वकं गृह्णीष्व ।कोऽसौ भागधेय इत्यत आह वपाम् । तृप्तामाज्यादिभिः संस्कृतां वपांयजमानाध्यर्युप्रभृतयो जहुस्त्यक्तवन्तः । तत्र दृष्टान्तद्वयमवतारयति–मातुलस्येव योषेति पैतृष्वसेयी वेति च । अत्र मातुलशब्दस्य सम्बन्धिशब्दत्वात्सम्बन्धी भागिनेय उपतिष्ठते । ततश्च मातुलस्य योषा मातुलकन्या, न पत्नी, पैतृष्वस्रेय्या अनन्वयापत्तेः । यथा भागिनेयस्य भागः भजनीया परिणेतुं योग्येति यावत् ।यथा च पैतृष्वसेयी योषा पितृष्वसुर्दुहिता ।अर्थान्मातुलपुत्रस्य भागस्तथेयं च, या तवभागधेयम् । तथा श्रुत्यन्तरमपि– “गर्भे तु नौ जनिता दम्पती कर्द्देवस्त्वष्टा सविता विश्वरूपः । न किरस्य प्रमिनन्ति व्रतानि वेद नावस्य पृथिवी उत द्यौरिति” अस्यार्थः–त्वष्टा रूपाणां कर्ता
सविता सर्वेषां शुभाशुभस्य प्रेरकःविश्वरूपः सर्वात्मकः देवो दानादिगुणयुक्तः नौ आवयोः भ्रातृभगिन्योर्गर्भे जनितारौ कन्यापुत्रौ दम्पती जायापती कः करिष्यतीत्यर्थः। अत्र हेतुमाह– अस्य प्रजापतेः व्रतानि कर्माणि न किःप्रमिनन्ति न केचित्प्रहिंसन्ति न लोपयन्तीत्यर्थः ।अपि च नौ आवयोः अस्य प्रजापतेः कर्तव्यदम्पतीजनकत्वं पृथिवी भूलोकः द्यौः स्वर्ल्लोकश्चन वेद न जानातीत्यर्थः । एतेनापि भ्रातृभगिन्यपत्ययोर्विवाहयोग्यता सिद्ध्यति । वाजसनेयकेऽपि शतपथब्राह्मणे “तस्मात्समानादेव पुरुषादत्ता चाद्यश्च जायते तृतीये पुरुषे सङ्गच्छावहै चतुर्थे सङ्गच्छावहा इति” हवनकाण्डे अष्टमाध्याये समाम्नातम् । अस्यार्थः–तस्मादित्युक्तमर्थं दृष्टान्तेनोपसंहरति–समानादेकस्मात्पुरुषात् कूटस्थात् अत्ता भोक्ता आद्यो भोग्यश्च जायते । ‘अद भक्षण’ इति धातुः । तौ द्वावुत्पद्येते उत्पद्य चैव मिथः सङ्कल्पयतः कूटस्थमारभ्य तृतीये पुरुषे आवां सङ्गच्छावहै विवहावहै ? उत चतुर्थपुरुषे सङ्गच्छावहा इति । यद्यप्येते मन्त्रार्थवादाः । तथापि मानान्तरविरोधाभावात्स्वार्थे प्रमाणम् । विरुद्धवचनानां मातृसपिण्डविषयत्वस्योपवर्णितत्वात् । तस्माच्च्छ्रुत्यनुगृहीतोऽयं विवाहः। अत एव एतच्च्छ्रुतिमूलका स्मृतिरिति षट्त्रिंशन्मते प्रत्यक्षमेव विधिर्दर्शयति—
**तृतीयां मातृतः कन्यां तृतीयां पितृतस्तथा ।
उद्वाहयेन्मनुःप्राह पाराशर्योऽङ्गिरा यमः॥**इति ।
पुराणे श्रीमहाभागवते—
यद्यप्यनुस्मरन्वैरं रुक्मी कृष्णावमानितः ।
व्यतरद्भागिनेयाय सुतां कुर्वन्स्वसुः प्रियम्॥
वृतः स्वयंवरे साक्षादनङ्गोऽङ्गयुतस्तथा ।
राज्ञः समेतान्निर्जित्य जहारैकरथोयुधि॥ इति ।
तथा तत्रैव—
दौहित्रायानुरुद्धाय गौरीं रुक्मी ददद्धरेः।
रोचनां बद्धवैरोऽपि स्वसुः प्रियचिकर्षिया॥
जानन्नधर्मन्तं यौनं स्नेहपाशानुबन्धतः ।
रोचनां रोचनामिवेति उत्प्रेक्षा । तं यौनं दौहित्राय पौत्रीदानलक्षणःसम्बन्धः । इतिहासेऽपि महाभारते—
अर्जुनस्तीर्थयात्रायां पर्यटन्नवनीं प्रभुः ।
गतः प्रभासमशृणोन्मातुलेयीं स आत्मनः॥
तत्र च क्रममाणौ तौ वसुदेवसुतां शुभाम् ।
स्वलङ्कृतां सखीमध्ये भद्रां ददृशतुस्तदा॥
ममैषा भगिनी पार्थ ? सारणस्य सहोदरा ।
सुभद्रा नाम भद्रं ते पितुर्मे दयिता शुभा॥
दुहिता वसुदेवस्य वासुदेवस्य च स्वसा ।
रूपेण चैव सम्पन्ना कमिवैषा न मोहयेत्॥
कृतमेव तु कल्याणं सर्वंमम भवेद्ध्रुवम् ।
यदि स्यान्मम वार्ष्णेयी महिषीयं स्वसा तव॥
अतः प्रचिन्त्य कल्याणीं प्रसह्य भगिनीं मम ।
हर स्वयंवरे ह्यस्याःको वै वेद चिकीर्षितम्॥
**ततः सुभद्रा सौभद्रं केशवस्य स्वसा प्रिया ।
जयन्तमिव पौलोमी द्युतिमन्तमजीजनत्॥**इत्यादि ।
शातातपोऽपि—
**मातृष्वसृसुतां केचित्पितृष्वसृसुतां तथा ।
विवाहन्ति क्वचिद्देशे सङ्कोच्यापि सपिण्डताम्॥**इति ।
धर्मप्रवृत्तौ —
दक्षिणे तूद्वहेत्कन्यां स्वसारं मातरं विना ।
बृहस्पतिः—
**उदूह्यते दक्षिणात्यैर्मातुलस्य सुता द्विजैः ।
सापिण्ड्यमपि सङ्कोच्य प्रत्यक्षश्रुतिदर्शनात्॥**इति ।
श्रुति‘रायाहीन्द्रे’त्यादिरुक्तैव । व्याघ्रपादः—
उद्वहेद्दक्षिणे विद्वान्मातुलस्य तु वै सुताम् ।
उत्तरे नोद्वहेद्विप्रोह्येष धर्मः सनातनः॥
तस्मात्सिद्धं मातुलकन्या-पितृष्वसृकन्या-परिणयनन् । इदं च यस्मिन्देशेऽविगीतं तद्देशीयैरेव कार्यम् । तदुक्तं नृसिंहसपर्यायां बौधायनेनपञ्चधा विप्रतिपत्तिर्दक्षिणतस्तथोत्तरतो या दक्षिणतस्तानि व्याख्यास्यामो यथैतदनुपनीतेन सह भोजनं स्त्रिया सह भोजनं पर्युषितभोजनं मातुलपितृष्वसृदुहितृगमनमिति, अथोत्तरत ऊर्णाविक्रयः सिन्धुपारमुभयतो दद्भिर्व्यवहार आयुधीयकं समुद्रयान"मिति । देशाचारो यथा दक्षिणे देशेऽनुपनीतेन भार्यया च सह भोजनं पर्युषितभोजनं मातुलकन्यापितृस्वसृकन्यापरिणयनम् । तथोत्तरदेशे सिन्धुपारगमनमुभयतो दद्भिर्व्यवहार ऊर्णाविक्रय आयुधविक्रयः समुद्रयानम् । मध्यदेशे द्विजाः कर्मकराः शिल्पिनः । पूर्वदेशे मत्स्यादाः स्त्रियो व्यभिचारिण्यः रजस्वलाः स्पृश्या इत्यादयः । स्वदेशे धर्मा अन्यत्राधर्माः ।दक्षिणदेशीयं कर्म उत्तरदेश उत्तरदेशीयं कर्म दक्षिणदेशे कुर्वन्दुष्यति न स्वदेशे । तथा च मनुः—
येनास्य पितरो याता येन याताः पितामहाः ।
तेन यायात्सतां मार्गंतेन गच्छन्न दुष्यति॥
केचिन्मातुलकन्यापरिणयनं कलौ निषिद्धम्—
गोत्रान्मातृसपिण्डात्तु विवाहो गोवधस्तथा॥
इति विधानपरिजातके माधवोदाहृतब्रह्मपुराणवचनादित्याहुः । तदेतदपरे न क्षमन्ते, तस्य माध्यन्दिनीयविषयत्वात् । तथा च सत्याषाढीवचनम्–“मातृगोत्रसापिण्ड्यवर्जनं मध्यन्दिनीयाना"मिति । अन्यत्रापि—
मातुलस्य सुतामूढ्वामातृगोत्रां तथैव च ।
समानप्रवरामूढ्वा परित्याज्य प्रपालयेत्॥
उपभोगादिना त्याज्या न तु अन्नवस्त्रादिना । अथ विरुद्धसम्बन्धाः । तत्र गृह्यपरिशिष्टम्– “अविरुद्धसम्बन्धामुपगच्छेते ‘त्युपक्रम्य’ दम्पत्योर्मिथःपितृमातृसाम्ये विरुद्धसम्बन्धः” । यथा भार्यास्वसुर्दु—
हिता पितृव्यपत्नीस्वसा चेति । पितृमातृसाम्यमित्युपलक्षणम्, तेन भ्रातृभगिनीसाम्ये स्नुषाश्वशुरादिसाम्येऽपि नोद्वाहः, विरुद्धसम्बन्धाऽविशेषात् । तद्यथा पितृव्यपत्नीस्वसुः सुता भगिनीसमा भवति, पितृव्यशालिकायां मातृस्वसृतुल्यत्वात् । तथा स्नुषाभगिन्यपि श्वशुरेण नोद्वाह्या, स्नुषातुल्यत्वात् । एवमन्यत्राप्यूह्यम् ।
अत एव बौधायनः—
मातुः सपत्न्या भगिनीं तत्सुतां चापि वर्जयेत् ।
पितृव्यपत्न्या भगिनीं तत्सुतां चापि वर्जयेत्॥
धर्मप्रवृत्तावपि—
पितृव्यभार्याभगिनीं च तत्सुतां सापत्नमातुर्भगिनीं च तत्सुताम् ।
नैवोद्वहेत्तां यदि चेत्प्रमादाच्चाण्डालयोनेरपि कारणं भवेत्॥
प्रयोगपरिजाते नारदः—
प्रत्युद्वाहो नैव कार्यो नैकस्मै दुहितृद्वयम् ।
न चैकजन्ययोः पुंसोर्नैकजन्ये तु कन्यके ॥
तथा च पराशरः—
एकजन्ये तु कन्ये द्वे पुत्रयोर्नैकजन्ययोः ।
न पुत्रीद्वयमेकस्मै प्रदद्यात्तु कथञ्चन ॥
प्रत्युद्वाहःयत्पुत्राय स्वकन्या दीयते तत्कन्या स्वपुत्राय न कार्येत्यर्थः । अथ सापत्नमातृसम्बन्धविचारः—
सापत्नमातृभगिनीं तत्सुतां चापि नोद्वहेत् ।
इति बौधायनोक्तत्वान्न कार्या । तथा च सुमन्तुः–“पितृपत्न्यःसर्वा मातरस्तद्भ्रातरो मातुलास्तद्भगिन्यो मातृष्वसारस्तद्दुहितरश्चभगिन्यस्तदपत्यानि भागिनेयान्यन्यथा सङ्करकारिणः स्यु"रिति । तच्छब्देन द्वितीयमातृपरामर्शः। अत्र परिगणितेष्वेव सापिण्ड्यं न सप्तमादिपर्यन्तम् । एतत्सर्वमेकेन श्लोकेनाह संस्कारनृसिंहे—
भार्यास्वसृसुतां तथैव भगिनीं मातुः सपत्न्यास्तथा
तत्पुत्रींच पितृव्यदारभगिनीं तत्पुत्रिकां नोद्वहेत् ।
मातृष्वसृसपत्नपुत्रकसुता ज्येष्ठस्य भार्यास्वसा-
नोद्वाह्याऽथ सपत्नमातृविषये त्रैपुरुषं नोद्वहेत्॥
अथ दत्तके निर्णयमाह—
माता पिता वा दद्यातां यमद्भिः पुत्रमापदि ।
सदृशं प्रीतिसंयुक्तं विज्ञेयो दत्त्रिमः सुतः॥
इति पुंस्त्वविशिष्टानुवादेन संज्ञाकरणात्कन्यायाश्च दत्रिमसंज्ञाऽभावात् दत्रिमानुवादेन विधीयमानाऽपि सापिण्ड्यनिवृत्तिर्न कन्याया भवति । नन्वेवंदत्त्रिमस्य सापिण्ड्यनिवृत्तौ जनककन्यादिपरिणयनं स्यात् ? स्यादेव “यद्यूर्ध्वं सप्तमात्पितृबन्धुभ्यो मातृभ्यः पञ्चमात् बीजिनश्च सप्तमा"दिति वाक्यं न स्यात् । अत्र हि बीजिनो ग्रहणेन दत्रिमस्य च जननकुले सापिण्ड्यमस्त्येवेति ज्ञायते । तथा च गौतमः—
दत्तक्रीतादिपुत्राणां बीजवप्तुःसपिण्डता ।
पञ्चमी सप्तमी मातुर्गोत्रत्वं पालकस्य च॥ इति ॥
जननीपक्षे पञ्चमी जनकपक्षे सप्तमीत्यर्थः। पालकपक्षे पैठीनसिः “त्रीन्मातृतः पञ्च पितृतः पुरुषानतीत्योद्वहेत्” इति । स्वगोत्रनिवृत्तिस्तु—
स्वगोत्राद्भ्रश्यते नारी विवाहात्सप्तमे पदे ।
इत्यनेन वचनेन न त्वनेनेति । इति दत्तकविचारः ।यवयिसीं वयसा वपुषा च न्यूनाम् । वीरमित्रोदये ब्रह्मपुराणे—
यद्यष्टवर्षा कन्या स्यात्तदा तत्त्रिगुणः पुमान् ।
यदि द्वादशवर्षा स्यात्कन्या रूपगुणान्विता॥
द्वात्रिंशद्वर्षपूर्णेन यदि षोडशवार्षिकी ।
षट्त्रिंशद्वर्षपूर्णेन विवाह्या ह्यन्यथा न हि॥
अरोगिणीमिति अचिकित्स्यराजयक्ष्मादिरोगरहिताम् । भ्रातृमतीमिति ज्येष्ठःकनिष्ठो वा भ्राता यस्याः सा भ्रातृमती । अनेन पुत्रिकाकरणशङ्का ब्युदस्यते । अत एव मनुः—
**यस्यास्तु न भवेद्भ्राता न विज्ञायेत वा पिता ।
नोपगच्छेत्तु तां प्राज्ञः पुत्रिकाधर्मशङ्कया॥**इति ।
यत्र तु नैवाशङ्कातामभ्रातृकामुपगच्छेत् । “अधिरथ<MISSING_FIG href=”../books_images/U-IMG-1696948115Screenshot(14”/>.png)शतं दुहितृमते दत्वोपयच्छेदिति” वक्ष्यमाणगृह्यसूत्रात् ।तस्याः परिक्रयाय रथाधिकं गवां शतं ददाति ।मनुः—
**अपुत्रोऽनेन विधिना सुतां कुर्वीत पुत्रिकाम् ।
यदपत्यं भवेदस्यां तन्मम स्यात्स्वधाकरम्॥**इति ।
अस्याश्च पुत्रिकाया गान्धर्वादिविवाह इव पित्रादिभि सह सापिण्ड्यसगोत्रत्वनिवृत्तिः ।
मातामहस्य गोत्रेण मातुःपिण्डोदकक्रियाम् ।
कृर्वीत पुत्रिकापुत्र एवमाह प्रजापतिः॥
इति विधानपरिजाते लौगाक्षिस्मरणात् । अतः कारणाद्भ्रातृमतीमुपगच्छेदिति । अथ क्रमप्राप्तगोत्रनिर्णयो व्याख्यायते– “असमानार्षगोत्रजा"मिति । ऋषेरिदमार्षम् ।प्रवरः प्रव्रियन्ते होत्रध्वर्युभ्यां उत्कीर्त्यन्ते इति प्रवराः । उक्तं च गोत्रनिर्णये—
याज्ञिकार्षेयवरणमध्वर्योर्होतुरेव च ।
प्रोक्तंतत्कियता कार्यं क्रमेण केन वेति च॥
आकाङ्क्षायां क्रमेणात्र निर्णयः स्पष्ट उच्यते ।
एकस्याथ द्वयोर्वाऽपि त्रयाणां वा वृत्तिं चरेत्॥
चतुर्णां च षडादीनां वरणं न समाचरेत् ।
सर्वशाखीयहोतृपितृपुत्रादिकाः क्रमात्॥
यत्र गोत्रकृता एकस्य वरणं कृतं तत्र एक एव प्रवरः । द्वर्योवरणं कृतं तत्र द्वौ प्रवरौ भवतः । त्रयाणां वरणं कृतं त्रिप्रवराः । एवं पञ्चप्रवराः । गोत्रप्रवर्तकस्य मुनेर्व्यावर्तको मुनिगण इत्यर्थः। तद्यथा गोत्रप्रवर्तकस्य भारद्वाजस्य व्यावर्तकावङ्गिराबृहस्पती । अत एव आङ्गिरसबार्हस्पत्यभारद्वाजगोत्रमिति प्रयुञ्जते । एवमन्यत्राप्युदाहार्यम् । गोत्रं तु वंशपरम्पराप्रसिद्धम् ।यस्या वध्वा येन वरेण सह प्रवरैक्यं वा नास्ति सा तेन विवाह्या ।क्वचिद्गोत्रभेदेऽपि प्रवरैक्यमस्ति । तद्यथा वाधूलमौनमौकानां भिन्नगोत्राणां भार्गव-वैतहव्य-सावेदसेति प्रवरैक्यस्योक्तत्वात् । अतस्तत्र
विवाहप्रसक्तौ तद्व्यवच्छेदायासमानार्षजामित्युक्तम् । क्वचित्तु प्रवरभेदेऽपि गोत्रैक्यमस्ति । तद्यथा आङ्गिरसाम्बरीषयौवनाश्वेति मान्धात्रम्बरीषयौवनाश्वेत्यत्राङ्गिरसमान्धात्रेति प्रवरभेदेऽपि यौवनाश्वगोत्रमेकम् । अतस्तत्र विवाहो मा भूदित्यर्थं समानगोत्रग्रहणम् । अत्र विशेषमाह प्रवरसूत्रकारः—
एक एव ऋषिर्यत्र प्रवरेष्वनुवर्तते ।
तावत्ससानगोत्रत्वं भृगुमङ्गिरसं विना॥
तत्र विशेषः स्मृत्यन्तरे—
पञ्चानां त्रिषु सामान्यादविवाहस्त्रिषु द्वयोः ।
भृग्वङ्गिरोगणेष्वेवं शेषेष्वेकोऽपि वारयेत्॥
भृग्वङ्गिरोगणस्थेऽपि जमदग्नौच गौतमे ।
भरद्वाजे मिथो ह्येकः पाणिग्राहं निवारयेत्॥
यथा—
वसिष्ठौ द्वौ च विज्ञेयौ ब्रह्मपुत्रोऽथ शापतः ।
मैत्रावरुणिरित्येव वसिष्ठो विग्रहान्तरात्॥
ब्रह्मात्मजाच्छक्तिपराशरव्यासशुकादयः ।
ज्ञेयो विवेकस्त्वनयोर्द्वितीयात्कुण्डिनादयः॥
अत एव भिन्नगोत्रत्वाद्भिन्नशरीरत्वाच्च वसिष्ठवासिष्ठगणयोर्विवाहो भवति । जामदग्न्यविश्वामित्राणां देवरातवर्जं सर्वत्र विवाहः । अत्रिविश्वामित्राणां धनञ्जयवर्जं सर्वत्र विवाह इति । गोत्रप्रवर्तकाश्च प्राधान्येनाष्टौ मुनयः ।अगस्त्योऽष्टमः सप्तर्षयः । तथा च बौधायनः—
विश्वामित्रो जमदग्निर्भरद्वाजोऽथ गौतमः ।
अत्रिर्वसिष्ठः कश्यप इत्येते सप्त ऋषयः॥
सप्तानामृषीणामगस्त्याष्टमानां यदपत्यं तद्गोत्रमित्याचक्षत इति । अत्र प्रवरसंग्रहकारस्त्वष्टादश गणानाह—
जामदग्न्यो १ वीतहव्यो २ वैन्यो ३ गृत्समदाह्वयः४ ।
वाघ्र्यश्वो ५गौतमाख्यश्च ६भरद्वाजाह्वयः ७ कपिः ८॥
हारीतो ९ मौद्गलः काण्वो १० विरूपो ११ विष्णुवृद्धकः १२ ।
अत्रि १३ र्विश्वामित्रः१४ क्रौंचो १५ वसिष्ठः १६ कश्यपाह्वयः॥ १७॥
अगस्त्यश्चेति १८ मुनयो ह्यष्टादश गणाः स्मृताः ।
तत्र जामदग्न्यो विविच्यते—
जामदग्न्यश्च वत्सश्च श्रीवत्सश्च्यवनाह्वयः ।
आप्नवानौर्वसावर्णिर्जीवन्तो देवरातकः॥
वीतशायनशाखाख्यो वैरोहित्यो वटाह्वयः ।
मण्डःप्राचीनयोग्यः स्यादार्ष्टिषेणस्त्वनूपकः॥
एतानि भार्गवाख्यानि दश सप्तोत्तराणि च ।
जामदग्न्यगणे तस्मिन्न विवाहःपरस्परम्॥
वीतहव्यः—
वीतहव्यो यास्कमौनमौकवाधूलसंज्ञकाः ।
सावेतसः षडेतानि भार्गवाख्यान्वये गणः॥
वीतहव्यस्य चान्योन्यं न कार्यं पाणिपीडनम्॥
वैन्यः—
वैन्यः पार्थश्च गोत्रे द्वे भवतो भार्गवाह्रयः ।
एष वैन्यगणस्तत्र नान्योन्यं च करग्रहः॥
गृत्समदः—
उभगो वै गृत्समदः शौनको भार्गवाह्वयः ।
गणे गृत्समदे तस्मिन्नान्योन्यं पाणिपीडनम्॥
वाघ्र्यश्वः—
वाघ्र्यश्वो मित्रयुक्चैव उभौ भार्गवनामकौ ।
वाघ्र्यश्वस्य गणे तस्मिन्नुद्वाहो न परस्परम्॥
जामदग्न्यादयः पञ्च गणा भृगुगणाः स्मृताः ।
तथाऽप्येषां गणानान्तु विवाहःस्यात्परस्परम्॥
गौतमः—
गौतमो यास्क औतथ्यः कक्षीवानौशिजस्तथा ।
बृहदुक्थोवामदेवो गोत्रनामानि सप्त च॥
गौतमस्य गणस्तस्मिन्विवाहो न परस्परम्॥
भरद्वाजः—
भरद्वाजः कुशङ्क्वाग्निवेश्योज्जेयमतः कतः ।
शैशिरः पक्षिशुङ्गौच वन्दनश्चबृहस्पतिः॥
सर्वस्तम्बःकपिर्मातर्वचसो गार्ग्यसैन्यकौ।
भरद्वाजगणःसप्तदश गोत्रमिति स्मृतम्॥
अस्मिन्परस्परं कार्यं नकन्यापाणिपीडनम्॥
कपिः—
कपिश्च महदुक्षीय उदीयस्त्रीणि केवलम् ।
अयं कपिगणोऽन्योन्यमस्मिन्न हि करग्रहः॥
हारीतः—
हारीतो यौवनाश्वश्चमान्धाता कुत्सनामकः ।
पिङ्गलः शङ्खदक्षौ च भौमश्च गजनामकः॥
अम्बरीषो दशैतानि हारीतस्य गणः स्मृतः ।
तस्मिन्परस्परं पाणिग्रहणं न शुभं मतम्॥
मौद्गल्यः—
मौद्गल्यतार्क्ष्यभार्म्याश्वास्त्रीणि गोत्राण्यमुनि हि ।
मौद्गल्यस्य गणस्तस्मिन्न मिथःपाणिपीडनम्॥
कण्वः—
कण्वोऽजमीढ इत्येते गोत्रे कण्वगणः स्मृतः ।
तस्मिन्परस्परं पाणिग्रहणं न हि शोभनम्॥
विरूपः—
विरूपोऽष्टादँष्ट्रिनामा पृषदश्वश्च मौद्गणः ।
चत्वारीमानि गोत्राणि विरूपस्य गणः स्मृतः॥
परस्परं विवाहोऽस्मिन्न विधेय इतीरितः॥
विष्णुवृद्धः—
विष्णुवृद्धः पौरकुत्सस्त्रसदस्यः कतस्तथा ।
मद्रणो मद्रणाख्यश्च बादरायणसंज्ञकः॥
सत्यकाम्यौपमित्यौ च गविः सात्यकितालुकौ ।
नितुन्दश्चेति गोत्राणित्रयोदश मितानि च॥
विष्णुवृद्धगणस्तस्मिन्न विवाहःपरस्परम्॥
गौतमादिगणा अष्टौ ये तथाऽङ्गिरसो गणाः॥
तथाऽप्येषां गणानान्तु विवाहःस्यात्परस्परम्॥
अत्रिः—
तदेतद्गोत्रनवक्रमत्रिस्वाप्पर्चनानसः ।
श्यावाश्वोवापरन्ध्रश्चगविष्ठिरधनञ्जयौ॥
सुमङ्गलोऽतिथिर्बीजवापश्चात्रिगणो ह्ययम् ।
आत्रेयाख्यो विवाहोऽस्मिन्न विधेयो मिथोऽशुभः॥
विश्वामित्रः—
विश्वामित्रो देवरातो मनुस्तन्तुश्च औलिकिः।
बालकिश्चकितोलूकौ याज्ञवल्क्यश्च नारदः॥
बृहदग्निः कालयवौ शबलीबहुलोहितौ ।
शालङ्कायनचापर्ण्यौकामकायनपूरणौ॥
शिलोदनोऽग्निदेवश्च दमनः कौशिकोऽष्टकः ।
आज्यामाधुच्छन्दस्यश्च देवश्रवधनञ्जयो॥
शुङ्गः कतः शैशिरश्च वारिधापोऽधमर्षणः ।
सूनुः पनश्च धूम्राख्यो जठरश्चैव हव्यकः॥
अष्टत्रिंशच्च गोत्राणि विश्वामित्रगणः स्मृतः ।
एतस्मिन्नपि चान्योन्यन्न कुर्यात्पाणिपीडनम्॥
वसिष्ठः—
वसिष्ठ इन्द्रप्रमदो भरद्द्वाजस्तु सङ्कृतिः।
कौण्डिन्यःपूतिमाषश्च गोरीवी तु पराशरः॥
मैत्रावरुणशक्ती द्वावुपमन्योर्गणः स्मृतः ।
एकादश वशिष्ठस्य गोत्राण्यस्मिन्न दोर्ग्रहः॥
कश्यपः—
कश्यपो रेभरेभौच शाण्डिल्यो देवलोऽसितः ।
सङ्कृतिःपूतिमाषश्चावत्सारो नैध्रुवो दश॥
गोत्राणि काश्यपगणस्तत्रान्योन्यं न दोर्ग्रहः॥
अगस्त्यः—
त्रीण्यगस्त्यो वीतवहो दार्ढ्यच्युत इति स्मृतः ।
एषोऽगस्त्यगणस्तस्मिन्न विवाहःपरस्परम्॥
जमदग्निगणस्यापि विश्वामित्रगणस्य च ।
सङ्कृतिपूतिमाषाभ्यां नान्योन्यं पाणिपीडनम्॥
आत्रेयस्य गणस्यापि विश्वामित्रगणस्य च ।
धनञ्जयाख्यगोत्रेण नान्योन्यं पाणिपीडनम्॥
भारद्वाजगणस्यापि तथा कपिगणस्य च ।
विवाहो न विधेयः स्यादन्योन्यं च कदाचन॥
मौद्गलस्य गणस्यापि विरूपस्य गणस्य च ।
परस्परं न कुर्वीत पाणिग्रहणसत्क्रियाम्॥
आनष्टपो राकुलपःस्वानपो राजवारपः ।
सराश्वाहीनजाश्चैव बाहवस्तदनन्तरम्॥
तथाशा मुनयः प्रोक्ताःसौरन्ध्र्योराजसेवकाः ।
खापुंल्लिङ्गाश्चलौगाक्षिस्तथैव शरदम्बकाः॥
एते त्रयोदश प्रातर्वशिष्ठा निशि कश्यपाः ।
गायत्री योनिसम्बन्धावङ्गीकृत्य प्रवर्तकाः ।
अहर्वसिष्ठतां रात्रौ कश्यपत्वमपि स्वयम्॥
तेषां गोत्रद्वयं मुक्त्वा वसिष्ठं काश्यपं तथा ।
सर्वत्रापि विवाह्याः स्युरिति वेदविदो विदुः॥
यत्तुस्मृत्यन्तरे—
सावित्रीं यस्य यो दद्यात्तत्कन्यां न विवाहयेत् ।
तद्गोत्रे तत्कुले वाऽपि विवाहो नैवदोषकृत्॥ इति ।
तत्स्वगोत्राज्ञातृविषयम् । यतः—
गुरोः सगोत्रप्रवरा नोद्वाह्या क्षत्रवैश्ययोः ।
स्वगोत्राद्यनभिज्ञैश्चविप्रैराचार्यगोत्रजा॥
इति विशेषस्मरणात् । तथा —
व्द्यामुष्यायणका ये स्युर्दत्तकक्रीतकादयः ।
गोत्रद्येऽप्यनुद्वाहः शुङ्गशैशिरयोस्तथा॥
असम्प्रज्ञातबन्धूनामाचार्यप्रवराः स्मृताः ।
पक्षे चास्मिन्विवाहोऽपि सगोत्रैः सह नेष्यते॥ इति ।
अथ ये सप्रवरां कन्यामुद्वहेयुः तेषां निष्कृतिमाह प्रयोगपारिजाते- “सगोत्रां सप्रवरां कामतःपरिणीय प्रजामुत्पाद्य गुरुतल्पव्रतं चरेत् । प्रजां चण्डालेषु निक्षिपेत् ।अकामतस्तप्तकृच्छ्रं प्रजाऽनुत्पादे चान्द्रायणंविवाहमात्रे कृच्छ्रं चरेत् । सर्वत्र व्रतान्तेऽष्टोत्तरशतसमिदा होमः ।परित्यक्तां जननविद्रक्षेदिति” । अत्र विश्वादर्शेविशेष उक्तः—
अज्ञानाद्यदि चोद्वाहः प्रायश्चित्तं तथैव च ।
सगोत्रप्रवरायाश्च ततः सङ्ग्रहणेविधिः॥
विधानपारिजाते—
मोहादुद्वाहे दम्पत्योरेकं चान्द्रायणं स्मृतम् ।
द्विगुणं ज्ञानतस्तत्र परिणीतौ विधीयते॥
कन्यादातुर्भवेत्कृच्छ्रं ज्ञानतो द्विगुणं भवेत् ।
व्रतस्याकरणासक्तौ प्रत्याम्नायंसमाचरेत्॥
चीर्णव्रतां दुहितरं पिता चीर्णव्रतः शुचिः ।
भारद्वाजेषु विप्रेषु काश्यपेष्वथ वा क्षिपेत्॥
दुहितृत्वेन संगृह्य भरद्वाजोऽथ कश्यपः ।
घृतकुम्भस्य मार्गे तु तामादध्याद्विधानतः॥
जातकर्माहयावन्नप्राशनं चौलमेव च ।
विधाय मधुपर्कं च मन्त्रमात्रेण मन्त्रीवत्॥
मुहूर्त्तेविप्रकथिते शुचिन्तामप्यलङ्कृताम् ।
संस्कृतायार्थमानाय पत्ये तु प्रतिपादयेत्॥
वैवाहिकानथो मन्त्रविशेषानप्यतन्द्रितः ।
स्वगृह्योक्तक्रमेणैव पठेद्धृतवधूकरः॥
चतुर्थीकर्मपर्यन्तं विधिमेवं समाप्य तु ।
कृताशीर्वचनो विप्रैर्दक्षिणाभिः सुतोषयेत्॥
प्रणम्य विसृजेदेनान्पश्चाद्भोजयते तथा ।
कृत्वेत्थं पुनरुद्वाहं न किल्बिषमवाप्नुयात्॥
अन्यथा कुरुते यस्तु सङ्ग्रहं स नराधमः ।
व्रजेत्स्वपितृभिः सार्द्धं नरकानेकविंशतिम्॥
इति गोत्रप्रवरनिर्णयः ।
अथ क्रमप्राप्तशीलविचारो लिख्यते । यजुर्वल्लभायाम्—
कुलं शीलं वपुर्विद्या वयो वित्तं सनाथता ।
गुणाःसप्त वरे यस्मिँस्तस्मै कन्या प्रदीयते॥
अथ कुलपरीक्षा ।
यस्य शीलं न जानीयात्स्थानं त्रिपुरुषं कुलम् ।
कन्यादाने तथा श्राद्धे न वृणीयात्कदाचन॥
ब्राह्मणस्य कुलं ग्राह्यं न वेदाः सपदक्रमाः ।
कन्यादाने तथा श्राद्धे न विद्यात्तत्र कारणम्॥
वपुः शरीरं तस्य परीक्षा ।कात्यायनः—
उन्मत्तः पतितः कुष्ठी षण्ढश्चैव स गोत्रजः ।
चक्षुःश्रोत्रविहीनश्च तथाऽपस्मारदूषितः॥
कारिकानिबन्धे—
अन्धो मूकः क्रियाहीनाश्चापस्मारी नपुंसकः ।
दूरस्थःपतितः कुष्ठी दीर्घरोगी वरो न सन्॥
नात्यासन्ने नातिदूरे नात्याढ्ये नातिदुर्बले ।
वृत्तिहीने च मुर्खे च षट्सु कन्या न दीयते॥
मूर्खनिर्धनदुर्गन्धशूरमोक्षाभिलाषिणाम् ।
त्रिगुणाधिकवर्षाणां न देया जातु कन्यका॥
अथ नपुंसकलक्षणम् ।
यस्याप्सु प्लवते बीजं ह्रादि मूत्रं च फेनिलम् ।
पुमान्स्याल्लक्षणैरेतैर्विपरीतैस्तु षण्ढकः॥
अपत्यार्थं स्त्रियः सृष्टाः स्त्री क्षेत्रं बीजिनो नराः ।
क्षेत्रं बीजवते देयं नाबीजे क्षेत्रमर्हति॥
अपरीक्ष्य वरं कन्यां निर्गुणाय ददाति यः ।
कुलं तस्यैव तच्छोकसन्तप्तो विनिकृन्तति॥
अथ वरगुणाः ।अनन्तपाठककारिकायाम्—
विद्याचारविचारवानुपकृतिव्यासक्तचित्तः सदा ।
धैर्योदार्यगभीरतादिगुणवान्सद्वंशजो धर्मकृत् ॥
सल्लक्ष्मातिसमृद्व्रिमान् क्षितितले ख्यातः सतां सम्मतः ।
श्रेयस्तोषकरःशिरोनतिकरः सन्दर्शनीयो वरः॥
युवा विलासी प्रबलःसुगात्र आजानबाहुश्च कपाटवक्षाः ।
विशालनेत्रो बहुसौकुमार्यःकार्यःकुमारीहृदयप्रभेत्ता॥
प्रभाणि च—
कन्या वरयते रूपं माता वित्तं पिता श्रुतम् ।
बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जनाः॥
एतैरेव गुणैर्युक्तः सवर्णः श्रोत्रियो वरः॥ इति ।
अथ कन्याया दूषणानि तत्रैव—
नो कार्या सुमषीमुखी पृथुललज्जिह्वोच्चनासा वधू-
र्लम्बोष्ठीविकटोन्नतद्विजधरी पिङ्गाल्पनेत्राञ्चला॥
नित्यं निष्ठुरघर्घराऽनृतरवा मालिन्यदैर्घ्यालसा ।
दृष्टा मन्मथपीडितस्य तरसा त्याज्याऽपि थूकृत्पणा॥
शुष्काङ्गीपुरुषाकृतिर्गदपरिक्लिष्टा सरोमा परं
हस्वाऽभ्रातृमती वराधिकसमा व्यङ्गाऽधिकाङ्गा शठा ।
दानाद्वा पुरुषान्तरेण बलतो भुक्ता सगोत्रा तथा ।
स्यात्तुल्यप्रवरा च या तु जननीगोत्रा सपिण्डा तथा॥
हीने कुले समुत्पन्ना गुणरूपवती परम् ।
उत्तमेऽपि न कर्तव्या कन्या रोगादिदूषिते॥
अथ कन्यागुणाः ।अनन्तपाठककारिकायाम्—
कार्या पूर्णकचा कलानिधिमुखी स्यात्सुक्ष्मबालाऽबला
बिम्बोष्ठी नवपुण्डरीकनयना हीनार्द्धदन्तावलिः॥
पुष्टा मञ्जुलभाषिणी कृशकटिस्थाना सुचिह्नाङ्कितै-
र्युक्ता पाणिपदैर्विरागिपुरुस्यान्तःप्रभेत्त्री क्षणात्॥
विद्यासदाचारविचारकीर्तिमत्कुलप्रसूता चतुरा सुधर्मिणी ।
विलासिनी दर्शनमात्रतो हृदि द्रष्टुश्चमत्कारकरीक्षणैः परम्॥
ज्योतिर्निबन्धे—
वधूं सुलक्षणोपेतां प्रसन्नास्यां कुलोद्भवाम् ।
कन्यकां वृणुयाद्भूप ! वेणीमध्यगविग्रहाम्॥
अथ स्त्रीलग्नविचारः ।लग्नचन्द्रिकायाम्—
लग्ने च सप्तमे पापं सप्तमे वत्सरे पतिः ।
म्रियते चाष्टमे वर्षे चन्द्रः षष्ठाष्टमोयदि॥
जातकाभरणे—
सप्तमे दिनपतौ पतिमुक्ता क्षोणिजे च विधवा खलु बाल्ये ।
पापखेचरविलोकनयाते मन्दगे च युवती जरती स्यात्॥
खलैः कलत्रे च गतालका स्यात्कान्ता विमिश्रैश्च भवेत्पुनर्भूः।
कलत्रसंस्थेऽविबले कलाख्ये सौम्यैरदृष्टेऽविभुनुर्वियुक्ता॥
लग्नचन्द्रिकायाम्—
लग्नस्थे सिंहिकापुत्रे रण्डा भवति कन्यका ।
सप्तमे भार्गवे जाता कुलदोषकरी भवेत्॥
कर्कराशिस्थिते भौमे स्वैरंभ्रमति वेश्मसु ।
लग्नात्सप्तमगः पापश्चन्द्रात्सप्तमगोऽपि वा॥
सद्यो निहन्ति दम्पत्योरेवं नास्त्यत्र संशयः ।
लग्ने व्यये चतुर्थे च पञ्चमे सप्तमे ग्रहाः॥
पतिवन्ध्या भवेन्नारी नारीवन्ध्यो भवेत्पतिः॥
वराहः—
क्रूरेऽष्टमे विधवता निधनेश्वरोंऽशे
यस्य स्थितो वयसि तस्य समे प्रदिष्टा ।
सत्स्वर्थगेषु मरणं स्वयमेव तज्ञाः
कन्यालिगोहरिषु चाल्पसुतत्वमिन्दौ॥
पापेऽस्ते नवभगतग्रहस्य तुल्यां
प्रव्रज्यां युवतिरुपैत्यसंशयेन ।
उद्बाधे वरणविधौ प्रदानकाले
चिन्तायामपि सकलं विधेयमेतत्॥
अन्यत्रापि—
लग्ने व्यये च पाताले सप्तमे चाष्टमे कुजे ।
कन्या हरति भर्तारं भर्त्ता हरति कन्यकाम्॥
चन्द्रिकायाम्—
द्वादशे चाष्टशे भौमे क्रूरे तत्रैव संस्थिते ।
लग्नस्थे सिंहिकापुत्रे रण्डा भवति कन्यका॥
पापयोरन्तरे लग्ने चन्द्रे वा यदि कन्यका ।
जायते च सदा हन्ति पितृश्वशुरयोःकुलम्॥
सूर्येऽस्तगे पतित्यक्ता भौमे बाल्येऽधवा भवेत् ।
सर्वैः पापैः स्मृता रण्डा पुनर्भूः शुभमिश्रितैः॥
शरीरं लग्नचन्द्राभ्यां अष्टमाद्भर्तृनाशनम् ।
स्वामिसौभाग्यते द्व्यूनात्प्रवासो नवपञ्चमे॥
अथ बालवैधव्ययोगपरिहारमाह ।सप्तमस्थानं स्वस्वामिसौम्यग्रहोक्षितं चेद्भवति तदा भर्तृसुखं भवतीति । तदुक्तं षट्पञ्चाशिकायाम्—
यो यो भावः स्वामिदृष्टो युतो वा
सौम्यैर्वा स्यात्तस्य तस्याभिवृद्धिः॥ इति ।
होरामकरन्देऽपि—
मृर्त्तौ तुर्ये४ऽष्टमेभौमे सप्तमेऽन्त्ये च १२ जन्मनि ।
भर्त्तुर्योषिद्विनाशः स्यात्स्त्रियां भर्तुर्विनाशनम्॥
एवं विधे कुजे संस्थे विवाहो न कदाचन ।
कार्यो वा गुणबाहुल्ये कुजे वा तादृशे द्वयोः॥
ज्योतिर्निबन्धे —
भौमदुष्टा तु या कन्या भौमदुष्टवराय च ।
तत्तद्ग्रहजदोषोत्था तत्तद्ग्रहवराय वै॥
अन्ये स्त्रीणां महत्वारिष्टयोगे भर्तुश्च स्वल्पेऽरिष्टयोगे तत्तत्परिहारमाहुः । पुराणान्तरे—
बालवैधव्ययोगेऽपि कुम्भद्रुप्रतिमादिभिः ।
कृत्वा लग्नं रहः पश्चात्कन्योद्वाह्येति चापरे॥
प्रभासखण्डे—
सावित्र्यादिव्रतानीह भक्त्या कुर्वन्ति याः स्त्रियः ।
सौभाग्यं सुभगत्वं च भवेत्तासां सुसन्ततिः॥
व्रतग्रग्रहणप्रकारस्तु व्रतप्रकाशे ज्ञानभास्करे—
बलवद्विधवायोगे बाल्ये सति मृगीदृशाम् ।
पिता रहसि कुर्वीत तद्भङ्गं शास्त्रसम्मतम्॥
सुदिने शुभनक्षत्रे चन्द्रताराबलान्विते ।
व्रतारम्भं प्रकुर्वीत बालवैधव्यनाशकम्॥
सुस्नातां चित्रवास्त्राढ्यां कन्यां पितृगृहाद्बहिः ।
नीत्वाऽश्वत्थं शमीस्थाने यद्वा बदरिकाश्रमे॥
आलवालं प्रकुर्वीत विपुलं मृदुकर्षितम् ।
कुमार्याचार्यनिर्दिष्टं कृतसङ्कल्पमादरात्॥
करकाम्बुप्रकीर्णेन सिञ्चनं प्रतिवासरम् ।
चैत्रे चाश्विनमासेच तृतीयासितपक्षतः॥
यावत्कृष्णतृतीयाया मासमेकं यथाविधि ।
ब्राह्मणानां यथा स्त्रीणां पूजनन्तु समाचरेत्॥
तदाशिषाऽप्नुयात्कन्या सौभाग्यं च सुखान्वितम् ।
प्रतिमां पार्वतीशार्नीवैष्णवे भाजनेऽर्चयेत्॥
चन्दनाक्षतदूर्वाद्यैर्बिल्वपत्रैर्यथाविधि ।
उपचारैर्यथाशक्त्या नैवेद्यैः प्रतिवासरम्॥
एवं व्रतप्रभावेण बालवैधव्यनिष्कृतिः ।
जायते कन्यकानां च ततः पाणिग्रहक्रिया॥
इत्यश्वत्थव्रतम् ।अन्यमपि वैधव्ययोगपरिहारमाह मार्कण्डेयः—
बालवैधव्ययोगेऽपि कुम्भद्रुप्रतिमादिभिः ।
कृत्वा लग्नं रहः पश्चात्कन्योद्वाह्येऽतिचारके॥
कुम्भ इति मन्थन्या अपि उपलक्षणम् ।द्रुर्वृक्षोऽश्वत्थ एव । प्रतिमा विष्णोःसौवर्णी करशिरोवयवादिसहिता न शालिग्रामादिरूपा । तत्र कुम्भविवाहः सूर्यारुणसंवादे—
विवाहात्पूर्वकाले तु चन्द्रताराबले शुभे ।
विवाहोक्ते च मन्थन्या कुम्भेन सह चोद्वहेत्॥
पिता सङ्कल्प्य ब्राह्मं च विवाहं विधिपूर्वकम् ।
सूत्रेणावेष्टयेत्पश्चाद्दशतन्तुं विधानतः॥
कुम्भमालङ्कृतं देहे तयोरेकान्तमन्दिरे ।
ततः कुम्भं च निःसार्य प्रभज्यसलिलाशये॥
ततोऽभिषेचनं कुर्यात्पञ्चपल्लववारिभिः ।
तत्सर्वंवस्त्रपूजाद्यं ब्राह्मणाय निवेद्य च॥
अन्यालङ्कारवस्त्राद्यं ब्राह्मणाय निवेदयेत्॥
अथ कुम्भप्रार्थना—
वरुणाङ्गस्वरुप<MISSING_FIG href=”../books_images/U-IMG-1696389834Screenshot(40”/>.png)त्वं जीवनानां समाश्रय<MISSING_FIG href=”../books_images/U-IMG-1696389834Screenshot(40”/>.png)।
पतिं जीवय कन्यायाश्चिरं पुत्रान् सुखं वरम्॥
देहि विष्णुवराद्देव<MISSING_FIG href=”../books_images/U-IMG-1696389834Screenshot(40”/>.png)कन्यां पालय दुःखतः॥
इति कुम्भविवाहः । अथाश्वत्थविवाहोऽपि तत्रैव—
द्विजान्गुरुन् सुहृन्नारीमङ्गलोच्चारणैः सह ।
आहूयोद्वाहकाले च रम्यभूमौ सुमण्डपे॥
गत्वा प्रणम्य गौरीं च गणनाथं च भूरुहम् ।
भवानीं चैव मन्थानीं पिता मन्त्रमुदीरयेत्॥
उद्वाहयिष्ये विधिवदश्वत्थन्न मनोहरम् ।
कन्यासौभाग्यसौख्यार्थहेतवेऽहं द्विजोत्तमाः !॥
नमस्ते विष्णुरूपाय जगदानन्दहेतवे ।
पितृदेवमनुष्याणामाश्रयाय नमो नमः॥
वनानां पतये तुभ्यं विष्णुरूपाय भूरुह ! ।
नमो निखिलपापौघनाशजाय नमो नमः॥
पूर्वजन्मभवं पापं बालवैधव्यकारकम् ।
नाशयाशु सुखं देहि कन्याया मम भूरुह !॥
इत्यश्वत्थविवाहसङ्कल्पप्रार्थने । विवाहस्तु कुम्भविवाहवद्विधेयः । एवमेव सौवर्ण्या विष्णुप्रतिमया सह विवाहं विधाय प्रतिमां ब्राह्मणाय दद्यात् । दानप्रकारस्तु तत्रैव—
शुभे मासे सिते पक्षे सानुकूलग्रहे दिने ।
ब्राह्मणं साधुमामन्त्र्य संपूज्य विविधार्हणैः॥
तस्मै दद्याद्विधानेन विष्णुमूर्त्तिं चतुर्भुजाम् ।
शुद्धवर्णसुवर्णेन वित्तशक्त्याऽथवा पुनः॥
निर्मितां रुचिरां शङ्खगदाचक्राब्जसंयुताम् ।
दधानां वाससी पीते कुमुदोत्पलशालिनीम्॥
सदक्षिणां च तां दद्यान्मन्त्रमेतमुदीरयेत् ।
यन्मया पूर्वजनुषि घ्नन्त्या पतिसमागमम्॥
विषोपविषशस्त्राद्यैर्हतो वाऽतिविरक्तया ।
प्राप्यमाणं महाघोरं यशःसौख्यधनापहम्॥
वैधव्याद्यतिदुःखौघनाशाय सुखलब्धये ।
बहुसौभाग्यलब्ध्यै च महाविष्णोरिमां तनुम्॥
सौवर्णनिमितां शक्त्या तुभ्यं संप्रददे द्विज !।
अनघाऽद्याहमस्मीति त्रिवारं प्रवदेदिति॥
एवमस्त्विति विप्राशीर्गृहीत्वा स्वगृहे विशेत् ।
ततो वैवाहिकं दाता विधिं कुर्यान्मृगीदृशः॥
इति प्रतिमादानविधिः । पूर्वं घटादिभिः सह विवाहमेकान्ते विधाय पश्चाद्वादित्रघोषपुरःसरं पित्रादिःकन्यामायुष्मते वराय दद्यात् । अत्र पुनर्विवाहात्पुनर्भूदोषो न भवति । तदाह विधानखण्डे—
स्वर्णाम्बुपिप्पलाभांच प्रतिमां विष्णरूपिणीम् ।
तथा सह विवाहे च पुनर्भुत्वं न जायते॥
अत्राम्बुशब्देन जलपूर्णो घटो लक्ष्यते । चकारात् घटस्यापि ।
लक्ष्मीरूपा सदा कन्या हरिरूपं सदा जलम् ।
हरेर्दत्तं च यद्दानं दातुः पापहरं सदा॥
लक्ष्मीनारायणप्रीत्यै या दत्ता कन्यका बुधैः ।
तारयेत्सकलं दातुः कुलं पूर्वापरं सदा॥
चन्द्रवह्न्यम्बुगन्धर्वशिवसोमस्मरा इमे ।
पतयः कन्यकानां च बाल्यात्सन्ति सदैव ते॥
तदुद्वाहविधिर्यत्नात्कृतो नो जनयेदघम् ।
यथानिर्भुक्तमानानां देवानां पूजनाय वै॥
अर्हं भवति सर्वत्र तथा कन्या नृणां भवेत् ।
अतो दैवतेभोग्यानां कन्यानां पुरुषविवाहे न दोषः । अत एव—
मन्थन्या भास्करो यत्नात्कृतवान् दुहितुर्विधिम् ।
रेणुकोऽपि स्वयं कन्यातरूद्वाहं चकार सः॥ इति ।
प्रयोगः ।स्नानाचमने कृत्वा कन्या देशकालौसंकीर्त्त्यमम जन्मसमये ग्रहयोगसूचितं बालवैधव्यनाशककरकाम्बुसेचनमश्वत्थेप्रत्यहमहं करिष्ये । एवं सङ्कल्पं कृत्वा प्रत्यहं मासपर्यन्तं कार्यम् । ततस्ताम्रपात्रे भवानीशङ्करप्रतिमायाः चन्दनाक्षतदूर्वाद्यैर्बिल्वपत्रैर्धूपदीपनैवेद्यैरुपचारैःपूजनं कर्तव्यम् । अनेन बालवैधव्यनिष्कृतिः । इत्यश्वत्थ व्रतम् । अथ सुवर्णप्रतिमादानविधिः ।सुवर्णशब्दोऽत्र जातिवाची ।परिमाणं तु पलं तदर्धमर्धार्धान्यतररूपं दानपरिभाषोक्तं ग्राह्यम् । अथ प्रयोगः ।स्नानाचमने कृत्वा कन्या देशकालो सङ्कीर्त्त्य “वैधव्यहरं प्रतिमादानमहं करिष्ये” ।इति सङ्करस्यगणेशपूजनं स्वस्तिवाचनं कृत्वाऽचार्यवरणं च कृत्वा यथाशक्ति तं संपूज्य तद्धस्तेन “हिमस्य त्वे"ति मन्त्रेण घृतादिना स्नापयित्वा प्राणप्रतिष्ठां षोडशोपचारैः पूजनं च कारयेत् ।वस्त्रार्पणसमये पीते वाससी दापनीये कुसूमार्पणे कुमुदोत्पलमाला ।पूजान्ते देवं कन्या प्रणम्य मन्त्रं पठित्वा ब्राह्मणाय दद्यात् । ततः सुवर्णपरिमितं यथाशक्ति वा हेम दक्षिणां दत्वा “अनघाऽद्याहमस्मी’ति त्रिर्वदेत् । “एवमस्त्वि"ति ब्राह्मणोऽपि त्रिः । ततो यथाशक्ति ब्राह्मणान् भोजयित्वा विवाहयोग्या भवति । इति वैधव्यहर प्रतिमादानविधिः । अथ कुम्भविवाहविधिः । आसमन्ताच्चन्दनपुष्पादिभिरलङ्कृतं कुम्भं कन्यादेहं च तदुभयसम्बन्धिनि मन्दिरे इति । अथ विवाहकर्ता पित्रादिराचम्य प्राणानायम्य देशकालौसंकीर्त्त्य"अस्याः मम कन्यायाःअमुकनाम्न्याः वैधव्यहरं कुम्भविवाहं करिष्ये” इति सङ्कल्प्य गणेशपूजापुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धं च कृत्वा वरुणविष्णुप्रतिमयोः प्राणप्रतिष्ठादिसर्वं कृत्वा ‘महीद्यौ’रिति भूमिस्पर्शनम् । ‘धान्यमसी’ति धान्यम् । ‘आजिघ्रे’ति धान्योपरिकलशं निधाय ‘वरुणस्योत्तम्भन’मिति जलेनापूर्य ‘त्वां गन्धर्वे’ति गन्धप्रक्षेपः । “अक्षन्नमीमदन्ते"ति अक्षताः। “या ओषधी"रिति सर्वोषधीः । काण्डात्काण्डा"दिति दूर्वाः। “स्योना पृथिवीति”-
सप्तमृदः। “परि वाजपति"रितिपञ्च रत्नानि । “याःफलिनी"रिति फलम् ।“हिरण्यगर्भ” इति हिरण्यम् । “पयः पृथिव्या"मिति पयः । “दधिक्राव्णे"ति दधि । “घृतम्मिमिक्ष” इति घृतम्। “मधु व्वाते"ति मधु । “अपा<MISSING_FIG href=”../books_images/U-IMG-1696391685Screenshot2023-09-28122656.png”/>रस"मिति शर्कराम् । “युवा सुवासा" इति मन्त्रेण सूत्रेणावेष्ट्यवरुणपूजांविधाय कलशोपरि ताम्रपात्रे स्थापितविष्णुप्रतिमायां विष्णोरावाहनादिषोडशोपचारैः पूजांविधाय प्रार्थयेत् ।
वरुणाङ्गस्वरूप ? त्वं जीवनानां समाश्रय ? ।
पतिं जीवय कन्यायाश्चिरं पुत्रान्सुखं वरम्॥
देहि विष्णुवराद्देव ? कन्यां पालय दुखतः॥
ततो ‘विष्णुरूपिणे कुम्भाय इमां कन्यां श्रीरुपिणीं समर्पयामी’ति समर्प्य “परि त्वा गिर्व्वण” इति मन्त्रेण अधस्तादुपरिष्टाच्च मन्त्रावृत्या कुम्भं कन्यां परिवेष्ट्यततः कुम्भं निःसार्य सलिलाशये प्रभञ्ज्य पञ्चपल्लवैः शुद्धजलेन “समुद्रज्येष्ठा” इत्यादिमन्त्रैः कन्यामभिषिच्य ब्राह्मणान्भोजयेदिति ।इति कुम्भविवाहः ।
यथैव वरसंस्कारात्ताम्रं काञ्चनतां व्रजेत् ।
तथा दुष्टफला कन्या विमला स्याद्विधानतः॥
इति श्रीप्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्रविवरणे
संस्कारगणपतौ वैधव्ययोगपरिहारः ।
अथ मूलजादीनां फलम् ।ज्योतिर्निबन्धे—
मूलजा श्वशुरं हन्ति सार्पजा च तदङ्गनाम् ।
ज्येष्ठजा तु पतिज्येष्ठंदेवरं तु द्विदैवजा॥
मुलान्त्यपादजौश्रेष्ठौ तथाऽश्लेषाद्यपादजौ ।
तदन्यपादजौ दुष्टौ तद्वज्ज्येष्ठान्त्यपादजौ॥
न हन्ति देवरं कन्या तुलामिश्रद्विदैवजा॥
कश्यपपटले—
प्रत्न्यग्रजामग्रजं वा हन्ति ज्येष्ठर्क्षजः पुमान् ।
तथा भार्यास्वसारं च शालकं वा द्विदैवजः॥
ज्योर्तिनिबन्धे—
मूलवब्यालभवो दोषस्तथा हेय उदाहृतः।
स मौञ्जीवन्धनादूर्ध्वं पुंसां नैवेति के चन॥
मूले सार्पे विशाखायामैन्द्रभे चोद्भवः पुमान् ।
न दोषकृद्विवाहेषु स्त्रियः सर्वत्र गर्हिताः॥
भवे भवाधिपं चैव चन्द्रे च वक्षशालिनि ।
उक्तदोषा विनश्यन्ति शुभग्रहयुतेक्षिते॥
इति मूलजादीनां फलम् । अथ विषकन्यालक्षणं यवनः—
भद्रा २\।७\।१२ तिथिर्यदाऽश्लेषा विशाखा शततारका ।
मन्दाररविवारेषु विषकन्या प्रजायते॥
द्वादशी वारुणं सूर्य्ये विशाखा सप्तमी कुजे ।
मन्देऽश्लेषा द्वितीया च विषकन्या प्रजायते॥
त्रैलोक्यप्रकाशे—
रिपुक्षेत्र स्थितौ द्वौ तु लग्ने यत्र शुभग्रहौ ।
अस्मिन्योगे तु जाता स्त्री सा भवेद्विषकन्यका॥
इति विषकन्यालक्षणम्॥ अथ क्रमप्राप्तभमेलमाह । उक्तं च—
ज्योतिर्विदं समभ्यर्च नक्षत्रे वाऽथ नामनी ।
निवेद्य कन्यावरयोः परिपृच्छेत योग्यताम्॥
विवाहे सर्वमाङ्गल्ये यात्रादौ ग्रहगोचरे ।
जन्मराशेः प्रधानत्वं नामराशिं न चिन्तयेत्॥
देशे ग्रामे ग्रहे युद्धे सेवायां व्यवहारके ।
नामराशेः प्रधानत्वं जन्मराशिं न चिन्तयेत्॥
स्वरशास्त्र—
प्रसुप्तो येन जागर्ति येनागच्छति शाब्दितः ।
तत्र नामादिमो वर्णो ग्राह्यस्तस्माद्भनिर्णयः॥
न प्रोक्ता ङञणा वर्णा नामादौ सन्ति ते न हि ।
चेद्भवन्ति तदा ज्ञेया गजडास्ते यथाक्रमम्
ज्योतिः प्रकाशे—
जन्मलग्नात्फलं सर्वमायुर्दायदशादिकम् ।
कीर्त्तितं मुनिभिस्तत्तु समेले नामभं कथम्॥
विवाहवृन्दावने भमेलमाह—
जन्मलग्नमिदमङ्गमङ्गिनामेति रे मन ! इतीन्दुमन्दिरम् ।
सौहृदं हि मनसोर्न देहयोर्मेलकस्त्वयमिन्दुगोलयोः॥
वर्णो वश्यं मिथस्तारा योनिग्रहगणेष्टता ।
राशिकुटं नाड़िकाः स्युरेकाधिकगुणा अमी॥
कर्कालिमीना विप्राः स्युः क्षत्रियाः सिंहधन्वजाः
कन्यागोमकरा वैश्याः शूद्रा युग्मतुलाघटाः॥
सवर्णोऽधिकवर्णो वा वरः श्रेष्ठः स्त्रियो भवेत्॥
सवर्णैक्यं वरोत्तममुभयत्राप्येको गुणः । हीनवरे गुणाभावः । उक्तं च ज्योतिर्निबन्धे—
एको गुणः सदृग्वर्णे तथा वर्णोत्तमे वरे।
हीनवर्णे बरे शून्ये केऽप्याहुः सदृशे दलम्॥
नृराशेर्जलजा भक्षा वश्याः सिंहं विनाऽखिलाः ।
सिंहस्य सकला वश्या वर्जयित्वा तु वृश्चिकम्॥
लोकादन्यद्विदित्वा तु वश्यावश्यं वदेद्बुधः।
वैरिभक्ष्ये गुणाभावो द्वयोः सख्ये गुणद्वयम्॥
वश्यवैरे गुणश्चैको वशवश्ये गुणाधिकम्।
वधूवरर्क्षाद्गणयेदन्योऽन्यर्क्षं ग्रहैर्भजेत्॥
त्रिपञ्चसप्तशेषे स्यात्तारा दुष्टाऽन्यथा शुभा।
एकतो लभ्यते तारा शुभा चैवान्यतोऽशुभा॥
तदा सार्द्धगुणश्चैव ताराशुद्धौ मिथस्त्रयः॥
नारदः—
अश्वौ शतभिषाऽश्विन्यौ रेवती भरणी गजौ ।
अग्निपुष्यावजौ प्रोक्तौ सर्पौ च मृगरोहिणी॥
आर्द्रामूले तथा श्वानौ मूषको भगपैतुके ।
आदित्याही च मार्जारौआपो विष्णुश्च मर्कटौ॥
अहिर्बुध्न्यार्यमे गावौ मित्रज्येष्ठे मृगे तथा ।
वसुप्रोष्ठपदौ सिंहौ हस्तस्वाती च माहिषौ॥
चित्राविशाखा व्याघ्राख्येऽभिजिद्विश्वे च बभ्रुवौ ।
अनयोर्वैरम्।
वैरं स्यादश्वमहिषं श्वमृगं कपिमेषकम् ।
गोव्याघ्रं सर्पनकुलं मूषोतुं मृगराङ्गजम्॥
गजयोः श्वानयोः मार्जारयोः व्याघ्रयोः सिंहयोः एकयोनित्वेऽपि न मित्रत्वम् । शत्रुत्वमेव कलहकारणात् । बृहस्पतिः—
एकयोनिषु सम्पत्यै दम्पत्योः सङ्गमः सदा ।
भिन्नयोनिषु मध्यं स्यादरिभावो न चेत्तयोः॥
गर्गसंहितायाम्—
एकयोनिषु कलहो गजयोः सिंहयोः सुनोः ।
महद्वैरेऽपि समता माहिषस्य कपेस्तथा॥
इति योनिः ।
अथ ग्रहमैत्री—
सूर्यान्मित्रं कुजेन्द्वीज्या ज्ञार्कौ सूर्येन्दुमूरयः ।
शुक्रार्कौ कुजचन्द्रार्का ज्ञशनी बुधभार्गवौ॥
शत्रवः शनिशुक्रौ नो बुधश्चन्द्रो ज्ञभार्गवौ ।
सूर्येन्द्रू कुजचन्द्रार्काः सूर्याच्छेषाः समा मताः॥
बृहस्पतिः—
दम्पत्योर्जन्मलग्नाभ्यां यौ ग्रहावधिपौ मतौ ।
तयोः परस्परं मैत्र्ये सर्वसम्पदुपस्थिता॥
औदासीने मध्यमं स्यादरिभावे न शोभनम्॥
ज्योति प्रकाशे—
राशीशौ सुहृदौ स्यातां जन्मकाले यदा तदा ।
ग्रहवैरेऽपि कर्तव्यं भकूटं मुनयो जगुः॥
तात्कालिकमैत्रीत्यर्थः । तत्कालमैत्रीप्रकारमाह—
“अन्योन्यस्य धनव्यवाय सहजन्यायार बन्धुस्थि २ । १२ । ११ । ३ । १०।४ ता । तत्काले सुहृदो भवन्ति” इति । एकाधिपतित्वे परस्परमैत्रत्वे पञ्च गुणाः । सममित्रत्वे चत्वारः । उमयसमत्वे त्रयः । मित्रैवेरे गुणद्वयम् । समबैरे एको गुणः । परस्परवैरे गुणाभावः ।
इति ग्रहमैत्री । तच्चक्रं प्रदर्श्यते ।
[TABLE]
अथ गणमैत्रीविचारः ।
अश्विनीमृगरेवत्यो हस्तपुष्पौ पुनर्वसू ।
अनुराधा श्रुतिः स्वाती कथितो देवतागणः॥
तिस्रः पूर्वा उत्तराश्च तिस्त्रोऽप्यार्द्रा च रोहिणी ।
भरणी च मनुष्याख्यो गणश्च कथितो बुधैः॥
कृत्तिका च मघाऽश्लेषा विशाखा शततारका ।
चित्रा ज्येष्ठा धनिष्ठा च मूलं रक्षोगणः स्मृतः॥
स्वगणे परमा प्रीतिर्मध्यमा नरदेवयोः ।
नरराक्षसयोर्मृत्युः कलहो देवरक्षसोः॥
अस्यापवादमाह मनुः —
ग्रहमैत्री च रज्जुश्च यदि नाडी पृथक्तयोः ।
विवाहः शुभदः कन्या राक्षसी वा वरो नरः॥
वराहः—
सद्भकूटं योनिशुद्धिर्ग्रहमैत्री गुणत्रयम् ।
एष्वेकतमसद्भावे कन्या रक्षोगणा शुभा॥
गणसादृश्ये सुरमानुषे तत्र षडूगुणाः । देवराक्षसयोर्नर राक्षसयोश्च शून्यम् । स्त्री देवः पुरुषो नरस्तत्र पञ्च गुणाः । पुरुषो रक्षोगणो नारी देवोऽथ वा नरः तत्र एको गुणः । इति गणप्रीतिः॥ अथ भकूटमाह ।
द्विर्दाशं दरिद्रार्थं मृत्यवे च षडष्टकम् ।
नवपञ्चमकं राश्योर्वैपुत्र्याय परं शुभम्॥
बृहस्पतिः—
पञ्चमनवमे शुभदौ मेषहरी कर्किवृश्चिकौप्रोक्तौ ।
समसप्तमेऽप्यशुभदौ घटसिंहौ पाणिपीडने कथितौ॥
दुष्टकूटे परिहारमाह चिन्तामणिटीकायाम्—
विषमात्कन्यकाराशेः षष्ठं षष्ठाष्टकं न सत् ।
समात्षष्ठं शुभं ज्ञेयमष्टषष्ठं शुभं द्वयात्॥
वसिष्ठः—
द्विर्द्वादशे वा नवपञ्चमे वा षडष्टके राक्षसयोषिता वा ।
एकाधिपत्ये भवनेशमैत्रे शुभाय पाणिग्रहणं विधेयम्॥
मित्रत्वभावेऽपि विवाहयोग्यषडष्टकमुच्यते । श्रीधरीये—
मेषेण कन्या धनुषा ककुद्मौ तौल्यान्तिभिः कुम्भभृता कुलीरः ।
सिंहेन नक्रो नृयुगेन कौर्पिः षष्ठाष्टमे चापि शुभाय योगः॥
सद्भकूंटे सप्त गुणाः । भकूटदोषापवादे चत्वारः । दुष्टभकूटे गुणाभावः॥ इति राशिकूटम्॥ अथ नाड़ीविचारः।
अश्विन्यार्द्राहस्तमूलज्येष्ठाश्चोत्तरफाल्गुनी ।
पूर्वाभाद्रपदादित्यं शतताराद्यनाडिका॥
भरणी मृगपुष्याऽनुराधा चित्रा धनिष्ठिका ।
पूर्वाऽऽषाढोत्तरा भाद्रमध्यमा पूर्वफाल्गुनी॥
कृत्तिका श्रवणस्वाती विशाखा रेवती मघा ।
अश्लेषा रोहिणी चान्त्योत्तराऽऽषाढासु चेतरा॥
**सा मध्यनाडी पुरुषं निहन्ति तत्पार्श्वनाडी खलु कन्यकान्तु । **
आसन्नपर्यायसमागता चेद्वर्षेण साऽप्यन्तरिता त्रिवर्षेः ॥
नारदः—
चतुस्त्रिद्व्यङ्घ्रिभोत्थायाः कन्यायाः क्रमशोऽश्विभात् ।
वह्निभादिन्दुभान्नाडी त्रिचतुःपञ्चपर्वसु॥
गणयेत्संख्यया मध्यनाड्यां मृत्युर्न पार्श्वयोः॥
पारिजाते—
त्रिरेखपक्षे गणयेदुडूनि चत्वारि पक्षे अभिजिद्युतानि ।
उभे समारोह्य च रोहिणी तथाऽवरोहपञ्चाङ्गुलिवर्जितं च॥
नारदः—
चतुर्नाडी त्वहल्यायां पाञ्चाले पञ्च नाढिकाः ।
त्रिनाडी सर्वदेशेषु वर्जनीया प्रयत्नतः॥
अस्यापवादः—
नक्षत्रभेदे राश्यैक्ये भैक्ये राशिद्वये सति ।
नक्षत्रैक्ये पादभेदे नाडीदोषादिकं न हि॥
एकराशौ द्विनक्षत्रे वर्ज्यनक्षत्राण्याह गर्गः—
एकराशौ द्विनक्षत्रे कृत्तिका यस्य तारका ।
धनिष्ठा शततारा च पुष्याऽश्लेषा च वर्जयेत्॥
एकनक्षत्रयोगे भृगुः—
रोहिण्यार्द्रामघेन्द्राग्नितिष्यश्रवणपोष्णभम् ।
अहिर्बुन्ध्यस्तथाष्टौ च शुभं भवति नान्यथा॥
एवं द्वितीयविवाहादौ सङ्कीर्णविषयं शौनकः—
वर्गवैरं योनिवैरं गणवैरं नृदूरकम् ।
दुष्टकूटफलं सर्वं ग्रहमैत्र्या विनश्यति॥
चूड़ामणौ—
दोषापनुत्तये नाड्या मृत्युञ्जयजपादिकम् ।
विधाय ब्राह्मणांश्चैव तर्पयेत्काञ्चनादिना॥
हिरण्मयीं दक्षिणां च दद्याद्वर्णादिकूटकैः ।
गावोऽन्नं वसनं हेम सर्वदोषापकारकम्॥
इति नाडी दोषविचारः समाप्तः ।
अथ पुञ्जी रत्नमालायाम्—
षट् पौष्णतो द्वादश १२ शङ्कराच्च पौरन्दराद्धानि नव क्रमेण।
पूर्वार्द्धमध्यापरभागयुञ्जि चिरन्तनज्योतिषिकैः स्मृतानि॥
पूर्वभागयुजि मे पतिः प्रियो योषितामपरभागयोगिनि ।
स्त्री नृृणां भवति मध्ययोगिनि प्रेम नूनमुभयोः परस्परम्॥
अथ वर्गविचारः—
वर्गेशास्तार्क्ष्यमार्ज्जारसिंहश्वसर्पमूषकाः ।
मृगश्च शशकस्तत्र स्ववर्गात्पञ्चमो रिपुः॥
अथ नृदूरविचारः—
स्त्रीराशेर्वरभं दूरं कन्यादूरं शुभावहम् ।
व्यस्तं नृदूरमशुभमवश्यत्वान्नहीष्टदम्॥
कन्यादूरं शुभं प्रोक्तं वरदूरं न कारयेत् ।
मिथ्यैतद्भाषितं पूर्वैग्रहमैत्र्याऽथ नोऽशुभम्॥
डामरतन्त्रे—
भामिनीजन्मनक्षत्राद्वितीयं पतिजन्मभम् ।
न शुभं कर्तृनाशाय कथितं ब्रह्मयामले॥
इति भमेलविचारः समाप्तः॥
अथ कन्याया विवाहकालः । ज्योतिर्निबन्धे—
पडब्दमध्ये नोद्वाह्या कन्या वर्षद्वयं यतः।
सोमो भुङ्क्ते ततस्तद्वद्गन्धर्वश्च तथाऽनलः॥
यमः—
सप्तसंवत्सरादूर्ध्वं विवाहः सार्ववर्णिकः ।
कन्यायाः शस्यते राजन्नान्यथा धर्मगर्हितः॥
ब्रह्माण्डपुराणे—
चतुर्थाद्वत्सरादूर्ध्वं यावन्न दशमात्ययः ।
तावद्विवाहः कन्यायाः पित्रा कार्यः प्रयत्नतः॥
विवाहपटलेऽपि—
पञ्चमे सुतसुखाऽधिकभाग्या भर्तृभोगरहिता खलु षष्ठे ।
सप्तमे पतिसुतान्विताऽष्टमे रूपशीलसहिता मृगनेत्रा॥
व्यासः—
अष्टवर्षा भवेद्गौरी नववर्षा च रोहिणी ।
दशवर्षा भवेत्कन्या अत ऊर्ध्वं रजस्वला॥
गौरीं ददद्ब्रह्मलोकं वैकुण्ठ रोहिणीं ददत् ।
कन्यां ददत् स्वर्गलोकं रौरवं तु रजस्वलाम्॥
अत्रिबृहस्पती—
व्यञ्जने तु कुलं हन्यात्पितॄन्हन्यात्पयोधरे ।
हन्यादिष्टं च पूर्तं च प्राप्ते रजसि कन्यका॥
अव्यञ्जनकुचा कन्या कुचहीना तु नग्निका॥
तथा च संवर्तः—
रोमकाले तु सम्प्राप्ते सोमो भुङ्क्ते तु कन्यकाम् ।
रजःकाले तु गन्धर्वो वह्निस्तु कुचदर्शने ।
तस्मादुद्वाहयेत्कन्यां यावन्नर्तुमती भवेत्॥
यमपराशरापस्तम्बाः—
प्राप्ते द्वादशमे वर्षे यः कन्यां न प्रयच्छति ।
मासि मासि रजस्तस्याः पिबेत्स ऋतुशोणितम्॥
अथ ऋतुमतीप्रतिग्रहे दोषमाहतुरत्रिकश्यपौ—
यस्तु तां वरमेत्कन्यां ब्राह्मणो ज्ञानदुर्बलः ।
अश्राद्धेयमपाङ्क्तेयं तं विद्याद्वृषलीपतिम्॥
बृहस्पतिः—
वृषलीसंगृहीता यो ब्राह्मणो मदमोहितः ।
सूतकं तस्य विज्ञेयं ब्रह्महत्या दिने दिने॥
पितुर्गृहे तु या कन्या रजः पश्यत्यसंस्कृता ।
सा कन्या वृषली ज्ञेया तत्पतिर्वृषलीपतिः॥ इति ।
अत्र ब्राह्मणपदोपादानाद्ब्राह्मणस्यैवायं रजस्वलापरिणयननिषेधो न क्षत्रियादीनां कुन्त्यादिषु तथा दर्शनात् । अथ स्वयम्वरः । तत्र नारदः—
यदा तु नैव कश्चित्स्यात्कन्या राजानमाव्रजेत् ।
अनुज्ञया तस्य वरं परीक्ष्य वरयेत्स्वयम्॥
सवर्णमनुरूपं च कुलरूपवयःश्रुतैः ।
सहधर्मं चरेत्तेन पुत्रांश्चोत्पादयेत्ततः॥
ततस्तस्माद्वरात् । याज्ञल्क्यः—
गम्यन्त्वभावे दातॄणां कन्या कुर्यात्स्वयं चरम्॥
गम्यं कुलशालादिभिर्गमनार्हम् । मनुरपि—
त्रीणि वर्षाण्युपासीत कुमार्य्यूतुमती सती ।
ऊर्ध्वन्तु कालादेतस्माद्विन्देत सदृशं पतिम्॥
स्वदीयमाना भर्त्तारमधिगच्छेत्स्वयं यदा ।
नैनः किञ्चिदवाप्नोति न वा यं साऽधिगच्छति॥
एवं चोपनता पत्नी नावमान्या कदा चन ।
न च तां बन्धक कुर्यान्मनुः स्वायम्भुवोऽब्रवीत्॥
अथ गुर्वर्कयोर्बलवेिचारो मुहूर्त्तमुक्तावल्याम्—
विवाहोऽर्केज्यशुद्ध्या स्याद्व्रतं चैवाखिलं विधोः॥ इति ।
नारदः—
विवाहे बलमावश्यं दम्पत्योर्गुरुसूर्ययोः ।
तत्पूजा बलतः कार्या दुर्बलप्रदयोस्तयोः॥
गर्गः—
स्त्रीणां गुरुवलं श्रेष्ठं पुरुषाणां रवेर्बलम् ।
द्वयोश्चन्द्रबलं ग्राह्यमिति गर्गेण निश्चितम्॥
ज्योतिर्निबन्धे—
अर्कगुर्वोबलं गौर्या रोहिण्यर्कबला स्मृता ।
कन्या चन्द्रबला प्रोक्ता वृषली लग्नतो बलात्॥
रजस्वला यदा कन्या गुरुशुद्धिं न चिन्तयेत् ।
अष्टमेऽपि प्रकर्तव्यो विवाहस्त्रिगुणार्चनात्॥
जन्मत्रिदशमारिस्थः पूजया शुभदो गुरुः ।
विवाहे च चतुर्थाष्टद्वादशस्थो मृतिप्रदः॥
द्विपञ्चसप्तनवमे गुरुः श्रेष्ठफलप्रदः॥
देवलः—
१ नष्टात्मजा २ धनवती ३ विधवा ४ कुशला
५ पुत्रान्विता ६ हृतधवा ७ सुभगा ८ विपुत्रा॥
९ स्वामिप्रिया १० विगतपुत्रधवा ११ धनाढ्या
१२ वन्ध्या भवेत्सुरगुरौ क्रमशोऽभिजन्मा॥
अत्र कोचद्वक्रातिचारेण राश्यन्तरे गुरौ तत्रस्थं फलं न ग्राह्यमिति, तदतीव मन्दम् । तथा चोक्तं चूडारत्ने—
चारातिचारवक्रे च राशौ याति बृहस्पतिः ।
शुद्धिं दद्यात्स तत्रैव विवाहे योषितामपि॥
अस्थापवादमाह बृहस्पतिः—
झषचापकुलीरस्थो जीवोऽप्यशुभगोचरः ।
अतिशोभनतां दद्याद्विवाहोऽपि नरादिषु॥
व्यासः—
ग्रहशुद्धिश्चाब्दशुद्धिदर्शवर्षाविधिः स्मृता ।
दशवर्षव्यतिक्रान्ता कन्या शुद्धिविवर्जिता॥
तस्यास्तारेन्दुलग्नाभ्यां शुद्धौ पाणिग्रहो मतः ।
अन्यच्च—
सर्वत्रापि शुभं दद्याद्द्वादशाब्दात्परं गुरुः।
शुद्धिर्गोचरणाभिहिता गोचरवलाभावे अष्टवर्गादिवलं ग्राह्यम्।
नारदः—
गोचरं वेधजं चाष्टवगजं रूपजं बलम् ।
यथोत्तरं बलाधिक्यं स्थूलं गोचरमार्गजम्॥
राजमार्तण्डः—
अष्टवर्गविशुद्धेषु गुरुशीतांशुभानुषु ।
व्रतोद्वाहौ तु कर्तव्यौगोचरेण कदाचन॥
अन्यच्च—
अष्टवर्गेण ये शुद्धास्ते शुद्धाः सर्वकर्मसु ।
सूक्ष्माऽष्टवर्गसंशुद्धिः स्थूला शुद्धिस्तु गोचरे॥
चूड़ारत्ने—
कन्योद्वाहे गुरुदिने गुरुःपूज्यो द्विजातिभिः ।
पुत्रोद्वाहे व्रतत्वाच्च शूद्रादिः पूजयेत्क्वचित्॥
केचिदाहुर्गुरोः शुद्धिर्नान्येषां गणकोत्तमाः ।
विवाहे ह्यन्त्यजातीनां चण्ढालानां च पौल्कसाम्॥
रजकश्चर्मकश्चैव नटो बुरड़ एव च।
कैवर्त्तभेदभिल्लाश्च सप्तैते ह्यन्त्यजाः स्मृताः॥
अथ बृहस्पतिशान्तिविधानम् ।
कन्योद्वहनकाले तु सानुकूल्यं गुरोर्न चेत् ।
ब्राह्मणस्योपनयने गुर्रोर्विधिरुदाहृतः॥
सौवर्णेन गुरुं कृत्वा पीतवस्त्रेण वेष्टयेत् ।
ऐशान्ये धान्यराशौ च कुम्भं तत्र निधापयेत्॥
कृत्वाऽऽज्यभागपर्यन्तं तत्स्वशाखोक्तमार्गतः ।
ग्रहोक्तमण्डलेऽभ्यर्च्य पीतपुष्पाक्षतादिभिः॥
देवपूजोत्तरे काले ततः कुम्भाभिमन्त्रणम्।
अश्वत्थसमिधाऽभ्यज्य पायसं सर्पिरन्वितम्॥
यवव्रीहितिलाः साज्यं मन्त्रेणैव बृहस्पतेः।
अष्टोत्तरशतं सर्वं ढुत्वाशेषं समापयेत्॥
दारपुत्रसमेतस्य त्वभिषेकं समाचरेत् ।
कुम्भाभिमन्त्रेणोक्तैश्च समुद्रज्येष्ठमन्त्रतः॥
प्रतिमां कुम्भवस्त्रं च आचार्याय प्रदापयेत् ।
ब्राह्मणान्भोजयेत् पश्चाच्छुभदः स्याद्बृहस्पतिः॥
अथास्य स्पष्टप्रयोगः—
कर्त्ता सुस्नातःसुप्रक्षालितपाणिपादःस्वाचान्तो मण्डपस्थले स्थण्डिलं नवग्रहवेदिकां च निर्माय गन्धाद्युपचारादिसम्भारान् कृत्वा प्राणानायभ्य कालज्ञानं कृत्वा “एवङ्गुणविशेषणविशिष्टायां पुण्यतिथौमम कन्यायाः पुत्रस्य वा अमुकनामधेयस्य अमुकस्थानस्थितस्यगुरोःदुष्टफलनिरसनार्थं एकादशस्थानस्थितफलप्राप्त्यर्थं पुत्राद्यभिवृद्धिपूर्वकं जीवत्पतित्वप्राप्त्यर्थं विवाहाधिकारसिध्यर्थं च वृहस्पतिशान्तिं करिष्ये । तदङ्गतया गणेशपूजनपूर्वकं आचार्यब्रह्माद्युत्विग्वरणमग्निस्थापनं कलशस्थापनं मूर्तिपूजनं नवग्रहपूजनं चाहं करिष्ये” इति सङ्कल्पं कृत्वा अत्र ग्रहमखवद्गणेशपूजनादिकं ऋत्विग्वरणं स्थाण्डिले पञ्चभूसंस्कारपूर्वकमग्निस्थापनं च कुर्यात् । अथ कलशस्थापनम् \। भूमौ अष्टदलकमलमुकुलाकारं कार्य्यम् । “भूरसी"ति भूमिस्पर्शनम् ।“आजिग्घ्रे"ति कलशनिधानम् ।“व्वरुणस्योत्तम्भन"मिति उदकेनापूर्य “अ ँशुना ते " इति गन्धप्रक्षेपः । “याॐषधी” रिति सर्वौषधीप्रक्षेपः । “काण्डात्काण्ड ।“दिति दूर्वाः । ‘‘अश्वत्थे व” इति पञ्च पल्लवान् ।“पयः पृथिव्यामि"ति पयः । “दधिक्राव्ण” इति दषि । “मधु ब्वाते"ति मधु । “घृतं मिमिक्षे”
इति घृतम् । “अपा<MISSING_FIG href=”../books_images/U-IMG-1698600619Screenshot2023-10-16124911.png”/>रसमि"ति शर्करा । “स्योना पृथिवी"ति सप्तमृत्तिकाः। “याः फलिनी"रिति पूगीफलम् । “परि वाजपति"रिति पञ्च रत्नानि । “हिरण्यगर्भ” इति हिरण्यम् । “यदश्वाय व्वास” इति वस्त्रयुग्मेन वेष्टनम् ।
गङ्गे ? च यमुने १ चैव गोदावरि ? सरस्वति ? ।
नर्मदे ? सिन्धु ? कावेरि ? जलेऽस्मिन्सन्निधिं कुरु॥
सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः ।
आयान्तु यजमानस्य दुरितक्षयकारकाः॥
वृषारूढा सखञ्चाक्षी यमहस्ता शशिप्रिया ।
आगच्छतु सरिच्छ्रेष्ठा गङ्गा प्रापप्रणाशनी॥
नीलोत्पलदलश्यामा पद्महस्ताऽम्बुजेक्षणा ।
आयातु यमुना देवी कूर्मवाहनगा सदा॥
प्राची सरस्वती पुण्या तथा मन्दाकिनी परा ।
एता नद्यश्च तीर्थानि गुह्यक्षेत्राणि सर्वशः॥
तानि सर्वाणि कुम्भेऽस्मिन्विशन्तु ब्रह्मशासनात्॥
इति गङ्गाद्याबाहनम् । “पञ्च नद्य” इति मन्त्रः । “समुद्रादुर्मिं”रित्या वाह्य । “पवित्रेस्थ” इति वंशपात्रोपरि निधानम् । अथ मूर्तिपूजनम् ।ततो मूर्ति ताम्रपात्रे (सं) स्थाप्य “हिमस्य त्वा”ऽऽदिसप्तभिर्मन्त्रैः स्नानंच कारयेत् । पुरुषसूक्तेन शुद्धोदकस्नानम् । ततः कलशोपरि मूर्ति(सं) स्थाप्य आवाह्य पूजयेत् ।
एह्येहि पीताश्वरथाधिरूढ ? प्रतप्तजाम्बूनदतुल्यरूप ? ।
वाचस्पते ? देवगुरो ? मदीयां पूजां गृहीतुं भगवन्नमस्ते॥
ॐनमो भगवन् बृहस्पते पीतवर्ण सिन्धुदेशोद्भव आङ्गिरसगोत्र एकादश्यां तिथौ पूर्वाफाल्गुनीनक्षत्रोत्पन्न ब्रह्मवर्ण बृहस्पतेएह्येहि महाकलशमलङ्कुरु प्रसीद२पूजां गृहाण तेनमः । ‘बृहस्पते अति यदर्थो’ इति मन्त्रस्य गृत्समद ऋषिःबृहस्पति–
र्देवता त्रिष्टुप्छन्दः बृहस्पतिस्थापने विनियोगः । ॐबृहस्पते०” इतिमन्त्रेण बृहस्पतये नमः वस्त्रं समर्पयामि । एवं सर्वत्र । उत्तरीयवस्त्रम् । यज्ञोपवीतम् । आचमनीयम् । इदमनुलेपनम् । इमे अक्षताः । इमानिपुष्पाणि । अयं धूपः । अयं दीपः । इदं नैवेद्यम् । इदं नारिकेलम् । इदं ताम्बूलम् ।दक्षिणा नीराजनम्मन्त्रपुष्पाञ्जलिः । एतानि गन्धादिपूजाद्रव्याणि न मम ।अथ नमस्कारः ।
नमो नमस्ते सुरपूजिताय गोरोचनाभास ? चतुर्भुजाय ।
रथाधिरुढाय ? वरप्रदाय गदाऽक्षसूत्राय सुदण्डपाणे ?॥
ब्रह्मपुत्र ? नमस्तेऽस्तु पीतध्वज ? नमोऽस्तु ते ।
पीतरूप ? नमस्तेऽस्तु सिन्धूद्भव ? नमोऽस्तु ते॥
अथ क्षमापनम्—
नमोऽस्तु ते देवगुरो ? महात्मने स्थाधिरूढोद्धृतदण्डपाणे ? ।
प्रतप्तजाम्बूनदतुल्यरूप ? सर्वार्थसिद्धिं कुरु मे दयालो ?॥
पूजितोऽसि यथाशक्त्या दण्डहस्त ? बृहस्पते ? ।
क्रूरग्रहाभिभूतानां शान्तिं देवगुरो ? कुरु॥
इति बृहस्पतिपूजनम् ।
अथ नवग्रहपूजां यथाशक्तिविधिना कुर्यात्॥ ‘बृहस्पते’इति मन्त्रस्य गृत्समद ऋषिःबृहस्पतिर्देवता त्रिष्टुप्छन्दः अङ्गन्यासे विनियोगः । ॐबृहस्पते अति यदर्यो इति हृदयाय नमः ।अर्हाद्युमद्विभाति शिरसे स्वाहा । क्रतुमज्जनेषु शिखायै वषट् । यद्वीदयच्छवसा कवचाय हुम् । ऋतप्रजात तन्नेत्रत्रयाय वौषट् । अस्मासु द्रविणं धेहि चित्रं अस्त्राय फट् । ॐबृहस्पते इति पादाङ्गुष्ठयोः । अति गुल्फयोः । यदर्थो जङ्घयोः । अर्हज्जान्वोः । द्युमदूर्वोः। विभाति गुदे। ऋतुमल्लिङ्गे । जनेषु कट्याम् । यन्नाभौ । दीदयदुदरे । शवसा स्तनयोः ! ऋत हृदि ! प्रजात कण्ठे । तन्मुखे ।
अ तालुदेशे । स्मासु नासिकयोः । द्रवि नेत्रयोः । णं भ्रुवोर्मध्ये ।धे ललाटे । हि शिरसि । चित्रं शिखायाम्" इत्यादि स्मृत्वा अयुतं सहस्रं अष्टोत्तरशतं वा ऋविजो जपं समापयेत् । ततो ब्रह्मवरणादि पर्युक्षणान्तं कर्म कृत्वा, आधारावाज्यभागौ हुत्वा, तत्र मन्त्रैः अश्वत्थसमिद्भिरष्टोत्तरशतमष्टाविंशति अष्टभिर्वा अग्नावावपति । तिलाज्यद्रव्येण चरुणा चाष्टभिस्त्रिभिर्वा गणेशादिनवग्रहाणां होमं कृत्वा जपदशांशेन “बृहस्पते अति यदर्यो” इति मन्त्रेण होमं विधाय “अग्नये स्विष्टकृते स्वाहा । इदमग्नये स्विष्टकृते न मम” । ततो नवाहुतिं जुहुयात् । ततः “प्रजापतये स्वाहा । इहं प्रजापतये न मम”। ततोबलिदानम्। “मूर्द्धानन्दिव" इति मन्त्रेण पूर्णाहुतिं कृत्वा ततः श्रेयःसम्पादनम् आचार्यपूजनं, संस्रवप्राशनं, पवित्राभ्यां मार्जनं, पवित्रप्रतिपत्तिः, ब्रह्मणे पूर्णपात्रदानं, प्रणिताविमोकः, ऋत्विग्भ्यो दक्षिणादानं कृत्वाततः कलशोदकेन शान्त्युदकेन अभिषेकं कुर्यात् । तत्र मन्त्राः । “आपो हि ष्ठे”ति तिसृभिर्मन्त्रैः । स्वस्ति न इन्द्रः, व्यरुणस्योत्तम्भनं,भग प्रणेतः, इदमापः, समुद्राय त्वा पुनन्तु मा, आप्यायस्व, पञ्च नद्यः, शिरो मे, इति पञ्च मन्त्राः । देवस्य त्वा, त्रिभिः । इमम्मे व्वरुण, चतुर्भिर्मन्त्रैः । या ॐषधी, रिति । तच्चक्षु, रिति ।अँशुना, आयुष्यं वर्चस्यं, सप्त ऋषयः" इति वैदिकमन्त्रैरभिषिञ्चेयुः । “सुरास्त्वामभिषिञ्च” न्त्वित्यादयश्च । एवमभिषिक्तोयजमानो पूजान्तेअर्ध्यं दद्यात् । तत्र मन्त्रः—
गम्भीर ? जीवरूपाङ्ग ? देवेज्य ? सुमते ? प्रभो ? ।
नमस्ते वाक्पते ? शान्त ? गृहाणार्ध्यं बृहस्पते ?॥
ततः प्रार्थना कार्य्या बृहस्पतेः—
नमस्तेऽङ्गिरसां नाथ ? वाक्पतेऽर्थे बृहस्पते ? ।
कूरग्रहैःपीड्यमानानमृताय भजस्व नः॥
जीवो बृहस्पतिः सुरिराचार्यो गुरुरङ्गिराः ।
बृहस्पतिर्देवमन्त्री शुभं कुर्यात्सदा मम॥ इति ।
अथ प्रतिमादानम् \। देशकालादि सङ्कीर्त्य" मया कृतयाअनया बृहस्पतिशान्त्या सकलमनोरथसिद्धये कृतं वृहस्पतिपूजनं होमःअभिषेकश्च तस्य श्रेयसो यथावन्मय प्रतिष्ठासिद्ध्यर्थमिमां प्रतिमां सुवर्णदक्षिणासहितां सोपस्करां तुभ्यमहं सम्प्रददे नममे“ति अभिषेयाचार्याय प्रयच्छेत् । एतत्कर्माङ्गत्वेनापरान् ब्राह्मणान भोजयति । यथाशक्ति तेभ्यो दक्षिणां दद्यात् । तदाशिषो गृह्णीयात् । एवं कृते सर्वारिष्टशान्तिर्भवतीत्याह शौनकः॥
इति बृहस्पतिशान्तिः ॥
चूडारत्ने—अथादित्यशान्तिमाह ।
पुमांसोऽर्कात्मकाः प्रोक्ताः स्त्रियः सोमात्मिका यतः ।
तस्मात्पुसां शुभो भानुर्भवविक्रमखारि ११\।३\।१०\।३\।गः ॥
शौनकः—
ब्राह्मणस्योपनयने नानुकूलो भवेद्रविः ।
तस्य शान्तिं प्रवक्ष्यामि उक्तां चैव महर्षिभिः॥
उपनयनात्पूर्वेद्युःकृत्वा पुण्याहवाचनम् ।
गृहस्येशानदिग्भागे गोमयेनोपलेपयेत्॥
कुम्भमेकं तथा वस्त्रे पद्ममष्टदलं लिखेत् ।
सुवर्णेन रविं कृत्वा द्विभुजं पद्मधारितम्॥
कृत्वाऽऽज्यभागपर्यन्तं तन्त्रं कृत्वाऽनु पूर्ववत् ।
स्वशाखोक्तविधानेन आचार्यो होममाचरेत्॥
आ कृष्णेनेति मन्त्रेण समिदाज्यचरुं हुनेत् ।
अष्टोत्तरसहस्रं वा शतमष्टोत्तरं तु वा॥
तिलवीहींश्च हुत्वाऽथ होमशेषं समापयेत् ।
दारपुत्रसमेतन्तु ऋत्विक्तमभिषिञ्चयेत्॥
कुम्भाभिमन्त्रणोक्तैश्च समुद्रज्येष्ठ मन्त्रकैः ।
ऋत्विग्भ्यो दक्षिणां दद्यादन्येभ्यश्च स्वशक्तितः॥
प्रतिमां वस्त्रकुम्भं च आचार्याय प्रदापयेत् ।
एवं यः कुरुते शान्ति सर्वदोषो विनाश्यति॥
अथास्य स्पष्टप्रयोगः ।कर्ताऽऽचमनं कृत्वा प्राणानायस्यदेशकालौ स्मृत्वा “एवंगुणविशेषण विशिष्टायां पुण्यतिथौ मम पुत्रस्य अमुकनामधेयस्य अमुकराशिस्थितस्य रवेःदुष्टफलनिरसनार्थं एकादशस्थानस्थितफलप्राप्त्यर्थं परमश्रीपरमायुष्यपरमसुखफलप्राप्त्यर्थं पुत्राद्यभिवृद्धिपूर्वकं विवाहाधिकारसिद्ध्यर्थं आदित्यशान्ति करिष्ये । तदङ्गतया गणेशपूजनपूर्वकस्वस्तिवाचनं मातृकापूजनं नान्दीश्राद्धं च करिष्ये " सर्वं पूर्ववत्सम्पाद्य ततः पूर्ववत्कलशस्थापनम् ।तस्योपरि ताम्रपात्रं प्रतिमां स्थाप्य “हिमस्य त्वा” आदिमन्त्रैः स्नानं कारयेत् । पुरुषसूक्तेन शुद्धोदकस्नानम् ।पूर्ववत्षोड़शोपचारैः पूजयेत् । ततो नवग्रहस्थापनम् ।होमादि अभिषेकपर्यन्तं सर्वं समापयेत् ।
इत्यादित्यशान्तिः ।
अथ चन्द्रबलमाह
जन्मत्रिरसकामायदशमस्थः१।३।६।७।११।१०।शुभः सदा ।
चन्द्रमाःशुक्लपक्षे च द्विपञ्चनवगः शुभः॥
अथ घातचन्द्रः ।
भू१ बाण५ नन्दा ९ हस्ताश्च २ रस६ दिग् १० वह्नि ३ शैलजाः ७ ।
वेदा ४ वसु ८ शिवा ११ दित्या १२ घातचन्द्रो यथाक्रमम्॥
घातचन्द्रस्यापवादमाह—
यात्रायां युद्धकार्येषु घातचन्द्रं विवर्जयेत् ।
विवाहे सर्वमाङ्गल्ये चौलादौ व्रतवन्धने॥
घातचन्द्रो नैव चिन्त्य इति पाराशरोऽब्रवीत्॥
चूड़ारत्ने—
तीर्थयात्राविवाहान्नप्राशनोपनयादिषु॥
माङ्गल्ये सर्वकार्येषु घातचन्द्रं न चिन्तयेत्॥
अथ जन्मचन्द्रविचारो रत्नसङ्ग्रहे—
प्रयाणे प्राणसन्देहो भैषज्ये मरणं ध्रुवम् ।
विवाहे विधवा नारी जन्मेन्दुफलभीदृशम्॥
वराहः—
कृषिभवनविवाहे पट्टबन्धाभिषेके
प्रथमयुवतिशय्याऽऽभूषणे वाऽऽधिपत्ये ।
नगरगृहप्रवेशे जन्मचन्द्रः प्रशस्त
इति वदति वराहः क्षौरयात्रां विहाय॥
ज्योति प्रकाशे—
जन्मभं कृषिनृपाभिषेचनं भूषणे नगरगेहकर्माणि ।
आद्यपत्यभुजि मौंञ्जिबन्धने पुंविवाह उदितं शुभं बुधैः॥
विवाहे जन्मभं स्त्रीणां वर्जनीयंप्रयत्नतः ।
नैव पुंसामिति प्राहुर्ज्योतिर्नयविदो बुधाः॥
नारदः—
पट्टबन्धनचौलान्नप्राशने चोपनायने ।
शुभदं जन्मनक्षत्रमशुभं त्वन्यकर्माणि॥
चूड़ाशब्देन केशबन्धो न तु क्षौरकर्म । द्वादशचन्द्रमसः प्राशस्त्यमाह ज्योतिर्निबन्धे—
अभिषेके प्रवेशे च चौलान्नव्रतबन्धने ।
पाणिग्रहे प्रयाणे च चन्द्रो द्वादशगःशुभः॥
चूड़ारत्ने—
करणभगणदोषं वारयोगादिदोषं
तिथिकुलिकयमार्द्धं राहुकेत्वोश्च दोषम् ।
रविशशिकुजदोषं सौम्यशुक्रेज्यदोषं
हरति सकलदोषं रोहिणीयुक्तचन्द्रः॥
शुक्ले पक्षे शीतरश्मिप्रधानं न प्राधान्यं तारकायाश्च तत्र ।
शक्त्या युक्ते विद्यमानेऽपि पत्यौ न स्वातन्त्र्यं योषितः कापि दृष्टम्॥
न खलु बहुलपक्षे शीतराश्मिप्रभावः
कथितमिह हि तारावीर्यमाद्यैः प्रधानम्॥
अतिविकलशरीरे प्रेयसी प्रोषिते वा
प्रभवति खलु भर्त्तुः सर्वकार्येषु योषा॥ इति ।
अथ ताराबलमाह—
कुद्विवेदाङ्गनागाङ्क १\।२\।४।६।८\।९ मिता तारा शुभावहा ।
शुक्ले च पञ्चमीं यावच्चन्द्रताराबलं शुभम्॥
अन्यत्रापि —
जन्म १ संप २ द्विप ३ त्क्षेमा ४ प्रत्यरिः५ साधिका६ मृतिः ७ ।
मैत्रा ८ ऽतिमैत्रा ९ ताराःस्युर्नव त्रिर्जन्मभात्क्रमात्॥
अथावश्यककृत्ये दुष्टताराणां प्रकारद्वयेन परिहारमाह मुहूर्त्तचिन्तामणौ—
मृत्यौ स्वर्णतिलान्विपद्यपि गुडं शाकं त्रिजन्मस्वथो
दद्यात्प्रत्यरितारकासु लवणं सर्वो विपत्प्रत्यरिः॥
मृत्युश्चादिमपर्यये न शुभदोऽथैषां द्वितीयेंंशकाः
नादिप्रान्त्यतृतीयका अथ शुभाः सर्वे तृतीये स्मृताः॥
पूर्वार्द्धं स्पष्टम् । द्वितीयपरिहार उत्तरार्द्धं व्याख्यायते । आदिमपर्यये प्रथमावृत्तौ विपत्प्रत्यरिर्मृत्युश्च सर्वो न शुभदः । अथ द्वितीयावृत्तौ। विपत्तारायंप्रथमः, प्रत्यरितारायां द्वितीयः, मृत्युतारायांतृतीयश्चरणस्त्याज्यः।तृतीयावृत्तौ विपत्प्रत्यरिमृत्युश्चैते सर्वे शुभाः । अथ प्रसङ्गतो विवाहादिके त्याज्यमाह शौनकः—
गुर्बादित्यव्यतीपाते वक्रातिचारगे गुरौ ।
नष्टे शशिनि शुक्रे वा बाले वृद्धेऽथवा गुरौ॥
पौषे चैत्रेऽथ वर्षासु शरद्यधिकमासके ।
केतूद्गमे निरंशेऽर्के सिंहस्थेऽमरमन्त्रिणि॥
विवाहवतयात्रादि पुनर्हर्म्यगृहादिकम् ।
क्षौरं विद्योपविद्यां च यत्नतः परिवर्जयेत्॥
अथ गुर्बादित्यमाह रत्नसंग्रहे—
रविक्षेत्रगते जीवे जीवक्षेत्रगते रवौ।
गुर्वादित्यः स विज्ञेयः सर्वकर्मसु गर्हितः॥
रविक्षेत्रं तु पैत्र्यर्क्ष्यं गुरुक्षेत्रं च रेवती ।
मिथःक्षेत्रगतौ तौ चेन्नश्येत किल मङ्गलम्॥
गर्गः—
एकराशिगतौ सूर्यजीवौ स्यातां यदा तदा ।
गुर्वादित्याख्यदोषोऽयं गर्हितः सर्वकर्मसु॥
मुहूर्त्तकल्पद्रुमे—
गुरुदिवाकरयोर्युजि मङ्गलं न शुभकृद्धिषणेऽपि च नीचगे ।
मगध-नीवृति-कोङ्कण-गौडके परमनीचलवात्स बहिः शुभः॥
अथ वक्रातिचारविचारःचूड़ामणौ—
वक्रातिचारगे जीवे वर्जयेत्तत्तदन्तरम् ।
व्रतोद्वाहादि चूडायामष्टाविंशतिवासरान्॥
त्रिकोण ५।९ जाया ७ धन २ लाभ ११ राशौ
वक्रातिचारेण गुरुः प्रयातः ।
यदा तदा प्राह शुभं विलग्नं
हिताय प्राणिग्रहणं वसिष्ठः॥
अथ सिंहस्थगुरुविचारः ।
शान्तिके पौष्टिके यात्रा प्रतिष्ठाद्वाहपूर्वकम् ।
न कुर्यात्सर्वमाङ्गल्यं सिंहे याते बृहस्पतौ॥
शान्तिकं सिंहस्थात्पूर्वं प्राप्तं तन्न कर्त्तव्यम् । गौतमीं विनाऽन्यत्र नकर्तव्यम् । तथा—
इष्टं पूर्तंच चौलादिसंस्कारान्वास्तुकर्म च ।
न कुर्यात्सिंहयाते तु गुरौ देवपुरोहिते॥
सिंहस्थं मकरस्थं च गुरुं यत्नेन वर्जयेत्॥
अस्यापवादमाह वसिष्ठः—
विवाहो दक्षिणे तीरे गौतम्या नतेरेऽत्र तु ।
रत्नसङ्ग्रहे—
भागीरथ्युत्तरे कूले गौतम्या दक्षिणे तथा ।
विवाहो व्रतबन्धश्च सिंहस्थेज्ये न दुष्यति॥
अत्र विवाहव्रतबन्धावेव न निषिद्धौ, आभ्यामन्यानि शुभकर्माणिनिषिद्धान्येव, अपवादस्य सङ्कोचाश्रयत्वादुपलक्षणयोगात् । चिन्तामणौ—
मेषेऽर्के सन्व्रतोद्वाहौ गङ्गागोदान्तरेऽपि च ।
सर्वःसिंहगुरुर्वर्ज्यःकलिङ्गे गौडगुर्जरे॥
ज्योतिर्निबन्धे—
मङ्गलानीह कुर्वीत सिंहस्थो वाक्पतिर्यदा ।
भानौमेषगते सम्यगित्याहुः शौनकादयः॥ इति ।
मङ्गलशद्बेन व्रतोद्वाहौ । तदुक्तं शार्ङ्गीये—
मुण्डनं चौलमित्युक्तं व्रतोद्वाहौ तु मङ्गलम्॥ इति ।
गर्गः—
वृत्तशत्रुसचिवेऽपि सिंहगे मेषगे च तपने करग्रहः ।
यो लभेत भवतीह साऽचला सौख्यमेति सुभगत्वपक्षयम्॥
सप्तर्षिपटले—
मघां त्यक्त्वा यदा गच्छेत्फाल्गुनीं च बृहस्पतिः ।
पुत्रिणी धनिनी कन्या सौभाग्यं सुखमेधते॥
ज्योतिःसारे—
सिंहस्थेऽपि मघासंस्थं गुरुं यत्नेन वर्जयेत् ।
अन्यत्र सिंहभागेऽपि विवाहादि विधीयते॥
कर्त्तव्यानाह—
गर्व्भाधानादिकाः सर्वाः प्राशनान्ताः क्रियाश्च याः ।
कर्तव्याः सर्वदेशेषु सिंहस्थे च बृहस्पतौ॥
क्रियमाणं हि प्रत्यद्धे कुलधर्मादिकं च यत् ।
सर्वदेशेषु कर्त्तव्यमित्याहुः सिंहगे गुरौ॥
माघमासे पौर्णमासी मघायुक्ता यदा भवेत् ।
सिंहस्थस्य गुरोर्दोषस्तस्मिन्बर्षे न चान्यथा॥
अथ मकरस्थगुरोरपवादमाह लल्लः—
नर्मदापूर्वभागे तु शोणस्योत्तरदक्षिणे ।
कालिन्द्या दक्षिणे तीरे मकरस्थो न दोषभाक्॥
रत्नसंग्रहे—
मृगराशिगते जीवे दिनषष्ठिं परित्यजेत्॥
चूड़ामणौ—
नर्मदापूर्वभागे तु शोणस्योत्तरदक्षिणे ।
गण्डक्याःपश्चिमे तीरे नक्रस्थेज्यो न दोषकृत्॥
मागधे गौड़देशे च सिन्धुदेशे च कोङ्कणे ।
व्रतचूडाविवाहं च वर्जयेन्मकरे गुरौ॥
अथ गुरुशुक्रमौढ्यादिविचारःवृत्तशते—
बालः शुक्रो दिवसदशकं पञ्चकं चैव वृद्धः
पश्चादह्नां त्रितयमुदितः पक्षमैन्द्र्यां क्रमेण॥
जीवो वृद्धः शिशुरपि सदा पक्षमन्यैः शिशू तौ
वृद्धौ प्रोक्तौ दिवसदशकं चापरैः सप्तरात्रम्॥
तथा—
चौलोपनपने चैव विवाहोद्यापनादिकम् ।
वेदारम्भं गृहारम्भं महारुद्रं तथैव च॥
देवतानां प्रतिष्ठां च गोदानं स्नातकं च यत् ।
व्रतप्रारम्भणं चैव नववध्वाः प्रवेशनम्॥
वास्तुकर्म महायज्ञमुपाकरणमेव च ।
विलम्बितप्रेतकार्यं महादानादिकं च यत्॥
बाले वा यदि वा वृद्धे शुक्रे चास्तमिते गुरौ ।
मलमासेऽपि चैतानि वर्जयेद्देवदर्शनम्॥ इति ।
सङ्ग्रहे—
गोदावर्यां गयायां च श्रीशैले मलकार्जुने ।
अयने विषुवे चैव चातुर्मास्यव्रतेषु च॥
उत्सवेषु च सर्वेषु सीमन्त ऋतुकर्मसु ।
सुरासुरेज्ययोश्चैव मोढ्यदोषो न विद्यते॥
प्रतिदिनास्तनिषेधमाह रत्नमालाटीकायाम्—
अस्तदोषस्तु न ग्राह्यः प्रतिदैवासको बुधैः ।
नास्तदोषः सदा भानोर्मैत्रे चेन्दोर्न नचिता॥
प्रतिदैवासको –भचक्रवशात्प्रतिदिन जोऽस्तः—
विशाखायाश्चतुर्थेंऽशे यावत्तिष्ठति शीतगुः ।
ताबन्नीचगतो ज्ञेयः परतो नैव दोषभाक्॥
अथ लुप्तसंवत्सरलक्षणमाह ।लल्लः—
पूर्वराशिं यदा त्यक्त्वा अपूर्णे वत्सरे गुरुः ।
लुप्तः संवत्सरो ज्ञेयः परगेहगतो यदा॥
तथा—
अतिचारगतो जीवस्तं राशिं नैति चेत्पुनः ।
लुप्तः संवत्सरो ज्ञेयः सर्वकर्मबहिष्कृतः॥
अस्य सर्वराशिसाधारण्येन प्राप्तौ क्वचिदपवादमाह च्यवनः—
मासान्दशैकादश वा प्रभुज्य राशेर्यदा राशिमुपैति जीवः ।
भुङ्क्ते न पूर्वं च पुनस्तथा हि न लुप्तसंवत्सरमाहुरार्याः॥
तथा—
वृषे मेषे झषे कुम्भे यद्यतीचारगो गुरुः ।
न तत्र काललोपःस्यादित्याह गालवो मुनिः॥
अथाधिसंवत्सरविचारःउत्तरसौरे—
गुरोर्मध्यमसंक्रान्तिहीनो यश्चान्द्रवत्सरः ।
अधिसंवत्सरस्तस्मिन्कारयेन्न सर्वत्रयम्॥
वर्जनीया प्रयत्नेन प्रतिष्ठा सर्वनाकिनाम् ।
स्फुटसंक्रान्तिहीनश्चेत्केऽप्यहुरधिमासवत्॥
मध्यमगणनया गुरुसंक्रान्तिरहितश्चान्द्रवत्सरोऽधिवत्सरः । तत्र बृहस्पतिसवादि न कार्यम् ।स्फुटगणनया गुरुसंक्रान्तिरहितो यश्चान्द्रो वत्स-
रस्तस्मिन्नधिमासवत्काम्यादिकं वर्ज्यमिति केचिन्मयन्ते । कल्पद्रुमे—
चेत्स्पष्टया वाऽप्यथ मध्यगत्या राश्यन्तरं यत्र च चान्द्रवर्षे ।
गुरुर्न यायादधिवत्सरोऽधिमासेन तुल्यः स शुभेषु वर्ज्यः॥
अथ ग्रहणात्पूर्वं परं त्याज्यमाह हेमाद्रौ—
त्रयोदश्यादिकं वर्ज्यं दिनानां नवकं ध्रुवम् ।
माङ्गल्येषु समस्तेषु ग्रहणे चन्द्रसूर्ययोः॥
द्वादश्यादितृतीयान्तो वेध इन्दुग्रहे स्मृतः ।
एकादश्यादिकःसौरे चतुर्थ्यन्तः प्रकीर्तितः॥
खण्डग्रहे तयोः प्रोक्तमुभयत्र दिनद्वयम्॥
ग्रहणात्पूर्वोत्तरदिनमित्यर्थः । मदनरत्ने नारदः—
उत्पातग्रहणादूर्ध्वंसप्ताहमखिलग्रहे ।
निखिले त्रिदिनं नेष्टं नेष्टं तद्भमृतुत्रयम्॥
मूहूर्त्तचिन्तामणिटीकायाम्—
चन्द्रसूर्योपरागेषु त्र्यहं पूर्वं शुभं त्यजेत् ।
सप्ताहमशुभं पश्चात्स्मृतं ग्रहणसूतकम्॥
आङ्गिराः—
सर्वग्रासे तु सप्ताहमर्द्धग्रासे दिनत्रयम् ।
त्रिव्द्येकाङ्गुलतो ग्रासे दिनमेकं विवर्जयेत्॥
गुरुः—
ग्रस्तास्ते त्रिदिनं पूर्वं पश्चाद्ग्रस्तोदये तथा॥
कश्यपः—
ग्रस्तोदये परो दोषो ग्रस्तास्तेऽर्वाक्शशीनयः॥
यस्मिन्नक्षत्रे ग्रहणं तन्नक्षत्रं त्याज्यमाह नारदः—
ग्रहणोत्पातभंत्याज्यं मङ्गलेषु ऋतुत्रयम्॥ इति ।
गुरुः—
नित्ये नैमित्तिके काम्ये जपहोमक्रियादिषु ।
उपाकर्माणि चोत्सर्गे ग्रहवेधो न विद्यते॥
शुभदोत्त्पाता वराहसंहितायाम्—
चण्डीशनिमहीकम्पसन्ध्या निर्धातनिः स्वनाः ।
परिवेषरजोधूमरक्तार्कास्तमनोदयाः॥
द्रुमे स्यान्नरसस्नेहमधुपुष्पफलोद्गमः ।
गोपक्षिमदवृद्धिश्च शुभाय मधुमाधवे॥
एते यहिने जायन्ते तद्दिनमेकमेव त्यजेत् । अथाशुभोत्पाता, नारदः—
देवता यत्र नृत्यन्ति पतन्ति प्रज्ज्वलन्ति वा ।
मूहू रुदन्ति गायन्ति प्रस्विद्यन्ति हसन्ति च॥
वमन्त्यग्निंतथा धूमं लेहं रक्तं पयो जलम् ।
अधोमुखाश्च तिष्ठन्ति स्थानात्स्थानं व्रजन्ति वा॥
एवमाद्याश्च दृश्यन्ते विकाराः प्रतिमासु च।
गन्धर्वनगरं चैव दिवा नक्षत्रमण्डलम्॥
महोल्कापतनं काष्ठतृणरक्तप्रवर्षणम् ।
गन्धर्वगेहं दिग्दाहं भूमिकम्पं दिवा निशि॥
अनग्नौच स्फुलिङ्गाः स्युर्ज्वलनं च विनेन्धनम् ।
निशीन्द्रचापमण्डूकशिखरं श्वेतवायसम्॥
दृश्यन्ते विस्फुलिङ्गाश्चगोगजाश्वोष्ट्रगास्ततः ।
जन्तवो द्वित्रिशिरसो जायन्ते वाऽपि योनिषु॥
एते यद्दिने जायन्ते तद्दिनादारभ्य सप्त दिनानि वर्ज्यानि । उक्तं च—
त्रिविधोत्पाततश्चोर्ध्वं सिंहिकासुतदर्शने ।
सप्तरात्रं न कुर्वीत यात्रोद्वाहादि मङ्गलम्॥ इति ।
अथ वाग्दानम् \। धर्मप्रवृत्तौ—
कुर्याद्वैवाहिके मासि वाग्दानं द्विजसत्तम ! ।
कलशेन समायुक्तं सम्पूज्य गणनायकम्॥
चूड़ारत्ने—
वाग्दानं फलदानं च मासे वैवाहिके तथा ।
मधोः पौषस्य चोर्जस्य कर्तव्यं बहुले दले॥
ज्योतिर्निबन्धे—
पुण्याहे च विवाहर्क्षे चित्रावस्वश्विविष्णुभे ।
लब्ध्वा चन्द्रबलं कुर्यान्निश्चयं सत्ययागिरा॥
धर्मप्रवृत्तौ—
कर्मणा मनसा वाचा सम्प्रीत्या धर्मवृद्धये ।
दायापत्यसुहृदः समवेतेन निश्चितम्॥
सम्बन्धगोत्रमुच्चार्य दद्याद्वैकन्यकापिता ।
हस्ते पितुर्वरस्याथ ताम्बूलं साक्षतं फलम्॥
दास्येऽहं तेऽद्य पुत्राय ममाद्य तव पुत्रिका ।
सफलं साक्षतं दद्याद्यथा च नः परस्परम्॥
अथास्य प्रयोगः । देशकालौ स्मृत्वा “एवंगुणविशेषणविशिष्टायां पुण्यतिथौ करिष्यमाणविवाहाङ्गभूतं वाग्दानमहं करिष्ये ।तदङ्गगणपतिपूजनमहं करिष्ये” गणपतिं पूजयित्वा कलशस्थापनं चकृत्वा, अमुकगोत्रस्य अमुकशर्मणःप्रपौत्राय अमुकशर्मणः पौत्रायअमुकशर्मणः पुत्राय अमुकनाम्ने वराय, तथैव कन्यापक्षे, अमुकगोत्रस्य अमुकप्रवरान्वितस्य अमुक शर्मणः प्रपौत्रीं अमुकशर्मणः पौत्रीं अमुकशर्मणः पुत्रीं अमुकीनाम्नीं कन्यां ज्योतिर्विदादिष्टे मूहूर्त्तेदास्ये” इति सङ्कल्प्य, वाचा सम्प्रददे ।
अव्यङ्गेऽपतितेऽक्लीवे दशदोषविवर्जिते ।
इमां कन्यां प्रदास्यामि देवाग्निद्विजसन्निधौ॥
इत्युक्त्वा वस्त्रप्रान्ते तानि पूगीफलानि प्रक्षिप्य प्रतिष्ठामन्त्रेण ‘मनो जूति’रित्यादिना वस्त्रं बध्वा ग्रन्थिं चन्दनेनार्चयेदित्याचारप्राप्तम् । इति परस्परम् । ततो दाता—
वाचा दत्ता मया कन्या पुत्रार्थे स्वीकृता त्वया ।
कन्याऽवलोकनविधौ निश्चितस्त्वं सुखी भव॥
ततो वरपिता—
बाचा दत्ता त्वया कन्या पुत्रार्थं स्वीकृता मया ।
वरावलोकनविधौ निश्चितस्त्वं सुखी भव॥
इति परस्परं मन्त्रं पठेत् । भ्रात्रादौ स्वीकर्तरि भ्रात्रर्थं मित्रार्थमित्यूहः कार्यः । इति वाग्दानम् । अथ कन्यावरणम् । चूड़ारत्ने—
विश्वर्क्षपूर्वात्रयकर्णयुग्यस्वात्याग्निमैत्रैश्च विवाहभैर्वा ।
प्रत्यङ्मुखः सन्वरयेत्कुमारीं फलादिभिःप्राग्वदनां सुवेशाम्॥
धीधर्मकेन्द्रगैः ५।९।१।४।७।१० सौम्यैः
पापैः शत्रुत्रिलाभगैः ६।३।११॥
कन्याया वरणं कार्यं जीवे
चोपचयस्थिते ६।३।१०।११॥
द्वौ चत्वारोऽष्टी वा प्रशस्तवेशाः तावतीभिः पुरन्ध्रीभिर्मङ्गलगीतवाद्यैःकन्यागृहमेत्य शुभे वस्त्रपीठे प्राङ्मुखीं सालङ्कारां सुवेशां कन्यामुपवेश्यतद्धस्ते फलताम्बूलादि दद्यात् । ज्योतिर्निबन्धे नारदः—
भूषणैर्वस्त्रताम्बूलैः फलगन्धाक्षतादिभिः ।
शुक्लाम्बरैर्गीतवाद्यैर्विप्राशर्विचनैः सह ।
कन्यासमीपमागत्य ब्राह्मणैः सह वा पिता॥
धर्मप्रवृत्तौ—
द्वावष्टावथ चत्वारो ब्राह्मणा वेदपारगाः ।
इत्युक्त्वा भो द्विजा ! ऊचुर्वृणाध्विं कन्यकामिमाम्॥
प्रत्यूचुस्ते द्विजाः सर्वे वयं चेमां वृणीमहे ।
उभे वा युगपत्कार्ये तत्र तद्वस्त्रमण्डले॥
आदौ सम्पादयेत्पश्चाद्विन्यसेत्फलमञ्जलौ ।
श्वेताम्बरं नारिकेलं भक्षाद्यं फलमर्पयेत्॥
प्रदानं यद्दुकूलादि कर्णकण्ठादिभूषणम्॥
कन्यापिता पात्रस्थतण्डुलेषु शचीं सम्पूज्य प्रार्थयेत् । चूडारत्ने—
घटकारमृद। देवि ? निर्मिता वसुभे ? शचि ? ।
वरणानन्तरं पूज्या यावत्पाणिग्रहो भवेत्॥
“ॐ अदित्ये रास्नाऽसी”ति मन्त्रेणावाह्य पूजयेत् । ततस्तां कन्या प्रार्थयेत् ।
सम्पूज्य प्रार्थयित्वा तां शचीं देवीं गुणाश्रयाम् ।
त्रैलोक्यसुन्दरीं दिव्यां गन्धमाल्यवरान्विताम्॥
सर्वलक्षणसंयुक्तां सर्वाभरणभूषिताम्॥
अनर्ध्यमणिमालाभिर्भासयन्तीं दिगम्बराम्॥
विलासिनीसहस्रौधैःसेव्यमानामहर्निशम् ।
एवंविधां कुमारी तां पूजान्ते प्रार्थयेदिति॥
देवीन्द्राणि ? नमस्तुभ्यं देवेन्द्रप्रियभामिनि ? ।
विवाहे भाग्यमारोग्यं पुत्रलाभं च देहि मे॥
धान्यन्देहि धनन्देहि पशून्देहीन्द्रभामिनि ? ।
यशो देहि सुखन्देहि सर्वकार्यकरी भव॥
इति प्रार्थयेत् । ततः पतिपुत्रवतीभिर्नीराजनं कार्यम् । ताम्बूलदक्षिणाभिःसन्तोषिता विप्राः ‘**श्रीश्चते लक्ष्मीश्चे’**ति । “मनोजूति“रित्याद्याशिषः पठेयुः । इति कन्यावरणम् । अथ वरवरणम् । चिन्तामणौ—
धरणिदेवोऽथ वा कन्याकासोदरः
शुभदिने गीतवाद्यादिभिः संयुतः ।
वरवृतिं वस्त्रयज्ञोपवीतादिना
ध्रुवयुतैर्वह्निपूर्वात्रयैराचरेत्॥
ग्रन्थान्तरे चण्डेश्वरः—
उपवीतं फलं पुष्पं वासांसि विविधानि च ।
देयं वराय वरणे कन्या भ्रात्रा द्विजेन च॥
इति वरवरणम्॥ अथ मृदाहरणम्॥ ज्योतिर्निबन्धे—
कर्तव्यं मङ्गलेष्वादौ मङ्गलायाङ्कुरार्पणम् ।
नवमे सप्तमे वाऽपि पञ्चमे दिवसेऽपि वा॥
तृतीये बीजनक्षत्रे शुभे वारे शुभोदये ।
सम्यग्गृहाण्यलङ्कृत्य वितानध्वजतोरणैः॥
सहवादित्रनृत्याद्यैर्गत्वा प्रागुत्तरां दिशम् ।
तत्र मृत्सिकतां लक्ष्णां गृहीत्वा पुनरागतः॥
मृण्मयेष्वथ वा वैणवेषु पात्रेषु योजयेत् ।
अनेकबीजसंयुक्तां ततः पुष्पोपशोभिताम्॥
बोजनक्षत्रे–बीजवापननक्षत्रे,
लघुध्रुवचरं मैत्रविशाखामूलभं मघा ।
कृषिकर्मणि शस्ता स्याद्रविषष्ट्यष्टमीं विना॥
राहुभादष्टपर्यन्तं द्वादशं षोडशोन्मितम् ।
विंशं चतुर्विंशतितो बीजवापे न शोभनम्॥
राहुनक्षत्रा(१/२/३/४/५/६/७/८/१२/१६/२७/२४/२५/२६/२७)दशुभान्येतानि । शौनकः—
आधानं गर्भसंस्कारं जातकर्म च नाम च ।
हित्वाऽन्यत्र विधातव्यं मङ्गलेऽङ्कुरवापनम्॥
बृहस्पतिः—
आत्यन्तिकेषु कार्येषु कार्यं सद्योऽङ्कुरार्पणम्॥
इति मृदाहरणम् । अथ विवाहात् प्राक्कर्तव्यमाह । चुडारत्ने—
दलनं कण्डनं चैवव्यञ्जनं मोदकानि च ।
यवारमण्डपं वेदी कुङ्कुमं वर्णकस्तथा॥
चुल्ल्यादिकर्म शच्यार्चा गृहसम्मार्जनादिकम् ।
सर्वं विवाहभैः कार्यं विवाहङ्गतयाऽऽगतम्॥
दैवज्ञमनोहरे—
मूलेन्द्ररुद्रश्रवणार्कपौष्णविश्वेशाचित्राऽनलरेवतीषु ।
संस्थापनं काञ्जिककुण्डिकाया वारे रवेर्भूमिसुतस्य शस्तम्॥
ततो विवाहादिषु मण्डपप्रकारमाह । वसिष्ठः—
षोडशारत्रिकं कुर्याच्चतुर्द्वाोरोपशोभितम् ।
मण्डपं तारेणैर्युक्तं तत्र वेदीं प्रकल्पयेत्॥
अष्टहस्तन्तु रचयेन्मण्डपं वा द्विषट्करम्॥
नारदः—
हस्तोच्छ्रितां चतुर्हस्तैश्चतुरस्रांसमन्ततः ।
स्तम्भैश्चतुर्भिः सुश्लक्ष्णैर्वामभागे स्वसद्मनः॥
अन्यः पक्षो धर्मप्रवृत्तौ—
कन्याहस्तैः पञ्चभिः सप्तभिर्वा
वेदीं कुर्यात्कूर्मपृष्ठोन्नताङ्गीम्॥
रम्ये हर्म्ये निर्गमाद्वामभागे
जायापत्योराशिषोवाचयित्वा॥
अथ वा—
सप्तवर्षा यदा कन्या पञ्चहस्ता च वेदिका ।
पञ्चवर्षा यदा कन्या सप्तहस्ता च वेदिका॥
वामे गृहस्य वेदी स्याद्विवाहे चोपनायने ।
सर्वेषामेव शाखीनां विना वाजसनेयिनाम्॥
अथ व्रतबन्धवेदी—
प्राक् प्रत्यगर्द्धपदषट्कयुक्तासुदीच्ययाम्यानि पदानि पञ्च ।
एवंविधा ज्योतिषरत्ननिर्मिता बटोःशतायुर्भवतीहवेदिका॥
अन्यः पक्षो धर्मप्रवृत्तौ—
आचार्यस्य पदैः षड्भिश्चतुर्भिरथ वा करैः ।
विस्तृता चतुरस्रा च बटोर्वेदी करोन्नता॥
अथ वेद्याः पश्चिमभागे भित्तिलक्षणमाह ।धर्मप्रवृत्तौ—
लम्बा भित्तिर्द्विहस्ता च द्वात्रिंशदङ्गुलोन्नता ।
प्राग्वद्वेद्या विवाहे च विस्तृता द्वादशाङ्गुला॥
अष्टावष्टौ प्रकुर्वीत सोपानान्यथ पार्श्वयोः ।
तदग्रे कुण्डलाकारमिति यज्ञविदां मतम्॥
सोपानकरणं पश्चिमभागे ।वेद्याश्चतुर्हस्तपरिमितत्वं सोपानव्यतिरेकेण द्रष्टव्यम् । अथ प्राच्यशिष्टसम्मतं मण्डपादौ स्तम्भनिवेशनमाह—
सूर्येऽङ्गनासिंहघटेषु ५।६।७ शैवे
स्तम्भोऽलिकोदण्डमृगेषु ८।९।१० वायौ॥
मीनाजकुम्भे ११\।१२\।१ निर्ऋतौ विवाहे
स्थाप्योऽग्निकोणे वृषयुग्मकर्के २\।३\।४\। ॥
चूड़ारत्ने—
षष्ठे तृतीये नवमेऽह्नि लग्नतः पूर्वंन वर्णो न यवारमण्डपौ॥ इति ।
तस्मादर्वाङ्मासमध्ये कार्यो यो राजमण्डपः॥
ततस्तैलबन्दनं चूड़ारत्ने—
व्रते देवप्रतिष्ठायां विवाहे पुरुषस्त्रियोः ।
तैलं तन्मन्त्रतो धार्यं विमलं प्राङ्मुखस्थयोः॥
रजकी तैलमादाय कन्यकामभिषिञ्चति ।
निशायाःप्रथमे यामे नागवल्लीदलेन तु॥
शचीं सम्पूज्य विधिवत्ततस्तैलाभिषेचनम् ।
कन्यायाश्च तदुच्छिष्टतैलेनाभि25वरस्य च॥
आदौस्त्रीवरणं दानं तैलं वेदी च मण्डपम् ।
तस्माल्लग्नदिने सर्वं वरणाद्यन्तु कारयेत्॥
एतत्सर्वमादौ कन्यागृहे कार्यं पश्चाद्वरगृहे कुर्यादित्यर्थः । कन्यापिता विवाहात्पूर्वदिने गणपतिपूजनादिनान्दीश्राद्धान्तं कुर्यात् । एवं वरपिताऽपि स्वगृहे कुर्यात् । तथा च शौनकः—
पुण्ये मूहूर्त्ते कुर्वीत विवाहं विधिवद्द्विजः ।
तदाभ्युदयिकं श्राद्धं कुर्यात्स्वस्तिं च वाचयेत्॥
विवाहात्पूर्वमिति शेषः । वरानयनमाह ।ततः कन्यापिता सपत्नीकः स बान्धवो वरानयनार्थं वाहनं गृहीत्वा वरगृहमेत्य वरं यथाविभवं वस्त्रा-
दिना पूजयेत् । ततो वरः कृतकौतुकमङ्गलश्चारुभूषणवेशो यथाविभवमश्वादियानेन श्रुतिवाद्यघोषैर्बधूगृहमागच्छेत् । उक्तं च विधानपारिजातके—
अपरेद्युः कृतस्नानो धृतधौताम्बरद्वयः।
भूषितो गन्धमालाद्यैः शकुनेन समन्वितः॥
कृतकौतुकवेशश्च मित्रबान्धवसंयुतः ।
यानं यथार्हमारुह्य यातव्यं च वधूगृहम्॥
वरयानमाह हिरण्यकेशीये—
“आनयत्यस्मै रथमश्वं हस्तिनं वेति” ।
अत्र विशेषमाह अध्यात्मरामायणे विश्वामित्रं प्रति जनकवचनम्—
ततोऽब्रवीन्मुनिं राजा सर्वशास्त्रविशारदः ।
भोः कौशिक मुनिश्रेष्ठ ! पत्रं प्रेषय सत्वरम्॥
राजा दशरथः शीघ्रमागच्छतु सपुत्रकः ।
विवाहार्थं कुमाराणां सदारः सह मन्त्रिभिः॥
तथेति प्रेषयामास दूतांस्त्वरित विक्रमान् ।
ते गत्वा राजशार्दूलं रामश्रेयो न्यवेदयन्॥
श्रुत्वा रामकृतं राजा हर्षेण महता वृतः ।
मिथिलागमनार्थाय त्वरयामास मन्त्रिणः॥
गच्छन्तु मिथिलां सर्वे गजाश्वरथपत्तयः।
रथमानय मे शीघ्रं गच्छाम्यद्यैव मा चिरम्॥
वसिष्ठस्त्वग्रतो यातु सदारः सहितोऽग्निभिः ।
राममातृृः समादाय मुनिर्म्मे भगवान्गुरुः॥
एवं प्रस्थाप्य सकलं राजर्षिर्विपुलं रथम् ।
महत्या सेनया सार्द्धमारुह्य त्वरितो ययौ॥
आगतं राघवं श्रुत्वा राजा हर्षसमाकुलः ।
प्रत्युज्जगाम जनकः शन्तानन्दपुरोधसा॥
यथोक्तपूजया पूज्यं पूजयामास सत्कृतम्॥ इति ।
तवारि यथाचारं पतिपुत्रवतीभिर्वधूमात्रा च नीराजनाक्षतारोपणादिभिः
संस्कृतोऽन्तः प्रविश्य तथा च विधानपारिजातके—
तस्य द्वारादूबहिः स्थित्वा प्राङ्मुखोऽभिमुखागतैः ।
गृहीतपूर्णकुम्भादिपाणिभिर्वनिताजनैः॥
कृताऽभ्युद्गमनो गेहं प्रविशेत्सह वन्धुभिः॥ इति ।
देशान्तरे वधूगृहं चेत्तदाऽऽह चूड़ारत्ने—
देशान्तरे विवाहश्चेन्मध्येऽद्रिर्वा महानदी ।
गव्यूतित्रयपर्यन्तं स्वगृहे देवतार्चनम्॥
तथा च रेणुः—
देशान्तरे विवाहश्चेत्तत्र गत्वा भवेदिदम् ।
व्यवधानं महानद्यो गिरेर्वा व्यवधानतः॥
“गव्यूतिः स्त्री क्रोशयुग” मित्यमरः । वधूवरयोर्भोजनविषये निर्णयमाह व्यासः—
भुक्त्वा समुद्वहेत्कन्यां सावित्रीग्रहणं तथा ।
उपोषितः सुतां दद्यादर्चिताय द्विजाय तु॥
चूड़ामणौ—
भुक्तायैव सुतामुपोषितनरो दद्याच्च सावित्रिकाम् ॥ इति ।
विधानपारिजाते बौधायनोऽपि—
“स्रग्वी भुक्तवान् प्रतोदपाणिरपदातिर्गत्वा बन्धुज्ञातिभिरतिथिवदर्चितः स्नातामहतवासमं गन्धानुलिप्तां स्रग्विणी भुक्तवतीमिपुहस्तां वधूं समीक्षते” इति॥
रात्रौ कन्यादानं ( चेत् ) तत्र भोजने निर्णयमाह—
कन्यादानं निशीथे चेद्दिवा भोजनमाचरेत् ।
उपोषितः सुतां दद्याद्ब्राह्मादिषु चतुर्ष्वपि॥
स्मृत्यन्तरे—
कन्यादानं निशीथे चेद्दिवा योजनमाचरेत ।
पुनः स्नात्वा जपेद्देवीं पिता कन्यां प्रयच्छति॥
अत्र रात्रौ स्नानं न निषिद्धं ज्योतिर्निबन्धे—
राहुपर्वणि विवाहकर्मणि स्थापने दिविषदां सुतोत्सवे ।
संक्रमे व्रतविधौ न निन्दिता स्नानदानविषये विभावरी॥
वसिष्ठः—
पुत्रजन्मनि यज्ञे च तथा संक्रमणे रवेः ।
राहोश्च दर्शने स्नानं प्रशस्तं नान्यथा निशि॥
इदानीं पूर्वोक्तो मधुपर्कः कार्यः । ततो बेद्यामग्निस्थापनम्। “उपलिप्त उद्धृतावोक्षितेऽग्निमुपसमाधाय” इति सूत्रम् । यत्राग्निस्थापनं तत्रोपलिप्ते उद्घृते अवोक्षिते उदकनाभ्युक्षिते देशेऽग्निस्थापनम् । अत्रानेन पञ्चाग्निसंस्कारा लक्ष्यन्ते । ननु परिसमूहनादेरुक्तत्वात्किमर्थमुपलेपनादिकमुच्यते ! सत्यम् उच्यते “यत्र कचिद्धोम” इत्यनेनाप्राप्तिः– परिसमूहनादेरग्म्यर्थत्वाद्यत्र यत्राग्निस्थापनं तत्र तत्रैते भवन्ति, यथालिङ्गं उपलिप्ते उद्घृते वा अवोक्षितेऽग्निमादघाति इति, “एष एत्रविधिर्यत्र क्वचिद्धोम” इत्यनेन च होमार्थमग्निस्थापने स्युः, अन्यत्र गृहान्तरेऽग्निगमने मथित्वाऽग्निस्थापने च न स्युः । किञ्च ‘एष एव’ इत्यनेन यत्र स्वस्थाने स्थितेऽग्नौ स्थालीपाकादिकं क्रियते तत्रापि पञ्चैते स्युः, तन्माभूदित्यनेन सूत्रेण ज्ञाप्यते । उक्तं च गृह्यकारिकायाम्—
उपलिप्ताद्युपादानात्केचित्परिसमूहनम् ।
वर्जयेयुरगृह्यार्थमारम्भोऽयमथापरे॥
विवाहाद्या अगृह्याग्निविषया इत्युदाहृतम् ।
अपि यत्र क्वचिद्धोमः सूत्राच्च प्राप्तिरुच्यते॥
समूहनादिपञ्चानां स्थालीपाकादिषु स्फुटम् ।
अप्राप्त्यै तस्य तेषामित्युपलिप्तादि सूत्रितम्॥
स्थापनं मथिताग्नेः स्याद्रोहिण्यां पाणिपीडने॥
उपलिप्तादिसूत्रेण स्थालीपाकादिषु परिसमूहनादेरप्राप्तिप्रज्ञप्त्यर्थमिदमिति कर्कः । उपलिप्त उद्घृतावोक्षिते देशेऽग्निमुपसमाधाय विवाहो
भवतीति भर्तृयज्ञेन सूत्रं योजितम् । “निर्मथ्न्यमेके विवाहे" सूत्रम् । एके आचार्याः विवाहे पाणिग्रहणे निर्मन्थ्यमारणेयमग्निमिच्छन्ति । " उदगयने” सूत्रम् । उदगयने उत्तरायणे विवाहो भवति । तथा च श्रीपतिः—
गृहप्रवेशत्रिदशप्रतिष्ठाविबाहचौलव्रतवन्धपूर्वम् ।
सौम्यायने कर्म शुभं विधेयं यद्गर्हितं तत्खलु दक्षिणेऽपि॥
श्री धरीयेऽपि—
शरद्वसन्तश्च शुभोऽग्रजानां ग्रीष्मश्च राजन्यविशोः प्रशस्तः ।
शुद्रस्य वर्षाः शिशिरोऽखिलस्य लोकस्य पाणिग्रहणे प्रदिष्टः॥
यत्तु सार्वकालमेके विवाहमिति तद्गन्धर्वादिचतुष्टयविषयम् । तथा गृह्यपरिशिष्ठे “धर्मेष्वेव विवाहेषु कालपरीक्षणं नाधर्मोष्येति” ।
श्रीपतिरपि—
प्राजापत्यब्राह्मदैवार्षसंज्ञाः कालेधूतेष्वेव कार्या विवाहाः ।
गान्धर्वाख्याश्चासुरो राक्षसश्च पैशाचो वा सर्वकालं विधेयः॥ इति ।
अथ मासाः । तत्र नारदः—
माघफाल्गुनवैशाखज्येष्टमासाः शुभावहाः ।
मध्यमः कार्त्तिको मार्गशीर्षको निन्दिताः परे॥
न कदाचिद्दशर्क्षेषु भानोरार्द्राप्रवेशनात् ।
विवाहो देवतानां च प्रतिष्ठा चोपनायनम्॥
तथा च वसिष्ठः—
आर्द्रादिके स्वातिविरामकाले नक्षत्रवृन्दे दशके स्थितेऽर्के ।
विवाहचौलव्रतबन्धदीक्षासुरप्रतिष्ठादि न कार्यमेतत्॥
रत्नमालायामपि—
नाषाढप्रभृतिचतुष्टये विवाहो\
नो पौषे न च मधुसंज्ञके विधेयः॥ इति ।
तथा च मुहूर्त्तसर्वस्वे—
सौम्यायने रवौ चैत्रहीने माघादिपञ्चके ।
आषाढाद्यत्रिभागे स्यान्मार्गशीर्षे परिग्रहः॥
मासानां फलान्याह वीरमित्रोदये वात्स्यः—
माघमासे भवेत्पूज्या कन्या सौभाग्यसंयुता।
फाल्गुने च भवेत्साध्वी वैशाखे मासि पुत्रिणी॥
धर्मयुक्ता भवेज्ज्येष्ठे सम्पन्ना कार्तिके भवेत् ।
देवपूजारता नित्यं मासे स्यात्सौम्यदैवते॥
उक्तवर्जेषु मासेषु विवाहं प्राप्नुयाद्यदि ।
तदानीं कन्यका सा स्यात्सुतशीलार्थवर्जिता॥
सौम्यदैवते–मार्गशीर्षे । तथा च श्रीधरः—
प्रशस्ताः सदा ज्येष्ठवैशाखमाघा-
स्तथा शस्यते फाल्गुनो वै मुनीन्द्रैः ।
विहायाधिमासे सदा दाक्षिणात्याः
सदा मार्गशीर्षं च सोर्जंबदन्ति॥
मासश्चतुर्विधः सौरचान्द्रनाक्षत्रसावनभेदात् । तदुक्तं कल्पद्रुमे—
त्रिंशद्दिनं सावन आर्क्ष इन्दोर्भभोगतः संक्रमतस्तु सौरः ।
दर्शावधिश्चैन्दव एष मासः कृष्णादिको विन्ध्यत उत्तरस्याम्॥
बसिष्ठः—
उद्वाहयज्ञोपनयप्रतिष्ठातिथिव्रतक्षौरमहोत्सवाद्यम्।
पर्वक्रिया वास्तुगृहप्रवेशः सर्वं हि चान्द्रेण विगृह्यमेतत्॥
ऋषिशृङ्गः—
विवाहव्रतयज्ञेषु सौरमासः प्रशस्यते॥
वृद्धगर्गः—
विवाहादौ स्मृतः सौरो व्रतादौ सावनः स्मृतः॥
यत्र सौरचान्द्राभ्यां शुद्धिरुपलभ्यते स उत्तमो विवाहः । एकतरपक्षावलंबेन (स) मध्यमः। देशविशेषेण व्यवस्था। ज्योतिर्निबन्धे—
तपतीकृष्णयोर्मध्ये मासश्चान्द्रः प्रशस्यते ।
अन्येषु सर्वदेशेषु सौरो व्रतविवाहयोः॥
तथा—
विन्ध्याद्रेर्दक्षिणे भागे चान्द्रो मासः प्रशस्यते ।
उदग्भागे तु विन्ध्यस्य सौरमानं विधीयते॥
अथ ज्येष्ठमासे ज्येष्ठस्य पुत्रस्य दुहितुर्वा निषेधमाह भारद्वाजः—
मार्गशीर्षे तथा ज्येष्ठे क्षौरं परिणयव्रतम् ।
आद्यपुत्रदुहित्रोश्च यत्नेन परिवर्जयेत्॥
ज्येष्टायाः कन्याया ज्येष्ठपुत्रेण सह विवाहो नैव स्यात् । तत्र गर्गः—
ज्येष्ठायाः कन्यकायाश्च ज्येष्ठपुत्रस्य वै मिथः ।
विवाहो नैव कर्तव्यो यदि स्यान्निधनन्तयोः॥
मिहिरोऽपि—
ज्येष्टस्य ज्येष्ठकन्याया विवाहो न प्रशस्यते ।
तयोरन्यतरे ज्येष्टे ज्येष्ठमासो न शस्यते॥
अनेनाद्यगर्भोत्पन्नयोर्वधूवरयोः सदा निषेध इत्युक्तम् । ज्योतिःसागरे—
कन्यावरौ यदि स्यातामाद्यगर्भ समुद्भवौ ।
तयोरेव भवेज्ज्येष्ठानक्षत्रं चापि वै यदि॥
ज्येष्ठमासि भवेद्वाऽपि ज्येष्ठापञ्चकमित्यथ ।
कुर्याद्यस्तु नरो मोहादाशु मृत्युर्भवेत्तयोः॥
वराहः—
द्वौ ज्येष्ठौ मध्यमौ प्रोक्तौ एकज्येष्ठः शुभावहः ।
ज्येष्ठत्रयं न कुर्वीत विवाहे सर्वसम्मतम्॥
अस्यापवादमाह बृहस्पतिः—
मिथुने संस्थिते भानौ ज्येष्ठमासो न दोषकृत्॥
चण्डेश्वरः—
कृतिकास्थं रविं त्यक्त्वा ज्येष्ठे ज्येष्ठस्य कारयेत् ।
उत्सवादिषु कार्येषु दिनानि दश वर्जयेत॥
दशाहं चैव गर्गस्तु त्रिदशाहं बृहस्पतिः ।
अवलोक्याग्रिमं यावन्मुनिः प्राह पराशरः॥ इति ।
इति ज्येष्ठमासविचारः ।
अथ जन्ममासादिविचारः ।
रत्नमालायाम्—
जन्मराशि न च जन्मभे तिथौ नैव जन्मदिवसेऽपि कारयेत् ।आद्यगर्भदुहितुः सुतस्य वा ज्येष्ठमासि न च जातु मङ्गलम्॥
शार्ङ्गधरः—
जन्मर्क्षे सति दारिद्र्यंवैरं जन्मतिथावपि ।
जन्ममासेऽपि दौर्भाग्यं जन्मलग्नं शुभावहम्॥
जन्ममासप्रवृत्तिमाह ग्रहकौमुद्याम्—
आरभ्य जन्मदिवसाद्यावत्रिंशद्दिनं भवेत् ।
जन्ममासः स विज्ञेयः सर्वकर्मसु गर्हितः॥
अथ व्यवस्थापवादः—
तपतीकृष्णयोर्मध्ये मासश्चान्द्रः प्रकीर्त्तितः ।
कृष्णाया दक्षिणे तीरे जन्मतो जन्ममासकः॥
अन्येषु सर्वदेशेषु सौरो व्रतविवाहयोः ।
राजमार्त्तण्डः—
जन्ममासे तिथौ मे च विपरीतदले सति ।
कार्यंमङ्गलमित्याहुर्गर्गभार्गवशौनकाः॥
जन्ममासनिषेधेऽपि दिनानि दश वर्जयेत् ।
आरभ्य जन्मदिवसाच्छुभाः स्युस्तिथयोऽपरे॥
जातं दिनं दूषयते वसिष्ठो ह्यष्टौ च गर्गो नियतं दशात्रिः ।
जातस्य पक्षं किल भागुरिश्च शेषा : प्रशस्ता खलु जन्ममासे॥
चण्डेश्वरः—
जन्मोदये जन्मसु तारकासु मासेऽथ वा जन्मनि जन्मभे वा ।
ऊढाङ्गनाऽनेकविधानि धत्ते सौख्यानि भोगं खलु बान्धवानाम्॥
इदं द्वितीयगर्भोत्पन्नविषयम् । “आपूर्यमाणपक्षे " सूत्रम् । आपूर्यमाणपक्षः शुक्लपक्षः । अत्र विशेषमाह वसिष्ठः—
अपूर्यमाणपक्षे तु विवाहो ब्राह्मणस्य तु ।
इतरेषान्तु वर्णानां कृष्णपक्षे विधीयते॥
“पुण्याहे” इति सूत्रम् ।पुण्याहे ज्योतिःशास्त्रोपदिष्टे काले । अथ पञ्चाशुद्धिवरमित्रोदये—
तिथिवारर्क्षकरणयोगाः पचाङ्गसंज्ञिताः ।
पञ्चाङ्गस्य च या शुद्धिः पञ्चशुद्धिरुदाहृता॥
तच्छुद्धिहीने यत्कर्म तन्निरर्थकमीरितम् ।
त्यजेत्पञ्चाष्टिकं वाऽपि विषसंयुक्तदुग्धवत्॥
पञ्च अष्टयो यस्मिन्निति पञ्चाष्टिः, अष्टिर्हानिः दोष इति यावत् ।अथ तिथयः । वसिष्ठः—
एकादशी द्वितीया च पञ्चमी सप्तमी तथा ।
त्रयोदशी तृतीया च विवाहे तु शुभावहाः॥
गर्गः—
फलं बहुविधं नित्यं पञ्चदश्यां विशेषतः ।
अमायां चैव रिक्तायां करणे विष्टिसंज्ञके॥
यः करोति विवाहं स शीघ्रं याति यमालयम्॥
शौनकः—
प्रीतिजननी द्वितीया प्रतिपत्कल्याणमङ्गली कथिता॥ इति ।
अथ वाराः । व्यासः—
बुधजीवेन्दुशुक्राणां दिनैरेतैर्विवाहिता ।
कन्या सुखमवाप्नोति पुत्रारोग्यधवान्विता॥
वृद्धगर्ग*?*—
अर्कार्किभौमवाराणां दिनेषु कलहप्रिया ।
सापत्न्यं समवाप्नोति तुषारकरवासरे॥
अथ नक्षत्राणि । वसिष्ठः—
तिस्रोत्तरा मूलमघान्त्यमैत्रप्राजेशचन्द्रार्कसमीरभेषु ।
तदा प्रशस्तः खलु कन्यकानां पाणिग्रहोऽन्येषु विवर्जितस्तु॥
अत्र विशेषश्चतुर्वर्गचिन्तामणौकालखण्डे—
आद्ये मघाचतुर्भागे नैर्ऋतस्याद्य एव च ।
रेवत्यन्तचतुर्भागे विवाहः प्राणनाशनः॥
अथ योगाः ।शौनकः—
व्यतीपातवैधृतिपरिघे शुले च वित्तहानिः स्यात् ।
सौभाग्यसुखानि स्युः प्रीत्यादिषु शेषयोगेषु॥
अथ करणानि ।बृहस्पतिः—
शकुन्यादिचतुष्केषु करणेष्वपि विष्टिषु ।
कुलिकेषु शुभं वर्ज्यमशुभान्येव कारयेत्॥
अथ लग्नानि ।श्रोधरीये—
श्रेष्ठास्तौलियमाङ्गनाघटधनुर्गोकर्किकण्ठीरवाः ।
मध्याः सौम्ययुतास्तथोर्ध्ववदनाः सर्वे विवाहे हिताः॥
अथ नवांशफलम् । वसिष्ठः—
द्विभर्तृका मेषनवांशके स्याद्वृषांशके स्यात्पशुशीलयुक्ता ।
धनान्विता पुत्रवती तृतीये कुलीरकांशे कुलटाऽतिहिंस्रा॥
सिंहांशके सा पितृमन्दिरस्था कन्यांशके वित्तयुता सुशीला ।
तुलांशके सर्वगुणास्पदा सा कीटांशके निःस्वतरा कुशीला॥
चापांशकाद्ये घनिनी द्वितीयभागेऽन्यसक्ता मलिनागदात्मा ।
निःस्वा मृगांशे विगुणा घटांशे विभर्तृका योगरता विशीर्णा॥
मीनाशके भर्तृसुखार्थहीना शुभग्रहैर्भुक्तनिरीक्षितेऽपि ।
तस्मात्सदैवोक्तनवांशकेषु कुर्याद्ववाहं गुणसम्प्रवृद्ध्यै॥
अन्त्यांशकश्चेद्विशुभांशकानां मध्ये य एको न शुभप्रदः सः ।
स एव वर्गोत्तमसंज्ञकश्चेच्छुभप्रदश्चाखिलमङ्गलेषु॥
वर्गोत्तमं विनाऽन्त्यांशे विवाहो न शुभप्रदः॥
अथ संक्रान्तिदोषः ।चिन्तामणौ—
अयने विषुवेपूर्वं परं मध्यदिनं त्यजेत् ।
अन्यसंक्रमणे पूर्वाः पराः षोडशनाडिकाः॥
अन्यच्च—
रव्यादीनां सङ्क्रमे राम३रामा ३
द्वौ २ नन्दाः ९ स्युस्तर्क६नाड्योऽष्ट ८ नागाः ८॥
नाड्योऽङ्काः स्युः ९खाङ्कचन्द्राः१९० क्रमेण
वर्ज्याःप्रायोऽर्कस्य दुष्टाः प्रदिष्टाः॥
अथ युतिदोषो, नारदः—
सूर्येण संयुते चन्द्रे दारिद्र्यं भवति ध्रुवम् ।
कुजेन मरणं व्याधिः सौम्येन त्वनपत्यता॥
दौर्भाग्यं गुरुणा युक्ते सापत्न्यं भार्गवेण च ।
प्रकृत्या सूर्यपुत्रेण राहुणा कलहं सदा॥
केतुना संयुते चन्द्रे नित्यं कष्टं दरिद्रता ।
पापग्रहयुते चन्द्रे दम्पत्योर्मरणं भवेत्॥
शुभग्रहयुते चन्द्रे स्वोच्चस्थे मित्रराशिगे ।
दोषाय न भवेल्लग्नंदम्पत्योः श्रेयसे सदा॥
स्वक्षेत्रगः स्वोच्चगो वा मित्रक्षेत्रगतो यदि ।
पापग्रहयुतश्चन्द्रः करोति मरणन्तयोः॥
अथ विषघटिकादोषः । नारदीये—
खमार्गणा ५० वेदपक्षाः२४ खरामा३० व्योमसागराः ४० ।
अब्धिचन्द्रा४० रूपदस्त्राः२० खरामा३० व्योमवाहवः २०॥
द्विरामाः३२ खाग्नयः ३० शून्यदस्त्राः२० कुञ्जरभूमयः१८ ।
रूपपक्षा २१ व्योमदस्त्रा २० वेदचन्द्रा १४ श्चतुर्दश १४॥
शून्यचन्द्रा १० वेदचन्द्राः१४ षडक्षा५६ वेदवाहवः १४ ।
शुन्यदस्त्राः२० शून्यचन्द्रः१० पूर्णचन्द्रा १० गजेन्दवः १८॥
तर्कचन्द्रा १६ वेदपक्षाः२४ खरामा ३०श्चाश्विभात्क्रमात् ।
आभ्यः पराः स्युर्घटिकाश्चतस्त्रो विषसंज्ञिकाः॥
दैवज्ञमनोहरः—
तिथी १५ षु५ नागा८द्रि७ गिरी ७ षु५वारिधि४
गजा८द्वि७ दिक् १० पावक३विश्व १३ वासवाः१४ ।
मुनि७ र्भसंख्या २७ प्रथमातिथेः क्रमात्
परं विषं स्याद्घटिकाचतुष्टयम्॥
नख२० द्वयं२ द्वादश१२ दिक्१० च शैलाश७
बाणा५ श्च तत्त्वानि२५ यथाक्रमेण॥
सूर्यादिवारेषु परं चतस्त्रो
नाड्यो विषं स्यात्खलु वर्जनीयम्॥
विवाहादिषु कार्येषु विषनाडीश्च वर्जयेत्॥
केन्द्रकोणेऽङ्गहीने चेदिन्दुर्विषविनाशकृत्॥
अथ खार्जूरिकदोषः । तल्लक्षणमाह श्रीपतिः—
एकामूर्ध्वगतान्त्रयोदश तथा तिर्यग्गताः स्थापये-
द्रेखाचक्रमिदं बुधैरभिहितं खार्ज्जूरिकं तत्र तु॥
व्याघातादिषु मूर्ध्नि भंतु कथितं तत्रैकरेखास्थयोः
सूर्याचन्द्रमसोर्मिथो निगदितो दृक्पात एकार्गलः॥ इति ।
अस्यार्थमाह स एव—
व्याघातशुलपरिघव्यतिपातपूर्वगण्डातिगण्डकुलिशेषु सवैधृतेषु ।
आदित्यचान्द्रपितृसार्पभदस्रमूलमैत्राख्यतिष्यसुरवर्द्धकिभानि मूद्र्ध्नि॥
पूर्वो विष्कुमः, कुलिशं वज्रः, सुरवर्द्धकिः चित्रा, शेषाः प्रसिद्धाः । एतेषु पूर्वार्द्धोक्तेषु व्याघातादिषु नवसु योगेष्वन्यतमेन योगेन यथाक्रममपरार्द्धगतेषु पुनर्वस्वादिषु नक्षत्रेषु अन्यतमं नक्षत्रं योजयित्वा तन्नक्षत्रं मूर्ध्नि लेखनीयम् । तदारभ्य प्रादक्षिण्येन सर्वाणि नक्षत्राणि सर्वेषु रेखाग्रेषु लेखनीयानि । तत्र सूर्याचन्द्रमसौ एकरेखास्थौ यदा भवेतां तदा मिथस्तदृष्टिपातजनित एकार्गलदोषो भवेदिति । एकार्गल इति तस्यैव संज्ञान्तरम् ।
( एकार्गल चक्रम् )
<MISSING_FIG href="../books_images/U-IMG-1695881430Untitled123.png"/>
अथ दशयोगचक्रम् ।व्यवहारोच्चये—
शुन्यै० क१ वेद४ ऋतवो६दश१० रुद्र११ युक्ता
पञ्चैक१५ नागशिशिराश्च१८ नवैक १९ खाश्वि२० ।
सोऽध्यर्क्षमिन्दुयुतभानुसमन्वितं च
भागश्चदेय उडुभि२७र्दशयोगचक्रम्॥
लल्लः—
मरुन्मेघाग्निभूपाला मृत्युश्चौरो रुजोऽशनिः ।
कलिनिर्दशोद्वाहेसन्त्याज्यास्ते सदा बुधैः॥
अस्यापवादः—
लग्नेशवागीशसुरारिवन्द्यैर्बलान्वितैः संयुतवीक्षिताच ।
कार्पाससङ्घाइव वह्निमध्ये दशाख्ययोगा विलयं प्रयान्ति॥
व्यासः—
गुरुणा भृगुणा वाऽपि संयुक्तं दृष्टमेव च ।
दशयोगसमायुक्तमपि लग्नं शुभावहम्॥
अथ महापातदोषः ।नारदीये—
यस्मिन्दिने महापातस्तद्दिनं वर्जयेच्छुभे ।
अपि सर्वगुणोपेतं दम्पत्योर्मृत्युदं यतः॥
सङ्ग्रहेतु—
महापातस्य वैधृत्या यावत्कालं स्थितिर्भवेत् ।
तावत्कालं त्यजेत्पूर्वंतावत्कालं त्यजेत्परम्॥
महापातवैधृतिलक्षणन्तु सूर्यसिद्धान्ते—
एकायनगतौ स्यातां सूर्याचन्द्रमसौ यदा ।
तद्युतो मण्डले क्रान्त्योस्तुल्यत्वे वैधृताभिधः॥
विपरीतायनगतौ चन्द्रार्कौक्रान्तिलिप्तिकाः ।
समास्तदा व्यतीपातो भगणार्द्धं तयोर्युतौ॥
तुल्यांशजालसम्पर्कात्तयोस्तु प्रवहाहतः ।
तादृक्क्रोधोद्भवो वह्निर्लोकाभावाय जायते॥
सिद्धान्तशिरोमणौ—
पातस्थितिकालान्तर्मङ्गलकृत्यं न शस्यते तज्ज्ञैः ।
स्नानजपहोमदानादिकमत्रोपैति खलु वृद्धिम्॥
अथ वेधविचारः । स तु पञ्चशालाकादिषु सप्तशलाकादिषु ज्ञेयः ।
तत्र पञ्चशलाकावेधमाह—
अश्विनी पूर्वफाल्गुन्या भरणी चातुराधया ।
अभिजिच्चैव रोहिण्या कृतिका च विशाखया॥
मृगश्चोत्तरषाढेन पूर्वाषाढा तथाऽऽर्द्रया।
पुनर्वसुश्च मूलेन तथा पुष्यो हि ज्येष्ठया॥
धनिष्ठया तथाऽश्लेषा मघाऽपि श्रवणेन च ।
रेवत्युत्तरफाल्गुन्या हस्तेनोत्तरभाद्रपत्॥
स्वात्या शतभिषा विद्धा चित्रया पूर्वभाद्रपत् ।
विद्धान्येतानि वर्ज्यानि विवाहे भानि कोविदैः॥
रविवेधे च वैधव्यं कुजवेधे कुलक्षयम् ।
बुधवेधे भवेद्वन्ध्या प्रवर्ज्या गुरुवेधतः॥
अपुत्रा शुक्रवेधेन सौरे चन्द्रे च दुःखिता।
राहौ पररता नारी केतौ स्वच्छन्दचारिणी॥
अथ चरणवेधमाह—
वेधमाद्यन्तयोरङ्ध्य्रोरन्योन्यद्वितृतीययोः ।
पादमेव शुभैर्विद्धे पापविद्धेऽखिलं त्यजेत्॥
क्रूरैरपि त्यजेत्पादं केचिदूचुर्महर्षयः ।
उपान्त्यपादो ह्यभिजिच्छ्रवणाद्यघटीयुगम्॥
( पञ्चशलाकाचक्रम् )
<MISSING_FIG href="../books_images/U-IMG-1695882057Untitled456.png"/>
अथ सप्तशलाकावेधः—
पूर्वापराः सप्त रेखास्तथा याम्योत्तराः कुरु ।
ईशानकृतिकादीनि साभिजित्सहितं लिख॥
एकरेखास्थयोवेधं सर्वकार्ये विलोकयेत् ।
वधूप्रवेशने दाने वरणे पाणिपीडने॥
वेधः पञ्चशलाकारव्योऽन्यत्र सप्तशलाककः॥
( सप्तशलाकाचक्रम् )
<MISSING_FIG href="../books_images/U-IMG-1695882153Untitled789.png"/>
अस्थापवादः। वशिष्ठः—
लग्ने गुरुः सौम्ययुतेक्षितो वा लग्नाधिनाथो भवगस्तथा वा ।
कालाव्यहोरातु यदा शुभस्य भवेधदोषस्य तदा हि भङ्गः॥
उद्वाहतत्त्वेऽपि—
सदृग्युत्तनुगे शुभे व्यधभयं नोवाऽऽयगे लग्नपे ।
होरायां च शुभेऽथ ना शशिनि सद्दृष्टेऽपि कार्यैरुडोः॥ इति॥
कश्यपः—
क्रूरविद्धं युतं धिष्ण्यं क्रूराक्रान्तं च कृत्स्नभम् ।
मणिहेममयं हर्म्यं भूताक्रान्तमिव त्यजेत्॥
अन्यच्च—
क्रूरैर्विमुक्तं भोग्यर्क्ष्यं क्रूराकान्तं च विद्धभम् ।
मुक्ता यावत्र शशिना मुक्तं तावन्न शोभनम्॥
अथ लत्ता । श्रीपतिः—
ऋक्षं द्वादशमुष्णरश्मिरवनीसूनुस्तृतीयं गुरुः
षष्ठं चाष्टममर्कजः स्वपुरतो हन्ति स्फुटं लत्तया ।
पश्चात्सप्तममिन्दुजः स्वनवमं राहुःसितः पञ्चमं
द्वाविंशं परिपूर्णमूर्त्तिरुडुपः सन्ताड्येन्नेतरः॥
पुरःप्रेरिता लत्ता अग्रस्थस्य पृष्ठे लगति । पश्चात्प्रोरिता अग्रे लगति ।उक्तं च विवाहवृन्दावने—
इति सति द्युसदामभिलत्तने यदनुलत्तनमुक्तमृषिव्रजैः ।
तदुडुपश्चिमपूर्वविभागयोरनधिकाधिकदोषविवक्षया॥
वराहः—
रविलत्ता वित्तहरी कौंजी विनिर्दिशेन्मरणम् ।
चान्द्री नाशं कुर्याद्बौधी नाशं वदत्येवम्॥
सौरी मरणं कथयति वन्धुविनाशं बृहस्पतेर्लत्ता ।
मरणं लत्ता राहोःकार्यविनाशं भृगोर्वदन्ति बुधाः॥
अथोपग्रहाः—
सूर्यभात्पंच ५ सप्ता ७ष्ट८ दि १०-
गिन्द्र १४ तिथयो १५ धृतिः १८।
नवेन्दवः १९ स्वर्गतः २१ स्युः पञ्च
२१।२२।२३।२४।२५ नो भान्युपग्रहाः॥
अथ पातः—
हर्षणवैधृति साध्यव्यतीपातगण्डशूलयोगानाम् ।
अन्ते यन्नक्षत्रं पातेन निपातितं तत्स्यात्॥
पातो नाम चण्डीशचण्डायुधम् । अथ बाणः—
रस ६ गुण ३ शशि १ नागा ८ ब्ध्या४ ढ्यसक्रान्तियातां
शकमितिरथ तष्टाङ्कै९र्यदा पञ्च शेषः॥
रुगनलनृपचौरं मृत्युसंज्ञश्च वाणो
नवहृत ९शरशेषे५ शेषकैक्ये सशल्यः॥
द्वितीयप्रकारः—
लग्नेनाट्यायाततिथ्यङ्क ९ तष्टाः
शेषे नाग८व्द्य२ब्धि४तर्के६न्दु १ संख्ये।
रोगो वन्ही राजचौरौ च मृत्यु
बणश्चायं दाक्षिणात्ये प्रसिद्धः॥
नृपाख्यं नृपसेवायां गृहगोपेऽग्निपञ्चकम् ।
याने चौरं व्रते रोगं त्यजेन्मृत्युं करग्रहे॥
अथ वज्रः—
तिथिं वारं च नक्षत्रं नवभिश्चसमन्वितम् ।
सप्तभि७स्तु हरेद्भागं शेषाङ्के फलमादिशेत्॥
त्रि३शेषे तु जलं विद्यात्पञ्च५ शेषे प्रभञ्जनम् ।
सप्त७ शेषे वज्रपातं ज्ञेयं वज्रस्य लक्षणम्॥
एषामपवादः—
उपग्रहेषु लत्तायां तथा चण्डायुधाह्वये ।
ग्रहोऽस्ति यत्प्रमाणेंऽशे विद्धोंऽशस्तत्प्रमाणकः॥
अयं परिहारः खार्ज्जूरकेऽपि द्रष्टव्यः । ज्योतिर्निबन्धे—
एकार्गलोपग्रहपातलत्ताजामित्रकर्तर्युदयास्तदोषाः ।
नश्यन्ति चन्द्रार्कबलोपपन्ने लग्ने यथार्काभ्युदयेऽतिदोषाः॥
उपग्रहर्क्षं कुरुवाल्हिकेषु कलिङ्गवङ्गेषु च पातितं भम् ।
सौराष्ट्रसाल्वेषु च लत्तितं भं त्यजेत्तु विद्धं किल सर्वदेशे॥
अथाकालवृष्टिदोषः ।मुहूर्त्तचिन्तामणौ—
पौषादिमासेषु चतुर्षु वृष्टिर्भवेद्यदाऽकालभवा हि वृष्टिः ।
पदाङ्किता स्यात्पशुपर्त्यपादैर्धरा तदा वृष्टिजदोषमाहुः॥
अकालवृष्टिप्रभवः स दोषः करोति मृत्युं वरकन्ययोश्च ।
सीतावियोगप्रभवः सुदीर्घः कोपो यथा दाशरथेर्दशास्यम्॥
अथ गण्डान्तदोषः । नारदीये—
पूर्णानन्दाख्ययोस्तिथ्योःसन्धिर्नाडीद्वयं तथा ।
गण्डान्तं मृत्युदं जन्मयात्रोद्वाहे व्रतादिषु॥
अथ नक्षत्रगण्डान्तः—
सार्पेन्द्रपौष्णभेष्वन्त्यषोडशांषा भसन्धयः ।
तद्ग्रभेष्वाद्यपादा भानां गण्डान्तसंज्ञकाः॥
उक्तं च सन्धित्रितयं गण्डान्ते त्रितयं महत् ।
मृत्युप्रदं जन्मयानविवाहस्थापनादिषु॥
अथ लग्नगण्डान्तम्—
कुलीरसिंहयोःकीटचापयोर्मीनमेषयोः ।
गण्डान्तमन्तरालं स्याद्घटिकार्द्धं मृतिप्रदम्॥
अथ दुर्मुहूर्त्तदोषः । वीरमित्रोदये—
भास्करादिषु वारेषु ये मुहूर्त्ताश्चनिन्दिताः ।
विवाहादिषुते वर्ज्या अपि लक्षगुणैर्युताः॥
मुहूर्त्तलक्षणमाह कश्यपः—
अह्नः पञ्चदशो भागो मुहूर्त्तोऽथ तथा निशि ।
तांश्चाह श्रीपतिः—
रुद्राहिमित्रपितरो वसुवारिविश्वे
वेधा विधिः शतमखः पुरुहूतवह्नी॥
नक्तञ्चरेशवरुणार्यमणो भगश्च
प्रोक्ता दिने दश च पञ्च तथा मुहूर्ताः ।
निशामुहूर्त्ता गिरिशाजपादा हिर्बुध्न्यपूषाऽग्नियमाग्नयश्च ।
विधातृचन्द्रादितिजीवविष्णुतिग्मद्युतित्वष्टृसमीरणाश्च॥
रवावर्यमा ब्रह्म रक्षश्च सोमे कुजे वह्निपित्र्यं बुधे चाभिजित्स्यात् ।
गुरौ तापरक्षौ भृगौ ब्राह्मपित्र्ये शनावीश सर्पौ मुहूर्त्ता निषिद्धाः॥
अथ वारदोषाः ।नारदः—
न हिता वारदोषा ये सूर्यधारादिषु क्रमात् ।
अपि सर्वगुणोपेतास्ते वर्ज्याः सर्वमङ्गले॥
मुहूर्त्तसर्वस्वे—
अर्कवारे चतुर्थश्च सोमे सप्तमितस्तथा ।
द्वितीयो भौमवारे तु बुधवारे तु पञ्चमः॥
अष्टमो गुरुवारे स्यात्तृतीयः शुक्रवासरे ।
शनौ षष्ठो हार्धयामः शुभे त्याज्यो मनीषिभिः॥
प्रहरस्य चतुर्थांशं रविवारे चतुर्दशम् ।
सोमे तु द्वादशं भौमे दशमं च बुधेऽष्टमम्॥
षष्टार्कं वेदनवममेकनेत्रं रवेर्दिनात् ।
दुर्मुहूर्त्तं दिवा रात्रावष्टमं भृगुसोमयोः॥
भौमावारे सप्तमं च सर्वकार्ये विलोकयेत् ।
चिन्तामणावपि—
कुलिकः कालवेला च यमघण्टश्चकण्टकः ।
वाराद्द्विध्ने क्रमान्मन्दे बुधे जीवे कुजे क्षणः॥
( स्पष्टबोधार्थमेतेषां चक्रम् )
| वासराःसूर्यादिकाः | सू | चं. | मं. | बु. | गु. | शु. | श. |
| कुलिकः | १४ | १२ | १० | ८ | ६ | ४ | २ |
| कालवेला | ८ | ६ | ४ | २ | १४ | १२ | १० |
| यमघण्टः | १० | ८ | ६ | ४ | २ | १४ | १२ |
| कण्टकः | ६ | ४ | २ | १४ | १२ | १० | ८ |
| अर्द्धयामघटिकाः | ४ | ७ | २ | ५ | ८ | ३ | ६ |
अस्यापवादमाह गर्गः—
विन्ध्यस्योत्तरकूले तु यावदा तु हिमालयम् ।
यमघण्टकदोषोऽस्ति नान्यदेशेषु विद्यते॥
मत्स्यङ्गमगधान्ध्रेषु यमघण्टस्तु दोषकृत् ।
काश्मीरे कुलिकं दुष्टमर्धयामस्तु सर्वतः॥
नारदः—
बृहस्पतिः केन्द्रगो वा शुक्रो वा यदि वा बुधः ।
एतेषां दोषसङ्घानां करोत्येव न संशयः॥
गुरुरेकोऽपि लग्नस्थः सकलं दोषसञ्चयम् ।
विनाशयति धर्माशुरुदितस्तिमिरं यथा॥ इति ।
चिन्तामणिटीकायामपि—
वारेशे सबले वापि बलाढ्ये लग्नगे शुभे ।
कुलिको दिनदोषस्तु विनश्यति न संशयः॥
अथ लग्नानामन्धादिदोषाः । वशिष्ठः—
मेषो वृषो मृगेन्द्रश्च दिवसेऽन्धाः प्रकीर्तिताः ।
नृयुक्कर्कटकन्याश्च रात्रावन्धाःप्रकीर्त्तिताः॥
तुला च वृश्चिकश्चैव दिवसे बधिरौतथा ।
धनुश्व मकरश्चैव बधिरौ निशि कीर्त्तितो॥
कुम्भमीनौ च पङ्गूद्वौ दिवा रात्रौयथाक्रमम्॥
अनेन तस्मिन्कालेऽन्धादिलग्नानि वर्ज्यानीत्यर्थः ।
दारिद्य्रंबधिरतनौ दिवाऽन्धलग्ने
वैधव्यं शिशुमरणं निशान्धलग्ने ।
पड्ग्वङ्गे निखिलधनानि नाशमीयुः
सर्वत्राधिपगुरुदृष्टिभिर्न दोषः॥
एषामपवादमाह कश्यपः—
काणपङ्ग्वन्धबधिरमासशुन्याश्च राशयः ।
गौडमालवयोस्त्याज्या अन्यदेशे न गर्हिताः॥
अथोदयास्तशुद्धिः । तत्र नारदः—
लग्नलग्नांशकौस्वस्वपतिना वीक्षितौ युतौ ।
न चेद्वाऽन्योन्यपतिना शुद्धमित्रेण वा तथा॥
वरस्य मृत्युः स्यात्ताभ्यां सप्तसप्तोदयांशकौ ।
एवं तौ न युतौ दृष्टौ मृत्युर्वध्वाः करग्रहे॥
अथाष्टमलग्नदोषः—
दम्पत्योरष्टमं लग्नमष्टमो राशिरेव च ।
यदि लग्नगतः सोऽपि दम्पत्योर्मरणप्रदः॥
स राशिःशुभसंयुक्तो लग्नं वा शुभसंयुतम् ।
लग्नंविवर्जयेद्यत्नात्तदंशांश्चतदीश्वरान्॥
दम्पत्याोर्द्वादशं लग्नं राशिर्वा यदि लग्नगः ।
अर्थहानिस्तयोर्यस्मात्तदंशस्वामिनं त्यजेत्॥
जन्मराश्युद्गमं चैव जन्मलग्नोदयं शुभम् ।
तयोरुपचयस्थानं यदि लग्नगतं शुभम्॥
अस्यापवादमाहतुः कश्यपबृहस्पती—
जन्मेशाष्टमलग्नेशौ मिथो मित्रे व्यवस्थितौ ।
जन्मराश्यष्टमर्क्षोत्थो दोषो नश्यति भावतः॥
कालप्रदीपे—
कर्तुः षष्ठं त्यजेल्लग्नं क्षौरोद्वाहगतीर्विना ।
मृतिंव्ययं च सर्वत्र एकमित्राधिपादतः॥ इति ।
गुरुः—
लग्नादष्टमराशीशः केन्द्रगः शुभवीक्षितः ।
यद्यप्यष्टमलग्नोत्थं दोषमाशु व्यपोहति॥
मीनोक्षकर्कालिमृगस्त्रियोऽष्टमं
लग्नं यदा नाष्टमदोषकृद्भवेत्॥
अथ षड्वर्गबलम् । नारदीये—
त्रिंशद्भागात्मकं लग्नं होरा तस्यार्द्धमुच्यते ।
लग्नत्रिभागो द्रेष्काणो नवांशोऽपि नवांशकः॥
द्वादशांशो द्वादशांशस्त्रिंशांशस्त्रिंशदंशकः।
षड्वर्गाः कथिता ह्येते तेषामीशा इमे स्मृताः॥
मेषवृश्चिकयोर्भौमस्तुलावृषभयोः सितः ।
कन्यामिथुनयोर्बौधः कर्कटस्य पतिः शशी॥
चापान्त्ययोर्गुरुः स्वामी शनिर्मकरकुम्भयोः ।
रविः सिंहस्य वै तेषामंशानामधिपा इमे॥
शुक्रचन्द्रज्ञगुरवः शुभा ह्यन्ये शुभेतराः ।
क्षीणः शशी तथाऽन्ये च पापयुक्तो बुधोऽशुभः॥
होरयोरोजराशौ तु रवीन्दूक्रमतः पती ।
समराशौ तु चन्द्रार्कौहारेशौक्रमतो वदेत्॥
स्युर्द्रेष्काणेषु चाद्येषु नव राशीश्वराः क्रमात् ।
नवमांशा मेषसिंहचापेष्वजादयः क्रमात्॥
क्रमाद्गोमृगकन्यासु ज्ञेयाः स्युर्मकरादयः ।
तुलामिथुनकुम्भेषु स्युः क्रमेण तुलादयः॥
अलिकर्कटमीनेषु क्रमात्स्युःकर्कटादयः ।
लग्नराशिं समारभ्य द्वादशांशेश्वराः क्रमात्॥
कुजार्कीज्यज्ञशुक्राणां बाणेष्वष्टाद्रिमार्गणाः ।
भागाः स्युर्विषमे ते तु समराशौ विपर्ययात्॥
सौम्यः स्वमित्रजः श्रेष्ठो रिपुक्रूरभवोऽशुभः ।
क्रूरमित्रभवो मध्यो मिश्रैर्मिश्रफलं च तैः॥
षड्वर्गापवादः । चूड़ामणौ—
मुहूर्त्तलग्नषड्वर्गकुनवांशग्रहोद्भवाः ।
ये दोषास्तान्निहन्त्येको यत्रैकादशगः शशी॥
अथ कर्तरीदोषः । नारदीये—
लग्नस्य पृष्ठाग्रगयोरसाध्वोःसा कर्तरी स्यादृजुवक्रयोश्च ।
तावेव शीघ्रौ यदि वक्रचारौन कर्तरी चेति पितामहोक्तिः॥
लग्नाद्द्विरिःफगौ क्रूरो त्रयमेव समांशकम् ।
तदा कर्तरिदोषोऽयं नान्यथा भावजं फलम्॥
क्रूरग्रहमध्यगते लग्ने चन्द्रेऽथवा करग्रहणम् ।
ते यमसदनाभिमुखं गमनं वाञ्छन्ति कन्यायाः॥
कर्तरीदोषापवादः । वशिष्ठः—
पापयोःकर्तरीकर्त्त्र नर्चिशत्रुगृहस्थयोः ।
यदा चास्तगयोर्वाऽपि कर्तरी नैव दोषदा॥
विधार्धनायगे शुभग्रहेऽथ वाऽन्त्यगे गुरौ ।
न कर्तरी भवत्यहो जगाद बादरायणः॥
अथ जामित्रदोषविचार—
जामित्रं द्विविधं प्रोक्तं गर्गगालवगौतमैः ।
तस्माल्लग्नाच्च चन्द्राच्च जामित्रं परिवर्जयेत्॥
लग्नस्थाःशुभखचराः कुर्वन्ति विवाहिताम् ।
सप्तभिरब्दैःक्रूराश्च विलग्नगा विधवाम्॥
सप्तमगाः सकलखगाः सप्तभिरब्धैः सप्तमासैश्च ।
दम्पत्योः सह मरणं यमरक्षितमपि कुर्वन्ति॥
शशिलग्ननवांशकात्खलोयदि खेटः शरसायकां ५५शके ।
अयन्मन्यगुणैर्न हन्यते निबिडैरत्युपसर्गडम्बरः॥
अथ जामित्रापवादः—
स्वोच्चेऽथ वा स्वभवने स्फुरदंशुजालः
सौम्यालये हितगृहे शुभवर्गगो वा ।
जामित्रकारिपरिचिन्तितदोषराशिं
हत्वा ददाति बहुशः सुखमेव चन्द्रः॥
ज्ञानमञ्जर्य्याम्—
लग्नाधिपः सप्तमराशिसंस्थःकूरोऽपि सौम्यो यदि वा विवाहे ।
तदा महादोषशतं निहन्ति पुत्रादिसौख्यं सुभगां करोति॥
जामित्रगो यदि भवेदुशना बुधश्च
गीर्वाणवन्द्यसचिवः सितपक्षचन्द्रः ।
कन्याविवाहसमये परिहृत्य दोषा-
न्सौभाग्यदाःशुभगदाः खलु काव्य मुख्याः॥
अथ रिःफषडष्टेन्दुदोषः । वीरमित्रोदये—
षडष्टरिःफगे चन्द्रे लग्नाद्दोषः स्वसंज्ञकः ।
तल्लग्नं वर्जयेद्यत्राज्जीवशुक्रसमन्वितम्॥
उच्चगे नचिगे वाऽपि मित्रगे शत्रुराशिगे ।
अपि सर्वगुणोपेतं दम्पत्योर्निधनप्रदम्॥
अस्यापवादमाह वशिष्ठः—
जन्मेशमृत्यू राशीशौ मिथो मित्रे यदा तदा ।
जन्माष्टमर्क्षे चन्द्रश्च दोषो भङ्गमवाप्नुयात्॥
अथ भृगुषष्ठदोषः । नारदीये—
भृगुषष्ठाख्यागो दोषो लग्नात्षष्ठगते सिते \।
उच्चगेऽशुभसंयुक्त तल्लग्नं सर्वथा त्यजेत्॥
अस्यापवादमाह—
नीचगते तुरीये वा शत्रुक्षेत्रगतेऽपि वा ।
भृगुषद्कस्थितो दोषो नास्ति तत्र न संशयः॥
अथ कुजाष्टमदोषः । नारदीये—
कुजाष्टमो महादोषो लग्नादष्टमगे कुजे ।
शुभत्रययुतं लग्नं त्यजेत्तत्तुङ्गगे यदि॥ इति ।
अस्यापवादः—
अस्तगे नीचगे भौमे शत्रुक्षेत्रगतेऽपि वा ।
कुजाष्टमोद्भवो दोषो न किञ्चिदपि विद्यते॥
अथ भावफलान्युच्यन्ते । तत्र बराहः—
मूर्तौकरोति विधवां दिनकृत्कुजश्च
राहुर्विपन्नतनयां रविजो दरिद्राम् ।
शुक्रः शशाङ्कतनयश्च गुरुश्च साध्वी-
मायुःक्षयं च कुरुतेऽथ विभावरीशः॥
कुर्वन्ति भास्करशनैश्वरराहुभौमा
दारिद्र्यदुःखमतुलं नियतं द्वितीये ।
वित्तेश्वरीमविधवां गुरुशुक्रसौम्या
नारीं प्रभूतवनयां कुरुतेश शाङ्कः॥
सूर्येन्दुभौमगुरुशुक्रबुधास्तृतीये
कुर्युः सदा बहुसुतां धनभागिनीं च ।
व्यक्तं दिवाकरसुतः सुभगां करोति
मृत्युर्ददाति नियते खलु सैंहिकेयः॥
स्वल्पं पयःस्रवति सर्वसुते चतुर्थे
दौर्भाग्यमुष्णकिरणः कुरुते शशी च ।
राहुः सपत्नमपि च क्षितिजोऽल्पवित्तां
दद्याद्भृगु सुरगुरुश्चबुधश्च सौख्यम्॥
नष्टात्मजां रविकुजौ खलु पञ्चमस्थ ।
चन्द्रात्मजो बहुसुतां गुरुभार्गवौ च ।
राहुर्ददाति मरणं शनिरुग्ररोगान्
कन्याविनाशमचिरात्कुरुते शशाङ्कः॥
षष्ठाश्रिताः शनिदिवाकरराहुजीवाः
कुर्युःकुजश्व सुभगां श्वशुरेषु भक्ताम् ।
चन्द्रः करोति विधवामुशना दरिद्रा-
मस्यां शशाङ्कतनयः कलहप्रियां च॥
सौर्योरजीवबुधराहुरवीन्दुशुक्रा
दद्युःप्रसह्य खलु सप्तमराशिसंस्थाः ।
वैधव्यबन्धनकुलक्षयवित्तनाशं
व्याधिप्रवासमरणानि यथाक्रमेण॥
स्थानेऽष्टमे गुरुबुधौ नियतं वियोगं
मृत्युं शशी भृगुसुतश्च तथैव राहुः ।
सूर्यः करोत्यविधवां सुरुजां महीजः
सूर्यात्मजो धनवतीं पतिवल्लभां च॥
धर्मे स्थितां भृगुदिवाकरभूमिपुत्रा
जीवश्च धर्मनिरतां शशिजः सरोगाम् ।
राहुश्च सूर्यतनयश्च करोति वन्ध्यां
कन्याप्रसूतिजठरां कुरुते शशाङ्कः॥
राहुर्नभस्थलगतो विधवां करोति
पापे रतिं दिनकरश्च शनैश्चरश्च।
मृत्युं कुजोऽर्थरहितां कुलटां च चन्द्रः
शेषा ग्रहा धनवतींसुभगां च कुर्युः॥
आये रविवहुसुतां सघनां च चन्द्रः
पुत्रान्वितां क्षितिसुतो रविजो धनाढ्याम् ।
आयुष्मतीं सुरगुरुः शशिजः समृद्धां
राहुः करोत्यविधवां भृगुजोऽर्थयुक्ताम्॥
अन्ते गुरुर्धनवर्ती दिनकृद्दरिद्रां
चन्द्रो धनक्षयकरीं कुलटां च राहुः ।
साध्वीं भृगुः शशिसुतो बहुपुत्रपौत्रां
यां च प्रशस्तहृदयां रविजः कुजश्च॥ इति ।
अथ गोधूलीकं लग्नमाह—
घटीलग्नं यदा नास्ति तदा गोधूलिकं स्मृतम् ।
शुद्रादीनां बुधाः प्राहुर्नद्विजानां कदाचन॥
भूपालवल्लभे—
विप्रस्य घटिकाऽलाभे दातव्यं गोरजो बुधैः ।
सङ्कीर्णे गोरजः शस्तं पदेषु द्वितयं शुभम्॥
नारदः—
प्राच्यानां च कलिङ्गानां मुख्यं गोधूलिकं स्मृतम् ।
गान्धर्वादिविवाहेषु वैश्योद्वाहेषु योजयेत्॥
अथ गोधूलिकसमयज्ञानमाह—
पिण्डीभूते दिनकृति हेमन्तर्तौ स्यादर्धास्ते तत्समये गोधूलिः ।
सम्पूर्णास्ते जलघरमालाकाले त्रेधा योज्याः सकलशुभकर्मादौ॥
मार्गादिचतुष्टये गोलसदृशे रवौ यदा तदा गोधूलिकं ज्ञातव्यम् । उष्णकाले अर्धास्ते सूर्ये जाते सति तदा गोधूलिकम् । वर्षाकाले सम्पू-
र्णास्ते रवौ जाते तदा ।अथ गोधूलीप्रसंशा मुहूर्त्तमालायाम्—
लग्नाष्टषष्ठगं चन्द्रं कुजं लग्नमदाष्टगम् ।१।७।८।
क्रान्तिसाम्यं च कुलिकं गोधूल्यां यत्नतस्त्यजेत्॥
वीरमित्रोदये—
गोपैर्यष्ट्या हतानां खुरपुटदलिता या च भूमिर्दिनान्ते
सोद्वाहे सुन्दरीणां विपुलधनसुतारोग्यसौभाग्यकर्त्री ।
तस्मिन्काले न ऋक्षं न च तिथिकरणं नैव लग्रं न योगः
ख्यातः पुंसां सुखार्थं शमयति दुरितान्युच्छ्रितं गोरजस्तु॥
अथ लग्नसाधनाय घटीयन्त्रप्रकारमाह ।वामनः—
दशपलशुद्धकपाले संयुद्धान्ते षडङ्गुष्ठोच्छ्राये ।
द्वादशमुखरपरिणाहं षष्ठ्यस्तुलपरिमिता घटिका॥
चतुरङ्गुलशलाकयावृत्तं कुर्यात्सुवर्णपादेन ।
तत्परिथित्या च्छ्रिद्रेनलस्थिते शोभना घटिका॥
सुवर्णप्रमाणमाह लीलावस्याम्—
दशार्धगुञ्जं प्रवदन्ति माषं माषाह्वयैः षोडशभिश्च कर्षम् ।
कर्षैश्चतुर्भिश्च पलं तुलाज्ञाः कर्षंसुवर्णस्य सुवर्णसंज्ञम्॥
अत्र अशीति ८० गुञ्जातुल्यःकर्षं। एतत्परिमाणं सुवर्णं सुवर्णसंज्ञकं भवति । तत्पाद्श्चतुर्थांशः२० विंशतिगुञ्जात्मकः । तत्तुल्यया शलाकया च्छिद्रं कुर्यात् । शेषं स्पष्टम् । अथ घटीयन्त्रस्थापनप्रकारमाह
वीरमित्रोदये—
प्रागुदक्प्रवणे देशे गोमयेनोपलेपिते ।
मृण्मयं कुण्डिकायुग्मं स्थापयेदव्रणं शुभम्॥
कुङ्कुमाक्तेन सूत्रेण परिवेष्ट्य परस्परम् ।
स्थले चवारिणा पूर्णं तण्डुलानामथोपरि॥
निश्चलेसलिले स्थाप्य कुण्डिकाया जलोपरि ।
स्थापयेद्घटिकायन्त्रं सूर्याबेम्बानुदर्शनात्॥
तत्र मन्त्रः—
यन्त्राणां मुख्ययन्त्रं त्वमिति धात्रा पूरा कृतम् ।
दम्पत्योरायुरारोग्यसुपुत्रधनहेतवे॥
जलयन्त्र त्वमेतस्मादिष्टसिद्धिप्रदं भव।
अथ वा साधयेत्कालं द्वादशाङ्गुलशकुना॥
अथ घटीयन्त्रभ्रमणफलमाह—
यद्रूपं प्रथमं करोति घटिका पूर्वादिदिक्षु क्रमा-
त्सौभाग्यं निधनं यशो विरहितं युक्तं च रोगैः क्रमात् ।
कन्या वल्लमतामुपैति नियतं या निश्चला सर्वदा
स्यात्साध्वी सुतवित्तबन्धुसहिता नन्दत्यले भूतले॥
अथ लग्नपत्रलेखनम्—
सुदिने गणकः स्वस्थो विलिख्य लग्नपत्रिकाम् ।
पात्रे तण्डुलसम्पूर्णे गणेशं पूजितं न्यसेत्॥
तदग्रे धारयेत्पात्री तन्मन्येण प्रतिष्ठयेत् ।
ततो मन्त्राक्षता देया वध्याः पित्रे वरस्य च॥
आदौ सन्तोष्य दैवज्ञं गृह्णील्लग्नपत्रिकाम् ।
ततो ग्रहार्चनं कुर्यान्नान्दीश्राद्धादिकंतथा॥
यस्य नास्ति विवाहादौ विश्वासो दैवविद्द्विजे ।
तस्यावश्यं महाविघ्नं जायते मुनिशासनात्॥
मन्त्रे तीर्थे द्विजे देवे दैवज्ञे गुरुभेषजे ।
यादृशी भावना यस्य सिद्धिर्भवति तादृशी॥
“कुमार्याः पाणि गृह्णीया”दिति सूत्रम् । कुमार्याः अक्षतयोन्याः पाणिं गृह्णीयात् । वक्ष्यमाणेन विधिना विवाहं कुर्यात् । विंशतिप्रसूताव्युदासार्थं कुमारीग्रहणम् । स्मर्यते हि तस्याः पुनर्विवाह । उक्तं च गृह्यकारिकायाम्—
उद्वाहः स्मर्यते तस्या नारी या विंशतिप्रसुः॥ इति ।
“त्रिषु त्रिषूत्तरादिषु” इति सूत्रम् । उत्तरा आदिर्येषान्तानि उत्तरा-
दीनि तेषु त्रिषु त्रिषु । अयमर्थः– उत्तराफाल्गुन्यां हस्ते चित्रायां च एवमुत्तराषाढायां श्रवणे घनिष्ठायां च । एवमुत्तराभाद्रपदायां रेवत्यामशिवन्यां च । चित्रा श्रवणं धनिष्ठा अश्विन्येतानि नक्षत्राणि कातीयानामेव नान्येषां स्वसूत्रोक्तत्वात् । “स्वातौ मृगशिरसि रोहिण्यां वा " सूत्रम् । एतेषामन्यतमे नक्षत्रे विवाहो भवतीत्यर्थः । “उदगयन आपूर्यमाणपक्षे पुण्याहे” इत्युक्तत्वात्कालप्रसङ्गाच्च स्मृत्यन्तरोक्तसंवत्सरादिकन्याविवाहकालोऽत्र निरूप्यते । “तिस्रो ब्राह्मणस्य वर्णानुपूर्व्येण” इति सूत्रम् । वर्णक्रमेण ब्राह्मणी क्षत्रिया वैश्या तिस्रो भार्या ब्राह्मणस्य भवन्ति । वर्णानुपूर्व्यग्रहणान्न व्युत्क्रमो विवाहः । प्रथमा ब्राह्मणी द्वितीया क्षत्रिया तृतीया वैश्या । “द्वे राजन्यस्य” इति सूत्रम् । वर्णानुपूर्व्येण क्षत्रिया वैश्या द्वे राजन्यस्य भार्ये भवतः \। " एका वेश्यस्ये” ति सूत्रम् । सवर्णैका वैश्यस्य भार्या भवति । “सर्वेषाँशूद्रामप्येके मन्त्रवर्जम्” इति सूत्रम् । सर्वेषां ब्राह्मणादीनां शुद्रामप्येके आचार्या भार्यामिच्छन्ति । तस्यास्तु मन्त्रवर्ज विवाहकर्म भवति । एके पुनः शूद्रापरिणयनं नेच्छन्ति । तथा च वीरमित्रोदये याज्ञवल्क्यः—
यदुच्यते द्विजातीनां शूद्राद्दारोपसङ्ग्रहः ।
नैतन्मम मतं यस्मात्तत्रात्मा जायते स्वयम्॥ इति ।
विष्णुः—
द्विजस्य भार्या शूद्रा तु धर्मार्थं न भवेत्कचित् ।
रत्यर्थमेव सा तस्य रागान्धस्य प्रकीर्त्तिता॥
शङ्कः—
आपद्यपि न कर्तव्या शुद्रा भार्या द्विजेन तु ।
तस्यां तस्य प्रसूतस्य निष्कृतिर्न विधीयते॥
तपस्वी कर्मशीलश्च सर्वधर्मभृतां वरः ।
ध्रुवं शुद्रत्वमाप्नोति शुद्रश्राद्धे त्रयोदशे॥
नीयते तु सपिण्डत्वं येषां शुद्रः कुलोद्भवः ।
सर्वे ते शुद्रतां यान्ति यदि स्वर्गगतास्तु ते॥
सपिण्डीकरणं कार्यं कुलजस्य तथा ध्रुवम् ।
श्राद्ध द्वादशकं कृत्वा प्राप्ते श्राद्धे त्रयोदशे॥
सपिण्डीकरणानर्हो न च शुद्धस्तथा ध्रुवः।
तस्मात्सर्वप्रयत्नेन शूद्रां भार्यां विवर्जयेत्॥
मनुः—
शुद्रां शयनमारोप्य ब्राह्मणो यात्यधोगतिम् ।
जनयित्वा सुतं तस्यां ब्राह्मण्यादेव हीयते॥
उशनाः—
निष्कृतिःस्यात्मुरापस्य हत्वा वा ब्रह्मवादिनः ।
वृषल्यभिप्रजातस्य निष्कृतिर्नोपपद्यते॥
अथोद्वाहे मुख्यदाराः। तत्र मनुः—
गुरुणाऽनुमतः स्नात्वा समावृत्तो यथाविधि ।
उद्वहेत द्विजो भार्यां सवर्णां लक्षणान्विताम्॥
दारकर्मणि पुत्रधर्मलक्षणे वरिमित्रोदये यमः—
भार्याःसजात्याः सर्वेषां धर्मः प्राथमकल्पिकः॥ इति।
सर्वेषां प्रथमविवाहे सवर्णैव । अथ विवाहभेदाः । तत्र मनुः—
चतुर्णामपि वर्णानां प्रेत्येह च हिताहितान् ।
अष्टाविमान्समासेन स्त्रीविवाहान्निबोधत॥
ब्राह्मो दैवस्तथाचाऽऽर्षः प्राजापत्यस्तथाऽऽसुरः ।
गान्धर्वो राक्षसश्चैव पैशाचस्त्वष्टमोऽधमः॥ इति।
अथ ब्राह्मादिलक्षणानि ।वीरमित्रोदये मनुः—
आच्छाद्य चाईयित्वा च कुलशीलव्रते स्वयम् ।
आहूय दानं कन्याया ब्राह्मो धर्मः प्रकीर्त्तितः॥
आछाद्य वाससा, अर्हयित्वा स्रकृचन्दनादिभिः, वरमिति शेषः न कन्यामिति । अथ दैवलक्षणम्—
यज्ञे तु वितते सम्यगृत्विजे कर्म कुर्वते॥
अलङ्कृत्वा सुतादानं दैवं धर्मं प्रचक्षते॥
यमः—
ऋत्विजं समलङ्कृत्य विवाहो दैव उच्यते॥
हारीतः “वेद्यन्ते मैथुनं दत्वा सदैवः” ।वेद्यन्ते वेदिमध्ये गोमिथुनं दत्वा, वरायेति शेषः । अथार्षलक्षणम्—
एकं गोमिथुनं द्वे वा वरादादाय धर्मतः ।
कन्याप्रदानं विधिवदार्षो धर्मोऽयमुच्यते॥
अथ प्राजापत्यलक्षणम् ।मनुः—
सहोभौ चरतां धर्ममिति वा चानुभाष्य च ।
कन्याप्रदानमभ्यर्च्य प्राजापत्यो विधिः स्मृतः॥
यत्तु धर्मशब्दोऽर्थकामयोरुपलक्षणम् । “धर्मे चार्थे च कामे च नातिचरितव्या त्वयात्वियम्” इति स्मृत्यन्तरादिति, तन्न । तस्य वाक्यस्य काठगृह्यपरिशिष्टे ब्राह्मविवाहोपक्रमपठितत्वेन तन्मात्रविषयत्वात् । सह धर्मश्चर्यता" मिति प्राजापत्ये गौतमेन मन्त्राभिधानाच्च । अथासुरलक्षणम् । मनुः—
ज्ञातिभ्यो द्रविणं दत्वा कन्यायै चैव शक्तितः ।
कन्याप्रदानं स्वीकुर्यादासुरो धर्म उच्यते॥
आसुरनिन्दामाह कश्यपः—
क्रीता द्रव्येण या नारी न सा पत्नी विधीयते ।
न सा दैवे न सा पित्र्येदासीं तां कश्यपोऽब्रवीत्॥
दानं विक्रयधर्मश्चापत्यस्य न विधीयते ।
न कन्यायाः पिता विद्वान् गृह्णीयाच्छुल्कमण्वपि॥
यमः—
स्त्रीधनानि तु ये मोहादुपजीवन्ति बान्धवाः ।
नारी यानानि वस्त्रं वा ते पापा यान्त्यधोगतिम्॥
कश्यपः—
शुल्केन ये प्रयच्छन्ति स्वसुतां लोभमोहिताः ।
आत्मविक्रयिणः पापा महाकिल्बिषकारकाः॥
पतन्ति निरये घोरे घ्नन्ति चासप्तमं कुलम् ।
गमनागमने चैव सर्वंशुल्कोऽभिधीयते॥
पराशरः—
कन्यां यच्छति वृद्धाय जीचाय धनलिप्सया।
कुरूपाय कुशीलाय स प्रेतो जायते नरः॥
अत्र प्रायश्चित्तमुक्तमृग्विधाने—
महत्तरोस्तु वर्गंच लक्षं चेद्विष्णुमन्दिरे ।
कन्याविक्रयदोषस्तु प्रणश्यति न संशयः॥
इदं दोषाभिधानं लोभेनात्मार्थं घनग्रहणे ।कन्यार्थं धनग्रहणे तुन दोषस्तस्यार्हणरूपत्वादित्युक्तं प्राक् ।अथ गान्धर्वलक्षणम् । मनुः—
इच्छयाऽन्योन्यसंयोगः कन्यायाश्चवरस्य च ।
गान्धर्वः सतु विज्ञेयो मैथुनः कामसङ्मवः॥
गौतमः —"इच्छयास्वयं संयोगो गान्धर्वः" । स्वयमिच्छन्त्यावध्वाइच्छतो वरस्य संयोगो गान्धर्वः ।हारीतः—“स्वयं कन्या वरयते स गान्धर्वः” । अथ राक्षसलक्षणम्—
हृत्वा च्छित्वा व भीत्वा च क्रोशन्तीं रुदतीं गृहात् ।
प्रसह्य कन्याहरणं राक्षसो विधिरुच्यते॥
प्रसह्यबलात्कारेण । अथ पैशाचलक्षणम् । मनुः—
सुप्तां मत्तां प्रमत्तां च रहो यत्रोपगच्छति ।
स पापिष्ठो विवाहानां पैशाचःकथितोऽष्टमः॥
सुप्ता निद्रिता ।प्रमत्ताऽतिशयेन नष्टचेतना ।तस्यामभिगमनं मैथुनंतस्मात्पैशाचः । अथैषां वर्णविशेषेण व्यवस्था ।तत्र मनुः—
चतुरो ब्रह्मणस्याद्यान्प्रशस्तान्कवयो विदुः ।
तत्रापि द्वौ मुख्यतरौ–
महाभारते—
ब्राह्मणानां सतामेष ब्रह्मो धर्मो युधिष्ठिर ? ॥
देवोऽपि ब्राह्मणस्यैव ऋत्विक्सम्प्रदान कत्वात्, न क्षत्रियादेः।
आर्त्विज्याभावात् । नारदोऽपि—
चत्वारो ब्राह्मणस्याद्याः शस्ता गान्धर्वराक्षसौ ।
राज्ञस्तथाऽऽसुरो वैश्ये शूद्रे चान्त्यस्तु गर्हितः॥
अन्त्यःपैशाचः, स गर्हितो न कस्यापि योग्य इत्यर्थः । न चासुरादिषुविवाहेषु सप्तपद्यमिक्रमणाभावात्पतित्वभार्यात्वयोरनुपपत्तिरित्याशङ्कनीयम् ।तत्रापि स्वीकारानन्तरं संस्कारविधानात् । तथा च वीरमित्रोदये देवलः—
गान्धर्वादिविवाहेषु पुनर्वैवाहिको विधिः ।
कर्तव्यश्च त्रिभिर्वर्णैः समयेनाग्निसाक्षिकः॥
समयेन संबादेन । गृह्यपरिशिष्टेऽपि—
गान्धर्वासुरपैशाचविवाहा राक्षसाश्चये ।
पूर्वं परिणयस्तेषां पश्चाद्धोमो विधीयते॥
परिणयः स्वीकारः । अकृते तु होमे न भार्यापतिभावः । तदुक्तंवशिष्ठबौधायनाभ्यां वीरमित्रोदये—
बलादपहृता कन्या यदि मन्त्रैर्न संस्कृता ।
अन्यस्मै विधिवद्देया यथा कन्या तथैव सा॥ इति ।
संस्कारावश्यकत्वमाह यमः—
नोदकेन विना चायं कन्यायाः पतिरुच्यते ।
पाणिग्रहणसंस्कारात्पतित्वं सप्तमे पदे॥ इति ।
आसुरादिविवाहेषु प्रायश्चित्तमप्युक्तं त्रिकाण्डमण्डनेन—
अधर्मेषु विवाहेषु ताम्बूलमनुमोदनम् ।
वाहनं भोजनं चैव वर्जयेत्सर्वथा द्विजः॥
आसुरे तूपवासः स्याद्गान्धर्वे तु त्रिरात्रकम् ।
राक्षसे चैव पैशाचे कार्यं चान्द्रायणं तथा॥ इति ।
विष्णुः"ब्राह्मण विवाहेन कन्यां ददद् ब्रह्मलोकं गमयति दैवेन स्वर्गमार्षेण वैष्णवं प्राजापत्येन देवलोकं गान्धर्वेण गन्धर्वलाकें गच्छतीति" । इदं विवाहफलं स्वस्वजातीयवरसम्प्रदानके कन्या-
दाने। ब्राह्मणसम्प्रदानके दाने तु तस्मिन्नेव फलातिशयः कल्पनीयः ।
सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे ।
अधीने शतसाहस्रं प्राधीनेऽनन्तमुच्यते॥
इति दक्षस्मरणात् ।
अथ कन्यादानविधिः । ब्राह्मणाः स्वलङ्कृते वेश्मनि मङ्गलगीततूर्यनिर्घोषे क्रियमाणे पूर्वापरभागयोर्हस्तान्तरालं विधाय प्रत्येकं प्रस्थमिततण्डुलैर्द्वौराशी कृत्वा मध्ये कुङ्कुमादिकृतस्वस्तिकाङ्कितमन्तः पटं राश्योर्मध्ये उत्तरदशं धारयेयुः ।तण्डुलप्रमाणमुक्तं विधानपारिजाते मनुना—
आरुह्य तण्डुलप्रस्थमीक्षेत्प्रत्यङ्मुखो वधूम्॥ इति ।
अथ पूर्वराशौ प्रत्यङ्मुखं वरं पश्चिमराशौ च प्राङ्मुखीं कन्यांतण्डुलगुडजीरकयुताञ्जली उभाववस्थाप्य द्विजाः"स्वस्ति न इन्द्राग्नी"ति सूक्तं पठेयुः । पुरन्ध्रयो मङ्गलगोतिं कुर्युः । एतदुक्तं विधानपारिजाते आश्वलायनेन—
स्नातालङ्कृतकन्यायाः प्राङ्मुख्याःप्रत्यगाननः ।
ईक्षते तण्डुलस्थाया वरस्तस्य मुखं च सा॥ १ ॥
मुहूर्त्ते शोभने सम्यक् क्षिपेतां मुखयोर्मिथः।
सगुडां जीरकां कन्यां वरयेदथ तां वरः॥ इति ।
धर्मप्रवृत्तावपि—
सन्तिष्ठेत्प्राङ्मुखी कन्या तिष्ठत्प्रत्यङ्मुखो वरः ।
मुहूर्त्ते शोभने काले त्वन्तर्धार्याम्बरं तयोः॥
स्वक्षतां सुमुहूर्ते तु क्षिपेतां शिरसोर्मिथः।
क्षिपेत्कन्याऽक्षतान्पूर्वं पश्चाच्चैव क्षिपेद्वरः॥
वधुर्वरपादोपरि स्थाप्य, ततो बध्वाः शिरोपरि वरः स्थाप्येति प्रयोगरत्नकारः । “अथैनां वासः परिधापयति जरां गच्छ परिधत्स्ववासो भवाकृष्टीनामभिशस्तिपावा ।शतं च जीव शरदः सुवर्चारयिं च पुत्राननु संव्ययस्वायुष्मतीदं परिधत्स्व वास" इति सूत्रम् । अथैनां वासःपरिधापयतीति । परिधापयतीति मन्त्रस्यापि तदर्थत्वात्
परिधापयिता अन्य इत्यवगम्यते । स किं वरः अध्वर्युर्त्रा ? श्रौतेषु अध्वर्योः कर्तृत्वम् । अतो वर एवपरिधापयिता ।भर्तृयज्ञमते तु आचार्यकर्तृकं परिधापनम् । आचारादहतं वासो ग्राह्यम् । अहतलक्षणं कश्यपेनोक्तम्—
अहतं यन्त्रनिर्मुक्तं वासः प्रोक्तं स्वयम्भुवा ।
शस्तं तन्ङ्गले नूनं तावत्कालं न सर्वदा॥ इति ।
वस्त्रं कन्यापित्रा दत्तम् । ‘अस्मिन्नेव समये कन्यापिता वस्त्रद्वयंवराय प्रयच्छति, तन्मध्ये एकं वरः कुमारी परिधायति’ इति प्रयोगरत्ने । “जराङ्गच्छेति” मन्त्रेण ।हरिहरमते तु मधुपर्कपूजनसमये कन्यापिता वराय वस्त्रचतुष्टयं प्रयच्छति, तन्मध्ये वस्त्रद्वयं स्वयं परिषत्ते, उर्वरितं वस्त्रद्वयं कन्यायै परिधापयति । मन्त्रार्थः- हे कन्ये ! त्वं जरां निर्दुष्टवृद्धत्वं मया सह गच्छ प्राप्नुहि । वासश्च मया सम्पादितं परिधेहि । आकृष्यम्ते कामादिभिरित्याकृष्टयो मनुष्यास्तेषां मध्ये अभिशस्तिरभिशापः, शमु प्रमादे, तस्मात्पातीत्यभिशस्तिपावा भव \। शतं च शरदो वर्षाणि जीव प्राणिहि \। सुवर्चाःतेजस्विनी रयिं धनं च पुत्रांश्च अनु पश्चात्संव्ययस्वअतिसुसंवृणीष्व, उत्पाद्य राशिं कुरु \। हे आयुष्मति ! इदं वासः परिधत्स्वेत्यनुवादः । मन्त्र एवात्र कारितार्थे । “अथोत्तरीयं या अकृतन्नवयंया अतन्वत । याश्च देवीस्तन्तूनाभितो ततन्थ तास्त्वादेवीर्जरसे संव्ययस्वायुष्मतीदं परिधत्स्व वासः” इति सूत्रम् ।या अकृन्तन्नित्यनेन मन्त्रेणोत्तरीयं परिधापयति वर एतदप्यहतमेव । अत्रापि कारितार्थे मन्त्रः ।
** मन्त्रार्थः—**या देवी देव्यः इदं वासः अकृन्तन्कर्तितवत्यः । या अवयन्वीतवत्यः । वेञ् तन्तुसन्ताने, ओतवत्य इत्यर्थः । यास्तन्तून्सूत्राणि अतन्वत प्रोतवत्यस्तिर्यक् तन्तून्विस्तारितवत्य इत्यर्थः । चकाराद्या ओतान्प्रोतांश्च तन्तूनभित उभयपार्श्वयोरपि ततन्थ तेनुः ।तुरीवेमादिव्यापारेणाऽपि ग्रथितवत्यः ।तास्तत्तत्सामर्थ्यदात्र्यो देव्यः स्वकार्यरूपवदिदं वासः त्वां जरसे दीर्घकालनिर्दुष्टजीवनाय संव्ययस्व परिधापयन्तु । पुरुषादिव्यत्ययश्छान्दसः । अतो हे आयुष्मति ! इदं एतादृशं वासः परिधत्स्व
उत्तरीयत्वेन वृणीष्व ।“अथैनौ समञ्जयति” इति सूत्रम् । कन्यापिता"परस्परं समञ्जेथा " मिति प्रैषेण एनौ वधुवरौ समञ्जयति । समञ्जनंनाम सम्मुखीकरणम् । परस्परं गात्रविश्लेष इति भर्तृयज्ञः । परस्परानुलेपनमिति केचित् । सत्यपि कारितत्वे वरस्यैव मन्त्री मन्त्रलिङ्गात् । कारथितृत्वं च सन्निधानात्कन्यापितुः । सन्निहितो ह्यसौ प्रदातृत्वात् । उभयोर्मन्त्रपाठ इति भर्तृयज्ञः । मन्त्रार्थः—हे कन्यके । नौ आवयोः हृदयानिमनांसि तन्निष्ठव्यापारात्सङ्कल्पात्मकात् विश्वे देवाःआपश्च समञ्जन्तु गुणातिशयाधानेन संस्कुर्वन्तु । तथा सम्यग्भूतो मातरिश्वा अनुकूलो वायुःतथा अनुकूल प्रजापतिः देष्ट्री धर्मोपदेष्ट्री देवता आवयोः हृदयानिसन्दधातु । उ अप्यर्थे । अथ कन्यादातृनिर्णयः । वीरमित्रोदये नारदः—
पिता दद्यात्स्वयं कन्यां भ्राता वाऽनुमते पितुः ।
मातामहो मातुलश्च सकुल्यो बान्धवस्तथा॥
माता त्वभाव सर्वेषां प्रकृतौ यदि वर्तते ।
जस्यामप्रकृतिस्थायां कन्यां दद्युःस्वजातयः॥
यदा तु नैव कश्चित्स्यात्कन्या राजानमाव्रजेत्॥
याज्ञवल्क्योऽपि—
पिता पितामहो भ्राता सकुल्यो जननी तथा ।
कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः॥
अप्रयच्छन्समाप्नोति भ्रूणहत्यामृतावृतौ॥ इति ।
प्रकृतिस्थोऽविक्षिप्तचित्तः । सकुल्यः प्रत्यासत्तिक्रमेणादौ पितृकुलस्थस्तदभावे मातामहकुलस्थःसर्वाभावे जननी । इति समीपस्थविषयम् ।देशान्तरस्थे न दोषाय । तदुक्तं वीरमित्रोदये नारदेन—
दीर्घप्रवासयुक्तेषु पौगण्डेषु च बन्धषु ।
माता च समये दद्यादौरसीमपि कन्यकाम्॥ इति ।
पौगण्डो व्यवहारासमर्थः । समये कन्यादानोचितकाले । अथ कन्यादानविधिः । वधूवरावुपविशतः । तत्र प्राङ्मुखो वर उपविशेत् ।प्रत्यङ्मुखी कन्या । दाता वधूवरयोर्दक्षिणतः सपत्नीक उदङ्मुखो
बद्धशिखः । धर्मप्रवृत्तौ—
प्रत्यङ्मुखीं प्राङ्खस्तां स्थितामात्मसमीपतः ।
ततश्चोदङ्मुखस्तिष्ठेत्सभार्यः कन्यकापिता॥
विधानपारिजातेऽपि—
सर्वत्र प्राङ्मुखो दाता गृहीता च ह्युदङ्मुख ।
एष एवं विधिर्दाने कन्यादाने विपर्ययः॥
देशकालौ सङ्कीर्त्य ‘कन्यादानं करिष्ये’ अत्र महासङ्कल्पःपठनीयःसमाचारात् । ततो वधूवरयोः पुरतः कांस्यपात्रं स्थापयित्वा तत्र कन्याहस्तोपरि वरहस्तं कृत्वा तत्र “शिवाऽऽपः सन्तु” इत्यादि पठेत् । उक्तं विधानपारिजातके—
कांस्येऽविच्छिन्नया वारिधारया स्त्रीप्रदत्तया ।
ॐस्वस्तीति वरो व्रूयाद्धर्मेचेति वधूपिता॥
कन्यादाने पुरुषोच्चारणक्रमः । तत्र वृद्धवशिष्ठः—
नान्दीश्राद्धे विवाहे च प्रपितामहपूर्वकम् ।
नाम सङ्कीर्तयेद्विद्वानन्यत्र पितृपूर्वकम्॥
ऋष्यशृङ्गोऽपि—
वरगोत्रं समुच्चार्य प्रपितामहपूर्वकम् ।
नाम सङ्कीर्तयेद्विद्वान्कन्यायाश्चैवमेव हि॥ इति ।
परिशिष्टेऽप्येवमेव क्रमः पूर्वमुदाहृतः ।
गदाधरभाष्येऽपि—
गोत्रोद्भवस्य गोत्रस्य सम्बन्धस्यामुकस्य च ।
नप्त्र्येपौत्राय पुत्राय ह्यमुकाय वराय वै॥
कन्याया अपि गोत्रस्य यथापूर्ववदुच्चरेत् ।
नीप्त्रीमथ च पौत्रीं च पुत्रीं कन्यां यथाविधि॥ इति ।
अथ वधूवरयोर्गोंत्रप्रवरपूर्वकं प्रपितामहपितामहपितॄणां त्रिस्त्रिर्नामग्रहणं कार्यमिति वासुदेवहरिहरौ । सकृदिति गङ्गाधरः ।स्पष्टप्रयोगः“वशिष्ठगोत्रोद्भवायामुष्य प्रपौत्रायामुष्य पौत्रायामुष्य पुत्राय
सुशीलनाम्नेऽमुकस्मै वराय ‘कन्यापक्षे’ वत्सगोत्रोद्भवाममुष्य प्रपौत्रीममुष्य पौत्रीममुष्य पुत्रीं सुशीलानाम्नीमिमां कन्यां सम्प्रददे" । हरिहरेण तु प्रतिपुरुषं गोत्रोच्चारणम् । तद्यथा “वशिष्ठगोत्रस्प वशिष्ठशक्तिपराशरेतित्रिप्रवरस्थामुकशर्मणः प्रपौत्राय ‘पुनरपि वशिष्ठगोत्रस्य वशिष्ठशक्तिपराशरेतित्रिप्रवरस्यामुकशर्मणःपौत्राय ‘पुनरपि पूर्ववदेव गोत्रायुच्चारणम्’ अमुकशर्मणः पुत्राय ।एवमेव कन्यापक्षेऽपि । यत्तु—
पुत्रायास्य च पौत्राय नप्त्रेऽस्यामुकशर्मणे ।
अस्मा अमुकगोत्राय पुत्री पौत्र्यथ नप्त्रिका॥
इति कारिकायामानुलोम्यक्रमोऽभिहितः स पूर्वोक्तवशिष्ठादिवाक्यविरुद्धत्वान्मुलानुपलब्धेश्च चिन्त्यः। प्रयोगरत्नेऽपि प्रतिपुरुषं गोत्राद्युच्चारणं लिखितम् । एवमेव पुनरपि वारद्वयम् । कन्यापिता कुशजलाक्षतपाणिः’अमुकगोत्राममुकप्रवराममुकनाम्नीं कन्यां यथाशक्त्यलङ्कृतां प्रजापतिदैवताममुकगोत्रायामुकप्रवरायामुकवेदाध्यायिनेऽमुकशर्मण ब्राह्मणाय तुभ्यमहं सम्प्रददे" ।
ॐ स्वस्तीति वरो ब्रूयाद्धर्मे चेति वधूपिता ।
धर्मे चार्थे च कामे च नातिचरितव्या त्वया॥
“नातिचरामीति” वरः । अथ बरःपुण्याहाशिषोवाचयित्वादक्षिणेंऽसे कन्यामभिमृश्य कामस्तुतिं पठेत् । “कोऽदादि"ति कामस्तुतिमन्त्रः । अन्यदपि पात्रादि देयम् । लिङ्गपुराणे—
दासीदासासनाद्यं च भूषणानि गृहं ततः ।
क्षेत्राणि च धनं चापि तथाऽन्यानि प्रदापयेत्॥
ऋष्यशृङ्गोऽपि—
भूमि गाश्चैव दासीश्च वसनानि स्वशक्तितः ।
महिषीर्वाजिनश्चैव दद्यात्स्वर्णमणीनपि॥
अत्र" कोऽदादि"ति कामस्तुतिपाठ इति गङ्गाधरहरिहरौ । तिष्ठ-
न्कन्यादानम् । तदुक्तं विधानपारिजाते बृहस्पतिना—
चतुष्पादं गृहं कन्यां दासीं छत्रं रथं तरुम् ।
तिष्ठन्नेतान्द्विजो दद्याद्भूम्यादीनुपविश्य च॥
अथाक्षतारोपणविधिः । अथ दाता सभार्यो वृद्धाः पुरन्ध्रयो ज्ञातिबान्धवाश्च क्रमादाशीर्भिरार्द्राक्षतारोपणं कुर्युरिति । मन्त्रानाह वीरमित्रोदयेसङ्ग्रहकृत्—
श्रियो भगो यशश्चैव यज्ञो धर्मः प्रजाश्च षट् ।
समृद्ध्यतामिति वधूर्वरश्चैतान्क्रमाद्वदेत्॥ इति ।
श्रिय इति वधूः ।भग इति वरः ।यश इति वधूः । यज्ञ इति वरः । धर्म इति वधूः। प्रजा इति वरः ।समृध्यतामित्यन्तान् षण्मन्त्रान्पठेदित्यर्थः । अथ कन्यादानफलं ब्रह्मपुराणे—
कन्यां तु परया भक्त्या ह्यलङ्कृत्य प्रयत्नतः ।
कुलीनाय सुरूपाय गुणजाय विशेषतः॥
कन्यां वरयमाणाय दद्यादेष विधिः स्मृतः ।
लैङ्गे—
कन्यादानं प्रवक्ष्यामि सर्वदानोत्तमोत्तमम् ।
यद्दत्वा सर्वदानानां फलं प्राप्नोति मानवः॥
ऋष्यशृङ्गः—
महीदातुश्च गोदातुः कन्यादातुश्च ये तथा ।
कन्यादानानुगाः पश्चात्समं यान्ति त्रयो स्थाः॥
लैङ्गे—
यावन्ति सन्ति रोमाणि कन्यायाश्च तनौ पुनः !
तावद्वर्षसहस्राणि ब्रह्मलोके महीयते॥
वीरमित्रोदये बृहस्पतिः—
सहस्रमेव धेनूनां शतं वाऽनडुहां समम् ।
दशानडुत्सग्रंयानं दशयानसमो इयः॥
दशवाजिसमा कन्या भूमिदानं च तत्समम् ।
तस्मात्सर्वेषु दानेषु कन्यादानं विशिष्यते॥
आदित्यपुराणे—
श्रुत्वा कन्याप्रदानं तु पितरः सपितामहाः ।
मुक्ता वै सर्वपापेभ्यो ब्रह्मलोकं व्रजन्ति ते॥
अथ विशेषेण दातुः फलम्, वीरमित्रोदये मरीचिः—
गौरीं ददन्नाकपृष्ठं वैकुण्ठं रोहिणीं ददत् ।
कन्यां ददद्ब्रह्मलोकं रौरवन्तु रजस्वलाम्॥
अष्टवर्षा भवेद्गौरी नववर्षा च रोहिणी ।
दशवर्षा भवेत्कन्या अत ऊर्ध्वं रजस्वला॥
अथ कङ्कणकरणम् । ततो दुग्धाकेन द्विगुणशुक्लसूत्रेण दम्पतीकण्ठदेशे काटिदेशे वैशानीमारभ्य चतुर्वारं पञ्चवारं वा प्रदक्षिणंवेष्टयेत्पुरोधा अनेन मन्त्रेण—“ॐपरि त्वा गिर्व० जुष्टयः।" ततःकण्ठदेशस्थसूत्रमधो निष्काश्य कुङ्कुमाक्तमूर्णायुतं च कृत्वा तेन हरिद्राखण्डंबध्वा तद्वधुवामहस्तप्रकोष्ठे वरो बघ्नीयात् “यदाबघ्नन्” इतिमन्त्रेण \। कटिदेशस्थं सूत्रमुपरि निष्काश्य तादृशं कृत्वा वरदक्षिणहस्तप्रकोष्ठे वधूर्बध्नीयात् तेनैव मन्त्रेण ।धर्मप्रवृत्तौ शौनकः—
द्विगुणेनैव सूत्रेण पञ्चधाऽऽवेष्टितं तयोः ।
ततोऽप्यधोर्ध्वतोत्तार्य प्रकोष्ठे बन्धनं तयोः॥
रक्षणार्थं दक्षहस्ते बघ्नीयात्कङ्कणं तयोः ।
बन्धनं कन्यकापूर्वं वरपूर्वं विमोचनम्॥
विश्वेताते ऋचा पुंसां बघ्नीयाद्दक्षिणे करे।
अथ वामकरे स्त्रीणां बृहत्सामेति मन्त्रतः॥
इत्यनेन केचित्कन्यावामकरे बध्नन्ति स केषां चिद्देशाचारः \। समाचारादत्रैव याज्ञवल्क्यपूजनम् । ततो गौरीहरौ प्रपूज्य प्रार्थयेत् । पूजाप्रकारस्तु वरणसमयोक्तो ग्राह्यः । कात्यायनः—
सवर्णायास्तथा पाणिं गृहीत्वा विधिवदूरः।
सम्पूज्य प्रार्थयित्वा तां शचीं देवीं गुणाश्रयाम्॥
त्रैलोक्यवल्लभां दिव्यगन्धमाल्याम्बराङ्किताम् ।
सर्वलक्षणसंयुक्तां सर्वाभरणभूषिताम्॥
विलासिनीसहस्रौधैःसेव्यमानामहर्निशम् ।
एवंविधां कुमारी तु पूजान्ते प्रार्थयेत्ततः॥
कात्यायनी पद्मजां च गौरीमेवं प्रपूजयेत्॥
मङ्गलसूत्रम् । एवं गौरीं सम्पूज्य बरो मङ्गलसूत्रं सूक्ष्मका चमणिसूत्रयुक्तं वधूकण्ठे स्वेष्टदेवतां ध्यायन्बघ्नीयात् । तत्र मन्त्रः स्मृतिरत्ने—
माङ्गल्यतन्तुनाऽनेन भर्तृजीवनहेतुना ।
कण्ठे बध्नामि सुभगे ! सञ्जीव शरदः शतम्॥
अस्मिन्समये वरो बधूं स्वकीयवस्त्रालङ्कारभूषणैर्भूषयित्वा, विधानपारिजाते—
ततो मङ्गलसूत्रं च ध्यायन्निष्टां च देवताम् ।
बध्वाः कण्ठप्रदेशेऽस्या भूषणानि च शक्तितः॥
आम्रसेचनं दुग्धेन कार्यम् “शतं व्यो अम्ब धामानी"ति मन्त्रेण । प्रार्थयेत्—
चूतोऽसि त्वं महाभागः सर्वकल्याणदायक ? ।
देहि मे सर्वतः सौख्यं सिञ्च त्वं तरुनायक ?॥
अथ दीपप्रार्थना—
दीपत्वं देहि कल्याणं देहि सर्वान्मनोरथान् ।
यावद्व्रतं समाप्येत तावत्त्वं च स्थिरो भव॥ इति ॥
“पित्रा प्रत्तामादाय गृहीत्वा निष्क्रामति यदैषि मनसा दूरं दिशोऽनु पवमानो वा । हिरण्यपर्णो वैकर्णः स त्वा मन्मनसांकरोत्वित्यसाविति” इति सूत्रम् ।कन्यायाः पित्रा जनकेन प्रत्तां सङ्कल्प्य दत्तामादाय प्रतिग्रहविधिना गृहीत्वा हस्ते धृत्वा निष्क्रामतिगृहमध्यादग्निसमीपं गच्छति । तथा च रेणुः—
वामहस्ते गृहीत्वा तां प्रत्तामेव वधूं वरः ।
यदैषि मनसेत्युक्त्वा निष्क्रामति गूहात्ततः॥ इति ।
वस्त्रान्ते गृहीत्वेति गदाधरः । असावित्यत्र सम्बुध्यन्तं कन्यायानामग्रहणम् ।
“लक्ष्मीनाम्नीं त्वमौ स्थाने वधूनापादिशेद्वर” इति रेणुः ।
अत्र कर्कभाष्यम् ।आदाय गृहीत्वेति चोभयं न वक्तव्यम् । उच्यते च,तत्किमर्थम् ? अप्रतिग्रहस्यापि प्रतिग्रहाविधिनाऽऽदानं यथा स्यादिति ।
अयमर्थः—अप्रतिग्रहस्यापि कन्याद्रव्यस्य प्रतिग्रहविधिना आदान प्रतिग्रहो यथा स्यादित्येतदर्थमुभयग्रहणम् । ननु कन्यां दद्यात् कन्यांप्रतिगृह्यति स्मरणात्कथमप्रातग्रहयाग्यं कन्याद्रव्यामित्युच्यते ? सत्यमुच्यते । स्वत्त्वत्यागपूर्वकं परस्वत्त्वोत्पादनं दानम् ।न च कन्या कथञ्चिदापिअस्वकन्या कर्तुं शक्यते । नापि परस्परकन्या भवति । विवाहोत्तरमपि ममेयं कन्येत्याभिधानादत्र गौणो ददातिः । यत्तु स्मृतिषु पुत्रदानंचौद्यते तत्रापि गौणो ददातिः । पितुरिव वरस्यापि पिण्डदानं रिक्थभाक्त्वंच भवतीत्यर्थः। षष्ठाध्यायस्य सप्तमपादे अधिकरणेऽयमर्थस्तन्त्ररत्ने। यद्वा—
अप्रतिग्रहयोग्यम्य प्रतिग्रहविधानतः ।
क्षत्रियादेर्यथाऽऽदानं स्यादादायेतिसूत्रितम्॥इति रेणुः ।
मन्त्रार्थः—हे कन्यक ? यत् एाषगच्छसि । मनसा चित्तेन दूरं दूरदेशं दिशः ककुभः अनु लक्षीकृत्य पवमान इव वायुवत् चित्तस्य वायुत्वंचञ्चलत्वात् । ततः पवमानो वायुः हिरण्यपर्णः सुवर्णपक्षः विकर्णापत्यंगरुत्मान् त्वा त्वां मन्मनसां मद्गतचित्तां करोतु । ममायत्तां मय्यनुरागिणीं विदधातु । निष्क्रमणप्रभृत्येकः पुरुष उदकुम्भं स्कन्धे कृत्वा दक्षिणतोऽग्नेर्वाग्यतः स्थितो भवत्युत्तरतो वा अभिषेकपर्यन्तम् । तदुक्तं गृह्यकारिकायाम्—
कृत्वांऽसे दक्षिणे कुम्भं चूतस्य प्रबलान्वितम् ।
वारिपूर्णं द्विजोऽन्योऽपिनिष्क्रामेदनु दम्पती॥
**सोऽग्नेरुत्तरतो वाऽऽस्ते व ग्यतो दक्षिणेऽथ वा ॥ इति । **
“अथैनौ समीक्षयत्यघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः सु-
मनाः सुवर्चाः । वीरसूर्द्देवकामा स्योना शन्नो भव द्विपदे शंचतुष्पदे । सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः । तृतीयोऽग्रिष्टे पतिस्तुरीयस्ते मनुष्यजाः सोमोऽददद्गन्धर्वाय गन्धर्वो ददग्नये । रथिं च पुत्रांश्चादादग्निर्माह्यमथो इमाम्। सा नः पूषा शिवतमामेरय सा न ऊरू उशती विहर । यस्यामुशन्तः प्रहराम शेवं यस्यामु कामा बहवो निविष्ट्या इति” इति सूत्रम् । अथ निष्क्रमणोत्तरं कारितोपदेशात्कन्यापिता परस्परं समञ्जेथामिति प्रेषेण समोक्षणं कारयति । ततस्तौ वधूवरौ परस्परं समीक्षणं कुरुतः । लिङ्गाद्वरः समीक्षमाणां कन्यां समीक्षमाणो “अधोरचक्षु” रित्येतांश्चतुरो मन्त्रान्पठति । मन्त्रार्थः–हे कन्ये त्वं अघोरचक्षु सौम्यदृष्टिः, अपापदृष्टिर्वा भवेति । तथा अपतिघ्नी अकार्यकरणन पत्यर्थघातिनी तथा मा भव \। तथा पशुभ्यः पशुवदाश्रितेभ्यः शिवा हितैषिणी च भव । सुमनाः प्रसन्नचिता सुवर्चाः सुप्रभावयुक्ता वीरसूः सत्पुत्रजननी देवकामा देवानग्न्यादीन्कामयते स्योना सुखवती नोऽस्माकं शं सुखहेतुः द्विपदे मनुष्यवर्गाय चतुष्पदे पशुवर्गाय शं सुखहेतुर्भव ।हे कन्ये ! त्वां सोमश्चन्द्रः ते तव प्रथमः आद्यः पतिः विविदे जन्मदिने लब्धवान् । “विद्लृलाभे"ततः सार्धद्वयवर्षानन्तरं गन्धर्वः सूर्यो विविदे । अत उत्तरस्तद्द्वितीयोऽयं पतिः । ततोऽग्निरपि तावता कालेन विविदे । अतोऽयं तव तृतीयः पतिः । यथाऽऽहुः—
पूर्व स्त्रियः स्युर्भक्ताश्च सोमगन्धर्ववह्निभिः॥ इति ।
तथा ते तव तुरीयश्चतुर्थो मनुष्यजा मनुषोऽहमेवेत्यर्थः । किमिदानीं चतुर्णामपीयं पत्नी ? नेत्याह । सोमश्चन्द्रस्त्रिंशन्मासान्भुक्त्वा गन्धर्वः सूर्यस्तस्मै अददहदौ । सोऽपि तावत् कालं भुक्त्वा अग्नयेऽददत् । स चाग्निर्मह्यमिमां अदात् । न केवलमिमाम् किन्तु पुत्रान्सुतान् रयिं धनं च । चकाराद्धर्मादि चादादिति सम्बन्धः । या सर्वलोककर्मसाक्षिणी पूषा देवता सा इमां शिवतमां कल्याणगुणशीलां कृत्वा नोऽस्मान्प्रत्यैर ईरयतु ।
आटो दर्शनं विभक्तेरदर्शनं छान्दसम् । अस्माननुरक्तान्करोत्वित्यर्थः । सा चास्मत्तः सुखं पुत्रांश्च कामयमाना ऊरू सक्थिनी जान्वोरूद्र्ध्वभागदण्डौ विहर विहरतु विवृणोतु प्रसारयस्वित्यर्थः । मध्यमपुरुषश्छान्दसः । प्रयोजनमाह यस्यां स्त्रीयोनौ उशन्तः सुखमिच्छन्तः शेपं शिश्नं प्रहराम प्रवेशयाम वयम् । यस्यां कन्यकायाम् उ एवार्थे । यस्यामेव बहवः कामा धर्मपुत्रा रतिसुखरूपाः सन्तु । किमर्थं निविष्ट्यै अग्निहोत्राद्युपासनायान्तःकरण शुद्धिद्वारा सायुज्यमुक्तये ।
इति श्री प्रथमशाखीयरामकृष्णविरचितगृह्यसूत्राववरणे
संस्कारगणपतौ प्रथमकाण्डे चतुर्थी काण्डका ।
<MISSING_FIG href="../books_images/U-IMG-1695990367Untitled147.png"/>
अथ पञ्चमी कण्डिका ।
प्रदक्षिणमग्निं पर्याणीयैके पश्चादग्नेस्तेजनीं कटं वा दक्षिणपादेन प्रवृत्योपविशत्यन्वारब्ध आधारावाज्य भागौ महाव्याहृतयः सर्व्वप्रायश्चित्त<MISSING_FIG href="../books_images/U-IMG-1695990560Untitled258.png"/>स्विष्टकृच्चैतन्नित्य<MISSING_FIG href="../books_images/U-IMG-1695990631Untitled258.png"/>सर्व्वत्र प्राङ्महाव्याहृतिभ्यः स्विष्टकृदन्यच्चेदा ज्याद्धविः सर्वप्रायश्चित्तप्राजापत्यान्तरमेतदेवावापस्थानं विवाहे राष्ट्रभृत इच्छञ्जयाऽभ्यातानांश्च जानन्येन कर्मणेर्त्मेदिति वचनाच्चित्तं च चित्तिश्चाकूतं चाकूतिश्र व्विज्ञातं च व्विज्ञातिश्च मनश्च शक्वरीश्च दर्शश्च पौर्णमासश्च बृहच्च रथन्तरञ्च । प्रजापतिर्जयानिन्द्राय व्वृष्णे प्रायच्छदुग्रः पृतनाजयेषु । तस्मै व्विशः समनमन्त सर्व्वाः स उग्रः स इ हव्यो बभूव स्वहित्यनिर्भूतानामधिपतिः समाऽवत्विन्द्रो ज्येष्ठानां यमः पृथिव्या व्वायुरन्तरिक्षस्य सूर्यो दिवश्चन्द्रमा नक्षत्राणां बृहस्पतिर्ब्रह्मणो मित्रः सत्यानां व्वरुणोपा<MISSING_FIG href="../books_images/U-IMG-1695991080Untitled258.png"/>समुद्रः स्रोत्यानाम
न प्त्माम्राज्यानामधिपति तन्माऽवतु सोम ओषधीना<MISSING_FIG href="../books_images/U-IMG-1696140296Screenshot(1"/>.png)सविता प्रमवा<MISSING_FIG href="../books_images/U-IMG-1696140296Screenshot(1"/>.png)नारुद्रः पशूनां त्वष्टा रूपाणां विष्णुः पर्वतानां मरुतो गगानामधिपतयस्ते माऽवन्तुपितरः पितामहाः परेऽवरे ततास्ततामहाः । इहमाऽवन्त्वस्मिन्ब्रह्मण्यस्मिन्क्षत्रऽस्यामाशिष्यस्यां पुरोधायामस्मिन्कमंण्यस्यान्देवहूत्या<MISSING_FIG href="../books_images/U-IMG-1696140296Screenshot(1"/>.png)स्वाहेति सर्वत्रानुषजत्यग्निरैतु प्रथमो देवताना<MISSING_FIG href="../books_images/U-IMG-1696140296Screenshot(1"/>.png)सोऽस्यै प्रजां मुञ्चतु मृत्युपाशात् । तदयप्त्राजाव्वरुगोऽनुमन्यतां यथेय<MISSING_FIG href="../books_images/U-IMG-1696140296Screenshot(1"/>.png)स्त्री पौत्रमघन्न रोदात्स्वाहा । इमामग्निस्त्रायतां गार्हपत्यः प्रजामस्यै नयतु दीर्घमायुः ।अशुन्योपस्था जीवनामस्तुमाता पौत्रमानन्दमभिविबुध्यतामि<MISSING_FIG href="../books_images/U-IMG-1696140296Screenshot(1"/>.png)स्वाहा ।स्वस्तिनोऽअग्ने ? दिव आपृथिव्या व्वश्वानि धेह्ययथा यजत्र । यदस्यां महि दिवि जातं प्रशस्तं तदस्मासु द्रविणन्धेहि चित्र<MISSING_FIG href="../books_images/U-IMG-1696140296Screenshot(1"/>.png)स्वाहा ।सुगन्नु पन्थां प्रदिशन्न एहि ज्योतिष्मध्ये ह्यजरन्न आयुः। अपैतु मृत्युस्मृतम्म आगाद्वैवस्वतो नो अभयं कृणोतु स्वाहेति परम्मृत्यविति चैके प्राशनान्ते॥ ५ ॥
“प्रदक्षिणमग्निपर्याणीयैके” इति सूत्रम् ।एक आचार्या अग्ने प्रदक्षिणं कारयित्वा कन्याया वासःपरिधानादि कर्तव्यमिति वदन्ति ।अपरे तु समीक्षन्ते प्रदक्षिणकरणं वदन्ति । अतश्च विकल्पः । “पश्चादग्नेस्तेजनीं कटं वा दक्षिणपादेन प्रवृत्योपविशति" इतिसूत्रम् ।ततो वरः अग्नेःपश्चात्स्थापितां तेजनीं कटं वा दक्षिणपादेनप्रवृत्य आक्रम्य उल्लङ्घ्य अग्नेःपश्चादुपविशति । तेजनी तृणपुलिकोच्यते । यद्वा—
मधुपर्के तु यां गान्तु नोत्सृजन्ति26मनीषिणः ।
तस्याश्च रुधिरं चर्म तेजनीं तां विनिर्दिशेत॥
इति विधानपारिजातात् । कटः प्रसिद्धः । अत्र पश्चादुपवेशनं वचनात् । बचनाभावे तु सर्वत्र “उत्तरत उपचारो यज्ञ” इत्यनेनोपवेशनम् । स्मृत्यन्तराद्वरस्य दक्षिणतः कन्योपविशति ।कटस्योपरि बोपवेशनमिति गदाधरः । तया सहाक्रमणंभर्तृयज्ञहरिहरौ । तथा च रेणुः—
अथोपविशतः पश्चादग्नि सव्येतराङ्घ्रणा ।
कटं वा तृणपूलं वा प्रवृत्य च कुशास्तृते॥
एकस्मिन्नासने तत्र वधूस्तस्य तु दक्षिणे॥
शौनकोऽपि—
कन्यकां प्रतिगृह्यैवं वरः पूर्ववदासने ।
तत्रैवोपविशेत्पश्चात्तां वधूं मातुलादिकः॥
स्वजनः परिगृह्यग्निरुत्तरण वरस्य तु ।
पश्चिमेन यथा नीत्वा तस्मिन्नेव वरामने॥
वरस्यदक्षिणे पार्श्वे प्राङ्मुखीमुपवेशयेत्॥ इति ।
“अन्वारब्वआधारावाज्यभागौमहाव्याहृतयः सर्वप्रायश्चित्तं प्राजापत्यँस्विष्टकृच्च” इति सूत्रम् । आधारावाज्यभागौ चविधीयेते । आधारः पूर्व उत्तरश्च । तत्र तूष्णीं पूर्व इति गदाधरः ।“प्रजापतये स्वाहे"ति हरिहरः । प्रयोगरत्नेऽप्येवमेव । ननु आधारादिपृष्ठभावेन वेद्यादिकं कुतो नायाति ? उच्यते । “ गृह्यस्थालीपकानां कर्मो” त्युपक्रम्य एषएव विधिर्यत्र कचिद्धोम" इत्यनेनैव ज्ञायतेयावन्तोऽत्र पदार्था उक्तास्तावन्त एव भवन्ति नान्ये । उत्तराधारेप्रतिनिगद्य होमत्वं न पत्र मन्त्रोऽस्ति । एवमाज्यभागयोरपि । महाव्याहृतयो महाव्याहृतिका मन्त्रास्त्रयः । “भूर्भुवः स्वस्तिस्रो महाव्याहृतय" इत्युक्तस्वात् । सर्वप्रायश्चित्तं च ‘त्वन्नो अग्न’ इत्यादिभिर्मन्त्रैः पञ्चाहुतयो हूयन्ते तासां संज्ञा । प्राजापत्यं प्रजापतिदेवताको होमः । स्विष्टकृत्स्विष्टकृद्धोमः । यजमानो ब्रह्मणा अन्वारब्ध आधारादि स्विष्टकृदन्तं करोति । अन्वारम्भश्च कुत्र न निगमपारिशिष्टात् । “एतन्नित्य-
प्तसर्वत्रे” ति सूत्रम् ।एतदाधारादि स्विष्टकृदन्तं कर्म सर्वत्र ।यत्र यत्रहोमात्मकं कर्म तत्र सर्वत्र भवति । यत्र पुनर्होम एव नास्ति यथा स्रस्तरारोहणे लाङ्गलयोजने च तत्रैतन्न भवति । “प्राङ्महाव्याहृतिभ्यःस्विष्टकृदन्यच्चेदाज्यद्धविः” इति सूत्रम् ।चेद्यदि आज्यद्रव्यादन्यद्द्रव्यं चर्वादिकमपि भवति तदा महाव्याहृतिहोमात्प्राक्पूर्वं स्विष्टकृद्धोमो भवति, चर्वादिद्रव्यशेषादेव ।केवलाज्यहोमे तु सर्वहोमान्तेआज्येनैव स्विष्टकृत् । “सर्वप्रायश्चित्तप्राजापत्यान्तरमेतदेवावापस्थानं विवाहे" इति सूत्रम् । सर्वप्रायश्चित्तं च ‘त्वन्नो अग्न’ इत्यादिमन्त्रैः पञ्च होमाः । प्राजापत्यं प्रजापतिदेवताको होमः । एतयोरन्तरं मध्यंसर्वप्रायश्चित्तप्राजापत्यान्तरं एतद्विवाहे विवाहकर्माणि आवापस्थानं वक्ष्यमाणानां राष्ट्रभृदादीनामनुष्ठानकाल इत्यर्थः। “राष्ट्रभृत इच्छन्“अस्मिन्विवाहकर्मणीच्छन् इच्छया राष्ट्रभृत्संज्ञकहोमाः स्युः “ऋताषाडृतधामाऽग्निर्गन्धर्व” इत्यादिभिर्मन्त्रैराग्निका द्वादश होमा राष्ट्रभृतः । “जयाभ्यातानांश्च जानन्येन कर्मणेतर्सेदिति वचनात्” इति सूत्रम् । जयाश्चाभ्यातानाश्चजयाभ्यातानास्तान्जानन्निच्छन् जुहोति । अतश्चविकल्पः \। च शब्दो राष्ट्रभृद्धिः सन्नियोगार्थः ।इच्छया जुहोतीति कुतइति चेत् ? “येन कर्मणेर्त्तेदिति वचनात्” येन कर्मणा ऋद्धिभिच्छेत्तत्र जयाञ्जुहोतीति वचनं भवति । अतश्चान्यत्रापि ऋद्धिभिच्छता जयाहोमः कार्य इति ज्ञायते । जैमिनिस्तु जयादीनामनारभ्याधीतानां येन कर्मणेर्त्सेतत्र जयां जुहुयात् । इत्यादिभिर्वाक्यैरेव सामान्यतो लौकिकवैदिककर्माङ्गत्वे प्राप्ते जयादयस्तु वैदिकास्तेन यत्राहवनीयोऽस्तितत्रैते स्युरिति सिद्धान्तितवान्27।अथ जयाहोमानां मन्त्रानाह—“चितंच चितिश्चाकूतं चाकूतिश्च विज्ञातं च विज्ञातिश्च मनश्च शक्करीश्च दर्शश्च पौर्णमासं च बृहच्च रथन्तरं च ।प्रजापतिर्जयानिद्राय वृष्णे प्रायच्छदुग्रः पृतना जयेषु । तस्मै विशः समनमन्त सर्वाः स उग्रः स
इ हव्यो बभूव स्वाहा” इति सूत्रम् । चित्तमित्यादि त्रयोदश मन्त्रा जयाइत्युच्यन्ते । एता घृतेनैव होतव्याः । उक्तं च रेणुकारिकायाम्—
चित्तं चित्तिमथाकूतमाकूर्ति तदनन्तरम् ।
विज्ञातं च ततो विज्ञाति मनः शक्वरीस्तथा॥
दर्शं च पौर्णमासं च बृहतं च स्थन्तरम् ।
प्रजापतिं घृतेनैता जयाख्यास्तु त्रयोदश॥
चित्तादिद्वादश प्रजापतिर्जयानित्येकेनापि जयालिङ्गेन छत्रिन्यायेनत्रयोदश मन्त्राः ।इमानि शाखान्तरोपदिष्टानि देवतापदानि ।तथा चगदाधरभाष्ये तैत्तिरीया श्रुतिः–“देवाऽसुराः संयता आसन्स इन्द्रः प्रजापतिमुपाधावत्स तस्मा एतान् जयान्प्रायच्छत्तानजुहोत्ततो देवाअसुरानजयँस्तज्जयानां जयात्वमिति” एषां प्रयोगकाले सम्प्रदानलक्षणेन चतुर्थ्यन्तप्रयोगेन होमः, “नमः स्वस्तिस्वाहास्वधाऽलंवषड्योगाच्च” इति पाणिनीयसूत्रात् \। चित्ताय स्वाहेत्यादीति भर्तृयज्ञः ।नेति कर्कादयः । न ह्येतानि देवतापदानि । किं तर्हि ? मन्त्राश्चैते । तेच यथाम्नाता एव प्रयोक्तव्याः । तथा च गृह्यकारिकायाम्—
तेनैवाज्येन चित्तं च स्वाहेत्याद्या जुहोत्यथ ।
अत्र प्रयोगमिच्छन्ति चतुर्ध्यन्तेन के चन॥
न देवतापदानि स्युर्मन्त्रा ह्येते यतः स्मृतेः॥ इति ।
मन्त्रार्थः—चित्तं चेति । प्रजापतिर्यथेन्द्राय जयान्प्रायच्छत् । तथाचित्तादि च मह्यमपि प्रयच्छत्विति क्रियां विपरिणम्योत्तरसम्बन्धः ।तस्मैसुहुतमस्तु \। तच्च चित्तं ज्ञानाधारं हृदयं चितिस्तत्रत्या चेतना आकृतंचाभिमतं आकूतिश्चाभिमानः । अथवा चित्तं ज्ञानेन्द्रियम् ।जातावेकवचनम् । चित्तिस्तद्देवता । आकूतं कर्मेन्द्रियं आकूतिस्तद्देवता ।विज्ञातं शिल्पादिज्ञानमपरोक्षम् ।विज्ञातिस्तद्देवता ।मनः प्रसिद्धम् । शक्करीःशक्कर्थस्तच्छक्तयः । दर्शपौर्णमासौ तद्देवते । वृहद्रथन्तरे सामनी तद्देवते वा । सर्वत्रप्रथममन्त्रोक्तवाक्यार्थः सम्बध्यते । प्रजापतिः परमेश्वरः जयन्ति शत्र-
निति जयास्तान् जयान्मन्त्रानिन्द्राय प्रायच्छत् ददौ । किमर्थं वृष्णे अभिमतमनोरथवर्षणाय । इदं विशेषणं वा । ततः स इन्द्रःपृतनाजयेषु असुरसेनाविजयाख्यकर्मसु उग्रः प्रचण्डो बभूव ।किं च ततस्तस्मै इन्द्राय विशः प्रजाः समनमन्त सम्यङ् नेभुः।इ एवार्थे । स एवेन्द्र हव्यः हवनीयः इज्यः बभूव \। स्वाहातस्मै सुहुतमस्तु । अभ्यातानसंज्ञकान्मन्त्रानाह– “आग्निर्भूतानामधिपतिः स माऽवत्विन्द्रो ज्येष्ठानां यमः पृथिव्या वायुरन्तरिक्षस्य सूर्यो दिवश्चन्द्रमा नक्षत्राणां बृहस्पतिर्ब्रह्मणो मित्रः सत्यानां वरुणोऽपाँसुमुद्रः स्रोत्यानामन्त्रप्तसाम्राज्यानामधिपति तन्मावतुमोम ओषधीनाँसविता प्रसवाना<MISSING_FIG href=”../books_images/U-IMG-1696212475Screenshot(1"/>.png)रुद्रः पशूनां त्वष्टा रूपाणां विष्णुःपर्वतानां मरुतो गणानामधिपतयस्ते माऽवन्तु पितरः पितामहाःपरेऽवरे ततास्ततामहाः । इहमाऽवन्त्वस्मिन्ब्रह्मण्यस्मिन्क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन्कर्मण्यस्यां देवहूत्या<MISSING_FIG href="../books_images/U-IMG-1696212644Screenshot(1"/>.png)स्वाहा" इहमाऽवन्त्वस्मिन्नित्यारभ्य स्वाहान्तोऽयं वाक्यार्थ उपरिष्टादपि सप्तदशसुसम्बध्यते । शेषं स्पष्टम् । एतेऽष्टादश मन्त्रा अभ्यातानाः। ‘अग्निर्भूतानामित्यादि ‘सुगन्नु पन्थामि’त्यन्ता द्वाविंशतिरभ्यताना इति कर्ककारिकाकारौ । " इति सर्वत्रानुषजति" इति सूत्रम् । एतेषु मन्त्रेषु प्रतिमन्त्रंयथालिंग यथावचनं ‘समावत्वि’त्यादि ‘देवहूत्यां स्वाहे ‘त्यन्तं वाक्यैकदेशमनुवक्तव्यम् । तच्चास्माभिः प्रयोगलेखने दर्शितव्यम् । मन्त्रार्थः—अग्निःप्रजापतिः भूतानां स्थावरादीनामधिपतिरीश्वरः स मा मामवतु ।कस्मिन्नस्मिन्ब्रह्मणि अस्मिन्ब्रह्मकर्माणि होमादौपुनरस्मिन् क्षत्रे क्षत्रकर्माणिप्रजापालनादौ पुनरस्यामाशिषि ब्रह्मणैःसम्पादितेष्टाशंसने पुत्रादिसुखकामनायां वा । कुत्र अस्यां कन्यायां किम्भूतायां पुरोधायां पुरः स्थितायामस्मिन्कर्मणि विवाहे अस्यां देवहूत्यां देवताह्वाने देवतोद्देशेन होमेवा ।स्वाहा सुहुतमस्तु ।“अग्निरैतु प्रथमो देवतानाँसोऽस्यै प्रजांमुञ्जतु मृत्युपाशात् । तदयप्तराजा वरुणोऽनुमन्यतां यथेय<MISSING_FIG href=”../books_images/U-IMG-1696213086Screenshot(1"/>.png)स्त्री पौ-
त्रमधंन रोदात्स्वाहा ।इदमग्निस्त्रायतां गाईपत्यः प्रजामस्यै नयतु दीर्घमायुः । अशुन्योपस्था जीवतामस्तु माता पौत्रमानन्दमभिविबुध्यतामियँस्वाहा ।स्वस्ति नो अग्ने दिवा पृथिव्या विश्वानि धेह्ययथा यजत्र ।यदस्यां महि दिवि जातं प्रशस्तं तदस्मासुद्रविणं धेहि चित्र स्वाहा ।सुगन्तु पन्थां प्रदिशन्न एहि ज्योतिष्मध्ये ह्यजरन्न आयुः। अप्रैतु मत्युरमृतं म आगाद्वैवस्वतो नोअभयं कृणोतु स्वाहा" इतिसूत्रम् ।मन्त्रार्थः।अग्निः एतु आगच्छतु ।किम्भूतः देवतानां यज्ञमुजां प्रथमः आद्यः, प्रधानत्वात् । स चाग्निः। अस्यै अस्याः कन्यायाः प्रजां भाविपुत्रादिरूपां मुञ्चतु मोचयतु । कुतो ?मृत्युपाशात् । यद्वा मृत्युपाशादग्निः अस्यै कन्यायै प्रजां मुञ्चतु । तच्चप्रजामोचनं राजा वरुणोऽनुमन्यतामनुजानातु । यथा येनानुज्ञानेनप्रकारेण वा इयं कन्या पौत्रं पुत्रभवं अधंदुःखं न रोदात् । शोकंप्राप्य न रोदिष्यति । कदाचिदपि अपत्यवियोगो मा भवतु इत्यर्थः ।इमां कन्यां गार्हपत्योऽग्निस्त्रायतां रक्षतु ।गार्हपत्याभिधो भाव्यग्निः पालयतु । इमां पत्नीं अग्निहोत्रिणीं कृत्वा रक्षतु ।अस्यै अस्याः प्रजां दीर्घमायुःनिर्दुष्टबहुकालजीवनं नयतु प्रापयतु । इयं चाशून्योपस्था सफलप्रसवा । अवन्ध्यतयेति यावत् । यद्वा नित्यं भर्तृसङ्गतोत्सङ्गाऽस्तु भवतु । जीवतामेव दीर्घायुषां माता चास्तु \। जीवपुत्रा भवत्वित्यर्थः । किं चपौत्रं पुत्रसम्बन्धजमानन्दं सुखं अभ्यधिगम्य आभिमुख्येन सर्वभावेनवा प्राप्य विविधं बुध्यतां जानातु । सर्वज्ञाऽस्त्वित्यर्थः । यद्वा पौत्रमानन्दं विशिष्टतया बुध्यतां निशा सुखापेक्षां त्यक्त्वा जागति। हे अग्नेयजन् त्रायत इति यजत्रः । हे यजत्र यस्मात्त्वे सर्वप्रत्यक् अतो नोऽस्माकं विश्वानि सर्वकर्माणि अयथाऽन्यथाकृतानि कर्माणि स्वस्ति सम्पूर्णानि यथा स्युस्तथा धेहि । अनुकूलानि कृत्वा स्थापय । किं च दिव आ स्वर्गमभिव्याप्य आपृथिव्याः पृथिवीमभिव्याप्यच यत् महि महिमानमस्मासु धेहि स्थापय । किं च अस्यां पृथिव्यां जातं यद्द्रविणं वसु चित्रं ना-
नारूपं स्वर्णरत्नादिभेदेन प्रशस्तं प्रशस्यं श्रेष्ठं यच्च दिवि स्वर्गे जातं तदप्यस्मासु धेहि । हे अग्ने नोऽस्मान् एहि आगच्छ ।अस्मद्गृहानागत्य नोऽस्माकं सुगं सुगम्यं पन्थां पन्थानं अर्चिरादिमार्गं प्रदिशन्नुपदिशन् सम्पादयन्निति यावत् । आयुर्निर्दुष्टजीवनं धेहि देहि । किम्भूतं अजरं जरारोगादिपराभवविरहितम् । अजरं इत्यग्निविशेषणं वा विभक्तिव्यत्ययेन ।पुनः किंभूतं ज्योतिष्मत्प्रकाशकम् । तत्प्रतिबन्धको मृत्युरपि नोऽस्माकं भवत्प्रसादादपैतु अपगच्छतु ।अमृतं आनन्दं च नोऽस्मानागात् । आगच्छतु । वैवस्वतो यमश्च नोऽस्माकं अभयं त्वत्सम्बन्धेन कषायाभावाद्दुःखहेतुभयाभावं कृणोतु करोतु ।“परं मृत्यविति चे"ति सूत्रम् । चकारादाहुतिं जुहोति परं मृत्यवित्यनेन मन्त्रेण । मन्त्रस्य पैत्रत्वादुदकस्पर्शः। उक्तं च गृह्यकारिकायां रेणुदीक्षितेन—
रौद्रीं पैत्रीं हुतिं कृत्वा स्पृशेत्प्राणीतकं जलम् ।
प्राणीतकं प्रणीतासम्बन्धि जलम् । तथा च कात्यायनपरिभाषासूत्रम् “रौद्रध्न्राक्षसमासुरमभिचारणिकं मन्त्रमुक्त्वा पित्रियमात्मानं वाऽऽलभ्यापऽउपस्पृशेदपऽउपस्पृशेदपः” । अस्यार्थः—रुद्रदेवादीन्मत्रानुच्चार्य पित्रियान् पितृदैवत्यान् आसुरान् असुरदैवत्यांश्च अप उपस्पृशेत् । चशब्दः कर्मसमुच्चये । कर्मकौमुद्यामपि—
यमरुद्रपितॄणां च मृतेश्चापि तथैव च ।
आहुत्यन्ते च कर्तव्यो जलस्पर्शः सदा बुधैः॥
विधानपरिजाते—
अधोवायुसमुत्सर्गे प्रवासेऽनृतमाषणे ।
मार्जोरमूषकस्पर्श आक्रुष्टे क्रोधसम्भवे॥
तेषु तेषु निमित्तेषु कर्म कुर्वन्नपः स्पृशेत्॥
अङ्गिराः—
चाण्डालादीञ्जपे होमे दृष्ट्वाऽऽचम्य विशुध्यति ।
श्वादीन्स्पृष्ट्वाऽपि वाऽऽचामेत्कर्णं वा दक्षिणं स्पृशेत्॥
वृहस्पतिः—
पितृमन्त्रोच्चाररौद्र आत्मालम्भेऽधमर्षणे ।
अधोवायुसमुत्सर्ग आक्रन्दे क्रोधसम्भवे॥
मार्जारमूषिकास्पर्शे प्रवासेऽनृतभाषणे ।
निमित्तेष्वेषु सर्वेषु दक्षिणं श्रवणं स्पृशेत्॥
साङ्ख्यायनः—
क्षुते निष्ठीवने चैव दन्तोच्छिष्टे तथाऽनृते ।
पतितानां च सम्भाषे दक्षिणं श्रवणं स्पृशेत्॥
आदित्या वसवो रुद्रा वायुरग्निश्च धर्मराट् ।
विप्रस्य दक्षिणे कर्णे नित्यं तिष्ठन्ति सर्वदा॥
“एके प्राशनान्ते” इति सूत्रम् ।एके आचार्याःसंस्रवप्राशनान्तेइमामाहुतिमिच्छन्ति । तथा चगृह्यकारिकायाम्—
परम्मृत्यू तथाऽऽज्येन प्राशनान्तेऽथ वाऽऽहुतिः ।
संस्रवप्रशनन्तत्र स्याद्बभाणेति भाष्यकृत्॥
अस्मिन्पक्षे परं मृत्यविति होमान्ते पुनरेतस्य संस्रवप्राशनम्॥
इति श्रीमथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्रविवरणे
संस्कारगणपतौ पञ्चमी कण्डिका॥
<MISSING_FIG href=”../books_images/U-IMG-1696183262Screenshot(4"/>.png)
( अथ षष्ठी काण्डका )
कुमार्या भ्राता शमीपलाशमिश्राल्ँलाजानञ्जलिनाऽञ्जलावावपति ताञ्जुहोति सहतेन तिष्ठत्यर्यमणन्देवं कन्या अग्निमयक्षत ।स नो अर्यमा देवः प्रेतो मुञ्चतु मा पतेःस्वाहा । इयन्नार्युपब्रूते लाजानावपन्तिका । आ आयुष्मानस्तु मे पतिरेधन्तां ज्ञातयो मम स्वाहा । इमाँ ल्लाजानावपाम्पग्नौसमृद्धिकरणन्तव ।मम तुभ्य चसंवननं तदग्निरनुमन्यतामिय<MISSING_FIG href="../books_images/U-IMG-1696183582Screenshot(1"/>.png)स्वाहेत्यथास्यै दक्षिण हस्तेगृह्णाति साङ्गुष्टं गृभ्णामि ते सौभगत्वाय हस्तं
मया पत्या जरदष्टिर्यथासः ।भगो अर्यमा सविता पुरन्धिर्मह्यं त्वाऽदुर्गार्हपत्याय देवाः ।अमोऽहमस्मि सात्वा?सा त्वमस्यमो अहम् ।सामाहमस्मि ऋक्त्वं द्यौरहंपृथिवी त्वम्। तावेहि विवहावहै सह रेतो दधावहै । प्रजांप्रजनयावहै पुत्रान्विन्द्यावहै बहून् ।ते सन्तु जरदष्टयःसम्प्रियौ रोचिष्णू सुमनस्यमानौ । पश्येम शरदः शतञ्जीवेम शरदः शत?शृणुयाम शरदः शतमिति॥ ६ ॥
अथ लाजाहोमः । “कुमार्या भ्राता शमीपलाशमिश्रलिजानञ्जलिनाञ्जलावावपति" इति सूत्रम् ।कुमार्याःकन्यकायाः भ्राता बध्वा शमीपलाशैः शर्मापत्रैमिश्रितान् लाजान् अञ्जलिना कन्याया अञ्जलौआवपति । लाजाशब्देन भ्राष्ट्राव्रीहयउच्यन्ते । तथा च गङ्गाधरः—
लाजाःस्युर्व्रीहयो भ्राष्ट्रा जुहुयान्मुष्टिसम्मितान् ।
भ्राष्ट्रेषु अम्बरीषेषु संस्कृताः भ्राष्ट्राः । “तान् जुहोति सँहतेनतिष्ठत्यर्यमणं देवं कन्या अग्निमयक्षत । स नो अर्यमा देवः प्रेतोमुञ्चतु मा पतेः स्वाहा । इयं नार्युपब्रूते लाजानावपन्तिका । आयुष्मानस्तु मे पतिरेधवन्तां ज्ञातयो मम स्वाहा। इमाल्ँलाजानावपाम्यग्नौसमृद्धिकरणं तव । मम तुभ्य च संवननं तदग्निरनुमन्यतामियँस्वाहा" इति सूत्रम् ।ततः कुमारी तिष्ठती उर्ध्वा तान् स्वाञ्जलौस्थितान् सँहतेन अविरलेनाञ्जलिना अर्यमणमित्यादिमन्त्रैर्जुहोति । “अविच्छिनत्त्यञ्जलिं स्तुवेव जुहुया” दित्याश्वलायनः । तत्रैकैकेन मन्त्रेण प्रक्षिप्तलाजानां तृतीयांशं जुहोति । एवं मन्त्रत्रयं भवति । सङ्गृहेऽपि—
एकाहुतिं त्रिधा कृत्वा आपोशाने तथाऽनले ।
लाजाहोमे प्रकुर्वन्तीति च शातातपोऽब्रवीत् ।
तथा च कारिकाकारः—
तिष्ठन्त्यातिष्ठता पत्या गृहीताञ्जलिनैव सा ।
अञ्जलिस्थान्त्रिधा सर्वान्प्राङ्मुखी प्रतिमन्त्रतः॥
प्राजापत्येन तीर्थेन दैवेनैवेति बह्वृचाः।
अङ्गुल्यग्रेदेवतीर्थम् । कनिष्ठकामूले प्रजापतितीर्थम् ।तर्जनीमूलेपितृतीर्थम् ।
अन्यो भ्रातुरभावे स्याद्बान्धवो ज्ञातिरेव च॥ इति ।
“भ्राता भ्रातृस्थानो वे” त्याश्वलायनगृह्ये ।
भ्रातृस्थाने पितृव्यस्य मातुलस्य च यः सुतः ।
मातृष्वसुतस्तद्वत्सुतस्तद्वत्पितृष्वसुः॥
इति बह्वचकारिकायाम ।द्रव्यत्यागे तु वरस्य कर्तृत्वम्, ‘प्रधानँ्स्वामी फलयोगादि’त्युक्तत्वात् । ‘एतन्मन्त्रत्रयं कन्यैव पठति’ इति प्रयोगरत्नकारः । मन्त्रार्थः- कन्याःपूर्वाः प्रथमं अर्थमणं सूर्य देवं कान्तंअग्निअग्निस्वरूपं वरलाभाय अयक्षत अयजन् ।लिङि छान्दसं रूपम् ।स चार्यमा देवस्ताभिरिष्टो यतोऽतो नोऽस्मानिदानीं परिणीताः कन्याइतः पितृकुलात्प्रमुञ्चतु प्रमोचयतु । मा पतेः पत्युः कुलात्सहचरीत्वाद्वा मा प्रमोचयतु । यद्वा वरो ब्रूते- कन्याःयं अर्थमणमग्निरूपेणायजन् । सोऽर्यमादेवः पतेः पत्युर्मत्तः सकाशादिमां नो प्रमुञ्जतु मा प्रमोयचतु । इतः अस्याः कन्यायाः सकाशात् मा मां नो प्रमुञ्चतु । अत्रेदं मन्त्रत्रयं कन्यैव वरपाठिता पठति । इयं नारी वधूः उप पत्युःसमीपे ब्रूते । किंकुर्वती लाजान् भृष्टीव्रीहीन् आवपन्तिका अग्नौविभागशः प्रक्षिरन्ती । स्वार्थे प्रत्ययः । किं ब्रूते ? तदाह—मे मम पतिरायुष्मान् सकलदीर्घायुरस्तु भवतु ।मम ज्ञातय एधन्तामिति । किं च हे पते इमाग्नौ आवपामि प्रक्षिपामि । किम्मूतान तव समृद्धिकरणं समृद्धिहेतवे । अतो ममकन्यायाः तुभ्यं च तव च भर्तुः, मलोपश्छान्दसः \। संवननं वशकिरणमन्योन्यमनुरागः । तदयमग्निरर्यमा अनुमन्यतामनुमोदनं कुरुतात् ।इयंच स्वाहा तत्पत्नी अनुमन्यताम् । अथ पाणिग्रहणम् । “अथास्यै दक्षिण ँ्हस्तं गृह्णाति साङ्गुष्ठं गृभ्णामि ते सौभगत्वाय हस्तं मया पत्याजरदष्टियथाऽऽसः \। भगो अर्थमा सविता पुरन्धिर्मह्यं त्वाऽदुर्गाहपत्याय देवाः ।अमोऽहमस्मि सा त्वँ्सा त्वमस्यमो अहम् ।
सामाहमस्मि ऋक्त्वं द्यौरहं पृथिवी त्वम् । तावेव विवहावहै सह रेतोदधावहै । प्रजां प्रजनयावहै पुत्रान्विद्यावहै बहून् । ते सन्तु जरदष्टयः सम्प्रयौ रोचिष्णू सुमनस्यमानौ ।पश्येम शरदः शतं जीवेम शरदः शतँशृणुयाम शरदः शतमिति सूत्रम् । अस्यै इतिचतुर्थी षष्ठ्यर्थे । अस्याः कुमार्या : दक्षिणं साङ्गुष्ठं अनुष्ठसहितं हस्तंगृह्णाति वरः स्वहस्तेनादत्ते गृभ्णामि त इति मन्त्रेण ।अथ शब्दोऽनन्तरं स्वस्थानं तिष्ठता कर्तव्यमिति द्योतनार्थम् । तथा च गृह्यकारिकायाम्—
साङ्गुष्ठं हस्तमुत्तानं गृह्णात्यस्याः पतिस्ततः ।
गृभ्णामि ते सौभगत्वायेति मन्त्रेण दक्षिणम्॥
वीरमित्रोदयेऽपि मनुः—
पाणिग्रहणसंस्कारः सवर्णासूपदिश्यते ।
असवर्णास्वयं ज्ञेयो विधिरुद्वाहकर्माणि॥
शरः क्षत्रियया ग्राह्यः प्रतोदो वैश्यकन्यया ।
वसनस्य दशा ग्राह्या शूद्रयोत्कृष्टवेदने॥
क्षत्रियया ग्राह्यइति वदता पूर्वं वरेण गृहीतं शरं क्षत्रिया गृह्णोयात्, इत्युक्तं भवति । एवमुत्तरत्रापि । याज्ञवल्क्यः—
पाणिर्ग्राह्यःसवर्णासु गृह्णीयात्क्षत्रिया शरम् ।.
वैश्या प्रतोदमादद्याद्वेदने त्वग्रजन्मनः॥ इति ।
मन्त्रार्थः– हे कन्ये ते तव हस्तं करं गृभ्णामि गृह्णामि । ‘हृग्रहोर्भश्छन्दसी“ति भत्वम् ।यथा येन गृहीतहस्तेन मया पत्या भर्त्रासह जरदष्टिर्जरच्छरीरा बहुवर्षाऽऽयुष्मती आसः, भवसीत्यर्थे निपातः ।भगादयस्त्रयो देवास्त्वा त्वांमह्यं अदुः दत्तवन्तः । किमर्थं गार्हपत्यायस्वामिनीत्वाय भार्यात्वाय वा गार्हपत्यं सेवितुं वा । किं च सौभगत्वाय सुभग्मानांसमूहः सौभगं तस्य भावः सौभगत्वं तस्मै तदर्थं निरतिशयानन्दावाप्तये इत्यर्थः । किम्भूतां त्वां पुरन्धिः । पुरन्धिर्द्वितीयार्थे प्रथमा ।श्रेष्ठां सुरूपवती वा । तथा च श्रुतिः“पुरन्धिर्योषेति योषित्वेव रूपं दधातीति” । हे कन्ये यत् अमो विष्णुरहमस्मि । अमति सर्वत्र ग-
च्छति सर्वं जानाति वेत्ति न मिनोति हि नोऽस्तीति वा अमः । तथासौवति सुवति सूते वा विश्वमिति सा लक्ष्मीस्त्वमसि । किं च सा देवीत्रयीरूपा त्वमसि । अमो देवत्रयरूपोऽहमस्मि । किं च अहं सामास्मि । ऋत्त्क्वैमसि । अहं द्यौरस्मि । त्वं पृथिव्यसि । तावेवावां विवहावहै ।विवाहं करवाबहै । सह संयुक्तौ भूत्वा रेतः पुत्रदेहरूपं ददावहै धारयावहै। तत्प्रजां स्त्रीरूपां सन्तति प्रजनयावहै पुत्रान्पुत्रपौत्रादीन् बहून्विन्दावहै लभावहै । ते च पुत्रा जरदष्टयः शतायुषः सन्तु । आवामपि संप्रियौ सम्यकप्रीतौपरस्परं प्रेमशालिनौ रोचिष्णू सुदीप्तौ शोभमानौ वा सुमनस्यमानौ शोभनमनोवृत्तिं कुर्वाणौ सुमनसो भावः सौमनस्यं तत्कुर्वाणावित्यर्थः। सन्स्विति स्तामिति च विपरिणमय्ययोज्यम् । इन्द्रियपाटवमाशास्ते । वयं च पुत्रादिसहिताः शतं शरदो बत्सरान्पश्येम । रूपग्रहणसमर्थाःस्याम । तथा शतं शरदो जीवेम । निरुपद्रवाः प्राणान् धारयाम । तथैव शरदः शतं शृणुयाम । निर्दुष्टं शब्दग्रहणसमर्थमस्माकं श्रवणेन्द्रियं भवत्वित्यर्थः॥
इति श्रीप्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्र विवरणे
संस्कारगणपतौ षष्ठी कण्डिका समाप्ता॥
<MISSING_FIG href=”../books_images/U-IMG-1696155735Screenshot(3"/>.png)
( सप्तमी कण्डिका )
अथैनामश्मानमारोहयत्युत्तरतोऽग्नेर्दक्षिणपादेनारोहेममश्मानमश्मेव त्वांस्थिरा भव । अभितिष्ठ पृतन्यतोऽवबाधस्व पृतनायत इत्यथ गाथां गायति सरस्वति प्रेदमव सुभगे व्वाजिनीवती । यान्त्वा विश्वस्य भुतस्य प्रजायामस्याग्रतः । यस्यां भूतसमभवद्यस्यां व्विश्वमिदंजगत् । तामद्य गाथां गास्यामि या स्त्रीणामुत्तमं यशइत्यथ परिक्रामतस्तुभ्यमने पर्यवहन्सूर्यां बहतु ना सह ।
पुनः पतिभ्यो जायां दाग्ने प्रजया सहेत्येवं द्विरपरं लाजादिचतुर्थाशूर्पाकुष्टया सर्वांल्लाजानावपतिं भगाय स्वाहेतित्रिःपरिणीतां प्राजापत्याहुत्वा॥ ७ ॥
“अथैनामश्मानमारोहयत्युत्तरतोऽग्नेर्दक्षिणपादेनारोहममश्मानमश्मेव त्वँस्थिराभव । अभितिष्ठ वृतन्यतोऽवबाधस्व पृतनायत” इति सूत्रम् । अथ धृतकर एव वर एनां वधूमुत्तरतोऽग्नेः स्थापितमश्मानं पाषाणं दक्षिणपादेन कृत्वा आरोहयति “आरोहेममश्मान“मित्यनेन मन्त्रेण । मन्त्र एव कारितार्थे । वासुदेवेन कुमार्या दक्षिणपादं हस्तेन गृहीत्वा अश्मानमुपरि वरः करोतीत्युक्तम् । तथा च गृह्यकारिकायाम्—
गत्वोभावुत्तरेणाग्निंतस्याः सव्येतरं करम् ।
सव्येनादाय हस्तेन वधूपादं तु दक्षिणम्॥
शिलामारोहयेत्प्रागायतां दक्षिणपाणिना॥ इति ।
अग्नेरुत्तरतो गत्वा तस्याः कन्याया दक्षिणकरं वामहस्तेन गृहीत्वाकन्याया दक्षिणपादं दक्षिणहस्तेन धृत्वा पाषाणोपरि वरः करोतीत्यर्थः ।मन्त्रपाठो वरस्य न कुमार्याः। मन्त्रार्थः- हे कन्ये इम पुरोवर्तिनमश्मानं प्रस्तरं आरोह आक्राम ।अधितिष्ठेति यावत् । बारोहणेन संस्कृत । त्वममेव पाषाणवत्स्थिरा भव । किं च अभि अधिकृत्य आक्रम्य तिष्ठ ।कान् पृतनां सङ्घनममिच्छन्ति पृतन्यन्ति त एव पुतन्यतः तान्पृतन्यतःकलहकारिण इत्यर्थः । ततश्च पृतनाभिः सेनाभिर्यतन्ते तान्पृतनायतःअव अवाचीनान्कृत्वा बाधस्व भन्नाधमान्कुरु । “अथ गाथां गायतिस्वरस्वति प्रेदभव सुभगे व्वाजिनीवति । यां वा व्विश्वस्यभूतस्य प्रजायामस्याग्रतः ।यस्यां भूतँसमभवद्यस्यां व्विश्वमिदंजगत् ।तामद्य गाथां गास्यामि या स्त्रीणामुत्तमं यश” इति सूत्रम् ।अथ कन्याया दक्षिणपादेऽश्मनि निहित एव वरःतिष्ठन् “सरस्वति प्रेदमवे"त्यादि “स्त्रीणामुत्तमं यश " इति इमां गाथां गायति । अथाश्मनिआरूढायांकुमार्यां वरो गाथां गायति, इति प्रयोगरत्नकारः ।
एवमेव यजुर्वल्लभकारोऽपि । तथा च रेणुः—
सरस्वत्यादिकाँस्तिष्ठन्वर एवाधिकारतः॥ इति ।
मन्त्रार्थः— हे स्वरस्वति वाग्देवते सुभगे कल्याणि, वाजिनीवति अन्नवति । यद्वा वाजाः पक्षाः सन्त्यस्या इति वाजिनी हंसी तद्वति इदं युग्मं कर्म प्राव प्रकृष्टतयाऽव रक्ष ।त्वा त्वां अस्य विश्वस्य भूतस्य जातस्य पृथिव्यादेर्वा, प्रजायां प्रकृष्टां जनित्रीमाहुः । किम्भूतांअग्रतः प्रथमाम् । तदेव प्रपञ्चयति यस्यां प्रकृतरूपाय त्वयि इदं सर्वंविश्वं तथाभूतं पृथिव्यादि सर्वं जगत् अस्तं गच्छत् आस, प्रलये लीनमित्यर्थः । पुनः सृष्टयादौ च यस्याः सकाशात्समभवत् जातं तस्याःसरस्वत्याः सम्बन्धिनीं तांगाथां गुणप्रभावस्तुतिप्रकाशिकां अद्य गास्यामि ।या श्रुता सती स्त्रीणामुत्तमं श्रेष्ठं यशः कीर्ति ददाति ।”अथ परिक्रामतस्तुभ्यमग्रेपर्यवनवहनन्सूर्यांवहतु ना सह । पुनः पतिभ्यो जायांदाऽग्ने प्रजया सहे“ति सूत्रम् ।अथ धृतकरावेव वधूवरावग्नेपरिक्रमणं कुरुतः’तुभ्यमग्र’ इत्यनेन मन्त्रेण मन्त्रश्च लिङ्गाद्वरस्यैव । तथा च गृह्यकारिकायाम्—
पुनर्हस्तं समादाय दक्षिणेनैव दक्षिणम् ।
तौ परिक्रामतस्तुभ्यमग्रे पर्यवहन्निति॥
स च लिङ्गाद्वरस्यैव मन्त्रपाठो भवेदिति ।प्रदक्षिणाप्रकारस्तु कर्मकौमुद्याम्—
चतुर्थीमाहुतिं दद्यादग्नेः कन्या भ्रमन्त्यपि ।
यदि चाग्रे चरो गच्छेद्रोगशोकधनक्षयः॥
चतुर्थ्यांमाहुतावेव अग्रे कन्या आहुतित्रयपर्यन्तं वरस्य पश्चादित्यर्थः । मन्त्रार्थः– हे अग्ने ! तुभ्यं स्वदर्थमेव सोमादयः अग्रे पूर्वं जन्मदिनादारभ्य पर्यवहन् पाणिं गृहीतवन्तः । ततः सूर्या सूर्यसम्बन्धिनींभार्यां इमां भवान्वहतु । किं भूतः ना पुरुषः परमपुरुषार्थहेतुरित्यर्थः । तां जायां जायात्वेन पुनः पश्चात्स्वभागानन्तरं प्रजया पुत्रैः सह मह्यमदा देहि ।सन्धिरार्षः। “एवं द्विरपरं लाजादी “ति सूत्रम् । एवमनेन
प्रकारेण लाजादिकुमार्य भ्रातत्यारभ्य परिक्रमणान्तं यावत्कर्मोक्तंतावद्द्विर्वारद्वयमपरं पुनर्भवति । तथा च गृह्यकारिका—
एवं द्विरपरं कर्म लाजाहोमादिकं भवेत्॥ इति ।
“चतुर्थँशुर्पकुष्ठया सर्वान् लाजानावपति भगाय स्वाहे“ति सूत्रम् ।तृतीये परिक्रमणे समाप्ते चतुर्थं लाजाहोमं जुहुयात् । तत्रायंविशेषः—कुमार्या भ्राता शूर्पकुष्ठया शूर्पकोणेन शूर्पेऽवशिष्टान् लाजान् सर्वान् कुमार्या अञ्जलावावपति ।
अग्रे च विधवा नारी कोणे चैव विपत्त्यतः ।
न चाग्रेण न कोणेन जुहुयाच्छूर्पकुष्ठयोः॥
शूर्पकुष्ठया अञ्जलावावपेदित्यर्थः । तान् कुमारी “भगाय स्वाहे” त्यनेन मन्त्रेण जुहोति । तथा च कारिकायाम्—
आवपत्यखिलान् लाजान चतुर्थं शूर्पकुष्ठया ।
तान् जुहोति भगायेति सर्वान्सैव सकृत्ततः॥
ततः समाचारात्तूष्णीं चतुर्थपरिक्रमणं वधूवरौ कुरुत इति वासुदेव गङ्गाधरहरिहररेणुदीक्षिताः । तथा च गृह्यकारिका—
हस्तग्रहणतस्तूष्णीं भवेदत्र परिक्रमः॥
“त्रि परिणीतां प्राजापत्यँहुत्वा” इति सूत्रम् \। त्रिः परिणीतां सती कुमारी प्राजापत्यं प्रजापतिदेवताकं होमं कृत्वा ।त्रिर्ग्रहणं इतरथावृत्तिव्युदासार्थम् । इतरथावृत्तिः कर्तव्या सर्वत्र । तथा च परिभाषासूत्रम्— “विवृत्यावृत्य वेतरथावृत्ति”रिति । अस्यार्थः - विवृत्य अप्रदक्षिणमावर्तनं कृत्वा, आवृत्य प्रदक्षिणमावर्तनं कृत्वा इतरथावृत्तिः कर्तव्येति । यत्र शास्त्रतः प्रदक्षिणावृत्तिः कृता तत्र तदानीमेव, अप्रदक्षिणावृत्तिरविहिताऽपि सर्वत्र कर्तव्या ।यत्र च अप्रदक्षिणावृत्तिः कृता तत्रतदानीमेव प्रदक्षिणावृत्तिरविहितापि सर्वत्र कर्तव्येत्यर्थः । अत्र लाजाहोमेनेतरथावृतिः । तथा च रेणुः—
दम्पत्योर्गच्छतस्तत्र ब्रह्माग्नी अन्तरागतिः ।
दक्षिणेनोदकुम्भःस्यादुत्तरो तात उत्तरा॥
न स्यादितस्थाऽऽवृत्तिस्त्रिः प्रणीत्यादि सूत्रणात्॥
कर्मकौमुद्यामपि—
लाजानाज्यं स्रुवं कुम्भं द्विजमश्मानमेव च ।
एतांश्च बाह्यतः कृत्वा शेषस्यैव प्रदक्षिणम्॥
तथा च परिभाषासूत्रम्–“हविष्यात्रस्वाम्यृत्विजां पूर्वं पूर्वमन्तरमृत्विजां च यथापूर्व”मिति । अस्यार्थः–हविर्वीह्यादि पात्राणि शूर्पादीनि स्वामी कर्मजन्यफलभोक्ता यजमानः पत्नी च ऋत्विजो ब्रह्माद्याः, एतेषामेकत्र समावेशे सति अन्तरङ्गबहिरङ्गभावो ज्ञेयः ।हविरन्तरङ्गं पात्राणि बहिरङ्गानि । यत्र पात्रमन्तरङ्गं तत्र यजमानो बहिरङ्गम् । यत्रयजमानोऽन्तरङ्गं तत्र ऋत्विग्बहिरङ्गम ।तथा हि—”यंत्रान्तरङ्गे कार्ये कर्तव्ये बहिरङ्गमसिद्धं स्यात्” इत्यनेनापि यजमानस्य ब्रह्माग्नोर्मध्येगमनं स्यात् । ‘चतुर्थपरिक्रमणवर्जं ब्रह्माग्नीअन्तरा गतिर्भवोदेति प्रयोगरत्ने । ततः “प्रजापतये स्वाहेति प्राजापत्यहोमः ।” इदं प्रजापये” इति त्यागः ।
इति श्रीप्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्रविवरणे
संस्कारगणपतौ सप्तमी कण्डिका समाप्त॥
<MISSING_FIG href=”../books_images/U-IMG-1696059572Untitled987.png”/>
( अष्टमी कण्डिका )
अथैनामुदीची<MISSING_FIG href=”../books_images/U-IMG-1696059471Untitled258.png"/>सप्तपदानि प्रक्रामयत्येकमिषे द्वेऊर्ज्जेंत्रीणि रायस्पोषाय चत्वारि मायोभवाय पञ्च पशुभ्यःषडृतुभ्यः सखे सप्तपदा भव सा मामनुव्रता भव विष्णुस्त्वानपत्विति सर्वत्रानुषजति निष्क्रमणप्रभृत्युदकुम्भ<MISSING_FIG href="../books_images/U-IMG-1696059502Untitled258.png"/>स्कन्धे कृत्वा दक्षिणतोऽग्नेवग्यतः स्थितो भवत्युत्तरत एकेषान्तत एनां मूर्द्धन्यभिषिञ्चत्यापः
शिवाः शिवतमाः शान्ताः शान्ततमास्तास्ते कृण्वन्तुभेषजमित्यापोहिष्ठेति तिसृभिरथैना<MISSING_FIG href="../books_images/U-IMG-1696059221Untitled258.png"/>सूर्यमुदीक्षयति तच्चक्षुरित्यथास्यै दक्षिणाप्त्समपिहृदयमालभते मम व्रते ते हृदयं दधामि मम चित्तमनुचित्तं ते अस्तु ।ममवाचमेकमना जुषस्वप्रजापतिष्ठ्वानियुनक्तु मह्यमित्यथैनामभिमन्त्रयते ‘सुमङ्गलीरियं वधूरिमाप्त्समेत पश्यत ।सौभाग्यमस्यै दत्त्वा याथ, स्तं विपरेतनेति तां दृढपुरुषउन्मथ्य प्राग्वोदग्वाऽनुगुप्तागार आनडुहे रोहिते चर्मप्युपवेशयतीह गावो निषीदन्त्विहाश्वा इह पुरुषाः । इहो सहस्रदक्षिणो यज्ञ दह पूषा निषीदन्त्विति ग्रामवचनं च कुर्युर्विवाहश्मशानवोर्ग्रामं प्राविशतादिति वचनात्तस्मात्तयोर्ग्रामःप्रमाणमिति श्रुतेराचार्याय बरं ददाति गौर्ब्राह्मणस्य वरो ग्रामो राजन्यस्याश्वो वैश्य स्याधिरथप्त्शतन्दुहितृमतेऽस्तमिते ध्रुवं दर्शयति ध्रुवमसि ध्रुवन्त्वा पश्यामि ध्रुवैधि पोष्ये मधि मह्यन्त्वाऽदात् । बृहस्पतिर्मया पत्या प्रजावती सञ्जीवशरदः शतमिति सा यदि न पश्येत्पश्यामीत्येव ब्रूयात्र्चिरात्रमक्षारालवणाशिनौ स्वातामधः शयीयाताप्त्संवत्सरन्न मिथुनमुपेयातां द्वादशरात्रप्त्षड्रात्रन्त्रिरात्रमन्ततः॥ ८ ॥
अथ सप्तपदी । “अथैनामुदीचीँ्सप्तपदानि प्रक्रामयत्येकमिषेद्वे ऊर्ज्जेत्रीणि रायस्योषाय चत्वारि मायोभवाय पञ्च पशुभ्यः षडृतुभ्यःसखे सप्तपदा भव सा मामनुव्रता भव विष्णुस्त्वानयत्वितिसर्वत्रानुषजति" इति सूत्रम् । अथ वर एनां कुमारीं अग्नेरुत्तरतः उदीचींउदङ्मुखी “एकमिष” इत्येतैः सप्तमन्त्रैः सप्तपदानि प्रकामयति प्रक्रक्रमणं कारयति । कारितत्वात्सप्तपदानि प्रक्रमस्वेत्यध्येषणेति । कुमार्यादक्षिणपादं गृहीत्वा अग्रेअग्रे स्थापयति । अन्ये ‘विष्णुस्त्वा नयत्वि’
ति सर्वत्र षण्मन्त्रेषु अनुषङ्गः, न तु सप्तमे मन्त्रे तुझ्ययोगित्वात्साकाङ्क्षत्वाच्च । पूर्वमन्त्रमिति कर्काचार्यः । अन्येषां भाष्यकाराणां पद्धतिकाराणां च मते सर्वमन्त्रेष्वनुषङ्ग । तथा च वीरमित्रोदये हरिण्यकेशीसूत्रम् “अपरेणाग्निं प्राचीमुदीचीं वा विष्णुक्रमान्कारयति । अथैनां संशास्ति दक्षिणेन प्रक्रम्य सव्येजानुप्रक्राममसव्येन दक्षिणमतिक्रामीरिति” । अग्नेरीशानभागे आश्वलायनः । तद्यथा “अथैनामपराजितायां दिशि सप्तपदान्युत्क्रामयती”ति । अपराजितार्द्दशानी । तथा च शौनकः—
अग्नेःपूर्वोत्तरं देशं नीत्वा तस्याः पुरो व्रजेत् ।
इषएक पदत्याद्यमुक्त्वा मन्त्रं च सर्वकम्॥
भवादिपदसंख्यानं प्रत्येकं योजयेत्पदम् । इति ।
इदन्तु तच्छाखीयानामेव । अस्यावश्यकत्वमाह मनुः—
पाणिग्रहणमन्त्रास्तु नियतं दारलक्षखम् ।
तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे॥ इति ।
दारलक्षणं भार्यात्वोत्पत्तौ प्रमाणं विद्भिर्नियतं तेषां मन्त्राणां निष्ठासमाप्तिः सम्पूर्णसंस्कारोत्पादकत्वं सप्तमे पदे अतिक्रान्ते भवति ।
पाणिगृहीता भार्या स्यादितरा सहधर्मिणी॥
इति त्रिकाण्डस्मरणात् । भार्यात्वं पतित्वस्याप्युपलक्षणम् । तथाच यमः—
**नोदकेन न वाचा वा कन्यायाः पतिरुच्यते **
पाणिग्रहणसंस्कारात्पतित्वं सप्तमे पदे॥ इति ।
पतिगोत्रप्राप्तिरपि सप्तमपदातिक्रमे भवति । तथा च मनुः—
तावद्विवाहो नैव स्याद्यावत्सप्तपदी भवेत् ।
तस्मात्सप्तपदी कार्या विवाहे मुनिभिः स्मृता॥
एकत्वे सा गता भर्तुः पिण्डगोत्रे च सूतके ।
स्वगोत्राद्भ्रश्यते नारी विवाहात्सप्तमे पदे॥ इति ।
मन्त्रार्थः—इषे अन्नाय उर्ज्जेबलाय रायस्पोषाय धनपुष्ट्यै मयः
सुखं तस्य भव उत्पत्तिः पश्वादिभ्यः तत्तसुखाय सखे इह पुत्रमिव सात्वं सप्तपदा भूरादिसप्तलोकप्रख्याता भव ।मां अनुवर्तिनी च भव ।”**निष्क्रमणप्रभृत्युदकुम्भँस्कन्धे कृत्वा दक्षिणतोऽग्नेवग्यतः स्थितोभवती"**ति सूत्रम् ।निष्क्रमणं पित्रा प्रत्तामादाय गृहीत्वा निष्क्रामतीत्येतावदुच्यते । तदारभ्य कश्चित्पुरुष उदकपूर्णं कुभं स्कन्धे गृहीत्वा विवाहामग्नेदक्षिणतो वाग्यतस्तूष्णीं तिष्ठेत् । “उत्तरत एकेषा“मिति सूत्रम् । एकेषामाचार्याणा मते अग्नेरुत्तरतस्तिष्ठति, अतश्च विकल्पः । “तत एनां मूर्धन्यभिषिञ्चत्यापः शिवाः शिवतमाः शान्ताः शान्ततमास्तास्ते कृण्वन्तु भेषजमिति” सूत्रम् । ततस्तस्मादुदकुम्भाद्धस्तेन जलमादाय एनां वधूं मूर्धनि शिरसि वर एव “आपः शिवा” इत्यनेनमन्त्रेणाभिषिञ्चति । मन्त्रार्थः–या आपः शिवाः कल्याणहेतवः शिवतमाः अतिशयाभ्युदयकारिण्यः शान्ताः सुखकर्त्र्यःशान्ततमाः परमानन्ददात्र्यस्ता आपस्ते तव भेषजं आरोग्यं कृण्वन्तु कुर्वन्तु ।"आपोहिष्ठेति च तिसृभिः" इति सूत्रम् ।चशब्दात्तस्मादुदकादापोहिष्ठेतित्रिभिर्मन्त्रैराभिषेकः कार्यः । “अथैनाँसूर्यमुदक्षयति तच्चक्षुरिति” इति सूत्रम् ।सूर्यावेक्षणं कारयति उदीक्षयतीति, कारितत्वादध्येषणासूर्यमुदीक्षस्वेति । सा च वरेण प्रेषिता सूर्यं पश्यति । “तच्चक्षु”रित्यनेन मन्त्रेण । दिवा विवाहपक्ष एतदिति रेणुदीक्षितहरिहरौ । तथा च
गृह्यकारिकायाम्—
ततः सूर्यमुदीक्षस्वेस्याह तां स नितम्बिनीम् ।
द्यूश्चेत्सोदीक्षते सूर्य तच्चक्षुरिति मन्त्रतः॥
गदाधरादिभिस्तु सूर्यावेक्षणान्यथाऽनुपपत्त्या अस्तमितीत्यत्रास्तमितिग्रहणाच्च एतद्गृह्यानुसारिणां दिवैव विवाह इत्यूह्यते । “अथास्यै दक्षिणाँसमधिहृदयमालभते मम व्रते ते हृदयं दधामि मम चित्तमनु चिचं ते अस्तु । मम वाचमेकमना जुप्रस्व प्रजापतिष्ट्वा नियुनक्तुमह्यमिति” सूत्रम् । अस्यै इति चतुर्थी षष्ठ्यर्थे । अस्याः बध्वाः दक्षिणांसमधि दक्षिणस्य अंसस्य स्कंधस्य अधि उपरि हस्तं नीत्वा “मम
व्रते त” इत्यनेन मन्त्रेण तस्या हृदयमालभते वरः । मन्त्रार्थः– हे कन्येइत्यध्याहारः । मम व्रते शास्त्रविहितनियमादौ ते तवहृदयं मनः दधामिस्थापयामि । किं च मम चित्तमनु मम चित्तानुकूलं ते तव चित्तमस्तु ।त्वं च मम वाचं वचनं एकमना अव्यभिचारिमनोवृत्तिर्जुषस्व दृष्टचित्तादरेण कुरुष्व ।त्वा त्वां च स एव बृहस्पतिर्मह्यं मदर्थं मां प्रसादयितुमित्यर्थःनियुनक्तु नियोजयतु । “अथैनामभिमन्त्रयते सुमङ्गलीरियं वधूरिमाँसमेत पश्यत । सौभाग्यमस्यै दत्वा याथास्तं विपरेतने" ति सूत्रम् ।अथ वर एनां वधूं “सुमङ्गली" रित्यनेन मन्त्रेणाभिमन्त्रयते । अत्राचाराच्चतस्रः स्त्रियो मङ्गलं कुर्वन्ति । तथा च गृह्यकारिकायाम्—
पाणिभ्यां संहताभ्यां च स तामेवाभिमन्त्रयेत् ।
सुमीङ्गलीरियमिति मन्त्रेणाथ वरं स्त्रियः॥
पतिपुत्रान्विता भव्याश्चतस्रः सुभगा अपि ।
सौभाग्यमस्यै दद्युस्ता मङ्गलाचारपूर्वकम्॥ इति ।
अत्र समाचाराद्वधूं वरस्य वामभागे उपवेशयन्ति । वध्वाः सीमन्तेवरः सिन्दूरं ददातीति प्रयोगरत्ने । म्मृत्यन्तरे—
वामे सिन्दूरदाने च वामे चैव द्विरागमे ।
वामेऽशनैकशय्यायामासीज्जाया प्रियार्थिनी॥
मन्त्रार्थः—हे विवाहदेवताः इयं वधूः सुमङ्गलीः शोभनमङ्गलरूपा, विसर्गश्छान्दसः, अतः इमां कन्यां समेत सङ्गच्छत । सङ्गत्यच इमां पश्यत दृष्ट्या विलोकयत । किञ्च पुनरपि पुत्रादिमङ्गलमाशास्यपुनरागमनाय व्रजत इत्यर्थः । यद्वा यद्यस्तं याथ तर्हि न विपरेतनेति ।"अस्तं गृहा" इति श्रुतेः । “तां दृढपुरुष उन्मथ्य प्राग्वोदग्वाऽनुगुप्तआगार आनडुड़े रोहिते चर्मण्युपवेशयति इह गावो निषीदन्त्विहाश्वा इह पूरुषाः । इहो सहस्रदक्षिणो यज्ञ इह पुरुषा निषीदत्न्विति" सूत्रम् \। ततो वरस्तां वधूं उन्मथ्य उत्क्षिप्य प्राकू प्राच्यामुदक्
उदीच्या वा अनुगुप्त लागारे परिवृते रोहिते रक्तवर्णे आनडुहे चर्मणिउपवेशयति “इह भाव” इति मन्त्रेण । चर्म च प्राग्ग्रीवमुपरिलोमास्तीर्णंभवति । “चर्माण्युत्तरलोमानि प्राग्ग्रीवाणीति" परिभाषासूत्रात् । तथा च गृह्मकारिका—
ततः प्राच्यामुदीच्यां वाऽनुगुप्ते निलये वरः ।
चर्मण्यानडुहेरक्ते तामुत्क्षिप्योपवेशयेत्॥
दृढपुरुषः कश्चिद्बलवान् पुरुष इति हरिहरः ।दृढपुरुषो जितेन्द्रियइति भर्तृयज्ञः । जामातैवदृढपुरुष इति रेणुदीक्षितगङ्गाधरौ ।गदाधरमतेऽपि वर एव । मन्त्रार्थः–इह कन्यानिवेशने गावःअश्वाः पुरुषाश्च
निषीदन्तु वसन्तु । इह पदावृत्तिः कर्तृभेदापेक्षया । किञ्च उ एवार्थे ।इहैव सहस्रं गावो दक्षिणा यस्य स यज्ञः पूषा पुष्टिकरो निषोदतु ।“पूषा वै सहस्रदक्षिण आसेति” श्रुतेः । ततः संस्रवप्राशनं मार्जनं पवित्रप्रतिपत्तिः प्रणीताविमोकः । एते पदार्थाः कर्तव्या इति गदाधररेणुदीक्षितादयः । नेति हरिहरादयः। “**ग्रामवचनं च कुर्युर्विवाहश्म शानयो”**रिति सूत्रम् ।विवाहे श्मशाने च वृद्धानां स्त्रोणां वचनं वाक्यंकुर्युः। सूत्रे अनुपनिबद्धमपि वधूवरयोर्गले सूत्रमालाया धारणम्, उभयोर्वस्त्रान्ते ग्रन्थिकरणम् करग्रहणे न्यग्रोधपुटिकाधारणम्, वरागमने नासिकाधारणम्, वरहृहये दध्यादिलापनादि ताश्च यत्स्मरन्ति तदपि कर्तव्यम् । चशब्दांद्दिशाचारोऽपि । तथा चाश्वलायनः– “अथ खलूच्चावचा जनपदधर्मा ग्रामधर्माश्च तान्विवाहे प्रतीयात् यत्तु मानंतद्वक्ष्याम इति” ।उच्चावचधर्मनाह शौनकः—
नानाविधा जनपदा ग्राम्याश्चोद्वाहकर्मणि ।
क्रियन्ते लौकिका धर्मास्तेषु तत्कुलपूरुषैः॥
पूर्वैरनुष्ठितान्कृत्वा कुर्याद्दारपरिग्रहम्॥
ग्रामशब्देन स्वकुलवृद्धास्त्रियोऽभियन्ते । ता हि पूर्वपुरुषैरनुष्ठीयमानं सदाचारं स्मरन्ति । ग्रामवचनं लोकवचनमिति भर्तृयज्ञः । वृद्धाणां स्त्रीणां वचनं कार्यामिति कुतः ? इत्यत आह “ग्रामं प्राविशतादिति
वचनात्तस्मात्तयोग्रमः प्रमाणमिति श्रुतेः” इति सूत्रम् ।‘ग्रामवृद्धानां स्त्रीणामाचारं प्राविशतादिति स्मृतिवचनात् । विधानपारिजातेऽपि—
कारयन्ति स्त्रियो वृद्धा यत्कर्तव्यमिहैव तत् ।
प्रमाणवचनं तासां वचनाच्च श्रुतेरिह॥
ननु ग्रामं प्राविशतादिति स्मृतिवचनात् हरिद्रालेपनादावस्तु प्रामाण्यम्, यत्र तु अथैनामश्मानमारोहयतीत्येतदनन्तरं तूष्णीं वरस्यपाषाणारोहणं कारयित्वा कुमार्या भ्राता वराङ्गुष्ठोपरि उपलं निधाय वराद्रूप्यादि गृह्णातीति ताः स्मरन्ति, तद्प्रमाणम् । लोभमूलत्वेनवैसर्जनीयवस्त्रवदित्यत आह—तयोर्विवाहश्मशानयोर्ग्रामः प्रमाणमिति श्रुतिवचनात्ताभिर्यत्स्मर्य्यते तस्य ग्रहणादि तदपि प्रमाणमिति, प्रत्यक्षश्रुतिमूलत्वात् । “**आचार्याय वरं ददाति गौर्ब्राह्मणस्य वरो ग्रामो राजन्यस्याश्वो वैश्यस्ये”**ति सूत्रम् ।ततो वर आचार्याय स्वकीयवरं ददाति । यदि ब्राह्मणो वरस्तदाऽऽचार्याय गां ददाति, क्षत्रियश्चेद्ग्रामम् वैश्यश्चेदश्वम्, अन्यच्च यथाशक्तिसुत्रर्णादिद्रव्यं दशब्राह्मणभोजनसङ्कल्पः । “अधिरथँशतं दुहितृमते" इति सूत्रम् ।ददातीत्यनुवर्तते । दुहितृमांश्च यस्य दुहितर एव न पुत्रास्तस्मै दुहितृमते स्थाधिकं गवांशतं दत्वा तस्य कन्यामुद्वहेत् । प्रतिषिद्धा ह्यसौ । तथा च मनुः—
यस्यास्तु न भवेद्भ्राता न विज्ञायेत वा पिता ।
नोपयच्छेत तां कन्यां पुत्रिकाधर्मशङ्कया॥
तस्याः परिक्रयाय स्थाधिकं गवां शतं ददाति । “अस्तमिते ध्रुवं दर्शयति ध्रुवमसि ध्रुवं त्वा पश्यामि ध्रुवैधि पोष्ये मयिमह्यं त्वाऽदात् । बृहस्पतिर्मया पत्या प्रजावती सञ्जीव शरदः शत” मिति सूत्रम् ।अस्तमिते रात्रौ विवाहश्चेद्वरदानानन्तरं ध्रुवसंज्ञकंनक्षत्रं वरो वधूं दर्शयति ध्रुवमसीत्यनेन मन्त्रेण । ‘ध्रुवमुदीक्षस्वे’तिवरो वधूं प्रेषयति, इति प्रयोगरत्ने ।यजुर्वल्लभायामपि । तथा च रेणुः—
ध्रुवं पश्येति तां ब्रूयादित्यवोचत्रिविक्रमः ॥इति ।
नात्र ध्रुवमुदीक्षस्वेति प्रैष इति गदाधरः । कर्कभाष्येऽप्येवम् । वध्वा चानक्षत्रदर्शनं वाङ्नियमः कार्यः। तथा चाश्वलायनः–**“ब्राह्मण्याश्च वृद्धाया जीवपत्या जीवप्रजाया अगार एतां रात्रिं वसेदेवमरुन्धतीं सप्त ऋषीनिति दृष्ट्वा वाचं विसृजेत् जीवपत्नी प्रजां विन्देयेती”*ति । अस्यार्थः–समाप्ते होमे रात्रौ ध्रुवादीन् दृष्ट्वा वाचं विसृजेन्मन्त्रेण ।हरदत्तस्तु सप्त ऋषीनितीत्येत्रतिशब्दः प्रकारार्थः । तेन शुक्रादीनामपि यथासम्भवं दर्शनं भवताति । इदानीं वाग्विसर्गविधानाद्धोमादारभ्यैतावन्तंकालं वाचो नियम इति गम्यते । कस्यायं वाग्विसर्गः?*वध्वाः । कुतो ? मन्त्रलिङ्गात् । शौनकोऽपि—
यस्मिन्काले विवाहः स्याद्रजन्यां यदि वा दिवा ।
तत्र होममुपक्रम्य प्राग्विवाहसमापनात्॥
वधूर्वाङ्नियमं कृत्वा वर्तेतावहिता सती ।
निवृत्ते तु विवाहे तां वधूं ध्रुवमरुन्धतीम्॥
सप्तर्षीश्वेक्षयेत्पश्चाद्वध्वा वक्तुमशक्तितः ।
वध्वर्थं जीवपत्न्यादि वाक्यं च व्याहरेद्वरः॥ इति ।
अत्र पारस्करेण वाग्विसर्गो न लिखितः । तथाऽपि “पारक्यमविरोधि यत्” इति वचनाद्वाग्विसर्गः कर्तव्य ? इति चेन्न पश्यामीति प्रतिवचनात् । वध्वैव मन्त्रं पाठयति । मन्त्रार्थः–हे ध्रुव ? ध्रुवमसि ध्रुवा शाश्वती असि भवसि । यतः त्वा त्वां ध्रुवं तारकाविशेषं पश्यामि दर्शयामि । अत्रान्तर्भूतो णिज्ज्ञेयः । अतस्त्वमपि ध्रुवा शाश्वती पोष्यापोषणीया मत्प्रजापोष्ट्री वा एधि भव वर्धयेति वा । एतदर्थमेव बृहस्पतिर्ब्रह्या त्वा त्वां मह्यमदात् दत्तवान् । अतो मया पत्या भर्त्रा सह प्रजावतीपुत्रपौत्रादियुक्ता शतं शरदो वर्षाणि जीव प्राणिहि । “सा यदि न पश्येत्पश्यामीत्येव ब्रूयात्" इति सूत्रम् ।स्पष्टार्थः। “त्रिरात्रमक्षारालवणाशिनौ स्याता” मिति सूत्रम् ।लग्नदिनादारभ्य त्रिरात्रं यावद्वधूवरौ अक्षारं क्षारवर्जितमलवणं लवणवर्जितञ्चाश्नीत इत्येवंशीलौ स्याताम् । क्षारं साजिक्षारादि, लवणं सैन्धवादि । अक्षारनिति लवणविशे-
षमाह मेधातिथिः—“खारी लवणमिति लोके प्रसिद्धेः" । विवाहादारभ्यैते नियमास्सन्त्युभयोः । “अधः शयीयाता"मिति सूत्रम् । अधः भूमौ स्वपेताम् । खट्वात्र्युदासार्थोऽधःशब्दः, नास्तरणव्युदासार्थः । “संवत्सरं न मिथुनमुपेयातां द्वादशरात्रँषड्रत्रन्त्रिरात्रमन्तत” इति सूत्रम् । विवाहदिनादारभ्य संवत्सरं यावन्नमिथुनमुपेयातां ब्रह्मचारिणौ स्याताम् । द्वादशरात्रं वा षड्रात्रं वा त्रिरात्रं वा । तथा चशौनकः—
अत ऊर्ध्वं त्रिरात्रं तौ द्वादशाहमथापि वा ।
शक्तिं वीक्ष्य तथाऽब्दं वा चरतां दम्पती व्रतम्॥
अक्षारालवणाहारौ भवेतां भूतले तथा ।
शयीयातां समावेशं न कुर्यातां वधूवरौ॥
समावेशं मैथुनम् । तथा च हिरण्यकेशीसूत्रम्–“त्रिरात्रमक्षारालवणाशिनावधःशायिनावलङ्कुर्वाणौ ब्रह्मचारिणौ वसत” इति ।
स्मृतिः—
विवाहे दम्पती स्यातां त्रिरात्रं ब्रह्मचारिणौ ।
अलङ्कृतावधश्चैकसहशय्यासनासनौ॥
एषां पक्षाणां व्यवस्थोक्ता ब्रह्मपुराणे—
कृते विवाहेवर्षन्तु वस्तव्यं ब्रह्मचारिणा ।
यद्यष्टवर्षा कन्या स्यात्तदा तत्त्रिगुणः पुमान्॥
त्रिगुणश्चतुर्विंशतिवार्षिकः । तथा—
अथ तद्द्वादशाहानि त्रिंशद्वर्षेण सर्वदा ।
यदि द्वादशवर्षा स्यात्कन्या रूपगुणान्विता॥
द्वात्रिंशद्वर्षपूर्णेन यदि षोडषवार्षिकी ।
लब्धा तदा तु षड्रात्रं वस्तव्यं संयमेन तु॥
विंशत्यब्दा यदा कन्या वस्तव्यं तत्र वै व्यहम्।
अत ऊर्ध्वमहोरात्रं वस्तव्यमतिसंयतैः॥ इति ।
धर्मप्रवृत्तौ—
बध्वासदैव कर्तव्यो निवासःश्वशुरालये ।
चतुर्थरात्रमन्ते च केचिदेवं वदन्ति हि॥
अथ दम्पतीसहभोजनं विधानपारिजाते सङ्ग्रहकारः—
मात्रा सहोपनीतेःस्याद्विवाहे भार्यया सह ।
अन्यत्र सह भुञ्जीत पातित्यं प्राप्नुयान्नरः॥
तथा च रेणुः—
एकपात्रे सहाश्नीतः केचित्तु प्रथमेऽहनि ।
पयोवर्जं हविष्यान्ननित्यवोचत्र्तिविक्रमः॥
भोजनसमये वरो घृतेनापोशनं कुर्यात् । उक्तं च—
दामो नाम महादैत्यो दम्पत्योर्हृदि संस्थितः ।
तस्य नाशार्थमुद्वाहे घृतमापोशनं कुरु॥
‘प्रामवचनं च कुर्युरि’त्यनेन यथाकुलाचारं तिलककरणाक्षतचन्दनादिविप्राशीर्वचनमन्त्रपाठादिकं संगृह्यते । तथा च वीरमित्रोदये—
आशीर्वादैर्बहुविधैश्चतुर्वेदोदितैर्द्विजाः॥ इति ।
तौ वर्धयेयुरिति शेषः । शतपथब्राह्मणेऽपि “एता आशिष आशास्ते यजमानाये” ति ।प्रथमशाखारम्भविचारभाष्यारम्मेऽपि सङ्ग्रहकारः—
सर्वत्र कर्मणामन्ते मन्त्राशिषमनुत्तमाम् ।
दद्युर्विप्राः स्वशाखोकामादौ तत्कर्मशाखिनः॥
अत्र चतुर्षु दिवसेषु कर्तव्यताविशेषमाह शौनकः—
दम्पती रोहिणीसोमौभूत्वा प्रथमकेऽहनि ।
दाक्षायणीं यजेयातां द्वितीयदिवसेऽपि तौ॥
पूजयेतां महादेवीं गन्धर्वाप्सरसौ च तौ ।
अग्निस्वाहे तृतीयेऽह्निपूजयेतां च कालिकाम्॥
चतुर्थ्यां तौ यजेयातां शाङ्करीं मानवस्त्रियौ ।
एवं प्रतिदिनं कर्तुं पूजां तौ दम्पती तदा॥
चतुर्थ्यन्तेषु दिवसेष्वर्चयेद्ब्राह्मणान्बहून् ।
वस्त्रहेमादिमिष्टानताम्बूलादिप्रयत्नतः॥
इति श्री प्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्राववरणे
अष्टमी कण्डिका॥
अथास्य स्पष्टप्रयोगो लिख्यते। वधूपिता वरपिता वा विवाहदिनापूर्वेद्युः पूर्वाह्णे सपत्नीकः कृताभ्यङ्गो धृतमाङ्गलिक-वेशः कृतलेपनरङ्गमालिके प्राङ्गणे शुभासने प्राङ्मुख उपविश्य दक्षिणतः पत्नी तद्दक्षिणतः कन्यां वरं चोपवेश्याचम्य प्राणानायम्य इष्टदेवतागुर्वादीन्नमस्कृत्य देशकालौ सङ्कीर्त्य “अस्याः कन्यायाः ( पुत्रस्य वा ) करिष्यमाणविवाहाङ्गभूतं स्वस्तिवाचनपूर्वकमविघ्नपूजनं मण्डपप्रतिष्ठां मातॄणां पूजनं वसोर्धारां नान्दीश्राद्धं च करिष्ये” इति सङ्कल्प्य उक्तरीत्या स्वस्तिवाचनादीनि कुर्यात्। मण्डपद्वारगतं वरमभ्युत्थानादिभिः प्रतीतं मधुपर्केणार्चयेत्। तद्यथा – अर्चयिता आसनमानीय तस्यासनस्य पञ्चात्तिष्ठन्तं अर्घ्यं प्रति “साधु भवानास्तामर्चयिष्यामो भवन्तम्” इति ब्रवीति। “अर्चय” इति प्रतिवचनम्। ततोऽर्चकपुरुषाः विष्टरे पद्यं पादार्थमुदकमर्घमाचमनीयं मधुपर्कं तत्समीपमानयन्ति। आचम्य प्राणानायम्य देशकालौ स्मृत्वा “कन्यार्थिनं गृहागतं वरं मधुपर्केणाहमर्चयिष्ये”। अर्चयिता एकं विष्टरमादाय तिष्ठति। अन्यः कश्चिद्ब्राह्मणः " विष्टरो विष्टरो विष्टरः" इति श्रावयति। “प्रतिगृह्यता” मित्यर्घ्यहस्तयोर्ददाति। अर्घ्यश्च “व्वर्ष्मोऽस्मि समानानामुद्यतामिव सूर्यः। इमन्तमभितिष्ठामि यो मा कश्चाभिदासती " त्यनेन मन्त्रेण विष्टरमासने निधाय तदुपर्युपविशति। ततोऽन्येन “पाद्यं पाद्यं पाद्यं” इति श्राविते अर्चयिता “प्रतिगृह्यताम्” इत्युक्त्वा समर्पयति। अथार्च्यस्तत्पात्रं भूमौ निधायाञ्जलिना जलमादाय “व्विराजो दोहोऽसि व्विराजो दोहमशीय मायि पाद्यायै व्विराजो दोहः” इति मन्त्रेण ब्राह्मणो दक्षिणपादं प्रक्ष्याल्य तथैव वामं प्रक्षालयनति। क्षत्रियादयस्त्वर्घ्याः सव्यं प्रक्षाल्यानेनैव विधिना दक्षिणं प्रक्षालयन्ति। पुनः “विष्टरो विष्टरो विष्टरः” इत्य-न्येन श्राविते “प्रतिगृह्यता” मिति यजमानदत्तं विष्टरं प्रतिगृह्य “वर्ष्मोऽस्मी " ति मन्त्रेण पादयोरघस्तान्निदधाति। ततो “अर्घोऽर्घोऽर्घः” इत्यन्येन श्राविते अर्चयिता “प्रतिगृह्यता” मित्युक्त्वा अर्घ्यायार्धं “आपः स्थ युष्माभिः सर्वान्कामानवाप्नवानी” ति मन्त्रं पठितवते
प्रयच्छति। अर्घ्यश्चार्घं प्रतिगृह्य मूर्द्धन्पर्यन्तमानीय “समुद्रं वः प्रहिणोमि स्वां योनिमभिगच्छत। अरिष्टाऽस्माकं वीरा मा परासेचि मत्पय” इत्यनेन मन्त्रेण शिरसाऽभिवन्द्य भूमौ प्रवाहयेत्। “आचमनीयमाचमनीयमाचमनीयम्" इत्यन्येन श्रावि-तेऽर्चयिताऽर्घ्याय “प्रतिगृह्यता “मित्युक्त्वा आचमनीयं प्रयच्छति। अर्घ्यश्च प्रतिगृह्य “आमाऽगन्यशसा सँसृज व्वर्चसा। तम्मा कुरु प्रियं प्रजानामधिपतिं पशुनामरिष्टिं तनूनाम्” इति मन्त्रेण सकृदाचम्य स्मार्तमाचमनं करोति। “मधुपर्को मधुपर्को मधुपर्कः " इत्यन्येन श्राविते अर्चयिता “प्रतिगृह्यता” मित्युक्त्वा यजमानहस्तस्थितं मधुपर्कं “मित्रस्य त्वा चक्षुषा प्रतीक्षे” इत्यनेन मन्त्रेण प्रतीक्ष्य “देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि” इत्यनेन मन्त्रेण अञ्जलिना प्रतिगृह्य सव्ये पाणौ निधाय दक्षिणस्यानामिकया मधुपर्कं प्रदक्षिणमालोडयति। “नमः श्यावास्यायान्नशने यत्त आविद्धं तत्ते निष्कृन्तामि” इति तूष्णीं सकृत् अनामिकाङ्गुष्ठाभ्यामादाय बहिर्निक्षिपति। पुनरेवं द्विवारमालोडनं द्विन्निरू-क्षणं च करोति। ततो भूमौ मधुपर्कपात्रं निधाय “यन्मधुनो मधव्यं परमँरूपमन्नाद्यम्। तेनाहं मधुनो मधव्येन परमेण रूपेणान्नाद्येन परमो मधव्योऽन्नादोऽसानी ” ति मन्त्रेण अनामिकाङ्गुष्ठाभ्यामादाय मधुपर्कैकदेशं प्राश्नाति। वा प्राशित-शेषं पुत्राय शिष्याय वा दद्यात्। सर्वं वा भक्षयेत्। पूर्वस्यां दिशि असञ्चरे प्रदेशे प्रक्षिपेदु- च्छिष्टम्। ततः स्मार्तविधिना द्वि-राचम्य प्राणान्सम्मृशति। तद्यथा “वाङ्म आस्येऽस्तु” इति कराग्रेण मुखं स्पृशति, “नसोर्मे प्राणोऽस्त्वि " इति दक्षिणवामे नासारन्ध्रे, “अक्ष्णोर्मे चक्षुरस्त्वि"ति चक्षुषी, “कर्णयोर्मे श्रोत्रमस्त्वि” ति वामम्, दक्षिणं श्रोत्रं संस्पृश्य पुनः " कर्णयोर्मे श्रोत्र-मस्तित्व” ति वामम्, “बाह्वोर्मे बलमस्त्वि” ति दक्षिणोत्तरौ बाहू, “ऊर्वोर्मे ओजोऽस्त्वि” ति युगपदूरू, “अरिष्टानि मेऽङ्गानि तनूस्तन्वा मे सह सन्त्वि” ति शिरःप्रभृतिपादान्दानि सर्वाण्यङ्गानि उभाभ्यां हस्ताभ्यां लभेत्। ततो यजमानः खड्गहस्तो वराय गां निवेदयति।
“गौर्गौर्गौः आलभ्यता” मिति ब्रूयात्। ततो वरः “माता रुद्राणां दुहिता व्वसूनाँस्वसाऽऽदित्यानाममृतस्य नाभिः। प्र नु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट। मम चामुकशर्मणो यजमानस्य च पाप्मानँहनोमीति” गवालम्भपक्षे प्रति ब्रूयात्। उत्सर्गपक्षे तु “माता रुद्राणा ( मित्यादि) पाप्मा हत अँउत्सृजत तृणान्यत्तु” ॐकारमुपांशु उक्त्वा “**उत्सृ-जत”**त्युच्चैः प्रतिब्रूयात्। ततः कन्यापिता वराय वस्त्रचतुष्टयं प्रयच्छति। वरश्च तेषु मध्ये वस्त्रद्वयं स्वयं परिधत्ते। “परिधास्यै यशोधास्यै दीर्घायुत्वाय जरदष्टिरस्मि। शतं च जीवामि शरदः पुरूची रायस्थोषमभिसंव्ययिष्ये” इति मन्त्रेण। “यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात्। आयुष्यमग्न्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः” इत्यनेन यज्ञोपवीतम्। “यशसा सा द्यावापृथिवी यशसेन्द्राबृहस्पती। यशो भगश्च मा विदद्यशो मा प्रति पद्यता" मिति मन्त्रेण उत्तरीयवस्त्रम्। ततो द्विराचमनम्। कन्यापित्रा दत्तं चन्दनं भालेऽनुलिप्य “सुचक्षा अहमक्षीभ्याम्भूयाससुवर्चां मुखेन। सुश्रुत्कर्णाभ्याम्भूयासम्” इति जपेत्। “या आहरज्जमदग्निः श्रद्धायै कामायेन्द्रियाय। ता अहं प्रतिगृह्णामि यशसा च भगेन च" इति मन्त्रेण पुष्पग्रहणम्। “यद्यशोऽप्सरसामिन्द्रश्चकार विपुलं पृथु। तेन सङ्ग्रथिताः सुमनस आबध्नामि यशो मयी” ति मन्त्रेण पुष्पमालाबन्धनम्। “अलङ्करणमसि भूयोऽलङ्करणं भूयादि" ति मन्त्रेण कर्णयोरलङ्करणधारणम्।
इति मधुपर्कः।
अथ कन्याऽपि स्नातोपहिताहतवस्त्रा गृहान्तः सूत्रवेष्टितोपलसहितदृषदुपरि हरिद्रानिर्मितगौरीहरौ सौभाग्यादिकामनया पूजयित्वा इन्द्राणीं च तत्रैवाक्षतपुञ्जेषु पूजयित्वा प्रार्थयेत्।
देवेन्द्राणि ? नमस्तुभ्यं देवेन्द्रमियभामिनि ? ।
विवाहे भाग्यमारोग्यं पुत्रलाभं च देहि मे॥ इति।
ततो गौरी सौभाग्यादि प्रार्थयमाना तत्रैव तिष्ठेत्। ततो वरः प्राणा-
नायम्य देशकालौ स्मृत्वा “धर्मप्रजासम्पत्यर्थं दाराप्रतिग्रहणमहं करिष्ये। तदङ्गतया विहितं अग्निप्रतिष्ठापनमहं करिष्ये”। ततो मण्डपमध्ये वेद्युपरि ईशान्यां दिशि पञ्चभूसंस्कारान् कृत्वा लौकिकं निर्मन्थ्य वाऽग्निं स्थापयित्वा, वरः वैकल्पिकावधारणं कुर्यात्। “लौकिकाग्निस्थापनम्। गौरीपरिणयनम्। कुमार्या वासः परिवानादि गृहमध्ये। अग्नेर्दक्षिणतः कुम्भधृक्। तेजन्या दक्षिणपादेन परिवर्तनम्। पूर्वेण ब्रह्मणो गमनम्। उत्तरेण पात्रासादनम्। द्वे पवित्रे। ताम्रमयी आज्यस्थाली। पालाश्यः समिधः। प्राञ्चावाघारौ। समिद्धतमे आज्यभागौ। पूर्णपात्रम्। राष्ट्रभृद्धोमः। जयाहोमः। अभ्यातानहोमः। सुगन्नु पन्थापित्याहुत्यन्ते परमृत्यो इत्याहुतिः। वध्वा आनडुहचर्मोपवेशनं प्राच्याम्। त्रिरात्रं ब्रह्मचर्यमुभयोः एतान् वैकल्पिकान्पदार्थानहं करिष्ये”। ततः अग्नेः पश्चात्तृणपुलकं स्थापयेत्। अथ कन्यादानादि। ब्राह्मणाः स्वलङ्कृते वेश्मनि मङ्गलगीततूर्यनिर्घोषे क्रियमाणे पूर्वापरभागयोर्हस्तान्तरालं विहाय प्रत्येकं प्रस्थमिततण्डुलैर्द्वौ राशी कृत्वा मध्ये कुङ्कुमादिकृतस्वस्तिकाङ्कितमन्तःपटे राश्योर्मध्ये उत्तरदशं धारयेयुः। “स्वस्ति न इन्द्राग्नी " तिसूक्तं पठेयुः। पुरन्ध्थ्यो मङ्गलगीतिं कुर्युः। वधू-वरौ च मनसेष्टदेवतां घ्यायन्तौ समाहितौ तिष्ठेताम्। अथ ज्योतिषिकेन मङ्गलपद्यपाठपूर्वकं “सुमुहूर्तोऽस्तु तदेव लग्न” मिति पठिते प्रदिष्टे काले सद्योऽन्तः पटमुदगपसार्य, कन्यावराभ्यां परस्परस्मिन् अञ्जलिस्थतण्डुलगुडजीरकविकरणं करणीयम्। “मनो जूति“रिति मन्त्रेण मङ्गलाक्षता वधूवराभ्यां परस्परं क्षिप्येताम्। वधूर्वरपादोपरि स्थाप्य, वरो वध्वाः शिरोपरि। ततो वरं प्राङ्मुखं वधूं प्रत्यङ्मुखीं कारयित्वा ततः पूर्वं कन्यापित्रा दत्तं वस्त्र कुमारीं परिधापयति “जरां गच्छ परिधस्त्व वासो भवाकृष्टीनामभिशस्तिपावा। शतं च जीव शरदः सुवर्चा रयिं च पुत्राननुसंव्ययस्वायुष्मतीदं परिधत्स्व वासः” इत्यनेन मन्त्रेण। अथोत्तरीयम् “या अकृतन्नवयं या अतन्वत। याश्च देवीस्तन्तूनभितो ततन्थ तास्त्वा देवीर्जर से संव्ययस्वा-
युष्मतीदं परिधत्स्व वासः” इत्यनेन मन्त्रेण। अथ कन्यापिता वरकुमार्यौ समञ्जयति “परस्परं समञ्जेथा” मिति प्रैषेण। समञ्जनं सन्मुखीकरणम्। ततो वरः कन्यासन्मुखीभूतः “समञ्जन्तु विश्वे देवाः समापो हृदयानि नौ। सम्मातरिश्वा सन्धाता समुदेष्ट्री दधातु नौ” इति मन्त्रं पठति। ततो वधूवरावुपविशतः। प्राङ्मुखो वर उपविशेत्। प्रत्यङ्मुखी कन्या। दातोदङ्मुखः।
अथ कन्यादानम्। तत्र वाक्यम् - बद्धशिखः कुशपाणिः प्राणानायम्य देशकालौ सङ्कीर्त्य “मम समस्तपितॄणां निरतिशयसानन्दब्रह्मलोकावाप्त्यादिकन्यादानकल्पोक्तफलावाप्तये अनेन वरेणास्यां कन्यायामुत्पादयिष्यमाणसन्तत्या द्वादशावरान् द्वादशापरान् पुरुषांश्च पवित्रीकर्तुमात्मनश्च श्रीलक्ष्मीनारायणप्रीतये ब्राह्मविवाहविधिना कन्यादानमहं करिष्ये” इति कुशाक्षतजलेन सङ्कल्पः। ततो वधूवरयोः पुरतः कांस्यपात्रं स्थापयित्वा तत्र कन्याहस्तोपरि वरहस्तं कृत्वा तत्र “शिवा आपः सन्तु। सन्तु शिवा आपः। सौमनस्यमस्तु। अस्तु सौमनस्यम्। अक्षतं चारिष्टं चास्तु। अस्त्वक्षतमरिष्टं च। यत्पापं रोगं दुरितं तत्प्रतिहतमस्तु। यच्छ्रेयस्तदस्तु। दीर्घमायुः श्रीः शान्तिः पुष्टिश्चास्तु"। तिष्टन् कन्यादानम्। “अमुकगोत्र-स्यामुकप्रवरस्यामुकशर्मणः प्रपौत्राय अमुकगोत्रस्यामुकामुकप्रवरस्यामुकशर्मणः पौत्राय अमुकगोत्रस्यामुकामुकप्रवर-स्यामुकशर्मणः पुत्राय” इति वरपक्षे। अथ कन्यापक्षे। “अमुक गोत्रस्यामुकामुकप्रवरस्यामुकशर्मणः प्रपौत्रीं अमुकगोत्र-स्यामुकामुकप्रवरस्यामुकशर्मणः पौत्रीं अमुकगोत्रस्यामुकामुकप्रवरस्यामुक शर्मणः पुत्रीम्” एवमेव पुनर्वारद्वयम्। अथ कन्यापिता कुशजलाक्षतपाणिः प्राङ्मुखोपविष्टाय वराय प्रत्यङ्मुखोपविष्टां कन्यां यथाशक्त्यलङ्कृतां “अमुकगोत्राय अमुकप्रवराय अमुकशाखाध्यायिने अमुकशर्मणे वराय अमुकगोत्रां अमुकप्रवरां अमुकनाम्नीं कन्यां यथाशक्त्यलङ्कृतां प्रजापतिदैवत्यां पुराणोक्तशतगुणीकृतज्योतिष्टोमातिरात्रफलप्राप्तिकामः कन्या-
दानफलप्राप्तिकामो वा भार्यात्वेन तुभ्यमहं सम्प्रददे” इत्युक्त्वा सकुशाक्षतजलं कन्यादक्षिणहस्तं वरदक्षिणहस्ते दद्यात्। वरस्तु “स्वस्ती” त्युक्त्वा" द्यौस्त्वा ददातु पृथ्वी त्वा प्रतिगृह्णातु" इत्यनेन मन्त्रेण प्रतिगृह्णीयात्। कन्यापिता “यस्त्वया धर्मश्चरितव्यः सोऽनया सह। धर्मे चार्थे च कामे च त्वयेयं नातिचरितव्या" इति वरं प्रति ब्रूयात्। “नातिचरामी” ति वरः। अथ “कोदादि” ति कामस्तुतिं पठेत्। अथ कन्यापिता “कृतैतत्कन्यादानप्रविष्ठासिद्धयर्थं सुवर्णदक्षिणां तुभ्यमहं सम्प्रददे” इति दक्षिणां दद्यात्। ततो दाता जलभाजनं गोमहिणष्यश्वगजदासीदासभूवाहनालङ्कारादि यथाविभवं सङ्कल्पपूर्वकं दद्यात्। तत्र मन्त्राः-
यज्ञसाधनभूता या विश्वस्याघप्रणाशिनी।
विश्वरूपधरो देवः प्रीयतामनया गवा॥ गोः।
या सर्वस्याश्रया भूमिर्वराहेण समुद्धृता।
अनन्तसस्यफलदा अतः शान्तिं प्रयच्छ मे॥ भूम्याः।
इयं दासी मया तुभ्यं श्रीवत्सम्प्रतिपादिता।
सर्वकर्मकरी भोग्या यथेष्टं भद्रमस्तु मे॥ दास्याः।
अशून्ये शयनं नित्यमनूनां श्रियमुन्नतिम्।
सौभाग्यं देहि मे नित्यं शय्यादानेन केशव ?॥ शय्यायाः।
हिरण्यगर्भसम्भूतं सौवर्णं चाङ्गुलीयकम्।
सर्वप्रदं प्रयच्छामि प्रीणातु कमलापतिः॥ अङ्गुलीयकस्य।
क्षीरोदमथने पूर्वमुद्धृतं कुण्डलद्वयम्।
श्रिया सह समुद्भूतं ददे श्री प्रीयतामिति॥ कुण्डलद्वययोः।
इदं गृहं गृहाण त्वं सर्वोपस्करसंयुतम्।
तव विप्र ? प्रसादेन ममास्त्वभिमतं फलम्॥ गृहस्य।
इन्द्रादिलोकपालानां या राज्यमाहिषी शुभा।
महिषासुरस्य जननी साऽस्तु मे सर्वकामदा॥ महिष्याः।
पाखण्डवादपैशुन्याद मक्षस्य च भक्षणात्।
उत्पन्नं ताम्रपात्रस्य दानेनैनो विनश्यतु॥ ताम्रपात्रस्य।
यानि पापान्यकामानि कामोत्थानि कृतानि च।
कांस्यपात्रप्रदानेन तानि नश्यन्तु मे सदा॥ कांस्यपात्रस्य।
विष्णुस्त्वमश्वरूपेण यस्मादमृतसम्भवः।
चन्द्रार्कवाहनं नित्यमतः शान्ति प्रयच्छ मे॥ इत्यश्वस्य।
अन्येऽपि बान्धवाद या यथासम्भवं प्रयच्छन्ति। केचनहोमान्ते सर्वं प्रयच्छन्ति। अत्र देशाचारतो व्यवस्था। ततो दुग्धाक्तेन द्विगुणशुक्लसूत्रेण दम्पतीकण्ठदेशे चेशानीमारभ्य पञ्चवारं कटिदेशे चतुर्वारं प्रदक्षिणं वेष्टयेत् पुरोधा अनेन मन्त्रेण <MISSING_FIG href="../books_images/U-IMG-1698908993Screenshot2023-11-02100830.png"/>“परि’ त्वा गिर्व्वणोगिरइमा भवन्तु व्विश्वत÷ ॥ वृद्धायुमनुवृद्धयोजुष्टाभवन्तुजुष्टय” इति। ततः कण्ठदेशस्थसूत्रमधो निःसार्य कुङ्कुमाक्तमुर्णायुक्तं च कृत्वा तेन हरिद्राखण्डं बध्वा तद्वधूवामहस्तप्रकोष्ठे वरो वध्नीयात् “यदावध्न"न्नितिमन्त्रेण। कटिदेशस्थं सूत्रमुपरि निष्कास्य तादृशं कृत्वा वरदक्षिणहस्तप्रकोष्ठे वधूर्बध्नीयात्तेनैव मन्त्रेण। ततो गौरीहरौ सम्पूज्य प्रार्थयेत्।
सर्वरूपधरे ? देवि ? गौरि ? शङ्करवल्लभे ?।
नमस्करोमि देवेशि ? पुत्रं सौख्यं च देहि मे॥
देवेन्द्राणि ? नमस्तुभ्यं देवेन्द्रप्रियभामिनि !॥
विवाहं भाग्यमारोग्यं पुत्रलाभं च देहि मे॥
इति गौरीं संप्रार्थ्य ततो वरः सूक्ष्मकाचमणियुक्तं सूत्रं वधूकण्ठे बघ्नीयात्। तत्र मन्त्रः-
माङ्गल्यतन्तुनाऽनेन भर्तुजीवनहेतुना।
कण्ठे बध्नामि सुभगे ? त्वं जीव शरदः शतम्॥
तत आम्रसेचनं दुग्धेन-
“शतं लो अम्बधामानि सहस्रमुत वोरुह÷।
अधाशतक्रत्वो यूयममम्मेअगदद्ङ्कृत”॥
चूतोऽसि त्वं महाभाग ? सर्वकल्याणदायक ?।
देहि मे सर्वतः सौख्यं सिंच त्वं तरुनायक ?॥
अथ दीपप्रार्थना -
दीप ? त्वं देहि कल्याणं देहि सर्वान्मनोरथान्।
यावद्व्रतंसमाप्येत तावत्त्वं च स्थिरो भव॥
एवं पित्रा दत्तां कन्यां वामहस्ते गृहीत्वा पितृगृहान्निष्क्रामति “यदैषि मनसा दूरं दिशोऽनु पवमानो वा। हिरण्यपर्णो वैकर्णः सत्वा मन्मनसां करोतु, अमुकीदेवि " इत्यनेन मन्त्रेण।निष्क्रमणप्रभृत्येकः पुरुष उदकुम्भं स्कन्धे कृत्वा दक्षिणतोऽग्नेर्वाग्यतः स्थिरो भवत्युत्तरतो वाऽभिषेकपर्यन्तम्। अथैनौ वधूवरावग्निसमीपमागतौ। अथ कन्यापिता “परस्परं समीक्षेथा” मिति मन्त्रेण प्रैषं ददाति। ततस्तौ वधूवरौ परस्परं समीक्षणं कुरुतः। समीक्षमाणो वरो मन्त्रं पठति। “अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः सुमनाः सुवर्चाः। वीरसूर्देवकामा स्योना शन्नो भव द्विपदे शं चतुष्पदे। सोमः प्रथमो विविदे गन्धर्वो व्विविद उत्तरः। तृतीयोऽग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः। सोमोऽददद्गन्धर्वाय गन्धर्वो दददग्नये।रयिं च पुत्रांश्चादादग्निर्मह्यमथो इमाम्।सा नः पूषा शिवतमामेरय सा न ऊरू उशती विहर।यस्यामुशन्तः प्रहराम शेपंयस्यामु कामा बहवो निविष्टयै” इत्यादिकाँश्चतुरो मन्त्रान् पठति।एक आचार्याःप्रदक्षिणमग्निमानीय कन्यावासः परिधानादि कुर्वन्ति। ततो वधूवरावग्निं प्रदक्षिणीकृत्य अग्नेःपश्चात्पूर्वासादिते तृणपूलके वा उपविशताम्। तत्र दक्षिणपादेनाक्रम्योपविशति वरः। वरस्य दक्षिणतो वधूः।ततो वरो देवताऽभिध्यानं करोति। तद्यथा “विवाहकर्मणाऽहं यक्ष्ये। तत्र प्रजापतिं इन्द्रं अग्निं सोमं, अग्निं वायुं सूर्यं अग्नीवरुणौ अग्नीवरुणौ अग्निं वरुणं सवितारं विष्णुं विश्वान्देवान् मरुतः स्वर्कान् वरुणं, ऋतासाहं ऋतधामानं अग्नि गन्धर्वं ओषधीः अप्सरसः मुदः, सँहितं विश्वसामानं सूर्यं गन्धर्वं मरीचीःअप्सरसः आयुवः, सुषु-
म्णं सूर्यरश्मिं चन्द्रमसं गन्धर्वं नक्षत्राणि अप्सरसः भेकुरीः, इषिरं विश्वव्यचसं वातं गन्धर्वं अपः अप्सरसः ऊर्जः, भुज्युं सुपर्णं यज्ञं गन्धर्वं दक्षिणाः अप्सरसः तावाः, प्रजापतिं विश्वकर्माणंमनः गन्धर्वं ऋक्सामानि अप्सरसः एष्टीः, चित्तं चित्तिं आकूतं आकूतिं विज्ञातं विज्ञातिं मनः शकरीः दर्शं पौर्णमासं बृहतं रथन्तरं, प्रजापतिं जयान् इन्द्रं, अग्निं भूतानामधिपतिं, इन्द्रं ज्येष्ठानामधिपतिं, यमं पृथिव्या अधिपातिं, वायुं अन्तरिक्षस्याधिपतिं, सूर्यं दिवोऽधिपतिं, चन्द्रमसं नक्षत्राणामधिपतिं, बृहस्पतिं ब्रह्मणोऽधिपतिं, मित्रं सत्यानामधिपतिं, वरुणं अपामधिपतिं, समुद्रं स्त्रोत्यानामधिपतिं, अन्नं साम्राज्यानामधिपति, सोमं ओषधीनामधिपतिं, सवितारं प्रसवानामधिपतिं, रुद्रं पशूनामधिपतिं, त्वष्टारं रूपाणामधिपतिं, विष्णुं पर्वतानामधिपतिं, मरुतो गणानामधिपतीन्, पितॄन् पितामहान् परन् अवरान् ततान् ततामहान्, अग्निं अग्निं अग्निं वैवस्वतं, मृत्युं, एतान्सर्वानाज्येनाहं यक्ष्ये”। अथ कन्या देवताऽभिध्यानं करोति- “अग्निं अग्निं अग्निं त्रिर्भगं लाजैरहं यक्ष्ये"।अथ वरः- “प्रजापतिं, अग्निं स्विष्टकृतमाज्येनाहं यक्ष्ये”। ततो ब्रह्मोपवेशनादि चरुवर्जं पर्युक्षणान्तं कर्म कुर्यात्। तत्र इयांस्तु विशेषः- आसादितपात्राणामुत्तरे शमीपत्रमिश्रलाजाः अश्मा अखण्डं लोहितमानडुहचर्म कुमार्या भ्राता तदभावे सकुल्यःशूर्पं दृढपुरुषः आचार्याय वरद्रव्यं पात्रासादनानन्तरं एतानि वस्तूनि उपकल्पयेत्। न प्रोक्षयेत्। पर्युक्षणान्ते सुवमादाय दक्षिणं जान्ववाच्य ब्रह्माऽन्वारब्धो जुहु-यात्। “ॐ प्रजापतये स्वाहा। इदं प्रजापतये न मम।ॐ इन्द्राय स्वाहा।इदमिन्द्राय० ॐ अग्नये स्वाहा।इदमग्नये०। ॐ सोमाय स्वाहा। इदं सोमाय० ॥ ॐ भूः स्वाहा इदमग्नये०।ॐ भुवः स्वाहा।इदं वायवे० ॐ स्वः स्वाहा। इदं सूर्याय०। ॐ त्वन्नो अग्ने० स्मत्स्वाहा। इदमनीवरुणाभ्यां०। ॐ सत्वन्नो अग्ने० एधि स्वाहा। इदमग्नी-
वरुणाभ्यां०। ॐ अयाश्चाग्ने० जँस्वाहा। इदमग्नये अयसे०। ॐ ये ते शतं० स्वर्काः स्वाहा। इदं वरुणाय सवित्रे विष्णवे विश्वेभ्यो देवेभ्यो मरुद्भ्यः स्वर्केभ्यश्च। ॐ उदुत्तमं० स्याम स्वाहा। इदं वरुणायादित्यायादितये च०”। अथ ब्रह्माऽनन्वा-रब्धो राष्ट्रभृतो जुहोति। तद्यथा “ॐ ऋताषाडृतधामाऽग्निर्गन्धर्वः स न इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा व्वाट्। इदमृतासाहे ऋतधाम्नेऽग्नये गन्धर्वाय० १। ॐ ऋताषाडृतधामाग्निर्गन्धर्वस्तस्यौषधयोऽप्सरसो मुदो नाम ताभ्यः स्वाहा। इदमोषधी-भ्योऽप्सरोभ्यो मुद्भ्यो० २। ॐ सँहितो व्विश्वसामा सूर्यो गन्धर्वः स न इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा व्वाट्। इदँ सँ-हिताय व्विश्वसाम्ने सूर्याय गन्धर्वाय ० ३। ॐ सँहितो व्विश्वसामा सूर्यो गन्धर्वस्तस्य मरीचयोऽप्सरस आयुवो नाम ताभ्यः स्वाहा। इदं मरीचिभ्योऽप्सरोभ्य आयुभ्यो० ४। ॐ सुषुम्णः सूर्यरश्मिश्चन्द्रमा गन्धर्वः स न इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा व्वाट्। इदं सुषुम्णाय सूर्यरश्मये चन्द्रमसे गन्धर्वाय ० ५। ॐ सुषुम्णः सूर्यरश्मिश्चन्द्रमा गन्धर्वस्तस्य नक्षत्राण्यप्सरसो भेकुरयो नाम ताभ्यः स्वाहा। इदं नक्षत्रेभ्योऽप्सरोभ्यो भेकुरिभ्यो० ६। ॐ इषिरो व्विश्वव्यचा व्वातो गन्धर्वः स न इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा ब्वात्। इदमिषिराय विश्वव्यचसे व्वाताय गन्धर्वाय ०७। ॐ इषिरो विश्वव्यचा व्वातो गन्धर्वस्तस्यापो अप्सरस ऊर्ज्जो नाम ताभ्यः स्वाहा। इदमद्भ्योऽप्सरोभ्य ऊर्ग्भ्यो० ८। ॐ अभ्युः सुपर्णो यज्ञो गन्धर्वः स न इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा व्वाट्। इदं भुज्यवे सुपर्णाय यज्ञाय गन्धर्वाय ० ९। ॐ भुज्युः सुपर्णो यज्ञो गन्धर्वस्तस्य दक्षिणा अप्सरस-स्तावा नाम ताभ्यः स्वाहा। इदं दक्षिणाभ्योऽप्सरोभ्यस्तावाभ्यो० १०। ॐ प्रजापतिर्विश्वकर्मा मनो गन्धर्वः स न इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा व्वाट्। इदं
प्रजापतये व्विश्वकर्मणे मनसे गन्धर्वाय० ११। ॐ प्रजापति विश्वकर्मा मनो गन्धर्वस्तस्य ऋक्सामान्यप्सरस एष्टयो नाम ताभ्यःस्वाहा।इदमृक्सामेभ्योऽप्सरोभ्य एष्टिभ्यो० १२।अत्र केचित्तु अन्यथा मन्त्रप्रयोगं कुर्वन्ति तत्प्रदर्श्यते।”ऋताषाडृत-धामाऽग्निर्गन्धर्वःस न इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा व्वाट्।इति प्रथमः। तस्यौषधयोऽप्सरसो मुदो नाम ताभ्यः स्वाहे” ति द्वितीयः। एवं सर्वत्र मन्त्रेषु। अस्मिन्नपि पक्षे त्यागस्तु स एव। अथ जयाहोमः। ॐ चित्तं च स्वाहा। इदं चित्ताय०। ॐ चित्तिश्च स्वाहा। इदं चित्यै०।ॐ आकूतं च स्वाहा \। इदमाकूताय०। ॐ आकूतिश्च स्वाहा।इदमाकूत्यै०।ॐ व्विज्ञातं च स्वाहा।इदं व्विज्ञाताय० ॐ व्विज्ञातिश्च स्वाहा। इदं व्विज्ञात्यै०। ॐ मनश्च स्वाहा। इदं मनसे० ॐ शक्वरीश्च स्वाहा। इदं शक्करीभ्यो०। ॐ दर्शश्चस्वाहा। इदं दर्शाय०। ॐ पौर्णमासं च स्वाहा \। इदं पौर्णमासाय०। ॐ बृहच्च स्वाहा। इदं बृहते०।ॐ रथन्तरं च स्वाहा। इदं रथन्तराय०। ॐ प्रजापतिर्जयानिन्द्राय वृष्णे प्रायच्छदुग्रः प्रतनाजयेषु।तस्मै व्विशः समनमन्त सर्व्वाःस उग्रः स इ हव्यो बभूव स्वाहा। इदं प्रजापतये जयायेन्द्राय०”।अथाभ्यातानहोमः। “ॐ अग्निर्भूतानामधिपतिः स माऽवत्वस्मिन्ब्रह्मण्यस्मिन्क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन्कर्मण्यस्यां देवहूत्याँ स्वाहा। इदमग्नये भूतानामधिपतये०।ॐइन्द्रो ज्येष्ठानामधिपतिः स मा०। इदमिन्द्राय ज्येष्ठानामधिपतये०। ॐ यमः पृथिव्या अधिपतिः स मा०। इदं यमाय पृथिव्या अधिपतये०। प्रणीतोदक-स्पर्शः। ॐ वायुरन्तरिक्षस्याधिपतिः स मा०। इदं वायवेऽन्तरिक्षस्याधिपतये०।ॐ सूर्योदिवोऽधिपतिः स मा०। इदं सूर्याय दिवोऽधिपतये।ॐ चन्द्रमा नक्षत्राणामधिपतिः स मा०। इदं चन्द्रमसे नक्षत्राणामधिपतये।ॐ बृहस्पतिर्ब्रह्मणोऽधिपतिः स मा०। इदं बृहस्पतये
ब्रह्मणोऽधिपतये।ॐ मित्रः सत्यानामधिपतिः स मा०। इदं मित्राय सत्यानामधिपतये।ॐ व्वरुणोऽपामधिपतिः स मा०। इदं व्वरुणायायामधिपतये०।ॐ समुद्रः स्रोत्यानामधिपतिः स मा०। इदं समुद्राय स्रोत्यानामधिपतये०।ॐ अन्नँ साम्राज्यानाम-धिपति तन्मा०।इदमन्नाय साम्राज्यानामधिपतये०।ॐ सोम ओषधीनामधिपतिः स मा०। इदं सोमायौषधीनामधिपतये०। ॐ सविता प्रसवानामधिपतिः स मा०। इदं सवित्रे प्रसवानामधिपतये०। ॐरुद्रः पशूनामधिपतिः स मा०। इदं रुद्राय पशूना-मधिपतये०।उदकस्पर्शनम्। ॐ त्वष्टा रूपाणामधिपतिः स मा०। इदं त्वष्ट्रे रूपाणामधिपतये०।ॐ व्विष्णुः पर्वतानामधिपतिः स मा०। इदं व्विष्णवे पर्वतानामधिपतये०।ॐ मरुतो गणानामधिपतयस्ते मावन्त्वस्मिन्०। इदं मरुद्भ्यो गणानामधिपतिभ्यो०। ॐ पितरः पितामहाः परेऽवरे ततास्ततामहाः। इहमाऽवन्त्वस्मिन्०। इदं पितृभ्यः पितामहेभ्यः परेभ्योऽवरेभ्यस्ततेभ्यस्तता-महेभ्यश्च०। उदकस्पर्शनम्"। एते अष्टादश मन्त्रा अभ्यातानसंज्ञकाः। ॐ अग्निरैतु प्रथमो देवतानाँ सोऽस्यै प्रजां मुञ्चतु मृत्युपाशात्। तदयँ राजा व्वरुणोऽनुमन्यतां यथेयँस्त्री पौत्रमघन्नरोदात्स्वाहा।इदमग्नये०। ॐ इमामग्निस्त्रायतां गार्हपत्यः प्रजामस्यै नयतु दीर्घमायुः। अशून्योपस्था जीवतामस्तु माता पौत्रमानन्दमभिविबुध्यतामियँ स्वाहा। इदमग्नये०। ॐ स्वस्ति नो अग्ने दिवा पृथिव्या व्विश्वानि धेह्ययथा यजत्र।यदस्यां महि दिवि जातं प्रशस्तं तदस्मासु द्रविणं धेहि चित्रँ स्वाहा।इदमग्नये०। ॐ सुगन्नु पन्थां प्रदिशन्न एहि ज्योतिष्पध्ये ह्यजरन्न आयुः। अपैतु मृत्युरमृतं म आगाद्वैवस्वतो नो अभयं कृणोतु स्वाहा।इदं वैवस्वताय०।ॐ परं मृत्यो अनु परेहि पन्थां यस्तेअन्य इतरो देवयानात्। चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजाँरीरिषो मोत व्वीरान्स्वाहा। इदं
मृत्यवे"। केचित्प्राशनादूर्ध्वं “परं मृत्यो अन्वि” ति मन्त्राहुतिमिच्छन्ति। उदकस्पर्शः। अथ कुमार्या भ्राता उपकल्पितान् शमीपत्रमिश्रान् लाजान् शूर्पकृतान् स्वेनाञ्जलिना गृहीत्वा कुमार्या अञ्जलावावपति।तान् लाजान् प्राङ्मुखी तिष्ठतीकुमारी अञ्जलिनाग्नौजुहोति “ॐ अर्यमणन्देवं कन्या अग्निमयक्षत।स नो अर्यमा देवः प्रेतो मुञ्चतु मा पतेः स्वाहा" इति मन्त्रेणाञ्जलिस्थि-तलाजानां तृतीयांशं जुहोति। “इदमग्नये। अर्यम्णेवा।ॐ इयं नार्युपब्रूतेलाजानावपन्तिका। आयुष्मानस्तु मे पतिरेधन्तां ज्ञातयो मम स्वाहा” इत्यनेनार्धंजुहोति। इदमग्नये। “ॐ इमाल्ँलाजानावपाम्यग्नौ समृद्धिकरणं तव।मम तुभ्य च संवननं तदग्निरनुमन्यतामियँ स्वाहा’’ इत्यनेन मन्त्रेणांजलिस्थासर्वान् लाजान् हुत्वा ‘इदमग्नये’।मन्त्रत्रयं कन्यैव पठति। अथ वरः कन्याया हस्तं साङ्गुष्ठमुत्तानं गृह्णाति “ॐ गृभ्णामि ते सौभगत्वायहस्तं मया पत्या जरदष्टिर्यथाऽऽसः।भगो अर्यमा सविता पुरन्धिर्मह्यं त्वाऽदुर्गार्हपत्याय देवाः।अमोऽहमस्मि सा त्वँसात्वमस्यमो अहम्। सामाहमस्मि ऋक्त्वं द्यौरहं पृथिवी त्वम्। तावेहि विवाहावहै सह रेतो दधावहै। प्रजां प्रजनयावहै पुत्रान्विद्यावहै बहून्।ते सन्तु जरदष्टयः संप्रियौ रोचिष्णू सुमनस्यमानौ। पश्येम शरदः शतं जीवेम शरदः शतंशृणुयाम शरदः शतम्" इत्यनेन मन्त्रसन्दर्भेण। अग्नेरुत्तरतो गत्वा ततो वरो वध्वा दक्षिणपादं सव्यह-स्तेन गृहीत्वा दक्षिणेन वा पूर्वोपकल्पितदृढदृषदुपरिकरोति “ॐ आरोहेममश्मानमरमेव त्वँस्थिरा भव। अभितिष्ठपृतन्यतोऽववाधस्व पृतनायतः" इत्यनेन मन्त्रेण। अथाश्मन्यारूढायां कुमार्यां गाथां गायति वरः – “ॐ सर-स्वति प्रेदमव सुभगे व्वाजिनीवति। यान्त्वा विश्वस्य भूतस्य प्रजायामस्याग्रतः।यस्यां भूतँसमभवद्यस्यां विश्वमिदं जगत्। तामद्य गाथां गास्यामि या स्त्रीणामुत्तमं यशः"। अथ वधूवरौ अग्निं प्रदक्षिणं कुरुतः – “ॐ तुभ्यमग्रे पर्यवहन्सूर्यां वहतु ना सह। पुनः पतिभ्यो जायां दाग्ने प्रजया
सह" इत्यनेन वरपठितेन मन्त्रेण। एवं लाजादि परिक्रमणान्तं पुनर्वारद्वयं कर्म कुर्यात्। ततस्तृतीयपरि-क्रमणानन्तरं कुमार्या भ्राता शूर्पकोणप्रदेशेन सर्वांल्लाजान् कुमार्यञ्जलावावपति तान् लाजाकुमारी तिष्ठ-ती “ॐ भगाय स्वाहा " इत्यनेन मन्त्रेण जुहोति। " इदं भगाय०"।ततः समाचारात्तूष्णीं चतुर्थं परिक्रमणं कुरुतः।नेतरथावृत्तिः। ब्रह्मणाऽन्वारब्धोवरः ॐ” प्रजापतये स्वाहा। इदं प्रजापतये०"।एनां वधूमुद-ङ्मुखीं सप्तपदानि प्रक्रामयति वरः। “ॐ एकमिषे विष्णुस्त्वा नयतु" इति वरेणोक्ते मन्त्रे वधूरेकं पादमुदग्ददाति। “हे ऊर्जे विष्णुस्त्वा नयतु” द्वितीयम्। “त्रीणि रायस्योषाय विष्णुस्त्वा नयतु" तृतीयम्। “चत्वारिमायोभवाय विष्णुस्त्वा नयतु" चतुर्थम्। “पञ्च पशुभ्यो विष्णुस्त्वा नयतु" पञ्चमम्।"षडृतुभ्यो विष्णुस्त्वा नयतु " षष्ठम्। “सखे सप्तपदा भव सा मामनुव्रता भव विष्णुस्त्वा नयतु” सप्तमम्। अथ वरः स्कन्धे कृतादुदकुम्भादुदकमादाय वधूमूर्द्धन्यभिषिञ्चति। “ॐ आपः शिवाः शिवतमाः शान्ताः शान्ततमास्तास्ते कृण्वन्तु भेषजम्" इत्यनेन मन्त्रेण। तथैव पुनरुदकमादाय “आपोहिष्ठेति” तृचं पठित्वा वधूमूर्धन्यभिषिञ्चति। अथ वरः “सूर्यमुदीक्षस्वे” ति वधूं प्रेषयति।सा प्रेषिता सती सूर्यमुदीक्षते “तच्चक्षुर्देवहितं पुरस्ताच्छुक्र“मिति मन्त्रं पठित्व!।बध्वा एव मन्त्रपाठः।दिवा विवाहश्चेत्सूर्योदक्षिणं भवेत्। ततो वरो वध्वाः स्कन्धोपरि दक्षिणहस्तं नीत्वा हृदयमालभते " मम व्रते ते हृदयं दधामि मम चित्तमनु चित्तन्ते अस्तु! मम वाचमेकमना जुषस्व प्रजापतिष्ठा नियुनक्तु मह्यम्” इत्यनेन मन्त्रेण हृदयमालभते। ततो वरो वधूमभिमन्त्रयते “ॐसुमङ्गलीरियं वधूरिमाँ समेत पश्यत।सौभाग्यमस्यै दत्वा याथास्तं विपरेत न " इत्यनेन मन्त्रेण। अत्र समाचाराद्वर्धू वरस्य वामभाग उपवेशयन्ति। तस्याः सीमन्ते वरः सिन्दूरं ददाति। ततोऽग्नेः प्राच्यां दिशि अनुगुप्त आगारे आनडुहे चर्मणि लोहिते प्राग्ग्रीवे उत्तरलोम्नि तां वधूं दृढपुरुषः उत्थाप्योपवेशय-
ति। “ॐ इह गावो निषदिन्त्विहाश्वा इह पूरुषाः। इहो सहस्रदक्षिणो यज्ञ इह पूषा निषीदन्तु”\। इति मन्त्रेण तत आगत्य पूर्ववद्यथास्थानमुपविश्य ब्रह्मणाऽन्वारव्धोवरः “ॐ अग्नये स्विष्टकृते स्वाहा। इदं स्विष्टकृते०"।ततः संस्रवप्राशनम्। ब्रह्मणे पूर्णपात्रदानम्। आचार्याय वरदानन्। भूयसीदक्षिणां दद्यात्। देशा-चारादक्षतचन्दनादिविप्राशीर्वचनमन्त्रपाठादिकं गृहीत्वा, दिवा विवाहश्चेदस्तमिते ध्रुवन्दर्शयति रात्रौचेद्वरदानानन्तरम्।"ॐध्रुवमसि ध्रुवं त्वापश्यामि ध्रुवैधि पौष्ये मयि मह्यं त्वाऽदात्।बृहस्पतिर्मया पत्या प्रजावती सं जीव शरदः शतम् ”।वध्वा एव मन्त्रपाठः।सा यदि ध्रुवंन पश्येत्तदाऽपि “पश्यामि” इत्येवं ब्रूयात्। नियमादिकं पूर्वोक्तमेवात्र ग्राह्यम्।
इति श्रीप्रथमशाखीयरामकृष्णविरचिते संस्कारगणतौ
विवाहप्रयोगः।
( नवमी काण्डका )
उपयमनप्रभृत्यौपासनस्य परिचरणमस्तमितानुदितयोर्दध्ना तण्डुलैरक्षतैर्वाऽग्नयेस्वाहा प्रजापतये स्वाहेति सायँसूर्याय स्वाहा प्रजापतये स्वाहेति प्रातः पुमाँसौ मित्रावरुणौ पुमाँसावश्विनावुभौ। पुमानिन्द्रश्च सूर्यश्च पुमाँसं वर्त्ततां मयि पुनः स्वाहेति पूर्वां गर्भकामा९॥
आवसथ्येऽग्नौहोममाह – “उपयमनप्रभृत्यौपासनस्य परिचरणम्” इतिसूत्रम्। उपयमनकुशादानादि औपासनस्यावथ्याग्नेः परिचरणे व्याख्यास्यते इति सूत्रशेषः। प्रभृतिप्रहणेन उपयमनान्कुशानादाय समि-धोऽभ्याधाय पर्युक्ष्य जुहुयादेतावल्लभ्यते। होमश्चात्रोपदिष्टः। होमेऽपि च सतिपरिचरणग्रहणादिति-कर्तव्यता न भवति। हस्तेनैवात्र होमः, इतिकर्तव्यताव्युदासात्। कथमितिकर्तव्यताव्युदास इति चेत् ? उपयम-
नप्रभृतीत्युक्तत्वात्। पर्युक्षणं च मणिकोदकेन। होमकालनियममाह “अस्तमितानुदितयोः" इतिसूत्रम्।अस्तमितश्च अनुदितश्च अस्तमितानुदितौ तयोः तत्कर्म कर्तव्यमिति शेषः। आवसथ्याघानानन्तरं अस्त-मिते सूर्येऽनुदिते च सर्वदा होमः कार्यो न सकृत्। येनैवं सूत्रकार आह “ततोऽस्तमितेऽस्तमितेऽग्निं परिचर्य दर्व्योपघातँसक्तून्सर्पेभ्यो बलिं हरे" दिति बलिहरणविधिपरे वाक्ये होमस्य नित्यत्वं ज्ञापयति।
अस्तमितलक्षणं कात्यायनेनोक्तम् -
यावत् सम्यङ्न भाव्यन्ते नमस्यृक्षाणि सर्वतः।
लोहितत्वं च नोपैति तावत्सायं तु हूयते॥
अनुदितस्तु द्विविधः – अनुदितश्च समयाध्युषितश्च। तथा च मनुः-
उदितेऽनुदिते चैव समयाध्युषिते तथे" ति।
तत्रानुदितः। तत्रास्माकं सूत्रे अनुदित एव परिचरणमुक्तम्। मनुवचने उदितग्रहणं शाखान्तरगृह्याभि-प्रायेण।मुख्यकाले यदा होमो न भवति तदा गौणकालेऽपि कार्यः। तथा च मण्डनः-
मुख्यकाले यदाऽवश्यं कर्म कर्तुं न शक्यते।
गौणकालेऽपि कर्तव्यं गौणोऽप्यत्रेदृयो भवेत्॥
गौणकालपरिमाणमपि तेनैवोक्तम् –
आसायमाहुतेः कालात्कालोऽस्ति प्रातराहुतेः।
प्रातराहुतिकालात्माक्कालः स्यात्सायमाहुतेः॥ इति।
मुख्यकालातिक्रमे प्रायश्चित्तपूर्वकं गौणकालेऽनुष्ठानम्। गौणकालातिक्रमे तु लोप एव, प्रायश्चित्तद्वय-मात्रम्।एकमविज्ञातम्।
सन्ध्योपासनहानौ च नित्यस्नानं विलोप्य च।
होमं च नैत्यकं शुद्ध्येत्सावित्र्यष्टसहस्रकृत्॥
इति प्रजापत्युक्तं द्वितयिम्।होमे कर्तारः स्वयं स्वस्थासम्भवे पत्न्यादयः। प्रयोगरत्नेस्मृतौ -
पत्नी कुमारी पुत्रो वा शिष्यो वाऽपि यथाक्रमम्
पूर्वपूर्वस्य चाभावे विदव्यादुत्तरोत्तरः॥
स्मृत्यर्थसारेऽपि -
यजमानः प्रधानं स्यात्पत्नी पुत्रश्च कन्यका।
ऋत्विक् शिष्यो गुरुर्भ्रता भागिनेयः सुतापतिः॥
एतैरेव हुतं यच्च तद्धुतं स्वयमेव तु।
पत्नी कन्या च जुहुयाद्विना पर्युक्षणक्रियाम्॥
अत्र वचनात्पत्न्यादीनां मन्त्रपाठेऽधिकारः।केवलं पर्युक्षणेऽनधिकारः।अग्निहोत्रे तु -
न वा कन्या न युवती नाल्पविद्यो न बालिशः।
होता स्यादग्निहोत्रस्य नार्तो नासंस्कृतस्तथा॥ इति।
पत्नी स्यादुद्देशस्यागे। कारिका -
असन्निधौ तु पत्न्याः स्यादध्वर्युस्तदनुज्ञया।
उन्मादे च प्रत्यृतौ च कुर्वीतानुज्ञया विना॥
मण्डनः—
त्यागं तु सर्वथा कुर्यात्तत्राप्यन्यतरस्तयोः।
उभावप्यसमर्थौ चेन्नियुक्तः कश्चन त्यजेत्॥
“दध्ना तण्डुलैरक्षतैर्वा” इति सूत्रम्।गव्येन दध्ना वा व्रीहितण्डुलैर्वाऽक्षतैर्यवैर्वा जुहुयादित्यर्थः। तेषामभावे शाखान्तरगृह्यपरिशिष्टोक्तानि द्रव्याणि ग्राह्याणि। तत्र प्रयोगरत्ने- “पयो दधिसर्पिर्यवागूरोदनं तण्डुलाः सोमस्तैलमाषा व्रीहयो यवास्तिला इति हौम्यानि, तण्डुला नीवारश्यामाकयावनालानाम्।व्रीहिशालियवगोधूमप्रियङ्गवः स्वरूपेणापि होम्यास्तिलाःस्वरूपेणैव शतं चतुःषष्ठिर्वाऽऽहुतिर्व्रीहितुल्यानां तदर्धा तिलानां तदर्धं सर्पिस्तिलयोस्तैलं च तिलजर्त्तिलातसीकुसुमम्। येन प्रथमां देवतां जुहुयात्तेनैव द्वितीयां जुहुयाद्येन च सायं जुहुयात्तेनैव प्रातरिति”। अत्र तेनैव प्रातरिति प्रतिनिधिवर्ज्जम्। बृह-स्पतिस्त्वाहुतिप्रमाणमाह -
प्रस्थधान्यं चतुःषष्ठेराहुतेःपरिकीर्त्तितम्।
तिलानां च तदर्धंतु तण्डुला व्रीहिभिः समाः॥
प्रस्थः प्रसृतिद्वयं मानम्। **“प्रस्थं मानचतुष्टय"**मिति। बौधायनस्तु
व्रीहीणां वा यवानां वा शतमाहुतिरिष्यते ॥
अगस्त्यः–
द्रवद्रव्यस्य मानं स्याद्धारा गोकर्णदीर्घिका॥
सिद्धान्तशेखरे-
अन्नं ग्राससमं प्रोक्तं लाजा मुष्टिमिता मता॥ इति।
दधिपक्षे तण्डुलपक्षे च शेषप्राशनम्।अक्षतपक्षे त्वभावः। अनदनीयत्वादिति भर्तृयज्ञः। “अग्नये स्वाहा प्रजापतये स्वाहेति सायँसूर्याय स्वाहा प्रजापतये स्वाहेति प्रातः” इति सूत्रम्।तत्र सायंकाले “अग्नये स्वाहे” ति पूर्वाहुतिंजुहोति “प्रजापतये स्वाहे”ति उत्तरां च जुहोति। प्रातःकाले “सूर्याय स्वाहे” ति पूर्वाहुतिं हुत्वा “प्रजापतये स्वाहे " त्युत्तरां च जुहुयात्। “पुमाँसौ मित्रावरुणौपुमाँसावश्विनावुभौ। पुमानिन्द्रश्चसूर्यश्च पुमाँसं वर्ततां मयि पुनः स्वाहेति पूर्वांगर्भकामा” इति सूत्रम्।यदि गर्भकामा पत्नी भवति तदा सायं प्रातः पूर्वाहुतिं पत्न्येव “पुमाँसौ मित्रावरुणा” वित्यनेन मन्त्रेण जुहोति। उत्तरमाहुतिं यजमान एव जुहोति। सर्वत्र होमे प्रतिमन्त्रमोङ्कारः।
नोङ्कुर्याद्धोममन्त्राणां पृथगादिषु कुत्रचित्।
अन्येषां चाविकृष्टानां कालेनाचमनादिना॥
इतिवचनात्। अविकृष्टानामनन्तरितानां कालेन आचमनादिना वेतिहरिहरः। मन्त्रार्थः - - एतेषां देवानामेतौ युग्मौ ममाहुत्या मद्दत्तया परितुष्टौ सन्तौ मयि विषये पुमांसं पुंल्लक्षणं गर्भं वर्ततां उत्पादयतामिति।
** इति श्रीमथमशाखीयरामकृष्णविरचिते पारस्करगह्यसूत्रविवरणे संस्कारगणपतौ प्रथमकाण्डे नवमी कण्डिका।**
अथास्य स्पष्टप्रयोगः। तत्रावसथ्याधानोत्तरकालं तस्मिन्नेव दिने हविर्भोजनात् प्राक् यजमानो होमारम्भनिमित्तं मातृपूजनपूर्वकं नान्दीश्राद्धं कुर्यात्। ततः कृतसन्ध्यावन्दनोऽग्नेरुत्तरत उपविश्य प्राणानायम्य देश-
कालौ संकीर्त्य”अग्निरूपपरमेश्वरप्रीत्यर्थं औपासनहोमं करिष्ये" इति संकल्प्य, वैकल्पिकं द्रव्यमवधार्योपयमनकुशानादाय सव्ये कृत्वा दक्षिणेन हस्तेन तिस्रः समिधोऽभ्यादाय मणिकोदकेन पर्युक्ष्य प्रदीप्तेऽग्नौ शतसंख्यान् प्रस्थस्य चतुःषष्ठितमभागमितान्वा तण्डुलानादाय अङ्गुल्युत्तरपार्श्वेनसमिन्मूलतो द्वयङ्गुलप्रदेशे “ॐ अग्नये स्वाहे" ति जुहोति। “इदमग्नये नममे" ति त्यागं विधाय क्षिपेत्। संस्रवरक्ष-णम्।पुनस्तण्डुलानादाय “ॐ प्रजापतये स्वाहे” त्युपांशक्त्वा “इदं प्रजापतये नममे” ति त्यागं विधाय क्षिपेत्। संस्रवरक्षणम्। पत्नी “पुमा<MISSING_FIG href="../books_images/U-IMG-1698989924Screenshot2023-10-16124911.png"/>सा" वित्यनेन मन्त्रेण गर्भकामा चेत्पूर्वामाहुतिं जुहोति। इदं मित्रावरुणाभ्यामश्विभ्यामिन्द्राय सूर्याय नममे“तित्यागो यजमानस्य।संस्रवप्राशनम्। पत्नीकिर्तृकहोमशेषस्य पत्न्येवप्राशनं करोति। अत्र “समास्त्वा” सूक्तं नवकण्डिकात्मकं जपेत्। अन्याँश्चाप्यग्निस्तावकान्मन्त्रान् श्लोकाँश्च पठेत्। इति सायं होमः।
अथ प्रातर्होमे विशेषः। उदयात्पूर्वं सायंद्रव्येणैव “**ॐ सूर्याय स्वाहे”**ति पूर्वाऽऽहुतिः “**ॐ प्रजापतये स्वाहे”**ति उत्तराऽऽहुतिः। यथा दैवतत्यागौ। गर्भकामा चेदत्रापि “पुमाँसा” विति होमः। अत्र “व्विभ्राडि“त्यनुवाकेनोपस्थानमिति जयरामभाष्ये। इति प्रातर्होमेविशेषः। अन्यत्सर्वं सायंहोमवत्। एवमुपयमनकुशादानादि प्रत्यहमौपानसस्य परिचरणम्। अथापत्काले कर्तव्यो होमद्वयसमासप्रयोगः। तत्र पूर्ववत्सायंकालीनाहुतिद्वयं हुत्वा कंचित्कालं निमील्य पुनः कुशादानादि पर्युक्षणान्तं कृत्वा श्वःकर्तव्यं प्रात-राहुतिद्वयमपकृष्य जुहुयादिति प्रयोगरत्ने। हरिहरमिश्रैस्तुतन्त्रेण होमो लिखितः। स चैवं पर्युक्षणान्तं कृत्वा " अग्नये स्वाहे”ति हुत्वा तथैव “सूर्याय स्वाहे“ति हुत्वा आहुतिद्वयपर्याप्त होमद्रव्यमादाय “प्रजापतये स्वाहे” ति सकृज्जुहुयात्।
अथ गुर्वापदि पक्षहोमः। तत्र प्रतिपदि सायंकाले उपयमनानादाय पर्युक्षणान्तं कृत्वा आहुतिप्रमाणेन तण्डुलान्पात्रद्वये प्रतिपात्रं चतुर्दशवारं गृहीत्वा होमकाले प्रथमपात्रस्थान् “अग्नये स्वाहे” ति जुहुयात्।
ततो द्वितीयपात्रस्थान् “प्रजापतये स्वाहे” ति जुहुयात्। एवं द्वितीयायां प्रातः पर्युक्षणान्तं कृत्वा पूर्ववत्पात्रद्वये तण्डुलान्कृत्वा “सूर्याय स्वाहे” ति प्रथमपात्रस्थान् हुत्वा “प्रजापतये स्वाहे”ति द्वितीयपात्रस्थान् तण्डुलान् जुहुयात्। पक्षमध्ये वा आपत्तावागामिचतुर्दशीसायं कालीयहोमे तान् शेषहोमान् सायं समस्येत् पर्वप्रातर्होमाँश्च। प्रातः शेषहोमान् समस्येत्। सर्वथा पर्ववत्सायंप्रातर्होमान् यथाकालं कुर्यात्, इति प्रयोगरत्ने। अनापदि पक्षहोमे प्रायश्चित्तमुक्तं देवयाज्ञिकपद्धतौ-
अनातुरोऽप्रवासी व निश्चिन्तो निरुपद्रवः।
पक्षहोमं तु यः कुर्यात्स चरेत्पतितव्रतम्॥
इति श्रीप्रथमशाखीयरामकृष्णविरचिते गृह्यसूत्रविवरणे
संस्कारगणपतौ होमविधिः।
<MISSING_FIG href=”../books_images/U-IMG-1698990180Screenshot2023-11-03084146.png”/>
( अथ दशमी कण्डिका )
राज्ञोऽक्षभेदे नडविमोक्षे यानविपर्यासेऽन्यस्यां वा व्यापत्तौ स्रिपाश्चोद्वहने तमेवाग्निमुपसमाधायाज्यसंस्कृत्येह रतिरिति जुहोति नानामन्त्राभ्यामन्यद्यानमुपकल्प्यतत्रोपवेशयेद्राजान<MISSING_FIG href=”../books_images/U-IMG-1698990358Screenshot2023-10-16124911.png”/>स्त्रियं वा प्रतिक्षत्र इति य
ज्ञान्तेनात्वाहार्षमिति चैतमा धुर्यौदक्षिणा प्रायश्चित्तिस्ततो ब्राह्मणभोजनम्॥१०॥
अथ नैमित्तिकमुच्यते “राज्ञोऽक्षभेदे नद्धविमोक्षे यानविपर्यासेऽन्यस्यां वा व्यापत्तौ स्त्रियाश्चोद्वहने " इति सूत्रम्।राज्ञः प्रजापालनकर्तुर्देशान्तरे प्रस्थितस्य युद्धे वा प्रस्थितस्य अक्षभेदे रथावयवभङ्गे नद्धविमोक्षे नद्धस्य रथस्य विमोक्षे आकस्मिकबन्धविच्छेदे वा यानविपर्यासे हयरथादिके वा अधोभावापत्तौ अन्यस्यां वा कस्यां चिदापत्तौ अशुभसूचकोत्पाते स्त्रियाश्चोद्वहनेस्त्रिया वध्वाः पितृगृहाद्भर्तृगृहं प्रति प्रथमागमने
चकाराद्रथक्षोभादिनिमित्ते नैमित्तकमिदमुच्यते। “तमेवाग्निमुपसमाधाये” ति सूत्रम्।राज्ञश्चेन्निमित्तं तदा सेनाग्निं स्त्रियश्चेत्तदा वैवाहिकाग्निमुपसमाधाय स्थापयित्वा, “आज्यँसँस्कृत्य इति सूत्रम्।आज्यसंस्कारं निरुप्याज्यमित्यादिना कृत्वा, “इहरतिरिति जुहोति नानामन्त्राभ्या” मिति सूत्रम्। एष एव विधिस्त्वनेनैवाज्यसंस्कारस्य प्राप्तत्वादत्राज्यं संस्कृत्येति ग्रहणमिह रतिरित्याहुत्योराघारादिभ्योऽपि पूर्वकालत्वज्ञापनार्थम्।नानाग्रहणादत्र द्वे आहुती “इह रति” रित्यको “उपसृज’ मिति द्वितीया। तत आघारादि “अन्यद्यानमुपकल्प्य तत्रोपवेशयेद्राजान<MISSING_FIG href=”../books_images/U-IMG-1698990983Screenshot2023-10-16124911.png”/>स्त्रियं वा प्रतिक्षत्र इति यज्ञान्तेनात्वाहार्षमिति चैतया" इति सूत्रम्।ततस्त्वन्यद्यानं वाहनं स्थादिकमुपकल्प्य तत्र तस्मिन्याने वाहने राजानं स्त्रियं वा वधूमुपवेशयेत् “प्रतिक्षत्र” इति मन्त्रेण यज्ञ इत्यन्तेन। “**आत्वाऽहार्ष"**मिति चैतया ऋचोपवेशयेत्। एवं च मन्त्राभ्यामुपवेशनम्। अत्रोपवेशयेदिति ण्यन्तत्वादध्येषणं “याने उपविशस्वे” ति। तच्च राज्ञो ब्रह्मकर्तृकम्। वध्वा वरकर्तृकम्। अत्र “परादिना पूर्वान्त” इति न्यायाभावा “त्तेषां वाक्य“मित्यनेन च प्रतितिष्ठामीत्येतदन्तमन्त्रप्राप्तौ यज्ञान्तग्रहणं वाक्यसमुच्चयविधानार्थम्। “आत्वार्ष” मिति ऋक्त्वात्सम्पूर्णायाः पाठः।” तेषां वाक्यम्" इत्यत्र तच्छब्देन यजुषां परामर्शात्। अतश्च यत्र ऋक्प्रतीकग्रहणं तत्र सम्पूर्णायाः पाठ “स्त्वन्नो अग्न” इत्यादौ। “धुर्यौदक्षिणाप्रायश्चित्तिः" इति सूत्रम्। अत्र धुर्यावनड्वाहौ दक्षिणा भवतीति शेषः। दक्षिणान्तरस्य निवृत्तिर्दृष्टान्तरत्वात्। प्रायश्चित्तिरिति चास्यकर्मणः संज्ञा। ततो ब्राह्मणभो-जनम्। ततः कर्मान्ते ब्राह्मणस्य एकस्य भोजनं कार्यम्।
इति श्रीप्रथमशाखीयरामकृष्णविरचिते गृह्यसूत्रविवरणे
संस्कारगणपतौ प्रथमकाण्डे दशमी कण्डिका॥
अथास्य प्रयोगः। तत्र निमित्ते जाते पञ्चभूसंस्कारपूर्वकमग्नेः स्थापनम्। ततो ब्रह्मोपवेशनादि पर्युक्षणान्तं कृत्वा। “इदमनये न म-
मे” ति द्वयोस्स्यागौ। तत आघारादि प्रणीता विमोकान्तं कृत्वा धुर्यावनड्वाही दत्वा अन्यद्यानमानीय तत्र राजानं “प्रति क्षत्रे प्रति तिष्ठामि। आत्वाहार्ष” मिति मन्त्राभ्यामुपविशस्वेति अध्येषणपूर्वकमुपवेशयेत्। वधूमेताभ्यामेव मन्त्राभ्यामुपवेशयत्। ततो ब्राह्मणभोजनम्॥
इति श्रीमथमशाखीयरामकृष्णविरचिते संस्कारगणपतौ
प्रायश्चित्तिप्रयोगः॥
अथ ऐरिणीपूजनं विवाहाच्चतुर्थदिने रात्रौ। तत्र भद्रादिसम्भवे दिन एववा शिष्टाचारपरिप्राप्तं वरमात्रे तत्समायै वा ऐरिण्याख्यक्षुद्रवंशषोडशशूर्पयुतमहावंशपात्रदानं कार्यं कन्यादात्रा।तथा चोक्तं धर्मप्रवृत्तौ-
उत्थायापररात्रे तु चतुर्थ्यां कन्यकापिता।
कुर्वीत मङ्गलस्नानं भार्या चैव हि तस्य तु॥
दम्पती मंगलस्नानं कृत्वा वस्त्रं च धारयेत्।
ताभ्यां च वाससी दद्यादैरिणीं पूजयेदथ॥
पित्रे वरस्य मात्रे च दद्याद्वस्त्राणि चैकतः।
वरमातुः करे दद्याद्वंशपात्रं सुपूजितम्॥
अकृते दोषमाहस एव -
वंशदानं विना यस्तु मण्डपोद्वासनं यदि।
अज्ञानात्कुरुते मूढो दम्पत्योः क्षयमायुषः॥
अग्नैरिणीस्वरूपम्-
सवस्त्रफलताम्बूलं दम्पत्योर्वंशवर्धनम्।
ऐरिण्याख्यं वंशपात्रं पक्वान्नैःपरिपूरितम्॥
करकैरुद्रसंख्याकैःसुवर्णपरिपूरितैः।
एतावदैरिणीरूपं कर्तव्यं किल सूरिभिः॥
एवं सम्पाद्य कन्यादाता सभार्यो देशकालौ स्मृत्वा “विवाहस्य सम्पूर्णफलप्राप्तये वरस्य तत्पितृमातृभ्रात्रादीनां च तत्पक्षीयाणां यथाविभवं वस्त्रादिभिः पूजनमहं करिष्ये”। इति वरस्य तत्पितृमातृभ्रात्रादिभ्यःक्रमेण यथाविभवं वस्त्रादि दत्वा, पुनस्तिथ्यादि सङ्कीर्य “ममो-
मामहेश्वरप्रीतिद्वारा कन्यादानफलसम्पूर्णतायै वंशाभिवृद्धये च ऐरिणीपूजनं वरमात्रे ऐरिणीदानं च करिष्ये”।
ऐरिणी त्वमुमा देवी महेशो गिरिजापतिः।
अतस्त्वां पूजयिष्यामि ऐरिणीं सर्वकामदाम्॥
सवस्त्रां च सदीपां च शूर्पैःषोडशभिर्वृताम्।
वरमात्रे प्रदास्यामि कन्यादानस्य सिद्धये॥
इति संकल्प्य महावंशपात्रे उमामहेश्वरौ षोडशोपचारैः पूजयित्वा वंशपात्रं वरमात्रे दत्वा मन्त्रान्पठेत्।
वंशो वंशकरः श्रेष्ठो वंशो वंशसमुद्भवः।
अनेन वंशदानेन तुष्ट ऋद्धिं करोतु मे॥
वंशपात्रमिदं पुण्यं वंशजातिसमुद्भवम्।
वंशानामुत्तमं दानमतः शान्ति प्रयच्छ मे॥
वंशपात्राणि सर्वाणि मया संपादितानि वै।
उमाकान्ताय दत्तानि मम गोत्राभिवृद्धये॥
वंशवृद्धिकरं दानं सौभाग्यादिसमन्वितम्।
वस्त्रेणाच्छादितं पूगफलहेमसमन्वितम्॥
सर्वपापक्षयकरं नानाद्रव्यैश्च पूरितम्।
दानानामुत्तमं दानमतः शान्तिं प्रयच्छ मे॥
ततो वरपितृमात्रुत्सङ्गयोः पृथक् पृथगुपवेश्य पृथगुक्त्वा प्रार्थयेत् -
सप्तवर्षा त्वियं कन्या पुत्रवत्पालिता मया।
इदानीं तव पुत्राय दत्ता स्नेहेन पाल्यताम्॥
वरमात्रा वधूमात्रादितत्पक्षीयसुवासिनीभ्यः सकञ्चुकक्षुद्रवंशशूर्पवायनदानादि वध्वा कारणीयमित्याद्याचारप्राप्तं यथाचारं ज्ञेयम्। इदमैरिणीपूजादि वधूपितृभ्यामभुक्तवद्भ्यां कृत्वा भोजनं कार्यम्।
इति श्रीप्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्राविवरणे
संस्कारगणपतौ ऐरिणीपूजनम्॥
एकादशी कण्डिका
चतुर्थ्यामपररात्रेऽभ्यन्तरतोऽग्निमुपसमाधाय दक्षिणतो ब्रह्माणमुपवेश्योत्तरत उदपात्रं प्रतिष्ठाप्यस्थालीपाक<MISSING_FIG href=”../books_images/U-IMG-1698991533Screenshot2023-10-16124911.png"/>श्रपयिस्वाऽऽज्यभागाविष्ट्वाऽऽज्याहुतीर्जुहोत्यग्ने प्रायश्चित्ते त्वन्देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि याऽस्यै पतिघ्नी तनुस्तामस्यै नाशयस्वाहा।वायो प्रायश्चित्ते त्वन्देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि याऽस्यै प्रजाघ्नी तनूस्तामस्यै नाशयस्वाहा। सूर्य प्रायश्चित्ते त्वन्देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि याऽस्यै पशुन्घीतनूस्तामस्यै नाशय स्वाहा।चन्द्र प्रायश्चित्ते त्वन्देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि याऽस्यै गृहन्घीतनूस्तामस्यै नाशय स्वाहा। गन्धर्वप्रायश्चित्ते त्वन्देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि याऽस्यै यशोघ्नीतनूस्तामस्यै नाशय स्वाहेति स्थालीपाकस्य जुहोति प्रजापतये स्वाहेति हुत्वा हुत्वैतासामाहुतीनामुदपात्रे स<MISSING_FIG href="../books_images/U-IMG-1698991533Screenshot2023-10-16124911.png"/>स्र-वान्समवनीय तत एनां मूर्द्धन्याभिषिञ्चति याते पतिघ्नीप्रजाघ्नी पशुघ्नी गृहघ्नीयशोघ्नी निन्दिता तनूर्जारघ्नीन्तत एनां करोमि सा जीर्यत्वं मया सहासावित्यथैना<MISSING_FIG href="../books_images/U-IMG-1698991533Screenshot2023-10-16124911.png"/>स्थाली पाकं प्राशयति प्राणैस्ते प्राणान्सन्दधाम्यस्थिभिरस्थीनि मा<MISSING_FIG href="../books_images/U-IMG-1698991533Screenshot2023-10-16124911.png"/>सैर्मा<MISSING_FIG href="../books_images/U-IMG-1698991533Screenshot2023-10-16124911.png"/>सानि त्वचा त्वचमिति तस्मादेवंविच्छ्रोत्रियस्य दारेण नोपहासमिच्छेदुत ह्येवंवित्परो भवति तामुदुह्ययथर्तुप्रवेशनं यथाकामी वा काममाविजनितोः सम्भवामेति वचनादथास्यै दक्षिणा<MISSING_FIG href="../books_images/U-IMG-1698991533Screenshot2023-10-16124911.png"/>समधिहृदयमालभते यत्ते सुशीमे हृदयन्दिवि चन्द्रमसि श्रितम्। वेदाहं
तन्मान्तद्विद्यात्पश्येम शरदः शतञ्जीवेम शरदः शतँशृणुयाम शरदः शतमित्येवमत ऊर्ध्वम्॥ ११॥
“चतुर्थ्यामपररात्रेऽभ्यन्तरतोऽग्निमुपसमाधाय दक्षिणतो ब्रह्याणमुपवेश्योत्तरत उदपात्रं प्रतिष्ठाप्य स्थालीपाकँश्रपयित्वाऽऽज्यभागाविष्ट्वाऽऽज्याहुतीर्जुहोत्यग्नेप्रायश्चित्ते त्वन्देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि याऽस्यै पतिघ्नी तनूस्तामस्यै नाशय स्वाहा। वायो प्रायश्चित्ते त्वन्देवानां प्रायश्चित्तिरसि ब्रह्मणस्त्वा नाथकाम उपधावामि याऽस्यै प्रतिघ्नी तनूस्तामस्यै नाशय स्वाहा।सूर्य प्रायश्चित्ते त्वन्देशनां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि याऽस्यै पशुध्नी तनूस्तामस्यै नाशय स्वाहा। चन्द्रप्रायश्चित्ते त्वन्देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि याऽस्यै गृहघ्नी तनूस्तामस्यै नाशय स्वाहा।गन्धर्वप्रायश्चित्ते त्वन्देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि याऽस्यै यशोघ्नीतनूस्तामस्यै नाशय स्वाहेति” इति सूत्रम्। विवाहाद्या। चतुर्थी तिथिस्तस्यामपररात्रेऽन्तिमप्रहरेऽभ्यन्तरतो गृहमध्ये अग्निमुपसमाधाय वैवाहिकमग्निंस्थापयित्वा दक्षिणतो ब्रह्माणमुपवेश्य अग्नेर्दक्षिणतो ब्रह्मण उपवेशनार्थं कुशानास्तीर्य तत्र ब्रह्माणमुपवेश्योत्तरत उदपात्रं प्रतिष्ठाप्याग्नेरुत्तरतः प्रणीतास्थलं त्यक्त्वोदकयुक्तं पात्रं स्थापयित्वा स्थालीपाकँश्रपयित्वा स्थालीपाकं चरुं श्रपयित्वा आज्यभागाविष्ट्वाऽऽज्याहुतीर्जुहोति। आज्येना “ग्ने प्रायश्चित्त“इत्येतैः पञ्चभिर्मन्त्रैः पञ्चाहुतीर्जुहोति। अत्रापररात्रग्रहणं पूर्वाहव्युदासार्थम्। चतुर्थीकर्मणो विवाहाङ्गत्वाद्बहिः शालायां मा भूदित्यभ्यन्तरग्रहणम्। अग्निमुपसमाधायेति ग्रहणमभ्यन्तरग्रहणविधानार्थम्।गृह्यकारिकायांच-
ब्रवीम्यथ विवाहाङ्गं चतुर्थीकर्म विस्तरात्।
विवाहतश्चतुर्थेऽह्नि रात्रेरपरभागतः॥
गृहाभ्यन्तरतस्तत्स्यादप्यङ्गत्वान्नमण्डपे।
स्नात्वैतदाचरेत्कर्म ह्यवं कात्यायनोऽब्रवीत्॥
विवाहाग्नौभवेत्कर्म दम्पतीजातवेदसः॥
ब्रह्माणमुपवेश्येति च उदपात्रस्थापनावसरविधानायोक्तम्। ब्रह्माणमासन उपवेश्य प्रणीतास्थानादुत्तरतो वारिपूर्णमुदकपात्रं स्थापयेदित्यर्थः। अथोदपात्राग्न्योर्मध्ये प्रणिताप्रणयनम्। चरोर्भूतोपादानं मा भूदिति श्रपयित्वेत्युच्यते। आज्यभागाविष्ट्वेति ग्रहणमाहुतिकालविधानार्थम्। मन्त्रार्थः- हे अग्नेहे प्रायश्चित्ते सर्वदोषापाकरण ! यतस्त्वन्देवानामिन्द्रादीनां मध्ये प्रायश्चित्तिर्दोषापाकर्ताऽसि। अहं च ब्राह्मणः ब्रह्मण्यः वैदिको वा भूत्वा उपधावामि आराधयामि। किम्भूतोऽहं आशीष्काम ऐश्वर्यकामो वा प्रार्थयानो वा। उपधावनप्रयोजनमाह या अस्यै षष्ठ्यर्थेचतुर्थी। अस्या वध्वाः पतिघ्नीतनुस्तन्वा अवयवस्तामस्यै इमामुपकर्तुं नाशय अपनय तुभ्यं स्वाहा सुहुतमस्तु। समुदायवाचकोऽपि तनुशब्दोऽत्रावयववाचको ज्ञेयः। तेन यदस्याः पतिनाशकमलक्षणं हस्तरेखादि सामुद्रिकोक्तं तदपाकृत्य शोभनमङ्गं विधेहीति वाक्यार्थः। एवमुपर्यपि व्याख्येयम्। तनुविशेषणं देवता च भिद्यते। तद्यथा - हे वायो पवन ! प्रजाघ्नी अपत्यनाशिनी, एवमुत्तरत्रापि योज्यम्। “स्थालीपाकस्य जुहोति प्रजापतये स्वाहेति” इति सूत्रम्।आज्याहुत्यनन्तरं स्थालीपाकस्य चरोः प्रजापतये स्वाहेति मन्त्रेणोपांशुपठितेनैकमाहुतिंजुहोति। स्थालीपाकस्येत्यवयवलक्षणा षष्ठी। “हुत्वा हुत्वैतासामाहुतीनामुदपात्रे सँस्रवान्समवनीय तत एनां मूर्धन्यभिषिञ्चति। या ते पतिघ्नी प्रजाघ्नी पशुघ्नीगृहघ्नीयशोघ्नी निन्दिता तनूर्जारघ्नीं तत एनां करोमि साजॉर्यत्वं मया सहासाविति" इति सूत्रम्। एतासां षण्णामाहुतीनामेकैकामाहुतिं हुत्वोत्तरतः प्रतिष्ठापित उदपात्रे संस्रवान्समवनीय स्रुवलग्नाज्यचर्ववयवान्प्रक्षिप्य ततस्तस्मात्संश्रमिश्रमुदकं गृहीत्वैनां वधूं मूर्धनि मस्तकेऽभिषि-ञ्चति " या ते पतिघ्नी" ति मन्त्रेण।षण्णामाहुतीनामत्र संस्रवभक्षलोपः, इतरासां तु भवत्येव। कारिकायान्तु -
अग्न इत्यादिषण्मन्त्रान्हुत्वा हुत्वैव संस्रवान्।
वर्द्धिन्यां प्रक्षिपेदाहुः केचित्स्विष्टकृतोऽपि तु॥
अन्यासां प्रोक्षिणीपात्रे प्राशनाद्याविमोकतः।
अभिषिञ्चेद्वधूमूर्ध्नि प्रवालैर्वर्धिनीजलैः॥ इति।
हुत्वा हुत्वेति ग्रहणं सर्वाहुत्यन्ते संस्रवनिनयनं मा भूदित्येत्तदर्थम्। मूर्धामिषेकश्चागन्तुकत्वाद्दक्षिणादानान्ते भवति। " असौ " स्थाने आमन्त्रणविभक्तियुक्तं वध्वा नामग्रहणं कार्यम्। मन्त्रार्थः– हे असौ कन्ये ! या ते तव पत्यादिघातिनी पञ्चधा दुष्टा तनूःअत एव निन्दिता, ततोऽनेनाभिषेचनैनैनां तनूं जारघ्नीं उत्पातादिदोषघातिनीं करोमि।सा त्वं मया पत्या भर्त्रा सह जीर्य निर्दुष्टवृद्धत्वं गच्छ। “अथैनाँस्थालीपाकंप्राशयति प्राणैस्ते प्राणान्त्सन्दधाम्यस्थिभिरस्थीनि माँसैर्माँसानि त्वचा त्वचमिति" इति सूत्रम्। अथाभिषेकानन्तरमेनां वधूं स्थालीपाकं चरुं वरःप्राशयेत् “प्राणैस्ते प्राणान्” इति मन्त्रेण।वधूं संस्कारोऽयं न तु द्रव्यप्रतिपत्तिः। अतो द्रव्यस्य नाशदोषादावन्यद्रव्येण प्राशनं कार्यम्।
तदुक्तं कारिकायाम्—
वधूसंस्कार एवायं प्रतिपत्तिरियं न तु।
अतो द्रव्यविनाशादौ द्रव्येणान्येन तद्भवेत्॥
शेषद्रव्यविनाशादौ लुप्यन्ते प्रतिपत्तयः॥
अत्र स्त्रिया सह वरोऽपि समाचाराद्भोजनं करोति। स्त्रिया सह भोजनेऽपि न दोष इत्याह हेमाद्रौ प्रायश्चित्तकाण्डे गालवः–
एकयानसमारोह एकपात्रे च भोजनम्।
विवाहे पथि यात्रायां कृत्वा विप्रो न दोषभाक्॥
अन्यथा दोषमाप्नोति पश्चाच्चान्द्रायणं चरेत्॥
मिताक्षरायामप्येवम्। मन्त्रार्थः- हे कन्ये ! मे मम प्राणादिभिस्ते तव प्राणादीन्सन्दधामि संयोजयामि। “तस्मादेवंविच्छ्रोत्रियस्य दारेण नोपहासमिच्छेदत ह्येवंवित्परो भवति" इति सूत्रम्।हि यस्मादस्या एतेन प्राशनाख्यसंस्कारेण भर्त्रा सहैक्यंवृत्तं तस्माच्छ्रोत्रियस्य दारेणोपहासम-
भिगमनं नेच्छेत्। स चैवंविदेवं कुर्वन् परो भवति पराभवं गच्छति। यद्वा एवंविच्छोत्रियः परः शत्रुर्भवति। उत अप्यर्थे। निन्दार्थवादोऽयम्। परदाराभिगमनमतो न कार्यम्। उक्तं च काशीखण्डे —
एकतः सर्वमांसानि मत्स्यमांमं तथैकतः।
एकतः सर्वपापानि एकतः पारदारिकम्॥
इति श्रीप्रथमशाखीयरामकृष्ण विरचिते पारस्करगृह्यसूत्रविवरणे
संस्कारगणपतौ चतुर्थीकर्म समाप्तम्॥
अथ चतुर्थी कर्मणः स्पष्टप्रयोगो लिख्यते। अथ विवाहदिवसाचतुर्थदिनस्यापररात्रे स्नानं कृत्वा गृहमध्ये पञ्चभूसंस्कारान् कृत्वा विवाहाग्नेः स्थापनं वरः कुर्यात्। ततो वधूवरौ पश्चादग्नेरुपविशतः। दक्षिणतो वधूरुत्तरतो वरः। ततः प्राणानायम्य देशकालौ स्मृत्वा “विवाहाङ्गचतुर्थीकर्माहं करिष्ये” इति संकल्पं कृत्वा वैकल्पिकावधारणं करोति। “पूर्वेण ब्रह्मणो गमनम्।उत्तरेण पात्रासादनम्। द्वे पवित्रे। ताम्रमयी आज्यस्थाली। ताम्रमयी चरुस्थाली।पालाश्यः समिधः।प्राञ्चावाघारौ। समिद्धतमे आज्यभागौ। पूर्णपानन्दक्षिणा। एतान् वैकल्पिकान्पदार्थानहं करिष्ये"। ततो देवतामिध्यानम् - “प्रजापतिं, इन्द्रं, अग्निं, सोमं, आज्येन। अग्निं, वायुं, सूर्य, चन्द्रमसं, गन्धर्वं, आज्येनाहं यक्ष्ये। प्रजापतिं, चरुणा। शेषेण स्विष्टकृतं, अग्निं, वायुं, सूर्यं, अग्नीवरुणौ, अग्नीवरुणौ, अग्निं, वरुणं सवितारं विष्णुं विश्वान्देवान् मरुतः स्वर्कान्, वरुणं, प्रजापतिं, एताः पुनराज्येन, एता अङ्गप्रधार्थदेवता अस्मिन्कर्मण्यहं यक्ष्ये”। ततो ब्रह्मवरणम्– “अमुकशर्मन् अस्मिन्कर्माणि त्वं ब्रह्मा भव।भवामी” त्युत्वा ब्रह्मासन उपवेशयेत्। ततः प्रणीतास्थानादुत्तरतो वारिपूर्णमुदकपात्रं न्यसेत्। तत उदपात्राग्न्योर्मध्ये प्रणीताप्रणयनम्। परिस्तरणांद्याज्यभागान्तं पूर्ववत्। ततो ‘ऽग्ने प्रायश्चित्त’ इत्यादि-
भिः पञ्चमन्त्रैः पञ्चाज्याहुतीर्हुत्वा“ॐ अग्ने प्रायश्चित्ते त्वन्देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि याऽस्यै पतिघ्नीतनूस्तामस्यै नाशय स्वाहा।इदमग्नये०। ॐ वायो प्रायश्चित्ते त्वन्देवानां प्राय-श्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि याऽस्यै प्रजाघ्नीतनूस्तामस्यै नाशय स्वाहा।इदं वायवे०। ॐ सूर्य प्रायश्चित्ते त्वन्देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि याऽस्यै पशुघ्नी तनूस्तामस्यै नाशय स्वाहा।इदं सूर्याय०। ॐ चन्द्र प्रायश्चित्ते त्वन्देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि याऽस्यै गृहघ्नीतनूस्तामस्यै नाशय स्वाहा। इदं चन्द्रमसे०।ॐ गन्धर्व प्रायश्चित्ते त्वन्देवानां प्रायश्चित्तिसि ब्राह्मणस्त्वा नाथकाम उपधावामि याऽस्यै यशोघ्नीतनूस्तामस्यै नाशय स्वाहा। इदं गन्धर्वाय०। ततः स्थालीपाकेन “ॐ प्रजापतये स्वाहा। इदं प्रजापतये०"।इति प्राजापत्यं हुत्वा, अग्ने प्रायश्चित्तइत्यादि प्राजापत्यान्तानां षडाहुतीनां संस्रवमुदपात्रे प्रक्षिपेत्। केषांचिन्मते स्विष्टकृतोऽपि संस्रवमुदपात्रे प्रक्षिपेत्। अन्यासामाहुतीनां पात्रान्तरे संस्रवं क्षिपेत्। ततः ॐ अग्नये स्विष्टकृते स्वाहा। इदमग्नये स्विष्टकृते०।ॐ भूः स्वाहा।इदमग्नये०।ॐ भुवः स्वाहा।इदं वायवे०। ॐ स्वः स्वाहा। इदं सूर्याय०।ॐ त्वन्नो अग्ने०।इदमग्नीवरुणाभ्यां०।ॐ सत्वन्नो अग्ने०। इदमग्नविरुणाभ्यां०।ॐअयाश्चाग्ने०।इदमग्नये०।ॐ ये ते शतं०।इदं वरुणाय सवित्रे विष्णवे विश्वेभ्यो देवेभ्यो मरुद्भ्यः स्वर्केभ्यश्च०।ॐ उदुत्तमं०। इदं वरुणायादित्यायादि-तये०।ॐ प्रजापतये स्वाहा। इदं प्रजापतये० “। ततः संस्रवप्राशनम्।ब्रह्मणे पूर्णपात्रदानम्। तत, उदपात्रादुदकमादास वधूमूर्द्धन्यभिषिञ्चति**। “ॐ या ते पतिघ्नीप्रजाघ्नी पशुघ्नी गृहघ्नीयशोघ्नी निन्दिता तनूर्जारघ्नीन्तत एनां करोमि सा जीर्य त्वं मया सहामुकीदेवि “** इत्यनेन मन्त्रेण। अथ वरो वधूं स्थालीपाकं
हुतशेषं सकृत्प्राशयति। “ॐ प्राणैस्ते प्राणान्सन्दधाम्यस्थिभिरस्थीनि माँसैर्माँसानि त्वचा“मित्यनेन मन्त्रेण। सा च भर्तरि मन्त्रे पठिते प्राश्नाति। ततो वधूः शुद्धयर्थमाचामेत्। तत आवसथ्याधानं चेत्करोति तदा आवसथ्याधानं कुर्यात्॥
इति श्रीप्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्रविवरणे
संस्कारगणपतौ चतुर्थीकर्मप्रयोगः॥
<MISSING_FIG href=”../books_images/U-IMG-1698993111Screenshot2023-11-03093036.png”/>
अथ देवकोत्थापनमण्डपोद्वासनविधिः॥
अत्र कालः—
समे च दिवसे कुर्याद्देवकोत्थापनं बुधः।
षष्ठेच विषमे नेष्टं मुक्त्वा पञ्चमसप्तमौ॥
धर्मप्रवृत्तौ-
प्रतिष्ठादिनमारभ्य षोडशाहाच्च मध्यतः।
मण्डपोद्वासनं कार्यमुद्दाहे च व्रते दश॥
विवाहे षोडशाहमध्ये उपनयने दशाहमध्ये इत्यर्थः।समे षष्ठं विषमे पञ्चमं सप्तमं नेष्टम्, अन्यत्र शुभमित्यर्थः। विवाहपञ्चसु चतुर्थेऽहनि मातृविसर्जनम्, अन्यत्र कर्मान्ते इति गङ्गाधरः।विसर्जनं यावत्पारम्पर्यागतनियमयुक्तैर्भाव्यम्, इति वासुदेवपद्धतौ।श्रीवत्सभट्टकृतवाक्य सङ्ग्रन्हेऽप्येवमेव।
अथ प्रयोगः – उक्तकाले मण्डपान्तः सपत्नीकः स्वासने उपवेिश्याचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य”अद्य विवाहाङ्गत्वेन स्थापितदेवतानामुत्थापनं मण्डपोद्वासनं पुण्याहवाचनं च करिष्ये” इति सङ्कल्पं कृत्वा सर्वादेवताःप्रत्येकं पूजयित्वा, “ॐ उत्तिष्ठ ब्रह्मणस्पते०। उस्रावेतम्०।
यान्तु देवगणाः सर्वे पूजामादाय भूतलात्।
ऋद्धिं च विपुलां दत्वा पुनरागमनाय च॥
इति विसृज्य भगवत्यादीनां मण्डपात् तैलाभ्यङ्गोद्वर्तनोष्णोदकस्नानानि कारयित्वा वेष्टनसूत्रमुमुच्य स्वस्तिवाचनं कुर्यात्। ततो द्विजैरभिषेकः कार्यः।अभिषेकान्ते पुरोधास्तच्छत्वादि वंशपात्रे निघाय तदुपरिप्रदक्षिणाद्भिर्जलं सकुटुम्बयजमानाशिरसि किञ्चित्स्रावयेत्।“ॐदेवस्य त्वा० ३।सोमस्य त्वा०।पलाशं भवति ० “ ब्राह्मणं पठेत्। ततः कर्ता शिरसि बद्धाञ्जलि “रस्मद्गोत्रे पट्सु षट्सु मासेषु शोभनमस्त्वि” ति द्विजान्प्रार्थयेत्। ते च “तथास्त्वि” ति ब्रूयुः। ततः कङ्कणमोचनम्। तत्र मन्त्रः-
कङ्कणं मोचयाम्यद्य रक्षां तु न कदा चन।
मयि रक्षां विधायाशु देव ! त्वं गच्छ कङ्कण ! ॥
प्रथमतो वरकङ्कणम्, ततः कन्याकङ्कणम्।
बन्धनं कन्यकापूर्वं वरपूर्वं विमोचनम् \।
इति वचनात्। ततो द्विजांश्चन्दनताम्बूलदक्षणादिना पूजयित्वा तदाशिषो मन्त्रोक्ता गृह्णीयादित्यादि देशकुलाचारानुसारेण ज्ञेयम्।
इति श्रीप्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्रविवरणे
संस्कारगणपतौ देवकोत्थापनम्॥
अथ नान्दीश्राद्धानन्तरं मण्डपोद्वासनपर्यन्तं नियममाह-
नान्दीश्राद्धे कृते चैव यावन्मातृविसर्जनम्।
दर्शश्राद्धं क्षयश्राद्धं स्नानं शीतोदकेन च॥
उपवासं स्वधाकारं नित्यश्राद्धं तथैव च
ब्रह्मयज्ञं चाध्ययनं नदीसीपातिपातनम्॥
अपसव्यं व्रतं चैव तथैव श्राद्धभोजनम्।
सपिण्डा नैव कुर्वीरन्मण्डपोवासनावधि॥
तथा च वृद्धमनुः—
अपसव्यं स्वधां यात्रां शीताद्भिः स्नानमेव च।
सपिण्डा नैव कुर्वीरन्यावन्मातृविसर्जनम्॥
अथ प्रसङ्गतो विवाहादूर्ध्वं वर्ज्यानाह-
स्नानं सचैलं तिलमिश्रकर्म प्रेतानुयानं कलशप्रदानम्।
अपूर्वतीर्थामरदर्शनं च विवर्जयेन्मङ्गलतोऽब्दमेकम्॥
पितॄणामुद्देशेन कलशदानमित्यर्थः। गदाघरभाष्ये –
ऊर्ध्वं विवाहात्पुत्रस्य तथा च व्रतबन्धनात्।
आत्मनो मुण्डनं नैव वर्षं वर्षार्धमेव च॥
जीर्णभाण्डादि न त्याज्यं गृहसम्मार्जनं तथा।
हेमाद्रौ-
विवाहव्रतचूडासु वर्षमर्धं तदर्धकम्।
पिण्डदानं मृदा स्नानं न कुर्यात्तिलतर्पणम्॥
महालये गयाश्राद्धे मातापित्रोः क्षयेऽहनि।
कृतोद्वाहोऽपि कुर्वीत पिण्डनिर्वपणं सुतः॥
धर्मप्रवृत्तौ -
वृद्धे पितरि कर्तव्यं मातापित्रोः क्षयेऽहनि।
पिण्डनिर्वपणं कार्यं पितृव्यादेरपिण्डनम्॥
अथ वधूप्रवेशो ज्योतिर्निबन्धे-
वधूप्रवेशनं कार्यं पञ्चमे सप्तमे दिने।
नवमे च शुभे वारे सुलग्ने शशिनो बले॥
गर्गः-
वधूप्रवेशः प्रथमस्तृतीये शुभप्रदः पञ्चमकेऽथ वाऽह्नि।
द्वितीयके वाऽथ चतुर्थके वा षष्ठे वियोगामयदुःखदः स्यात्॥
नारदः–
आरभ्योद्वाहदिवसात्षष्ठे वाऽप्यष्टमे दिने।
वधूप्रवेशः सम्पत्यै दशमेऽथ समे दिने॥
वृद्धवशिष्ठोऽपि -
षष्ठेऽष्टमे वा दशमे दिने वा विवाहमारभ्य वधूप्रवेशः।
पञ्चाङ्गसंशुद्धिदिनं विनाऽपि विधावसद्गोचरगेऽपि कार्यः॥
तथा चोक्तंसङ्ग्रहे-
विवाहमारभ्य वधूप्रवेशो युग्मे तिथौ षोडशवासरान्तात्।
ऊर्ध्वं ततोऽब्देऽयुजि पञ्चमान्तादतः परस्तान्नियमो न चास्ति॥
चिन्तामणौ -
समाद्रिपञ्चाङ्कदिने विवाहाद्वधूप्रवेशोष्टि१६दिनान्तराले।
शुभः परस्ताद्विषमाब्दमासदिनेऽक्षवर्षात्परतो यथेच्छम्॥
अथ मासनिर्णयः। जयतुङ्गे विवाहपटले -
मार्गशीर्षे तथा माघे माधवे ज्येष्ठसंज्ञके।
सुप्रशस्तो भवेद्वेश्मप्रवेशो नवयोषिताम्॥
नक्षत्राणि व्यवहारतत्त्वे -
पौष्णात्कभाच्च श्रवणाच्च युग्मे हस्तत्रये मूलमघोत्तरामु।
पुष्ये च मैत्रे च वधूप्रवेशो रिक्तेतरे व्यर्ककुजे च शस्तः॥
अन्यत्रापि –
ध्रुवक्षिप्रमृदुश्रोत्रवसुमूलमघानिले।
वधूप्रवेशः सन्नेष्टो रिकारार्के बुधेऽपरै॥
अपरैर्बुधवारेऽपि नेष्टः।
भर्तुः शोभनगोचरे हिमकरे नास्तङ्गते भार्गवे
सूर्ये कीटघटाजगे शुभदिने पक्षेऽपि कृष्णेतरे॥
हित्वा दिक्प्रतिलोमगौ बुधसितौ लालाटिकं दिक्पतिम्
चानीता गुणशालिनी नववधूर्नित्योत्सवैर्मोदते॥
अथ प्रतिशुक्रविचारः–
नवबालवती नारी नवोढा चैव गर्भिणी।
न गच्छेत्पदमेकन्तु सन्मुखे भार्गवे सति॥
पितृवेश्मगता नारी सूयते तत्र सा यदि।
नैव गच्छेद्गृहंभर्तुः सार्भका सन्मुखे भृगौ॥
ज्योतिः प्रकाशे -
वामे शुक्रे नवोदायाः सुखं हानिश्च दक्षिणे।
धनं धान्यं च पृष्ठस्थे सर्वनाशः पुरः स्थिते॥
वीरमित्रोदये-
पूर्वतोऽभ्युदिते शुक्रे प्रयाया दक्षिणेऽपरे।
पश्चादभ्युदिते चैव यायात्पूर्वोत्तरे दिशौ॥
तथा भाद्रपदमारभ्य पूर्वादिमुख्यादिक्षु प्रतिदिशं मासत्रयं कपाटं ज्ञेयम्। चैत्रमारभ्य पूर्वाद्यष्टदिक्षु मुख्यदिक्षु मासद्वयं विदिक्ष्वैकं मासे क्रमेण कण्टकं जानीयात्। इदं द्वयं ग्रामान्तरे वधूगमने वर्ज्यम्। प्रतिशुक्रापवादमाह लल्लः–
स्वभवनपुरप्रवेशे देशानां विप्लवे तथोद्वाहे।
नववध्वा गृहगमने प्रतिशुक्रविचारणा नास्ति॥
माण्डव्यः–
नित्ययाने गृहे जीर्णे प्राशनान्तेषु सप्तसु
वधूप्रवेशमाङ्गल्ये न मौढ्यं गुरुथुक्रयोः॥
सङ्ग्रहे -
एकग्रामे पुरे वाऽपि दुर्भिक्षे राष्ट्रविप्लवे।
विवाहे तीर्थयात्रायां प्रतिशुक्रो न दुष्यति॥
चण्डेश्वरः -
पित्रागारे कुचकुसुमयोः सम्भवो वा यदि स्या-
त्पत्युः शुद्धिर्न भवति रवेः सन्मुखो वाऽथ शुक्रः।
शस्ते लग्ने गुणवति तिथौ चन्द्रताराविशुद्धौ
स्त्रीणां यात्रा भवति सफला सेवितुं स्वामिसद्म॥
ज्योतिर्निबन्धे-
नैकस्मिन्वत्सरे कार्यो गृहोद्वाहो कथञ्चन।
नवीनमन्दिरे कन्यां नवोढां न प्रवेशयेत्॥
तथा वधूप्रवेशो निश्येव कार्यो न दिवा।
वधूप्रवेशो न दिवा प्रशस्तो राजप्रवेशो न निशि प्रशस्तः।
दिवा च रात्रौ च गृहप्रवेशः प्रकीर्तितस्तु त्रिविधिः प्रवेशः॥
अथ नववध्वाः प्रथमवर्षे कुत्र वासो निषिद्धः। ज्योतिर्निबन्धे-
विवाहात्प्रथमे पौषे आपाढे चाधिमासके।
न सा भर्तृगृहे तिष्ठेच्चैत्रे तातगृहे तथा॥
आषाढो ज्येष्ठोपलक्षकः, अधिकः क्षयोपलक्षकः।
अथास्य स्पष्टप्रयोगः। स्वधूकोवरः मङ्गलतूर्यशब्दपूर्वको गृहं प्रविशेत्। “ॐ आनो भद्रा १ देवानां भद्रा २ तान्पूर्वया ३ तन्नो व्वातो ४ तमीशानं ५ स्वस्तिन इन्द्रो ६ पृषदश्वा ७ भद्रकर्णेभिः ८ शतमिन्तु शरदो ९ अदितिर्द्यौरदिति १० इतिमन्त्रैर्वधूं गृहं प्रवेश्य गणपतिं लक्ष्मीं च सम्पूज्य पुण्याहं वाचयित्वा विप्राशिषो गृह्णीयात्। तद्यथा- आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य “विवाहाङ्गभूतं लक्ष्मीपूजनमहं करिष्ये। तत्रादौ निर्विघ्नार्थं गणपतिपूजनं कलशस्थापनं च करिष्ये" सर्व सम्पाद्य लक्ष्मीं पूजयेत्। अथावाहनम् -
महालक्ष्मि ! समागच्छ पद्मनाभपदादिह।
यथोपपन्ना पूजेयं त्वदर्थ देवि ! सम्भृता॥
अथासनम् -
आलयस्ते हि कलितः कमलं कमलालये!।
कमले ! कमले हास्मिन्स्थितिं मत्कृपया कुरु॥
अथ पाद्यम्-
गङ्गादिसलिलाधारं तीर्थमन्त्राभिमन्त्रितम्।
दूरयात्राश्रमहरं पाद्यं तत्प्रतिगृह्यताम्॥
अथार्थम् –
शम्भुना संस्तुते ! देवि! इष्टसिद्धिवरप्रदे ! \।
शङ्खचक्रगदे ? देवि! गृहाणार्ध्यं नमोऽस्तु ते ॥
अथाचमनीयम् -
कर्पूरवासितं कृष्णावेण्या देवि!समागतम्।
ददाम्याचमनं देवि महालक्ष्मि नमोऽस्तु ते॥
अथ स्नानम् -
शिशिरं निर्मलं तोयं गङ्गादिभ्यो मयाऽऽहृतम्।
स्नानार्थं ते महालक्ष्मि ! गृहाण सुरपूजिते !॥
पञ्चामृतैः स्नानम्। अथ वस्त्रम्–
तन्तुसन्तान संसिद्धं कलाकौशलकल्पितम्।
सर्वाङ्गाभरणं श्रेष्ठं वसनं परिधीयताम्॥
अथ कञ्चुकी -
सरस्वतीप्रिये ! देवि ! सर्वालङ्कारभूषणे ?।
सर्वसौभाग्यदे ? देवि ? उग्रशक्ते ? नमोऽस्तु ते॥
अथालङ्काराणि –
रत्नमाणिक्यसंयुक्तं वैडूर्यं मौक्तिकं शुभम्।
सुवर्णपुष्परागैश्च महालक्ष्मि ! नमोऽस्तु ते॥
अथ हरिद्रा -
हरिद्रा पीतवर्णा च स्त्रियः सौभाग्यदायिनी।
हरिद्रयाऽचिंते ? देवि ! अतः शान्ति प्रयच्छ मे॥
अथ कुङ्कुमम् -
कुङ्कुमं कामनाद्रव्यं कामनाकामसम्भवम्।
कुङ्कुमेनार्चिते? देवि सर्वसौभाग्यदायिनि ?॥
अथ कज्जलम्–
कालिके ! कृष्णवर्णे ! त्वं सुभगे ! शान्तिकारके !।
अक्षिभ्यां कज्जलं दत्तं गृहाण परमेश्वरि !॥
अथ सिन्दुरम् –
उग्रशक्ते ! नमस्तुभ्यं रक्तसर्वाङ्गभूषिते !।
रक्ततीक्ष्णस्वरूपेण भयङ्करि ! नमोऽस्तु ते॥
अथ गन्धम् –
मलयाचलसम्भूतं नाना पन्नगरक्षितम्।
शीतलं बहुलामोदं चन्दन प्रतिगृह्यताम्॥
अथाक्षताः–
अक्षतास्तण्डुलाः शुद्धाः कुङ्कुमेन विराजिताः।
प्रीयतां सर्वदेवेशि ! जगन्मातर्नमोऽस्तु ते॥
अथ पुष्पम् –
मिलत्परिमलामोदमत्तालिकुलसङ्कुलम्।
आनन्दि नन्दितोद्यानं पद्मायै कुसुमन्तव॥
अथाङ्गपूजा-
“ॐ दुर्गायै नमः पादौ पूजयामि \। जयन्त्यै न० गुलफौ पू० । महाकाल्यै न० ऊरू पृ० \। भद्रकाल्यै न० कटिं पू० \। कपालिन्यै न० नाभिं पू० \। ब्राह्म्यै० कुक्षौ पू० \। शिवायै ० हृदयं पृ० \। धात्र्यै० हस्तौ० \। स्वधायै० कण्ठं पू० \। स्वाहायै० वक्त्रं पू० \। शशिवाहिन्यै० ललाटं पू० \। माहेश्वर्यै ० नासिकां पू० \। रौद्रमुख्यै० श्रोत्रे पू० \। सिंहवाहिन्यै० नेत्रे पू०। कौमार्यै० शिरः पू० \।
अथ माला –
श्रीपत्रपत्रैश्च शतपत्रैर्विचित्रिताम् \।
पुष्पमालां प्रयच्छामि सङ्ग्रहाण सुरेश्वरि ! \।\।
अथ दूर्वाङ्कुरान्–
विष्ण्वादिसर्वदेवानां प्रियपुष्पां सुशोभनाम् \।
क्षीरसागरसम्भूतां दुर्गा स्वीकुरु सर्वदा ॥
अथ धूपम्-
गन्धसम्भारसन्नद्धः कालागरुसमुद्भवः।
सुरासुरनरानन्दधूपोऽयं प्रतिगृह्यताम्॥
अथ दीपम् -
मार्तण्डमण्ड लाखण्ड चन्द्रविम्बग्मितेजसम्।
निधानं देवि ! दीपोऽयं निर्मितस्तव भक्तितः॥
अथ नैवेद्यम्–
देवतालयपातालभूतलाधारधान्यजम् ।
रसं षोडशसम्पन्नं नैवेद्यं ते नमः श्रिये !॥
मध्ये पानीयम्। अथ करोद्वर्तनम् -
सुगन्धपरिमलाढ्यं च गोरोचनसमन्वितम्।
अगरुं मृगनाभिं च करोद्वर्तनकं शुभम्॥
अथ ताम्बूलम् -
पातालतलसम्भूतं वदनाम्भोजभूषणम्।
नानागुणगणाकीर्णं ताम्बूलं प्रतिगृह्यताम्॥
अथ दक्षिणा -
यत्रास्ति ते कृपालेशः स एव श्रीनिकेतनम्।
तथापि ते मयोत्सृष्टा दक्षिणा प्रतिगृह्यताम्॥
अथ नीराजनम् –
दिव्यहाटकपात्रस्यं रत्नदीपप्रभायुतम्।
नीराजनं कृतं देवि ! नारायणि ! नमोऽस्तु ते॥
मन्त्रपुष्पाञ्जलिः। अथ प्रार्थना -
विष्णोर्वक्षसि पद्मे च शङ्खे चक्रे तथाम्बरे।
लक्ष्मि ! देवि ! यथाऽसि त्वं मम नित्या तथा भव॥
अथ नमस्कारः-
नमः श्रिये रमे ! पद्मे ! कमले ! कमलालये !।
नमः क्षीरोदजे ! लक्ष्मि ! इन्दिरे ! हरिवल्लभे !।
क्षमाप्य दण्डवद्भक्त्या प्रणिपत्य पुनः पुनः॥
“अस्य कर्मणः साङ्गतासिद्ध्यर्थं भूयसीं दक्षिणां नानागोत्रेभ्यो ब्राह्मणेभ्यो दातुमहमुत्सृजे”। ब्राह्मणेभ्यो मन्त्राशिषो गृहीत्वा कर्म समापयेत्।
इति श्रीप्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्रविवरणे
संस्कारगणपतौ लक्ष्मीपूजनम्।
अथ प्रसङ्गात्पुनर्विवाह उच्यते। प्रयोगपारिजाते- इत्थं विवाहे कृते पश्चाल्लग्नाद्यशुद्धिज्ञानं चेत्तदा ज्योतिः शास्त्रोक्त-कालविशेषे पुनर्विवाहं कुर्यात्। तदाह नृसिंहः श्रीधरीये -
पुनर्विवाहं वक्ष्यामि दम्पत्योः शुभवृद्धिदम्।
लग्नेन्दुलग्नयोर्दोषे ग्रहतारादि सम्भवे॥
अन्येष्वशुभकालेषु दुष्टयोगादिसम्भवे।
विवाहे त्वथ दम्पत्योराशौचादिसमुद्भवे॥
अत्राशौचं वधूवरसम्बन्धि ज्ञेयम्। अन्यत्र “सद्यः शौच विधीयत" इति तदभावस्योक्तत्वात्।
विवाहसमये प्राप्ते यद्गेहे मृतिजन्मनी।
स्यातां तदा पुनश्चैव शुद्धे काले समाचरेत्॥
इति वचनाच्च। केचित्तु वरेणाचरितव्यगुरुमृताशौचाविषयमेतत्, अन्यत्र सामान्याशौचे नान्दीश्राद्धादूर्ध्वमाशौचाभावादित्याहुः। तस्य दोषस्य शान्त्यर्थं पुनर्वैवाह्यमिष्यते।
अयने चोत्तरे श्रेष्ठं वर्द्धयेत्तु विशेषतः।
आषाढ़मार्गशीर्षो द्वौ वर्ज्यौ शेषाः शुभावहाः॥
विवाहोक्ततिथ्यंशराशिवारादिवर्गजाः।
करणानि योगसंज्ञानि ग्रहगोचरयोगगाः॥
तस्मिन्विवाहसमये शुभदाश्च तथैव वा।
पूर्वाह्ने पूर्वरात्रे च विवाहः शुभदो भवेत्॥
अत्रत्यान्यो विशेषः सगोत्रादिविवाहः प्रायश्चित्तविधाने द्रष्टव्यः। अथ द्वितीयविवाहविधानम्। तत्र श्रुतिः - “तस्मादेके बह्वीर्जाया विन्दत” इति। श्रुत्यन्तरमपि “तस्मादेकस्य बह्व्यो जाया भवन्ति नैकस्यै बहवः सहपतय” इति। तद्विषय-माहापस्तम्बः – “धर्मप्रजासम्पन्नो दारे नान्यां कुर्वीतान्यतराभावे कार्या प्रागग्न्याधेयादिति”। अस्यार्थः- यदि प्रागूढा स्त्री धर्मेण प्रजया च सम्पन्ना तदा नान्यां विवाहयेत्। अन्यतराभावेऽग्न्याधानात्प्राग्वोढव्येति। “त्रिभिर्ऋणवान् जायत इति नापुत्रस्य लोकोऽस्तीति" श्रुतेः। स्मृतिश्च -
अपुत्रः सन्पुनर्दारां परिणीय ततः पुनः।
परिणीय समुत्पाद्य नोचेदापुत्रदर्शनात्।
विरक्तश्चेद्वनं गच्छेत्संन्यासं वा समाश्रयेत्॥
प्रयोगरत्ने याज्ञवल्क्यः -
सुरापी व्याधिता धूर्ता वन्ध्याऽर्थघ्न्यप्रियंवदा।
स्त्रीप्रसूश्चाधिवेत्तव्या पुरुषद्वेषिणी तथा।
अधिविन्ना तु भर्तव्या महदेनोऽन्यथा भवेत्॥
अधिवेत्तव्या तदुपरि स्त्र्यन्तरं कर्तव्यमित्यर्थः। अधिवेदने प्रतीक्षाकालमाह मनुः-
वन्ध्याऽष्टमेऽधिवेत्तव्या दशमे तु मृतप्रजा।
एकादशे स्त्रीजननी सद्यस्त्वप्रियवादिनी॥
सङ्घहे तु -
अप्रजां दशमे वर्षे स्त्रीप्रजां द्वादशे त्यजेत्।
मृतप्रजां पञ्चदशे सद्यस्त्वप्रियवादिनीम्॥
विधानपारिजाते स्मृतिभास्करे-
व्याधिता स्त्रीप्रजा वन्ध्या उन्मत्ता विगतार्तवा।
अदुष्टा लभते त्यागं तीर्थतो न तु धर्मतः॥
तीर्थतोयोनितः। धर्मकार्ये सहायभूता भवत्येव। संहितायां विशेषमाह स एव-
या रोगिणी स्यात्तु हिता सम्पन्ना चैव शीलतः।
सानुज्ञाप्याऽधिवेत्तव्या नावमान्या तु कर्हिचित्॥
प्रयोगरत्ने-
एकामुक्रम्य कामार्थमन्यां लब्धं य इच्छति।
समर्थस्तोषयित्वाऽर्थैः पूर्वोढामपां वहेत्॥ इति॥
याज्ञवल्क्यस्तु -
आज्ञासम्पादिनीं दक्षां वीरसूं प्रियवादिनीम्।
त्यजन्दाप्यस्तृतीयांशमद्रव्यो भरणं स्त्रियाः॥ इति॥
सधनेन स्वद्रव्यतृतीयांशो देयः। निर्धनेनान्नाच्छादनादि देयमित्यर्थः। या तूक्तद्रव्यादिना परितोषिता गृहान्निर्गच्छेत्तां प्रत्याह मनुः-
अधिविन्ना तु या नारी निर्गच्छेद्रोषिता गृहात्।
सा सद्यः सन्निरोद्धव्या त्याज्या स्वकुलसन्निधौ॥इति॥
पत्नीबहुवे विशेषमाह कात्यायनः-
अग्निशिष्टादिशुश्रूषां बहुभार्यः सवर्णया।
कारयेत्तद्बहुत्त्वं चेज्जेष्ठया गर्हिता नचेत्॥ इति।
अस्यार्थः- अग्निशुश्रूषा श्रौतस्मार्ताग्निसाध्यकर्म शिष्टशुश्रूषा अतिथिपूजनादि पत्नीसहायसंपाद्यं तत्तदेतत्सर्वं सवर्णासवर्णभार्यासमुदायवान् सवर्णभार्यया कारयेत्। अनेकसवर्णभार्यायुक्तस्तु ज्येष्ठया सवर्णभार्यया कारयेत्। “यदि सा गर्हितान चेत्"। गर्हाशब्दोऽत्र धर्मायोग्यत्वोपपादकदोषोपलक्षकः। ते दोषा अन्धत्वकुष्ठित्वादयः। इदमप्याधाने सहाधि-
कृतानेकभार्याविषयम्। अनधिकृतायास्तु प्रसक्त्यभाव एव। तत्रापि केवलक्रत्वर्थमाज्यावेक्षणादि यजमानौदुम्बरीसमानवदेकयैव सवर्णया ज्येष्ठया कारयेत्। पत्नीसन्नहनादिकर्तृसंस्कारकन्तु सहाधिकृताभिः सर्वाभिरित्यादि मीमांसासार-वेदिनां सुज्ञानम्। स्मार्ताग्निसाध्ये तु कर्माणि सर्वासां सहाधिकारः। प्रथमविवाहाग्नेवेव होमविधानात् तदसम्भवेऽग्निद्वयसंसर्गविधानाच्च। तथा च कात्यायनाश्वलायनौ -
सदारोऽन्यान्पुनर्दारानुद्वोढुं कारणान्तरात्।
यदीच्छेदग्निमान्कुर्वन्क! होमोऽस्य विधीयते।
स्वाग्नावेव भवेद्धोमो लौकिके न कदाचन॥इति॥
इदं तु सति सम्भवे ग्रामान्तरादावसम्भवे तु लौकिकेऽग्नौ विवाहहोमं कृत्वा तदनन्तरं मण्डनाद्युक्तप्रकारेण पुनराधानं कार्यम्। मृतपत्नीकस्य द्वितीयविवाहे कालावशेष उक्तः सङ्ग्रहे-
प्रमदामृतिवासरादितः पुनरुद्वाहाबधिर्वरस्य च।
विषमे परिवत्सरे शुभो युगले चापि मृतिप्रदो भवेत्॥
जीवत्यां पूर्वपत्न्यां द्वितीयादिविवाहे नायं कालनियमः। अत्र द्वितीयादिविवाहे जीवत्पितृकोऽपि स्वयमेव नान्दीश्राद्धं कुर्यात्। उक्तं च-
नान्दीश्राद्धं पिता कुर्यादाद्ये पाणिग्रहे पुनः।
अत ऊर्ध्वं प्रकुर्वीत स्वयमेव तु नान्दिकम्॥इति॥
इति संस्कारगणपतौ द्वितीय विवाहविधानम्॥
अथ तृतीयमानुषीविवाहस्य निषिद्धत्वात्तस्मिन्कर्तव्ये अर्कविवाहविधिः। तृतीयानिषेधमाह मात्स्ये कश्यपः -
तृतीयां मानुषीं नैव चतुर्थीं यः समुद्हेत्।
पुत्रपौत्रादिसम्पन्नः कुटुम्बी साग्निको वरः॥
उद्वाहे सति सिद्ध्यर्थे तृतीया न कदाचन ।
मोहादज्ञानतो वाऽपि यदि गच्छेत्तु मानुषीम्॥
नश्यत्येव न सन्देहो गार्ग्यस्य वचनं यथा॥
विधानपारिजाते-
धर्मरागनिमित्तोऽपि नोद्वहेन्मानुषीं स्त्रियम्।
तृतीयां यदि चोद्वाहेत्तर्हि सा विधवा भवेत्॥
चतुर्थादिविवाहार्थं तृतीयेऽर्कं समुद्हेत्।
आदित्यदिवसे वाऽपि हस्तर्क्षे वा शनैश्चरे॥
शुभे दिने वा पूर्वाह्ने कुर्यादविवादकम्।
देशादि ब्रह्मपुराणे –
ग्रामात्प्राच्यामुदीच्यां वा सुपुष्पफलसंयुताम्।
परीक्ष्य यत्नतोऽधस्तात्स्थण्डिलादि यथाविधि॥
व्यासः -
स्नात्वालङ्कृतवासास्तु रक्तगन्धादिभूषितम्।
सपुष्पफलशाखैकमेकगुल्मं समाश्रयेत्॥
सुलक्षणेन संयुक्तमर्कं संस्थाप्य यत्नतः
अर्ककन्याप्रदानार्थमाचार्यं कल्पयेत्पुरा
अर्कसन्निधिमागत्य तत्र स्वस्त्यादि वाचयेत्।
नान्दीश्राद्धं हिरण्येन अष्टौ वर्गान्प्रपूजयेत्॥
मण्डपं नात्र कुर्वीत अविघ्नं पूजनं तथा।
पूजयेन्मधुपर्केण वरं विप्रस्य हस्ततः ॥
यज्ञोपवीतवस्त्रे च हस्तकर्णादिभूषणम्
उष्णीषगन्धमाल्यादि वरायास्मै प्रदापयेत्
स्वशाखोक्तविधानेन मधुपर्कं समाचरेत्।
ब्रह्मपुराणे - यथाविधि इत्यस्यानन्तरम् -
कृत्वाऽर्कं पुरतस्तिष्ठन्प्रार्थयेत्तु द्विजोत्तमः।
त्रिलोकवासिन्सप्ताश्व ! च्छायया सहितो वरः॥
तृतीयोद्वाहजं दोषं निवारय सुखं कुरु।
तत्राध्यारोप्य देवेशं छायया सहितं रविम्॥
वस्त्रैर्माल्यैस्तथा गन्धैस्तन्मन्त्रेणैव पूजयेत्।
तन्मन्त्रेण “आकृष्णेने” त्यादिना। अन्यत्रापि —
श्वेतवस्त्रेण संवेष्ट्य तथा कार्पासतन्तुभिः।
गन्धपुष्पैस्तथाभ्यर्च्य तल्लिङ्गैरभिषिञ्च्य च॥
गुडौदनं तु नैवेद्यं ताम्बूलं च समर्पयेत्।
व्यासः-
अर्कं प्रदक्षिणीकुर्वन् जपेन्मन्त्रमिमं बुधः।
मम प्रीतिकरायेयं मया स्पृष्टा पुरातनी॥
अर्कजा ब्रह्मणा सृष्टा अस्माकं परिरक्षतु।
पुनः प्रदक्षिणीकुर्यान्मन्त्रेणानेन मन्त्रवित्॥
नमस्ते मङ्गले ! देवि ! नमः सवितुरात्मजे !।
त्राहि मां कृपया देवि ! पत्नीत्वं म इहागता॥
वृक्षाणामादिभूतस्त्वं देवानां प्रीतिवर्द्धनः।
तृतीयोद्वाहजं पापं मृत्युं चाशु विनाशय॥
ततश्च कन्यावरणं त्रिपुरुषं कुलमुद्धरेत्।
आदित्यः सविता चार्कः पुत्री पौत्री च नप्त्रिका।
गोत्रं काश्यप इत्युक्तं लोके लौकिकमाचरेत्।
मुहूर्तेऽर्कं निरीक्षेत स्वस्तिसूक्तमुदीरयेत्॥
आशीर्भिः सहितैः कुर्यादाचार्यसहितैर्द्विजैः।
अथाचार्यं समाहूय विधिना तन्मुखाच्च तम्॥
प्रतिगृह्य ततो होमं गृह्योक्तविधिना चरेत्।
आचार्यस्य दानमन्त्रमाह व्यासः -
अर्ककन्यामिमां विप्र ! यथाशक्तिविभूषिताम्।
गोत्राय शर्मणे तुभ्यं दत्तां विप्र ! समाश्रयेत्॥
अजपन्पक्षकर्माणि कृत्वा कङ्कणपूर्वकम्।
यावत्यं चावृतं सूत्रं तावदर्कं प्रवेष्टयेत्॥
स्वशाखोक्तेन मन्त्रेण गायत्र्या चाथ वा यजेत्।
पञ्चीकृत्य पुनः सूत्रं स्कन्धे बध्नाति मन्त्रतः॥
बृहत्सामेतिमन्त्रेण सूत्ररक्षां प्रकल्पयेत्।
अर्कस्य पुरतः पश्चाद्दक्षिणोत्तरयोस्तथा॥
कुम्भांश्च निक्षिपेत्पश्चादाग्नेयादिचतुष्टये।
सवस्त्रप्रतिकुम्भं च त्रिसूत्रेणैव वेष्टयेत्
हरिद्रागन्धसंयुक्तं पुरयेच्छीतलं जलम्।
प्रतिकुम्भं महाविष्णुं पूजयेत्परमेश्वरम्॥
पाद्यार्घादिनैवेद्यान्तं कुर्यान्नाम्नैव मन्त्रवित्॥
अत्र होमप्रकारश्च शौनकेन प्रदर्शित :—-
तृतीयेऽत्र विवाहे तु सम्प्राप्ते पुरुषस्य तु।
अर्कविवाहं वक्ष्यामि शौनकोऽहं विधानतः॥
अर्कसन्निधिमागत्य तत्र स्वस्त्यादि वाचयेत्।
नान्दीश्राद्धं प्रकुर्वीत स्थण्डिलं च प्रकल्पयेत्॥
अर्कमभ्यर्च्य सौर्यया गन्धपुष्पाक्षतादिभिः।
सौर्यया - सूर्यदैवत्यया “आकृष्णेने" त्याद्यृचा।
स्वयं चालङ्कृतस्तद्वद्वस्त्रमाल्यादिभिः शुभैः।
अर्कस्योत्तरदेशे तु समन्वारब्ध एतया॥
एतयाऽर्ककन्यया।
उल्लेखनादिकं कुर्यादाघारान्तमतः परम्।
आज्याहुतीश्च जुहुयात्सङ्गोभिरनयैकया।
यस्मै त्वा कामकामायेत्येतया च परस्परम्॥
व्यस्ताभिश्च समस्ताभिस्ततश्च स्विष्टकृद्भवेत्।
परिषेचनपर्यन्तमयाश्चेत्यादितः क्रमात्॥
प्रार्थनादिविशेषमाइ व्यासः-
पुनः प्रदक्षिणं कृत्वा मन्त्रमेतमुदीरयेत्।
मया कृतमिदं कर्म स्थावरेण जरायुणा॥
अर्कापत्यानि मे देहि तत्सर्वं क्षन्तुमर्हसि
इत्युक्त्वा शान्तिसूक्तानि जप्त्वा तं विसृजेत्पुनः॥
गोयुग्मं दक्षिणां दद्यादाचार्याय च भक्तितः।
इतरेभ्योऽपि विप्रेभ्यो दक्षिणां चापि भक्तितः॥
तत्सर्वं गुरवे दद्यादन्ते पुण्याहवाचनम्॥
अत्र पञ्चमदिनकृत्यमाह ब्रह्मपुराणे -
चतुर्थे दिवसेऽतीते पूर्ववत्तां प्रपूज्य च।
विसृज्य होममग्निं च विधिना मानुषीं पराम्॥
उद्वहेदन्यथा नैव पुत्रपौत्रादिवृद्धिमान्।
न पशून्न च मित्राणि मण्डलं नैव गच्छति॥
एवमेव द्विजश्रेष्ठ ? विधिना सम्यगुद्वहेत्।
धनधान्यसमृद्धिश्च इच्छाशक्तिः परत्र च॥ इति।
इति मूलवाक्यानि।
…….. …………. ………
अथास्य स्पष्टप्रयोगः।
तत्र ज्योतिर्विदादिष्टे शुभे दिने स्नानादिसम्पादितो वरो द्विजैः सह सुवासिनीभिर्वादित्रघोषैश्च सह पूर्वाह्ने पूर्वस्यामुत्तरस्यां वा दिशि गत्वा पुष्पफलयुतलक्षणोक्तमर्कं परीक्ष्य तत्र सर्वे उपविशेयुः। वरस्तु अर्कसमीपे स्त्रिया रङ्गमालिकया निर्मितस्थले वस्त्रादिमृद्वासने द्विजैः सह प्राङ्मुख उपविशेत्। आचमनप्राणायामत्रयं कृत्वा “श्री लक्ष्मीनारायणाभ्यां नमः” इत्यादि देशकालौ सङ्कीर्य “एवंगुणविशेषणविशिष्टायां पुण्यतिथौ मम तृतीयमानुषीविवाहजदोषपरिहारद्वारा श्रीपरमेश्वरप्रीतये अर्कविवाहमहं करिष्ये " इति सङ्कल्प्य, तत्रादौ गन्धपुष्पादिभिः अर्ककन्याप्रदानार्थमाचार्यं वृणुयात्। “विवाहाङ्गत्वेन स्व
स्तिपुण्याहवाचनमविघ्नपूजनं मण्डपदेवतापूजनं मातृकापूजनं वसोर्द्धारापूजनं हिरण्येन नान्दीश्राद्धं चाहं करिष्ये। तत्रादौ निर्विघ्नताविद्ध्यर्थं गणेशपूजनमहं करिष्य"। इति सङ्कल्प्य तान्यनुक्रमेण कुर्यात्। आचार्यं प्रार्थयेत् -
कन्यापिता यथा सूर्यो देवानां च प्रजापतिः।
तथा त्वर्कप्रदानार्थमाचार्यत्वं कुरु द्विज ?॥
इति प्रार्थना। तत आचार्यः स्वशखोक्तविधिना विष्टरपाद्यार्घ्याचमनमधुपर्कवस्त्रयज्ञोपवीतोत्तरीयगन्धपुष्पालङ्करणादिभिर्वरं प्रपूजयेत्। अथानन्तरं तिष्ठन् वरोऽर्कवृक्षं वस्त्रेण कार्पाससूत्रेण वा पञ्चवारं चतुर्वारं वेष्टयित्वा तस्मिन्सूर्यदेवतामारोप्य “ॐ आ कृष्णेन रजसा० पश्यन्”। अनेनावाहनादिदाक्षिणान्तं सम्पूज्य प्रार्थयेत्।
त्रैलोक्यवासिन्सप्ताश्व ! च्छायया सहितो रवे !।
तृतीयोद्वाहजे दोषं निवारय सुखं कुरु॥
इति जलेन त्रिवारं सिञ्चेत्।
मम प्रीतिकरा येयं मया सृष्टा पुरातनी।
अर्कजा ब्रह्मणा सृष्टा ह्यस्मात्कर्माभिरक्षतु॥
इति प्रदक्षिणां कुर्वन् जपेत्।
नमस्ते मङ्गले ! देवि ! नमः सवितुरात्मजे !।
त्राहि मां कृपया देवि ! पत्नीत्वं म इहागता॥
अत्र कातीयानां वेद्यामग्निष्ठापूर्वकविवाह उच्यते। अतः कारणादुत्तरदिग्भागे सम्पादिते स्थण्डिले पञ्चभूसंस्कारपूर्व-कमाग्न संस्थाप्य, ‘ततः पश्चिममुखः साक्षतवरस्तिष्ठन्नर्कं प्रार्थयेत्।
अर्क ? त्वं ब्रह्मणा सृः सर्वप्राणिहिताय च।
वृक्षणमादिभूतस्त्वं देवानां प्रीतिवर्द्धनः॥
तृतीयेद्वाहजं दोषं मृत्युं चाशु विनाशय॥
ततो द्विजैर्मङ्गलाष्टकानि पठितव्यानि। “तदेव लग्नान्ते अप्रतिष्ठे”
त्युक्ते अन्तःपटमुत्तरतो निःसार्य अर्कस्योपरि अक्षतानि क्षिपेत्। प्राङ्मुखोऽर्कसमीपे तिष्ठेत्। तत आचार्यः सूत्रेण वरार्कौ “परि त्वा गिर्लणो०” गायत्र्या वा चतुर्वारं पञ्चवारं वेष्टयित्वा सर्वैः सुलग्नं कार्यम्। “वरार्क्योः सुलग्नमस्तु, तृतीयविवाहजदोषपरिहारोऽस्तु"। ततश्च वरणं त्रिपुरुषं कुलमुच्चारयेत्। तद्यथा - आचार्यः आचमनं प्राणायामं च कृत्वा देशकालौ सङ्कीर्त्य “अस्य तृतीयोद्वाहजदोषपरिहारार्थं ब्राह्मविवाहविधिना आर्कीदानमहं करिष्ये” आर्कीशाखोपरि वरहस्ते “शिवाऽऽपः सन्तु। सौमनस्यमस्तु। तृतीयोद्वाहजदोष परिहारोऽस्तु। दीर्घमायुः शान्तिः पुष्टिस्तुष्टिश्चास्तु। काश्यपगोत्रस्य काश्यपावत्सारनैध्रुवतित्रिप्रवरस्य आदित्यस्य प्रपौत्रीं सवितुः पौत्रीं अर्कस्य पुत्रीं, अमुकगोत्रस्यामुकतवरस्यामुक- शर्मणः प्रपौत्राय अमुकशर्मणः पौत्राय अमुकशर्मणः पुत्राय असुकशर्मणे वराय तुभ्यमहं सम्प्रददे" इति सकृत्त्रिवारं वा। इति कन्यादानम्।
अर्ककन्यामिमां विप्र ! यथाशक्तिविभूषिताम्।
गोत्राय शर्मणे तुभ्यं दत्तां विप्र ! समाश्रय॥
इति वधूं प्रति वदेत्। वरस्तु “स्वस्ती “त्युक्त्वा वेष्टितसूत्रमूर्ध्वं निष्काश्य तेन “बृहत्साम नक्षत्रमृद्गद्धदृष्टयं त्रिष्टुभो यः शुभितमुग्रवीरम्। इन्द्रस्तोमेन पञ्चदशेन मध्यमिदं वातेन सागरेण रक्ष’ इति मन्त्रेण हस्ते कङ्कणं बध्नीयात्। ततोऽर्कात्स्याण्डलाद्वा चतुःकोणेषु सवस्त्रं कुम्भचतुष्टयं संस्थाप्य त्रिः सूत्रेण वेष्टयेत्। जलहरिद्राकुङ्कुमगन्धपुष्पफलहिरण्यवस्त्रादिभिः पूरितेषु सुवर्णनिर्मितां पृथक् पृथक् प्रतिमामावाहनादिदक्षिणान्तं नाममन्त्रेण पुरुषसूक्तेन वा पूजयेत्। वेदविद्भिश्चतुर्भित्रीह्मणैः शुभसूक्तानि पठितव्यानि। वरस्तु ततो होमं कुर्यात्। आचमनप्राणायामदेशकालकीर्तनान्ते “अर्कबिवाहाङ्गभूतं होमं करिष्ये। " इति सङ्कल्प्य, “पूर्वेण ब्रह्मणो गमन” मित्यादिपद्धत्युक्तप्रकारेणैव पूर्णपात्रान्तं विकल्पः। “तत्र प्रजापतिं, इन्द्रं, अग्निं, सोमं, अथ प्रधानं बृहस्पतिं, अग्निं, वायु, सूर्यं, प्रजापतिं, एता आज्येन। अग्निं,
वायुं, सूर्यं, अग्नीवरुणौ, अग्नीवरुणौ, अग्निं, वरुणं, सवितारं, विष्णुं विश्वान्देवान् मरुतः स्वर्कान् वरुणं, ऋतासाहं, ऋतधामान” मित्यादिपद्धत्युक्तं सर्वं स्विष्टकृदन्तं कुर्यात्। ततोब्रह्मवरणाद्याघाराज्यभागान्तं कृत्वा प्रधानहोमः। “सङ्गोभिरित्यस्याङ्गिरा ऋषिः त्रिष्टुप्छन्दः बृहस्पतिर्देवता आज्यहोमे विनियोगः। ॐ सङ्गोभिराङ्गिरसो नक्षमाणो भग इवेदर्यमणन्निनाय। जने मित्रो न दम्पती अनक्ति बृहस्पते वाजया शूँरवाजौ स्वाहा। इदं बृहस्पतये न मम। यस्मै त्वेति वामदेव ऋषिः त्रिष्टुप्छन्दः अग्निदेवता आज्यहोमे वि०। ॐ यस्मै त्वा काम कामाय वयं सम्राड्यजामहे। तमस्मभ्यं कामं दत्वाऽथेदं त्वं घृतं पिब स्वाहा। इदमग्नये” ततो व्यस्तसमस्ताभिर्व्याहृतिभिर्होमः कार्यः। यथा “ॐ भूः स्वाहा। इदमनये। ॐ भुवः स्वाहा \। इदं वायवे \। ॐ स्वः स्वाहा \। इदं सूर्याय० ॐ भूर्भुवः स्वः स्वाहा \। इदं प्रजापतये०"। ततोऽष्टाहुतयः। ऋतासाहेत्यादिस्विष्टकृदन्तहोमः कार्यः। जयादि कृताकृतमेव कार्यं न कार्यम्। संस्रवप्राशनादिप्रणी-ताविमोकान्ति द्विजैः कुम्भस्थोदकप्रणीतोदकाभ्यां वरायाभिषेकः कार्यः। यथा विप्राः कुशाग्रैः सपल्लवैः। तत्र “देवस्य त्वा ०३ \। सोमस्य त्वा० १। स्वस्ति न इन्द्रो० १ \। वरुणस्योत्तम्भन० १। पुरुषसूक्तेन \। दश गायत्र्या \। ष्विभ्राट्। ऋचं वाचं” सर्वत्र एताभिर्ऋग्भिर्वरभमिषिञ्चति। वरः–
पुनः प्रदक्षिणं कृत्वा मन्त्रमेतमुदीरयेत्।
मयाकृतमिदं कर्म स्थावरेषु जरायुणा॥
अर्कापत्यानि नो देहि तत्सर्वं क्षन्तुमर्हसि।
इत्युक्त्वा शान्तिसूक्तानि जप्त्वा च विसृजेयुः।
गोयुग्मं दक्षिणां दद्यादाचार्याय च भक्तितः।
इतरेभ्योऽपि विप्रेभ्यो दक्षिणां चापि शक्तितः॥
तत्सर्वं गुरवे दद्यादन्ते पुण्याहवाचनम्।
चतुर्थे दिवसेऽतीते पूर्ववत्तां प्रपूज्य च॥
इति ब्रह्मपुराणे।
विसृज्य होममनिं च विधिना मानुष पराम्।
उद्देदन्यथा नैव पुत्रपौत्राभिवृद्धिमान्॥
एवमेव द्विजश्रेष्ठ ? विधिना सम्यगुद्हेत्।
धनधान्यममृद्धिं च इच्छाशक्ति परां व्रजेत्॥
इति श्रीप्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्रविवरणे
संस्कारगणपतौ अर्कविवाह विधिः समाप्तः॥
अत्र सङ्क्षेपतः प्रयोगः- उक्ते आदित्यवारादौ उक्तदेशे यथोक्तार्कसमीपे गत्वाऽऽचम्य प्रमाणानायम्य देशकालौ सङ्कीर्त्य मम तृतीयमानुषीविवाहजदोषाभावाय अर्कविवाहमहं करिष्ये। तदङ्गमन्वाधानं करिष्ये। अस्मिन्नन्वाहितेऽग्ना” वित्यादि आघारान्तमुक्त्वा, अत्र प्रधानम् “बृहस्पतिमग्निं वायुं सूर्यं प्रजापतिं चाज्येन शेषेण स्विष्टकृत” मित्याद्यन्वाधाया-घारान्तं कृत्वा, “सङ्गोभिरित्यस्याङ्गिरा बृहस्पतिस्त्रिष्टुबर्कविवाहाङ्गभूताज्याहुतिहोमे विनियोगः। ॐसङ्गोभिराङ्गिरसो नक्षमाणो भग इवेदर्यमणन्निनाय। जने मित्रो न दम्पती अनक्ति बृहस्पते वाजया शूँरिवाजौ स्वाहा। इदं बृहस्पतये नमम। यस्मा इत्यस्य वामदेवोऽग्निस्त्रिष्टुप् विनियोगः”। स च पूर्ववत्। “ॐयस्मै त्वा काम कामाय वयं सम्राड्यजामहे। तमस्मभ्यं कामं दत्वाऽथेदं त्वं घृतं पिब स्वाहा। इदमग्नये नममं”। ततो व्यस्तसमस्ताभिर्व्याहृतिभिर्हुत्वा होमशेषं समापयेत्। ततः प्रदक्षिणा। प्रार्थनादि कर्मसमापनम्। इतिनारायणभट्टकृतप्रयोगः।
अथैकोदरविवाहनिर्णयः। स्मृतिरत्न्यावल्याम्-
एकोदरप्रसूतानामेकस्मिन्वासरे पुनः।
विवाहं नैव कुर्वीत मण्डनोपरि मुण्डनम्॥
संहितासारावल्याम्-
एकमातृप्रसूतानामे कस्मिन्वत्सरे यदि।
विवाहं नैव कुर्वीत कुर्वन्ति मुनयोऽन्यथा॥
अन्यथा मातृभेदे। तथा च गर्गः–
एकमातृजयोरेकरमरे पुरुषस्त्रियोः।
न समानक्रियां कुर्यान्मातृभेदे विधीयते॥
वत्सरपरिहाराशक्तौ षण्मासं वा परिहरेत्। तथा च वराहः -
विवाहस्त्वेकजातानां षण्मासाभ्यन्तरे यदि।
असंशयस्त्रिभिर्वर्षैस्तत्रैका विधवा भवेत्॥
मदनरत्नेऽपि —
एकोदरभ्रातृविवाहकृत्यं स्वसुर्न पाणिग्रहणं विधेयम्।
षण्मासमध्ये मुनयः समूचुर्न मुण्डनं मण्डनतोऽपि कार्यम्॥
अस्यापवादस्तत्रैव–
ऋतुत्रयस्य मध्ये चेदन्याव्दस्य प्रवेशनम्।
तदा ह्येकोदरस्यापि विवाहस्तु प्रशस्यते॥
संहितासारावल्याम्-
फाल्गुने चैत्रमासे तु पुत्रोद्वाहोपनायने।
भेदादब्दस्य कुर्वन्ति नर्तुत्रयविलम्बनम्॥
षण्मासस्यापि परिहाराशक्तौ दिनचतुष्टयं परिहरेत्। तथा च गर्गः-
पुत्रीपरिणादूर्द्धं यावद्दिनचतुष्टयम्।
पुत्र्यन्तरस्य कुर्वीत नोद्वाहमिति सूरयः॥
कपर्द्दिकारिकायामपि -
उद्वाह्य पुत्रीं न पिता विदध्यात्पुत्र्यन्तरस्योद्वहनं कदाऽपि।
यावच्चतुर्थं दिनमत्र पूर्णं समाप्य चान्योद्वहनं विदध्यात्॥
दिनचतुष्टयस्यापि परिहाराशक्तौ दिनमात्रं परिहरेत्। तथा च गर्गः–
भ्रातृयुगे स्वसृयुगे भ्रातृस्वसृयुगे तथा।
न कुर्यान्मङ्गलं किञ्चिदेकस्मिन्मण्डपेऽहनि॥
कपर्द्दिकारिकायामपि -
भ्रातृयुगे स्वसृयुगे भ्रातृस्वसृयुगे तथा।
न कुर्यान्मङ्गलं किञ्चिदेकस्मिन्मण्डपेऽहनि॥
दिनमात्रस्यापि परिहाराशक्तौ लग्नमात्रं परिहरेत्।
तथा च पारिजाते स्मृत्यन्तरम्-
विवाहस्त्वेकजन्यानामेकस्मिन्नुदये कुले।
नाशं करोत्येकवर्षे स्याद्वैका विधवा तयोः॥
अस्यार्थः- एकजन्यानामे कस्मिन्नुदये लग्ने विवाहः एकवर्षमध्ये कुले नाशं करोति। तयोर्वा मध्ये एका विधवा भवति। लग्नस्यापि परिहाराशक्तौ मण्डपमात्रं परिहरेत्। तथा च स्मृतिरत्नावशल्याम्–
भ्रातृयुगे स्वसृयुगे भ्रातृस्वसृयुगे तथा।
एकस्मिन्मण्डपे चैव न कुर्यान्मङ्गलद्वयम्॥
अस्यां च व्यवस्थायां प्रमाणमुक्तं ज्योतिर्विवरणे–
एकोदरयोर्द्वयोरेकदिनोद्वहने भवेन्नाशः।
नद्यन्तर एकदिने केऽप्याहुः सङ्कटे च शुभम्॥
न प्रतिषिद्धं लग्नं सम्प्राप्ते सङ्कटे महति।
एकोदरसम्भवयोरेकाद्दे भिन्नमण्डपे काले॥
अत्र दिनशब्दः पूर्वोक्तानां संवत्सरादीनां सर्वेषामुपलक्षणम्, सङ्कोचनिमित्तस्य सङ्कटस्य सर्वत्रापि तुल्यत्वात्। अत एव प्रवेशनिर्गमयोः षण्मासपरिहारासम्भवे वैपरीत्येकदिनविधानम्। तत्रैव -
ऊर्ध्वं विवाहाच्छुभदो नरस्य नारीविवाहो न ऋतुत्रयं स्यात्।
नारीविवाहात्तदहेऽपि शस्तं नरस्य पाणिग्रहमाहुरार्याः॥
भिन्नमातृकयोस्तु न पूर्वोक्तकाल वर्जन मित्याह मेधातिथिः -
पृथङ्माठ्जयोः कार्यो विवाहस्त्वेकवासरे।
एकस्मिन्मण्डपे कार्यं पृथग्वेदिकयोस्तथा॥
पुष्पपट्टियो कार्यं दर्शनं न शिरस्थयोः।
भगिनीभ्यामुभाभ्यां च यावत्सप्तपदी भवेत्॥
वासरशब्दो वत्सरादीनामुपलक्षणम्। अथ यमलजातयोरपि पूर्वोत-
निषेषापवादः। भट्टकारिकायाम्-
एकस्मिन्वत्सरे चैकवासरे मण्डपे तथा।
कर्तव्यं मङ्गलं स्वस्रोर्भ्रात्रोर्यमलजातयोः॥
गार्ग्यः-
एकस्मिन्वासरे चैव कुर्याद्यमलजातयोः।
क्षौरं चैव विवाहं च मौञ्जीबन्धनमेव च॥
तत्रापि ज्येष्ठानुक्रमेण कार्यम्। ज्येष्ठानुक्रमस्तु गर्भोत्पत्तिक्रमेण श्रीभागवते-
प्रजापतिर्नाम तयोरकार्षी-
द्यः प्राक्स्वदेहाद्यमलो ह्यजायत।
तं वै हिरण्यकश्यपुं प्रविदुः प्रजातं
ततो हिरण्याक्षमसूत साऽऽग्रतः॥
तथा च वैद्यके आत्रेयसंहितायाम्-
यदा विशेद्विधाभूतं बीजं पुष्पं परिक्षरत्।
तदा भवेद्विधा गर्भसूतिर्वेशविपर्ययात्॥
तेन प्रथमं जातः कनिष्ठः। अनन्तरजातो ज्येष्ठः।
जन्मज्येष्टेन चाह्वानं सुब्रह्मण्येष्वपि स्मृतम्॥
इति मनुवचनमेककोशजातयमलविषयम्। तथा च देवलः-
“तदा एककोश एव युगपद्यमलजन्मे” ति।
यस्मिञ्जातस्य यमयोः पश्यति प्रथमं मुखम्।
सञ्जातः पितुरस्यैव तस्मिज्ज्यैष्ठ्यं प्रतिष्ठितम्॥
अथ द्विशोभनादिनिर्णयः। तत्र वसिष्ठः-
द्विशोभने त्वेकगृहेऽपि नेष्टे शुभं तु पश्चान्नवाभिर्दिनैस्तु।
आवश्यकं शोभनमुत्सुको वा द्वारेऽथवाऽऽचार्यविभेदतो वा॥
एकोदरप्रसूतानां नाग्निकार्यत्रयं भवेत्।
भिन्नोदरप्रसूतानां नेति शातातपोऽब्रवीत्॥
अस्यार्थः-
एकस्मिन्गृहे नवदिनमध्ये शोभनद्वयं न कार्यम्। किन्तु नवदिनानन्तरं कार्यम्। औत्सुक्येनावश्यकर्तव्ये द्वारभेदेन गृहभेदेनाचार्यभेदेन वा कार्यम्। तथैकस्मिन्गृहे सोदराणां होमवत्संस्कारत्रयं न कार्यम्। भिन्नोदरप्रसूतानान्तु न दोषः। सायणीयेऽपि -
एकस्मिन्शोभने वृत्ते द्विशुभं नैव कारयेत्।
यदि कुर्यात्प्रमादेन तत्र स्यादशुभं ध्रुवम्॥
कात्यायनोऽपि न कुर्याम्मङ्गलत्रय” मिति। चौलोपनयनविवाहरूपं कार्यत्रयम्। उक्तञ्च-
आदौ चौलं तथा मौञ्जी विवाहश्च शुभप्रदः।
मातृभेदे बुधैरुक्तो मातुरैक्ये न कर्हि चित्॥
धर्मप्रवृत्तौ-
भिन्नोदराणामेकस्मिन्न कुर्यान्मण्डपेऽपि वा।
समाप्य मङ्गलं चैकं पुनः कुर्याच्च नान्दिकम्॥
अथ मण्डनमुण्डनादि निर्णयः। तत्र गर्गः-
न मण्डनान्मुण्डनमूर्ध्वमिष्टं न पुत्रयोर्मुण्डनमेकवर्षे।
न पुंविवाहोर्ध्वमृतुत्रयऽपि विवाहकार्यं दुहितुश्च कुर्यात्॥
वासिष्ठेऽपि -
न पुंविवाहोर्ध्वमृतुत्रयेऽपि विवाहकार्यं दुहितुः प्रकुर्यात्।
न मण्डनाच्चापि हि मुण्डनञ्च गोत्रैकतायां यदि नाब्दभेदः॥
गोत्रैकता यामिति त्रिपुरुषसापिण्ड्ये द्रष्टव्यम्। प्रवेशनिर्गमसहचरितमुण्डनमण्डनयोस्तथा दर्शनात्। तथा च मेघातिथिः-
पुरुषत्रयपर्यन्तं प्रतिकूलं स्वगोत्रिणाम्।
प्रवेशान्निर्गमो नेष्टोन कुर्यान्मङ्गलत्रयम्॥
कुर्वन्ति मुनयः केचिदन्यस्मिन्वासरे लघु।
लघु वा गुरु वा कार्यं प्राप्तं नैमित्तिकं तु यत्॥
लघुगुरुलक्षणमुक्तं ज्योतिःसागरे-
चूडाकेशान्तसीमन्तविवाहोपनयान्बुधाः।
गुरुमङ्गलमित्याहुस्तदन्यल्लघु मङ्गलम्॥ इति।
प्रवेशनिर्गमलक्षणमुक्तं कात्यायनेन -
पुत्रोद्वाहः प्रवेशाख्यः कन्योद्वाहस्तु निर्गमः।
मुण्डनं चौलमित्युक्तं व्रतोद्वाहौ तु मङ्गलम्॥
चौलं मुण्डनमेवोक्तं वर्जयेद्वरणात्परम्।
मौञ्जी चोभयतः कार्या यतो मौञ्जी न मुण्डनम्॥
अभिन्ने वत्सरेऽपि स्यात्तदहस्तत्र भेदयेत्।
अभेदेऽपि विवाहः स्यान्न कुर्यादेकमण्डपे॥
नृसिंहप्रसादोऽपि -
न मुण्डनं स्याद्रशनानिबन्धो न चापि मोक्षो व्रतबन्धनस्य।
वदन्ति गगप्रमुखा मुनीन्द्राइचूडाकृतिं मुण्डनमेव नान्यत्॥
नारदः -
पुत्रोद्वाहात्परं पुत्री विवाहो न ऋतुत्रये।
न तयोर्व्रतमुद्वाहान्मण्डनादपि मुण्डनम्॥
संहिताप्रदीपे-
ऊध्व विवाहात्तनयस्य नैव कार्यो विवाहो दुहितुः समार्धम्।
अप्राप्य कन्यां श्वशुरालयन्तु वधूः प्रवेश्या स्वगृहं न चादौ॥ इति।
अथ परिवेत्रादीनिर्णयः स्मृत्यर्थसारे -
यज्ञदाराग्निहोत्रादि कुरुते योऽग्रजे स्थिते।
परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः॥
पितृव्यपुत्रसापत्ने परदारामृतादिषु।
विवाहाधानयज्ञादौ परिवेत्रादिदूषणम्॥
षण्ढान्धबधिरस्तब्धजडगद्गदपङ्गुषु।
कुब्जवामनरोगार्तशुक्लाङ्गविकलादिषु॥
स्तब्धे पुंस्त्वे च मत्ते च शयनस्थे निरिन्द्रिये।
मृकोन्मत्तेषु सर्वेषु न दोषः परिवेदने॥
कन्याविषयेऽपि, प्रयोगपारिजाते-
एकमातृप्रसूतानां पुत्रीणां परिवेदने।
दोषः स्यात्सर्ववर्णेषु न दोषो भिन्नमातृषु॥
अथ वाग्दानोत्तरे देशान्तरगमने विचारमाह कात्यायनः -
वरयित्वा तु यः कश्चित्प्रवासे पुरुषो यदा॥
ऋत्वागमांस्त्रीनतीत्य कन्याऽन्यं वरयेत्पतिम्॥
याज्ञवल्क्यः –
दत्तामपि हरेत्पूर्वाच्छ्रेयांश्चेद्वर आव्रजेत्॥
वशिष्ठः-
कुलशीलविहीनस्य षण्ढादिपतितस्य च।
अपस्मारविधर्मस्य रोगिणां वेषधारिणाम्॥
दत्तामपि हरेत्कन्यां सगोत्रोढां तथैव च।
बलादपहृता कन्या मन्त्रैर्यदिन संस्कृता।
अन्यस्मै विधिवद्देया यथा कन्या तथैव सा ॥ इति।
बलादुपलक्षणम्। अथ वाग्दानोत्तरं वरमरणे विशेः-
अद्भिर्वाचा च दत्तायां म्रियेतोर्ध्वं वरो यदि।
न च मन्त्रोपनीता स्यात्कुमारी पतिरेव सः॥
अथ दोषे तु सम्प्राप्ते यावत्सप्तपदीविधेः।
मरणादौ समुत्पन्ने देयाऽन्यस्मै न दोषभाक्॥
हेमाद्रौ-
कलौ तु पुनरुद्वाहं वर्जयेदिति गालवः॥
अथ प्रसङ्गात्प्रतिकूलनिर्णयः। तत्र वृद्धगार्ग्यः-
वधूवरार्थे घटिते सुनिश्चिते
वरस्य पक्षे त्वथ कन्यकायाः।
मृतिर्यदि स्यान्मनुजस्य कस्य चित्
तदा न कार्यं खलु मङ्गलं बुधैः ॥
घटिते घटने कर्तव्यत्वे निश्चिते सतीत्यर्थः। तथा -
कृते वाङ्निश्चये पश्चान्मरणे यस्य कस्य चित्।
न तत्र मङ्गलं शस्तं नारीवैधव्यशङ्कया॥
अत्र यद्यपि यस्य कस्य चिदित्यावशेषेणोक्तन्तथापि –
वाङ्निश्चये कृते यत्र सपिण्डानां मृतिर्भवेत्।
प्रतिकूलं सपिण्डेषु नान्येषामिति गोभिलः॥
इति स्मरणेन सपिण्डमरणस्यैव प्रतिकूलत्वम्। अत्र वाङ्निश्चयग्रहणं मानसनिश्चयस्याप्युपलक्षणम्।
वाचया मनसा वाऽपि वरणं निश्चितं भवेत्।
कथं तत्र प्रकर्तव्यं वद सत्यवतीसुत ?॥
इति पृष्ठे व्यासः-
साधु पृष्टं स्वया विप्र ? कर्तव्यं शान्तिकं नरैः।
त्रयोदशदिनादूर्ध्वं तद्भवेद्विधिपूर्वकम्॥
इति वाक्येन वाचिके मानसेऽपि वरणे शान्तिकर्मोपदेशात्। तद्विधिमाह व्यासः –
यमायेति च मन्त्रेण हवनं तिलसर्पिषोः।
प्रमाणं चायुतं तत्र कृष्णा गौर्दक्षिणा भवेत्॥
जयाहोमो प्रकर्तव्योौ प्रीत्यै मृडगणेशयोः।
अयुतं वा तदर्धं वा शक्त्या च हवनं भवेत्॥
पूर्णाहुत्यभिषेकादि कृत्वा ब्राह्मणभोजनम्।
एवं यः कुरुते लोके पुत्रपौत्रयुतो भवेत्॥ इते।
वाग्दानानन्तरन्तु निषेधमाह माण्डव्यः-
वाग्दानानन्तरं माता पिता वाऽपि विपद्यते।
विवाहो नैव कर्तव्यः स्ववंशहितमिच्छता॥
वृद्धवशिष्ठोऽपि -
वरवध्वोः पिता माता पितृव्यश्च सहोदरः।
एतेषां प्रतिकूलं चेन्महाविघ्नप्रदं भवेत्॥
शौनकोऽपि-
पिता पितामहश्चैव माता चैव पितामही।
पितृव्यः स्त्री सुतो भ्राता भगिनी चाविवाहिता॥
एतैरेव विपन्नैस्तु प्रतिकूलं बुधैः स्मृतम्।
अन्यैरीप विपन्नैस्तु केचिदूचुर्न तद्भवेत्॥
भ्राताऽत्रैकोदर उपनीतश्च विवक्षितः। पितृव्यपुत्रस्य पृथङ्निर्देशात्।
दम्पत्योः पितरौ भ्राता चोपनीतः सहोदरः।
इति वाक्यान्तराच्च। उक्तस्यापि निषेधस्य कालविशेषेण व्यवस्थोक्ता। मेघातिथिः –
पितुरब्द महाशौचं तदर्धं मातुरेव च।
मासत्रयन्तु भार्यायास्तदर्धं भ्रातृपुत्रयोः॥
अन्येषान्तु सपिण्डानामाशौचं माससम्मितम्।
तदन्ते शान्तिकं कृत्वा ततो लग्नं विधीयते॥
यत्तु ज्योतिः प्रकाशवचनम् –
प्रतिकूलोऽपि कर्तव्यो विवाहो मासतः परम्।
शान्तिं विधाय गां दत्वा वाग्दानादि चरेत्पुनः॥
इति तत्पित्रादिभिन्नसपिण्डमात्रप्रतिकूलविषयम्।
प्रतिकूले सपिण्डस्य मासमेकं विवर्जयेत्।
विवाहस्तु ततः पश्चात्तयोरेव विधीयते॥
इति स्मृतिरत्नावल्यां मासानन्तरं विवाहविधानात्। “अन्येषान्तुसपिण्डाना” मिति वचनेन तेषां मासपरिमितमहाशौच-विधानाच्च।
यदपि वचनम् –
प्रतिकूले न कर्तव्यं लग्नं यावदृतुत्रयम्।
इति तदपि मातृप्रतिकूलविषयम्। “तदर्धं मातुरेव चे “त्यनेन तस्या एव ऋतुत्रयं महाऽऽशौचविधानात्। यदपि मेधातिथिवचनम् -
वाग्दानानन्तरं यस्य कुलयोः कस्य चिन्मृतिः ॥
तदा सम्वत्सरादूर्ध्वं विवाहः शुभदो भवेत्॥
इति तत्पितृप्रतिकूलविषयम्। तस्यैव संवत्सरं महाशौचोक्तेः। तदेतत्प्रातिकूल्यं पुरुषत्रयपर्यन्तं चतुः पुरुषपर्यन्तं वा। तथा च मेघातिथिः-
पुरुषत्रयपर्यन्तं प्रतिकूलं स्वगोत्रिणाम्।
प्रवेशान्निर्गमस्तद्वत्तथा मुण्डनमण्डने।
प्रेतकर्माण्यनिर्वर्त्य चरेन्नाभ्युदयक्रियाम्।
आचतुर्थं ततः पुंसि पञ्चमे शुभदं भवेत्॥ इति।
विशेषान्तरमाह गर्गः –
ज्वरस्योत्पादनं यस्य शुभं तस्य न कारयेत्।
दोषनिर्गमनात्पश्चात्स्वस्थः कर्म समाचरेत्॥
हर्म्यदाहे मृते चैव विवाहं यः करोति च।
तयोरेकं विनश्येत मनुः स्वायम्भुवोऽब्रवीत्॥
नान्दीमुखे कृते पश्चाद्गृहदाहो भवेद्यदि।
पाणिग्रहो न कर्त्तव्यो नारीवैधव्यदो यतः॥
केचिदूचुर्गृहस्थस्य दारुणः कस्य चिज्ज्वरः।
तावन्मङ्गलकार्यं च न कार्यं निश्चितं बुधैः॥ इति।
पूर्वं “तदन्ते शान्तिकं कृत्वे"त्यनेन प्रतिकूले जाते शान्तिकं कार्यमित्युक्तम्। तद्विधानमाह शौनकः -
पुण्येऽह्नि विः कथिते कृत्वा पुण्याहवाचनम्।
नान्दीश्राद्धे कृते पश्चाद्विजांश्चैव प्रपूजयेत्॥
सौवर्णानकारयेद्देवान्यथावयवनिर्मितान्।
पूजयेत्प्रयतो देवान्क्षीरादिस्नपनं ततः॥
श्रियं शक्तिं शिवं विष्णुं मृत्युं चैव विशेषतः।
श्रीसूक्तेन श्रियं विष्णुमिदं विष्णुर्ऋचेन च॥
गौरीर्मिमायेति शिवां त्र्यम्बकेति महेश्वरम्।
परम्मृत्योस्तु मन्त्रेण मृत्युं सम्पूजयेत्ततः॥
शिवां शक्तिम्।
गन्धमाल्यादिवस्त्रैश्च उपचारान्समर्पयेत्।
अथाज्यभागपर्यन्तं कृत्वा चोल्लेखनादितः॥
दुर्गातिलाज्यचरुभिः समिद्भिश्च शताष्टकम्।
प्रत्येकं जुहुयात्तत्र कृत्वा पूर्णाहुतिं ततः॥
होमान्ते दक्षिणां दद्याद्गां सवत्सां पयस्विनीम्।
दक्षिणां च यथाशक्त्या अभिषेकं च कारयेत्॥
शतानां पत्र संख्यातमेकैकस्य यथाविधि।
ब्राह्मणान्भोजयेत्पश्चात्स्वयं भुञ्जीत बन्धुभिः॥
एवं यः कुरुते शान्तिं वंशस्तस्य विवर्धते॥ इति।
इयं च शान्तिः कन्यापित्रा कार्या। वरपित्रा तु-
उद्वहेद्यदि वाग्दत्तां प्रातिकूल्येऽपि यः पुमान्।
स याति नरकं घोरं कुले वाऽप्यशुभं भवेत्॥
इति संवर्त्तवचनेन परिणयने दोषश्रवणात्।
अकृत्वा शान्तिकं यस्तु निषेधे सति दारुणे।
यः करोति शुभं गर्वाद्विघ्नं तस्य पदे पदे॥
दुर्भिक्षादावानुकूल्यप्रतीक्षा नास्ति। उक्तं च ज्योतिःसागरे-
दुर्भिक्षे राष्ट्रभङ्गेऽपि पित्रोर्वा प्राणसंशये।
प्रौढायामपि कन्यायां नानुकूल्यं प्रतीक्षते॥ इति।
तथा दीर्घरोगाद्याभिभूतादिमरणे प्रातिकूल्यं नास्ति। तदुक्तं शौनकेन-
दीर्घरोगाभिभूतस्य दूरे देशे स्थितस्य च।
उदासवर्तिनश्चैव प्रतिकूलं न विद्यते॥
एतादृशे विषये प्रतिकूले जाते याज्ञवल्क्योक्तां शान्तिं कृत्वा विवाहादि कुर्यात्। तदुक्तं वरिमित्रोदये -
सङ्कटे समनुप्राप्ते याज्ञवल्क्येन योगिना।
शान्तिरुक्ता गणेशस्थ कृत्वा तां शुभमाचरेत्॥
अथ पितरि मृते शुभकर्मनिषेधः। धर्मप्रवृत्तौ -
मृते ताते जनन्यां च वर्षं वर्षार्धमेव च।
न कुर्याच्छुभकर्माणि कुलधर्मांस्तथैव च॥
स्मृत्यन्तरे -
पितुरब्दमशौचं स्यात्षण्मासं मातुरेव च।
मासत्रयन्तु भार्यायास्तदर्धं भ्रातृपुत्रयोः॥
अन्येषान्तु सपिण्डानां मासमेकमुदाहृतम्।
उक्तकालावधिर्यावत्तावन्नैव शुभक्रिया॥
दशाहानन्तरं प्रोक्तमाशौचं यद्विजन्मनाम्।
शुभार्थं एव जानीयात्कृतेऽपि हि सपिण्डने॥
व्रतबन्धे विवाहे च न कुर्याद्भक्तिमान्सुतः।
वर्षं वर्षांर्धकं चैव कृतेऽपि हि सपिण्डने॥
विवाहादि प्रकुर्वीत यदा महति सङ्कटे।
सपिण्डीकरणादूर्ध्वं मासिकान्यपकर्ण्य च॥
अथाशौचादिनिर्णयः। विवाहादावारम्भात् प्राक् सूतकादावुपस्थिते तदतीत्य शुद्धः सन्कुर्यात्। सन्निहितलग्नान्तर-स्याभावे कन्यात्वस्याधार्यत्वे विष्णुराह-
अनारब्धविशुध्यर्थं कूष्माण्डैर्जुहुयाद्घृतम्।
गां दद्यात्पञ्चगव्याशी ततः शुध्यति सूतकी॥
तथा च वीरमित्रोदये —
सङ्कटे समनुप्राप्ते सूतके समुपागते।
कूष्माण्डीभिर्धृतं हुत्वा गां दद्याच्च पयस्विनीम्॥
चूडोपनयनोद्वाहप्रतिष्ठादिकमाचरेत्॥ इति।
कूष्माण्डैः कूष्माण्डसंज्ञकैर्मन्त्रैः “यद्देवा देवहेडन” मित्यादिभिः। आरम्भोत्तरन्तु आशौचपाते आरब्धत्वात्सद्यः शुद्धि-रिति। तदुक्तं स्मृतिचन्द्रिकायां याज्ञवल्क्येन-
ऋत्विजां दीक्षितानां च यज्ञियं कर्म कुर्वताम्।
सत्रिव्रतिब्रह्मचारिदातृब्रह्मविदां तथा॥
दाने विवाहे यज्ञे च सङ्ग्रामे देशविप्लवे।
आपद्यपि च कष्टायां सद्यः शौच विधीयते॥ इति।
तथा–
विवाहयज्ञयोर्मध्ये अन्तरा मृतसूतके।
पूर्वसङ्कल्पितं द्रव्यं दीयमानं न दुष्यति॥
षट्त्रिंशन्मतेऽपि -
विवाहोत्सवयज्ञेषु चान्तरा मृतसूतके।
परैरन्नं प्रदातव्यं भोक्तव्यं च द्विजोत्तमैः॥
विष्णुः –
व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्चने जपे।
प्रारब्धे सुतकं न स्यादनारब्धे तु सूतकम्॥
धर्मप्रवृत्तौ -
प्रारम्भादूर्ध्वमाशौचे विवाह कार्य एव तु।
व्रतादौ पूजने चैव प्रारम्भे नास्ति सूतकम्॥
ब्राह्मे -
गृहीतमधुपर्कस्य यजमानाच्च ऋत्विजः।
पश्चादाशौचपतिते न भवेदिति निश्चयः॥
“मधुपर्कात्पूर्वं भवे वाऽऽशौच " मिति गादाघरे रामाण्डारभाष्ये, शुद्धिविवेकेऽप्येवमेव। आरम्भोऽत्र नान्दीश्राद्धमेव। सङ्ग्रहे —
प्रारम्भो वरणं यज्ञे सङ्कल्पो व्रतसत्रयोः।
नान्दीश्राद्धं विवाहादौ श्राद्धे पाकपरिक्रिया॥
यदि तु बलवत्यनुपपत्तिस्तदाऽऽशौचसम्भावनायां पूर्वमपि नान्दीमुखं कर्तव्यमित्युक्तन्तत्रैव-
भाव्यं तु सूतकं ज्ञात्वा मातॄणां पूजनं भवेत्।
सूतकं न विशेत्तत्र मातरो यत्र पूजिताः॥ इति।
तस्य च कियद्दिनं पूर्वमनुष्ठानमित्यपेक्षायां तत्रैवोक्तम्-
एकविंशत्यहर्यज्ञे विवाहे दश वासराः।
त्रिषट् चौलोपनयने नान्दीश्राद्धं पुरो दिने॥
धर्म प्रवृत्तौ-
चौले चैवोपनयने विवाहे च महामखे।
त्रिषड्दशैकविंशत्या प्रारम्भे नास्ति सूतकम्॥
तथा च वीरमित्रोदये-
एकविंशत्यहर्यज्ञे विवाहे दश वासराः।
पञ्चोपनयने चैव चौले चैव त्रिरात्रकम्॥ इति।
अथ वधूवरयोरन्यतरजनन्या रजोदर्शने निर्णयः। मनुः —
उदाहव्रतचूडासु माता यदि रजस्वला।
तदा न तत्प्रकर्तव्यमायुःक्षयकरं यतः॥
बृहस्पतिः-
वैधव्यं च विवाहे स्याज्जडत्वं व्रतबन्धने।
चूडायां च शिशोमृत्युर्विघ्नं यात्राप्रवेशयोः॥
कारिकानिबन्धे –
सूतक्योदक्ययोः शुद्धौ गां दद्याद्धोमपूर्विकाम्।
प्राप्ते कर्मणि शुद्धा स्यादितरस्मिन्न शुद्ध्यति॥
अलाभे सुमुहूर्त्तस्य रजोदोषे तु संस्थिते।
श्रियं सम्पूज्य तत्कुर्यादृत्रहत्याभयङ्करम्॥
हैमीं माषमितां पापघ्नीं श्रीसूक्तविधिनाऽर्चयेत्।
तदृतुं पायसं हुत्वाऽभिषिंच्य शुभमाचरेत्॥
अथ विवाहकाले कन्या ऋतुमती चेत्तत्राह। यज्ञपार्श्वः-
विवाहे वितते तत्र होमकाल उपस्थिते।
कन्यामृतुमती दृष्ट्वा कथं कुर्वान्त याज्ञिकाः॥
स्थापयित्वा तु तां कन्यामर्चयित्वा यथाविधि।
युञ्जान आहुतिं हुत्वा ततः कर्मणि योजयेत्॥
यद्वा-
विवाहहोमे प्रक्रान्ते कन्या यदि रजस्वला।
त्रिरात्रं दम्पती स्यातां पृथक्शय्यासनावुभौ॥
चतुर्थेऽहनि संस्नातौ तस्मिन्नग्नौ यथाविधि॥ इति।
जुहुयातामिति शेषः। होममन्त्रास्तु पूर्वोक्ताः। अथ कन्यागृहे भोजननिषेधः। मदनरत्ने भविष्यपुराणे -
अप्रजायां तु कन्यायां नाश्र्नीयात्तस्य वै गृहे।
यदि भुञ्जीत मोहाद्वा पूवाशी नरकं व्रजेत्॥
अपरार्के आदित्यपुराणे -
विष्णुं जामातरं मन्ये तस्य कोपं न कारयेत्।
अप्रजायान्तु कन्यायान्नाश्नीयाचस्य वै गृहे॥
ब्रह्मदेयां न वै कन्यां दत्वाऽश्नीयात्कदाचन।
अथ भुञ्जीत मोहाच्चेत्स पापी नरके वसेत्॥
विधानपरिजातेऽपि-
अप्रजायान्तु कन्यायान्न भुञ्जीत कदाचन।
दौहित्रस्य मुखं दृष्ट्वा किमर्थमनुशोचति॥ इति।
अप्रजायामिति विशेषणात् प्रजोत्पत्यनन्तरं भुक्तौ न दोष इति ध्वन्यते। अथ गर्भाधानं निरूप्यते। “तामुदुह्य यथर्तुं प्रवेशन” मिति सूत्रम्। तां वधूं पूर्वोक्तविधिना उदुह्य विवाहयित्वा यथर्त्तु ऋतावृतौ प्रवेशनमभिगमनं कुर्यात्। तत्र बृह-स्पतिः - “गर्भाधानमृतौ कुर्या” दिति। गर्भः आधीयते येन कर्मणा तद्गर्भाधानमित्यनुगतार्थं कर्मनामधेयम्।
तथा च शौनकः -
निषितो यत्प्रयोगेण गर्भः सन्धार्यते स्त्रिया।
तद्गर्भलम्भनं नाम कर्म प्रोक्तं मनीषिभिः॥ इति।
यस्य कर्मणः प्रयोगेणानुष्ठानेन। ऋतौ इयर्ति गर्भधारणं गच्छति इति ऋतुस्तत्र। ऋतुर्नाम नाभिकमलादुत्पन्नं शोणितं चेन्द्रकृतब्रह्महत्यायास्तृतीयोंशः। तदुक्तं वीरमित्रोदये स्मृतिमञ्जर्याम्-
देवतानां पुरोधास्तु त्वष्टा नाम द्विजोत्तमः।
भगिनी पूर्वदेवानां तस्य भार्या तयोः सुतः॥
विश्वरूप इति ख्यातः शिरोभिर्जायते त्रिभिः।
एकस्मिन्सोमपानं च सुरापाणं च मध्यमे॥
वामपार्श्वेऽन्नमद्याच्च स्वेच्छया चरते दिवि।
देवताभ्यो हविर्भागानपिधाय ददात्यसौ॥
अपिधाय सुरेभ्यस्तु मातुलप्रेमया सह।
उत्पातादि विजायन्ते ह्येतव्द्यत्ययकर्मणा॥
तस्मात्सुरपतिर्भीतः स्वराष्ट्रच्युतिशङ्कया।
अच्छिनत्तस्य शीर्षाणि वज्रमादाय सत्वरः॥
यत्सोमपानवदनमभवत्स कपिञ्जलः।
अभवद्यत्सुरापाणं कलविङ्कः सशर्षिकम्॥
यदन्नादनमास्यन्तु क्रमादासीत्स तित्तिरिः।
ततस्तां ब्रह्महत्यां च वासवोऽञ्जलिनाऽग्रहीत्॥
ब्रह्महत्यासमोपेतः प्रच्छन्नोऽब्दं चचार सः।
स्वर्गे भूतानि चाक्रोशन्देवेन्द्रं ब्रह्महन्निति॥
स, धरित्रीमुपासीत पृथिवीमब्रवीद्वृषा।
ब्रह्महत्यातृतीयांशं त्वं गृहाणेति मत्कृतम्॥
खातात्पराभवो मा भूदितीन्द्रं प्रत्युवाच सा।
सोऽब्रवीत्द्वत्सरादर्वाग्गतः पूर्णो भविष्यति॥
इन्द्राद्वरं प्रतिगृह्य हर्षयन्त्यभवद्धरा।
तस्मात्संवत्सरादर्वाक्खातं च परिपूर्यते॥
सेन्द्रस्य ब्रह्महत्यायास्तृतीयं भागमग्रहीत्।
तत्पापमीरिणं भूमावभवत्स्वकृतं यतः॥
ईरिणं न स्पृशेत्तस्माद्ब्रह्महत्यासवर्णकम्।
ततस्तरूनुपासीत सोऽब्रवीद्यन्मया कृतम्॥
भवन्तः प्रतिगृह्णन्तु ब्रह्महत्यातृतीयकम्।
वासवं तरवोऽप्यूचुरस्माकं च्छेदनात्परम्॥
प्रभवन्त्वङ्कुराश्चेति वरो देयस्त्वयाऽधुना।
इन्द्रस्तथा करोमीति वृक्षाणामददद्वरम्॥
तस्माद्वृक्षाश्च भूयांसं प्रभवन्ति लुनात्परम्।
ब्रह्महत्यातृतीयांश प्रत्यगृह्णन्महीरुहः॥
सोऽभवद्रक्तनिर्यासो ब्रह्महत्यासवर्णकः।
तस्माल्लोहितनिर्यासं न स्पृशेन्न च खादयेत्॥
स भूयः स्त्रीसभां गत्वा ह्युपासिताऽब्रवीदिति।
ब्रह्महत्यातृतीयांशं प्रतिगृह्णीत मत्कृतम्॥
ता अब्रुवन्वरं शक्रमृत्वियाच्च प्रजोद्भवम्।
वृणीष्व है ! कामभोगमाप्रसूतेर्यथेप्सितम्॥
ब्रह्महत्यातृतीयांशं प्रत्यगृह्णन्त्रियोऽपि च।
तस्मास्त्रियः प्रजालाभमृतौ सुरतसङ्गमात्॥
आप्रसूतेः प्रियैः सार्द्धं सम्भोगाः सम्भवन्ति हि।
तथा च मलवद्वासा अभवन्योषितस्तथा ॥
नाभिमूले स्थितं पुष्पं चतुर्दलसमन्वितम्।
तस्मिन्सर्वाश्च दधते गर्भसम्भवकारणम्॥
अधोमुखं स्थितं स्त्रीणां तद्वाल्ये मुकुलीकृतम्।
बाल्यात्परं वयः प्राप्ते मुकुलं विकसद्भवेत्॥
उत्फुल्लं कुसुमं स्त्रीणां स्वभावेन स्रवेद्रजः।
तदाप्रभृति सर्वासां मासि मासि ऋतुर्भवेत्॥ इति।
अथ तदुत्पत्तिकालः। तथा च सप्तर्षिमते विवाहपटले-
दशवर्षाधिका कन्या भवत्येव रजस्वला।
बहिः पुष्पं स्फुटीभावादन्तः पुष्पं स्फुरत्यपि॥ इति।
बृहस्पतिरपि-
एकादशे द्वादशे वा नारीणामार्तवं भवेत्।
वह्णिदीपशिखायोगाद्भेदः कोशस्य दृश्यते॥ इति।
काश्यपसंहितायामपि -
वर्षद्वादशकादूर्ध्वं यदि पुष्पं बहिर्नहि।
अन्तः पुष्पं भवत्येव पनसोदुम्बरादिवत्॥
अतस्तत्र न कुर्वीत तत्सङ्गं बुद्धिमान्नरः॥ इति।
अथ प्रथमर्तौ शुभाशुभमासादिफलनिर्णयः। ज्योतिश्चन्द्रिकायाम्-
चैत्रे तु प्रथमर्तौ स्यान्नारी वैधव्यभागिनी।
वैशाखे धनपुत्राढ्या ज्येष्ठे रोगान्विता तथा॥
शुचौ मृतप्रजा प्रोक्ता श्रावणे धनधान्यदा।
नभस्ये दुर्भगा क्लीवा आश्विने च तपस्विनी॥
ऊर्जे त्वायुष्मती नारी मार्गशीर्षे बहुप्रजा।
पौषे च पुंश्चली नारी माघे पुत्रमुखान्विता॥
फाल्गुने श्रीमती साध्वी क्रमान्मासफलं स्मृतम्॥
अथ पक्षफलम् -
शुक्लपक्षे सुशीला स्यात्कृष्णे सा कुलटा भवेत्।
कृष्णस्य दशम यावन्मध्यमं फलमादिशेत्॥
अथ तिथिफलं गुरु : -
प्रथमायां पति हन्ति द्वितीयायां सुखं भवेत्।
तृतीयायां श्रियै स्याच्च चतुर्थ्यां वृषली भवेत्॥
पञ्चम्यां पुत्रलाभश्च षष्ठ्यां चारित्र्यविक्रिया।
सप्तम्यां पुत्रवृद्धिः स्यादष्टम्यां सुतनाशनम्॥
नवम्यां रुदती नित्यं दशम्यां धर्मशालिनी।
एकादश्यां पतिस्निग्धा द्वादश्यां क्रन्दती भवेत्॥
त्रयोदश्यां मानधना त्वपरा बहुदोषकृत्।
पर्वण्यन्यगृहीता स्याद्विन्द्यादेवं तिथेर्वशात्॥
अथ वारफलम् -
भानुवारे भवेद्व्याधिश्चन्द्रवारे पतिव्रता।
बहुरोगा बहुक्लेशा पतिहीना कुजे दिने॥
बहुपुत्रवती सौम्ये सर्वसम्पद्गुरोर्दिने।
सौभाग्यं सुख सम्पत्तिः शुक्रवारे पतिव्रता॥
कष्टवुद्धिर्महाव्याधिः स्वयमर्थस्य चोरिणी।
मन्दवारे विनाशः स्यात्प्रथमर्तौ रजस्वला॥
अथ नक्षत्रफलं गर्गसंहितायाम्-
सुभगा चैव १ दुःशीला २ वन्ध्या ३ पुत्रसमन्विता ४।
धर्मयुक्ता ५ व्रतघ्नी च ६ परसन्तानमोदिनी ७ ॥
सुपुत्रा ८ चैव दुष्पुत्रा ९ पितृवेश्मरता १० सदा।
दीना ११ प्रजावती १२ चैव पुत्राढ्या १३ चित्रकारिणी १४ ॥
साध्वी १५ पतिप्रिया नित्यं १६ सुपुत्रा १७ कष्टकारिणी १८।\
स्वकर्मनिरता १९ हिंस्रा २० पुण्या २१ पुत्रादिसंयुता २२ ॥
नित्यं धनव्ययासक्ता २३ पुत्रधान्यसमन्विता २४।
मूर्खा २५ चाज्ञ \। २६ गुणवती २७ दास्रर्क्षादेः क्रमात्फलम्॥
अथ योगफलं नारदीये -
परिघस्य तु पूर्वार्धे व्यतीपाते च वैधृतौ।
परिघस्य तु पूर्वार्धे षट्षड्गण्डातिगण्डयोः॥
व्याघाते नव शूले तु नाड्यः पञ्चर्तुदर्शने।
वैधव्यमर्थहानिं च सुतनाशमहद्भयम्॥
तेजोहानिं समायाति सदा पुष्पवती क्रमात्॥ इति।
अथ राशिफलं नारदीये -
कुलीर वृषचापान्त्यनृयुक्कन्यातुलाधराः \।
राशयः शुभदा ज्ञेया नारीणां प्रथमार्त्तवे॥
अथ लग्नफलं दैवज्ञभूषणे-
मेषे स्याद्व्यभिचाराढ्या वृषभे परदारिणी।
मिथुने धनभोगाढ्या कर्कटे व्यभिचारिणी॥
सिंहे तु पुत्रसंयुक्ता कन्यायां श्रीमती तथा।
विचक्षणा तुलायान्तु वृश्चिके च पतिव्रता॥
मकरे त्वन्नहीना तु कुम्भे निर्धनयुक्तता।
मीने विचक्षणा लग्ने ग्रहसंस्था विवाहवत्॥
अथ पूर्वाह्णादिफलं स्मृतिरत्ने -
शुभं चैव तु पूर्वाह्ने मध्याह्ने मध्यमं फलम्।
अपराह्णे तु वैधव्यं पूर्वरात्रौ शुभं भवेत्॥
मध्यरात्रौ तु मध्यं स्यात्पररात्रौ शुभान्विता॥
अथ वस्त्रफलं गर्गसंहितायाम्-
सुभगा श्वेतवस्त्रा स्यादृढवत्रा पतिव्रता।
क्षौमवस्त्रा क्षितीशा स्यान्नववस्त्रा सुखान्विता ॥
दुर्भगा जीर्णवस्त्रा स्याद्रोगिणी रक्तवाससा।
नीलाम्बरधरा नारी विधवा पुष्पिता ततः॥
मलिनाम्बरधरा नारी दरिद्रा स्याद्रजस्वला।
वस्त्रे स्युर्विषमा रक्तबिन्दवः पुत्रमाप्नुयात्॥
समाश्चेत्कन्यकां चेति फलं स्यात्मथमार्तवे॥
संमार्जनीकाष्ठतृणाग्निशूर्पान्हस्ते दधाना कुलटा तदा स्यात्।
तल्पोपभोगे तपसि स्थिता चेद्दृष्टं रजो भागवती तदा स्यात्॥
अथ स्थानफलं वशिष्ठसंहितायां–
ग्रामाद्वहिः परग्रामे नारी स्याद्वयभिचारिणी।
पतिव्रता पतिस्थाने सुशीला गृहमध्यतः॥
ग्राममध्ये तु वृद्धिश्च विधवा च दिगम्बरा।
परागारे तु दुःशीला आयुष्यं जलसन्निधौ॥
धनमध्ये तु कन्या या धनधान्यसमृद्धिदा॥ इति।
स्मृस्यन्तरेऽपि -
देवस्थाने पितृस्थाने निन्द्यस्थानेऽन्य वेश्मनि।
पुष्पवत्याः फलं न स्यान्मार्गे चाण्डालवेश्मनि॥ इति।
अथ शोणितवर्णफलम् –
सा च शोणितसङ्काशे यद्वाऽलक्तकसन्निभे।
पुत्रकन्याप्रसूतिः स्यान्नीले तु स्यान्मृतप्रजा।
कर्बुरे म्रियते सा च पिङ्गले च मृतप्रजा॥
कृष्णे तु विधवा नारी रजस्यैवं विनिर्दिशेत्।
शोणिते बिन्दुमात्रे च स्वैरिणी चाल्पशोणिता॥
पुरन्ध्य्रो यत्तु पश्यन्ति रजः स्त्रीणां सुखावहम्।
विश्वस्तया तु यदृष्टं रजो वैधव्यदं स्मृतम्॥
रजः पश्यति चेत्कन्या पुमान्वा तत्सुखं भवेत्।
स्वयं दृष्टं तथा स्त्रीणारमात्मघाताय कल्पते।
प्रथमर्त्तौ द्वितीये वा शुभाशुभनिरूपणम्॥
प्रभूतदोषं यदि दृश्यते तत्पुष्पं तदा शान्तिककर्म कार्यम्।
विवर्जयेदेव तदैकशय्यां यावद्रजोदर्शनमिष्टमग्रे॥
अथ प्रथमरजोदर्शने विशेषः। तदुक्तं स्मृतिचन्द्रिका याम्-.
प्रथमर्तौ तु पुष्पिण्याः पतिपुत्रवती स्त्रियः।
अक्षतैरासनं कुर्यात्तस्मिँस्तामुपवेशयेत्॥
हरिद्रा गन्धपुष्पाहीन्दद्यात्ताम्बूलकं स्रजम्।
आशिषो वाचयेयुस्ताः पतिपुत्रत्रती भवेत्॥
दीपैर्निराजनं कुर्शत्सदीपे चामयेद्गृहे।
ताः सर्वाः पूजयेत्पश्चाद्गन्धपुष्पातादिभिः॥
लवणापूपमुद्गादि दद्यात्ताभ्यः स्त्रशक्तितः।
अथ स्त्रीणां रजोदोषः प्रसङ्गतः कथ्यते -
स्त्रीणां चैव रजः प्रोक्तं कालजं दोषकद्भवेत्॥
बृहस्पतिः —
अर्वाक्प्रसूतेरुत्पन्नं मेदोवृध्याऽङ्गनासु यत्।
तद्रागजमिति प्रोक्तं प्रजोद्भेदसमुद्भवम्॥
पित्तादिदोषवैषम्यादसकृत्सम्प्रवर्तते।
रोगजं तत्ममुद्दिष्टम्॥ इति।
यावत्पञ्चाशदब्दानि परतो दशवत्सरात्।
मासि मासि रजः स्त्रीणां कालजं तत्मचक्षते॥
रागजं रोगजं चैव द्रव्यजं चापि यद्भवेत्।
अकाले यदि चोस्त्रीणां तद्रजो नैव दुष्यति॥
पञ्चाशद्वर्षादूर्ध्वं नैव दोषः। अथ प्रसङ्गवो रजस्वलाधर्मा निरूप्यन्ते -
उदक्या पललं क्षौद्रं गन्धपुष्पघृतं त्यजेत्।
अखर्वपात्रे भुञ्जीयात्तोयमञ्जालना पिबेत्॥
प्रसवात्सार्तवा नारी ग्रहाणामीक्षणं त्यजेत्।
दिवा निद्रां च ताम्बूलं तालवृन्तादिवन्धनम्॥
स्कन्दपुराणे -
स्त्री धर्मिणी त्रिरात्रं तु स्वमुखं नैव दर्शयेत्।
स्ववाक्यं श्रावयेन्नापि यावत्स्त्रानेन शुद्ध्यति॥
वीरमित्रोदये स्मृतिमञ्जर्थ्याम्-
तस्मादुदक्यया सार्द्धमेकगेहे न संवसेत्।
प्रतिग्रहं च संवादमस्या अन्नं च वर्जयेत्॥
रजस्वला पतिं गच्छेच्चाण्डालो जायते सुतः।
आर्तवाभिप्लुताऽस्नाताजातस्त्वप्सु मरिष्यति॥
तैलेनाभ्यञ्जनं कुर्यास्कुष्ठरोगी प्रजायते।
आर्तवे चेत्खनेद्भूमिमल्पायुर्जायते नरः॥
नेत्रयोरञ्जनं कुर्यात्काणो वाऽन्धश्च जायते।
पुष्पिणी दन्तधावी स्याज्जायते श्यावदन्तकः॥
नखानां कृन्तनं कुर्यातकुनखी जायते सुतः।
ऋतौ रज्वादिकच्छेदं कुर्यातक्लीबः प्रजायते॥
तन्तूनां सृजते रज्जुमुद्धन्धनमृतो भवेत्।
पर्णपात्रेऽन्नमश्र्नीयादुन्मादी जायते सुतः॥
खर्वे शरावे भुञ्जीयाद्वामनो वा प्रजायते।
अङ्गिराः-
हस्तेऽश्रीयान्मृण्मये वा हविर्भुक्षितिशायिनी।
रजस्वला चतुर्थेऽह्नि स्त्रात्वा शुद्धिमवाप्नुयात्॥
सुस्राता भर्तृवदनमीक्षेन्नान्यस्य च क्वचित्।
अथवा मनसिध्यात्वा पतिं भानुं विलोकयेत्॥
ऋतुस्नाता तु या नारी यं स्नेहान्नरमीक्षते।
तादृशं जनयेद्गर्भं पतिमेव निरीक्षपेत्॥ इति।
याज्ञवल्क्यः -
रजःस्रावे तु नारीणां रजोदोषो दिनत्रयम्।
चतुर्थेदिवसे स्नात्वास्पर्शनादावनिन्दिता॥
शुद्धा भर्तुश्चतुर्थेऽह्निस्नानेन स्त्री रजस्वला।
दैवे कर्माणि पित्र्येच पञ्चमेऽहनि शुध्यति॥
स्नानानन्तरमकालरजोदर्शने निर्णयमाह। तत्र वीरमित्रोदये अङ्गिराः -
आद्वादशाहं नारीणां मूत्रवच्छौचमिष्यते।
आऽष्टादशाहात्स्त्रानं स्यात्त्रिरात्रं परतोऽशुचिः॥
हारितोऽपि -
रजस्वला यदा स्नाता! पुनरेवरजस्वला।
अष्टादशदिनादर्वागशुचित्वं न विद्यते॥
एकोनविंशतेर्वागेकाहंस्यात्ततो द्व्यहम्।
विंशत्प्रभृत्युत्तरेषु त्रिरात्रमशुचिर्भवेत्॥ इति।
इदन्तु गतयौवनाविषयम्। तथा च कश्यपः-
ऋतुस्नाता तु याऽप्रौढा पुनरेव रजस्वला।
स्नानात्सप्तदशाहे तु शौचेनैव शुचिर्भवेत्॥
अष्टादशाहे त्वेकाहं द्व्यहमेकोनविंशतौ।
विंशत्प्रभृत्युत्तरेषु त्रिरात्रमशुचिर्भवेत्॥ इति।
अप्रौढाऽगतयौवना। यत्तु-
चतुर्दशदिनादर्वागशुचित्वं न विद्यते।
इति तत्स्नानप्रभृतीति न विरोधः। युवत्यास्तु विशेषमाह कश्यपः -
त्रयोदशदिनादूर्ध्वं रजो दृष्टवती यदि।
अष्टादशाहात्प्राग्वाऽपि युवत्याः स्यान्त्रिरात्रकम्॥
एकादशाहे त्वेकाहं त्रिरात्रं द्वादशेऽहनि।
ऊर्ध्वं त्रिरात्रं विज्ञेयमिति कुण्डलिनोदितम्॥
धर्मप्रवृत्तौ-
ऋतुकाले व्यतीते तु यदि नारी रजस्वला।
तत्र स्नानेन शुद्धिः स्यादष्टादशदिनात्पुरा॥
दिनाच्चेत्षोडशादर्वाङ्नारी या चातियौवना।
पुना रजस्वलाऽपि स्याच्छुद्धा स्नानेन केचन॥
रात्रेः कुर्यात्त्रिभागन्तु द्वौ भागौ पूर्ववासरे।
ऋतौ सूते मृते चैव ज्ञेयोऽन्त्यांसः परेऽहनि॥
अन्यः पक्षः–
रात्रावेव समुत्पन्ने मृते रजसि सूतके।
पूर्वमेव दिनं ग्राह्यं यावन्नोदयते रविः॥
इति कश्चिद्देशाचारः, न तु सर्वत्र। अथ नैमित्तिकस्नानविधिं चाह पराशरः
स्नाने नैमित्तिके प्राप्ते नारी यदि रजस्वला।
पात्रान्तरिततोयेन स्रानं कृत्वा व्रतं चरेत्॥
सिक्तगात्रा भवेदद्भिः साङ्गोपाङ्गा कथञ्चन।
न वस्त्रपीडनं कुर्यान्नान्यद्वासश्च धारयेत्॥
अथातुरर्तुमतीस्नाननिर्णयः। तत्र देवलः-
आतुरा चेदृतुमती तस्याः स्नानं कथं भवेत्।
स्पृष्ट्वा तु तां परा स्नायाद्दशकृत्वो ह्यनातुरा॥
वासोभिर्दशभिश्चैव परिधाप्य यथाक्रमम्।
ब्राह्मणान्योजयित्वाऽथ पुण्याहेन विशुध्यति॥
आतुराणां तु सर्वेषामेवं शुद्धिर्विधीयते।
इति पराशरोऽपि। अत्रिः-
आतुरस्नान उत्पन्ने दशकृत्वो ह्यनातुरः।
स्पृष्ट्वा स्पृष्ट्वाऽवगाहेत स्त्र विशुद्धयेत आतुरः॥
अथोदक्ययोरन्योन्यस्पर्शे निर्णयः। स्मृतिमञ्जर्याम्-
उदक्ये द्वे सगोत्रे वा सवर्णे चौकभर्तृके।
तयोः स्नानं मिथः स्पर्शे पञ्चगव्यं ततः पिबेत्॥
सवर्णयोः सपत्न्योः सवर्णयोः सगोत्रयोर्वा मिथः स्पर्शे सद्यः स्नानं शुद्ध्यनन्तरं पञ्चगव्यप्राशनं प्रायश्चित्चमित्यर्थः। इदन्तु सहशयनादि स्पर्शविषयम्। यत्तु -
स्पृष्टे रजस्वलेऽन्योन्यं सगोत्रे त्वेकभर्तृके।
कामादकामतो वाऽपि सद्यः स्त्रानेन शुध्यतः॥
इति वृद्धवशिष्ठवचनं तत्सकृत्स्पर्शविषयम्। तुशब्दो वाऽर्थः। सवर्ण इत्युभयविशेषणमुन्नेयम्, मूल-वाक्ये तथा दर्शनात्। इदानीं सवर्णयोः सगोत्रयोः सोदरयोर्भगिन्योः कामाकामाभ्यां मिथःस्पर्शे शुद्धि-माह-
सवर्णयोनिसम्बद्धे सगोत्रे च रजस्वले।
मिथःस्पृशेदमत्या तु स्नानमात्रेण शुध्यति॥
मत्यैकरात्रं नाश्नीत्यात्पञ्चगव्यं पिवेत्ततः।
वर्णश्च योनिश्च वर्णयोनी तयोः संबद्धे। यत्तु -
उदक्या तु सवर्णा या स्पृष्टा चेत्स्यादुदुक्यया।
तस्मिन्नेवाहाने स्नाता शुद्धिनाप्नोत्यसंशयम्॥
इति मार्कण्डेयवाक्यम्, यच्च-
रजस्वला तु संस्पृष्टा ब्राह्मण्या ब्राह्मणी यदि।
एकरात्रं निराहारा पञ्चगव्येन शुध्यति॥
इति कश्यपवाक्यं तदुभयमपि मुलोक्तविषय एव कामाकामाभ्यां यथायथं योज्यम्। इदानीं भर्तृयो-निगोत्रसम्बद्धसवर्णयोः स्पर्शे प्रायश्चित्तं सपादश्लोकेनाह –
उदक्ययोर्यदाऽन्योन्यमसम्बद्धसवर्णयोः।
स्पृशेदमत्या स्नात्वा च तस्मिन्नाद्याच्छुचिर्भवेत्॥
मत्या तु नाद्यादा शुद्धेः। इति॥
आशुद्धेः स्पर्शदिनमारभ्य शुद्धिदिनपर्यन्तमित्यर्थः। निषेधातिक्रमणे युवत्याः शुद्धिमाह - “शुद्धा चेत्प्रतिवासरं उपोषणं तदे” ति। स्पर्शानन्तरं यावद्दिनं भुङ्क्ते तावद्दिनं शुद्ध्यनन्तरमुपवासः कर्तव्य इत्यर्थः। उपवासाशक्तायाः पक्षान्तरमाह, केचिदाहुस्तद्दिन संख्या -
उपवासे त्वशक्ताचेतत्समं दानमाचरेत्॥
यावद्दिनं भुङ्क्ते तावद्दिनसंख्याकं ब्राह्मणभोजनपर्याप्तिमन्नं दद्यादित्यर्थः, प्राजापत्यप्रत्याम्नाये तथा दर्शनात्। एवं सम्बासम्बद्धवर्णयोः शुद्धिमभिधायेदानीमसम्बद्धब्राह्मण्योर्विशेषशुद्धिमाह-
सम्भाषेतां स्पृशेतां वा ब्राह्मण्यौ च रजस्वले।
आस्नानकालानाश्नीतामुभे मत्या मिशः क्वचित्।
स्नात्वोपवासं कुर्यातां पञ्चगव्येनशुद्ध्यतः॥
आस्नानकालात्स्पर्शदिनमारभ्य यावच्छुध्यनशनमन्ते त्रिरात्रोपवालश्च तथा च पराशरः-
स्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मणीं ब्राह्मणी तथा।
तावत्तिष्ठेन्निराहारा त्रिरात्रेणैव शुध्यति॥ इति।
एवकारः पञ्चगव्याशनव्यावृत्त्यर्थः। क्वचिदमत्या स्नानानन्तरमुपवासः पञ्चगव्यपानं चेत्यर्थः। इदानी-मुक्तविषयेष्वत्यन्ताम्यासे प्रायश्चित्तमाह
एवमभ्यासतश्चाब्दंप्रायश्चित्तं समाचरेत्॥ इति।
अथासवर्णासवर्णयोः स्पर्शे निर्णयः। तथा च पराशरः-
स्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मणी क्षत्रिया तथा।
अर्द्धकृच्छ्रं चरेत्पूर्वा पादमेकं त्वनन्तरा॥
स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी वैश्यजा तथा।
पादद्दीनं चरेत्पूर्वापादमेकमनन्तरा॥
स्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मणी शुद्रजा तथा।
कृच्छ्रेण शुद्ध्यते पूर्वा शूद्रा दानेन शुध्यति॥
दानं प्रादकृच्छ्रप्रत्याम्नायभूतनिष्कचतुर्थांशमानम्। अत्र क्षत्रिया-
दीनां वैश्यादिस्पर्शने निर्णयः। तत्र वृद्धवशिष्ठः -
स्पृष्ट्वा रजस्वलाऽन्योन्यं क्षत्रिया शुद्रजाऽपि वा।
उपवासैस्रिभिः पूर्वा त्वहोरात्रेण चोत्तरा॥
स्पृष्ट्वा रजस्वलाऽन्योन्यं वैश्या शुद्रा तथैव च।
त्रिरात्राच्छुध्यते पूर्वा उत्तरा हु दिनत्रयात्॥
इदं च त्रिरात्राहोरात्रादिकं स्नानानन्तरमेव द्रष्टव्यम्, न तु स्नानात्प्राक्। नैमित्तिकोपवासैर्गतार्थम्। एतच्च सर्वं कामतः स्पर्शे।
वर्णानां कामतः स्पर्शे विधिरेषः सनातनः॥
इति वशिष्ठवाक्यविशेषात्। अकामतो वृद्धविष्णूक्तम् -
“रजस्वला हीनवर्णांरजस्वलां स्पृष्टा न तावदश्रीयाद्यावच्छुद्रा स्यात्सवर्णामधिकवर्णां स्पृष्टा सद्यः स्नात्वा शुध्यति”।
अथ रजस्वलायाश्चण्डालादिस्पर्शे निर्णयः। तत्र वृद्धवशिष्ठः-
पतितान्त्यश्वपाकेन संस्पृष्टा चेद्रजस्वला \।
तान्यहानि व्यतिक्रम्य प्रायश्चित्तं समाचरेत्॥
परतश्चतुर्थेऽह्नि स्नानात्प्रागित्यर्थः।
शूद्रयोच्छिष्टया स्पृष्टा सुना च व्यहमाचरेत्॥ इति।
अकामतो बौधायन आह-
रजस्वला यदा स्पृष्टा चाण्डालान्त्यश्ववायसैः।
तावत्तिष्ठेन्निराहारा यावत्कालेन शुध्यति॥
असक्तां प्रति तु स एवाह-
रजस्वला तु संस्पृष्टा ग्रामकुक्कुटशूकरैः।
श्वभिः स्नात्वा क्षपेत्तावद्यावच्चन्द्रस्य दर्शनम्॥ इति।
भोजनकाले स्पर्शे तु स एवाह -
रजस्वला तु भुञ्जाना श्वान्त्यजान्स्पृिशेद्यदि।
गोमूत्रयावकाहारैः षड्रात्रेण विशुद्धयति॥
अशक्तौ काञ्चनं दद्याद्विप्रेभ्यो वाऽपि भोजनम्॥ इति।
विप्राश्चात्र व्रतरात्रिसमसङ्ख्याः षड् ग्राह्याः \।
अथाशौचमध्ये रजोदर्शने निर्णयः। मार्कण्डेयः-
मृतसूतकसम्पर्के ऋतुं दृष्ट्वा कथं भवेत्।
नास्नानकालमश्नीयाद्भुक्त्वा चान्द्रायणं चरेत्॥
मनुरपि -
अप्रायत्ये समुत्पन्ने मलवद्वाससी यदि।
अभिषेके तु भुक्तिः स्याद्दिनत्रयमभोजनम्॥
अप्रायत्ये सूतकाद्याशौचोत्पत्तौ। दिनत्रयमित्यवशिष्टकालोपलक्षणम्। एतच्चाबालापत्याविषयम्। बालापत्यानामशक्तानां तु सद्यःस्नानमात्रेण भोजनमिति प्राञ्चः। उच्छिष्टस्पर्शे त्वाहात्रिः –
उच्छिष्टोच्छिष्टसंस्पृष्टा कदाचित्स्त्री रजस्वला।
कृच्छ्रेण शुद्ध्यते पूर्वा शूद्रा दानैरुपोषिता॥ इति।
पूर्वा ब्राह्मणी, दानं पादकृच्छ्रसमम्, अत्र ब्राह्मणीशूद्रयोः कृच्छ्रकृच्छ्रपादरूपप्रायश्चित्तमाम्नातम्। मध्यस्थयोः क्षत्रियावैश्ययोरनुक्तप्रायश्चितत्वेऽपि अर्थात्पादोनार्द्धकृछ्रवेदितव्यौ। तत्रैव चाण्डालरजस्वलादर्शने अव्यापस्तम्बौ -
रजस्वला तु या नारी चाण्डालं यदि पश्यति।
उपवासवतं कुर्यात्प्राजापत्यं तु कामतः॥
ऋतुगमनस्य च कालमाह याज्ञवल्क्यः-
षोडशर्तुर्निशाः स्त्रीणां तासु युग्मासु संविशेत्।
ब्रह्मचार्येव पर्वाण्याद्याश्चतस्रश्च वर्जयेत्॥
नाभिकमलीयशोणितप्रत्यक्षतादिनमारभ्य षोडशाहोरात्राणि गर्भधारणयोग्यः काल ऋतुर्भवति, तत्राद्याश्चतस्त्रो निशाः पर्वाणि वक्ष्यमाणानि अयुग्माश्च रात्रीर्वर्जयित्वा पुत्रार्थी संविशेत्। ब्रह्मचारी ऋतुगमनात्प्राकृ अकृततत्संसर्गः। तथा चाश्वलायनः-
प्राग्रजोदर्शनात्पत्नी नेयाद्गत्वा पतत्यधः।
व्यर्थीकारेण शुक्रस्य ब्रह्महत्यामवाप्नुयात्॥
महाभारते-
ऋतौ गच्छति यो भार्यामनृतौ नैव गच्छति।
यावज्जीवं ब्रह्मचारी मुनिभिः परिकीर्त्तितः॥ इति।
अन्ये तु -
ऋतुस्नातां तु यो भार्यांं सन्निधौ नोपगच्छति।
घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः॥ इति।
निशाशब्दग्रहणाद्दिवानिषेधः। तथा चोक्तं कात्यायनपरिशिष्टे-
“तस्मिन्प्रजायाः सम्भवकाले निशायां कुर्याद्यदि दिवा मैथुनं व्रजेत्क्लीबा अल्पवीर्या अल्पायुषाश्च प्रसूयन्ते तस्मादेत-द्वर्जयेत्प्रजाकामः श्रुतिस्मृतिविरोधाभ्या” - मित्यनेन दिवा गमननिषेध इति, तन्न। व्यासः-
अनृतावृतुकाले वा दिवा रात्रावथापि वा।
प्रोषितस्तु स्त्रियं गच्छेत्प्रायश्चित्ती भवेन्न च॥ इति।
युग्मास्वपि रात्रिषु पुत्रोत्पत्तौ उत्तरोत्तरा एव रात्रयः प्रशस्ताः। व्यासः-
रात्रौ चतुर्थ्यांं पुत्रः स्यादल्पायुर्धनवर्जितः।
पञ्चम्यां पुत्रिणी नारी षष्ठ्यां पुत्रस्तु मध्यमः॥\
सप्तम्यामप्रजा योषिदष्टम्यामीश्वरः सुतः।
नवम्यां सुभगा नारी दशम्यां चतुरः पुमान्॥
एकदश्यामधर्मा स्त्री द्वादश्यां पुरुषोत्तमः।
त्रयोदश्यां सुता तस्य वर्णसङ्करकारिणी॥
प्रजायते चतुर्दश्यां गुणोघैर्जगतीपतिः।
धर्मध्वजः कृतज्ञः स्यादात्मवेदी दृढव्रतः॥
राजपत्नी महाभागा राजवंशगता तथा।
जायते पञ्चदश्यां तु बहुपुत्रा पतिव्रता॥
विद्यालक्षणसम्पूर्णः सत्यवादी जितेन्द्रियः।
आश्रयः सर्वभूतानां षोडश्यां जायते पुमान्॥
वीरमित्रोदये-
निशाषोडशकं नारी संज्ञितर्तुमती सदा।
तावद्योग्या प्रजास्थाने विनाऽऽद्याहश्चतुष्टयम्॥
तच्चैकस्या रात्रौ सकृदेव कार्यम् -
सुस्थ इन्दौ सकृत्पुत्रं लक्षण्यं जनयेत्पुमान्।
इति याज्ञवल्क्योक्तेः। इदं चर्तौ गमनमन्यकाले प्रतिबन्धादिनाऽसम्भवे श्राद्धैकादश्यादावपि कार्यम्।
ब्रह्मचार्येव पर्वाण्याद्याश्चतस्त्रश्च वर्जयेत्॥
इति याज्ञवस्क्योक्तेः। व्याख्यातं चेदं मिताक्षरायाम् – यन्त्र श्राद्धादौ ब्रह्मचर्यं विहितं तत्राप्यृतौ गच्छतो न ब्रह्मचर्यस्खलनदोष - इति। “आद्याश्चतस्त्रे” ति चतुर्थदिन निषेधेऽपि -
स्नातां चतुर्थे दिवसे रात्रौ गच्छेद्विचक्षणः॥
इति भारतोक्तेर्गन्तव्यम्। तत्र प्रतिषिद्धदिनान्याह-
गण्डान्तन्त्रिविधन्त्यजेत्रिधनजन्मर्क्षे मूलान्तकं
दास्रं पौष्णमथोपरागदिवसं पातं तथा वैधृतिम्।
पित्रोः श्राद्धदिनं दिवा च परिघाद्यर्धं स्वपत्नीगमे
भान्युत्पातहतानि मृत्युभवनं जन्मर्क्षतः पापभम्॥
भद्राषष्ठीपर्वरिक्ताश्च सन्ध्याभौमार्कार्कीनाद्यरात्रीश्चतस्रः।
गर्भाधानन्त्र्युत्तरेन्द्वर्कमैत्रब्राह्मस्वातीविष्णुवस्वम्बुपे सत्॥
पर्वाणि -
चतुर्दश्यष्टमी कृष्णा अमावास्या च पूर्णिमा।
पर्वाण्येतानि राजेन्द्र ? रविसङ्क्रान्तिरेव च॥
केन्द्र १९४/७/१० त्रिकोणेषु १।५।९ शुभैश्च पापै -
स्त्र्यायारिगैः ३\।११\।६ पुंग्रहदृष्टलग्ने।
ओजांशगेऽब्जेऽपि च युग्मराशौ
चित्राऽदितीज्याश्विषु मध्यमं तत्॥
चन्द्रे विषमराशीनां नवांशगे सति। अपिशब्दाल्लग्नेऽपि विषमांशगे
युग्मराशौ समराशौ गर्भाधानं न कार्यम्।
अत्यन्त निषिद्धानि नक्षत्राण्याइ वीरमित्रोदये -
पित्र्यं पौष्ण नैर्ऋतं चापि धिष्ण्यं त्यक्त्वा नारीं सुप्रसन्नः प्रसन्नाम्।
पुष्टः क्षामां पुत्रकामो हि गच्छन्सल्लक्षण्यं पुत्रमाप्नोति श्रीमान्॥
एतन्त्रितयपरित्यागे निमित्तमुक्तं विष्णुपुराणे-
यस्मिन्नृक्षे भवेद्गर्भस्तस्माद्यद्दशमम्भवेत्।
तत्रापत्यं प्रजायेत तस्मादेतत्त्रयं त्यजेत्॥
स्त्रिया रूक्षादि लघु भोजनं कर्तव्यम्। पुरुषेण च तुष्टयर्थं स्निग्धं भक्षणीयम्। तथा च बृहस्पतिः-
स्त्रियाः शुक्रेऽधिके स्त्री स्यात्पुमान्पुंसोऽधिके भवेत्।
तस्माच्छुक्रविवृध्यर्थं वृष्यं स्निग्धं च भक्षयेत्॥
लघ्वाहारां स्त्रियं कुर्यादेवं सञ्जयेत्सुतम्॥ इति।
वृष्यं वीर्यवृद्धिकरं द्रव्यम्। मनुरपि -
पुमान्पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियः।
समे नपुंसकं ज्ञेयं पुंस्त्रियोर्वाऽन्ययोगतः॥
शुक्रं रेतः पुरुषस्य स्त्रियाः शोणितम्। “शुक्रशोणितसम्भवः पुरुष” इति वशिष्ठोक्तेः। रेणुकारिकायाम् -
यदि संयोगकाले तु पुरुषो रागमोहितः।
द्विधा समुत्सृजेच्छुक्रंयमलं तत्र जायते॥
निःसारेऽल्पे च शुक्रे स्यान्न गर्भो मनुवाग्यतः।
तस्माच्छुक्रविवृध्यर्थं वृष्यं स्निग्धं च सेवयेत्॥
शष्ठिशाल्योदानं साज्यं माषसूपसमन्वितम्।
तत्पिबेदग्निशक्त्यैव वीर्यवर्धनमुच्यते॥
रसैर्विदारिकाचूर्णं सप्तधा भावितं स्वकैः।
शर्कराक्षीरसंयुक्तं पिबेत्तवृष्यमुत्तमम्॥
चूर्णमामलकानां वा स्वरसैर्भावितन्तथा।
मध्वाज्यशर्करायुक्तमग्निशक्त्या पयः पिबेत्॥
पयसा वानरीमूलं बीजं वा चप्यमुच्यते॥
धर्मप्रवृत्तौ-
गर्भाधानाङ्गभूतं यत्कर्म कुर्याद्दिवैव हि।
रात्रौ कुर्याद्विधानेन गर्भबीजस्य रोपणम्॥
मूत्र\।दिकं ततः कृत्वा योनिं प्रक्षालयेज्जलैः।
पूर्वरात्रे व्यतीते तु सङ्गच्छेद्रतिमन्दिरम्॥
पादौ प्रक्षालयेत्पूर्वं पश्चाच्छय्यां समाविशेत्।
सा नारी सुखमाप्नोति न भवेद्दुःखभागिनी॥
उपानहौ वेणुदण्डमम्बुपात्रं तथैवच।
ताम्बूलादीनि सर्वाणि समीपे स्थापयेद्गृही॥
कुङ्कुमं चाञ्जनं चैव तथा हारिद्रसिन्दुरम्।
धौतवस्त्रं च ताम्बुलं संयोगे च शुभावहम्॥
स्वपेत्स्त्री प्राक्शिरः कृत्वा प्रत्यक्पादौ प्रसारयेत्।
ताम्बूलचर्वणं कुर्यात्सकामो भार्यया सह।
वाम्बुलेन मुखं पूर्णं कुङ्कुमादि समन्वितम्॥
प्रतिमाह्नादिकैर्युक्तं कृत्वा संयोगमाचरेत्।
विना ताम्बूलवदनां नग्नामाक्रान्तरोगिणीम्॥
दुर्मुखीं च क्षुधा युक्तां संयोगे च परित्यजेत्॥
धर्मप्रवृत्तौ स्मृत्यन्तरे-
चन्दनं चानुलिप्याङ्गे धृत्वा पुष्पाणि दम्पती।
ताम्बूलचर्वणं कृत्वा प्रदीपे मैथुनं चरेत्॥
दीपे नष्टे तु यः सङ्गं करोति मनुजो यदि।
यावज्जन्म दरिद्रत्वं जायते नात्र संशयः॥
पादलग्नतनुश्चैव द्व्युच्छिष्टं ताडनं तथा।
कोपं रोपं च निर्भत्स्य संयोगे च न कर्मभाक्॥
भुक्तवानुपविष्टस्तु शय्यायामभि सन्मुखः।
संस्मृत्य परमात्मानं पत्न्या जङ्घेप्रसारयेत्॥
अलोमशां च सुदृढामनार्द्रांं सुमनोहराम्।
योनिं स्पृष्ट्वा जपेत्सूक्तं विष्णुर्योनिं प्रजापते॥
योनिं पश्येज्जपेन्मन्त्रं वसुनीते पुनात्विति।
मत्सदृशो भवेत्पुत्र इति मत्वा स्मरेद्धरिम्॥
तथा च कात्यायनपशिशष्टम् “दक्षिणेन पाणिनोभावूरू प्रसार्य प्रजास्थानमभिस्पृशन्जपति पूषा भगँसविता मे ददातु रुद्रः कल्पयतु ललामगुं विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिँशतु। आसिञ्चतु प्रजापतिर्धाता गर्भन्दधातु ते । गर्भन्धेहि सिनीवालि ? गर्भन्धेहि पृथुष्टुके। गर्भन्ते अश्विनौ देवावाधत्तां पुष्करस्रजाविति तेजो वैश्वानरो दद्यादथ ब्रह्माणमामन्त्रयते ब्रह्मा गर्भन्दधात्विति प्राङ्मुखोदङ्मुखो वोपविष्टो मन्थेद्रेतो मूत्रमिति चैके स्रावणं कुर्यात्” इति । धर्मप्रवृत्तौ–
ओष्ठाविसर्जयेन्मन्त्रेणान्योन्यमवलोकयेत्।
स्तनौ धृत्वा तु पाणिभ्यामन्योन्यं चुम्बयेन्मुखम्॥
बलन्धेहीतिमन्त्रेण योन्यां शिश्नं प्रवेशयेत्।
योनेस्तु किञ्चिदधिको भवेल्लिङ्गो बलान्वितः॥
सन्तुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव च ।
यस्मिन्नेतत् कुले नित्यं कल्याणं तत्र वै ध्रुवम्॥
सम्भागं चैव भार्यायाः सुदृढं स्थिरवीर्यवान्।
स्कन्धौ वाऽथ कटिं धृत्वा यथेष्टं मैथुनं चरेत्॥
इच्छापूर्णं भवेद्यावदुभयोः कामयुक्तयोः।
रेतः सिञ्चेत्ततो योन्यां तस्मादूगर्भ बिभर्ति सा॥
ऋतुकालोपगामी यः प्राप्नोति परमां गतिम्।
सत्कुले प्रभवेत्पुत्रः पितॄणां स्वर्गदो भवेत्॥
अथ स्त्रीणां बहुवे ऋतौ यौगपद्ये च गमनक्रममाह देवलः–
योगपद्ये तु तीर्थानां विभादिक्रमशो व्रजेत्।
रक्षणार्थमपुत्राणां ग्रहणक्रमशोऽपि वा॥ इति।
तीर्थमृतुः। विप्रादिक्रमो वर्णक्रमः। ग्रहणक्रमो विवाहक्रमः। अगमने दोषमाह पराशरः -
ऋतुस्नातान्तु यो भार्यां सन्निधौ नोपगच्छति।
घोरायां भ्रूणहत्यायां पितृभिः सह मज्जति॥
अस्यापवादमाह मदनरत्ने-
व्याधितो बन्धनस्थो वा प्रवासेष्वथ पर्वसु।
ऋतुकालेऽपि नारीणां भ्रूणहत्या प्रमुच्यते॥
वृद्धां वन्ध्यामसंवृत्तां मृतामत्यामपुष्पिणीम्।
कन्यां च बहुपुत्रां च वर्जयेन्मुच्यते भयात्॥
स्त्रीणामपि ऋतुकाले रागद्वेषादिना पुरुषं प्रत्यगमने दोषमाह पराशर :-
ऋतुस्नाता तु या नारी पतिं नैवोपगच्छति।
शुनी वृकी शृगाली च शूकरी च पुनः पुनः॥
कामयज्ञमिति प्राहुर्गृहिणामेव सर्वदा।
अनेन लभते पुत्रं संसारार्णवतारकम्॥
तावुभावशुची स्यातां दम्पती मिथुनं गतौ॥
वृद्धशातातपः-
शयनादुत्थिता नारी शुचिः स्यादश्शुचिः पुमान्॥
“अथास्यै दक्षिणाँसमधि हृदयमालभते यत्ते सुशीमे हृदयं दिवि चन्द्रमसि श्रितम्। वेदाहन्तन्मान्तद्विद्यात्पश्येम शरदः शतञ्जीवेम शरदः शतँ शृणुयाम शरदः शतमिति” इति सूत्रम्। अथ मैथुनोत्तरं अस्या भार्यायाः दक्षिणांसं दक्षिणस्कन्धं अधि उपरि स्वहस्तं नीत्वा तेनैव हस्तेन हृदयमालभते स्पृशति। “यत्ते सुशीम” इति मन्त्रेण। अत्र कर्कभाष्यम् – हृदयालम्भश्चाभिगमनोत्तरकालीनः, प्राक्कालीन इत्यपरे अप्रयतत्वादिति। नैतदिति जयरामः, यतो गर्भसम्भावनायां तदुपयुज्यते। प्रयतत्वं च शौचादिनाऽपि स्यादेव। याज्ञवल्क्यः -
ऋतौ तु गर्भशङ्कित्वात्स्नानं मैथुनिनः स्मृतम्।
अनृतौ तु यदा गच्छेच्छौचं मूत्रपुरषिवत्॥ इति।
अभिगमनानन्तरमनाचान्त एव दक्षिणाँसमधि हृदयमालभत इति भर्तृयज्ञः। मन्त्रार्थः – शोभना सीमा मूर्ध्नि केशमध्ये पद्धतिर्यस्याः सा तस्याः सम्बोधनं हे सुशीमे शोभनसीमन्तिनि ? यत्ते तव हृदयं मनो दिवि स्वर्गे वर्तमाने चन्द्रमसि श्रितं तदधीनतया स्थितं तदहं वेद जानीयाम्। तच्च मां विद्यात् जानातु। एवं परस्परानुगुणितहृदया अपत्यादिसहिता वयं शरदः शतमित्यायुक्तार्थम्। “एवमत ऊर्ध्व” मिति सूत्रम्। प्रथमर्त्तौ यथा हृदयालम्भः कृत एवमनेन प्रकारेण अतोऽनन्तरं ऊर्ध्वं ऋतौ हृदयालम्भः कार्यः। हरिहरगदाधरव्याख्या चैवम्। एवमनेन प्रकारेण अतोऽनन्तरं ऋतौ ऋतौ प्रवेशनम्। यथाकामं वेति॥
इति श्रीप्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्रविवरणे
संस्कारगणपतौ प्रथमकाण्डे एकादशी कण्डिका॥
अथास्य स्पष्टप्रयोगः।
तत्र भार्या चेद्रजःस्नाता तदा आद्यं दिनचतुष्टयं मघामूलरेवतीपर्वपञ्चकमन्यानि ज्योतिःशास्त्रनिर्दिष्टानि विरुद्धतिथि-वारादीनि च वर्जयित्वा सुलग्ने प्रसन्नां भार्यां अभिगच्छेत्। तत्रादौ रजोदर्शनशान्तिप्रयोगः। रजोदर्शनानन्तरं पञ्चमदिने चन्द्रताराद्यानुकूल्ये शुचिदेशे सुस्नातयां पत्न्या युतः पतिः प्राङ्मुख उपविश्य प्राणानायम्य देशकालो सङ्कीर्त्य “मम पत्न्याः प्रथमरजोदर्शनेऽमुकदुष्टमासादिसूचितसकलारिष्टनिरसनद्वारा श्रीपरमेश्वरप्रीत्यर्थं सग्रहमखां शौनकोक्तां शान्तिं करिष्ये।” इति सङ्कल्प्य गणेशपूजनपुण्याहवाचनगौर्यादिषोडशमातृकापूजनब्राह्म्यादिसप्तमातृकापूजननान्दीश्राद्धानि कृत्वा शान्तं दान्तं कुटुम्बिनं मन्त्रतन्त्रज्ञमाचार्य ब्रह्माणं च जपहोमार्थमष्टौ षट् चतुरो वा ऋत्विजोऽपि वृत्वा गन्धादिना पूजयेत्। तत आचार्यः प्राणानायम्य देशकालो सङ्कीर्त्य अमुककर्माङ्गत्वेन यजमानवृतोऽहं आचार्यकर्म करिष्ये " इति सङ्कल्प्य
गौरसर्षपान्विकिरेत्। तत्र मन्त्राः “ॐ रक्षोहणं व्वलगहनं” इति “यदत्र संस्थितं भूत” मित्यादिमन्त्रैः। “ॐ आपोहिष्ठे" त्यादिमन्त्रैः कुशैः पश्चगव्येन भूमेः प्रोक्षणं कार्यम्। गृहेशानदेशे शुचौ “महीद्यौ" रित्यादिमन्त्रैः कुम्भत्रयं मन्त्रावृत्त्या स्थापयेत्। एवं सर्वत्र मन्त्रावृत्तिः। मध्यकुम्भे विशेषः। यवव्रीहितिलमाषश्यामाकमुद्गाः, तत्रैव गायत्र्या उदुम्बरम्, कुशदूर्वारक्तोत्पलं चम्पकं बिल्वं विष्णुक्रान्ततुलसीवर्हिषः शङ्खपुष्पीशतावर्यश्वगन्धानिर्गुण्डीरक्तपीतसर्षपान्, अपामार्गपलाश-पनसजीरकप्रियङ्गुगोधूमान् अश्वत्थदुग्धदधिघृतपद्मपत्रनीलोत्पलसितरक्तपीतकुरण्टकगुञ्जावचामद्र-कामुस्तकान्, इति द्वात्रिंशदोषधानि यथासम्भवानि वा क्षिपेत्। ततः कलशोपरि क्रमेण सौवर्णं राजतं ताम्रमयं कांस्यमयं वैणवं मृण्मयं वा यवादिपूरितं पात्रत्रयं “पूर्णां दर्वी"ति निधाय तदुपरि श्वेतवस्त्रत्रयं न्यस्य तत्र चन्दनादिनाऽष्टदलानि कुर्यात्। तत्र मध्ये “गायत्र्या” भुवनेश्वरीमावाह्य यथाशक्तिसुवर्णनिर्मितां भुवनेश्वरीप्रतिमामग्न्युत्तारणपूर्वकं स्थापयेत्। तद्दक्षिणकुम्भोपरि “इन्द्रन्दैवी’ रिति इन्द्राणीप्रतिमां सुवर्णनिर्मितां स्थापयेत्। उत्तरकलशोपरि “त्रातारामेन्द्र” मिति इन्द्रप्रतिमां सुवर्णनिर्मितां स्थापयेत्। तत उक्तमन्त्रैरुक्तक्रमेण देवतात्रयस्य काण्डानुसमयेन षोडशोपचारपूजां कुर्यात्। ततो मध्यकुम्भे आचार्योऽष्टसहस्रमष्टशतं वा गायत्रीं जप्त्वा “श्रीसूक्तं " जपेत्। “हिरण्यवर्णा“मिति पञ्चदशर्चसूक्तम्। तत एक ऋत्विग्दक्षिणकुम्भे न्यासपूर्वकं रुद्रसूक्तं जपेत्। तत उत्तरकुम्भे रुद्रैकादशिनीं जपेत्। “शन्न इन्द्राग्नी " ति जपेत्। ततः कुम्मपश्चिमे देशे स्थण्डिलेऽग्निम्प्रतिष्ठाप्य परिस्तरणादि कृत्वा दुग्धेन पायसं श्रपयित्वाऽऽज्यभागान्तं कृत्वा तदीशान्यां वेद्यां विध्युक्तप्रकारेण नवग्रहपूजां कृत्वा तदीशान्यां प्राग्वदेकं कुम्भं संस्थाप्य तत्र वरुणमावाह्य पूजयेत्। ततः केचन वह्नेरुत्तरतस्तण्डुलानामाढकचतुष्टयपरिमाणेन राशिं कृत्वा तदुपरि हेम्नः पञ्चपलेन तदर्धेन तदर्दार्धेन वा कदलीं कृत्वा राशेरुपरि संस्थाप्य सम्पूजयेत। तत आज्यभागानन्तरं
यजमानो होमार्थं जपार्थं च बहूनृत्विजो वृत्वा यजमानत्वस्यागं कुर्यात्। यथा-साक्षतं जलं गृहीत्वा “मया इदं सम्पादितं तिलाज्यादि द्रव्यं तद्यथादैवतमस्तु न मम” इति त्यागः। तत आचार्यो नवग्रहेभ्योऽष्टशताष्टाविंशत्यष्टान्यतमसंख्याका घृताक्ता अर्कादिसमिधस्तिलाहुतीश्च हुत्वा अधिदेवताप्रत्यधिदेवताविनायकादिपञ्चलोकपालेभ्यः यथाशक्ति जुहुयात्।तत्र केचित्सूर्यसूक्तं विष्णुसूक्तं च जपेत्। ततो भुवनेश्वर्यै “गायत्र्या” दधिमधुघृतादिभिस्तिसृभिर्दूर्वादिभिरेकाम्, एवमष्टो-त्तरसहस्रमष्टोत्तरशतं दुर्वाहुतीघृतात्ततिलमिश्रगोधूमाहुतीः पायसाहुतीघृताहुतीश्च जुहुयात्। एवमेव इन्द्राण्यै इन्द्राय च जुहुयात्। मन्त्रास्तु पूर्वोक्ताः। एवं प्रत्येकमष्टोत्तरशतसंख्यं जुहुयात्। भुवनेश्वर्यै यदाऽष्टसहस्रं होमस्तदा इन्द्राण्यै इन्द्राय चाष्टशतं हाम इति साम्प्रदायिकाः। ततः स्विष्टकृतादि प्रायश्चित्तहोमान्तं कृत्वा, इन्द्रादिलोकपालेभ्यो भुवनेश्वरीन्द्राणीन्द्रभ्यः क्षेत्रपालाय च माषभक्तबलीँस्ततन्मन्त्रैर्दत्वा पूर्णाहुत्यन्तं सर्वं कुर्यात्। ततः प्रणीताविमोकं कृत्वा भुवने-श्वर्यादिकलशोदकं नवग्रहकलशोदकमेकस्मिन्पात्रान्तरे गृहीत्वा तेन तत्तत्पश्चपल्लवैः सकुशैर्वादिभिश्च नववस्त्रपरिधानं प्राङ्मुखं यजमानं धृतनववस्त्रकञ्चुकीं भर्तृवामभागे स्थितामृतुमतीं सत्विगुदङ्मुख आचार्यस्तिष्ठन्नभिषेकं कुर्यात्। तत्र मन्त्राः। “आपो हि ष्ठे” त्यादिमन्त्रैरभिषिञ्चयेदृङ्मन्त्रैश्च “सुरास्त्वे” त्यादिपौराणमन्त्रैश्च। ततो दम्पती शुक्लवस्त्रपरिधानौ अग्नेः पश्चिमे उपविश्य अग्निं सम्पूज्य, आचार्यं गन्धवासोऽलङ्ककारादिभिः सम्पूज्य कदलीं सदक्षिणां सवस्त्रां दद्यात्। तत्र मन्त्रौ -
“सुपत्रे ? सुभगे ! देवि ? रम्भे ? भास्करवल्लभे ?।
रक्षस्व मां रजमो दोषाद्दुष्टादस्मादगार्हिताम्॥
दानेन तव देवेशः सविता विश्वतोमुखः।
प्रीतो भवतु सद्यो मे दोषं हरतु दुष्करम्॥
इत्युक्त्वा कुटुम्बिने ब्राह्मणाय दद्यात्। तत आचार्यप्रार्थना-
आचार्य ? त्वं महाभाग ? महादोषविनाशन ?।
दानस्यास्य प्रभावेण रजोदोषाच्च पाहि माम्॥
इति सम्प्रार्थ्य गन्धपुष्लङ्करणैः सम्पूज्य तस्मै वंशपात्रं दद्यात्। वंशपात्रं गोधूमपुष्पफलताम्बूलताडपत्रसौभाग्यद्रव्यादियुतं “अद्ये"त्युक्त्वा “सर्वारिष्टनिवारणार्थं वंशाभिवृध्यर्थं रजोदोपनिवृत्यर्थं वंशपात्रदानमहं करिष्ये” तत्र मन्त्रः-
अरिष्टविनिवृत्यर्थमात्मवंशाभिवृद्धये।
रजोदोषापनुत्त्यर्थं सौभाग्यं देहि मे सदा॥
इति सम्प्रार्थ्ये दापयेत्। तत आज्यावेक्षणम्। संकल्पं कृत्वा,
आज्यं पापहरं नित्यमाज्य क्षीरसमुद्भवम्।
आज्यं यज्ञसमुद्भूतमतः शान्तिं प्रयच्छ मे॥
आज्यप्रार्थना -
याऽलक्ष्मीर्यश्च मे दोषः सर्वगात्रेषु संस्थितः।
तत्सर्वं नाशमायातु लक्ष्मीन्तुष्टिं च वर्धय॥
इति सम्प्रार्थ्य दद्यात्। के चन महिषीदानं चेच्छन्ति। तत्र मन्त्रः-
कालमृत्युस्वरूपां त्वां महिषों सुविभूषिताम्।
सालङ्कारामिमां तुभ्यं दास्यामि वरदा मम॥
इत्युक्त्वा दद्यात्। ततो रुद्रजापिने सदक्षिणमनड्वाहं दद्यात्। तत्र मन्त्रः-
धर्मस्त्वं वृषरूपेण जगदानन्दकारकः।
अष्टमूर्तेरधिष्ठानमतः शान्ति प्रयच्छ मे॥
इत्युक्त्वा दद्यात्। “यान्तु देवगणा” इति विसृज्य आचार्यहस्ते प्रतिमां दद्यात्। अग्निं सम्पूज्य “गच्छ गच्छ सुरश्रेष्ठे” ति विसृज्य, अस्याङ्गत्वेन नवग्रहमीस्यर्थं त्रीन् ब्राह्मणान् भुवनेश्वरीन्द्राणीन्द्रप्रीत्यर्थे प्रत्येकं त्रींस्त्रीन्ब्राह्मणान्सङ्कल्प्य भोजयेत्। ततो ब्राह्मणा “आनोभद्रा” इत्यादिशान्तिपाठं पठेयुः। ततस्तेभ्य आशिषो गृहीत्वा सुहृद्युक्तो भुञ्जीत। एवं कृते सर्वारिष्टशान्तिर्भवतीति।
इति रजोदर्शनशान्तिः॥
अथ गर्भाधानम्। तत्रायं क्रमः। कर्ता प्रातरभ्यङ्गस्नानं कृत्वापत्नीमपि नवोदकुम्भसलिलैः सप्तमृत्तिकापञ्चपल्लवस्त्र-सहितैः स्नापयित्वा तथा सह मङ्गलवस्त्राभरणादि धृत्वा आचम्य देशकालौ स्मृत्वा “अस्या मम भार्यायाः प्रतिगर्भसं स्कारातिशयद्वाराऽस्यां जविष्यमाणसर्वगर्याणां बीजगर्भसमुद्भवैनोनिर्वहणद्वारा श्रीपरमेश्वरप्रीत्यर्थं गर्भाधानाख्यं कर्माहं करिष्ये”, इति सङ्कल्प्य, “तदङ्गत्वेन गणपतिपूजां पुण्याहवाचनं मातृकापूजनं वसोर्द्धारां आयुष्यमन्त्रजपं नान्दीश्राद्धं चाहं करिष्ये”। तानि कृत्वा स्निग्धमधुराहारोऽलङ्कृतोऽलङ्कृतपुष्पमालादिलेपनवात्रात्रौ सविलासं सुरतं विधाय तदनन्तरं शौचादिकं कृत्वा शुचिर्भार्यादक्षिणस्कन्धे हस्तं दत्वा हृदि संस्पृश्य जपेत् - “यत्ते सुशीमेहृदयन्दिविचन्द्रमसिश्रितम्। वेदान्तन्मां तद्विद्यात्पश्येम शरदः शतं जीवेम शरदः शतँ शृणुयाम शरदः शत” मिति। ततः “अस्य गर्भाधानाख्यस्य कर्मणः साङ्गतासिद्ध्यर्थ्यं स्मृत्युक्तान्दशसङ्ख्याकान्ब्राह्मणान्भोजयिष्ये”॥ गर्भाधानादीन्युपनयनान्तानि कर्माणि नियतकालान्यभिहितानि। यदि दैवात्पुरुषापराधादेर्दोषाद्वा तेषां नित्यस्य कालस्यातिक्रमो भवति तदा किङ्कर्तव्यमिति सन्देहे निर्णयमाह “कालातिक्रमे नियतवत्"। कालातिक्रमे यस्य संस्कारकर्मणः शास्त्रेण नियमितो यः कालस्तस्याति-क्रमे लङ्घने नियतवन्नित्यवत्, नित्ये श्रौतकल्पे नित्येषु यद्विहितं तद्वत् अनादिष्टप्रायश्चित्तं भवति। ततः कृतप्रायश्चित्तस्या-तिक्रान्तकाले संस्कारकर्मण्यधिकारः सम्पद्यते। अत्र कालातिक्रमे इत्युपलक्षणम्, अतः अन्येषामपि कर्मणां नाशे इदमनादिष्टमेव। सर्वप्रायश्चित्ते गृह्यकारेण प्रायश्चिन्तान्तरस्यानुपदिष्टत्वात्, किन्तु श्रौतानामतिदेशे प्राप्ते “अविज्ञाते प्रति-महाव्याहृतिभिः सर्वाभिश्चतुर्थँसर्वप्रायश्चित्तं चे“त्यस्यैव “कालातिक्रमे नियतव“दित्यनेनातिदेशः कृतः। उपदेशो न कृतो गृह्यकारेण। तत्राविज्ञातमप्रत्यक्षश्रुतिमूलं किमिदमार्ग्वेदिकं याजुर्वेदिकं सामवेदिकं वेत्यानिश्चयं स्मार्तं कर्म। तस्य भ्रेषे श्रौतकल्पे व्याहृतिचतुष्टयं वारुणहोमं प्रायश्चित्तमुपदिश्यात्र गृह्यसूत्रे गृह्योक्तकर्मणामपि स्मार्तत्वात् तस्य भ्रेषे तस्यै-
वातिदेशो युक्तः, न पुनः प्रत्यक्षवेदमूलकर्मभ्रेषोपदिष्टानाम्। तथा चाश्वलायनः-
गर्भाधानस्याकरणे तस्यां जातस्तु दुष्यति।
अकृत्वा गां ततो दत्वा कुर्यात्पुंसवनं पतिः॥
वीरमित्रोदये -
आरभ्याधानमाचौलात्कालातीते तु कर्मणाम्।
आज्यं व्याहृतिभिर्हुदा प्रायश्चित्तं समाचरेत्॥
एतच्चैकैकलोपे तु पादकृच्छ्रं समाचरेत्।
चौलकर्मण्यतिक्रान्ते पादकृच्छ्रद्वयं चरेत्॥
ननु अतिक्रान्तं कर्म न कर्तव्यमिति केचित्। तन्त्र-
प्रायश्चित्ते कृते पश्चाल्लुप्तं कर्म समाचरेत्।
इति कात्यायनोक्तत्वात्।
कालातीतानि कृत्वैव विदध्यादुत्तराणि तु॥
इति मण्डनोक्तेश्च कात्यायनादियाजुषां लुप्तकर्मकरणमेव युक्तम्।
अथास्य स्पष्टप्रयोगः।
देशकालौ स्मृत्वा “ममास्य कुमारस्य यथाकालं गर्भाधानाद्यकरणजनितदोषपरिहारार्थं गोमूल्यप्रत्याम्नायद्वारा लुप्तसंस्कारसंख्यपादकृच्छ्राण्याचरिष्ये” इति सङ्कल्प्य साङ्गमनङ्गं वा प्रायश्चित्तं कालान्तरे रिक्तासु तिथिषु समाप्य प्रायश्चित्तहोमं कुर्यात्। तद्यथा पञ्चभूसंस्कारपूर्वक्रग्निं संस्थाप्य -
स्थाल्यामाज्यस्य निर्वापोऽधिश्रयमार्जनम्।
उदास्योत्पवनावेक्ष्य खुवेणाहुतिरेव च॥
ताम्रदिपात्रे आज्यं निक्षिप्य अग्नावधिश्रित्य लौकिककुशैः स्रुवं सम्सृज्य उद्वास्य कुशाभ्यामुत्यूपावेक्ष्य दक्षिणं जान्ववाच्य हृदि सव्यहस्तं निधाय मौनी जुहुयात्। “ॐ भूः स्वाहा। इमदग्नये नमम। ॐ भुवः स्वाहा। इदं वायवे नमम। ॐ स्वः स्वाहा। इदं सूर्याय नमम। ॐ भूर्भुवः स्वः स्वाहा। इदं प्रजापतये नमम। ॐ त्वन्नो अग्ने० इद-
मग्नीवरुणाभ्यां नमम। ॐ सत्वन्नो अग्ने० इदमनविरुणाभ्यां नमम। ॐ अयाश्चाग्ने इदमग्नये अयसे नमम। ॐ ये ते शतं० इदं वरुणाय सवित्रे विष्णवे विश्वेभ्यो देवेभ्यो मरुद्भ्यः स्वर्केभ्यश्च नमम। ॐ उदुत्तमं० इदं वरुणाय नमम”। इति नवाहुतिं हुत्वा विष्णुस्मरणम्। इति अनादिष्टप्रायश्चित्तहोमः। अथानन्तरं संस्कारकर्मकरणम्। अथ गर्भाधानादौ कर्तृनिर्णयः। तत्र वीरमित्रोदये देवलः -
ऋतुकालेऽभिगमनं भर्त्रा कार्यं प्रयत्नतः।
पुंसवादीनि कर्माणि बान्धवैर्वापि कारयेत्॥ इति।
अत्र भर्त्रेति कर्तृनियमादसन्निधाने अशक्तौ वाऽन्यः प्रतिनिधिर्नास्तीति गम्यते। अत एव पैङ्ग्यः-
गर्भाधानम्पिता कुर्याहतुस्नातासु शक्तिमान्।
ऋत्वन्तरे वा कुर्वीत हीनसत्वो न दोषभाक्॥
इत्यशक्तस्य कालान्तरमनुकल्पयति। न कर्त्रन्तरम्। पितेति जनिष्यमाणगर्भापेक्षया। ऋत्वन्तरे द्वितीयादावपि। होनसत्त्वो दोषभाङ्नेत्यर्थः। पुंसवादिषु तु अनुकल्पमप्याह “पुंसवादीनी” ति। आदिशब्दादनवलोभनसीमन्तादीनां ग्रहणम्। अत एव वैजवापः -
पिता पुत्रस्य संस्कारं कुर्याद्यदि न शक्नुयात्।
अन्येन गुणयुक्तेन कारयेत्स्वस्वशास्त्रतः॥ इति।
संस्कारं पुंसवादिकम्। अशक्तिरसन्निधानस्याप्युपलक्षणम्। अत एव व्यासः-
मृते देशान्तरगते पत्यौ स्त्री यद्यसंस्कृता।
देवरो वा गुरुर्वापि वंश्यो वाऽपि समाचरेत्॥
मृते गर्भमाधायेति शेषः। अथ वेदवाक्यद्वयं भर्तृमरणक्लीबत्वादौ गर्भाधानेऽपि प्रतिनिधिविधानार्थत्वेन व्याख्येयम्। अस्मिन्पक्षे संस्कारशब्दो असङ्कोचेन गर्भाधानादौ सर्वत्र वर्तते। न शक्नुयादितिपदं क्लैब्यादिना सर्वात्मना शक्त्यभावपरं व्याख्येयम्। देशान्तरगते सर्वात्मना अश्रूयमाणवार्त्त इति वक्तव्यं मरण साहचर्यात्।
पत्यौ मृते वा पतिते संन्यस्ते वा विदेशगे।
तद्गोत्रजन श्रेष्ठेन कार्याः पुंसवनादयः॥
इत्याश्वलायनस्मरणाच्च। गुरुर्ज्येष्ठः। वंश्यः सपिण्डः। इदमेवाभिप्रेत्याह याज्ञवल्क्य :-
अपुत्रां गुर्वनुज्ञातो देवरः पुत्रकाम्यया।
सपिण्डो वा सगोत्रो वा घृताभ्यक्त ऋतावियात्॥
एवमेवार्थं स्पष्टमाचष्ट ब्रह्मपुराणम् -
गर्भाधानादिसंस्कर्ता पिता श्रेष्ठतमः स्मृतः।
अभावे स्वकुलीनः स्याद्वान्धवो वाऽन्यगोत्रजः॥ इति।
एतदभावे असम्बन्ध्यपि ब्राह्मणः प्रतिनिधिः कार्यः।
बीजार्थं ब्राह्मणः कश्चिद्धनेनोपनिमन्त्रयताम्।
इति महाभारते सत्यवतीं प्रति भीष्मवचनात्। तस्स्वरूपमाह तदेव-
आर्यावर्त समुद्भूतः स्वशाखी श्रेष्ठ उच्यते।
ब्राह्मणः सर्ववर्णानां श्रोत्रियो वा स्ववर्णजः॥
स्वशाखी स्वशाखीयः।
गृहस्थः सर्ववर्णेषु श्रेष्ठ इत्यभिधीयते।
अभार्यस्त्वधमो ज्ञेय उपकुर्वाणनैष्ठिको॥
आचार्यौ मध्यमौ ज्ञेयावसगोत्रौ तु मध्यमौ।
वानप्रस्थयतीनान्तु कर्तृत्वं नेष्यते सदा॥ इति।
इति श्रीप्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्रविवरणे
सस्कारगणपतौ संस्कारलोपे प्रायश्चित्तं गर्भाधानादि-
निर्णयः समाप्तः॥
( द्वादशी कण्डिका )
** पक्षादिषु स्थालीपाक<MISSING_FIG href=”../books_images/U-IMG-1699097276Capture.PNG”/>श्रपयित्वा दर्शपूर्णमासदेवताभ्यो हुत्वा जुहोति ब्रह्मणे प्रजापतये विश्वेभ्यो देवेभ्यो द्यावापृथिवीभ्यामिति व्विश्वेभ्यो देवेभ्यो बलिहरणं भृतगृह्येभ्य आकाशाय च व्वैश्वदेवस्याग्नौ जुहोत्यग्नये स्वाहा प्रजापतये स्वाहा व्विदेवभ्यो देवेभ्यः स्वाहाऽग्नये स्विष्टकृते स्वाहेति प्राशनान्ते बाह्यतः स्त्रीबलिर्ठ० हरति नमः स्त्रियै नमः पुर्ठ० से वयसेऽवयसे नमः शुक्लाय कृष्णदन्ताय पापिनां पतये नमो ये मे प्रजामुपलोभवन्ति ग्रामे वसन्त उत वाऽरण्ये तेभ्यो नमोऽस्तु बलिमेभ्यो हरामि स्वस्ति मेऽस्तु प्रजां मे ददत्विति शेषमद्भिः प्रप्लाव्य ततो ब्राह्मणभोजनम्॥ १२ ॥**
अथ पक्षादिकर्मोच्यते। “पक्षादिषु स्थालीपाकँश्रपयित्वा दर्शपूर्णमासदेवताभ्यो हुत्वा जुहोति ब्रह्मणे प्रजा-पतये व्विश्वेभ्यो देवेभ्यो द्यावापृथिवीभ्यामिति” इति सूत्रम्। पक्षाणामादयः पक्षादयः तासु पक्षादिषु प्रतिपत्सु बहु-वचनोपदेशात्सर्वपक्षादिष्वेतत्कर्म भवति। उक्तेन विधिना स्थालीपाकं श्रपयित्वा तेनैव स्थालीपाकेन दर्शपूर्णमासदेवताभ्यो हुत्वा, दर्शकालपक्षादौ दर्शदेवताभ्यो हुत्वा ब्रह्मण इत्येवमादिभ्यश्च चतुर्भ्यो जुहोति स्थालीपाकेनैव। दर्शे पौर्णमासे च विधिः समान इति कृत्वा ग्रन्थगौरवभयादाचार्येण समस्तोपदेशः कृतः। अतो यादृशस्ताभ्यो होमो विभागेन सिद्धस्तादृश एवेहापीति। एवं च स्मृत्यन्तरैः सहानुगतार्थो भवति। केचित्तु समस्तोपदेशात्सर्वाभ्यो होममिच्छन्ति । सिद्धचरोरुपादान मा भूदिति श्रपयित्वेत्युच्यते। यद्यप्यत्र पक्षादिष्विति सामान्येनोक्तन्तथापि स्मृत्यन्तरोक्तो यागकालो ग्राह्यः। वृद्धशातातपः-
पर्वणो यश्चतुर्थोऽश आद्याः प्रतिपदस्त्रयः।
यागकालः स विज्ञेयः प्रातर्युक्तो मनीषिभिः॥
कारिकायाम् -
आवर्तनेऽथ वा तत्प्राग्यदि पर्व समाप्यते।
तत्र पूर्वाह्न एव स्यात्सन्धेरूिर्ध्वं द्विजाशनम्॥
आहिताग्नेर्न नियम इष्टेरुर्ध्वं विधानतः।
ऊर्ध्वमावर्तनाच्चेत्स्याच्छ्वोभूते प्रातरेव हि॥
प्रतिपदि वृद्धिगामिन्यां क्षीणायां वा सन्धिज्ञानोपायमाइ लौगाक्षिः-
तिथेः परस्या घटिकाश्च याः स्युर्न्यूनास्तथैवाभ्याधिकाश्च तासाम्।
अर्धं वियोज्यं च तथा प्रयोज्य हासे च वृद्धौ प्रथमे दिने स्यात्॥
प्रतिद्दृद्धिनाडिका द्विधा विभज्यार्द्धं पर्वणि संयोज्य सन्धिः कल्पनीयः। तथैव प्रतिपत्क्षयनाडिकाश्च द्वेघा विभज्यार्धं पर्वणि वियोज्य सन्धिः कल्पनीयः।
आधानानन्तरं शुक्ला कृष्णा वा प्रतिपद्भवेत्।
तस्यां पक्षादिकर्मैतत्कार्यं पूर्वाह्न एव तु॥
हरिहरभाष्ये तु -
सायमादिप्रातरन्तमेकं कर्म प्रचक्षते।
पौर्णमासादि दर्शान्तमेकमेव विदुर्बुधाः॥
इति वचनात्कृष्णपक्षे यद्याधानं तदा दर्शमनिष्टैव पौर्णमास्यां पक्षादिकर्मारम्भः। यत्तु छन्दोगपारीरीष्टवचनम् -
ऊर्ध्वं पूर्णाहुतेर्दर्शः पौर्णमासोऽपि चाग्रिमः।
य आयाति स होतव्यः स एवादिरिति श्रुतेः॥
एतत्पुनराधानविषयं तच्छाखिविषयं वेत्युक्तम्। अत्रैके वदन्ति- आधानस्य शुक्लपक्षे विहितत्वात्ततुत्तरपौर्णमासस्थालीपाककालस्य विद्यमानत्वात्पौर्णमासस्थालीपाकारम्भो युक्तः। तच्चिन्त्यम्। अस्माकं सूत्रे ‘दारकाले दायाद्यकाले वे’ त्यावसथ्याधानस्य काल उक्तः, तत्र यदा दायाद्यकाल आधानं कृतं तदुत्तरं या प्रतिपद्भवति तस्यामारम्भो युक्तः।
ननु “उदगयन आपूर्यमाणपक्षे पुण्याह” इत्युक्तस्वाद्विवाहोऽपि शुक्लपक्षे
स्यात्तदा कृष्णायां प्रतिपद्यारम्भः सिध्येदेव ? सत्यम्, विभागस्तावद्भागतः प्राप्तस्तत्र कालापेक्षाभावादापूर्यमाणादिनियमो न स्यादतो यदैव विभागस्तदैवाधानं ततः प्रतिपदि आरम्भ इति युक्तम्। नन्वस्तु कृष्णपक्षे वा विभागः, आधानन्तु शुक्लपक्ष एव कार्यम् ? नैवम्। कालविलम्बे प्रमाणाभावाद्विभागोत्तरं कार्यमेव, ततो या प्रतिपदायाति तस्यामारम्भ इति। अत्र बहु वक्तव्यमस्ति ग्रन्थगौरवमिया नोच्यते। यद्यारम्भे काले सूतकमलमासपौषमासगुरुशुक्रास्तवाश्यवार्द्धक्यग्रहणादि भवति, तदाऽपि प्रारम्भः कार्यः। यानि तु तत्रारम्भनिषेधकानि-
उपरागोऽधिमासश्च यदि प्रथमपर्वणि।
तथा मलिम्लुचे पौषे नान्वारम्भणमिष्यते॥
गुरुभार्गवयोर्मौढ्ये चन्द्रसूर्यग्रहे तथा।
इत्यादीनि सङ्ग्रहकारादिवचनानि तानि आलस्यादिना स्वकालानुपक्रान्तस्थालीपाकादिप्रारम्भविषयाणीति प्रयो-गपारिजातकारः, प्रयोगरत्नकारश्च। तथा चापरार्कस्थं गर्गवचनमुदाजहार -
नामकर्म च दर्शेष्टिं यथाकालं समाचरेत्।
अतिपाते सति तयोः प्रशस्ते मासि पुण्यभे। इति॥
देवयाज्ञिकैस्तु “दर्शपौर्णमासानीजान” इतिसूत्रव्याख्याने सूतकशुक्रास्तादिनिमित्तवशाद्दशपौर्णमासारम्भोत्कर्षे सति
आग्रयणीयकाल आगते तदतिक्रमशङ्कायामयङ्काल इत्युक्तम्। अतो देवयाज्ञिकानामभीष्टः शुक्रास्तादावारम्भ इत्या-भाति। तथा च त्रिकाण्डमण्डनः-
आधानान्तर पौर्णमासी चेन्मलमासगा।
तस्यामारम्भणीयादीन्न कुर्वीत कदाचन। इति॥
आचारोऽप्येवम्। “विश्वेभ्यो देवेभ्यो बलिहरणं भूतगृह्येभ्य आकाशाय च “ इति सूत्रम्। द्रव्यान्तरानुपदेशा-त्स्थालीपाकादेव विश्वेभ्यो देवेभ्यो बलित्रयमग्नेरुदक् प्राक्संस्थं कुर्यात्। बलिहरणवाक्ये च नमःशब्दोऽन्ते कार्यः। उक्तं चैतत् कर्कोपाध्यायै ‘र्बलिहरणे च नमस्कार’ इति। “पितृ
भ्यः स्वधा नम इति दक्षिणत” इति सूत्रव्याख्यानावसरे च ‘नमस्कारश्चात्र प्रदर्शित आचार्येण सर्वबलिहरणेषु प्रत्येतव्य’ इत्युक्तम्। “वैश्वदेवस्याग्नौ जुहोत्यग्नये स्वाहा प्रजापतये स्वाहा विश्वेभ्यो देवेभ्यः स्वाहाऽग्नये स्त्रिष्टकृते स्वाहेति” इति सूत्रम्। वैश्वदेवस्येत्यच्चयवलक्षणा षष्ठी। विश्वे देवा देवपितृमनुष्यादयो देवता अस्येति वैश्वदेवः सर्वार्थः प्रत्यह क्रियमाणः पाकस्तस्य वैश्वदेवस्य ‘अग्नये स्वाहे’ त्यादिमिर्मन्त्रैर्जुहोति। वैश्वदेवस्येति सिद्धवदुपदेशाद्वितीयः स्थालीपाको वैश्वदेवसमानतन्त्रः पक्षादिषु भवतीति भर्तृयज्ञभाष्ये। कर्कोपाध्यायैस्तु ‘वैश्वदेवं केचित्पृथक्चरुं कुर्वन्ति यथा पौष्णस्य जुहोतीति पौष्णम्, तत्पुनरयुक्तम्, वैश्वदेवशब्देन विश्वे देवा देवता अस्येति सर्वार्थः पाकोऽभिधीयतो ततो जुहोतत्युिक्तं भवति। यत्तु पौष्णशब्दवाच्योऽन्यः क्वचिच्चरुर्भवति, तेनास्य पृथक्क्रिया। वैश्वदेवस्तु पुनः पाको विद्यत एवेति। तथा च वक्ष्यति – ‘वैश्वदेवादन्नात्पर्युक्ष्य स्वाहाकारैर्जुहुया’ दित्युक्तम्। अग्नौ होमः प्राप्त एव पुनरग्नौ जुहोतीत्यग्निग्रहणं बलिकर्मादौ मा भूदिति। ‘अग्नये स्विष्टकृते स्वाहे’ति प्रयोगोपदर्शनार्थम्। “प्राजापत्य<MISSING_FIG href=”../books_images/U-IMG-1699097618Capture.PNG”/>स्विष्टकृच्चे” ति प्रदेशान्तर उक्तम्, इह प्रयोग उपदिश्यते। अपि च स्थालीपाकेन दर्शपूर्णमासदेवतादीना होमविधिनाऽस्यावसरविधित्सयैतत्त त्कथं प्राङ्महाव्याहृतिभ्यः स्विष्टकृदन्यच्चेदाज्याद्धविरिति प्रदेशान्तर उक्तम् ? तेन प्राङ्महाव्यातिहोमादाज्यभागोत्तरकालं चावसरो गम्यत इति। स्विष्टकृद्धोमश्च शेषादेव भवति। स्विष्टकृद्ग्रहणं वक्ष्यमाणस्य बलिहरणस्य प्राधान्यद्योतनार्थमिति भर्तृयज्ञः। परिभाषातः प्राजापत्यस्वाहाकारग्रहणं बलिनिवृत्त्यर्थम्, प्रदानोऽपि स्वाहाकारो न बलिहरणेषु भवति। “बाह्यतः स्त्रीबलिंहरति नमः स्त्रियै नमः पुंसे वयसेऽवयसे नमः शुक्लाय कृष्णदन्ताय पापीनां पतये नमो ये मे प्रजामुपलोभयन्ति ग्रामे वसन्त उत वाऽरण्ये तेभ्यो नमोऽस्तु बलिमेभ्यो हरामि स्वस्ति मेऽस्तु प्रजां मे ददत्विति” इति सूत्रम्। ततो बाह्यतः शालाया बहिः प्रदेशे ‘नमः स्त्रियै ’ इत्यादिमन्त्रैः प्रतिमन्त्रं स्थालीपाकात्स्त्रीबालिं स्त्रियादिभ्यो बलिः स्त्रीबलिस्तं
हरति स्रुवेण मन्त्रान्ते भूमौ प्रक्षिपति। एतच्चागन्तुकत्वात्सर्वान्ते भवति। मन्त्रार्थः - स्त्रियै सन्तानसुखविघातिन्यै नमः नमस्कारोऽस्तु। अतः सन्तानसुखेच्छवोऽत्र बाह्यबल्यधिकारिण इति जयरामः। तथा पुसे उक्तस्वरूपाय वा किंभूताय वयसे अवयसे च वृद्धाय बालाय च शुक्लाय बहिः कृष्णदन्ताय असितान्तरङ्गावयवाय अतिमलिनमनसे इत्यर्थः। अत एव पापीनां पतये श्रेष्ठाय दीर्घश्छन्दसः। अत्र बलित्रये पुमानेव विशिष्यते। ये च मे मम प्रजां सन्तानमुपलोभयन्ति मोह-यन्ति ग्रामे वसन्तः उत अपि वा समुच्चये, अरण्ये वा वने वाऽपि तेभ्यो नमः नमस्कारोस्तु। एतेभ्यो बलिं पूजां हरामि समर्पयामि। मम नमस्कारबलिभ्यां यूयं सन्तुष्टा भवत। ततो भवता प्रसादान्मम स्वस्ति कल्याणमस्तु। भवन्तश्च मे मह्यं प्रजा पुत्रादिसुखजातं ददतु प्रयच्छन्तु। “शेषमद्भिः प्राष्लाव्य ततो ब्राह्मणभोजन" मिति सूत्रम्। बलिहरणानन्तरं शेषं स्थालीपाकस्थितमवाशेष्ट चरुं अद्भिर्लौकिकोदकेन प्रप्लाव्य मज्जयित्वा ब्रहाणभोजनं कुर्यात्। प्रणीतोदकेन प्रप्ला-वनमिति वासुदेवादय। नेति कारिकायाम्॥
इति श्री प्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यविवरणे
संस्कारगणपतौ प्रथमकाण्डे द्वादशी कण्डिका।
( त्रयोदशी कण्डिका )
** सा यदि गर्भं न दधीत सि<MISSING_FIG href="../books_images/U-IMG-1699097746Capture.PNG"/>ह्या श्वेतपुष्ष्या उपोष्य पुष्येण मूलमुत्थाप्य चतुर्थेऽहनि स्नातायां निशायामुदपेषं पिष्ट्वा दक्षिणस्या नासिकायामासिञ्चतीयमोषधी त्रायमाणा सहमाना सरस्वती। अस्या अहं बृहत्याः पुत्रः पितुरिव नाम जग्रभामिति॥१३॥**
अथ यथोक्तविधिना गर्भानुत्पत्तौ गर्योत्पत्तिप्रकारो लिख्यते “सा यदि गर्भं न दधीत सिँह्याः श्वेतपुष्प्या उपोष्य पुष्येण मूलमुस्थाप्य चतुर्थेऽहनि स्नातायां निशायामुदपेषं विष्वा दक्षिणस्यां ना
सिकायामाञ्चितीयमोषधी त्रायमाणा सहमाना सरस्वती। अस्या अहं बृहत्याः पुत्रः पितुरिव नाम जग्रभमिति” इति सूत्रम्। सा यदि स्त्री गर्भकामा यदि गर्भं न दधीत न धारयति तदा भर्ता सिँह्याः श्वेतपुष्प्याः, सिंहातिरिङ्गणिका कण्टकारि-का इति पर्यायाः। श्वेतानि पुष्पाणि यस्याः सा श्वेतपुष्पी तस्याः। उपोष्य पुष्यनक्षत्रदिनात्पूर्वदिने स्वयमुपवास कृत्वा पुष्येण मूलमुत्थाप्य पुष्य नक्षत्रदिने पूर्वोक्तायाः कण्टकारिकाया मूल उत्पाट्य यत्नेन स्थापयित्वा ऋतुयुक्ता भार्य्या यदा भवति तदा चतुर्थेऽहाने स्नातायां रात्रौ तन्मूलमुदके पेषयित्वा दक्षिणनासिकापुटे आसिञ्चति “इयमोषधी त्रायमाणे“त्यनेन मन्त्रेण भर्त्तैव। ततो भर्त्रा भोजनं कार्यमिति। मन्त्रार्थः - ओषति दहति दोषान् धत्ते गुणानित्योषधी। इयं त्रायमाणा यथोक्तं प्रयुक्ता रक्षन्ती सहमाना दोषवेगान्सोढ्वाऽपि नाशयन्तीत्यर्थः। सरस्वती कारणतयाऽनुगच्छतीति सरः समुद्रः तद्वती तत्सम्बद्धा वा। अतः अस्याः बृहत्याः बृंहयति पुत्रादिदानेन तस्याः प्रभावाच्चाहं पुत्रः पितुरिव प्रत्यहं नाम जग्रभं गृह्णीया लभेयं प्राप्नुयाम्। पुत्रस्य पितेति लोकाः कथयन्ति। सुगमत्वादत्र पदार्थक्रमो नोच्यते। अत्र प्रसङ्गात्किञ्चित्कर्मविपाकोऽप्युच्यते। महाकल्पे शतानन्द उवाच -
गणेशान ? ममाख्याहि यथा देवेन शम्भुना।
इत्युपक्रम्य। नन्दिकेश्वर उवाच -
कैलास शिखरे रम्ये सुखासीनं जगद्गुरुम्।
देवी प्रमच्छ देवेशं फलं कर्मविपाकजम्॥
पार्वत्युवाच -
पुरुषस्यानपत्यत्वं वद मे वदतां वर ?।
चतुर्विधाः स्त्रियो दोषा अप्रसूता मृतप्रजा॥
स्त्रीप्रसूः काकवन्ध्या च गर्भस्राववती तथा।
पतिसौभाग्यहीना च दुर्भगा ऋतुवर्जिता॥
केन दोषेण भगवन् तन्मे कथय सुव्रत ?॥
निष्कृतिं च ममाख्याहि कृपया परमेश्वर !॥
ईश्वर उवाच-
विप्ररत्नापहरणाद्विप्रेः सह विरोधनात्।
देवर्षीिपितृपूजासु विमुखानामभक्तितः॥
गुरुमातृपितृश्राद्धवञ्चकानां च नित्यशः।
आर्थिभ्यो नार्थदातॄणां तथा तर्थिविरोधिनाम्॥
अदत्ते नोऽतिथिभ्योऽन्नं भ्रातॄणां पापचेतमाम्।
स्वभार्यानिन्दकानां च लोकानां च विरोधिनाम्॥
दुष्प्रतिग्रहदोषाणां जायते त्वनपत्यता।
स्त्रियोऽपि बहुधैव स्युः पूर्वकर्मप्रदर्शिताः॥
वन्ध्या भवति या बाल्ये उद्रेजयति मातरम्।
गर्भघ्नी या भवेत्स्त्रीणां वन्ध्या भवति साऽथवा॥
अन्यासामनपत्यत्वमिच्छन्ती वन्ध्यतां व्रजेत्।
मृतप्रजा भवेन्नारी फलं दत्वा हरेत्तु या॥
फलस्तेयं च कुरुते साऽपि स्यान्मृतवत्सका।
पुरुषद्वेषिणी नारी स्त्री प्रसूर्वै भवेद्ध्रुवम्॥
व्रतदानक्रियाहीना काकवन्ध्यात्वमाप्नुयात्।
काकवन्ध्या भवेत्सा हि गर्भपातं करोति या॥
देवानां च पितॄणां च दानकर्मणि मैथुने।
केशान्सङ्गोषयेद्दक्षा चानपत्याऽथ वा भवेत्॥\
स्त्रीगर्भा च भवेयुस्ता बालान्हिंसन्ति शापतः।
स्त्रीणां दुःसिद्धिदा या च भर्तृसौख्यं न सा लभेत्॥
देवद्विजगुरुञ्ज्येष्ठान्पितृँश्चामर्षिता भवेत्।
या सा दौर्भाग्यमाप्नोति जनमध्येऽप्रिया भवेत्॥
चौर्यात्पुष्पाणि चिनुयात्सा भवेदृतुवर्जिता।
वैधव्यं पुत्रशोकं च दारिद्र्यं चैव दासताम्॥
अतस्तत्कर्मशान्त्यर्थं यतितव्यं प्रयत्नतः।
पूर्वजन्मकृतस्यास्य दुरितस्यापि निष्कृतिः॥
जायते सततं धर्मः शृणुष्वैकमनाः प्रिये।
ज्ञात्वा पापानि मतिन्मान्गुरूणि च लघुनि च॥
प्रायश्चित्तं यथावित्तं प्राक्कार्यं तेन शुद्धये।
षडब्दं चतुरन्दं वा त्र्यब्दं व्द्यब्दाब्दमेव च॥
गोहिरण्यादिदानं वा कृत्वा कर्म समारभेत्।
पश्चात्तद्दोषशान्त्यर्थं महारुद्रः प्रकीर्त्तितः॥
तथा कलशरुद्रश्च विष्णुश्राद्धं सुरेश्वरि !।
हरिवंशस्य श्रवणं विधिवत्परिकीर्तितम्॥
तथा सन्तानगोपालविद्यानुष्ठानमेव च।
अनपत्यत्वनाशार्थं कुर्यात्स्त्री पुरुषोऽपि वा।
ब्राह्मणेन तु कर्तव्यं सर्वपापापनुत्तये।
क्षत्रियोऽपि हि कुर्वाणः संग्रामे विजयी भवेत्॥
आतुरस्यानुकर्तव्यः सर्वरोगापनुत्तये।
ग्रहव्रणादिरोगैश्च पीडितस्यापि शर्मदः॥
कृतो दशरथेनेह तेन पुत्रः सुबुद्धिमान्।
रामचन्द्रो महाबाहुर्बभूव पुरुषोत्तमः॥
वीरसेनोऽपि कृतवान्पुण्यश्लोको नलस्तथा।
इन्द्रराजोऽपि कृतवान्स्वर्गराज्याधिपोऽभवत्॥
रामचन्द्रोऽपि कृतवान्द्वौ पुत्रौ च गुणान्वितौ।
पाण्डुराजोऽपि कृतवान्पञ्च पुत्रान्गुणान्वितान्॥
युधिष्ठिरोऽपि कृतवान्सत्यवादी सदाऽभवत्।
ब्रह्माऽपि कृतवानेष नारदः समजायत॥
अतः सर्वैः प्रकर्तव्यं सर्वकामफलप्रदम्।
अल्पायासव्ययस्यास्य फलमेताचदुच्यते॥
वक्तुं नैव हि शक्नोति महारुद्रादिकं फलम्।
यावज्जीवं जपेद्रुद्रं पौरुषं सूक्तमेव च॥
प्रविशेच्च महादेवगृहं गृहपतिर्यथा।
तस्मात्सर्वंप्रयत्नेन रुद्रमाराधयेत्सदा॥
इति तं कथितं विप्र! प्रायश्चित्तविपाकजम्॥
इति श्रीनन्दिपुराणे अनपत्यकर्मविपाकफलम्।
किञ्चिद्विशेषमाह सूर्यारुणसंवादे -
अरुण उवाच-
वैश्यकुले समुत्पन्नो वाताधिकशरीरभाक्।
वित्तपो धर्मयुक्तश्च शिल्पिकार्यरतः सदा॥
व्यापारविषये वीरः क्रयविक्रयकारकः।
गौरवर्णः शुभाचारो किञ्चित्क्रोधसमन्वितः॥
तस्य भार्या महासाध्वी दानव्रतपरायणा।
सुनेत्राऽपि च सुश्रोणी भर्तृभक्तिपरायणा॥
अनपत्या कथन्देव! कस्येदं कर्मणः फलम्॥
सूर्य उवाच-
ब्राह्मे वै पूर्ववंश्ये तु सञ्जातो ब्राह्मणब्रुवः।
बहुक्लेशकरो नित्यं बहुदुःखस्य भाजनम्॥
प्रतिग्रहप्रकर्ता च वृत्तितो बहुयाचकः।
गृहे तु तस्य निमुक्तं द्रविणं बहु केन चित्॥
विप्रेण केन दैवाच्च विद्याभ्यासरतेन वै।
नार्पितन्तेन विप्रेण तस्य विप्रवराय वै॥
ब्रह्मस्वं भक्षितन्तेन सदा सन्ताननाशनम्।
निक्षेपहरणाच्चैव अनपत्यः प्रजायते॥
द्वितीयं च कृतं कर्म कूष्माण्डीफलनाशनम्।
ब्राह्मणस्य गृहाद्वत्स! हृतं तस्करबुद्धिना॥
तेन कर्मविपाकेन अपत्यं नैव जायते॥
अरुण उवाच-
प्रायश्चित्तं कथं स्वामिन्येनापत्यं प्रजायते।
ममोपरि कृपां कृत्वा सत्यं कथय सुव्रत !॥
सूर्य उवाच-
एकवासो विधिर्वत्स! कर्तव्यं द्विजभोजनम्॥
तीर्थयात्रा च कर्तव्या रेवातापीसमुद्भवा॥
तुलसीदललक्षैश्च विष्णुं सम्पूजयेत्ततः॥
स्वर्णधेनुं काश्यपेय! विप्राय प्रतिपादयेत्॥
कलशं ताम्रमयं चैव घृतेन परिपूरितम्॥
चन्द्रसूर्योपरागे च दातव्यं च द्विजन्मने॥\।
वैघृतौ च व्यतीपाते फलदानन्तु कारयेत् ॥
श्रवणं हरिवंशस्य एकचित्तेन मानद !॥
विष्णुसूक्तस्य मन्त्रस्य लक्षसंख्यां तु कारयेत् ॥
दशांशहोमभोज्यं च कर्त्तव्यं विधिना ततः॥
कौष्माण्डीं रोपयेद्वल्लीं विप्रस्य विनिवेशने॥
सप्तफलाव्रतं कुर्याद्विधिना च विशारद !॥
एवंविधे कृते वत्स! सन्तानं जायते ध्रुवम्॥
इत्यनपत्यप्रायश्चित्तम्।
अरुण उवाच -
कश्चित्क्षत्रोत्तमो जातो बहुवित्तसमन्वितः॥
संयुक्तो वातपित्ताभ्यां श्यामवर्णः प्रतापवान्॥
राजवृत्तिं तु भुञ्जानो सुकर्मनिरतः सदा॥
देवब्राह्मणभक्तश्च व्रतदानपरायणः॥
मृतवत्सः कथ जात एक एवावशिष्यते॥
केन कर्म विपाकेन सत्यं कथय भास्कर !॥
सूर्य उवाच-
स्त्रीणां नैव तु तत्कर्म भर्तुरेव प्रकीर्त्तितम्॥
पूर्वजन्मनि शूद्रोऽसौ द्विजशुश्रूषणे रतः॥
कृतं तेन तु यत्कर्म तन्मे निगदतः शृणु।
पूर्वजन्मनि शुद्रस्तु राज्ञो व्यापारकारकः॥
बहुद्रव्येण संयुक्तो दुर्मदो विषयान्वितः ।
मृगयानिरतः पापो मृगशूकरघातकः॥
कदाचिद्दैवयोगाच्च भाविनोऽर्थस्य वै बलात् ।
मृगशूकरशावाश्च त्रयोदश विहंसिताः॥
गले गृहीत्वा तेनैव मातरो दुःखमागताः ।
अचिरेणैव कालेन मृग्योऽपि निधनं गताः॥
पश्चात्सोऽपि च शूद्रस्तु गोसङ्घे निहतेसति।
किरातैर्वृत्तइष्टार्थं प्राणास्तत्याज तस्करैः॥
तेन पुण्यप्रभावेण सशूद्रः स्वर्गमागतः ।
अगस्तिहायनानां वै सहस्राणि खगेश्वर !॥
समाः सहस्राणि च सप्त वै जले
दशैकमग्नौतपने च षोडश।
महाहवे षष्टिरशीति गोगृहे
अनाशने भारत चाक्षया गतिः॥
पश्चान्मानुषमापन्नस्त्रिदिवात्पतितः खग !।
तेन कर्मविपाकेन मृतापत्यः प्रजायते॥
इदन्तु पञ्चमं जन्म क्षत्रवंशसमुद्भवम् ।
अरुण उवाच—
प्रायश्चित्तं कथं स्वामिन्येनापत्यं प्रजायते॥
सूर्य उवाच—
श्रवणं हरिवंशस्य एकचित्तेन मानद !।
स्वर्णैकेन समायुक्तां धेनु दद्याद्विधानतः॥
वंशपात्रत्रयं चैव कूष्माण्डीफलसंयुतम् ।
विप्राय वेदविदुषेश्रद्धया प्रतिपादयेत्॥
एवविधिकृते वत्स ! सन्ततिर्निश्चला भवेत् ।
चिन्हन्तु तस्य ज्ञातव्यमेको भ्राताऽश्वपातितः॥
मस्तके वेदनां प्राप्य प्राणांस्तत्याज विह्वलः !
अरुण उवाच—
वैश्यवंशे समुत्पन्नः कश्चित्पुरुषसत्तमः।
संयुक्तो वातपित्ताभ्यां धर्मिष्ठो धर्मतत्परः॥
किंचिद्वित्तसमायुक्तो राजसेवारतस्तथा ।
देवब्राह्मणभक्तश्चगुरुपूजारतोऽभवत्॥
तस्य भार्या तु सुश्रोणी व्रतानामनुकाङ्क्षिणी।
मृतवत्साकथं जाता एक एवावशिष्यते॥
जीवन्ति पुत्रिकास्तस्या द्वित्रिर्वा सततं तथा ।
केन कर्मविपाकेन सत्यं ब्रूहि द्विजेश्वर !॥
सूर्य उवाच—
वैनतेय ! महाभाग ! शृणुतस्य विचेष्टितम् ।
येन तस्य समुत्पान्नाःपुत्रास्तु निधनं गताः॥
पूर्वजन्मनिषादानां पतिरासीन्महाभुजः ।
विन्ध्याचलनिवासी च लघुदेशपतिः प्रभुः॥
चौर्यकर्मरतो नित्यं चौर्यैस्तु परिसेवितः ।
एकदा तु महाबाहो? दुर्भिक्षं पतितं किल॥
तेन सन्तापिता लोका देशान्तरगताः खग? ।
ततस्तद्देशमार्गेण ब्राह्मणाश्चलितास्तथा॥
चत्वारो भ्रातरो वत्स ! तेषां ज्येष्ठः सदारकः ।
आगतास्तस्य भिल्लस्य ग्राममध्येऽन्नकाङ्क्षिणः॥
उषितास्तद्दिने तत्र रजन्यां निद्रितास्तु ते ।
ततः केनापि चौरेण निद्रायां शोधिता हि ते॥
तेषां ग्रन्थिस्थितं हेम तोलकत्रयसम्मितम् ।
तल्लब्धं तेन चौरेण तद्गृहीत्वा सवस्त्रकम्॥
निद्रायां शनकैर्याता राज्ञे नीत्वा समर्पितम् ।
ततः प्रभाते संजात उदिते त दिवाकरे॥
जागृतास्ते तु चत्वारो भ्रातरो विनतात्मज ? ।
न दृष्टं हेमवस्त्रं तज्जायवाऽपि तदा ततः॥
अलब्ध्वा हेमवस्त्रन्ते मूर्च्छनामागतास्ततः ।
क्षणेन लब्धसज्ञास्ते समूचुश्चपरस्परम्॥
क्व गतं स्वर्णवसनं स्थापितं मध्य आत्मनाम् ।
अस्माकं जीवनं ह्येतत्कथं जीवामहे गते॥
एतदाधारकाः सर्वे जीवनं दृष्टमात्रतः ।
अतः पर गताधारा मृत्युं यास्यामहे ध्रुवम्॥
एवं विलप्य बहुधा दरिद्रा ब्राह्मणास्तदा ।
राजानन्तु समासाद्य विज्ञप्तिं चक्रुरुद्यताः॥
राजन्रात्रौ प्रसुप्तेषु ह्यस्माकं वसुधाधिपः ।
नीतं केनापि स्वर्णं नो तद्विशोध्य प्रदाप्यताम्॥
राजा तेषान्तु विज्ञप्तिं श्रुत्वा मानं समाश्रितः ।
ते ब्राह्मणा निराधारा लङ्घनं कर्तुमास्थिताः॥
सोऽपि भिल्लाधिपपतिः सभार्यः प्रययौ गृहम् ।
द्वित्राण्यहानि ते तत्र लङ्घिता राजवेश्मनि॥
अक्षमालां धनं कर्तुं विहलाजातसंभ्रमाः ।
तेषां ज्येष्ठस्तु यो भ्राता विषं भुक्त्वा तु संस्थितः॥
तस्य भार्या तु वै माध्वी भर्तारं पृष्ठतोऽन्वगात् ।
ततस्ते भ्रातरः सर्वे कालेन निधनं गताः॥
निर्द्रव्या दुःखिता स्तेयं तन्न तेभ्योऽर्पितं धनम् ।
ततस्तु दैवयोगाच्च भाविनोऽर्थस्य वै बलात्॥
वने व्याघ्रेण काचिद्गौर्गृहीता क्रन्दितं गवा।
स तु भिल्लाधिपः श्रुत्वा गवार्थे वनमाययौ॥
भिल्लैः कतिपयैरेव वृतो व्याघ्रं ददर्श सः ।
शरो मुक्तस्ततो राज्ञा व्याघ्रं प्रति न तं गतः॥
ततो व्याघ्रस्तु गां मुक्त्वा राजानं ग्राहरद्बली।
तेन व्याघ्रप्रहारेण राजासौऽ निधनं गतः॥
व्याघ्रोऽपि राजबाणेन क्षतो मृत्युं गतः किल ।
एवं च गोस्तु रक्षार्थं प्राणत्यागात्स पार्थिवः॥
हित्वा कलेवरं यातः स्वर्लोकं विनतात्मज ?।
तस्यापि पत्नी राजानं भर्तारं पृष्ठतोऽन्वगात् ॥
सतीपुण्यप्रभावेण उभौ तौ देवतां गतौ ।
राजाऽसौ ब्राह्मणः सोऽपि स्वर्गलोके समूचतुः ॥
तिस्रः कोट्योऽर्द्धकोटीश्च यावद्रोमाणि मानसे।
सतीपुण्यप्रभावेण तावद्वर्षाणि मानद ?॥
देवलोके सुखं भुङ्क्ते पापिष्ठोऽपि न संशयः ।
पुण्यक्षये त्वसौराजा तयापत्न्या भुवं गतः ॥
कश्चित्क्षत्रोत्तमो राजा कतिचिद्ग्रामपालकः।
तेऽपि विप्रसुताश्चैकभ्रातरः स्वर्णकारणात्॥
मरणात्तन्निमित्तेन दुःखदास्तस्य ते पितुः।
साऽपि राज्ञी हि तस्यासीत्सा वधूस्तत्सुतस्य वै॥
आत्मघातोत्थपापेन किञ्चिद्व्याधिप्रपीडितः ।
स पुत्रो यौवनं प्राप्य तत्रापि निधनं गतः॥
साऽपि पुत्रवधूस्तत्र भर्तारं पृष्ठतोऽन्वयात् ।
ब्रह्मस्वहरणाद्राजा महाशोकेन पीडितः॥
न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते ।
विषमेकाकिन हन्ति ब्रह्मस्वं पुत्रपौत्रकम्॥
कर्तृकर्मक्षयो नास्ति कल्पकोटिशतैरपि ।
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम्॥
सोऽपि राजा ततो दुःखी कालेन निधनं गतः ।
तस्य भार्या महासाध्वी राजानं पृष्ठतोऽन्वगात् ॥
एवं तौ च पितापुत्रौ सतीपुण्यप्रभावतः।
भुक्त्वा स्वर्गगतान्भोगान्पुण्यशेषाद्दिवश्च्युतौ॥
पश्चान्मानुषमापनौ पितृपुत्रौ बभूवतुः।
सत्यौ चापि तयोर्भार्ये सञ्जाते विनतात्मज ?।
वैश्ययोनिं समासाद्य भोगवन्तो दिवश्च्युताः॥
त्रयोऽपि पूर्वपुत्रास्ते सञ्जाता इह जन्मनि।
ऋणसम्बन्धयोगेन मायादुःखादिकारकाः॥
तस्मिन्वयसि सञ्जाते जाता नाप्ताः क्षयं गताः।
पुत्रस्यापि वधूः सा हि तं पतिं पृष्ठतो ययौ॥
सतीनां ह्यत्र सम्बन्धो देवानामपि दुस्त्यजः।
महता व्याधिना पुत्रः पीडितो विषभक्षणात्॥
एवं ते पुत्रतां गत्वा पित्रोर्दुःखप्रदायिनः॥
पुनः पुनस्तु विप्रास्ते भ्रातृतां पुत्रतां गताः।
एवं पापप्रभावेन सन्ततिः क्षीणतां व्रजेत्॥
सतीपुण्यप्रभावेन धेन्वर्थे प्राणमुञ्चनात् ।
स्वर्गी भूत्वा पुनः सोऽयं भोगवान्भुवि जायते॥
समासेन—
मृते भर्तरि या नारी प्रजां त्यजति दुस्त्यजाम् ।
सा च स्वर्गमवाप्नोति भर्तारमनुमोदते॥
अरुण उवाच—
प्रायश्चित्तं कथं स्वामिन् ! तस्य पापस्य शान्तये ।
सत्यं कथय देवेश ? कृपां कृत्वा ममोपरि॥
सूर्य उवाच—
अहं ते कथयिष्यामि तस्य पापस्य निष्कृतिम् ।
यां कृत्वा मुच्यते पापात्तन्मे निगदतः शृणु॥
विप्राणां हारितं यच्च स्वर्णं तत्तोलकत्रयम् ।
भिल्लेन तेन पूर्वं वै त्रिगुणं देयमत्र तु॥
यावज्जन्मानि जातानि तावद्गुणमुदाहृतम् ।
तज्जन्मसंख्ययाराज्ञा द्विगुणं समुदाहृतम्॥
गोदानेन समायुक्तं दातव्यं विदुषेऽरुण ?।
शक्त्यभावे तदर्द्धंवा वित्तशाठ्यं न कारयेत्॥
दरिद्रस्तदपि स्वर्णं यावत्तेषां हृतं भवेत् ।
दद्यात्पापविनाशाय ह्यात्मनो हितमावहन्॥
वस्त्रमेकं च दातव्यं स्वर्णं बध्वा तदञ्चले ।
सप्तफलीव्रतं कार्यं यथोक्तविधिमाचरेत्॥
भर्त्रा च तत्कृतं कर्म स्त्रिया भागो न विद्यते ।
देवान्पितॄंश्च सन्तर्प्यस्नानं कृत्वा विधानतः॥
मम पूजा च कर्तव्या विधिवद्विनतात्मज ?।
ब्राह्मणान्भोजयेत्पश्चाच्चतुःपञ्चशतांस्तथा॥
विदुषे दक्षिणां दद्यादात्मनो हितमिच्छते ।
अन्येभ्यो दक्षिणां दद्याद्वस्त्राद्याभरणात्मिकाम्॥
तोषयेत्प्राणिनश्चान्यान्भोजनाद्यैः खगोत्तम ?।
ग्रहांश्चापि च सम्पूज्य तोषयेद्दक्षिणादिभिः॥
प्रायश्चित्ते कृते वत्स १ नैव पापफलं लभेत् ।
तस्मात्तद्दोषशान्त्यर्थमात्मनो हितमिच्छता॥
कुलीनेन सदा कार्यं प्रायश्चित्तं यथाविधि ।
एवंविधे कृते वत्स ! सन्ततिर्निश्चला भवेत्॥
ते हि विप्रा गृहीतार्था नैव सम्बन्धमाप्नुयुः ।
अन्येऽपि पुत्रपौत्राद्याः पापाभावात्स्थिराः सदा॥
पुत्रत्रयसुखं चास्य सततं जायते ध्रुवम् ।
चतुष्टयन्तु पुत्राणां भविष्यति न संशयः॥
इति मृतापत्यप्रायश्चित्तम् । अथ काकवन्ध्याप्रायश्चित्तम् ।
अरुण उवाच—
कश्चिद्वैश्यकुलोत्पन्नः पित्तवायुसमन्वितः ।
शिल्पकार्यप्रकर्ता च वित्तपो धनवत्सलः॥
गौरवर्णः शुभाचारः कृषिकर्म करोति च ।
भार्या प्रीतिपरा नित्यं व्रतानामनुकाङ्क्षिणी॥
गौरवर्णा शुभाचारा सुश्रोणी सा पतिव्रता ।
काकवन्ध्या कथन्देव ! सत्यं ब्रूहि दिवाकर !॥
सूर्य उवाच—
भत्रा कर्म कृतं नैव स्त्रीकृतं नात्र संशयः ।
पूर्वजन्मनि शुद्रा स्त्री सपत्नीसहिता द्विज !॥
एकपुत्रा सपत्नीच तस्यास्तत्रैव जन्मनि ।
अनया ईर्ष्यया चैवकृतं कपटकं महत्॥
कपटेनापि तस्यास्तु अपत्यं नाभवत्पुरा ।
उपायैर्बहुधा चैव न त्वपत्यं व्यजायत॥
द्वितीयं च कृत पापन्तयातत्रैव जन्मनि ।
मर्ज्जार्यपत्यद्वित्रीणि तथा विशोषितानि च॥
मृतानि कष्टभावेन तेन कर्मविपाकतः ।
नरके पतिता घोरे वर्षाणां च शतत्रयम्॥
पश्चान्मानुषमापन्ना व्रतदानप्रभावतः ।
इदं चतुर्थकं जन्म वैश्यवंशसमुद्भवम् ।
पुराकृतानि कर्माणि भुज्यन्त इह मानवैः॥
अरुण उवाच—
एकापत्याऽनपत्या च दृश्यते किल कश्यप !।
प्रायश्चित्तं कथं देव? येनाऽपत्यं प्रजायते॥
सूर्य उवाच—
नित्यं फलं प्रदातव्यं यावत्संवत्सरं सदा ।
व्रतं सौभाग्यसुन्दर्याःशास्त्रोक्तविधिना खग !॥
एकवासो विधिः पश्चाद्दम्पती अथ सङ्गमे ।
कर्तव्यं विधिवत्सर्वं सर्वकामार्थसिद्धये॥
सूर्यभार्याव्रतं चैव षण्मासावधि मानद ! ।
गर्गरीं पूजयेद्भक्त्या नारिकेलसमन्विताम्॥
रविवारे विशेषेण यागीकरणमुत्तमम् ।
नक्तन्तु कारयेद्भक्त्या ततः सिद्धिर्भविष्यति॥
ब्राह्मणान्भोजयेत्पश्चादष्टोत्तरशतं खग !।
सवत्सा गौः प्रदातव्या स्वर्णमाषेण संयुता॥
कूष्माण्ड दक्षिणायुक्तं विषाय प्रतिपादयेत् ।
एवंविधिकृते बस्स! सन्तानं जायते भुवि॥
इति काकबन्ध्याप्रायश्चित्तम् ।अथ बहुकन्याजनने प्रायश्चित्तम् ।
अरुण उवाच—
वैश्ये कुले समुत्पन्नो वायुपित्तसमन्वितः ।
वित्तपो धर्मयुक्तथ गौरवर्णःप्रतापवान्॥
बहुशिल्पकरो नित्यं कदाचितकृषिकारकः ।
तस्य भार्या सुशीला च भर्तृभक्तिपरायणा॥
व्रतदानदयायुक्ता रूपलावण्यसंयुत्ता ।
बहुपुत्र्यो विजाताश्चपुत्रो नैव विजायते॥
केन कर्मविपाकेन सत्यं कथय भास्कर !।
सूर्य उवाच—
पूर्वं श्रूद्रो वित्तपश्चराजमान्यः प्रतापवान् ।
व्यापारविषये वीरो राजकर्म चकार ह॥
तस्य गोत्रे च सम्बन्धी नित्यं धनपरायणः ।
विष्णुभक्तो दयालुश्चदेवब्राह्मणपूजकः॥
सुताद्वयं तथा विद्धि ह्यपुत्रो मित्रवत्सलः ।
अकस्मात्मरणं प्राप्तः प्रिया तु पृष्ठतोऽन्वयात्॥
तस्य भार्या ततः सर्वे दुःखैश्च परिपीडिताः ।
अचिराच्च मृतः सोपि मार्गे म्लेच्छैश्चघातितः॥
अग्निदाहं विना वत्स ? प्रेतयोनित्वमागतः ।
वर्षायुतं काश्यपेय ! नरके पतितः पुनः॥
पश्चान्मानुषमापन्नो व्रतदानप्रभावतः ।
इदन्तु पञ्चमं जन्म ह्यनपत्यं खगेश्वर ?॥
पुनः पुनः समा जाता बहुदुःखस्य कारकाः ।
तेन कर्मविपाकेन पुत्र्यो जाता अपुत्रकः॥
अरुण उवाच—
प्रायश्चित्तं कथन्देव ! येन पुत्रः प्रजायते ।
सूर्य उवाच—
एकवस्त्रविधानं च दम्पती तीर्थसङ्गमे॥
अष्टोत्तरशतं विप्रान्मिष्टानेन तु तर्पयेत् ।
स्वर्णधेनुःप्रदातव्या घृतकुम्भं ततः परम्॥
श्रवणं हरिवंशस्य एकचित्तेन मानद ?।
सप्तफलीव्रतं कुर्याद्वंशपात्रीत्रयं तथा॥
एवंविधि कृते वत्स ? तस्य पुत्रः प्रजायते ।
इति बहुपुत्रीप्रायश्चितम् । अथ गर्भपातप्रायश्चित्तम् ।
अरुण उवाच—
वैश्यभावे समुत्पन्नः कश्चित्पुरुषसत्तमः ।
संयुक्तोवातपिताभ्यां शिल्पकार्यकरः सदा॥
कृषिकर्म प्रकुर्वाणो धनधान्यसमन्वितः ।
क्रयविक्रयकर्ता च कदाचिच्छ्लेश्मपीडितः॥
तस्य भार्या महासाध्वी पतिभक्तिपरायणा ।
दानव्रतदयायुक्ता सुरूपा चारुहासिनी॥
गर्भपातरता नित्यं कस्येदं कर्मणः फलम् ।
सूर्य उवाच—
वैनतेय ! महावाहो ! शृणु तस्य विचेष्टितम्॥
पूर्वं क्षत्रोत्तमो जातः कामक्रोधसमन्वितः ।
कृषिकर्म प्रकुर्वाणो व्यभिचाररतः सदा॥
कदाचिद्दैवयोगेन सगर्भा गौःसमागता ।
सस्यं वै खादयामास दृष्टा तेन दुरात्मना॥
अतिवेगाद्धावमानः काष्ठमुद्यम्य यत्नतः ।
स चैनां ताडयामास प्रहारैरतिदारुणैः॥
अतिघाताद्वैनतेय ! गर्भःशिथिलतां गतः ।
दिनद्वये त्रये वाऽपि मृतो गर्भस्तु निःसृतः॥
अतिकष्टात्मृता वत्स ! घातिता दुष्टबुद्धिना ।
अचिरेण मृतः सोऽपि तस्करेण विनाशितः॥
पतितो नरके घोरे वर्षाणां च शतत्रयम् ।
पञ्चान्मानुषमापन्नः किञ्चिद्धर्मप्रभावतः॥
इदन्तु पञ्चमं जन्म गर्भपातसमन्वितम् ।
तेन कर्मविपाकेन वंशवृद्धिर्न जायते॥
अरुण उवाच—
प्रायश्चित्तं कथं स्वामिन्येन गर्भः स्थिरो भवेत् ।
ममोपरि कृपां कृत्वा सत्यं कथय सुव्रत !॥
सूर्य उवाच-
एकवस्त्रविधानेन दम्पती स्नानमुत्तमम् ।
श्रवणं हरिवंशस्य एकचित्तेन मानद !॥
सगर्भा गौःप्रदातव्या स्वर्णमाषेन संयुता ।
अष्टोत्तरशतं विप्रान्मिष्टान्नेन तु तर्पयेत्॥
मन्त्रैस्तु लक्षसंख्याकैः शिवं पूज्य प्रयत्नतः ।
सारस्वतस्य मन्त्रस्य जपं कुर्यात्प्रयत्नतः॥
सुवर्णदक्षिणायुक्तं प्रायश्चित्तं प्रकारयेत् ।
इति विधौ कृते वत्स ! सन्तानं जायते ध्रुवम्॥
इति गर्भपातप्रायश्चितम् । अथापुष्पवतीप्रायश्चितम् ।
अरुण उवाच—
वैश्यकुलेसमुत्पन्नो वायुपित्तसमन्वितः ।
शिल्पकार्यकरःश्रीमान्व्यापारे विषयान्वितः॥
तस्य भार्या शुभाचारा व्रतानामनुकाङ्किणी ।
भर्तृभक्तिपरा नित्यं सौभाग्यमदगर्विता॥
अपुष्पवती च सा स्वामिन्कस्येदं कर्मणः फलम् ।
सूर्य उवाच—
भर्त्रा कर्म कृतं नैवस्त्रीकृतं नात्र संशयः ।
क्षत्रवंशे समुत्पन्ना कृपणा चारुहासिनी॥
तयातत्र कृतं कर्म ब्रह्मस्वहरणं विभो ! ।
अपरं च कृतं कर्म ब्राह्मणस्य निवेशने॥
सपुष्पा सफला वल्ली उत्खाता ईर्ष्यया तया।
पुष्पे नष्टे फलं नष्टं तस्मात्पुष्पं विशिष्यते॥
भर्ता च वञ्चितः पूर्व कामाधिकतया तया ।
इह जन्म तृतीयन्तु वैश्यवंशसमुद्भवम्॥
पुष्पं नष्टन्तु तस्याश्च पूर्वकर्मप्रभावतः ।
ईषत्कृष्णं विवर्णं च कदाचित्तु प्रवर्तते॥
मासद्वये त्रये वाऽपि न तेन फलभाग्भवेत् ।
पुरा कृतानि कर्माणि सुकृतं दुःकृतानि च॥
इह जन्मनि भुज्येत प्राणी नित्यं विशाङ्क्तः॥
अरुण उवाच—
वृथाऽधान्यं गृहं स्वामिन्नपुत्रं जन्म निःफलम् ।
प्रायश्चित्तं कथन्देव ! येन पुष्पं प्रवर्तते॥
सूर्य उवाच—
एकान्तरोपवासं च षण्मासं कश्यपात्मज ? ।
रक्तरोहितकं प्राप्य शर्करापयमिश्रितम्॥
एकवासोविधिं पश्चाद्विप्राणां शतभोजनम्।
दद्याद्वैशुभयोगे च वैधृतीव्यतिपातयोः॥
पुष्पैस्तु लक्षसंख्याकैःशिवंसम्पूजयेत्ततः ।
स्वर्णधेनुश्च दातव्या सवत्सा सुभिस्तथा॥
सताम्रं कलश चैव घृतेन परिपूरितम् ।
चन्द्रसूर्योपरागे तु विप्राय प्रतिपादयेत्॥
वंशपात्री प्रकर्तव्या त्रयोदश विसंख्यया ।
कूष्माण्डीफलसंयुक्ता विप्रेभ्यः प्रतिपादयेत्॥
इत्यपुष्पवतीप्रायश्चित्तम् । अथ वीरसिंहावलोके वन्ध्यादीनां सन्ततिजीवनार्थं गोदानविधिर्लिख्यते ।
चतुर्विधा तु या वन्ध्या भवेत्सा च वियोजनात् ।
पक्षे तस्याः प्रतीकारं तत्स्वरूपं निवोधयेत्॥
हिरण्येन यथाशक्त्या सवत्सां कारयेदृृढाम् ।
धेनुं पलेन वत्सञ्च पादेन गुरुरब्रवीत् ।
धेनुं रौप्यखुरां रत्नन्तस्याः पुच्छे नियोजयेत्॥
घण्टां गलेच बध्नीयात्सवत्सां प्राङ्मुखः शुचिः ।
चन्दनागरुकर्पूरैर्गन्धमाल्यैः सुशोभनैः ।
उपचारैः षोडशभिर्नैवेद्यं पायसम्भवेत्॥
मोदकं च तथाऽपूपं गुडं लवणमेव च ।
ब्राह्मणं सर्वशास्त्रज्ञं कुशलं धर्मवेदिनम्॥
विद्याविभवसम्पनं शान्तं चैव जितेन्द्रियम् ।
अलोलुपं सर्वजनप्रियं कलुषनाशनम्॥
आहूय भक्तया सम्पूज्य वस्त्राद्यैर्गन्धपुष्पकैः ।
तेनैव कारयेत्पूजां पादतो धेनुवत्सयोः॥
होमं च कारयेत्तत्र समिदाज्यचरूत्कटम् ।
सोमो धेनुरितिमन्त्रं समुच्चार्य ततः पुमान्॥
प्राङ्मुखायोपविष्टाय प्रदद्यात्चात्तामुदङ्मुखः ।
मन्त्रेणानेन विधिवत्पुटहस्तं विधाय च॥
धेनुर्याऽङ्गिरसः सत्रे विष्णोः स्युः सुरभिश्च या ।
दुहिता या तथा भानोरग्नेश्चवरुणस्य च॥
याश्चगावःप्रवर्तन्ते वनेषूपवनेषु च ।
प्रीणन्तु ता मम सदा पुत्रपौत्रेः सदा सुखम्॥
प्रयच्छन्तु दिवारात्रावविच्छेदं च सन्ततेः ।
इति दानमन्त्रः ।
एवं दत्वा तु तद्दानं प्रणिपत्य विसर्जयेत् ।
इति वन्ध्यात्वहरसुवर्णधनुदानविधिः । अत्र प्रसङ्गतो नराणां कर्मविपाका उच्यन्ते ।
अतः परं प्रवक्ष्यामि नृणां कर्म फलं शृणु ।
ऐहिकामुष्मिकं चिह्नंशुभाशुभविचेतनम्॥
प्राप्नोति पुरुषो येन कर्मणा प्राक्तनेन च ।
काणाःकुब्जास्तथा व्यङ्गा निर्धना दुःखजीविनः॥
षण्ढाः पाखण्डिनो नित्यं जायन्ते हीनजातिषु ।
नृशंसा नास्तिकाः पापाःपरद्रव्यापहारिणः॥
द्यूतकर्मरता मूर्खाः सदा पापरता नराः ।
हिंसकाः सर्वभूतानां ये नरा व्याधिपीडिताः॥
ते सर्वे क्रमशोऽपुत्राः कर्मयुक्ताश्चिरं भुवि ।
यत्पापमकृतप्रायश्चित्तं निरययातनम्॥
गदाधिव्याधिरूपेण बाधते तद्भवान्तरे ।
तत्र तत्रैतव भोक्तव्यं यद्बहु स्याच्छुभाशुभम्॥
तच्छेषेणेह भोक्तव्यं सुखं दुःखं च मानवैः ।
पापिनःपरलोकेषु भुक्त्वा तास्ताश्च यातनाः॥
कर्मभूमिगतास्तत्र लिङ्गिनो दुःखमाप्नुयुः ।
ब्रह्महा मद्यपस्तेयीतथैव गुरुतुल्यगः॥
महापातकिनोऽप्येते तत्संसर्गी च पञ्चमः ।
खरश्चकोलोष्ट्रमृगाऽविगोजद्विजान्त्यजातौ द्विजघातकृत्स्यात् ।
व्रजेत्सुरापः कृमिकीटहिंस्रः पुरीषभुग्याति रथादियोनिम्॥
स्तेयी भवेद्धिंस्रपिशाचतिर्यग्जलस्थलानां सरटादियोनौ ।
क्रव्यादवल्लीतृणगुल्मदंष्ट्रिहिंस्रादियोनौ गुरुतल्पःस्यात्॥
संसर्गमेभिः कुरुते समेतैर्यः सोऽपि तत्साम्यमुपैति मर्त्यः ।
अभक्षमक्षा अपि नीचनारीरता भवेयुः किल मांसभक्षाः॥
परधनान्यपहृत्य पराङ्गनामभिनिषेव्य भवेत्किल राक्षसः ।
किमपि वस्तु परस्य हरन्बलात् समुपयाति पशुत्वमनेकशः॥
आखुर्धान्यं हरन्सर्पिर्नकुलः सलिलप्लवः॥
सारमेयो रसं क्षीरं हंसः क्षौमं तु दर्दुरः ।
जीवजीवोऽरुणं वासः कौशेयन्तु कपिञ्जलः॥
क्रौञ्चः कार्पासजंपत्रशाकं बर्हिर्गुडं गुहः ।
दुग्धः काकं फलं गृध्रो मधु दंशो बको दधि॥
गन्धाञ्छुछुन्दरी क्षीरी लवणं दहनं बकः॥
पुण्डरीकं फलं पुष्पं मर्कटो वारि चातकः ।
दोषैरेभिः स्त्रियोऽध्येषां भार्याभावमवाप्नुयुः॥
स्थाद्विप्रहा कुष्ठगदी सुरापः स्यात्कृष्णदन्तः कनकाप्तहारी॥
दुःपाणिजः स्याद्गुरुतल्पगामी त्वग्रोगवान्सङ्गतिकृत्तु हीनः॥
अयाज्ययाजको ग्रामशूकरो बहुयाजकः ।
खरो निमन्त्रभोजी स्यात्काक ओतुस्तु तर्ज्जकः॥
खद्योतस्तृणदाहकोऽथ वृषभःस्याद्दुष्टबुद्धिप्रदः
कुब्जः पर्युषितान्नदोऽथ फलहृत्स्यान्नष्टसत्सन्ततिः ।
रात्र्यन्धो बहुमत्सरी भवति जन्मान्धो हरन्पुस्तकम्
सर्पःस्याद्विषदोऽपरीक्षितगृहे भुञ्जन्भवेद्वानरः॥
पूज्याङ्गनामभिलषन् कुकलासयोनिः
स्यात्तापसीगमनकृन्मरुगः पिशाचः ।
सर्पो निवाद्भवति संवनितामभीप्सु–
रश्नन्नदन्भवति वै खलु दुष्प्रसूतिः॥
मत्स्यः स्याज्जलसेतुभिद्वहुगदः स्यादन्यमांसाशनः
स्वाद्दुष्टो नृपनायिकामभिलषञ्चौरस्तु विट्शूकरः॥
आचार्यव्यसनं विधाय भवति श्वा तद्धनस्त्रीहर-
श्चक्रीवान्परकामिनीमभिलषन्त्याच्चित्रकायो वृषः॥
भुञ्जानः स्याद्ब्राह्मणः श्वा मृताहे निन्दाहृत्स्यात्कच्छपो न्यासहर्ता ।
कोटःपित्रोर्दुःखदः स्यादथार्थ सङ्कल्पं कृत्वाऽददानः शृगालः॥
विश्वासघाती प्रणियाति वा चाण्डालान्तको देवलको वृषःस्यात् ।
पतिर्वृषल्याः पतिताप्तवित्तः खरत्वमज्ञत्वमरण्यसस्यहृत्॥
सखीजनगुरुस्त्रीणां धर्षकःकीटशूकरः ।
धर्षयन्कोकिलो भ्रातृजायां षण्ढस्तु सोदरम्॥
देवपित्रतिथिभ्योऽन्नमदत्वाश्नॅस्तु वायसः !
यज्ञदानविदोबोभो निध्यादिद्रव्यहृत्कृमिः॥
ज्येष्ठावमाननात्क्रौञ्चः कृतघ्नो वृश्चिकः कृमिः ।
खरः शस्त्रैर्नरं हत्वा स्त्रीबालहननास्कृमिः॥
भोज्यं हृत्वा मक्षिकाज्यं विडालो श्येनो मांसं वालुकीं तन्तुहारी ।
पानं पंगुस्तित्तिरिर्मद्यमुर्वी विष्टाकीटो निर्द्धनः पुष्पहारी॥
लोहं हृत्वा वायसः कांस्यचित्रो हारीतः स्यात्काञ्चनं करियोनिः ।
ताम्रं षण्ढःसीमकं नीलकण्ठस्त्रपुं कीटो रौप्यहृत्स्यात्कपोतः॥
छित्वा मुष्कौवृषस्यागणितनरकवानप्यधर्म्यं नृपत्वम्
सारत्वाद्याप्य कीटःकृमिरपि जलगःस्यात्पतङ्गश्च पत्री ।
चाण्डालो मुष्कसादी भवति च बधिरोंधश्चपंगुश्व कुष्ठी
दुष्टो धातुक्षयी स्यान्मृतिमुखनयनव्याधिमान्पाण्डुरोगी॥
होमं कुर्याद्योऽसमिद्धेऽनले समन्दाग्रिश्वारोचको जीर्णरोगी ।
जायामन्यस्याहरंस्तोययाता हृत्वा षण्ढोमेहनाद्यार्तिमांश्च॥
मूको वागपहारकोऽथ पिशुनःस्यादन्ननाशः खलः
तत्पर्श्वाखलिनि द्विजोत्तमसुराक्रोशी विषाग्निप्रदः ।
उन्मत्तोऽजगरोन्त्यजादिललनागामी वधूपण्यभुक्
षण्ढस्तल्पहरो भवेत्क्षपणकी दायादहृत्कौशिकः॥
दारत्यागी दुर्भगो देवविप्रद्रव्यस्तेयी पाण्डुकी राजयक्ष्मी ।
मित्रद्रोहो शङ्खहृत्स्यात्कपाली मिष्टैकाशी वानरो वातगुल्मी॥
छिन्नौष्ठः स्याद्विघ्नकर्ता विवाहे शूद्राचार्यःस्याच्छ्वपाको दरिद्रः ।
रत्नस्तेयी मातृगोघातकृत्स्यादन्धो रुद्रद्रव्यहृत्स्थूलजिहूः॥
न्यङ्कुर्विद्याविक्रयी दन्दशूको गोहर्तास्यात्काष्ठहृत्काष्ठकीटः।
हीनाङ्गः स्याद्दत्तवृद्ध्यादिजीवी चारो दासो मत्सरी षट्पदः स्यात॥
गोघ्नःकुष्टी पाण्डुकी विप्रहन्ता शोषी भूपघ्नोऽतिसारी वनच्छित् ।
धूर्तोऽपस्मारी विषाग्निप्रदःस्यात्क्षत्ताऽपेयान्यापिबन्वीतरक्ती॥
गुरुस्त्रीगमनान्मूत्रकृच्छं च स्वकुलेहयः ।
भगन्दरोऽथ पैशून्याच्छ्रवासकाशज्वरादयः॥
भ्रामको भ्रमरोगी स्याच्छार्दिरोगी गरप्रदः ।
भूतघाती यकृत्प्लीही मन्दाग्निःस्यात्कदन्नदः॥
परोपतापदःसूर्यपादरोगोऽध्वनि घ्नतः ।
शापाद्व्रणो यकृद्वाऽपि परतापाज्ज्वरादयः॥
श्लीपदी कूटसाक्षी स्वादमक्षाशी गलव्रणी ।
वातशुष्कः स्नुषागामी दारत्यागी जलोदरी॥
असन्ततिन्यासहृतेरजीर्णीपरान्नवित्सङ्ग्रहणीं तु चौर्यात् ।
स्याद्दुर्गतिः सेतुभिदम्बुदेवगेहादिविट्कृद्गुदजामयार्तिः॥
बहुमूत्री रसान् हृत्वा कुनखी त्रपुसिध्मलः ।
रजतं चित्रकुष्टी च हृतं ताम्रं विपादकी॥
गन्धहृद्वर्वरो देहेक्षारहृत्स्वेदवान्भवेत् ।
दृष्टहृद्दुष्टचित्तः स्यादकुलो दन्तुलः खलः॥
अनृतं ये वदन्तीह लोभान्मोहाच्च मत्सरात् ।
ते सर्वे दासतां यान्ति नीचसङ्गरतः पुनः॥
साध्वीं ये धर्षयन्तीह अल्पायुष्ट्वंलभन्ति ते ।
नरकान्ते भवन्तीह दीनाश्च सुखवर्जिताः॥
पितुर्भार्यां गुरोः पत्नीं राजपत्नीं च ये नराः ।
कामतो ह्यभिगच्छन्ति ते भवन्ति नपुंसकाः॥
स्वामिद्रोहरता ये च ते सर्वे निर्द्धना भुवि ।
ज्ञानापहारिणो ये च मूकास्ते ज्ञानघातकाः॥
ये कुर्वन्ति विवादांश्च गुरुभिर्बाह्मणैः सह ।
ते भवन्ति नरा लोके दम्भमोहभ्रमातुराः॥
पिण्डालवर्तिनो ये च मार्ज्जारास्ते भवन्ति हि ॥
बकव्रताबकाश्चैव विक्रियाश्चैव दर्दुराः ।
यत्र तत्राशनः श्वानः श्येनाश्चकलहप्रदाः॥
परसौख्यहरा ये च मृतभार्या भवन्ति ते ।
दुष्टभार्या भवन्तीह साध्वीनामपवादकाः ॥
गोविप्रमार्गं रुन्धन्हि पाण्याङ्घ्रिविकलोभवेत् ।
गोग्रासमुपजीवन्तःशुष्काङ्गाःस्मृतिवर्जिताः॥
ब्राह्मणानामृषीणाञ्च मूढाये नार्पयन्ति च ।
ग्रामशूकरमुख्यास्ते सिद्धान्ने ह्यरुचिर्भवेत्॥
नरकान्ते भवन्तीह ते ये मस्तकरोगिणः ।
सम्प्राप्य विभवं तेऽत्र सर्वसौख्यबहिष्कृताः॥
मातरं पितरं बन्धून्पोषयन्ति न सर्वदा ।
अदत्तदानाश्च तथा देहि देहीति भाषिणः ॥
ये सर्वे सम्पदं प्राप्य विप्राप्तगुरुदैवताः ।
न तर्पयन्ति च पितृृँस्ते नरा दुःखभागिनः॥
भार्यावियोगस्तस्य स्यात्तापसीं योऽभिगच्छति ।
स्त्रीहन्ता नियतं भूमौ स्त्रीदुःखेनातिदुःखभाक्॥
अनिवृत्तिपरो नित्यं वालघाती मृतप्रजः ।
गोहन्ता गणिकापुत्रो जायते जन्मपञ्चकम्॥
विप्रहन्ता च नरकान् जायते कुष्ठरोगवान् ।
सदाज्वरी भवेन्नित्यं देवविप्रावमानकः॥
परोपतापनःशूलं हृद्रोगी जायते भुवि ।
गुदमैथुनात्भवेत्काकः कूर्चहीनःप्रजायते॥
नरमैथुनकृन्नूनं कियत्कालं न पुंस्त्ववान् ।
कृतघ्नता निष्ठुरता खलत्वं चौर्यं च हिंसाद्यभिचारता च ॥
द्रोहोऽशुचित्वं कुमतिः कुसङ्गो लक्ष्मेह वाच्यं नरकागतानाम् ।
इत्याद्यं च बहु प्रोक्तं पुराकर्मजं यत्फलम्॥
तस्मात्तद्दोषशान्त्यर्थं शास्त्रोक्तविधिमाचरेत्॥
इति पुरुषस्य नानाविधकर्मविपाकफलम् । अथ स्त्रीणां कर्मविपाकफलम् ।अरुण उवाच—
इति सामान्यतो दुष्टकर्मजं फलमीरितम् ।
विशेषतश्च नारीणां कर्मजं फलमीरयेत् ।
सूर्य उवाच—
रक्षेत्कन्यां तत्पिता यौवने स्याद्भर्ता पुत्रो वार्द्धके बान्धवो वा ।
भूपा वाऽपि स्वेन वा पालयेयुर्न स्वातन्त्र्यं योषितः क्वापि दृष्टम्॥
या नारी मुक्तकेशा व्रजति च हसते सा सगोपुत्रबन्धु
र्नश्येद्या शुभकर्मदानसुरते केशान्न सङ्गोपयेत् ।
केशाग्रोद्गतसङ्गतिर्भवति यत्केशाग्रभागान् पतिः
पश्येत्सा विधवा सुताद्यसुखभाङ्नार्योज्झिता स्वैरिणी॥
या मूलानि फलानि या च कुमतिं दत्वा फलान्याहरे-
त्सा नूनं मृतवत्सकाऽथ जननीविश्लेषमत्यर्भकैः ।
याऽन्यासामनपत्यतां समधिकं वाञ्छत्यथो याऽन्वहं
गर्भघ्नौषधदानभाषणपरा वन्ध्याः स्युरेताः स्त्रियः॥
या हन्ति बालान् स्रवगर्भका सा मन्दप्रजा सा तनुतेऽतिचारम् ।
स्यात्काकवन्ध्या व्रतदानहीना कन्याप्रसूतिः पुरुषं द्विषन्ती॥
वितन्वन्ती दैन्यं भवति कुलटा चाथ विधवा ।
निजप्राणेशानां हितमसुभगाऽनेकपतिका ।
तथाऽशुद्धा भर्तर्यपरनरसङ्गैकरसिका
कुमार्य्येव त्कुज्यं (?) समयमथ वैधव्यविवशा॥
भर्तृघ्नी नरकान्भुक्त्वशूकरी शुनकी खरी ।
उष्ट्री च स्वजनत्यक्ता स्वपक्षकलिकारिणी॥
देवातिथीज्ये सुहृतो द्विजादिपित्रादिकान् या कपटा भजेत्सा
सुर्दुभगा स्यात् परसन्ततिन्तु द्वेष्ट्येव या साऽचिरसन्ततिः स्यात् ।
स्त्रीपुंसयोःप्रेमविनाशदाना धवोज्झिता याऽथ तयोर्विरोधम्॥
करोति सा स्यात्कुलटाऽथ काकवन्ध्या भवेत्कुरुते गर्भपातम् ।
या मिष्टमश्नाति पुरा विशीला सा स्वादयोग्या कुमतिं च दत्ते॥
सा दुर्भगा या विनिवारयेत्तु गर्भं न सा स्याद्वनिता न पूरुषः ।
निशासु पात्राणि पूतानि न स्युर्यद्यालये सा विधवा विसौख्या॥
लभेत वैधव्यमधर्मशीला न सेवते या च पतिंतथा सा॥
याङ्गीकृतं नियममुत्सृजति स्वमौल्या-
त्सा पूंश्चलीभवति मार्ज्जयते तु गेहम् ।
अभ्युद्गते सवितरि स्वकुलार्थकीर्ति-
पश्वादिकं समुपयाति न वृद्धिमस्याः॥
यद्गेहं नकुलानुरागसहितं यच्चैव काष्ठोपल-
द्रव्याद्यैरभिपूरितं तुषकचागारैश्च भस्मान्वितम् ।
सस्कारातिथिबन्धुमङ्गलयशोभूहव्यकव्योज्ज्ञितं
यच्च स्त्रीजितभर्तृकं हि सदनं यत्तज्झटिति नश्यति॥
आचारोज्झितमुत्सवादिरहितं विण्मूत्रपाताशुचि-
श्लेष्मोर्णाद्यभिजुष्टमिष्टरहितं दुष्टानृतोक्त्यन्वितम् ।
लिप्तं गोरसपङ्कशैवलमलैःसम्मार्ज्जिताद्युज्झितं
लिङ्गश्वापदसेवितं वसनदं यत्तन्न सौख्याश्रयम्॥
एकादशगजं पञ्चमहिषं नवगोवृषम् ।
सप्ताश्वं त्रिगवं गेहं यत्तज्झटिति नश्यति॥
इत्यादिदोषनाशाय मङ्गलाचारयुक्तया ।
स्त्रिया भाव्यं सदा भर्तृपूजादिष्वतिनिश्चयम्॥
सदाचारपरा नारी देवपित्रातिथिप्रिया ।
भर्तृभक्ता च लभते मुखानीह परत्र च॥
दूतीं प्रव्रजितां धूर्तां पांसुलां विधवाङ्गनाम् ।
न कुर्वन्तीं सखीं क्वापि तथा प्रोषितभर्तृकाम्॥
रजकीं पुष्पकालींच नापितां गतभर्तृकाम् ।
एता न स्थापयेद्गेहे स्त्रीरिणीं बहुधामगाम्॥
जागृयात्प्रथमं भर्तुरस्वप्ने न शयीत च ।
द्वेष्यान्प्रियान्हितान्भर्तुः सन्मित्राणि प्रपूजयेत्॥
सपत्नीष्वपि कुर्वीत प्रेम तज्जनितेष्वपि ।
दासदास्यादिकान्काले यथायोग्यमुपाचरेत्॥
नावमन्येत भर्तारं सदा तद्धितमाचरेत् ।
आहूता सर्वकार्याणि त्यक्त्वा तस्यान्तिकं व्रजेत्॥
इति स्त्रीणां कर्मविपाकफलम् ।अथ जातिवर्णनम् ।
तिथिं वारं च नक्षत्रं योगं करणपञ्चकम् ।
नामास्याष्टगुणं कृत्वा चतूराशिसमन्वितम्॥
चतुर्विंशतिभिर्भाग वर्णानां तत्र कल्पना॥
राजा १तपस्वी २ स्वर्णकारो ३ विप्रो४ वणिक्५ वैश्य ६ श्चाण्डालो ७ भिल्लो ८ म्लेच्छः९ कृषिकृत् १० हारी११ चक्रीवान् १२प्रजापतिः१३ स्वर्णकारो १४ रजकः१५ पशुम्लेच्छपः १६ कुनागो १७ वल्लीमहिष १८ स्तैलपायी १९कुविन्दो २० वणिक् २१ आसुरवैद्यः२२ कलावान् २३ पारणश्च२४ एवमुक्ता जातयो मुनिना क्रमेण॥
इति श्रीप्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्रविवरणे
संस्कारगणपतौ कर्मविपाकफलं प्रायश्चित्तंसमाप्तम्॥
(चतुर्द्दशी काण्डका)
अथ पुं<MISSING_FIG href=”../books_images/U-IMG-1697190141Untitled115.png”/>सवनं पुरा स्पन्दत इति मासे द्वितीये तृतीये वा यदहः पु<MISSING_FIG href="../books_images/U-IMG-1697190141Untitled115.png"/>सा नक्षत्रेण चन्द्रमा युज्येत तदहरुपवास्याप्लाव्याहते वाससी परिधाप्य न्यग्रोधावरोहाञ्छुङ्गाँश्च निशायामुदपेषं पिष्ट्वापूर्ववदासेचन<MISSING_FIG href="../books_images/U-IMG-1697190141Untitled115.png"/>हिरण्यगर्भोऽद्भयः सम्भृत इत्येताभ्यां कुशकण्टक<MISSING_FIG href="../books_images/U-IMG-1697190141Untitled115.png"/>सोमा<MISSING_FIG href="../books_images/U-IMG-1697190411Untitled117.png"/>शुं चैके कूर्मपित्त चोपस्थे कृत्वा स यदि कामयेतवीर्यवान्त्स्यादिति विकृत्यैनमभिमन्त्रयते सुपर्णोऽसीतिप्राग्विष्णुक्रमेभ्यः॥१४॥
अथ पुंसवनम्। अथावरसरप्राप्तं पुंसवनाख्यं गर्भसस्कारकं कर्म व्याख्यायते। “अथ पु<MISSING_FIG href="../books_images/U-IMG-1697190141Untitled115.png"/>सवनं पुरा स्पन्दत इति" इति सूत्रम् । पुंसवनमिति गर्भसंस्कारकर्मणो नामधेयम्। यद्वा पुमान्सूयते येन कर्मणेति व्युत्पत्त्यागर्भस्य पुंरूपतापादकः कर्मविशेषः। तथा च शौनकः—
पुमान्प्रसूयते येन तत्पुंसवनमीरितम्॥ इति ।
पुरा अग्रे स्पन्दते चलिष्यति “यावत्पुरानिपातयोर्लट्” इतिभविष्यदर्थे वर्तमानप्रयोगः। अतः पुरा गर्भस्पन्दनाद्भवति। तथा च शङ्कः—
पुरा तु स्पन्दनात्कार्यं सवनं तु विचक्षणैः॥ इति ।
तच्च कदा भवतीत्यपेक्षायामाह “मासेद्वितीये तृतीये वा"इति सूत्रम्।गर्भधारणकालाद्द्वितीये मासे तृतीये वा भवति, “तृतीये-स्पन्दते तत” इति योगीश्वरस्मरणात् । स्पन्दनापुरेति वदता द्वितीयेवा तृतीये मासि पुंसवनं कर्तव्यमित्युक्तं भवति। तथा च जातूकर्ण्यः—
द्वितीये वा तृतीये वा मासि पुंसवनं भवेत् ।
व्यक्ते गर्भेभवेत्कार्यं सीमन्तेन सहाथ वा॥ इति ।
अनेन द्वितीये गर्भस्पष्टतायां तृतीय इति सिध्यति । तथा च शौनकः—
अथ पुंसवनं कुर्यात्तृतीये मासि पुंस्त्वदम् ।
गर्भोऽव्यक्तस्तृतीये चेच्चतुर्थे मासि वा भवेत्॥
गर्भव्यक्ततायाश्च लक्षणमुक्तं ज्योतिर्निबन्धे—
स्तनयोर्मुखकार्ष्ण्यंस्याद्रोमराज्युद्गमस्तथा ।
अक्षिपक्ष्माणि चाप्यस्याः सम्मील्यन्ते विशेषतः॥
छर्द्दयेत्पथ्यभुक्तानि गन्धादुद्विजते शुभात् ।
प्रसेकवदनं चैव गर्भिण्या लिङ्गमुच्यते॥
तथा च श्रुतौ “सद्यो गृहीतगर्भायाःश्रमो ग्लानिः पिपासासक्थिस्पन्दनं शुक्रशोणितयोरनुबन्धः स्फुरणं च योन्या” इति।इदन्तु प्रथमगर्भे, द्वितीयादिगर्भेषु कालातिक्रमे स्पन्दितेऽपि कार्यमेव। तदुक्तं कारिकायाम्—
एतदेव पुरा गर्भचलनादकृतं यदि ।
सीमन्तात्प्राग्विधातव्यं स्पन्दितेऽपि बृहस्पतिः॥
इदं स्वकाले असम्भवे अनादिष्टहोमपूर्वकं सीमन्तोन्नयनेन सह वाकार्यम्। इदं गर्भसंस्कारत्वात्प्रतिगर्भमावर्तनीयम्। वीरमित्रोदयः—
प्रतिगर्भमिदं कर्म कार्यं पुत्रीयताऽखिलम् ।
प्राशनस्पर्शकरणाद्गर्भस्थःसंस्कृतो भवेत्॥
गदाधरभाष्ये—
गर्भसंस्कार एवायमिति कर्कस्य सम्मतिः ।
अतस्तद्गर्भसंस्काराद्गर्भं गर्भं प्रयुञ्जते॥
इति बह्वृचकारिकायामपि । कैश्चित्तु “पुंसवनसीमन्तोन्नयने क्षेत्रसंस्काररूपत्वात्सकृदेव कार्ये” इत्यनेन पुंसवनस्य सकृत्करणत्वमुक्तम्, तन्नादरणीयम्,
अथ पुंसवनं वक्ष्ये प्राग्गर्भचलनाद्भवेत् ।
इतिवाक्यात्। गर्भचलनन्तु प्रतिगर्भं भवेत्। इदं च गुरुशुक्रास्ताधिमासादिष्वपि कार्यम्। द्वितीयेत्यादिना मासनियमात्। तथा च बृहस्पतिः—
मासप्रयुक्तकार्येषु मूढत्वं गुरुशुक्रयोः ।
न दोषकृत्तदा मासलक्षणो बलवानिति॥
**वृद्धिर्दास्यं पुंसवादि प्रेतकर्मानुमासिकम् ।
नित्यं मासाधिकेऽन्यत्तु सर्वदेवादि चोत्तरे॥**इति ।
मासलक्षणः काल इति विशेषः । “यदहःपु<MISSING_FIG href=”../books_images/U-IMG-1697200313Untitled115.png"/>सा नक्षत्रेण चन्द्रमायुज्येत" इति सूत्रम्। यस्मिन्नहनि पुंसा पुरुषनाम्ना नक्षत्रेण चन्द्रमायुक्तो भवति तदहस्तस्मिन्दिने पुंसवनं कार्यम् ।पुन्नक्षत्राणि रत्नके दर्शितानि—
पुन्नक्षत्राणि चैतानि तिष्यो हस्तःपुनर्वसुः ।
अभिजित्प्रौष्ठपाच्चैव अनुराधाऽश्वियुक्तथा॥
तथा च ज्योतिर्निबन्धे—
हस्तो मूलःश्रवणःपुनर्वसुर्मृगशिरस्तथा पुष्यः ।
पुंसंज्ञेषु कार्येष्वेतानि शुभानि धिष्ण्यानि॥
गर्गोऽपि—
कुर्यात्पुंसवनाख्यन्तु पुन्नामर्क्षे शुभे दिने ।
पुन्नाम श्रवणं तिष्यःस्वाती हस्तः पुनर्वसुः॥
मूलं प्रौष्ठपदं चानुराधा मृगशिरोऽश्विनी॥
अथ तिथयः। तत्र नृसिंहः—
रिक्ताश्च पर्व नवमीं त्यक्त्वा पुंसवने शुभाः॥ इति ।
रिक्ताश्चतुर्थीनवमीचतुर्दश्यः।नवम्याः पुनरुपादानं दोषाधिक्यख्यापनाय ।अथ वाराः । तत्र बृहस्पतिः—
**गुरुशुक्रबुधेन्दूनां द्रेःकाणा दिवसांशकाः ।
तेषामुदयहोरा च पुंसवेऽतिशुभावहाः॥**इति ।
लग्नानि बृहस्पतिः—
कुलीरं मिथुनं कन्यां हित्वा शेषाःशुभावहाः ।
अन्यस्मिञ्चैव राशौ तु शुभं स्थाच्छुभवीक्षिते॥
वशिष्ठः—
अष्टमस्था ग्रहाः सर्वे नेष्टाःस्युस्ते शुभावहाः ।
एवं सम्यङ्निरीक्ष्यैव कुर्यात्पुंसवनक्रियाम् ।
गृह्यकारिकायाम्—
रविभौमेज्यवारेषु त्रिकोणस्थे शुभे ग्रहे ।
पुंलग्ने कण्टकस्थे च गुरौ क्रूरैर्विवर्जिते॥
अथ चन्द्रबलविचारः—
विवाहगर्भसंस्कारे दम्पत्योः शशिनो बलम् ।
धवाभावेऽङ्गनावीर्यं भर्तुरेवान्यकर्मसु॥
भर्तुरसम्भवे देवरादिना कर्तव्यम्। अत्राश्वलायनः—
पत्यौ मृते वा पतिते सन्न्यस्ते वा विदेशगे ।
तद्गोत्रजेन श्रेष्ठेन कार्याः पुंसवनादयः॥
गुरुर्ज्येष्ठः। वंश्यःसपिण्डः । अथ कर्तव्यमाह “तदहरुपवास्याप्लाव्याहते वाससी परिधाप्यन्यग्रोधावरोहाञ्छुङ्गांश्च निशायामुदपेषंपिष्ट्वापूर्ववदासेचन<MISSING_FIG href=”../books_images/U-IMG-1697201297Untitled115.png"/> हिरण्यगर्भोऽद्भ्यःसम्भृतइत्येताभ्याम्” इति सूत्रम्। तदहस्तस्मिन्नेव दिने गर्भिणीमुपवास्य अभोजनं कारयित्वा अहते नवे सदशे सकृत्प्रक्षालिते वाससी अन्तरीयोत्तरीयेद्वे परिधाप्य परिधानं कारयित्वा न्यग्रोधस्य वटस्य अवरोहान् अव अधःरोहन्तीति तथा तान् शुङ्गान् अग्रपल्लवान् सन्निधानाद्वटस्यैव। चकारःसमुच्चयार्थः। ततश्चोभयं रात्रौ पूर्ववद्गर्भधारणार्थोक्तवत् पिष्ट्वा पूर्ववदेव आसेचनं भर्तुर्दक्षिणनासारन्ध्रे “हिरण्यगर्भः, अद्भ्यः सम्भृत"इति मन्त्राभ्यामृग्भ्याम्।“कुशकण्टक<MISSING_FIG href=”../books_images/U-IMG-1697201297Untitled115.png"/>सोमा<MISSING_FIG href="../books_images/U-IMG-1697201297Untitled115.png"/>शुञ्चैके" इति सूत्रम्।एके आचार्या न्यग्रोधावरोहशुङ्गेषु पिष्यमाणेषु कुशस्य कण्टकं मूलं सोमांशुं सोमलताखण्डं च प्रक्षिपन्ति। तत्पक्षे द्रव्यचतुष्टयस्य पेषणम्। काम्यमाह “कूर्मपित्तं चोपस्थे कृत्वा स यदि कामयेत वीर्यवान्त्स्यादिति विकृत्यैनमभिमन्त्रयते सुपर्णोऽसीति प्राग्विष्णुक्रमेभ्यः"इति सूत्रम्।सभर्त्ता यदि कामयेत अयं गर्भो वीर्यवान् शक्तिमान् भवतु,तदा अस्या भार्याया उपस्थे उत्सङ्गे अङ्के कूर्मपित्तं उदकपूर्णं शरावं निधाय विकृत्या विकृतिच्छन्दस्कया “सुपर्णोऽसी"त्यनया“स्वःपते"त्यन्तया एनं गर्भमभिमन्त्रयते। गर्भिण्या उदरं अनामिकाग्रेण स्पृशन् विलो-
कयित्वा वा मन्त्रं पठतीत्यर्थः। तदुक्तं कात्यायनेन—
स्पृशत्यनामिकाग्रेण क्वचिदालोकयन्नपि ।
सर्वत्र मनुनोक्तेन सदैवमनुमन्त्रयेत्॥ इति ।
अभिमन्त्रानुमन्त्रयोर्न कश्चिद्विशेषः। विकृतेः प्रसिद्धत्वादाह**“सुपर्णोऽसि गरुत्मा”** नित्यारभ्य विष्णुक्रममन्त्रेभ्यः प्राक् पूर्वं यावद्विकृतेःपरिमाणमित्यर्थः।
इति श्रीप्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्रविवरणे
संस्कारगणपतौ प्रथमकाण्डे चतुर्द्दशी कण्डिका ॥
≍♦≍♦≍♦≍♦≍♦≍♦≍♦≍
अथास्य स्पष्टप्रयोगः। तत्र गर्भाधानप्रभृति मासे द्वितीये तृतीयेवा यस्मिन्नहनि पुंसा नक्षत्रेण पुष्यादिना चन्द्रमा युज्येत तस्मिन्नहनिस्त्रियमुपवासं कारयेत्। अशक्तौ नक्तम्। देशकालौ स्मृत्वा “अस्यांभार्यायां उत्पत्स्यमानगर्भस्य बैजिकगार्भिकदोषपरिहारपुरुषज्ञानोदयप्रतिरोधिपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थं पुंसवनं करिष्ये”इति सङ्कल्पः। ततो मातृपूजापूर्वकं नान्दीश्राद्धं कृत्वा ततस्तां स्नापयित्वा अहते वाससी परिधाप्य ततो रात्रौ न्यग्रोधावरोहान् न्यग्रोधशुङ्गाश्चउदकेन पिष्ट्वा नासिकाया दक्षिणपुटेआसिञ्चति भर्ता।“हिरण्यगर्भः, अद्भ्यः सम्भृतः” इति मन्त्रावुक्त्वा दद्यात्। न्यग्रोधावरोहेषु न्यग्रोधाङ्कुरेषु पिष्यमाणेषु कुशकण्टकं सोमांशुञ्च तन्मध्ये प्रक्षिप्य पेषणमिच्छया, वस्त्रेण पातयित्वा नासिकायां क्षिपेदिति। स यदिकामयेतेच्छेत् वीर्यवान्स्यादयं गर्भस्तदा स्त्रिया अङ्के उदकपूर्णं शरावं निधायअनामिकाग्रेण गर्भमभिमन्त्रयते **“सुपर्णोऽसि० स्वः पते”**त्यन्तेनमन्त्रेण।ततो दशब्राह्मणभोजनसङ्कल्पः।
इति श्रीप्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्रविवरणे
संस्कारगणपतौ पुंसवनप्रयोगः॥
<MISSING_FIG href=”../books_images/U-IMG-1697202201Untitled118.png"/>
(पञ्चदशी कण्डिका)
अथ सीमन्तोन्नयनं पु<MISSING_FIG href="../books_images/U-IMG-1697253680Screenshot(21"/>.png)सवनवत्प्रथमगर्भे मासे षष्ठेऽष्टमे वा तिलमुद्गमिश्र<MISSING_FIG href="../books_images/U-IMG-1697253724Screenshot(1"/>.png)स्थालीपाक<MISSING_FIG href="../books_images/U-IMG-1697253724Screenshot(1"/>.png)श्रपयित्वा प्रजापतेर्हुत्वा पश्चादग्नेर्भद्रपीठ उपविष्टायां युग्मेन सटालुग्रप्सेनौदुम्बरेण त्रिभिश्च दर्भपिञ्जुलैस्त्रेण्या शलल्या वीरतरशङ्कुना पूर्णचात्रेण च सीमन्तमूर्द्धं विनयति भूर्भुवः स्वरिति प्रतिमहाव्याहृतिभिर्वा त्रिवृतमाबध्नात्ययमूर्ज्जावतो वृक्ष ऊर्ज्जीव फलिनी भवेत्यथाह वीणागाथिनौ राजान<MISSING_FIG href="../books_images/U-IMG-1697253680Screenshot(21"/>.png)सङ्कायेतां यो वाऽप्यन्यो वीरतर इति नियुक्तामप्येके गाथामुपोदाहरन्ति सोम एव नो राजेमा मानुषीःप्रजाः ॥ अविमुक्तचक्र आसीरँस्तीरे तुभ्यमसाविति यां नदीमुपावसिता भवति तस्या नाम गृह्णाति ततो ब्राह्मणभोजनम् ॥१५॥
अथ सीमन्तोन्नयनम्। अथ पुंसवनानन्तरं क्रमप्राप्तं सीमन्तोन्नयनं गर्भसंस्कारकं कर्म व्याख्यायते।सीमन्तः उन्नीयते यस्मिन् कर्मणि तत्सीमन्तोन्नयनमिति कर्मणो नामधेयम्। तदुक्तं सङ्ग्रहे—
त्रेण्या शलल्या दर्भेण उदुम्बरयवाङ्कुरैः।
विभज्य तस्याः केशेषु मध्ये सीमन्तमुन्नयेत्॥
तदनुष्ठाने कारणमाहाश्वलायनः—
पत्न्यां प्रथमजं गर्भमत्तुकामाः सुदुर्मदाः ।
आयान्ति काश्चिद्राक्षस्यो रुधिराशनतत्पराः॥
तासां निरसनार्थाय स्त्रियमावाहयेत्पतिः ।
सीमन्तकरणी लक्ष्मीस्तामावहति मन्त्रतः॥
स्त्रियः श्रितशरीरत्वात्तां त्यजन्तीह मोहिताः ।
अलक्ष्म्यो दुर्भगाःक्रूरा राक्षस्यः पिशिताशनाः॥
गृष्टयः सम्प्रगृह्यन्ते पीड्यन्ते च विशेषतः ।
कासां चित्तादृशी वृत्तिर्ब्रह्मणा विहिता पुरा॥
“पुंसवनवत्” इति सूत्रम् ।‘अनेन यदहः पुंसा नक्षत्रेण चन्द्रसोमयोगस्तदहरुपवास्याऽऽप्लाव्याऽहते वाससी परिधाप्येति लभ्यते, न तु सर्वमिति’ कर्कः। ‘पुंसवनवदिति यदहः पुंसा नक्षत्रेण चन्द्रमा युज्येत तदहरित्यर्थ’ इति भर्तृयज्ञः । “प्रथमगर्भे" इति सूत्रम् । एतत्सीमन्तोन्नयनंप्रथमगर्भेआद्यगर्भे भवति । आपस्तम्बः– “सीमन्तोन्नयनं प्रथमगर्भेचतुर्थमासीति” । साङ्ख्यायनगृह्येऽपि “सप्तमे मासि प्रथम गर्भेसीमन्तोन्नयनमिति” ।आश्वलायनगृह्यपरिशिष्टेऽपि “प्रथमे गर्भेसीमन्तोन्नयनसंस्कारो गर्भमात्रसंस्कार” इति । गृह्यकारिकायाम्—
स्त्रियाः संस्कार एवायमिति हारीतदेवलौ॥
हरिहरभाष्ये हारीतवचनम्—
सकृत्संस्कृतसंस्काराः सीमन्तेन द्विजस्त्रियः ।
यं यं गर्भं प्रसूयन्ति स सर्वःसंस्कृतो भवेत्॥
कर्कोपाध्यायैस्तु ‘प्रथमगर्ने मासे षष्टेऽष्टमे वेतिसूत्रं योजयित्वा द्वितीयादिष्वनियम’ इत्युक्तम् । ननु प्रथमगर्भ एव सीमन्तोन्नयने क्रियमाणेद्वितीयादिगर्भाणां तत्संकारलोपःस्यादिति चेन्मैवम् ।
यं यं गर्भंं प्रसूयन्ति स सर्वः संस्कृतो भवेत्॥
इति हारीतवचनादाद्यगर्भेसंस्कारे कृते सर्वगर्भाणां संस्कार इतिन संस्कारलोपः । “मासे षष्ठेऽष्टमे वा" इति सूत्रम् ।सीमन्तोन्नयनंगर्भधारणात् षष्ठे मास्यष्टमे वा भवति । वीरमित्रोदये वसिष्ठः—
चतुर्थे सप्तमे मासि षष्ठे वाऽप्यथ वाऽष्टमे॥
मुख्यकालासम्भवे प्रसवात् प्राक् कार्यम् । तथा च कृष्णाजिनिः—
गर्भलम्भनमारभ्य यावन्न प्रसवस्तदा ।
सीमन्तोन्नयनं कुर्याच्छङ्खस्य वचनं यथा॥
तत्रापि असम्भवे प्रसवोत्तरं जातकर्मणः प्राक् कार्यम् । प्रसवोत्तरकरणे बालकं पेटायां निक्षिप्य मातुरङ्के स्थाप्य कर्त्तव्यम् ।
गार्ग्यः —
यदि सीमन्ततः पूर्वं प्रसूता चेत्तु भामिनी ।
तदानीं पेटके गर्भं स्थाप्य संस्कारमाचरेत्॥
पेटके पेटिकायां गर्भं बालकम् । तथा च सत्यव्रतः—
स्त्री यदाऽकृतसीमन्ता प्रसवेत्तु कथञ्चन ।
पुत्रं गृहीत्वा विधिवत्पुनः संस्कारमर्हति॥
पुनः संस्कारमतिक्रान्तसंस्कारमित्यर्थः । भर्तुरसम्भवे देवरादिना कर्तव्यम् । मासश्चात्र सौरसावनयोरन्यतरो गृह्यते \। कालविधाने—
चतुर्थषष्ठाष्टममासि भाजि सौरेण गर्भेप्रथमे विधेयम् ।
सीमन्तकर्म द्विजभामिनीनां मासेऽष्टमे विष्णुबलिं च कुर्यात्॥
वसिष्ठः—
चतुर्थे सावने मासि षष्ठे वाऽप्यथ वाऽष्टमे॥
अथ पक्षः । तत्र शौनकः—
शुक्लपक्षे तु पुल्लिङ्गनक्षत्रस्थे निशाकरे॥
बृहस्पतिः—
**पूर्वपक्षः शुभः प्रोक्तः कृष्णे चान्त्यत्रिकं विना॥ **इति ।
अन्तेऽवसाने भवमन्त्यम् । अन्त्यं च तन्त्रिकं चेति त्रयोदश्यादित्रिकमित्यर्थः । नारदः—
आरिक्तपर्वदिवसे कुर्याज्जीवार्कवासरे॥
बृहस्पतिः—
पक्षच्छिद्रां च रिक्तां च विना पञ्चदशीं शुभाः ।
चतुर्दशी चतुर्थी च कदाचिस्स्युः शुभप्रदाः॥
षष्ठ्यष्टमीद्वादश्यः पक्षच्छिद्राः । कालनिर्णये—
**शुभसंस्थे निशानाथेचतुर्थी च चतुर्दशी ।
पौर्णमासीं प्रशंसन्ति के चित्समिन्तकर्माणि॥ **इति ।
अथ वाराः। तत्र व्यासः–
पुरुषग्रहवाराः स्युः शुभाः सीमन्तकर्मणि ।
मध्यौ स्त्रीग्रहवारी तु वर्जयेत्तु नपुंसकौ॥
पुङ्क्षहारविभौमगुरवः । स्त्रीग्रहो सोमभृगू । नपुंसकौ शनिबुधौ ।
अथ नक्षत्राणि । तत्र बृहस्पतिः—
रोहिण्यैन्दवमादित्यपुष्यहस्तोत्तरात्रयम् ।
पौष्णं वैष्णवभंचैव सीमन्ते दश संस्मृताः॥
रात्रिनिषेधे विशेषमाह नारदः—
विप्रक्षत्रिययोः कुर्याद्दिवा सीमन्तकर्म तत् ।
वैश्यसच्छूद्रयोरेतद्दिवा निश्यपि केचन॥
नृसिंहः—
केन्द्र त्रिकोणपुत्रस्था ग्रहाः सर्वे शुभावहाः ।
त्रिषडायगताः पापाः शुभाः सीमन्तकर्माणि॥
लग्नादष्टमराशीशः केन्द्रगःशुभवीक्षितः ।
यद्यप्यष्टमभस्योक्तं दोषमाश्च व्यपोहति॥
वसिष्ठः—
मासे मासे मासपादिग्रहाणां शान्तिं कुर्याच्छान्तिवाक्यैर्जपैश्च ।
होमैर्दानैः सज्जनानां च वाक्यैर्गर्भं सम्यग्रक्षयेत्पुत्रकामी॥
मासेश्वराः सित १कुजे २ज्य३रवी४न्दु५सौर६-
चन्द्रात्मजा७स्तनुप८चन्द्र९दिवाकराः१०स्युः॥ इति ।
“तिलमुद्गमिश्र<MISSING_FIG href=”../books_images/U-IMG-1697271170Screenshot(14"/>.png)स्थालीपाक<MISSING_FIG href="../books_images/U-IMG-1697271170Screenshot(14"/>.png)श्रपयित्वा प्रजापतेर्हुत्वा" इति सूत्रम् । तिलैर्मुद्गैर्मिश्रस्तिलमुद्गमिश्रस्तं स्थालीपाकमोदनचरुं श्रपयित्वा,तथा च रेणुः—
तण्डुलाकान्प्रक्षिपेत्स्थाल्यां तिलमुद्गसमन्वितान् ।
चरुं संश्रपयेन्मुद्गतिलयोर्न प्रधानता॥
अन्तरा ना उपेक्ष्यैव ? मिश्रणस्योपदेशतः॥
आज्यभागानन्तरं **“प्रजापतये स्वाहे”**त्येकामाहुतिंहुत्वा स्थालीपाकेनैव स्विष्टकृदाहुतिंहुवा दक्षिणादानान्तं विदध्यात् । “पश्चादग्नेर्भद्रपीठ उपविष्टायां।" इति सूत्रम् ।अग्नेःपश्चिमतो भर्तुर्दक्षिणतो मृदुपीठे आसीनायां गर्भिण्यां सत्याम् । अथ पीठलक्षणमाह—
श्रीपर्णीरचितं रम्यं हस्तमात्रायतं शुभम् ।
**अरत्निविस्तृतं पीठं विचित्रासनमुच्यते॥
शाकदारूमयं भव्यं दृढ श्लक्ष्णं सुविस्तृतम्॥ **इति ।
**’**भद्रपीठशब्दो गोमयपीठे चतुरस्त्रे प्रसिद्ध’ इति भर्तृयज्ञः। “युग्मेनसटालुग्रप्सेनौदुम्बरेण त्रिभिश्च दर्भपिञ्जुलैस्त्र्यैण्या शलल्या वीरतरशङ्कुना पूर्णचात्रेण च सीमन्तमूर्ध्वं विनयति भूर्भुवः स्वरिति” इतिसूत्रम्। ततो भर्ता औदुम्बरेणौदुम्बरवृक्षोद्भवेन युग्मेन द्व्यादियुग्मफलवतासटालुग्रप्सेन- अपक्वफलैक-स्तबकनिबद्धेन। सटालुरिति अपक्वफलनामाख्या ।ग्रप्सः स्तबकसङ्घातः ।युग्मानि एकस्तबकनिबद्धानि औदुम्बरफलानि तेन । तथा च गृह्यकारिकायाम्—
औदुम्बरफलं युग्मद्वयमेकत्र संयुतम्॥
औदुम्बरस्तवकाभावेऽन्यवृक्षस्तबको ग्राह्यः । तदुक्तं वीरमित्रोदयेकारिकायाम्—
औदुम्बरस्य स्तबकस्तदभावेऽन्यवृक्षजः ॥ इति** ।**
त्रिभिर्दर्भपिञ्जुलैःत्रिभिर्दर्भपवित्रैः । परिशिष्टे—
एतत्प्रमाणके वैके कौशिमे वाऽर्द्रमञ्जरी॥
शुष्का वा शीर्णकुसुमा पिञ्जुली परिचक्षते॥
त्र्येण्याशलल्या त्रिषु स्थानेषु एता त्र्येणी तया त्र्येण्या शलल्याशलल्याख्यपक्षिकण्टकेन शक्यकरोम्णा वा ।
श्वावित्तु शल्यस्तल्लोम्नि शलली शललं शलम्॥
इति त्रिकाण्डीस्मरणात् । वीरतरशकुना वीरतरस्त्रिविधः “बिल्वोऽ-श्वत्थःशिरषिक" इति । कारिकाकारमते बिल्ववृक्षोद्भवः । तथा च—
शङ्कुःश्रीवृक्षजः पूर्णचात्रं मृदु तथासनम् ॥ इति ।
शर इति जयरामः । तथा चोक्तम्—
शरेषिकोऽथ वा शङ्कः कातीयपरिशिष्टतः ॥ इति ।
कर्कमते—
अश्वत्थवृक्षः पलितः शमीगिर्भसमुद्भवः ।
अग्निहोत्रक्रिया येन स वै वीरतरः स्मृतः॥
खादिरः शङ्कुरिति गर्गपद्धतौ। पूर्णचात्रेण सूत्रकर्तनसाधनभूतोलोष्टकीलकःतर्कुरपर-पर्यायश्चात्रं सूत्रपूर्णं तेन। चकारःसर्वसमुच्चयार्थः।अतश्चौदुम्बरयुग्मादिभिः पञ्चकैःसर्वैः पञ्चीकृतैःस्त्रियाः सीमन्तमूर्ध्वंविनयति केशललाटयोः सन्धिमारभ्य ऊर्ध्वं केशान् पृथक् करोति द्विधाकरोति। सीमन्तशब्दो व्याख्यातोऽभिधानग्रन्थे—
**सीमन्तः कथ्यते स्त्रीणां केशमध्ये तु पद्धतिः ॥ **इति ।
“भूर्भुवःस्व”रिति मन्त्रेण सकृदेव साकाङ्क्षत्वाद्विनयामीत्यध्याहारः।पक्षान्तरमाह— “प्रतिमहाव्याहृतिभिर्वा” इति सूत्रम्।विनयनं सीमन्तस्यकार्यमित्यर्थः। अत्रापि चाध्याहारः । स चैवम्– “भूर्विनयामि भुवो विनयामि स्वो विनयामि”। “त्रिवृतमावघ्नाति” इति सूत्रम् ।त्रिभिर्वृत्यतेग्रथ्यते इति त्रिवृत् वेणी तां प्रत्यौदुम्बरादिपञ्चकमाबध्नाति भर्ता - “अयमूर्जावतो वृक्ष उर्जीव फलिनी भवे"ति सूत्रमन्त्रेण । मन्त्रार्थः– हे-सीमन्तिनि ? यतोऽयमुर्जावान्वृक्ष इति शेषः। अस्य चोर्जावतो वृक्षस्य ऊर्जीवसफलशाखेव फलिनी भव । “अथाह वीणागाथिनौ राजानँसङ्कायेतां यो वाऽप्यन्यो वीरतर इति” इति सूत्रम्। अथ वेण्यां बन्धनानन्तरंवीणां गृहीत्वा गाथागायिनौ प्रति ब्रवीति यजमानः। हे वीणागाथिनौ? राजानंभूपतिं सङ्गायेतां युवाम्। ततश्च तो ब्राह्मणावेच वीणागाथिनौ राजसम्बन्धिसोत्साहौ गायतः । यजमानः करसम्पुटं कृत्वा जपेदितिगङ्गाधरः।अथवा योऽन्योऽपि राजव्यतिरिक्तो वीरतरः प्रकृष्टो वीरस्तं सङ्गायेतामित्यनुषङ्ग इत्याह ब्रवीति। “नियुक्तामप्येके गाथामुपोदाहरन्ति सोमएवनो राजेमा मानुषीः प्रजाः। अविमुक्तचक्र आसीरंस्तीरे तुभ्यमसाविति"इति सूत्रम् । एक आचार्या नियुक्तां गाने विहितां गाथांमन्त्रं सोम एवनोराजेति उदाहरन्त्युप समीपे गायन्ति । एके नेति ।अतश्च विकल्पः ।अपिःसमुच्चयार्थः । ततो गाथागानपक्षे राजसम्बन्धिवीरतरसम्बन्धि वा गानंगाथागानं च द्वयं भवति । केषां चिन्मते राजवीरतरयोरन्यतरगानं गाथागानं वा । पद्धतिकारमते राजवीरवरगाथानाम-
न्यतमस्य गानम् ।असावित्यत्र नामादेशः।गाथागानमपि वीणागाथिनौ कुरुतः । मन्त्रार्थः– सोमश्चन्द्रः नोऽस्माकं प्रजानां राजा प्रभुः। अतइमाः प्रजा मानवीर्मानुष्यः सौम्याः हि गङ्गादिनद्यस्तुभ्यं तव सोमरूपायस्तीरे आसीरन् त्वामाश्रित्य स्थिताः। किम्भूते तीरे— अविमुक्तचक्रेअनुल्लङ्घितशास्त्रे । अतो भवद्भ्यां पातव्या इत्यर्थः । “यां नदीमुपावासता भवति तस्या नाम गृह्णाति” इतिसूत्रम् ।असावित्यत्र च सीमन्तिनी यां नदीमुप समीपे आवसिता भवति । तस्या नद्या गाथागानकर्तागङ्गे यमुने इत्येव नाम गृण्हाति। “ततो ब्राह्मणभोजनम्” इति सूत्रम् ।व्याख्यातञ्चैतत् । अत्र भोजने प्रायश्चित्तमुक्तं पाराशरमाधवीये—
धौम्ये ब्रह्मौदने चैवसीमन्तोन्नयने तथा ।
जातकर्म नवश्राद्धे भुक्त्वा चान्द्रायणं चरेत् ॥
इदं च कर्माङ्गब्राह्मणभोजनविषयं न त्विष्टकुटुम्बादिभोजनविषयमिति मुरारिमिश्राः। चतुर्थेऽहनि मातृविसर्जनम् ।अन्यत्र कर्मान्ते ।उक्तं च—
**विवाहादिपञ्चसु च चतुर्थेऽन्हि विसर्जनम्॥ **इति ।
मातृणामिति शेषः।विसर्जन यावत्पारम्पर्यनियमयुक्तैर्भवितव्यम्,इति वासुदेवपद्धतौ । श्रीवत्सभट्टकृतवाक्यसङ्ग्रहेऽप्येवम्।गङ्गाधरपद्धतावप्येवमेव ।
इति श्रीप्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्रविवरणे
संस्कारगणपतौ प्रथमकाण्डे पञ्चदशीकण्डिका समाता ॥
≍♦≍♦≍♦≍♦≍♦≍♦≍
अथ स्पष्टप्रयोगः।मङ्गलस्नापितां परिहितप्राकृतामहतवस्त्र परिधानामलङ्कृतां पत्नीं बहिःशालायां स्वदक्षिणत उपवेश्य देशकालौ स्मृत्वा"मम भार्यायास्तनुरुधिरप्रियालक्ष्मभूतराक्षसीगणदूरानरसनक्षेमसकलसौभाग्यनिदानभूतमहालक्ष्मी- समावेशनद्वारा प्रतिगर्भं बीजगर्भसमुद्भवैनोनिबर्हणजनकातिशयद्वारा च परमेश्वरप्रीत्यर्थंंस्त्रीसं-
स्काररूपं सीमन्तोन्नयनाख्यं कर्म करिष्ये” इति सङ्कल्पः ।“पुण्याहवाचनपूर्वकं मातृकापूजनं नान्दीश्राद्धञ्च करिष्ये । निर्विघ्नार्थंगणपतिपूजनमहं करिष्ये” ।सर्वंसम्पाद्य ततो बहिः शालायां पञ्चभूसंस्कारान् कृत्वाऽग्निमुपसमाधाय, ततो वैकल्पिकावधारणम् “तत्र पूर्वेण ब्रह्मणो गमनम् । उत्तरेण पात्रासादनम् ।द्वे पवित्रे ।ताम्रमयी आज्यस्थाली । ताम्रमयी चरुस्थाली । पालाश्यः समिधः प्राञ्चावाघारौ । समिद्धतमे आज्यभागौ । पूर्णपात्रं दक्षिणा । प्रतिमहाव्याहृतिभिर्विनयनम् । निरुक्तगाथागानम्-एतान्वैकल्पिकपदार्थानहंकरिष्ये “॥ अथ देवताभिध्यानम् । “प्रजापतिमिन्द्रमग्निंसोममाज्येन प्रजापतिं चरुणा अग्निं स्विष्टकृतं शेषेण, अग्निंवायुं सूर्यमग्नीवरुणौ अग्नीवरुणौ अग्निंवरुणं सवितारं विष्णुंविश्वान्देवान् मरुतः स्वर्कान् वरुणं प्रजापतिमेता अङ्गप्रधानार्थदेवता अस्मिन्कर्मण्य यक्ष्ये”॥ब्रह्मोपवेशनाद्याज्यभागान्तं विदध्यात् ।तत्र पात्रासादने विशेषः । आज्यानन्तरं तण्डुलतिलमुद्गानां क्रमेण पृथगासादनम् ।उपकल्पनीयानि “मृदुपीठम् ।युग्मान्यौदुम्बरफलानि एकस्तबकनिवद्धानि । त्रयो दर्भपिज्जुलाः ।त्र्येणी शलली । वीरतरशङ्कः ।पूर्णचात्रम् ।वीणागाथिनौ चेति” ।आज्यमधिश्रित्य चरुस्थाल्यां मुद्गान्प्रक्षिप्याधिश्रित्य ईषच्छृतेषु मुद्गेषु तिलतण्डुलानां युगपरप्रक्षेपः । पर्यग्निकरणमुभयोः । तत्राज्यभागान्ते स्थालीपाकेन “ॐप्रजापतये स्वाहा । इदं प्रजापतये न मम " स्थालीपाकेनोत्तरार्धात्, “ॐ अग्नये स्विष्टकृते स्वाहा । इदमग्नये स्विष्टकृते न मम” । ततो महाव्याहृत्यादिप्रजापत्यान्ता नवातीर्हुत्वा ततः संस्रवप्राशनम् । पूर्णपात्रंब्रह्मणे दत्वाऽग्नेः पश्चात् मृदुपीठे गर्भिणीमुपवेशयेत् । ततो युग्मेन स टालुग्रप्सेनौदुम्बरेण त्रिभिर्देर्भपिञ्जुलैस्त्रेण्या शलल्या वीरतरशङ्कुना पूर्णचात्रेण चेत्येभिः सर्वैः पुञ्जीकृतैः स्त्रियाः समिन्तमूर्ध्वं विनयति “ॐ भूर्भुवःस्व" रिति मन्त्रेण सकृत् । यद्वा “भूर्विनयामि । भुवर्विनयामि ।स्वर्विनयामि" इति त्रिर्विनयति । तत औदुम्बरादिपञ्चकस्य वेण्यां
बन्धनम् ।“ॐ अयमूर्ज्जावतो वृक्ष उर्ज्जीव फलिनी भवे"ति मन्त्रेण । अथ “वीणागाथिनौसोमंराजान गायेता” मिति प्रैषं ददाति ।प्रेषिते सति “ॐ सोम एव नो राजेमा मानुषीः प्रजाः। अविमुक्तचक्र आसीरँस्तीरे तुभ्यमसा” वित्यनया वीणागाथिनो गानम् । असौस्थाने समीपस्थिताया नद्या नामग्रहणम् ।गङ्गा इत्येवमादिप्रथमान्तनामग्रहणं गर्भिणी करोति । ततो ब्राह्मणभोजनम् । “सीमन्ताख्यकर्मणःसाङ्गतासिद्ध्यर्थं स्मृत्युक्तान् दशसंख्याकान् ब्राह्मणान् भोजयिष्ये"ब्राह्मणेभ्यो दक्षिणां दद्यात् ।नमस्कृत्य क्षमापयेत् । वीणागाथिभ्यां च वस्त्रादिकंदद्यात् । अन्येभ्यो याचकेभ्यश्च भूयसींदक्षिणां दद्यात् । चतुर्थेऽहनि मातृकाबिसर्जनम् । विवाहादिपञ्चसु चतुर्थेऽहनि विसर्जनमन्यत्रकर्मान्ते, इति वासुदेवपद्धतौ । पतिपुत्रवतीभिर्वृद्धाभिरुपदिष्टं मङ्गलाचारंकुर्यात् ।
इति श्रीमथमशाखीयरामकृष्णविरचिते गृह्यसूत्रविवरणे
संस्कारगणपतौ सीमन्तोन्नयनप्रयोगः॥
अथ विष्णुबलिः । तत्र वसिष्ठः—
**मास्यष्टमे च गर्भस्य कुर्याद्विष्णोर्बलिक्रियाम्॥ **इति ।
अथात्र तिथयः ।वशिष्ठः—
द्वितीया सप्तमी चैव द्वादशी च शुभा तिथिः॥
अथ वाराः । स एव—
शुभग्रहोदयाः श्रेष्ठास्तेषां च दिवसा अपि॥
उदया लग्नानि । दिवसा वाराः। नक्षत्राणि वीरमित्रोदये—
श्रवणे चैव रोहिण्यां पुष्ये चैव प्रशस्यते॥
श्रीधरोऽपि—
रोहिण्यां वा वैष्णवे पूर्वपक्षे द्वादश्यां वा सप्तमे वा तिथौ च ।
मध्ये वाऽह्नःपूर्वभागे न रात्रौ विष्णोः पूजां कारयेद्गर्भपुष्ट्यै॥
एतदनुष्ठाने कारणमाहआश्वलायनः—
तथा विष्णुबलिश्चापि सप्तवधेषु पुष्टये ।
प्रतिगर्भं बलिः कार्यः सीमन्तश्च प्रशस्यते॥
अकृते च भवेद्दोषः कृते पुष्टिं समृच्छति ।
गर्भबाधानिवृत्यर्थं सुखसूत्यर्थमेव च॥
महादोषापनुत्त्यर्थं वलिः कार्यो यथाविधि॥
सप्तवध्राःसप्तधातवः । एतद्विधिमाह वीरमित्रोदये वशिष्ठः—
बलिःप्रवक्ष्यते सम्यग्धितार्थाय क्रियावताम् ।
तौ तु सन्मङ्गलस्नातौ दम्पती अहताम्बरौ॥
भवेतां पूर्वदिवसे नान्दीश्राद्धादयस्तथा ।
प्राङ्गणेऽग्निं समाधाय सुमुहूर्ते गृहेऽथ वा॥
घृतैर्हुत्वाऽऽज्यभागान्तं स्थण्डिले वाऽर्चयेद्धरिम् ।
पद्मस्थं स्वस्तिकस्थं वा समभ्यर्च्य निवेद्य च॥
अग्नेर्दक्षिणतः कुर्यात्स्थण्डिले यजनं हरेः ।
विना स्थण्डिलयोगेन केचिज्जुव्हति च द्विजाः॥
आज्याक्तेनैव चरुणा वक्ष्यमाणैर्हुनेत्पतिः ।
अतो देवा इति चरुं तस्मिन्नग्नावधिश्रितम्॥
षड्भिर्विष्णोर्तुकाद्यैश्च दशभिः सप्तभिर्हुनेत् ।
संवामित्यष्टभिर्ऋग्भिश्चतुर्द्दशभिरेव च॥
पर इत्यथ सूक्तेन पौरुषेण विचक्षणः ।
हुनेदादावथान्ते वा विष्णोर्योनिमिति त्रिभिः॥
चतुःषष्टिभिरन्नेन हुनेदेवं च लौहने ।
अग्नेःप्रागुत्तरेभागे लिप्त्वा गां गोमयेन तु॥
सितेन रजसा कुर्याच्चतुरस्रं चतुःपदम् ।
चतुःषष्टिपदं तस्मिन्कृत्वा स्पष्टं यथाविधि॥
चतुरङ्गुलमानेन प्रतिप्रति ततो बलिः ।
निर्ऋत्यादिषु तेष्वत्रैस्तैर्मन्त्रैर्विकिरेद्बलिम्॥
पिण्डमेकं च तन्मध्ये दद्यादर्ध्यं च विष्णवे ।
नमो नारायणायेति ताराद्यं मन्त्रमुच्चरन्॥
दम्पती प्राशयेतां च पृथक् पिण्डद्वयं शुभम् ।
स्वयं कर्ता चरेत्कर्म पत्न्या स्पृष्ट इति द्विजाः ॥
ततः स्विष्टकृतं हुत्वा होमशेषं समापयेत् ।
दक्षिणा गुरवे दत्वा भुञ्जीयातां द्विजैः सह॥
बलिरेवं प्रकर्तव्यः प्रतिगर्भं द्विजातिना॥ इति ।
अस्य च गर्भपुष्टिफलश्रवणात्प्रतिगर्भमावृत्तिश्रवणाच्च स्पष्टमेव गर्भसंस्कारत्वम्**॥**
इति श्रीप्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्रविवरणे
संस्कारगणपतौ विष्णुबलिः॥
–♦–♦–♦–♦–♦–♦–♦–
अथ प्रसङ्गात् गर्भिणीधर्माः । वीरमित्रोदये पद्मे—
नावस्करेषूपविशेन्मुसलोलूखलादिषु ।
जलं च नावगाहेत शुन्यागारं च वर्जयेत्॥
वल्मीकं नाधितिष्ठेत न चोद्विग्नमना भवेत् ।
विलिखेन्न नखैर्भूमिं नाङ्गारेण च भस्मना॥
न शयालुः सदा तिष्ठेद्व्यायामं च विवर्जयेत् ।
न तुषाङ्गारभस्मास्थिकपालेषु समाविशेत्॥
वर्जयेत्कलहं गेहे गात्रभङ्गं तथैव च ।
न मुक्तकेशा तिष्ठेत नाशुचिःस्यात्कदाचन॥
न शयीतोत्तरदिशि नचैवाधःशिराः कचित् ।
न वस्त्रहीनानोद्विग्नानचार्द्रचरणा तथा॥
नामङ्गल्य वदेद्वाक्यं न च हास्याधिका भवेत् ।
कुर्याच्छ्वशुरयोर्नित्यं पूजां माङ्गल्यतत्परा॥
अवस्करः–उत्करः । मत्स्यपुराणे—
सन्ध्यायां नैव भोक्तव्यं गर्भिण्या वरवर्णनि ? ।
न स्थातव्यं न गन्तव्यं वृक्षमूलेच सर्वदा॥
न शयाना सदा तिष्ठेद्वृक्षच्छायां विवर्जयेत् ।
सर्वौषधीभिः कोष्णेन वारिणा स्नानमाचरेत्॥
कृतरक्षा सुभूषा च वास्तुपूजनतत्परा ।
दानशीला तृतीयायां पार्वत्या नक्तमाचरेत्॥
गर्भिणी कुञ्जराश्वादिशैलहर्म्यादिरोहणम् ।
व्यायामं शीघ्रगमन शकटारोहणं त्यजेत्॥
शोकं रक्तविमोक्षं च साध्वसं कुक्कुटासनम् ।
व्यवसायं दिवास्वापं रात्रौ जागरणं त्यजेत्॥
इतिवृत्ता भवेन्नारी विशेषेण तु गर्भिणी ।
यश्च तस्यां भवेत्पुत्रः स्थिरायुर्वृद्धिसंयुतः॥
अन्यथा गर्भपतनमवासोति न संशयः॥
अथ गर्भिणीपतिधर्माः । तत्र याज्ञवल्क्यः—
दौहृदस्याप्रदानेन गर्भो दोषमवाप्नुयात् ।
वैरूप्यं निधनं वाऽपि तस्मात्कार्यं स्त्रियः प्रियम्॥
पत्येति शेषः । संग्रहेऽपि—
गर्भिणीवाञ्छितं द्रव्यं तस्यै दद्याद्यथोचितम् ।
सूते चिरायुषं पुत्रमन्यथा दोषमर्हति॥
आश्वलायनः—
वपनं मैथुनं तीर्थं वर्जयेद्गर्भिणीपतिः ।
श्राद्धं च सप्तमान्मासादूर्ध्वं चान्यत्तु वेदवित्॥
मैथुनं गर्भिण्याम् । तीर्थं तीर्थयात्राम् । श्राद्धं श्राद्धभोजनम् । अन्यच्छवानुगमनादि । तथा च हारीतः—
क्षौरं च तीर्थयात्रां च श्राद्धभोजनमेव च ।
मासात्तु सप्तमादूर्ध्वं वर्जयेद्गर्भिणीपतिः॥
वीरमित्रोदयेऽपि—
सिन्धुस्नानं द्रुमच्छेदं वपनं प्रेतवाहनम् \।
विदेशगमनं चैव न कुर्याद्गर्भिणीपतिः॥
तथा च—
अन्तर्वत्न्यांतु जायायां तीर्थे क्षौरं न कारयेत् ।
प्रेतदाहादिकं चैव सीमन्तोन्नयनादनु॥
क्षौरं क्षुरसाध्यं कर्म, तदेव वपनं मुण्डनं चोच्यते । यत्तु —
वपनस्य निषेधे त कर्त्तनं च विधीयते ।
इति स्मृत्यन्तरवचन तद्गर्भिणीपतिव्यतिरिक्तानां जीवत्पितृकादीनां यो वपननिषेधः तत्र कर्तनविधानम् ।
पञ्चाशद्धायनात्पूर्वं क्षौरं नैमित्तिकं विना ।
न कुर्यात्तत्तदूर्ध्व तु स्वेच्छया वपनं चरेत्॥
प्रेतकर्मनिषेधापवादः ।वीरमित्रोदये—
क्षौरं नैमित्तिकं कुर्यान्निषेधे सत्यपि ध्रुवम् ।
पित्रोःप्रेतविधानञ्च गर्भिणीपतिराचरेत्॥
चतुर्थमासिकसीमन्तोन्नयनादनन्तरं निषेधपरिपालनं मुख्यः कल्पः । तत्राऽनुकल्पोऽयं “मासात्तु सप्तमादूर्ध्व"मिति । अथ प्रसङ्गात्सूतिकागृहनिर्माणविधिः । तच्च नवमे मासि कार्यम् । तदुक्तं—रत्नकोशे—
आसन्नप्रसवे मासि कुर्याच्चैव विशेषतः ।
तच्च प्रसवकाले स्यादिति शास्त्रेषु निश्चयः॥
आसन्नप्रसवे नवमे। प्रसवकालो दशमः। “दशमे मासि सूतवे"इतिमन्त्रलिङ्गात् । गर्गः—
वारेऽनुकूले राशौ तु दिने दोषादिवर्जिते ।
स्वानुकूलदिशि प्रोक्तं सूतिकाभवनं बुधैः॥
तत्र स्वानुकूलां दिशमाह वसिष्ठः—
ऐन्द्रे तु विक्रमं स्थानमाग्नेय्यां पचनालयः ।
वारुण्यां भोजनगृहं नैर्ऋत्यां सूतिकागृहम्॥
याम्यायां शयनस्थानं वायव्यां पशुमन्दिरम् ।
कौबेर्यां तु धनस्थानमैशान्यां देवतालयः ॥ इति ।
विक्रमो बलवर्द्धनम् \। विष्णुधर्मोत्तरे—
सुभूमौ निर्मितं रम्यं वास्तुविद्याविशारदैः।
प्राग्द्वारमुत्तरद्वारमथवा सुदृढं शुभम्॥
शुभमायादिशुद्धम्। एतत्तु विस्तरभयान्न लिख्यते। तत्संस्कारश्चोक्तः वीरमित्रोदये साङ्ख्यायनगृह्ये- “काकादन्या मेचकरातम्याः कोशातक्या बृहत्याःकालकीतकस्येति मूलानि पेषयित्वोपलपयद्देशंयस्मिन् जायते रक्षसामपहत्यै”। काकादनी काकजंघा।मेचकरातनीकाचमाचिका।कोशातकी घोषकः। बृहती कण्टकारी। काल्कीतकःकृष्णगुञ्जा।एतन्मूलरसेन यस्मिन् जायते तं देशं गृहादिरूप लेपयेदित्यर्थः। अथ गर्भिण्याः सूतिकागृहप्रवेशः। वीरमित्रोदये विष्णुधर्मोत्तरे—
प्रविशेत्सूतिकासंज्ञं कृतरक्षं समन्ततः ।
सुभूमौ निर्मितं रम्यं वास्तुविद्याविशारदैः॥
देवानां ब्राह्मणानाञ्च गवां कृत्वा च पूजनम् ।
विप्रपुण्याहशब्देन शङ्खवाद्यरवेण च॥
प्रसूता बहवस्तत्र तथा कुशक्षमाश्च याः ।
हुद्या विश्वसनीयाश्च प्रविशेयुः स्त्रियश्च तत्॥
ताश्चानुलेपनैर्हृद्यैस्तत्रैवमुपचारयेत्॥
गर्भिणीति शेषः ।
आहारैश्च विहारैश्चप्रसवाय सुखं द्विजः ।
एरण्डमूलचूर्णेन सघृतेन तथैव ताम्॥
सुखप्रसवनार्थीयः पश्चात्काये क्षिपेदिति॥
पश्चात्काये पृष्ठभागे तो गर्भिणीं क्षिपेदनुलिंपेदिति। उपसूतिकेतिशेषः। तत्रनिधेयद्रव्याण्याह । मार्कण्डेयपुराणे—
अग्न्यम्बुशून्ये च तथा निर्यूपे सूतिकागृहे ।
अदीपशस्त्रमुसले भूतिसर्षपवर्जिते॥
अनुप्रविश्य या जातमपहृत्यात्मसम्भवम् ।
क्षणप्रसविनी बालं तत्रैवोत्सृजने द्विज ?॥
सा जातहारिणी नाम सुघोरा पिशिताशना ।
तस्मात्संरक्षणं कार्यंयत्नतः सूतिकागृहे॥
यूपोऽत्र यूपाकारकाष्ठविशेषः । प्रवेशे तिथिवारादिनिर्णयः । तत्रनारदः—
व्यर्कारवारे तिथिषु रिक्तास्वावर्जितेषु च ।
दिवा वा यदि वा रात्रौ प्रवेशो मङ्गलप्रदः॥
गर्गः—
रोहिण्यैन्दवपौष्णेषु स्वातीवरुणयोरपि ।
पुनर्वसुपुष्यहस्तधनिष्ठात्र्युत्तरासु च॥
मैत्रे त्वाष्ट्रे तथाऽश्विन्यां सूतिकागारवेशनम् ।
मृत्य्वर्थनाशौ २ मृत्युश्च ३वृद्धि ४ पुष्ट्या५ यु ६ रीप्सितम् ७॥
मृत्युश्च ८ मरणं पित्रो ९ र्मरणं तु ततस्त्रिषु ।
मेषादिक्रमशो विन्द्यात्सूतिकागारवेशने॥
ग्रहेऽनुकूले राशौ तु रिष्फषष्ठाष्ट १२।६।८ वर्जिते
सर्वे वाऽथ शुभाः केन्द्रे पापाश्च त्रिषडायगाः ३।६।११॥
शुभांशे शुभदृष्टौ तु सूतिकावेशनं शुभम्॥ इति ।
अथ जातकर्म। जातकर्मेति यौगिकं कर्मनामधेयम् । जाते कर्मजातकर्मेति च योगः । तत्र विष्णुः—
जातकर्म ततः कुर्यात्पुत्रे जाते यथोदितम्॥ इति॥
तत्रादौ सोष्यन्तीकर्म उच्यते ।
अथ षोडशी कण्डिका ।
सोष्यन्तीमद्भिरभ्युक्षत्येजतु दशमास्य इति प्राग्यस्यै त इत्यथावरावपतनमवैतु पृश्निशेवल<MISSING_FIG href=”../books_images/U-IMG-1697336243Screenshot(21"/>.png)शुने जराय्वत्तवे नैव मा<MISSING_FIG href="../books_images/U-IMG-1697336276Screenshot(1"/>.png)सेन पीवरि न कस्मिँश्चनायतनमवजरायुपद्यतामिति जातस्य कुमारस्याच्छिन्नायां नाड्यांमेधाजननायुष्ये करोत्यनामिकया सुवर्णान्तर्हितया म धुघृते प्राशयति घृतं वा भूस्त्वयि दधामि भुवस्त्वयिदधामि स्वस्त्वयि दधामि भूर्भुवः स्वः सर्वं त्वयि दधा-
मीत्यथास्पायुष्यं करोति नाभ्यां दक्षिणे वा कर्णे जपत्यग्निरायुष्मान्स वनस्पतिभिरायुष्माँस्तेन त्वायुषायुष्मन्तं करोमि ब्रह्मायुष्मत्तद्ब्राह्मम्णैरायुष्यतेन त्वायुषायुष्मन्तं करोमि देवाऽआयुष्मन्तस्तंऽमृतेनायुष्मस्तस्तेन त्वायुषायुष्मन्तं करोमि ऋषयआयुष्मन्तस्ते व्रतैरायुष्मन्तस्तेन त्वायुषायुष्मन्तं करामि पितरआयुष्मन्तस्ते स्वधाभिरायुष्मन्तस्तेन त्वायुषायुष्मन्तंकरोमि यज्ञ आयुष्मान्स दक्षिणाभिरायुष्मँलेस्तेनत्वायुषायुष्मन्तं करोमि समुद्र आयुष्मान्म सवन्तीभिरायुष्माँस्तेन त्वायुषायुष्यन्तं करोमीति त्रिस्त्र्यायुषमितिच स यदि कामयेत सर्वमायुरियादिति वात्सप्रेणैनमभिमृशेद्दिवस्पररीत्येतस्यानुवाकस्योत्तमामृचं परिशिनाष्ठेप्रतिदिशं पञ्च ब्राह्मणानवस्थाप्य ब्रूयादिममनुप्राणितेतिपूर्वोब्रूयात्प्राणेति व्यानोति दक्षिणोऽपानेत्यपर उदानेत्युत्तरः समानेति पञ्चम उपरिष्टादवेक्षमाणो ब्रूयात्स्वयंवा कुर्यादनुपरिक्राममविद्यमानेषु स यस्मिन्देशे जातोभवति तमभिमन्त्रयते वेद ते भूमि हृदयं दिवि चन्द्रमसि श्रितम् । वेदाहं तन्मां तद्विद्यात्पश्येम शरदः शतञ्जीवेम शरदः शत<MISSING_FIG href="../books_images/U-IMG-1697336672Screenshot(1"/>.png)शृणुयाम शरदः शतमित्यथैनमभिमृशत्पश्मा भव परशुर्भव हिरण्यमस्तुतंभव । आत्मा वै पुत्रनामासि स जीव शरदः शतमित्यचास्य मातरमभिमन्त्रयत इडामि मैत्रावरुणी वीरे वीरमजीजनथाः । सा त्वं वीरवती भव याम्मान्वीरवतोऽकरदित्यथास्पै दक्षिण<MISSING_FIG href="../books_images/U-IMG-1697336672Screenshot(1"/>.png)स्तनं प्रक्षाल्य प्रयच्छताम<MISSING_FIG href="../books_images/U-IMG-1697336672Screenshot(1"/>.png)स्तनमितियस्ते स्तन इत्युत्तरमेताभ्यामुदपात्र<MISSING_FIG href="../books_images/U-IMG-1697336826Screenshot(21"/>.png)शिरस्तो निदधात्पापो देवेषु जाग्रथ यथा देवेषु जाग्रथ । एवमस्या<MISSING_FIG href="../books_images/U-IMG-1697336672Screenshot(1"/>.png)सूतिकाया<MISSING_FIG href="../books_images/U-IMG-1697336672Screenshot(1"/>.png)सपुत्रिकायांजाग्रथेति द्वारदेशे मुतिकाग्नि-
मुपसमाधायोस्थानात्सन्धिवेलयोः फलीकरणमिश्रान्सर्षपानग्नावावपति शण्डा मर्क्काउपवीरःशौण्डिकेयउलूखलः। मलिम्लुचो द्रोणासहच्यवनो नश्यतादितःस्वाहा ।आलिखन्ननिमिषःकिंवदन्त उपश्रुतिर्हर्यक्षःकुम्भीशत्रुः पात्रपाणिर्नृमणिर्हन्त्रीमुखः सर्षपारुणश्च्यवनो नश्यतादितः स्वाहेति यदि कुमार उपद्रवेज्जालेनप्रच्छाद्योत्तरीपेण वा पिताङ्क आघाय जपति कुर्क्कुरःसुकूर्क्करःकुर्क्कुरो बालबन्धनः ।चेच्चेच्छुनक सृजनमस्ते अस्तु सीसरो लपेतापह्नर तत्सत्यम्। यत्ते देवा वरमददुः स त्वं कुमारमेव वा वृणीथाः ।चेच्चेच्छुनकमृज नमस्ते अस्तु सीसरो लपेतापह्वर तत्सत्यम् । यत्तेसरमा माता सीसरः पिता श्यामशबलौ भ्रातरौ । चेच्चेच्छुनक सृज नमस्ते अस्तु सीसरो लपेतापह्वरेत्यभिमृशति न नामयति न रुदति न हृष्यति न ग्लायतियत्र वयं बदामो यत्र चाभिमृशामसीति॥१६॥
“सोष्यन्तीमद्भिरभ्युक्ष्यत्येजतु दशमास्य इति प्राग्यस्यैत इति"इति सूत्रम् ।सोष्यन्तीं प्रसवशूलवती प्रसवकाले शुलादिप्रसववेदनान्वितांस्त्रियं भर्ता अद्भिर्जलेन अभ्युक्ष्यति “एजतु दशमास्यो० अस्त्रज्जरायुणासहे” त्यनेन मन्त्रेण।जरायुणा सहेत्यत्र परिसमाप्तत्वाद्वाक्यस्य प्राग्यस्यैतइत्युच्यते । तथा च गृह्यकारिकायाम्—
जातकर्माधुना वक्ष्ये सर्वशास्त्रं विविच्य तु ।
प्रसवार्थ शूलवतीमद्भिरभ्युक्षति स्त्रियम् ।
मन्त्रेणैजतु दशमास्य एतेन प्राक्तनेन तु॥
“अथावरावपतनमवैतु पृश्नि शेवल<MISSING_FIG href=”../books_images/U-IMG-1697337612Screenshot(14"/>.png)शुने जर यवत्तवे नैव मा<MISSING_FIG href="../books_images/U-IMG-1697337612Screenshot(14"/>.png)सेन पीवरि न कस्मि<MISSING_FIG href="../books_images/U-IMG-1697337612Screenshot(14"/>.png)श्चनायतनमव जरायु पद्यतामिति" इति सूत्रम् ।अथाभ्युक्षणानन्तरम्। अवरावपतनसंज्ञकं मन्त्र जपतीत्यध्याहारः । अवरो जरायुः । गर्भावरकश्चर्मविशेषः ।तस्य अवअधःपतनं पतनहेतुं “म-
वैत्वि"ति मन्त्रं जपति पिता । तथा च रेणुः—
यदा जराय्वधो याति अवैतु पृश्निरित्ययम् ।
मन्त्रं जपेत्स तान्नेक्षेत्सोष्यन्तीदोषदर्शनात्॥
मन्त्रार्थः—हे सोष्यन्ति ? तब जरायु अघः एतु पतत्वित्यर्थः।किम्भूतं-पृश्नि नानारूपं, शेवलं पित्तुलं जातोपचितं वा । किमर्थं शुने–श्वानमुपकर्तुं, यद्वा शुने इति षष्ठ्यर्थे चतुर्थी। शुनः अत्तवे भक्षणाय।हे पीवरि पुत्रादिगर्भधारणेन सुपुष्टगात्रि ! तच्च जरायु मासेन गर्भव्यथकावयवेन सह आयतं सम्बद्धं विस्तृत वा अधः नैव पद्यताम् पततु।नच कस्मिंश्चन गर्भोऽपि पद्यताम्। निमित्ते सत्यपीति। अथ सोष्यन्तीहोमः ! तत्र गोभिलः- “अथ सोष्यन्तीहोमं प्रतिष्ठिते वह्नौ परिस्तीर्याग्निमाज्याहुतीर्जुहोति याविपश्चिदित्येतचर्चा विपश्चित्युच्छामभरदिति च”।सोष्यन्ती प्रसवशूला।बस्तिः योनिद्वारम्। तत्रस्थिते गर्भेसोष्यन्तीहोमः कार्य इत्यर्थः। “जातस्य कुमारस्याच्छिन्नायां नाड्यां मेधाजननापुष्ये करोति” इति सूत्रम्।जातस्योत्पन्नस्य कुमारस्य बालस्य अच्छिन्नायां नाड्यामच्छिन्ने नाभिनाले पितामेधाजननायुष्ये मेधाजननं चायुष्यं च मेधाजननायुष्ये ते करोति। कुमारग्रहणाच्च स्त्रिया अतः प्रभृति न क्रियत इति भाष्ये। ते तु स्नानानन्तरं कार्ये।
जाते पुत्रे पितुः स्नानं सचैलं तु विधीयते ।
माता शुद्ध्येद्दशाहेन स्नानात्तु स्पर्शनं पितुः॥
इति संवर्त्तस्मरणात् । स्नानञ्च पुत्रमुखदर्शनानन्तरं कार्यम् ।
सूतके तु मुखं दृष्ट्वा जातस्य जनकस्ततः ।
कृत्वा सचैल स्नानन्तु शुद्धो भवति तत्क्षणात्॥
तथा च वसिष्ठः—
जातमात्रकुमारस्य मुखमस्यावलोकयेत् ।
पिता ऋणाद्विमुच्येत पुत्रस्य मुखदर्शनात्॥
तथा च श्रुतिः— “ऋणमस्मिन्सन्नयत्यमृतं च गच्छति" । अथ
स्नानाधिकरणानि। तत्र वसिष्ठः—
श्रुत्वा जात पिता पुत्रं सचैलं स्नानमाचरेत् ।
उत्तराभिमुखो भूत्वा नद्यां वा देवखातके॥
एतच्च स्नानं रात्रावपि कार्यम् । तथा च व्यासः—
रात्रौ स्नानं न कुर्वीत दानं चैव विशेषतः ।
नैमित्तिकं तु कर्तव्यं स्नानं दानं च रात्रिषु॥
पुत्रजन्मनि यात्रायां शर्वर्यां दत्तमक्षयम्॥
वसिष्ठोऽपि—
पुत्रजन्मनि यज्ञे च तथा संक्रमणे रवेः ।
राहोश्चदर्शने स्नानं प्रशस्तं नान्यथा निशि॥
तच्च शीतोदकेन कार्यम् । तदाह जाबालिः—
कुर्यान्नैमित्तिक स्नानं शीताद्भिः काम्यमेव च ।
रात्रौ तडागादिगमनाशक्तौ विशेषमाहसाङ्ख्यायनः—
दिवा हृतं तु यत्तोयं कृत्वा स्वर्णयुतं तु तत् ।
रात्रिस्नाने तु सम्प्राप्ते स्नायादनलसन्निधौ॥
यत्तु “स्नानात्तु स्पर्शनं पितु” रित्यस्पृश्यतापनोदः पितुः स्नानेनश्रूयते सोऽप्यनेनैव प्रसङ्गात्सिद्ध्यति, इति न तदर्थं पृथक् स्नानं कर्तव्यम्।यदपि “जाते पुत्रे पितुः स्नान"मित्यादिवचनेषु पुत्रपदोपादानात्कन्यादिजन्मसु न स्नानमिति? तन्न। बीजसम्बन्धविशेषात्। अत एवबौधायनः–“जनने तावन्मातापित्रोर्दशाहमाशौचम् मातुरित्येके तत्परिहणात्पितुरित्यन्ये शुक्रस्य प्राधान्यादयोनिज! अपि पुत्राःश्रूयन्ते मातापित्रोरेव तु संसर्गसाम्यादिति”।तत्परिहरणान्मातृपरिहरणात्। संसर्गसाम्यासर्गःशुक्रशोणितयोस्तस्य साम्यात्। न चैवंमातापित्रोर्दशाहमस्पृश्यत्वसिद्धान्तात्पूर्वपक्ष- स्यैव सिद्धिः ? तुशब्देनपूर्वपक्षस्य दशाहस्य व्यावृत्त्या कालविशेषानालिङ्गिताभ्युपगतास्पृश्यत्वमात्रस्य सामान्यस्य—
माता शुद्ध्येद्दशाहेन स्नानात्तुस्पर्शेन पितुः।
इत्यनेन विशेषेण व्यवस्थापनात्। तस्मादपत्यमात्रोत्पत्तौ स्नानं नपुत्रोत्पत्रावेवेति सिद्धम्। आशौचमस्पृश्यत्वलक्षणम्। स्नानानन्तरं चनान्दीश्राद्धं कुर्यात्। तथा चाश्वलायनः—
जातं कुमारं तं दृष्ट्वा स्नात्वाऽऽनीय गुरून्पिता ।
नान्दीश्राद्धावसाने तु जातकर्म समाचरेत्॥
तच्च आमेन कार्यम् । प्रचेताः—
स्त्री शुद्रः स्वपचश्चैव जातकर्मणि चाप्पथ ।
आमश्राद्धं सदा कुर्याद्विधिना पार्वणेन तु॥
स्वपचः स्वयं पाककर्ता । तथा च व्यासः –
द्रव्याभावे द्विजाभावे प्रवासे पुत्रजन्मनि ।
हेमश्राद्धं प्रकुर्वीत यस्य भार्या रजस्वला॥
जातकर्मकालमाह।तच्च नाभिच्छेदनात्प्राक् कर्तव्यमित्याह मनुः—
प्राङ्नाभिकर्तनात्पुंसो जातकर्म विधीयते ।
कर्त्तनं छेदनम् । तथा चाश्वलायनः—
प्राङ्नाभिकर्त्तनात्कार्या जातकर्मक्रिया द्विजैः ।
स्नात्वा सचैलवच्छुद्धैःसितगन्धादिभूषितैः॥ इति ।
नाभिच्छेदनानन्तरं कार्यमिति । तत्र गर्गः—
जातमात्रकुमारस्य जातकर्म विधीयते ।
स्तनप्राशनतः पूर्वं नाभिकर्त्तनतोऽपि च॥ इति ।
इत्यनेन गौणकालोऽपि ग्राह्यः। जातकर्मस्वरूपमाह। तच्च मेधाजननम्। तदेवाह– “अनामिकया सुवर्णान्तर्हितया मधुघृते प्राशयति घृतं वा” इति सूत्रम्।सुवर्णेनान्तर्हितया सुवर्णेनाच्छादितया अनामिकाङ्गुल्या मधु च घृतं च मधुघृते एकीकृते कुमारं प्राशयति। घृतं वा केवलम्। तथा च मनुः—
मन्त्रवत्प्राशनं चास्य हिरण्यमधुसर्पिषाम् ।
शङ्खोऽपि “प्रसूतेजातकर्म यवपिष्टमधुसर्पिर्भिर्मन्त्रवत्प्राशनंतस्य सुवर्णान्तर्हितयानामि-कया मेधाधिकं ब्राह्मणस्य करोत्येव
मितरयोः”।इतरयोः क्षत्रियवैश्ययोः। एवंशब्देन क्षत्रियवैश्ययोर्मन्त्रवत्प्राशनातिदेशेन शूद्रस्यामन्त्रकं प्राशनमिति गम्यते। अथ स्त्रीणांजातकर्म। तत्र गोभिलः—
“तूष्णीमेताः क्रियाःस्त्रीणां मन्त्रेण तु होम” इति।
तथा च याज्ञवल्क्यः—
तूष्णीमेताः क्रियाःस्त्रीणां विवाहस्तु समन्त्रकः॥ इति ।
तत्र मन्त्रानाह “भूस्त्वयि दधामि भुवस्त्वयि दधामि स्वस्त्वयि दधामि भूर्भुवः स्वः सर्वं त्वायिदधामीति” इति सूत्रम्। अत्र भूस्त्वयि दधामीत्यादि सर्वं त्वयि दधामीत्यन्तेन मन्त्रेण सकृत्कुमारंप्राशयति। प्रतिवाक्यं प्राशयतीति केचित्।कारिकायाम्—
मिश्रित्य प्राशयेदेनं तयोरन्यतरं बहु।
घृतं वा भूस्त्वयि दधामीति मन्त्रेण वा सकृत्॥
दक्षिणस्यानामिकया सुवर्णान्तर्हितया शिशुम्।
कृत्वा मधुघृते पात्र एकस्मिन् तैजसादिके॥
प्राशनं प्रतिवाक्यं स्यादिति केचिदिहाब्रुवन् ।
मेधाजननमेतस्य नामधेयं विदुर्बुधाः॥
अथायुष्यकरणमाह “अथास्यायुष्यं करोति नाभ्यां दक्षिणेवा कर्णे जपत्यग्निरायुष्मान् स वनस्पतिभिरायुष्मांस्तेन त्वायुषायुष्मन्तं करोमि सोम आयुष्मान्स ओषधीभिरायुष्माँस्तेन त्वायुषायुष्मन्त करोमि ब्रह्मायुष्मत्तद्ब्राह्मणैरायुष्मत्तेन त्वायुषायुष्मन्तं करोमि पितर आयुष्मन्तस्ते स्वधाभिरायुष्मन्तस्तेन त्वायुषायुष्मन्तं करोमि यज्ञ आयुष्मान्स दक्षिणाभिरायुष्मांस्तेनत्वायुषायुष्मन्तं करोमि समुद्र आयुस्मान् स स्रवन्तीभिरायुष्मांस्तेन त्वायुषायुष्मन्तं करोमीति त्रिस्त्र्यायुषमिति च” इतिसूत्रम्।अथ मेधाजननोत्तरमस्य शिशोरायुष्यनामकं कर्म। आयुषेहितमायुष्यं कर्म करोति। नाभ्यामित्यधिकरणसप्तमी समीपसप्तमी वा।यथा गङ्गायां घोषः। तेन पिता बालकस्य नाभेः कर्णस्य वा समीपे
स्थित्वा अग्निरायुष्मानित्यष्टौ मन्त्रान् त्रिर्जपति। मन्त्रार्थः– अग्निः कारणात्मना आयुष्मानस्ति। स च वनस्पतिभिरिध्मसमिद्भिरिष्ट आयुष्मत्त्वहेतुर्भवति। वनस्पतिभिः कृत्वा वा तेन अग्न्यायुषा त्वा त्वामायुष्मन्तंनिर्दुष्टदीर्घायुषं करोमीति वाक्यार्थ उत्तरत्रापि सम्बध्यते। एव सोमोऽपि व्याख्येयः। स च ओषधीभिः। सन्धिरार्षः। ब्रह्म वेदः, ब्राह्मणैरध्येतृभिः। देवा अमृतैः । ऋषयो व्रतैः कृच्छादिभिः। पितरः स्वधाभिः। पितृदेवं स्वधोच्यते। यज्ञो दक्षिणाभिः परिक्रयद्रव्यैः।समुद्रः स्रवन्तीभिर्नदीभिः। एतावत्पर्यन्तमग्निरायुष्मानित्यारभ्य त्रिर्जपति। त्र्यायुषमिति च “त्र्यायुषं जमदग्ने"रिति मन्त्रं चकारात्त्रिर्जपेत्।तथा च रेणुकारिका—
तस्यैव दक्षिणे कर्णे नाभ्यां वा त्रिर्जपेदमुम् ।
मन्त्रं पिताग्निरायुष्मानिति त्रिश्च त्रियायुषम्॥
“स यदि कामयेत सर्वमायुरियादिति वात्सप्रेणैनमभिमृशे"दिति सूत्रम्।संस्कारकर्त्तायदि कामयेत यदीप्सेत्- अयं कुमारः सर्वंसम्पूर्णं शतवर्षमायुः जीवितमियात् प्राप्नुयात्, तदा वात्सप्रेण एनंकुमारमभिमृशेत् अभि समन्ततः सर्वशरीरमालभेत्। वात्सप्रभेदात्संशयः।किं “दिवस्परी"त्यनेन वात्सप्रेण कि“मुपप्रयन्तोऽअध्वर"मित्यनेनेति? संशयनिवृत्त्यर्थमाह “दिवस्परीत्येतस्यानुवाकस्योत्तमामृचंपरिशिनष्टि” इति सूत्रम्।“दिवस्परी"त्यादिको द्वादशर्च्चोऽनुवाकोपात्सप्रः। एतस्य तु उत्तमामन्त्यां द्वादशी “मस्ताव्यग्नि"रित्येतामृचंपरिशिनष्टि व्युदस्यति। तां परित्यज्य एकादशर्ग्भिभिरभिमूशेदित्यर्थः।“प्रतिदिशं पञ्च ब्राह्मणानवस्थाप्य ब्रूयादिममनुप्राणितेति पूर्वो ब्रूयात्प्राणेति व्यानेति दक्षिणोऽपानेत्यपर उदानेत्युत्तरःसमानेति पञ्चम उपरिष्टादवेक्षमाणो ब्रूयात्स्वयं वा कुर्यादनुपरिक्राममविद्यमानेषु” इति सूत्रम्। ततः संस्कारकर्त्ता कुमारस्य प्रतिदिशंप्राच्यादिषु चतसृषु दिक्षु मध्ये च एवं पञ्च ब्राह्मणानवस्थाप्य स्थापयित्वा कुमाराभिमुखान् तान् प्रति ब्रूयात्। किम् ? “इममनुप्राणित”।
इमं कुमारं अनुप्राणित अनुलक्षीकृत्य प्राणेत्यादि ब्रूत इति प्रैषः। ततःप्रेषिता ब्राह्मणाः पूर्वादिक्रमेण कुमारं लक्षीकृत्य “प्राण” इति पूर्वो ब्रूयात्।“व्यान” इति दक्षिणः। “अपान” इति पश्चिमः। “उदान” इत्युत्तरः। “समान” इति पञ्चम उपरिष्टाद्बालकमवेक्षमाणो ब्रूयात्। अविद्यमानेषुब्राह्मणेष्वसत्सु स्वयं वा स्वयमेवानुप्राणनं कुर्यात्। कथं अनुपरिकामं परिक्रम्य पूर्वादिकां दिशि प्राणेत्यादि। अस्मिम्पक्षेप्रैषाभावः।स्वात्मनि स्वकर्तृकप्रेरणासम्भवात्। मन्त्रार्थः— इमं कुमारं अनुलक्ष्यीकृत्य भो ब्राह्मणा अनुप्राणित।यूयं सर्वे प्राणादिपञ्चवायुयुक्तंकृत्वा दीर्घायुष्ट्वेनायुष्मन्तं कुरुत।कोष्ठस्थितो वायुर्मुखनासिकाभ्यां निःसरन् प्राणः। पुनस्तेनैव मार्गेण अन्तः प्रविशन्नपानः।प्राणो रेचकः।अपानः पूरकः। तयोर्वाअधः सन्धिः सन्धानं व्यानः कुम्भरूपः।उत्क्रमणादिरूर्ध्वगतिरुदानः।देहस्थितस्याशितपीतस्यान्नरसस्य सर्वाङ्गेषुसमनयनात्समानः। “स यस्मिन् देशे जातो भवति तमाभिमन्त्रयतेवेद ते भूमिहृदयं दिवि चन्द्रमसि श्रितम्।वेदाहं तन्मां तद्विद्या-त्पश्येम शरदः शतं जीवेम शरदः शत<MISSING_FIG href=”../books_images/U-IMG-1697350513Screenshot(14"/>.png)शृणुयाम शरदः शतमिति" इति सूत्रम्। स बालो यस्मिन् प्रदेशे भूमिभागे जातो भवत्युत्पन्नोभवति तं देशमभिमन्त्रयते “वेद ते भूमि हृदय” मिति मन्त्रेण हस्तेनस्पृशति। मन्त्रार्थः - हे भूमे कुमारजन्मप्रदेशे ते तव हृदयं अन्तःकरणंभूमिर्वेद।यत्र विद्यते गुप्तम्। विसर्गाभावच्छान्दसः। किम्भूतं दिविलोके वर्तमाने चन्द्रमसि श्रितम् कृष्णीभावेन यज्ञरूपस्थान असुरजयार्थं गोपितम् तत्प्रदेशोपलक्षितं “तदेतच्चन्द्रमसिकृष्ण"मितिश्रुतेः। तत्कर्मभूतमहं वेद जानामि। तत्कर्तृभूतमेनत्पुन-रुपकर्तुं मांविद्याज्जानातु। अतस्त्वद्दत्तपुत्रेण सह वयं पश्येमेत्याद्युक्तार्थम्।“अथैनमभिमृशत्यशमा भव परशुर्भवहिरण्यमस्नुतं भव। आत्मा वै पुत्रनामासि स जीवशरदः शतमिति” इति सूत्रम्। अथैनं पिताऽभिमृशति हस्तेन स्पृशति । “अश्मा भवे"तिमन्त्रेण हृदि स्पृशतीति जयरामः।मस्तके इति कारिकायाम्।सर्वशरीरे इति हरिहरः। श्रुतिः
“अथैनमभिमृशत्यश्मा भव परशुर्भव हिरण्यमस्रुतंभवे"ति।मन्त्रार्थः—हे कुमार ? त्वमश्मा पाषाण इव दृढः स्थिरश्च परशुरिव वज्रइवापकर्तृनाशको भव। किञ्च अस्रुतमनभिभूतमप्रच्युतस्वरुपमिति यावत्।हिरण्यवत्तेजोयुक्तश्च ग्रहणाय भव। यथा धात्वन्तरामिश्रित सुवर्णं शुद्धंभवति। तथा त्वमपि रोगाद्युपद्रवेण हीनो भवेत्यर्थः। यतस्त्वं पुत्रनामाआत्मासि देहः सन्।वै इति निश्चयेन।पुत्रेति संज्ञामात्रेण भिन्नोऽसि।न तु स्वरूपेण स त्वं शतं शरदो जीव। “अथास्य मातरमभिमन्त्रयतइडासि मैत्रावरुणी वीरे वीरमजीजनथाः।सा वं वीरवती भवयास्मान् वीरवतोऽकरदिति” इतिसूत्रम्। अथास्य कुमारस्य मातरंजननीमभिमुखो भूत्वाऽभिमन्त्रयते मन्त्रश्रावणेन संस्करोति। “इडासीति” मन्त्रेण। “अथास्य मातरमभिमन्त्रयत इडासि मैत्रावरुणी"तिश्रुतेः। मन्त्रार्थः– हे वीरे वीरवती पुत्रवतीति यावत्। त्वं इडा मानवीयज्ञपात्री तद्गतद्रव्यं वा मैत्रावरुणी मित्रावरुणयोरंशोत्पन्ना।यथा इडायांपुरूरवा उत्पन्नः। यथा च यज्ञपात्र्यांतद्गतद्रव्ये वा पुरोडाशो भवतितथा त्वय्यपि तादृशाः स्वर्गादिसाधनपराः सन्त्वित्यभिप्रायः। यतस्त्ववीरं पुत्रं अजीजनथाःअसौषीः। अतः सा त्वंवीरवती पतिपुत्रवतीभव । या त्वमस्यान्वीरवतः पुत्रवतः पुत्रयुक्तानकरत्अकरोः कृतवत्यसि। “अथास्यै दक्षिण<MISSING_FIG href="../books_images/U-IMG-1697351072Screenshot(1"/>.png)स्तनं प्रक्षालय प्रयच्छतीम<MISSING_FIG href="../books_images/U-IMG-1697351126Screenshot(14"/>.png)स्तनमिति"इतिसूत्रम्। अथास्यै अस्याः मातुर्दक्षिणं स्तन प्रक्षाल्य उदकेन क्षालयित्वा पिता कुमाराय पानीयं प्रयच्छति ददाति “इम<MISSING_FIG href=”../books_images/U-IMG-1697351126Screenshot(14"/>.png)स्तन"मितिमन्त्रेण। “अथैनं मात्रे प्रदाय स्तनं प्रयच्छतीति" श्रवणात्।स्तनसमर्पणं चापीतस्तनस्य भवति। “यस्ते स्तन इत्युतरमेताभ्याम्” इतिसूत्रम्।ततः पिता उत्तरं वामं स्तन “मिम<MISSING_FIG href=”../books_images/U-IMG-1697351126Screenshot(14"/>.png)स्तनं, यस्ते स्तन" इत्येताभ्यामृग्भ्यां प्रयच्छति कुमारायेत्यर्थः।अन्न वचनोपदेशा"दिम<MISSING_FIG href="../books_images/U-IMG-1697351126Screenshot(14"/>.png)स्तन"मित्येव द्वितीया। अथ नालच्छेदनम्। मूलादष्टाङ्गुलं परित्यज्य स्वघृतेनब्रह्मसूत्रेण नालमावेष्ट्य च्छिन्द्यात्। तथा च कारिकायाम् —
अष्टाङ्गुलं परित्यज्य नालं छिन्द्यात्क्षुरादिना॥
तथा च धर्मप्रवृत्तावपि—
ब्रह्मसूत्रघृतं नालं तेनावेष्ट्य निकृन्तयेत्॥
“उदपात्र<MISSING_FIG href=”../books_images/U-IMG-1697351126Screenshot(14"/>.png)शिरस्तो निदधात्यापो देवेषु जाग्रथ यथा देवेषु जाग्रथ ।एवमस्या<MISSING_FIG href="../books_images/U-IMG-1697351126Screenshot(14"/>.png) सूतिकाया<MISSING_FIG href="../books_images/U-IMG-1697351126Screenshot(14"/>.png)सपुत्रिकायां जाग्रथेति" इतिसूत्रम्।उदपात्रं सजलं शरावं शिरस्तः सूतिकायाः शिरःप्रदेशे खट्वाघस्तान्निदधाति"आपो देवेष्वि" ति मन्त्रेण तच्चोत्थापनपर्यन्तं तत्रैव तिष्ठति। मन्त्रार्थः–हे आपः जीवनहेतवः यूयं देवेषु देवकार्यनिमित्तं जाग्रथ तत्साधनत्वेन तिष्ठथ।अतो यथा देवेषु जाग्रथ एवं तथास्यां सूतिकायां सूतिकाया हिते जाग्रथेत्यर्थः। पुरुषव्यत्ययश्छान्दसः। किंभूतायां पुत्रादिसहितायाम्।“द्वारदेशे सूतिकाग्निमुपसमाधायोत्थानात्सन्धिवेलयोः फलीकरणमिश्रान् सर्षपानावावपति शण्डा मर्क्काउपवीरः शाण्डिकेय उलूखलः। मलिम्लुचोद्रोणासश्च्यवनो नश्यतादितः स्वाहा। अलिखन्ननिमिषःकिंवदन्त उपश्रुतिर्हर्यक्षः कुम्भीशत्रुः पात्रपाणिर्नृमणिर्हन्त्रीमुख सर्षषारुणश्च्यवनो नश्यतादितः स्वाहेति” इतिसूत्रम्।सूतिकागृहस्य द्वारदेशे पञ्चभूसंस्कारान् कृत्वा तत्र सूतिकाग्निमुपसमाधाय स्थापयित्वौत्थानात् आ उत्थानात् उत्थानं यावत्सन्धिवेलयोः सायं प्रातः फलीकरणैस्तण्डुलकणैर्मिश्रान् युक्तान् सर्षपान् तस्मिन्नग्नौआवपति प्रक्षिपति । “शण्डा मर्क्का” इति द्वाभ्यां मन्त्राभ्याम्। प्रतिसन्ध्ययोरग्निस्थापनमिति गङ्गाधरः।गङ्गाधरकारिकायाम्—
सन्ध्ययोरुभयोर्द्वे द्वे नित्यहोमादनन्तरम् ।
ओत्थानादन्वहं कार्यं सन्ध्ययोः स्थापनादिकम्॥ इति ।
सूत्रे सूतिकाग्नेर्ग्रहणं आवसथ्याग्निनिवृत्यर्थमिति भर्तृयज्ञः । आवपनोपदेशद्धोमेतिकर्त्तव्यता न भवति । तथा च रेणुः—
**आवपत्युपदेशाच्च नात्र स्यात्कुशकण्डिका॥**इति ।
अत्राग्नेर्देवतात्वं जयरामः । तथा च कारिकायाम्—
अनयोर्देवताग्निःस्यान्मन्त्रोक्ता कैश्चिदीरिता॥ इति ।
एतच्च स्वकाल एव भवति नियतकालत्वात् । मन्त्रार्थः । शण्डाः
शण्डः । मर्क्काःमर्क्कः। तत्र शृणोतीति शण्डो बालग्रहःस्वस्थानात्नश्यात्-अपगच्छतु । अयं च बाक्यार्थ उत्तरत्रापि योज्यः। मारयतीतिमर्क्कः। उपपद्यते वीरसमर्थ उपवीरः विघ्नकुशलः । शौण्डिकेयःआश्रितपातक उलूखलःअप्रतीकार्यो मलिम्लुचः अतिमलिनाशय इत्यर्थः। दीर्घनासो द्रोणासः च्यावयत्यङ्गानीति च्यवनः। एते सर्वे मस्कृतहवनोपद्रुताःभीताश्चापसर्पन्त्वित्यर्थः । एवमासमन्ततो भावेन लिखन् आलिखन् पराभवितुमव्यवच्छिन्नदृष्टिरनिमिषः।उप समीपे श्रुत्वा अपकर्ता उपश्रुतिः ।इर्यक्षः पिङ्गलनयनः।कुम्भयति स्तम्भयतीत्येवंशीलःकुम्भी ।शातयतीति शत्रुः पात्रहस्तः पात्रपाणिः । नृन् मिनोति हिनस्तीति नृमणिः ।इन्त्री हिंसा हननं मुखे यस्यासौ हन्त्रीमुखः । सर्पपवदरुणः उग्रोधूसरो वा सर्षपारुणः।च्यवत्यनेनेति च्यवनः । यो नोपद्रुतश्च्यवति प्रकृतेःपरिभ्रश्यतीत्यर्थः । इतः स्थानान्नश्यतादिति सर्वपदानामेवान्वयः। गणमभिप्रेत्याह किंवदन्त इति । एते सर्वे किंवदन्तः । किंवदद्गौणमित्यर्थः।“यदि कुमार उपद्रवेज्जालेन प्रच्छाद्योत्तरीयण वा पिताङ्क आधायजपति कुर्कुरः सुकूर्कुरः कुर्कुरो बालबन्धनः । चेच्चेच्छुनक सृजनमस्ते अस्तु सीसरो लपेतापव्हर तत्सत्यम् । यत्ते देवा वरमददुःस त्वं कुमारमेव वा वृणीथाः ।चेच्चेच्छुनक सृज नमस्ते अस्तुसीसरो लपेतापव्दर तत्सत्यम् । यत्ते सरमा माता सीसरः पिताश्यामशबलो भ्रातरौ । चेच्चेच्छुनक सृज नमस्ते अस्तु सीसरो लपेताव्हरेत्यभिमृशति न नामयति न रुदति न हृष्यति न ग्लायति यत्र वयं वदामो यत्र चाभिमृशामसीति” इतिसूत्रम् ।कुमारशब्देन बालग्रहोऽभिधीयते । स यदि एनं बालकं उपद्रवेद्विघ्नयेत्तदाबालकं पिता जनको जालेन प्रच्छाद्याच्छादयित्वाऽस्योत्तरीयेण वाप्रच्छाद्याङ्केउत्सनिघाय ‘कूकुर’ इति मन्त्रत्रयं जपति । जपान्त एनंपिताऽभिमृशति “न नामयतीति” मन्त्रेण। मन्त्रार्थः–कुर्कुरोऽन्नषणाख्यो बालग्रहः। तथा सुकूर्कुरश्चातिभीषणः।बालान् बध्नातीति बालबन्धनः कुर्कुराख्यो बालग्रहः।सीसरोऽङ्गसारकः हे शुनक ? तद्गुणमुख्य?
लापनरोधकेति यावत्। अपह्वर गात्राहार ? हृकौटिल्ये, ते तुभ्यं नमोऽस्तु।ततस्तुष्टश्चैनं कुभारं सूज मुश्च। किंकुर्वन् चेच्चेच्छुच्छुः शब्दं कुर्वन्। हे शुनक ? ’ तत्सत्यं यत्ते तुभ्यं देवहूताय देवा वरमददुः दत्तवन्तः। स च त्वं हिंसाविहरःकुमारमेव वा वृणीथाः वृतवानसीति। शेषमुक्तार्थम्।हे शुनक ? तत्सत्यं यत्ते तव सरमा देवशुनी माता सीसरदेवश्च पिता श्यामशबलौच तव भ्रातराविति। शिष्टमुक्तार्थम्। “न नामयती “ति मन्त्रार्थः– यत्रास्मिन् कुमारे वयं वदामो ब्रूमः साकाङ्क्षत्वान्मन्त्रम्।यत्र चाभिमृशामस्यभितः स्पर्शनं कुर्मः। स कुमारो न नामयत्यङ्गानि। शिष्ट स्पष्टम्। अथ जातकर्मणि दानानि धर्मप्रवृत्तौ—
जाते सुतेऽवगाह्यापः श्राद्धं कृत्वा विधानतः।
जातकर्म विधानेन कुर्याद्दानादिकं ततः॥
तत्र दद्यात्सुवर्णं च भूमिगोतुरगान्रथम्।
छत्रं छागं च माल्यं च शयनं वसन गृहम्॥
शङ्खोऽपि—
“सर्वेषां सकुल्यानां द्विपदचतुष्पदधान्यहिरण्यादि दद्यात्प्रतिग्रहश्च नाभिच्छेदनात्प्राक्तदहर्वे"ति। मदनपारिजाते शङ्खः–“कुमारप्रसवे नाड्यामच्छिन्नायां गुडतिलहिरण्यवस्त्रगुवर्थ- प्रावरणगोधान्यप्रतिग्रहेष्वदोषस्तदहरित्येके कुर्वन्त"इति। प्रतिग्रहदोषाभावप्रतिपादनं तु नालच्छेदादूर्ध्वं सर्वदिनं पुण्यत्वपक्षे। अन्यथा प्राङ्नाभिच्छेदनादाशौचाप्रवृत्त्या दोषप्रसक्त्यभावेन तदपवादासम्भवात्। तथा च जैमिनिः—
यावन्नच्छिद्यते नालं तावन्नाप्नोति सूतकम्।
छिन्ने नाले ततः पश्चात्सूतकं तु विधीयते॥
ब्रह्मपुराणे—
**देवाश्च पितरश्चैव पुत्रे जाते द्विजन्मनाम्।
आयान्ति तस्मात्तदहः पुण्यं पूज्यं च सर्वदा॥ **
तत्र दद्यात्सुवर्णं च भूमिं गां तुरगं तथा ।
छत्रं छागं च माल्यं च शयनं चासनं गृहम्॥
प्रतिग्रहीतारं प्रत्याह व्यासः—
जाते कुमारे तदहः कामं कुर्यात्प्रतिग्रहम् ।
हिरण्यधान्यगोवासस्तिलांश्चमधुसर्पिषी॥
वृद्धयाज्ञवल्क्यः—
कुमारजन्मदिवसे विप्रैः कार्यः प्रतिग्रहः ।
हिरण्यभूगवाश्वादिधान्यशय्यासनादिषु॥
तत्र सर्वं प्रतिग्राह्य पक्वान्नं तु विसर्जयेत् ।
भक्षयित्वा तु तन्मोहाद्विजश्चान्द्रायणं चरेत्॥
सूतके तु सकुल्यानामदोषो मनुरब्रवीत्॥
जाबालिः—
जातश्राद्धे न दद्यात्तु पक्वान्नं ब्राह्मणेष्वपि ।
यस्माच्चान्द्रायणाच्छुद्धिस्तेषां भवति नान्यथा॥
रेणुः—
अच्छिन्ननाड्यां कर्तव्यं श्राद्धं स्नानादनन्तरम्।
आमद्रव्येण तत्कार्यं वचनात्तु प्रजापतेः॥
हिरण्येन भवेच्छ्राद्धं आमद्रव्यं गृहे न चेत्।
इति व्यासवचः प्रोक्तं पक्वान्नं स निषेधति ॥
आमान्नं द्विगुणं प्रोक्तं हिरण्यं च चतुर्गुणम्॥ इति ।
अथ आशौचमध्ये जातकर्मनिर्णयः। पूर्वाशौचे जाते सत्यपि जातकर्म कर्तव्यम्। तत्र प्रजापतिः —
सूतके तु समुत्पन्ने पुत्रजन्म यदा भवेत् ।
कर्तुस्तात्कालिकी शुद्धिः पूर्वाशौचेन शुद्ध्यति॥
केचित्तु मूताशौचमध्ये पुत्रे जाते तदाऽऽशौचापगमे कार्यम्।
जातूकर्ण्यः—
मृताशौचस्य मध्ये तु पुत्रजन्म यदा भवेत् ।
आशौचापगमे कार्यं जातकर्म यथाविधि॥
इदं जातकर्म विरुद्धतिथ्यादिजातस्य न कार्यम्। तस्य मुखदर्शनपूर्वकत्वात्। मुखदर्शनस्य चात्र निषिद्धत्वात्। तथा चोत्तरगार्ग्ये —
अथातः सम्प्रवक्ष्यामि जन्मकाले विशेषतः ।
गण्डान्तानि च नामानि महादोषकराणि च॥
दिनक्षये व्यतीपाते व्याघाते विष्टिवैधृतौ ।
शुलेगण्डेऽतिगण्डे च परिघे यमघण्टके॥
कालयोगे मृत्युयोगे दग्धयोगे सुदारुणे ।
तस्मिन्गण्डदिने प्राप्ते प्रसूतिर्यदि जायते॥
अतिदोषकरी प्रोक्ता तत्र पापयुते सति ।
विचार्य तत्र दैवज्ञं शान्तिं कुर्याद्यथाविधि॥
शौनकोऽपि—
कुमारजन्मकालेतु व्यतीपातश्च वैधृतिः ।
संक्रमश्चरवेस्तत्र जातो दारिद्र्यकारकः॥
दरिद्राणां महादुःखं व्याधिपीडामहद्भयम् ।
अश्रियं मृत्युमाप्नोति नात्र कार्या विचारणा॥
नवनीतारिष्टे—
पूर्णातिथीनां तिसृणां तथान्ते मीनालिकर्के नवमो नवांशः ।
मेषेऽथ कण्ठीरवधन्विनोश्च गण्डान्तमाद्यो नवमस्तथांशः॥
अश्विनीमधमूलादौ त्रिषट्कनवनाडिकाः।
रेवतीसर्वसंक्रान्ते नाडिकाद्वितयं तथा॥
वीरमित्रोदये—
अश्विनीमधमूलानां पूर्वार्द्धेबाध्यते पिता ।
पृषाहिशक्रपश्चार्थे जननी बाध्यते शिशोः॥
पितृघ्नश्च दिवा जातो रात्रौ जातस्तु मातृहा ।
आत्मनः सन्ध्ययोर्जातो नास्ति गण्डो निरामयः॥
सर्वेषां गण्डजातानां परित्यागो विधीयते ।
वर्जयेद्दर्शनं तावद्यावत्षाण्मासिकं भवेत्॥
ग्रन्थान्तरे—
कर्कालिमीनयुगलसन्धौ स्याद्घटिकामितम् ।
पूर्णानन्दातिथेःसन्धौ गण्डान्त घटिकाद्वयम्॥
ज्येष्ठाश्लेषान्त्यभद्वन्द्वसन्धौ नाडीयुगं न सत्॥
तिथ्यर्क्षगण्डे पितृमातृनाशो लग्ने तु सन्धौ तनयस्य नाशः ।
सर्वेषु नो जीवति हन्ति वंशं जीवन्पुनः स्याद्बहुवारणश्च॥
अन्यच्च—
भीमतुल्यबलश्चैव गण्डान्ते यदि जीवति॥
अथ कालातिक्रमे जातकर्मनिर्णयः।जाबालिबैजवापौ—
जन्मनोऽनन्तरं कार्यं जातकर्म यथाविधि ।
दैवादतीतकाले चेदतीते सूतके भवेत्॥
गर्गोऽपि—
जन्मनोऽनन्तरं तु स्याज्जातकर्म यथाविधि ।
सूतकानन्तरं कुर्यान्नाम निर्देशनादधः॥
वसिष्ठोऽपि—
यस्मिन्मुहूर्ते जनितः कुमारस्तस्मिन्विधेयं खलु जातकर्म ।
विनिर्गमे वाऽप्यथ सूतकस्य तस्मिन्दिने तस्य च नामधेयम्॥
गर्गः—
एष्वतीतेषु कालेषु शुभयोगे शुभोदये ।
जातकर्मक्रियां कुर्यात्पुत्रायुः परिवृद्धये॥
ज्योतिषे—
तस्मिञ्जन्ममुहूर्तेऽपि सूतकान्तेऽथवा शिशोः।
जातकर्म च कर्तव्यं पितृपूजनपूर्वकम्॥
क्षिप्रैश्चरैर्ध्रुवैर्मिश्रैर्द्वादशे प्रथमेऽन्हि वा ।
केन्द्रे गुरौ भृगौ कार्यं जातकर्म सनातनम्॥
एवं नालच्छेदनानन्तरमपि भवति। जातकर्म मुख्यकाले न कृतंचेत्तदा ते मेधाजननायुष्ये वर्जयित्वा वात्सप्राभिमर्शनादि “अश्मा भवे”
त्यभिमर्शनान्तं कर्म कुर्यादिति कर्कः। प्रयोगरत्नेऽप्येवमेव। प्रकाशिकायां च।गङ्गाधरादयस्तु मुख्यकालातिक्रमे मेधाजननमेव न कर्तव्यम्।आयुष्यकरणादि कुमाराभिमर्शनान्तं सर्वं कुर्वन्तीति। तथा च रेणुकारिकायाम्—
स्वकाले न कृतं जातकर्म दुर्मानुषादपि ।
दैवादतीतकालं चेत्तदायुष्यादिकं भवेत्॥
अश्मा भवति मन्त्रान्तमित्युपाध्यायसम्मतिः ।
कार्यं स्वकालतो मेधाजननं नान्यकालतः॥
कुमारं जातमित्येषा भाष्येश्रुतिरुदाहृता॥ इति ।
तथा च श्रुतिः— “तस्मात्कुमारं जातं घृत चैवाग्रे प्रतिलेहयन्तिस्तनं वाऽनुधापयन्तीति”। अयमर्थः श्रुतेः- तस्मात्कुमारं बालं जातं घृतंचैव त्रैवर्णिका जातकर्मणि जातरूपसहित प्रतिलेहयन्ति प्राशयन्ति। स्तनंवाऽनुधापयन्ति पश्चात्पाययन्तीति अपीतस्तनस्यैतदिति गम्यते । वृद्धसम्मतिः–
अनुप्राशनवात्सप्रमभिममर्शनमन्त्रणम्।
कालान्तरेऽपि कुर्वीत आयुष्यकरणं तथा॥ इति ।
अथ रात्रिवर्गः।दशदिनं सन्ध्यायां सूतिकासमीपे जपेत्।
प्रथमं गणपतेर्मन्त्रं श्रीश्चते तदनन्तरम्।
नवग्रहाणां मन्त्राश्चदिक्पालानां तथैवच॥
दिवस्परि समारभ्य विवब्रुस्त्वन्ततः पठन् ।
आ नो भद्रेति प्रथमं जनित्वान्तं ततः परम्॥
ऋचं वाचं ततः पश्चादन्ते तु शरदः शतात् ।
रात्रिवर्गमिदं जप्यं बालानां भयनाशनम्॥
अथ जातसूतके कर्तव्यतामाह। तत्र जन्मदादिदेवतापूजनम्।
व्यासः—
सुतिकावासनिलया जन्मदा नाम देवताः ।
तासां यागनिमित्ते तु शुद्धिर्जन्मनि कीर्तिता॥
जन्मदाख्यदेवतानां पूजने शुद्धिरस्तीत्यर्थः । तथा च वीरमित्रोदये—
प्रथमे दिवसे षष्ठे दशमे चैव सर्वदा ।
त्रिष्वाशौचं न कुर्वीत सूतके पुत्रजन्मनि॥
दद्यात्तु प्रथमे हेम षष्ठे वा सप्तमेऽपि वा ।
बलिदानं तु दशमे ह्यन्नदानं प्रशस्यते॥
निबन्धसारे—
जातादिपञ्चके षष्ठे निशीथे बलिमाहरेत् ।
अर्चयेदष्टदिक्पालान् गीतवाद्यसशस्त्रकैः ॥
कृत्वा जागरणं दीपैःसुक्तैश्चशान्तिपाठकैः ।
द्वारे द्वितीयभागे तु पुत्तलैश्चापि कज्जलैः॥
मार्कण्डेयपुराणे—
रक्षणीया तथा षष्ठीनिशा तत्र विशेषतः ।
रात्रौ जागरणं कार्यमन्नदानं तथा बलिः॥
“जन्मदानां तथा बलि” रित्यपि पाठः ।
पुरुषाः शस्त्रहस्ताश्चनृत्यगीतैश्च योषितः ।
रात्रौ जागरणं कुर्युर्द्दशम्यां चैव सूतके॥
नारदः—
जननात्सप्तमे वाऽह्नि मृत्युरायाति घातकः ।
तद्दिने चैव रक्षेयं कर्तव्यायुर्विवृद्धये॥
सायाह्नेपूज्य विघ्नेशमपूपैश्च पृथग्विधैः ॥ इति ।
अथ पञ्चायुधाभरणधारणम् । तदुक्तं श्रीधरीये—
जातस्य पञ्चमदिने शुभदे मुहूर्ते पञ्चायुधाभरणधारणमिष्टमाहुः ।
नाभिप्रदेशपरिलम्बिसुवर्णसूत्रं प्रोतं शिशोर्ग्रहनिवारणकं च युक्तम्॥
अस्यार्थः– पञ्चमदिने जातस्य जन्मनक्षत्रात्पञ्चमनक्षत्रे पञ्चमदिने वापञ्चायुधाभरणधारणं पञ्चायुधसमन्वितमाभरणं शङ्खचक्रगदाशार्ङ्गनन्दकानां पञ्चायुधानां प्रसिद्धैः पञ्चायुधमिति कथितम्। तत्र शिशोरिति सामान्येन कथनात् कुमारस्य कुमार्याश्च पञ्चायुधाभरणं धार्यमिति। तथोक्तं
बृहस्पतिना—
जन्मतः पञ्चताराङ्गं याते चन्द्रे शिशुं पिता ।
भूषयेद्भुषणैः सर्वैः पञ्चायुधसमन्वितैः॥
**विशेषात्कन्यकायाश्च कर्तव्यं मङ्गलेन च ।
पुंसः सायुधमाकल्पमायुः श्रीकान्तिदं शिशोः॥**इति ।
इति श्री प्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्रविवरणे
संस्कारगणपतौ प्रथमकाण्डे षोडशी कण्डिका समाप्ता॥
≍♦≍♦≍♦≍♦≍♦≍♦≍♦≍
अथ स्पष्टप्रयोगः।आसन्नप्रसवां स्त्रियं गर्भवेदनायुतां ज्ञात्वा अद्भिरभ्युक्षति पतिः। तत्र मन्त्रः—
<MISSING_FIG href=”../books_images/U-IMG-1696416289SG-1.png”/>
ततः स्त्रीसमीपे “ॐ अवैतु पृश्नि शेवल<MISSING_FIG href="../books_images/U-IMG-1697365200Screenshot(21"/>.png) शुने जराय्वत्तवे नैवमा<MISSING_FIG href="../books_images/U-IMG-1697365245Screenshot(1"/>.png)सेन पीवरि न कस्मिँश्चनायतनमव जरायु पद्यताम्" इतिअवरावपतनमन्त्रं जपति। तत्र जातमात्रे पुत्रे पिता तस्य मुखं निरीक्ष्य नद्यादावनुष्णवारिणा स्नात्वा देशकालौस्मृत्वा “अस्य कुमारस्य गर्भाम्बुपानजनितसकल- दोषनिबर्हणायुर्मेधाभिवृद्धिबीजगर्भसमुद्भवैनोनिबर्हणद्वारापरमेश्वरप्रीतये जातकर्म करिष्ये” इति सङ्कल्प्य गणेशपूजनाद्याभ्युदयिक कृत्वा अच्छिन्ने नाले मेधाजननायुष्यं करोति। तत्र मेधाजननंयथा–अनामिकाङ्गुल्या सुवर्णेनान्तर्हितया मधुघृते मेलयित्वा केवलं घृतंवा कुमारं प्राशयति। “ॐ भूस्त्वयि दधामि। ॐभुवस्त्वयि दधामि। ॐ स्वस्त्वयि दधामि। ॐ भूर्भुवः स्वः सर्वं त्वयि दधामि"।इत्यनेन मन्त्रेण सकृत् प्राशयति। प्रतिवाक्यमित्यपरे।अथायुष्यं करोति। कुमारस्य नाभिसमीपे दक्षिणकर्णसमीपे वा।
“ॐ अग्निरायुष्मान्स वनस्पतीभिरायुष्माँस्तेन त्वायुषायुष्मन्तं करोमि।सोम आयुष्मान्स ओषधीभिरायुष्मांस्तेन त्वायुषा-
युष्मन्तं करोमि। ब्रह्म आयुष्मत्तद्ब्राह्मणैरायुष्मत्तेन त्वायुषायुष्मन्तं करोमि। देवा आयुष्मन्तस्तेऽमृतेनायुष्मन्तस्तेन त्वायुषायुष्मन्तं करोमि। ऋषय आयुष्मन्तस्ते व्रतैरायुष्मन्तस्तेन त्वायुषायुष्मन्तं करोमि।पितर आयुष्मन्तस्ते स्वधाभिरायुष्मन्तस्तेनत्वायुषायुष्मन्तं करोमि। यज्ञ आयुष्मान्स दक्षिणाभिरायुष्मास्तेनत्वायुषायुष्मन्तं करोमि । समुद्र आयुष्मान्सस्रवन्तीभिरायुष्मांस्तेन त्वायुषायुष्मन्तं करोमि। ॐकश्यपस्यत्र्यायुषम्।जमदग्नेस्त्र्यायुषम्। यद्देवानामायुषं तन्मे अस्तु त्र्यायुषम्”।इतिमन्त्रं त्रिर्जपति। काम्यत्वाद्वात्सप्रानुवाकं जपति।
<MISSING_FIG href="../books_images/U-IMG-1697365852Screenshot(22"/>.png)
<MISSING_FIG href="../books_images/U-IMG-1697367206Screenshot(23"/>.png)
अयं जपः पाक्षिकः। ततः कुमारस्य प्रतिदिशं ब्राह्मणपञ्चकस्यस्थापनम्।पञ्चमो नैर्ऋत्यकोणे । ततः पिता “इममनुप्राणिते"ति तान्ब्राह्मणान् प्रति ब्रूयात्। ततः पूर्वादिदिक्स्थिता ब्राह्मणाः कुमारं लक्षीकृत्य “प्राणे"ति प्राच्यः।“व्याने"ति दाक्षिणात्यः। “अपाने"तिपाश्चात्यः। “उदाने “त्युदीच्यः। “समाने"ति उपरिष्टादवेक्ष्यमाणःपञ्चमः। अविद्यमानेषु ब्राह्मणेषु स्वयमेव करोति तत्र प्रैषाभावः।ततो यस्मिन्देशे कुमारो जातो भवति तं देशमभिमन्त्रयते। तत्र मन्त्रः–“ॐ वेद ते भूमि हृदयं दिवि चन्द्रमसि श्रितम्।वेदाहं तन्मां तद्विद्यात्पश्येम शरदः शतञ्जीवेम शरदः शत<MISSING_FIG href=”../books_images/U-IMG-1697367378Screenshot(14”/>.png)शृणुयाम शरदः शतम्”।अथैनमभिमृशति।तन्त्र मन्त्रः “ॐ अश्मा भव परशुर्भव हिरण्यमस्रुतंभव।आत्मा वै पुत्रनामासि स जीव शरदः शतम्”।अस्य मातरमभिमन्त्रयते। तत्र मन्त्रः “ॐइडासि मैत्रावरुणी वीरेवीरमजीजनथाः।सा त्वं वीरवती भव यास्मान्वीरवतोऽकरत्"।अथकुमारस्य मातुर्दक्षिणं स्तनं प्रक्षालय प्रयच्छति। तत्र मन्त्रः। ॐ
<MISSING_FIG href="../books_images/U-IMG-1697367650Screenshot(24"/>.png)
<MISSING_FIG href="../books_images/U-IMG-1695977863Screenshot2023-09-29142659अ.png"/>
तत्र मन्त्र । “ॐ आपो देवेषु जाग्रथ यथा देवेषु जाग्रथ। एवमस्या<MISSING_FIG href="../books_images/U-IMG-1697367813Screenshot(14"/>.png)सूतिकाया<MISSING_FIG href="../books_images/U-IMG-1697367813Screenshot(14"/>.png)मपुत्रिकाथां जाग्रथ"। उदपात्रं स्थापितमेव तिष्ठति प्रागुत्थानात्। ततः पञ्चभूसंस्कारान् कृत्वा सूतिकागृहद्वारदेशेऽग्नेः स्थापनम्। तत्र सन्ध्ययोराहुतिद्वयं होमयेद्दशरात्रम्। तत्र मन्त्रः—“ॐ शण्डा मर्क्का उपवीरः शौण्डिकेय उलूखलः। मलिम्लुचो द्रोणासश्च्यवनो नश्यतादितः स्वाहा। इदं शण्डा मर्क्का उपवीरः शौण्डिकेय उलूखलः। मलिम्लुचो द्रोणसश्च्यवनो नश्यतादितेभ्यो न मम। ॐ आलिखन्ननिमिषः किंवदन्त उपश्रुतिर्हर्यक्षः कुम्भीशत्रुः पात्रपाणिर्नृमणिर्हन्त्रीमुखः सर्षपारुणश्च्यवनो नश्यतादितः स्वाहा। इदमालिखतेऽनिमिषाय किंवदद्भ्यः उपश्रुतये हर्यक्षाय कुम्भीशत्रवे पात्रपाणये नृमणये हन्त्रीमुखाय सर्षपारुणाय च्यवनाय न मम।" ततो दशब्राह्मण-भोजनसङ्कल्पः। अथवोभयोः “अग्नये न मम" इति त्यागः। यदि कुमारो बालग्रहादिगृहीतो भवेत्तदा पिता कुमारं मत्स्यजालेनोत्तरीयेण वा प्रच्छाद्य स्वाङ्के गृहीत्वा जपति –“ॐ कूर्क्कुरः सुकूर्क्कुरः कूर्क्कुरो बालबन्धनः। चेच्चेछुनक सृज नमस्ते अस्तु सीसरो लपेतापहर तत्सत्यम्। यत्ते देवा वरमददुः स त्वं कुमारमेव वा वृणीथाः। चेच्चेछुनक सृज नमस्ते अस्तु सीसरो लपेताहर तत्सत्यम्। यत्ते सरमा माता सीसरः पिता श्यामशबलाैभ्रातरौ। चेच्चेछुनक सृज नमस्ते अस्तु सीसरो लपेताहर” इति पितुर्जपः। ततस्तमभिमृशेत् “ॐ न नामयति न रुदति न हृष्यति न ग्लायति यत्र वयं वदामो यत्र चाभिमृशामसी"त्यनेन मन्त्रेण पिताकुमारमभिमृशेत्। पितरि प्रामान्तरं गते पितृव्यादिर्गोत्रजो ज्येष्ठक्रमेणेदं कुर्यात्। ततो दशदिनपर्यन्तं सन्ध्यायां सूतिकासमीपे जपेत्। “ॐ<MISSING_FIG href="../books_images/U-IMG-1695977959Screenshot2023-09-29142851आ.png"/>
<MISSING_FIG href="../books_images/U-IMG-1697368313Screenshot(25"/>.png)
अथ सूतिकास्नानविधिः। दैवज्ञवल्लभः—
करेन्द्र भाग्न्यानिलवासवान्त्यमैत्रेन्द्रभीश्विध्रुवभेऽन्हि पुंसाम् ।
तिथावरिक्ते शुभमामनन्ति प्रसूतिकास्नाननविधिं मुनीन्द्राः॥
पुंसामन्हि रविभौभगुरुवारेषु।
अथ षष्ठीपूजा। पञ्चमे षष्ठे च दिने षष्ठे एव वा पूर्वरात्रे। आचम्य प्राणनायम्य देशकालौ स्मृत्वा “अस्यां रात्रौ ममाभिनवजातकुमारस्य सकलारिष्टशान्तिद्वारा सकलायुरारोग्याभ्युदयकामः श्रीपरमेश्वरप्रीत्यर्थं क्षेत्रपालादिपूजनं क्षेत्रपालादिभ्यो बलिदानमहं करिष्ये। तदङ्गतया निर्विघ्नार्थं गणपतिपूजनं कलशस्थापनं च करिष्ये।” पूर्ववद्गणपतिपूजनादि सर्वं सम्पाद्य क्षेत्रपालादिप्रतिमासु अक्षतपुञ्जेषु वा आवाह्य पूजयेत्। “क्षेत्रपाल इहागच्छ इह तिष्ठे"त्यावाह्य “भूतानीहागच्छत इह तिष्ठत। योगिन्यादिमातरः इहागच्छत इद्द तिष्ठत। देवमातरः इहागच्छत इह तिष्ठत। आदित्यादिग्रहाः इहागच्छत इह तिष्ठत। दिक्पालाः इहागच्छत इह तिष्ठत। शक्र क्षेत्रपालइहागच्छ इह तिष्ठ। भूतदैत्यपिशाचाद्याइहागच्छत इहतिष्ठत” इत्यावाह्यपूजयेत्। “आवाहित देवताभ्यो नमः " आसनं पाद्यमर्ध्यमाचमनं मध्येपानीयं करोद्वर्तनं ताम्बूलं दक्षिणां नीराजनं मन्त्र-
पुष्पाञ्जलिम् । एवं संपूज्य बलिदानं दद्यात् । तत्र मन्त्रः—
क्षेत्रपाल ! नमस्तुभ्यं सदा शान्तिफलप्रद ! ।
बालस्य विघ्ननाशाय गृह गृह बलिं त्विमम्॥
इति क्षेत्रपालाय दध्योदनमाषदीपादीनि दद्यात् ।
पूर्वादिदिग्विभागेन स्वस्थानं प्रतिवासिनः ।
रक्षां कुर्वन्तु ते सर्वे मम गृह्णन्त्विमं बलिम्॥
इति भूतेभ्यः,
योगिनी डाकिनी चैव मातरो निवसन्ति याः ।
रक्षां कुर्वन्तु ताः सर्वा मम गृह्णन्त्विमं बलिम्॥
इति मातृभ्यः,
नानारूपधराः सर्वा मातरो देवयोनयः ।
स्वयं रक्षन्तु मे बालं मम गृह्णन्त्विमं बलिम्॥
इति देवमातृभ्यः,
आदित्यादिग्रहाः सर्वे नित्यं स्वर्गनिवासिनः ।
रक्षां कुर्वन्तु ते सर्वे मम गृह्णन्त्विमं बलिम्॥
इत्यादित्यादिनवग्रहेभ्यः,
दिक्पालाश्च तथेन्द्राद्याः स्वस्थानप्रतिवासिनः ।
शान्तिं कुर्वन्तु ते सर्वे मम गृह्णन्त्विमं बलिम्॥
इति इन्द्रादिदिक्पालेभ्यः,
विचित्ररथमास्थाय भास्वत्कुलिशपाणये ।
पौलोम्यालिङ्गिताङ्गाय शक्राय च वलिर्नमः॥
शक्रक्षेत्रपालाय,
भूतदैत्यपिशाचाद्या गन्धर्वा रक्षसां गणाः ।
शुभं कुर्वन्तु ते सर्वे मम गृह्णन्त्विमं बलिम्॥
भूतदैत्यपिशाचादिभ्यः। ईशाने “एषमाषदीपदध्योदनबलिः चरक्यै नमः”। आग्नेय्याम् “एषमाषदीपदध्योदनबलिः सर्प्यै नमः”। नैर्ऋते “एष माषदीपदध्योदनबलिःपूतनायै नमः”।
वायवे “एष माषदीपदध्योदनबलिःपापराक्षस्यै नमः"। ततो नमस्कृत्य क्षमापयेत्। हस्तौ पादौ प्रक्षाल्याचम्य गृहद्वारमागत्य गणपति पूजयेत्। देशकालौ सङ्कीर्त्य"मम जातस्य कुमारस्य सर्वोपद्रव निवृत्तिपूर्वकनैरुज्यदीर्घायुःप्राप्त्यर्थं महाषष्ठीपूजाङ्गभूतं गणपतिपूजनमहं करिष्ये"। षोडशोपचारैर्गणपतिं पूजयित्वा प्रणमेत्।
सर्वविघ्नहरोऽसि त्वमेकदन्त ! गजानन ! ।
त्वं षष्ठ्यामर्चितः प्रीत्याशिशुं दीर्घायुषं कुरु॥
लम्बोदर! महाभाग ! सर्वोपद्रवनाशन ! ।
त्वत्प्रसादादविघ्नेन चिरं जीवतु बालकः॥
ततो द्वारदक्षिणप्रदेशे क्षेत्रपालं पूजयेत्। “क्षेत्रपाल इहागच्छइह तिष्ठे"ति। “क्षेत्रपालाय नम” इत्यासनादिना पूजयेत्। ततो वामद्वारप्रदेशे दुर्गां पूजयेत्। “दुर्गे इहागच्छ इह तिष्ठे"ति “दुर्गायै नम” इत्यासनादिना पूजयेत्। ततो द्वारे नन्दिन्यादिसप्तमातृपूजनम्।
नन्दे! नन्दिनि ! वासिष्ठे! वसुदेवे! च भार्गवे! ।
जये ! च विजये! चैव सप्तैता द्वारमातरः॥
“द्वारमातर इहाऽऽगच्छत इह तिष्ठत “। षोडशोपचारैः पूजयेत्। ततो मन्त्रपुष्पाञ्जलिं गृहीत्वा–
नन्दे! नन्दय वामिष्ठे! वसुभिश्वाम्बुभिः प्रजाः ।
जये! भार्गवदायादे! प्रजानां भद्रमावह॥
पूर्णेऽङ्गिरसदायादे! पूर्णकामाःप्रजाः कुरु ।
भद्रे! काश्यपदायादे! प्रजानां भद्रमावह॥
सर्वबीजसमायुक्ते! सर्वगन्धौषधैर्वृते! ।
सुचरे ! नन्दने! नन्दे ! वासिष्ठे! रम्यतां गृहे॥
प्रजापतिसुते! देवि! चतुरस्त्रे! महीपते! ।
सुभगे! सुव्रते! देवि! गृहे काश्यपि ! रम्यताम्॥
पूजिते! परमाचार्यैर्गन्धमाल्यैरलङ्कृते! ।
भवभूतिकरि देवि ! गृहे भार्गवि ! रम्यताम्॥
जयेङ्गे ! वाञ्छिते! पूर्णे ! मुनेरङ्गिरसःसुते! ।
इष्टके! त्वं यथेच्छं त्वं प्रतिष्ठां गृहिनः कुरु॥
ग्रामस्वामिपुरस्वामिगृहस्वामिपरिग्रहे ! ।
मनुष्यपशुहस्त्यश्वधनवृद्धिकरी भव॥
नमस्कृत्य क्षमापयेत्। ततो गृहमध्ये प्रविश्य षष्ठीं देवीं पूजयेत्। नवसूतिकागृहं भूषितं कार्यम्। सर्वत्र सर्षपांश्च विकिरेत्। “यदत्र संस्थितं भूतं०। अपक्रामन्तु भू०”। गौर्यादिषोडशमातरः गणेश इष्टदेवता कुलदेवता ग्रामदेवता सूर्यादिग्रहा अधिदेवताः प्रत्यधिदेवताः पञ्चलोकपाला दिक्पाला अष्टौ वसवः। एतेषां पूजनादि कश्चिद्देशाचारः। ततः षष्ठीं पूजयेत्। देशकालो सङ्कीर्त्य"अस्यां रात्रौममाभिनवजातस्य कुमारस्य सकलारिष्टशान्तिद्वारा नैरुज्यायुरारोग्यार्थं श्रीपरमेश्वरप्रीत्यर्थं जन्मदानां षष्ठीदेव्याः जीवन्तिकायाश्च यथामिलितोपचारैः पूजनमहं करिष्ये” इति सङ्कल्प्य षष्ठीमावाहयेत्।
आयाहि वरदे ! देवि! षष्ठीदेवीति विश्रुते ! ।
शक्तिभिः सह पुत्रं मे रक्ष रक्ष वरासने ! ॥
“ॐमनो जूति”रिति प्रतिष्ठाप्य ततः षडङ्गन्यासं कुर्यात्। ॐ खां अङ्गुष्ठाभ्यां नमः। ॐखीं तर्जनाभ्यां स्वाहा। ॐखूं मध्यमाभ्यां वषट्। ॐखैःअनामिकाभ्यां हुम्। ॐखौं कनिष्ठिकाभ्यां वौषट्। ॐखः करतलकरपृष्ठाभ्यां फट् ”एवं हृदयादि। “ॐ खां हृदयाय नमः। ॐखीं शिरसे स्वाहा। ॐखूं शिखायै वषट्। ॐ खैंकवचाय हुम्। ॐ खौं नेत्रत्रयाय वौषट्। ॐ खः अस्त्राय फट्। ततः “पष्टिकादेव्यै नमः” पाद्य समर्पयामि अर्घ्यं समर्पयामि। आचमनीयं पञ्चामृतस्नानम्। शुद्धोदकस्नानम्। वस्त्रम्। यज्ञोपवीतम्। आभरणम्। चन्दनम्। अक्षतान्। पुष्पाणि। धूपम्। दीपम्। नैवेद्यम्। आचमनीयम्। मध्येपानीयम्। उत्तरापोशनम्। करोद्वर्तनम्। पूगीफलम्। ताम्बूलम्। दक्षिणाम्। नीराजनदीपम्। ततः पुष्पाञ्जलिं गृहीत्वा
शक्तिस्त्वं सर्वभूतानां लोकानां हितकारिणी ।
मातर्वालमिमं रक्ष महापष्ठि! नमोऽस्तु ते॥
रुद्राणी रुद्ररूपेण महाविघ्नविनाशिनि ! ।
प्रसन्ने ! वरदे ! देवि ! स्वयं संरक्ष बालकम्॥
भृतदैत्यपिशाचेषु डाकिनीयोगिनीषु च ।
मातेव रक्ष मे पुत्रमापदःपन्नगेषु च॥
त्वमेव वैष्णवी देवि ! ब्रह्मरूपा व्यवस्थिता ।
रुद्रशक्तिःसमाख्याता महाषष्ठि ! नमोऽस्तु ते॥
गौरी पुत्रो यथा स्कन्दः शिशुः संरक्षितस्त्वया ।
तथा ममाप्ययं बालो रक्ष्यतां षष्टि ! ते नमः॥
अथ कार्तिकेयपूजा। “कार्तिकेय इहागच्छ इह तिष्ठ एतानि पाद्यार्घ्याचमनादीनि कार्तिकेयाय नमः”। पुष्पाञ्जलिं गृहीत्वा–
कार्तिकेय ! महावाहो ! गौरीहृदयनन्दन ! ।
कुमारं रक्ष भीतिभ्यो देवदेव ! नमोऽस्तु ते॥
ततो मन्थानं पूजयेत् ।
मन्थान ! त्वं हि गोलोके देवदेवेन निर्मितः ।
पूजितोऽसि विधानेन सूतीरक्षां कुरुष्व मे॥
मन्थान ! त्वं हि लोकानां वैवस्वतविनिर्मितः ।
विधानं त्वं हि लोकेषु सुतीरक्षां कुरुष्व मे॥
पूजितश्च विधानेन सूतीरक्षां कुरुष्व मे ।
अस्मिंश्च सूतिकागारे देवीभिः परिवारिते॥
रक्षां कुरु महाभाग ! सर्वोपद्रवशान्तिकृत् ! ।
ततः खड्गपूजा “खडगेहागच्छ इह तिष्ठ”। पाद्यादिभिः पूजयेत् । पुष्पाञ्जलिं गृहीत्वा–
असि१ र्विशसनः २. खड्ग ३ स्तीक्ष्णधारो ४ दुरासदः५ ।
श्रीगर्भोदविजयश्चैव ७ धर्माधार स्तथैव च॥
इत्यष्टौ तव नामानि स्वयमुक्तानि वेधसा ।
पूजितोऽसि विधानेन सूतीरक्षां कुरुष्व मे॥
नक्षत्रं कृत्तिकाऽसि त्वं गुरुर्देवो महेश्वरः ।
पिता पितामहो देवस्त्वं मां पालय सर्वदा॥
इयं येन धृता क्षोणी हतश्च महिषासुरः ।
तीक्ष्णधाराय शुद्धाय तस्मै खड्गाय ते नमः॥
ततो विष्णुपूजां कुर्यात् ।
त्रैलोक्यपूजितः श्रीमान्महाविजयनन्दनः ।
शान्तिं कुरु गदापाणे ! नारायण ! नमोऽस्तु ते॥
ततः शङ्खपूजां कुर्यात् ।
पुण्यस्त्वं शङ्क! पुण्यानां मङ्गलानाञ्च मङ्गलम् ।
विष्णुना त्वं धृतो नित्यमतः शान्तिं प्रयच्छ मे॥
ततो वंशं पूजयेत् ।
सर्वमङ्गलमाङ्गल्य ! गोविन्दस्य करे स्थित ! ।
वंश ! वर्धय मे वंशं सदानन्द ! नमोऽस्तु ते॥
ततः पुष्पाञ्जलिं षष्ठीदेव्यै दत्वा “अस्यां रात्रौ ममाभिनवजातकुमारस्य नैरुज्यदीर्घायुष्यकामनया दत्तान्येतानि गन्धपुष्पधूपदीपनैवेद्यपक्वान्नापूपपूरिकाताम्बूलादीनि साङ्गायै सपरिवारायै षष्ठीदेव्यै नमः” इत्युत्सृजेत्। “अनया पूजया षष्ठी देवी प्रीयताम्"।
ततो बालं व्यजने कृत्वा षष्ठीदेव्यै समर्पयेत् । तत्रायं मन्त्रपाठः—
देवतानामृषीणां च भक्तानां भक्तवत्सले ! ।
अर्पितं रक्ष मे पुत्रं महाषष्ठि ! नमोऽस्तु ते॥
जननी सर्वभूतानां बालकाना विशेषतः ।
नारायणीस्वरूपेण पुत्रं मे रक्ष सर्वदा॥
दैत्यभूतपिशाचेभ्यो डाकिनीभ्यः शरोत्करैः ।
सृतं मे स्वसुतं कृत्वा रक्ष रक्ष वरानने ! ॥
एवं रक्ष सदा षष्ठि ! महाविघ्नविनाशिनि ! ।
बालं समातरं रक्ष नित्यं मत्कुलसंस्थिता॥
सदा सर्वहिते ! मातर्जगतामुपकारिणि ! ।
सर्वतः षष्टिरूपेण बालरक्षां कुरुष्व मे॥
षष्ठि! देवि महाभागे ! हिताहितफलप्रदे ! ।
त्वत्प्रसादादविघ्नेन चीरं जीवतु बालकः॥
सर्वतः षष्ठिके ! देवि ! बालरक्षां कुरुष्व मे ।
त्वां विना षष्ठिके ! देवि ! नान्या रक्षा जगत्त्रये॥
अयं मम कुमारोऽयं रक्षार्थं पादयोस्तव ।
नीतो मया महाभागे ! चिरं जीवतु बालकः॥
ततो हस्तेन बालं सम्मार्जयेत् ।
माथुरं यद्बलं यच्च विष्णोरमिततेजसः ।
हरस्य यद्बलं तच्च सर्वं भवतु मे सुते॥
शान्तिरस्तु शिवं चास्तु प्रणश्यत्वशुभं च यत् ।
यतः समागतं पापं तत्रैव प्रतिगच्छतु॥
ततो जातहारिण्यो मातरः पूज्याः ।
जातं हरन्ति या बालं मातरो गूढविग्रहाः ।
अपि रक्षन्तु मत्पुत्र बलिं पूजां हरन्तु ताः॥
ततो ब्राह्मणपूजनम्। ब्राह्मणेभ्यस्ताम्बूलदक्षिणादि दद्यात्। “अस्यां रात्रौ कृतषष्ठीपूजनसाङ्गतासिद्ध्यर्थं हिरण्यमग्निदैवतं तन्मूल्योपकल्पितं द्रव्यं यथानामगोत्रेभ्यो ब्राह्मणेभ्यो दातुमहमुत्सृजे"। जननाशौचमध्ये प्रथमपञ्चमषष्ठदशमदिनेषु दाने प्रतिग्रहे च न दोषः। अन्नं निषिद्धम्। तत आगत्य द्वारमातृकाः पूजयेत्। द्वारस्योभयतो द्वे द्वे लिखेत्। तासां नामानि—
धिषणा वृद्धिमाता च तथा गौरी च पूतना ।
आयुर्दात्र्यो भवन्त्वेता अद्य जन्मदिने मम॥
पञ्चोपचारैःपूजा कार्या। स्त्रियो भोजनीयाः। गृहस्य पश्चाच्चामुण्डापूजनम्। ततो हलपूजनम्।
निदानं सर्वभूतानामायुधं नीलवाससः ।
गृह्ण गृह्ण कृतां पूजां बलभद्र नमोऽस्तु ते॥
अथ वृषभकपालपूजा ।
कपाल ? वृषभस्य त्वं श्मशानभुवि सन्ततम् ।
भूतप्रेतपिशाचेभ्यः पुत्रं मे रक्ष सर्वदा॥
ब्राह्मणं प्रणमेत्। इत आरभ्य प्रतिदिनं पूजयेत्। दशमेऽह्नि विसर्जने कार्यम्। द्वारमध्ये च्छागबन्धनम्। मुसलवारणम्। सशस्त्रपाणिभिः पुरुषैर्जाग्रद्भिः रात्राैजागरणं कार्यम्।
इति श्रीप्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यमूत्रविवरणे संस्कारगणपतौ षष्ठीपूजाप्रयोगः।
अत्र प्रसङ्गादृक्षेषु गण्डान्तादिनिमित्तेषु जातस्यारिष्टं परिहारं चाह।
उत्तरगार्ग्ये—
अथातः सम्प्रवक्ष्यामि जन्मकाले विशेषतः ।
गण्डान्तानि च नामानि महादोषकराणि च॥
दिनक्षये व्यतीपाते व्याघते विष्टिवैधृताै ।
शूलेगण्डेऽतिगण्डे च परिघे यमघण्टके॥
कालदण्डे मृत्युयोगे दग्धयोगे सुदारुणे ।
तस्मिन्गण्डदिने प्राप्ते प्रसुतिर्यदि जायते॥
शौनकोऽपि—
कुमारजन्मकाले तु व्यतीपातश्च वैधृतिः ।
संक्रमे च रवेस्तत्र जातो दारिद्र्यकारकः॥
अतिदोषकरी प्रोक्ता तत्र पापयुते सति ।
विचार्य तत्र दैवज्ञं शान्तिं कुर्याद्यथाविधि॥
यदा बहुनिमित्तसम्पातस्तदा ‘प्रतिनिमित्तं नैमित्तिक’मिति न्यायेन सर्वाणि नैमित्तिकानि कार्याणि। यथा अमावास्याया ज्येष्ठानक्षत्रे व्यतीपासादौ जातस्य अमावस्यादिशान्तिः क्रियते। तत्र क्रमस्वैच्छिकः। यद्वा तन्त्रेणैव कार्याणि। कर्त्रादीनामेकत्वात्। कुमार्या अप्येतत्कार्यम्। न्या-
यसाम्यात्। “सुतः सुता वे"त्यादिवक्ष्यमाणवचनाच्च। तत्र तावत्सर्वारिष्टशान्तिसाधारणत्वात् गोमुखजननीवधान-मादावभिधीयत। प्रयोगपारिजाते गर्गः—
प्रणिपत्य रविं वक्ष्ये प्रायश्चित्तमनुस्मरन् ।
सर्वारिष्टविनाशाय यदुक्तं ज्योतिरर्णवे॥
पित्ररिष्टे सुतारिष्टे मात्ररिष्टे तथैव च ।
प्रायश्चित्तं तदा कुर्यात्तत्तद्दोषस्य शान्तये॥
पूषाश्विनौ गुरौ सार्पमघाचित्रन्द्रमूलभे ।
एषु ऋक्षेषु जातस्य कुर्याद्गोजननं तथा॥
पूषा रेवती गुरुःपुष्यः इन्द्रो ज्येष्ठा। शेषं प्रसिद्धम्। अथ इतिकर्तव्यतामाह—
जन्मर्क्षे वा त्रिजन्मर्क्षे शुभे वारे शुभे दिने ।
कृत्वाभ्यङ्गादिकं सर्वं गृहालङ्कारपूर्वकम्॥
गोमयेनोपलिप्याथ गृहस्येशानभागके ।
पङ्कजं कर्णिकायुक्तं रजोभिः श्वेत वर्णकैः॥
श्वेतवर्णकै रजोभिस्तण्डुलादिपिष्टैरित्यर्थः ।
व्रीहींस्तत्र विनिक्षिप्य यथा वित्तानुसारतः ।
नवशूर्पन्तु तन्मध्ये रक्तवस्त्रं प्रसारयेत्॥
स्थापयित्वा शिशुं तत्र पुनःसूत्रेण वेष्टयेत् ।
प्राङ्मुखं तमवाक्पादं तिलगर्भगतं शिशुम्॥
गोमुखं दर्शयित्वाथ पुनर्जातं तु गोमुखात् ।
विष्णुर्योनिमितिसूक्तेन गव्येन स्नपयेच्छिशुम्॥
गवामङ्गेषु मन्त्रेण गवामङ्गेषु संस्पृशेत् ।
विष्णोःश्रेष्ठेन मन्त्रेण गोप्रसूतं तु बालकम्॥
आचार्यस्तु समादाय पश्चान्मात्रे ददत्तदा ।
माता जघन्यभागस्था शिशुमानीय संमुखात्॥
ततः पित्रे तदा दद्यात्ततो मात्रे प्रदापयेत् ।
वस्त्रे स्थापयितस्याथ पुत्रस्य मुखमीक्षयेत्॥
गोमूत्र गोमयं क्षीरं दधि सर्पिश्च संयुतम् ।
आपोहिष्ठादिभिर्मन्त्रैरभिषिञ्चेत्ततः शिशुम्॥
मूर्ध्नि चाघ्राय तं पुत्र तन्मन्त्रेण तदा पिता ।
अङ्गादङ्गात्सम्भवसि हृदयादधिजायसे॥
आत्मा वैपुत्रनामासि स जीव शरदः शतम् ।
मृर्द्धनि त्रिश्वघ्राय तं शिशुं स्थापयेत्ततः॥
पुण्याह वाचयेत्पश्चाद्ब्राह्मणैर्वेदपारगैः।
दरिद्रायाथ विप्राय तां गां चाभ्यर्च्य दापयेत्॥
गोवस्त्रस्वर्णधान्यानि दद्यादर्कादितःक्रमात् ।
यथाशक्ति धनं दद्याद्ब्राह्मणेभ्यस्तदा पिता॥
अर्कादितः सूर्यादिग्रहेभ्य इत्यर्थः ।
ततो होमं प्रकुर्वीत स्वस्वशाखोक्तमार्गतः ।
उल्लेखनादिकं कृत्वा वाऽऽज्यभागान्तमाचरेत्॥
होपस्पेशानदिग्भागे धान्योपरि शुभं घटम् ।
पञ्चगव्यं घटे स्थाप्य तिलं तत्र विनिक्षिपेत् ।
क्षीरद्रुमकषायांश्च पञ्चरत्नानि निक्षिपेत् ।
क्षीरद्रुमकषायाः पञ्चपञ्चवाः पञ्चत्वच इत्यर्थः ।
वस्त्रयुग्मेन संच्छाद्य गन्धादिभिरथार्चयेत् ।
विष्णुं वरुणमभ्यर्च्य प्रतिमायां विधानतः॥
यत इन्द्रादेभिर्मन्त्रैः कुम्भं स्पृष्ट्वाभिमन्त्रयेत् ।
दधिमध्वाज्ययुक्तेन होमं कुर्याद्विधानतः॥
आपोहिष्ठेति तिसृभिरपसुमे सोम इत्यथ ।
तद्विष्णोः परमं पदमक्षीभ्यां तेऽथ सूक्ततः॥
ऋग्भिराभिःप्रत्यृचं चअष्टाविंशतिसंख्यया ।
अशक्तश्चाष्टसंख्या वा दधिमध्वाज्यसंयुतम्॥
आदित्यादिग्रहाणां च होमं कुर्यात्समन्त्रकम्॥
विष्णुर्योनिमित्यादिमन्त्रा ऋग्वेदे प्रसिद्धाः। दधिमध्वाज्ययुक्तेनेति। अत्र भावे क्तप्रत्ययः। दधिमध्वाज्यमेकीकृत्य होमयेदित्यर्थः।
अथास्य स्पष्टप्रयोगः। उक्ते काले यजमानः अभ्यङ्गं कृत्वा शुचिपीठे उपविश्याचम्य देशकालौ स्मृत्वा “अमुकनक्षत्रोत्पत्निसूचितारिष्टनिरसनद्वारा श्रीपरमेश्वरप्रीत्यर्थं गोमुखमसवं करिष्ये”। इति सङ्कल्प्यगणेशं सम्पूज्य आचार्यं वृणुयात्। तत आचार्येण गृहस्ये शानभागे तण्डुलपिष्टेन पङ्कज कार्यम्। तत्र कर्णिकायां यथाशक्तिव्रीहीन्निक्षिप्य तेषु शूर्पं निधाय शूर्पे रक्तवस्त्र प्रसार्य तत्र तिलान्विकीर्य शूर्पे प्राङ्मुखं शिशुं निधाय सूत्रेण शूर्पं वेष्टयित्वा शिशुसमीपे गोमुखमानीय प्रसवं भावयित्वा पञ्चगव्येन शिशुं स्नापयित्वा। तत्र मन्त्राः—
<MISSING_FIG href="../books_images/U-IMG-1696000714Screenshot2023-09-29204801ख.png"/>
“विष्णुर्योनिमिति षण्णां त्वष्टा ऋषिः विष्णुर्देवता अनुष्टुप्छन्दः पञ्चगव्येन शिशोरभिषेके विनियोगः ।ॐविष्णुर्योनिंकल्पयतु त्वष्टा रूपाणि पि<MISSING_FIG href=”../books_images/U-IMG-1697378364Screenshot(21"/>.png)शतु। आसिञ्चतु प्रजापतिर्द्धातागर्भन्दधातु ते॥ गर्भन्धेहि सिनीवालि गर्भन्धेहि पृथुष्टुके। गर्भन्ते अश्विनौ देवावाधत्तां पुष्करस्रजौ॥ हिरण्मयीमरणीयं निर्मन्थतोऽश्विना। तन्ते गर्भं हवामहे दशमे मासि सूतवे॥ नेजमेष परा पत सुपुत्रः पुनरापत। अस्यै मे पुत्रकामायै गर्भमाधेहि यः पुमान्॥ यथेयं पृथिवी मह्युत्ताना गर्भमादधे। एवन्त्वं गर्भमाधेहि दशमे मासि सूतवे॥ विष्णोः श्रेष्ठेण रूपेणास्यां नार्याङ्गवीन्याम्। पुमांसं पुत्रमाधेहि दशमे मासि सूतवे॥" एभिरभिषेकः कार्यः। गां स्पृशेत्। तत्र मन्त्राः—
गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश ।
यस्मात्तस्माच्छिवं मे स्यादिह लोके परत्र च ।
गावो मे अग्रतः पान्तु गावो मे सन्तु पृष्ठतः॥
गावो मे हृदये सन्तु गवां मध्ये वसाम्यहम्॥
मात्रे शिशुदानम्। “विष्णोः श्रेष्ठेनेति त्वष्टा ऋषिः विष्णुर्देवता अनुष्टुप्छन्दः मात्रे शिशुदाने विनियोगः। ॐ विष्णोः श्रेष्ठेण रूपेणास्यां नार्यां गवीन्याम्। पुमांसम्पुत्रमाधेहि दशमे मासि सूतवे॥" ततो माता बालं पित्रे दद्यात्। तत आचार्यो बालं गृहीत्वा मात्रे प्रदापयेत्। वस्त्रे स्थाप्य तं पिता तन्मुखमीक्षेत्। पञ्चगव्येन बालमभिषिञ्चेत्। “अपोहिष्ठेति तिसृणां सिन्धुद्वीप ऋषिः आपो देवता गायत्रीच्छन्दः शिशोरभिषेके विनियोगः। ॐ आपो हि ष्ठा १। यो वः शिवतमः २। तस्मा अरङ्गमाम वः ३।" ततः पिता “अङ्गादङ्गादितिसौत्रमन्त्रस्य हिरण्यगर्भ ऋषिर्धाता देवता अनुष्टप्छन्दः शिशुमूर्धन्य-वघ्राणे विनियोगः।
ॐ अङ्गादङ्गात्सम्भवसि हृदयादधि जायसे ।
आत्मा वै पुत्रनामासि स जीव शरदः शतम्”॥
अनेन मन्त्रेण त्रिरवघ्राय मातृहस्ते दत्त्वा। “अस्य गोमुखप्रसवाख्यस्य कर्मणः पुण्याहं भवन्तो ब्रुवन्तु" इत्युक्त्वा तान्वाचयित्वा गां ब्राह्मणाय कुटुम्बिने दत्वा, ग्रहप्रीत्यर्थं प्रत्येकं गोवस्त्रस्वर्णधान्यानि दत्वा, यथाशक्ति भूयसीं दक्षिणा दत्वा, तत भाचार्योऽग्निं ग्रहांश्च प्रतिष्ठाप्य अन्वाधानं कुर्यात्। “अत्र प्रधानं अपः विष्णुं सकृत् यक्ष्महणं अष्टाविंशतिसंख्यया वा दधिमध्वाज्यद्रव्येण नवग्रहांश्चाज्यद्रव्येण यक्ष्ये"। शेषेण स्विष्टकृतमित्याज्यभागान्तं कृत्वा अग्नेरीशान्या कुम्भमेकं संस्थाप्य तत्र पञ्चगव्यं तिलान् व्रीहींश्च क्षरिद्रुमकषायान् पञ्चरत्नानि निक्षिप्य वस्त्रयुग्मेन संवेष्ट्य पूर्णपात्रोपरि “तद्विष्णो”रितिमन्त्रेण विष्णुप्रतिमा “तत्त्वा यामीति” वरुणप्रतिमां चाभ्यर्च्य कुम्भंस्पृष्ट्वा वक्ष्यमाणमन्त्रान् जपेत् “यत इन्द्रेति षष्णां कण्वपुत्र ऋषिः प्रगाथ इन्द्रो बार्हतो देवता पगाथं छन्दः जपे विनियोगः। ॐयत इन्द्र भयामहे ततो नो अभयं कृधि। मघवञ्छग्धि तं वसन्न ऊतिभिर्द्विषो विमृधो जहि॥ त्वं हि राधसस्पते राधसो महः क्षयस्यासि विधतः। तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे॥ इन्द्रस्य लुत वृत्रहा परस्या नो वरेण्यः। स नो रक्षिषच्चरमं स मध्यमं स पश्चात्पातु नः पुरः॥ त्वन्नः पश्चादधरादुत्तरात्पर इन्द्र निपाहि विश्वतः। आरे अस्मत्कृणुहि दैव्यं भयमारेके हेतीरदेवीः॥ अघाद्याश्वश्व मित्रास्वे परे च नः। विश्वा च नो जरितृत्सत्यन्ते अहा दिवा नक्तं च रक्षिपः॥ प्रभङ्गी शूरो मघवा नु वां मद्यः संमिश्लो वीर्याय कम्। उभा ते बाहू वृषणा शतक्रतो निया वज्रं मिमिक्षतु॥” एतैर्मन्त्रैः कलशमभिमन्त्रयेत्। ततो मिलितैर्दधिमध्वाज्यैर्होमंकुर्यात्। तत्र मन्त्राः—“आपो हि ष्ठेति तिसृणां सिन्धुद्वीप ऋषिः आपो देवता गायत्रीच्छन्दः होमे विनियोगः। ॐ आपो हि ष्ठा० १ । योवः शिवतमः २ । तस्मा अरं ३ । अप्सु मे इति मेधातिथिर्ऋषिः आपो देवता अनुष्टुप्छन्दः होमे विनियोगः। ॐअप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा। अग्निं च विश्वश-
म्भुवम्। अद्भ्य इदं न मम॥ तद्विष्णोरिति मेधातिथिर्ऋषिः विष्णुदेवता गायत्रीच्छन्दः होमे विनियोगः ॐतद्विष्णोः परमं पदं०। विष्णव इदं न मम॥ अक्षीभ्यां त इति षण्णां विवृहा ऋषिः यक्ष्महा देवता अनुष्टुप्छन्दः होमे विनियोगः। ॐ अक्षीभ्यान्ते नासिकाभ्यां कर्णाभ्यां छुबुकादधि। यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया विवृहामि ते॥ ग्रीवाभ्यस्त उष्णिहाभ्यः कीकताभ्यो अनूक्यात्। यक्ष्मं दोषण्यामंसाभ्यां बहुभ्यां विवृहामि ते॥ आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठो हृदयादधि। यक्ष्मं मतस्नाभ्यां यक्नःप्लाशिभ्यो विवृहामि ते॥ ऊरूभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम्। यक्ष्मं श्रोणिभ्यां भासदाद्भंससो विवृहामि ते॥ मेहनाद्वनं करणाल्लोमभ्यस्ते नखेभ्यः। यक्ष्मं सर्वस्मादात्मनस्तमिदं विवृहामि ते॥ अङ्गादङ्गाल्लोम्नो लोम्नो जातं पर्वणि पर्वणि। यक्ष्मं सर्वस्मादात्मनस्तमिदं विटहामि ते॥ यक्ष्मण इदं न मम॥
आदित्यादिग्रहाणां च होमं कुर्यात्समन्त्रकम्॥
ग्रहाणां च होमं दधिमध्वाज्यसंयुतं कुर्यादित्यन्वयः। “ॐआ कृष्णेन० इदं सूर्याय नमम १। ॐइमन्देवा० इदं चन्द्रमसे० २। ॐ अग्निर्मूर्द्धा० इदं भौमाय० ३। ॐउद्बुध्य० इदं बुधाय० ४। ॐबृहस्पते अति० इदं बृहस्पतये० ५। ॐअन्नात्परिस्रुतो० इदं शुक्राय० ६। ॐशन्नो देवी० इदं शनैश्चराय० ७। ॐकयानश्चित्र० इदं राहवे० ८। ॐकेतुं कृण्वन्० इदं केतवे० ९।” स्विष्टकृदादि होमशेषं समापयेत्। आचार्यादिभ्यो दक्षिणां दत्वा यथाशक्ति ब्राह्मणान् भोजयेत्। इति गर्गोक्तं गोमुखप्रसवविधानम्।
अथ दुष्टनक्षत्रादिजननशान्तिविधानानि प्रोच्यन्ते। तत्रादौ नक्षत्रदेवताः कथ्यन्ते। रत्नमालायाम्—
भेशा दस्र१यमा२ग्नि३धातृ४शशिनः५शर्वो ६दिति७र्वाक्पतिः८कद्रूजाः९पितरो१०भगो११यम१२रवि १३स्त्वष्टा१४व्हयो मारुतः १५
इन्द्राशी १६ त्वथ मित्र १७ इन्द्र १८ निर्ऋति १९ स्तोयं च२०विश्वे९१ विधि२२—
गोविन्दो २३ वसवो२४ म्बुपा२५ जचरणा२६ हिर्बुध्न्य २७पूषा२८ मिधाः ।
भानामीशा भेशा नक्षत्रदेवता दस्रयमादयः। अश्विन्यादिक्रमेणबोद्धव्या अष्टाविंशतिः। एतानि जनननिमित्तकशान्तिविधानानि।
अथ प्रथमतो मूलशान्तिरुच्यते। तत्र शौनकः—
अथातः सम्प्रवक्ष्यामि मूलजातहिताय च ।
मातापित्रोर्धनस्यापि कुलशान्तिहिताय च ।
त्यागो वा मूलजातस्य स्यादष्टशब्दात्मदर्शनम्॥
रत्नमालायाम्—
तदाद्यपादके पिता द्वितीयके जनन्यथ ।
धनक्षयं तृतीयके चतुर्थकः शुभावहः॥
प्रतीपमन्त्यपादतः फलं तदेव सार्पभे ।
तदुक्तदोषशान्तये विधेयमत्र शान्तिकम्॥
ज्योतिर्निबन्धे—
मूलं विरुद्धावयवं समूलं कुलं हरत्येव वदन्ति सन्तः ।
चेदन्यथातत्कुरुते विशेषात्सौभाग्यमायुश्च कुलाभिवृद्धिः ॥
कात्यायनः— “अथातो मूलविधिं व्याख्यास्यामो मूलांशे प्रथमेपितुर्नेष्टो द्वितीये मातुस्तृतीये धनधान्यस्य चतुर्थे कुलशोकावहः" ।
ज्योतिर्निबन्धे विशेषः—
कृष्णे तृतीया दशमी वलक्षे भुतो महीजार्किबुधैः समेतः ।
चेज्जन्मकाले किल तत्र मूलमुन्मूलनं तत्कुरुते कुलस्य॥
तत्रादौ मूलस्थितिः । तत्रैव—
वृषालिसिंहेषु घटेषु मूलं दिवि स्थितं युग्मतुलाङ्गनान्त्ये ।
पातालगं मेषधनुःकुलीरे नक्रेऽर्कसस्थे विचरेच्च मर्त्ये॥
फलम्—
स्वर्गे मूले भवेद्राज्यं पाताले च धनागमम् ।
मृत्युलोके स्थिते मूलेतदा शून्यं समादिशेत्॥
अथाभुक्तमूलफलम्—
अभुक्तमूलसम्भवं परित्यजेच्च बालकम् ।
समाष्टकं पिताऽथ वा न तन्मुखं विलोकयेत्॥
अभुक्तलक्षणं रत्नसङ्ग्रहे —
ज्येष्ठान्ते घटिका चैका मूलादौ घटिकाद्वयम् ।
अभुक्तमूलमित्याहुस्तत्र जातं परित्यजेत्॥
अथ मूलवृक्षविचारः । ज्योतिर्निबन्धे—
मूलस्तम्भस्त्वचा शाखा पत्रं पुष्पं फलं शिखा ।
वेदा४श्च मुनय७श्श्चैव दिशश्च वसव८स्तथा॥
नन्द९बाण५रसा६रुद्रा११मूलभेदाः प्रकीर्तिताः ।
नक्षत्रमानघटिकाः षष्ठिमानमितीरिताः॥
फलम्—
मूलेमूलंविनाशाय स्तम्भे हानिर्धनक्षयम् ।
त्वचां भ्रातृविनाशाय शाखा मातुर्विनाशकृत्॥
पत्रेषु परिवारघ्नः पुष्पेषु नृपतिप्रियः ।
फलेषु लभते राज्यं शिखायामल्पजीवनम्॥
अथ मूलपुरुषविचारः—
मूलर्क्षषष्टिघटिकाः कृत्वा स्थाप्य नराकृतौ ।
मस्तके घटिकाः पञ्च५वक्त्रे पञ्च ५ घटीस्तथा॥
स्कन्धे चत्वारि४ चत्वारि४ भुजयोरष्टकं तथा ।
एकैकं १।१ हस्तयोर्न्यस्य हृदये चाष्टकं८ पुनः॥
नाभि स्थाने द्वयं २ दद्याद्गुह्ये च दशकं १० तथा।
रस६संख्यास्तु जान्वोश्च पादयोश्च षडेव हि॥
फलम्—
क्षेत्रलाभः शिरोदेशे वदने पितृघातकम् ।
स्कन्धयोर्धूर्वह चैव बाहुयुग्मे त्वकर्मकृत्॥
हत्याकरः करद्वन्द्वे पुज्याप्तिर्हृदये भवेत् ।
अल्पायुभिदेशेच गुह्ये चमुखमद्भुतम्॥
जङ्घायां भ्रमणे प्रीतिः पादयोर्जीविताल्पता ।
घटीफलं किल प्रोक्तं मूलस्य मुनिपुङ्गवैः॥
विज्ञेयं विबुधैसर्वं सार्पे तच्च विपर्ययात्॥
अथ मुहूर्त्तफलम्—
राक्षसो यातुधानश्च सोमः शुक्रः फणीश्वरः ।
पिता माता यमः कालो विश्वेदेवा महेश्वरः॥
शर्वाख्यश्च कुबेरश्च घस्रो मेषदिवाकरः ।
गन्धर्वो यमदेवश्च ब्रह्मा विष्णुर्यमस्तथा॥
ईश्वरो विष्णुरन्ध्रंच पवनो मुनयस्तथा ।
षण्मुखो भृङ्गिरिटी च गौरनाम्नी सरस्वती॥
प्रजापतिश्च मूलस्य त्रिंशन्मुहूर्त एव च ।
विपरीता पुनर्ज्ञेया त्वश्लेषा जातवालके॥
फलम्—
प्रथमे च द्वितीये च षष्ठे च द्वादशे तथा ।
त्रयोविंशे च नवमे कुलक्षयकरः शिशुः॥
अथ स्त्रीजातके विशेषः—
लिखेत्स्त्रीसदृशीं मूर्तिन्तत्र स्थाप्यो घटीक्रमः ।
चतस्रो नाडिकाः४ शीर्षे कुर्वन्ति पशुनाशनम्॥
मुखे षट्६ धनहानिः स्यात्कण्ठे पञ्च ५ धनागमम् ।
कौटिल्यं हृदये पञ्च५ कुचे वित्तागमं च षट्६॥
पायौ वेद ४ दयाधर्माैवेद ४ गुह्ये च कामुकी ।
ज्येष्ठमातुलनाशञ्च जङ्घयोर्युग्मनाडिका २॥
ज्येष्ठभ्रातृविनाशञ्च चतस्रो ४।४ युग्मजानुके ।
पादयोः पञ्च ५ नाड्यम्तु तत्र वैधव्यमादिशेत्॥
इति स्त्रीजातके मूलविचारः ।
पादे मुहूर्तवेलायां वृक्षे च पुरुषाकृतौ ।
अनिष्टमशुमाधिक्ये शुभाधिक्ये शुभं फलम्॥
शौनकः—
न बाला हन्ति मूलर्क्षेपितरं मातरन्तथा ।
मूलजा श्वशुरं हन्ति व्यालजा च तदङ्गनाम्॥
माहेन्द्रजाग्रजं हन्ति देवरं तु द्विदैवजा ।
शान्तिर्वा पुष्कला स्याच्चेत्तर्हि दोषो न कश्चन॥
मुख्यकालं प्रवक्ष्यामि शान्तिहोमस्य यत्नतः ।
जातस्य द्वादशाहे तु जन्मर्क्षे वा शुभे दिने॥
समाष्टके द्वादशाहे कुर्याद्वाशान्तिमादरात्॥
शान्तिमालायाम्—
तत्र शान्तिं प्रकुर्वीत वित्तशाठ्यविवर्जितः ।
जातस्यैकादशाहे तु द्वादशाहे शुभे दिने॥
रत्नसंग्रहे—
गण्डान्तमूलसार्पेन्द्रपातर्क्षे धृतिदर्शने ।
पैत्रेऽपरागजे शान्तिं कुर्यात्तत्तद्दिने बुधः॥
ग्रन्थान्तरे—
सद्वारे सत्तिथाैमेच गुरुपुष्यादिके शुभे ।
सुलग्नस्य बलं लब्ध्वा मूलादुत्थभयच्छदे॥
विधेयं शान्तिकं यच्च यथावित्तानुसारतः ।
काले दर्शनयोग्ये वा मासान्ते द्वादशेऽह्नि वा॥
राजमार्तण्डे—
गण्डप्रभूतजं बालं न पश्येत्तात तन्मुखम् ।
भसंख्या२७दिवसे कृत्वा स्नानशान्तिं विलोकयेत्॥
मुहूर्तकल्पद्रुमे—
आद्यः पादो मूलजी रात्रिभोगतारानिष्टं नो दिने चेद्द्वितीयः ।
मातृरिष्टं नो सदा शान्तितो नो साशौचान्तेऽब्दे त्रिमासेऽपि तद्भे॥
अथ शान्तिविधिः, “सर्वोषध्या सर्वगन्धैश्च संयुक्तं तत्रोदकुम्भं कृत्वा सबस्त्रगन्धपुष्परत्नसहितं श्वेतसिद्धार्थकुसुमयुक्तं कुर्या"दिति कात्यायनपरिशिष्टम्। दुण्ढिराजः—
अष्टवर्षाणि नालोक्यन्तातेन शुभमिच्छता ।
तद्दोषपरिहारार्थं शान्तिकं प्रोच्यतेऽधुना॥
रत्नैः शतौषधीमूलैःसमृद्भिः प्रपूरयेत् ।
शतच्छिद्रो घटस्तस्मान्निर्गतेन जलेन हि॥
बालकं पितरौ स्नाने विप्रैःसम्पादिते सति ।
जपहोमप्रदाने च कृते स्यान्मङ्गलं ध्रुवम्॥
अथ शतौषधीनामानि। अश्मरी१ सहदेवी२ अपराजिता ३ मुण्डी४ उशीर५ बाला६ अधःपुष्पी७ शङ्खपुष्पी८ ज्येष्ठीमधु९ कोरक१० चक्राङ्किता११ विष्णुक्रान्ता१२ शिवक्रान्ता१३ मयूरशिखा१४ काकजङ्घा१५ भृङ्गराज१६ कुमारी१७ हय१८ कर्णिका१९ अपामार्ग२० बिल्व२१ षण्मूला२२ उत्तरा२४ पुत्रजीवा२५ दूर्वा२६ काश२७ कुश२८ शाल२९ नाल३० चक्रमर्द्दक३१ सिंही३२ व्याघ्री३३ अर्क३४ प्लक्ष३५ पलाश३६ पिप्पल३७ वट३८ उदुम्बर३९ तुलसी४० उत्पल४१ शतपत्र४२ अतसी४३ सारिवा४४ कदम्ब४५ बकुल४६ शमी४७ रोहितक४८ निर्गुण्डी४९मुण्डी५० दाण्डी५१ ब्राह्मी५२ अशोक५३ सूर्यभक्त्या५४ रुद्रजटा५५ कदली५६ बीजपूर५७ मदनक५८ मुसली५९ पुनर्नवा६० आम्र६१ पाटल६२ श्रीपर्णी६३ करवीर६४ चम्पक६५ गुडूची६६ अगरु६८ चन्दन६९ कुटज७० शिग्रु७१ हरिद्रा७२ जटामांसी७३ वचा७४ कुष्ठ७५ तज७६ दारुहरिद्रा७७ बन्धुजीव७८ सिन्धुवार७९ सठी८० अश्वगन्धा८१ मुस्ता८२ कुरण्टका८३ पनस८४ जीवक८५ जाती
८६ मालती ८७ मधूक ८८ खदिर ८९ सप्तच्छद ९० शिरीष ९१ काकमाची ९२ शतावरी ९३ केतकी ९४ जम्बू ९५ शाक ९६वेतस ९७ आमलक ९८ सरल ९९ गिरिकर्णी १००। इति शतमूलानि।
तदलाभे तु—
विष्णुक्रान्ता सहदेवी तुलसी तु शतावरी ।
मूलानीमानि गृह्णीयाच्छतालाभेविशेषतः॥
अथ सप्तधान्यम्—
तिलमाषयवव्रीहिगोधूमानि प्रियङ्गवः ।
चणकैः सप्तधान्यानि मद्बीजानि च सर्वदा॥
अथ पञ्चरत्नम्—
वज्रमौक्तिकवैडूर्यपुष्परागेन्द्रनीलकम् ।
पञ्चरत्नमिति प्रोक्तं मन्त्रैः कुम्भेषु निक्षिपेत्॥
अथ सप्तमृत्तिकाः —
अश्वस्थानाद्गजस्थानाद्वल्मीकात्सङ्गमाद्धदात् ।
राजद्वाराच्च गोष्ठाच्च गृह्णीयात्सप्त मृत्तिकाः॥
अथ कषायाः—
न्यग्रोधोदुम्बरोऽश्वत्थः प्लक्षचैव चतुर्थकः ।
जम्बू आम्रश्च धात्री च कषायाः सप्तभिः स्मृताः॥
अथ पञ्चगव्यम्—
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
पूर्वोक्तपलसंख्यादि पञ्चगव्यमिति स्मृतम्॥
क्षीरञ्च दधि सर्पिश्च मधु चेक्षूदकं शुभम् ।
पञ्चामृतमिति प्रोक्तं तस्मिन्कुम्भे क्षिपेद्बुधः॥
यथा सर्पविषं घोरं स्मरन्मन्त्राद्विलीयते ।
तथेदं गण्डयोर्दोषं विधानेन विलीयते॥
अथ मूलशान्तौ मूलवाक्यानि । शौनकः—
मुख्यकालं प्रवक्ष्यामि शान्तिहोमस्य यत्नतः ।
जातस्य द्वादशाहे तु जन्मर्क्षे वा शुभे दिने॥
समाष्टके द्वादशाहे कुर्याद्वा शान्तिमादरात् ।
यदैव शान्तिकं कुर्यात्कर्म तत्र प्रचक्ष्महे॥
सुसमे पुण्यदेशे तु मण्डपं कारयेद्बुधः ।
पुण्याभिर्मन्त्रितैस्तोयैः प्रोक्षितायां क्षितौ ततः॥
पुण्यर्च “आपो हि ष्ठा” दयः ।
तत्रोदकुम्भं सुश्लक्ष्णं रक्तं व्रणविवर्जितम् ।
आचूडमूलं निर्णिक्तं पूरयेन्निर्मलाम्भसा॥
वस्त्रावगुण्ठितं कुर्यात्पूरयेत्तीर्थवारिणा ।
कूर्चहेमसमायुक्तं चूतपल्लवसंयुतम्॥
कूर्चं पञ्चगव्यं “स्वस्तिकोपरि विन्यस्य पञ्चकूर्चेन पीतेने"ति स्कान्दे तथा दर्शनात्। यद्वा दर्भमुष्टिः क्षीरद्रुमपल्लवं द्रोणव्रीहींश्चनिक्षिप्य ईशान्ये निधापयेत्। शौनकः—
पञ्चरत्नानि निक्षिप्य सर्वौषधिसमन्वितम् ।
अर्चितं गन्धपुष्पाद्यैः श्रीरुद्रं च स्पृशञ्जपेत्॥
श्रीरुद्रं रुद्राध्यामम् ।
षडङ्गसहितं सम्यग्जपेत्तद्रुद्रसंख्यया ।
बह्वृचो रुद्रमुक्तैर्वा च्छन्दोगा रुद्रसामगैः॥
रुद्रसूक्तानि चत्वारि। कद्रुदायेति, नवर्चमेकम्। इमा रुद्राय तव स, इत्यकादशर्च्चं द्वितीयम्। आ ते पित, रिति पश्चदशर्च्चं तृतीयम्। इमा रुद्राय स्थिरधन्वन, इति चतुर्ऋच चतुर्थम्। सामगस्तु–“आ वो राजान"मित्येकादश रुद्रसामानि जपेत्। बह्वृचसामगयोरयं विशेषः। श्रीरुद्रस्तु सर्वसाधारणः। यजुर्वेदिन एवं श्रीरुद्र इत्यन्ये। एकादशष्टत्रिद्व्येकसंख्यया शक्तितो जपेत्। एतत्सूक्तजपसंख्येयम्। श्रीरुद्रस्य संख्मान्तरव्याप्तत्वात्।
तत्राप्रतिरथं सूक्तं शतरुद्रानुवाककम् ।
अप्रतिरथसूक्त “माशुः शिशान” इति। रुद्रानुवाकः “त्वमग्ने
रुद्र” इत्यादिः ।
रक्षामन्त्रं तथा पुण्यं रक्षोघ्नं च स्पृशञ्जपेत् ।
रक्षामन्त्रो"रक्षा णो अग्न” इति। रक्षोघ्नंसूक्तं “रक्षोहण” मिति पञ्चविंशर्चम्।
त्रैयम्बकं जपेत्सम्यगष्टोत्तरसहस्रकम् ।
एकवारं तथा चापि पावमानीं स्पृशञ्जपेत्॥
संस्थाप्य पञ्चकुम्भांश्च द्वयं वा तदलाभतः॥
तथा रुद्रकलशो मध्ये स्थाप्यस्वस्य चतुर्दिक्षु चत्वारः स्थाप्यास्तत्र मध्ये रुद्रप्रतिमां सम्पूज्य तं कुम्भं स्पृशत्रुद्राध्यायंरुद्रसूक्तानि च जपेत्। इतरेषु पूर्वादिकुम्भेषु वरुणमावाह्य क्रमेणाप्रतिरथशतरुद्रानुवाकरक्षामन्त्रं रक्षोघ्नानि जपेत्। त्र्यम्बकेमध्ये एवेत्यर्थः। पावमानमपि चतुर्थ एव । अथ वा रुद्रकुम्भ एक इतरसूक्तजपार्थं द्वितीय इति कुम्भौ। यद्वा पञ्चमुखं एकमेव कुम्भं स्थापयित्वा पञ्चकुम्भेतिकर्तव्यता कार्येत्याह—
श्रीरुद्रस्यैव कुम्भस्य सर्वसूक्तानि तत्र तु ।
तथान्यं च शुभं कुम्भं पूर्वोक्तैर्लक्षणैर्युतम्॥
चतुःप्रस्रवणं कुर्यात्पञ्चवक्त्रं च तद्भवेत् ।
वस्त्रावगुण्ठितं कुर्यात्पूरयेत्तीर्थवारिणा॥
पञ्चरत्नसमायुक्तमाम्रपल्लवसंयुतम् ।
कुम्भस्य नैर्ॠते देशे होमस्थानं प्रकल्पयेत्॥
गोमयोल्लेपिते देशे कुर्यात्स्थण्डिलमुत्तमम् ।
कृत्वाग्निमुखपर्यन्तमुल्लेखादि स्वशाखतः॥
पूर्णपात्रनिधानान्तं कृत्वा पूजां समारभेत् ।
निष्कमानेन चार्द्धेन पादेनाथ स्वशक्तितः॥
प्रतिमां लक्षणेनैकां कारयित्वा विचक्षणः ।
यद्वा मूल्यं सुवर्णस्य स्थापयित्वा प्रपूजयेत्॥
सुवर्णं सर्वदैवत्यं सर्वदेवात्मकोऽनलः ।
सर्वदेवात्मको विप्रः सर्वदेवमयो हरिः॥
संस्मरेन्निर्ऋतिं श्यामं सुमुखं नरवाहनम् ।
रक्षोऽधिपं खड्गहस्तं दिव्याभरणभूषितम्॥
प्रतिमापूजनार्थाय वस्त्रयुग्मं प्रकल्पयेत् ।
पङ्कजं कारयेत्पूर्वं रक्ताभैर्व्रीहितण्डुलैः॥
चतुर्विंशद्दलोपेतं शुक्लैर्वा कर्णिकान्वितम् ।
तस्योपरि न्यसेत्पात्रं स्वर्णं वा रूप्यमृण्मयम्॥
शुद्धवस्त्रेण संच्छाद्य तत्र मूलानि निक्षिपेत् ।
तत्र कलशे इत्यर्थः। मूलानि शतमूलानि। तदलाभे तु—
विष्णुक्रान्ता सहदेवी तुलसी तु शतावरी ।
मूलानीमानि गृह्णीयाच्छतालाभे विशेषतः॥
स्थापयेत्कर्णिकामध्ये वस्त्रगन्धाद्यलङ्कृतम् ।
कूर्चहेमजलोपेतं कुङ्कुमौषधिसंयुतम् ।
कुम्भोपरि न्यसेद्विद्वान्मूलनक्षत्रदैवतम्॥
अधिप्रत्यधिदेवौ च दक्षिणोत्तरदेशयोः ।
अधिदेवं न्यसेदादाैज्येष्ठानक्षत्रदेवताम्॥
निर्ऋतिं स्थापयित्वाऽथ तद्दक्षिणदेशे इन्द्रं संस्थाप्य तदुत्तरत अब्देवतांस्थापयेदित्यर्थः। ततः प्रागादितश्चतुर्विंशतिदलेषु भूसंस्थेषु उत्तराषाढाद्यनुराधान्तानि नक्षत्राणि स्थापयित्वा प्रपूजयादित्याह—
उत्तराषाढ़ऋक्षाद्या अनुराधान्तमर्चयेत् ।
ऐन्द्र्यादीशानपर्यन्तं पूजयेत्स्वस्वनामतः॥
स्वलिङ्गोक्तैश्चमन्त्रैश्च प्रधानादीन्प्रपूजयेत् ।
स्वलिङ्गोक्ता मन्त्रा “मोषूण” इत्यादयः ।
पञ्चामृतेन संस्नाप्य आवाह्याथ समर्चयेत्॥
उपचारैः षोडशभिर्यद्वा पञ्चोपचारकैः।
रक्तचन्दनगन्धाद्यैःपुष्पैः कृष्णसितादिभिः॥
मेषशृङ्गादिधूपैश्च घृतदीपैस्तथैव च ।
सुरापोलिकमांसाद्यैर्नैवैद्यैर्भोजनादिभिः॥
मत्स्यमांससुरादीनि ब्राह्मणानां विवर्जयेत् ।
सुरास्थाने प्रदातव्यं क्षीरं सैन्धवमिश्रितम्॥
पायसं लवणोपेतं मांसस्थाने प्रकल्पयेत् ।
उक्तगन्धाद्यमावे तु यथालाभं समर्पयेत्॥
पुष्पाञ्जल्यन्तमभ्यर्च्य होमं कुर्याद्यथोदितम् ।
निर्वापप्रोक्षणादीनि चरोः कुर्याद्यथाविधि॥
हविर्गृहीत्वा विधिवन्निर्ऋतेश्च ऋचा हुनेत्।
मोषूणः परापरेति यन्ते देवीति वा पुनः॥
पायस घृतसंमिश्रं हुनेदष्टोत्तरं शतम् ।
समिदाज्यचरून्पश्चाच्छक्तिनःसंख्यया हुनेत्॥
अधिदेवतयोश्चैव जुहुयात्स्वस्वमन्त्रतः ।
चतुर्थ्यन्तैर्नमोन्तैश्च स्वाहान्तैश्च स्वमन्त्रकैः॥
नक्षत्रदेवताभ्यश्च पायसेन तु होमयेत् ।
कृणुष्वेति पञ्चदशभिर्जुहुयात्कृसरं ततः॥
गायत्र्या जातवेदसे त्र्यम्बकमिति क्रमात् ।
सीरा युञ्जन्ति तामग्निंवास्तोष्यत्यग्निमेव च॥
अग्नि “मग्निन्दूतं वृणीमह” इति मन्त्रसाम्यात् ।
क्षेत्रस्य पतिना गृणाना अग्निदूतं पुरो दधे॥
श्रीसूक्तेन तथा विद्वान् समिदाज्यचरुन्क्रमात् ।
अष्टोत्तरशतैर्वाथ अष्टाविंशतिभिः क्रमात्॥
अष्टाष्टसंख्ययावापि जुहुयाच्छक्तितो बुधः ।
त्वन्नःसोमेति पायसं जुहुयात्तु त्रयोदश॥
चतुर्गृहीतमाज्यं च या ते रुद्रेति मन्त्रतः ।
स्रुवेण जुहुयादाज्यंमहाव्याहृतिभिः क्रमात्॥
हुत्वा स्विष्टकृतं पश्चात्प्रायश्चित्ताहुतीर्हुनेत्।
आचार्यो यजमानो वा अग्नौ पुर्णाहुतिं हुनेत्॥
होमशेषं समाप्याथ जपेत्त्रैयम्बकं शतम् ।
रुद्रकुम्भोक्तमार्गेण रुद्रमन्त्रं स्पृशञ्जपेत्॥
धूपं दीपं च नैवेद्यं कुम्भयुग्मे निवेदयेत् ।
प्रसादयेत्ततो देवमभिषेकार्थमादरात्॥
तस्मिन् काले गृहातिथ्यं कर्तव्यं भृतिमिच्छता ।
पृथक् प्रशस्तं तेनैव नक्षत्रेष्ट्या सहैव वा॥
अभिषेकविधिं वक्ष्ये सर्वाचार्यैरुदीरितम् ।
भद्रासनोपविष्टस्य यजमानस्य ऋत्विजः॥
दारपुत्रसमेतस्य कुर्युःसर्वेऽभिषेचनम् ।
अक्षीभ्यामिति सूक्तेन पावमानीभिरेव च॥
आपो हि ष्ठेति नवभिरापइद्वाद्वयेन च ।
सहस्राक्ष ऋचेनापि देवस्य त्वेति मन्त्रकैः॥
शिवसङ्कल्पमन्त्रेण वक्ष्यमाणैश्च मन्त्रकैः ।
“योऽसौ वज्रधरे"त्यादिप्रयोगे वक्ष्यमाणा मन्त्राः—
तच्छंयोरभिषेक तु सर्वदोषोपशान्तिदम्॥
सर्वकामप्रदं दिव्यं मङ्गलानां च मङ्गलम् ।
वस्त्रान्तरितकुम्भाभ्यां पश्चात्तू स्नपयेद्बुधः॥
ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः ।
यजमानो दक्षिणाभिस्तोषयेदृत्विगादिकान्॥
धेनुं पयस्विनीं दद्यादाचार्याय सवत्सकाम् ।
निर्ऋतिप्रतिमां वस्त्रं कुम्भं हेम च दापयेत्॥
ग्रहार्थवस्त्रप्रतिमा तत्तद्गोभूश्च दापयेत् ।
श्रीरुद्रजापिने देयः कृष्णोऽनड्वान्प्रयत्नतः॥
तत्कुम्भवस्त्रप्रतिमां तस्मै दद्यात्प्रयत्नतः ।
इतरेभ्योऽपि विप्रेभ्यः शक्त्या दद्याच्च दक्षिणाम्॥
उक्तालाभेततो दद्यादाचार्यब्रह्मऋत्विजाम् ।
तत्तन्मूल्यंप्रदातव्यं शक्त्यावाथ प्रकल्पयेत्॥
आचार्याय च यद्दत्तंतदर्द्धं ब्रह्मणे भवेत् ।
सदस्याय ब्रह्मणोऽर्द्धमृत्विग्भ्यश्च तदर्धकम्॥
गृह्णीयादाशिषस्तेभ्यः प्रणम्याथ क्षमापयेत् ।
दद्यादन्नंपायसादि ब्राह्मणान्भोजयेच्छतम्॥
अलाभेसति पंचाशद्दशकं तदलाभतः ।
सर्वशान्तेश्च पठनं ब्राह्मणैराशिषस्तथा॥
गृही क्षमापयेद्विद्वाभिर्ऋतिः प्रीयतामिति ।
विधाने चरितेऽस्मिँस्तु ततः शान्तिर्भवेद्ध्रुवम्॥
गण्डन्तेऽप्येवं कर्तव्यं पुष्यार्थन्तद्वदेव तु ।
समाष्टके द्वादशाहे कुर्याद्वा शान्तिमादरात्॥
इत्युक्तं मनुना सम्यङ्मूलजातहिताय च ।
मातापित्रोर्धनस्यापि बन्धुशोकोपशान्तये॥
( इति शौनकीये मूलशान्ताैमूलवाक्यानि )
अथास्य स्पष्टप्रयोगो लिख्यते। तत्र समे देशेऽष्टहस्तादिकं मण्डपं कुण्डं वा कृत्वा तन्मध्ये स्थण्डिलं कुण्डं वा कुर्यात्। यथोक्तकालेगोमुखप्रसवं कृत्वा, कृतसामग्रीको यजमानः सपत्नीकः पीठे उपविश्य, प्राणानायम्य देशकालौ स्मृत्वा “ममास्य कुमारस्य कुमार्या वा मूलप्रथमचरणादिजननसूचितपित्ररिष्टादिशान्तिद्वारा श्रीपरमेश्वरप्रीत्यर्थं नवग्रहमखसहितां मूलशान्तिंकरिष्ये” इति सङ्कल्प्य गणेशपूजनपुण्याहवाचनमातृकापूजननान्दीश्राद्धान्तं कृत्वा आचार्यं ब्रह्माणं सदस्यं ऋत्विजोऽष्टौ चतुरो वा कृत्वा मधुपर्कादिना पूजयेत्। आचार्य प्राणानायम्य देशकालौ स्मृत्वा “अस्मिन् कर्मणि आचार्यकर्म करिष्ये।”
यदत्र संस्थितं भूतं स्थानमाश्रित्य सर्वदा ।
स्थानं त्यक्त्वा तु तत्सर्वं यत्रस्थं तत्र गच्छतु॥
अपक्रामन्तु भूतानि पिशाचाःसर्वतो दिशम् ।
सर्वेषामविरोधेन यज्ञकर्म समारभेत्॥
इति मन्त्रेण सर्वत्र सर्षपन्विकीर्य “आपो हि ष्ठा"दिमन्त्रैः कर्मभूमिं सम्प्रोक्ष्य। मण्डपपक्षेदेवताः पूजयित्वा मण्डपस्येशानवेशे पञ्चव-
णकैः स्वस्तिकं कृत्वा, तत्र“महीद्याै” रिति भूमिं स्पृष्ट्वा"ओषधयः स"मिति द्रोणप्रमाणान् व्रीहीन् प्रक्षिप्य, तत्र “आजिघ्रे"ति कलशं संस्थाप्य, “वरुणस्योत्तम्भन"मिति तीर्थवारिणाऽऽपूर्य, “त्वां गन्धर्वे"ति गन्ध प्रक्षिप्य, “अक्षन्नमीमदन्ते"ति अक्षतान्, “या ओषधी”रितिसर्वाैषधीः, “काण्डात्काण्डा"दिति दूर्वा, “अश्वत्थेव” इति पञ्चपल्लवान्, “स्योना पृथिवी"ति सप्तमृदः, “याः फलिनी"रिति फलम्, “परि वाजपति” रिति पञ्चरत्नानि, “हिरण्यगर्भ"इति हिरण्यम् श्वेतसर्षपकुसुमम्,“यदश्वाय व्वास” इति वस्त्रयुग्मेनावेष्ट्य, “पूर्णा दर्व्वी"ति कलशोपरि ताम्रपात्रमयं पूर्णपात्रं निधाय, तदुपरि सुवर्णनिर्मितां अग्न्युत्तारणपूर्वकं रुद्रप्रतिमां संस्थाप्य “त्र्यम्बक"मिति मन्त्रेण आवाहनादिषोडशोपचारैः पूजयेत्। तत एक ऋत्विजः कुशैः कुम्भं स्पृष्ट्वा न्यासपूर्विकां रुद्रैकादशनीं जपेत्। द्वितीय ऋत्विक् तमेव कुम्भं स्पृष्ट्व। “आशुः शिशान” इति त्रयोदशर्चं जपेत्। तृतीय ऋत्विक् “कृणुष्व पाज” इति पञ्चर्चं जंपेत्। ततस्तस्य कुम्भस्योत्तरतश्चतुर्विंशतिदलं पङ्कज पञ्चवर्णैः शुक्रतण्डुलपिष्टेन वा कृत्वा तत्र मध्ये अष्टदलं कृत्वा तत्र कर्णिकायां पूर्वमन्त्रैः चतुःप्रस्रवणयुक्तं कलशं स्थापयित्वा, तस्मिन्कलशे “धान्यमसी” ति सप्तधान्यानि। “या ओषधी"रिति मन्त्रेण शतौषधीमूलानि पञ्चरत्नानि पचामृतपञ्चगव्यानि च प्रक्षिपेत्। कलशस्योपरि ताम्रमयं पूर्णपात्रं न्यस्य तस्योपरि वंशपात्रं स्थापयित्वा तदुपरि अष्टदलयुक्तवस्त्रं स्थापयेत्। तत्र कार्णेकायांसुवर्णनिर्मिता मूलप्रतिमां संस्थापयेत्। “मनो जूति"रिति मन्त्रेण प्रतिष्ठा कार्या। ततो मूर्ताै प्राणप्रतिष्ठा कर्तव्या।
<MISSING_FIG href=”../books_images/U-IMG-1695884919Screenshot2023-09-281238040.png”/>
इत्यनेन प्रतिमायां प्राणधारणं कुर्यात्। अथ पञ्चगव्यस्नानम्। गायत्र्या गोमूत्रम्।
“गन्धद्वारे"ति गोमयम्। “आप्यायस्वे"ति क्षीरम्। “दधिक्राव्ण’ इति दधि। “घृतं मिमिक्षे” इति घृतम्। “देवस्य त्वे"ति कुशोदकम्। पुरुषसूक्तेन शुद्धोदकस्नानम्।
<MISSING_FIG href=”../books_images/U-IMG-1697423692Screenshot(26”/>.png)
इति मन्त्रेण पीठोपरि निधापयेत्। हस्ते पुष्पाण्यादाय। तत्र “प्राणप्रतिष्ठामन्त्रस्य ब्रह्मविष्णुरुद्रा ऋषयः ऋग्यजुःसामानि च्छन्दांसिचित्स्वरूपिणी प्राणशक्तिर्देवता आँ बीजं ह्रीँ शक्तिः क्राँकीलकं मम प्राणप्रतिष्ठापने विनियोगः। ॐआंह्रींक्रोंयंरंलंवंशंषंमंहंलंक्षंसोहहंसः मूलाधिष्ठतदेवस्य प्राणा इह प्राणाः”। पुनर्मन्त्रं पठेत् “मूलाधिष्ठितदेवस्य जीव इह स्थितः”। पुनर्मन्त्रं पठेत् “मूलाधिष्ठितदेवस्य सर्वेन्द्रियाणि”।पुनर्मन्त्रं पठेत् “मुलाधिष्ठितदेवस्य वाङ्मनश्चक्षुःश्रोत्रघ्राणपाणिपादप्राणा इहागत्य सुखं चिरं तिष्ठन्तु स्वाहा”। अथ ध्यानम् —
नरारूढ महाकायंखड्गहस्तं महावलम् ।
पीताम्बरधरं देवं बहुराक्षसवेष्टितम्॥
अथावाहनम्—
असुर ! त्वमिहागच्छ रक्षोगणसमन्वितः ।
शक्तिशूलधरो नित्यं रक्ताक्षश्च महाबलः।
हिरण्यपाशभृद्देव ! पूजां स्वीकुरु मे विभो !॥
<MISSING_FIG href=”../books_images/U-IMG-1695891689Screenshot2023-09-28143103..png”/>
इत्यावाह्य स्थापयेत्। तद्दक्षिणतः अधिदेवताम् ।
शचीपते ! महाबाहो ! सर्वाभरणभूषित ! ।
आगच्छ भगवन्निन्द्र ! पूजेय प्रतिगृह्यताम्॥
“ॐ सजोषा इन्द्र०” इतीन्द्रम्। तदुत्तरतः प्रत्यधिदेवताम्।
आपस्त्वायान्तु सततं पवित्रा मङ्गलावहाः ।
समागच्छत यूयं वै कुर्वन्त्वस्मिह्निसन्निधिम्॥
“ॐआपो हिष्ठा॰” इति आपः। ततो भूमिस्थचतुर्विंशतिदले प्रागादित उत्तराषाढाद्यनुराधान्तानि नक्षत्राणि तत्तद्देवताः स्थापयेत्। ताश्चैवम् —
आवाहयामि देवेशान्विश्वेदेवान्महाबलान् ।
सौम्यमूर्त्तिधरान्देवान्नानावस्तुविराजितान्॥
<MISSING_FIG href=”../books_images/U-IMG-1695893287Screenshot2023-09-28145307व.png"/>
पद्मनाभ ! हृषीकेश ! कंसचाणूरमर्द्दन! ।
आगच्छ भगवन्विष्णो ! पूजेयं प्रतिगृह्यताम्॥
<MISSING_FIG href="../books_images/U-IMG-1695893141Screenshot2023-09-28145501त.png"/>
आवाहयामि देवेशान्वसूनष्टौमहाबलान्।
सौम्यमूर्तिधरान्देवान्दिव्यायुधकरान्वितान्॥
शुद्धस्फटिकसंकाशान्नानावस्त्रविराजितान् ।
अश्वारूढान्दिव्यवस्त्रान्सर्वालङ्कारभूषितान् ।
<MISSING_FIG href="../books_images/U-IMG-1695892833Screenshot2023-09-28144932.png"/>
आवाहयामि देवेशं सलिलस्याधिपं प्रभुम् ।
शङ्कपाशधरं सौम्यं वरुणं यादसां पतिम्॥
कुम्भीरथसमारूढं मणिरत्नसमन्वितम्॥
<MISSING_FIG href="../books_images/U-IMG-1697424940Screenshot(28.png"/>
ततः—
आवाहयामि देवेशं सर्वावयवसुन्दरम् ।
अजैकपादनामानं सर्वालङ्कारभूषितम् ।
<MISSING_FIG href="../books_images/U-IMG-1697424998Screenshot(29.png"/>
आवाहवामि देवेशमहिर्बुध्न्यं सुरैर्नृतम् ।
सर्वाङ्गसुन्दरं देवं सर्वाभरणभूषितम्॥
<MISSING_FIG href="../books_images/U-IMG-1697425177Screenshot(30.png"/>
आवाहयामि देवेशं पद्महस्त महाबलम् ।
रक्तवस्त्रपरीधानं विद्युद्वर्णं महाबलम्॥
आगच्छ भगवन्पूपन्क्षेत्रेऽस्मिन्सन्निधो भव ।
<MISSING_FIG href="../books_images/U-IMG-1697425495वोतत.png"/>
कामदेवसमाैरूपौ देवानामपि दुर्लभाै।
आयुर्विद्यातिविमलावश्विनावावाहयाम्यहम्॥
<MISSING_FIG href="../books_images/U-IMG-1697425598वोतत1.png"/>
सूर्यपुत्रं सदैवोग्रं महिषे समधिष्ठितम् ।
यमुना भगिनी यस्य यममावाहयाम्यम्॥
<MISSING_FIG href="../books_images/U-IMG-1697425649वोतत2.png"/>
अग्निर्देवमुखो नित्यं बभ्रुः पिङ्गललोचनः ।
वाहनं यस्य वै मेषो अग्निमावाहयाम्यहम्॥
“ॐ अ॒ग्निन्दू॒तपु॒रो द॑धे हव्य॒वाह॒मुप॑ब्रुवे । दे॒वाँ आ सा॑दयादि॒ह"॥
आवाहयामि देवेशं ब्रह्माणममितौजसम् ।
देवज्येष्ठं देवनिधिं ब्रह्म आवाहयाम्यहम् ।
<MISSING_FIG href="../books_images/U-IMG-1695895371Screenshot2023-09-28153223ह.png"/>
आवाहयामि देवेशं चन्द्रं चैव सितप्रभम् ।
शक्तिपाणिं गदाशूलं शशाङ्ग यस्य वाहनम्॥
<MISSING_FIG href="../books_images/U-IMG-1695895499Screenshot2023-09-28153426रा.png"/>
आवाहयामि देवेशं रुद्रं त्रिभुवनेश्वरम् ।
रुण्डमालाजटाजूटं त्रिनेत्रं चन्द्रशेखरम्॥
<MISSING_FIG href="../books_images/U-IMG-1695895703Screenshot2023-09-28153759हि.png"/>
आवाहयामि तान्देवीमदितिं देवमातरम् ।
द्विभुजां पद्महस्तां च सर्वाभरणभूषिताम्॥
कश्यपस्य प्रियां भार्यां सुरूपांवामलोचनाम् ।
आगच्छ ह्यदिते ! त्वं हि क्षेत्रेऽस्मिन्सन्निधा भव॥
<MISSING_FIG href="../books_images/U-IMG-1695895999Screenshot2023-09-28154244ज.png"/>
आवाहयामि देवेशं त्रयस्त्रिंशद्गुरोर्गुरुम् ।
बृहस्पतिं सुराचार्यं ब्रह्मजातिं चतुर्भुजम्॥
सिन्धुदेशेऽङ्गिरोगोत्रमक्षसूत्रकमण्डलुम् ।
<MISSING_FIG href="../books_images/U-IMG-1695896222Screenshot2023-09-28154630स.png"/>
<MISSING_FIG href="../books_images/U-IMG-1695896635Screenshot2023-09-281553091.png"/>
आवाहयेच्च तं नागं फणासप्तसंयुतम्॥
आगच्छोरगराज ! त्वं क्षेत्रेऽस्मिन्सन्निधो भव ।
<MISSING_FIG href="../books_images/U-IMG-1695896766Screenshot2023-09-281555210.png"/>
पितृनावाहयिष्यामि सोमपाद्याननुक्रमात्॥
पिङ्गाक्षान् पिङ्गलजटान्हस्ते कुशकमण्डलून् ।
दधानान्सितवस्त्राणि सितयज्ञोपवीतिनः॥
गृह्णानान्कृसरान्नंच पितॄन्सम्पूजयाम्बहम् ।
<MISSING_FIG href="../books_images/U-IMG-1695897045Screenshot2023-09-28160018त.png"/>
आवाहयामि देवेशं भगाकारं महावलम् ।
महावीर्यं भगन्देवमश्वत्थदलसन्निभम्॥
<MISSING_FIG href="../books_images/U-IMG-1695897195Screenshot2023-09-28160250क.png"/>
अर्थमन्कुरु मे भद्रं संज्ञया सह सर्वदा ।
गृहाणेमा मया दत्तां पूजां देव ! नमोऽस्तु ते॥
<MISSING_FIG href="../books_images/U-IMG-1695897386Screenshot2023-09-28160602य.png"/>
आवाहयामि देवेशं भास्करं तिग्मतेजसम् ।
कलिङ्गं काश्यपं रक्तं सप्ताश्वसप्तरज्जुकम्॥
द्विभुजं पद्महस्तं च त्रैलोक्यतिमिरापहम् ।
सर्वसौख्यप्रदातारं कर्मसाक्षिणमीश्वरम् ।
आगच्छ भगवन्सूर्य ! क्षेत्रेऽस्मिन्सन्निधो भव॥
<MISSING_FIG href="../books_images/U-IMG-1695898304Screenshot2023-09-28162120य.png"/>
आवाहयामि देवेशं विश्वकर्माणमीश्वरम् ।
मूर्तामूर्तकरं देवं सर्वकर्तारमीश्वरम्॥
त्रैलोक्यसूत्रकर्तारं द्विभुजं सर्वदर्शिनम् ।
आगच्छ विश्वकर्मँस्त्वं क्षेत्रेऽस्मिन्सन्निधो भव ।
<MISSING_FIG href="../books_images/U-IMG-1695898527Screenshot2023-09-28162501ज.png"/>
आवाहयामि देवेशं भूतानान्देहधारिणम् ।
आगच्छ भगवन्वायो ! क्षेत्रेऽस्मिन्सनिधोभव॥
<MISSING_FIG href="../books_images/U-IMG-1695899872Screenshot2023-09-28164722ओ.png"/>
आवाहयामि देवेशौ शतसूर्यसमप्रभाै।
रक्तपीताम्बरधरौ सर्वावयवशोभिनौ॥
<MISSING_FIG href="../books_images/U-IMG-1695899724Screenshot2023-09-28164456आ.png"/>
मित्र ! त्वमेह्येहि तमोपशान्त्यै पद्मासनः पद्मकरोऽसि नित्यम् ।
गृहाण पूजां घृतमोदकादि मित्रो न मन्त्रैर्भगवन्नमस्ते॥
<MISSING_FIG href="../books_images/U-IMG-1695899616Screenshot2023-09-28164305अ.png"/>(१)28 ।
एवमाबाह्य षोडशोपचारैः पृथक् पृथक् पूजयेत्। पायसं लवणोपेतं ससैन्धवं दुग्धं नैवेद्यम्। ततो नैर्ऋत्यदेशे पञ्चभूसंस्कारपूर्वकं अग्नि स्थापयित्वा तदीशानभागे साधिप्रत्यधिदैवतनवग्रहानावाह्य पूजयित्वा पञ्चलोकपालांश्च पूजयेत्। अथ देवताभिध्यानम् —“प्रजापतिम्, इन्द्रम् अग्निम्, सोमम् एता आज्येन। आदित्यम्, सोमम्, भौमम्, बुधम्, बृहस्पतिम्, शुक्रम्, शनैश्चरम्, राहुम्, केतुम्, अर्कादिसमिद्भिः आज्यचरुतिलैः। ईश्वरं, उमां, स्कन्दं, विष्णु, ब्रह्याणं, इन्द्रं, यमं, कालं, चित्रगुप्त, इत्यधिदेवताः। अग्निं, अपः, धरां, विष्णुं, इन्द्रं, इन्द्राणीं, प्रजापतिं, सपान्,ब्रह्माणं, इति प्रत्यधिदेवताः। विनायक, दुर्गां, वायुं, आकाशं, अश्विनौ इति लोकपालांश्च अमुकसंख्याभिः पलाशसमिद्भिः एकैकचर्वाज्याहुत्या जपदशांशेन तिलाद्युपकल्पितद्रव्येण। अत्र प्रधानं, निऋतिं, घृतमिश्रितपायससमिदाज्यचर्वाहुतिभिः प्रतिद्रव्यमष्टाविंशतिसंख्यया। तथा अधिदेवतां इन्द्रं, प्रत्यधिदेवताः अपःघृतमिश्रितपायससमिदाज्यचरुद्रव्यैरष्टाष्टसंख्याभिः। अथावरणदेवताः उत्तराषाढां, अभिजितम् श्रवणं, धनिष्ठां शततारका, पूर्वाभाद्रपदां, उत्तराभाद्रपदां, रेवतीं, अश्विनीं, भरणीं, कृत्तिकां, रोहिणीं, मृगशिरस, आर्द्रां, पुनर्वसुं, पुष्यं, आश्लेषां, मघां, पूर्वां, उत्तरां, हस्तं, चित्रां, स्वातिं, विशाखां, अनुराधां, यद्वा - विश्वान्देवान्, विधिं, विष्णुं, वसून्, वरुणं, अजैकपादं, अहिर्बुध्न्यं, पूषणं, अश्विनौ, यमं, अग्निं, ब्रह्माणं, चन्द्रमसं, रुद्रं, अदितिं, बृहस्पतिं, सर्पान्, पितॄन्, भगं, अर्यमणं, सूर्यं, त्वष्टारं, मरुतः, इन्द्राग्नी, मित्रं, प्रत्येकमष्टसंख्याभिःपायसाहुतिभिः। रक्षोहणं, कृणुष्वे,ति पञ्चदशभिः प्रत्यृचमष्टसंख्याभिः। सवितारं, दुर्गा, त्र्यम्बकं, ऋत्विकस्तुतिदेवतां, दुर्गां, वास्तोष्पतिं, क्षेत्राधिपतिं, मित्रावरुणौ, अग्निं, च एताःप्रत्येकमष्टसंख्याभिःकृसराहुतिभिः। श्रियं, हिरण्यवर्णामिति पञ्चदशर्ग्भिःप्रत्यृचमष्टसंख्याभिः समिदाज्यचर्वाहुतिभिः। सोमं,
त्रयोदशवारं पायसाहुतिभिः । रुद्रं चतुर्गृहीतेनाज्येन अग्नि, वायुं, सूर्यं, प्रजापतिं, एकैकयाऽऽज्याहुत्या। शेषेणाग्निं स्विष्टकृतं, अग्निं, वायुं, सूर्यं, अग्नीवरुणौ२, अग्निं, वरुणं, सवितारं, विष्णुं विश्वान्देवान्, मरुतः, स्वर्क्कान्, वरुणं, प्रजापतिं, एता अङ्गप्रधानार्थदेवता आज्येनास्मिन्कर्मण्यहं यक्ष्ये”। अग्नेर्दक्षिणतो ब्रह्मासनास्तरणम्। तत्र ब्रह्मोपवेशनम्। प्रणीताप्रणयनम्। अग्नेःपरिस्तरणम्। अर्थवत्पात्रासादनम्। अग्नेः पश्चादुत्तरतो वा पवित्रच्छेदनानि त्रीणि। पवित्रे द्वे। प्रोक्षणीपात्रम्। आज्यस्थाली। चरुस्थाली। सम्मार्गकुशाः। उपयमनकुशाः। समिधस्तिस्रः। स्रुवः। आज्यम्। तण्डुलाः। अर्कादिसमिधः। तिलाः। पूर्णपात्रम्। दक्षिणाः। पवित्रच्छेदनैः पवित्रीकरणम्। प्रोक्षणीपात्रे प्रणीतोदकमासिच्य। पवित्राभ्यामुत्पवनम्। पवित्रयोः प्रोक्षणीषु निधानम्। प्रोक्षणीनां सव्यहस्तकरणम्। प्रणीतोदकेन प्रोक्षणीनां प्रोक्षणम्। प्रोक्षण्युदकेनासादितवस्तुप्रोक्षणम्। असञ्चरे प्रोक्षणीनां निधानम्। आज्यस्थाल्यामाज्यनिर्वापः। चरु-स्थाल्यांचरुनिर्वापः। आज्याधिश्रयणम्। चरोरधिश्रयणम्। पर्यग्निकरणमुभयोः। शते चरौ स्रुवस्य प्रतपनम्। संमार्गकुशैः स्रुव सम्मृज्य। प्रणोतोदकेनाभ्युक्षणम्। पुनः प्रतपनम्। दक्षिणतो निधानम्। आज्योद्वासनम्। चरोरुद्वासनम्। आज्योत्पवनम्। अवेक्षणम्। अपद्रव्यनिरसनम्। प्रोक्षण्युत्पवनम्। उपयमनकुशादानम्। तिष्ठत्समिदाधानम्। प्रोक्षण्युदकेन प्रदक्षिणं पर्युक्षणम्। पवित्रयोः प्रणीतासु निधानम्। अथ दक्षिणं जान्ववाच्य जुहोति। स्थाने उपविष्टो ब्रह्मणा कुशैरम्वारब्धः स्रुवेण जुहोति समिद्धतमे। “ॐप्रजापतये स्वाहा। इदं प्रजापतये न मम। ॐ इन्द्राय स्वाहा। इदमिन्द्राय न मम। ॐ अग्नये स्वाहा। इदमग्नये न मम। ॐसोमाय स्वाहा। इदं सोमाय न मम। ततो यजमानेन द्रव्यत्यागः कार्यः। स च बहुकर्तृके यथाकाले प्रत्याहुतित्यागस्य कर्तुमशक्यत्वात्सर्वमेव होमजातं मनसा ध्यात्वा देवताश्च “इदं यथा दैवतमस्तु न ममे"त्येवरूपः। अथवा “इदं सम्पादितं समि-
च्चर्वाज्यतिलादिद्रव्यं यथा त्यक्तमि”ति द्रव्यत्यागः। ततः सर्त्त्विगाचार्यो जुहुयात्, तद्यथा आज्यतिलचरुद्रव्यैः स्वस्वसामीद्भिः “ॐआकृष्णेन०१ । इमन्देवा०२ । अग्निर्मूर्द्धा०३ । उद्बुध्यस्वाग्ने०४ । बृहस्पते अति०५ । अन्नात्परिस्रुतो०६ । शन्नो देवी०७ । कयानश्चित्र०८ । केतुं कृण्वन्०९” पालाशसमिद्भिः चर्वाभ्यद्रव्यैः “ॐ त्र्यम्बकं०१ । श्रीश्चते०२ । अक्रन्ददग्निः३ । इदं विष्णु०४ । ब्रह्म जज्ञानं० ५ । त्रातारमिन्द्रम्०६ । यमाय त्वाङ्गिर० ७ । कार्षिरसि० ८ । इन्धानास्त्वा० ९” इत्यधिदेवताः । “ॐ अग्निन्दूतं ०१ । आपो हिष्टा०२ । मही द्यौः०३ । इदं विष्णु०४ । त्रतरमिन्द्र०५ । अदित्यै रास्नासी०६ । प्रजापते न त्व०७ । नमोऽस्तु सर्पेभ्यो०८ । ब्रह्म जज्ञानं०९" इति प्रत्यधिदेवताः। “ॐ गणानान्त्वा ०१ । अम्बेऽअम्बिके०२ । आ नो नियुद्भिः ०३। या वाङ्कशा०४ । अश्विना तेजसा०५" इति पञ्चलोकपालाः। तिलाज्याद्युपकल्पितद्रव्येण जपदशांशहोमः। अत्र प्रधानं घृतमिश्रितपायससमिदाज्यचर्वाहुतिभिः प्रतिद्रव्यमष्टाविंशतिभिः समिद्भिः“ॐ मोषूण इन्द्रात्र पृत्सु०" । अथवा नाममन्त्रेण तैरेव द्रव्यैः “ॐ सजोषा इन्द्र०" इत्यनेन अष्टाहुतयः। “ॐ आपो हि ष्ठा०" इत्यनेनापि अष्टाहुतयः नाममन्त्रेण वा। इत्यधिदेवताप्रत्यधिदेवताः। अथावरणदेवताहोमः। प्रत्येकमष्टसंख्याः पायसाहुतयः, ता यथा “ॐ व्विश्वेदेवास०१ । इदं व्विष्णु०२ । व्वसवस्त्वा धूपयन्तु०३ । इमम्मे वरुण०४ । ऋतधामासि०५ । उतनोऽर्हिबुध्न्यः०६ । पूषन्तवव्रते७ । अश्विना तेजसा०८ । यमाय त्वाऽङ्गिरस्वते०९ । अग्निन्दूतं० १० । ब्रह्म जज्ञानं० ११। इमन्देवा० १२। या ते रुद्र० १३ । अदितिर्द्याैरदिति० १४ । व्वाचस्पतये ० १५ । नमोऽस्तु सर्पेभ्यो०१६ । उशन्तस्त्वा० १७ । भग प्रणेत० १८ । अर्यमणं० १९ । सविता प्प्रथमे० २० । व्विश्वकर्मन्हविषा० २१ । आ नो नियुद्भिः० २२ । इन्द्राग्नी आगतँ सुतं० २३ । मित्रो
न एहि० २४"। कtसरान्नेन “ॐ कृणुष्व पाजः प्रसितिन्न पृथ्वीं याहि राजेवामाँ ३ इभेन। तृष्वीमनु प्रसितिन्द्रूणानोऽस्तासि व्विध्य रक्षसस्तपिष्ठैः स्वा० १ । तव ब्भ्रमास आशुयापतन्त्यनु स्पृश धूषता शोशुचानः। तपू<MISSING_FIG href=”../books_images/U-IMG-1697510203Screenshot(14"/>.png)ष्यग्ने जुह्वपितङ्गानसन्दितो व्विसृज व्विष्वगुल्काः स्वा० २ । प्रति स्पशो व्विसृज तूर्णितमो भवा पायुर्विशो अस्या अदब्धः। यो नो दूरे अधश<MISSING_FIG href="../books_images/U-IMG-1697510203Screenshot(14"/>.png)सो योऽअन्त्यग्ने माकिष्टे व्यथिरादधर्षीत् स्वा० ३ । उदग्ने तिष्ठ प्रत्यातनुष्व न्यमित्राँ ३ ओषतात्तिग्महेते । यो नो अराति<MISSING_FIG href="../books_images/U-IMG-1697510203Screenshot(14"/>.png)समिधान चक्रे नीचातन्धक्ष्यतसन्न शुष्कम् स्वा० ४ । ऊर्ध्वो भव प्रति विध्याध्यस्मदाविष्कृणुष्व देव्यान्न्यग्ने। अवस्थिरा तनुहि यातुजूनाञ्जमिमजाभिम्प्रमृणीहि शत्रून्। अग्नेष्ट्वातेजमा सादयामि स्वा० ५ । अग्निर्मूर्द्धा दिवः ककुत्पतिः पृथिव्याऽअयम्। अपा<MISSING_FIG href="../books_images/U-IMG-1697510203Screenshot(14"/>.png)रेता<MISSING_FIG href="../books_images/U-IMG-1697510203Screenshot(14"/>.png)सि जिन्वति। इन्द्रस्य त्वौजसा सादयामि स्वा० ६ । भुवो यज्ञस्य रजसश्चनेता यत्रा नियुद्भिः सचसे शिवाभिः। दिवि मूर्द्धानन्ददधिषे स्वर्षांजिह्वामग्ने चकृषे हव्यवाहम् स्वा० ७। ध्रुवासि धरुणास्तृता विश्वकर्मणा। मा त्वा समुद्र उद्वधीन्मा सुपर्णो व्यथमाना पृथिवीन्दृ<MISSING_FIG href="../books_images/U-IMG-1697510203Screenshot(14"/>.png)ह स्वा० ८ । प्रजापतिष्ट्वासादयत्वपाम्पृष्ठे समुद्रस्येमन्। व्यचस्वतीम्प्रथस्वतीम्प्रथस्व पृथिव्यसि स्वा० ९ । भूरसि भूमिरस्यादितिरसि व्विश्वधाया व्विश्वस्य भुवनस्य धर्त्री। पृथिवीं यच्छ पृथिवीन्दृ<MISSING_FIG href="../books_images/U-IMG-1697510203Screenshot(14"/>.png)हपृथिवीम्मा हि<MISSING_FIG href="../books_images/U-IMG-1697510563Screenshot(21"/>.png)सीः स्वा० १० । विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय। अग्निष्ट्वाभि पातु मह्या स्वस्त्या च्छर्द्दिषा शन्तमेन तयादेवतयाङ्गिरस्वद्ध्रुवासीद स्वा० ११ । काण्डात्काण्डात्प्ररोहन्ती परुषः परुषस्परि । एवा नो दूर्वेप्र तनु सहस्रेण शतेन च स्वा•१२ । या शतेन प्रतनोषि सहस्रेण व्विरोहसि। तस्यास्ते देवीष्टके व्विधेम हविषा व्वयम् स्वा० १३ । यास्ते अग्ने सूर्ये रुचो दिवमातन्वन्ति रश्मिभिः। ताभिर्न्नोऽअद्य सर्वाभीरुचे जनाय नस्कृधिस्वा० १४ ।
या वो देवाः सूर्ये रुचो गोष्वश्वेषु या रुचः। इन्द्राग्नी ताभिः सर्वाभी रुचन्नो धत्त बृहस्पते स्वा० १५" इति प्रत्त्यूचमष्टसंख्यया हुत्वा, “ॐ तत्सवितुर्व्वरे०८ । इदं सवित्रे० । ॐ जातवेदसे सुनवाम सोममरातीयतो नि दद्दाति वेदः। स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुन्दुरितात्याग्निः स्वा० ८ । इदं जातवेदसे । ॐ त्र्यम्बकं यजामहे ० ८। इदं रुद्राय०। ॐ सीरा युञ्जन्ति कवयो युगा वितन्वते पृथक्। धीरा देवेषु सुम्म्नया स्वा० ८। इदं ऋत्विक्स्तुतिदेवतायै । ॐ तामग्निवर्णां तपसा ज्वलन्तीं परिरोचनीं कर्मफलेषु जुष्टाम्। दुर्गां देवीं शरणमहं प्रपद्ये सुतरसि तरसे नमः सुतरसि तरसे नमः ८। इदं दुर्गायै०। ॐ वास्तोष्पते प्रतीजानीह्यस्मान्स्वावेशो अनमीवो भवा नः। यत्वेमहेप्रति तन्नो जुषस्व शन्नो भव द्विपदे शञ्चतुष्पदे स्वाहा ८। इद वास्तोष्पतये०। ॐ अग्निः कण्वो मेधातिथिमग्निः सातमुपस्तुतम् । अग्निना दुर्वशं यदुं परावत उग्रा देवं हवामहे स्वा०। इदमग्नये। ॐ क्षेत्रस्य पतिना वयं हितेनेव जयामसि। गामश्वं पोषयित्वा स नो मुलातीदृशे स्वा०। इदं क्षेत्रपालाय०। ॐ गूणाना जमदग्निवत्स्तुवाना च वशिष्ठवत्। जनीयन्तो न्वग्रवः पुत्रीयन्तः सुदानवः सरस्यन्तं हवामहे०। इदं मित्रावरुणाभ्यां० । ॐ अग्निन्दूतं वृणीमहे होतारं विश्ववेदसम्। अस्य यज्ञस्य सुक्रतुम्०। इदमग्नये०। ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम्। चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो ममावह १। तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्। यस्या हिरण्यं विन्देयं गामश्वं पुरुनहम् २। अश्वपूर्णां रथमध्यां हस्तिनादप्रमोदिनीम्। श्रियं देवीमुपह्वये श्रीर्मा देवीर्जुषताम् ३। कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तान्तर्पयन्तीम्। पद्मे स्थितां पद्मवर्णान्तामिहोपह्वये श्रियम् ४। चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम्। तां पद्मिनीमीं शरणमहं प्रपद्ये अलक्ष्मीर्मे नश्यतां त्वां
वृणोमि ५। आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः। तस्य फलानि तपसा नुदन्तु मा या अन्तरा याश्च बाह्या अलक्ष्मीः ६। उपैतु मान्देवसखः कीर्तिश्च मणिना सह। प्रादुर्भूतोऽसुराष्ट्रेस्मिन्कीर्ति वृद्धिं ददातु मे ७। क्षुत्पिपासामला ज्येष्ठा अलक्ष्मीर्नाशयाम्यहम्। अभूतिमसमृद्धिं च सर्वा निर्णुद मे गृहात् ८। गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्। ईश्वरीं सर्वभूताना तामिहोपह्वये श्रियम् ९। मनसः काममाकूतिं वाचः सत्यमशीमहि। पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः १०। कर्दमेन प्रजाभूता मयि सम्भ्रम कर्दम !। श्रियं वासय मे कुले मातरं पद्ममालिनीम् ११। आपः स्रजन्तु स्निग्धानि चिक्लीत ! वस मे गृहे। नि च देवीं मातरं श्रियं वासय मे कुले १२। आर्द्रां पुष्करिणीं पुष्टिं सुवर्णां हेममालिनीम्। सूर्यां हिरण्ययीं लक्ष्मीं जातवेदो ममावह १३। आर्द्रां यः करिणीं यष्टिं पिङ्गलां पद्ममालिनीम्। चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो ममावह १४। तां म आ वह जातवेदो लक्ष्मीमनपगामिनीम्। यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान्विन्देयं पुरुषानहम् स्वा० १५। इदं श्रियै ०। “प्रत्यृचमष्टशताद्यन्यतमसंख्यया जुहुयात्। “ॐ त्वन्नः सोम विश्वतो वयोधास्त्वं स्वर्विदा विशा नृचक्षाः। त्वन्न इन्द्र ऊतिभिः सजोषाः पाहि पश्चातादुत वा पुरस्तात्स्वा ०१। इदं सोमाय ०। ॐ या ते रुद्र शिवा तनूः शिवा विश्वाहा भेषजी। शिवा ॠतस्य भेषजी तया नो मृड जीवसे स्वा० २।इदं रुद्राय ०”। तत आज्येन सकृद्गृहीतेन चतस्रो व्याहृतीर्हुत्वा। ततः पूजनमग्नेः “ॐ अग्ने नय सुपथा राये अस्मान्विश्वानि देव व्वयुनानि व्विद्वान्। युयोध्यस्मज्जुहुराणमेनो भूयिष्ठान्ते नम उक्तिं विषेम॥” इति मन्त्रेण चन्दनाद्युपचारैः पूजयेत्। ततो ग्रहपीठदेवतानां च उत्तरपूजां केचिदाहुः। ततश्चरुशेषादवदाय “ॐअग्नये स्विष्टकृते स्वाहा। इदमग्नये स्विष्टकृते न मम।” ततो नवाहुतिः–“ॐ भूः स्वाहा। इदमग्नये न मम। ॐ
भुवः स्वाहा । इदं वायवेन मम । ॐ स्वः स्वाहा । इदं सूर्याय न मम । ॐ त्वन्नो अग्ने० ।इदमग्नीवरुणाभ्यां न मम ।ॐ सत्वन्नोऽअग्ने०। इदमग्नीवरुणाभ्यां न मम । ॐ अयाश्चाग्ने० । इदमग्नये अयसे न मम । ॐ ये ते शतं० । इदं वरुणाय सवित्रे विष्णवे विश्वेभ्यो देवेभ्यो मरुद्भ्यः स्वर्केभ्यश्च न मम । ॐ उदुत्तमं व्यरुण० ।इदं वरुणाय न मम ।" ततो बलिदानम् । “ॐ त्रातारमिन्द्रo ।इन्द्राय साड्गाय सपरिवाराय सायुधाय सशक्तिकाय एषमाषभक्तसदीपबलिर्न सम । भो इन्द्र दिशं रक्ष बलिंभक्ष मम ( यजमानस्य वा ) सकुटुम्बस्य आयुःकर्ता क्षेमकर्ता शुभकर्ता शान्तिकर्ता पुष्टिदस्तुष्टिदो भव ।" इति पुष्पाक्षतजलानि पूर्वाभिमुखस्त्यजेत् । एवं दशदिक्पालेभ्यो दद्यात् । ततो ग्रहाणां बलयो देयाः । पञ्चलोकपालेभ्यश्च साधिदैवतनिर्ऋतये आवरणदेवताभ्यश्च बलिदानं कुर्यात् । “ॐ वास्तोष्पते प्रतिजानीह्यस्मान्स्वावेशो अनमीवो भवा नः । यत्वेमहे प्रति तन्नो जुषस्व शन्नो भव द्विपदे शञ्चतुष्पदे ।इदं बलिदानं वास्तोष्पतये० ।" ततो महाबलिं कुङ्कुमादिरक्तपुष्पादियुतं सदीपं सदक्षिणं क्षेत्रपालाय दद्यात् । “ॐ न हि स्पशमविदन्नन्यमस्माद्वैश्वानरात्पुर एतारमग्नेः । एमेनमवृधन्नमृताऽअमर्त्यं व्वैश्वानरं क्षेत्रजित्याय देवाः ।” क्षेत्रपालाय भूतप्रेतपिशाचराक्षसशाकिनीडाकिनीवेतालादिपरिवारयुताय इमं बलिं समर्पयामि ।भो भोः क्षेत्रपाल इमं बलिं गृहाण मम (यजमानस्य वा) आयुःकर्ता क्षेमकर्ता शान्तिकर्ता तुष्टिकर्ता पुष्टिदो भव ।" इमं बलिं शूद्रेण चतुष्पथे क्षिपेत् । ततः प्रक्षाल्य पाणिपाद आचम्य देशकालौ स्मृत्वा “कृतस्यास्य होमस्य सम्पूर्णतासिद्ध्यर्थं पूर्णाहुतिहोममहं करिष्ये " इति सङ्करप्य, आचार्यो यजमानो वा पूर्णाहुतिं जुहुयात् । तत्र मन्त्राः—
“ॐ समुद्रादुर्मिर्मधुमाँ उदारदुपा<MISSING_FIG href=”../books_images/U-IMG-1697510203Screenshot(14"/>.png)शुना सममूतत्वमानट् । घृतस्य नाम गुह्यं यदस्ति जिह्वा देवानाममृतस्य नाभिः १ । पूर्णा
दर्व्विपरा पत सुपूर्णा पुनरापत ।व्वस्त्रेव व्वि क्रीणावहा इषमूर्ज्ज<MISSING_FIG href="../books_images/U-IMG-1697510203Screenshot(14"/>.png) शतक्रतो २ ।सप्त ते अग्ने समिधः सप्त जिह्वाःसप्त ऋषयः सप्त धाम प्रियाणि ।सप्त होत्राः सप्तधा त्वा यजन्ति सप्त योनीरापूणस्वघृतेन स्वाहा ।" इति पूर्णाहुतिं हुत्वा वसोर्द्धारां कुर्यात् । तत्र मन्त्राः—
“ॐ समास्त्वा० १७ । विष्णोर्न्नुकं०६ ।अपाढं युत्सु० ४ । आप्यायस्व० ४ ।एवं वसोर्धारा विधाय अग्निं प्रदक्षिणीकृत्य । ततस्त्र्यायुषकरणम् ।ततः संस्रवप्राशनादिप्रणीताविमोकान्तं कर्मशेषं समप्य रुद्रकुम्भं स्पृष्ट्वा “त्र्यम्बकं " मन्त्रं शतवारं जपेत् । ततो याजुषश्चेद्यजमानस्तदा रुद्रैकादशनीं जपेत् ।बव्हृचश्चेद्रुद्रसूक्तानि जपेत् । सामगश्चेद्रुद्रसामानि ।अथर्वणश्चेत्त्र्यम्बकमन्त्रम् \। अथ वा एकादशाष्टत्रिद्येकसंख्यया रुद्रजपः कार्यः । ततो रुद्रं “त्र्यम्बक"मिति मन्त्रेण ।नैर्ऋर्ति “मोषूण” इति मन्त्रेण पञ्चोपचारैः सम्पूज्य । “ॐमोषूणःपरा परा निर्ऋतिर्दुर्हणावधीत् ।यदीष्टस्तृष्णया सह॥इन्द्रं वः०॥ अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा ।अग्निञ्च विश्वशम्भुवम् ।” इति नक्षत्रदेवता उपस्थाय सर्वकलशोदकं पात्रान्तरे गृहीत्वा सर्त्विगाचार्यो यजमानं सर्वौषधिभिरनुलिप्ताङ्गंधृतनववस्त्रं तद्वामभागे धृतनववस्त्रां सपुत्रा तत्पत्नीमुपवेश्य वक्ष्यमाणमन्त्रैरमिषिश्चेत् । ते च मन्त्राः—
“ॐ आपो हि ष्ठा ०३ ।त्रातारमिन्द्र०५ ।इमम्मे० ४ ।मापो मौषधी०१। भग प्रणेत० १।इदमापः ० १ । समुद्राय त्वा ० १ । पुनन्तु मा पितरः० ९ । आप्यायस्व ० १ ।पञ्च नद्यः० १ ।शिरो मे० ७ ।देवस्य त्वा० ३ ।सोमस्य त्वा द्युम्नेन० १ ।यज्जाग्रतो० १ ।पालाशं भवति तेन ब्राह्मणोऽभिषिञ्चति ब्रह्म वैपलाशो ब्रह्मणैवैनमभिषिञ्चति १ । औदुम्बरं भवति तेन स्वोऽभिषिञ्चत्यन्नंवाह्युर्गुदुम्बर ऊर्ग्वैस्वं यावद्वै पुरुषस्य सम्भवति नैव तावदशनायति तेनोर्कस्वंतस्मादुदुम्बरेण स्वोऽभिषिञ्चति १ । नैयग्रोध-
पादं भवति तेन मित्र्योराजन्योऽभिषिञ्चति पाद्भिर्न्नग्रोधःप्रतिष्ठितो मित्रेण वैराजन्यः प्रतिष्ठितस्तस्मान्नैय्यग्रोधपादेन मित्र्यो राजन्योऽभिषिञ्चति ३ ।आश्वत्थं भवति तेन व्वैश्योऽभिषिञ्चति स यदेवादोऽश्वत्थे तिष्ठत इन्द्रो मरुत उपमन्त्रयत तस्मादाश्वत्थेन व्वैश्योऽभिषिञ्चति ४ । सर्व्वसुरभ्युन्मर्दनं भवति परसो वा एष गन्धो यत्सर्वसुरभ्युन्मर्दनं गन्धेनैवैनमेतदभिषिञ्चति ५ । यद्देवकल्पाञ्जुहोति प्राणा वै कल्पा अमृतं वै प्राणा अमृतेनैवेनमेतदभिषिञ्चति ६ । सर्वेषां वा एष वेदानाँरसो यत्साम सर्वेषामेवैनमेतद्वेदाना<MISSING_FIG href=”../books_images/U-IMG-1697524289Untitled117.png"/>रसेनाभिषिञ्चति ७ ।” नवग्रहमन्त्राश्च यथा - “ॐ आकृष्णेन० ।इमन्देवा० । अग्निर्मूर्द्धा० । उद्बुध्यस्व०। बृहस्पते अति० । अन्नात्परिस्रुतो०।शन्नो देवी० ।कयानश्चित्र० ।केतुङ्कृण्वन्० ।” मूलं “व्रजां वीर० ।” इन्द्रं ज्येष्ठां “या दिव्या आपः०। त्र्यम्बकं यजामहे० । " अथ ऋङ्मन्त्राः । “अक्षीभ्यामितिषण्णां कश्यपो विवृहायक्ष्मनाशनोऽनुष्टुप् आभषेके विनियोगः । त्रिभिष्ट्बन्देवेति सप्तानां वसिष्ठ ऋषिः आद्यानां त्रयाणामग्निर्देवता चतुर्णां विश्वेदेवाः आद्या गायत्री द्वितीयानुष्टुप् ततस्तिस्रो गायत्र्पः अन्त्ये द्वे अनुष्टुभौ अभिषेके विनियोगः ।आपोहिष्ठेति नवर्चस्याम्बरीषः सिन्धुद्वीप आपो गायत्री पञ्चमी वर्द्धमाना सप्तमी प्रतिष्ठाअन्त्ये द्वे अनुष्टुभौ अभिषेके विनियोगः । आप इद्वेति द्वयस्य सप्तर्षयो विश्वे देवा अनुष्टुप् अभिषेके विनियोगः ।सहस्राक्षेणेति प्राजापत्यो यक्ष्मनाशनो यक्ष्महात्रिष्टुप् अभिषेके विनियोगः ।” यद्वा “सहस्राक्षंशतधार” मित्यृवम् । “तच्छंयोः शंयुर्विश्वे देवाः शक्करी अभिषेके विनियोगः । “ॐ अक्षीभ्यान्ते नासिकाभ्यां कर्णाभ्यां छुबुकादधि ।यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया विवृहामि ते १ । ग्रीवाभ्यस्त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात् । यक्ष्मं दोषण्य१मंसाभ्यां बाहुभ्यां विवृहामि ते २ । ऊरूभ्यान्ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम् । यक्ष्मं श्रोणिभ्यां भासदाद्भंससो विवृहामि ते ३ ।
मेहनाद्वनं करणाल्लोमभ्यस्ते नखेभ्यः ।यक्ष्मं सर्वस्मादात्मनस्तमिदं विवृहामि ते ४ ।अङ्गादङ्गाल्लोम्नो लोम्नो जातं पर्वणि पर्वणि। यक्ष्प्रंसर्वस्मादात्मानस्तमिदं विवृहामि ते ५ ।त्रिभिष्ट्वंदेव सवितर्वर्षिष्ठैः सोम धामभिः ।तस्मै सरस्वती दुहे क्षीरं सर्पिमधूदकम् १ ।पावमानीः स्वस्त्ययनीः सुदुघा हि घृतश्चुतः । क्षीरं सर्पिर्मधूदकम् २ ।प्र देवमच्छामधुमन्त इन्दवः ।धर्ता दिवः पवते कृत्योरमः ३ ।पवित्रन्ते वितव ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः । अतप्ततनुर्न तदामो अश्नुते शृतास इद्वहन्तस्तमाशत ४ ।तपोष्पवित्रं विततं दिवस्पते शोचन्तो अस्य तनवो व्यवस्थिरत् । अवत्यस्य पवीतारमाशयो दिवस्पृष्ठमधितिष्ठन्ति चेतसा ५ ।स्वादुःपवस्व० ६ । त्वं पवित्रे रजसो विधर्माणि देवेभ्यः सोम पवमान पूयसे । त्वामुशिजः प्रथमो अगृभ्णत तुभ्येमा विश्वा भुवनानि येमिरे ७ । आपो हि ष्ठा० ३ ।शन्नो देवीः ४ ।ईशाना वार्याणां क्षयन्तीश्चर्षणीनाम् । आपो याचामि भेषजम् ५ । अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा ।अग्नि च विश्वशम्भुवम् ६ ।आपः पृणीत भेषजं वरूथं तन्वे २ मम ।ज्योक्च सूर्यं दृशे७ ।इदमापः ०८ ।अपो अद्यान्वचारिष<MISSING_FIG href="../books_images/U-IMG-1697533313Untitled115.png"/>रसेन समसृक्ष्महि ।पयस्वानग्न आगमन्तम्मा स<MISSING_FIG href="../books_images/U-IMG-1697533313Untitled115.png"/>सृज व्वर्चसाप्रजया च धनेन च ९ । आप इद्वाउ भेषजीरापो अमीवचातनीः ।आपः सर्वस्थ भेषजीस्तास्ते कृण्वन्तु भेषजम् १ । हस्ताभ्यां दधिशाखाभ्यां जिह्वा वाचः पुरोगवीः ।अनामइत्नुभ्यां त्राताभ्यां त्वोपस्पृशामसि २ ।सहस्राक्षेण शतशारदेन ३ ।" यद्वा—
सहस्राक्षं शतधारमृषिभिः पावनं कृतम् । तेन त्वामभिषिञ्चामि पावमान्यः पुनन्तु मे १ । भगन्ते वरुणो राजा भगं सूर्यो बृहस्पतिः। भगमिन्द्रश्च व्वायुश्च भगं सप्तर्षयो विदुः २ । यत्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्द्धनि ।ललाटेकर्णयोरक्ष्णोरापस्तद्घ्नन्तु सर्वदा ३ ।”
ग्रहाणामादिरादित्यो लोकरक्षणकारकः ।
विषमस्थानसम्भूतां पीडां दहतु ते रविः॥
रोहिणीशः सुधामूर्तिः सुधागोत्रः सुधाशनः ।
विषमस्थानसम्भूतां पीडा दहतु ते विधुः॥
भूमिपुत्रो महातेजा जगतां भयकृत्सदा ।
वृष्ठिकृद्वृष्टिहर्ता च पीडां दहतु ते कुजः॥
उत्पत्तिरूपो जगतां चन्द्रपुत्रो महाद्युतिः ।
सूर्यप्रियकरो देवः पीडा दहतु ते बुधः॥
देवमन्त्री विशालाक्षः सदा लोकहिते रतः ।
अनेकशिष्यसम्पूर्णः पीडां दहतु ते गुरुः॥
दैत्यमन्त्री गुरुस्तेषां प्राणदश्च महामतिः ।
प्रभुस्ताराग्रहाणां च पीडां दहतु ते भृगुः॥
सूर्यपुत्रो दीर्घदेहो विशालाक्षः शिवप्रियः ।
मन्दचारः प्रसन्नात्मा पीडां दहतु तेऽर्कजः॥
महाशिरा महावक्त्त्रोदीर्घदष्ट्रो महाबलः ।
असुरोश्चोर्द्धबाहुश्च पीडां दहतु ते तमः॥
अनेकरूपो वर्गैश्च शतशोऽथ सहस्रशः ।
उत्पातभूतो जगतां पीडां दहतु ने शिखी॥
सुदर्शन ! महाज्वाल! विदीपितदिगन्तर ! ।
त्रायस्व चैनमापद्य्भोभद्रं प्रदिश ते नमः॥
दैतेयनिकराभागशैलनिर्भेददीक्षित ! ।
पद्मशङ्खमनोऽनन्द ! त्राह्येतमपि नन्दक !॥
विपक्षकायमथन ! तच्छिरोलुलितानन ! ।
कमलाकान्त ! दैतेय ! पाह्येनं मुशलायुध !॥
विश्वोद्भवलपत्राणलीलास्य परमात्मनः ।
लीलारविन्द ! सुभग ! पाह्येनमपि पङ्कज !॥
कौमोदकी गदा सौरेर्याऽसौ दिशतु मङ्गलम् ।
या मुकुन्दकराम्भोजे विलसद्भूषणायता॥
विद्धनरहृताशेषरक्षोदनुजजीवित ! ।
एनमो रक्षतादेनं विष्णो ! शार्ङ्ग धनुर्धर !॥
दैत्यसीमन्तिनीगर्भनिर्भेदचतुरस्वन ! ।
स्रवदच्युतवत्क्राब्जमधुपर्णसुशङ्कराट् !॥
दैत्यरक्षोऽधिपप्राणवसारुधिरभोजनाः ।
एनंसर्वत्र रक्षन्तु शार्ङ्गपाणेः शरोत्कराः॥
अरातिहाऽतिप्रमुखाशक्याऽजा क्षपणक्षमा ।
आपद्य्भोरक्षतां देवशक्तिर्विष्णोर्वरायुधम्॥
योऽसौ वज्रधरो देवो महेन्द्रो गजवाहनः ।
मूलजातशिशोर्दोषं मातापित्रोर्व्यपोहतु॥
योऽसौ शक्तिधरो देवो हुतभुङ्भेषवाहनः ।
सप्तजिह्वश्चदेवोऽग्निर्मूलदोषं व्यपोहतु॥
योऽसौ दण्डधरो देवो धर्मो महिषवाहनः ।
मूलजातशिशोर्दोष व्यपोहतु यमो मम॥
योऽसौ खड्गधरो देवो निर्ऋती राक्षसाधिपः ।
प्रशामयतु मुलोत्थदोषंगण्डान्तसम्भवम्॥
योऽसौ पाशधरो देवो वरुणश्चजलेश्वरः ।
नक्रवाहः प्रचेतानो मूलोत्थाघंव्यपोहतु॥
योऽसौदेवो जगत्पाणो मारुतो मृगवाहनः ।
प्रशामयतु मूलोत्थदोषं वालस्य शान्तिदः॥
योऽसौ निधिपतिर्देवः खड्गभूद्वाजिवाहनः ।
मातापित्रोः शिशोश्चैव मूलदोष व्यपोहतु॥
योऽसौ पशुपतिर्देवः पिनाकी वृषवाहनः ।
अश्लेषामूलगण्डान्तदोषमाशु व्यपोहतु॥
विघ्नेशः क्षेत्रपो दुर्गा लोकपाला नवग्रहाः ।
सर्वदोषप्रशमनं सर्वे कुर्वन्तु शान्तिदाः॥
सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः ।
वासुदेवो जगन्नाथस्तथा सङ्कर्षणो विभुः॥
प्रद्युम्नश्वानिरुद्धश्च भवन्तु विजयाय ते ।
आखण्डलोऽग्निर्भगवान्यमो वै निऋृतिस्तथा॥
वरुणः पवनश्चैवधनाध्यक्षस्तथा शिवः ।
ब्रह्मणा सहिताः सर्वे दिक्पालाः पान्तु ते सदा॥
किर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रियामतिः ।
बुद्धिर्लज्जा वपुः शान्तिः कान्तिस्तुष्टिश्च मातरः॥
एतास्त्वामभिषिञ्चन्तु देवपत्न्यःसमागताः ।
आदित्यश्चन्द्रमा भौमो बुधजीवसितार्कजाः॥
ग्रहास्त्वामभिषिञ्चन्तु राहुः केतुश्च तर्पिताः ।
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः॥
ऋषयो मनवो गावो देवमातर एव च ।
देवपत्न्योद्रुमा नागो दैत्याश्चाप्सरसां गणाः॥
अस्त्राणि सर्वशस्त्राणि राजानो वाहनानि च ।
औषधानि च रत्नानि कालस्यावयवाश्च ये॥
सरितः सागराः शैलास्तीर्थानि जलदा नदाः ।
एते त्वामभिषिञ्चन्तु सर्वकामार्थसिद्धये॥
तत" स्तच्छंयोरावृणीमहे०" । ततो रुद्रनिर्ऋतिकलशोदकेनान्येन च शतच्छिद्रकलशं वस्त्रेणान्तर्द्धायाभिषिक्तो यजमानः स्नानं कुर्यात् । धौते वाससी परिधाय तिलकं विभूतिं च धृत्वा कांस्यपात्रे आज्यावलोकनं कृत्वा सङ्कल्पपूर्वकमाचार्यादीन्पूजयित्वा तेभ्यो दक्षिणा दद्यात् । तत् आचार्याय सवत्सां धेनुं दद्यात् । ब्रह्मणे वृषभम् । रुद्रजापिने कृष्णमनड्वाहम् । तत्रमन्त्रः—
“अङ्गारक ! नमस्तेऽस्तु अनड्वँस्तव दानतः ।
शिशुजन्मनि दोषाश्च निवारय महाप्रभो !"॥
तत ऋत्विग्भ्यो यथाशक्ति दक्षिणा दद्यात् । तत्तो निर्ऋत्यादीनां
उत्तरपूजां कृत्वा पुष्पाञ्जलिं दद्यात् । “आवाहनं न जानामि० । अपराधमहस्त्राणिo । यस्य स्मृत्या० ।मन्त्रहीनं क्रिया० । ‘‘ॐ उत्तिष्ठ॑ब्रह्मणस्पते देव॒यन्त॑स्त्वेमहे । उप॒प्रय॑न्तु म॒रुत॑ ÷ सु॒दान॑व॒ इन्द्र॑प्रा॒शुर्भ॑वा सचा॑”।
यान्तु देवगणाः सर्वे पूजामादाय पार्थिवीम् ।
इष्टकामसमृध्यर्थं पुनरागमनाय च ॥
इति विसृज्य,
गच्छ त्वं भगवन्नग्ने ! स्वस्थानं कुण्डमध्यतः ।
हव्यमादाय देवेभ्यः शीघ्रं देहि प्रसीद मे॥
गच्छ गच्छ सुरश्रेष्ठ ! स्वस्थाने परमेश्वर ! ।
यत्र ब्रह्मादयो देवास्तत्र गच्छ हुताशन !॥
अग्निंविसृज्य, आचार्याय प्रतिमादानम् । रुद्रप्रतिमां रुद्रजापिने दद्यात् । ततो भूयसीं दक्षिणां दद्यात् । “अस्य कर्मणः साङ्गतासिद्धये शतं वा तदर्धार्धादिकं वा ब्राह्मणान् भोजयिष्ये” । सर्वं कर्म ईश्वराय समर्प्य “ब्रह्मार्पणं ब्रह्म हविः० । यस्यस्मृत्य ।’’” द्युक्त्वा शान्तिसूक्तजप कारयित्वा, सदस्याँश्चन्दनाक्षतादिभिः पूजयित्वा दक्षिणा दत्वाञ्जलिं बध्वा “मया यत्कृतं मूलशान्त्यादिकर्म तत्कालहीनं भक्तिहीनं श्रद्धाहीनं च भवतां ब्राह्मणानां वचनात्सर्वं सम्पूर्णमच्छिद्र चास्तु” इति प्रार्थयेत् । ततः “सम्पूर्णमस्तु” सर्वे वदेयुः । तेषां मन्त्राशिषोगृहीत्वा सुहृद्युतो भुञ्जीत ।
इति शौनकोक्तमूलशान्तिविधानम् ।
<MISSING_FIG href="../books_images/U-IMG-1695983352Screenshot2023-09-29155903.png"/>
अथ कात्यायनपरिशिष्टोक्तमूलशान्तिविधानम्।हेमाद्रौ शान्तिकाण्डे—
“अथातो मूलजातस्य मूलविधिं व्याख्यास्यामो मूलांशे प्रथमे पितुर्नेष्टो द्वितीये मातुस्तृतीये धनधान्यस्य चतुर्थे कुलशोकावहः स्वयं पुण्यभागी स्यान्मूलनक्षत्रे मूलविधानं कुर्यात्सर्वौषध्या सर्वगन्धैश्चसंयुक्तमुदकुम्भं वस्त्रगन्धपुष्परत्नसहितं श्वेतसिद्धार्थकुसु-
मयुक्तं च कुर्यात्तस्मिन्न्रुद्रमभ्यर्च्यरुद्राञ्जपित्वाऽप्रतिरथँराक्षोघ्न<MISSING_FIG href="../books_images/U-IMG-1697535550Untitled115.png"/>मूक्तं चाथ द्वितीयोदकुम्भ चतुःप्रस्रवणसंयुक्तं कृत्वा तदुपरिष्टान्मूलानि धारयेद्वशपात्रे कृत्वा वस्त्रेण बध्वा तस्मिन्प्रधानानि मूलानि वक्ष्याम्यष्टादशमाष<MISSING_FIG href="../books_images/U-IMG-1697540782Untitled117.png"/>हिरण्मयमूल<MISSING_FIG href="../books_images/U-IMG-1697540782Untitled117.png"/> सप्तधन्यानि प्रथमा कर्ष्यर्य्या सहदेव्यपराजिता बालापाठा शङ्खपुष्पी मधुयष्टिका चक्राङ्किता मयूरशिखा काकजङ्घा कुमारीद्वयं जीवन्त्यपामार्गो भृङ्गारको लक्ष्मणा सुलक्ष्मणा जाती व्याघ्रपत्रश्चक्रमर्द्दकमिद्धेश्वराश्वत्थपलाशोदुम्बरप्लक्षवटार्कदूर्वाशतावरीशमीरोहितकाण्येवमादिमूलशत पूरयित्वा तस्मिन्निषिद्धानि मूलानि वक्ष्यामि वैकङ्कतवैल्वधवनिम्बदकम्बराजवृक्षशालप्रियालुदधिकपित्थकोविदारश्लेष्मातकशाल्मलिसर्वकण्टकिवर्जं तत्राभिषेकं कुर्यात्पितुः शिशोर्जनन्या देवस्य त्वेत्यौदुम्बर्यासन्दीमुदगग्रामास्तृणाति तत्रासीनान्सम्पातेनाभिपिञ्चति शिरसोऽध्यनुलोम<MISSING_FIG href="../books_images/U-IMG-1697535550Untitled115.png"/> शिरो मे श्रीर्यश इति यथालिङ्गमङ्गानि समृशति स्नानादूर्ध्वं नैर्ऋतं पयसि पायसँ श्रपयित्वा कार्प्मर्यमयँप्रतप्य संमूज्यान्वारब्धआघारावाज्यभागौ हुत्वाऽसुन्वन्तमिति चतस्रः स्थालीपाकेन जुहुयात्कृणुष्व पाज इति पञ्चदशाज्याहुतीश्चतुर्गृहीतेन जुहुयान्मानस्तोक इति द्वाभ्यां या ते रुद्र शिवा तनूरिति षडग्रेरक्षाँसि सेधति शुक्रः शोचिरमर्त्यः ।शुचिः पावक ईड्य इति त्वँसोम विश्वतो रक्षा राजन्नघायतः । नरिष्ये त्वावतःसखेति स्विष्टकदादिप्राशनान्ते कृष्णा गौः कृष्णाश्चतिला हेममयमूलँ सप्तधान्यसंयुक्तमाचार्याय दद्यात्कृष्णोऽनड्वाँश्च ब्रह्मणे दद्यान्नक्षत्रसूचकेभ्यो वासो दद्यादन्येभ्यो ब्राह्मणेभ्यः सुवर्णं दद्यात्कृसरापायसेन ब्राह्मणान्भोजयेत्सार्पदैवते गण्डजाते जातानामयमेव विधिरेवं कृते शान्तिर्भवतीति ।
इति कात्यायनपरिशिष्टोक्तमूलाश्लेषागण्डान्तशान्तिविधानम् ।
इति श्रीप्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्रविवरणे
संस्कारगणपतौमूलशान्तिविधानम् ।
अथाश्लेषाशान्तिविधानं मानवसंहितायां ज्योतिर्निबन्धे—
सार्पांशेप्रथमे राज्यं द्वितीयांगे धनक्षयम् ।
तृतीये जननी हन्ति चतुर्थे पितृघातकः॥
आश्लेषायान्तु जाताना शान्तिं वक्ष्याम्यतः परम् ।
जातस्य द्वादशाहे च शान्तिहोमं समाचरेत्॥
असम्भवे तु जन्मर्क्षेअन्यस्मिन्वाशुभे दिन ।
स्नातोऽभ्यङ्गादिभिस्तस्मिन्वरयेत्तु द्विजोत्तमान्॥
विभवे पञ्चकुम्भाॅस्तु द्वय वा तदलाभतः ।
देवतास्थापने चैकमेकं रुद्राभिमन्त्रणे॥
मूलर्क्षोक्तप्रकारेण कुम्भे निक्षिप्य पूजयेत् ।
गोमयालेपिते देशे धात्वाद्यैः परिशोभिते॥
पङ्कजं कारयेत्तत्र चतुर्विशदलान्वितम् ।
तण्डुलैः कारयेद्यद्वारक्तपीतसितासितैः॥
कर्णिकायां न्यसेह्रीहीन्स्थापयत्तेषु कुम्भकम् ।
आकलशेष्वित्यनया कलशस्थापनं स्मृतम्॥
इमं म इति मन्त्रेण पूजयेत्तेन वारिणा ।
कुम्भं च गन्धवस्त्राद्यैस्तत्तन्मन्त्रैः प्रपूजयेत्॥
याः फलिनीरित्यनया क्षिपेद्रत्नौषधादिकम् ।
कुम्भोदरस्थपात्रेषु अश्लेषाप्रतिमां यजेत्॥
निष्कनिष्कार्यपादैर्वा कारयित्वा स्वशक्तितः ।
तत्पूर्वोत्तरनक्षत्रे दक्षिणोत्तरयोर्यजेत्॥
ऐन्द्यादीशानपर्यन्तापितरर्क्षाणि पूजयेत् ।
मृलोक्तेन विधानेन कुम्भयोरभिमन्त्रणम्॥
रुद्रार्चा रुद्रकुम्भे तु पूर्ववच्छेषमाचरेत् ।
नमोऽस्तु सर्पेभ्य इति पूजामन्त्रः प्रकीर्तितः॥
सर्पोरक्तस्त्रिनेत्रश्च द्विभुजः पीतवस्त्रकः ।
फलकासिधरस्तीक्ष्णो दिव्याभरणभूषितः॥
एवं ध्यात्वा ततोभ्यर्च्य होमकर्म समारभेत् ।
कर्तुः शाखोक्तमार्गेण आचार्यस्याथवा भवेत्॥
मुखान्तं कर्म निर्वर्त्य हविरादाय शास्त्रतः ।
इदं सर्पेभ्यो जुहुयात्साधिप्रत्यधिदैवतम्॥
अष्टोत्तरशतं वापि अष्टाविंशतिमेव च ।
मूलनक्षत्रवच्छेष होयकर्म समाचरेत्॥
पूर्णाहुत्यन्तकर्माणि कृत्वा सम्पातर्कतथा ।
कुम्भे जलेषु संक्षिप्य अभिषेकमथाचरेत॥
दारपुत्रसमेतस्य यजमानस्य पूर्ववत् ।
अभिषिश्चेत्तथाऽऽचार्य ऋत्विग्भिःसहितस्ततः॥
अभिमन्त्रितकुम्भाद्भिरभिषेचनमाचरेत् ।
तथा पौराणमन्त्रैश्च पल्लवैरभिषेचयेत्॥
पौराणमन्त्रानाह—
आश्लेषाऋक्षजातस्य मातापित्रोर्धनस्य च ।
भ्रातृज्ञातिकुलस्थानां दोषं सर्वं व्यपोहतु॥
योऽसौ वागीश्वरो नाम अधिदवो बृहस्पतिः ।
मातापित्रोःशिशोश्चैव गण्डान्तं च व्यपोहतु॥
पितरः सर्वभूतानां रक्षन्तु पितरः सदा ।
सार्पनक्षत्रजातस्य वित्तं च ज्ञातिबान्धवान्॥
एवं कृतेऽभिषेके तु सर्पशान्तिर्भवेद्ध्रुवम् ।
ततः शुक्लाम्बरधरो यजमानः सुभूषितः॥
दक्षिणाभिस्ततो विप्रान्मूलवच्च प्रतोषयेत् ।.
भुक्तवद्र्भ्यश्च विप्रेभ्यः स्वीकुर्यादाशिषं गृही॥
इत्युक्तेन विधानेन सर्वारिष्टमपोहति ।
सर्वकामाश्च सिद्ध्यन्ति वेदोक्तायुर्भविष्यति॥
इत्युक्तवेदशास्त्रार्थं सारमागमचोदितम् ।
मानवानां हितार्थाय मनुना सार्वकामिकम्॥
सर्पाधीश ! नमस्तुभ्यं नागानां च गणाधिप ! ।
गृहाणार्धं मया दत्त सर्वारिष्टप्रशान्तये ॥
इतिमन्त्रेण सर्पाय दद्यादर्धसुशोभितम् ।
मूलनक्षत्रवत्कुर्यात्सार्पगण्डे च नामतः ॥
इतिमानवसहितायामाश्लेषाजननशान्तिविधानमूलवाक्यानि ॥
अथास्य स्पष्टप्रयोगो लिख्यते । द्वादशाहादिशुभे दिने कृताभ्यङ्गोयजमानः प्राणानायम्य देशकालौसङ्कीर्त्य"ममास्य कुमारस्य कुमार्या वा आश्लेषानक्षत्रजननसूचितमात्ररिष्टादिशान्तिद्वारा श्रीपरमेश्वरप्रीत्यर्थं सनवग्रहमखां गोमुखप्रसवशान्तिसहितां आश्लेषाजननशान्तिं करिष्ये" इति सङ्कल्प्य, तदङ्गतया गणेशपूजनपुण्याहवाचननान्दीश्राद्धादि कृत्वाऽऽचार्यादीन्वृत्वाऽष्टौ ऋविजो वृणुयात् । अथाचार्योऽस्मिन्कर्मण्याचार्यकर्म करिष्ये" इति सङ्कल्प्य, “यदत्र संस्थित” मित्यादिमन्त्रेण सर्षपान्सर्वतोऽवकीर्य “अपोहिष्ठे"ति कर्मभूमिं प्रोक्ष्य गोमुखप्रसवं कृत्वा मण्डपेशानदेशे पञ्चवर्णकै स्वस्तिकं विरच्य तत्र पूर्ववत्कलशं संस्थाप्य जलेनापूर्य गन्धपुष्पैश्चाभ्यर्च्य यवदूर्वाश्वत्थादिपञ्चपल्लवपञ्च- रत्नसप्तमृतिकाफलहिरण्यपञ्चगव्यपञ्चामृतानि तत्तल्लिङ्गमन्त्रैः कलशे निधाय कण्ठे वस्त्रेणावेष्ट्य तदुपरि पूर्णपात्र निदध्यात् । ततस्तत्कलशात्पूर्वादिचतुर्दिक्षु यवराश्युपरि पूर्ववत्कलशचतुष्टयं स्थापयेत् । अथ मध्यकलशे वस्त्रोपरि सौवर्णीं रुद्रप्रतिमां स्थापयित्वा “त्र्यम्बक” मितिमन्त्रेण पूजयेत् । तत्रैक ऋत्विक् कुम्भं स्पृष्ट्वा रुद्रैकादशनीं न्यासपूर्वकां साङ्गां जपेत् । चत्वारि रुद्रसूक्तानि । ततोऽन्य ऋत्विक् तत्रैव कुम्भे त्र्यम्बकमन्त्रमष्टोत्तरसहस्रं पाबमानीमप्येकवारं जपेत् । उत्तरदिक्स्थकुम्भे पावमानीजप इति के चित् । ततः कुम्भोत्तरदेशे चतुर्विंशतिदलं पङ्कजं पञ्चवर्णैः कृत्वा कर्णिकाया व्रीहीन् शक्तितो निधाय तदुपरि कलशं स्थापयित्वा तत्रौषधिफलरत्नादीनि निधाय पूर्णपात्रं स्थापयित्वा तदुपरि सर्पख्यायामश्लेषाप्रतिमां पञ्चामृतस्नापितां प्रतिष्ठाप्य “नमोऽस्तु सर्पेभ्य” इति मन्त्रेण सर्पमात्राहयेन् ।
ततः—
सर्पो रक्तस्त्रिनेत्रश्च द्विभुजः पीतवस्त्रकः ।
फलकासिधरस्तीक्ष्णोदिव्याभरणभूषितः॥
इति सर्पं ध्यात्वाऽऽवाहयेत् । अथ पङ्कजचतुर्विंशतिदलेषुपूर्वमारभ्य पुनर्वसुपर्यन्तं नक्षत्राणि । तत्तद्देवताः पूर्वादिदलेप्वावाहयेत् । देवताश्चेत्थम् ।“भगः ।अर्यमा ।सविता ।त्वष्टा ।वायुः । इन्द्राग्नी।मित्रः । इन्द्रः ।निर्ऋतिः ।आपः । विश्वेदेवाः । विष्णुः । वसवः ।वरुणः । अजैकपात् । अहिर्बुध्न्यः। पूषा ।अश्विनौ ।यमः । अग्निः । प्रजापतिः । सोमः । रुद्रः । अदितिः" इति चतुर्विंशतिदेवानाबाह्य लोकपालानावाहयेत् । ततः पदार्थानुसमयेन काण्डानुसमयेन वा सर्वान्पूजयेत् ।नैवेद्यादिद्रव्य मूलशान्तिवज्ज्ञेयम ।तत आचार्योऽग्निंस्थापयित्वा नवग्रहस्थापनं कृत्वा तदीशान्या ग्रहकलशं स्थापयित्वा वरुणं सम्पूजयेत् ।ततः समिहूयमादाय “देवतापरिग्रहार्थमन्वाधानं करिष्ये” ।अन्वाधानशब्देन देवतामिध्यानम् ।“प्रजापतिं, इन्द्रं, अग्निं, सोमं, आज्येन ।नवग्रहान्प्रत्येकममुकमङ्ख्यामिः समिच्चर्वाहुतिभिरधिदेवताप्रत्यधिदेवताश्चामुकसंख्याहुतिभिः विनायकादीन् लोकपालानमुकसङ्ख्यामिः समिच्चर्वाहुतिभिः । प्रधानदेवताः सर्पान्, प्रतिद्रव्यमष्टोत्तरशतसङ्ख्याभिर्घृतमिश्रितपाससमिदाऽचर्वाहुतिभिः ।बृहस्पतिं, पितॄंश्च, प्रतिद्रव्यमष्टाविंशतिसंख्याभिर्घृतमिश्रितपायस समिच्चर्वाहुतिभिः ।मघादिचतुर्विंशतिदेवताः प्रत्येकमष्टसंख्याभिः पायसाहुतिभिः ।रक्षोहण, कृणुष्वेति, पञ्चदशभिः प्रत्यृचमष्टसंख्याभिः पायसाहुतिभिः । सवितारं, दुर्गां, त्र्यम्बकं, ऋत्विकस्तुतिं, दुर्गां, वास्तोष्पतिं, अग्निं, क्षेत्राधिपतिं, मित्रावरुणौ, अग्निं, च एताः प्रत्येकमष्टाष्टमङ्ख्याभिः कृसराहुनिभिः । श्रियं “हिरण्यवर्णा” मिति पञ्चदशर्ग्भिःप्रतिमन्त्रमष्टाष्टसङ्ख्याभिः समिदाज्यचर्चाहुतिभिः । सोमं त्रयोदशसङ्ख्याभिः पायसाहुतिभिः ।रुद्रं, चतुर्गृहीतेनाज्येन।अग्निं, वायुं, सूर्यं, प्रजापतिं, चाज्येन ।
शेषेण अग्निं स्विष्टकृत"मित्यादिपूर्णपात्रनिधानान्तं कर्म कृत्वा पायसं कुसरं चरुं च सहैव श्रपयित्वाऽऽज्यभागान्ते यजमानेनाग्नेर्दक्षिणत उपविष्टेन त्यागं कारयित्वा ऋत्विक्सहित आचार्यः अन्वाधानक्रमेण तत्तन्मन्त्रैर्यथाविधि होमं कुर्यात् । होममन्त्रा मूलशान्तिप्रयोगे द्रष्टव्याः । ततः स्विष्टकृदादि होमशेषं समाप्य दिक्पालेभ्यो ग्रर्हभ्यो विनायकादिभ्यः सर्पेभ्यो बृहस्पतये पितृभ्यश्चरुद्राय क्षेत्रपालाय च सदीपमाषभक्तबलीन्दत्वा मूलशान्तिवत्पूर्णाहुतिं हुत्वाप्रणीतानिनयनादि कर्मशेषं समाप्य, अथ रुद्रकुम्भं स्पृष्ट्वा “त्र्यम्बकं” मन्त्रं शतमष्टोत्तरं जप्त्वा, याजुषश्चेद्यजमानस्तदा रुद्रैकादशनीं जपेत् । यजमानश्चेद्बह्वृचस्तदा चत्वारि “कद्रुद्राये"त्यादिसूक्तानि जपेत् ।सामगश्चेत्तदा रुद्रसामानि जपेत् । आथर्वणश्चेत्त्र्यम्बकमन्त्रं जपेत् । एकादशाष्टत्रिव्द्येकसङ्ख्याऽत्र सूक्तजपे द्रष्टव्या ।तेता रुद्रं सर्पांश्चपञ्चोपचारैः पूजयित्वा तत्तन्मन्त्राभ्यामुपस्थाय सर्वकलशोदक पात्रान्तरे गृहीत्वा तत्र होमसम्पातकं प्रक्षिप्य सर्त्विगाचार्यस्तिष्ठन् सकुटुम्ब यजमानमभिषिञ्चेत् “अक्षीभ्या” मित्यादिमन्त्रैर्मूलशान्त्युक्तैः । तथा—
योऽसौ वज्रधरो देवो महेन्द्रो गजवाहनः ।
सार्वजातशिशोर्दोष मातापित्रोर्व्यपोहतु॥
योऽसौ शक्तिधरो देवा हुतभुङ्मेषवाहनः ।
सप्तजिह्रश्चदेवोऽग्निः सापदोषं व्यपोहतु॥
योऽसौ दण्डधरो देवो धर्मो महिषवाहनः ।
सार्वजातशिशोर्दोषं व्यपोहतु यमो मम॥
योऽसौ खङ्गधरो देवो निर्ऋती राक्षसाधिपः ।
प्रशामयतु सार्पोत्थं दोषं गण्डान्तसम्भवम्॥
योऽसौ पाशधरो देवो वरुणश्च जलेश्वरः ।
नक्रवाहःप्रचेतानः सार्पोत्थाघं व्यपोहतु॥
योऽसौ देवो जगत्प्राणो मारुतो मृगवाहनः ।
प्रशामयतु सार्पोत्थं दोषं बालस्य शान्तिदः॥
योऽसौ निधिपतिर्देवः खड्गभृद्वाजिवाहनः ।
मातापित्रोः शिशोश्चैव सार्पदोषं व्यपोहतु॥
योऽसौ पशुपतिर्देवःपिनाकी वृषवाहनः ।
आश्लेषामूलगण्डान्तं दोषमाशु व्यपोहतु॥
विघ्नेशः क्षेत्रपो दुर्ग्गालोकपाला नवग्रहाः ।
सार्पदोषप्रशमनं सर्वे कुर्वन्तु शान्तिदाः॥
“योऽसौ वज्रधर” इत्यादि “शान्तिदा"। इत्यन्ता मन्त्रा ऊहिता द्रष्टव्याः। “अभिषेकमथाचरे"दित्युपक्रम्य–
दारपुत्रसमेतस्य यजमानस्य पूर्ववत्॥
इति मूलशान्त्यतिदेशात् । एवं गण्डान्तशान्त्यादावपि द्रष्टव्यम् ।“गण्डान्तेऽध्येवं वक्तव्यं पुष्याश्लेषा ते द्वे तथे"ति वचनात् । अनुहिता अपि—
आश्लेषाऋक्षजातस्य मातापित्रोर्धनस्य च ।
भ्रातृज्ञातिकुलस्थानां दोषं सर्वं व्यपोहतु॥
योऽसौ बागीश्वरो नाम अधिदेवो बृहस्पतिः ।
मातापित्रोः शिशोश्चैव गण्डान्तं स व्यपोहतु॥
पितरः सर्वभूतानां रक्षन्तु पितरः सदा ।
सार्पनक्षत्रजातस्य वित्तं च ज्ञातिबान्धवान्॥
ततः“सुरास्त्वामभिषिञ्चन्त्वि"त्यादिभिश्चाभिषिञ्च्य “तच्छंयोः शंयुर्विश्वेदेवाः शकरी अभिषेके विनियोगः ।ॐ तच्छंयोरावृणीमहे० । ततो रुद्रसर्पकलशोदकेन अन्येन च शतच्छिद्रकलशमन्तर्धाय अभिषिक्तो यजमानो धौते वाससी परिधाय तिलकं कृत्वा सङ्कल्पपूर्वकमाचार्यादीन्पूजयित्वा तेभ्यो दक्षिणां दद्यात् । तत्र आचार्याय सवत्सांदोग्घ्रीं धेनुं दद्यात् । ब्रह्मणे वृषम् ।रुद्रजापिने कृष्णवर्णमनड्वाह दद्यात् । तत्र मन्त्रः—
“अङ्गारक ! नमस्तेऽस्तु अनड्वँस्तव दानतः ।
**शिशुजन्मनि दोषांश्च निवारय महाप्रभो !॥**इति ।
तत ऋत्विग्भ्यो यथाशक्ति दक्षिणा दत्वा भूयसीमपि दत्वा रुद्रसर्पादीनामुत्तरपूजा विधाय, ताम्रपात्रे फलपुष्पादियुत जलं प्रक्षिष्य सर्पायार्घंदद्यात्
सर्वाधीश ! नमस्तुभ्यं नागानां च गणाधिप ! ।
गृहणार्धंमया दत्तं सर्वारिष्टं प्रशामय॥
इति मन्त्रेण ।तत “उत्तिष्ठ ब्रह्मणस्पते०। यान्तु देवगणाः” इति विसृज्य सङ्कल्पपूर्वक प्रतिमादिकमाचार्यहस्ते प्रतिपाद्याग्निं सम्पूज्य, “गच्छ गच्छ सुरश्रेष्ठे"ति विसृज्य, शततदर्धार्धदशान्यतरब्राह्मणभोजनं सङ्कल्प्य कर्मेश्वराय समर्प्य"यस्य स्मृत्ये” त्युक्त्वा शान्तिसूक्तजपं कारयित्वा सुहृद्युतो भुञ्जीतेति ।
इति श्री प्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्र-
विवरणे संस्कारगणपतौ आश्लेषाशान्तिप्रयोगः ।
<MISSING_FIG href=”../books_images/U-IMG-1695983035Screenshot2023-09-29155301.png”/>
.
अथ ज्येष्ठाशान्तिविधानं वृद्धगार्ग्यसंहियाम्—
सुखासीनं मुनिश्रेष्ठं गर्गं मुनिगणान्वितम् ।
कृताञ्जलिपुटो भूत्वा परिपप्रच्छ शौनकः॥
ज्येष्ठानक्षत्रसम्भूतगण्डदोषविनिर्णयम् ।
तस्य शान्तिविधानं च वद मे मुनिसत्तम !॥
गर्ग उवाच—
शौनकस्य वचः श्रुत्वा प्रत्युवाच महामुनिः ।
शृणु शौणक ! यत्नेन गण्डदोषविनिर्णयम्॥
तस्य शान्तिविधानं च यथावत्कथयाम्यहम् ।
घटिकैका च मैत्रान्ते ज्येष्ठादौघटिकाद्वयम्॥
तयोः सन्धिरिति ज्ञेयं शिशुगण्डं समीरितम्॥
मैत्रमनुराधा ।
प्रथमे च द्वितीये च ज्येष्ठर्क्षे च तृतीयके ।
पादत्रये जातमर्त्ये ज्यष्ठोऽप्यत्र प्रजायते॥
ज्येष्ठाद्यघटिकाद्वयं परित्यज्य प्रथमादिचरणत्रये जातो नरो ज्येष्ठः श्रेष्ठ इत्यर्थः, दोषाभावात् ।
ज्येष्ठान्त्यपादजातस्तु पितुः स्वस्य च नाशनः ।
जायते नात्र सन्देहो दशाहाभ्यन्तरे तथा॥
ज्येष्ठर्क्षे कन्यका जाता हन्ति शीघ्रं चवाग्रजम्॥
तथा च भारद्वाजः—
ज्येष्ठादौ मातृजननीं मातामहं द्वितीयके ।
तृतीये मातुलं हन्ति चतुर्थे जननन्तिथा॥
आत्मानं पञ्चमे हन्ति पष्ठे गोत्रक्षयो भवेत् ।
सप्तमे कुलनाशः स्यादष्टमे ज्येष्ठसोदरः॥
नवमे श्वशुरं हन्ति सर्वस्वं दशमे तथा ।
घटिकाषट्कस्य फलं ज्योतिर्निबन्धे—
ज्येष्ठायाःप्रथमे पादे गृहज्येष्ठविनाशनम् ।
द्वितीये धनहानिःस्यात्तृतीये मातृपीडनम्॥
गर्गः—
तस्य शान्तिं प्रवक्ष्यामि गण्डदोषप्रशान्तये ।
सुदिने शुभनक्षत्रे चन्द्रतारावलान्विते॥
सूतकान्तेऽथ वा कुर्याज्ज्येप्राशान्तिं विधानतः ।
वज्राङ्कुशधरं देवमैरावतगजस्थितम्॥
कुर्याच्छचीपतिं रम्यं देवेन्द्रं सुरपूजितम् ।
कर्षमात्रसुवर्णेन कर्षार्धेनाथ पादतः॥
तद्विधानं प्रकुर्वीत वित्तशाठ्यं न कारयेत्
शालितण्डुलसम्पूर्णकुम्भस्योपरि पूजयेत्॥
इन्द्रायेन्दो मरुत्वत इति मन्त्रेण वाग्यतः ।
गन्धपुष्पैर्धूपदीपैर्नानाभक्ष्यनिवेदनैः॥
पूजयेद्विधिना विप्र! लोकपालगणान्वितम् ।
रक्तवस्त्रद्वयोपेतं पूजयेत्सुरनायकम्॥
तत्पुरःस्थापयेत्कुम्भाश्चतुर्दिक्षु विशेषतः ।
तन्मध्ये स्थापयेत्कुम्भं शतच्छिद्रसमन्वितम्॥
पुण्योदकसमायुक्तान्वस्त्रयुग्मविवेष्टितान् ।
कुम्भेषु विन्यसेद्धीमान्पञ्चगव्यं समन्त्रकम्॥
पञ्चामृतं पञ्चरत्नं मृत्तिकाःपञ्चसंख्यकाः ।
पञ्चवृक्षकपायाँश्च पञ्चपल्लवकांस्तथा॥
सुवर्णं कुशदूर्वांश्च शतौषधिमपि क्षिपेत् ।
पुरयेद्वारुणैर्मन्त्रैः कुम्भान्धीमान्प्रयत्नतः॥
त्वन्नो अग्ने जपेदादौ सत्वन्नोऽपि द्वितीयके ।
तृतीये पुरुषसूक्तं च कद्रुद्राय चतुर्थके॥
समुद्रज्येष्ठा इति चेमम्मे गङ्गे चतुर्थके ।
पूजयेद्वस्त्रयुग्माद्यैश्चतुरःकलशानपि॥
जपं कुर्युःप्रयत्नेन मन्त्रैरोभिर्द्विजोत्तमाः ।
आ नो भद्रा जपं चादौ भद्रा अग्नेद्वितीयके॥
आचार्यो मूलमन्त्रेण जपं कुर्याद्विशेषतः ।
मूलमन्त्र “इन्द्रायन्दो” इति ।
इन्द्रसूक्तंरुद्रजाप्यं मृत्युञ्जयजपं ततः ।
इत्थं सम्पूज्य देवेन्द्रं वरुणं कुम्भसंस्थितम्॥
सुसङ्कल्प्य विधानेन होमकर्म ततश्चरेत् ।
समिद्भिर्ब्रह्मवृक्षस्य शतमष्टोत्तरं तथा॥
सर्पिषा चरुणा चैव मूलमन्त्रेण वाग्यतः ।
हुनेज्जाप्यं च तेनैव यत इन्द्र भयेति च॥
तिलान्व्याहृतिभिर्दुत्वा शतमष्टोत्तरं पृथक् ।
भार्याशिशुसमोपेतं यजमानं विशेषतः॥
अभिषिक्तं प्रकुर्वीत सूक्तैर्वारुणसंज्ञकैः ।
समुद्रज्येष्ठादिभिर्मन्त्रैरिमम्मे वरुणैस्तथा ।
द्यौः शान्तिरादिभिमन्त्रैरभिषेकं समाचरेत्॥
अभिषेकं निवपर्त्याथयजमानः समाहितः ।
शुक्लाम्बराणि धृत्वाऽथ कुर्यादाज्यावलोकनम्॥
रूपंरूपेति मन्त्रेण चित्र तच्चक्षुरेव वा॥
देवतापुरतः स्थित्वा धूपदीपनिवेदनम्॥
दद्यादाचमनं सम्यक्ताम्बूलार्ध्येतथैव च ।
अर्ध्यमन्त्रः—
नमस्ते सुरनाथाय नमस्तुभ्यं शचीपिते ! ।
गृहाणार्ध्यंमया दत्त गण्डदोषप्रशान्तये॥
कारयेत्पूजकादीनां कारितं यत्फलं शुभम् ।
लब्ध्वा तु तत्फलं सर्वं देवेन्द्राय समर्पयेत्॥
आचार्याय च गांदद्यात्सुशीलां च पयस्विनीम् ।
रक्तवर्णां वत्सयुतां सर्वालङ्कारभूषिताम्॥
वस्त्रयुग्मविधानं च यथाविभवसारतः ।
यक्षगन्धर्वसिद्धैश्व पूजितोऽसिशचीपते !॥
दानेनानेन देवेश ! गण्डदोष विनाशय ।
इति संप्रार्थयेद्देवमिन्द्राणीसखमुत्तम्॥
अष्टोत्तरशतं संख्यं कुर्याद्ब्राह्मणभोजनम् ।
तेभ्योऽपि दक्षिणां दत्वा प्रणिपत्य क्षमापयेत्॥
इमां कृत्वा ज्येष्ठशान्तिं यथाविध्युक्तमार्गतः ।
गण्डदोषं विनिर्जित्य आयुष्माञ्जायते नरः॥
इत्युक्तं वृद्धगार्ग्येण शौनकाय विशेषतः ।
ज्येष्ठानक्षत्रसम्भूतगण्डदोषप्रशान्तये॥
अज्ञानादथवा ज्ञानाद्वैकल्याद्वा धनस्य च ।
यन्न्यूनमतिरिक्तं वा तत्सर्व क्षन्तुमर्हति॥
इति श्रप्रिथमशाखीयरामकृष्णविरचिते गृह्यसूत्रविवरणे संस्कार-
गणपतौ वृद्धगार्ग्योक्तज्येष्ठानक्षत्रजननशान्तिविधानम् ।
<MISSING_FIG href=”../books_images/U-IMG-1695983129Screenshot2023-09-29155519.png”/>
अथैकनक्षत्रजननशान्तिः । तत्रैव वृद्धगार्ग्यः—
एकस्मिन्नेव नक्षत्रे भ्रात्रोर्वा पितृपुत्रयोः ।
प्रसृतिश्चेत्तयोमृत्युर्भवेदकस्य निश्चयः॥
ज्योतिर्निबन्धे—
तातस्य जन्मभे यस्य प्रसूतिर्यदि जायते ।
तातं वा भ्रातरं ज्येष्ठं रिष्टं तस्य भवेदूध्रुवम्॥
वशिष्ठेन विशेषो दर्शितः—
पित्रोस्तु जन्मकर्मक्षे जातस्तु पितृमातृहत् ।
जन्मर्क्षांशे च तल्लग्ने जातः सद्यो मृतिप्रदः॥
वृद्धगार्ग्यः—
तद्दोषनाशाय तदा प्रशस्तां शान्ति च कुर्यादभिषेचनं च ।
सम्पूज्य ऋक्षप्रतिमां तदग्रे दानं च कुर्बाद्विभवानुरूपम्॥
तत्र शान्ति प्रवक्ष्यामि सर्वाचार्यमतेन तु ।
शुभर्क्षेशुभवारे च चन्द्रतारावलान्विते॥
रिक्ताविष्टिविवर्ज्जेतु प्रारभेद्दिवसे सुधीः ।
आचार्यं वरयेत्पूर्वं चतुरोऽथ द्विजोत्तमान्॥
पुण्याह वाचयित्वा तु शान्तिकर्म समारभेत ।
अग्नेरीशानदिग्भागे नक्षत्रप्रतिमां ततः॥
तन्नक्षत्रोक्तमन्त्रेण अर्चयेत्कलशोपरि ।
रक्तवस्त्रेण संच्छाद्य वस्त्रयुग्मेन वेष्टयेत्॥
स्वशाखोक्तेन मार्गेण कुर्यादग्निमुखं ततः ।
अनेनैव त मन्त्रेण हुनेदष्टोत्तरं शतम्॥
प्रत्येकं समिदन्नाज्यैः प्रायश्चित्तान्तमेव च ।
आभिषेकं ततः कुर्यादाचार्यःपितृपुत्रयोः॥
वस्त्रालङ्कारगोदानैराचार्यं पूजयेत्पुनः ।
ऋत्विग्भ्यो दक्षिणां दद्यान्माषत्रयसुवर्णकम्॥
देवताप्रतिमादान धान्यवस्त्रादिभिः सह ।
यानशय्यासनादीनि दद्यात्तद्दोषशान्तये॥
भोजयेद्ब्राह्मणान्सर्वान्वित्तशाठ्याविवर्जितः ।
इति वृद्धगार्ग्योक्तैकनक्षत्रजननशान्तिः। अथ प्रकारान्तरणकनक्षत्रजननशान्तिः—
समानभे यदा देवि! पितापुत्रौ च सोदरौ ।
भगिन्यौ वा स्ववन्धु वा तदा पूर्वस्य नाशनम्॥
विधानं तत्र कर्तव्यं जन्मनक्षत्रपूजनम् ।
नक्षत्रदेवता पूज्या त्वधिप्रत्यधिपूर्वकम्॥
तत्पूर्वोत्तरनक्षत्रदेवते अधिप्रत्यधिदेवते ।
यस्य ऋक्षस्य यद्द्रव्य दक्षिणा पूजनादिकम् ।
तस्य तच्चविधातव्यमृक्षदैवततुष्टये॥
गृह्योक्तेन विधानेन हवनं तत्र कारयेत् ।
समिच्चरुतिलैश्चैवपृथगष्टोत्तरं शतम्॥
भक्त्या हरिहरौ देवौ स्वर्णरूप्यमयौ शुभौ ।
तद्दानमन्त्रः—
विविधस्यास्य विश्वस्य पितरौ विश्वतोमुखौ ।
प्रीयेतां मूर्त्तिदानेन देवो हरिहरावुभौ॥
दानं होमविधेः पश्चाद्दानादन्वभिषेचनम् ।
अभिषेचनपूर्वात्र विप्रपूजा स्मृता शिवे!॥
ततोऽभिगम्य गोविन्दशुलिनोश्च निकेतनम् ।
तुर्याणां च निनादेन जयघोषेण पार्वति!॥
पूजाविधिं समाप्येव सर्वोपस्करसंयुतम् ।
प्रार्थयेद्देवदेवेशौ लक्ष्मीशैलसुतेश्वरौ॥
दण्डवत्प्रणिपातेन पूजनीयौपुनः पुनः ।
ततः स्वगृहमागत्य ब्राह्मणान्भोजयेत्सुधीः॥
तोषयेद्दक्षिणादानैर्यथाशक्त्या वरानने ! ।
एवङ्कृते विधानेन विघ्ननाशो भवेद्ध्रुवम्॥
तुष्टिदं पुष्टिदं नॄणां विधानमिदमुत्तमम्॥
इति श्रीप्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्रविवरणे
संस्कारगणपतौ शिवसंहितोक्त मेक नक्षत्रजननशान्तिविधानम्॥
<MISSING_FIG href=”../books_images/U-IMG-1695984357Screenshot2023-09-29161547.png"/>
.
अथ गण्डान्तविचारो लिख्यते ।
नक्षत्रतिथिलग्नानां गण्डान्तं त्रिविधं स्मृतम् ।
गण्डान्तं मृत्युदं जन्मयात्रोद्वाहव्रतादिषु॥
ज्योतिर्निबन्धे—
सार्पेन्द्रपौष्णभेष्वन्त्यषोडशांशा भसन्धयः ।
तदग्रभेष्वाद्यपादा भानां गण्डान्तसंज्ञकाः॥
सूर्यसिद्धान्ते—
सार्पेन्द्रपौष्णधिष्ण्यानामन्त्यपादा भसन्धयः ।
तदग्रभेषु पादार्धं गण्डान्तं नाम कीर्तितम्॥
ज्योतिःसागरे—
अश्विनीमघमूलादौ त्रि३वेद४नव९नाडिकाः ।
रेवतीशाक्रसार्पान्त्यमासशक्रशिवास्त्यजेत्॥
रत्नमालायाम्—
पौष्णाशिबन्योः सार्वपित्राख्ययोश्च यच्च ज्येष्ठामुलयोरन्तरालम् ।
तद्गण्डान्तं स्याच्चतुर्नाडिकं हि यात्राजन्मोद्वाहकालेष्वनिष्टम्॥
अथ तिथिगण्डान्तं मुहूर्तसर्वस्वे—
पूर्णानन्दातिथेः सन्धौ गण्डान्तं घटिकाद्वयम्॥
अथ लग्नगण्डान्तं ज्योतिर्निबन्धे—
कुलीरसिंहयोः ४ \। ५ \। कीटचापयो८/९ \। र्मीनमेषयोः १२। १ ।
गण्डान्तमन्तरालं स्याद्धटिकार्द्धं मृतिप्रदम्॥
ज्योतिःसागरे—
कथयति वराहमिहरो विलोक्य वाक्यानि गण्डविषये च ।
गण्डदण्डप्रमितं पूर्वं पश्चात्तयोर्मध्यात्॥
फलम्—
तिथ्यर्क्षगण्डे पितृमातृनाशो लग्ने तु सन्धौ तनयस्य नाशः ।
सर्वेषु नो जीवति हन्ति सर्वं जीवेत्पुनः स्याद्धनवान्स जातः॥
पिवृघ्नश्च दिवा जातो रात्रौ जातस्तु मातृहा।
आत्मनः सन्ध्ययोर्जातो नास्ति गण्डो निरामयः॥
उत्तरगर्गो गण्डान्तदानमाह—
तिथिगण्डे त्वन्नदानं नक्षत्रे धेनुरुच्यते ।
काञ्चनं लग्नगण्डे तु गण्डदोषो विनश्यति॥
सर्वेषां गण्डजातानां परित्यागो विधीयते ।
तातेन दर्शनं तावद्यावत्षाण्मासिको भवेत्॥
तस्य शान्तिं प्रवक्ष्यामि सोममन्त्रेण भक्तिमान् ।
सोममन्त्र“आप्यायस्वे”त्यादिः ।
कांस्यपात्रं प्रकुर्वीत पलैः षोडशभिर्युतम्॥
अष्टाभिश्च चतुर्भिर्वा द्वाभ्यां वा शोभनं मतम् ।
तत्र पायसशङ्खेन नवनीतेन पूरिते॥
कांस्यपात्रे पायसं निक्षिप्य तत्र नवनीतपूर्णं शङ्खं स्थापयित्वा चन्द्रप्रतिमामर्चेदित्याह—
राजतं चन्द्रमभ्यर्च्य सितपुष्पसहस्रकैः ।
दैवज्ञः क्षौमवासास्तु शुक्लमाल्याम्बरार्चितः॥
सोमोऽहमिति सञ्चिन्त्य पूजां कुर्यात्समाहितः ।
दत्वैव दक्षिणामिष्टां गण्डदोषप्रशान्तये॥
शुक्लंवागीश्वरं चैव ताम्रपात्रे समर्चितम् ।
गण्डदोषोपशान्त्यर्थे दद्याद्वेदविदे शुचिः॥
इदं शान्तिकं गोमुखप्रसवपूर्वकं कर्तव्यम् ।
पूषाश्विनोर्गुरौ सार्पमघाचित्रेन्दुमूलभे ।
एषु ऋक्षेषु जातस्य कुर्याद्भोजननं तथा॥
इति गर्गोक्तनक्षत्रगण्डान्त शान्तिः । अथ तिथ्यादिगण्डान्तशान्तिः ।
अभुक्तेतरजातस्य सूतकान्तदिनेऽथ वा ।
शान्तिं शुभेऽह्नि वा कुर्यात्तावत्पुत्रं न लोकयेत्॥
आद्यभागे पितुर्गण्डं त्रयाणामभिषेचनम् ।
इतरत्र शिशोर्मातुरभिषेकं च कारयेत्॥
उत्तरे तिलपात्रं स्यात्पुष्ये गोदानमुच्यते ।
आज्यप्रदानं त्वाष्ट्रे च पूर्वापाढे च काञ्चनम्॥
स्वाष्ट्रं चित्रानक्षत्रम् ।
उत्तरातिष्यचित्रासु पूर्वाषाढोद्भवस्य च ।
कुर्याच्छान्तिं प्रयत्नेन नक्षत्राकारजं बुधः॥
सुवर्णेन तदर्धेन यथावित्तानुसारतः ।
नक्षत्राधिपते रूपं कृत्वा वस्त्रद्वयान्वितम्॥
वरुणस्यार्चनं कार्यं स्वस्तिवाचनपूर्वकम् ।
शतौषधानि रत्नानि मृत्त्वक्पल्लवसंयुतम्॥
वरुणपूजा कलशे कार्या लिङ्गात् ।
पूजान्ते समिदन्नाज्यैर्होमं तिलयवैस्तथा ।
ततः पूर्णाहुतिं हुत्वा वेदाध्यायिकुटुम्बिने॥
उत्तराप्रथमे पादे तिलपात्रं तथैव च ।
तिष्ये तु गां सवत्सां च सुशीला च पयस्विनीम्॥
अजा चित्रासु वै दद्यात्पूर्वाषाढे तु काञ्चनम् ।
यवाश्च व्रीहिमाषाश्चतिलमुद्गान्प्रदापयेत्॥
यथावित्तानुसारेण कुर्याद्ब्राह्मणभोजनम् ।
पितुरायुष्यवृद्ध्यर्थं शान्तिरत्र विधीयते॥
एवं यः कुरुते सम्यक्शान्तिकर्म समाहितः ।
न दोषैर्लिप्यते नूनं पद्मपत्रमिवाम्भसा॥
आयुरारोग्यमैश्वर्यं समाप्नोति दिने दिने ।
धनधान्यसमृद्धिं च पुत्रपौत्रसमृद्धिमान्॥
इत्युत्तरगार्ग्ये तिथ्यादिगण्डान्तशान्तिः ।
अथ दिनक्षयादिसर्वगण्डान्तशान्तिः—
अथातः सम्प्रवक्ष्यामि जन्मकाले विशेषतः ।
गण्डान्तानि च नामानि महादोषकराणि च॥
दिनक्षये व्यतीपातेव्याघाते विष्टिवैधृतौ ।
मूलेगण्डेऽतिगण्डे च परिधे यमघण्टके॥
कालगण्डे मृत्युयोगे दग्धयोगे सुदारुणे ।
तस्मिन्गण्डदिने प्राप्ते प्रसूतिर्यदि जायते॥
अतिदोषकरी प्रोक्ता तत्र पापयुते सति ।
विचार्य तत्र दैवज्ञं शान्तिं कुर्याद्यथाविधि॥
यजनं देवतानां च ग्रहादींश्चैव पूजयेत् ।
दीपं शिवालये भक्त्या घृतेन प्रतिपादयेत्॥
अभिषेकं शङ्करस्य अश्वत्थस्य प्रदक्षिणाम् ।
आयुर्वृद्धिकरं जाप्यं सर्वारिष्टविनाशनम्॥
गुरुदैवतविप्राणां पूजनं गोत्रवर्धनम् ।
पुष्ट्यायुस्तुष्टिवृद्ध्यर्थमभीष्टफलसिद्धये॥
सर्वारिष्टहरार्थाय ग्रहयज्ञं समाचरेत् ।
शिवाय विधिवद्भक्त्यादीपदानं करोति यः॥
अखण्डं गोघृतेनैव स वै मृत्युं जयेन्नरः ।
पुनर्ग्रहपुजनशिवदीपदानादिकथनं गुणफलसम्बन्धार्थम्, ततो न कार्यान्तरमिति द्रष्टव्यम् ।
विष्णुमूर्त्तिमहापुण्यमश्वत्यं श्रीकरं सदा॥
प्रदक्षिणां ततो भक्त्या कृत्वा मृत्युञ्जयं जपेत् ।
अर्थसम्पत्समृद्ध्यर्थं नित्यकल्याणवृद्धये॥
अभीष्टफलसिध्यर्थं कुर्याद्ब्राह्मणभोजनम् ।
अभिषेकं शिवे ! शान्तिं कृत्वा भक्त्या नरोत्तमः॥
अकालमृत्युं निर्जित्य दीर्घायुजयते नरः॥
विधानान्तरमाह—
गाणपत्यं पुरुषसूक्तं सौरं मृत्युञ्जयं शुभम् ।
शान्तिजाप्य रुद्रजाप्यं कृत्वा मृत्युञ्जयी भवेत्॥
मूलेवा सार्पगण्डे वा कुर्यादेतानि यत्नतः ।
आयुर्वृद्धिकरार्थाय गण्डदोषोपशान्तये॥
इत्युत्तरगार्ग्योक्तदिनक्षयादि गण्डान्तशान्तिः । अथ व्यतीपाता दिशान्तिः । शौनकीये—
अथातः सम्प्रवक्ष्यामि शौनकः शान्तिमुत्तमाम् ।
वैधृतौ च व्यतीपाते महादोषोऽभिजायते॥
कुमारजन्मकालेच व्यतीपातश्च वैधृतिः ।
सङ्क्रमञ्च रवेस्तत्र जातो दारिद्र्यकारकः॥
दरिद्राणां महादुःखं व्याधिपीडामहद्भयम् ।
अश्रियं मृत्युमाप्नोति नात्र कार्या विचारणा॥
स्त्रीणा च शोकदुःखं च सर्वनाशकरो भवेत् ।
शान्तिर्वा पुष्कला कार्या तदा दोषो न कञ्चन॥
गोमुखप्रसवं कुर्याच्छान्तिं कुर्यात्प्रयत्नतः ।
जपाभिषेकदानैश्च होमादपि विशेषतः॥
नवग्रहमखं कुर्यात्तस्य दोषोपशान्तये ।
प्रथमं गोमुखाज्जन्म ततः शान्तिं समाचरेत्॥
गृहस्य पूर्वदिग्भागे गोमयेनानुलिप्य च ।
अलङ्कृतस्वदेशे तु व्रीहिराशिं प्रकल्पयेत्॥
पञ्चद्रोणमितं धान्यं तदर्घं तण्डुलेन च ।
तदर्थं तु तिलैः कुर्यादन्योन्यं परिकल्पयेत्॥
घान्यं ब्रीहिः । प्रथमं व्रीहिपरिधिः, तन्मध्ये तण्डुलपरिधि, तदन्तस्तिलपरिधिः, इति राशित्रयविवेकः ।
द्रव्यत्रितपराशौ तु अष्टपत्रं लिखेद्बुधः ।
पुण्याहं वाचयित्वा तु आचार्यं वृणुयात्पुरा॥
आचारवन्तं धर्मज्ञं कुलीनं च कुटुम्बिनम् ।
मन्त्रमन्त्रार्थतत्त्वज्ञं शान्तिकर्मणि कोविदम्॥
पञ्चाङ्गभूषणं दद्यात्पदवस्त्राङ्गुलीयकम् ।
राशौ प्रतिष्ठितं कुम्भमव्रणं सुमनोहरम्॥
तीर्थोदकेन सम्पूर्यत्वङ्मूदौषधिपल्लवम् ।
मङ्गल्यं गन्धरत्रंच वस्त्रयुग्मेन वेष्टयेत्॥
तस्योपरि न्यसेत्पात्रं सूत्रवस्त्रेण वेष्टयेत ।
प्रतिमां स्थापयेद्धीमान्साधिप्रत्यधिदेवताम्॥
चन्द्रादित्याकृती पार्श्वे मध्ये वैधृतिमर्चयेत् ।
एवमेव व्यतीपातशान्तौ सङ्क्रमणस्य तु॥
भानोरुत्तरतो रुद्रमग्निंदक्षिणतो यजेत् ।
निष्कमात्रेण चार्धेन पादेनापि स्वशक्तितः॥
प्रतिमाः कारयेद्धीमांस्तत्तल्लक्षणलक्षिताः ।
प्रतिमापूजनार्थाय वस्त्रयुग्मं निवेदयेत्॥
अधिदैवं भवेत्सूर्यश्चन्द्रः प्रत्यधिदैवतम् ।
तत्तव्द्याहृतिपूर्वेण तत्तन्मन्त्रेण पूजयेत्॥
अयमत्र विवेकः—वैधृतिर्व्यतीपातश्च प्रघानदेवता, उभयत्रापि सूर्योऽधिदेवता, चन्द्रः प्रत्यधिदेवता ।सङ्क्रान्तौतु भानुः प्रधानदेवता, रुद्रोऽधिदेवता, अग्निःप्रत्यधिदेवतेति ।
त्र्यम्बकमितिमन्त्रेण प्रधानप्रतिमां यजेत् ।
तत्सूर्य इति मन्त्रेण सूर्यपूजां समाचरेत् ।
आप्यायस्वेति मन्त्रेण सोमपूजां समाचरेत्॥
सङ्क्रान्तिदेवतादिपूजनं तु तत्तल्लिङ्गकैर्मन्त्रैः कार्यम् । व्याहृतिमन्त्रास्तु सर्वैः समुच्चीयन्ते ।
उपचारैः षोडशभिर्यद्वा पञ्चोपचारकैः ।
अर्चितं पुष्पगन्धाद्यैः फलैर्नैवेद्यमर्पयेत्॥
मृत्युञ्जयेन मन्त्रेण प्रधानमतिमां स्पृशन् ।
अष्टोत्तरसहस्रं वा अष्टोत्तरशतं तु वा॥
अष्टाविंशति वा चाथ प्रजप्याथ स्वशक्तितः ।
सर्वसौरं प्रजप्याथ सोमार्थं सोममन्त्रतः॥
आ नो भद्रेति सूक्तं च भद्रा अग्नेश्च सूक्तकम् ।
जपेच्च पौरुषं सूक्तं त्रैयम्बकमतः परम् ।
कुम्भं स्पृष्ट्वा चतुर्दिक्षुजपंकुर्युस्त्वथर्त्विजः॥
कुम्भस्य पश्चिमे देशे स्थण्डिलेऽग्निं प्रकल्पयेत्॥
स्वगृहह्योक्तविधानेन कारयेत्संस्कृतानलम् ।
त्रैयम्बकेन मन्त्रेण समिदाज्यचरुं हुनेत्॥
अष्टोत्तरसहस्रं वा अष्टोत्तरशतं तु वा ।
अष्टाविंशति वा कुर्यात्स्वस्य शक्त्यनुसारतः॥
मृत्युञ्जयेन मन्त्रेण तिलहोमं समाचरेत् ।
ततः स्विष्टकृतं हुत्वा अभिषेकन्तु कारयेत्॥
समुद्रज्येष्ठाःसूक्तेन आपोहिष्ठा तृचेन च ।
अक्षीभ्यामिति सूक्तेन पावमानीभिरेव च॥
त्रैयम्बकेन तत्सूर्य आप्यायस्वेति मन्त्रतः ।
सुरास्त्वामिति मन्त्रेण अभिषेकं समाचरेत्॥
अभिषेकाप्लुतंवस्त्राचार्याय प्रदापयेत् ।
श्वेतवस्त्रधरो भूत्वा भुषणाद्यैरलङ्कृतः॥
यजमानःस्त्रिया युक्त आज्यावेक्षणमाचरेत् ।
आचार्यं पूजयेद्भक्त्या वस्त्रहेमाङ्गुलीयकैः॥
गोदानं वस्त्रदानं च स्वर्णदानं विशेषतः ।
तद्दोषशमनार्थाय आचार्याय प्रदापयेत्॥
प्रच्छादनपटं दद्यात्ततः शान्तिर्भविष्यति ।
जापकेभ्यो ब्राह्मणेभ्यो दक्षिणाभिश्च तोषयेत्॥
दीनान्धकृपणेभ्यश्च प्रदद्याद्भूरिदक्षिणाम् ।
ब्राह्मणाञ्छतसङ्ख्याकान्मिष्टान्नैर्भोजयेत्ततः॥
बन्धुभिः सह भुञ्जति यथाविभवसारतः ।
एवं यः कुरुते मर्त्यो नैव दुःखमवाप्नुयात्॥
आयुरारोग्यमैश्वर्यं मातापित्रोः शिशोरपि ।
सर्वदुःखनिवृत्त्यर्थं पुत्रपौत्रप्रवर्द्धनम्॥
सर्वान्कामानवाप्नोति सुखी भूत्वा चिरं वसेत्॥
इति शौनकोक्तवैधृतिव्यतीपातसङ्क्रान्तिजननशान्तिः ।
अथ विषघटिकाजननशान्तिः । वृद्धगार्ग्यः—
विषनाडीषु सञ्जाते मातापित्रोरथात्मनः ।
नाशकृद्विषशस्त्रास्त्रैः क्रूरे लग्ने समेऽपि वा॥
तद्दोषपरिहाराय शान्तिकर्म समाचरेत ।
रुद्रो यमोऽग्निर्मृत्युश्च देवताः परिकीर्तिताः॥
सुवर्णेन यथाशक्त्या तत्तल्लक्षणसंयुताः ।
प्रतिमाः कारयित्वा तु आढकव्रीहिभिः स्थले॥
स्थण्डिले परिकल्प्याथ कुसुमौषधिसंयुतम् ।
जलैः सम्पूर्य संस्थाप्य मृदादि प्रक्षिपेत्ततः॥
वस्त्रद्वयेन संवेष्ट्य पश्चरत्नानि निक्षिपेत् ।
कुम्भस्योपरि संस्थाप्य चतस्रः प्रतिमास्तथा॥
तत्तन्मन्त्रैश्च सम्पूज्य गन्धपुष्पोपहारकैः ।
कद्रुद्रायेतिमन्त्रेण यमायत्वेति मन्त्रतः॥
अग्निर्मूर्धेतिमन्त्रेण परम्मृत्यो इति त्वथ ।
एतैश्चतुर्भिर्मन्त्रैश्च क्रमादर्चेद्धुनेत्तथा॥
समिच्चरुघृतद्रव्यैः प्रत्येकं च यथाक्रमम् ।
ऋत्विग्मिश्चसहाचार्यो हुनेदष्टसहस्रकम्॥
अष्टोत्तरशतं वाथ अष्टाविंशतिमेव वा ।
ततस्तिलैर्हुनेद्देवांस्तत्तन्मन्त्रैश्च कल्पवित्॥
तिलहोमोऽपि रुद्रादीनामेव ।
ततोऽभिषेचयेद्दानमन्त्रैः पौराणिकैःक्रमात् ।
दानं प्रतिमानां कुर्यादिति शेषः ।
प्रीयतां भगवानीशः पिनाकी सर्वतोमुखः॥
तवमूर्तिप्रदानेन समस्ताभीष्टदो भव ।
ईषत्पीनो यमः कालो दण्डहस्तः प्रसन्नधीः॥
रक्तो दिक्पालकः क्लृप्तो महिषस्थः शिवं कुरु ।
पिङ्गभ्रूश्मश्रुकेशान्तः पिङ्गाक्षचरणोऽरुणः॥
छागस्थः साक्षसूत्रश्च सप्तार्चिः शक्तिलोचनः ।
तवमूर्तिप्रदानेन मम पापं विनाशय॥
दंष्ट्राकरालवदनो नीलाञ्जनसमाकृतिः ।
रक्तः खडूगगदापाणिर्मृत्युर्मा पातु सर्वदा॥
दानमेवंविधैर्मन्त्रैर्यथाविधि समाचरेत् ।
गोभूहिरण्यमन्त्रैश्च आचार्यं पूजयेत्सुधीः॥
एवं कुर्वन्विधानेन सर्वदोषं प्रशामयेत्॥
इति वृद्धगार्ग्योक्तविषघटिकाजननशान्तिः ।
अथ कृष्णचतुर्दशीशान्तिः ।
मन्दिरस्थं सुखासीनं गर्गं मुनिवरं शुभम् ।
नमस्कृत्याथ पप्रच्छ शौनको मुनिपुङ्गवः॥
शौनक उवाच—
शान्तिकर्माणि सर्वाणि त्वत्तो जातानि वै मुने! ।
अधुना श्रोतुमिच्छामि कृष्णपक्षचतुर्दशीम्॥
दिवा वा यदि वा रात्रौप्रसूतेः किं फलं वद ।
गर्ग उवाच—
कृष्णपक्षे चतुर्दश्यां प्रसूतेः षड्विधं फलम्॥
चतुर्दश्यां तु षड्भागं कुर्यादादौ शुभं भवेत् ।
द्वितीये पितरं हन्ति तृतीये मातरं तथा॥
चतुर्थे मातुलं हन्ति पञ्चमे वंशनाशनम् ।
षष्ठे तु धनहानिः स्यादात्मनो वंशनाशनम्॥
तस्मात्सर्वप्रयत्नेन शान्तिं कुर्याद्विधानतः ।
प्रतिमां कारयेच्छम्भोः कर्षमात्रसुवर्णतः॥
तदर्धार्धेन वा कुर्यात्पर्वलक्षणसंयुताम् ।
वृषभे च समासीनंवरदाभयपाणिकम्॥
शुद्धस्फटिकसंकाशं श्वेतमाल्याम्बरान्वितम् ।
त्रैयम्बकेन मन्त्रेण पूजा कुर्याद्विधानतः॥
मूलशान्तिवत् कलशस्थापनादि कृत्वा तत्र शम्भुपूजांविधाय तत्र—
आवाह्य वारुणैर्मन्त्रैरनेन च विधानतः ।
इसम्मे वरुणेत्यनया तत्त्वायामीत्यृचा तथा ।
त्वन्नो अग्नइत्यनया सत्वन्न इतिमन्त्रतः ।
आग्नेयं कुम्भमारभ्य पूजां कुर्याद्यथाक्रमात्॥
आनो भद्राश्चसूक्तेन भद्रा अग्नेश्चसूक्तकम् ।
जपेत्पुरुषसूक्तं च कद्रुद्रन्तु क्रमाज्जपेत्॥
ईश्वरस्याभिषेकं च ग्रहपूजां च कारयेत् ।
समिदाज्यचरूंश्चैव तिलमाषाश्चसर्पशन्॥
अश्वत्थप्लक्षपालाशसमिद्भिः खादिरैः शुभैः ।
अष्टोत्तरसहस्रं वा अष्टोत्तरशतन्तु वा॥
अष्टाविंशतिभिर्वापि होमं कुर्यात्पृथक्पृथक् ।
त्रैयम्बकेन मन्त्रेण तिलान्व्याहृतिभिः क्रमात्॥
ग्रहा एवं च होतव्याश्चास्मदुक्तविधानतः ।
एवं क्रमेण हुत्वाऽथ होमशेषं समापयेत्॥
सर्वालङ्कारयुक्तानां त्रयाणामभिषेचनम् ।
त्रयाणां मातृपितृवालानाम् ।
चतुर्भिः कलशैरद्भिर्बृहत्कुम्भसमन्वितम्॥
चतुःकलशोदकं बृहत्कुम्भे निर्षिच्याचार्योऽभिषेकं कुर्यादित्यर्थः ।
धौताम्बराणि घृत्वाऽथ कुर्यादाव्यावलोकनम् ।
पुर्णाहुतिं च जुहुयाद्यजमानः समाहितः॥
तत्सर्वं परया भक्त्या ईश्वराय निवेदयेत् ।
अन्येषामृत्विजां चैव कुर्याद्ब्राह्मणभोजनम् ।
तस्मादनेन विधिना वित्तशाठ्यविवर्जितः॥
य एवं कुरुते शान्तिं सर्वारिष्टैः प्रमुच्यते॥
सर्वान्कामानवाप्नोति स्थिरजीवी सुखी भवेत्॥
( इत्युत्तरगार्ग्योक्तकृष्णचतुर्दशशान्तिः । )
अथ सिनीवालीकुहूशान्तिविधानम् ।अमायुक्ता चतुर्दशी सिनीवालीत्युच्यते । **“दृष्टचन्द्रा सिनीवाली”**त्यभिधानात् । नष्टचन्द्रा अमावस्या कुहूरिस्युच्यते । गर्गः—
सिनीवाल्यां प्रसूता स्याद्यस्य भार्यापश्चस्तथा ।
गजाश्वमहिषी चैव शक्रस्यापि श्रियं हरेत्॥
ये सन्ति सकलाश्चान्ये स्वप्रसादोपजीविनः ।
वर्जयेत्तानशेषांस्तु पशुपक्षिमृगादिकान्॥
कुहूप्रसूतिरत्यर्थं सर्वदोषकरी भवेत् ।
यस्य प्रसूतिरेतेषा तस्यायुर्धननाशनम्॥
सर्वगण्डसमस्तत्र दोषस्तु प्रवलो भवेत् ।
शान्तिं विना विशेषेण परित्यागो विधीयते॥
परित्यागात्तत्र शान्तिं कुर्याद्धोमं विचक्षणः ।
तत्फलं तत्क्षणार्धेन पुनरेवानुपालनम्॥
तद्योगं नाशयेत्किञ्चित्स्वयं वा नाशमश्नुते ।
कल्पोक्तशान्तिः कर्तव्या शीघ्र दोषापनुत्तये॥
रुद्रः शक्रश्च पितरः पूज्याः स्युर्देवताः क्रमात् ।
कर्षमात्रसुवर्णेन तदर्धार्धेन वा पुनः॥
अथ वा शक्तितः कुर्याद्वित्तशाठ्यविवर्जितः ।
प्रतिमां कारयेच्छम्भोचतुर्भुजसमन्विताम्॥
त्रिशुलखङ्गवरदाभयहस्तां यथाक्रमात् ।
श्वेतवर्णां श्वेतपुष्पां श्वेताम्बरवृषस्थिताम्॥
त्रैयम्बकेन मन्त्रेण पूजां कुर्याद्यथाविधि ।
इन्द्रश्चतुर्भुजो वज्राङ्कुशबाणः समायकः॥
रक्तवर्णो गजारूढो यत इन्द्रेति मन्त्रतः ।
पितरः कृष्णवर्णाश्च चतुर्हस्ता विमानगाः॥
अक्षसूत्रकमण्डल्वभयस्यैव तु धारिणः ।
ये सत्या इति मन्त्रेण पूजां कुर्यादनन्तरम्॥
आग्नेयीं दिशमारभ्य कुम्भान्कोणेषु विन्यसेत् ।
तन्मध्ये स्थापयेत्कुम्भं शतच्छिद्र समन्वितम्॥
तेष्वेव पञ्चगव्यादि तत्तन्मन्त्रैश्च निक्षिपेत् ।
कल्पोक्तशान्तिः कर्त्तव्या कुर्याच्छीघ्रं स्वशक्तितः॥
गोदानं वस्त्रदानं च सुवर्णं च वरं शुभम् ।
दश दानानि चोक्तानि क्षीरमाज्यं गुडांस्तथा॥
आज्यावेक्षणमेतानि तत्तन्मन्त्रैश्च कारयेत्॥
अन्यत्र सर्वशान्तिषु तथा क्रमस्योपलब्धेः । इदं दानं होमाभिषेकानन्तरं कार्यम ।
समिदाज्यचरोर्होमं तिलमाषैश्च सर्षपैः॥
अश्वत्थप्लक्षपालाशसमिद्भिः खादिरैः शुभैः ।
अष्टोत्तरशतं मुख्यं प्रत्येकं जुहुयाद्द्विजः॥
त्रयम्बकेन मन्त्रेण तिलान्व्याहृतिभिः पुनः ।
मुखपदोपादानं शक्तौ सङ्ख्योत्तरस्य ज्ञापकम् । तेनाष्टाविंशतिपि संख्या भवति ।
चतुर्भिः कलशैर्युक्तं बृहत्कुम्भसमन्वितम्॥
शान्तिवत्कलशं कार्यमभिषेकं च कारयेत् ।
पितृमातृशिशूनां च अभिषिश्चेत्तु वारुणैः॥
शङ्करस्याभिषेकञ्च कुर्याद्ब्राह्मणभोजनम् ।
अन्येषां चैव सर्वेषां ब्राह्मणानां च तर्पणम्॥
कार्यं शक्तानुसारेण स्वस्तिवाचनपूर्वकम्॥
( इत्युत्तरगार्ग्योक्तसिनीवालीकुहूशान्तिविधानम्॥ )
अथ दर्शजननशान्तिविधानम् ।नारदः—
अथातो दर्शजातानां मातापित्रोर्दरिद्रता ।
तद्दोषपरिहारार्थं शान्तिं वक्ष्यामि नारदः ।
पुण्याहं वाचयित्वादौ क्रतुसङ्कल्पपूर्वकम्॥
कुण्ड वा मण्डलं कुर्यात्तद्देशे स्थापयेद्धटम् ।
तत्कुम्भे निक्षिपेद्द्रव्यं दधिक्षीरघृतादिकम् ।
न्यग्रोधोदुम्बराश्वत्थाः सचूता निम्बकास्तथा॥
एतेषां वृक्षवर्याणां त्वगादर्दान्पल्लवांस्तथा ।
पञ्चरत्नानि निक्षिप्य वस्त्रयुग्मेन वेष्टयेत्॥
सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः ।
आयान्तु यजमानस्य दुरितक्षयकारकाः॥
आपोहिष्ठातृचेनाथ कयानश्चित्र इत्यूचा ।
अभिमन्त्र्योदकं पश्चादग्नेःपूर्वप्रदेशके॥
हारिद्रं रक्तकं चैव कृष्णं श्वेतं च नीलकम् ।
एतेषां तण्डुलैश्चैव सर्वतोभद्रमुद्धरेत्॥
दर्शस्य देवतायाश्च सोमसूर्यस्वरूपिणीम् ।
प्रतिमां स्वर्णजनितां राजतीं ताम्रजां तथा॥
अयं धातुक्रमो दर्शेसोमसूर्यक्रमापेक्षया द्रष्टव्यः ।
सर्वतोभद्रमध्ये च स्थापयेद्दर्शदेवताम् ।
ग्रहवर्णं वस्त्रयुग्मं तद्वर्णगन्धपुष्पकम्॥
श्वेतरक्तवर्णंमित्यर्थः ।
आप्यायस्वेति मन्त्रेण सविता पश्चात्तादेव च ।
उपचारैः समाराध्य ततो होमं समाचरेत्॥
सोमसूर्यपूजापि सर्वतोभद्र एव सन्निध्यात् ।
ततो वह्निं प्रतिष्ठाप्य क्रतुसङ्कल्प ईदृशः ।
आयुरारोग्यसिद्ध्यर्थं सर्वारिष्टप्रशान्तये॥
पुत्रस्य दर्शजननदोषनिर्हरणाय च ।
मातापित्रोः कुमारस्य सर्वारिष्टप्रशान्तये॥
तेषामायुःश्रिये चैवशान्तिहोमं करोम्यहम् ।
अयं सङ्कल्पपूर्वकमपि कार्यः । तत्रैतावान्विशेषो “दर्शजननशान्तिंकरिष्ये" इति ।
समिधश्चचरुं द्रव्यक्रमेण जुहुयाद्गृही॥
हुनेत्सवितृमन्त्रेण सोमो धेनुं च मन्त्रतः ।
सवितृमन्त्र **“आकृष्णेने"**त्यादिः ।
एतैर्मन्त्रैस्तु प्रत्येकं हुनेदष्टोत्तरं शतम् ।
दर्शस्य देवताहोममष्टाविंशतिसंख्यया॥
दर्शदेवतामन्त्रस्तल्लिङ्गको ग्राह्यः। यद्वा दर्शदेवतापूजाहोमादिमूलमन्त्रेण कार्यम्, वेदमन्त्रेण न कार्यम्, वेदमन्त्रानुपदेशात् ।
होममेवन्तु कृत्वाथ विध्याचाराभिषेचनम्॥
अभिषेकस्तु पूर्वस्थापितकुम्भेन कार्यः। श्रीसूक्तमायुष्यसूक्तं, “समुद्रज्येष्ठा” बहृचम् ।
एतैर्मन्त्रैश्याभिषेकं मातापित्रोः शिशोस्तथा॥
ततः स्विष्टकृदादि स्याद्धोमशेषं समापयेत् ।
हिरण्यं रजतं चैव कृष्णा धेनुःसदक्षिणा॥
अन्येभ्योऽपि यथाशक्ति दातव्या दक्षिणा तथा ।
ब्राह्मणान्भोजयेत्तत्र कारयेत्स्वस्तिवाचनम्॥
( इति नारदोक्तदर्शजननशान्तिः । )
अथ सूर्यग्रहणसमयजननशान्तिः ।
ग्रहणे चन्द्रसूर्यस्य प्रसूतिर्यदि जायते ।
व्याधिपीडा तदा स्त्रीणामादितः सम्प्रजायते॥
ऋतुदर्शं प्रवक्ष्यामि नराणां हितकाम्यया ।
यस्मिनूक्षे विशेषेण ग्रहणं सम्प्रजायते॥
तदृक्षाधिपते रूपं सुवर्णेन प्रकल्पयेत् ।
यथाशक्त्यनुसारेण वित्तशाठ्यं न कारयेत्॥
सूर्यग्रहे सूर्यरूपं सुवर्णेन स्वशक्तितः ।
चान्द्रं चन्द्रग्रहे धीमात्रजतेन विशेषतः॥
राहुरूपं प्रकुर्वीत नागेनैव विचक्षणः ।
नागेन सीसकेन ।
शुचौ देशे प्रयत्नेन गोमयेन प्रलेपयेत्॥
तस्योपरि न्यसेद्धीमान्नववस्त्र सुशोभनम् ।
त्रयाणां चैव रूपाणां स्थापनं तत्र कारयेत्॥
रक्ताक्षतं रक्तगन्धं रक्तपुष्पाम्बराणि च ।
सूर्यग्रहे प्रदातव्यं सूर्यप्रीतिकरं च यत्॥
श्वेतवस्त्रं श्वेतमाल्यं श्वेतगन्धाक्षतादि च ।
चन्द्रग्रहे प्रदातव्यं चन्द्रप्रीतिकरं च यत्॥
राहवे चैव दातव्यं कृष्णपुष्पाम्बराणि च ।
दद्यान्नक्षत्रनाथाय श्वेतगन्धानुलेपनम्॥
सूर्यं सम्पूजयेद्धीमानाकृष्णेनेति मन्त्रतः ।
चन्द्रग्रहे च पालाशैः समिद्भिर्जुहुयान्नरः॥
दुर्वाभिजुर्हुयाद्धीमात्राहोः सम्प्रीणनाय च ।
समिद्भिर्ब्रह्मवृक्षोत्थैर्मेषाय जुहुयाद्बुधः॥
भेषाय नक्षत्राधिपतये ।
आज्येन चरुणा चैव तिलैश्च जुहुयात्ततः ।
पञ्चगव्यैः पञ्चरत्रैः पञ्चत्वक्पञ्चपरल्लवैः॥
जलैरोषधिकल्कैश्च सहितैः कलशोदकैः ।
ओषधिकल्कैःसर्वैषधीकहकैः ।
अभिषेकं प्रकुर्वीत यजमानेन यत्नतः ।
मन्त्रैर्वारुणदेवत्यैरापोहिष्ठादिभिस्त्रिभिः॥
इमम्मे व्वरुण तत्वा यामीति मन्त्रकैः ।
अभिषेके निवृत्ते तु यजमानः समाहितः ।
अनेन विधिना शान्ति कृत्वा सम्यग्विशेषतः॥
अकालमृत्युशोकं च व्याधिं पीडां न वाऽऽप्नुयात् ।
सौख्यं सौमनसं नित्यं सौभाग्यं लभते नरः॥
इत्थं ग्रहणजातानां सर्वांरिष्टविनाशनम् ।
कथितं भार्गवेणेदं शौनकाय महात्मने॥
( इति भार्गवोक्ता ग्रहणजननशान्तिः । )
अथ यमलजननशान्तिः । तत्रादौ तयोः संस्कारार्थं ज्येष्ठकनिष्ठभावमाहदेवलः—
यस्य जातस्य यमयोः पश्यन्ति प्रथमं मुखम् ।
सन्ततौ पितॄणां चैव तस्मिञ्ज्ज्यैष्ठ्यं प्रतिष्ठितम्॥
भागवते तु—
द्वौ तदा भवतो गर्भैमूर्ति वेशविपर्ययात्॥
इति पश्चादुत्पन्नस्य ज्येष्ठत्वमुक्तम् । तत्र देशाचारतो व्यवस्था ।तत्राश्वलायनकारिका—
अथ यस्य वधूर्गैर्वा जनयेच्चेद्यमौ ततः।
**स मरुद्भयश्चरुं कुर्यात्पूर्णाहुतिमथापि वा॥ **इति ।
अत्र चाश्वलायनब्राह्मणं भवति—“तदाहुर्य आहिताग्निर्यस्य भार्या गौर्वा यमौ जनयेत्का तत्र प्रायश्चित्तिरिति सोऽग्नये मरुत्वते त्रयोदशकपालं पुरोडाशं निर्वपेत्तस्य याज्यानुवाक्ये प्ररुतो यस्य हि क्षये राहवेदचरमा अहं वेत्याहुतिं वाहवनीये जुहुयादग्नये मरुत्वते स्वाहेति सा तत्र प्रायश्चित्तिरिति” । मारुतचर्वितिकर्तव्यता दर्शपूर्णमासस्थालीपाकवद्द्रष्टव्या ।
अथ कात्यायनगृह्यपरिशिष्टोक्तयमलजननशान्तिः । “अथातो यमलजनने प्रायश्चित्तं व्याख्यास्यामो यस्य भार्या गौर्दासीमहिषी वडवा वा विकृतं प्रसवेत्प्रायश्चित्ती भवेत्पूर्णे दशाहे चतुर्णां क्षीरवृक्षाणां काषायमुपस<MISSING_FIG href=”../books_images/U-IMG-1697598016Screenshot(14"/>.png)हरेत्प्लक्षवटोदुम्बराश्वत्थशमीदेवदारुगौरसर्ष-
पास्तेषामयोमिश्र<MISSING_FIG href="../books_images/U-IMG-1697598146Screenshot(14"/>.png)हिरण्यं दूर्वाङ्कुरास्रपल्लवैरष्टौ कलशान्प्रपूर्यसर्वौषधीनां दम्पती स्नापयित्वाऽऽपो हि ष्ठेति तिसृभिः कया नश्चित्र इति द्वाभ्यां पञ्चैन्द्रेण पञ्चवारुणेनेदमापः प्रवहतेत्यपाघमिति स्नापयित्वाऽलङ्कृत्य तौ दर्भेषूपवेश्य मारुत<MISSING_FIG href="../books_images/U-IMG-1697598146Screenshot(14"/>.png)स्थालीपाक<MISSING_FIG href="../books_images/U-IMG-1697598146Screenshot(14"/>.png)श्रपयित्वाऽऽज्यभागाविष्ट्वाज्याहुतीर्जुहोति पूर्वोक्तैः स्नपनमन्त्रैः स्थालीपाकस्य जुहोत्यग्नये स्वाहान्तकाय स्वाहा मृत्यवे स्वाहा सोमाय स्वाहा पवमानाय स्वाहा पावकाय स्वाहा मरुताय स्वाहा मारुताय स्वाहा मरुद्भ्यः स्वाहा यमाय स्वाहान्तकाय स्वाहा मृत्यवे स्वाहा ब्रह्मणे स्वाहाग्नये स्विष्टकृते स्वाहेत्येतदेव गृहोत्पात उलूकः कपोतो गृध्रःश्येनो वा गृहं प्रविशेत्स्तम्भः प्ररोरोहेद्वल्मीकं मधुजालं वा भवेदुदकुम्भप्रज्वलनासनशयनयानभङ्गेषु गृहगोधिकाकृकलासशरीरसर्पणे छत्रध्वजविनाशे सार्पदेवते नैर्ऋते गण्डयोगे देवसर्पे कृपाद्गर्जने पर्वतपातनेष्वन्येष्वप्युत्पातेष्वेतदेव प्रायश्चित्तं गृह्योक्तेन विधिना कृत्वाऽऽचार्याय वरं दत्वा ब्राह्मणान्भोजयित्वा स्वस्ति वाच्याशिषः प्रतिगृह्य शान्तिर्भवति शान्तिर्भवति" ।
इति हेमाद्रौ शान्तिकाण्डे कात्यायनपरिशिष्टोक्तयमलजननशान्तिः।
अथ सदन्तोपरिदन्तजननशान्तिः । तत्र पद्मपुराणे विष्णुधर्मोत्तरखण्डे परशुरामं प्रति आह पुष्करः—
दन्तजन्मनि वालानां लक्षणं तन्निबोध मे ।
उपरि प्रथमं यस्य जायन्ते तच्छिशोर्द्विजाः॥
द्विजा दन्ता इत्यर्थः ।
दन्तैर्वा सह यस्य स्याज्जन्म भार्गवसत्तम ! ।
मातरं पितरं चाथ खादेदात्मानमेव वा॥
तत्र शान्तिं प्रवक्ष्यामि तन्मे निगदतः शृणु ।
गजपृष्ठगतं बालं तैस्तथा स्नापयेद्द्विजः॥
तैरिति वक्ष्यमाणैः सर्वोषादिभिः सम्बध्यते ।
तदभावे तु धर्मज्ञः काञ्चने तु वरासने ।
सर्वौषधैः सर्वगन्धैर्वीजैःपुष्पैः फलैस्तथा॥
पञ्चगव्येन रत्नैश्च मृत्तिकाभिश्च भार्गव ! ।
स्थालीपाकन धातारं पूजयेत्तदनन्तरम्॥
सप्ताहं चात्र कर्तव्यं तथा ब्राह्मणभोजनम् ।
स्थालीपाकेन धातृपूजनं नैवेद्यहोमात्मकम ।
अष्टमेऽहनि विप्राणां तथा देया च दक्षिणा॥
काञ्चनं रजतं गाश्च भुवं चासनमेव च ।
दन्तजन्मनि सामान्ये शृणु स्नानमतः परम्॥
सामान्ये सदन्तोपरिदन्तजननव्यतिरिक्ते स्वाभाविकदन्तजनने इत्यर्थः ।
भद्रासने निवेश्यैनं मूर्ध्नि मूलफलैस्तथा ।
सर्वैषधैः सर्वबीजैः सर्वगन्धैस्तथैव च॥
स्नापयेत्पूजयेदत्र वह्निं सोमं समीरणम् ।
समीरणं वायुम् ।
पर्वताश्व तयाख्यातान्देवदेवं च केशवम्॥
एतेषामेव जुहुयाद्धृतमग्नौयथाविधि ।
एतेषां वन्ह्मादिपञ्चकानाम् ।होमसंख्याऽष्टोत्तरशतादिः ।
ब्राह्मणानां तु दातव्या यथाशक्त्या च दक्षिणा॥
ततस्त्वलङ्कृतं बालमासने तूपवेशयेत् ।
आसीनं छत्रमूर्द्धानं बीजैः सुस्नापयेत्ततः॥
स्वति वै (?) बालकाना च तैश्च कार्यं च पूजनम् ।
पूज्याश्चविविधा नार्यो ब्राह्मणाःसुहृदस्तथा॥
( इति पद्मपुराणोक्तं सदन्तोपरिदन्तस्वभाविकदन्तजननशान्तिविधानम् । )
अथोदर्ध्वदन्तजननमात्रशान्तिः । ब्रह्मयामले—
प्रथमं दन्तनिर्मोकमूर्द्धं बालस्य चेद्भवेत् ।
क्लेशाय मातुलस्येह स च प्रोक्तो मनीषिभिः॥
विघ्नभङ्गं प्रवक्ष्यामि विधानं विधिपूर्वकम् ।
सौवर्णं राजतं वापि ताम्रकांस्यमयन्तु वा॥
दध्योदनेन सम्पूर्णं पात्रं दद्याच्छिशोः करे ।
समन्त्रं भाजनं दत्वा तं पश्येन्मातुलः शुभम्॥
सालङ्कारं सवस्त्रच शिशुमाकिङ्ग्यसादरम् ।
मन्त्रस्तु—
रक्ष मां भागिनेय ! त्वं रक्ष मे सकलं कुलम्॥
गृहीत्वा भाजनं सान्नंप्रसन्नो भव मे सदा ।
निर्विघ्नं कुरु कल्याणं मां निर्विघ्नां स्वमातरम्॥
मय्यात्मानमधिष्ठाप्य चिरञ्जीव मया सह ।
ततोऽभिनन्दयेद्विद्वान्भगिनीं भगिनीपतिम्॥
ज्येष्ठाञ्छ्रेष्ठान्गुरून्विप्रानपरानपि पूजयेत् ।
होमं कृत्वा तिलाज्येन ब्राह्मणानपि भोजयेत्॥
होमसंख्याष्टोत्तरशतादिः ।
एवङ्कृते विधाने तु विघ्नःकोऽपि न जायते ।
तस्मात्प्रयत्नतो विद्वान्विधानं सम्यगाचरेत्॥
( इति ब्रह्मयामलोक्तमूर्द्धदन्तजननशान्तिकम् । )
अथ वैकृतप्रसवशान्तिः । प्रयोगपारिजाते गार्ग्यः—
अकालप्रसवा नार्यः कालातीतप्रजास्तथा ।
विकृतप्रसवाश्चैव धूमप्रसवनास्तथा॥
अमानुषा अखण्डाश्च अज्ञातव्यञ्जनास्तथा ।
अखण्डाःपिण्डीभूताः ।
हीनाङ्गाऽअधिकाङ्गाश्च जायन्ते यदि वा स्त्रियः॥
पशवः पक्षिणश्चैव तथैव च सरीसृपाः ।
विनाशं तस्य देशस्य कुलस्य च विनिर्दिशेत्॥
निर्वासयेत्तान्नृपतिश्च राष्ट्रात्स्त्रियश्च पूज्याश्च ततो द्विजेन्द्राः ।
चिकित्सनैर्ब्राह्मणतर्पणैश्च ततोऽस्य शान्तिं समुपैति पापम्॥
( इति गार्ग्योकाऽकालप्रसवादिशान्तिः । )
अथ विधानमालोक्तविकृतजननशान्तिः ।
विकृताङ्गानि जायन्ते त्वपत्यानि नृपोत्तम ! ।
यानि यानि महाबाहो ! तच्छृणुष्व विधानतः॥
हीनाङ्गान्यधिकाङ्गानि सदन्तानि विशेषतः ।
उत्पन्नान्येव पश्यन्ति प्रवदन्ति हसन्ति च॥
सकूर्चानि च जायन्ते पित्रोर्मृत्युं दिशान्ति च ।
सर्पव्याघ्रवृकादीनां रूपैर्नानाविधैर्नृप !॥
जायन्ते प्राणिनां गर्भा महाभयविधायकाः ।
उत्पद्यन्ते विलीयन्ते कालेनैकेन देहिनः॥
तज्जन्यभयनाशाय विधानं कथ्यते मया ।
यस्या उदरसम्भूता दृश्यते विकृता प्रजा॥
दशाहादूर्ध्वमुद्विग्ना स्नापनीया शुभैर्जलैः।
जनयित्री च राजेन्द्र ! जनकश्च विशेषतः॥
सकुल्या अपि मानुष्याः शुलमाल्यानुलेपनाः ।
शुक्लाम्बरधराश्चापि श्लक्ष्णवाचः प्रयत्नतः॥
कृताह्निकस्तु कर्त्ता च विदधीत विधानकम् ।
सदनस्योत्तरे भागे स्थण्डिलं तु प्रकल्पयेत्॥
वाचयित्वा द्विजान्स्वस्ति कृत्वा यामींहिरण्मयीम् ।
नवेन वस्त्रयुग्मेन वेष्टयित्वा विधानतः॥
चतुर्भुजा पिङ्गकेशा पिङ्गश्मश्रुविलोचना ।
कर्णिकारभवैःपुष्पैः पूजिता सुमनोहरा॥
यमस्य पूजा कर्तव्या सुवर्णस्य विशेषतः ।
वामहस्ते गदा पूज्या दक्षिणे कालदण्डकः॥
ऊर्द्धं वामे हलः पुज्यस्तथा खड्गश्च दक्षिणे ।
यम ! प्रेतसख ! काल ! श्राद्धदेव ! महामते !॥
कालदण्डधर ! श्रीमन् ! वैवस्वत ! नमोऽस्तु ते ।
अयं पूजामन्त्रः ।
अथातोऽग्निंप्रतिष्ठाप्य हवनं कारयेत्ततः॥
तिलाज्यतण्डुलास्तत्र प्रधानद्रव्यमीरितम् ।
कूणुष्व पाजमन्त्रेण जुहुयाच्च सहस्रकम्॥
राक्षोघ्नाश्चजपेन्मत्रांश्छन्न इत्यादिशान्तये ।
ततो वै स्विष्टकूद्देया प्रायश्चित्तं तु सर्पिषा॥
ततो दीपबलीन्दत्वा धर्मराजस्य तुष्टये ।
पूर्णाहुतिं ततो दत्वा ततो दानं समाचरेत्॥
नीलाम्बरयुतं चण्डं महिषं यमवाहनम् ।
आचार्याय ततो दद्यात्सखङ्गंच सदक्षिणम्॥
पुष्पमालावृताङ्ग च स्वर्णभङ्गामनोरमम् ।
ताम्रपृष्ठं रौप्यखुरं रत्नपुच्छं समाचरेत्॥
दक्षिणार्थे सुवर्णं च दद्याद्धर्मस्य तुष्टये ।
सम्पूज्य विधिवद्विद्वान्वस्त्रालङ्कारभूषणैः॥
दानमन्त्रः—
यमवाह ! नमस्तुभ्यमकालमरणापह ! ।
लुलाय ! तव दानेन प्रीयतां मे सदा यमः॥
एवं दत्वा तु महिषं सम्पूज्या ॠजिस्ततः ।
ततोऽभिषेको विकृतेर्मातापित्रोः सगोत्रयोः॥
अथाचार्याय प्रतिमादानम् ।
यमोऽसि पुण्यरूपोऽसि पुण्यमूर्त्ते ! निरामय ! ।
दानेन तव देवेश ! विघ्ना नश्यन्तु मे सदा॥
ब्राह्मणास्तर्पणीयाः स्युरेवं शान्तिर्भवेदिह॥
( इति पद्मपुराणोक्तं विकृतजननशान्तिविधानम् ii )
अथ त्रिकशान्तिः । शान्तिसर्वस्वे गर्गसंहितायाम्—
सुतत्रये सुता चेत्स्यात्तत्रये वा सुतो यदि ।
मातापित्रोः कुलस्यापि तदारिष्टं महद्भवेत्॥
धनहानिर्ज्येष्ठनाशो दुःखं वा सुमहद्भवेत् ।
तत्र शान्तिं प्रकुर्वीत वित्तशाठ्यविवर्जितः॥
जातस्यैकादशाहे वा द्वादशाहे शुभे दिने ।
आचार्यमृत्विजो वृत्वा ग्रहयज्ञपुरःसरम्॥
सह वा ग्रहयज्ञः स्यात्स्वस्य वित्तानुसारतः ।
ब्रह्मविष्णुमहेशेन्द्रप्रतिमाः स्वर्णतः कृताः॥
पूजयेद्धान्यराशिस्थकलशोपरि शक्तितः ।
पञ्चमे कलशे रुद्रं पूजयेद्रुद्रसंख्यया॥
पञ्चमशब्दनिर्द्देशादन्येऽपि ब्रह्मविष्णुमहेशेन्द्रप्रतिष्ठाकलशाश्चत्वारो द्रष्टव्याः ।
रुद्रसूक्तानि चत्वारि शान्तिसूक्तानि सर्वतः ।
रूद्रसूक्तानि मूलशान्तिके स्पष्टीकृतानि ।
द्विज एको जपेद्धोमकाले शुद्धः समाहितः॥
आचार्यो जुहुयात्तत्र समिदाज्यतिलांश्चरून् ।
अष्टोत्तरसहस्रं वा शतं वा र्विशर्ति च वा॥
देवताभ्यश्चतुर्वक्रादिभ्यो ग्रहपुरःसरम् ।
चतुर्वक्रादिभ्यो ब्रह्मादिभ्यः पञ्चभ्य इत्यर्थः ।
ब्रह्मादिमन्त्रैर्ब्रह्मादेरिन्द्रस्यापीन्द्रमन्त्रतः॥
ततः स्विष्टकृतं हुत्वा बलिं पूर्णाहुतिं चरेत् ।
अभिषेकं कुटुम्बस्य कृत्वाऽऽचार्यं प्रपूजयेत्॥
हिरण्यधेनुरत्नानि ऋत्विजां दक्षिणा ततः ।
प्रतिमा गुरवे देया उपस्कारसमन्विता॥
कास्याज्यवीक्षणं कृत्वा शान्तिपाठं तु कारयेत् ।
ब्राह्मणान्भोजयेच्छक्त्या दीनानाथांश्च तर्पयेत्॥
कृत्वैवं विधिना शान्तिं सर्वारिष्टाद्वहिर्भवेत् ।
( इति गर्गसंहितोकं पुत्रत्रयोत्पत्त्यनन्तरं कन्योत्पत्तौ कन्यात्रयोत्पत्त्यनन्तरं पुत्रोत्पत्तौ शान्तिविधानम् । )
अथ काकमैथुनशान्तिः ।नारदः—
उत्पाता विविधा लोके दिव्यभौमान्तरिक्षजाः ।
तेषां नामानि शान्तिं च सम्यग्वक्ष्ये पृथक् पृथक्॥
दिवा वा यदि वा रात्रौ यः पश्येत्काकमैथुनम् ।
आकाकघातव्रतं च विदधीतार्कवत्सरम्॥
पितृदेवद्विजान्भक्त्या प्रत्यहं चाभिवादनम् ।
जितेन्द्रिय शुद्धमनाः सत्यधर्मपरायणः॥
तद्दोषशमनार्थाय शान्तिकर्म समारभेत् ।
स्वगृह्योक्तविधानेन तत्र स्थाप्य हुताशनम्॥
मुखान्ते समिदाज्यान्नैर्हुनेदष्टोत्तरं शतम् ।
प्रतिमन्त्रं त्र्यम्बकेन अपमृत्युद्वयेन च॥
व्याहृतिभिर्व्रीहितिलैर्जपाद्यन्तं प्रकल्पयेत् ।
पूर्णाहुतिं च जुहुयात्कर्त्ता शुचिरलङ्कृतः॥
स्वर्णशृङ्गी रौप्यखुरी कृष्णा धेनुः पयस्विनी ।
वस्त्रालङ्कारसहिता निष्कद्वादशसंयुता॥
तदर्धेन तदर्धेन तदर्धार्धेन वा युता ।
यथावित्तानुसारेण तन्न्यूनाधिककल्पना॥
आचार्याय श्रोत्रियाय तां गां दद्यात्कुटुम्बिने ।
ब्राह्मणेभ्यश्च शिष्टेभ्यो यथाशक्त्या च दक्षिणाम्॥
ब्राह्मणान्भोजयेत्पश्चाच्छान्तिवाचनपूर्वकम् ।
एवं यः कुरुते सम्यक् स तद्दोषात्प्रमुच्यते॥
** ( इति काकमैथुनशान्तिः । )**
अथ कपोतशान्तिः—
आरोहयेद्गृहं यस्य कपोतो वा प्रवेशयेत् ।
स्थानहानिर्भवेत्तस्य यथानर्थपरम्परा॥
दोषाय धनिनां गेहे दरिद्राणां शिवाय च ।
तस्य शान्तिं प्रकुर्वीत जपहोमविधानतः॥
ब्राह्मणान्वरयेत्तत्र स्वस्तिवाचनपूर्वकम् ।
पोडश द्वादशाऽष्टौ वा श्रौतस्मार्तक्रियापराः॥
देवाः कपोत इत्यादि ऋग्मिःस्यात्पञ्चभिर्जपः ।
कुण्डं कृत्वा प्रयत्नेन स्वगृह्योक्तविधानतः॥
ईशान्यां स्थापयेद्वह्निंमुखान्तेऽष्टोत्तरं शतम् ।
प्रत्येकं समिदाज्यान्नैः प्रतिप्रवणपूर्वकम्॥
यत इन्द्र भयामहे स्वस्तिदाघोरमन्त्रकैः ।
त्रिभिर्मन्त्रैश्च जुहुयात्तिलान्व्याहृतिभिस्ततः॥
जयार्दीश्चततो भक्त्या कर्त्ता पूर्णाहूतिः स्वयम् ।
विप्रेभ्यो दक्षिणां दद्याद्दोषशान्तिं ततो जपेत्॥
ब्राह्मणान्भोजयेत्पश्चात्स्वयं भुञ्जीत बन्धुभिः ।
एवं यः कुरुते सम्यक् स तद्दोषात्प्रमुच्यते॥
पिङ्गलस्य स्वरेऽप्येवं मधुवल्मीकयोरपि ।
सम्पूर्णमन्दिरे हानिःशून्यसद्मनि मङ्गलम्॥
प्राकारे च पुरद्वारे प्रासादाग्रेषु वीथिषु ।
तत्फलं ग्रामपस्यैव सीम्नि सीमाधिपस्य च॥
शान्तिकर्माखिलं कार्यं पूर्वोकन क्रमेण तु॥
( इति कपोतशान्तिः ।)
अथ कदलीप्रसवशान्तिः । उमोवाच—
प्रथमः प्रसवो देव ! रम्भाया दृश्यते यदि ।
दक्षिणाभिमुखो जातो विदधाति फलं च किम्॥
भूपाले वा कृपणे वा फलं कस्मिंस्तु जायते ।
श्री महादेव उवाच—
यदा याम्यमुखा देवि ! कदली तु प्रसूयते॥
तदा ग्रामपतेर्नाशं विदधाति न संशयः ।
एवं विघ्ने समुत्पन्ने विधानं तत्र कारयेत्॥
सूतकिनोपचर्या सा कदली हितमिच्छता ।
दर्शे तु जागरं कार्यं होमं कुर्यात्ततः परम्॥
कदलैर्हवनं कार्यमन्येभ्यः समुदाहृतैः ।
सहस्र प्रयतो वाग्मी जपशान्तिरनेकधा॥
विष्णुस्तु देवता तत्र तल्लिङ्गो मन्त्र उच्यते ।
विप्रेभ्यः सप्तधान्यानि देयानि हि विधानतः॥
दद्यात्तां कदलीं राजा विप्रवर्याय धीमते ।
एवड्कृतविधानेन विघ्नशान्तिस्तु जायते॥
पूजिते विप्रवर्ये च कर्त्ता सुखमवाप्नुयात्॥
( इति कदली दुष्टप्रसवसवशान्तिः । )
अथ नानाविधोत्पातलक्षणम् ।नारदः—
देवता यत्र नृत्यन्ति पतन्ति प्रज्वलन्ति वा ।
मुहू रुदन्ति गायन्ति प्रस्विद्यन्ति इसन्ति च॥
वमन्त्यग्निंतथा धूमं लेहंरक्तं पयो जलम् ।
अधोमुखाश्च तिष्ठन्ति स्थानात्स्थानं व्रजन्ति च॥
एवमाद्याश्चदृश्यन्ते विकाराः प्रतिमासु च ।
गन्धर्वनगरं चैव दिवा नक्षत्रमण्डलम्॥
महोल्कापतनं काष्ठतृणरक्तप्रवर्षणम् ।
गन्धर्वगेहं दिग्दाहं भूमिकम्पं दिवा निशि॥
अनग्नौच स्फुलिङ्गाः स्युर्ज्वलनं च विनेन्धनम् ।
निशीन्द्रचापमण्डूकाशिखरं श्वेतवायसम्॥
दृश्यन्ते विस्फुलिङ्गाश्च गजाश्चाश्वोष्ट्रगस्तितः ।
जन्तवो द्वित्रिशिरसो जायन्ते वाऽपयोनिषु॥
जम्बूकग्रामसंवेशे केतूनां च प्रदर्शने ।
कामानामाकुल रात्रौ कपोतानां दिवा यदि॥
अकाले पुष्पिता वृक्षा दृश्यन्ते फलिता यदि ।
कार्यन्तच्छेदनं तत्र ततः शान्तिर्मनीषिभिः॥
एवमाद्या महोत्पाता बहवः स्थाननाशदाः।
केचिन्मृत्युप्रदाः केचिच्छत्रुभ्यश्च भयप्रदाः॥
मध्याह्ने ये पणे (?) मृत्युः क्षयकीर्तिसुखाय हि ।
ऐश्वर्यं धनहानिश्चमधुच्छत्रं च वल्मिकम्॥
देवालये स्वगेहे वा ईशान्यां पूर्वतोऽपि वा ।
कुण्डं लक्षणसंयुक्तं कल्पयेन्मेखलायुतम्॥
स्वगृह्योक्तेन विधिना स्थापयेच्च हुताशनम् ।
जुहूयादाज्यभागान्तं पूथगष्टोत्तरं शतम्॥
समिदाज्यचरुव्रीहिक्षिलैर्व्याहृतिभिस्तथा ।
कोटिहोमं तदर्धंवा कक्षहोममथापि वा॥
यथावित्तानुसारेण तन्न्यूनाधिककल्पना ।
एवं विंशतिरात्रं वा पक्षं पक्षार्धमेव वा॥
पञ्चरात्रं विरात्रं वा होमकर्म समारभेत् ।
दक्षिणां च ततो दद्यादाचार्याय कुटुम्बिने॥
गणेशक्षेत्रपालार्कदुर्गाक्षोण्यङ्गदेवताः ।
तासां प्रीत्यै जपं कुर्याच्छेषं पूर्ववदाचरेत्॥
ऋत्विग्भ्योदक्षिणां दद्यात्षोडशभ्यः स्वशक्तितः ।
** ( इति नानाविधोत्पातशान्तिः । )**
.
अथाङ्गस्फुरणम् ।
मूर्ध्नि स्फुरत्याशु पृथिव्यवाप्तिः स्थानादिवृद्धिश्चललाटदेशे ।
भ्रूघ्राणमध्ये प्रियसङ्गमाय नासादिमध्ये च सहायलाभः॥
दृगन्तमध्ये स्फुरणेऽर्थसम्पत्सोत्कण्ठता स्यात्स्फुरणे दृगर्द्धे।
जयो दृशोऽधःस्फुरणे रणः स्यात्प्रियश्रुतिः प्रस्फुरिते च कर्णे॥
योषित्समृद्धिः स्फुरिते च गण्डे घ्राणे सदा सौख्यमतीव वै भवेत् ।
भोज्येष्टसङ्गावधरोष्ठयोश्च स्कन्धे गले भोगविवृद्धिलाभौ॥
स्पन्दो भुजस्येष्टसमागमाय स्पन्दः करे स्याद्द्रिविणाप्तिहेतुः ।
स्पन्दस्तु पृष्ठस्य पराजयाय स्पन्दो जयायोरसि मानवानाम्॥
पाश्वप्रकम्पे भवति प्रमोदः स्तनमकम्पे विषयस्य लाभः ।
कटिप्रकम्पेऽपि बलप्रमोदौ नाभिप्रकम्पे निजदेशनाशः॥
धनर्द्धिरान्त्रप्रभवे प्रकम्पे ऊरौ धनान्तं हृदयस्य चान्ते ।
स्फिकाप्रकम्पे धनवाहनानि वराङ्गकम्पे वरयोषिदाप्तिः॥
मुष्कप्रकम्पे तनयस्यजन्म वस्तौ प्रकम्पे युवतिमवृद्धिः ।
दोषः प्रकम्पे पुनरूरुपृष्ठ उरःपुरः स्यात्सुमुखाय लाभः॥
स्याज्जानुकम्पेऽरिवरेण सन्धिर्जङ्घाप्रकम्पेऽपि च लाभनाशः ।
स्थानानि चोर्ध्वं चरणप्रकम्पे यात्रासलाभोऽडि्घ्रतलप्रकम्पः॥
पुंसां यदा दक्षिणदेहभागे स्त्रीणान्तु वामावयवेषु जातः ।
स्पन्दः फलानि प्रविशत्यवश्यं निहन्ति चोक्ताङ्गविपर्ययेण॥
व्रणपिटकतिलकलाञ्छनमत्स्यादयस्त्वेवमुपदिष्टाः ।
कण्डूयनं नरपतेर्दक्षिणपादे जयायेति॥
चिन्तामणौ—
अङ्गस्फुरणवज्ज्ञेयमार्तवानां फलं बुधैः ।
बहावर्त्ताशिरःप्रायो दिवा चाल्पापुषोऽन्यथा॥
आवर्त्ता वामभागे तु स्त्रीणां संहारवृत्तयः ।
न शुभास्तु शुभा भाले दक्षिणाङ्गे तु सृष्टितः॥
( इति ज्योतिर्निबन्धे अङ्गस्फुरणम् । )
अथ सरटफलम्—
नाशः शीर्षे मुखे हानिः पृष्ठे लाभो भयं हृदि ।
दक्षे रोगः शुभं वामे सरटस्य प्रपातनात्॥
अथ पल्लीपतनफलम् ।
पल्लीस्पर्शे फलं वक्ष्ये यदुक्तं ब्रह्मणा पुरा ।
ब्रह्मस्थाने भवेद्राज्यं स्थानलाभो ललाटके॥
कर्णयोर्भूषणावाप्तिर्नेत्रयोः प्रियदर्शनम् ।
नासिकायांसुगन्धाप्तिर्मुखे मिष्टान्नभोजनम्॥
कपोलयोर्भवेत्सौख्यं हनुदेशे महद्भयम् ।
ग्रीवायां विग्रहश्चैव कण्ठे चारिजनागमः॥
कलिर्वंशे सुखं दृष्ट्यांदक्षवामे कण्ठादिभिः ( ? )।
दक्षांसेविजयो नित्यं वामांसे शत्रुजं भयम्॥
इष्टलाभो भुजे दक्षे मणिबन्धे धनक्षयः ।
वामे करतले हानिस्तत्पृष्ठे चार्थनष्टता॥
हृदये राजसन्मानं सौभाग्यं दक्षिणे स्तने ।
दक्षपार्श्वेचभोगाप्तिस्तने वामे यशोऽभयम्॥
वामपादे भवेत्पीडा वामकुक्षौ शिशोस्तथा ।
दक्षकुक्षौ सुखावाप्तिरुदरे च विशेषतः॥
वस्त्राप्तिर्दक्षकठ्यां च नामकट्यां सुखक्षयः ।
नाभ्यां मनोरथावाप्तिर्वस्तौगर्भच्युतिर्भवेत्॥
गुह्ये मृत्यर्गुदे रोगो दक्षे करे प्रीतिवर्द्धनम् ।
वामे करे मृत्युदुःखं दक्षजानौ सुखावहम्॥
पशुहानिर्वामजानौ दक्षिणे जघने सुखम् ।
क्लेशः स्याद्वामजङ्घायां स्फिचि दक्षेऽर्थवृद्धिकृत्॥
स्फिचि वामे स्त्रीवियोगो दक्षे गुल्फे प्रियागमः ।
उपद्रवो वामगुल्फे पादयोर्गमनं भवेत्॥
पुरोभागे च दुर्वार्ता नष्टवार्ता च पृष्ठतः ।
वामे हानिर्धनं दक्षे परितो भ्रमणं भवेत्॥
वामदक्षविभागेन यत्फलं कथितं नृणाम् ।
विपर्ययेण तत्स्त्रीणां ज्ञेयं शेषं द्वयोः शुभम्॥
इत्थं पल्ल्याः प्रपातस्य फलंज्ञेयं विचक्षणैः ।
एतदेव फलं विन्द्यात्सरटस्य प्ररोहणे॥
‘ल्ल्याःप्ररोहणे चैव पतने सरटस्य तु ।
योः फलस्य व्यत्यासस्तद्वदेव प्रजायते॥
पल्ल्याः प्ररोहण रात्रौ सरटस्य प्रपातनम् ।
नातिदुष्टफलं विन्द्याव्द्याधिमुग्रां विपर्यये॥
पतनानन्तरं तस्य रोहणं यदि जायते ।
पतने फलमुत्कृष्ट रोहणे तत्फलं भवेत्॥
मृत्युयोगे च जन्मर्क्षे विष्ट्यां पाते च वैधृतौ ।
चन्द्रेऽष्टमे च सक्रूरे लग्ने विघ्नं प्रजायते॥
अङ्गं दक्षिणमारुह्य वामेनोत्तरति स्फुटम् ।
तदा हानिकरा ज्ञेया व्यत्ययेन तु लाभदा॥
चरणादूर्ध्वगा भूयः सद्यो रोइति शीर्षके ।
प्राप्तं राज्यं तदादत्ते पल्ली श्वेता विशेषतः॥
चिन्तिताभ्यधिकं लाभं स्थिता भोजनभाजने ।
पादाङ्गुलीषु सम्पाताद्धानिश्च महती भवेत्॥
शीर्षस्योपरि पतिता शुभाय पल्लीसिता च यदि नान्या ।
सितगृहगोधास्पर्शे सर्वेष्वङ्गेषु शोभना ज्ञेया॥
कर्कटिका ग्रहगोधा दक्षाङ्गेसमारोहति पुंसाम् ।
वामाङ्गेतु स्त्रीणां राज्यं धत्ते भृगुर्वदति॥
पल्लीसरटयोर्वापि युग्ममङ्गे शुभं पतेत् ।
दम्पत्योर्जायते प्रीतिर्निम्नभागे वियोगता॥
( इति पल्लीफलम् । )
हंसाद्याउत्तमा जीवा कोपाविष्टास्तु राज्यदाः ।
सरटाद्यधमाः शीर्षे पतिता विघ्नदाःस्मृताः॥
गोधा कुक्कुटसरटोलूका ध्वांक्षाः कपोतका वापि ।
निःकाणा नरस्य समस्तकष्टनिक्षतिं कुर्युः॥
पल्लीसरटगोधाद्याःशकृन्सूत्रे च कुर्वते ।
शरीरे यस्य तस्याशु दुःखं चैव महद्भयम्॥
कृकलासः पतेद्यस्य मूर्द्धि तद्विघ्नशान्तये ।
मृतसञ्जीवनीं विद्यांजपेन्मुण्डितमस्तकः॥
अथ पस्लीशब्दफलम् ।
वित्तं ब्रह्मणि कार्यसिद्धिरतुला शाक्रे हुताशे भयम्
याम्ये मित्रवधः क्षयश्च निर्ऋतौ लाभः समुद्रालये ।
वायव्यांवरवस्त्रमन्नमतुलं सौम्येऽर्थकामं ध्रुवम् ।
ईशान्यां गृहगोधिकार्थजननी त्रासस्त्वधःशब्दिता॥
अथ पल्लीविधानम् ।
पल्लीसरटयोः स्पर्शे सचैलं स्नानमाचरेत् ।
पञ्चगव्यं प्राशयित्वा कुर्यादाज्यावलोकनम्॥
शस्ते चाऽप्यथ वाऽशस्ते यदीच्छेदात्मनः सुखम् ।
पुण्याहवाचनं कृत्वा शान्तिकर्म समारभेत्॥
प्रतिरूपं सुवर्णेन कुर्याद्वित्तानुसारतः ।
रक्तवस्त्रेण संवेष्टय गन्धपुष्पैः प्रपूजयेत्॥
तदा वै मृण्मयं रम्यं कलशं जलपूरितम् ।
वस्त्रमाल्यैरलङ्कृत्य स्थापयेत्तण्डुलोपरि॥
पञ्चामृतं पञ्चगव्यं पञ्चरत्नानि शक्तितः ।
पञ्चवृक्षकषायानि निक्षिप्यावाहयेत्ततः॥
पूजयेद्गन्धपुष्पाद्यैर्लोकपालान् क्रमेण तु ।
अग्निसंस्थापनं कृत्वा होमकर्म समारभेत्॥
मृत्युञ्जयेन मन्त्रेण समिद्भिः खादिरैः शुभैः ।
तिलैव्यार्हृतिभिर्होममष्टोत्तरसहस्रकम्॥
अष्टोत्तरशतं वापि कुर्याद्वित्तानुसारतः।
अभिषेकं ततः कृत्वा यजमानस्य तद्द्विजैः॥
पुण्यवारुणसूक्तैश्च दोषशान्त्यै द्विजोत्तमाः ।
धौताम्बराणि धृत्वाश्वस्वर्णवस्त्रतिलान्ददेत्॥
ब्राह्मणान्भोजयेदित्थं शान्तिकर्म करोति यः ।
तस्यायुर्विजयो लक्ष्मीः कीर्त्तिवृद्धिः सुखं भवेत्॥
पल्लीसरटयोः शान्तिः कथिता भृगुणा पुरा ।
शौनकाय मुनीन्द्राय लोकानुग्रहकारिणे॥
( इति पल्लीसरटयोः शान्तिः । )
अथ होमविधान विना शान्तिः । गार्ग्य—
विचार्य तत्र दैवज्ञं शान्तिं कुर्याद्यथाविधि ।
यजनं देवतानां च ग्रहाणां चैव पूजनैः॥
दीपं शिवालये भक्त्या गोघृतेन प्रदापयेत् ।
अभिषेक शङ्कराय अश्वत्थस्य प्रदक्षिणम्॥
अभीष्टफलसिद्ध्यर्थं कुर्याह्ब्राह्मणभोजनम् ।
गाणपत्यं पुरुषसूक्तं सौर मृत्युञ्जयं शुभम्॥
शान्तिजाप्यं पुनश्चैव कृत्वा मृत्युञ्जयी भवेत्॥
शङ्खः—
सर्वपापहरा ह्येषा रुकादशिनी स्मृता ।
वेदमेकगुणं जप्त्वा तदकह्नैव विशुध्यति॥
रुद्रपद्धतावपि—
अनपत्यादिदोषे तु शाकिन्यादिगणेन च ।
सर्वज्वरविनाशाय रुद्रः पूज्यो न संशयः॥
सर्वेषु ग्रहदोषेषु दुःस्वप्नाद्भुतदर्शने ।
जपन्नेतत्सकद्विप्रःसर्वदोषैः प्रमुच्यते॥
कपोतोलूकसरटविकारोत्पादनेषु च ।
पल्लीसरटकादीनां स्पर्शने रुद्रपूजनम्॥
भवतीति शेषः । शातातपः—
मद्यं पीत्वा गुरुदारांश्च गत्वा स्तेयं कृत्वा ब्रह्महत्यां च कृत्वा ।
भस्मच्छन्नोभस्मशय्याशयानो रुद्राध्यायी मुच्यते सर्वपापैः॥
तथा—
स्पृष्ट्वाश्वत्थं यजेद्यस्तु रुद्रैकादशिनीं शुचिः ।
रोगज्वरातिसारादीन्नाशयेदुल्बणानपि॥
गायत्री हरते पापं त्र्यम्बके वृद्धिरायुषः ।
उभयं रुद्रजाप्येन सन्ततेश्चानुवर्द्धनम्॥
नन्दिपुराणे—
शृणुष्व भो महाप्राज्ञ ! रुद्रभेदान्वदामि ते ।
रुद्राः पञ्चविधाः प्रोक्ता देशिकैरुत्तरोत्तरम्॥
साङ्गस्त्वाद्यो रूपकाख्यः मशीर्षो रुद्र उच्यते ।
एकादशगुणैस्तद्वदुदीसंज्ञो द्वितीयकः॥
एकादशभिरेताभिस्तृतीयो लघुरुद्रकः।
लध्वेकादशभिः प्रोक्तो महारुद्रश्चतुर्थकः॥
पञ्चमः स्वान्महारुद्र एकादशभिरन्तिमः ।
अतिरुद्रः समाख्यातः सर्वेभ्यो ह्युत्तमोत्तमः॥
शिवसङ्कल्पहृदयं सूक्तं स्यात्पौरुषं शिरः ।
प्राहुर्नारायणं सूक्त शिखां तस्योत्तराभिधम्॥
आशुः शिशानः कवचं नेत्रं विभ्राइबृहत्स्मृतम् ।
शतरुद्रीयमस्त्रं स्यात्पडङ्गक्रम ईरितः॥
हच्छिरस्तु शिखानेत्रं वर्म चास्त्रं महामते !।
प्राहुर्विधिज्ञा रुद्रस्य षडङ्गानि स्वशास्त्रतः॥
सकामो न जपेद्रुद्रं यज्ञं यज्ञगुरुं बुधः ।
तत्कामदहनं त्यक्त्वा द्विनेत्रेशं जपेदिह॥
नेत्रहीनः कथं सोऽन्धः कुर्यात्पुंसां महत्फलम् ।
निष्कामस्तु जपेत्सम्यक्तिनेत्रं मुनिसत्तम !॥
रुद्राध्यायः सरुद्रः स्यात्प्रथमः साङ्गशीर्षकः ।
एकस्यैकादशावृत्या रौद्रीनाम्ना द्वितीयकः॥
साङ्गमाद्यं जपेद्रुद्रंकेवलानि नवान्तरे ।
साङ्गंशीर्षकं चान्त्यं निरङ्गमिति के चन॥
इति माधवनिदाने ।
अथास्य पुरश्चरणविधिः । कालिकापुराणे—
कृच्छ्रमादौस्वयं चीर्त्वापराकं च तथा पुनः ।
कृत्वा ध्यायन्महादेवमिदं भूयः समाचरेत्॥
स्त्रात्वा हीशानमभ्यर्च्य उषित्वा सर्वशर्वरीः ।
जपेद्रुद्रांस्तथा जप्ते तदन्तं प्राशयद्धृतम्॥
अपरेऽहनि सञ्जाते समाप्यैवं व्रतं पुनः ।
भास्कराभिमुखो भूत्वा तद्दिने याजपेद्बहून्॥
भूयश्चाह्निजपेद्रुद्रंसम्पूज्य विधिवत्ततः ।
घृताक्तैर्बिल्वपत्रैश्च रुदैर्होमं प्रकल्पयेत्॥
एवं सम्यग्व्रते नूनं कृतेऽसौ जायते द्विजः ।
**साक्षाद्रुद्रो महातेजास्ततः कामान्प्रसाधयेत्॥**इति ।
इति श्रीप्रथमशास्वीयरामकृष्णविरचिते पारस्करगृह्यसूत्र-
विवरणे संस्कारगणपतौ शान्तिः ।
<MISSING_FIG href="../books_images/U-IMG-1696147219Screenshot2023-10-01132956.png"/>
अथ दत्तकपुत्रविधानम् । अथ दत्तपुत्रपरिग्रहविधानम्। प्रयोग पारिजाते–एवं पूर्वोक्तविधिनाप्यजातपुत्रस्य परिग्रहविधिरभिधीयते । लिङ्गपुराणे—
**अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च॥ **इति ।
विधानपारिजात स्मृतिः—
अपुत्रस्य मुखं दृष्ट्वा भानुमण्डलमीक्षयेत्॥
श्रुतिरपि -“नापुत्रस्य लोकोऽस्ती” ति । तत्मात्सर्वथाप्यपुत्रस्य पुत्रपरिग्रहविधिः । तदाहात्रिः—
अपुत्रेणैव कर्तव्यः पुत्रप्रतिनिधिः सदा ।
पिण्डोदकक्रियाहेतोर्यस्मात्तस्मात्प्रयत्नतः॥
अपुत्रेणेति पुत्रपदं पौत्रप्रपौत्रयोरप्युपलक्षणम् ।वीरमित्रोदये—
पुत्रेण लोकञ्जयति पौत्रेणानन्त्यमश्नुते ।
अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम्॥
इत्यादिवचनात् । प्रपौत्रादिनाप्यलोकतापरिहारःस्यादित्यादिश्रवणादेक एवं प्रतिनिधिः कार्योन द्वित्राः, तावतैवालोकतापरिहात् प्रतिनिधिश्चात्र क्षेत्रजादिरेकादशविधः । ते यथा—
औरस : पुत्रिकापुत्रः क्षेत्रजो गूढजस्तथा ।
कानीनश्च पुनर्भूतो दत्तः क्रीतश्च कृत्रिमः॥
दत्तात्मा च सहोढाजस्त्वपविद्धस्तु तत्समः॥ इति ।
औरस विना एकादशेत्यर्थः । वीरमित्रोदये—
क्षेत्रजादीन्सुतानेतानेकादश यथोदितान् ।
पुत्रप्रतिनिधीनाहुः क्रियालोपान्मनीषिणः॥
इति मानवात् \। तेषु च—
दत्तौरसेतरेषां तु पुत्रत्वेन परिग्रहः॥
इति कलिवर्ज्यवचनेन कलौ क्षेत्रजादीना दशानां निषिद्धस्वादौरसप्रतिनिधित्वं दत्तकस्यैव परिशिष्यते इति स एवात्र निरूप्यते । स च कः ? कीदृशः ? कथं च परिग्राह्य ? इति त्रितयं निरूपणीयम् । तत्र क इत्याह शौनकः—
ब्राह्मणानां सपिण्डेषु कर्तव्यः पुत्रसङ्ग्रहः ।
तदभावेऽसपिण्डो वा अन्यत्र तु न कारयेत्॥
सपिण्डेषु सप्तमपुरुषावधिकेषु ।सपिण्डेष्विति सामान्यश्रवणाच्च समानगोत्रेष्विति गम्यते ।
स्वगोत्रेषु कृता ये स्युर्दत्तक्रीतादयः सुताः ।
विधिना गोत्रतां यान्ति न सापिण्ड्यं विधीयते॥
इति वृद्धगौतमेन सगोत्रेषु पुत्रीकरणाभ्यनुज्ञानात् । गोत्रत्वं सन्ततित्वम् ।
सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ॥
इतित्रिकाण्डीस्मरणात् । सपिण्डः सगोत्रो मुख्यः कल्पः । तदभावेऽसगोत्रः सपिण्डः ।तस्याप्यभावेऽसपिण्डःसगोत्रः ।तस्याप्यभावेऽसगोत्रोऽसपिण्डोऽसमानप्रवरश्च \। तदाह शौनकः—
सपिण्डापत्यकं चैव सगोत्रजमथापि वा ।
अपुत्रको द्विजो यस्मात्पुत्रत्वे परिकल्पयेत्॥
समानगोत्रजाभावे पालयेदन्यगोत्रजम् ।
**दौहित्रं भागिनेयं च मातृष्वसृसुतं विना॥**इति ।
तस्याप्यभावे सजातीयः कार्य । तथा च याज्ञवल्क्यः—
सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः॥
मनुरपि—
**सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्रिमः सुतः॥ **इति ।
सदृश सजातीयम् । यत्तु सदृशं न ज्ञातितः किन्तर्हि कुलानुरूपैगुणैस्तेन “क्षत्रियादिरपि ब्राह्मणस्य युज्यत” इति मेधातिथिव्याख्यान, यच्च “शुद्रोऽपि किल पुत्रो भवती” त्यभिप्राय इति कल्पतरुव्याख्यानं, तदुभयमपि शौनकवृद्धगौतमयाज्ञवल्क्यवचनविरोधात्त्याज्यम्। तथा च वृद्धगौतमः—
यदि स्यादन्यजातीयो गृहीतो वा सुतः क्वचित् ।
अंशभाजं न तं कुर्याच्छौनकस्य मतं हि तत्॥
इत्यसमानजातीयस्याशभाक्त्वनिषेधेन पुत्रत्वानुत्पत्तिंगमयति । तस्मादसमानजातीयो न पुत्रीकार्य इति सिद्धम् ।सन्निहितसगोत्रसपिण्डेषु भ्रातृपुत्र एव पुत्रीकार्य इत्याह मनुः—
भ्रातॄणामेकजातानामेकश्चेत्पुत्रवान्भवेत् ।
सर्वे ते तेन पुत्रेण पुत्रिणो मनुरब्रवीत्॥
सोदराणां भ्रातृणामेकस्यापि यः पुत्रस्तेन पुत्रेण सर्वेऽप्यपुत्रा भ्रातरः पुत्रं कुर्युरिति । वसिष्ठवाक्ये हि दानं निषिध्यते । न चात्र मनुवाक्येदानं श्रूयते । नन्वस्यां कल्पनायां किं प्रमाणमिति चेत् ? उच्यते । **“सर्वे ते तेन पुत्रेणे”**ति शब्दश्रुतिरेकम् । वैतालभैरवाभ्यामुभाभ्यां भैरवपुत्रस्यैकस्य सुवेशस्य पुत्रीकरणं लिङ्गं चापरं प्रमाणम् । तथा च कालिकापुराणम्—
ऋषय ऊचुः—
अपुत्रस्य गतिर्नास्ति श्रूयते लोकवेदयोः ।
वैतालभैरवो यातौ पुरा वै तपसे गिरिम्॥
पूर्वन्त्वकृतदारौ तौ तयोः पुत्रा न च श्रुताः ।
तेषां तु सम्यगिच्छामः श्रोतुं संस्थानमुत्तमम्॥
मार्कण्डेय उवाच—
अपुत्रस्य गतिर्नास्ति प्रेत्य चेह च सत्तमाः ! ।
स्वपुत्रैर्भ्रातृपुत्रैश्च पुत्रवन्तो हि सङ्गताः॥
सभ्यक्सिद्धिमवाप्येह यदा वैतालभैरवौ ।
हरस्य मन्दिरं यातौ कैलासं प्रति हर्षितौ॥
तदा हरस्य वचनान्नन्दी तौरहसि द्विजा ! ।
प्राहेदं वचनं तथ्यं सान्त्वयन्निव बोधकृत्॥
नन्द्युवाच—
अपुत्रौ पुत्रजनने भवन्तौ शङ्करात्मजौ।
यतेतां तात ! पुत्रस्य सर्वत्र सुलभा गतिः॥
मार्कण्डेय उवाच—
तस्येदं वचनं श्रुत्वा नन्दिनः प्रतिमानसौ।
एवमेव करिष्यावो नन्दिनं चेत्यभाषताम्॥
ततः कदाचिदुर्वश्यां भैरवो मैथुनं गतः ।
तस्यां स जनयामास सुवेशं नाम पुत्रकम्॥
तमेव चक्रे तनयं वैतालोऽपि स्वकं सुतम् ।
ततस्तौ स्तेन पुत्रेण स्वर्ग्यां गतिमवापतुः॥ इति ।
तस्मादेतल्लिङ्गोपष्टब्धयाऽनया स्मृत्याऽनैकैरप्यपुत्रैर्भ्रातृभिरेकोऽपि भ्रातृपुत्रः पुत्रीकार्य इति सिद्धम् । एतेनाकृतस्यैव भ्रातृपुत्रस्यापुत्रपितृव्यपुत्रत्वमनेनोच्यते । तथा च बृहत्पराशरः—
अपुत्रस्य पितृव्यस्य तत्पुत्रो भ्रातृजो भवेत् ।
स एव तस्य कुर्वीत श्राद्धपिण्डोदकक्रियाम्॥ इति ।
अथक्षत्रियादिनिर्णयः । तत्र शौनकः—
क्षत्रियाणां स्वजातौ तु गुरुगोत्रसमेऽपि वा ।
वैश्यानां वैश्यजातेषु शुद्राणां शुद्रजातिषु॥
सर्वेषां चैव वर्णानां ज्ञातिष्वेव न चान्यतः ।
दौहित्रो भागिनेयश्च शुद्रैस्तु क्रीयते सुतः॥
ब्राह्मणादित्रये नास्ति भागिनेयः सुतः क्कचित्॥
स्वजातौ क्षत्रियजातौ । जातिसामान्योपादानेऽपि प्रत्यासत्तिः पूर्ववदत्रापि नियामिका । सपिण्डाभावे गुरुगोत्रसमेऽपि वा । क्षत्रियाणां प्रातिस्विकगोत्राभावाद्गुरुनिर्देशः । इदानीं कीदृशः पुत्रीकार्य इति निरूप्यते । शौनकः—
नैकपुत्रेण कर्तव्यं पुत्रदानं कदाचन ।
बहुपुत्रेण कर्तव्यं पुत्रदानं प्रयत्नतः॥ इति ।
एक एव पुत्रो यस्येत्येकपुत्रस्तेन तत्पुत्रदानं न कार्यम् । “नत्वेवैकं पुत्रं दद्या” दिति वशिष्ठस्मरणात् । अत्र स्वस्वत्वनिवृत्तिपूर्वकपरस्वत्वापादानस्य दानपदार्थत्वात्परस्वत्वापादानं च परप्रतिग्रहं विनानुपपद्यमानं सत्तमप्याक्षिपति । तेन प्रतिग्रहनिषेधोऽप्यनेनैव सिध्यति । अत एव वसिष्ठः—“नत्वेवैकं पुत्रं दद्यात्प्रतिगृह्णीयाद्वा न स्त्री पुत्रं दद्यात्प्रतिगृह्णीपाद्वा अन्यत्रानुज्ञानाद्भर्तु” रिति । यत्तु समन्त्रकहोमस्य पुत्रप्रतिग्रहाङ्गस्वात् व्याहृत्यादिमन्त्रपाठे च स्त्रीशूद्रयोरनधिकारात्तयोर्दत्तकः पुत्रो न भवत्येवेति शुद्धिविवेके एकपुत्रदाने । तत्र हेतुमाह -“स हि सन्तानाय पुर्वेषा” मिति । सन्तानार्थत्वाभिधानेनैकस्य दाने सन्तानविच्छित्तिः प्रत्यवायो बोधितः । स च दातृप्रतिग्रहीत्रोरुभयोरपि, उमयशेषत्वात् । यत्तु चन्द्रिकायां स्मृत्यन्तरम्—
सुतस्य सुतदारायां वशित्वमनुशासने ।
विक्रये चैव दाने च वशित्वन्न सुते पितुः॥
यच्च योगिस्मरणम् “देयं दारसुतादृत" इति तदेकपुत्रविषयम् । कदाचन आपद्यपि । तथा च नारदः—
निक्षेपः पुत्रदारं च सर्वस्वंचान्वये सति ।
आपद्यपि हि कष्टेषु वर्तमानेन देहिना॥
अदेयान्याहुराचार्या यच्च साधारणं धनम्॥ इति ।
इदमध्येकपुत्रविषयमेव, वशिष्ठशौनकैकवाक्यत्वात् । तर्हि केन पुत्रो देय ! इत्यत आह “बहुपुत्रेणे’’ ति । बहवः पुत्रा यस्येति बहुपुत्रः । नैकपुत्रे-
णेतिनिषेधात् । द्विपुत्रस्यैव दानप्राप्तौ बहुपुत्रेणेत्युच्यते तद्द्विपुत्रस्यापि तत्प्रतिषेधाय ।
एकपुत्रो ह्यपुत्रो मे मतः कौरवनन्दन ! ।
एकं चक्षुर्यथाऽचक्षुर्नाशे तस्यान्ध एव हि॥
इत्यादि भीष्मं प्रति शन्तनुक्तेः । बहुपुत्रेणेति पुंस्त्वश्रवणात्स्त्रियाः पुत्रदानप्रतिषेधः । अत एव वशिष्ठः- “न पुत्री पुत्रं दद्या” दिति नैरपेक्ष्यश्रवणाच्च भर्त्रनुज्ञाने तस्या अप्यधिकारः। तथा व वसिष्ठः- “अन्यत्रानुज्ञानाद्भर्तु"रिति । यत्तु “दद्यान्माता पिता वे"ति, यच्च “माता पिता वा दद्येता"मिति मातुः पितृसमकक्षतमाभिधानं तदपि भर्त्रनुज्ञानविषयमेव ।बजिस्य प्राधान्यादयोनिजा अपि पुत्रा दृश्यन्त इति । मानवे ‘दद्यातामि’त्युभयकर्तृकताश्रवणाच्चोभयाधिकारो मुख्यः । अत एव वसिष्ठः—“शुक्रशोणितसम्भवः पुरुषो **मातापितृनिमित्तकस्तस्य दानविक्रयपरित्यागेषु मातापितरौ प्रभवत”**इति । बौधायनोऽपि “मातापित्रोरेव संसर्गसाम्या"दिति। अत एव “माता पिता वा दद्येता"मिति मनुवचनम् । तथा च योगियाज्ञवल्क्यः"दद्यान्माता पिता यं वे” ति प्रत्येकान्वय्येकवचनन्तदेव क्रियापदमुदाजहार । तत्रापि निमित्तमाह “प्रयत्नत” इति । प्रकृष्टो यत्नोयस्मिन्कालेऽसौ प्रयत्न आपत्कालस्तेन चापत्काल एव पुत्रदानं नान्यथेत्यर्थः । यथाह कात्यायनः—
आपत्कालेतू कर्त्तव्यं दानं विक्रय एवं वा ।
अन्यथा न प्रवर्त्तेत इति शास्त्रविनिश्चयः॥
इति प्रक्रमात्पुत्रदाराणां दानानि निषिध्यन्ते । मनुरपि—
माता पिता वा दद्येतां यमद्भिः पुत्रमापदि॥ इति ।
आपदि दुर्भिक्षादौ । अनापदि दाने दातुर्दोषः । तथा च अपरार्कचन्द्रिकायाम् “आपदि प्रतिहीतुरपुत्रत्व"इति । विशेषान्तराण्यपि कालिकापुराणे—
दत्ताद्या अपि तनया निजगोत्रेण संस्कृताः ।
आयान्ति पुत्रतां सम्यगन्यबीजसमुद्भवाः॥
पितुर्गोत्रेण यः पुत्रः संस्कृतः पृथिवीपते ! ।
आचूडान्तं न पुत्रः स पुत्रतां याति चान्यतः॥
चूहाद्या यदि संस्कारा निजगात्रेण वै कृताः ।
दत्ताद्यास्तनयास्ते स्युरन्यथा दासतोच्यते॥
उर्ध्वन्तु पञ्चमाद्वर्षान्न दत्ताद्याः सुता नृप ! ।
गृहीत्वा पञ्चवर्षीय पुत्रेष्टिं प्रथमं चरेत्॥
पौनर्भवं तु तनयं जातमात्रे समानयेत् ।
कृत्वा पौनर्भवष्टोमं जातमात्रस्य तस्य वै॥
सर्वांस्तु कुर्यात्संस्काराञ्जातकर्मादिकान्नरः ।
कृत्वा पौनर्भवष्टोमं सुतः पोनर्भवस्ततः॥
दत्तेति—अन्यबीजसमुद्भवा अपि दत्ताद्यास्तनया निजगोत्रेण प्रतिग्रहीत्रा स्वगोत्रेण सम्यक् स्वशाखोक्तविधिना जातकर्मादिभिः संस्कृताश्चेत्तदैव प्रतिग्रहीतृपुत्रतां प्राप्नुवन्ति नान्यथेत्यर्थः । तदाह वशिष्ठः—
अन्यशाखोद्भवो दत्तः पुत्रश्चैवोपनायितः ।
स्वगोत्रेण स्वशाखोक्तविधिना स स्वशाखभाक्॥ इति ।
दत्ताद्या इत्यादिपदेन कृत्रिमादीनां ग्रहणम्-प्रतिनिधित्वसाम्यात् । तेन च तेषामपि संस्कारैरेव पुत्रत्वं न परिग्रहमात्रेण । “अन्यथा दासतोच्यत” इति वचनात् ।
अथ दत्तकपुत्रपरिग्रहविधिः । तत्र शौनकः—
शौनकोऽहं प्रवक्ष्यामि पुत्रसङ्ग्रहमुत्तमम् ।
अपुत्रो मृतपुत्रो वा पुत्रार्थं समुपोष्य च॥
वाससी कुण्डले दत्वा उष्णीषं चाङ्गुलीयकम् ।
आचार्यं धर्मसंयुक्तं वैष्णवं वेदपारगम्॥
मधुपर्केण सम्पूज्य राजानं च द्विजाञ्छुचीन् ।
राजा ग्रामाधीशः। द्विजान् त्रीन् याचनार्थतया मधुपर्कादिना सम्पूज्येत्यर्थः ।
वर्हिः कुशमयं चैव पालाशं चेध्ममेव च॥
एतानाहृत्य बन्धूंश्चज्ञातीनाहूय यत्नतः ।
बन्धूनात्मपितृमातृबन्धून् ज्ञातीन्सपिण्डान् ।
बन्धूनन्नेन सम्भोज्य ब्राह्मणांश्च विशेषतः॥
बन्धूनाहूतान् ब्राह्मणान् पूर्ववृतान् ।चकारादाहूतान् ज्ञातीश्च सम्भोज्येत्यर्थः ।
अग्न्याधानादिकं तन्त्रं कृत्वाज्योत्पवनान्तकम् ।
दातुः समक्षं गत्वा तु पुत्रं देहीति याचयेत्॥
याचनं कारयेत् पूर्ववृतैर्ब्राह्मणैरित्यर्थः ।
दाने समर्थो दातास्मै ये यज्ञेनेति पञ्चभिः ।
देवस्य त्वेति मन्त्रेण हस्ताभ्यां परिगृह्यच॥
अङ्गादङ्गादृचं जप्त्वा आघ्राय शिशुमूर्द्धनि ।
वस्त्रादिभिरलङ्कृत्य पुत्रच्छायावहं सुतम्॥
पुत्रच्छाया पुत्रसादृश्यम् ।
नृत्यगीतैश्च वाद्यैश्च स्वस्तिशब्देश्च संयुतम् ।
गृहमध्ये तथाधाय चरुं हुत्वा विधानतः॥
यस्त्वा हृदेत्यृचा चैव तुभ्यमग्र ऋचैकया ।
सोमोऽदददित्येताभिः प्रत्यृचं पञ्चभिस्तथा॥
एवं सप्तभिर्मन्त्रैःसप्त चर्वाहुतीर्हुत्वेत्यर्थः ।
स्विष्टकृदादिहोमं च कृत्वा शेषं समापयेत्॥
वृद्धगौतमस्तु विशेषमाह—
पायसं तत्र साज्यं च शतसंख्पं तु हावयेत् ।
प्रजापते न त्वदेतानित्युद्दिश्य प्रजापतिम्॥ इति ।
मिताक्षरादौ तु व्याहृतिभिराज्येन होम उक्तः । तदनन्तरम्—
दक्षिणां गुरवे दद्याद्यथाशक्ति द्विजोचमः ।
द्विजोत्तमो ब्राह्मणः ।
नृपो राज्यार्धमेवाथ वैश्यो वित्तं शतत्रयम्॥
शूद्रः सर्वस्वमेवापि अशक्तश्चेद्यथावलम्॥
अशक्तश्चेद्यथाबलमित्यस्य सर्वशेषत्वान्नृपादीनामप्यर्धराज्याद्यसम्भवे यथाशक्त्येव दक्षिणादाने द्रष्टव्यम् । अथ पुत्रग्रहणानन्तरं औरसे जाते तत्राहवसिष्ठः—“तस्मिश्चेत्प्रतिगृहीतऔरस उत्पद्येत चतुर्थभागभागी स्याद्दत्तक” इति ।
दत्तेपुत्रे गृहीते तु कदाचित्त्वौरसो भवेत् ।
पितुर्वित्तस्य सर्वस्य भवेतां समभागिनौ॥
इदं तु दत्तपुत्रस्य गुणवत्तरत्वे द्रष्टव्यम् ।“दत्तस्य गुणवत्तरत्वे समो भाग"इति हारीतवचनात् ।
अविधाय विधानं तु परिपुष्णाति नन्दनम् ।
विवाहविधिभाजं तं कुर्यान्न धनभागिनम्॥
इति श्रीप्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्रविवरणे
** संस्कारगणपतौ दत्तकपुत्रविधिः ।**
<MISSING_FIG href=”../books_images/U-IMG-1696147398Screenshot2023-10-01133309.png”/>
( अथ सप्तदशी कण्डिका )
दशम्यामुत्थाप्य ब्राह्मणान्मोजयित्वा पिता नाम करोति व्द्यक्षरं चतुरक्षरं वा घोषवदायन्तरन्तस्थं दीर्घाभिनिष्ठानं कृतं कुर्यान्न तद्धितमयुजाक्षरमाकारान्त<MISSING_FIG href=”../books_images/U-IMG-1697771188Screenshot(1"/>.png)स्त्रियै तद्धित<MISSING_FIG href="../books_images/U-IMG-1697771188Screenshot(1"/>.png) शर्म ब्राह्मणस्य वर्म क्षत्रियस्य गुप्तेति वैश्यस्य चतुर्थे मासि निष्क्रमणिका सूर्यमुदीक्षयतितच्चक्षुरिति॥ १७॥
अथ नामकरणम् “दशम्यामुत्थाप्य ब्राह्मणान्भोजयित्वा पिता नाम करोती" ति सूत्रम् । प्रसवाद्दशम्यां रात्र्यामतीतायामेकादशेऽहनि सूतिकागृहात्सूतिकामुत्थाप्य श्राद्धव्यतिरिक्तान् त्रीन्ब्राह्मणान्भोजयित्वा पिता कुमारस्य नाम संज्ञां व्यवहारार्थं करोति । तथा च बृहस्पतिः—
नामाखिलस्य व्यवहारहेतुः शुभावहं कर्मसु भाग्यहेतुः ।
नाम्नैव कीर्तिं लभते मनुष्यस्ततः प्रशस्तं खलु नामकर्म॥
अन्यस्मिन्नपि संस्कारे पितुरेवोत्सर्गात्कर्तृत्वम् । इह पितृग्रहणादन्यत्रापि नियमोऽवगम्यते । अत्र दशम्यामिति सूतकान्तोपलक्षणम् ।तथा च मदनरत्नेनारदीये—
सूतकान्ते नामकर्म विधेयं स्वकुलोचितम्॥ इति ।
ततश्च यस्य यावन्ति दिनानि सूतकं तदन्तदिने कार्यमिति हरिहरः ।सङ्ग्रहे—
एकादशेऽह्निविप्राणां क्षत्रियाणां त्रयोदशे।
वैश्यानां षोडशे कार्यं मासान्ते शुद्धजन्मनः॥
इति सूत्रकारवचनादेकादशेऽहन्येवेत्यन्ये । व्यासः—
नामधेयं दशम्यां तु के चिदिच्छन्ति सूरयः ।
द्वादश्यामाहुरन्ये तु मासे पूर्णे तथाऽपरे॥
बृहस्पतिः—
दशाहे द्वादशाहे वा जन्मतोऽपि त्रयोदशे॥
वसिष्ठः—
द्वादशे दशमे वापि जन्मतो दिवसे शुभे ।
षोडशे विंशतौ चैवद्वाविंशे वर्णतः क्रमात्॥
भविष्यपुराणे—
द्वादश्यामपरे रात्र्यांमासे पूर्णे तथाऽपरे ।
अष्टादशेऽह्नि च तथा वदन्त्यन्ये मनीषिणः॥
गोभिलगृह्यपरिशिष्टयोः—“जननाद्दशरात्रे संवत्सरे वा नामकरण"मिति । धर्मप्रवृत्तौ—
द्वाविंशद्दिवसादूर्ध्वंयावत्संवत्सरं भवेत् ।
नामकर्म द्विजैः कार्यमिति कैश्चिदुदीरितम्॥
अथ प्राप्तकालेऽपि निमित्तविशेषेण निषेधमाह ।गर्गः—
व्यतीपाते च संक्रान्तौ ग्रहणे वैधृतावपि ।
श्राद्धं विना शुभं नैव प्राप्तकालेऽपि मानवः॥
कुर्यादिति शेषः । अन्यच्च—
अमासंक्रान्तिविष्ट्यादौ प्राप्तकालेऽपि नाचरेत्॥ इति ।
एवमतिक्रान्ते कालान्तरमाह नारदः—
देशकालोपघाताद्यैः कालातिक्रमणं यदि ।
अनस्तगे भृगावीज्ये तत्कार्यं चोत्तरायणे॥
अत्र विशेषमाह धर्मप्रवृत्तिकारः—
आवत्सरं नैव दोषो मूढयोर्गुरुशुक्रयोः ।
मलमासेऽपि तत्कुर्यादुक्तकालेन दोषकृत्॥
यस्यां क्रियायां सर्वोक्तः कालो मासैर्दिनैरपि ।
तस्यां न दोषो मुढत्वं वक्रं वा जीवशुक्रयोः॥
अत्र संवत्सरपर्यन्तमुक्तः कालः । अथ तिथयः—
युग्माश्चतिथयः सर्वा अजधर्मतिथीर्विना ।
पक्षच्छिद्रा इति ज्ञेयाः सर्वकर्मसु गर्हिताः॥
अजो द्वितीया, धर्मो दशमी ।अथ वाराः । तत्र वसिष्ठः—
बुधेन्दुसितजीवानामंशके दिवसोदये ।
द्वेःकाणे कालहोरायां नामकर्म प्रशस्यते॥
अथ नक्षत्राणि । तत्र बृहस्पतिः—
त्र्युत्तरासु धनिष्ठायां रेवतीहस्तयोरपि ।
मूलवारुणपुष्येषु श्रवणादित्ययोरपि॥
मैत्रवाजिभयोः स्वातीरोहिण्यैन्दवभेषु च ।
कुर्यान्नामक्रियां विद्वानायुःश्रीकीर्तिवृद्धये॥
बृहस्पतिः—
अष्टमे तु ग्रहाः सर्वे नेष्टास्ते नामकर्मणि ।
धनकर्मसुतभ्रातृनवमस्थः शुभः शशी॥
शुद्धे व्ययाष्टमे लग्नेपापाश्च त्रिषडायगाः ।
शुभेषु शेषसंस्थेषु नामकर्म शुभावहम्॥
अथ पूर्वाह्णादिकालनिर्णयः । बृहस्पतिः—
पूर्वाह्णश्रेष्ठ इत्युक्तो मध्याह्नो मध्यमः स्मृतः ।
अपराह्णंच रात्रिंच वर्जयेन्नामकर्मणि॥
कीदृशं नाम कार्यमित्यत आह—तच्च नाम चतुर्विधम् कुल देवतासम्बद्धं माससम्बद्धं नक्षत्रसम्बद्धं व्यावहारिकम् चेति । तत्राद्यमाह शङ्खः–“कुलदेवतासम्बद्धं पिता नाम कुर्या” दिति । कुलदेवता कुलपूज्या देवतेति यावत् । तथा सम्बद्धं तत्प्रतिपादकमित्यर्थः । अस्मिश्चव्याख्याने अनादिरविच्छिन्नः शिष्टाचारो मूलम् । अथ मासनामान्याह गार्ग्यः—
मासनाम ह्युडोर्नाम दद्याद्वालस्य वै पिता ।
कृष्णोऽनन्तोऽच्युतश्चक्री वैकुण्ठोऽथ जनार्द्दनः॥
उपेन्द्रो यज्ञपुरुषो वासुदेवस्तथा हरिः ।
योगीशः पुण्डरीकाक्षो मासनामान्यनुक्रमात्॥
अनुक्रमोऽत्र मार्गशीर्षादिकः ।केचिच्चैत्रादिक्रमोऽत्र मन्यन्ते तन्न शैत्रादिक्रमे वैकुण्ठादिनामश्रवणात् । तथा च वीरमित्रोदये गर्गः—
चैत्रादिमासनामानि वैकुण्ठोऽथ जनार्दनः ।
उपेन्द्रो यज्ञपुरुषो वासुदेवो हरिस्तथा॥
**योगीशः पुण्डरीकाक्षः कृष्णोऽनन्तोऽच्युतस्तथा ।
चक्रधारीति चैतानि क्रमादाहुर्मनीषिणः॥**इति ।
नक्षत्रनामाहतुः शङ्खलिखितौ । “नक्षत्राभिसम्बद्धं पिता वा कुर्यादन्यो वा कुलवृद्ध” इति । नाक्षत्रमेव चाभिवादनिकं नामोच्यते । तथा च बौधायनः “नक्षत्रनामधेयेन द्वितीयं नामधेयं गुह्यमस्यान्यदभिवादनीयमोपनयनान्मातापितरौ संविदितो भवतो विज्ञायते तस्माहिनामा ब्राह्मण" इति । द्वितीयं व्यावहारिकापेक्षया तदेव गुह्य अन्यत् व्यावहारिकनाम्नोऽन्यत् । नाक्षत्रमिति यावत् । न पुनस्तृतीयं “द्विनामा ब्राह्मण” इति वाक्यशेषासङ्गतेः । एतदेवाभिप्रेत्याहाश्वलायनः—“अभिवादनीयं च समीक्षेत तन्मातापितरौ विद्यातामोपनायना" दिति । येन नाम्नोपनीतोऽभिवादयते तच्च समीक्षेत कुर्यादित्यर्थः । तच्च मातापितरावेव विद्यातामोपनयनात् । शौनकोऽपि -
येन नाम्नोपनीतोऽसौ करिष्यत्यभिवादनम् ।
तच्चास्मिन्नेव समये कर्ताऽसौ नामकर्मणः॥
अभिवादननामेदमस्त्येत्यालोच्य चेतसा ।
उपांशुनिर्दिशेच्चैतन्न जानयिुर्यथाऽपरे॥
**तच्च नामौपनयनं स्मरेतां पितरौ शिशोः॥ **इति ।
अथ नक्षत्रनामान्याह । ज्योतिर्विदस्तु जन्मनक्षत्रचरणलक्षितस्वरोदयाभिहितशतपदचक्रान्तर्गताक्षरादिकमेव कार्यमित्याहुः । तथा च गृह्यपरिशिष्ट—
**तदक्षरादिकं नाम यस्मिन्धिष्ण्ये तदक्षरम्॥**इति ।
शतपदचक्रसारोद्धारो ज्योतिषेऽभिहितः—
शुण्ठीकोष्ठेषु तिर्यक्त्ववकहड लिखाधःस्थितालीष्विदाद्यै-
स्तान्युक्तांश्चस्वरैश्च क्रमत इह कुयुग्घङ्ङ्छामध्यकोष्ठे ।
घैर्घैरुर्ध्वाधरालीष्वनलभत इहासार्पमर्णैर्भपादा
एवं चान्येषु दद्यान्मटपरत पुयुक्षण्णठा मध्यकोष्ठे॥
पितृभत इह भानि वा द्विदैवं नयभजखाश्चतथा भुयुग्धफौढः ।
हरिभमवधिमैत्रतः स्युर्गसदचला वसुना दुयुग्झञौथः ।
अस्यार्थः । शुण्ठीकोष्ठेषु पञ्चविंशतिकोष्ठेषु तिर्यक् तिर्यक् मार्गेण अवकहड वर्णान् लिख ।अधःस्थितालीषु अधःस्थितपङ्किषु उक्तैः कथितैः इदाद्यैःस्वरैः तान् वर्णान् क्रमतः संयोज्य लिख ।इकाराद्यैः स्वरैः तेषां वर्णानां संयोगः कथं कर्तव्यः ? तदेवाह–वकहड एतेषु इकारसंयोगेन विकिहिडि भवेत् ।उकारसंयोगेन वुकुहुडु भवेत् । एकारसंयोगेन वेकेहेडे भवेत् । ओकारसंयोगेन वोकोहोडो भवेत्। इह अत्र चक्रे मध्यकोष्ठके कुयुक्धङछा लेख्याः । यत्र कोष्ठे कुकारस्तस्मिन्नेव कोष्ठे घङछा इत्यर्थः । एवं पञ्चविंशतिकोष्ठेषु वर्णा लेख्याः । धैर्षैश्चतुर्भिश्चतुर्भिर्वर्णैः अन लभतः कृत्तिकानक्षत्रतः आसार्पं अश्लेषापर्यन्तं नक्षत्रचरणा भवन्ति । यथा अइउए कृतिका।वोवाविवुरोहिणी । एवं सर्वत्र \। अन्येषु पञ्चविंशतिकोष्ठेषु मटपरता लेख्याः । यत्र मध्यकोष्ठे पुकार तत्र षणठा लेख्याः ।
पितृभतः मधामारभ्य आद्विदैवं विशाखान्तं इकारादिस्वरैर्युक्ता लेख्याः ।मिटिपिरित मुटुपुरुतु मेटेपेरेते मोटोपोरोतो ।यत्र पुस्तत्र षणठ ।मैत्रतः अनुराधामारभ्य हरिभमवधि श्रवणपर्यन्तम् । नयमजस्वनियिभिजिखि नुयुभुजुखु नेयेभेजेखे नोयोभोजोखो ।यत्र भुः तत्र धफढ ।वसुभात् घनिष्ठामारभ्य भरणीपर्यन्तम् । गसदचल गिसिदिचिलि गुसुदुचुल गेसेदेचेले गोसोदोचोलो ।यत्रदुः तत्र झञथ ।चतुर्भिश्चतुर्भिरक्षरेः एकैकं नक्षत्रं भवति । चतुश्चरणात्मकमेकं नक्षत्रं भवतत्यिर्थः ।
( शतपदचक्रम् )
(१) (२)
[TABLE]
.
(३)
(४)
[TABLE]
शतपदचक्रस्य स्पष्टार्थोऽभिहितः । ज्योतिषार्के—
चूचेचोला पदेऽश्वाद्ये लीलूलेको यमस्य च ।
अईउए इमेऽग्नेर्भे ओवावीवूतथाऽर्कभे॥
वेवोकाकी मृगः ख्यातः कूघङच्छास्तु रौद्रभे ।
केकोहाही त्वदितिभेहूहेहोडा च पुष्यभे॥
डीडूडेडो इमे सार्पेमामीमूमे मधाभिषे ।
मोटाटिटूतथा भाग्ये टेटोपाप्पर्यमर्क्षके॥
पूषणठ तथा हस्ते पेपोरारीति चित्रभे ।
रूरेरोता तथा स्वातौ तीतुतेतो द्विदैवभे॥
नानीनूने क्रमान्मैत्रे नोयायीयू इतीन्द्रभे।
येयोभाभीति मूलाख्येभूधफढजलस्य भे॥
भेभोजाजीति विश्वर्क्षे जूजेजोखाऽभिजिद्भवेत् ।
खीखूखेखो श्रुतौ झेया गार्गागूगे च वासवे॥
**गोसासीसू जलेशर्क्षे सेसोदादीत्यजाङ्घ्रिभे ।
दूझञथ तथापान्त्ये देदोचाचीति पौष्णभे॥ **इति ।
अत्र ह्रस्वस्थाने दीर्घोच्चारस्तु न दोषाय भवति । ह्रस्वदीर्घप्लुतसवर्णत्वात् । अश्वाद्ये अश्विन्याद्येपदे नवमांशे । ततश्च ततदक्षराणि चूडामणि चेदिपति चोलपति लाटपतिरित्यादीन्युन्नेयानि । तथा च तत्रैवोपसंहृतम्—
इति प्रोक्ता इमे पद्ये वर्णा नामादिजाः स्फुटाः ।
ज्ञेया मेषादिराशीनां नवभिर्नवाभिः पदैः॥
इति पूर्वोक्ताः नामादिजाः नामादौ जाताः । विशेषान्तरं हिरण्यकेशिसूत्रे “नक्षत्रनाम द्वितीयं स्यादन्यतरद्गुह्यं स्यादन्यतरेणैनमामन्त्रयेर"न्निति । अनेन व्यावहारिकस्याप्यभिवादनीयत्वं सिध्यति । तच्चाप्यभिवादनीयं नाम व्यावहारिकनामकरणानन्तरं कर्तव्यमित्याश्वलायनादिसूत्रपाठक्रमादवगम्यते । अथ व्यावहारिक नामाह “व्द्यक्षरं चतुरक्षरं वे"ति सूत्रम् ।अक्षरं स्वरः ते चाकारादयो नपुंसकवर्जा द्वाद-
श । द्वे अक्षरे यस्य तत् व्द्यक्षरं द्विस्वरमित्यर्थः । चत्वार्यक्षराणि यस्य तत् चतुरक्षरं चतुःस्वरयुक्तमित्यर्थः । व्यञ्जनेषु तु न सङ्ख्यानियमः । अत्र विशेषमाहवीरमित्रोदये बैजवापः “पिता नाम करोत्येकाक्षरं व्द्यक्षरं त्र्यक्षरमपरिमिताक्षरं वे”ति । “घोषवदादि” इति सूत्रम् । घोष बदक्षरं आदौ यस्य नाम्नः तद्घोषवदादि ।कुचुटुतुपुइति वर्गाः । तेषां तृतीयचतुर्थपञ्चमवर्णा घोषाः। ते च यथा गधङ जझञडढणदधन बभम ।तदादि कर्तव्यम् । “अन्तरन्तस्थ” मिति सूत्रम् ।अन्तः मध्ये अन्तस्था यस्य तत् अन्तरन्तस्थम् । अन्तस्था यरलवाः। “दीर्घाभिनिष्ठान” मिति सूत्रम् ।दीर्घमह्रस्वं गुर्वित्यर्थः । अभिनिष्ठानं अवसानं समाप्तिः यस्य तद्दीर्घाभिनिष्ठानम् । दीर्घाभिनिष्ठानं विसर्गः । यथा देवः । आदौ घोषवन्तीनि मध्ये अन्तस्थानि मन्ते विसर्गः । “कृतं कुर्यादि” ति सूत्रम् ।कृतं कृत्प्रत्ययान्तं कुमारस्य नामधेयं कुर्यात् । “न तद्धित” मिति सूत्रम् ।तद्धितप्रत्ययान्तं न कुर्यात् । तथा च कारिकायाम्-
तच्च घोषवदाद्यन्तरन्तस्थं चतुरक्षरम् ।
व्द्यक्षरं कृत्प्रत्ययान्तं विसर्गान्तमतद्धितम्॥
आश्वलायनेाऽपि—
द्विदव्यक्षरं द्व्यक्षरं वा नामकर्मणि शस्यते ।
नाम पैतामहं शस्यं यादृशं वा द्विजन्मसु॥
तथा च रेणुः—
पितामहं च नाम स्यान्मातामहमथापि वा॥
पितामहो देवतानामप्युपलक्षणम् । तथा च वीरमित्रोदये कपिलसंहितायाम्—
एकादशेऽह्नि विधिवन्नाम कुर्यात्कुलोचितम् ।
देवतानां विशेषेण पित्रोर्वा नाम शस्यते॥
मनुरपि—
मङ्गल्यं ब्राह्मणस्य स्यात्क्षत्रियस्य बलान्वितम् ।
वैश्यस्य धनसंयुक्तं शुद्रस्य तु जुगुप्सितम्॥
मङ्गल्यं मङ्गलप्रतिपादकम् ।यथा लक्ष्मीधरः । बलान्वितं शौर्य प्रतिपादकम् ।यथा युधिष्ठिरः ।धनसंयुक्तं धनप्रतिपादकशब्दसंयुक्तम् । यथा महाधनः ।जुगुप्सितं निन्दाप्रतिपादकशब्दसंयुक्तम् । यथा नरदासः । “शर्म ब्राह्मणस्य वर्म क्षत्रियस्य गुप्तेति वैश्यस्ये’‘ति वक्ष्यमाणं सूत्रम् ।ब्राह्मणस्य विप्रस्य पूर्वोक्तलक्षणनामान्ते शर्मेति । यथा हरदत्तशर्मा हरशर्मा हरिशर्मा भगवन्तशर्मा इत्यादि ।
तपसा ब्रह्मचर्येण शमेन च दमेन च ।
जगतां शर्मदानेन शर्मान्तं ब्राह्मणे भवेत्॥
इत्याश्वलायनः ।क्षत्रियस्य पूर्वोक्तलक्षणनामान्ते वर्मेति । यथा हरदत्तवर्मा हरिवर्मा ।
तापत्रयादतिवलाज्जगतां रक्षतीति यत् ।
तत्स्मात्सर्वसमे धीरे वर्मान्तं क्षत्रिये भवेत्॥
क्षत्रियस्य शौर्यरक्षाप्रतिपादकं बा। यथा हरिसिंहः हरसिंहः सभासिंह इत्यादि । वैश्यस्य पूर्वोक्तलक्षणनामान्ते गुप्तेति । इरिगुप्त इति ।
काले काले धनं दत्वा सर्वान्गोपायतीति यत् ।
तस्माद्वैश्यस्य नामैतद्गुप्तं तमभिधीयते॥
शूद्रस्य पूर्वोक्तलक्षणनामान्ते दासेति । हरिदास इत्यादि ।
द्विजाञ्छुश्रूषयन्नित्यं शूद्रस्तोषयतीति यत् ।
तस्मात्तस्य च दासत्वं तत्तत्स्त्रीणां तथा तथा॥
यमः—
शर्मा देवश्च विप्रस्य वर्म राजा च भूभुजः ।
गुप्तो दत्तश्चवैश्यस्य दासः शुद्रस्य कारयेत्॥
अथ स्त्रीणां नामकरणम्।“अयुजाक्षरमाकारान्तँस्त्रियै तद्धित-“मिति सूत्रम् ।अयुजाक्षरं अयुजानि विषमाक्षराणि त्र्यादीनि यस्मिन्नाम्नि तदयुजाक्षरम् ।आश्वलायनः– “युग्मानि त्वेवपुंसामयुजानि स्त्रीणा”मिति । शौनकोऽपि—
कुमार्याश्चेदमखिलं नाम कुर्यादमन्त्रकम् ।
पुंसां युग्माक्षरं नाम स्यात्स्त्रीणामयुजाक्षरम्॥
अयुजानि विषमाक्षराणित्रीणि पञ्च वेत्यादि । तथा च बैजवापः–“त्र्यक्षरमीकारान्तं स्त्रिया” इति । ईकारान्तंसावित्री देवकीत्यादि । अत्र घोषवदादिनियमो नास्ति । तथा च कारिका—
पुंसां युग्माक्षराणि स्युर्विपररीतानि योषिताम् ।
पक्षो घोषवदित्यादिरेवकारादनादृतः॥
घोषवदादिपक्षः स्त्रीणां नास्तीत्यर्थः । शर्मान्तादिनियमस्त्वत्राप्यस्त्येव । तेषां वर्णानां स्त्रियः कन्यकास्तासामपि तथा शर्मवर्माद्यन्तमित्यर्थः । तस्य च स्त्रीत्वेऽपि “मन” इति नान्तलक्षणस्य ङीपः प्रतिषेधाद्गार्गीशर्मेत्यादि पुंवत्प्रयोगः ।“डाबुभाम्या"मिति वा डाबन्तत्वे त्वाबन्तवद्गङ्गाशर्मामित्यादिरिति विशेषः । आकारान्तम् ।आकारो अन्ते यस्मात्तदाकारान्तरम् । गिरिजा पुलोमजेत्यादि । मनुः—
स्त्रीणां च सुखमक्रूरं विस्पष्टार्थं मनोहरम् ।
मङ्गल्यं दीर्घवर्णान्तमाशीर्वादाभिधानवत्॥
सुखं सुखोच्चार्यम्, यशोदेत्यादि । अक्रूरं हिंसाद्यर्थरहितम् कुलघ्नीत्यादि । विस्पष्टार्थं अव्याख्येयम् इन्दिरेत्यादि । इदमुदाहरणद्वयं व्यतिरेके । मनोहरम् कमकेत्यादि । मङ्गल्यम् सुभद्रेत्यादि । दीर्घवर्णान्तम् सुमित्रेत्यादि । आशिर्वादाभिधानवत् सौभाग्यवतीत्यादि । तद्धितप्रत्ययान्तम् च स्त्रियै नाम कुर्यादिति । यथा जयन्ती बाडेयी भालुकी । यथा बालाकथा च । मासनामस्वपि—
कृष्णानन्ताच्युता चक्रिणी वैकुण्ठा जनार्दना ।
उपेन्द्री यज्ञपुरुषा वासुदेवी हरिणी तथा॥
योगेशी पुण्डरीकाक्षा,-इति ।
एतद्व्यतिरिक्तनामान्यपि सन्ति संस्कारनृसिंहे—
श्रीः पद्मा कमला लक्ष्मीः सीता सत्या च रुक्मिणी ।
माधवी चेन्दिरा देवी तुलसी जाम्बवती तथा॥
पद्धतिरत्ने प्रकारान्तरेणाह—
मार्गशीर्षे च वाग्देवी ततः पद्मावती भवेत् ।
श्रीदेवी चापि सावित्री भूमिः कल्याणकी तथा॥
सत्यभामा पुण्यवती इन्द्राणीन्दुमती तथा ।
चन्द्रामृता च लक्ष्मीश्च मासनामानि च स्त्रियः॥
ज्योतिर्निबन्धे—
कन्यां नदीपर्वतपादपादिनाम्नीं तथा पुण्यदिवौकसाञ्च ।
तथाऽचलान्तां महिपक्षनाम्नीं प्राज्ञो न कुर्वीत हिताय नित्यम्॥
अत्रायं दाक्षिणात्यशिष्टाचारः ।तण्डुलान् कांस्यपात्रे प्रसार्य तदुपरि सुवर्णशलाकया कुलदेवताभक्त इत्यादि नामचतुष्टयं लेख्यम् । ततो “नामदेवताभ्यो नम” इति सम्पूज्य “अमुकनाम्ना त्वममुकोऽसी"ति स्वदक्षिणस्थमातुरुत्सङ्गस्थशिशोर्दक्षिणकर्णे कथायित्वा “मनोजूति"रितिमन्त्रपाठः । ततो विप्रै “र्नाम सुप्रतिष्ठितमस्त्वि"त्युक्ते “ऽमुकनाम्ना अमुकनामायं भवतोऽभिवादयते । ते चा “युष्मान्भवतु” इति बदेयुः । अथात्र कर्तृनिर्णयः । विष्णुपुराणे—
**ततस्तु नाम कुर्वीत पितैव दशनेऽहनि॥**इति ।
पितैवेत्येवकारः पितृपितामहादिसमवधाने पितृनियमार्थः । असमवधाने तु पितामहादिरपि कुर्यात् । तथा च शङ्खः “पिता नाम कुर्यादन्योऽपि वा कुलवृद्ध” इति । पिता मातुरप्युपलक्षणम् । तथा च बौधायनः–“दशम्यां द्वादश्यां वा मातापितरौ स्नात्वा शुच्यगारं कृत्वा पुत्रस्य नामधेयमस्य विधीयत” इति ।
अथास्य स्पष्टप्रयोगः ।तत्र पूर्वाह्ने पित्रादिः कृताह्निकः प्राणानायम्य देशकालौ सङ्कीर्त्य “अस्य कुमारस्य बैजिकगार्भिकैनोनिबर्हणायुरभिवृद्धिद्वारा परमेश्वरप्रीतये नामकरणाख्यं संस्कारमहं करिष्ये । तदङ्गतया विहितं स्वस्तिवाचनं मातृकापूजनं वसोर्द्धारापूजनं नान्दीश्राद्धं चाहं करिष्ये । निर्विघ्नेन परिसमाप्त्यर्थं गणपतिपूजनं च करिष्ये” । सर्वं सम्पाद्य
“नामकरणाङ्गत्वेन विहितं ब्राह्मणत्रयभोजनं सम्प्रदास्ये” इति सङ्कल्प्य अनुच्छिष्टपाकेन श्रीनधिकान्वा ब्राह्मणान् भोजयित्वा प्रशस्तपात्रे तण्डुलान् प्रसार्य तदुपरि आदौ गणपतिस्मरणप्रतिपादकं लेख्यम् ।ततो “लक्ष्मीनृसिंहभक्त” इत्यादि स्वकुलदेवतानाम लेख्यम् । ततो मासनाम “वैकुण्ठभक्त” इत्यादि लेख्यम् । ततोऽवहकडाचक्रानुसारेण जन्मनक्षत्रपादप्रयुक्ताद्याक्षरम् जन्मनाम “भैरव” इत्यादि लेख्यम् । ततः पूर्वोत्तलक्षणं व्यावहारिकनाम “हरदत्तशर्मा” इत्यादि लेख्यम् । “नामदेवताभ्य” इति सम्पूज्य, मातुरुत्सङ्गस्थशिशोर्दक्षिणकर्णे “कुलदेवतानाम्ना लक्ष्मीनृसिंहभक्तोऽसि” इति कथनीयम् । मासनाम्ना “बैकुण्ठोऽसि " । नक्षत्रनाम्ना “भैरवोऽसि” । व्यावहारिकनाम्ना “हरदत्तशर्माऽसि” । इति नामचतुष्टयं कथनीयम् । ‘मनो॑जू॒ति॑र्जुषता॒माज्य॑स्य बृह॒स्पति॑र्य॒॑ज्ञमि॒मन्त॑नो॒त्वरिष्टंय॒ज्ञसमि॒मन्द॑धातु॥ विश्वे॑ दे॒वास॑ ह॒इ मा॑दयन्ता॒मो३म्प्रतिष्ठ॑” इति मन्त्रान्ते “नाम सुमतिष्ठितमस्तु” इतिवक्तव्यम् । उस्थितो बद्धाञ्जलिः कर्ता “कुलदेवतानाम्ना नृसिंहभक्तनामायं भवतोऽभिवादयते” इति वदेत् । ते चा “युष्मान् भवतु लक्ष्मीनृसिंहमक्ता३” इति वदेयुः । अनेनैव प्रकारेण मासनामनक्षत्रनामव्यावहारिकनामभिरन्योन्यमभिवादनप्रत्याभिवादनं कार्यमिति ।यस्य यथागतं नामचतुष्टयं अभिवादनप्रत्यभिवादनादिष्वेवम् । ततः कर्ता विप्रान्नत्वा “कृतैतन्नामकरणाङ्गतया विहितदशसंख्याकान्ब्राह्मणान्भोजयिष्ये” । दक्षिणां दत्वा आशिषो गृहीत्वा, कुमार्या अपि नामकरणं कार्यम् । विषमाक्षरं तन्नाम ।
इति श्रीरामकृष्णविरचिते गृहसूत्रविवरणे संस्कारगणपतौ
नामकरणम्॥
_________
अथ दोलारोहः । बृहस्पतिः—
दोलारोहस्तु कर्त्तव्यो दशमे द्वादशेऽहनि ।
षोडशे दिवसे वापि द्वाविंशे दिवसेऽपि वा॥
प्रेङ्खोदोलिका क्वचित्खट्वेत्यपि पाठः ।भविष्यपुराणे—
अभीष्टे पुण्यदिवसे चन्द्रताराबलान्विते ।
मृदुध्रुवक्षिप्रभेषु माता वा कुलयोषितः॥
योगशायिहरं स्मृत्वा प्राक्शीर्षं विन्यसेच्छिशुम्॥
मृगचित्रा रेवती अनुराधा मृदूनि । रोहिणी उत्तरात्रयंध्रुवम् । हस्ताश्विन्यौ पुष्य अभिजित् क्षिप्राणि । ज्योतिर्निबम्धेऽपि—
करत्रये वैष्णवरेवतीषु दितिद्वये चाश्विनकध्रुवेषु ।
कुर्याच्छिशुनांनृपतेश्च तद्वदान्दोलनं वै सुखिनो भवन्ति॥
आन्दोलाशयने पुंसो द्वादशो दिवसः शुभः।
त्रयोदशस्तु कन्याया न नक्षत्रविचारणा॥
अन्यस्मिन्दिवसे चेत्स्यात्तिर्यगास्ये प्रशस्यते॥
अब दोलाचक्रम् ।वीरमित्रोदये—
सूर्यभाच्चन्द्रभंयावत्पञ्च पञ्च चतुर्दिशम् ।
मध्ये तु सप्त देयानि दोलिकाचक्र उत्तमे॥
पूर्वभागे च नैरुज्यं दक्षिणे मरणं ध्रुवम् ।
शेषेषु सप्त धिष्ण्येषु बालकस्य भवेदिति॥
स्त्रीशूद्रयोरप्येतद्भवति दृष्टार्थत्वात् । दोलारोहस्तु नामकरणदिने तदुक्तमुहूर्ते वा कुलदेवता सम्पूज्य अलङ्कृतं शिशुं हरिद्रादिचर्चिते पालकेमात्राद्याः सौभाग्ययुक्ताः स्त्रियो योगशायिनं हरिं स्मरन्त्योगीतवाद्यादिसमकालं प्राक्शिरसं दक्षिणाशिरसं वा न्यसेयुः । अन्यदपियथाचारं कार्यम् । इति पालकारोहः ।
अथ दुग्धपानं श्रीधरीये—
एकत्रिंशे वासरे वा द्वितीये जन्मर्क्षे वा शुद्धलग्नेऽनुकूले ।
शङ्खे क्षीरं सन्निध्याच्छिशूनां वक्त्रे धात्रीपूज्यपूजां विधाय॥
द्वितीयजन्मर्क्षे वेत्यन्वयः । शङ्ख इति तृतीयार्थे सप्तमी । नृसिंहोऽपि—
एकत्रिंशद्दिने चैव पयः शङ्खेन पाययेत् ।
अन्नप्राशननक्षत्रदिवसोदयराशिषु॥
नाक्षत्रे मासि सम्पूर्णे जातर्क्षेतु विशेषतः ।
मासान्ते दुग्धपानं स्यात्पश्चात्कालेसुशोभने॥
उत्तरात्रयहस्तौ चत्वाष्ठ्रवैष्णववासवाः।
पौष्णाश्विनीमघास्वातीवरुणादितिजीवभम्॥
रौहिण्यैन्दवमैत्राश्च दुग्धपाने शिशोः शुभाः ।
पष्ठीरिक्ताष्टमीदर्शा वर्ज्या विष्टिस्थिराणि च॥
वर्ज्यास्त्वशुभयोगाश्च कृष्णे चान्त्यत्रिभागकः ।
अधोमुखानि वर्ज्यानि मीनाजालिगृहाणि च॥
जीवशुक्रेन्दुसौम्यानां वारवर्गोदयेक्षणाः ।
शुभानां राशयः श्रेष्ठा विशिष्टाः शुभकर्मणि॥
आयारिभ्रातृगाः पापाः विशेषेण शिशोः शुभाः ।
पूर्वोह्णे वापि मध्याह्ने कुर्याद्रात्रिं च वर्जयेत्॥
योगनीराहुरुद्रादि मुख चैव विवर्जयेत्॥
योगिनीलक्षणम्—
शतमखेन्दुहुताशनरक्षसां यमजलेशसमीरणशूलिनाम् ।
दिशि दिशि क्रमशः परिवर्तते तिथिषु च प्रथमादिषु योगिनी॥
अथ राहुलक्षणम्—
गुरुभान्वोर्वसेत्प्राच्यामिन्दौ शुक्रे च दक्षिणे ।
कालराहू कुजे प्रत्यगुत्तरे बुधमन्दयोः॥
अथ रुद्रलक्षणम्—
हरिसोमवह्निराक्षसयमवरुणानिलहरालयेष्वेवम् ।
उदयादि भ्रमति सदा घटिकारुद्रो महाप्रबलः॥ इति ।
इति दुग्धपानम् ।
अथाचारप्राप्तजलपूजा ।
कवीज्यास्तचैत्राधिमासे न पौषे जलं पूजयेत्सूतिका मासपूर्तौ ।
बुधेन्द्वीज्यवारेविरिक्ते तिथौ हि श्रुतीज्यादतीन्द्वर्कनैर्ऋत्यमैत्रैः॥
मुहूर्त्तमायायामपि—
सूतिकयापः पूज्याः करिहरिमित्रादितीज्यमूलेन्दौ ।
गुरुबुधचन्द्रेऽह्निविना मध्वधिपौषद्वितीयमासास्तम्॥
अथ शिशोस्ताम्बूलभक्षणम् । ज्योतिर्निबन्धे—
सार्द्धेमासद्वये दद्यात्ताम्बूलं प्रथमं शिशोः ।
कर्पूरादिकसंमिश्रं विलासाय हिताय च॥
मूलादितिद्रविणतिष्यकरोत्तरासु ।
पौष्णाश्विविष्णुरजनीकरशक्रभेषु॥
वारेषुं जीवशशिसूर्यसितेन्दुजानां ।
ताम्बूलभक्षणविधिः कथितः शिशूनाम्॥
अथ निष्क्रमणम् “चतुर्थे मासि निष्क्रमणिका सुर्यमुदीक्षयति तच्चक्षुरिति” इति सूत्रम् ।कुमारस्य जननाच्चतुर्थे मासि निष्क्रमणिका गृहाद्बहिर्नयन कर्त्तव्यम् । ज्योतिर्निबन्धे बृहस्पतिः—
उपनिष्क्रमणं नाम गृहात्प्रथमनिर्गमः ।
अकृतायां क्रियायां स्यादायुःश्रीनाशनं शिशोः॥
कृते सम्पद्विवृद्धिः स्यादायुर्वर्धनमेव च॥
तत्र भविष्यत्पुराणे-
द्वादशेऽहनि राजेन्द्र ! शिशोर्निष्क्रमणं गृहात्॥
वीरमित्रोदये-
चतुर्थे मासि कर्तव्यं शिशोर्निष्क्रमणं गृहात्॥
मुहूर्त्तसङ्ग्रहे-
अन्नप्राशनकाले वा कुर्यान्निष्क्रमणक्रियाम्॥
अन्नप्राशनकालः षष्ठो मासः । तथा चाश्वलायनः—
चतुर्थे मासि कार्यं स्यादुपनिष्क्रमणं शिशोः ।
षष्ठे वा देवतास्थानमियादादाय तं शिशुम्॥
श्रौनकोऽपि—
मासे चतुर्थे षष्ठे वा शिशोर्निष्क्रमणं गृहात् ।
विदधीतास्य पित्रादिर्हितैषी यश्च रक्षकः॥
मासश्चात्र सावनः । तथा च यमः–
उपनिष्क्रमणं कुर्याच्चतुर्थेमामि सावने॥
बृहस्पतिः—
यात्रोक्तसमये मासि तृतीये द्वादशेऽह्नि वा ।
राजमार्तण्डः—
मासे तृतीये शशिवृद्धिपक्षे क्षपाकरे गोचरशोभनस्थे ।
उत्पत्तिपापग्रहवर्जिते भेनिष्काशनं सौख्यकरं शिशुनाम्॥
अथ पक्षनिर्णयः ।मुहूर्त्तसङ्ग्रहे—
पूर्वपक्षः शुभः प्रोक्तः कृष्णे चान्त्यत्रिकं विना॥
अथ तिथयः—
रिक्ताषष्ठ्यष्टमीदर्शद्वादशीश्चविवर्जिताः॥
अथ वाराः। बृहस्पतिः—
जीवभार्गवसौम्यानां शिशुनिष्क्रमणक्रिया ।
दिवसे शस्यते नित्यमायुर्वृद्धिधनप्रदा॥
अथ नक्षत्राणि । तत्र स एव–
अश्विनी रेवती हस्तधनिष्ठा रोहिणी तथा ।
श्रवणं पुष्यसंयुक्तं मृगेणोत्तरफल्गुनी॥
अनुराधोत्तराषाढा तथा चैव पुनर्वसुः ।
इमानि भानि शस्तानि शिशुनिष्क्रमणे विधौ॥
ज्योतिर्निबन्धे—
वर्ज्यास्त्वशुभयोगाः स्युर्विष्टिश्चशकुनादि च ।
वृषालिमेषवर्ज्याः स्युस्तथैवाधोमुखानि च॥
केन्द्रत्रिकोणगाः सौम्याः पापाः षष्ठास्त्रिलाभगाः ।
उपनिष्क्रमणे शस्ताः शिशोरायुःप्रवर्द्धनाः॥
निष्क्रमणस्वरूपमाहाश्वलायनः—
नयेदाकल्पकैः सम्यग्देवतायतनं गृहात् ।
अभ्यर्च्य देवतामूर्ति पञ्चघोषपुरःसरम्॥
आकल्पकैः भूषणैः । पञ्चघोषः पञ्चविधं वाद्यम् ।
भोजयित्वा द्विजान्गेहे स्वस्तिवाचनमाचरेत् ।
शाकुन्ते प्रजपेत्सूक्तेशिशोर्निष्क्रमणे पिता॥
वीरमित्रोदये—
चतुर्थे मासि कर्तव्यं शिशोर्निष्क्रमणं गृहात् ।
दिगीशानां दिशां तत्र तथा चन्द्रार्कयोर्द्विजः॥
पूजनं वासुदेवस्य गगनस्य च कारयेत् ।
ततस्त्वलङूकृता धात्री बालमादाय पूजितम्॥
बहिर्निष्कासयेद्गेहाच्छङ्खपुण्याहानिस्वनैः॥
तदनन्तरकर्तव्यतामाह तत्रैव—
द्विजांश्चादर्शपूर्वाणि मङ्गलानि पुरा नयेत् ।
दर्पणःकलशः कन्यास्तथा सुमनसोऽक्षताः॥
दीपमालाध्वजं लाजाः संप्रोक्तं चाष्टमङ्गलम्॥
सुमनसः पुष्पाणि—
विवाहे निष्क्रमे काम्ये वृद्धौ पूर्त्तेसमागमे ।
उत्सवेषु च यात्रायां प्रशस्तं चाष्टमङ्गलम्॥
अत्र विशेषमाह शौनकः—
निर्गमय्य गृहादेनं नीत्वा वा देवतालयम् ।
गन्धमाल्यादिभिस्तत्र पूजयित्वा च देवताम्॥
प्रणमय्य च तं बालं ततो देवालयस्थितः ।
विद्वद्भिर्ब्राह्मणैराशीर्वादाद्यैरभिनन्दितम् ।
परिगृह्य ततः स्थानान्निष्क्रमय्य ततः शिशुम्॥
मातुलादेः समासन्नबन्धोः प्रापय्य मन्दिरम् ।
तत्रोपहारदानाद्यैराशीर्भिश्चाभिलालितम्॥
**कुमारं परिगृह्यैनं प्रापयेत्स्वगृहं ततः॥**इति ।
विशेषान्तरमाह बृहस्पतिः—
चतुरस्रे शुचौ देशे गोमयेनोपलेपिते ।
धान्यपुञ्जे समासीनं बालंबालामथापि वा॥
अर्चयेद्गन्धपुष्पाद्यैस्तस्मिन्मूर्ध्नि ललाटके ।
अस्य रक्षां ततः कृत्वा मृतसञ्जीवनं जपेत्॥
तत्रार्चयेद्गणेशानं भूतेशानं तथैव च ।
**भक्षैर्विचित्रैः सफलैः शिशुनाभ्यर्चयेद्बुधः॥**इति ।
मृतसञ्जीवनश्च मन्त्र “स्त्र्यम्बकं यजामह” इत्यादिराधन्तयोः ।इदं निष्क्रमणं कन्याया अपि भवति । अथात्र कर्तृनिर्णयः । तत्र शौनकः–
मासे चतुर्थे षष्ठे वा शिशोर्निष्क्रमणं गृहात् ।
विदधीतास्य पित्रादिर्हितैषी यश्च रक्षकः॥
आदिशब्दात्पितामहादीनां ग्रहणम् । कल्पतरुस्तत्र नान्दीश्राद्धं नेच्छति,
सूर्येन्द्रोः कर्मणी ये च तयोः श्राद्धं न विद्यते ।
इति च्छन्दोगपरिशिष्टात् । तच्छन्दोगाना विषयम् ।
अथास्य स्पष्टप्रयोगः ।पत्नीकुमारसहितः कृतमङ्गलस्नान आचम्य प्राणानायम्य देशकालौस्मृत्वा “अस्य कुमारस्य गृहान्निष्क्रमणमहं करिष्ये । तदङ्गतया विहितं मातृपूजनपूर्वकं नान्दीश्राद्धं चाहं करिष्ये” । मातृपूजाभ्युदयिकं विधाय अलङ्कृतं शिशुं मातुरङ्के कृत्वा ततः कुलदेवतांगणपतिं च स्मृत्वा वेदघोषवादित्रादिसहितं गृहाद्बहिरानीय पिता कुमारं सूर्यमुदक्षियेत् । तत्र मन्त्रः– “ॐतच्चक्षु॑र्दे॒वहि॑तं पु॒रस्ता॑च्छु॒क्रमुच्च॑रत् । पश्ये॑म श॒रद॑÷ श॒तञ्जीवे॑मश॒रद॑÷श॒तँ शृणु॑याम श॒रद॑÷श॒तं प्रब्र॑वाम श॒रद॑÷श॒तमदी॑नाँ स्याम श॒रद॑÷श॒तंभूय॑श्च श॒रद॑ ÷श॒तात्” । तदनन्तरं देवालयं नीत्वा प्रदक्षिणं कारयित्वा देवालये प्रविश्य गन्धमाल्यादिभिस्तां देवतां पूजयेत् । तत्रस्थेभ्यो ब्राह्मणेभ्यो बहुविधा आशिषो गृहीत्वा मातुलादेः समासन्नबन्धोः मन्दिरं गत्वा तत्रोपहारादिकं गृहीत्वा स्वगृहं प्रविशेत् । तदनन्तरं शुचौ देशे चतुरस्रे गोमयेनोपलेपितधान्यराशौ बालकं उपवेश्य तन्मूर्ध्नि ललाटे गन्धाद्यैरर्चायित्वा मृतसञ्जीवनं मन्त्रं जपेत् । अत्र गणपतिं सदाशिवं
भक्षैर्नानाविधैः सम्पूजयेत् । अस्मिन्नेव मासे शुभदिने रात्रौ कुमारस्य चन्द्रदर्शनं कारयेत् ।
चन्द्रार्कयोर्दिगीशानां दिशां च वरुणस्य च ।
निक्षेपार्थमिमं दद्मिते त्वां रक्षन्तु सर्वदा॥
प्रमत्तं वा प्रसुप्तं वा दिवारात्रमथापि वा ।
रक्षन्तु सततं सर्वे देवाः शक्रपुरोगमाः॥
एवं शिशुरक्षणार्थं देवान्प्रार्थयेत् ।तूष्णीं तस्मिन्नहनिवा इति गङ्गाधरः ।
इति श्रीमथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्रविवरणे
संस्कारगणपतौ प्रथमकाण्डे सप्तदशी कण्डिका ।
<MISSING_FIG href=”../books_images/U-IMG-1696147484Screenshot2023-10-01133434.png”/>
.
अथ भूम्युपवेशनम् ।विष्णुधर्मोत्तरे परशुरामं प्रति आहपुष्करः—
पञ्चमे च तथा मासि भूमौ तमुपवेशयेत् ।
तत्र सर्वे ग्रहाः शस्ता भौमो राम ! विशेषतः॥
तिथिञ्च वर्जयेद्रिक्तां शस्तानि शृणु भानि मे ।
उत्तरात्रितये सौम्ये पुष्यर्क्षंशक्रदेवतम्॥
प्राजापत्यं च हस्तं च शस्तमाश्विनमित्रभम् ।
अथेतिकर्तव्यता । तत्रैव—
वराहं पूजयेद्देवं पृथिवीं च तथा द्विज ! ।
पूजनं पूर्ववत्कृत्वा गुरुदेवद्विजन्मनाम्॥
भुभागमुपलिप्याथ कृत्वा तत्र तु मण्डलम् ।
शङ्खपुण्याहशब्देन भूमौ तमुपवेशयेत्॥
अत्र शङ्खशब्दः सर्ववाद्योपलक्षणार्थः । ज्योतिर्निबन्धे—
तस्मिन्काले स्थापयेत्तत्पुरस्ताद्वस्त्रं शस्त्रं पुस्तकं लेखनीयम् ।
स्वर्णं रौप्यं यच्च गृह्णाति बालस्तैराजीवैस्तस्य वृत्तिः प्रदिष्टा॥
अथ प्रयोगः– प्राणानायम्य देशकालौ स्मृत्वा “अस्य कुमारस्य आपुरारोग्याभिवृद्ध्यर्थं भूम्युषवेशनमहं करिष्ये । तदङ्गतया विहितं
गणपतिपूजनस्वस्तिपुण्याहवाचनं करिष्ये”।सर्वं पूर्ववद्विधाय । वराहपृथिवीगुरुदेवद्विजान् नाममन्त्रेण पूजयित्वा भूभागमुपलिप्य तत्र मण्डलं कृत्वा तत्र शङ्खतूर्यादिमाङ्गलिकध्वनौ क्रियमाणे शिशुमुपवेशयेत् ।तत्र मन्त्रः—
रक्षैनं वसुधे ! देवि ! सदा सर्वगतं शुभे ! ।
आयुःप्रमाणं निखिलं निक्षिपस्व हरिप्रिये !॥
अचिरादायुषस्त्वस्य ये केचित्परिपन्थिनः ।
जीवतो रोग्यवित्तेषु निर्दहस्वाचिरेण तान॥
धरण्यशेषभूतानां मातस्त्वमसि कामधुक् ! ।
अजरा चाप्रमेया च सर्वभूतनमस्कृता॥
चराचराणां भूतानां प्रतिष्ठानाऽव्यया ह्यसि ।
ततो ब्राह्मणान् पूजयित्वा शिशोर्वाचयित्वा नरिजिनाद्युत्सवं कुर्यात् । एतस्मिन्नेव काले वस्त्रशस्त्रपुस्तकलेखनीस्वर्णरौप्यान्नानां तदग्रेस्थापितानां मध्ये यद्वस्तु गृह्णाति बालस्तस्य सैव वृत्तिः । तद्वृत्त्योपजीविका ।
इति संस्कारगणपतौ भूम्युपवेशनम् ।
** _________**
अथ प्रथमादिमासेषु दन्तोत्पत्तिफलम् । ज्योतिर्निबन्धे—
दन्तैर्युतश्चेत्प्रथमेऽर्भकः स स्वयं विनश्येदनुजं द्वितीये ।
हन्ति तृतीये भगिनीं चतुर्थे स्वमातरं बाणमितेऽग्रजातम्॥
षष्ठादिमासेषु शुभं फलं स्यात्स्वकं यदा जन्म भवेत्तुदन्तैः ।
यस्योर्ध्वपङ्क्तौप्रथमं रदाः स्युः स्वमातरं स्वं च निहन्ति तातम्॥
अथास्य शान्तिः—
गजपृष्ठगतं बालंनौस्थं वा स्थापयेद्द्विजम् ।
तदभावे तु धर्मज्ञ ! काञ्चने तु वरासने॥
सर्वौषधैः सर्वगन्धैर्वीजैः पुष्पैः फलैस्तथा ।
पश्चगव्येन रत्नैश्चमृत्तिकाभिश्च भार्गव !॥
स्थालीपाकेन धातारं पूजयेत्तदनन्तरम् ।
सप्ताहं चात्र कर्तव्यं तथा ब्राह्मणभोजनम्॥
अष्टमेऽहनि विप्राणां तथा देया च दक्षिणा ।
काञ्चनं रजतं गाश्चभुवं वासनमेव च॥
अथ कटिसूत्रबन्धनम्—
कटिसूत्र मृदुक्षिप्रध्रुवेन्दिन्द्रैः शुभेऽहनि ।
बध्वा च पञ्चमे मासि शिशोर्भूम्युपवेशने॥
अथकर्णवेधः । तत्र याज्ञिकाः पठन्ति—
“अथ कर्णवेधो वर्षे तृतीये पञ्चमे वा पुष्येन्दुचित्राहरिरेवतीषु पूर्वाह्णेकुमारस्य मधुरं दत्वा प्रत्यङ्मुखायोपविष्टाय दक्षिणं कर्णमभिमन्त्रयते भद्रं कर्णेभिरिति वक्ष्यन्तीवेदिति चाथ भिन्द्यात्ततो ब्राह्मणभोजन"मिति परिशिष्टम् ।
वीरमित्रोदये बृहस्पतिः—
जन्मतो दशमे वाह्निद्वादशे वाथ षोडशे ।
सप्तमे मासि वा कुर्याद्दशमे मासि वा पुनः॥
तथा च गर्गः—
मासे षष्ठे सप्तमे वाप्यष्टमे द्वादशेऽह्नि वा ।
कर्णवेधं प्रशंसन्ति पुष्ट्यायुःश्रीविवृद्धये॥
मदनरत्नेऽपि—
प्रथमे सप्तमे मासि अष्टमे दशमे तथा ।
द्वादशे च तथा कुर्यात्कर्णवेधं शुभावहम्॥
वत्सरे अयुग्म इत्यर्थः । वीरमित्रोदये—
अर्केऽनुकूले शशिनि प्रशस्ते ताराबलेचन्द्रविवृद्धिपक्षे ।
अयुग्मवर्षे शुभदं शिशुनां कर्णस्य वेधंमुनयो वदन्ति॥
तथा च राजमार्तण्डः—
ताराचन्द्रानुकूलेऽह्नि शस्ते भास्वति वाक्पतौ ।
अयुक्संवत्सरे प्राहुः कर्णवेधाविधिं बुधाः॥
अत्राजातदन्तस्यैव कर्णवेधोमुख्यः ।कारिकायाम्—
**शिशोरजातदन्तस्य मातुरुत्सङ्गसर्पिण॥**इति ।
अथ मासादि । वीरमित्रोदये व्यासः—
कार्तिके पोषमासे वा चैत्रे वा फाल्गुनेऽपि वा।
कर्णवेधं प्रशंसन्ति शुक्लपक्षे शुभे दिने॥
ज्योतिर्निबन्धे—
वेध्यौ कर्णावदन्तस्य विषमेऽब्दे पिता शिशोः ।
शुक्लपक्षे शुभे वारे चैत्रपौषोर्ज्जफाल्गुने॥
नृसिंहः—
एकादश्यष्टमीपर्वरिक्तावर्ज्याः शुभावहाः ।
श्रेष्ठाश्च तिथयः सर्वाः कृष्णे चान्त्यत्रिकं विना॥
शकुन्यादीनि विष्टिश्च विशेषेण विवर्जयेत् ।
शुभयोगेषु सर्वेषु कर्णवेधःशुभावहः॥
कर्णद्वयादितिक्षिप्रमृदुभैस्त्र्यायगैः शुभैः ।
गुरौ लग्नेऽथ केऽप्याहुरुत्तरासु श्रुतिष्वधः॥
वृद्धनारदः—
वृषभे मिथुने मीने कुलीरे कन्यकासु च ।
तुलाचापे तु कुर्वीत कर्णवेधंशुभावहम्॥
रन्ध्रारिव्ययगो नेष्टो गुरुः शेषेषु शोभनः ।
सुतरन्ध्रगतः सौम्योनेष्टः शेषेषु शोभनः॥
सप्ताष्टमगतः शुक्रो न शुभोऽन्यत्र शोभनः ।
चन्द्रो द्वित्रिसुतस्त्रीषु धर्मकर्मगतः शुभः॥
त्रिषडायगताः सौम्याः शुभाः कर्णस्य वेधने ।
कर्णवेधे त्रिलाभस्थौ क्रूरौ नेष्टौ शुभाशुभौ॥
स च रात्रौ न कार्यः । तथा च वशिष्ठः—
न कश्चिदिष्टोऽष्टमराशिसंस्यस्तिथिद्वयं वा यमसंज्ञकं च ।
**न तत्र कुर्याद्दिवसे विशेषाद्रात्रौ न कुर्यात्खलु कर्णवेधम्॥**इति॥
अथ सूचीनिर्णयः । तत्र बृहस्पतिः—
शातकुम्भमयी सूची वेधने शोभनप्रदा ।
राजती वायसी वापि यथाविभवतः शुभा॥
स्मृतिमहार्णवे ताम्रीत्यप्युक्तम् ।
शुक्लसूत्रसमायुक्तताम्रसूच्याथ वेधयेत् ।
अथ वर्णविशेषण सूचीव्यवस्था ।तत्र वीरमित्रोदये बृहस्पतिः—
सौवर्णी राजपुत्रस्य राजती विप्रवैश्ययोः ।
शुद्रस्य चायसी सूची मध्यमाष्टाङ्गुलात्मिका॥
मध्याङ्गुलीमध्यमपर्वसितमङ्गलं तेन प्रमाणेनाष्टाङ्गुलेत्यर्थ इति प्राञ्चः ।तन्न, अनक्षरार्थत्वात् । किन्तु मध्यमा चासावष्टाङ्गुलात्मिकेति सभ्योऽर्थः। मध्यमा नातिस्वल्पा नात्यधिकेत्यर्थः । अथेतिकर्तव्यता । विष्णुधर्मोत्तरे—
शिशोरेवाथ कर्तव्यं कर्णवेधं यथा शृणु ।
पूर्वाह्नेपूजनं कुर्यात्केशवस्य हरस्य च॥
ब्रह्मणश्चन्द्रसूर्याभ्यां दिगीशानां तथैव च ।
नासत्ययोः सरस्वत्या ब्राह्मणानां गवां तथा॥
गुरूणां मण्डनं कृत्वा तत्र दत्वा वरासनम् ।
तथोपवेशयेत्तत्र धात्रीं शुक्लाम्बरां तथा॥
अलङ्कृतं तदुत्सङ्गे बालं धृत्वा तु सान्त्वितम् ।
धृतस्य निश्चलं सम्यगलक्तकरसाङ्किते॥
विध्येदेवं कृते च्छिद्रे सकृदेवात्र लाघवात् ।
प्राग्दक्षिणे कुमारस्य भिषग्वामे तु योषितः॥
शिशोर्विवर्धनं कार्यं यावदाभरणक्षमम् ।
कर्णवेधदिने विप्राः सांवत्सरचिकित्सकौ॥
**पूज्याश्चाविधवा नार्यः सुहृदयश्च तथा द्विजाः॥**इति ।
अथ कर्णक्षालनमाह । ज्योतिर्निबन्धे—
**वेधात्तृतीयनक्षत्रे क्षालयेदुष्णवारिणा॥**इति॥
अत्र पुरुषकर्णरन्ध्रवृद्धिविषये विशेषमाह देवलः—
कर्णरन्ध्रे रवेश्छाया न विशेदग्रजन्मनः ।
तं दृष्ट्वा विलयं यान्ति पुण्यौघाश्चपुरातनाः॥
तस्मै श्राद्धं न दातव्यं यदि चेदासुरं भवेत्॥
अविद्धकर्णादिनिषेधमाह शालङ्कायनः—
अविद्धकर्णैर्यद्भुक्तं लम्बकर्णैस्तथैव च ।
दग्धकर्णैस्तु यद्भुक्तं तद्वै रक्षांसि गच्छति॥
तत्प्रमाणमाहतुः शङ्खगोभिलौ—
हनुमुलादधः कर्णैलम्बौ तु परिकीर्त्तितौ ।
व्द्यङ्गुलौ त्र्यङ्गुलौशस्तौ तेन शातातपोऽब्रवीत्॥
स्त्रीशूद्रयोरप्येतद्भवति । अथास्य स्पष्टप्रयोगः ।पूर्वोक्तदिने कुमारेण सह पितरौ स्नात्वाऽहतवासांसि परिधाय उपविश्य देशकालौ स्मृत्वा “अस्मिन्पुण्याहे अस्य कुमारस्य कर्णवेधमहं करिष्ये । तदङ्गत्वेन विहितं स्वस्तिपुण्याहवाचन मातृकापूजनं नान्दीश्राद्धं चाहंकरिष्ये”-सर्वं सम्पाद्य पूर्वाह्णे"केशवं हरं ब्रह्माणं चन्द्रमसं सूर्यं दिक्पालान्अश्विनीकुमारौ सरस्वतीं ब्राह्मणान् गवां” नाममन्त्रेण पूजयित्वा, ततो गुरून् वरासने उपवेश्य पूजयित्वा, ततो वरासने धात्रीं उपवेश्य तदुत्सङ्गे पूर्वाभिमुखमलङ्कृतं बालकं धृत्वा कुमारहस्ते शर्करादिमधुरं दत्वा पिता अन्यो वा दक्षिणकर्णं यथोक्तसूच्या वेधयेत् । ततो वामम् । “भद्रं कर्णेभि” रित्यनेन दक्षिणकर्णमभिमन्यते ।
‘व्व॒क्ष्यन्ती॒वेदाग॑नीगन्ति॒ कर्णं॑ प्रि॒य<MISSING_FIG href=”../books_images/U-IMG-1697821779Screenshot(14"/>.png) सखा॑यं परिषस्वजा॒ना ।
योषे॑व शिङ्क्ते॒ वित॒ताधि॒धन्व॒ञ्ज्याइ॒य<MISSING_FIG href="../books_images/U-IMG-1697821779Screenshot(14"/>.png)सम॑ने पा॒रय॑न्ती ।
इति मन्त्रेण वाममभिमन्त्रयते । ततः कर्णवेधानिमित्तं यथाशक्ति ब्राह्मणभोजनम् । वेधात्तृतीयनक्षत्रे उष्णवारिणा क्षालयेत् । अथ कन्याया नासवेधः ।
कन्याया घ्राणवेधः सन्सद्द्वारे विषमेऽब्दके।
आद्ययामे सिते पक्षे मैत्रक्षिप्रोत्तराचरे॥
इति श्रीप्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्मसूत्रविवरणे
संस्कारगणपतौ कर्णवेधः कन्याया नासावेधः ।
** ** ** ( अष्टादशी कण्डिका )**
** **प्रोष्येत्यगृहानुपतिष्ठते पूर्ववत्पुत्रं दृष्ट्वा जपत्यङ्गादङ्गात्सम्भवसि हृदयादधि जायसे ।आत्मा वै पुत्रनामासि स जीव शरदः शतमित्यथास्य मूर्द्धानमवजिघ्रति प्रजापतेष्ट्वाहिङ्कारेणावजिघ्रामि सहस्रायुषासौ जीव शरदः शतमिति गवान्त्वा हिङ्कारेणेति च त्रिर्द्दक्षिणेऽस्यकर्णे जपत्यस्मे प्रयन्धि मघवन्नृजीषिन्निन्द्र रायो विश्ववारस्य भूरेः ।अस्मे शतशरदो जीवसे धाअस्मे वीराञ्छश्वत इन्द्र शिप्रिन्नितीन्द्र ज्येष्ठानि द्रावणानि धेहि चित्तिन्दक्षस्य सुभगत्वमस्मे ।पोषयीणामरिष्टिन्तनूनास्वाद्मानं वाचः सुदिनत्वमन्हामिति सव्येस्त्रियै तु मूर्द्धानमेवावाजघ्राति तूष्णीम्॥ १८ ॥
प्रोष्य गृहागमनविधिः ।“प्रोष्येत्य गृहानुपतिष्ठते पूर्वव” दिति सूत्रम् ।साग्निकः प्रवासं कृत्वा एत्य गृहान् गृहस्थितान् भार्यापुत्रादीनुपतिष्ठते तत्समीपे स्थित्वा मन्त्र पठति । पूर्ववत् श्रोतवत् । “गृहा मा विभीते" ति त्रिभिमन्त्रैरित्यर्थः । उपस्थानानन्तरम् “क्षमाय व” इति प्रवेशनमिति भर्तृयज्ञहरिहरौ ।प्रवासश्च साग्निकेन द्रव्यार्जनादिदृष्टकार्यार्थमेव केवलेन पुरुषेण कार्यः । न तु तीर्थयात्राद्यदृष्टकार्यार्थमिति प्रयोगरत्ने । “पुत्रं दृष्ट्वा जपत्यङ्गादङ्गात्सम्भवति हृदयादधिजायसे ।आत्मा वै पुत्रनामासि स जीव शरदः शतमिति" इति सूत्रम् ।पुत्रं आत्मजं दृष्ट्वा विलोक्य “अङ्गादङ्गा” दिति मन्त्रं पठति । मन्त्रार्थः– हे पुत्र ! यतस्त्वमङ्गात्सम्मवासि उत्पत्स्यसे हृदयात् । अतोऽङ्गादपि अधिकतया जायसे । अतस्त्वं वै निश्चितं पुत्रनामा आत्मा अभिन्नरूपोऽसि । स त्वं शतं शरदो वर्षाणि जीव प्राणिहि । “अथास्य मूर्धानमवजिघ्रति प्रजापतेष्ट्वाहिङ्कारेणावजिघ्रामि सहस्रायुषासौ जीव शरदः शसमिति" इति सूत्रम् ।जपोत्तरं अस्य पुत्रस्य मूर्धानं शिर अवजिघ्रति अवाचीनं जिघ्रति “प्रजापष्ट्वे’‘ति मन्त्रेण । असाविति तस्यैव
नामग्रहणम् । मन्त्रार्थः–प्रजापतेर्ब्रह्मणः हिङ्कारेण स्नेहादिकृतध्वनिविशेषेण सामवेदावयवेन वा । त्वा त्वां अवजिघ्रामि शिरसि चुम्बामि। अतोऽवघ्राणात हे असौअमुकशर्मन् ! सहस्रायुषा सुबहुजीवनेन ।शरदः शतमिति उक्तोऽर्थः । “गवां त्वा हिङ्कारेण च त्रिः” इति सूत्रम् । “गवान्त्वे"ति च मन्त्रेण त्रिरवजिघ्रति ।सहस्रायुवेत्यादेरत्राप्यनुषङ्गः । तेन प्रजापतिस्थाने गवान्त्वेतिपदं मन्त्रं पठेदित्यर्थः । ततश्च “गवान्त्वाहिङ्कारेणावाजिघ्रामि सहस्रायुषाऽमुकशर्मन् जीव शरदः शत"मिति मन्त्रेण सकुन्मूर्धानमवाघ्राय द्विस्तूष्णीमवजिघ्रति । “दक्षिणेऽस्य कर्णे जपत्यस्मे प्रयन्धि मघवन्नृजीषिन्निन्द्र रायो विश्ववारस्य भूरेः । अस्मे शत**<MISSING_FIG href=”../books_images/U-IMG-1697821779Screenshot(14”/>.png)शरदो जीवसे धा अस्मेवीराञ्छश्वत इन्द्र शिप्रिन्निति" इति सूत्रम् ।अस्य पुत्रस्य दक्षिणकर्णे “अस्मे प्रयन्धिमघवन्नि"ति मन्त्रं जपति । मन्त्रार्थः–हे मघवन् इन्द्र ! ऋजीषिन् स्निग्धचित ! हे इन्द्र ! लोकेश ! शिप्रिन् सुखद !, लघुहस्तेति वा । अस्मे अस्मै कुमाराय रायःऐश्वर्याणि धनानि च प्रयन्धि प्रयच्छ । विश्ववारस्य सर्ववरणीयस्य । वराणांसमूहोवारं सर्वेषां वाराणां समूहः सर्ववारं तस्येति वा । भूरेर्बहुतरस्य ।उभयत्र कर्मणि षष्ठी । प्रचुरसर्ववारं रायेप्रयच्छ इत्यर्थः । प्रयोजनमाह—अस्मे अस्य शतं शरदो जीवसे जीवनायेति । किञ्च अस्मे अस्मिन् वीरान् पुत्रान् शश्वतः शाश्वतान् दीर्घायुषः प्रधाःनिषेहि । अस्मे देहत्यिर्थः । “इन्द्र ज्येष्ठानि द्रविणानि धेहि चित्तिंदक्षस्य सुभगत्वमस्मे ।पोष<MISSING_FIG href=”../books_images/U-IMG-1697821779Screenshot(14"/>.png)रयीणामरिष्टिं तनुना<MISSING_FIG href="../books_images/U-IMG-1697821779Screenshot(14"/>.png)**स्वाद्मानं वाचः सुदिनत्वमह्नामिति सव्ये” इति सूत्रम् ।सव्ये सन्ये कर्णे “इन्द्र ज्येष्ठानी"ति मन्त्रं जपति । मन्त्रार्थः—हे इन्द्र ! परमैश्वर्ययुक्त ! अस्मे अस्मिन् ज्येष्ठानि समङ्गादीनि धेहि स्थापय । चित्तिंज्ञानं दक्षस्य प्रजापतेरिव सुभगत्वं सौभाग्यं सर्वं सुभगत्वं च धेहि । तथा रयीणा धनानां पोषं पुष्टिं तनुनां अवयवाना अरिष्टिं नीरोगत्वं वाचः वाण्याः स्वाद्मानं स्वादुत्वं माधुर्यमिति यावत् । अह्नांदिनानां सुदिनत्वं साफल्यं च धेहीति ।“स्त्रियै तु मूर्द्धानमेवावजिघ्रति
तूष्णी"मिति सूत्रम् ।स्त्रियाः दुहितुः पुत्रिकाया मूर्द्धानमेव तूष्णीं जिघ्रति, न त्वन्यत् । एवकारेण दर्शनजपकर्णजपयोर्निवृत्तिरिति हरिहरः ।एवकारकरणं कर्णजपप्रतिषेधार्थमिति भर्तृयज्ञः ।
इति श्रीप्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्रविवरणे
संस्कारगणपतौप्रथम काण्डे अष्टादशी कण्डिका ।
<MISSING_FIG href=”../books_images/U-IMG-1696170428Screenshot2023-10-01195655.png”/>
अथास्य स्पष्टप्रयोगः ।प्रवत्स्यन् यजमानः स्वगृहं प्रविशति पुत्रं दृष्ट्वा जपति “अङ्गादङ्गात्सम्भवसिहृदयादविजायसे । आत्मा वै पुत्रनामासि स जीव शरदः शतम्" । अथास्य मूर्द्धानमवजिघ्रति । तत्र मन्त्रः-“प्रजापतेष्ट्वाहिङ्कारेणावजिघ्रामि सहस्रायुषा हरदत्तशर्मन् जीव शरदः शतम्” इति मन्त्रेण सकृत् ।द्विस्तूष्णीं । “गवांत्वा हिङ्कारेणावजिघ्रामि सहस्रायुषाहरदत्तशर्मन् ! जीव शरदः शतम्” इति मन्त्रेण सकृत् द्विस्तूष्णीं मूर्द्धानमवजिघ्रति । अथ दक्षिणे कर्णे जपति “अस्मे प्रयन्धि मघवन्नृजीषिन्निन्द्र रायो विश्ववारस्य भूरेः ।अस्मे शत**<MISSING_FIG href=”../books_images/U-IMG-1697821779Screenshot(14"/>.png)शरदो जीवसे वा अस्मेवीराञ्छश्वत इन्द्र शिप्रिन्” । अथ सव्यकर्णे जपति । “इन्द्र श्रेष्ठानि द्रविणानि धेहि चित्तिंदक्षस्य सुभगत्वमस्मे ।पोष<MISSING_FIG href=”../books_images/U-IMG-1697821779Screenshot(14"/>.png)रयीणामरिष्टिन्तनूना<MISSING_FIG href="../books_images/U-IMG-1697821779Screenshot(14"/>.png)**स्वाद्मानं वाचः सुदिनत्वमह्नाम्” । अथ कन्यापत्यस्य तु मूर्द्धानमेवावजिघ्रति तूष्णीम् । इति संस्कारगणपतौ प्रोष्येत्यकृत्यम् ।
____________
( एकोनविंशतिकण्डिका )
षष्ठे मासेऽन्नप्राशन<MISSING_FIG href="../books_images/U-IMG-1696170542Screenshot2023-10-01195322.png"/>स्थालीपाक<MISSING_FIG href="../books_images/U-IMG-1696170542Screenshot2023-10-01195322.png"/>श्रपयित्वाज्यभागाविष्ट्वाज्याहुतीर्जुहोति देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति ।सा नो मन्द्रेषमूर्जन्दुहाना धेनुर्वागस्मानुपसुष्टुतैतु स्वाहेति वाजो नो अद्येति च द्वितीया<MISSING_FIG href="../books_images/U-IMG-1696170542Screenshot2023-10-01195322.png"/>स्थालीपाकस्य जुहोति प्राणेनान्नमशीय स्वाहाऽपानेन गन्धानशीय स्वाहा चक्षुषा रूपाण्यशीय
स्वाहा श्रोत्रेण यशोऽशीय स्वाहेति प्राशनान्ते सर्वान्रसान्सर्वमन्नमेकतोद्धृत्याथैनं प्राशयेत्तृष्णी<MISSING_FIG href="../books_images/U-IMG-1696170674Screenshot2023-10-01195322.png"/>हन्तोति वा हन्तकारं मनुष्या इति श्रुतेर्भारद्वाज्या मा<MISSING_FIG href="../books_images/U-IMG-1696170674Screenshot2023-10-01195322.png"/>सेनवाक्प्रसारिकामस्य कपिञ्जलमा<MISSING_FIG href="../books_images/U-IMG-1696170674Screenshot2023-10-01195322.png"/>सेनानाघ्नकामस्यमत्स्यैर्जवनकामस्य कृकषाया आयुष्कामस्याट्या ब्रह्मवर्च्चसकामस्य सर्वैःसर्वकामस्यान्नपर्यायवा ततो ब्राह्मणभोजनमन्नपर्याय वा ततो ब्राह्मणभोजनम्॥ १९॥
अथान्नप्राशनम् । “षष्ठे मासेऽन्नप्राशन"मिति सूत्रम् ।जन्मतः षष्ठे मासे कुमारस्यान्नप्राशनाख्यं कर्म कुर्यात् । तथा च नारदः—
तन्मतो मासि षष्ठे स्यात्सौरेणोत्तममन्नदम् ।
तदभावेऽष्टमे मासे नवमे दशमेऽपि वा॥
द्वादशे वाऽपि कुर्वीत प्रथमान्नाशनं परम् ।
संवत्सरे वा सम्पूर्ण केचिदिच्छन्ति पण्डिताः॥
नवमे इति कन्याभिप्रायेण ।बृहस्पतिरपि—
पञ्चाशद्दिवसात्त्रिघ्नात्पश्चात्त्रिहतषष्ठ्यहात् ।
अर्वागेवोत्तमा भुक्तिर्मास्यन्येऽप्येवमुचिरे॥
त्रिघ्नात्रिगुणात् सार्धशत १५० दिवसादिति यावत् । त्रिहतषष्ठ्यहात् त्रिगुणितषष्ठिदिनात् । १८० साशीतिशततमदिवसादिति यावत् ।अथ स्त्रीणामन्नप्राशनकालः । तत्र वशिष्ठः—
युग्मेषु मासेषु च सत्सुपुंसां संवत्सरे वा नियतं शिशूनाम् ।
अयुग्ममासेषु च कन्यकानां नवान्नसंप्राशनमिष्टमेतत्॥
श्रीपतिः—
षष्ठे मासे प्राशनं दारकाणामन्यस्मॅिस्तत्कन्यकानां विधेयम्॥
अन्यस्मिन्नयुग्मे विषमे । तदेतत्स्पष्टमाइ नारदः—
षष्ठे मास्यष्टमे वाऽथ पुंसां स्त्रीणान्तु पञ्चमे ।
सप्तमेमासि वा कार्यं नवान्नप्राशनं शुभम्॥
मासश्चात्र सौरःसावनो वा । वीरमित्रोदये—
**जन्मतो मासि षष्ठे स्यात्सौरेणोत्तममन्नदम्॥**इति ।
अथात्र पक्षनिर्णयः ।नारदः—
पक्षयोरुभयोरुक्तं कृष्णे चान्त्यत्रिकं विना॥
अथ तिथयः ।लघुनारदः—
द्वितीया च तृतीया च पञ्चमी सप्तमी तथा ।
त्रयोदशी च दशमी प्राशने तिथयः शुभाः॥
वीरमित्रोदये—
पञ्चपर्वसु रिक्तायां नन्दायामाद्यभोजनम् ।
बलमायुर्यशो हन्ति सप्तम्यां चेति के चन॥
अथ वाराः । तत्र नारदः—
बुधशुक्रगुरूणान्तु वारा बालाशने शुभाः ।
चन्द्रवारं प्रशंसन्ति कृष्णे चान्त्यत्रिकं विना॥
वीरामित्रोदये—
अर्काङ्गारकमन्दानां वाराश्चापि शुभप्रदाः ।
यदा चाराधिपस्तिष्ठेत्स्वोच्चमित्रगृहे तदा॥
वशिष्ठः—
जीवसौम्यसितानान्तु द्रेःकाणा दिवसांशकाः ।
बालान्नप्राशने शस्ता न चन्द्रार्कार्कजासृजाम्॥
असृग्भौमः। अत्र सोमवारनिन्दाक्षीणचन्द्रविषया । अत्र च जन्मनक्षत्रमपि शुभमित्याह नारदः—
पदबन्धनचौलान्नप्राशने चोपनापने ।
शुभदं जन्मनक्षत्रमशुभं त्वन्यकर्मणि॥
नृसिंहस्तु निषेधति—
जन्मर्क्षे च दिने श्रेष्ठे निशायां नैव भोजयेत् ।
उभयोः शुभदं प्रोक्तं कर्माधानर्क्षयोरपि॥
जन्मक्षादीनां फलमाह स एव—
जन्मर्क्षे श्रीक्षयं विन्द्यात्कर्मर्क्षेचापि सौख्यकृत् ।
आधानर्क्षेचबालानां भोजनं रोगनाशनम्॥
विधिरत्नेऽपि—
अन्नप्राशनकार्ये तु जन्म मृत्युदं भवेत् ।
शुभं कर्मर्क्षमाधाने विवाहे चान्नभोजनम्॥
जन्ममासादीनां स्वरूपमुक्तं सङ्ग्रहे—
जन्मभं जन्मनक्षत्रं दशमं कर्मसंज्ञिकम् ।
एकोनविंशमाधानं त्रयोविंशं विना शुभम्॥
अथ योगविचारः । तत्र बृहस्पतिः—
न वैधृतौ व्यतीपाते विष्ट्यां गण्डातिगण्डयोः ।
मूले वज्रे न परिधेबालान्नप्राशनं हितम्॥
अभ लग्नानि । कश्यपः—
गोऽश्विकुम्भतुलाकन्यासिंहकर्किनृयुग्मकाः ।
शुभदा राशयश्चैते न भेषझषवृश्चिकाः॥
नृसिंहोऽपि—
मेषालिमीना वर्ज्याःस्युस्तथैवाधोमुखानि च॥
अधोमुखानि सूर्याधिष्ठितराशयः ।
सूर्याधिष्ठितराश्युपक्रमतयाऽधस्तिर्यगूर्ध्वाननाः ।
इति सङ्ग्रहवाक्यात् । अथ ग्रहसंस्था ।तत्र वशिष्ठः—
शुभाशुभेषु त्रिधनायकेन्द्रात्रिकोणगेष्वायरिपुत्रिगेषु ।
अषष्ठरिःफाष्टगते हिमांशौ बालान्नमुक्तिः शुभदा च तेषाम्॥
कुष्ठी लग्नगते सूर्ये क्षीणे चन्द्रे च भिक्षुकः ।
सत्रदः पूर्णचन्द्रे च कुजे पित्तरुजार्दितः॥
बुधे ज्ञानी गुरौ भोगी दीर्घायुर्भाग्यवान् सिते ।
बातरोगः शनौ राहौकेतौचान्नविवर्जितः॥
सम्पूर्णेन्दूभयाष्टम्योर्मध्येन्दुः पूर्णसंज्ञितः ।
विनष्टेन्दुभयाष्टम्योर्मध्येऽसौ क्षीणसंज्ञकः॥
महेश्वरः—
सूर्ये केन्द्रमृतिव्ययात्मजगते धर्मे च कुष्ठी भवे-
द्भौमे पित्तरुजान्वितोऽनिलरुजा युक्तस्तु सूर्यात्मजे ।
क्षीणे शीतकरे तु भैक्ष्यभुगिति प्रोक्तं च रिक्ते तिथौ
सौभ्ये ज्ञानयुतो विधौ मखकरः पूर्णें तु सत्रप्रदः॥
गुरौ चिरायुर्भृगुजेऽथ भोगी कोणस्त्रिकोणाद्यससप्तसंस्थः।
वन्धुस्थितश्चान्नहरोऽथ षष्ठो मृत्युस्थितो मृत्युकरः शशाङ्कः॥
कोणःशनिः । राजमार्तण्डः—
लाभत्रिषष्ठभवनोपगतास्त्वसौम्याः सौम्यग्रहा नवमपञ्चमकण्टकस्थाः ।
लग्नेषु दैत्यसचिवज्ञबृहस्पतिनामन्नोपभोगकरणैर्विविधोपभोक्ता॥
अर्णवेऽपि—
दशमस्थान्ग्रहान्सर्वान्वर्जयेन्मतिमान्नरः ।
अन्नप्राशनकार्येषु मृत्युक्लेश भयावहान्॥
बुधशुक्रेनजीवाः स्युर्व्ययलग्नायकेन्द्रगाः ।
शुभांशे शीतगौ मोक्तुर्दद्युरायुः श्रियं शुभम्॥
इनःसूर्यः। “स्थालीपाक<MISSING_FIG href=”../books_images/U-IMG-1696170231Screenshot2023-10-01195322.png"/>श्रपयित्वाऽऽज्यभागाविष्ट्वाज्याहुतीर्जुहोति" इति सूत्रम् । स्थालीपाकं चरुं यथाविधि श्रपयित्वाऽऽज्याभागौ हुत्वा द्वे आहुती वक्ष्यमाणैर्मन्त्रैर्जुहोति । “दैवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति ।सा नो मन्द्रेषभूर्जन्दुहाना धेनुर्वागस्मानुसुपष्टुतैतु स्वाहेति वाजो नो अद्येति च द्वितीया"मिति सूत्रम् ।द्वे आहुती जुहोतीत्युक्तम् । तत्र “दैवीं वाचमजनयन्त" इति मन्त्रेणैकामाहुतिंजुहोति । ततश्च “दैवीं वाच"मिति “वाजो नो अद्ये"ति च द्वाभ्यामृग्भ्यां द्वितीयामाहुतिं जुहोतीत्यर्थः । मन्त्रार्थः–दैवीं देवसम्बन्धिनीं वाचं देवाः प्राणादिवायवः अजनयन्त उत्पादितवन्तः । ततस्तां दैवीं वाचं विश्वरूपाः नानारूपाः ऋषिमुनिब्राह्मणादयः पशवः संसरणत्वाद्वदन्ति ।“पशुरेव स देवाना”मिति श्रुतेः । सा नोऽस्मान् उपैतु सन्निहिताऽस्तु । किम्भूला मन्द्रा हर्षकरी । इषं रसं
ऊर्जं अनादि च दुहाना सुष्टुता शोभनैर्मन्त्रैस्तुता । तत्र दृष्टान्तः- वत्सान्धेनुरिवेति । “स्थालीपाकस्य जुहोति प्राणेनाम्नमशीय स्वाहाऽपानेन गन्धानशीय स्वाहा चक्षुषा रूपाण्यशीय स्वाहा श्रोत्रेण यशोऽशीय स्वाहेति” इति सूत्रम् ।स्थालीपाकस्येस्यवयवलक्षणा षष्ठी। स्थालीपाकस्य चरोः"प्राणेनान्नमशीय स्वाहे"ति प्रतिमन्त्रं चतुर्भिमन्त्रश्चतत्र आहुतीर्जुहोति । ततः स्विष्टकृदादि प्राशनान्तम् । मन्त्रार्थः—प्राणेन वायुना अन्नं अशीय अह प्राप्नुयां लभेयम् । अपानेन वायुना गन्धान् परिमलान् लभेयम् । एवमग्रेऽपि योज्यम् । “प्राशनान्ते सर्वानरसान्सर्वमन्नमेकतोद्धृत्वाथैनं प्राशयत्तूष्णी<MISSING_FIG href=”../books_images/U-IMG-1696170331Screenshot2023-10-01195322.png"/>हन्तेति वा हन्तकार मनुष्या इति श्रुते"रिति सुत्रम् ।प्राशनान्ते कर्मणि सर्वान् रसान् मधुराम्ललवणकटुतिक्तकषायादीन् सर्वमन्न भक्ष्यं भोज्यंलेह्यंचोष्यं पेयं चैकतःएकस्मिन्सुवर्णादिपात्रे उद्धृत्य अथैन कुमारं तस्मादन्नाद्गृहीत्वा तृष्णीं प्राशयेत् ।“हन्ते"ति वा मन्त्रेण प्राशयेत् । तथा चोकम्–
भक्ष्यं भोज्यं तथा पेयं लेह्यंचोष्यं तथैव च ।
इति पञ्चविधं हृद्यं पथ्यं भूञ्जीत भूपतिः॥
सौवर्णे राजने पात्रे रीतियन्त्रविधारिते ।
भोजयेन्मण्डलेशादीन्यथायोग्यप्रदेशतः॥
अथ भक्ष्यपदार्थमाह ।भक्ष्यशब्देन पक्वान्नम् । तत्करणप्रकारमाह—
गोधूमाः क्षालिताः शुभ्राः शोषिता रविरश्मिभिः ।
घरट्टैश्चूर्णिताः इलक्ष्णाश्चालन्या वितुषीकृताः ॥
गोधूमचूर्णकं श्लक्ष्णं किञ्चिद्धृतविमिश्रितम् ।
लवणेन च संयुक्तं क्षीरनीरेण पिण्डितम्॥
सुमत्यां काष्ठपात्र्यांवा करस्फालैर्विमर्दयेत् ।
मर्द्दितं चिक्कणीभूतं गोलकान्परिकल्पयेत्॥
स्नेहाभ्यक्तैः करतलैःशालिचूर्णैर्विरूक्षितान् ।
प्रसारयेद्गोलकांस्तान्करसञ्चारवर्त्तनैः॥
विस्तृता मण्डकाः श्लक्ष्णाः सितपदृसमप्रभाः ।
प्रसन्नान्निक्षिपेत्तज्ञस्तप्तखर्णमस्तके॥
पक्वांश्चापनयेच्छीघ्रं यावत्कार्ष्यं न जायते ।
चतस्रश्च चतस्रश्च घट्टिता पण्डका बराः॥
इति मण्डकाः।
गोलान्प्रसारितान्पाणावङ्गारेषु विनिक्षिपेत् ।
**अङ्गारपोलिकाः शस्ताः किञ्चित्कृष्णत्वमागताः॥ **
गोलकान् पिष्टकालिप्तान्पेषण्या तान्प्रसारयेत् ।
सुतप्तावनिक्षितानीषत्पक्वान्विवर्तयेत् ।
खर्परेऽपि पचदेवं पोलिकानामयं क्रमः॥
इति पोलिका ।
तैलपूर्णकटाहेतु सुतप्ते सोहलां पचेत् ।
उत्तानपाकसंमिद्धाः कठिनाः सोहला मताः॥
सोहारीति प्रसिद्धा ।
तनुप्रसारितान्गोलान् ताप्यां स्नेहेन पाचितान् ।
दुग्धाक्तान्घृतपक्वांश्चसितया च विमिश्रितान्॥
एलामरिचचूर्णेन युक्तान्कासारसंज्ञितान्॥
इति कासारम् ।
गोलकेन समावेष्ट्य तैलेनौदुम्बरान्पचेत् ।
उत्क्वाथ्य द्विदलान्पिष्ट्वा चणकप्रकृतीञ्छुभान्॥
हिङ्गुसैन्धवसंयुक्ताञ्छर्करापरिमिश्रितान् ।
मरिचैलादिचूर्णेन युक्तान्गोलकवेष्टितान्॥
किञ्चित्प्रसारिते तैले पूरिकाश्च विपचेच्छुभाः।
एवं ताप्यां पचेदन्याः पूरिकाश्चविचक्षणाः॥
हरिमन्थस्य विदलं हिङ्गुजीरकमिश्रितम् ।
लवणेन च संयुक्तमार्द्रकेन समन्वितम् ।
वेष्टयित्वा गोलकेन वेष्टिकाः खर्परे पचेत्॥
इति वेढई ।
विदलं चणकस्यैव पूर्वसम्भारसंस्कृतम् ।
ताप्यां तैलविलिप्तायां धोसकान्विपद्बुधः॥
इति धोसकः ।
माषस्य राजम्मषस्य बट्टाणप्यधोसकान् ।
अनेनैव प्रकारेण विपचेत्पाकतत्त्ववित्॥
वट्टाणकस्य विलमथ वा चणकस्य च ।
चूर्णितं वारिणा सार्धंसर्पिषा परिभावितम्॥
सैन्धवेन च संयुक्तं कण्डिन्या परिघट्टितम् ।
निष्पावचूर्णसंयुक्तं पेषण्यां च प्रसारितम्॥
कटाहे तैलसम्पूर्णे कटकर्णान्प्रपाचयेत् ।
यावद्वुद्वुदनङ्काशा भवन्ति कनकत्विषः॥
मापस्य विलान्क्लिन्नान्निस्तुपान्हस्तलोडनैः ।
ततः सम्पेष्य पेषण्यां सम्भारेण विमिश्रितान्॥
स्थाल्यां विमृद्य बहुशः स्थापयेत्तदहस्ततः ।
अम्लीभूतं माषपिष्टं विटिकासु विनिक्षिपेत्॥
वस्त्रगर्भाभिरन्याभिः विधाय परिपाचयेत् ।
अवतार्याथ मरिचं चूर्णितं विकिरेदनु॥
घृताक्तं हिङ्गुसर्पिर्भ्याजीरकेण च धूपयेत् ।
सुशीता धवलाः श्लक्ष्णाएता इन्दुरिका वराः॥
तस्यैव माषपिष्टस्य गोलकान्विस्तृतान्धनान् ।
पञ्चभिः सप्तभिर्वापि च्छिद्रैश्च परिशोभितान्॥
तावत्तैलं पचेद्यावल्लौहित्यं तेषु जायते ।
घारिकासंज्ञया ख्याता भक्ष्येषु सुमनोहराः॥
इति घारिका ।
निच्छिद्रा घरिकाःपक्वामथिते शर्करायुते ।
एलामरिचसंयुक्ते निक्षिप्ता वटकाभिधाः॥
त एव वटकाः क्षिप्ताः काञ्जिके काञ्चिकाभिधाः ।
यत्र यत्र द्रवद्रव्ये तन्नाम्ना वटकास्तु ते॥
आरनालेन सान्द्रेण दध्ना सुमथितेन च ।
सैन्धवार्द्रकधान्याकजीरकं च विमिश्रयेत्॥
मरिचानि द्विधा कृत्वा क्षिपेत्तत्र तु पाकवित् ।
दर्व्याविधट्टयन्सर्वं पचेद्यावद्घटी भवेत् ।
उत्तार्य वटकान्क्षिप्त्वा विकिरेन्मारिचं रजः॥
हिङ्गुना धूपयेत्सम्यग्वटकास्तेमनाभिधाः ।
दुग्धमुत्क्वाथ्य तन्मध्ये तक्रमम्लं विनिक्षिपेत् ।
हित्वा तोयं घनीभूतं वस्त्रबद्धं पृथक्कृतम्॥
शालितण्डुलपिष्टेन मिश्रितं परिपेषितम् ।
नानाकारैः सुघटितं सर्पिषा परिपाचितम्॥
पक्वशर्करया सिक्तमेलाचूर्णेन वासितम् ।
क्षीरप्रकारनाभेदं भक्ष्यं मृष्टं मनोहरम्॥
इति भक्ष्याणि । अथ भोज्यान्याह—
रक्तशालिर्महाशालिर्गन्धशालिः कलिङ्गकः ।
सुगन्धो गन्धशाली स्यात्कलिङ्गस्थः कलिङ्गकः॥
शुकशुन्यो मुण्डशालिः स्थूलशालिस्तदाकृतिः ।
सौक्ष्म्यात्तुसूक्ष्मशालिः स्याद्द्विमासः षाष्ठिकः स्मृतः॥
एताञ्छालीन्पृथक् सर्वान्मुसलौर्वितुषीकृितान् ।
निक्षिप्य तण्डुलान्पट्टे विसृजेत्कणकांस्ततः॥
पाषाणमृत्तिकाशालीतृणपर्णतुषं तथा ।
यत्नाद्विकृष्यापनयेद्दासीभिस्तण्डुलस्थितान्॥
अखण्डाञ्छोधितानेव क्षालितान्बहुशस्तथा ।
तण्डुलान् कुन्दसंकाशांस्तोयान्तर्धारितांश्चिरम्॥
स्थाल्यां ताम्रकृतायां वा मृज्जातायामथापि वा ।
तण्डुलात्रिगुणं तोयं निक्षिपेच्च पिधापयेत्॥
वाससा शशिशुभ्रेण धौतेन च धनेन च ।
चुल्यां निधाय निर्धूमे वह्नौतत्काथयेज्जलम्॥
सुतप्तेबुद्बुदोपेते रवबाष्पसमन्विते ।
तण्डुलानावपेत्स्थाल्यां दर्व्याच परिघट्टयेत्॥
सिक्थंविमृद्य वीक्षेत वारं वारं विचक्षणः ।
मृदुभूते च तत्सिक्थे किञ्चिद्वा कणगर्भिते॥
तक्रं दुग्धं घृतं वापि निक्षिप्योत्तारयेत्ततः ।
स्थाल्यास्ये पीठकं दत्वा मण्डं संस्रावयेद्गुणैः॥
ईषदुद्धरितं मण्डमूष्मण्या परिशोषयेत् ।
एवं भक्तं सुपक्वंयद्राजयोग्यं तदुत्तमम्॥
इत्योदनम् ।
राजमुद्गास्तथा पीता निष्पावाश्चणका अपि ।
कृष्णाढक्यस्तथा माषा मसूरा राजमाषकाः॥
सूपकर्मणि सप्तैते नियोज्याः सुपकारकैः ।
दलिताऽदलिताश्चैते पचनीया यथारुचि॥
चणका राजमाषाश्च मसूरा माषमुद्गकाः ।
घरदृैर्दलिताः कार्याः पाकार्थंहि विचक्षणैः॥
किञ्चिद्भ्रष्टास्तथाढक्यो यन्त्रावर्त्तेद्विधाकृताः ।
विदलाश्चकृताः सम्यक्शूर्पकैर्वितुषीकृताः॥
स्थाल्यांशीतोदकं क्षिप्त्वा विदलैःसममानतः ।
आतपे विदलान्पश्चाच्चुल्यामारोपयेत्ततः॥
मृद्वग्निपच्यमाने हि हिङ्गुतोयं विनिक्षिपेत् ।
वर्णार्थं रजनीचूर्णमीषत्तत्र नियोजयेत्॥
मुहुर्मुहुः क्षिपेत्तोयं यावत्पाकस्य चूर्णता ।
सुश्लक्ष्णं सैन्धवं कृत्वा विंशत्यंशेन निक्षिपेत्॥
वर्णतः स्वादुता गन्धो मार्द्दवाल्लाघवादपि ।
एवं विदलपाकस्य सम्यक्सिद्धिरुदाहृता॥
निष्पावा मेचकाढक्यो हिङ्गुना परिवर्जिताः ।
अभिन्नाः पूर्ववत्पाक्या हरिद्राचूर्णकं विना॥
मसूग्माषपाकेषु हिङ्गुतोयं विनिक्षिपेत् ।
इतरः पूर्वत्कार्यः पाकः पाकविचक्षणैः॥
प्रक्षालितान्वरान्मुद्रान्सभताङ्ग (?) विनिक्षिपेत् ।
चुल्ल्यांमृद्ग्निना पाकः कर्तव्यः सूपकारकैः॥
पच्यमानेषु मुद्गेषु हिङ्गुवारि विनिक्षिपेत् ।
आर्द्रकस्य च खण्डानि सूक्ष्माणि च विनिक्षिपेत्॥
वार्ताकं पाटितं तैलं मृष्टं तत्र विनिक्षिपेत् ।
तैलभृष्टा मृदूभूता क्षिपेद्वा विसचक्रिकाः॥
बीजकानि प्रियालस्य क्षिप्त्वा दर्व्याविवर्त्तयेत् ।
पुनः पुनः क्षिपेत्तोयं स्तोकं स्तोकं विचक्षणः॥
इति भोज्यानि ।
अथ पेयवस्तून्याह—
गव्यं वा माहिषं वापि क्षीरं नीरविवर्जितम् ।
पचेत्स्थाल्यांमूदौ वह्नौदर्वीघट्टनसंयुतम्॥
अर्धावशेषं कुर्वीत त्रिभागेनावशेषितम् ।
षड्भागशेषितं वापि कुर्यादष्टावशेषकम्॥
अर्द्धावशिष्टं येन स्यात्रिभागं लेह्यकं भवेत् ।
षड्भागं पिण्डतामेति शर्करा स्यादथाष्टमे॥
अर्धावशेषिते दुग्धे तक्रमीषद्विनिक्षिपेत् ।
नवस्थाल्यां न्यसेत्तन्तु निवाते स्थापयेच्च तम्॥
शर्करामिश्रितं वापि फलैर्वापि विमिश्रयेत् ।
यामषड्कौषितं क्षीरमम्लतां घनतां भजेत्॥
दधीति नाम प्राप्नोति पथ्यं मृष्टं मनोहरम्॥
इति दधि ।
हीनकालेतथा पथ्यं चिरकालेऽम्लता बहु॥
मन्थानेन मथित्वा तन्नवनीतमथोद्धरेत् ।
निर्मलं मथितं प्रोक्तं उदस्वित्या जलार्धकम्॥
पादान्तक्रमुकोद्दिष्टं धूपितं हिङ्गुजीरकैः ।
आर्द्रकेन समायुक्तमेलासैन्धवचूर्णितम्॥
मथितं शर्करायुक्तमेलाचूर्णविमिश्रितम् ।
कर्पूरधूपितं नाम्नः सज्जिकेत्यभिधीयते॥
मग्जि इति कर्णाटकाः ।
निष्पीड्य दधि वस्त्रेण स्रावपेत्तद्द्रुनं जलम् ।
शर्करैलासमायुक्ता सूदैः शिखरिणी मता॥
शिखरिणी दधिजा ।
स्रावितं यद्धृतं तोयं जीरकार्द्रकसैन्धवैः ।
संयुक्तं हिङ्गुधूपेन धूपितं मस्तु कीर्त्तितम्॥
नवनीतं नवं धौतं नीरलेशविवर्जितम् ।
तापयेदग्निना सम्यङ्मृदुना घृतभाण्डके॥
पाके सम्पूर्णतां याते क्षिपेद्गोधूमवीजकम् ।
क्षिपेत्ताम्बूलपत्रं च पश्चादुत्तारयेद्धृतम्॥
तण्डुलक्षालनं तोयं चिञ्चाम्लेन विमिश्रितम् ।
ईषत्तक्रेण संयुक्तं सितया सह योजितम्॥
एलाचूर्णसमायुक्तमार्द्रकस्य रसेन च ।
धूपितं हिङ्गुना सम्यग्व्यञ्जनं परिकीर्तितम्॥
सौवीरं निर्मलं साम्लं लवणेन च संयुतम् ।
हिङ्गुना जीरकेणापि धूपितं धूपकाञ्चिकम्॥
शङ्कुद्वयं समास्थाप्य बध्नीयादुज्वलाम्बरम् ।
प्रसार्य षष्ठिभिः किञ्चित्क्षीरमम्लेन भेदितः॥
सितया च सपायुक्तमेलाचूर्णविमिश्रितम् ।
क्षिपेत्प्रसारिते वस्त्रे स्त्रावयेत्प्रेषयेत्समम्॥
पुनः पुनः क्षिपेत्तत्र यावन्निर्मलतां व्रजेत् ।
पक्कचिञ्चाफलं भृष्टं वर्णार्थं तत्र निक्षिपेत्॥
यस्य यस्य फलस्यापि रसेन परिमिश्रितम् ।
तत्तन्नाम समाख्यातं पानकं पेयमुत्तमम्॥
इति सर्वं पेयसंज्ञकम् । अथ लेह्यमुच्यते—
श्यामाकं कङ्गुनीवारं गन्धशालिषु तण्डुलैः ।
कुसरास्थितसेवाकैर्दिवसैर्लघुविस्तृतैः॥
चिरप्रसूतमहिषीपयसा पायसं पचेत् ।
पायसं लेहने योज्यंस्वादुगन्धमनोहरम्॥
पक्वान्नंपायसं मध्ये शर्कराघृतमिश्रितम्॥
इति लेह्यम् । अथ चोष्यमुध्यते । चोष्यशब्देन शाकादिकं ग्राह्यम् । यथा—
फलशाकं पत्रशाकं कन्दशाकं च मूलकम् ।
पुष्पशाकं शिम्बिशाकं पक्वापक्वविभेदतः॥
लवणं मरिचं शुण्ठी जीरकं च विचूर्णितम् ।
कल्पयेद्विविधैः शाकैःसर्वसम्भारकोविदः॥
चटकान्पर्यटान्हृद्यानङ्गारैः परिभर्जयेत् ।
आम्राम्रातकजम्बूश्चबीजपुराग्निमन्थकैः॥
भल्लातागस्त्यकार्पासद्राक्षाभृङ्गकसल्लकैः ।
पुननर्वाऽमरी तीक्ष्णी अतसी सुरसाद्वयम्॥
मरुकं तालपर्णी च भिण्डुकी मुण्डिका तथा ।
ब्राह्मी चैवाम्रपत्रा च कौकिलाक्षी कुसुम्भकम्॥
अञ्जनं पद्मकोशश्चशेढकं च तथापरम् ।
सङ्गृह्य पल्लवानेषां मल्लिकाम्लेन मिश्रयेत्॥
जम्बीराम्लेन दध्ना वा लवणेन च संयुतान् ।
श्रीफलं केतकं चिञ्चामेषशृङ्गीसुगन्धिजम्॥
कुटजं मरिचं पन्थ्याविषमुष्टिकशिम्बिजम् ।
एलारामठनीवारमेथिकापर्पटं तथा॥
अगस्त्यनन्दनं राजा मातुलिङ्गिकपाटलिः ।
कटं मटं कर्कटंच करीरं टेन्दुकं तथा॥
वेत्रकारीफलं चैव लवणाम्भसि निक्षिपेत् ।
चूतमाम्रातकं धात्री कुगीरी कर्कटा तथा॥
कूष्माण्डं त्रपुसं द्राक्षा कर्कटा बृहतीद्वयम् ।
कोशातकी वीजपूर निष्पावं करमर्द्दकम्॥
जम्बीरनिम्बवार्ताकं कर्मरं लवणाम्भमि ।
अथ वा राजिकाचूर्णे सतैलेलवणान्विते॥
प्रक्षाल्य वृन्तसहितं फलं चूतादिकं न्यसेत् ।
कारवेल्लंसपनसं कदलीफलमेव च॥
सतैले राजिकाचूर्णे निक्षिपेल्लवणोषिते ।
वंशाङ्करं लघु चक्रीं शतावर्यस्तथैव च॥
पातालं टेटुकानां च प्ररोहान्क्षालितान्मृदून् ।
सलिलेलवणोपेते तैले चापि सराजिके॥
लवणेन समायुक्ते प्रक्षिपेदङ्कुरानिमान् ।
मार्गिणीमार्द्रकंपेष्टु करोरं वनमार्गिणीम्॥
कर्पूरमार्गिणीमूलं तथैवालहरिकाम् ।
सूरणं मधु शिग्रुच तथा वण्टलकन्दकम्॥
एतानि पूर्ववत्कृत्वा तैले वाऽपि विनिक्षिपेत्॥
इति शाकादिकम् । एकतोद्घृत्येत्यत्र छान्दसः सन्धिः । मार्कण्डेयः—
देवतापुरतस्तस्य धात्र्युत्सङ्गगतस्य च ।
अलङ्कृतस्य दातव्यं पत्रं पात्रे सकाञ्चनम्॥
**मध्वान्यदधिसंयुक्त प्राशयेत्यायसं तु वा॥ **इति ।
गुणफलमाह –“भारद्वाज्या माँसेन वाक्प्रसारिकामस्य कपिञ्जलमा<MISSING_FIG href=”../books_images/U-IMG-1698159385Screenshot(1”/>.png)सेनान्नाद्यकामस्य मत्स्यैर्जवनकामस्य कृकषाया आयुष्कामस्याट्या ब्रह्मवर्चसकामस्य सर्वैः सर्वकामस्ये" ति सूत्रम ।भारद्वाज्या भरद्वाजपक्षिजातीयस्त्रियः। चिठीकेतिप्रसिद्धा ।तस्या मांसेन वाक्प्रसार अयं कुमारो वाग्मी स्यादित्येवंकामो यस्मिन् कुमारे तस्य प्राशनं कुर्यात् । कपिञ्जलमांसेन कपिञ्जलो गौरतित्तिरिः तस्य मांसेन अनाद्यकामस्य ।
यद्ययं कुमार अन्नादःस्यादिति कामयेत तदा कपिञ्जलमांसेन प्राशनं कुर्यात् । एवमग्रेऽपि योज्यम् ।मत्स्यैर्जवनकामस्य जवनः शीघ्रगामी स्यादिति कामयेत तदा मत्स्यानां मांसेन प्राशनं कुर्यात् । कृकषायाः गोधायाः दीर्घायुःकामस्य प्राशनम् । आट्याःआटिर्जलचरपक्षिः शरालिजातीयपक्षिस्त्रियः, तन्मांसेन ब्रह्मवर्चसकामस्य प्राशनं कुर्यात् । सर्वैःभारद्वाज्यादिर्वैर्मासैः क्रमेण सर्वकामस्य प्राशनं कुर्यात ।मिश्रैः प्राशनमिति भर्तृयज्ञः । “अन्नपर्याय वाततो ब्राह्मणभोजनमन्नपर्याय वा ततो ब्राह्मणभोजनम्" इति सूत्रम् ।अन्नपरिपाट्या वा अन्नवत्सर्वमासान्येकीकृत्य प्राशयेदित्यर्थः । अन्नपरिपाट्या वा क्रमेण प्राशयेन्नैकत उद्धृत्येति भर्तृयज्ञ ।अन्नपर्यायेत्यविभक्तिक छान्दसं पदम् ।मांसानेषेषस्तु काशिकायाम् । मनुः—
नाकृत्वा प्राणिनां हिंसां मांसमुत्पाद्यते क्वचित् ।
न च प्राणिवधः स्वर्ग्यस्तस्मान्मांसं विवर्जयेत् ॥
समुत्पत्तिं च मांसस्य वधवन्धाय देहिनाम् ।
प्रसमीक्ष्य निवर्तेत सर्वमांसस्य वर्जनात् ॥
महाभारते भीष्मोऽपि—
न हि मांसं तृणात्काष्ठादुपलाद्वापि जायते ।
हत्वा जन्तून्भवेन्मांसं तस्मात्तत्परिवर्जयेत् ॥
एकस्य क्षणिका तृप्तिरन्यः प्राणैर्वियुज्यते ।
अहो मांसस्य दौरात्म्यं प्रत्यक्षमिह दृश्यते ॥
यो हिंसकानि भूतानि हिनस्त्यात्मसुखेच्छया ।
कृष्णद्वैपायनःप्राह स्थावरत्वं स गच्छति ॥
तथा च काशिकायां पराशरः—
गोमेधो नरमेघश्व अक्षता गोपशुस्तथा ।
देवराव सुतोत्पतिः कलौ पञ्च विवर्जयेत् ॥
यस्तु देशविषयो निषेध इति तदपि न । मध्यदेशादौ जिहालतयाऽविहितमांसोपलब्द्धेः। न च देशविषयः शक्यते वक्तुम् ।देशभेदविष–
यस्य निरासात् । तथा च वृद्धप्रचेताः—
न युगानां न देशानां न विप्राणां द्विजोत्तमाः ।
धर्मशास्त्रेषु वै भेदो दृश्यते मांसभक्षणे ॥
भक्ष्यं छागादिविहितमांसम् \। देवलः—
पञ्च पञ्चनखा भक्ष्या धर्मतः परिकीर्त्तिताः ।
गोधा कूर्मः शशोऽविश्चशल्लकश्चेति ते स्मृताः ॥
धर्मत इति प्रेक्षितादौ । तथा च रामायणे—
शशकः शल्लको गोधा सेधा कुर्मश्च पञ्चमः ।
पञ्च पञ्चनखा भक्ष्या न भक्ष्या वानरा नराः ॥
विधिना मांसभक्षणे न हि दोषः । तथा च यमः—
हविर्यत्प्रोक्षितं मन्त्रैः प्रोक्षिताभ्युक्षितं भुवि ।
वेदोक्तेन प्रकारेण पितॄणां प्रक्रियासु च ॥
पितृदैवतयज्ञेषु मोक्षितं हविरुच्यते ।
विधिना वेददृष्टेन तदुक्तान्येन दुष्यति ॥
सर्वेषामेव मांसानां महान्दोषस्तु भक्षणे ।
निवर्तने महापुण्यमिति प्राहप्रजापतिः ॥
इतिमहाभारतवाक्यम् । एतदुभयमपि जिह्वालतया भक्षणविषयम् ।
तथा च स्कन्दपुराणे—
यत्र यत्र निषेधो हि श्रूयते मांसभक्षणे ।
जिह्वालान्प्रति स ज्ञेयो न तुक्तविधिना श्रुतम् ॥
तथा च काशिकायाम्—
प्रयान्ति नरकं घोरं मांसमश्नन्ति ये नराः ।
जिह्वालान्प्रति दोषोऽयं न दोषो विधिनाश्नताम् ॥
बृहस्पतिरपि—
रोगार्त्तोऽभ्यर्थितो वापि मांसं नाश्नात्यलोलुपः ।
फलं प्राप्नोत्ययत्नेन सोऽश्वमेधफलस्य च ॥
अथ परिवेशनप्रकारमाह। धर्मप्रवृत्तौ—
अन्नं मध्ये प्रतिष्ठाप्य दक्षिणे घृतपायसम् ।
शाकादि पुरतः स्थाप्य भक्ष्यं भोज्यं च वामतः ॥
मध्वाज्यकनकोपेतं प्राशयेत्पायसं तु तम् ।
कृतप्राशमथोत्सङ्गाद्धात्री बालं समुत्सृजेत् ॥
कनकोपेतं कनकेनोपात्तमित्यर्थः । अथ स्त्रीणामन्नप्राशनम् । तत्र मनुः—
अमन्त्रिका तु कार्येयं स्त्रीणामावृदशेषतः ॥ इति ।
शौनकोऽपि—
इदं कर्म कुमार्याश्च सर्व कार्यममन्त्रकम् ॥इति ।
आश्वलायनोऽपि—
जातकृत्यादि चूडान्तं स्त्रीणां कार्यममन्त्रकम् ।
हुतकृत्यं तु पुंवत्स्यास्त्रीणां चूडाकृतावपि ॥
हुतकृत्यं होमः स च पुंवत्स्यात्पुरुषसंस्कार इवेत्यर्थः । शूद्राणामपि भवतीत्युक्तं ग्रन्थादौ । ततो ब्राह्मणभोजनम् । ब्राह्मणेभ्यो भोजनं देयमित्यर्थः । अन्नपर्याय वा ततो ब्राह्मणभोजनमिति पुनरुक्तिःकाण्डसमाप्तिसूचनार्था।
इति श्रीप्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्रविवरणे संस्कारगणपतौ प्रथमकाण्डे एकोनविंशतिकण्डिका ।
अथास्य स्पष्टप्रयोगः ।भार्याशिशुसहितः कृतमङ्गलस्नानःआचम्य प्राणानायम्य देशकालौ स्मृत्वा " ममास्य कुमारस्य मातृगर्भमल प्राशनशुध्यर्थमन्नाद्यब्रह्मवर्चसेन्द्रियायुर्लक्षणफलसिद्धिवीजगर्भसमुद्भवैनोनिबर्हणद्वारा परमेश्वरमीत्यर्थं अन्नप्राशनाख्यं कर्माहं करिष्ये।तदङ्गतमा विहितं स्वस्तिपुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धं च करिष्ये " । पूर्ववत्सम्पाद्य ।स्थण्डिले पञ्चभूसंस्कारपूर्वकमग्निस्थापनं विधाय, तत्र " पूर्वेण ब्रह्मणो गमनम् ।अपरेण पात्रासादनम् । द्वे पवित्रे ।ताम्रमयी आज्यस्याली ।ताम्रपयी चरुस्थाली ।
पालाश्यःसमिधः ।प्राञ्चावाघारौ । समिद्धतमे आज्यभागौ । पूर्णपात्रं दक्षिणा । इन्तेति प्राशनम् । एतान्वैकल्पिकपदार्थानहं करिष्ये" । अथ देवताभिध्यानम् । “अत्र प्रजापतिं, इन्द्रं, अग्निं,सोमं, दैवीं वाचं, वाजं, एता आज्येन । प्राणं, अपानं, चक्षुः, श्रोत्रं, एताँश्चरुणा ।शेषेणाग्निं स्विष्टकृतं, अग्निं, वायुं, सूर्यं, अग्नीवरुणौ, अग्नीवरुणौ, अग्निं, वरुणं, सवितारं, विष्णुं, विश्वान्देवान्, मरुतः, स्वर्क्कान्, वरुणं, प्रजापति, एताः पुनराज्येन । एता देवता अङ्गप्रधानार्था अस्मिन्नन्नप्राशनाख्ये कर्मण्यहं यक्ष्ये" । ततो ब्रह्मोपवेशनादि —पूर्णपात्रासादनान्ते, मधुरादिसर्वान्नसान् सर्वमन्नं मधु घृतं सुवर्णं च शस्त्राणि शास्त्राणि लेखनीं वस्त्रं रजतं स्वर्णं भाण्डानि चोपकल्पितानि ।ततः पवित्रकरणाद्याज्यभागान्ते आज्येनान्वारब्धः। “दैवीं व्वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति । सा नो मन्द्रेषमूर्जन्दुहाना धेनुर्वागस्मानुपमुष्टुतैतु स्वाहा इदं देव्यै वाचे न मम " ।पुनः “देवींवाच०सुष्टुतु । व्वाजो नो अद्य प्रसुवाति दानं व्याजो देवाँ ऋतुमिःकल्पयाति । व्वाजो हि मासर्व्ववीरजजान विश्वा आशा व्वाजपविर्जयेयं स्वाहा । इदं देव्यै वाचे वाजाय च नमम " ।अथ चरुमभिघार्य स्रुवेणैव “ॐ प्राणेनान्नमशीय स्वाहा ।इदं प्राणाय न मम ।ॐअपानेन गन्धानशीय स्वाहा । इदमपानाय न मम् । ॐचक्षुषा रूपाण्यशीय स्वाहा । इदं चक्षुषेन मम । ॐ श्रोत्रेण यशोऽशीय स्वाहा । इदं श्रोत्राय न मम ।” चरोरुत्तरार्धादग्नेरुत्तरार्द्धे “ॐ अग्नये स्विष्टकृते स्वाहा । इदमग्नये स्विष्टकृते न मम” । ततोऽन्वारब्धो भुरादिप्रजापत्यन्ता नवाहुतयः । संस्रवप्राशनादिविमोकान्तं कृत्वा स्वर्णादिपात्रे सर्वान् रसान् सर्वमन्नं मध्वाज्यं चैकीकृत्य हस्ते गृहीतसुवर्णेन देवताग्रेमातुरुत्सङ्गस्थं शिशुं “इन्त” इति मन्त्रेण प्राशयेत् । कुमार्यास्तु तूष्णीमेव । तत उपकल्पितवस्तुसमीपे शिशुभुपवेश्य तन्मतेयदेवादौ गृह्णाति तेन तस्य जीविकापरीक्षा कर्तव्या ।
इतिश्रीप्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्र विवरणे
संस्कारगणपतौ अन्नप्राशनप्रयोगः ॥
अथाब्दपूर्त्तिकृत्यम् । तत्र नृसिंहः—
सौरेणाव्दान्तजन्मर्क्षे शिशुं संस्नाप्य शास्त्रतः ।
आबध्य हेमसूत्रन्तु राश्यादावनुकूलके ॥
नवक्षौमाम्बरादीनि यथार्हंधारयेत्तदा ।
जन्मदिनात्सौरेण मानेन योऽब्दस्तदन्ते यदा जन्मक्षं भवति तदा वक्ष्यमाणविधिं कुर्यादित्यर्थः । अब्दान्त इति सामान्योपादानात्प्रत्यब्दान्ते कार्यम् । तथा च गर्गः—
यस्मिन्दिने सवितरि यन्नक्षत्रदिनं भवेत् ।
प्रत्यब्दान्ते च नक्षत्रे विधि वक्ष्ये नृणां परम् ॥
येनायुर्वर्द्धते नित्यं बलं तेजः सुखं सदा ॥ इति ।
जन्मद्वेषे निर्णयमाह वृद्धगार्ग्यः—
एकमासे द्विजन्मर्क्षेप्रथमे जन्म चाचरेत् ।
तस्मिनक्षत्रखण्डे तु अन्त्यखण्डे समाचरेत् ॥
उदयव्यापि जन्म तस्माद्गुह्यन्तु जन्मनः ।
सङ्गवव्यापिखण्ड तत्र जन्म वरं शुभम् ॥
जन्मतिथिकृत्यविधिश्च ब्रह्मपुराणे—
सर्वेश्च जन्मदिवसे स्नानं सङ्गलवारिभिः ।
गुरुदेवाग्निविप्राश्च पूजनीयाः प्रयत्नतः ॥
जन्मक्षद्यतिकमे तिथ्यायाह नृसिंहः—
रिक्तापर्वाष्टमीचैव कृष्णे चान्त्यत्रिकं विना ।
शुभानां वारवर्गाश्च राशयश्च धनुर्विना ॥
श्रेष्ठा नेष्टास्तथा शेषा मकरो मध्यमो भवेत् ।
हस्तादिभूतनक्षत्राण्यजद्विव्युत्तराणि च ॥
वसुपौष्णादितीपुष्यवाजिभानि शुभानि तु ।
भूतं मूलम् ।अजद्विः रोहिणीमृगशीर्ष शेषं प्रसिद्धम् ।
शकुन्यादीनि विष्टिं च वर्ज्या योगाःशुभेतराः ॥
लग्ने सर्वे शुभाः श्रेष्ठास्तथा केन्द्रत्रिकोणयोः ।
चन्द्रः शुभप्रदो ज्ञेयो द्वादशाष्टमभाद्विना ॥
पापास्त्रिलाभषष्ठस्थाः शुभा वस्त्रस्य धारणे ।
उच्चमित्रस्ववर्गेषु शुभःकेन्द्रत्रिकोणगैः ॥
वस्त्रवाहनशस्त्रादि भूषणानि सुसम्पदः ।
सद्गुणस्थे निशानाथे कुर्यात्तच्छोभेने दिने ॥
नद्यादिगमने चैव तथा देवादिदर्शने ।
शिशोर्लीला दिवान्यत्तु वस्त्रधारणवद्भवेत् ॥
अथेतिकर्तव्यतामाह । तत्र गर्गः—
पूर्वं जन्मदिनाद्रात्रौ कृत्वा कौतुकबन्धनम् ।
कृत्वा शाम्त्युदकं चैव प्राशयेच्चाभिषेचयेत् ॥
ग्रहशान्तिं समाप्वैव नक्षत्राधिपपूजनम् ।
आयुष्यहोमं च कृत्वा दिगीशावर्चयेद्बुधः ॥
देवांश्च वैदिकान्विप्रान्गुरुन्बन्धुसुहृज्जनान् ।
प्रणम्य पूजयेद्विद्वान्गन्धमाल्यानुलेपनैः ॥
नवाम्बरधरो भूत्वा युक्तस्रग्वस्त्रभूषणः ।
गुरुप्रणामं कृत्वा च राजा तु महिषीसखः ॥
राजेत्युपलक्षणम् तेनान्येनाषि कर्तव्यम् ।
अन्यानि पुण्यकर्माणि प्रकुर्वीत यथाविधि ।
पापं कर्म म कुर्वीत यस्माच्छतगुणं भवेत् ॥
तथा च ब्रह्मपुराणे—
प्रतिसंवत्सह्यन्त्यर्क्षे द्रक्ष्येनृृणांविधिं परम् ।
पूर्वाह्न चैव जन्म स्नात्वा जद्यां सुरोत्तम ! ॥
मध्वाज्यदधिसंयुक्ता दूर्वामृत्युञ्जयेन तु ।
जुहुयाच्च सहस्रं का अष्टाविंशतिमाहुतीः ॥
ततोऽपराह्नेसम्प्राप्ते कृत्वा कौतुकमङ्गलम् ।
ग्रहपूजां प्रकुर्वीत भक्षेत्राधिपपूजनम् ॥
आयुष्यहोमं कृत्वा च श्रोत्रियानथ भोजयेत् ॥
दत्वा गोभूहिरण्यादि तथा स्वर्णादिनिर्मितम् ॥
बध्वा वा कटिमूत्रं च वस्त्रं च परिधापयेत् ॥
ग्रहपूजा नवग्रहमखः । पूजनं होमस्याप्युपलक्षणम् । तथा शौनकः—
अथ स्वजन्मनक्षत्रे स्नातः शुक्लाम्बरो नृपः ।
कृतकौतुकबन्धश्च सर्वाभरणभूषितः ॥
नक्षत्रदेवतापूजां कुर्याद्गुरुसमन्वितः ।
आचार्येणैव होतव्यो होमः सर्वत्र भूपतेः ॥
स्थण्डिलाद्याज्यभागान्तं कृत्वा सर्वं यथाक्रमम् ।
दूर्वा घृताक्ता जुहुयादष्टोत्तरशताहुतीः ॥
यद्देवताकं नक्षत्रं मन्त्रस्तद्दैवतः स्मृतः ।
ततः स्विष्टकृतं सर्वं होमशेष समापयेत् ॥
गोभूहिरण्यवस्त्राद्यैर्ब्राह्मणान्भोजयेन्नृपः ।
तस्मिन्नहनि सर्वत्र देवतायतनानि च ॥
यद्दुःखितान्सर्ववर्णान्मोचयेन्नृपतिस्ततः ।
द्विजान्सर्वानथाभ्यर्च्य तस्मिन्नहनि कारयेत् ॥
पूजयित्वा विधानेन पूजितव्यान्स्वबान्धवान् ।
न हिंस्यात्सर्वभूतानि तदहस्तु विशेषतः ॥
सर्वं समाचरेद्राजा सुखी भवति सर्वदा ॥ इति ।
वीरमित्रोदये—
गुडदुग्धतिलान्दघाज्जन्मग्रन्थेश्व बन्धनम् ।
जन्मप्रन्थिबन्धनं नाम वक्ष्यमाणगुग्गुलादिपञ्चद्रव्यार्थपोटलिकाया हस्ते बन्धनम् ।तान्येव द्रव्याण्याह—
गुग्गुलंनिम्बसिद्धार्थदवगोरोचनायुतम् ।
सम्पूज्य भानुविघ्नेशौ महर्षिं प्रार्थयेदिदम् ॥
प्रार्थनामन्त्राँस्तु प्रयोगे वक्ष्यामि ।
मार्कण्डेयं नरो भक्त्या पूजयेत्मयतस्तथा ।
ततो दीर्घायुषं व्यासं रामं द्रौणि कृपं बलिम् ॥
प्रह्रादं च हनुमन्तं बिभीषणमथार्चयेत् ।
रामोऽत्र परशुरामः द्रौणिरश्वत्थामा ।
स्वनक्षत्रंजन्मतिथिं प्राप्य सम्पूजयेन्नरः ॥
षष्ठीं च दधिभक्तेन वर्षे वर्षे पुनः पुनः ।
पूजा च प्रतिमास्वक्षतपुञ्जेषु शालिग्रामे जलपूर्णकलशे वा कार्या । तथा पद्मपुराणम्—
शालग्रामशिलारूपी यत्र तिष्ठति केशवः ।
तत्र देवासुरा यक्षा भुवनानि चतुर्दश ॥इति ।
जन्मदिने शनिभौमवारपाते तु विशेष उक्तो दीपिकायाम्—
कृतान्तकुजयोर्वारे यस्य जन्मदिनं भवेत् ।
अनुक्षयोगसंप्राप्तौ विघ्नस्तस्य पदे पदे ॥
तस्य सर्वौषधीस्नानं ग्रहविप्रसुरार्चनम् ।
सौरारयोर्दिने युक्ता देयाऽनृक्षे च काञ्चनम् ॥
अथ जन्मतियौ निषिद्धानि । स्कन्दपुराणे—
खण्डनं नखकेशानां मैथुनाध्वानमेव च ।
आमिषं कलहंहिंसां वर्षवृद्धौ विवर्जयेत् ॥
वृद्धमनुः—
मृते जन्माने संक्रान्तौश्राद्धे जन्मदिने तथा ।
अस्पृश्यस्पर्शने चैव न स्नायादुष्णवारिणा ॥
अथास्य स्पष्टप्रयोगः ।वर्द्धापनं प्रतिवर्षं जन्मतिथौ कार्यम् । तत्र पूर्वाह्नव्यापिनी ग्राह्या ।तिलोद्वर्त्तनं कृत्वा तिलोदकेन स्नात्वा नव्यवस्त्रं परिधाय कृतनित्यक्रियो दक्षिणपाणौ गुग्गुलादिपञ्चद्रव्यगर्भांपोटलिकामाबध्य गृहान्तर उपविश्य आचम्य देशकालौ सङ्कीर्त्य"ममामुकगोत्रस्यामुकशर्मणः आयुष्याभिवृघ्यर्थं वर्षवृद्धिकर्म करिष्ये । निर्विघ्नार्थ
गणपतिपूजनञ्च करिष्ये" “गणानान्त्वे” तिमन्त्रेण षोडशोपचारैर्गणपतिं पूजयित्वा प्रणम्य " ॐ गणपते ! क्षमस्वे" ति विसर्जयेत् । प्रक्षालितपीठे तण्डुलपुञ्जेषु गौर्यादिमातरः पूज्याः ।
गौरी१ पद्मा२ शची३ मेधा ४ सावित्री५ विजया६ जया ७ ।
देवसेना ८स्वाधा ९स्वाहा १० मातरो ११ लोकमातरः १२ ॥
घृतिः१३ पुष्टि १४ स्तथा तुष्टि १५ रात्मनः कुलदेवता ।
गणेशेनाधिका होता वृद्धौ पूज्यास्तु षोडश ॥
षोडशोपचारैः पूजयेत् । ततो घृतेन वसोर्द्धारां कुर्यात् । पूजयेत् । ततः “ॐगणपतये नमः १ । ॐ दुर्गायै नमः २ ।ॐ कुलदेवतायै नमः ३ । ॐ गुरुभ्यो नमः ४ । ॐ देवताभ्यो नमः ५ । ॐ
अग्नये नमः ६ ।ॐ विप्रेभ्यो नमः ७ । ॐ मातृभ्यो नमः ८ । ॐ पितृभ्यो नमः ९ ।ॐ सूर्याय नमः १० । ॐ सोमाय नमः ११ । ॐ भौमाय नमः १२ ।ॐ बुधायनमः १३ । ॐ बृहस्पते नमः १४ ।ॐ शुक्राय नमः १५ । ॐ शनैश्चराय नमः १६ । ॐ राहवे नमः १७ । ॐ केतुभ्यो नमः १८ । ॐ पञ्चभूतेभ्यो नमः १९ । ॐ कालाय नमः २० । ॐ युगाय नमः २१ ॐ संवत्सराय नमः २२ । ॐ मासाय नमः २३ । ॐ पक्षाय नमः २४ । ॐ अस्मज्जन्मनक्षत्राय नमः२५ ।ॐ अस्मज्जन्मतिथये नमः २६ । ॐअस्मज्जन्मराशये नमः २७ । ॐ शिखायै नमः २८ । ॐ सम्भूत्यै नमः २९ । ॐ प्रीत्यै नमः ३० \।
सन्तत्यै नमः ३१ ।ॐ अनुसूवायै नमः ३२ \। ॐक्षमायै नमः३३ \। ॐ विष्णवे नमः३४ ।ॐ भद्रायै नमः३५ । ॐ इन्द्राय नमः ३६ ।ॐ अग्नये नमः ३७ । ॐयमाय नमः३८ । ॐ निरृतये नमः ३९ ।ॐवरुणाय नमः ४० ।ॐ वायबे नमः ४१ । ॐ धनदाय नमः ४२ । ॐ ईशानाय नमः ४३ ।ॐ अनन्ताय नमः ४४ ।ॐ ब्रह्मणे नमः ४५ ।इति प्रत्येकं षोडशापचारैः सम्पूज्य ।ततः “षष्ठिके इहागच्छ इह तिष्ठे” त्यावाह्य षोडशोपचारैः पूजयेत् । षष्ठ्या नैवेद्यं दधिभक्तम् ।
ॐ जगन्मातर्जगद्वात्रि ! जगदानन्दकारिणि ! ।
प्रसीद मम कल्याणि ! नमोऽस्तुषष्ठिदेवते ! ॥
इत्यनेन नमस्कृत्य,
रूपन्देहि यशो देहि भद्रं भगवति ! देहि मे ।
पुत्रान्देहि धनन्देहि सर्वान्कामांश्च देहि मे ॥
इत्यनेन वरं प्रार्थ्य प्रणम्य विसर्जयेत् । ततश्चन्दनेनाष्टदलं कृत्वा अक्ष तानादाय । “ॐ भगवन् मार्कण्डेय इहागच्छ इह तिष्ठे" त्यावाह्य स्थापनं कृत्वा पाद्यादीन्दत्वा “मार्कण्डेयाय नमः” इति नाममन्त्रेण,
ॐ आयुःप्रद ! महाभाग ! सोमवंशसमुद्भव ! ।
महातपो ! मुनिश्रेष्ठ ! मार्कण्डेय ! नमोऽस्तु ते ॥
इति पुष्पाञ्जलिमन्त्रेण संपूज्य गन्धादीनि दत्वा वरं प्रार्थयेत् ।
मार्कण्डेवाय मुनये नमस्ते महदायुषे ।
चिरञ्जीवी यथा त्वं भो ! भविष्यामि तथा ! मुने ! ॥
मार्कण्डेय ! महाभाग ! सप्तकल्पान्तजीवन ! ।आयुरारोग्यसिद्धर्थमस्माकं वरदो भव ॥
नराणामायुरारोग्यैश्वर्यसौख्यसुखप्रद ! ।
सौम्यमूर्ते ! नमस्तुभ्यं भृगुवंशवराय च ॥
महातपो मुनिश्रेष्ठ ! सप्तकल्पान्तजीवन ! ।
मार्कण्डेय ! नमस्तुभ्यं दीर्घायुष्यं प्रयच्छ मे ॥
मार्कण्डेय ! महाभाग ! प्रार्थये त्वां कृताञ्जलिः।
चिरञ्जीवी यथा त्वं भो ! भविष्येऽहं तथा मुने ! ॥
इति वरं प्रार्थ्य प्रणम्य, “अश्वत्थाम्ने नमः १ ।बलये नमः२ । व्यासाय नमः ३ ।हनुमते नमः ४ ।विभीषणाय नमः५ ।कृपाय नमः६ ।परशुरामाय नमः७ ।कार्तिकेयाय नमः ।जन्मदेवतायै नमः ९ । स्थानदेवतायै नमः १० ।वासुदेवाय नमः १९ । क्षेत्रपालाय नमः १२ ।पृथिव्यै नमः १३ ।अद्भ्यो नमः १४ ।तेजसे नमः १५ । वायवे नमः १६ । आकाशाय नमः १७” ।इष्टदिग्भागे संपूज्य,
प्रीयन्तां देवताः सर्वाः पूजां गृह्णन्तु तां मम ।
प्रयच्छन्त्वायुरारोग्यं यशः सौख्यं च सम्पदः ॥
अथाचार्योऽग्निस्थापनाद्याज्यभागान्तं कृत्वा, मध्वाज्यदधिदूर्वा"स्त्र्यम्बकं" इति मन्त्रेणाष्टोत्तरसहस्रमष्टोत्तरशतं वा जुहुयात् । इति मृत्युञ्जयहोमः । ततो यथोक्तदेवताभ्यो यथोक्तमन्त्रैर्दूर्वान्घृतक्ताजुहुयात् । ततो वह्निं सम्पूज्य स्विष्टकृद्धोमः ।बलिं दद्यात् । पायसान्नेन सर्वभूतेभ्यो बलिं दद्यात् । होमशेषं समापयेत् ।ब्राह्मणाय तिलान्दद्यात् । देयद्रव्याणि सम्पूज्य कुशयवजलान्यादाय “मदीयजन्मदिने दीर्घायुष्कामः एतान् तिलान् सोमदैवतान् यथानामगोत्राय ब्राह्मणाय दातुमहमुत्सृजे” इति दद्यात् । तत “स्तण्डुलेभ्यो नमः” इति तण्डुलान्सम्पूज्य जलेन सिक्त्वाकुशयबजलान्यादाय “मदीयजन्मदिने दीर्घायुष्कामः एतान्सोपस्करान तण्डुलान् चन्द्रदैवतान् यथानामगोत्राय ब्राह्मणाय दातुमहमुत्सृजे” दद्यात् । “घृताय नमः" इति घृतं सम्पूज्य “इदं घृतं प्रजापतिदैवतं यथानामगोत्राय ब्राह्मणाय दातुमहमुत्सृजे” ।ततस्तिलगुडसहितं दुग्धपानम् । तत्र मन्त्रः—
अञ्जल्यर्धमिदं क्षीरं सतिलं गुडमिश्रितम् ।
मार्कण्डेयवरं लब्ध्वा पिबाम्यायुष्यहेतवे ॥
तत आचम्य, “मार्कण्डेय ! क्षमस्वे"ति विसर्जयेत् ।
अश्वत्थामा बलिर्व्यासो हनुमाश्च विभीषणः ।
कृपः परशुरामश्च सप्तैते चिरजीविनः ॥
सप्तैतान्यः स्मरेन्निस्यं मार्कण्डेयमथाष्टमम् ।
जीवेद्वर्षशतं साग्रमपमृत्युविवर्जितः ॥
इति वचनादश्वत्थामादीन्मार्कण्डेयान्तानष्टौ स्मरेत् ।आचार्याय गा दद्यात् । ब्राह्मणान् भोजयेत् । स्वयं भुञ्जीत ।
इति श्रीप्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्रविवरणे संस्कारगणपतौ वर्द्धापनम् ।
अथ शिशुरक्षाविधानम् ।विधानपारिजाते कपिलसंहितायाम—
शिशुसंरक्षणार्थाय शिशुग्रहनिवारिणीम् ।
रक्षां सन्ध्यासु कुर्वीत निम्बसर्षपञ्जनैः॥
फलीकरणसम्मिश्रैः करञ्जैरवलोकनम् ।
वचां द्वारप्रदेशेषु बालग्रहविमुक्तये ॥
वासुदेवो जगन्नाथः पूतनामञ्जनो हरिः ।
रक्षतां त्वरितो बालं मुञ्च मुञ्च कुमारकम् ॥
कृष्ण ! रक्ष शिशुं शश्वन्मधुकटैभमर्दन! ।
प्रातःसङ्गवमध्याहसायाद्वेषु च सन्ध्ययोः ॥
महानिशि सदा रक्ष कंसारिष्टनिषूदन ! ।
यक्षोरगपिशाचांश्च ग्रहान्मातृगणानपि ॥
बालग्रहान्विशेषेण च्छिन्धि च्छिन्धि महाभयात् ।
त्राहि त्राहि हरे ! नित्यं त्वद्रक्षारक्षितं शिशुम् ॥
इति भस्माभिमन्त्र्यैव भूषयेत्तेन भस्मना ।
शिरो ललाटाद्यङ्गेषु रक्षां कुर्याद्यथाविधि ॥
मन्त्रसंरक्षणादेव शिशुः संवर्द्धतेऽन्वहम् ।
इति श्रीप्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्रविवरणे संस्कारगणपतौ कपिलसंहितोक्तशिशुरक्षाविधानम् ।
प्रथमकाण्डं समाप्तम् ॥
अथ द्वितीयं काण्डम् ।
<MISSING_FIG href=”../books_images/U-IMG-1696075608363.png"/>
( अथ प्रथमा काण्डका )
सांवत्सरिकस्य चूडाकरणन्तृतीये चाऽप्रतिहते षोडशवर्षस्य केशान्तो यथामङ्गलं वा सर्वेषां ब्राह्मणान्भोजयित्दा मातरकुमारमादायाप्लाव्याहते वाससी परिधाप्याङ्कंआधाय पश्चादग्नेरुपविशत्यन्वारव्ध आज्याहुतीर्हुत्वा प्राशनान्ते शीतास्वप्सूष्णाआसिञ्चत्युष्णेन वायउदकेनेह्यदिते केशान्वपेति केशश्मविति च केशान्तेऽथात्र नवनीतपिण्डं घृतपिण्डं दध्नो वा प्रास्पति तत आदाय दक्षिणं गोदानमुन्दति सवित्रा प्रसूता दैव्या आप उन्दन्तुते तनुम् । दीर्घायुत्वाय वर्च्चस इति त्रेण्या शलल्या विनीय त्रीणि कुशतरुणान्यन्तर्द्दधात्योषध इति शिवो नामेति लोहक्षुरमादाय निवर्तयामीति प्रवपति येनावपत्सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् ।तेन ब्रह्माणो वपतेदमस्यायुष्यं जरदष्टिर्यथासदिति सकेशानि प्रच्छिद्यानडुहे गोमयापिण्डे प्रास्यत्युत्तरतो ध्रियमाण एवं द्विरपरन्तूष्णीमितरयोश्चोन्दनाद्यथ पश्चात्त्रयायुषमित्यथोत्तरतो येन भूरिश्चरा दिवं ज्योक्च पश्चाद्धि सूर्यम् । तेन ते वपामि ब्रह्मणा जीवातवे जीवनायसुश्लोक्याय स्वस्तय इति त्रिः क्षुरेण शिरः प्रदक्षिणं परिहरति समुखं केशान्ते यत्क्षुरेण मज्जयता सुपेशसा वप्त्वा वा वपति केशांश्छिन्धि शिरो माऽस्यायुःप्रमोषीर्मुखमिति च केशान्ते ताभिरद्भिःशिरः समुद्य नापिताय क्षुरं प्रयच्छत्यत्तण्वन्परिवपेति यथामङ्गलं केशशेषकरणमनुगुप्तमेत सकेशं गोमयापेण्डं निधाय गोष्ठे पल्वल उदकान्ते
वाऽऽचार्याय वरं ददाति गां केशान्ते संवत्सरं ब्रह्मचर्यमवपनं च केशान्ते द्वादशरात्र षड्रात्रं त्रिरात्रमन्ततः ॥ १
** ** अथ चूडाकरणमाह ।चूडाकरणमिति कर्म्मणो नामधेयम् । वशिष्ठः
सर्वेषामेव वर्णानां चौलकर्मविधिः स्मृतः ।
चौलेनैवायुषो वृद्धि चौलेनैवायुषः क्षयः ॥
तस्मात्सर्वप्रयत्नेन कारयेद्विजसत्तम ! ॥ इति !
चूडाकरणकालमाह"सांवत्सरिकस्य चूडाकरण” मिति सूत्रम् ।संवत्सरो जातो यस्य स सांवत्सरिकः । तस्य बालकस्य चूडाकरणं कर्म्म कुर्यादिस्यर्थः। “तृतीये वाऽप्रतिहते” इति सूत्रम् । अथ वा तृतीये संवत्सरेऽप्रतिहतेऽपूर्णेऽसमाप्ते चूडाकरणं कुर्यात् । " षोडशवर्षस्य केशान्तः" इति सूत्रम् ।केशान्त इति संस्कारनामधेयम् । षोडश वर्षाण्यतीतानि यस्य स षोडशवर्षः ।तस्य पुरुषस्य केशान्ताख्यः संस्कारःस्यात् । अत्र कारिका—
केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते ।
राजन्यबन्धोर्द्वाविंशे वैश्यस्य त्वधिके ततः ॥
कर्म्मणस्तुल्यत्वात्केशान्तकथनमत्र भगवता कृतम् । “यथामङ्गलं वा सर्वेषाम्" इति सूत्रम् । अथवा यथामङ्गलं यथाकुलाचारं चूडाकरणं कार्य्यम् ।यस्य कुले सांवत्सरिकस्य कुमारस्य कुर्वन्ति तस्य सांवत्सरिकस्य चुडाकरणम् ।यस्य कुले तृतीयेऽब्दे कुर्वन्ति तस्य तृतीयेऽपूर्णे कार्यमिति व्यवस्था ।यस्य कुले नियमो नास्ति तस्य विकल्पः । यथामञ्जलशब्देन केचित्कालान्तरं कल्पयन्ति । अत्र स्मृत्यन्तरोक्ताः काला उच्यन्ते । नारदः—
तृतीये पञ्चमेऽब्दे वा स्वकुलाचारतोऽपि वा ।
बालानां जन्मतः कार्य्यं चौलमावत्सरत्रयात् ॥
मनुः—
चूडाकर्म द्विजातीनां सर्वेषामेव धर्मतः ।
प्रथमेऽब्देतृतीये वा कर्त्तव्यं श्रुतिचोदनात् ॥
वाशब्दाद्वितीयग्रहणम् । तथा च यमः—
ततः संवत्मरेऽपूर्णे चूडाकर्म विधीयते ।
द्वितीये वा तृतीये वा कर्तव्यं श्रुतिचोदनात् ॥ इति ।
अत्रापूर्णइति पदच्छेदः ।नारदः—
पञ्चमे सप्तमे वापि जन्मतो मध्यमं भवेत् ।
अधमं गर्भतः स्यात्तुनवमैकादशेऽपि वा ॥
अत्र दशमैकादशग्रहणमुपनयनकालात्ययेनातीतकालचौलत्वाभिप्रायेण । प्रयोगपारिजाते—
आद्यब्देकुर्वते के चित्पञ्चमेऽब्दे द्वितीयके ।
उपनीत्या सहैवेति विकल्पाः कुलधर्मतः ॥
बृहस्पतिः—
तृतीयेऽब्दे शिशोर्गभज्जन्मतो वा विशेषतः ।
पञ्चमे सप्तमे वापि स्त्रियः पुंसोऽपि वा समम् ॥
रत्नसङ्ग्रहे—
माघादिपञ्चके चौलं हित्वाक्षीणविधु मधुम् ।
क्रूरवारं निशां रिक्तां षष्ठीं सन्ध्याञ्जजन्मभम् ॥
नारदः—
सौम्यायने नास्तगयोरसुरासुरमन्त्रिणोः ।
अपर्वरिक्तातिथिषु शुक्रेज्यज्ञेन्दुवासरे ॥
विशेषान्तरमुक्तं सारसङ्ग्रहे—
ज्येष्ठे मासे तथा मार्गे क्षौरं परिणयव्रतम् ।
ज्येष्ठपुत्रदुहित्रोश्च यत्नेन परिवर्ज्जपेत् ॥
कृत्तिकास्थं रर्वित्यक्त्वा ज्येष्ठे ज्येष्ठस्य कारयेत् ।
अधिमासेऽथ यत्क्षौरं जन्ममासेऽथ जन्मभे ॥
न भवेतन्त्र कल्याणमिति शंसन्ति सूरयः ॥
अथ पक्षनिर्णयः।वीरमित्रोदये बृहस्पतिः—
शुक्लपक्षे शुभं प्रोक्तं कृष्णपक्षे शुभेतरत् ।
अशुभोऽन्त्यस्त्रिभागः स्यात्कृष्णपक्षे त्रिधा कृतः ॥ इति ।
अथ तिथयः । पराशरः—
पञ्चमी सप्तमी चैव दशम्येकादशी तथा ।
त्रयोदशी तृतीया च चौलकर्म्मशुभावहाः ॥
वशिष्ठोऽपि—
द्वित्रिपञ्चमसप्तम्यामेकादश्यान्तथैव च ।
दशम्यां च त्रयोदश्यां कार्यं क्षौरं विजानता ॥
वीरमित्रोदये—
चूडा व्रतं तथोद्वाहंकर्णयोरपि वेधनम् ।
गलग्रहे न कुर्वीत यदीच्छेत्पुत्र जीवितम् ॥
गलमहतिथयः—
त्रयोदश्यादि चत्वारि सप्तम्यादि दिनत्रयम् ।
चतुर्थी चैकतः प्रोक्ता अष्टावेते गलग्रहाः ॥
गलग्रहास्तु कृष्णपक्षे न तु शुक्लपक्षे । तदुक्तं रत्नसङ्ग्रहे —
कृष्णपक्षे चतुर्थी च सप्तम्यादिदिनत्रयम् ।
त्रयोदशीचतुष्कं च अष्टावेते गलग्रहाः ॥
कृष्णपक्षे इति सर्वत्र सम्बध्यते । अथ वाराः । पराशरः—
सितेज्यसौम्यवारेषु चौलं पक्षद्वये हितम् ।
इन्दुवारः सिते पक्षे वाराःशेषा न शोभनाः ॥
तत्र भुजबलः—
मासं हरेत्क्षौरमिहायुषोऽर्कःशनैश्चरः पञ्च कुजस्तथाष्टौ ।
आचार्य्यभृग्विन्दुबुधाः क्रमेण दर्द्युशैकादश सप्त पञ्च ॥
गुरुः—
सोमवारः सिते पक्षे कृष्णपक्षेऽतिगर्हितः ।
बुधवारः शुभः प्रोक्तः पापग्रहयुते बुधे ॥
ज्योतिर्निबन्धे—
पापग्रहाणां वारादौ विप्राणां तु शुभो रविः ।
क्षत्रियाणां क्षमामृनुर्विशूद्राणां शनिः शुभः ॥
अथ नक्षत्राणि \। बृहस्पतिः—
इस्ताश्विविष्णुपौष्णाश्च श्रविष्ठादित्यपुष्यभम् ।
सौम्यचित्रे नवक्षौरे उत्तमा नवतारकाः ॥
त्रीण्युतराणि वायव्यं रोहिणी वारुणं तथा ।
क्षौरे षण्मध्यमाः प्रोक्ताःशेषा द्वादश गर्हित ॥
नारदः—
दस्रादितीज्यचन्द्रेन्द्रपूषभानि शुभान्यतः ।
चौलकर्म्मणि हस्तर्क्षं त्रीणि च त्रीणि विष्णुमात् ॥
श्रीपतिः—
षट्कृतिका पञ्चमघास्त्रिमैत्रो ब्रह्माष्टकोऽपश्चतुरुत्तराश्च।
क्षौरी स वर्षं चतुराननोऽपि न प्राणितीति प्रकटप्रवादः ॥
बृहस्पतिः—
सपदि क्षेमभे मैत्रे साधके मेऽतिमित्रमे ।
चौलकर्म्म प्रशस्तं स्याच्छोभनांशुगते विधौ ॥
आद्यंशो विपदि त्याज्यःप्रत्यरे चरमोऽशकः ।
वधेत्याज्यस्तृतीयांशो शेषांशा अपि शोभनाः ॥
अथावश्यके प्रकारद्वयेन परिहारमाह—
मृत्यौ स्वर्णतिलान्विपद्यपि गुडं शाकं त्रिजन्मस्वयो
दद्यात्प्रत्यरितारकासु लवणं सर्व्वा विपत्प्रत्यरिः ।मृत्युश्चादिमपर्य्यये न शुभदोऽथैषां द्वितीर्येऽशका
नादिप्रान्त्यतृतीयका अथ शुभाः सर्व्वेतृतीये स्मृताः ॥
शाकं वृन्ताकादि । तत्रादिमपर्य्याये प्रथमावृत्तौ विपत् प्रत्यरिर्मृत्युश्चसर्वा अपि सामान्यतः षष्ठिघटिकात्मिका न शुभदाः स्युः । अथ द्वितीये पर्याये द्वितीयावृत्तौ विपत्प्रत्यरिमृत्यूनामादिप्रान्त्यतृतीयका अंशा न शुभदाः।विपत्तारायामाद्यंशः प्रथमचरणो निषिद्धः । प्रत्यरितारायां
प्रान्त्यश्चतुर्थचरणो निषिद्धः। मृत्युतारायां तृतीयोऽशस्तृतीय चरणो निषिद्धः ।तृतीयावृत्तौ विपत् प्रत्यरिमृत्युश्चैते सर्वे षष्ठिषटिकात्मिकाःशुभाः । चिन्तामणौ —
तारादौष्ट्येऽब्जेत्रिकोणोच्चगे वा क्षौरं सत्स्यात्सौम्यमित्रस्ववर्गे ।
सौम्येभेऽन्जेशेभवेद्दुष्टतारा शस्ता ज्ञेया क्षौरयात्रादिकृत्ये ॥
नारदः—
अष्टमे शुद्धिसंयुक्ते शुभलग्ने शुभांशके ।
न नैधने भेशीतांशौषष्ठाष्टान्त्यविवर्ज्जिते ॥
धनत्रिकोणकेन्द्रस्थःशुभस्त्रायारिगैः परैः ।
चौलान्नप्राशने शस्ताः सौम्या रन्ध्रव्ययायगाः ॥
अष्टमस्था ग्रहाः सर्व्वे नेष्टाःशुक्रविवर्जिताः ।
शुक्रस्तु निधने क्षौरे सर्व्वसम्पत्प्रदः शिशोः॥
अस्यापवादमाह बृहस्पतिः —
लग्नादष्टमराशीशःकेन्द्रगः शुभवीक्षितः ।
सर्वोऽप्यष्टमगस्योक्तदोषमाशु व्यपोहति ॥
स्वांशगःस्वोच्चगो वाऽपि स्वक्षेत्रोपचयर्क्षगः ।
अष्टमस्थानदोषोऽयं विनश्यति न संशयः ॥
वृद्धनारदः—
जामित्रे भास्करे क्षौरे मृत्युः स्याद्भूमिजे तथा ।
शुक्रे सौख्यविनाशः स्यान्मन्दभाग्यं शनैश्चरे ॥
ज्योतिर्निबन्धे—
त्रिकोणकण्टके वापि सत्कर्म्मानिरते विधौ ।
गुरुर्वातिबलः प्रोक्तः क्षौरयोगः शुभावहः ॥
मीने शुक्रे च लग्नस्थे भवे भानौ चतुष्टये।
गुरौ यातेऽथवा योगःशुभदःक्षुरकर्माणि ॥
यमे कर्किणि सिंहे च सहिते भृगुजे बुधे ॥
भानौभवे व्यये वाऽपि योगे क्षौरःशुभावहः ॥
“सर्वेषा"मिति सूत्रम् । सर्वेषां वर्णानामित्यर्श्रः। ब्राह्मणान् भोजयित्वा माता कुमारमादायाप्लाव्याहते वाससी परिधाप्याङ्क आधाय पश्चादग्रुप विश्वति" इति सूत्रम् ।आभ्युदयिकश्राद्धभोजनव्यतिरिक्तान् त्रीन् ब्राह्मणान् भोजयेत् \। भर्त्तृयज्ञमाध्ये तु यस्य यादृशब्रह्मणभोजने मङ्गलवृद्धिः स तादृश ब्राह्मणभोजनं कृत्षा चूडाकरणं कुर्य्यादिति सूत्रं योजितम् ।माता कुमारमादाय माता जननी कुमारं स्वपुत्रमादाय हस्ते गृहीत्वाऽऽप्लाव्य स्नापयित्वाऽहते नवे यन्त्रमुक्ते सकृद्धौते वाससी वस्त्रे परिघाप्य परिहिते कारयित्वा अङ्क आधाय अङ्के उत्सङ्गे स्थापयित्वाऽग्नेः पश्चादुपविशति । माता चेद्यदि सगर्भा स्यात्तदा चौलं न कारयेत् । तथा च वीरमित्रोदये—
चूडाकर्म्मन कर्त्तव्यं यस्य मातास्ति गर्भिणी ।
करोति यदि मन्दात्मा तदा गर्भस्य नाशनम् ॥
पित्रोर्मूर्तिं वदन्त्येके चतुरब्दान्तरे स्फुटम् ॥
बृहस्पतिः—
गर्भिण्यां मातरि शिशोःक्षौरकर्म्म न कारयेत् ।
शताभिषेकेऽप्येवं स्यात्कालोवेदवतेष्वपि ॥
शताभिषेको बौधायनोक्तः पौष्टिकं काण्डम् । वेदत्रतानि महानाम्न्यादीनि । अस्य निषेधस्य व्यवस्थामाह वशिष्ठः—
गर्भेमातुःकुमारस्य न कुर्य्याक्षौलकर्म तु ।
पञ्चमासादधःकुर्य्यादत ऊर्ध्वं न कारयेत् ॥
पञ्चमासाः पूर्ण्यन्ते यस्मिन् दिने तत्पञ्चमासं तस्मादव उर्ध्वं नेत्यर्थः ।
भृगुः—
पञ्चमासादः कुर्य्यादत ऊर्ध्वं न कारयेत् ॥
गर्गः—
पुत्रचूडाकृतौ माता यदि सा गर्भिणी भवेत् ।
शस्त्रेण मृत्युमाप्नोति तस्मारक्षौरं विवर्जयेत् ॥
अयं च निषेधः पञ्चमवर्षादवगेव न तूर्ध्वम् । तथा च नारदः—
सुनोर्मातरि गर्भिण्यां चूडाकर्म्म न कारयेत् ।
पञ्चाब्दात्प्रागथोर्ध्वन्तु गर्भिण्यामपि कारयेत् ॥
यदि गर्भविपत्तिः स्याच्छिशोर्वा मरणं भवेत् ।
सहोपनीत्या कुर्य्याच्चेत्तदा दोषो न विद्यते ॥ इति ।
गते तु पञ्चमे मासे गर्भादीनां मृतिर्भवेत् ॥
इति कैश्चिद्वचनमुदाहृतं तन्मूलं चिन्त्यम् । शिशुमातरि रजस्वलायामपि चौलं न कार्य्यम् । तदाह वृद्धगार्ग्यः—
विवाहव्रतचूडासु माता यदि रजस्वला ।
तस्याः शुद्धेः परं कार्य्यंमाङ्गल्यं मनुरब्रवीत् ॥
विवाहे विधवा नारी जडत्वं व्रतबन्धने ।
चौले चैव शिशोर्मृत्युस्तस्मादेतत्त्रयं त्यजेत् ॥
यदा चौलादौ लग्नाम्तराभावे शान्तिं कृत्वा तदैव कार्य्यम् । कारिकानिबन्धे—
सूतकोदक्ययोः शुद्धौ गां दद्याद्धोमपूर्व्विकाम् ।
प्राप्ते कर्म्मणि शुद्धा स्यादितरस्मिन्न शुद्ध्यति ॥
अलाभे तु मुहूर्त्तस्य रजोदोषे तु संस्थिते ।
श्रियं सम्पूज्य तत्कुर्य्याद्वृत्रहत्याभयङ्करम् ॥
हैमीं माषमितां पद्मां श्रीसूक्तविधिनाऽर्च्चयेत् ।
प्रत्यृचं पायसं हुत्वाऽभिषिच्य शुभमाचरेत् ॥
अथ कुमारस्य ज्वरोत्पत्तौ न कार्य्यमित्याह । गर्गः—
ज्वरस्योत्पादनं यस्य लग्नं तस्य न कारयेत् ।
दोषनिर्गमनात्पश्चात्स्वस्थे धर्म्मंसमाचरेत् ॥
लग्नमितिसर्वमङ्गलोपलक्षणम् । “अन्वारब्ध आज्याहुतीर्हुत्वा प्राशनान्ते शीतास्वप्सूश्णाआसिञ्चत्युष्णेन वाय उदकेनेह्यदिते केशान्वपति केशरमश्वति च केशान्ते” इति सूत्रम् । तत अन्वारब्धो ब्रह्मणा उ-
पस्पृष्ट आज्याहुतीः आधारादिस्विष्टकृदन्ताश्चतुर्दशाहुतीर्हुत्वा संस्रवप्राशनान्ते शीतासु पूर्वकल्पितासु उष्णा अप आसिञ्चति प्रक्षिपति ।“उष्णेन वाय उदकेनेह्यदिते केशान्वपे” तिमन्त्रेण ।केशान्ते तु “उष्णेन वाय उदकेनेश देते केशश्मश्रु वपे” तिमन्त्रविशेषः । कुमारेण अन्वारम्भः कार्य्य इति भर्त्तृयज्ञमते विशेषः । मन्त्रार्थः—रविकिरणसम्बन्धादन्तर्गततया वा वायोरुष्णत्वम् । हे वायो ! त्वमप्युष्णोदकेन गृहीतेन कुमारस्य शिरः प्लावनाय एहि । हे अदिते ! देवमातः।केशान् लक्षीकृत्य केशदूरकरणार्थं शीतोदकमध्ये उष्णोदकं वप क्षिपेति, अनेकार्थाद्धातोः। “अथात्र नवनीतपिण्ड घृतपिण्डं दनो वा प्रास्यति" इति सूत्रम् । अथोष्णोदकसे कानन्तरमत्र प्रकृतोदके नवनीतपिण्ड घृतस्य पिण्ड दध्नोवा प्रास्यति प्रक्षिपति । तथा च कारिका—
नवनीतं क्षिपेद्वात्र घृतं वा दधिवा ततः ॥
** **“तत आदाय दक्षिणं गोदानमुन्दति सवित्रा प्रसूता दैव्या आप उन्दन्तु ते तनूम् । दीर्घायुत्त्वाय वर्च्चस इति” इति सूत्रम ततः तस्मात् यत्र नवनीतादीनामन्यतमपिण्डप्रासनं कृतं तस्मादुदकात्किञ्चिदुदकमादाय दक्षिणं गोदानम् गवि पृथिव्यां दीयते निधीयते स्थाप्यते शयनकाले इति गोदानं दक्षिणकर्णसमीपवर्त्तिशिरः प्रदेशमुन्दति ।उन्दीक्लेदने, क्लेदयति आर्द्रं करोति “सवित्रे " ति मन्त्रेण । मन्त्रार्थस्तु – हे कुमार ! सवित्रा सूर्य्येण प्रसूता उत्पादिता आपः दैव्यःदिवि भवाः तव तनुं शरीरं चूडालक्ष गमङ्गम् उन्दन्तु केदयन्तु । किमर्थम् तव दीर्घायुत्वाय चिरं जीवनार्थम् वर्च्चसे प्रतापाय इति । “येण्या शलल्या विनीय त्रीणि कुशतरुणान्यन्तर्दधात्योषध इति” इति सुत्रम् । त्रिषु स्थानेषु एनी श्वेता त्र्येणी शलली सेधाशलाका तथा क्लिन्नान् केशान् विनीय पृथक्कृत्य विरलान् कृत्वा त्रीणि कुशतरुणानि दर्भतृणान्यन्वर्दधाति धारयति “ओषधे त्रायस्वे “ति मन्त्रेण । “शिवो नामेति लोहवरमादाय निवर्त्तयामीति प्रवपति” इति सूत्रम् ।ततः कर्त्ता
“शिवो नामे” ति मन्त्रेण लोहक्षुरं ताम्रेण परिष्कृतमादाय दक्षिणहस्तेन गृहीत्वा “निवर्तयामी” ति मन्त्रेण प्रवपति तं क्षुरं कुशवरुणान्तर्हितेषु संलागयति स्थापयति । तथा च रेणुः—
गृह्णीयात्तंक्षुरं ताम्रं शिवो नामेति मन्त्रतः ।
उक्त्वा निवर्त्तयामीति संलग्नं तत्र कारयेत् ॥
शिव इत्यस्यार्थः-हे क्षुर ! यस्त्वं शिवोनामाऽसि भवसि । ते तवस्वधितिर्वज्रंपिता । हे भगवन् ! तस्मै तुभ्यं नमः ।मा मा मा हिंसीः मा बिनाशयेति । निवर्त्तयामीत्यस्यार्थः — निवर्तयामि मुण्डयामि ।भाविनि भूतो पचारात् । आयुषे अन्नाद्याय प्रजननाय गर्भोत्पत्त्यै धनस्य पुष्ट्यै सुप्रजास्त्वाय सुवीर्याय शोभनवीय्यार्य्याय।“येनावपत्सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् ।तेन ब्रह्माणो वपतेदमस्यायुष्यं जरदष्टिर्यथा सदिति सकेशानि प्रच्छिद्यानडुढे गोमयपिण्डे प्रास्यत्युत्तरतो श्रियमाणे” इति सूत्रम् । येनावपदित्यादि जरदष्टिर्यथासदित्यन्तेन मन्त्रेण केशसहितानि कुशतरुणानि प्रच्छिद्य खण्डयित्वा अग्निरुचरतो भूमौ ध्रियमाणे स्थाप्यमाने आनडुहेगोमयपिण्डे गोपुरीषे तानि प्रास्यति क्षिपति । तथा च कारिकायाम्—
येनावपदिति च्छित्वा सकेशतरुणानि तु ।
प्रास्यत्युतरतो धीयमान औक्षणे तु गोमये ॥
मन्त्रार्थः—हे ब्राह्मण ! येन क्षुरेण तेजोमयेन विद्वान्सर्वज्ञः सविता सूर्य्यः सोमस्य राज्ञः वरुणस्य च शिरः अवपत् राजसूयदीक्षायै अमुण्डयत् । हे ब्रह्माणो ब्राह्मणाः ! तेन क्षुरेणास्य शिशोरिदं शिरो यूयं वपत मुण्डयत । इदं शिरः अस्य कुमारस्य आयुषे हितम् आयुष्यम् आयुषो भावः तत्ता वा । यथाऽयं कुमारः जरदष्टिः सम्पूर्णायुरसत् भूयात् । जरामश्नुते व्याप्नोति जरदष्टिः जरद्भावः । “एवं द्विरपरं तूष्णीम्” इति सूत्रम् । एवमेवोक्तरीत्या द्विर्द्विवारं तूष्णीम् मन्त्रं विना उन्दनादि गोमयपिण्डे निधानान्तमपरं दक्षिणे एव गोदाने कर्म्म कुर्यात् । “एकद्रव्ये कर्म्मावृत्तौ सकृन्मन्त्रवचनं कृतत्वा"दिति कात्यायनपरिभाषातः । अत्रैवं पदार्थाः ।
उन्दनम् ।केशानां विनयनम् ।दर्भतृणान्तर्धानम् ।क्षुरग्रहणम् ।नापिताय क्षुरदानम् ।सकेशाना छेदनम् । गोमयपिण्डे प्रासनमिति ।“इतरयोश्रोन्दनादि” इति सूत्रम् ।इतरयोः पश्चिमोत्तरयोर्गोदानयोरुन्दनादि क्लेदनप्रभृति कर्म्म चकारात्मकृन्मन्त्रेण द्विस्तूष्णीं कुर्य्यात् । तत्र पूर्वं पश्चिमगोदाने कृत्वा तत उत्तरगोदाने कार्यम् । “अथ पश्चात्र्यायुषमिति” इति सूत्रम् ।अथ दक्षिणगोदानस्य त्रिरुन्दनादिप्रच्छेदनानन्तरं पश्चात्पश्चिमगोदाने विशेषमाह त्र्यायुषमिति ।“त्र्यायुष जमदग्ने"रित्यादिना मन्त्रेण सकेशानि कुशतरुणानि सकृत्प्रच्छिद्य तूष्णीं द्विः प्रच्छिद्य गोमयपिण्डे प्रास्यति । “अथोत्तरतः” इति सूत्रम् । अथानन्तरम् उत्तरगोदाने उन्दनादि गोमयपिण्डनिधानान्ते विशेषमाह “येन भूरिश्चरा दिवं ज्योक्च पश्चाद्धि सूर्य्यम् ।तेन ते वपामि ब्रह्मणा जीवातवे जीवनाय सुश्लोक्याय स्वस्तय इति” इति सूत्रम् ।येन भूरिरिस्यादि स्वस्तये इत्यन्तेन मन्त्रेण सकृत्सकेशानां कुशतरुणान प्रच्छेदनम् । अन्यत्सर्वं दक्षिणगोदानवत्कार्यम् । मन्त्रार्थः—येन ब्रह्मणा मन्त्रेण तपसा वा चराश्चरणशीलो वायुर्ज्योक चिरम् आकल्पमित्यर्थः । दिवं द्याम् पश्चात्तामनु सूर्य्यंतमनु विश्वञ्च । किम्भूतः भुरिः प्रचुरः । तेन ब्रह्मणा तपसा वा तन्मन्त्रितक्षुरेण तव शिरो वपामि । किमर्थम् ? जोवातवे जीवनहेतवे धर्माद्यर्थम् ।जीवनायायुषे । सुश्लोक्याय शोभनाय यशसे । स्वस्तये अविनाशाय । “त्रिः क्षुरेण शिरः प्रदक्षिण परिहरति समुख केशान्ते” इति सूत्रम् ।त्रिः त्रीन वारान् क्षुरेण शिरः मूर्द्धानं प्रदक्षिणं यथा भवति तथा परिहरति । दक्षिणकर्णादारभ्य शिरसः समन्तात् प्रदक्षिणं दक्षिणकर्णपर्यन्तं क्षुरं भ्रामयतीत्यर्थः । तत्र मन्त्रमाह - “यत्क्षुरेण मज्जयता सुपेशसा वप्त्वा वाऽऽवपति केशाँश्छिन्धिशिरो मास्यायुःप्रमोषीमुखमिति च केशान्ते” इति सूत्रम् ।यत्क्षुरेणेत्यादि मास्यायुः प्रमोषीरित्यन्तं केशान्ते च मुखमिति पदं प्रक्षिपेत् मन्त्रे आवपेत् । यत्क्षुरेणेति सत्कृन्मन्त्रेण द्विःतूष्णी शिरःपरिहरणम् ।
कारिकायाम्—
क्षुरेण त्रिःपरिहरेच्छिरस्तेन प्रदक्षिणम् ।
यत्वरेणेति मन्त्रेण केशान्ते समुखं शिरः ॥
मन्त्रार्थः—हे क्षुर ! यत् यस्मान् क्षुरेण वप्त्वा मुण्डित्वा आवपति गोमयपिण्डे केशान् क्षिपति । किम्भूतेन एनं कुमारं मज्जयता सँस्कुर्वता तथा सुपेशसा शोभयता । अतोऽस्य केशान् छिन्धि, अवखण्डय ।शिरोमस्तकं मा छिन्धि मा सव्रण कुरु । अस्य मायुः प्रमोषीःमा अपहर । “तामिरद्भिः शिरःसमुद्य नापिताय क्षुरं प्रयच्छत्यक्षनन्परिवपेति” इति सूत्रम् ।ताभिरद्भिः शीतोष्णाभिः कुमारस्य शिरः समुद्य आर्द्रं विधाय नापिताय क्षौरकर्त्रेजातिविशेषाय क्षुरं प्रयच्छति समर्प्पयति “अक्षण्वन्परिवपे” ति मन्त्रेण । मन्त्रार्थः —हे नापित ! अक्षण्वन् क्षतराहितं यथा स्यादेवं परिवप मुण्डय ।“यथामङ्गलं केशशेषकरण” मिति सूत्रम् ।क्षुरसमर्पणानन्तरं नापितेन, रेणुः—
उदङमुखः प्राङ्मुखस्य तस्य शीर्ष वपत्यसौ ॥ इति ।
तत्र केशानांशेषकरणं शिखास्थापनं यथामङ्गलं यस्य कुले यथा प्रसिद्धं तस्य तथैव शिखास्थापनं कार्य्यम् । तथा च रेणुकारिकायाम—
केशशेषं ततः कुर्य्याद्यस्मिन्गोत्रे यथोचितम् ।
वशिष्ठा दक्षिणे भागे उभयत्रात्रिकश्यपाः ॥
शिखां कुर्वन्त्यङ्गिरसः शिखाभिः पञ्चभिर्युताम् ।
परितः केशपङ्क्यवा मुण्डाश्च भृगवो मताः ॥
कुर्वन्त्यन्ये शिखामात्रं मङ्गलार्थमिद क्वचित् ॥
तथा च लौगाक्षिः—
कम्बुजानां वशिष्ठानां दक्षिये कारयेच्छिखाम् ।
द्विभागेऽत्रिकश्यपानां मुण्डाश्च भृगवो मताः ॥
पञ्चचूडा आङ्गिरसःएका वाजसनेयिनाम् ।
मङ्गलार्थं शिखिनोऽन्ये कुर्वन्तीह महर्षयः ॥
अत्र “कुलधर्म्मानुगता” मिति बचना “च्चूडा कार्य्या यथा-
कुल” मित्यादि स्मृत्युक्तेः शिखावपनं नास्तीति गम्यते ।
सदोपवीतिना भाव्यं सदा बद्धशिखेन च ।
विशिखो व्युपवीतश्च यत्करोतिन तत्कृतम् ॥
इति देवलन तस्य नित्यधार्य्यमाणत्वस्मरणात् ,
शिखां छिन्दन्ति ये मोहाद्द्वेषादज्ञानतोऽपि वा ।
तप्तकृच्छ्रेण शुध्यन्ति त्रयो वर्णा द्विजातयः ॥
इति हारीतेन शिखानाशे प्रायश्चित्ताभिधानाश्च ।मोहात्ममादाद्, द्वेषात्स्त्र्यादिकलहे क्रोधाद्यावेशात् अज्ञानतः शिखानित्यत्वज्ञानात् । अत एव शिखानाशे तत्प्रतिनिधिरुक्तः काठकगृह्ये— “अथ चेत्प्रमा दान्निःशिखं वपनं स्यात्तदा कौर्शी शिखा ब्रह्मग्रन्थिसमन्वितां दक्षिणकर्णोपर्य्याशिखाबन्धादस्तिष्ठेत्” इति । एतच्छूद्रातिरिक्तविषयम् “शूद्रस्यानियताः केशशेषा” इति वशिष्ठोक्तेः । “अनुगुप्तमेत सकेश गोमयपिण्ड निघाय गोष्ठे पल्वलउदकान्ते वा"इति सूत्रम् ।ततो वपनोत्तरं सर्वान् केशान् गोमयपिण्डे कृत्वा गोमयपिण्डं वस्त्रादिवेष्टनेनानुगुप्तमावृतं कृत्वा गोष्ठे गवा व्रज्रेपल्वलेअल्पोदके सरसि उदकान्ते वा यत्र कुत्रचिदुदकसमीपे वा स्थापयेत् ।“आचार्य्याय वरं ददाति” इति सूत्रम् ।कर्म्मकर्त्तापित्रादिः स्वकीयाय आचार्य्याय वरमभिलषितद्रव्यं ददाति । अभिलषितद्रव्याभावे “चतुःकार्षापणो वर" इति मूल्याध्यायोक्तद्रव्यदानमिति वृद्धाः । “गां केशान्ते" इति सूत्रम् ।केशान्ते कर्म्मणि केशान्वसंस्कारकर्त्तास्वाचार्य्याय गा ददाति । संस्कार्यस्याचार्य्यायेति हरिहरः ।
अथ स्त्रीणां चूडाकर्म्माह । तत्र मनुः
अमन्त्रिका तु कार्य्येयं स्त्रीणामावृदशेषतः ॥ इति ।
याज्ञवल्क्योऽपि—
तूष्णीमेताः क्रियाःत्रीणां विवाहस्तु समन्त्रकः ॥ इति ।
स्मृतिरूपेणाप्याह स एव—
हुतकृत्यन्तु पुंवत्स्यात्स्त्रीणां चूडाकृतावपि ॥
हुतकृत्यं होमः, पुंवत् समन्त्रकः । तेन प्रधानमात्रममन्त्रकमित्युक्तं प्राक् । कुमारीचौलेऽपि यथाकुलधर्म्ममित्यनुवर्त्तते । ततश्च सर्वमुण्डनं शिखाधारणममुण्डनं वेति सिध्यति । तत्र स्त्रीणां शिखाधारण निषिद्धम् ।
धर्म्मप्रदीपे—
शिखा यज्ञोपवितं च कुशा मौनं तथैव च ।
वेदाध्ययनभैक्ष्ये च स्त्रीशूद्रपतनानि षट् ॥इति ।
तासां च लग्नावशेषमाइ गुरुः—
चन्द्रोदयो जनानान्तु प्रशस्तः क्षुरकर्मणि ॥इति ।
चन्द्रोदयं चन्द्रदेवताकं लग्नम् । अथ शूद्राणां चूडाकर्माह—
शूद्रोऽप्येवंविधः कार्य्योविना मन्त्रेण संस्कृतः ।
न केनचित्समसृजच्छन्दसा तं प्रजापतिः ॥
द्विजात्युक्तचूडान्तकर्मेतिकर्त्तव्यतापरामर्शार्थमेवं शब्दः ।गृह्यकारोऽपि - “शूद्रस्यापि पुंसवनसीमन्तोन्नयनजातकर्मनामकरणान्नप्राशनचौलान्यमन्त्रकाणि यथाकालमुपदिष्टानी” ति ।
अथैषां वारविशेषमाह बृहस्पतिः—
विट्शुद्राणां शनिः शुभः ॥ इति ।
लग्नविशेषमाह स एव—
विट्शुद्राणां यमोदयः ॥इति ।
यमोदयः शनिदेवताकं लग्नम् ।तेषां च शिखा न कार्य्या।
शिखा यज्ञोपवीतं च कुशा मौनं तथैव च ।
वेदाध्ययनभैक्ष्ये च स्त्रीशूद्रपतनानि षट् ॥
इति धर्मप्रदीपे तन्निषेधात् । प्रभासखण्डेऽपि—
न दर्भानुद्धरेच्छूद्रो न पिबेत्कापिलं पयः ।
मध्यपत्रे न भुञ्जीत ब्रह्मवृक्षस्य भामिनि ! ॥
नोच्चरेत्प्रणवं मन्त्रं पुरोडाशं न भक्षयेत् ।
न शिखा नोपवीतं च नोच्चरेत्संस्कृतां गिरम् ॥
न पठेद्वेदवचनं त्रिषवं न हि सेवयेत् ।
नमस्कारेणमन्त्रेण क्रियासिद्धिर्भवेद्ध्रुवम् ।
निषिद्धाचरणं कुर्वन्पितृभिः सह मज्जति ॥
“संवत्सरं ब्रह्मचय्यमवपनं च केशान्ते” इति सूत्रम् ।केशान्तकर्म्मानन्तर केशान्तकर्म्मणा यःसंस्कृतः स संवत्सरं यावद्द्ब्रह्मचर्य्यंचरेत्, स्त्रीसम्भोग न कुर्यादित्यर्थः । अवपनं च केशान्तोचरकालं संस्कृतः । चशब्दः संवत्सरानुवृत्त्यर्थः । केशान्तकर्म्मोचरमवपनश्च यावज्जीवंशास्त्रीयवपनव्यतिरेकेणेति वासुदेवहरिहरगर्गाः।“द्वादशरात्र षड्रात्रं त्रिरात्रमन्ततः” इति सूत्रम् । एते चत्वारो विकल्पाःपूर्वपूर्वोशक्त्या । अत्र स्मृत्यन्तरोक्तो वपने विधिः । अथक्षौरनिषेधमाह ज्योतिर्निवन्धे—
उदन्वतोऽम्भप्ति स्नानं न स्वकेशनिकृन्तनम् ।
विदेशगमनं चैत्र न कुर्य्याद्गुर्विणीपतिः ॥
मुण्डनस्य निषेधेऽपि कर्त्तनं च विधीयते ।
छेदनं दृषदा वाऽपि न क्षुरेण कदाचन ॥
पञ्चाशद्धायनात्पुर्व्वं क्षौरं नैमित्तिकं विना ।
न कुर्यात्तत्तदूर्धन्तु स्वेच्छया वपनं चरेत् ॥
स्मृत्यन्तरेऽपि—
विना तीर्थं विना यज्ञं मातापित्रोमृतिं विना ।
यो वापयति रोमाणि स पुत्रः पितृघातकः ॥
निर्णयसिन्धौ—
गङ्गायां भास्करक्षेत्रे मातापित्रोः क्षयेऽहनि।
आधाने सोमपाने च षट्सु क्षौरं विधीयते ॥
धर्म्मप्रवृत्तौ—
सेतुबन्धश्च गोकर्णनिवृत्तिः श्रीगिरिस्तथा ।
विरूपाक्षस्तथा काशी क्षेत्रं भास्करसंज्ञकम् ॥
मुण्डनं चोपवासश्चसर्वतीर्थेष्वयं विधिः ।
वर्ज्जयित्वा कुरुक्षेत्रं विशालाविरजां गयाम् ॥
तथा च वपनं चानुभाविनां प्रेतकनीयसाम् ॥
तथा—
प्रयागे वपनं कुर्य्याद्गयायां पिण्डपातनम् ॥
इत्यादिषु निमित्तेषु वपने कार्य्यम् । वृथा तु न कार्यम् । तथा च विष्णुः—
प्रयागे तीर्थयात्रायां पितृमातृवियोगतः ।
कचानां वपनं कुर्य्याद्वृथा न विकचो भवेत् ॥
इति निषेधेऽपि “नीचकेशो विप्रःस्या” दिति नीचकेशविधानारत्कर्त्तनादिना नीचत्वसम्पादनीयम् । तथा च बृहस्पतिः—
मुण्डनस्य निषेधेऽपि कर्त्तन्तु विधीयते ॥इति ।
मुण्डने दिङ्नियमस्तु गदाधरभाष्ये—
प्राङ्मुखः श्मश्रुकर्म्माणि कारयीत समाहितः ।
उदङ्मुखोऽथ वा भूत्वा तथायुर्विन्दते महत् ॥
अपरार्के—
केशश्मश्रुलोमनखान्युदक्संस्थानि वापयेत् ।
दक्षिणं कर्णमारभ्य धर्म्मार्थं पापसंभवे ॥
हन्वाद्यन्तञ्च संस्कारे शिखाद्यन्तं शिरो भवेत् ॥
यतीनां विशेषो निगमे—
कक्षोपस्थशिखावर्ज्जमृतुसन्धिषु वापयेत् ॥
धर्म्मप्रवृत्तौ—
वापयेत्सर्वरोमाणि कक्षोपस्थशिखां विना ॥
अथ प्रसङ्गात्सामान्यक्षौरनिर्गयः ।वीरमित्रोदये व्यासः—
चतुर्थीं चैव षष्ठीं च अष्टमीं च चतुर्दशीम् ।
तथा पञ्चदशीं चैव ब्रह्मचारी भवेत्सदा ॥
श्मश्रुकर्म्म शिरोऽभ्यङ्गं दन्तधावनमज्जनम् ॥
वर्ज्जयेदिति शेषः । मरीचिः—
षष्ठ्यां पर्वसु पक्षादौ रिक्तामन्दातिथिष्वपि ।
कृते श्राद्धे विवाहे च क्षौरं वर्ज्यं निशासु च ॥
गर्गः—
षष्ठ्यमा पूर्णिमा पातश्चतुर्दश्यष्टमी तथा ।
आशुसन्निहितं पाप निलेमांसेक्षुरे भगे ॥
वीरमित्रोदये—
शन्याररविवारेषु रात्रौ पाते व्रतेऽहनि ।
श्राद्धाहे प्रतिपद्रिक्तां भद्रां क्षौरे विवर्जयेत् ॥
वराहसंहितायाम्—
न स्नानमात्रगमनोत्सुकभूषिताना-
मभ्यक्तभुक्तरणकालनिगसनानाम् ।
सन्ध्यानिशाशनिकुजार्कदिने च रिक्ते
**क्षौरं हितं न नवमेऽह्निन चापि विष्ट्याम् ॥ **इति ।
स्नानमात्रमित्यत्र नित्यनैमित्तिककाम्यस्नानानन्तराभ्यतिकालो निषिध्यते । यत्र तु तीर्थप्रायश्चित्तादौ स्नानानन्तरमेव श्रौरविधानं तत्र न दोषो विधिबलात् । गमनोत्सुको ग्रामान्तरे गमनेच्छु । भूषितः घृतोत्त-मवस्त्रभूषणादिः । अभ्यक्तस्तैलेन । भुक्तो भुक्तवान् । रणकालो युद्धोद्य मकालः । निरासनः आसनरहितः । ईदृशस्य क्षौरनिषेधः सूचनार्थः। नक्षत्रादीनि चूडाकर्म्मोक्तानि ग्राह्याणि ।कालविधाने—
अशुभर्क्षे कृते क्षौरे क्षिप्रं कुर्य्यात्पुनः शुभे ।
**आहिताग्नेःपर्व्वदिने द्वादश्यां च प्रशस्यते ॥**इति ।
अत्रापि जन्मर्क्षजन्ममासौ निषिद्धों राजमार्त्तण्डे—
देवकार्य्येपितृश्राद्धे रवेरंशपरिक्षये ।
क्षुरकर्म्मन कुर्व्वीत जन्ममासे न जन्मभे ॥
अंशपरिक्षयःसौरमासान्तिमदिनम् ।बीरमित्रोदये गर्गः—
न देवपितृकार्य्यान्ते न पक्षादौ वपेन्नरः ।
**उपोषितोऽथ जन्मर्क्षेपक्षान्ते च विशेषतः ॥ **इति ।
उपोषितो व्रतादौ । सर्वनिषेधापवादमाह वराहमिहिरः—
नृपाज्ञया ब्राह्मणसम्मतेच विवाहकालेमृतसूतके च ।
बन्धस्य मोक्षे क्रतुदीक्षणेषु सर्वेषु शस्तं क्षुरकर्म्म भेषु ॥
बृहस्पतिः—
राजकार्य्यनियुक्तानां नटानां रूपजीविनाम् ।
श्मश्रुरोमनखच्छेदे नास्ति कालविशोधनम् ॥
नृपक्षौरे विशेषः । तत्र श्रीपतिः—
श्मश्रुकर्म्मपञ्चमे पञ्चमेऽह्निभृभुजाम् ।
क्षौरभस्य चोदये निन्द्यतारका न चेत् ॥
निन्द्यतारकाः जन्मत्रिपञ्चसप्तमताराः । गर्गोऽपि—
क्षौरकम महीशानां पञ्चमे पञ्चमेऽहनि ।
**कर्त्तव्यं क्षौरनक्षत्रेऽप्यथ वा तमुहूर्त्तके ॥**इति ।
इति श्रीप्रथमाखीयरामकृष्णाविराचिते पारस्करगृह्यसूत्रविवरणे सस्कारगणपतौ द्वितीयकाण्डे प्रथमा काण्डका ।
<MISSING_FIG href="../books_images/U-IMG-1696179396G.PNG"/>
अथाऽस्य स्पष्टमयोगो लिख्यते । प्रथमवर्षसमाप्तौ द्वितीयवर्षारम्भेतृतीयेऽपूर्णे वा पञ्चमे अथवा उपयनदिने एवोपनयनात्प्राक् कार्य्यम् ।कर्त्ता पूर्वाह्णेदेशकालौस्मृत्वा, “अस्य कुमारस्य बीजगर्भसमुद्भवैनोनिबर्हणेन बलायुर्वर्च्चोऽभिवृद्धिद्वारा श्रीपरमेश्वरप्रीये चूडाकर्म्माहं करिष्य” इति सङ्कल्प्य, पूर्ववत् गणेशपूजनपुण्याहवाचनमातृकापूजननान्दीश्राद्धं कृत्वा आभ्युदयिकश्राद्धव्यतिरिक्तान् त्रीनू ब्राह्मणाम्भोजयेत् । बहिःशालायां स्थाण्डिले पञ्चभूसंस्कारान् कृत्वा लौकिकाग्निं स्थापयेत् ।माता पुत्रं स्थापयित्वा वाससी परिधाप्य, उत्सङ्गे कृत्वा अग्नेः पश्चाद्भर्तुर्दक्षिणे उपविशति । ततो ब्रह्मोपवेशनादि कार्य्यम् । तण्डुलवर्ज्जमासादनमुपकल्पनीयम् ।शीतोदकार्थं भाण्डम् । उष्णोदकार्थं भाण्डम् । शीतोदकम् ।उष्णोदकम् । दधिवा नवनीतं वा आज्यं वा । त्र्येणी शलली । त्रीणि कुशतरुणानि ।पृथग्बद्धानि ।नवताम्रपरिष्कृतक्षुरः । अनडुद्गोमयपिण्डम् । नापितश्चेति । पर्य्युक्षणान्ते होमः ।
“ॐ प्रजापतये स्वाहा । इदं प्रजापतये न मम ॥ ॐ इन्द्राय स्वाहा ।इदमिन्द्राय न मम ॥ ॐ अग्नये स्वाहा ।इदमग्नये० ॥ ॐ सोमाय स्वाहा ।इदं सोमाय०॥ ॐ सूः स्वाहा ।इदमग्नये० ॥ ॐ भुवः स्वाहा । इदं वायवे० ॥ॐ स्वः स्वाहा । इदं सूर्याय० ॥ त्वन्नः० ।मत्वन्नः० । अयाश्चाग्ने० । ये ते शतम्० ।ॐप्रजापतये स्वाहा । इदं प्रजापतये० ॥ ॐअग्नये स्विष्टकृसे स्वाहा । इदमग्नये स्विष्टकृते० “॥ ततः संस्रवप्राशनं पवित्राभ्यां मार्ज्जनम् । पवित्रप्रतिपत्तिः । ब्रह्मणे पूर्ण-पात्रदानम् ।प्रणीताविमोकः ।पत्न्या दक्षिणतउपविश्य ततः शीतोद कार्थभाण्डे शीतोदकं क्षिपेत् । उष्णोदकार्थभाण्डे उष्णोदकं क्षिपेत ।ततः शीतोदके उष्णोदकप्रासिञ्चति । तत्र मन्त्रः —“ॐ उष्णेन वाय उदकेनेह्यदिनेकेशान्वप” । तत उष्णोदकं शीतोदके क्षिपेत् । तत्रैव घृतपिण्डं क्षिपेत् ।तूष्णीं तदुदकं गृहीत्वा ।“ॐ सवित्रा प्रसूता दैव्या आप उदन्तु ते तनूम ।दीर्घायुत्वाय वर्च्चमे” ।इत्यनेन मन्त्रेण दक्षिण गोदानं केशमूले आर्द्रं करोति । ततस्त्र्येण्या शलल्या मध्ये केशान् विनीय, “ओषधे त्रायस्व स्वधिते मैन<MISSING_FIG href=”../books_images/U-IMG-169618053350.png”/>हि<MISSING_FIG href=”../books_images/U-IMG-169618055350.png"/>सीः" इत्यनेन मन्त्रेण त्रीणि कुशतरुणानि शिरोऽग्राणि अन्तर्द्दध्यात् । शिरोऽग्राणि उर्ध्वमूलानि । “ॐ शिवो नामासि स्वधितिस्ते पिता नमस्ते अस्तु मा मा हि<MISSING_FIG href="../books_images/U-IMG-169618070250.png"/>सी" इत्यनेन मन्त्रेण कल्पितक्षुरमादाय, “ॐ निवर्तयाम्यायुषेऽन्नाद्या प्रजननाय रायस्पोषाय सुप्रजास्त्वाय सुवीर्य्याय" इत्यनेन मन्त्रेण क्षुरस्य गोदाने संलग्नीकरणम् । ॐ येनावपत्सविता क्षुरेण सोमस्य राज्ञोवरुणस्य विद्वान् ।तेन ब्रह्माणो वपतेदमस्यायुष्यं जरदष्टिर्यथाऽसत्" इत्यनेन मन्त्रेण सकेशानि दर्भतरुणानि मध्ये च्छित्वा अनडुहोगोमयपिण्डे उत्तरतो ध्रियमाणे प्रक्षिपति । एवमेवापरं वारद्वयम् ।उन्दनम् केशविनयनम्। कुशतरुणान्तर्धानम् ।क्षुरनिधानम् ।सकेशकुशत-रुणप्रच्छेदनम् । गोमयपिण्डे स्थापनं तूष्णीं कुर्य्यात् । “एकद्रव्ये कर्म्मावृत्तौ सकृन्मन्त्रवचनं कृतत्वा”दितिकात्यायनवचनात् । एवमेव पश्चिमोचरयोर्गो-
दानयोः । पश्चिमगोदानच्छेदने मन्त्रः–“ॐ त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषम् । यद्देवेषु त्र्यायुषन्तन्नोऽअस्तु त्र्यायुषम्" । उत्तरगोदानच्छेदने मन्त्रः –“ॐ येन भुरिश्चरा दिवं ज्योक्च पश्चाद्धि सूर्य्यम् ।तेन ते वपामि ब्रह्मणा जीवातवे जीवनाय सुश्लोक्याय स्वस्तये ।" अन्यत्सर्वं समानम् ।द्विस्तूष्णीं च समानम् ।“ॐ यत्क्षुरेण मज्जयता सुपेशसा वप्त्वा वा वपति केशॉश्छिन्धि शिरो मास्वायुः प्रमोषीः" इत्यनेन मन्त्रेण दक्षिणकर्णादारभ्य शिरसः समन्तात् प्रदक्षिणं क्षुरभ्रामणं सकृन्मन्त्रेण द्विस्तूष्णीम् । ततस्तेनैवोदकेन शिरस करणम् ।नापितहस्ते क्षुरं दद्यात् “अक्षण्वन्परिवप" इत्यनेन मन्त्रेण । “वपामी”ति नापितो ब्रूयात् । कुमारस्य वपनं नापितः करोति । तेषामेव केशान शिखाकरणम् । शिखारक्षणं यस्य कुले यथैवोक्तंतथा कर्त्तव्यम् । तं सकेशं गोमयापिण्ड वस्त्रादिना गोपयित्वा उदकसमीपे भूमौ गोष्ठे वा गोपयेत् । सुगन्धतैलेनोद्वर्त्तनेन कुमारस्याभ्यङ्गं कुर्य्यात् । तत आचार्य्याय वरद नम् । ततो ब्राह्मणभोजनसङ्कल्पः। भूयसीं दक्षिणां दद्यात् । द्वितीयेऽह्नि चतुर्थे वा मातृकाविसर्ज्जनम् । सर्वेषु संस्कारकर्म्मसु गर्भाधानादिविवाहान्तेषु पितैव कर्त्ता।
इति श्रीप्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्रविवरणे संस्कारगणपतौ चूडाकरण प्रयोगः ॥
<MISSING_FIG href="../books_images/U-IMG-1696222759H.PNG"/>
अथ बालकस्याक्षरारम्भविधानम् । तत्कालमाइ नृसिंहः—
अक्षरस्वीकृतिः प्रोक्ता प्राप्ते पञ्चमहायने ।
उत्तरायणगे सूर्य्येकुम्भमासं विवर्ज्जयेत् ॥
अथ नक्षत्राणि—
हस्तादित्यमरुन्मित्ररौद्रपौष्णाश्विचित्रभम् ।
श्रवणं च प्रशस्तं स्यादक्षरग्रहणे शिशोः ॥
अथ पक्षः । मुहूर्त्तसङ्ग्रहे—
उत्तरायणगे सूर्य्येकुम्भमासं विवर्ज्जयेत् ।
पूर्वपक्षःशुभः प्रोक्तः कृष्णे चान्त्यत्रिकं विना ॥
अथात्र तिथयः । तत्र मार्कण्डेयः—
षष्ठीं प्रतिपदं चैव वर्ज्जयित्वा तथाष्टमीम् ।
रिक्तांपञ्चदशीं चैव सौरिभौमदिनं तथा ॥
अथ वाराः । तत्र मार्कण्डेयः—
वारे दिनेशभृगुपुत्रबृहस्पतीनां विद्वानसौ भवति योऽतिविमूढबुद्धिः।
चन्द्रे च चन्द्रतनये त्वकृशेच सर्वं विघ्नं भवेदवनिजे रविजे विनाशः ॥
नृसिंहः—
शुभाः पापाश्च रन्ध्रस्थाःसर्वे नेष्टाःसदा ग्रहाः ।
भ्रातृषष्ठयकर्म्मस्थाः पापाःसर्व्वेशुभावहाः ॥
शुभाःकेन्द्रत्रिकोणस्था धनभ्रातृगताःशुभाः ।
सर्वे त्वभिप्रशस्ताः स्युग्क्षरग्रहणे शिशोः ॥
अत्र सिंहस्थादिनिषेधोऽभिहितो राजमार्त्तण्डे—
विद्यारम्भःप्रशस्तो भवति मधुरिपौ प्राप्तबोधे शशाङ्के
शस्ते तीक्ष्णद्युतौ च त्रिदशपतिगुरावुद्गते चाथ शुक्रे ।
स्वाध्याये सिंहसंस्थं खरकिरणयुतं देवपूज्यं विहाय
शुक्रादित्येज्यवारे त्रिदशपतिगुरौ केन्द्रसंस्थे न पापे ॥
अथेतिकर्त्तव्यता । तत्र वशिष्ठः—
समुद्गते भास्वति पञ्चमेऽब्देप्राप्तेऽक्षरस्वीकरणं शिशूनाम् ।
सरस्वतीं विघ्नविनायकं च गुडौदनाद्यैरभिपूज्य कुर्य्यात् ॥
देवतान्तरं पूजाप्रकारं चाहमार्कण्डेयः—
अभ्यङ्गस्नानपूर्वन्तु गन्धाद्यैश्चविभूषितः ।
शुक्लवस्त्रं समास्तीर्य्यतण्डुलोपरि पूजयेत् ॥
पूजयित्वा हरिं लक्ष्मीं देवीं चैव सरस्वतीम् ।
स्वविद्यासुत्रकारांश्च स्वां विद्यां च विशेषतः ॥
सूत्रकाराः पाणिन्यादयः । विद्याश्च पाणिनिव्याकरणादयः ।
एतेषां चैव देवानां नाम्ना तु जुहुयाद्धृतम् ।
दक्षिणाभिर्द्विजेन्द्राणां कर्त्तव्यं चात्र पूजनम् ॥
प्राङ्मुखो गुरुरासीनो वरुणाशामुखं शिशुम् ।
अध्यापयीत प्रथमं द्विजाशीर्भिःप्रपूजितम् ॥
ब्राह्मणानां गुरूणां च देवतानामनन्तरम् ।
ततः सम्पूज्य वित्तन धात्रीं राम ! गुरुँस्तथा ॥
ततः प्रभृत्यनध्यायान्वर्ज्जनीयान्त्रिवर्ज्जयेत् ।
अष्टमीद्वितयं राम ! पक्षान्ते च दिनत्रयम् ॥
आशौचे चेन्द्रयातरायां भूकम्पे राहुदर्शने ।
व्यतीपाते त्वहोरात्रे मुक्त्वा पातं तथैव च ॥
अकालस्तनितेचैव निर्ज्योतिषि तथाम्बरे ।
तथा काले प्रचण्डश्चयदा वायुस्तदा भवेत् ॥
प्रदोषे चाथ संशुद्धे चैत्यवृक्षेचतुष्पथे ।
गोस्थाने कुञ्जरे चाश्वेन चैत्येऽपि तथा पठेत् ॥
श्वशृगालरवैर्घोरैस्तथाच खरनिःस्वनैः ।
तथा वादित्रशब्दे च प्रवृत्ते नगरोत्सवे ॥
इति श्रीप्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्रविवरणे
संस्कारगणपतौ वालस्या-क्षरारम्भविधानम् ॥
<MISSING_FIG href="../books_images/U-IMG-1696260786I.PNG"/>
अथेदानीं प्रसङ्गादनुपनीतधर्म्माः कथ्यन्ते । स च त्रिन्निवः । शिशुर्बालःकुमारश्चेति । तल्लक्षणमाह बृद्धशातातपः—
प्राक्चूडाकरणाब्दालःप्रागन्नप्राशनाच्छिशुः ।
कुमारकस्तु विज्ञेयो यावन्मौजीनिबन्धनम् ॥
तेषां चापृश्यस्पर्शनादौशुद्धिभेदमप्याह स एव—
शिशोरभ्युक्षणं प्रोक्तं बालस्याचमनं स्मृतम् ।
रजस्वलादिसंस्पर्शे स्नातव्यं तु कुमारकैः ॥
रजस्वलादीत्यत्रादिशब्देनाऽस्पृश्यानां म्लेच्छचाण्डालसूतिकादीनां ग्रहणम् ।कुमाराणां स्नानं नाम सर्वाङ्गजलसंयोगमात्रम् नेतिकर्तव्यता, मन्त्राद्यभावात् ।
स्नानं सर्वाङ्गसंयोगो वारिणा परिकीर्त्तितः ॥
इति वीरमित्रोदये स्मरणात् ।धर्म्मान्तरमप्याह स्मृतिचन्द्रिकायां गौतमः—
“प्रागुपनयनात्कामचारकामवादकामभक्ष” इति । कामचार इच्छाचरणम् ।कामवादः अश्लीलादिभाषणम् ।कामभक्षः पर्य्युषितान्नादिभक्षणम् । एतेषु क्रियमाणेषु उपनयनात्प्राङ्नदोष इति भावः । तथा च वीरमित्रोदये विष्णुपुराणवचनम्—
भक्ष्याभक्ष्येतथाऽपेये वाच्यावाच्ये तथानृते ।
अस्मिन्काले न दोषोऽस्ति स यावन्नोपनीयते ॥
ब्रह्मपुराणेऽपि—
मातापित्रोरथोच्छिष्टं बालो भुञ्जन्भवेत्सुखी ॥
न तु ब्रह्महत्यासुरापानाद्यतिप्रसङ्गः । तथा च विधानपारिजाते स्मृत्यन्तरम्—
स्यात्कामचारभक्ष्योक्तिमर्हतः पातकदृते ॥ इति ।
महापातके प्राप्ते पित्रादिभिः प्रायश्चित्तं कार्य्यम् । तथा चोक्तं विधानपारिजाते पाराशरेण—
अनुपेतस्तु यो विप्रोमद्यं मोहात्तिवेद्यदि ।
तस्य कृच्छत्रयं कुर्य्यान्माता भ्राता पिताऽथवा ॥
वीरमित्रोदये—
बैश्वदेवपुरोडाशमग्निमध्ये च यद्धुतम् ।
प्रमादाच्छिशुराकर्षन्मात्रा रक्ष्यः प्रयत्नतः ॥
इदन्त्वतिबालविषयम् । तदाचारविषये वशिष्ठः—
नह्यस्य विद्यते कर्म्म किञ्चिदामौजिबन्धनात् ।
वृत्त्याशुद्रसमस्तावद्यावद्वेदे न जायते ॥ इति ।
पुनरिति शेषः । गौतमोऽपि “यथोपपादमृत्रपुरीषो भवती"ति । यथोपपाद यथासम्भवं मूत्रपुरीषे यस्य स तथोक्तः । तेनास्योदङ्मुखत्वादिनियमो नास्तीत्यर्थः। किञ्च “न त्वेवैनमग्निहवनबलिहरण-
योर्नियुञ्ज्यात्" इति । एवमनुपनीतमग्निहवने औपासनहोमाहौ बलिहरणे वैश्वदेवादौ न नियुञ्जीतेत्यर्थः । तथा च मनुः—
नैव कन्या न युवतिर्नाल्पविद्यो न बालिशः।
होता स्यादग्निहोत्रस्य नार्त्तोनासंस्कृतस्तथा ॥
कन्या कुमारिका । किञ्च “न ब्रह्माभिव्याहरेदन्यत्र स्वधानिनयना"दिति ।ब्रह्म वेदस्तमनुपेतो नोच्चारयेत् । तस्यापवादः–स्वधानिनयनं प्रेतकर्म्म तस्माद्विना । तथा च वशिष्ठः–
नह्यस्य विद्यते कर्म्म किञ्चिदामौञ्जिवन्धनात् ॥ इति ।
“अथाप्युदाहरन्ति, अन्यत्रोदकधर्म्मस्वधापितृसंयुक्तेभ्यः” इति । उदकं तिलाञ्जलिदानादि । धर्म्म आशौचिनां कटशयनादिः । स्वधाश्राद्धमेकोद्दिष्टसपिण्डनमासिकवार्षिकादि । पितृसंयुक्तं शय्यादान-वृषोत्सर्गादि पितृसंयोगविशेषात् एतेभ्योऽन्यत्रैतानि विहायेत्यर्थः । तेनैतेष्वनुपेतस्यापि मन्त्रोच्चारणं सिद्ध्यति । तदपि कृतचूडस्य त्रिवर्षस्य वा द्रष्टव्यम् ।
अनुपेतोऽपि कुर्वीत मन्त्रवत्पैतृमेधिकम् ।
यद्यसौ कृतचूडःस्याद्यदि स्याच्च त्रिवर्षकः ॥
इति सुमन्तुस्मरणात् । तथा च व्याघ्रपादः—
कृतचूडस्तु कुर्वीत उदकं पिण्डमेव च ।
स्वधाकारं प्रयुञ्जीत वेदोच्चारं न कारयेत् ॥
सङ्गहेऽपि—
कृतचूडोऽनुपेतस्तु पित्रोः श्राद्धं समाचरेत् ।
उदाहरेत्स्वधाकारं न तु वेदाक्षराण्यसौ ॥
इदं च वचनद्वयं प्रथमवर्षविषयम् ।कृतचूडस्य त्रिवर्षस्य पैतृके मन्त्राधिकारोऽस्ति । वीरमित्रोदये मनुः—
कुर्य्यादनुपनीतोऽपि श्राद्धमेकोऽपि यः सुतः ।
पितृयज्ञाहुतिं पाणौ जुहुयान्मन्त्रपूर्वकम् ॥
तथा व कात्यायनः—
असंस्कृतेन पत्न्या च ह्यग्निदाहः समन्त्रकम् ।
**कर्त्तव्यमितरत्सर्वं कारयेदन्यमेव हि ॥**इति ।
अयं च पैतृकमन्त्राविकारोऽनुपेतस्यौरसस्यैव । तथा च वीरमित्रोदये स्कन्दपुराणम्—
पित्रोरनुपनीतोऽपि विदध्यादौरसः सुतः ।
और्ध्वदेहिकमन्ये तु संस्कृताः श्राद्धकारिणः ॥ इति ।
और्ध्वदेहिकं समन्त्रकमिति शेषः । तथा च सुमन्तुः—
नाभिव्याहारयेद्ब्रह्म यावन्मौजी न बध्यते ।
**मन्त्राननुपनीतोऽपि पठेदेवैक औरसः ॥ **इति ।
और्ध्वदेहिके इति शेषः । इत्यनुपनीतधर्म्माः ।
अथ प्रसङ्गाद्बालपितृधर्म्माअप्युच्यन्ते । विष्णुधर्मात्तरे—
अपथ्यं न च बालानां तथा भार्गव ! पश्यताम् ।
प्रार्थितं वालकानां च दातव्यं स्याद्धितं ततः ॥
बालानां प्रार्थितं दत्वा नाकलोके महीयते ।
बालकाश्चानुनेयाः स्युर्धर्म्मकामैःसदा नरैः ॥
तेषां भोज्यप्रदानेन गोदानफलमाप्नुयात् ।
तेषां क्रीडनकं दवा मोदते नन्दते दिवि ।
आह्वादयन्ति सततं यस्मिन्पृष्ठे न बालकाः ॥
दौर्भाग्यं महदाप्नोति यत्र यत्राभिजायते ।
तस्मात्सर्वप्रयत्नेन बालानग्रे तु भोजयेत् ॥
अभुक्तवत्सु बालेषु न चाश्नीयात्कदाचन ।
यन्नदद्यान्न चाश्नीयात्कदाचिदपि च स्वयम् ॥
इति श्रीप्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्रविवरणे संस्कारगणपतौ
अनुपनीतबालपितृधर्माः ॥
<MISSING_FIG href="../books_images/U-IMG-1696304319J.PNG"/>
अथोक्तसंस्कारातिपत्तिप्रायश्चित्तम् । तत्र कात्यायनः—
संस्कारा अतिपद्येरन्स्वकालाच्चेत्कथञ्चन ।
कृत्वैतदेव कर्त्तव्या ये तूपनयनात्पुरा ॥
एतत्स्वयमेव वक्ष्यमाणम् । तस्मिन्कृतेऽपि कर्त्तव्या एव, तैरेवो-
पनयनयोग्यत्वात् । तथा च देवलः—“प्रथमं मातापितृभ्यां गर्भाधानादिभिःसंस्कृतो गर्भाष्टमे वर्षे तूपनयनाही भवती"ति । इदं च तेषां गौणकालसद्भावे, तदतिक्रमे तु प्रायश्चित्तमात्रमेव ।तदाह भृगुः—
गर्भाद्यसंस्कृतस्थापि कर्त्तव्यं चोपनायनम् ।
प्रायश्चित्तन्तु पूर्वेषां नौपनायनिकस्य तु ॥
**श्रौतस्मार्त्ताधिकारी स्यान्नौपनायनिकं विना ॥**इति ।
तदेतत्प्रायश्चित्तमाह कात्यायनः—
लुप्ते कर्म्मणि सर्वत्र प्रायश्चित्तं विधीयते ।
प्रायश्चिते कृते तस्माल्लुप्तं कर्म्म समाचरेत् ॥
स्मृत्यर्थसारेऽप्येवमेव ।कारिकायां यद्यपि “लुप्तं कर्म्म कृताकृत"मिति, तथापि कात्यायनोक्तेः,
कालातीतानि कृत्वैव विदध्यादुत्तराणि तु ॥
इति मण्डनोक्तेश्च, कात्यायनादियाजुषां लुप्तकर्म्मकरणमेव युक्तम् । अतीतसंस्काराणां युगपत्करणे सकृदेवाभ्युदयिकम् ।“गणशः क्रियमाणाना"मिति च्छन्दोगपरिशिष्टात् ।बह्वपत्यानां युगपत्संस्कारविषयमिति बोपदेवः । तत्र विधिः—
त्वन्नः सत्वन्न इत्याभ्यामिमम्मे त्येतया ऋचा ।
ये ते शतमयाश्चाभ्यामुत्तममृचाऽऽहुतीः ॥
हुवा पृथक्पृथक्पादमर्धं चौले समाचरेत् ।
स्त्रीणामप्येवमेवं स्याज्जाताद्या मन्त्रिकाः क्रियाः ॥ इति ।
शौनकोऽपि—
आरभ्पाधानमाचौलात्कालातीते तु कर्म्मणाम् ।
व्याहृत्याज्यं सुसंस्कृत्य हुत्वा कर्म्म यथासुखम् ॥
एतेष्वेकैकलोपेऽपि पादकृच्छ्रं समाचरेत् ।
चूडायामकृच्छंस्यादापदि त्वेवमीरितम् ॥
अनापदि तु सर्वत्र द्विगुणद्द्विगुणं चरेत् ॥
गर्भाधानाद्यन्नप्राशनान्तानां कर्म्मणां मध्ये एकैकस्य सर्वेषां वा
लोपे तत्तल्लोपनिमित्तं प्रत्येकं पातकृच्छंप्रायश्चित्तं तन्त्रेण वा कृत्वा अनादिष्टहोमं च कृत्वा अतिक्रान्तसंस्कारान् कृत्वा चौलारम्भः कार्य्यः। अथ अनादिष्टप्रायश्चित्तहोमे पदार्थक्रमः ।तत्र प्रयोगःदेशकालौ स्मृत्वा “ममास्य कुमारस्य यथाकाले गर्भाधानाद्यकरणजनितदोषपरिहारार्थं गोमूल्यप्रयाम्नायद्वारालुप्तसंस्कारसंख्यपादकृच्छ्राण्याचरिष्ये"इति सङ्कल्प्य साङ्गमङ्गंवा प्रायश्चित्तं कालान्तरे रिक्तासु तिथिषु समाप्य प्रायश्चित्तहोमं कुर्य्यात् । तद्यथा–पञ्चभूसंस्कारपूर्वकमग्निसंस्थाप्य स्थाल्यामाज्यस्य निर्वापः स्रुवमार्ज्जनम् ।
उद्वास्योत्पवनावेक्ष्य स्रुवेणाहुतिरेव च ॥
ताम्रादिपात्रे आज्यं निक्षिप्य अग्नौअधिश्रित्य लौकिककुशैः स्रुवं संसृज्य उद्वास्य कुशाभ्यामुत्पूय अवेक्ष्य दक्षिणं जान्ववाच्य हृदि सव्यहस्तं निधाय मौनी जुहुयात् ।"ॐभूःस्वाहा ।इदमग्नये न मम ।ॐ भुवः स्वाहा ।इदं वायवे न मम ।ॐस्वः स्वाहा ।इदं सूर्याय न मम।ॐ भूर्भुवः स्वः स्वाहा । इदं प्रजापतये न मम ।त्वन्नो अग्रे० । सत्वन्नो अग्ने० । अयाश्चाग्ने० ।ये ते शतम् ० । उदुत्तमम् ०" । त्यागास्तु पूर्ववत् । इति नवाहुतिं हुत्वा विष्णुस्मरणम् । अथानन्तरं कर्म्मकरणम् ।
इति श्रीप्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्रविवरणे
संस्कारगणपतौ संस्कारातिपत्तिप्रायश्चित्तम् ।
<MISSING_FIG href=”../books_images/U-IMG-1696088099F.PNG”/>
( द्वितीया कण्डिका )
** **अष्टवर्षं ब्राह्मणमुपनयेद्गर्भाष्टमे वैकादशवर्षराजन्यन्द्वादशवर्षं वैश्यं यथामङ्गलं वा सर्वेषां ब्राह्मणान्भोजयेत्तं च पर्युप्तशिरसमलङ्कृतमानयन्ति पश्चादग्नेर वस्थाप्य ब्रह्मचर्यमागामिति वाचयतिब्रह्मचार्यसानीति चार्थैनं वासः परिधापयति येनेन्द्राय बृहस्पतिर्वासः पर्यदधादमृतम् । तेन त्वा परिदधाम्घायुषे दीर्घायुत्वाय बलाय वर्च्चस इति मेखलां बध्नीत इयं दुरुक्तं परिवाधमाना वर्णं पवित्रं पुनती म आगात् । प्राणापानाभ्वांबलमादधाना स्वसा देवी सुभगा मेखलेयमिति युवा सुवासाःपरिवीत आगात्स उ श्रेयान्भवति जायमानः । तं धीरासः कवय उन्नयन्ति स्वाध्यो मनसा देवयन्त इति वा तूष्णीं वा ( त्र यज्ञोपवीतपरिधानं यज्ञोपवतिं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् ।आयुष्यमग्यंप्रतिमुञ्च शुभ्र यज्ञोपवीतं बलमस्तु तेजः । यज्ञोपवीतमसि यज्ञस्य त्वा यज्ञोपवीतेनोपनह्यामीत्य )थाजिनं प्रयच्छति मित्रस्य चक्षुर्द्धरुणं बलयिस्तेजो यशस्वि स्थावरर्ठ० समिद्धम् ।अनाहनस्यं वसनं जरिष्णुः परीदं वाज्याजेनं दधेऽ-हमिति वा तूष्णीं दण्डं प्रयच्छति तं प्रतिगृह्णाति यो मे दण्डः परापतद्वैहायसोऽधि भूम्याम् । तमहं पुनराद आयुषे ब्रह्मणे ब्रह्मवर्चसायेति दीक्षावदेके दीर्घसत्रमुपैतीति वचनादास्पाद्भिरञ्जलि-नाऽञ्जलिं पूरयत्यापो हि ष्टोते तिसृभिरपैनर्ठ०सूर्यमुदक्षियति तच्चक्षुरित्यथास्य दक्षिणा<MISSING_FIG href="../books_images/U-IMG-16960894671.png"/>समधि हृदयमालभते मम व्रते ते हृदयं दधामि मम चित्तमनु चित्तं तेऽअस्तु ।मम वाचमेकमना जुषस्व-
बृहस्पतिष्ट्वानियुनक्तु मह्यमित्यथास्य दक्षिण<MISSING_FIG href="../books_images/U-IMG-16961226971.png"/> हस्तं गृहीत्वाऽऽह को नामासीत्यसायहं भो३इति प्रत्याहार्थेनमाह कस्य ब्रह्मचार्यसीति भवत इत्युच्यमान इन्द्रस्य ब्रह्मचार्यस्यग्निराचार्यस्तवाहमाचार्यस्तवासावित्यथैनं भूतेभ्यः परिददाति प्रजापतये त्वा परिददामि देवाय त्वा सवित्रे परिददाम्यद्भ्यस्त्वौषधीभ्यः परिददामि द्यावापूथिवीभ्यान्त्वा परिददामि व्विश्वेभ्यस्त्वा देवेभ्यः परिददामि सर्व्वेभ्यस्त्वा भूतेभ्यः परिददाम्यरिष्टयाऽइति ॥२॥
अथोपनयनमाह “अष्टवर्षं ब्राह्मणमुपनयेदि"ति सूत्रम् । प्रसवानन्तरम् अष्टौ वर्षाण्यतीतानि यस्य बालकस्यासौ तं अष्टवर्षं ब्राह्मणं ब्राह्मणकुलोद्भवं द्विजोत्तममुपनयेत्, उपनयनाख्यसँस्कारेण सँस्कुर्य्यात् । तत्रोपनयनशब्दः कर्म्मनामधेयम् । तथा च भारद्वाजः—
उपायनाख्यं यत्कर्म विद्यार्थं तदुदीरितम् ॥इति ।
तच्च यौगिकम् न रूढम् । उप समीपे आचार्य्यादीनां बटोनतिर्नयनम्प्रायणमुपनयनम् । समीपे आचार्य्यादीनां नीयते बटुर्येन तदुपनयनमिति वा । तदुक्तं वीरमित्रोदये—
गुरोर्व्रतानां वेदस्य यमस्य नियमस्य च ।
देवतानां समीपे वा येनासौ नीयते द्विजः ॥ इति ।
सावित्रीवाचनं वोपनयनम् । तथा च कात्यायनः—
“गायत्र्या ब्राह्मणमुपनयीते"ति । मेघातिथिरपि “तयाह्यनुक्तया तन्त्र निष्पन्नं भवती"ति तस्मादूगायत्र्युदेश एवोपनयनपदार्थ इति । इदमेव द्वितीयं जन्मेत्याहगौतमः –“तद्द्वितीयं जन्म माता अत्रास्य सावित्री पिता त्वाचार्य्य “इति ।
उपायनाख्यं यत्कर्म्म विद्यार्थं तदुदीरितम् ॥
इति भारद्वाजोक्तत्वात्प्रतिवेदाध्ययनमुपनयनावृत्तिः सिद्ध्यति, “प्रतिप्रधानं गुणावृत्ति"रितिभ्यायात् । गुणत्वं च त्तत्तच्छाखीयस्यैवोपनयनस्य त्तत्तच्छाखाध्ययनम्प्रतीति मन्तव्यम्, अन्यथा प्रतिशाखं
तदाम्नानानुपपत्तेः । तथा चापस्तम्बः–“उपनयनं विद्यार्थस्य श्रुतितः संस्कार” इति । विद्या अर्थःप्रयोजनं यस्य स विद्यार्थः । येन वेदेन यस्य प्रयोजनं तच्छुत्या संस्कारस्तस्योपनयनम्, नान्यवेदेनोपनीतस्यान्यवेदाध्ययनमित्यर्थः । वशिष्ठोऽपि—
यच्छाखीयैस्तु सँस्कारैः सॅस्कृतो ब्राह्मणो भवेत् ।
तच्छाखाध्ययनं कार्य्यमन्यथा पतितो भवेत् ॥ इति ।
तदशक्तावाहापस्तम्बः —“सर्वेभ्यो वै वेदेभ्यः सावित्र्यनूच्यत इति हि ब्राह्मण"मिति । वै शब्दो वार्थ इति धूर्त्तस्वामिनः ।
त्रिभ्य एव तु वेदेभ्यः पादं पादमदुदुहत् ।
तदित्यृचोऽस्याःसावित्र्याःपरमेष्ठी प्रजापतिः ॥
इति मनुस्मरणात् । अस्मिन्नपि पक्षे अथर्ववेदाध्ययनार्थं पृथगेवोपनयनं कार्य्यम् । तथा च वीरमित्रोदये तदीयैव श्रुतिः — “नान्यत्र सँस्कृतो भृग्वङ्गिरसोर्विधीयते” इति । अथोपनयननिर्णयः । तत्र ब्राह्मणक्षत्रियविशामुपनयनम् । “वसन्ते ब्राह्मणमुपनयीत, गर्भाष्टमे वाष्टमे"इत्यादिश्रुतिस्मृतिभ्यामेव सिद्धम् ।शूद्राणान्तु न भवत्येव । “अशूद्राणामदुष्टकर्म्मणामुपनयन”मिति आपस्तम्बेन शूद्रपर्य्युदासात् । “शुद्रजाति"रिति गौतमेन तस्यैव जातित्वाभिधानात् । तच्च पित्रादिना पुत्रादीनां कार्य्यमिति वक्ष्यते । ते च पुत्रादयो द्विविधाः, औरसाःक्षेत्रजादयश्च । तांश्चाह याज्ञवल्क्यः—
औरसो धर्म्मपत्नीजस्तत्सम पुत्रिकासुतः ।
क्षेत्रजादयश्चाहयाज्ञवल्क्यः—
क्षेत्रजः क्षेत्रजातस्तु सगोत्रेणेवरेण वा ॥
गृहे प्रच्छन्न उत्पन्नो गूढजस्तु सुतः स्मृतः ।
कानीनःकन्यथा जातो मातामहसुतो मतः ॥
अक्षतायां क्षतायां वा जातः पौनर्भवः स्मृतः ।
दद्यान्माता पिता यं वा स पुत्रो दत्तको भवेत् ॥
क्रीतश्च ताभ्यां विक्रीतः कृत्रिमः स्यात्स्वयं सुतः ।
दत्तात्मा तु स्वयं दत्तो गर्भेभिन्नः सहोढजः ॥
उत्सृष्टो गृह्यते यस्तु सोऽपविद्धो भवेत्सुतः ।
स्वजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः ॥
औरसा अपि द्विविधा–सजातीया विजातीयाश्च । तत्र सजातीयानामुपनयनं द्विजस्वेनैव प्राप्तम् । विजातीया अपि द्विविधाः —अनुलोमजाः प्रतिलोमजाश्च ।तत्रानुलोमजानामुपनयनमाह मनुः—
स्वजातिजानन्तरजाः षट् सुता द्विजधर्म्मिणः ॥ इति ।
अस्यार्थः—
स्त्रीष्वनन्तरजातासु द्विजैरुत्पादितास्तु ये ।
सदृशानेव तानाहुर्मातृदोषविगर्हितान् ॥
इत्यनेनानुलोमजाना यद्द्विजसादृश्यमुक्तं तत्र निमित्ताभिधानायेदमारभ्यते स्वजातिजेत—स्वजातिजाःसवर्णाः ताभ्योऽनन्तराः पश्चादनुकल्पत्वेनाम्नाताः । ब्राह्मणस्य क्षत्रिया वैश्या शूद्रा, क्षत्रियस्य वैश्या शूद्रा, वैश्यस्य शूद्रा, तासु ये जाता मूर्धावसिक्ताम्बष्ठनिषादमाहिष्योग्रकरणाः द्विजातीनां षट् सुतास्ते द्विजधर्म्मिणः। द्विजानां धर्म्मोद्विजधर्म्मः सोऽस्ति येषां ते द्द्विजधर्म्मिणः । द्विजात्युक्तोपनयनादिधर्मार्हा इत्यर्थः । यत्तु कश्चिन्निषादोग्रकरणपरिहारेण ब्राह्मणक्षत्रियवैश्यैः स्वजातिजैःसहानन्तरजातानां मूर्द्धावसिक्ताम्बष्ठमाहिष्याणां त्रयाणामेव षट् त्वमाभेप्रेत्य द्विजधर्म्मत्वं व्याख्यातं, तन्न सुन्दरम् ।“ब्राह्मणक्षत्रियविशां मातुरग्रे विजनन"मित्याद्युपदेशत् एव द्विजधर्म्म-त्त्वसिद्धौ द्विजधर्म्मातिदेशानर्थक्यात् । नचानन्तरजानां द्विजतुल्यत्वाभिधानेन द्विजवर्म्मप्राप्त्यर्थः सिद्धस्यैवानुवादोऽयमिति युक्तम् । तेनैवार्थसिद्धौ “षट्सुता द्विजधर्म्मिण” इति ।“षट्सुता द्विजधम्मिंणः, सदृशानेव तानाहुः, आत्मा वै पुत्रनामासि, आत्मातिजज्ञे, आत्मनः स एवायं विरूढः प्रत्यक्षेणोपलभ्यते तत्रात्मा जायते स्वयम्, येषामुभयतो वा ब्राह्मण्यं पितृत इत्येके” इति । पुत्रजनने मातुः प्राधान्यं पितुरिस्यन्ये । बीजप्राधान्यादयोनिजा अपि पुत्रा दृश्यन्ते द्रोणागस्त्यादयः । बीजप्राधा-
न्यदर्शनात् । तत्मात्सिद्धं षण्णामप्यनुलोमजानां द्विजस्वमिति । अत एवैतरेयब्राह्मणे निषादस्योपनयन-लिङ्ग सत्रानुष्ठानं दृश्यते । तद्यथा–“सरस्वतीतीरे सत्रमासानैर्ऋषिभिरिलषपुत्रः कवषनामा ऋषिर्दासीपुत्रः कितवो ब्राह्मणोऽस्माकं मध्ये कथं दीक्षिष्यति इति मत्यामरुद्देशे नीत्वा पातितः । अत्रैनं पिपासां हन्तु सरस्वस्युदकमप्ययं मापादिति तत्रायं पिपासाखिन्नोऽब्दैवतं “प्र देवत्रे"ति पञ्चदशर्चं सूतं सस्मार ।तत्प्रयोगप्रभावेण सरस्वत्येव स्वदेशमपहाय तं प्रत्यधावत् । ततस्ते तस्य देवतानुग्रहं वेदप्रभावं च ज्ञात्वा सत्रे तं समाहूय तत्सूक्तप्रयोगेण सरस्वतीमविन्दन्निति” ।“विदुन्न र्वा इमन्देवा” इत्यनेन उपनयनकालीनदेवतासम्प्रदानकबटुपरिदानमुक्तं भवति तेन हि ते तं जानते अयमस्मदीय इति । तस्मात्सिद्धं निषादस्योपनयनमिति ।रामायणे शरहतस्य ऋषिषुत्रस्य दशरथभ्प्रति वाक्यमपि—
न द्विजातिरहं शङ्कां ब्रह्मवध्याकृतां त्यज ।
ब्राह्मणेन त्वहं जातः शुद्रायां वसता वने ॥
तत्पितुर्वाक्यमपि—
कस्य चापररात्रेऽहं स्वाध्यायं कुर्वतो वने ।
श्रोष्यामि सुचिरं शब्दं पुण्यं शास्त्रमधीयते ॥ इति ।
महाभारतेऽपि दीर्घतमोपाख्याने—
तस्यां काङ्क्षीवदासीत्स शूद्रयोनावृषिस्तदा ।
जनयामास धर्म्मात्मा पुत्रानेकादशैव तु ॥
काङ्क्षीवद्दासीपुत्राँस्तान्दृष्ट्वा सर्वानधीयतः ।
**उवाच तमृषिं राजा ममेम इति भारत ! ॥ **इति ।
तत्रैव धृतराष्टोत्पत्तावपि—
धृतराष्ट्रश्च पण्डुश्च विदुरश्च महामतिः ।
जन्मप्रभृति भीष्मेण पुत्रवत्परिपालिताः ॥
सँस्कारैःसँस्कृतास्ते तु व्रताध्ययनसंयुताः ।
श्रमव्यायामकुशलाः समपद्यन्त यौवनम् ॥
धनुर्वेदे च वेदे च गदायुद्धेऽसिचर्म्मणि ।
तथैव गजशिक्षायां नीतिशास्त्रे च पारगाः ॥
इतिहासपुराणेषु नानाशिक्षासु बोधिताः।
**वेदवेदाङ्गतत्त्वज्ञाः सर्वत्र कृतनिश्रयाः ॥**इति ।
अस्त्वेवंनिषादादीनामुपनयप्राप्तिः,अथ येऽनुलोमजा अप्यूढोत्पन्नाः कुण्डलगोलकास्ते-षामुपनयनादि न सर्वस्मृतिसम्मतम् वर्णजातिलक्षणाभावात् । तथा चादिपुराणे—
सवर्णासु सवर्णैस्तु ये जायन्ते परैरपि ।
अवरोढकसंज्ञास्ते व्रतसंस्कारवर्ज्जिताः ॥
परैः स्वपत्यतिरिक्तैः । अवरोढक इति कुण्डलगोलकयोःसाधारणी संज्ञा ।देवलोऽपि—
द्वितीयेन तु यः पित्रा सधर्णायां प्रजायते ।
अवरोढइति ज्ञेयः शूद्रधर्म्मा स जातितः ॥
शुद्रधर्माऽनुपनेय इत्यर्थः । तथा–
व्रतहीनास्त्वसंस्कार्य्याःसवर्णास्वपि ये सुताः ।
उत्पादिताः सवर्णेन व्रात्या इति बहिष्कृताः ॥
अपिशब्दादसवर्णानुलोमासु जातानां सुतरामसंस्कार्य्यत्वमुक्तं भवति । अन्ये तु तयोरप्युप-नयनमिच्छन्ति । तथा च ब्रह्मपुराणम्—
**एवमेव द्विजैर्जातौ संकार्य्यौ कुण्डगोलकौ ॥**इति ।
एवं मूकाद्युपनयनविधिनेत्यर्थः । तत्कर्त्तव्यमप्युक्तं तत्रैव—
कुण्डो वा गोलको विप्रः सन्ध्योपासनमात्रवित् ।
स्नानभोजनसन्ध्यासु देवेषु स पठेच्चरेत् ॥
**एकान्ते कुटपे भुक्त्वा सदृशैस्सह सङ्गतः । **इति ॥
सन्ध्या त्रिकालजा ।उपासनं गृह्याग्नौ सायंप्रातर्होमः । मात्रशब्देन गायत्रीपुरश्चरणदर्शपूर्णमासस्थालीपाकादिनिवृत्तिः । विच्छब्देन तावन्मात्रोपयुक्तमन्त्राध्ययनमप्यनुज्ञायते, नैतावदेव, किन्त्वन्यदपीत्याह स्नानेति-स्नानं प्रातर्मध्याह्नयोः ।भोजनं सायंप्रातः । अत्र सन्ध्याश-
ब्देन सायंप्रातर्विहितौ वैश्वदेवो लक्ष्येते भोजनसन्निधानात् ।असंस्कृतान्नभोजननिषेधाच्च । अत्र पाठक्रमो न विवक्षितः, आह्निकक्रमप्रापकसामान्यप्रमाणसद्भावात् । देवो देवपूजा । एतेषु अधिकरणसप्तम्या निमित्तसप्तम्या वा कर्त्तव्येषु तत्तदुपयुक्तान्मन्त्रान् पठेत् । चरेदाचारं शौचाचमनादिकम् । परिगणनं चेदम्, इतरद्द्विजधर्म्मपरिसङ्ख्यार्थम् । श्राद्धन्तु सामान्यधर्म्मत्वाद्भविष्यति । तदेवं कुण्डगोलकयोः विधिनिषे धाभ्यामुपनयने विकल्पमेके मन्यन्ते । उक्तं च स्मृत्यर्थसारे—
केचिदाहुर्द्विजैर्जातौ संस्कार्यौकुण्डगोलकौ ।
संस्कार्य्यौमा भवत्यद्धा इति कैश्चिदुदीरितम् ॥
अमृते च मृते पत्यौ जारजौ कुण्डगोलकौ ॥
अथ मुकाद्युपनयनम् ।ब्रह्मपुराणे—
ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मणः स इति श्रुतिः ।
तस्माच्च षण्ढबधिरकुब्जवामनपङ्गुषु ॥
जडगद्गदरोगार्त्तशुष्काङ्गविकलादिषु ।
मत्तोन्मत्तेषु मूकेषु शयनस्थे निरिन्द्रिये ॥
ध्वस्तपुंस्त्वेषु चैतेषु संस्कार्य्याः स्युर्यथोचितम् ।
मत्तोन्मतौन संस्कार्य्याविति केचित्प्रचक्षते ॥
कर्म्मस्वनधिकाराच्च पातित्यं नास्ति वैतयोः ।
तदपत्यं च संस्कार्य्यमपरे त्वाहुरन्यथा ॥
संस्कारमन्त्रहोमादीन्करोत्याचार्य्य एव तु ।
उपनेयश्च विधिवदाचार्य्यःस्वसमीपतः ॥
आनीयाग्निसमीपे वा सावित्रीं स्पृश्य वा जपेत् ।
कन्यास्वीकरणादन्यत्सर्व्वं विप्रेण कारयेत् ॥
**एवमेव द्विजैर्जातौ संस्कार्यौकुण्डगोलकौ ॥**इति ।
अस्यार्थः—अत्र ऊढात्वविशेषणमनपेक्ष्यैव केवलब्राह्मणब्राह्मणीजन्यत्वेन गोलकाविसाधारणं ब्राह्मण्यमभिप्रेत्येदमुच्यते ब्राह्मण्यमिति । तेनेदं गौणं ब्राह्मण्यं तन्निमित्तक एवायमुपनयने गुणविकारः । कुब्ज-
वामनादिषु सत्यपि मुख्ये ब्राह्मण्ये कुब्जत्वादिनिमित्तक एवास्योपदेशस्तेन गुणविकारे निमित्तद्वयं सिद्ध्यति । गौणं ब्राह्मण्यं कुब्जत्वादिकं चेति । अन्यथा कुब्जादीनामत्र परिगणनमनर्थकं स्यात् । षण्ढादयोऽत्र जात्यै वावधेयाः । चिकित्सनीयेषु पुनर्यथावदुपनयनं कार्यम् । न गुणविकारः।मत्तो वाय्वादिना ।उन्मत्तो ग्रहावेशादिना । शयनस्थ उत्थानाशक्तः । निरिन्द्रियः षडिन्द्रियशून्यः । ध्वस्तपुरवो दोषविशेषेण प्रत्यानेयपुंस्त्वः । यथोचितं यस्य यदङ्गोपसंहारसामर्थ्यंनास्ति तस्य तदङ्ग-परिहारेण कर्त्तव्यमित्यर्थः । मत्तोन्मत्तयोमतान्तरमाह—“मत्तोन्मत्तौ न संस्कार्य्या"विति । तत्र हेतुमाह—“कर्म्मस्वनधिकारा"दिति । तदपत्यसंस्कारहेतुमाह—“पातित्यं नास्ति वै तयो”रित्यर्थः । ततश्च व्यतिरेकमुखेन पतितापत्यं न संस्कार्यमित्युक्तं भवति । “पतितोत्पन्नः पतितो भवति अन्यत्र स्त्रिया” इति वशिष्ठस्मरणात् । “तदपत्यन्तु सँस्कार्य"मित्यत्र तुशब्देन विवक्षितं विधिं विच्छिद्य प्राकृत एव विधिरनुद्यते संस्कार्य्यपदेन । अन्यथा “अपरे त्वाहुरन्यथे"त्यन्यथापदेन विवक्षितविधेः पक्षान्तर-त्वाभिधानं नोपपद्येत । ततश्च मत्तोन्मत्तापत्यस्य प्राकृतगुणविकारौ वैकल्पिको भवतः । तमेव गुणविकार दर्शयति संस्कारेति । बटुपठनीयानां दण्डाजिनोपवीतादिग्रहणसंस्कारमन्त्राणामाचार्य्य-म्प्रत्येव पाठो विधीयते । तथा होमः समिदाधानं तन्मन्त्रपाठश्च । न चाचार्य्यपठनीयानाम् । न वा तत्कर्तृकस्य प्रधानहोमस्य विधिःप्राप्तत्वात् । बटूपगमनपरिहारेणाचार्य्यस्य स्वसमीपेऽग्निसमीपे वा पङ्ग्वामाणवकानयनं विधीयते । प्राकृताद्गायत्र्युपदेशात् बटुं स्पृष्ट्वा गायत्रीजपो वैकल्पिको विधीयते । तस्य च श्रवणोच्चारणसमर्थान्प्रत्युपदेशः । मूकबधिरादीन् प्रति स्पृष्ट्वा जप इति व्यवस्था । बौधायनोऽपि—“अथ षण्ढबधिरमूकानां सँस्कारं व्याख्यास्यामऽऋतुर्यथाकामी स्यात्पुण्ये नक्षत्रे ब्राह्मणान्भोजयित्वाऽऽशिषो वाचयित्वा केशानोप्य स्नातं शुचिवाससं बद्धशिखं यज्ञोपवीतिन-मप आचम्य देवयजनमुदानयत्यथ देवयजनोल्लेखनप्रभृत्यग्नि-
मुखात्कृत्वा याज्ञिकीं समिधमाज्येनाङ्क्त्वा तृष्णीमभ्याधापयति तूष्णीमश्मानमास्थापयति यथालाभं तूष्णीं वासःपरिधापयति तूष्णीं मेखलांमन्त्रवद्ग्रन्थिं करोति तूष्णीमजिनं प्रतिमुञ्चति तूष्णीं दण्डं प्रयच्छति याज्ञिकस्य वृक्षस्य नाम पृच्छत्यथैनं दक्षिणं हस्तं गृह्णाति यस्मिन्भूतं च भव्यं चेत्यथैनं देवताभ्यः परिददाति देवेभ्यस्त्वेत्यथैनमुपनयति देवस्य त्वेति सर्व्वं नामग्रहणवर्ज्जमाचार्य्य एव पक्वाञ्जुहोति तत्सवितुर्वरेण्यमित्यन्याहुतीरूपजुहोति क्षेत्रियै त्वा निर्ऋत्यै त्वेति षड्भिर्व्याहृतीभिरथाग्रेणाग्निं याज्ञिकस्य वृक्षस्य पर्णेषु हुतशेषं निदधातीति तत्पुरस्ताद्व्याख्यातम् । अथ पक्वादुपादाय प्राश्नाति तूष्णीं सर्व्वान्मन्त्रानाचार्य्यएव जपेदित्यके । अन्धजडक्लीबव्यसनिव्याधितोन्मत्तहीनाधिकाङ्गानामामयाव्यपस्मारिश्वित्रिकुष्ठिजङ्घरोगिणश्चेतेनव्याख्याता इत्येके ।सद्यो मधुपर्कं ददाति तिसृषु व्युष्टासु मधुपर्कव-दावृता तूष्णीमायुर्दा अनेर्हविषो जुषाण इति पिता वा भ्राता वात्मजमारोपयेदित्येके” ॥
ऋतोर्यथाकामित्वेन वसन्ताद्यनियमो विहितः । उपनयति गायत्रीसम्बद्धं करोति उपदेशेन तं स्पृष्ट्वा जपते वा । अथ शुद्राणामुपनयनम् । आपस्तम्बः —“शूद्राणामदुष्टकर्म्मणामुपनयनम्” । मद्यपानरहितानामिति कल्पतरुकारः । अथ स्त्र्युपनयनम् ।यमः—
पुराकल्पे कुमारीणां मौञ्जीवन्धनमिष्यते ।
अध्यापनं च वेदानां सावित्रीवचनन्तथा ॥
पिता पितृव्यो भ्राता वा नैनामध्यापयेत्परः ।
स्वगृहे चैव कन्याया भैक्षचर्य्या विधीयते ॥
**वर्ज्जयेदजिनं चीरं जटाधारणमेव च ॥ **इति ।
तच्चोपनयनममन्त्रकम् । तथा च मिताक्षरायां याज्ञवल्वयः—
तृष्णीमेताः क्रियाः स्त्रीणां विवाहस्तु समन्त्रकः ॥इति ।
अथोपनयनकालमाह ।स च द्विविधः –नित्यः, काम्यश्च । फला-
ननुपबन्धेन श्रुतो नित्यः । तदुपबन्धेन श्रुतश्च काम्यः । नित्यो द्विविधः– मुख्यो गौणश्च । तत्रोत्पत्तिवाक्यशिष्टो मुख्यः । उत्पन्ने कर्म्मणि पश्चाच्छिष्यमाणो गौणः । तत्र नित्यमुख्यमाह श्रुतिः–“अष्टवर्षं ब्राह्मणमुपनयीत”अष्टवर्षत्वं चाष्टवर्षसम्बन्धेन अतीताष्टमवर्षत्वेन च । “गर्भाष्टमे वा”इति सूत्रम् ।अथवा ब्राह्मण गर्मसहिताष्टवार्षिकमुपनयेत् ।गर्भसहचरितोऽब्दो गर्भशब्देनोच्यत इति भारुचिः । यस्मिन् वर्षे गर्भो भूत्वा शेते स गर्भ इति हरदत्तः । नारदः—
**आधानादष्टमे वर्षे जन्मतश्चाग्नजन्मनाम्॥**इति।
स पञ्चमो यस्येति बहुव्रीहिः । पञ्चमीसमासो वा न षष्ठीसमासः ।तस्य पूरणप्रत्ययान्तेन निषेधात् । एवमुत्तरत्रापि।गर्भपञ्चमश्चात्र जन्मतश्चतुर्थो भवति । गर्भाऽष्टमःसप्तमः गर्भैकादशो दशमः ।गर्भद्वादश एकादशः ।“एकादशवर्ष<MISSING_FIG href=”../books_images/U-IMG-1698129059Screenshot(21”/>.png)राजन्यम्” इति सूत्रम् । एकादश वर्षाण्यतीतानि यस्यासौ तथा तं वैश्यं वर्णतृतीयमुपनयीत ।जन्मतस्त्रयोदशवर्षे इत्यर्थः । “द्वादशवर्षं वैश्यं यथामङ्गलं वा सर्वेषाम्”इति सूत्रम् । अथ वा सर्वेषां ब्राह्मणक्षत्रियवेिशां यथामङ्गलं यथाकुलधर्म्मम् । यद्वा यथामङ्गलशब्देन स्मृत्यन्तरोक्तपञ्चवर्षादिकालसङ्ग्रहः । अथ काम्यानि आपस्तम्बः— “अथ काम्यानि सप्तमे ब्रह्मवर्च्चसकाममष्टम आयुष्कामं नवमे तेजस्काम दशमेऽन्नाद्यकाममेकादश इन्द्रियकामं द्वादशे पशुकाममुपनयीत”। तथा च मनुः—
ब्रह्मवर्च्चसकामस्य कार्य्यंविप्रस्य पञ्चमे ।
राज्ञो बलार्थिनः षष्ठे वैश्यस्यार्थार्थिनोऽष्टमे॥
विष्णुः—
षष्ठे तु धनकामस्य विद्याकामस्य सप्तमे ।
अष्टमे सर्वकामस्य नवमे कान्तिमिच्छतः॥
आपस्तम्बसूत्रेऽपि—“गर्भाष्टमेषु ब्राह्मणमुपनयीते”ति । अत्र गर्भाष्टमेष्विति सूत्रेषु बहुवचनं गर्भषष्ठसप्ताष्टमवर्षप्राप्त्यर्थमिति सुदर्शन-
भाष्यकारः।नृसिंहः—
उत्तरायणगे सूर्य्येकर्त्तव्यं ह्युपनायनम्॥
वर्णविशेषेणास्यापवादमाहतुर्बृहस्पतिवशिष्ठौ—
विप्रस्य क्षत्रियस्यापि मौञ्जीस्यादुत्तरायणे ।
दक्षिणे तु विशां कुर्य्यान्नानध्याये न सङ्क्रमे॥
अथर्तुनिर्णयमाह गर्गः—
विप्रंवसन्ते क्षितिपं निदाघे वैश्यं घनान्ते व्रतिनं विदध्यात्॥
वैश्यस्य ग्रीष्ममप्याह बृहस्पतिः—
श्रीविद्यावलकारि चोपनयनं प्रोक्तं वसन्ते शिशो-
र्ग्रीष्मे क्षत्रियवैश्ययोः शुभकरं पुर्व्वाह्णपक्षे सिते॥
तथा च श्रुतिः—“वसन्ते ब्राह्मणमुपनयीत ग्रीष्मे राजन्यं शरदि वैश्यम्”।वसन्वादिलक्षणमाह वृद्धवशिष्ठः—
वसन्तश्चैत्रवैशाखौ ग्रीष्मःशुक्रशुची तथा ।
इषोर्ज्जौच शरच्चान्द्रमासाः श्रौतादिकर्म्मसु॥
तथा च श्रुतिः–“मधुश्च माधवश्व व्वासन्तिकावृतू , शुक्रश्च शुचिश्चग्रैष्मावृतू”इत्यादि।वृद्धगर्गस्तु सौरमप्याह—
मीनमेषौ रविर्यावद्वसन्तस्तावदिष्यते ।
**नृपयुग्मवृषौ ग्रीष्मोऽनन्तराश्च ऋतुःशरत्॥ **इति।
अनन्तराः कर्कसिंहकन्यातुलाः राशयःशरदृतुः । बौधायनोऽपि–“मीनमेषयोर्मेषवृषयोर्वावसन्तः”इति । ब्राह्मणम्प्रति वसन्तावश्यकतामाह बृहस्पतिः—
विनर्तुना वसन्तेन कृष्णपक्षे गलग्रहे ।
अनध्याये चोपनीतः पुनः संस्कारमर्हति॥
ततश्च मूर्द्धावसिक्तादीनां क्षत्रियादिकाल एवोपनयनं सिद्ध्यति । तेषां तद्धर्म्मत्वात् । अथ मासाः । तत्र वृद्धगार्ग्यः—
माघादिमासषट्के तु मेखलाबन्धनं मतम् ।
चूडाकरणमन्नं च श्रवणादौ विवर्ज्जयेत्॥
एतेऽपि षट् त्रैवर्णिकसाधारण इत्युक्तं मैत्रायणीयगृह्ये- “माघादिषण्मामाश्च सर्व्ववर्णाना”मिति। एतेषु षट्स्वपि मासेषु ब्राह्मणस्य सर्वदोषापवादकतया चैत्रः प्रशस्तः। तथा च बृहस्पतिः—
गुरौ भृगौ नष्टगते च चैत्रे कार्य्यं न माङ्गल्यमनर्थकारि।
मीनस्थितेऽके खलु चैत्रमासे शुभप्रदो ब्राह्मणमौञ्जिबन्धः॥
गोचराष्ट्रकवर्गाभ्यां गुरुशुद्धिर्न लभ्यते।
तदोपनयनं कार्य्य चैत्रे मीनगते रवौ॥
शुक्रे नष्टे तथा जीवे दुर्बले चन्द्रभास्करे।
व्रतोपनयनं कार्य्य ञ्चैत्रे मनिगते रवौ॥
वीरमित्रोदये—
जीवभार्गवयोरस्ते सिंहस्थे देवतागुरौ।
मेखलाबन्धनं शस्तं चैत्रे मीनगते रवौ॥
जन्ममासनिर्णयः। तत्र राजमार्त्तण्डः—
वसन्तसमये कुर्य्यादब्दे गर्भष्टमेऽपि वा।
मेधावी मेखलाबन्धं जन्ममासेऽथ जन्मभे॥
शौनकोऽपि—
जन्मोदये जन्मसु तारकासु मासेऽथ वा जन्मनि जन्मराशौ।
व्रतेन विप्रो न बहुश्रुतोऽपि प्रज्ञाविशेषैः प्रथितः पृथिव्याम्॥
जन्मसु इति बहुवचनं तिसृणां जन्मताराणा परिग्रहाय।
अथ पक्षनिर्णयः कालविधाने—
शुक्ले पक्षे निर्म्मले शीतभानौ राशौ चर्क्षेस्पाच्छिशोर्मौज्जिबन्धः॥
बृहस्पतिः—
शुक्लपक्ष शुभः प्रोक्तः कृष्णचान्त्यत्रिकं विना॥
स्मृस्यन्तरेऽपि—
शुक्लपक्षः शुभः प्रोक्तः कृष्णपक्षे त्रिधा कृते।
अन्त्यभागं विनान्यौ द्वौगणितो मध्यमाधमौ॥ इति।
अथ तिथयः। बृहस्पतिः—
द्वितीया पञ्चमी पष्ठी सप्तमी दशमी तथा।
त्रयोदशी तृतीया च शुक्ले श्रेष्ठाःप्रचोदिताः॥
द्वादश्येकादशी चैत्र मध्यमास्तिथयस्तथा ।
मध्यमाश्च प्रशंसन्ति चन्द्रे च बलसंयुते॥
तथा च नृसिंहः—
तृतीया पञ्चमी षष्ठी द्वितीया वापि सप्तमी ।
पक्षयोरुभयोश्चैव विशेषेण सुपूजिताः॥
धर्म्मकामौ सिते पक्षे कृष्णे च प्रथमा तथा ।
कृष्णे त्रयोदशीं केचिदिच्छन्ति मुनयस्तथा॥
प्रथमा प्रतिपद् ।साऽपि कृष्णे पक्षे चन्द्रबले सति ग्राह्या । तथा च बृहस्पतिः—
कृष्णे च प्रथमा पूज्या कदाचिच्छुभगे विधौ॥
यत्तु मदनरत्नेन प्रथमाः इतिबहुवचनान्तं पाठं कल्पयित्वा प्रथमाः आद्याः पञ्चम्यन्ता इति व्याख्यातम् ,तदसत् । पूर्ववाक्ये कृष्णपक्षीय षष्ठीसप्तम्यादीनामपि ग्रहणेन परिसङ्ख्यासम्भवात् ।
द्वादश्येकादशी चैव मध्यमा चोपनायने ।
**प्रशस्ता प्रतिपत्कृष्णे कदाचिच्छुभगे विधौ॥**इति।
वीरमित्रोदये बृहस्पतिः—
चन्द्रे वलयुते लग्ने शुभभावे शुभेक्षिते ।
**चतुर्दशीं प्रशंसन्ति कुमारे वयसाधिके॥ **इति।
कृष्णपक्षे प्रतिपच्चतुर्दश्योरुपादानं व्रात्योपनयनविषयम् । “वर्षाणामतिलङ्घने, कुमारे वयसाऽधिक”इति व्यासबृहस्पतिवाक्यात् । अतिलङ्घनं षोडशाद्यतिक्रमः । चतुर्थीसतमीत्रयोदशीनां गलग्रहत्वेऽपि उपादानं मूकाद्युपनयनविषयम्। तेषामध्ययनीयाभावेन तस्यादोषत्वात् ।
अथानध्यायाः ।गृह्यकारिकायाम्—
नष्टे चन्द्रे गते शुक्रे निरंशे चैत्र भास्करे ।
कर्त्तव्यं नोपनयनं नानध्याये गलग्रहे॥
अनध्याया द्विविधाः । नित्या अनित्याश्च ।तत्र नित्यानध्यायाः ।
गौतमः—
पक्षद्वये चतुर्द्दश्योरष्टमीद्वितये तथा ।
पक्षादावपि पक्षान्ते ब्रह्म नाधीयते नरैः॥
फलञ्च—
अष्टमी हन्त्युपाध्यायं शिष्यं हन्ति चतुर्दशी ।
अमावास्योभयं हन्ति प्रतिपत्पाठनाशिनी॥
मनुः—
चातुर्मास्यद्वितीयासु मन्वादिषु युगादिषु ।
अष्टकासु च सङ्क्रान्तौ शयने बोधने हरेः॥
अनध्यायं प्रकुर्वीत तथा सोपपदास्वपि॥
चातुर्मास्यद्वितीया गर्गेणोक्ताः—
आषाढफाल्गुनोर्ज्जेषु या द्वितीया विधुक्षये ।
चातुर्मास्यद्वितीयास्ताः प्रवदन्ति महर्षयः॥
मन्वादयस्तिथयः—
तृतीया पूर्णिमा चैत्रे पूर्णिमा ज्येष्ठमासके ।
आषाढे दशमी पूर्णे कृष्णश्रावणगाष्टमी॥
भाद्रे तृतीया नवमी चाश्विने कार्तिके तथा ।
द्वादशी पूर्णिमा पौषे भवेदेकादशी तिथिः॥
सप्तमी माघमासस्य पूर्णिमा सा च फाल्गुने ।
मन्वादय इमाः पुण्याः स्नानदानादिकर्म्मसु॥
अथ युगाद्याः—
युगाद्या अपि वैशाखतृतीया सा च माघगा ।
कार्तिके नवमी भाद्रकृष्णपक्षे त्रयोदशी॥
कुत्रचिद्युगादावदोषमाह ज्योतिर्निबन्धे—
या चैत्रवैशाखसिता द्वितीया माघस्य सप्तम्यथ फाल्गुनस्य ।
कृष्णतृतीयोपनये प्रशस्ताः प्रोक्ता भरद्वाजमुनीन्द्रमुख्यैः॥
अथाष्टकाः—
मार्गे पौषे तथा माघे नभस्ये फाल्गुनेषु च ।
कृष्णपक्षेऽष्टकास्तिस्रः सप्तम्यादिदिनत्रयम्॥
अथ सोपपदाः—
ज्येष्ठशुक्लद्वितीया च ह्याश्विने दशमी सिता ।
चतुर्थी द्वादशी माघे एताःसोपपदाः स्मृताः॥
यजुर्वेदविषये अपवादमाह चण्डेश्वरः—
वेदव्रतोपनयने स्वाध्यायाध्ययने तथा ।
न दोषो यजुषां सोपपदास्वध्ययनेऽपि च॥
चतुर्दश्यां यदा पर्व्व प्रागस्ताद्दृश्यते रवेः ।
अनध्यायं प्रकुर्व्वीत त्रयोदश्यान्तु सर्वदा॥
अनध्यायस्य पूर्वेद्युस्तस्य चैवापरेऽहनि ।
व्रतबन्धं विसर्गं च विद्यारम्भं न कारयेत्॥
अथ नैमित्तिका अनध्यायाः । स्मृत्यर्थसार आपस्तम्बः–**“**उल्कायामग्न्युत्पातेच सर्व्वासां विद्यानामाकालिक”मिति। तथा मनुः—
चौरैरुपप्लुते ग्रामे संग्रामे चाग्निकारिते ।
आकालिकमनध्यायं विद्यात्सर्वाद्भुतेषु च॥
“उल्कानिर्घातभूकम्पपरिवेषेन्द्रचापप्रतिसूर्य्यगन्धर्व्वनगरदिग्दाहरजोवृष्ट्यादिजातेष्वाकालिकोऽनध्यायः” ।गर्गः—
ग्रहे रवीन्द्वोरवनिप्रकम्पे केतूद्गमोल्कापतनादिदोषे ।
व्रते दशाहानि वदन्ति तज्ज्ञास्त्रयोदशाहानि वदन्ति के चित्॥
सङ्कटे तु चण्डेश्वरः—
दाहे दिशां चैव धराप्रकम्पे वज्रप्रपातेऽथ विदारणे च ।
केतौ तथोल्कांशुकणप्रपाते त्र्यहं न कुर्य्याद्व्रतमङ्गलानि॥
अग्न्युत्पाते अग्निना दह्यमाने ग्रामे, सर्व्वादभुतेषु रुधिरादिवृष्टिषु । वाशिष्ठः— “उपलरुधिरप्रपाते त्रह”मिति ।स्मृत्यन्तरेऽपि—
विद्युद्गर्ज्जितवृष्टीनां सन्निपातो यदा भवेत् ।
कालवृष्टौ तु तत्कालमकाले तु त्रिरात्रकम्॥
अकालवृष्टिलक्षणं स्मृतिरत्नावल्याम्—
अनुराधर्क्षमारभ्य षोडशर्क्षेषु भास्करः ।
यावच्चरति चैतावदकालंमुनयो विदुः॥
** ** आर्द्रादिविशाखान्तंकालवृष्टिरित्यर्थः । लल्लः—
व्रतेऽह्निपूर्वसन्ध्यायां वारिदो यदि गर्जति ।
तद्दिने स्यादनध्यायो व्रतं तत्र विवर्ज्जेत्॥
सायं सन्ध्यागर्ज्जने उदयान्तोऽनध्यायः । अर्द्धरात्रादूर्ध्वं गर्ज्जने अर्द्धरात्रे वाऽऽकालिकोऽनध्यायः । प्रातःसन्ध्यागर्ज्जने त्वहोरात्रम् । कालं मर्य्यादीकृत्येत्यकालम् । अकाले भव आकालिकः । यस्मिन् काले निमित्तमुत्पन्नम् तदारभ्यद्वितीयदिने तत्कालपर्य्यन्तमित्यर्थः । ज्योतिर्निबन्धे—
नान्दीश्राद्धं कृतं चेत्स्वादनध्यायस्त्वकालिकः ।
तदोपनयनं कार्य्यंवेदारम्भं च कारयेत्॥
एतच्चाश्वलायनकात्ययनाद्यन्यविषयम् । तेषां तद्दिने वेदारम्भाभावात् । अत एषामुपनयनं तद्दिने न भवत्येव । नित्यनैमित्तिकादौ अनध्यायो न दोषाय ।
नित्ये नैमित्तिके काम्ये व्रते यज्ञे क्रतौ तथा ।
प्रवृत्ते कामकार्य्येच नानध्यायाः स्मृतास्तथा॥
**देवतार्च्चनमन्त्राणां नानध्यायाःस्मृतास्तथा॥ **इति।
अथ गलग्रहमाह नारदः—
त्रयोदशीचतुष्कं च सप्तम्यादिदिनत्रयम् ।
चतुर्थी चैव सम्प्रोक्ता अष्टावेते गलग्रहाः॥
राजमार्त्तण्डः—
आरम्भानन्तरं यत्र प्रत्यारम्भो न सिध्यति ।
गर्गादिमुनयः सर्वे तमेवाहुर्गलग्रहम्॥
मदनरत्ने नारदः—
विनर्तुना वसन्तेन कृष्णपक्षे गलग्रहे ।
अपराह्णेचोपनीतः पुनः संस्कारमर्हति॥
वसन्ते गलग्रहो न दोषायेत्यर्थः । अपराह्णस्त्रेधा विभक्तदिनतृतीयांश इत्युक्तंतत्रैव ।प्रदोषदिनमपि वर्ज्यम् । तत्स्वरूपमुक्तं गोभिलेन–
षष्ठी च द्वादशी चैव अर्द्धरात्रोननाडिका ।
**प्रदोषमिह कुर्वीत तृतीयातूनयामिका॥ **इति।
ज्योतिषेऽपि—
चतुर्थी प्रहरादर्वाक् सार्द्धयामाच्च सप्तमी ।
त्रयोदशी त्वर्द्धरात्रात्प्रदोषस्तु तदा भवेत्॥
दैवज्ञमनोहरे—
प्रदोषे निश्यनध्याये मन्दे कृष्णे गलग्रहे ।
मधुं विना चोपनीतः पुनः संस्कारमर्हति॥
गलग्रहे प्रदोषे च स्वल्पायुरुपजायते॥
चिन्तामणौ—
कृष्णे प्रदोषेऽनध्याये रात्रौ निश्यपराह्निके।
प्राक्सन्ध्यागर्जिते नेष्टो व्रतबन्धो गलग्रहे॥
पुनःसंस्कारप्राप्तौ “निमित्तानन्तरमेव नैमित्तिक”मितिन्यायेन यदा रात्रिसद्भावस्तदोपनयनं माभूदितिरात्रिपदोक्तिः । प्राक्सन्ध्या प्रातःसन्ध्या तस्यां गर्ज्जिते ।
अथ वारनिर्णयः । तत्र नारदः—
गुरुशुक्रबुधानान्तु वाराःश्रेष्टतमाः स्मृताः ।
अधमः सोमवारस्तु सूर्य्यवारस्तु मध्यमः॥
वारौ मन्दारयोर्वर्ज्यौकृष्णे वर्ज्योनिशापतेः ।
अस्तङ्गतस्य सौम्यस्य वारो वर्ज्ज्योद्विजन्मनि॥
द्विजन्मनि उपनयने । बृहस्पतिः—
पापग्रहाणां वाराःस्युर्न शुभश्चन्द्रवासरः ।
सिते पक्षे प्रशस्तः स्यात्कृष्णे वारो विधोर्न हि॥
शुभो बुधो नास्तमितः पापग्रहयुतो न च॥
वृद्धगर्गः—
शाखाधिपे बलिनि केन्द्रगते च मौञ्जी-
वन्धस्तदीयदिवसेषु शुभाय क्लृप्तः ।
अस्मिन्बलेन रहिते तु पुनर्द्विजानां
स्याद्वर्णसङ्कर इति प्रवदन्ति तज्ज्ञाः॥
तदीयदिवसेषु शाखाधिपतिवारेषु । शाखेशानाह नारदः—
दृश्यमाने गुरौ शुक्रे शाखेशे चोत्तरायणे ।
वेदानामधिपा जीवशुक्रभौमबुधाः क्रमात्॥ इति।
तत्तच्छाखाध्येतॄणां तत्तच्छाखाधिपे उपनयनं कार्यमित्याहवाराहः—
गुरोः कवेर्लोहितस्य मिहिरस्य च वासराः ।
ऋग्यजुःसामाथर्वाणां शस्ताः स्युर्व्रतबन्धने॥
लोहितोऽङ्गारकः । मिहिरः सूर्य्यः। पारिजाते बृहस्पतिः–
वह्वृचानां गुरोर्वारे यजुर्वेदजुषां बुधे ।
सामगानां धरासूनोरथर्व्ववि वदुषां रवेः॥
शाखेशवद्वर्णेशेऽपि बलवति उपनयनं कार्य्यम् । पराशरः—
सदानुकूले वैकस्मिन्वर्णेशे बलशालिनि ।
ब्राह्मणानां प्रकुर्वीत कुमारव्रतचारिणाम्॥
वर्णेशानाह स एव—
पती सितेज्यौ विप्राणां नृपाणां कुजभास्करौ ।
वैश्यानां शशभृत्सौम्याविति वर्णाधिपाः स्मृताः॥
अर्णवेऽप्येवम् ।अथ नक्षत्राणि ।तत्र बृहस्पतिः—
त्रिषूत्तरेषु रोहिण्यां हस्ते मैत्रे च वासवे ।
त्वाष्ट्रे सौम्यपुनर्वस्त्रोःप्रशस्तं ह्यौपनायनम्॥
सौम्यं मृगशिरः । नारदोऽपि—
श्रेष्ठान्यर्कत्रयान्त्येज्यचन्द्रादित्युत्तराणि च ।
विष्णुत्रयाश्विमित्राब्जयोनिभान्युपनायने॥
अर्कत्रयम् हस्तत्रयम् । अब्जयोनिभं रोहिणी ।अथ वर्ज्यानि ।
तत्र बृहस्पतिः—
कृत्तिकाभरणीमूलज्येष्ठार्द्रासुविशाखयोः ।
पूर्वात्रये च सार्पर्क्षे न कुर्य्यादौपनायनम्॥
ब्राह्मणस्य पुनर्वसुनिषेधमाह । तत्रराजमार्त्तण्डः–
चन्द्रतारानुकूलेषु ग्रहाब्देषु शुभेष्वपि ।
पुनर्वसौ कृतो विप्रः पुनः संस्कारमर्हति॥
नारदः—
श्रवणादितिनक्षत्रे कर्म्मसंस्थे निशाकरे ।
तदा व्रती वेदशास्त्रधनधान्यसमृद्धिमान्॥
अत्र विप्रपदोपादानात्क्षत्रियादीनामनिषेधः । अथ वेदविशेषेण नक्षत्रविशेषो ज्योतिर्निबन्धे—
मूलेहस्तत्रये सार्पे शैवे पूर्वात्रये तथा ।
ऋग्वेदाध्यायिनां कार्य्यंमेखलाबन्धनं बुधैः॥
पुष्ये पुनर्वसौ पौष्णे हस्ते मैत्रशशाङ्कमै ।
ध्रुवेषु च प्रशस्तं स्याद्यजुषां मौञ्जिबन्धनम्॥
पुष्यवासवहस्ताश्विशिवकर्णोत्तरात्रयम् ।
प्रशस्तं मेखलाबन्धे बटूनां सामगायिनाम्॥
मृगमैत्राश्विनीहस्तरेवत्यदितिवासवम् ।
अथर्वशाखिनां शस्तो भगणोऽयं व्रतार्पणे॥
पुरुषविशेषेण नक्षत्रविशेषमाह नृसिंहः—
रौद्रे शिवद्विजः कुर्य्याद्वैष्णवे वैष्णवस्तथा ।
वासवर्क्षेसवर्णश्च वारुणे कुण्डगोलकौ॥
प्रातित्विकनक्षत्रासम्भवे सामान्यतो विहितानि नक्षत्राणि ग्राह्याणि । उक्तान्यपि नक्षत्राणि दुष्टग्रहक्रान्त्यादिदुष्टानि त्याज्यानि । तदुक्तं मुहूर्त्तचिन्तामणौ—
उत्पातान्सहपातदग्धतिथिभिर्दुष्टाँश्च योगाँस्तथा
चन्द्रज्योशनसामथास्तमयनं तिथ्यः क्षयर्द्धीतथा ।
गण्डान्तं च सविष्टिसङ्क्रमदिनं तन्वंशपास्तं तथा
तन्वंशे सविधूनथाष्टरिपुगान्पापस्य वर्गांस्तथा॥
सेन्दुक्रूरखगोदयांशमुदयास्ताशुद्धिचण्डायुधान्
खार्ज्जूरं दशयोगयोगसहितां जामित्रलत्ताव्यधम्।
बाणोपग्रहपापकर्त्तरि तथा तिथ्यर्क्षयोगोत्थितं
दुष्टं योगमथार्द्धयामकुलिकाद्यान्वारदोषानपि॥
क्रूराक्रान्तविमुक्तभं ग्रहणभं क्रूरस्य गन्तव्यभं
त्रेधोत्पातहतं च केतुहतभं सन्ध्योदितं भन्तथा ।
तद्वच्च ग्रहभिन्नयुद्धगतभं सर्व्वानिमान्सन्त्यजेत्
उद्वाहे शुभकर्म्मसु ग्रहकृतॉल्लग्नस्य दोषानपि॥
उत्पातादीन् दोषान् उद्वाहे यज्ञोपवीतादौ शुभकर्म्मसु च त्यजेदिति तृतीयश्लोकेनान्वयः ।अथ जन्मर्क्षनिर्णयः । तत्र राजमार्तण्डः—
वसन्तसमये कुर्य्यादब्दे गर्भाष्टमेऽपि वा ।
मेधावी मेखलाबन्धं जन्ममासेऽथ जन्मभे॥
** ** यत्तु—
वैनासिके त्रिजन्मर्क्षंनेष्टं तेषूपनायनम् ।
** ** इति बृहस्पतिवचनं तद्गर्भाष्टमवर्षातिरिक्तविषयम् । ब्राह्मणातिरिक्तविषयं वा ।
गर्भाष्टमे गर्गपराशराद्यैः फलं यदुक्तं व्रतबन्धने तु ।
ततोऽधिकं जन्मसु तारकासु मासेऽथ वा जन्मनि वाडवानाम्॥
इति राजमार्त्तण्डवचनात् । एवं पञ्चाङ्गशुद्धौ पूर्वाह्णादिनिर्णयः । स्कन्दपुराणे—
ऊर्ध्वं सूर्योदयात्प्रोक्तं मुहूर्त्तानान्तु पञ्चकम् ।
पूर्वाह्णःप्रथमः प्रोक्तो मध्याह्नस्तु ततः परम्॥
**अपराह्णस्ततः प्रोक्तो मुहूर्तानान्तु पञ्चकम्॥**इति।
तत्रापराह्णेउपनयनं न कार्य्यम् । उक्तं च वीरमित्रोदये—
विनर्तुना वसन्तेन कृष्णपक्षे गलग्रहे ।
अपराह्णेचोपनीतः पुनःसंस्कारमर्हति॥
नारदोऽपि—
त्रिधा विभज्य दिवसंतत्रादौ कर्म्म वैदिकम् ।
**द्वितीये मानुषं कार्यं तृतीयेंऽशे तु पैतृकम्॥ **इति।
उत्तमादिव्यवस्थामाह मनुः—
सर्वदेशेषु पूर्व्वाह्णेमुख्यं स्यादुपनायनम् ।
**मध्याह्णेमध्यमं प्रोक्तमपराह्णेच गर्हितम्॥ **इति।
अथ लग्नानि । तत्र वशिष्ठः—
मेषे भवति वाक्कुण्ठो वित्तविद्यायुतो वृषे ।
युग्मे वेदान्तदर्शी च कुलीरे च षडङ्गवित्॥
शिल्पकर्म्मरतः सिंहे षष्ठे भवति पण्डितः ।
तुलायां वणिजःप्राप्तिः काण्डपृष्ठश्च वृश्चिके॥
सर्वत्र पूजितश्चापे शूद्रवृत्तिर्मृगे तथा ।
राजप्रेक्षो भवेत्कुम्भे मीने वेदाङ्गपारगः॥
नृसिंहः—
गुरुशुक्रोदये शस्तमनन्तस्य बुधस्य च ।
पूर्वपक्षे विधोः शस्तं नेतरेषां द्विजन्मनि॥
नारदः—
शुभलग्ने शुभांशे च नैधने शुद्धिसंयुते ।
लग्नेत्वनैधने सौम्यैः संयुते वा निरीक्षिते॥
अथ नवांशाः । ज्योतिर्निबन्धे—
राशयः सकलाः श्रेष्ठाः शुभग्रहयुतेक्षिताः ।
शुभा नवांशा न तथा ग्राह्यास्ते शुभराशयः॥
न कदाचित्कर्कटांशःशुभेक्षितयुतोऽपि वा ।
तस्माद्गोमिथुनान्याश्च तुल्याकन्यांशकाःशुभाः॥
एवंविधे लग्नगते नवांशे व्रतमीरितम्॥
वीरमित्रोदये गुरुरपि—
विद्यान्वितः सदाचारोऽहीनधर्म्मोदयापरः ।
आयुष्मान्धनवाँश्चैव सौम्यभृग्वङ्गिरोंऽशकः॥
भवतीति शेषः । वशिष्ठोऽपि—
कुलीरकांशं परिहृत्य सौम्यं नवांशका मौञ्जिविधौ प्रशस्ताः ।
ते निन्दिताःक्रूरनभश्वराणां खेटस्य वर्गा अपि चैव ग्राह्याः॥
न नैधनं नैधनशुद्धिलग्नंन नैधनर्क्षंन च तन्नवांशकाः ।
न नैधनेशो न तदशकेशो लग्नेप्रशस्ते न च रात्रिनाथः॥
चिन्तामणौ—
क्रूरो जडो भवेत्पापःपटुः षट्कर्म्मकृद्बटुः ।
यज्ञार्थभाक्तथा मूर्खो रव्याद्यंशे तनौ क्रमात्॥
अथ चन्द्रांशफलम् । तत्र वशिष्ठः—
सूर्यांशके गते चन्द्रे महापातककृद्व्रती ।
पुण्योक्तसेवी स्वांशस्थे नीचांशस्थः खलस्तदा॥
कुजांशकगते चन्द्रे वेदवेदी भवेद्द्विजः ।
जीवांशकगते चन्द्रे साङ्गवेदविशारदः॥
शुक्रांशके धनी दाता विद्यावित्तविशारदः ।
क्षिप्रोद्वाही यज्ञकृत्स्यात्सत्रदो भोगवान्भवेत्॥
शुक्ले स्वांशे निशानाथे वित्तवान्यज्ञकृद्भवेत् ।
**कृष्णे स्वांशगते चन्द्रे जातिभ्रंशं करोति च॥ **इति।
अथ फलम् ।वीरमित्रोदये काश्यपः—
भास्करो लग्नगः कुर्याद्बटुं भूपतिसेवकम् ।
वसुस्थःस्वर्णरहितं भ्रातृस्थःसुखिनं सदा॥
बन्धुगो दुःखिनं नित्यं सुतगो मतिवर्ज्जितम् ।
शत्रुगो रोगरहितं सप्तमो भोगवर्ज्जितम्॥
अष्टमो दृष्टिरहितं नवमो धर्महारिणम् ।
व्ययारिगो भिषग्वृत्तिं दीर्घायुषमथायगः॥
रिष्फगो हानियुक्तं च फलमेतद्गुरोरपि ।
सिते चन्द्रे लग्नसंस्थे शुभं स्यादसितेऽशुभम्॥
वसुगे स्याद्धनप्राप्तिस्तृतीये सुखसंस्थितिः ।
चतुर्थे बुद्धिवैषम्यं पञ्चमे सौख्यमुतमम्॥
षष्ठे तु व्याधिपीडा स्यात्सप्तमे सुखसङ्गतिः ।
अष्टमे निधनप्राप्तिर्नवमे धर्मसञ्चयः॥
दशमे स्यात्सदाचारी लाभे स्वाद्धनसङ्ग्रहः॥
दारिद्र्यंरिष्फगे विन्द्याच्चन्द्रे फलमुदाहृतम्॥
मृति १ र्नाशं २ सुखं ३ काणो ४ हानि ५ र्वृद्धि ६ र्मृति ७ र्गदः ८ ।
अधर्मा ९ दुर्मति १० र्वृद्धि ११ र्नाशो१२ लग्नात्कुजे फलम्॥
बुद्धि १ र्वृद्धि २ वित्तनाशो ३ लाभः४ पुत्रो ५ मृतिः ६ सुखी ७ ।
आयुःक्षयो ८ धर्म्म ९ सौख्ये १० कोशलाभः११ क्षयः १२ क्रमात्॥
सौम्ये लग्नादिराशीनां फलमेतदुदाहृतम् ।
षष्ठाष्टमे विना जीवःसर्वत्र शुभकृत्सदा॥
सर्वत्र शुभकृच्छुक्रः सप्तषष्ठाष्टमं विना ।
निन्दां १हानिं २ सुखं ३ रोगं ४ द्यूतं ५ कामं ६ जढं ७ मृतिम् ८ ।
बिपत् ९ क्लेशो१० सुखं ११ मृत्यु १२ मुदयात्कुरुते शनिः॥
मेखलाबन्धकालेतु सर्वथा पञ्चमं गृहम् ।
शुभयुक्तं प्रशंसन्ति तदालोकितमेव वा॥ इति।
संहितान्तरेऽपि—
गृहप्रवेशे हि बुकं मौञ्जीबन्धे तु पञ्चमम् ।
विवाहे वर्ज्जयेद्यूनं यात्राकालेतथाष्टमम्॥
क्रूरग्रहयुक्तमित्यनुवर्त्तते । वशिष्ठः—
इष्टाःपञ्च ग्रहा यस्य राशेस्तल्लग्नसंज्ञकम् ।
रविचन्द्रेज्यमुख्यास्ते चत्वारो वा बलान्विताः॥
नीचस्थिताःशत्रुगृहस्थिताश्च पराजिताश्चास्तमुपागताश्च ।
लग्ने ग्रहास्ते स्वफलं प्रदातुं क्षमा न किञ्चिद्रिपुदृष्टदेहाः॥
ते च ग्रहाः के ? इत्यपेक्षायामाह स एव—
बुधे लग्नगते जीवे शुक्रे चाप्यथवा स्थिते ।
करोति व्रतिनं नूनं वित्तविद्यासुखान्वितम्॥
द्वितीयस्था ग्रहाःसौम्याःसौख्यभोगकरास्तदा ।
तत्र पापग्रहाः सर्वे सर्वस्वफलनाशनाः॥
तृतीयस्थाःशुभाःपापा वित्तभोगकराःसदा ।
चतुर्थस्थानगाः सौम्याः सम्पद्भोगसुखप्रदाः॥
पञ्चमस्थानगाः सौम्या नृपपूजार्थसिद्धिदाः ।
तत्र पापग्रहाः सर्वे सदा तत्फलनाशनाः॥
षष्ठस्थाःखेचराःसौम्या दुःखशोकभयप्रदाः ।
तत्रस्थाःक्रूरखचराः सदा तत्फलनाशनाः॥
लग्नात्सप्तमगाः सौम्यावित्तविद्यासुखप्रदाः ।
सर्वग्रहा अष्टमगा निधना धनशोकदाः॥
नवमे सौम्यखचरा वित्तायुष्यसुखप्रदाः ।
तत्र पापाःसौम्पखेट्फलस्यैव विघातकाः॥
सौम्याःकुर्वन्ति दश वित्तविद्याधनान्वितम् ।
व्ययस्थानस्थिताः सर्वे कुर्वन्ति व्ययशालिनम्॥
खलं हीनं पापरतं बुद्धिहीनं विदेशगम्॥
अथ दुष्टग्रहफलम्—
रवौलग्नादिकेन्द्रस्थे दोषः स्फुरितसंज्ञकः ।
तत्रोपनीतस्य शिशोःकुलनाशो भवेत्तदा॥
कुजे लग्नादिकेन्द्रस्थे दोषः कुजितसंज्ञकः।
तत्रोपनीतं बटुकं हन्ति वर्षान्न संशयः॥
शनौ लग्नादिकेन्द्रस्थे दोषो रन्ध्राह्वयो भवेत् ।
व्रतिनो जनर्नीहन्ति त्वथवा धनसञ्चयम्॥
केतौ लग्नादिकेन्द्रस्थे दोषश्च ग्रामसंज्ञकः ।
समग्रव्रतिनां वृत्तं वित्तं विद्यां विनाशयेत्॥
लग्ने षष्ठाष्टमान्त्यस्थः करोत्येव निशाकरः ।
व्रतिनो रोगमिथुनं निधनं दुःखसञ्चपम्॥
अत्र गुरुबलं चन्द्रबलं ताराबलं बालवृद्धास्तादिविचारःसङ्क्रान्तिदो षखार्जूरदशयोगमहापातवेधलत्तोपोग्रपातबाणपञ्चकवज्रगण्डान्तदुर्मुहूर्त्तवारदोषान्धादिलग्नाष्टमलग्नदोषषड्वर्गविचारकर्त्तरीदोषादिविचारश्च विवाहप्रकरणोक्त एव ग्राह्यः । मण्डपप्रकार उपनयनवेदीतैलवन्दनमृदाहरणघटीयन्त्रप्रकार- घटीयन्त्रस्थापनघटिकाभ्रमणफललग्नपत्रलेखनादि सर्वमपि विवाहप्रकरणोक्तं ग्राह्यम् । अथोपनयने कर्तॄनिर्णयः । तत्र वृद्धगर्गः—
पिता पितामहो भ्राता ज्ञातयो गोत्रजाग्रजाः ।
उपानयेऽधिकारी स्यात्पूर्वाभावे परः परः॥
भ्रातेतिपितुर्भ्रातेतिव्याख्येयम् । वीरमित्रोदये—
पितैवोपनयेत्पुत्रं तदभावे पितुः पिता ।
तदभावे पितुर्भ्राता तदभावे तु सोदरः॥
व्रतबन्धं कुमारस्य विना पितुरनुज्ञया ।
यः करोति द्विजो मोहान्नरकं प्रतिपद्यते॥
इति दूरस्थपितृविषयम् ।ज्ञातयः सपिण्डाः । गोत्रजाग्रजाः गोत्रजेषु सपिण्डातिरिक्तेषु अग्रजा वृद्धाः । यद्यप्यग्रजपदं गोत्रपदेन समस्तन्तथापि बुद्ध्या विभज्य सपिण्डेष्वपि सम्बन्धनीयम् । अन्यथोपनेयकनिष्ठानामपि तदधिकारापातात्, दारकाचार्य्यत्वस्योपपातकत्वाच्च । अत्र केचिदाचार्य्यसमीपनयनमेवोपनयनमित्यभिप्रेत्य “पितैवोपनये”दित्यादिवाक्यानि पितैवाचार्यसमीपं नयेदित्यर्थपरतया व्याचक्षते ।तेषां मते सत्यपि पित्रादावुपनेतरि होमगायत्र्युपदेशादिकर्त्ताऽन्य एवाचार्योऽन्वेष्टव्यः ।
आस्तिको वेदनिरतः शुचिराचार्य उच्यते॥
इत्यादिवाक्येषु आचार्य्यस्य नित्यवच्छ्रवणात् । पितुरेवाचार्य्यत्वे आचार्य्यलक्षणाचार्य्यशौचाचार्य्यपत्न्यभिगमनप्रायश्चित्ताभिधानाद्यानर्थक्यापत्तेः, पितृलक्षणाद्यभिधानेनैव गतार्थत्वात् । पितृकुलावस्थितस्य ब्रह्म-
चारिण आचार्य्यकुलप्रत्यावृत्तिरूपसमावर्त्तनासम्भवापत्तेश्च । तस्मात्पित्रतिरिक्त आचार्य्यःकर्त्तव्य इति । तन्न सुन्दरम्।बटोराचार्येण गायत्रीसम्बन्धस्यैवोपनयनपदार्थत्वेन व्याख्यातत्वात् । तत्र च पित्राचार्य्ययोः समुच्चितयोः कर्तृत्वासम्भवेन नित्यवच्छ्रुतस्याप्याचार्यस्य विकल्पेनानुकल्पेन वान्वयस्यावश्यमभ्युपेयत्वात् । लक्षणाद्यभिधानं त्वनुकल्पतया प्राप्तस्याप्यपेक्षितमेव ।समावर्त्तनं तु नाचार्य्यकुलान्निवृत्तिरेव, किन्तु ब्रह्मचर्यव्रतसमापनमिति न कापि विरोधः ।तस्मात्पित्राद्यभावे आचार्य्यःकर्त्तव्य इति स्थितम् । आचार्य्यलक्षणमाह—
सत्यवाग्धृतिमान्दक्षः सर्वभूतदयापरः ।
आस्तिको वेदनिरतः शुचिराचार्य्य उच्यते॥
यमोऽपि—
वेदाध्ययनसम्पन्नो वृत्तिमान्विजितेन्द्रियः ।
दक्षोत्साही यथावृत्तजीवने हस्तवृत्तिमान्॥
व्यासोऽपि—
वेदैकनिष्ठं धर्मज्ञं कुलीनं श्रोत्रियं शुचिम् ।
स्वशाखाढ्यमनालस्यं विप्रं कर्तारमीक्षितम्॥
“विप्रं कर्त्तारमीक्षित”मिति व्यासवाक्येन विप्रपदोपादानात्तस्यैवाध्यापनाधिकाराच्च । तेन त्रयाणामपि वर्णानां पित्राद्यभावे विप्र एवोपनेता न क्षत्रियादिरिति सिद्ध्यति । “पितैवोपनयेत्पुत्र”मितिपदं ब्राह्मणोपनयनविषयं न क्षत्रियवैश्ययोः, तयोस्तु पुरोहित एव, उपनयनस्य दृष्टार्थत्वात् ,तयोस्त्वध्यापनेऽनधिकारात् । अथ बटूपनेत्रोरधिकारसिद्ध्यर्थं प्रायश्चित्तम् । तत्र वृद्धविष्णुः—
**कृच्छ्रत्रयं चोपनेता त्रीन्कृच्छ्राँश्चबटुश्चरेत्॥**इति।
आचार्य्यस्य विशेषमाह स एव—
सावित्रीमभ्यसेदग्निपवित्राणि च संस्मरेत् ।
सहस्रं द्वादशावृत्तं सावित्रीं प्रजपेद्बुधः॥
स्वाधिकारार्थमेवास्याः प्रदानार्थं हि तत्स्मृतम्॥ इति।
अग्निपवित्रा“ण्यग्निः शुचिर्ब्रततम”इत्यादीनि । प्रजपेदित्यनेनाभ्यासमेवानूद्य सङ्ख्याविशेषमाह सहस्रमिति ।तत्प्रयोजनमाह स्वाधिकारार्थमिति । अस्याः प्रदानार्थं यः स्वाधिकारस्तदर्थमित्यर्थः । इदानीं कर्म्माह“ब्राह्मणान्भोजयेत्तं च”इति सूत्रम् । उपनेताऽऽभ्युदयिकब्राह्मणव्यतिरिक्ताँस्त्रीन् ब्राह्मणान्भोजयेदाशयेत् ।तं च कुमारं भोजयेत्। चशब्दो भोजनक्रियानुकर्षणार्थः । “पर्य्युप्तशिरसमलङ्कृतमानयन्ति”इति सूत्रम् । परि सर्वतः उप्तं मुण्डितं शिरो यस्य सः पर्य्युप्तशिरास्तं पर्युप्तशिरसमलकृतं स्रङ्मालादिना भूषितमानयन्ति । आचार्य्यपुरुषाः आचार्य्यसमीपमानयन्ति । कर्कवासुदेवमतेनकुमारस्यादौ वपनं पश्चात्त्रीन्भोजयेत् । तत्पङ्क्तौमुण्डितशिरसं बटुञ्च। कुमारस्य वपनं कृत्वा स्नापयित्वा त्रिप्रभृतिब्राह्मणैर्मात्रा च सह कुमार भोजयेत् । तथा च धर्म्मप्रवृत्तौ—
अथोपनयनाहे तु मुहूर्ताच्छोभनादधः ।
मात्रा सहैव भुञ्जीयाद्विवाहे भार्य्ययासह ॥
मात्रा सहैव भुञ्जीयाच्चौकमानेकभाजने ॥
“पश्चादग्नेरवस्थाप्य ब्रह्मचर्य्यमागामिति वाचयति”इति सूत्रम् । आनयनानन्तरमाचार्य्यःअग्नेःपश्चात्स्वस्य दक्षिणतः कुमारमवस्थाप्य अवस्थितं कृत्वा “ब्रह्मचर्य्यमागामिति ब्रूहि”इत्येवं वाचयति । ततो माणवकः प्राङ्मुखस्तिष्ठन्नेव “ब्रह्मचर्य्यमागा”मिति वदति । मन्त्रार्थः– ब्रह्मचर्य्यम्प्रत्यागतोऽस्मि ।ब्रह्म वेदस्तस्य चरणम् ।“ब्रह्मचार्य्यसानीति चे”ति सूत्रम् ।तत आचार्य्यो“ब्रह्मचार्य्यसानीति ब्रूही”ति वाचयति । चशब्दान्माणवकश्च प्राङ्मुखस्तथैव तिष्ठ“न्ब्रह्मचार्य्यसानी”ति तथैव ब्रूयात् । मन्त्रार्थः–ब्रह्म कर्म्मचरतीति एवंशीलो ब्रह्मचारी अहमसानि भवानि ।अथ वस्त्रम् “अथैनं वासः परिधापयती”ति सूत्रम् ।आनयनानन्तरमाचार्य्य एनं कुमारं वास अहतं परिधापयति । वीरमित्रोदये—
तत्रादौ परिधानार्थं कल्पयेन्नववस्त्रकम् ।
शिरोऽवगुण्ठनं चैव नवमन्यत्प्रकल्पयेत्॥
शिरोऽवगुण्ठनं प्रावरणवासः । अत्र वस्त्रशब्देन कौपीनं ग्राह्यम् । तथा चाश्वलायनः—
वाससी ते स्वगुरवे मेधाजननकर्मणि ।
दद्यात्तावत्प्रभृत्येव कौपीनेन प्रवर्त्तयेत्॥
तावत्प्रभृति कौपीनेनेत्यन्वयः ।स्मृत्यर्थसारे—
कौपीनं कटिसूत्रं च यतेःस्याद्ब्रह्मचारिणः ।
ग्राह्यं नैव गृहस्थस्य श्रौते स्मार्त्तेच कर्मणि॥
वीरमित्रोदये—
**कौपीनमात्रा वर्तन्ते तथाऽन्ये ब्रह्मचारिणः॥ **इति।
अत्र मात्रशब्देन बहिर्वासोन्यावृत्तिः । वाससि विशेषमाहाश्वलायनः–“अहतेन वाससा संवीत”मिति । अहतलक्षणमाह प्रचेताः—
ईषद्धौतं नवं श्वेतं सदशं यन्न धारितम् ।
अहतं तद्विजानीयात्सर्वकर्म्मसु पावनम्॥
वस्त्रविशेषमाह –“वासांसि शाणक्षौमाविकानि”इति वक्ष्यमाणसूत्रात् । तथा च मनुः—
वसीरन्नानानुपूर्वेण शाणक्षौमाविकानि च ।
आपस्तम्बोऽपि “वासांसि शाणक्षौमाविकानि काषायं चैके वस्त्रमुपदिशन्ति ब्राह्मणस्य माञ्जिष्ठं राजन्यस्य हारिद्रं वैश्यस्येति”। वशिष्ठोऽपि–“शुक्लमहतं वासो ब्राह्मणस्य कार्पासं माञ्जिष्ठं क्षौमं क्षत्रियस्य सर्वेषां वा तान्तवमरक्त”मिति । गौतमोऽपि –वासांसि शाणक्षौमचीरकुतपाः सर्वेषां कार्पासं वाविकृतं काषायमप्येके” । अथ वस्त्रधारणे मन्त्रः–“येनेन्द्राय बृहस्पतिर्वासः पर्य्यदधादमृतम् । तेन त्वा परिदधाम्यायुषे दीर्घायुत्वाय बलाय वर्च्चसइति”इति सूत्रम् ।येनेन्द्रायेति मन्त्रेण । मन्त्रार्थः–हे कुमार ! येन विधिना इन्द्राय सँस्कर्तुं बृहस्पतिः सुराचार्य्योवासःपर्यदधात् परिधापितवान् । किम्भूतं अमृतम् अहतम् । तेन विधिना त्वा त्वां माणवकं परिदधामि । उभ-
यान्तर्भूतो णिज्ज्ञेयः ।परिधापयतीति सूत्रे तत्त्वात् । यद्वा इन्द्राय पर्य्यदधात् इन्द्रे अव्यवस्थितं स्थापितवान् । तथा त्वा त्वां लक्षीकृत्य परिददधामि त्वयि अव्यवच्छेदेन धारयामीति ।किमर्थम् दीर्घायुत्वाय तव चीरं जीवनाय ।आयुशब्द उकारान्तोऽप्यस्ति ।बलाय देहशक्तये वर्च्चसे इन्द्रियशक्तये ऐश्वर्यायेति वा । अथ मेखला “मेखलां बध्नीत इयं दुरुक्तं परिबाधमाना वर्णं पवित्रं पुनती म आगात् । प्राणापानाभ्यां बलमादधाना स्वसा देवी सुभगा मेखलेयमिति युवा सुवासाःपरिवीत आगात्स उ श्रेयान्भवति जायमानः ।तन्धीरासः कवय उन्नयन्ति स्वाध्योमनसा देवयन्त इति वा तूष्णी”मिति सूत्रम् ।तत आचार्य्योमाणवककट्यां मेखलां रशना बघ्नीते “इयं दुरुक्त” मिति मन्त्रेण । अथ वा “युवा सुवासा”इति मन्त्रेण । अथ वा तूष्णींबघ्नीते । “मौञ्जीरशना ब्राह्मणस्य धनुर्ज्या राजन्यस्य मौर्व्वीवैश्यस्ये”ति वक्ष्यमाणसूत्रात् । मुञ्जस्तृणविशेषः तत्कृता मेखला मौञ्जी।धनुर्ज्या धनुषोपनीय ग्राह्या । मौर्वी मुरुस्तृणविशेषस्तन्मयी । अविरूर्णायुस्तद्रोमभिः कृता आवी । तथा च वशिष्ठः–“मौञ्जीरशना ब्राह्मणस्य धनुर्ज्या क्षत्रियस्य शणवान्तवी वैश्यस्ये”ति । पैठीनसिरपि– “मौञ्जी मेखलाश्मन्तकजा वा ब्राह्मणस्य बल्वजा मौर्वी वा राजन्यस्य शाणी क्षौमी वा वैश्यस्ये”ति । मेखला कटिवेष्टनरज्जुः । अश्मन्तकः कुश-सदृशस्तृणविशेष इति कल्पतरुः ।बल्वजा बिल्वत्वङ्निर्म्मिता । मौर्वी इति जिनीमालेति दाक्षिणात्यानां प्रसिद्धा । अयं च विकल्पो यथाशाखं यथासम्भवं वा द्रष्टव्यः । अथ मुख्याभावेऽनुकल्पः । तत्र मनुः—
**मुञ्जाभावे तु कर्त्तव्या कुशाश्मन्तकबल्वजैः ॥ **इति।
मुञ्जग्रहणमुक्तद्रव्योपलक्षणं प्रतिनिधौ त्रित्वदर्शनात् । तेन मुञ्जमूर्वीशणानामभावे वर्णत्रयस्य क्रमेण कुशादयो ग्राह्या इत्यर्थ इति केचित् । वस्तुतस्तु एकैकस्या मेखलायास्त्रयस्त्रयः प्रतिनिधयः । अत्र च मुञ्जादिस्थाने विहितानां कुशादीनां प्रतिनिधित्वान्मुञ्जधर्म्मस्त्रिवृत्त्वादिधर्म्मलाभो भवति । नीवारेष्टिवद्व्रीहिधर्म्माणां प्रोक्षणावधातादीनामिति । शङ्खः—“सर्वेषां
वा मौञ्जी”। अथ मेखलालक्षणमाह–“ब्रह्मचारिणः शिरसः समन्ताद् गुणमेकविंशतिवारं वेष्टयित्वा शिरोवेष्टनप्रमाणरज्जुर्ग्राह्या ।सा त्रिवृता कार्या । उक्तञ्च निर्णयामृते—
अथावर्त्त्यैकविंशत्या शिरसि ब्रह्मचारिणः ।
मेखला त्रिगुणीकृत्य कर्त्तव्या साम्प्रदायिकैः॥
तथा च याज्ञवल्क्यः–“उपवीतवन्मेखला कार्य्या केचित्त्रैगुण्यमिच्छन्ति”।अथ मेखलाबन्धनम् ।आचार्य्यस्त्रिगुणां मेखलामादाय बटोःकटिप्रदेशे प्रादक्षिण्येन त्रिर्वेष्टयति । तृतीयवेष्टने ग्रन्थयस्त्रयः पञ्च सप्त वा कार्य्याः । तदुक्तं गदाघरभाष्ये–
त्रिवृता मेखला कार्य्या त्रिवारं स्यात्समावृता ।
तद्ग्रन्थयस्त्रयः कार्य्याः पञ्च वा सप्त वा पुनः॥
अत्र प्रवरसङ्ख्यानियमः ।त्र्यार्षेयस्य ग्रन्थित्रयं पञ्चार्षेयस्य पञ्च सप्तार्षेयस्य सप्तेति गर्गपद्धतौ । वृद्धाचारोऽप्येवमेव ।आचार्यकर्त्तृकं मेखलाबन्धनं कुमारस्य मन्त्रपाठ इति वासुदेवमुरारिमिश्रजयरामहरिहराः । गदाधरमते तु आचार्यस्यैव मन्त्रपाठः । तेषामयं ग्रन्थः– मुरारिमिश्रैरबुद्ध्वैव “पुरुषयोगिसंस्कारयोस्त्यागे सामर्थ्या”दिति हेतूपन्यासार्थं प्रदर्शितम् । न हि करणमन्त्रेऽयं न्यायः प्रवर्त्तते । आचार्यकर्त्तृको ह्ययं पदार्थः, मन्त्रपाठस्तु लिङ्गवशेन माणवककर्तृकःस्यात् इति चेन्न । प्रधानभूतश्च पदार्थः, गुणभूतश्च मन्त्रः । अतः पदार्थाङ्गत्वेन मन्त्रोऽपि पदार्थकर्त्रापठनीयः । मन्त्रेऽपि च लक्षणया माणवकाभिधानमित्यदोषः । तथा च श्रुतिः“यां वै काञ्च यज्ञ ऋत्विज आशिषमाशासते यजमानस्यैवे”ति । कारिकायाम्—
बध्नीयात्त्रिगुणां श्लक्ष्णामियन्दुरुक्तमुच्चरन् ।
आचार्यस्यैव मन्त्रोऽयं न बटोरात्मनेपदात्॥
गङ्गाधरोऽपि—
वस्त्रे च मेखलादाने तथैवाञ्जालिपूरणे ।
हृदयालम्भने प्रश्ने तथा भूतप्रदानके॥
आचार्यस्यैव मन्त्रपाठः । अन्यत्र माणवकस्य । मन्त्रार्थः–इयमितीहशब्द आद्यन्तयोर्वाक्यालङ्कारार्थः। इयं मेखला माम् अगात् आगता । किं कुर्वती । तदुक्तम् दुष्टं भीषितमसत्याप्रियादिकं परितः सर्वतः भूतं भविष्यच्च बाधमाना निराकुर्वाणा ।वर्णं वर्णत्वं पवित्रं शुद्धं पुनती सत्कुर्वती, मे मम प्राणापानाभ्यां मरुद्भ्यां तयोर्बलं सामर्थ्यम् आदधाना स्थापयन्ती ।स्वसा स्वसृवद्धिता ।देवी दीप्तिमयी । सुभगा सौभाग्यदा ।युवा सुवासा इत्यस्यार्थः–यौति गुणानेकीकरोतीति युवा । सुवासाः शोभनवस्त्रः ।अहतं शोभनमुच्यते । परिवीतःवस्त्रपुष्पमालाभिः समन्ततो वेष्टित आगात् आगतः । उ वितर्के । श्रेयान् सपदि जायमान उत्पाद्यमानः श्रेयान्शुद्धःस्यात् ।धीरासः स्थिरप्रज्ञाः कवयो वेदवेदार्थज्ञा यतः । अथ यज्ञोपवीतम् । अत्र यद्यपि सूत्रकारेण यज्ञोपवीतधारणं न सूत्रितं तथापि– “एकवस्त्राःप्राचीनावीतिन”इति प्रेतोदकदाने प्राचीनावीतित्वविधानात् ,
दण्डाजिनोपवीताति मेखलांचैव धारयेत् ।
इति याज्ञवल्क्येन ब्रह्मचारिण उपवीतधारणस्मरणात् । तथा—
सदोपवीतिना भाव्यं सदा बद्धशिखेन च ।
विशिखो व्युपवीतश्च यत्करोति न तत्कृतम्॥
इति च्छन्दोगपरिशिष्टे कात्यायनेन सामान्यतः सर्वाश्रमिणां सदा यज्ञोपवीतधारणस्मरणाच्च । यज्ञोपवीतधारणं तावदुपनयनप्रभृति प्राप्तम् । तच्च कुत्र कर्त्तव्यमित्यवसरापेक्षायामौचित्यान्मेखलाबन्धनानन्तरं युज्यते । एतदेव कर्कोपाध्यायवासुदेवदीक्षितप्रभृतयः स्वस्वग्रन्थे यज्ञोपवीतधारणमन्त्रावसरे लिखितवन्तः । तच्च सर्वकर्म्माङ्गत्वान्मत्रवद् युज्यते इति मन्त्रमपि लिखितवन्तः । “यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् ।आयुष्यमग्र्यंप्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः”।
** ** इति माणवकपठितेन मन्त्रेण उपवीतं परिधापयति । अथ यज्ञोपवीतलक्षणम् । तत्र मनुः—
कार्पासमुपवीतं स्याद्विप्रस्योर्ध्ववृतन्त्रिवृत् ।
शणसूत्रमयं राज्ञो वैश्यस्याविकसूत्रजम्॥
** ** त्रिवृन्नवसूत्रकमिति यावत् ।बौधायनः–“कौशं सौत्रं त्रिस्त्रिवृद्यज्ञोपवीतमानाभेः”। कौशं कृमिकोशोद्भवं पट्टसूत्रमयमिति यावदिति कल्पतरुः । वस्तुतस्तु कौशं कुशपत्रनिर्म्मितम् । तथा च गोभिलः“यज्ञोपवीतं कुरुते सूत्रं वस्त्रं कुशं रज्जुं वे”ति । सौत्रं कार्पासम् । त्रिवृन्नवगुणम् । “नव वै त्रिवृ”दिति श्रुतेः । देवलः–
कार्पासक्षौमगोवालशणवल्कतृणोद्भवम् ।
सदा सम्भवतो धार्य्यमुपवीतं द्विजातिभिः॥
क्षुमा अतसी तत्सम्बन्धी ।वल्कलं तरुत्वक् ।तृणोद्भवं कृशादितृणनिर्म्मित्तम् । आदित्यपुराणे–
क्षौमजं वाथ कार्पासं शणसूत्रमथापि वा ।
दद्याद्यज्ञोपवीतं यो न तं हिंसन्ति वायसाः॥
वायसा राक्षसाः । यद्यप्येषु वाक्येषु सम्भवं यथासम्भवं वा शब्दाः श्रूयन्ते तथाप्येषां कल्पानां मुख्यासम्भवविषयत्वमेव द्रष्टव्यम्, न तुल्यबलत्वम् । अथ यज्ञोपवीतलक्षणम् । तत्र भृगुकात्यायनौ—
त्रिवृद्र्ध्ववृतं कार्यं तन्तुत्रयमधोवृतम् ।
त्रिवृतं चोपवीतं स्यात्तस्यैको ग्रन्थिरुच्यते॥
सङ्ग्रहेऽपि—
ऊर्ध्ववृत्तमधोवृत्तं पुनरुर्ध्ववृतन्तथा ।
एतद्यज्ञोपवीतं स्यात्तस्यैको ग्रन्थिरिष्यते॥
गृह्यपरिशिष्टेऽपि—“उपवीतमयुग्मशरं विषमतन्तुकं त्रिवृद् यज्ञोपवीत”मिति । एकं सूत्रमयुग्मशरं त्रिगुणीकृत्य वलितं पुनस्त्रिवृत्क्रियते त्रिगुणीकृत्य वल्यते तन्नवतन्तुकमुपवीतं भवति । त्रिगुणीकृतमेकेन ग्रन्थिना बद्धं सत् यज्ञोपवीतमित्युक्तेः । तथा च देवलः—
यज्ञोपवीतं कुर्वीत सूत्रेण नवतन्तुकम् ।
एकेन ग्रन्थिना तन्तुर्द्विगुणास्त्रिगुणोऽथ वा॥
अत्र तन्तौ द्वैगुण्यं त्रैगुण्यं सम्भवे द्रष्टव्यम् । ततश्च द्विगुणस्यैव त्रैगुण्यं षट्तन्तुकतैव सम्पद्यते । अत एव पैठीनसिः—
**“**कार्पासमुवीतं षट्तन्तुकं त्रिवृतं ब्राह्मणस्य क्षौमं राजन्यस्याविकं वैश्यस्ये”ति। द्विगुणे सूत्रे त्रिवृति कृते षट्तन्तुकम्भवतीत्यर्थः । तदूर्ध्ववृतं कार्यम् । तथा मार्कण्डेयपुराणे दत्तात्रेयः—
अधोवृत्तैस्त्रिभिः सुत्रैः पुनश्चोर्ध्ववृतैस्त्रिवृत् ।
ऊर्ध्ववृत्तस्य लक्षणमाह सङ्ग्रहकारः—
करेण दक्षिणेनोर्ध्वं गतेन त्रिगुणीकृतम् ।
वलितं मानवैःसूत्रं शास्त्रे चोर्ध्ववृतं स्मृतम्॥
अथोपवीतनिर्माणप्रकारः । तत्र देवलः—
कर्षासकं समादद्याच्छुचिक्षेत्रे विशोधिते ।
त्रिवृतन्तु तथा कार्य्यंब्राह्मण्या सूत्रकं कृतम्॥
ब्राह्मण्यत्र सधवेति व्याख्येयम्, विधवानिर्म्मितस्य निषिद्धत्वात् । तथा च स्कान्दे—
विधवारचितं सूत्रमनध्यायकृतं च यत् ।
विच्छिन्नं चाप्यधोयातं भुक्त्वा निर्म्मितमुत्सृजेत्॥
धर्मप्रवृत्तौ—
उच्छिष्टं तोरणच्छिन्नं विकृतं विधवाकृतम् ।
भुक्तोत्तरे त्वनध्याये सप्त तन्तून्न धारयेत्॥
इदं च सूत्रान्तरसम्भवे द्रष्टव्यम् । असम्भवे तु तस्यापि ग्राह्यत्वात् । तदुक्तं स्मृतिसारे—
छेदे विनाशे वा स्नाने कन्यया निर्म्मितं शुभम् ।
विधवान्धाभिरथवा सूत्रं गृह्णीत वै शुचिः॥
छेदे विनाशे यज्ञोपवीतस्येति शेषः । गदाधरभाष्येऽपि—
शुचौ देशे शुचिःसूत्रं संहताङ्गुलिमूलकम् ।
आवेष्ट्य षण्णवत्या ९६ तत्त्रिगुणकृत्य यत्नतः॥
अब्लिङ्गकैस्त्रिभिः सम्यक्प्रक्षाल्योर्ध्ववृतन्तु तत्॥
अब्लिङ्गकैः“आपोहिष्ठा”दिभिः ।वीरमित्रोदये—
देवागारेऽथ वा गोष्ठे नद्यां वान्यत्र वा शुचौ ।
सावित्र्या त्रिगुणं कुर्य्यान्नवसूत्रं तु तद्भवेद्॥
अभिमन्त्र्याथ भूरग्निश्चेति वृत्तत्रयं त्रिभिः॥
तत्र मन्त्राः—
“ॐ भूरग्नये च पृथिव्यै च महते च स्वाहा ।
ॐ भूवो वायवे चान्तरिक्षाय च महते च स्वाहा ।
ॐ स्वरादित्याय च दिवे च महते च स्वाहा” ।
अथ यज्ञोपवीतपरिमाणम् ।वीरमित्रोदये—
आकण्ठस्तत्प्रमाणं स्याद्दीर्घन्तु सुस्थितं तथा ।
कनिष्ठाङ्गुलिवत्स्थूलन्तदूर्ध्वं वा त्रिवृच्छुभम्॥
कात्यायनः—
पृष्ठदेशे च नाभ्यां च धृतं यद्विन्दते कटिम् ।
तद्धार्य्यमुपवीतं स्यान्नातिलम्बं न चोच्छ्रितम्॥
स्तनादूर्ध्वमधो नाभेर्न धार्य्येत कथञ्चन॥
तत्र मनुः—
रन्ध्रादिनाभिपर्य्यन्तं ब्रह्मसूत्रं पवित्रकम् ।
**न्यूने रोगप्रवृद्धिः स्यादधिके धर्मनाशनम्॥**इति।
अथाश्रमविशेषेणोपवीतसंख्यामाह । तत्र भृगुः—
उपवीतं बटोरेकं द्वे तथेतरयोः स्मृते ।
एकमेव यतीनां स्यादिति शास्त्रविनिश्चयः॥
तथाशब्दात्स्नातकग्रहणम् । तथा च वशिष्ठः—
स्नातकानां द्वितीयं स्यादन्तर्वासस्तथोत्तरम् ।
**यज्ञोपवीते द्वे यष्टिः सोदकश्च कमण्डलुः॥ **इति।
इतरयोर्गृहस्थवानप्रस्थयोः । देवलोऽपि —
यज्ञोपवीते द्वे धार्य्ये श्रौतेस्मार्ते च कर्मणि ।
तृतीयमुत्तरीयार्थं वस्त्राभावे चतुर्थकम्॥
यतीनां त्रिदण्डिनाम् । एकदण्डिनां शिखासूत्रत्यागाभिधानात् । काश्यपोऽपि—
त्रीणि चत्वारि पञ्चाष्ट गृहिणः स्युर्दशापि वा ।
उत्तमाश्रमिणस्त्वेकं व्रतिनस्त्वेकमेव हि॥
इयं च सङ्ख्या नित्यधारणे । काम्ये तु सङ्ख्यान्तरमपि देवलः—
आयुःकामै सदा धार्य्यंबहु यज्ञोपवीतकम् ।
पञ्चभिः पुत्रकामी स्याद्धर्म्मकामी तथैव च॥
** ** इदं च ब्रह्मचारिणोऽपि भवति, आयुःकामनाया विशेषात् । यत्तु—
एकयज्ञोपवीतेन जपहोमादि यत्कृतम् ।
तत्सर्वं विलयं याति न पितृृँश्चोपतिष्ठते॥
इति निन्दार्थवादः, सोऽपि गृह्यादिविषय एव , न ब्रह्मचारिविषयः । सदोपवीतिनेत्यत्र सदाशब्दश्रवणाच्चोपवीतस्य कण्ठादनुत्तारणं गम्यते । तथा च भृगुः—
मन्त्रपूतं स्थितं काये यस्य यज्ञोपवीतकम् ।
नोद्धरेच्च ततः प्राज्ञो य इच्छेच्छ्रेय आत्मनः॥
**सकृच्चाधारणात्तस्य प्रायश्चित्ती भवेद्विजः॥ **इति।
प्रक्षालनार्थन्तु शाखाविशेषेणापवादमाह ।तत्र भृगुः—
तैत्तिरीयाःकठाःकाण्वाश्चरका वाजसनेयिनः ।
कण्ठादुत्तार्य्य सूत्रन्तु कुर्य्युर्वै क्षालनं द्विजाः॥
बह्वृचाःसामगाश्चैव ये चान्ये यजुःशाखिनः ।
कण्ठादुत्तार्य्यसूत्रन्तु पुनरर्हन्ति सँस्क्रियाम्॥
सँस्क्रियां मन्त्रेण धारणम् ।
अभ्यङ्गे चोदधिस्नाने मातापित्रोर्मृतेऽहनि ।
कण्ठादुत्तार्य्यसूत्रन्तु कुर्य्युर्वै क्षालनं द्विजाः॥
केशसंस्पृष्टे यज्ञोपवीते शुद्धिमाह । वीरमित्रोदये देवलः–
सूत्रं सलोमकं चेत्स्यात्ततः कृत्वा विलोमकम् ।
सावित्र्या दशकृत्वाद्भिर्मन्त्रिताभिस्तदुत्क्षिपेत्॥
यज्ञोपवीतादिभङ्गेप्रतिपत्तिमाह ।मनुः—
मेखलामजिनं दण्डमुपवीतं कमण्डलुम् ।
अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रतः॥
** ** भृगुः—
पतितं त्रुटितं वापि ब्रह्मसूत्रं यदा भवेत् ।
नूतनं धारयेद्विप्रः स्नानसङ्कल्पपूर्वकम्॥
आचम्य प्रतिसूत्रन्तु त्रिगुणीकृत्य यत्नतः ।
यज्ञोपवीतमेकैकं प्रतिमन्त्रेण धारयेत्॥
एकमन्त्रेण सङ्कल्प्य धृत्वा यज्ञोपवीतकम् ।
एकस्मिँस्त्रुटिते सर्वं त्रुटितं नात्र संशयः॥
अथ यज्ञोपवीतधारणे कर्मविशेषे देशविशेषमाह परिशिष्टे–“वामस्कन्धे यज्ञोपवीतं दैवे प्राचीनावीतमितरथा पितृयज्ञे”। देवलोऽपि–
ब्रह्मसूत्रेऽपसव्येंऽसे स्थिते यज्ञोपवीतिता ।
प्राचीनावीतिता सव्ये कण्ठस्थे च निवीतिता॥
श्रुतिरपि — “दक्षिणं बाहुमुद्धरतेऽवधत्ते सव्यमिति यज्ञोपवीतमेतदेव विपरीतं प्राचीनावीतं संवीतं मानुष”मिति । अथ यज्ञोपवीतधारणमन्त्रार्थः– हे आचार्य्य! इदं ब्रह्मसूत्रमहं प्रतिमुञ्च प्रतिमुञ्चामि प्रतिपूर्वोमुञ्चतिर्बन्धनार्थः। पुरुषव्यत्ययश्छान्दसः । किम्भूतम् यज्ञोपवीतं यज्ञेन प्रजापतिना यज्ञाय वेदोक्तकर्माधिकारायेति वा उपवीतमुपरिस्कन्धदेशे वीतंपरिहितम् । परमं पर आत्मा मीयते ज्ञायते येन वाक्योपदेशाधिकारित्वात् । पवित्रं शोधकम् ।प्रजापतेर्ब्रह्मणः सहजं सहोत्पन्नं, स्वभावसिद्धं वा । पुरस्तात् प्राग्भवम् । अत इदमायुषे हितम् आयुष्यमस्तु । अग्त्यंमुख्यम् अनुपहतम् । शुभ्रं निर्म्मलम् ।बलं धर्मसामर्थ्यंतेजः प्रभावप्रदम् । अथाजिनम् “अथाजिनं प्रयच्छति मित्रस्य चक्षुर्द्धरुणं बलीयस्तेजो यशस्वि स्थविर<MISSING_FIG href=”../books_images/U-IMG-1698252716Screenshot(21”/>.png)समिद्धम् । अनाहनस्यं वसनं जरिष्णुःपरीदं वाज्यजिनं दधेऽहमिति”इति सूत्रम् । यज्ञोपवीतधारणानन्तरमजिनधारणम् । “ऐणेयमजिनमुत्तरीयं ब्राह्म-
णस्य रौरव <MISSING_FIG href=”../books_images/U-IMG-1698252835Screenshot(21”/>.png)राजन्यस्याजं गव्यं वा वैश्यस्य सर्वेषां वा गव्यमसति प्रधानत्वाद्”इति वक्ष्यमाणसूत्रात् ब्राह्मणक्षत्रियविशां यथाक्रममैणेयं रौरवं आजं गव्यं वा भवतीत्यर्थः । एणी बिन्दुरहिता मृगी गौरमृगी तत्सम्बन्ध्यैणेयम् । ऐणीशब्दो डक्प्रत्ययान्तः ।रुरुर्बिन्दुमान्मृगः ।अजाच्छागः, गव्यं वा । अत्रै “णेयमुत्तरीय”मिति वचनात् प्रागुक्तानि शाणादीनि अन्तरीयाणीति गम्यते । तथा चाश्वलायनः—
“ऐणेयेन वाजिनेन ब्राह्मणं रौरवेण क्षत्रियमाजेन वैश्य”मिति । अत्र वाशब्दग्रहणाद्वासोऽजिनयोर्विकल्पः ।उभयोरपि प्रावरणार्थत्वात् । असति यथोक्ताजिनासम्भवे गव्यं प्रधानत्वात् । प्रशस्तत्वादित्यर्थः । यमः—“सर्व्वेषां वा रौरवाजिनम्”। इतरचर्म्माभावात् इति शेषः ।विष्णुः—
“मार्गवैयाघ्रबास्तानि चर्माणि”। तथा च यमस्मृतिः—
कृष्णाजिनं ब्राह्मणस्य रौरवं क्षत्रियस्य तु ।
बस्ताजिनं तु वैश्यस्य सर्वेषां रौरवाजिनम्॥
तत्परिधानमाह शौनकः—
निक्षिप्य ब्रह्मसूत्रन्तु वितत्याधः प्रसार्य्यच ।
वामांसे स्थापयेच्चैतत्तथा कृष्णमृगाजिनम्॥
तत्परिमाणमाह शाकलः—
अखण्डं वा त्रिखण्डं वाष्टाचत्वारिंशदङ्गुलम् ।
चतुरङ्गुलविस्तीर्णं धारयेदजिनं सदा॥
खण्डत्रयपरिमाणमुक्तं रेणुदीक्षितेन कारिकायाम्—
अङ्गुलन्तु बहिर्लोम या स्याच्चतुरङ्गुलम् ।
अजिनं धारयेद्विप्रश्चतुर्विशाष्टषोडशैः॥
चतुर्विंशाङ्गुल एकः खण्डः । अष्टाङ्गुलो द्वितीयः । षोडशाङ्गुलस्तृतीयः । त्रिभिः स्यूतैरष्टाचत्वारिंश ४८दङ्गुलं परिमण्डलं सम्पद्यते । अजिनस्योत्तरीयकरणं तूष्णीम् । मन्त्रपाठेन वेति वासुदेवः । मन्त्रेणाजि-
नधारणमिति गर्गपद्धतौ । कारिकायाम्—
**मित्रस्य चक्षुरित्युक्त्वा तद्वत्कृष्णाजिनं ततः॥ **इति।
“मित्रस्य चक्षु”रितिमन्त्रः । अथ दण्डधारणम् । “दण्डं प्रयच्छति तम्प्रतिगृह्णाति यो मे दण्डः परापतद्वैहायसोऽधि भूम्याम् । तमहं पुनरादद आयुषे ब्रह्मणे व्रह्मवर्च्चसायेति”इति सूत्रम् । “पालाशो ब्राह्मणस्य दण्डो बैल्वोराजन्यस्यौदुम्बरो वैश्यस्ये”ति वक्ष्यमाणसूत्रात् ।पालाशबैल्वौदुम्बरा ब्राह्मणक्षत्रियविशां यथासङ्ख्यं ज्ञेयाः ।पालाशशब्दोऽत्र वृक्षवचनो न पत्त्रवचनः । औदुम्बरादिसाहचर्य्यात् । विष्णुः– “पालाशखादिरौदुम्बरा दण्डा”इति । भविष्यपुराणे—
ब्राह्मणो बैल्वपालाशौ तृतीयःप्लवजस्तथा ।
न्यग्रोधखादिरौ क्षत्रे तथाऽन्ये वैतसोद्भवः॥
पैलवादुम्बरौ वैश्ये तृतीयोऽश्वत्थजस्तथा ।
दण्डानेतान्महाबाहो ! धर्मतोऽर्हन्ति धारितुम्॥
अथानुकरूपः “सर्वे वा सर्वेषा”मिति वक्ष्यमाणसूत्रात् । गौतमः–“यज्ञीयो वा सर्व्वेषा”मिति ।यज्ञीयो यज्ञार्हवृक्षीयः ।स चाभिहितो ब्रह्मपुराणे—
पालाशश्चाथ न्यग्रोधप्लववैकङ्कतोद्भवाः ।
अश्वत्थोदुम्बरो बिल्वश्चन्दनः सरलस्तथा॥
शालश्च देवदारुश्च खादिरश्चेति यज्ञियाः ।
यमः—
एतेषामप्यलाभे तु सर्वेषामेव यज्ञियाः॥
अथ दण्डलक्षणम् । तत्र मनुः—
ऋजवस्ते तु सर्वे स्युरव्रणाः सौम्यदर्शनाः ।
अनुद्वेगकरान्दण्डान्सत्वचो नाग्निदूषितान्॥
गौतमोऽपि । “अपीडिता यूपवक्त्राः सवल्का”इति । अपीडिता वल्लीवेष्टनादिभिः ।यूपवक्त्रा यूपबदुन्नताग्राः। अथ दण्डपरि-
माणम् “केशसम्मितो ब्राह्मणस्य दण्डो ललाटसम्मितःक्षत्रियस्य घ्राणसम्मितो वैश्यस्ये”तिबक्ष्यमाणसूत्रात । तथा च मनुः—
केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रयत्नतः ।
ललाटसम्मितो राज्ञः स्यात्तु नासान्तिको विशः॥
केशान्तिको मूर्धप्रमाण इत्यर्थः । अथ विशेषमाह वशिष्ठः–“घ्राणसम्मितो ब्राह्मणस्य ललाटसम्मितः क्षत्रियस्य केशसम्मितो वैश्यस्ये”ति । “यो मे दण्ड”इति मन्त्रेण दण्डधारणम् । मन्त्रार्थः–हे आचार्य्य ! यो दण्डःमे मह्यं मरापतत् अभिमुखमागतः । वैहायसः आकाशे बसन् । अधिभूम्यां भूमेरुपरिवर्त्तमानः । तं दण्डमहमाददे गृह्णामि । पुनर्ग्रहणात्सोमदीक्षायां यो मे दण्डो ग्राह्यस्तमप्यादद इत्याशासनम् । किमर्थम् आयुषे जीवनाय । ब्रह्मणे वेदग्रहणाय।ब्रह्मवर्च्चसाय यजनाध्यापनोत्कर्षतेजसे। “दीक्षावदेके दीर्घसत्रमुपैतीति वचना"दिति सूत्रम् ।एके आचार्य्यादीक्षावत्सोमयागदीक्षायां यथा तूष्णीं प्रतिगृह्यो “च्छ्रयस्वे”त्युच्छ्रयग्रहणं तथा स्मरणाभावात् । या चात्र दीर्घसंस्तुतिः सा दीर्घकालसामान्यादिति भर्त्तृयज्ञकर्कजयरामाः । दीक्षावद्वा दण्डग्रहणमिति वासुदेवकारिकाकारहरिहराः । “अथास्याद्भिरञ्जलिनाऽञ्जलिं पूरयत्पापोहि ष्ठेति तिसृभिः” इति सूत्रम् ।अथ दण्डप्रदानानन्तरमाचार्योऽस्य कुमारस्याञ्जलिं स्वेनाञ्जलिनाऽऽप आदाय ताभिरद्भिः पूरयति “आपो हि ष्ठे”ति तिसृभिः ऋग्भिः । “अथैन<MISSING_FIG href=”../books_images/U-IMG-1698254224Screenshot(21”/>.png)सूर्य्यमुदीक्षयति तच्चक्षुरिति” इति सूत्रम् । अथाञ्जलिपूरणानन्तरमेनं माणवकं सूर्यमुदीक्षस्वति आचार्य्यः प्रैषं दत्वा सूर्य्यमुदीक्षयति सूर्यं दर्शयति । स च प्रेषितस्तेन “तच्चक्षु”रिति मन्त्रेण सूर्य्यमुदीक्षते । “अथास्य दक्षिणा<MISSING_FIG href=”../books_images/U-IMG-1698254292Screenshot(14”/>.png) समधि हृदयमालमते मम व्रते ते हृदयं दधामि मम चित्तमनु चित्तन्ते अस्तु । मम वाचमेकमना जुषस्व बृहस्पतिष्ठ्वानियुनक्तु मह्यमिति”इति सूत्रम् । अथ सूर्य्यदर्शनानन्तरमाचार्योऽस्य माणवकस्य दक्षिणसमधि दक्षिणस्कन्धोपरि स्वदक्षिणहस्तं नीत्वा हृदयं वक्षः आलभतेस्पृशति । “मम व्रते”इति मन्त्रेण ।व्याख्यातश्चायं विवाहप्रकरणे ।
** ** “अथास्य दक्षिण<MISSING_FIG href=”../books_images/U-IMG-1696052836234.png”/>हस्तं गृहीत्वाऽऽह को नामासीति" इति सूत्रम् । अथ हृदयालम्भनानन्तरमाचार्योऽस्य दक्षिणं हस्तं गृहीत्वा स्वहस्तेन गृहीत्वा “को नामासी” त्याह ब्रवीति ।“असावहं भो३ इति प्रत्याहे " तिसूत्रम् । एवं पृष्टो माणवक आचार्यं प्रत्याह । असाविति सर्वनामस्थान आत्मनो नामग्रहणम् ।“अमुकशम्माहं भो ३” इति प्रतिवचनं दद्यात् । “अथैनमाह कस्य ब्रह्मचार्य्यसीति” इति सूत्रम् । अथ प्रतिवचनान्तरमाचार्य्यएनं माणवकं प्रति “कस्य ब्रह्मचार्य्यसी" त्याह ।“भवत इत्युच्यमान इन्द्रस्य ब्रह्मचार्य्यस्यग्निराचार्य्यस्तवाहमाचार्यस्तवासाविति” इतिसूत्रम् ।अमुं मन्त्रं पठति । असावित्यस्य स्थाने आमन्त्रणविभक्तियुक्तकुमारनामग्रहणं कुर्य्यात् । अमुकशर्म्मन्निति पठति । स्वनामप्रथमान्तमित्यपरे । उभयथा मन्त्रार्थोपपत्तेः । स्मृत्त्यन्तरान्निर्णय इति भर्त्तृयज्ञभाष्ये। मन्त्रार्थस्तु– इदि परमैश्वर्य्ये।इन्द्रस्य प्रजापतेः ब्रह्मचारी त्वमसि । तव चाग्निराचार्य्यः प्रथमः । द्वितीयश्चाहं तव हे असावमुकशर्म्मन् ब्रह्मचारिन् । “अथैनं भूतेभ्यः परिददाति प्रजापतयेत्वा परिददामि देवाय त्वा सवित्रे परिददाम्यद्भयस्त्वौषधिभ्यः परिददामि द्यावापृथिवीभ्यां त्वा परिददामि विश्वेभ्यस्त्वा भूतेभ्यः परिददामि सर्व्वेभ्यस्त्वा भूतेभ्यः परिददाम्यरिष्ट्या इति" इति सूत्रम् ।अथानन्तरमेनं कुमारमाचार्य्योभूतेभ्यःप्रजापतिप्रभृतिभ्यः परि परितोऽरिष्टयै रक्षायै प्रयच्छति । “प्रजापतये त्वा परिददामी” त्यनेन मन्त्रेण इति । मन्त्रार्थःसुगमः ।हे ब्रह्मचारिन् ! प्रजापतये स्रष्ट्रे त्वा त्वां परिददामि ।समर्प्पयामि विश्वेभ्यो भूतेभ्यः विश्वानि भूतानि पृथिव्यप्तेजोवाय्वाकाशानि तेभ्यः पञ्चभ्यः ।सर्वेभ्यो भूतेभ्यो देवविशेषेभ्य इत्यपौनरुक्त्या किमर्थमरिष्ट्यै अहिंसायै ।
** इति श्रीप्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्रविवरणे संस्कारगणपतौ द्वितीयकाण्डे द्वितीयकण्डिकाविवरणम् ॥**
<MISSING_FIG href="../books_images/U-IMG-169605317212.PNG"/>
(अथ तृतीया कण्डिका)
प्रदक्षिणमग्निं परीत्योपविशत्यन्वारब्ध आज्याहुतीर्हुत्वा प्राशनान्तेऽथैनर्ठ०स<MISSING_FIG href="../books_images/U-IMG-1696154631234.png"/>शास्ति ब्रह्मचार्यस्यपोशान कर्म कुरु मा दिवा सुषुप्था वाचं यच्छ समिधमाधेह्यपोशानेत्यथाऽस्मै सावित्रीमन्वाहोत्तरतोऽग्नेः प्रत्यङ्मुखायोपविष्टायोपसन्नाय समीक्षमाणाय समीक्षिताय दक्षिणतस्तिष्ठत आसीनाय वैके पच्छोऽर्द्धर्चशः सर्वांच तृतीयेन सहानुवर्त्तयन्संवत्सरे षण्मास्ये चतुर्विर्ठ०शत्यहे द्वादशाहे षडहे त्र्यहेवा सद्यस्त्वेव गायत्रीं ब्राह्मणायानुब्रूयादाग्नेयो वै ब्राह्मण इति श्रुतेस्त्रिष्टुभर्ठ० राजन्यस्य जगतीं वैश्यस्य सर्वेषां वा गायत्रीम् ॥३॥
** ** “प्रदक्षिणमग्निंपरीत्योपविशति” इति सूत्रम् । एवं वस्त्रदानादिभिराचार्य्येण संस्कृतो माणवकःअग्निंप्रदक्षिणं यथाभवति तथा परीत्य परिक्रमणं कृत्वाऽग्नेरुत्तरत उपविष्टस्याचार्य्यस्योत्तरत उपविशति आस्ते । पश्चादग्नेराचार्य्यस्योत्तरत उपविशतीति जयरामगदाधरहरिहराः । पश्चादग्नेरुपवेशनमिति भर्त्तृयज्ञकारिकाकारौ । आचार्य्यस्य दक्षिणत इति गर्गपद्धतौ । आचार्य्यस्योत्तरत इति वासुदेवः। “अन्वारब्ध आज्याहुतीर्हुत्वा प्राशनान्ते" इति सूत्रम् । तत आचार्य्योब्रह्मणा अन्वारब्ध आधारादिस्विष्टकृदन्ताश्चतुर्दशाज्याहुतीर्हुत्वा संस्रवप्राशनान्ते । अत्र पुनरन्वारम्भानुवादः चतुर्दशाहुतिहोमव्यतिरिक्तहोमनिषेधार्थः । “अथैन<MISSING_FIG href="../books_images/U-IMG-1698287803Screenshot(14"/>.png)स<MISSING_FIG href="../books_images/U-IMG-1696155224234.png"/>शास्ति ब्रह्मचार्य्यस्यपोशान कर्म्म कुरु मा दिवा सुषुप्था वाचं यच्छ समिधमाधेह्यपोशानेति" इति सुत्रम् । अथानन्तरमाचार्य्यो ब्रह्मोपवेशनादि दक्षिणादानान्तं कर्म्मकृत्वा एनं माणवकं संशास्ति शिक्षयति । तच्चैवम् “ब्रह्मचार्यसी” त्याह । “भवानी" ति ब्रह्मचारी प्रत्याह । “अपोशाने " त्याचार्य्यआह । “अशानी” ति ब्रह्मचारी प्रत्याह । “कर्म्म कुरु” इत्याचार्य्य आह ।“करवाणी”ति ब्रह्मचारी
प्रत्याह । “मा दिवा सुषुप्था”इत्याचार्य्य आइ । “न स्वपानी”ति ब्रह्मचारी प्रत्याह।“वाचं यच्छे” त्याहाचार्य्यः ।“यच्छानी" ति ब्रह्मचारी प्रत्याह । “समिधमाधेही" त्याचार्य्यआह ।“आढधानी"ति ब्रह्मचारी प्रत्याह । “अपोशाने"ति आचार्य्यआइ । “अशानी”ति ब्रह्मचारी प्रत्याह । ब्रह्मचार्य्यसीत्यादिप्रैषाणामयमर्थः—ब्रह्म कर्म्म चरतीत्येवंशीलो ब्रह्मचारी असि भवसि । अपः अशान पिब । कर्म्म स्नानादिकं स्ववर्णाश्रमविहितं कुरु विधेहि । अग्नौसर्वदा प्रक्षिप ।प्रथममाचमनमशिष्यन् ।द्वितीयं चाशित्वा । “अशिष्यन्नाचाभेदशित्वा चाचामे”दिति श्रुतेः । कर्म्मकरणमशेषोपदिष्टमप्याचार्य्याय । “आचार्य्याय कर्म्म करोती"ति श्रुतत्वादिति भर्त्तृयज्ञः । अथ सावित्र्युपदेशमाह“अथास्मै सावित्रीमन्वाहोत्तरतोऽग्नेःप्रत्यङ्मुखायोपविष्टायोपसन्नाय समीक्षमाणाय समीक्षिताय दक्षिणतस्तिष्ठत आसीनाय वैके पच्छोऽर्धर्चशः सर्वां च तृतीयेन सहानुवर्त्तय"न्निति सूत्रम् । अथ शासनानन्तरं आचार्योऽस्मै ब्रह्मचारिणे सावित्रीं सवितृदेवताकां गायत्रीच्छन्दस्कां विश्वामित्रदृष्टां तत्सवितुरित्यृचं अन्वाह उपदिशति । किं भूताय प्रत्यङ्मुखाय पश्चिमाभिमुखाय । पुनः किंलक्षणाय उपविष्टाय आसीनाय ।क्व इत्यपेक्षायां ? उत्तरतोऽग्नेः—अग्नेरुत्तरस्यां दिशि ।तथा उपसन्नाय पादोपग्रहणादिना भजमानाय ।पुनः किंभूताय गुरुं समीक्षमाणाय ।पुनः किंभूताय समीक्षिताय गुरुणा सम्यगवलोकिताय । श्रुतिः"तस्मादेतां गायत्रीमेव सावित्रीमनुब्रूया"दिति । पक्षान्तरमाहएके आचार्याः दक्षिणतः दक्षिणस्यां दिशि तिष्ठते ऊर्द्ध्वाय उर्द्ध्वीभूताय ब्रह्मचारिणे आसीनाय उपविष्टाय वा सावित्रीप्रदानं आहुः । “अत्राहैकेदक्षिणतस्तिष्ठते वासीनाय वान्वाहु” रिति श्रुतत्वात् । एकेग्रहणाद्विकल्पः । कथमन्वाह ? सावित्रीप्रदानेऽयं प्रकारः ।पच्छोऽर्द्धर्चशःप्रथमन्तावत् पच्छः पादंपादं ततोऽर्द्धर्चशः अर्द्धर्चमर्द्धचं ततस्तृतीयेन वारेणसह बटुना सर्वां च सावित्रीमनुवर्तयन् आवर्तयन् पठेत् । अत्राह मदनपारिजाते लौगाक्षिः—“भूर्भुवःस्वरित्युक्त्वा तत्सवितुरिति सावित्रीं
त्रिरन्वाहपच्छोऽर्द्धर्चशःसर्वामन्तत” इति । तथा च वीरमित्रोदये यमः—
ॐ कारपूर्विकास्तिस्रः सावित्रीं यश्च विन्दति ।
चरति ब्रह्मचर्यं च स वै श्रोत्रिय उच्यते॥
तिस्रो महाव्याहृतय इति शेषः । मनुः—
एतयर्च्चापि संयुक्तः काले च क्रियया स्वया ।
विप्रः क्षत्रियविड्योनिर्ग्राह्यतां याति साधुषु॥
एतयर्च्चा"तत्सविर्तुवरेण्य” मित्यनया । अथ सावित्रीप्रदानस्य कालविकल्पानाह–“संवत्सरे षण्मास्ये चतुर्वि<MISSING_FIG href="../books_images/U-IMG-1698288343Screenshot(21"/>.png)शत्यहे द्वादशाहे षडहे त्र्यहे वा" इति सूत्रम् ।उपनयनदिनमारभ्य संवत्सरे पूर्णे वा षण्मासे मासषट्के वा चतुर्विंशत्यहे द्वादशाहे पडहेवा त्र्यहे वा सावित्रीमनुब्रूयादाचार्यः । “ता<MISSING_FIG href="../books_images/U-IMG-1698288377Screenshot(14"/>.png)हस्मैतां पुरा संवत्सरेऽन्वाहु’ रिस्युपक्रम्य ‘अथ षट्सु मासेष्वथ चतुर्विंशत्यहेऽथ द्वादशाहेऽथ षडहेऽथ त्र्यहे”इति श्रुतत्वात् । क्षत्रियवैश्ययोरेते कालविकल्पाः। तथा च कारिकायाम्—
संवत्सरे वा षण्मासे चतुर्विंशत्यहे तथा ।
द्वादशाहेऽथ षडहे ब्रूयात्तन्तु त्र्यहेतथा॥
एते बैकल्पिकाःकाला ज्ञेयाः क्षत्रियवैश्ययोः॥
एते कालविकल्पा आचार्यशुश्रूषादिशिष्यगुणतारतम्यापेक्षाः इति हरिहरः । षण्मास्ये इति । षडेव मासाः षण्मास्यम्।स्वार्थे तद्वितश्छान्दसश्च वृद्धिलोपः । “छन्दोवत्सूत्राणि भवन्ती"ति वचनात् । अथ ब्राह्मणस्य कालमाह “सद्यस्त्वेन गायत्रीं ब्राह्मणायानुब्रूयादाग्नेयो वैब्राह्मण इति श्रुतेः” इति सूत्रम् ।तु पुनः ब्राह्मणाय सद्य एव गायत्रीमनुब्रूयात् उपदिशेत् । कुत “आग्नेयो वै ब्राह्मण” इति श्रुतेः । अग्नेयो अग्निदैवत्यो ब्राह्मण इति वेदवचनात् ।अत एवास्मै सच्च एवोपदेशो युक्तः । आचार्य्यःब्रह्मचारिणं प्रति गायत्र्युपदेशकालान् कथयति । आचार्य्योवदति–“सम्वत्सरेण गायत्र्युपदेशं करिष्ये” ।बटुर्वदति–“अद्यैव”।“षण्मासेना”चार्य्यः। “अद्यै-
व" बटुः । “चतुर्विंशतिदिने”आचार्य्यः। “अद्यैव" बटुः । एवं द्वादशाहे षडहे त्र्यहेऽपि । अद्यैव कुमारेणोच्यमाने गायत्रीप्रदानं सद्य एव कर्त्तव्यम्, इति गङ्गाधरः । “आग्नेयो वै ब्राह्मणः सद्योवाऽग्निर्जायते तस्मात्सद्य एव ब्राह्मणायानुब्रूया" दिति श्रुतेः । “त्रिष्टुभ<MISSING_FIG href="../books_images/U-IMG-169615682813.png"/>राजन्यस्य जगतीं वैश्यस्ये”ति सुत्रम् ।राजन्यस्य क्षत्रियस्य त्रिष्टुभम् । त्रिष्टुप् छन्दो यस्याः सा त्रिष्टुप् तां सावित्रीं त्रिष्टुभं “देव सवित"रित्यादिकामनुब्रूयात् । तत्स्वरूपमाह शातातपः–“तत्सवितुर्वरेण्यमिति सावित्रीं ब्राह्मणस्य देवसवितरिति राजन्यस्य विश्वा रूपाणीति वैश्यस्ये”ति पारिजाते। “ता<MISSING_FIG href=”../books_images/U-IMG-169615682813.png”/>सवितु" रिति राजन्यस्य ।“युञ्जते मन” इति वैश्यस्येति भर्तृयज्ञभाष्ये । “सर्व्वेषां वा गायत्री”मिति सूत्रम् । गायत्री च्छन्दो यस्याः सा गायत्री तां सावित्रीं सर्व्वेषां ब्राह्मणक्षत्रियविशां “तत्सवितु” रित्यृचमनुब्रूयात ।वाशब्दो विकल्पार्थः ।
इति श्रीप्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्रविवरणे संस्कारगणपतौ द्वितीयकाण्डे तृतीयकण्डिकाविवरणम् ।
<MISSING_FIG href="../books_images/U-IMG-169615724215.PNG"/>
(अथ चतुर्थी कण्डिका)
अत्र समिदाधानं पाणिनाऽग्निं परिसमूहत्यग्ने सुश्रवः सुश्रवसं मा कुरु ।यथा त्वमग्ने सुश्रवः सुश्रवा अस्येवं मा<MISSING_FIG href="../books_images/U-IMG-169615682813.png"/>सुश्रवः सौश्रवसं कुरु ।यथा त्वमग्ने देवानां यज्ञस्यनिधिपा अस्येवमहं मनुष्याणां वेदस्य निधिपो भूयासमिति प्रदक्षिणमग्निंपर्युक्ष्योत्तिष्ठन्त्समिधमादधात्यग्नये समिधमहार्षं बृहसे जातवेदसे ।यथा त्वमग्ने समिधा समिध्यस एवमहमायुषा मेधया वर्च्चसा प्रजया पशुभिर्ब्रह्मवर्च्चसेन समिन्धे जीवपुत्रो ममाचार्यो मेधाव्यहमसान्यनिराकरिष्णुर्यशस्वी तेजस्वी ब्रह्मवर्चस्य
न्नादो भूयास<MISSING_FIG href="../books_images/U-IMG-1698288943Screenshot(1"/>.png)स्वाहेत्येवं द्वितीयां तथा तृतीयामेषा त इति व्रासमुच्चयो वा पूर्ववत्परिसमूहनपर्युक्षणे पाणी प्रतप्य मुखं विमृष्टे तनूपा अग्नेऽसि तन्वं मे पाह्यायुर्दा अग्नेऽस्यायुर्मे देहि व्वर्चोदा अग्नेऽसि व्वर्चोमे देहि । अग्ने यन्मे तन्वा ऊनन्तन्म आपृण । मेधां मे देवः सविता मेधां देवी सरस्वती मेधामश्विनौ देवावाधत्तां पुष्करस्रजावित्यङ्गान्यालभ्य जपत्यङ्गानि च म आप्यायन्तां व्वाक्प्राणश्चक्षुःश्रोत्रं यशोबलमिति त्र्यायुषाणि करोति भस्मना ललाटे ग्रीवायां दक्षिणे<MISSING_FIG href="../books_images/U-IMG-1698288943Screenshot(1"/>.png)सेहृदि चत्र्यायुषमिति प्रतिमन्त्रम् ॥४॥
अथोपनयनाङ्गभूतं समिदाधानमाह"अत्र समिदाधान"मिति सूत्रम् । अत्रास्मिन्प्रकृतेऽग्नौ समिदाधानं तिसृणां समिधां प्रक्षेपो ब्रह्मचारिकर्त्तृको भवति । अत्रावसर इति के चित्तन्न ।पाठादेव तत्सिद्धेः । अत्रशब्दोऽग्निपरो द्रष्टव्यः । अत्राग्नाविति भाष्यकारः । तथा च रेणुकारिकायाम्—
**अस्मिन्नग्नौ भवेदेतत्सन्धुक्षत्येकपाणिना॥**इति ।
समिदाधानस्येतिकर्त्तव्यमाह “पाणिनाग्निंपरिसमूहत्यग्ने सुश्रवः सुश्रवसं मा कुरु ।यथा त्वमग्ने सुश्रवः सुश्रवा अस्येवं मा<MISSING_FIG href=”../books_images/U-IMG-1698288943Screenshot(1"/>.png)सुश्रवः सौश्रवसं कुरु ।यथा त्वमग्नेदेवानां यज्ञस्य निधिपा अस्येवमहं मनुष्याणां वेदस्य निधिपो भूयासमिति" इति सूत्रम् । ब्रह्मचारी पाणिना दक्षिणहस्तेन अग्निंकृतोपनयनाङ्गभूतहोमाधिकरणं परिसमूहति सन्धुक्षयति । शुष्कगोमयखण्डादीन्धनप्रक्षेपेण वक्ष्यमाणैः पञ्चभिर्मन्त्रैः । यथा–“अग्ने सुश्रवः सुश्रवसं मा कुरु ॥१॥ यथा त्वमग्ने सुश्रवः सुश्रवा असि ॥२॥एवं मा<MISSING_FIG href="../books_images/U-IMG-1698288943Screenshot(1"/>.png)सुश्रवः सौश्रवसङ्कुरु ॥३॥ यथा त्वमग्ने देवानां यज्ञस्य निधिपा असि ॥४॥ एवमहं मनुष्याणां वेदस्य निधिपो भूयासम् ॥५॥ एवमेव हरिहरगङ्गाधरवासु-
** ** देवादयः । कारिकायां विशेषः—
प्रतिमन्त्रं त्रिभिः काष्ठैरग्ने सुश्रव आदिभिः।
अग्ने सुश्रव इत्येकं यथात्वं स्याद्द्वितीयकम्॥
यथा त्वमग्नेदेवानां मन्त्रेणाऽपि तृतीयकम् ।
कृत्वा पर्य्युक्षणं वह्नेरुत्थाय समिदाहुतिः॥
पाणिनेत्येकवचनमेकत्वनियमार्थम् । तथा च कारिकायाम्—
**अस्मिन्नग्नौभवेदेतत्सन्धुक्षत्येकपाणिना॥**इति ।
उभाभ्यामपि दृश्यते सन्धुक्षणम् । मन्त्रार्थः—हे अग्ने हे सुश्रवः शोभनकीर्ते ! मा मां सुश्रवसं सुकीर्तिं कुरु । किञ्च हे अग्ने सुश्रवः ! सौश्रवसम् सुश्रवाश्च सौश्रबाश्च तम् । तत्र सुश्रवाः स्वयम् ।सुश्रवा गुरुस्तस्यायं सौश्रवसः । ममाचार्य्यमपि सुश्रवसं कृत्वा तदीयत्वेन मां सौश्रवसं कुर्व्वित्यर्थः । किञ्च हे अग्ने यथा त्वन्देवानाभिन्द्रादीनां यज्ञस्य च क्रतोर्निधिं हविर्द्रव्यं पासि रक्षसि । एवमहं मनुष्याणां मध्ये वेदस्य श्रुतेर्निधिरधिकरणम् भूयासं भवेयम् । “प्रदक्षिणमग्निंपर्य्युक्ष्योत्थाय समिधमादधात्यग्नये समिधमहार्षं बृहते जातवेदसे । यथा त्वमग्ने समिधा समिध्यस एवमहमायुषा मेधया वर्च्चसा प्रजया पशुभिर्ब्रह्मवर्च्चसेन समिन्धे जीवपुत्रो ममाचार्य्यो मेधाव्यहममान्यनिराकरिष्णुर्यशस्वी तेजस्वी ब्रह्मवर्च्चस्यन्नादो भूयास<MISSING_FIG href="../books_images/U-IMG-169615841313.png"/>स्वाहेति”इति सूत्रम् । ततो ब्रह्मचारी प्रदक्षिणं यथा भवति तथाग्निं पर्युक्ष्य दक्षिणहस्तगृहीतोदकेन परिषिच्य उत्थाय ऊर्ध्वीभूय प्राङ्मुखस्तिष्ठन् समिधमादधाति अग्नौप्रक्षिपति ।“अग्नये समिध” मित्यादि स्वाहाकारान्तेन मन्त्रेण ।समिध्यते दीप्यतेऽग्निरनयेति समित् । अथ समिन्नियमः वायुपुराणे—
पालाश्यः समिधः कार्य्याः खादिर्य्यस्तदभावतः ।
**शमीरोहितकाश्वत्थास्तदभावेऽर्कवेतसम्॥**इति ।
** ** उक्तालाभे यस्य कस्यापि यज्ञियवृक्षस्य ग्राह्यासमाख्याबलात् ।
** ** तथा च ब्रह्मपुराणे—
शमीपालाशन्यग्रोधप्लक्षवैकङ्कतोद्भवाः ।
अश्वत्थोदुम्बरो बिल्वश्चन्दनः सरलस्तथा॥
शालश्च देवदारुश्च खादिरश्चेति याज्ञियाः ।
सर्वकर्म्मसाधारणं समिल्लक्षणमाह च्छन्दोगपरिशिष्टे कात्यायनः—
नाङ्गुष्ठादधिका कार्य्या समित्स्थूलतरा क्वचित् ।
न विमुक्तत्वचा चैव न सकीटा न फाटिता॥
प्रादेशान्नाधिका न्यूना न तथा स्याद्विशाखिका ।
न पर्णा न विशीर्णाग्रा होमेषु च विजानता॥
तथा च मरीचिः—
विशीर्णा विदला हस्वा वक्राःससुषिराःकृशाः ।
दीर्घाः स्थूलाघुणैर्जुष्टाः कर्म्मसिद्धिविनाशकाः॥
अत्र विशेषमाह मरीचिः—
प्रागग्राः समिधो देयास्ताश्च काम्येषु फाटिताः ।
काम्येषु च सवल्कार्द्रा विपरीता जिघांसता॥
आपस्तम्बः—“नाप्रोक्षितमिन्धनमग्नावादध्या”दिति । समिदाहरणविधिमाह बैजवापः–“पुरोऽस्तमयात्प्रातः प्रागुदीचीं दिशं गत्वाऽहिंसन्नरण्यात्समिधमाहरेदार्द्रामन्नाद्यकामः शुष्कां ब्रह्मवर्च्च सकाम उभयामुभयकामः" इति । अहिंसन्नुपयुक्तादधिकमच्छिन्दन् । पुरोऽस्तमयादिति वदताऽस्तमिते सूर्य्येसमिदाहरणं निषिध्यते । तथा चापस्तम्बः–“नास्तमिते समिदाहरणायोपगच्छे” दिति । ननु “तिष्ठन्समिधः सर्व्वत्रे” ति श्रौतसूत्रे उक्तत्वादुत्थायेति ग्रहणं व्यर्थमिति चेन्न । नायं होमः समिदाधानमित्येतत्सूचनार्थमुत्थायेति ग्रहणमित्यदोषः ।कारिकायामप्युक्तम्—
कृत्वा पर्य्युक्षणं वह्नेरुत्थाय समिदाहुतिः ।
समिदाधानमित्येतत्सूचनात्तिष्ठतिक्रिया॥
यद्वा साधारणपरिभाषाध्याये पाठाभावात् अत्राऽप्राप्तिमाशङ्क्यो-
त्थायेत्युक्त्तानुवादः कृतः । तेन गृह्येऽपि कर्म्माणि सर्व्वत्र तिष्ठता समिदाधानं सिद्ध्यति । अतोऽत्र त्यागाभावः । प्रयोगरत्ने त्यागो लिखितः ।मन्त्रार्थः–हे देवाः इमां समिधमग्नयेऽग्न्यर्थमाहार्षम् आहृतवानस्मि । किम्भूताय बृहते महते। जातान् वेत्ति जातवेदास्तस्मै ।यथा येन प्रकारेण समिधाऽनया दीप्यमानया त्वं हे अग्ने ! समिध्यसे दीप्यसे । एवमहमायुषा जीवनेन । मेधयाऽतीतादिधारणवत्याबुद्ध्या ।वर्च्चसा तेजसा । प्रजया पुत्रादिभिः । पशुभिः गवादिभिः । ब्रह्मवर्च्चसेन तेजसा ।कृताध्ययनसम्पत्त्या ।एतैरहं समिन्द्धे समृद्धो भवामि । आचार्य्यविषयं फलमप्याशंसते । जीवपुत्रो दीर्घायुरपत्यो ममाचार्य्योभवतु । जीवन्तः पुत्रा यस्य ।मेधावी अहम् असानि भवानि । अनिराकरिष्णुर्गतेरुपदिष्टधर्म्माद्यविस्मरणशीलः ।यशस्वी तेजस्वी ।ब्रह्मवर्च्चसी ।अन्नादः अन्नमत्तीति भूयासम्भवेयम् । स्वाहा सुहुतमस्तु । “एवं द्वितीयां तथा तृतीया"मिति सूत्रम् ।एवमनेनैव मन्त्रेण द्वितीयां समिधमादधाति । तिस्रः समिध आदधात्यग्नये समिधमहार्षमित्युच्यमाने मन्त्रान्ते युगपत्तिसृणामाधानं प्राप्नोति तन्निवृत्त्यर्थ “मेवं द्वितीयां तथा तृतीया” मिति । “एषा त इति वा" इति सूत्रम् । अथ वा “एषा ते अग्ने समित्तये”ति मन्त्रेण समिदाधानम् । अत्रापि मन्त्रावृत्तिःसमुच्चयो वा । अथ वा “अग्नये समिधम्, एषात” इति द्वयोर्मन्त्रयोः समुच्चयेनैक्यं समिदाधाने स्यात् । अत्रापि प्रतिसमिदाधानं मन्त्रयोरावृत्तिः ।“पूर्व्ववत्परिसमूहनपर्य्युक्षणे”इति सूत्रम् ।परिसमूहनम् “अग्ने सुश्रुव”इत्यादिना सन्धुक्षणम् । पर्य्युक्षणमग्नेःसर्वतो जलासेकः । परिसमूहनपर्य्युक्षणे पूर्व्ववत् प्राग्वत् अग्नेःकर्त्तव्ये । “पाणी प्रतप्प मुखं विमृष्टे तनूपा अग्नेऽसि तन्वं मे पाह्यायुर्दा अग्नेऽस्यायुर्म्मेदेहि व्वर्च्चोदा अग्नेऽसि व्वर्च्चो मे देहि । अग्ने यन्मे तन्वा ऊनन्तन्म आपृण ।मेधांमे देवः सविता मेधां देवी सरस्वती मेधामश्विनौ देवावाधत्तांपुष्करस्रजाविति" इति सूत्रम् ।पर्य्युक्षणानन्तरं ब्रह्मचारी पाणी उभौ हस्तौ प्रतप्यतूष्णीमग्नौतापयित्वा “तनूपा अग्नेऽसी”ति
सप्तभिर्मन्त्रवाक्यैर्मुखं विमृष्ठे पाणिभ्यां मार्ज्जयति । वाक्यभेदाच्च प्रतिवाक्यं पाण्योः प्रतापनम् मुखविभार्ज्जनञ्च ।“तनूपा” इत्येतस्य शाखीयत्वात्प्रतीकग्रहणे प्राप्ते मन्त्रवाक्यचतुष्टयस्योपयोगात्सर्वमन्त्रपाठः ।“मेधांमे देवः सविता मेधांदेवी सरस्वती”त्यनयोर्मन्त्रयोरादधा त्विस्यध्याहारः । मन्त्रार्थः–तनुपा अग्नेऽसीत्यादयः स्पष्टाः । मेधामित्यस्यार्थः–देवो द्युतिमान् सविता मेधांधारणावर्तींबुद्धिं तथा देवी दीप्यमाना सरस्वती आदधातु ।तथा अश्विनौ देवौमे मह्यं मेधामाधत्ताम् सम्पादयताम् । पुष्करस्रजौपद्ममालाधारिणौ । अत्राङ्गालम्भनत्र्यायुषकरणाभिवादनमनुक्तमपि सूत्रकारेणाचारतोऽनुष्ठेयम् । “अङ्गान्यालभ्य जपन्त्यङ्गानि च म आप्यायन्तां वाक्प्राणचक्षुःश्रोत्रं यशो बलमिति”इति सूत्रम् । तत्र “ वाक्च म आप्यायता”मिति क्रियाविपरिणामं कुर्यात् । “त्र्यायुषाणि करोति भस्मना ललाटे ग्रीवायां दक्षिणे<MISSING_FIG href="../books_images/U-IMG-1698290199Screenshot(14"/>.png)से हृदि च त्र्यायुषमिति प्रतिमन्त्रम्” इतिसूत्रम् ।अथाभिवादनम् । तत्र याज्ञवल्क्यः—
**ततोऽभिवादयेद्वृद्धानसावहमिति ब्रुवन्॥**इति ।
ततोऽग्निकार्यानन्तरम् । तथा च यमः—
**ततोऽभिवादयेद्वृद्धा नग्निकार्य्यादनन्तरम्॥**इति ।
बृद्धा गुर्वादयः । तत्र गुर्वादिलक्षणमाह—
निषेकादीनि कर्म्माणि यः करोति यथाविधि ।
सम्भावयति चान्नेन स विप्रो गुरुरुच्यते॥
निषेको गर्भाधानम् । अत्र सम्भावनं वेदप्रदानस्याप्युपलक्षणम् । अत एव याज्ञवल्क्यः—
स गुरुर्यःक्रियाः कृत्वा वेदमस्मै प्रयच्छति॥ इति ।
** ** क्रिया निषेकाद्याः । एतच्च गुरुत्वं पितुरेव नान्यस्य भवति । तस्यैव निषेकाद्यधिकारात् । पितृव्यतिरिक्तानान्त्वौपचारिकं गुरुत्वम् । तथा च देवलः—
उपाध्यायः पिता ज्येष्ठो भ्राता चैव महीपतिः ।
मातुलःश्वशुरस्त्राता मातामहपितामहौ॥
वर्णज्येष्ठःपितृव्यश्च पुंस्वेते गुरुवत्स्मृताः ।
माता मातामही गुर्व्वीपितुर्मातुश्च सोदराः॥
श्वश्रूःपितामही ज्येष्ठा धात्री च गुरुवत्स्त्रियः ।
इत्युक्तो गुरुवर्गोऽयं मातृतः पितृतो द्विधा॥
अथाचार्यलक्षणम् । तत्र याज्ञवल्क्यः—
**उपनीय ददद्वेदमाचार्य्यःस उदाहृतः॥ **इति ।
यो यस्योपनयनमात्रं कृत्वा वेदं प्रयच्छति स तस्याचार्य्यः। वेदग्रहणं कल्पसूत्रादेरप्युपलक्षणम् । अथोपाध्यायलक्षणम् । तत्र मनुः—
एकदेशं तु वेदस्य वेदाङ्गान्यथ वा पुनः ।
**योऽध्यापपति वृत्त्यर्थमुपाध्यायः स उच्यते॥**इति ।
वृत्तिर्जीविका । अथर्त्त्विग्लक्षणम् । तत्र मनुः—
अग्न्याधेयं पाकयज्ञानग्निष्ठामोदिकान्मखान् ।
यः करोति वृतो यस्य स तस्यर्त्विगिहोच्यते॥
एते च पूर्व्वोक्ता गुर्व्वादयो यथापूर्वं मान्याः। तथा च याज्ञवल्क्यः—
एते मान्या यथापूर्वमेभ्यो माता गरीयसी॥ इति ।
** ** व्यासोऽपि—
मासान्दशोदरस्थं या धृत्वा सुते समाकुला ।
येह नानाविधैर्दुःखैः प्रसूयेत विमूर्च्छिता॥
प्राणैरपि प्रियान्पुत्रान्मन्यते सुतवत्सला ।
कस्तस्या निष्कृतिं कर्त्तुंशक्तो वर्षशतैरपि॥
अत इयं पूज्यतमेत्यभिप्रायः ।निष्कृतिरानृण्यम् । मनुः—
उपाध्यायाद्दशाचार्य्य आचार्य्याणां शतं पिता ।
सहस्रं तु पितुर्माता गौरवेणातिरिच्यते॥
अथानभिवाद्याः । तत्र गौतमः—
ऋत्विक्श्वशुरपितृव्यमातुलानां यवीयसाम् ।
प्रत्युत्थानं नाभिवाद्या इति तेषां यवीयसाम्॥
प्रत्युत्थानमात्रमेव कार्य्यंनाभिवादनमित्यर्थः । मनुः—
ब्राह्मणं दशवर्षन्तु शतवर्षन्तु भूमिपम् ।
पितापुत्रौ विजानीयाद्ब्राह्मणस्तु तयोः पिता॥
ब्राह्मणस्य पितृत्ववचनमभिवाद्यत्वार्थम् । अत एव शातातपः—
अभिवाद्यो नमस्कार्य्यः शिरसा वन्द्य एव च ।
ब्राह्मणक्षत्रियाद्यैस्तु श्रीकामैः सादरं सदा॥ इति ।
नाभिवाद्यास्तु विप्रेण क्षत्रियाद्याःकथञ्चन ।
ज्ञानकर्म्मगुणोपेता यद्यप्येते बहुश्रुताः॥
अतः क्षत्रियाद्यभिवादने प्रायश्चित्तमाह स एव—
अभिवाद्य क्षत्रवैश्यौ प्रायश्चित्तं कथं भवेत् ।
ब्राह्मणान्दश चाष्टौ च ह्यभिवाद्य विशुद्ध्यति॥
अभिवाद्य द्विजः शूद्रं सचैलः स्नानमाचरेत् ।
ब्राह्मणानां शतं सम्यगभिवाद्य विशुद्ध्यति॥
ब्राह्मणेष्वपि निमित्तविशेषेण क्वचिदपवादमाह ।विष्णुः—
सभासु चैव सर्व्वासु यज्ञराजगृहेषु च ।
नमस्कारं न कुर्व्वीत ब्राह्मणं नाभिवादयेत्॥
सर्व्वासु धर्म्मव्यवहारप्रायश्चित्तादिनिर्णयसभासु ।आपस्तम्बः—
समित्पुष्पकुशाग्न्यम्बुमृदन्नकृतपाणिकम् ।
जपं होमं च कुर्व्वाणं नाभिवादेत वै द्विजः॥
शातातपः—
पाखण्डं पतितं व्रात्यं महापातकिनं शठम् ।
नास्तिकं च कृतघ्नं च नाभिवादेत्कथञ्चन॥
धावन्तं च प्रमत्तं च मूत्रोच्चारकृतं तथा ।
भुञ्जानमाचमनार्हंनाभिवाद्येद्द्विजोत्तमः॥
वमन्तं जृम्भमाणं च कुर्व्वन्तं दन्तधावनम् ।
अभ्यक्तशिरसं चैव नाभिवाद्येत्कथञ्चन॥
बृहस्पतिः—
स्रक्पाणिकमनाज्ञातमशक्तं रिपुमातुरम्।
योगिनं च तपःसक्तं कनिष्ठं नाभिवादयेत्॥
बृहन्नारदीये—
नास्तिकं भिन्नमर्य्यादं समग्रग्रामयाजकम् ।
स्तेनं च कितवं चैव कदाचिन्नाभिवादयेत्॥
विवादशीलं मत्तं च वमन्तं जलमध्यगम् ।
भिन्नान्नधारिणं चैवशयानं नाभिवादयेत्॥
भिन्नान्नं भैक्ष्यम् । अनभिवाद्याः स्त्रिय आह। शातातपः—
उदक्यां सूतिकां नारीं भर्तृघ्नींगर्भपातिनीम् ।
अभिवाद्य द्विजो मोहादहोरात्रेण शुद्ध्यति॥
जमदग्निः—
देवताप्रतिमां दृष्ट्वा यतिं दृष्ट्वा त्रिदण्डिनम् ।
नमस्कारं न कुर्य्याच्चेत्प्रायश्चित्ती भवेन्नरः॥
अथाभिवादनस्वरूपम् । तत्र मनुः—
भोःशब्दं कीर्त्तयेदन्ते स्वस्य नाम्नोऽभिवादने ।
नाम्नां स्वरूपभावो हि भोभाव ऋषिभिः स्मृतः॥ इति ।
अत्राभिवादनं नाम बटोरात्मानमभिगुरोराशीर्वचनानुकूलो व्यापारः । पादोपग्रहणपूर्व्वकमभिवादयेत्कृष्णशर्म्माहम् । तथा च भारद्वाजः—
स्वगोत्रनामशर्म्माहं भो इत्यन्तेऽभिवादये ।
इत्येतद्भाषणं यत्तन्मन्त्रः स्यादभिवादनम्॥
** **अत्र प्रवरानुपादानेऽपि गोत्रपरिचायकत्वात्प्रवरोपादानमावश्यकम् । अस्मिँश्च पक्षेऽ“ऽमुकप्रवरान्वितामुकगोत्रोत्पन्नोऽमुकशर्म्माहंभोऽभिवादये" इति प्रयोगः सिध्यति । अथाभिवादनप्रकारः । तत्राश्वलायनः—
वामं वामेन संस्पृश्य दक्षिणेन तु दक्षिणम् ।
हस्तेन कर्णहस्ताभ्यां गुरूणामभिवादनम्॥
वामोपरि करं कृत्वा दक्षिणं नाम चोच्चरेत् ।
जानुप्रभृति पादान्तमारभ्य पादयोर्नमेत्॥
एतच्च प्रत्युत्थाय कर्त्तव्यम् । तदाहापस्तम्बः—
ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आगते ।
प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते॥
विष्णुः—
शिष्याणामाशिषं दद्यात्पादोपग्रहणे गुरुः ।
स्पृष्ट्वा कर्णौ तु विदुषां मूर्खाणान्त्वेकपाणिना॥
वीरमित्रोदयेऽपि विशेषमाह—
**अजाकर्णेन विदुषां मूर्खाणान्त्वेकपाणिना॥**इति ।
श्रौतृसमौ करौकृत्वा पुनरजाकर्णवत्सम्पुटितेन करद्वयेनेत्यर्थः । स्पृष्ट्वा कर्णौ त्वितिप्रयोगपरिजातपाठः । एकहस्ताभिवादने निषेधमाह विष्णुः—
जन्मप्रभृति यत्किञ्चिच्चेतसा धर्म्ममाचरेत् ।
सर्व्वन्तन्निष्फलं याति एकहस्ताभिवादनात्॥
इदं च मूर्खव्यतिरिक्तविषयम् । आपस्तम्बः–“स्वदक्षिणं बाहुं श्रोत्रसमं प्रसार्य्यब्राह्मणोऽभिवादयेदुरःसमं राजन्यो मध्यसमं वैश्यो नीचैः शुद्रः प्राञ्जलि”रिति । अथाभिवादने फलमाह । मनुः—
आयुष्मान्भवसौम्येति वाच्यो विप्रोऽभिवादने ।
अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरप्लुतः॥
अकारश्चास्य नाम्नोऽन्त इत्यस्यायमर्थः–अस्याभिवादनकस्य नाम्नोऽन्ते योऽयमकारः, सकार इति स्वरमात्रोपक्षणम्, सर्व्वेषां नाम्नामकारान्तत्वनियमाभावात् । स एवान्त्यस्वरः पूर्व्वाक्षरे स्वरःप्लुतो वाच्यः । अथ प्रत्यभिवादाकरणे प्रत्यवायस्तत्राह यमः—
अभिवादे तु यः पूर्व्वमाशिषं न प्रयच्छति ।
यद्दुष्कृतं भवेत्तस्य तस्माद्भागं प्रपद्यते॥
तस्मात्पूर्व्वाभिभाषी स्याच्चाण्डालस्य तु धर्म्मवित् ।
**सुरां पिबेति वक्तव्यमेवं धर्म्मोन हीयते॥**इति ।
अङ्गिराः—
अप्रणामगते शुद्रे स्वस्ति कुर्व्वन्ति ये द्विजाः ।
शुद्रोऽपि नरकं याति ब्राह्मणोऽपि तथैव च॥
अभिवादकृते यस्तु न करोत्यभिवादनम् ।
आशिषं वा न कुर्व्वीत स याति नरकं ध्रुवम्॥
आशिषमपि स एवाह—
स्वस्तीति ब्राह्मणो ब्रूयादायुष्मन्निति भूमिपः ।
वर्द्धतामिति वैश्यस्तु शूद्रस्तु स्वागतं वदेत्॥
एतच्च सर्व्ववर्णसाधारणम् । तथा च भविष्यपुराणे—
ब्राह्मणः सर्ववर्णानां स्वस्ति कुर्य्यादिति श्रुतिः॥
स्वस्तिशब्दार्थमपि यम आह—
यत्सुखं त्रिषु लोकेषु व्याधिव्यसनवर्ज्जितम् ।
यस्मिन्सर्वे स्थिताः कामाः सा स्वस्तीत्यभिसंज्ञिता॥
** इति श्रीप्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्रविवरणे
संस्कारगणपतौ द्वितीयकाण्डे चतुर्थी कण्डिका॥**
<MISSING_FIG href="../books_images/U-IMG-169616350920.PNG"/>
(अथ पञ्चमी कण्डिका)
** ** अत्र भिक्षाचर्यचरणं शवत्पूर्वांब्राह्मणो भिक्षेतभवन्मध्या<MISSING_FIG href="../books_images/U-IMG-169616360313.png"/>राजन्यो शवदन्त्यां वैश्यस्तिस्रोऽप्रत्याख्यायिन्यःषड्द्वादशापरिमिता वा मातरं प्रथमामेक आचार्याय भैक्षं निवेदयित्वा वाग्यतोऽहः शेषं तिष्ठदित्येकेऽहिर्ठ०सन्नरण्यात्समिध आहृत्य तस्मिन्नग्नौ पूर्ववदाधाय वाचं विसृजतेऽधःशाय्यक्षारालवणाशी स्याद्दण्डधारणमग्निपरिचरणं गुरुशुश्रूषा भिक्षाचर्या मधु-
मा<MISSING_FIG href="../books_images/U-IMG-169616382013.png"/>समज्जनोपर्यासनस्त्रीगमनानृतादत्तादानानि वर्जयेदष्टाचत्वारिर्ठ०शद्वर्षाणि वेदब्रह्मचर्यं चरेद्द्वादश द्वादश वा प्रतिवेदं यावद्ग्रहणं वा वासा<MISSING_FIG href="../books_images/U-IMG-169616382013.png"/>सि शाणक्षौमाविकान्यैणेयमजिनमुत्तर्रायंब्राह्मणस्य रौरवर्ठ०राजन्यस्पाजं गव्यं वा वैश्यस्य सर्वेषां वा गव्यमसति प्रधानत्वान्मौञ्जी रशना ब्राह्मणस्य धनुर्ज्या राजन्यस्य मौर्वी वैश्यस्य मुञ्जाभावे कुशाश्मन्तकबल्वजानां पालाशो ब्राह्मणस्य दण्डो बैल्वोराजन्यस्यौदुम्बरो वैश्यस्य केशसम्मितो ब्राह्मणस्प ललाटसम्मितः क्षत्रियस्य घ्राणसम्मितो वैशस्य सर्वे वा सर्वेषामाचार्येणाहूत उत्थाय प्रतिशृणुयाच्छयानं चेदासीन आसीनं चेत्तिष्ठँस्तिष्ठन्तं चेदभिकामन्नभिक्रामन्तं चेदभिधावन्स एवं वर्तमानोऽमुत्राद्य वसत्यमुत्राद्य वसतीति तस्य स्नातकस्य कीर्तिर्भवति त्रयः स्नातका भवन्ति विद्यास्नातको व्रतस्नातको विद्याव्रतस्नातक इति समाप्य वेदमसमाप्य व्रतं यः समावर्त्तते स विद्यास्नातकः समाप्य व्रतमसमाप्यवेदं यः समावर्त्तते स व्रतस्नातकऽउभयर्ठ० समाप्य यः समावर्तते स विद्याव्रतस्नातकऽइत्याषोडशाद्वर्षावाद्बाह्मणस्य नातीतः कालो भवत्याद्वाविर्ठ०शाद्राजन्यस्याचतुर्विर्ठ०शाद्वैश्यस्यात ऊर्ध्वं पतितसावित्रीका भवन्ति नैनानुपनयेयुर्नाध्यापयेयुर्न याजयेयुर्न चैभिर्व्यवहरेयुः कालातिक्रमे नियतवत्त्रिपुरुषं पतितसावित्रीकाणामपत्ये संस्कारो नाध्यापनं च तेषा<MISSING_FIG href="../books_images/U-IMG-169616382013.png"/>संस्कारेप्सुर्व्रात्यस्तोमेनेष्ट्वाकाममधीयीरन्व्यवहार्या भवन्तीति वचनात् ॥५॥
अथ भिक्षाचरणम् । “अत्र भिक्षाचर्य्यचरण”मिति सूत्रम् । अत्रास्मिन्समये भिक्षाचर्य्यचरणं कर्त्तव्यमित्यर्थः । अत्र विशेषो मनुस्मृतौ– प्रतिगृह्योप्सितं दण्डमुपस्थाय च भास्करम् ।
प्रदक्षिणं परीत्याग्निंचरेद्भैक्ष्यं यथाविधि॥
एतत्रितयं भिक्षाङ्गमिति पारिजाते–“भवत्पूर्व्वांब्राह्मणो भिक्षेत भवन्मध्या<MISSING_FIG href=”../books_images/U-IMG-169616516513.png"/>राजन्यो भवदन्त्यां वैश्य" इति सूत्रम् । भवत्पूर्वं यस्याः सा भवत्पूव्वीतां भिक्षां ब्राह्मणो वर्णोत्तमो भिक्षेत याचेत । एवं भवच्छब्दो मध्ये यस्याः सा भवन्मध्या तां राजन्यः क्षत्रियो भिक्षेत । तथा भवच्छब्दोऽन्त्योयस्याः सा भवदन्त्या तांवैश्यो वर्णतृतीयो भिक्षेत ।अयमर्थः–सगौरवसम्बोधनार्थं भवत्पदमादिमध्यावसानेषु ब्राह्मणादिभिः कार्य्यम् । तच्च सम्बुध्यर्थम् । “तिस्र”इति सूत्रसामर्थ्यात् स्त्रीप्रत्ययवच्च तत्पदं भवति । तत्रायं प्रयोगो भवति । “भवति भिक्षां देही”तिब्राह्मणः। “भिक्षां भवति देही”ति क्षत्रियः । “भिक्षां देहि भवती”ति वैश्यः । ब्रह्मचारिभिर्भैक्षं कुतो ग्राह्यमित्याह “तिस्रोऽप्रत्याख्यायिन्य”इति सूत्रम् ।तिस्रः स्त्रियो भिक्षां भिक्षेत । किंभूताः । अप्रत्याख्यायिन्यः ।अत्र द्वितीयार्थे प्रथमा । भिक्षेतेति कर्तृप्रत्ययान्तस्याख्यातस्य कर्म्मापेक्षितत्वात् । प्रत्याख्यातुं निराकर्त्तुं शीलं यासां ताः । न प्रत्याख्यायिन्यः अप्रत्याख्यायिन्यः। याः स्त्रियो निराकरणं न कुर्व्वन्ति ता भिक्षणीया इत्यर्थः । शौनकेन विशेषो दर्शितः–“अप्रत्याख्यायिनमग्रे भिक्षेताप्रत्याख्यायिनीं वे”ति । तथा च व्यासः—
ब्राह्मणक्षत्रियविशश्चरेयुर्भैक्षमन्वहम् ।
सजातीयगृहेष्वेव सार्व्ववर्णिकमेव वा॥
सार्ववर्णिकं भैक्षचरणमापद्विषयम् । तथा च भविष्यत्पुराणे—
चातुर्वर्ण्यं चरेद्भैक्षमलाभे कुरुनन्दन ! ।
विष्णुरपि—
क्षत्रवैश्यगृहेष्वेव क्रियावर्त्तिषु साधुषु ।
चातुर्वण्यं चरेद्भैक्षमापत्कालउपस्थिते॥
यद्यपि चातुर्वर्ण्यं चरेद्भैक्ष्यमित्युक्तं तथापि शूद्रस्यामान्नमेव ग्राह्यंन पक्वान्नम् । तथा चाङ्गिराः—
आममेवाददीतास्मादवृत्तावेकरात्रकम् ।
आमं पूर्य्यति संस्कारो धर्म्मंतेभ्यःप्रतीक्षताम्॥
तस्मादामं ग्रहीतव्यं शूद्रादप्यङ्गिराऽब्रवीत्॥ इति ।
अवृत्तौ वृत्त्यन्तराभावे ।पराशरः—
यस्तु वेदमधीयानः शूद्रान्नमुपजीवति ।
शुद्रो वेदफलं याति शूद्रत्वं सोऽधिगच्छति॥
शूद्रान्नेनोदरस्थेन ब्राह्मणो म्रियते यदि ।
त्रिकालज्ञो वेदवेदी धर्म्मज्ञोऽप्यषडान्वितः॥
चतुर्वेदोऽपि यो विप्रः स प्रेतो जायते ततः॥
यद्यपि—
यतिश्च ब्रह्मचारी च पक्वान्नस्वामिनावुभौ ।
इति पराशरेण ब्रह्मचारिणः पक्वान्नग्रहणाधिकार एवोक्तो नामान्नग्रहणाधिकारः । तथापि—
कन्दुपक्वंस्नेहपक्वंपायसं दधि सक्तवः ।
एतान्यशूद्रान्नभुजो भोज्यानि मनुरब्रवीत्॥
अनापद्यपि स्वजातीयेभ्योऽपि प्रशस्तेभ्य एव भैक्षमाहरेदित्याह मनुः—
वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्म्माणि ।
ब्रह्मचार्य्याहरेद्भैक्ष्यं गृहिभ्यः प्रयतोऽन्वहम्॥
क्वचिदपवादमाह स एव—
गुरोः कुलेन भिक्षेत न ज्ञातिकुलबन्धुषु ।
अलाभेत्वन्यगेहानां पूर्व्वं पूर्व्वंपरिश्रयेत्॥
गुरुकुले गुरुगृहे । कुलं शिष्यसमूह इत्यन्ये । “मातरं प्रथमामेके”इति सूत्रम् ।एके आचार्याःमातरं स्वजननीं प्रथमां भिक्षेतेत्याहुः । तथा च मनुभविष्यत्पुराणयोः —
मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् ।
भिक्षत भिक्षां प्रथमां या चैनं नावमानयेत्॥
अयं च प्रथमाह एव धर्म्म इति कर्कः। तच्च भैक्ष्यं भोजनपर्याप्त–
मेवाह कर्तव्यमिति ।यमः—
आहारमात्रादधिकं न क्वचिद्भैक्षमाहरेत् ।
युज्यते स्नेहदोषेण कामतोऽधिकमाहरन्॥
निषिद्धान्नमाहात्रिः—
हस्तदत्ता तु या भिक्षा लवणं व्यञ्जनानि च ।
भुक्त्वा त्वशुचितां याति दाता स्वर्गं न गच्छति॥
माधुकरीं य आदाय ब्राह्मणेभ्यः प्रयच्छति ।
स याति नरकं घोरं भुञ्जतो निरयस्तथा॥
** ** “आचार्य्याय भैक्ष्यं निवेदयित्वा वाग्यतोऽहश्शेषं तिष्ठेदित्येके"इति सूत्रम् । ततो ब्रह्मचारी भिक्षां भिक्षित्वाऽऽचार्य्यायोपनयनकर्त्र्त्रे भिक्षा लब्धेति निवेदनं कृत्वा वाग्यतः संयमितवाक् अहःशेषं तिष्ठेत् । गौतमोऽपि—
निवेद्य गुरवे भिक्षां भुञ्जीतासन्निधौ गुरोः ।
तद्भार्य्यापुत्रब्रह्मचारिभ्य इति वान्वहम्॥
याज्ञवल्क्यः —
कृताग्निकार्य्योभुञ्जीव वाग्यतो गुर्व्वनुज्ञया ।
आपोशनक्रियापूर्व्वंसत्कृत्यान्नमकुत्सयन्॥
सत्कारो हारीतेन दर्शितः—
“भैक्षमेव हितं पर्य्यग्निकृतमादित्यदर्शितं गुरवे वेदितमनुज्ञातममृतसम्मितं प्राहुर्यदश्नाति ब्रह्मचारी स ब्रह्मसिद्धिमवाप्नोतीति”।ब्रह्मचारिण एकान्ननिषेधमाह। तत्र मनुः—
भैक्षण वर्त्तयेन्नित्यं नैकान्नाशी भवेद्व्रती ।
भैक्षेण व्रतिनां वृत्तिरूपवाससमा स्मृता॥
अकरणे प्रत्यवायं स एवाह—
अकृत्वा भैक्षचरणमसमिद्ध्य च पावकम् ।
अनातुरः सप्तरात्रमवकीर्णिव्रतं चरेत्॥
अथ भिक्षाचरणकालमाह आपस्तम्बः–“सायम्प्रातरमन्त्रेण
भिक्षाचर्य्यं चरे”दिति । सायं सूर्यास्तानन्तरम् । प्रातः षोढाविभक्तदिवसाद्यभागे । अयं च कालोऽष्टवर्षन्यूनब्रह्मचारिविषयः । तथा च सुमन्तुः—
अश्नीयादष्टवर्षस्तु ब्रह्मचारी प्रगे सदा ।
तदूर्ध्वमाद्वादशाहाद्वाश्नीयात्सङ्गवे सदा॥
तदूर्ध्वं गृहिवद्भिक्षा भोजनं च समाचरेत्॥
कार्ष्णाजिनिः —
मध्याह्नेगृहिणां भुक्तिर्वनिनामपराह्णके ।
सायाह्णे यतिनां प्रोक्ता प्रातस्तु ब्रह्मचारिणाम्॥
नैष्ठिकानान्तु सायाह्णेऽपराह्णेवापि सा सकृत्॥
सायम्प्रातरिति वदता मध्ये भोजननिषेधोऽभिहितः । अत एव मनुः—
सायम्प्रातर्द्विजातीनामशनं श्रुतिचोदितम् ।
नान्तरा भोजनं कुर्य्यादग्निहोत्रसमो विधिः॥
अग्निहोत्रसमताभिधानात् कालद्वयेऽपि भोजनस्य नियमेनाकरणे प्रत्यवाय इति गम्यते । तथा च श्रुतिः–“तस्मात्सायम्प्रातराश्यवत्स्यात्” इति । अयञ्चान्तराभोजननिषेधः समर्थस्यैव न बालस्य । तत्र विशेषमाह मनुः—
अष्टौ ग्रासा मुनेर्भक्षं वानप्रस्थस्य षोडश ।
द्वात्रिंशतं गृहस्थस्य ह्यमितं ब्रह्मचारिणः॥
अथ मध्याह्नसन्ध्यानिर्णयः। उपनीतिदिने मध्याह्नसन्ध्यादि सर्वं कर्म्म समाचरेत् । तत्र जैमिनिः—
यावद्ब्रह्मोपदेशो न तावत्प्तन्ध्यादिकं न च ।
ततो मध्याह्नसन्ध्यादि सर्वं कर्म्म समाचरेत्॥
ब्रह्मोपदेशो गायत्र्युपदेशः । अनन्तरं मध्याह्नसन्ध्यादि सर्वं कर्म्मं कुर्यादित्यर्थः। मध्याह्नसन्ध्यैवादिर्यस्य तत्तस्मात् मध्याह्नसन्ध्यात एव सर्वकर्म्मारम्भोऽवगम्यते । वीरमित्रोदये स्मृत्यन्तरे—
उपानयेऽह्नि कर्त्तव्यं सायंसन्धेरुपःसनम् ।
**आरभेद् ब्रह्मयज्ञन्तु मध्याह्नेतु परेऽहनि॥**इति ।
तच्छाखान्तरविषयमिति पारिजातकृत् । ब्रह्मयज्ञस्य तु वेदारम्भाभावादेवाप्राप्तावपि वचनात् । द्वितीय मध्याह्नमारभ्य गायत्र्यादिकर्त्तव्यतोच्यते । तथा च जैमिनिः—
अनुपाकृतवेदस्य कर्त्तव्यो ब्रह्मयज्ञकः ।
वेदस्थाने तु सावित्री गृह्यते तत्समा यतः॥
शौनकः —
कुमारस्योपनयनं श्रुताभिजनवृत्तवान् ।
तपसा धूतनिःशेषपाप्मा कुर्य्याद्द्विजोत्तमः॥
व्यासोऽप्याह—
वेदैकनिष्ठं धर्मज्ञं कुलीनं श्रोत्रियं शुचिम् ।
स्वशाखाढ्यमनालस्वं विप्रंकर्त्तारमीप्सितम्॥
श्रोत्रियलक्षणं ब्राह्मे —
जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते ।
विद्यया चापि विप्रत्वं त्रिभिः श्रोत्रिय उच्यते॥
अथ ब्रह्मचारिनियमाः । “अहि<MISSING_FIG href="../books_images/U-IMG-1696147650234.png"/>सन्नरण्यात्समिधआहृत्य तस्मिन्नग्नौपूर्व्ववदाधाय व्वाचं व्विसृजते”इति सूत्रम् ।ब्रह्मचारी अहिंसन् अच्छिन्दन् हिंसामकुर्वन्नरण्याद्वनात्समिधआहृत्य आनीय तस्मिन्यस्मिन्नुपनयनहोमः कृतस्तस्मिन्नग्नौपूर्वव “त्पाणिनाऽग्निंपरिसमूहती”ति पूर्वोत्तरीत्याऽऽधाय समिदाधानं कृत्वा वाचं विसृजते । यदि वाग्यमो गृहीतस्तदाऽस्मिन्काले विसृजते । “अधःशाय्यक्षारालवणाशी स्याद्दण्डधारणमग्निपरिचरणं गुरुशुश्रुषा भिक्षाचर्य्या”इति सूत्रम् ।अधःशायी स्यात् । अक्षारालवणाशी भवेत् । दण्डधारणं सर्वदा कार्यम् । अग्नेः परिचरणं समिदाधानम् । “परिसमूहनादि सायम्प्रातरुभयकालमग्निंपरिचरे”दिति स्मृत्यन्तरात् । गुरुशुश्रूषा च प्रत्यहं कर्त्तव्या स्वाध्यायानुरोधेन ।भिक्षाचर्य्या भिक्षाचरणं स्थित्यर्थम् ।
“मधुमा<MISSING_FIG href="../books_images/U-IMG-169614488313.png"/>समज्जनोपर्य्यासनस्त्रीगमनानृतादत्तादानानि वर्जये”दिति सूत्रम् ।मधु प्रसिद्धम् ।मांसमपि प्रसिद्धम् ।मज्जनं गङ्गादौ स्नानं प्रतिषिध्यते । उद्धृतोदकेन तु कार्य्यमेव ।उपर्य्यासनमासनस्योपरि मसूरिकाद्यासनं निधायोपवेशनम् ।स्त्रीगमनम् स्त्रीणां मध्ये व्यवस्थानम् । तथा च गृह्यकारिकायाम्—
गौतमादिभिरुक्तं तन्मधुमांसादिवर्जनम् ।
देवतीर्थे हदे वापि मज्जनं न समाचरेत्॥
दण्डवन्मज्जनं वा स्यात्कार्य्यंचोद्धृतवारिणा ।
मसूरादौ नोपविशेत्स्त्रीणां मध्ये न दीव्यति॥ इति ।
अनृतमसत्यभाषणम् ।अदत्तादानं परद्रव्याणामदत्तानां स्वयं ग्रहणम् । एतानि ब्रह्मचारी वर्ज्जयेत् न कुर्यात् । “अष्टाचत्वारिंशद्वर्षाणि वेदब्रह्मचर्य्यंचरे”दिति सूत्रम् ।अष्टाभिरधिकानि चत्वारिंशत्तान्यष्टाचत्वारिंशद्वर्षाणि वेदब्रह्मचर्य्यंचरेत् । चतुर्णामपि वेदानां ग्रहणार्थमेकमेव ब्रह्मचर्य्यव्रतं कुर्य्यात् । अस्मिन्पक्षे चतुर्णामपि वेदानामेक एव व्रतादेशः । सर्वाश्च वेदाहुतयः ।“द्वादश द्वादश वा प्रतिवेद”मिति सूत्रम ।अथ वा प्रतिवेदं द्वादश द्वादश वर्षपर्य्यंन्तं ब्रह्मचर्य्यंचरेत् । अयमर्थः—एकं वेदं समाप्य समावर्त्तनं कृत्वा पुनर्द्वितीयग्रहणं यावद्ब्रह्मचर्य्यंचरित्वा स्नात्वैवं वेदान्तरं ब्रह्मचर्य्यं चरेत् । “यावद्ग्रहणं वा”इति सूत्रम् ।यद्वा यावद्वेदस्य वेदयोर्वेदानां पाठतोऽर्थतश्चस्वीकरणं तावद्ब्रह्मचर्य्यंचरेत् । “वासा<MISSING_FIG href="../books_images/U-IMG-169614607313.png"/>सि शाणक्षौमाविकान्यैणेयमजिनमुत्तरीयं ब्राह्मणस्य रौरव<MISSING_FIG href="../books_images/U-IMG-1696146506234.png"/>राजन्यस्याजं गव्यं वा वैश्यस्य सर्व्वेषां वा गव्यमसति प्रधानत्वान्मौञ्जी रशना ब्राह्मणस्य धनुर्ज्या राजन्यस्य मौर्व्वीवैश्यस्य मुञ्जाभावे कुशाश्मन्तकबल्वजानां पालाशो दण्डो ब्राह्मणस्य बैल्वो राजन्यस्यौदुम्बरो वैश्यस्य केशसम्मितो ब्राह्मणस्य दण्डो ललाटसम्मितः क्षत्रियस्य घ्राणसम्मितो वैश्यस्य सर्व्वे वा सर्व्वेषा”मिति सूत्रम् । अथ वा सर्व्वेपालाशादयो दण्डाः
सर्व्वेषां ब्राह्मणक्षत्रियविशामनियमेन भवन्ति न प्रतिवर्णं जातिव्यवस्था भवति । शेषं पूर्व्वमेव व्याख्यातम् । “आचार्य्येणाहूत उत्थाय प्रति शृणुयात्”इति सूत्रम् ।आचार्य्येणोपनयनकर्त्राऽऽहूत आकारितो ब्रह्मचारो आसनादुत्थाय प्रतिशृणुयात् प्रतिवचनं दद्यात् ।“शयानं चेदासीन”इति सूत्रम् ।चेद्यदि आचार्य्यःशयानं स्वपन्तं ब्रह्मचारिणमाह्वयति तदाऽऽसीन उपविष्टस्सन् प्रतिवचनं दद्यात् । “आसीनं चेत्तिष्ठन्”इति सूत्रम् ।चेद्यदि आसीनमुपविष्टं ब्रह्मचारिणमाह्वयति आचार्य्यस्तदा स ब्रह्मचारी तिष्ठन् प्रतिवचनं दद्यात् ।“तिष्ठन्तं चेदभिक्रामन्नि”ति सूत्रम् ।चेद्यदि तिष्ठन्तं ब्रह्मचारिणमाह्वयत्याचार्य्यस्तदातिक्रामन् आचार्य्याभिमुखं व्रजन् प्रतिवचनं कुर्यात् । “अभिक्रामन्तं चेदभिधावन्”इति सूत्रम् ।चेद्यदि अभिक्रामन्तं ब्रह्मचारिणमाह्वयत्याचार्य्यस्तदा ब्रह्मचारी अभिधावन् आचार्य्याभिमुखं धावन् प्रतिवचनं दद्यात् । अस्थार्थवादमाह —“स एवं वर्त्तमानोऽमुत्राद्य वसत्यमुत्राद्य वसतीति" इति सूत्रम् । स ब्रह्मचारी एवं पूर्वोक्तब्रह्मचर्य्यधर्मेण वर्त्तमानःअमुत्र स्वर्लोके अद्येहैवस्थितः सन् वसति तिष्ठति । द्विरुक्तिः प्रशंसार्था । “तस्य स्नातकस्य कीर्तिर्भवति”इति सूत्रम् । येनैवं ब्रह्मचर्य्यानुष्ठानं कृतं तस्य स्नातकस्य समावृत्तस्य कार्तिर्भवति यशो भवति ।यथोक्तधर्म्मकर्त्तुःफलञ्चैतत् । स्नातकस्य लक्षणमाह। “त्रयः स्नातका भवन्ति”इति सूत्रम् ।त्रयस्त्रिविधाः स्नातका भवन्ति ।“विद्यास्नातको व्रतस्नातको विद्याव्रतस्नातक इति”इति सूत्रम् । त्रिविधाः स्नातका इत्युक्तं तत्रैको विद्यास्नातको द्वितीयो व्रतस्नातकस्तृतीयो विद्याव्रतस्नातक इति । “समाप्य वेदमसमाप्य व्रतं यः समावर्तते स विद्यास्नातकः”इति सूत्रम् ।समाप्य वेदं पाठतोऽर्थतश्च वेदं वेदस्य मन्त्रब्राह्मणात्मिकामेकां शाखाम् ।असमाप्य व्रतं द्वादशवार्षिकं ब्रह्मचर्यमसमाप्य यः समावर्त्तते स्नाति स विद्यास्नातक इत्युच्यते । “समाप्य व्रतमसमाप्य वेदं यः समावर्तते स व्रतस्ना-
तकः" इति सूत्रम् ।ब्रह्मचर्यं द्वादशवार्षिकं समाप्य वेदमसमाप्य असम्पूर्णमधीत्य यः समावर्तते स व्रतस्नातक इत्युच्यते । एवं च स्नातकस्य विवाहोत्तरकालमध्ययनसमापनं वेदार्थज्ञानं चेति मन्तव्यम् । “उभय<MISSING_FIG href="../books_images/U-IMG-1698338640Screenshot(14"/>.png)समाप्य यः समावर्त्तते स विद्याव्रतस्नातकः" इति सूत्रम् । उभयं वेदब्रह्मचर्यं च समाप्य यः स्नाति स विद्याव्रतस्नातक इत्युच्यते ।लक्षणप्रयोजनं च “स्नातकानेके”इत्यादिषु ज्ञेयम् । अथ मुख्यकालातिक्रमे गौणकालमाह“आषोडशाद्वर्षाद्ब्राह्मणस्यानतीतः कालो भवत्साद्वावि<MISSING_FIG href="../books_images/U-IMG-1696167887234.png"/>शाद्राजन्यस्याचतुर्विं<MISSING_FIG href="../books_images/U-IMG-1698338640Screenshot(14"/>.png)शाद्वैश्यस्ये”ति सूत्रम् । अर्वाक् षोडशाद्वर्षाद्ब्राह्मणस्य अनतीतः न अतिक्रान्त एवोपनयनस्य कालो भवति । तथा क्षत्रियस्य आद्वाविंशात् वर्षात् । तथैव वैश्यस्य आचतुर्विशात् वर्षात् । तथा च मनुः—
आषोडशाद्ब्राह्मणस्य सावित्री नातिवर्तते ।
आद्वाविंशात्क्षत्रबन्धोराचतुर्विंशतेर्विशः॥
“अत उर्ध्वं पतितसावित्रिका भवन्ती”ति सूत्रम् । अत उक्तकालात् ऊर्ध्वं अनुपनीता ब्राह्मणादयः पतितसावित्रिका भवन्ति । पतिता स्खलिता सावित्री येभ्यस्ते पतितसावित्रिकाः। “नैनानुपनयेयुर्नाध्यापयेयुर्न याजयेयुर्न चैभिर्व्यवहरेयु”रिति सूत्रम् । एतान् पतितसावित्रिकान् न उपनयेयुः शास्त्रज्ञाः ।अज्ञानादुपनीतानपि नाध्यापयेयुः । एवमध्यापितानपि न याजयेयुः यज्ञं न कारयेयुः । एभिः सह भोजनादिभिः कर्मभिर्व्यवहारमपि न कुर्युः । तथा च कारिकायाम्—
व्रात्यस्वीकृतविप्रस्य न कार्यमुपनायनम् ।
अध्यापनं याजनं च विवाहादि विवर्जयेत्॥
सावित्रीपतितानां च कुले येषां त्रिपूरुषम् ।
तेषामपत्ये संस्कारोऽध्यापनं च न विद्यते॥
आश्वलायनः—
अत ऊर्ध्वं पतन्त्येते द्विजत्वं नाप्नुयुर्यदि ।
मन्त्रकर्मपरिभ्रष्टा यास्यन्ति व्रात्यतामिह॥
मन्त्रैः कर्माणि मन्त्रकर्माणि । मन्त्राश्च वैदिका एव न नमोमन्त्रः । तेषां शुद्रधर्मत्वेन तदभ्यनुज्ञानात् । तथा च मनुः—
न ह्यस्मिन्युज्यते कर्म किञ्चिदामौञ्जिबन्धनात् ।
नाभिव्याहारयेद्ब्रह्म स्वधानिनयनादृते॥
**शुद्रेण हि समस्तावद्यावद्वेदे न जायते॥ **इति ।
अथैषां प्रायश्चित्तम् । तत्र यमः—
सावित्री पतिता यस्य दशवर्षाणि पञ्च च ।
सशिखं वपनं कृत्वा व्रतं कुर्यात्समाहितः॥
एकविंशतिरात्रं च पिबेत्प्रसृतियावकम् ।
हविषा भोजयेच्चैव ब्राह्मणान्सप्त पञ्च वा॥
ततो यावकशुद्धस्य तस्योपनयनं स्मृतम्॥ इति ।
इदं चातिक्रान्तषोडशवर्षस्य सप्तदशे वर्षे उपनयने द्रष्टव्यम् । अष्टादशे तूपनयने प्राजापत्यत्रयम् । तथा च मनुः—
येषां द्विजानां सावित्री नानूच्येत यथाविधि ।
**तांश्चारयित्वा त्रीन्कृच्छान्यथाविध्युपनाययेत्॥**इति ।
आश्वलायनः—
गवां दानेन भूम्या वा प्राजापत्यत्रयेण वा ।
**चान्द्रायणेन वा शुद्धास्ते भवन्तीह सत्तमाः॥ **इति ।
गवां तिसृणाम् । एकोनविंशेऽब्दे उपनयने त्वाहापस्तम्बः–“अतिक्रान्ते सावित्र्याः काले ऋतुं त्रैविद्यकं ब्रह्मचर्यं चरेदथोपनयनन्ततः सम्वत्सरमुदकोपस्पर्शनमथाध्याप्य” इति । ऋतुः द्वौ मासौ । ऋतुशब्दसामर्थ्यादृत्वारम्भ एव व्रतारम्भः ।त्रैविद्यकं त्र्यवयवा विद्या त्रिविद्या तामधीयते त्रैविद्याः तेषामिदंत्रैविद्यकम् ।गोत्रचरणाद्वुञ्। एवम्भूतं ब्रह्मचर्यं अग्निपरिचर्यामध्ययनं शुश्रूषामिति त्रितयं परिहार्य्य सकलं ब्रह्मचारिधर्मं चरेत् । विंशेऽब्दे उपनयने मनुक्तं त्रैमासिकमुपपातकसामान्यप्रायश्चित्तम् । एकविंशेऽब्देउपनयने चातुर्मासिकमुद्दालकव्रतंचरेत् । तथा च
वशिष्ठः–“पतितसावित्रीक उद्दालकव्रतं चरेद्द्वौमासौ यावकेन वर्तयेन्मासं पयसार्धमासमाभिक्षयाऽष्टरात्रं घृतेन षड्रात्रमयाचितेन त्रिरात्रमब्भक्षोऽहोरात्रमुपवासश्चे” ति । द्वाविंशेऽब्दे उपनयनेऽश्वमेधावभृथस्नानम् । तदाह वसिष्ठः–“अश्वमेधावभृथं वा गच्छे”दिति । त्रयोविंशेऽब्दे उपनयने व्रात्यस्तोमः प्रायश्चित्तम् “व्रात्यस्तोमेन वा यजेते”तिवसिष्ठस्मरणात् । “व्रात्यस्तोमादृते क्रतो”रिति योगिस्मरणाच्च । वाशब्दो व्यवस्थितविकल्पार्थः । उक्तकल्पानां गुरुलघुभावात् । व्यवस्था चेयमेव साधीयसी । “गुरुणि गुरूणि लघुनि लघूनि”त्यापस्तम्बस्मरणात् । एवं क्षत्रियवैश्ययोरपि द्वाविंशचतुर्विंशदूर्ध्वं यथोक्तक्रमेण तानि प्रायश्चित्तानि पादपादहान्या योज्यानि । अत ऊर्ध्वं आतृतीयकालसमाप्तेर्वात्यस्तोम एव दक्षिणाधिक्यपक्षाश्रयेण योजनीयः ।तृतीयकालादूर्ध्वं गौणतमोऽपि कालो नास्तीति क्षत्रियवैश्ययोः पातित्यमेव ! न ब्राह्मणस्य ।“न ब्राह्मणः पतनमृच्छती”ति गौतमेन ब्राह्मणपदोपादानात् । “त्रिपुरुषं पतितसावित्रीकाणापत्ये संस्कारो नाध्यापनं चे”ति सूत्रम् ।त्रीन् पुरुषान् यावत् ये पतितसावित्रीकाःपितृपुत्रपौत्रास्तेषां अपत्ये चतुर्थे पुरुषे असंस्कार उपनयनसंस्कारो न भवति।अध्यापनञ्च न भवति । “तेषा<MISSING_FIG href="../books_images/U-IMG-16960883421.png"/>संस्कारेप्सुर्व्रात्यस्तोमेनेष्ट्वा काममधीयीरन्व्यवहार्या भवन्तीति वचनात्”इति सूत्रम् । पितृपुत्रपौत्राणां मध्ये यः संस्कारेप्सुः आत्मानं संस्कारयितुकामः स व्रात्यस्तोमेन इष्ट्वा व्रात्यस्तोमं कृत्वा व्यवहार्यो भवति । कामं इच्छया व्रात्यस्तोमेनेष्ट्वा अधीरयीन् वेदं पठेयुः । व्यवहार्याः शिष्याणामध्ययनादिकर्मसु योग्या भवन्तीति वचनात् श्रुतेः । तथाचास्तम्बः–“अथ यस्य पिता पितामह इत्यनुपतौ स्यातान्ते ब्रह्मस<MISSING_FIG href="../books_images/U-IMG-16960883421.png"/>स्तुवासेषामभ्यागमनं भोजनं विवाहमिति वर्जयेत्तेषामिच्छतां प्रायश्चित्तं यथा प्रथमेऽतिक्रम ऋतुरेवं संवत्सरोऽथोपनयनं तत उदकोस्पर्शन”मिति ।यस्य बटोः पिता पितामहश्चानुपेतः स्यात्तेत्रयोऽपि ब्रह्महतुल्यास्तेषां अभ्यागमनं उपसर्पणं भोजनं विवाहं च वर्जयेत् । तेषामिच्छतां ते यदीच्छन्ति तदा पूर्वोक्तप्राश्चित्तंकुर्युः। न बलात्कारितव्या इत्यर्थः । तदेवाह–यथा प्रथमे
पुरुषे उपनयातिक्रमे ऋतुः शुद्धिहेतुः एवमन्यस्मिन्द्वितीयादिषु संवत्सरः शुद्धिहेतुः । अथ चरितव्रतस्योपनयनं कार्य्यम् ।उदकोपस्पर्शनं वक्ष्यमाणैर्यन्त्रैः संवत्सरं शिरस्यद्भिर्मार्जनम् । अयं विधिर्नैकस्यैव, किन्तु त्रयाणाम्पीत्याह “प्रतिपुरुष संख्याय संवत्सरान्यावन्तोऽनुपेताः स्युः सप्तभिः पावमानीभिर्यदन्ति यच्च दूरक इत्येताभिर्यजुः पवित्रेण सोमः पवित्रेणाङ्गिरसेनेत्यपि वा व्याहृतिभिरेवाथाध्याप्य”इति । यदि पितैवानुपेतस्तदा संवत्सरमेकम् । अथ पितामहोऽपि तदासंवत्सरौ । अथ स्वयमपि यथाकालमनुपनीतः तदा संवत्सरान् । उक्तंचरेदिति शेषः ।पवमानः सोमोदेवता यासां ताः पावमान्यः “आपो अस्मान्मातरः शुन्धयन्तु”इत्याद्याः ।यजुःपवित्रेण “कया नश्चित्र आभुवदि”त्यादि तेन वामदेव्येन, अद्भिरसेन “ह<MISSING_FIG href="../books_images/U-IMG-169607595245.PNG"/><MISSING_FIG href="../books_images/U-IMG-1698344254Screenshot(21"/>.png)सः शुचिष”दित्यनेन । एतैरञ्जलिना शिरस्यपो निषिञ्चेत् । पूर्वैः सह व्याहृतीनां विकल्पः । अथ प्रपितामहाद्यनुपनयने आह वीरमित्रोदये–“अथ यस्य प्रपितामहादिर्नानुस्मर्येतोपनयनं वे श्मशानसंस्कृतास्तेषामभ्यागमनभोजनविवाहमिति वर्जयेत्तेषामिच्छतां प्रायश्चित्तं द्वादशवर्षाणि त्रैविद्यकं ब्रह्मचर्यं चरेदथोपनयनन्तत उदकोस्पर्शनं पावमान्यादिभिरथ गृहमेधोपदेशनं नाध्यापनं ततो यो निवर्तते तस्य संस्कारो यथा प्रथमेऽतिक्रमे ततउर्ध्वं प्रकृतिवदि”ति । यस्य माणवकस्य प्रपितामहमारभ्य त्रयाणां पुरुषाणामुपनयनं नानुस्मयेते, ते श्मशानवदध्ययनानर्हाः। तेषामभ्यागमनादि पूर्ववन्न कार्यम् । तत्र माणबकस्य द्वादशाब्दं त्रैविद्यकं ब्रह्मचर्यं प्रायश्चित्तम्। पूर्वेषां तु प्रतिपुरुषं संवत्सरं तदिति । उपनयनं संवत्सरमुदकोपस्पर्शनं च पूर्ववत् । अथ गृह्यमन्त्राणामेवोपदेशनम् ।नाध्यापनं कृच्छ्रस्य वेदस्य । ततस्तस्मात्कृतविवाह उत्पद्यते । तस्य द्वौ मासौ व्रतं चारयित्वोपनयनं कार्यम् । तदुत्पन्नस्य तु प्रकृतिवत् उपनयनादि सर्वं कार्यं न प्रायश्चित्तमिति ।
** इति श्रीप्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्रविवरणे
संस्कारगणपतौ द्वितीयकाण्डे पञ्चमी कण्डिका ।**
** ** अथ नैष्ठिकब्रह्मचारिणः स्मृत्युक्ता धर्माः । तत्र मनुः—
अग्नीन्धनं भैक्ष्यचर्यमधःशय्यां गुरोर्हितम् ।
आसमावर्तनात्कुर्यात्कृतोपनयनो द्विजः॥
ब्रह्मपुराणे—
मेखलामजिनं दण्डमुपवीतं च नित्यशः ।
कौपीनं कटिसूत्रं च ब्रह्मचारी तु धारयेत्॥
तथा च यमः—
दण्डं कमण्डलुंवेदं मौञ्जींच रशनां तथा ।
धारयेद्ब्रह्मचर्यं च भिक्षान्नाशी गुरौ वसेत्॥
वेदो दर्भमुष्टिः । गुरौ गुरुसमीप इत्यर्थः । व्यासः—
जघन्यशायी पूर्वं स उत्थाय गुरुवेश्मनि ।
यच्च शिष्येण कर्तव्यं कार्यं दासेन वा पुनः॥
नाभुक्तवति चाश्नीयादपीते चाम्बु नो पिबेत् ।
न तिष्ठति ह्युपविशेदासीने प्रस्वपेन्न च॥
याज्ञवल्क्यस्तु विशेषमाह—
गुरुं चैवाप्युपासीत स्वाध्यायार्थं समाहितः ।
आहूतश्चाप्यधीयीत लब्धं चास्मै निवेदयेत्॥
यमोऽपि—
गुर्वधीनोऽस्वतन्त्रः स्यात्पूर्वोत्थायी गुरोर्गृहे ।
सदा जघन्यसंवेशी जितस्वप्नो जितोदरः॥
जितनिद्रो जितालस्यो जितक्रोधो जितात्मवान् ।
शुश्रूषुरनहन्ता च गुरुदेवार्चने रतः॥
अनहन्ता अनहङ्कारी ।गुरुपूजायां फलमाह शङ्खः—
न स्नानेन न होमेन नैवाग्निपरिचर्यया ।
ब्रह्मचारी दिवं याति स याति गुरुपूजनात्॥
मनुरपि—
गोऽश्वोष्ट्रयानप्रासादप्रस्तरेषु कटेषु च ।
नासीत गुरुणा सार्धं शिलाफलकनौषु च॥
** ** यद्यप्येतद्यानं निषिद्धं तथापि अतिक्रान्तनिषेधस्य आपद्ग्रस्तस्य वा सहयानाभ्यनुज्ञानार्थम् । स एव—
गुरोर्यत्र परीवादो निन्दा वापि प्रवर्तते ।
कर्णौ तत्र पिधातव्यौगन्तव्यं वा ततोऽन्यतः॥
सद्दोषाख्यानं परीवादः । असद्दोषाख्यानं निन्दा ।
परीवादात्खरो भवति श्वा वा भवति निन्दकः ।
परिभोक्ता कृमिर्भवति कीरो भवति मत्सरः॥
अननुज्ञातगुरुधनोपजीवी परिभोक्ता ।
अमृतस्य प्रदातारं गुरुं यस्त्ववमन्यते ।
नचैनं दहति ब्रह्म तिर्यग्योनौ च जायते॥
गुरुनामोच्चारणे निषेधः ।वीरमित्रोदये—
आचार्यं चैव तत्पुत्रं दीक्षितं च तथा गुरुम् ।
स्वसारं च पितुश्चैव मातरं मातुलंतथा॥
हितैषिणं च विद्वांसं श्वशुरं पतिमेव च ।
न ब्रूयान्नामतो विद्वान्मातुश्च भगिनीं तथा॥
नारदः—
आविद्याग्रहणाच्छिष्यः शुश्रूषेत्प्रयतो गुरुम् ।
तद्भक्तिं गुरुदारेषु पुत्रपौत्रे तथैव च॥
मनुः—
सेवेतेमाँस्तु नियमान्ब्रह्मचारी गुरौ वसन् ।
सन्नियम्येन्द्रियग्रामं तपोवृद्ध्यर्थमात्मनः॥
इन्द्रियाणां तु सर्वेषां यद्येकं क्षरतीन्द्रियम् ।
**तेनास्य क्षरति प्रज्ञा दृतेः पादादिवोदकम्॥**इति ।
दृतिश्चर्मकोशः । याज्ञवल्क्यः—
मधुमांसाञ्जनोच्छिष्टशुक्तस्त्रीप्राणिहिंसनम् ।
भास्करालोकनाश्लीलपरिवादादि वर्जयेत्॥
मधु क्षौद्रम् ।मांसं च्छागादेः । इदं चाव्याधौ ।सव्याधौतु गुरूच्छिष्टं कृत्वा भोक्तव्यमेव । तथा च वशिष्ठः –“स चेव्द्याधीयीत कामःगुरोरुच्छिष्टं भेषजार्थं सर्वं प्राश्नीया”दिति । तथा च कूर्मपुराणे—
आदर्शं नैव वीक्षेत नाचरेद्दन्तधावनम् ।
गुरुच्छिष्ठं भेषजार्थं प्रयुञ्जीत न कामतः ॥
अञ्जनं तैलादिना गात्रस्य ।कज्जलादिना वाक्ष्णोःवर्जयेत् । एतदपि व्याध्यादौ कार्यम्। औषधस्याव्रतध्नत्वात् । तदाह वीरमित्रोदये स्मृतिः—
अष्टैतान्यव्रतघ्नानि आपो मूलं फलं पयः ।
हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम् ॥
शुक्तं निष्ठुरवाक्यम् ।भास्करालोकनमादित्यावेक्षणम् । तदाह मनुः—
नेक्षेतोद्यन्तमादित्यं नास्तं यन्तं कदा चन ।
नोपरक्तं न वारिस्थं न मध्यं नभप्तोगतम् ॥
उपरक्तं राहुग्रस्तम् ।अश्लीलमसत्यभाषणम् । परिवादःसद्दोषव्याख्यापनम् । आदिशब्देनान्येऽपि नियमा लक्ष्यन्ते । तथा च गौतमः–“वर्जयेन्मधुमांसं गन्धमाल्यदिवास्वप्नाञ्जनाभ्यञ्जनयानोपानच्छत्र- कामक्रोधलोभमोहवाद्यवादनस्नानदन्तधावनहर्षनृत्यगीतपरिवादभयानी”ति । अत्र गन्धनिषेधो भोगार्थं न देवनिर्माल्यस्य ।तथा च स्मृतिः–“देवताशिष्टमेव गृह्णीयाद्ब्रह्मचारी"ति । एवं माल्यादावपि । मनुरपि—
वर्जयेन्मधु मांसं च गन्धमाल्ये रसः स्त्रियः ।
शुक्तान्नं चैव सर्वाणि प्राणिनां चैव हिंसनम् ॥
अभ्यङ्गं मज्जनं चाक्ष्णोरुपानच्छत्रधारणम् ।
कामं क्रोधं च लोभं च नर्तनं गीतवादनम् ॥
द्यूतं च जनवादं च परिवादं तथाऽनृतम् ।
स्त्रीणां च प्रेक्षणालम्भमुपघातं परस्य च ॥
रसाःइक्षुरसादयः । प्रचेताः—
ताम्बुलाभ्यञ्जनं चैव कांस्यपात्रे च भोजनम् ।
यतिश्च ब्रह्मचारी च विधवा च विवर्जयेत्॥
हारीतः–“हयगजचैत्यवृक्षवृषभारोहणप्रवचनसन्धिसंसर्पणमहानद्यर्णवप्रतरणमहासाहसविरुद्धानि वर्जये"दिति । चैत्यं चिता चयनस्थानं वा । प्रवचनं अध्यापनम् । सन्धिसर्पणमिति विवरेण गमनम् । यमः—
खट्वासनं च शयनं वर्जयेद्दन्तधावनम् ।
स्वपेदेकः कुशेष्वेव न रेतः स्कन्दयेत्क्वचित्॥
मनुरपि—
एकःशयीत सर्वत्र न रेतः स्कन्दयेत्क्वचित् ।
कामाद्यः स्कन्दयेद्रेतो हिनस्ति व्रतमात्मनः॥
व्रतं ब्रह्मचर्यम् ।अथ ब्रह्मचारिव्रतलोपे प्रायश्चितम् । तत्र बौधायनः–“अत्र शौचाचमनसन्ध्यावन्दनदर्भभिक्षाग्निकार्यराहित्यशुद्रादिस्पर्शनकौपीनकटिसूत्रयज्ञोपवीतमेखलादण्डाजिनत्यागदिवास्वापच्छत्रधारणपादुकाध्यारोहणमालाधारणोद्वर्त्तनानुलेपनाञ्जनजलक्रीडाद्युतनृत्यगीतवाद्यभिरतिषण्ढादिसम्भाषणपर्युषितभोजनादिब्रह्मचारिव्रतलोपजसकलदोषपरि-हारार्थं ब्रह्मचारी कृच्छ्रत्रयं चरेत्” । तद्यथा लौकिकाग्निं प्रतिष्ठाप्य ब्रह्मवरणाद्याज्यमानान्तं कृत्वा प्रथमं व्यस्तसमस्ताभिर्व्याहृति- भिश्चतस्त्र आज्याहुतीर्हुवा । “ॐ भूः स्वाहा॥ॐ भुवः स्वाहा॥ ॐ स्वः स्वाहा॥ ॐ भूरग्नये च पृथिव्यै च महते च स्वाहा॥१॥ ॐ भुवो वायवेऽन्तरिक्षाय च महते च स्वाहा॥२॥ॐ स्वरादित्याय च दिवे च महते च स्वाहा॥३॥ॐ भुभुर्वः स्वश्चन्द्रमसे नक्षत्रेभ्यश्च दिग्भ्यश्च महते च स्वाहा॥४॥ ॐ पाहिनो अग्न एनसे स्वाहा॥५॥ॐ पाहिनो अग्ने विश्ववेदसे स्वाहा॥६॥ ॐ यज्ञं पाहि नो विभावसो स्वाहा॥७॥ ॐ सर्वं पाहि शतक्रतो स्वाहा॥८॥ॐपुनरूर्ज्जानिवर्तस्व पुनरग्नहषायुषा ।पुनर्नः पाह्य<MISSING_FIG href=”../books_images/U-IMG-169591640350.png”/>हसः स्वाहा॥९॥ ॐ सहरय्या निवर्त-
स्वाग्ने पिन्वस्वधारया ।व्विश्यप्स्न्या व्विश्वतस्परिस्वाहा॥१०॥
पुनर्व्याहृतिभिर्हत्वा स्विष्टकृदादि वरदानान्तं शेषं समापयेत् । इति ।
एतदल्पपधर्मलोपे प्रायश्चित्तम् । बहुधर्मलोपे तु प्रायश्चित्तविशेषः । ऋग्विधाने शौनकः—
तं वो धिया जपेन्मन्त्रं लक्षं चैव शिवालये ।
ब्रह्मचारी स्वधर्मं च न्यूनं चेत्पूर्णमेव तत्॥
“महानाम्न्यादिव्रतेषु लुप्तेषु तारतम्येन त्रीन् षट् द्वादश वा कृच्छ्रान् कृत्वा पुनर्व्रतं प्रारभेत” इतिस्मृत्यर्थसारे । तथा सन्ध्याग्निकार्यलोपे स्नात्वाष्टसहस्रं जपः । शातातपः—
ब्रह्मचारी तु योऽश्नीयान्मधु मांसं तथैव च ।
प्राजापत्यं चरेत्कृच्छ्रं मौञ्जीहोमेन शुद्ध्यति॥
भिक्षाशनमकृत्वा यः स्वे स्वे ह्येकान्नमश्नुते ।
अस्नात्वा चैव यो भुङ्क्तेगायत्र्यष्टशतं जपेत्॥
दिवा स्वपति यः स्वस्थो ब्रह्मचारी कथञ्चन ।
स्नात्वा सूर्यं समभ्यर्च्य गायत्र्यष्टशतं जपेत्॥
सूतकान्नंनवश्राद्धं मासिकान्नं तथैव च ।
ब्रह्मचारी तु योऽश्नीयात्त्रिरात्रेणैव शुध्यति॥
ऋग्विधाने—
एकोद्दिष्टे ब्रह्मचारी प्रजपेद्द्युभिरक्तुभिः ।
पादं भुङ्क्तेब्रह्मचारी मुच्यते किल्बिषात्ततः॥
अरिष्टेभिर्जपेत्पादं षोडशोभौ जपेद्यदि ।
पञ्चायुतं ब्रह्मचारी जले वा कल्मषं न हि॥
तन्नो मित्रो जपेत्पादं वृषोत्सर्गे च भोजयेत् ।
शिवालये ब्रह्मचारी अयुतं नैव दुष्कृतम्॥
अग्न ओजिष्ट पादं च न्यूनं भुते जले यदा ।
अयुतं च ब्रह्मचारी तदा पापात् प्रमुच्यते॥
अदितिः प्रजोत्पादं सपिण्ड्यां भोजयेद्यदि॥
अयुतं चेद्ब्रह्मचारी नरकान्मुच्यते तदा ।
धर्मासमन्तान्मन्त्रं च शतवारं यदा तदा॥
व्रतलोपे ब्रह्मचारी भुक्तिकाले न किल्विषम्॥
विधानपारिजाते पाराशरः—
मासिकादिषु नाश्नीयादसमाप्तव्रतो द्विजः ।
त्रिरात्रमुपवासोऽत्र प्रायश्चित्तं विधीयते॥
प्राणायामशतं कृत्वा घृतं प्राश्य विशुद्ध्यति ।
इदमज्ञानविषयम् ।ज्ञानपूर्वके तु स एव—
मधु मांसं च योऽश्नीयाच्छ्राद्धं सौतिकमेव वा ।
प्राजापत्यं चरेत्कृच्छ्रं व्रतशेषं समापयेत्॥
अनृतप्रायश्चित्तमाह गर्गः—
त्रिरात्रमेकारात्रं वा ब्रह्मचार्यनृते चरेत्॥
कृच्छ्रामित्यनुषज्यते । स्त्रीसङ्गेयाज्ञवल्क्य आह—
अवकीर्णी भवेद्गत्वा ब्रह्मचारी तु योषितम् ।
गर्द्दभं समुपालभ्य नैर्ऋतं संविशुध्यति॥
मनुरपि—
अवकीर्णी तु काणेन गर्द्दभेन चतुष्पथे ।
स्थालीपाकविधानेन यजते नैर्ऋतं निशि॥
शातातपस्तु—
ब्रह्मचारी तु यो गच्छोत्स्त्रियं कामेन पीडितः ।
प्राजापत्यं चरेन्नित्यमब्दमेकमतन्द्रितः॥
निर्वपेच्च पुरोडाशं ब्रह्मचारी तु पर्वणि ।
मन्त्रैः शाकलहोमीयैरग्नावाज्यं च हापयेत्॥
मैथुनमष्टाङ्गमित्याह दक्षः—
ब्रह्मचर्यं सदा रक्षेदष्टधा वारणं पृथक् ।
स्मरणं कीर्त्तनं केलिः प्रेक्षणं गुह्यभाषणम्॥
संकल्पोऽध्यवसायश्च क्रियानिर्वृत्तिरेव च ।
एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः॥
विपरीतं ब्रह्मचर्यं ब्रह्मा प्राह प्रजापतिः॥
नष्टं भवतीति शेषः ।
न ध्यातव्यं न वक्तव्यं न श्रोतव्यं कथञ्चन ।
एतैः सर्वैः सुनिष्पन्नो यतिर्भवति नान्यथा॥
शुना दृष्टस्य प्रायश्चित्तमाह पराशरः—
ब्रह्मचारी शुना दष्टस्त्र्यहस्तप्तं पयः पिबेत् ।
गृहस्थस्तु द्विरात्रं वाप्येकाहं चाग्निहोत्रवान्॥
नाभेरूर्ध्वन्तु दष्टस्य तदेव द्विगुणं भवेत् ।
हस्ते तत्रिगुणं वक्त्रमस्तके च चतुर्गुणम्॥
एतत्प्रायश्चित्तं सर्वं नैष्टिकेन द्विगुणं कार्यमित्याह । हारीतः—
उपकुर्वंस्तु यत्कुर्यात्कामतोऽकामतोऽपि वा ।
तदेव द्विगुणं कुर्याद्ब्रह्मचारी तु नैष्ठिकः॥
विधानपारिजाते—
यज्ञसूत्रपवित्रे च मेखलां च गुरौ वसन् ।
दण्डं च धारयेन्नित्यं ब्रह्मचारी समाहितः॥
त्यक्त्वैतांश्चरतां येषां दिनमात्रं द्विजातिनाम् ।
कृच्छ्रेण तेषां शुद्धिः स्थान्नान्यथा ब्रह्मचारिणाम्॥
प्रमादाद्वास्वपेदिप्रोविसर्गो रेतसो द्विजः ।
व्रती शुद्ध्यति कृच्छ्रेण त्रिरात्रोपोषणेन वा॥
स्वेच्छयात्यजतो रेतो मैथुनं वा प्रकुर्वतः ।
प्राजापत्येन चीर्णेन जपेन च शुचिर्भवेत्॥
मनुः—
स्वप्नेऽपि विसृजन् ब्रह्मचारी शुक्रमकामतः ।
स्नात्वार्कमर्चयित्वा त्रिः पुनर्मामित्यूचं जपेत्॥
अपरादित्ये —
ब्रह्मसूत्रं विना येन सन्ध्योपास्तिर्यदा कृता ।
गायत्र्यष्टसहस्रं तु जपेत्स्नात्वा समाहितः॥
ब्रह्मसूत्रं विना यस्तु विण्मूत्रं कुरुते द्विजः ।
गायत्र्यष्टसहस्रेण प्राणायाभेन शुद्ध्यति॥
ब्रह्मसूत्रं विना यस्तु भोजनं कुरुते द्विजः ।
गायत्र्यष्टशतेनैव प्राणायामेन शुद्ध्यति॥
बृहस्पतिः—
सुरापलाण्डुलशुनस्पर्शी कामकृतो द्विजः ।
त्र्यहं पिबेत्कुशजलं गायत्रीं च जपेत्ततः॥
पलाण्डुलथुनस्पर्शे स्नात्वा नक्तं समाचरेत्॥
बौधायनः—
आपोशानमकृत्वा तु यो भुङ्क्तेनापदि द्विजः ।
भुञ्जानस्तु तदा विप्रोगायत्र्यष्टशतं जपेत्॥
लघुहारीतः—
विना यज्ञोपवीतेन भुङ्क्ते तु ब्राह्मणो यदि ।
स्नानं कृत्वा जपं कृत्वा उपवासेन शुद्ध्यति॥
यदा भोजनकाले तु अशुचिर्भवति द्विजः ।
भूमौ निक्षिप्य तद्वासः स्नात्वा विप्रो विशुद्ध्यति॥
भक्षयित्वा तु तद्ग्रासं अहोरात्रेण शुद्ध्यति ।
अशित्वा सर्वमेवान्नं त्रिरात्रेण विशुद्ध्यति॥
मूत्रोत्सारे शत्सर्गे मोहाभुङ्गेऽथ वा पिबेत् ।
त्रिरात्रं तत्र कुर्वीत इति शातातपोऽब्रवीत्॥
घृतहीनं तु यो भुङ्क्तेनरस्त्वाहुतिपञ्चकम् ।
पश्चाहृतेन यो भुङ्क्ते सोऽपि चान्द्रायणं चरेत्॥
एकपङ्क्त्यान्तु भुञ्जानो ब्राह्मणं तु यदा स्पृशेत् ।
तदन्नशिष्टं भुक्त्वा वै गायत्र्यष्टशतं जपेत्॥
षट्त्रिंशन्मते—
समुच्छिष्टे तु यो भुङ्क्ते भुङ्क्ते वा मुक्तभाजनः ।
एवं वैवस्वतः प्राह भुक्त्वा सान्तपनं चरेत्॥
आपस्तम्बः—
विप्रो विप्रेण संस्पृष्ट उच्छिष्टेन कथञ्चन ।
आचम्यैव तु शुद्धिः स्यादित्याङ्गिरसभाषितम्॥
बालापत्या तथा रोगी गर्भिणी वृद्ध एव वा ।
तेषां नक्तं प्रदातव्यं वालानां प्रहरद्वयम्॥
देवलः—
मानुषास्थि वसां विष्ठामार्तवं मूत्ररेतसी ।
मज्जानं शोणितं स्पृष्ट्वा परस्य स्नानमाचरेत्॥
तान्येव खानि संस्पृश्य प्रक्षाल्याचम्य शुद्ध्यति॥
तथा च शङ्खः—
रथ्याकर्दमतोयानि ष्ठीवनाद्येन वा तथा ।
नाभेरुर्ध्वं नरः स्पृष्ट्वा सद्यः स्नानेन शुद्ध्यति॥
इति श्रीरामकृष्णविरचिते पारस्करगृह्यसूत्र विवरणे संस्कारगणपतौ ब्रह्मचारिव्रत-लोपप्रायश्चित्तानि ।
अथ त्रुटितानां मेखलादीनां प्रतिपत्तिमाह । तत्र मनुः—
मेखलामजिनं दण्डमुपवीतं कमण्डलुम् ।
अप्सु प्रास्य विनष्टानि गृहीत्वान्यानि मन्त्रवत्॥
अन्यच्च—
यज्ञोपवीतमजिनं मौञ्जींदण्डं च धारयेत् ।
नष्टे भ्रष्टे नवं घृत्वा नष्टं चैतज्जले क्षिपेत्॥
विधानपारिजाते देवलः—
सावित्र्या दशकृत्वाद्भिर्मन्त्रिताभिस्तदुक्षिपेत् ।
विच्छिन्नं चाप्यधोयातं भुक्त्वा निर्मितमुत्सृजेत्॥
** इति श्रीप्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्राववरणे
द्वितीयकाण्डे पञ्चमी कण्डिका ।**
<MISSING_FIG href=”../books_images/U-IMG-1695915690Z.PNG”/>
अथोपनयनप्रयोगः । तत्र पूर्वेंद्युस्तद्दिने वा पूर्वाह्णेज्योतिर्विदुक्ते शुभे काले देशकालौ स्मृत्वा “अस्य कुमारस्य द्विजत्वसिद्ध्या वेदाद्ध्ययनाधिकारार्थं च उपनयनमहं करिष्ये, तदङ्गभूतं गणपतिपूजनपूर्वकं स्वस्तिपुण्याहवाचनं अविघ्नपूजनं मण्डपस्थापनं मातृकापूजनं नान्दीश्राद्धञ्च करिष्ये” ।पूर्ववत्सर्वं सम्पाद्य अथापरेद्युः कृतनित्यक्रियः मण्डपे देशकालौ स्मृत्वा “स्वस्योपनेतृत्वाधिकारसिद्धये प्राजापत्यप्रत्याम्नायत्वेन गवा तन्मूल्येन द्रव्येण वा कृच्छत्र्यं प्रायश्चित्तमहं करिष्ये” पुनरपि देशकालौस्मृत्वा “स्वस्योपनेतृत्वाधिकारसिद्धये द्वादशसहस्रं गायत्रीजपमहं करिष्ये” । कुमारेणापि देशकालौ स्मृत्वा “कामचारकामवादकामभक्षणादिदो-षापनोदार्थं प्राजापत्यप्रत्याम्नायत्वेन द्रव्येण गवा वा कृच्छ्रत्रयं प्रायश्चित्तमहमाचरिष्ये” ।चूडा-करणसहोपनयनपक्षे तु उपनेता पूर्वदिने गणेशपूजनादिनान्दीश्राद्धान्तं कृत्वा परदिनेऽतिक्रान्तं चौलं कृत्वा तत उपनयनाङ्गं वपनं कुर्यात् । अत्र के चिच्चूडाकरणकर्माङ्गवपने कृते सति उपनयनाङ्गवपनं न कर्त्तव्यमिति मन्यन्ते, तदसत् । “प्रतिप्रधानं गुणावृत्ति"रिति न्यायात् । गुणत्वं च तत्संस्कारप्रधानस्याङ्गम् ।चूडाकर्मणि चूडाकर्मप्रधानं वपनं तदङ्गम् । उपनयने उपनयनं प्रधानं वपनंतदङ्गमिति । तथा च संस्कारकौस्तुभप्रयोगोऽपि यथा (उपनयनात्पूर्वदिन कृत्यं कृत्वा परदिनेऽतिक्रान्तचौलं कृत्वा प्रागिव जातचौलं त्वभ्यङ्गस्नानेन स्नापयित्वा मात्रा सह भोजयेत्, तदा ब्रह्मचारिभ्योऽन्नदानमाचारात्कार्यम् । ततो देशकालौ सङ्कीर्त्त्य"अस्य कुमारस्य द्विजत्वसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं गायत्र्युपदेशङ्कर्त्तं तत्प्राच्याङ्गभूतं वापनादि करिष्ये" इति सङ्कल्प्य वपनं कारयेत् । मुख्यशिखाधिकशिखानां चौले धृतानामत्र वापनम् । ततः स्नापितमहताम्बरं बद्धशिखं मङ्गलतिलकं बटुं कुर्युरिति ।) ततो ब्राह्मणत्रयभोजनम् । तत्पङ्क्तौ मुण्डितशिरसं बटुं मात्रा सह भोजयेत् ।बहिःशालायां पञ्चभूसंस्कारान् कृत्वा लौकिकाग्नेः स्थापनम् । ततः पुष्पमालादिभिरलङ्कृतं बटुं शुभे मुहूर्ते आचार्यपुरुषाः
आचार्यसमीपमानयन्ति । ततो वैकल्पिकावधारणम् ।“मेखलाबन्धनम् । ऐणेयमजिनम् । दण्डः पालाशः। पूर्वेण ब्रह्मणो गमनम् ।उत्तरेण पात्रासादनम् ।त्रीणि पवित्रच्छेदनानि । द्वे पवित्रे । मृण्मयी आज्यस्थाली।पालाश्यः समिधः । आसीनाय गायत्रीप्रदानम् । एषात इति समिदाधानम् । मातृपूर्वकं अपरिमिताश्च भिक्षणीयाः । न वाग्यतोऽहःशेषं तिष्ठेदिति पक्षः" ।तत आचार्यो बटुमग्नेःपश्चादवस्थाप्य “ब्रह्मचर्यमागामिति ब्रूहि” इति वदति । “ब्रह्मचर्यमागा"मिति ब्रह्मचारी ब्रूयादिति । ततो “ब्रह्मचार्यसानीति ब्रूही” त्याचार्यः । “ब्रह्मचार्यसानी”ति ब्रह्मचारी ब्रूयात् । अथैनं कुमारं आचार्यःवासःपरिधापयति । “येनेन्द्रायेति मन्त्रस्य अङ्गिरा ऋषिः बृहतीच्छन्दःबृहस्पतिर्देवता वस्त्रपरिधाने विनियोगः । ॐ येनेन्द्राय बृहस्पतिर्वासः पर्यदधादमृतम् । तेन त्वा परिदधाम्यायुषे दीर्घायुत्वाय बलाय वर्चसे " इत्यनेन मन्त्रेण ।आचार्यस्य मन्त्रपाठः ।“इयन्दुरुक्तमिति मन्त्रस्य वामदेव ऋषिः त्रिष्टुच्छन्दः मेखलादेवता मेखलाबन्धने विनियोगः । ॐ इयं दुरुक्तं परिबाधमाना वर्णं पवित्रं पुनती म आगात् । प्राणापानाभ्यां बलमादधाना स्वसादेवी सुभगा मेखलेय"मिति मन्त्रेण मेखलाबन्धनम् । आचार्यस्य मन्त्रपाठः। “यज्ञोपवीतमिति मन्त्रस्य परमेष्ठीऋषिःत्रिष्टुप्छन्द लिङ्गोक्ता देवता श्रौतस्मार्तकर्मानुष्ठानसिद्ध्यर्थं उपवीतधारणे विनियोगः । यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् ।आयुष्यमग्यंप्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेज” इति मन्त्रेण यज्ञोपवीतधारणम् ।बटोर्मन्त्रपाठः। द्विराचम्य “मित्रस्येतिमन्त्रस्य परमेष्ठी ऋषिःत्रिष्टुप्छन्दः लिङ्गोक्ता देवता अजिनधारणे विनियोगः ।मित्रस्य चक्षुर्द्धरुणं बलीयस्तेजो यशस्वि स्थविर<MISSING_FIG href=”../books_images/U-IMG-1698376138Screenshot(14”/>.png)समिद्धम् । अनाहनस्पं वसनं जरिष्णुः परीदं वाज्यजिनं दधेह”मिति मन्त्रेण ऐणेयकृष्णाजिनधारणम् । बटोर्मन्त्रपाठः । “यो मे दण्ड इति मन्त्रस्य प्रजापतिर्ऋषिः यजुश्छन्दः दण्डो
देवता दण्डग्रहणे विनियोगः । ॐ यो मे दण्डः परापतद्वैहायसोऽधिभूभ्याम् ।तमहं पुनरादद आयुषे ब्रह्मणे ब्रह्मवर्चसाये"ति मन्त्रेण दण्डं प्रतिगृह्णाति ।बटोर्मन्त्रपाठः । अथाचार्यः स्वकीयमञ्जलिं जलेन पुरयित्वा तेनाञ्जलिस्थेन जलेन माणवकस्याञ्जलिं पूरयति । “आपो हि ष्ठेति तृचस्य सिन्धुद्वीप ऋषिःगायत्रीच्छन्दः आपो देवता उदकासेके विनियोगः । “आपो हि ष्टा”दित्रिभिर्मन्त्रैः । आचार्यस्यैव मन्त्रपाठः । तत आचार्यो माणवकं प्रेषयति । “सूर्यमुदीक्षस्व” इति प्रैषं ददाति । प्रैषितो माणवकः सूर्यमुदीक्षते । “तच्चक्षुरि"ति मन्त्रेण ।बटोर्मन्त्रपाठः । तत आचार्योमाणवकस्य दक्षिणस्कन्धोपरि हस्तं नीत्वा हृदयमालभते । “मम व्रते ते हृदयं दधामि मम चित्तमतु चित्तन्ते अस्तु । मम वाचमेकमना जुषस्त्र बृहस्पतिष्ट्वानियुनक्तु मह्यम्” इत्यनेन मन्त्रेण । आचार्यस्यैव मन्त्रपाठः ।कुमारस्य दक्षिणहस्तं गृहीत्वा । “को नामासी"त्याचार्य आह । “अमुकशर्माहं भो३” इति बटुर्वदति । पुनराचार्यः पृच्छति । “कस्य ब्रह्मचार्यसी"ति । “भवत” इति बटुः । अथाचार्यःपठति “इन्द्रस्य ब्रह्मचार्यस्यग्निराचार्यस्तवाहमाचार्यस्तवामुकशर्मन्” । अथैनं कुमारंआचार्यः"एनं भूतेभ्यः परिददाति ।ॐ प्रजापतये त्वा परिददामि देवाय त्वा सवित्रे परिददाम्यद्भ्यस्त्वौ-षधीभ्यः परिददामि द्यावापृथिवीभ्यां त्वा परिददामि व्विश्वेभ्यस्त्वा देवेभ्यः परिददामि सर्व्वेभ्यस्त्वा भूतेभ्यः परिददरम्यारिष्टयै” इत्यनेन मन्त्रेण । अथ बटुः अग्निं प्रदक्षिणीकृत्य आचार्यस्योत्तरत उपविशति । दक्षिणत इति गर्गमतम् । ततो देवताभिध्यानम् । तत्र “प्रजापतिं, इन्द्रं, अग्निं, सोमं, अग्निं, वायुं, सूर्यं, अग्नीवरुणौ, अग्नीवरुणौ, अग्निं, वरुणं सवितारं विष्णुं विश्वान् देवान् मरुतः स्वर्क्कान, वरुणं, प्रजापतिं, अग्निं स्विष्टकृतं, आज्येनाहं यक्ष्ये" । ततो ब्रह्मोपवेशनादि पर्युक्षणान्तं कृत्वा ब्रह्मणाऽन्वारब्ध आचार्यः"ॐ प्रजापतये स्वाहा । इदं प्रजापतये । ॐ इन्द्राय स्वाहा ।इदं मिन्द्राय० ।ॐ अग्नये स्वाहा ।
इदमग्नये० ।ॐ सोमाय स्वाहा ।इदं सोमाय० ।ॐ भूः स्वाहा । इदमग्नये ० ।ॐभुवः स्वाहा । इदं वायवे० ।ॐ स्वः स्वाहा । इदं सूर्याय० ।ॐ त्वन्नो ऽअग्ने० ।इदमग्नीवरुणाभ्यां० । ॐ स त्वनो ऽअग्ने०।इदमग्नीवरुणाभ्यां० ।ॐ अयाश्चाग्ने० ।इदमग्नये० । ॐ ये ते शतं० । इदं वरुणाय सवित्रे विष्णवे विश्वेभ्यो देवेभ्यो मरुद्भ्यः स्वर्क्केभ्यश्च० ।ॐउदुत्तमं०।इदं वरुणाय० ।ॐप्रजापये० । इदं प्र० ।ॐअग्नये स्विष्टकृते स्वाहा ।इदमग्नये स्विष्टकृते०" ।ततः संस्रवप्राशनम् । अथैनं ब्रह्मचारिणमाचार्यः संशास्ति । ‘ब्रह्मचार्यसी"त्याचार्यो वदति । “असानी"त्याह कुमारः। “अपोऽशाने “त्याचार्यः । “अश्नानी”ति कुमारः। “कर्म कुरु” इत्याचार्यः । “करवाणी"ति कुमारः। “मा दिवा सुषुप्थाः” इत्याचार्यः। “न स्वपानि” इति कुमारः । “बाचं यच्छ” इत्याचार्यः। “यच्छानी"ति कुमारः । “समिधमाधेहि” इत्याचार्यः । “आदधानीति” कुमारः।“अपोशान"इत्याचार्यः। “अश्नानी”ति कुमारः । अथास्मै ब्रह्मचारिणे सावित्रीमन्वाहआचार्यः। कथम्भूताय ब्रह्मचारिणे अग्नेरुत्तरतो व्यवस्थिताय प्रत्यङ्मुखायोपविष्टाय पादोपग्रहणपूर्वकमुपसन्नाय आचार्यं समीक्षमाणाय स्वयमपि समीक्षिताय सावित्रीं ब्रूयादाचार्यः । यथा तत्रादौ तण्डुलपूरितपात्रे गणपतिकुलदेवतापूर्वकगायत्र्यक्षराणि लिखेत् । पञ्चोपचारैः षोडशोपचारैर्वा पूजयेत् । ततः प्रणवव्याहृतिपूर्वं प्रथमं पादं पादमध्यापयेत् । द्वितीयेनार्द्धम्। तृतीयेन सर्वाङ्गिायत्रीम् । आचार्यकुमारयोः सह पठनम् । ततो ब्रह्मचारी समिदाधानं करोति । तत्र पूर्वमग्नेः सन्धुक्षणम् । पञ्चाभिर्मन्त्रैरिन्धनप्रक्षेपणम् ।एकमिन्धनं हस्ते गृहीत्वा । ॐ “अग्ने सुश्रवःसुश्रवसं मा कुरु” इत्यनेन मन्त्रेण हस्तस्थामिन्वनं अग्नौक्षिपेत् । इति प्रथमम् । “यथा त्वमग्ने सुश्रवः सुश्रवा असि” द्वितीयम् । “एवं मा<MISSING_FIG href=”../books_images/U-IMG-1698376430Screenshot(1”/>.png)सुश्रवः सौश्रवसं कुरु" तृतीयम् ।“यथात्वमग्ने देवानां यज्ञस्य निधिपा असि" चतुर्थम् । “एवमहं मनुष्याणां वेदस्य निधिपो भूयासम्" इति पञ्चमम् । ततो दक्षिणहस्तेनोदकं गृहीत्वा प्रदक्षिणमग्निंपर्युक्ष्य एकां समिधं
कर्णे धृत्वा मन्त्रमुच्चारयेत् । “ॐ अग्नये समिधमाहार्षं वृहते जातवेदसे । यथात्वमग्ने समिधा समिद्ध्वस एवमहमायुषा मेधया वर्चसा प्रजया पशुभिर्ब्रह्मवर्चसेन समिन्धे जीवपुत्रो ममाचार्यो मेधाव्यहमसान्यनिराकरिष्णुर्यशस्वी तेजस्वी ब्रह्मवर्च्चस्यन्नादो भूयासँस्वाहा" ।इत्यनेन मन्त्रेण कर्णस्थां समिधं अग्नौ प्रक्षिपेत् । अनेनैव मन्त्रेण द्वितीयां तथा तृतीयाम् । “एषा ते अग्ने समि"दनेन मन्त्रेण वा समिदाधानम् । मन्त्रसमुच्चयो वा । तत उपविश्य पूर्ववत्समुहनं कृत्वा पर्युक्ष्य “अग्ने सुश्रव” इत्यादिभिः पञ्चभिर्मन्त्रैः समिन्द्धनत्रयं पञ्चा वाग्नौक्षिपेत् । पुनःप्रदक्षिणमग्निं पर्युक्षणं कृत्वा, ततस्तूष्णीं पाणी प्रतप्य"तनूपा अग्ने" इत्यादिभिर्वक्ष्यमाणैः सप्तभिर्मन्त्रैः प्रतिमन्त्रं मुखबिमार्जनम् । “ॐ वनूपा अग्नेऽसि तन्वं मे पाहि ॥१॥ आयुर्दा अग्नेऽस्यायुर्मे देहि ॥२॥ व्वर्च्चोदा अग्नेऽसि व्वर्च्चोमे देहि ॥३॥अग्ने यन्मे तन्वा ऊनं तन्मऽआवृण ॥४॥ मेधाम्मे देवः सविता आदधातु ॥५॥ मेधान्देवी सरस्वती आदधातु ॥६॥मेधामश्विनौ देवावाधत्तां पुष्करस्रजौ ॥७॥" ततोऽङ्गानिस्पृष्ट्वा जपेत् । “अङ्गानि च म ऽआप्यायन्ताम्" इति मन्त्रेण सर्वाङ्गान्यालभेत् । “वाक्च म ऽआप्यायतां" इति मुखं स्पृशेत् । “प्राणश्च म ऽआप्यायतां” इति नासिकां स्पृशेत् । “चक्षुश्च म ऽआप्यायता"मिति चक्षुषोः स्पर्शनं सकृत् । “श्रोत्रं च म ऽआप्यायता"मिति दक्षिणं श्रोत्रं स्पृशेत् । अनेनैव वामम् । “यशो बलं च म ऽआप्यायता"मिति मन्त्रपाठमात्रम् । ततो भस्मना ललाटे तिलकं कुर्यात् “त्र्यायुषं जमदग्ने"रिति मन्त्रेण । “कश्यपस्य त्र्यायुष"मिति ग्रीवायाम् ।“यद्देवेषु त्र्यायुष"मिति दक्षिणेंऽसे ।“तन्नो ऽअस्तु त्र्यायुष"मिति हृदये ।अथाभिवादनम् । तत्रैवं प्रयोगः–“काश्यपसगोत्रःकाश्यपावत्सानैध्रुवेति त्रिप्रवरःअमुकशर्माहं भो वैश्वानर ! अभिवादयामि” ।एवं पुनः गोत्रादिकमुच्चार्य “भो वरुण ! अभिवादयामि” । तथैवाचार्यं गुरुं च । ततः पित्राद्यभिवादने विधिः ।नीचोत्तानेन वा दक्षिणपाणिना दक्षिणपादं
गृहीत्वा, तादृशवामेन वामं, शिरः पादयोर्निदध्यात् । “आयुष्मान् भव सौम्य यज्ञदत्त शर्म३न्” इति प्रत्यभिवादनं पिता कुर्यात् । अथ भिक्षाचर्यचरणम् । ततो ब्रह्मचारी दण्डं गृहीत्वा “तत्सवितु” रिस्यादित्यमुपस्थाय अग्निं प्रदक्षिणीकृत्य हस्ताभ्यां भिक्षापात्रं वृत्वा प्रथमं मातरं भिक्षेत । “ॐ भवति ! भिक्षां देहि । ततो माता पात्रान्तरेण भिक्षां ददाति । दत्तायां भिक्षायां “ॐ स्वस्ती"ति ब्रूयात् ।त्रिषट् द्वादश अपरिमिता वा भिक्षा भिक्षेत ।तां भिक्षामाचार्याय निवेदयेत् ।“भैक्षं भुङ्क्ष्वे” त्याचार्यानुज्ञातो भिक्षां स्वीकुर्यात् । अत्र मध्याह्वसन्ध्यां कुर्यात् । ततो भोजनं कुर्यात् । इतः प्रभृति सूर्यास्तपर्यन्तं मौनेन तिष्ठेत् । ततः सायङ्काले सन्ध्यावन्दनपूर्वमग्निपरिचरणं पाणिनाभिं परिसमूहनादि अभिवादनान्तं पूर्ववत् कुर्यात् । ततो वाग्विसर्गः । उपनयनाग्निस्त्रिरात्रं धार्यः । “त्र्यह"मित्यापस्तम्बः । “यावद्धुतमग्नि-रक्षण"मिति गर्गपद्धतौ । अथ ब्रह्मचारिनियमाः । अधः शयनम् ।अक्षारालवणाशनम् । दण्डधारणं कर्त्तव्यम् । अरण्यात् स्वयं समिधमाहृत्य ।सायं प्रातर्मध्याह्ने सन्ध्योपासनं कृत्वा ।परिसमूहनानि यथोक्तं अग्निपरिचरणम् । गुरुशुश्रूषां च कुर्यात् । सायं प्रातर्भिक्षाशनम् ।मधु मांसाशनं न कर्तव्यम् ।नद्यादौ शिरसा न मज्जेत् । दण्डवत्सर्वाङ्गमवगाहयेत् । उद्धृतोदकेन वा स्नानं कुर्यात् । आसनस्योपरि मसूरिकायुपधानं कृत्वा नोपविशेत् । स्त्रीणां मध्ये न क्रीडेत् । अनृतं न वदेत् ।अदत्तं न गृह्णीयात् । स्मृत्यन्तरोक्ताश्च वक्ष्यमाणा नियमा अनुष्ठेयाः ।यस्य कर्मणो यः काल उक्तस्तदतिक्रमे अनादिष्टप्रायश्चित्तं कृत्वा कर्तव्यम् । तच्च पूर्वमेवोक्तम् ।
** इति श्रीप्रथमशाखीयरामकृष्ण विरचिते पारस्करगृह्यसूत्र विवरणे
संस्कारगणपतौ उपनयनप्रयोगः ।**
<MISSING_FIG href=”../books_images/U-IMG-1696037890A.PNG”/>
अथपुनरुपनयने निमित्तानि ।गदाधरभाष्ये । तत्र मनुः—
अज्ञानात्माश्य विण्मूत्रं सुरासंसृष्टमेव च ।
पुनःसंस्कारमर्हन्ति त्रयो वर्णा द्विजातयः॥
विष्णुरपि–“विड्वराहग्रामकुक्कुटगोमांसभक्षणेषु द्विजातीनां प्रायश्चित्तान्ते पुनःसंस्कारं कुर्यात्” । शातातपस्तु—
लशुनं गृञ्जनं जग्ध्वा पलाण्डुं च तथा शुनाम् ।
उष्ट्रमानुषकेभाश्चरासभक्षीरभोजनात्॥
**उपानयं पुनः कुर्यात्तप्तकृच्छ्रं चरेन्मुहुः॥**इति ।
पैठीनसिरपि–“अव्युष्ट्रीमानुषीक्षीरपाने तप्तकृच्छ्रः पुनरुपनयनम्” । यमोऽपि —
भूसुरो मधुपानेन कृते गोभक्षणेऽपि वा ।
तप्तकृच्छ्रपरिक्लिष्टो मौञ्जीहोमेन शुद्ध्यति॥
गौतमोऽपि–“अमत्या मद्यपाने तप्तकृच्छ्रस्ततोऽस्य संस्कारो मूत्रपुरीषकुणपरेतसां प्राशनं चे"ति । बौधायनोऽपि–“अमत्या सुरापाने कृच्छ्राव्दपादं चरित्वा पुनरुपनयन"मिति ।विधानपरिजाते–
चाण्डालान्नं द्विजो भुक्त्वा सम्यक्चान्द्रायणं चरेत् ।
बुद्धिपूर्वन्तु कृच्छ्राब्दं पुनः संस्कारमर्हति॥
वसिष्ठोऽपि–“एतदेव चाण्डालपतितान्नभोजनेषु ततः पुनरुपनयन"मिति । यस्तु देशान्तरगतश्चिरकालाश्रयमाणसद्भावः पुत्रादिना कृतप्रेतकार्यो यदि जीवन्समागच्छेत्तस्य पुनरुपनयनविधिरुक्तः, विधानपारिजाते सङ्ग्रहे—
जीवन्यदि समागच्छेद्घृतकुम्भे निमज्ज्य च ।
उद्धृत्य स्थापयित्वाऽस्य जातकर्मादि कारयेत्॥
स्मृतिचन्द्रिकायां बौधायनस्तु—
सिन्धुसौवीरसौराष्ट्रँस्तिथा प्रत्यन्तवासिनः ।
अङ्गवङ्गकलिङ्गाँश्च गत्वा संस्कारमर्हति॥
प्रत्यन्तोऽन्त्यदेशः ।
हिमवत्काशिकां विन्ध्यं पारं पद्मस्य पश्चिमम् ।
तीर्थयात्रां विना गच्छेत्पुनः संस्कारमर्हति॥
आदित्यपुराणेऽपि—
सौराष्ट्रसिन्धुसौवीरानावन्त्यं दक्षिणापथम् ।
एतान्देशान्द्विजो गत्वा पुनःसंस्कारमर्हति॥
एतच्च तीर्थयात्रां बिना गमने द्रष्टव्यम् । तथा च तत्रैव—
अङ्गवङ्गकलिङ्गेषु सौराष्ट्रमगधेषु च ।
तीर्थयात्रां विना गच्छन्पुनःसंस्कारमर्हति॥
त्रिस्थलीसेतौ—
कर्मनाशाजलस्पर्शात्करतोयाविलङ्घनात् ।
गण्डकीबाहुतरणात्पुनः संस्कारमर्हति॥
विधानपरिजाते पराशरः—
विमूत्रभक्षी शुद्ध्यर्थं प्राजापत्यं समाचरेत् ।
पञ्चगव्यं च कुर्वीत स्नात्वा पीत्वा शुचिर्भवेत्॥
प्राजापत्याचरणं पञ्चगव्यस्नानं पञ्चगव्यप्राशनं च पुनःसंस्कारात्पूर्वमेव कार्यम् । “प्रायश्चित्तान्ते पुनः संस्कारं कुर्या"दिति विष्णुस्मृतेः । तत्र विशेषमाह विधानपारिजाते कश्यपः–“चीर्णप्रायश्चित्तः प्राच्यामुदीच्यां वा दिशिगत्वा यत्र ग्रामपशूनां शब्दो न श्रूयते तस्मिन्देशेऽग्निं प्रज्वाल्य ब्रह्मासनमास्तीर्थ प्राक्प्रणीतेन विधिना पुनः संस्कारमर्हती"ति । हारीतः—
रासभं महिषं मेषं बलीवर्दं क्रमेलकम् ।
आरुह्य ब्राह्मणो मोहात्पुनःसंस्कारमर्हति॥
दैवज्ञवल्लभः—
प्रदोषे निश्यनध्याये मन्दे कृष्णे गलग्रहे ।
मधु विना चोपनीतः पुनः संस्कारमर्हति॥
गदाघरभाष्येहेमाद्रिः—
प्रेतशय्याप्रतिग्राही पुनः संस्कारमर्हति॥ इति ।
अपरार्कादिसर्वग्रन्थेषु पित्रादिव्यतिरेकेण ब्रह्मचारिणः प्रेतकर्मकरणे पुनरुपनयनमुक्तम् । गदाधरभाष्येऽप्येवमेव ।वीरमित्रोदये हारीतः—
शिखां छिन्दन्ति ये मोहद्द्वेषादज्ञानतोऽपि वा ।
पुनःसंस्कारमर्हन्ति त्रयो वर्णा द्विजातयः॥
विशेषमाह वीरमित्रोदये पराशरः—
अजिनं मेखला दण्डो भैक्षचर्या व्रतानि च ।
निवर्तन्ते द्विजातीनां पुनःसंस्कारमर्हति॥
अजिनादि वपनस्याप्युपलक्षणम् । तदाह विष्णुः–“सर्वेष्वेतेषु द्विजातीनां प्रायश्चित्तान्ते भूयः संस्कारं कुर्यात्” । वपनमेखलादण्डमैक्षचर्याव्रतानि पुनः संस्कारकर्मणि वर्जनीयानि ।व्रतानि सौम्यप्राजापत्यादीनि महानाम्न्यादीनि वा।
** इति श्रीप्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्रविवरणे
संस्कारगणपतौ पुनरुपनयननिमित्तानि॥**
<MISSING_FIG href=”../books_images/U-IMG-1696039986B.PNG”/>
अथ पुनरुपनयनविधिः । तत्र पदार्थक्रमः । श्राद्धम् । वपनम् । विप्रभोजनम् ।बटोरपि । अग्निस्थापनम् । अलङ्कृतस्यानयनम् ।पश्चादग्नेरवस्थापनम् । ततो ब्रह्मासनादि बर्हिस्तरणान्तं कर्म । ततो “ब्रह्मचर्यमागा"मिति वाचनम् ।“ब्रह्मचार्यसानी"ति च । वासः परिधापयति । मेखलाबन्धनम् ।बटोर्मन्त्रपाठः । मन्त्रेण यज्ञोपवीतपरिधानम् । तत आचमनम् ।उत्तरीयधारणं मन्त्रेण ।दण्डप्रतिग्रह ।दीक्षावद्वा । मञ्जलिनाऽञ्जलिपुरणमद्भिः । त्रैषपूर्वकं सूर्यावेक्षणम् ।हृदयालम्भनम् ।दक्षिणहस्तग्रहणादि भूतेभ्यः परिदानान्तम् । ततो हस्तविसर्गः । ततः प्रदक्षिण परिक्रम्योपवेशनम् । तत आचार्यस्योपयमनादानादि पर्युक्षणान्तम् । आचार्यस्यान्चारम्भो माणवककर्तृकः ।तत आधाराद्या-श्चतुर्दशाहुतयः । संस्रवप्राशनादि दक्षिणादानान्तम् । ततो ब्रह्मचारिशासनं “ब्रह्मचार्यसी"त्यादि पूर्ववत् । ततो ब्राह्मण भोजनम् ।इति पुनरुपनयनविधिः॥
अथ सावित्रव्रतादेशः । गदाधरभाष्ये–तत्र उपलेपनादि बर्हिस्तरणान्तम् । ततः कुमारं उत्थाय हस्तेनोदकं गृहीत्वाऽग्निमुखो भूत्वा “ॐ अग्ने व्रतपते व्रतं चरिष्यामि सावित्रं सद्यस्कालं तच्छकेयं तन्मे राध्यता"मिति व्रतग्रहणं करोति । ततो ब्रह्मचारिण उपवेशनम् । ब्रह्मचारिण आचार्यस्यान्वारम्भः सर्वास्वाहुतिषु ।तत उपयमनादानादि
आज्यभागान्तम् । ततो वेदाहुतयः षोडश । प्रतिवेदं चतत्रश्चतस्रः । एवं षोडश ।ततः “प्रजापतये देवेभ्य” इत्याद्याः सप्त । ततो महाव्याहत्यादि स्विष्टकृदन्ताश्चतुर्दश । आज्यभागाद्या एताः सप्तत्रिंशदाहुतयो व्रतानामादेशे विसर्गे च होतव्याः । ततः संस्रवप्राशनादि ब्रह्मणे दक्षिणादानान्तम् । तत “अथास्मै सावित्रीमन्वाहे"त्यादि यथोक्तं सावित्रीप्रदानम् । ततो माणवकस्य “तत्सवितु” रित्यनेन मन्त्रेण सन्ध्योपासनम् । सन्ध्योपासनान्ते “तत्सवितु” रित्यनेनैवाग्निपरिचरणम् । तदन्ते गोत्रनामग्रहणपूर्वकं सर्वेषामभिवादनम् । ततो भिक्षानिवेदनम् । “भिक्षां भोः” इत्येव । आचार्यस्तु “भिक्षां भोः” इत्येव भिक्षां स्वीकुर्यात् । ततो ब्रह्मचारी शुचिर्भूत्वा स्वासने उपविशेत् । ततो बर्हिर्होमादि ब्राह्मणभोजनान्तम् । अथानन्तरं सावित्रीव्रतवरसन्ध्योपासनाग्निपरिचरणानुष्ठानम् ।तत उपलेपनादि बर्हिस्तरणान्तम् । तत उत्थाय हस्तेनोदकं गृहीत्वाऽग्निमुखो भूत्वा “ॐ अग्ने व्रतपते व्रतमचारिषं सावित्रं सद्यस्कालं तदशकं तन्मेऽराधी"ति मन्त्रेण सावित्रत्रतोत्सर्गं करोति । तत उपयमनकुशादानादि पर्युक्षणान्तम् ।अन्वारम्भः आघारावाज्यभागौ वेदाहुतयः षोडश प्रजापतये इत्याद्याःसप्त महाव्याहृत्यादि स्विष्टकृदन्ताश्चतुर्दश ।एवं सप्तत्रिंशदाहुतयः । ततः प्राशनादिभोजनान्तंपूर्ववत् ।सावित्रव्रतादेशे ब्रह्मणे दक्षिणान्ते सावित्र्या सन्ध्यावन्दनम् । अग्निपरिचरणं च । यदनुष्ठितं व्रतोत्सर्गे तदभावः । ततः “अप्स्वन्त"रिति दण्डस्याप्सु प्रक्षेपः । “वातोवा” इति मेखलाया अप्सु प्रक्षेपः । “वातरँहा भवे” ति यज्ञोपवीतस्याप्सु प्रक्षेपनम् । “नमो वरुणाये"ति कुमारस्य दधिघृतशर्कराणां प्रत्येकं प्राशनम् । इति सावित्रव्रतोत्सर्गः ॥
अथाग्नेयत्रतम् । तत्रोपलेपनादि बर्हिस्तरणान्तम् । ततो ब्रह्मचारिणो मेखलाबन्धनं यज्ञोपवीतधारणं दण्डसमर्पणं ग्रहणं च । मेखलादिषु पूर्वाक्ता एव मन्त्राः । ततो प्रतग्रहणं पूर्ववत् । “ॐ अग्ने व्रतपते व्रतं चरिष्यामि आग्नेयं सांवत्सरिकं तच्छकेयं तन्मे राध्यता” मिति । “आग्नेयं यथाकालं तच्छकेयं तन्मे राध्यता"मितीदानीं प्रयोगं
कुर्वन्ति । ततः स्वस्थाने उपवेशनम् \। आचार्यान्वारम्भः । तत उपयमनकुशादानादि पर्युक्षणान्तम् । आधाराद्याः स्विष्टकृदन्ताः सप्तत्रिंशदाहुतयोऽत्रापि होतव्याः । ततः प्राशनादि ब्राह्मणभोजनान्तम् । ततः स्मृत्युक्तं माध्याह्निकं सन्ध्योपासनम् । ततोऽग्ने पश्चादुपविश्य “पाणिनाऽग्निं परिसमूहती"त्यादि आयुष्यकरणान्तं यथोक्तम् । तत्र विशेषः गात्रालम्भने कर्कमतेऽध्याहारः । “अङ्गानि च म ऽआप्यायन्ता”मिति गर्गपद्धतौ । त्र्यायुषकरणान्ते “शिवो नामे"ति जपः । यदि बटुर्मेधाकामः स्यात्तदा “सदसस्पति"मित्यूचा मेघां याचते ।श्रीकामश्चे “दिमम्म"इति श्रेयो याचते । ततो मेखलास्थान्प्रवरान्दक्षिणोपचारेण स्पृष्ट्वा “ऽमुकसगोत्रोऽमुकशर्माहं भो वैश्वानर ! अभिवादयामि” । एवं वरुणाचार्यवृद्धानामभिवादनम् । ततो भिक्षाचर्यचरणम् । गुरुनिवेदनम् । अनुज्ञातो भिक्षां स्वीकृत्य मातृहस्ते समर्पयति । ततो बर्हिर्होमादि ब्राह्मणभोजनान्तम् । ततः सन्ध्याकाले अञ्जलिप्रक्षेपान्ते सूर्योपस्थानं वारुणीभिर्ॠग्भिः “इमं मे वरुणे"त्यादिभिः । “सँसृजे"त्यादि मन्त्रः प्रातः । “उद्वय"मित्यादिभिर्मध्याह्ने । इति शाखान्तरविषयम् ।कातीयानान्तु “उद्वय"मित्यादि सन्ध्यात्रये । ततो दण्डं गृहीत्वाऽग्निपरिचरणम् । मध्याह्ने सायाह्ने च सन्ध्योपासनान्ते प्रतिदिनमग्निपरिचरणम् । एके प्रातःकालेऽप्यग्निपरिचरणमिच्छन्ति। अग्निपरिचरणान्ते वाग्विसर्गः । पूर्वोक्ता एव ब्रह्मचारिधर्माज्ञेयाः । सन्ध्योपासनादीनि स्वस्वकालेन कर्तव्यानि । तेषां कालातिक्रमे कर्मणां श्रेषे प्रायश्चित्तमुच्यते ।परिसमूहनादि भूसंस्कारं कृत्वा “ऽन्वग्नि"रिति मन्त्रेणाग्नेराहरणम् । “पृष्टो दिवी"ति स्थापनम् । “ताँसवितुस्तत्सवितुर्विश्वानि देवे"त्यादिभिः सावित्रमन्त्रैस्त्रिभिः प्रज्वालनम् ।नात्र ब्रह्मोपवेशनादि । पूर्णाहुतिवदाज्यं संस्कृत्यानादिष्टं कार्यम् । अथाग्नेयत्रतस्थितो ब्रह्मचारी “समिधाग्निन्दुवस्यते"त्येवमादि आग्नेयवेदविभागं संवत्सरपर्यन्तं पठित्वा व्रतमुत्सृजति । ततः संवत्सरे परिपूर्णे आग्नेयव्रतविसर्गः । तत्र परिसमूहनादि ब्राह्मणभोजनान्तमाग्नेयव्रतादेशवद्भवति । एतावान्विशेषः ।
यस्मिन्काले आग्नेयव्रतग्रहणं कृतं तस्मिन्काले सन्ध्यावन्दनम् ।अग्निपरिचरणम् ।आग्नेयव्रतविसर्गः । “अग्ने व्रतपते व्रतमचारिषं सांवत्सरिकं तदशकं तन्मेऽराधी"ति मन्त्रेण । ततोऽनन्तरमामिक्षानिवृत्तिः । दण्डादीनामप्सु प्रक्षेपः ।तादौ ग्रहणं येषाम् । इति अग्नेयविसर्गः ॥
अथ शुक्रियव्रतादेशः । तत्र उपलेपनादि बर्हिस्तरणान्तं कृत्वा मेखलायज्ञोपवीतदण्डानां धारणपूर्वकं व्रतग्रहणम् । “अग्नेव्रतपते व्रतं चरिष्यामि शुक्रियं सांवत्सरिकं तच्छकेय"मिति शेषः । ततः उपयमनादि ब्राह्मणभोजनान्तमाग्नेयत्रतादेशवत् ।शुक्रियव्रते स्थित “ऋचं वाच"मित्यादि शुक्रियेनेदं विभागं पठति । संवत्सरं यावत् ।उत्तमेऽहनि अपराह्न कालान्ते निशामुखे त्रिगुणेन पटेन एकस्यां दिशि बद्धेन नामिमात्रं यावन्माणकस्य प्रच्छादनम् । मूर्धानमारभ्य ग्रन्थेःशिरस उपरि करणम् । ततः सावित्र्या वेदशिरसा “हिरण्मयेन पात्रेणे"ति मन्त्रेणैवावगुण्ठनम ।एवं प्रच्छादितो ब्रह्मचारी सूर्योदयं यावत्तिष्ठति । रात्रौ ग्रामे वा गोष्ठे वा देवायतने वाधःशयनम् ।रात्रौ गेहे यदि स्थितिस्तदा व्युष्टायां रात्रौ ग्रामाद्बहिर्गमनम् । ततो गुण्ठनीविसर्गः । ततो"ऽदृश्रमस्योदुत्यञ्चित्रन्देवाना” मित्यादिनामुदितेऽर्केंजपः । ततो व्रतस्थाने माणवकमानीय शुक्रियव्रतस्य विसर्गः । तत्र परिसमुहनादि स्तरणान्तम् । ततः प्राकृतं सन्ध्योपासनम् ।अग्निस्वीकरणम् । ततोऽ"ग्ने व्रत० मचारिषं शुक्रियं सांवत्सरिकन्तद०धी"ति मन्त्रेणोत्सर्गः । तत उपयमनादानादि ब्राह्मणभोजनान्ते । ततस्ताम्रपात्रे उदकप्रक्षेपः । “द्यौः शान्ति"रिति शान्तिकरम् । शान्तिपात्रं अवगुण्ठनीवस्त्रं च गुरवे दद्यात् । ततो“ऽव्स्वन्तरमृत” मित्यादिभिः पूर्ववत्प्रत्यृचं दण्ड मेखलायज्ञोपवीतदण्डानां अप्सु प्रक्षेपः । दधिघृतशर्कराणां “नमो वरुणाये"ति प्रतिमन्त्रं प्राशनम् । ततो वपनम् ।व्रतग्रहणस्यादौ सर्वत्र शुक्रियादिषु मेखलायज्ञोपवीतदण्डानां धारणम् ॥
अथौपनिषद्व्रतम् । उपलेपनादि बर्हिस्तरणान्तम् । ततोऽ“ग्नेव्र० औपनिषदं सांवत्सरिकं तच्छकेयं तन्मे राध्यता"मिति व्रतग्र-
हणम् । तत उपयमनादानादि ब्राह्मणभोजनान्तम् । औपनिषदे व्रते स्थितो “द्वयाह प्राजापत्या” इत्याद्यौपनिषदवेदविभागं संवत्सरं यावत्पठति । तदुत्तमेऽहनि निशामुखे अवगुण्ठनीवस्त्रेण प्रच्छादनादि । उदिते “अदृश्रमस्योदुत्तमं चित्रन्देवाना”मिति जपान्तं शुक्रियवत् । ततो व्रतस्थाने माणवकमानीय व्रतविसर्गः । तत्र परिसमूहनादि बर्हिस्तरणान्तं कृत्वा पूर्वबत्सन्ध्योपासनमग्निपरिचरणं च । ततो “ऽग्ने व्रत०मचारिषमौपनिषदं सांवत्सरिकं तद०धी"ति व्रतविसर्गः । तत उपयमनादानादि ब्राह्मणभोजनान्तम् । ताम्रे उदकप्रक्षेपः । “द्यौः शान्ति"रिति शान्ति करणम् ।भाजनवस्त्रयोराचार्याय दानम् । दण्डादीनामप्सु प्रक्षेपः । दध्यादीनां प्राशनम् । इति औपनिषदं व्रतम् ॥
अथ शौलभव्रतादेशः । तत्र परिसमूहनादि ब्राह्मणभोजनान्तमौपनिषदव्रतादेशवत् । व्रतग्रहणे “शौलभं सांवत्सरिक"मिति प्रयोगः । शौलभिनीनां ऋचां पाठो व्रते स्थितस्य । अत्राप्युत्तमेऽहनि निशामुखे पटेन प्रच्छादनादि उदिते जपान्तं पूर्ववत् । ततो व्रतस्थाने माणवकमानीय व्रतविसर्गः । तत्रैवं परिसमूहनादि बर्हिस्तरणान्तम् । ततः सन्ध्योपासनादि । ततो व्रतविसर्गः । “अग्ने०रिषं शौलभं सांवत्सरिकं तद०धी"ति मन्त्रः । तत उपयमनादानादि ब्राह्मणभोजनान्तम् । तत उदकं पात्रे कृत्वा “द्यौः शान्ति”रिति शान्तिकरणम् । पात्रवस्त्रयोर्गुरवे दानम् । दण्डादीनामप्सु प्रक्षेपः । दधिमधुशर्कराणां “नमो वरुणाये"ति प्रत्यूचं प्राशनम् । ततो वपनम् । इति शौलभम् ॥
अथ गोदानव्रतादेशः । तत्र परिसमूहनादि ब्राह्मणभोजनान्तम् । व्रतग्रहणस्यादौ मेखलायज्ञोपवीतदण्डानां धारणम् ।“गोदानं सांवत्सरिक"मिति मन्त्रे विशेषः । अस्मिन्व्रते अवगुण्ठन्यादीनामभावः । “त्रिष्ववगुण्ठनँ शुक्रियादिष्वि"ति सूत्रणात् । ततः संवत्सरे पूर्णे गोदानव्रतविसर्गः । तत्र परिसमूहनादि बर्हिस्तरणान्तम् । ततः सन्ध्योपासनादि । “अग्ने० रिषं गोदानं सांवत्सरिकं तद०धी”ति मन्त्रेणोत्सर्गः । उपयमनादानादि ब्राह्मणभोजनान्तम् । अस्मिन्विसर्गे दण्डमेख-
लायज्ञोपवीतानामप्सु प्रक्षेपाभावः । आचार्याय गोमिथुनदानम् ।समाप्तानि व्रतानि । इति गर्गमते उपनयने पदार्थक्रमो व्रतानि च । इमानि च व्रतानि प्रक्षिप्तसुत्रे पठितानि ।कर्कमतानुसारिभिरप्य-नुष्ठेयानि ।स्मृत्यन्तरे केषां चित् चत्वारिंशत्संस्कारे पाठात् ।
** इति श्रीप्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्रविवरणे
संस्कारगणपतौ उपनयने व्रतानि ।**
<MISSING_FIG href=”../books_images/U-IMG-1696043580C.PNG”/>
( अथ षष्ठी कण्डिका )
वेदर्ठ० समाप्प स्नायाद्ब्रह्मचर्यं वाऽष्टाचत्वारिर्ठ० शकं द्वादशेकेऽप्येके गुरुणाऽनुज्ञातो विधिर्विधेयस्त-र्कश्च वेदः षडङ्गमेके न कल्पमात्रे कामं तु याज्ञिकस्योपसंगृह्य गुरु० समिधोऽभ्याधाय परिश्रितस्योत्तरतः कुशेषु प्रागग्रेषु पुरस्तात्स्थित्वाऽष्टानामुदकुम्भानां येऽप्स्वन्तरग्नयः प्रविष्टा गोह्य उपगोह्यो मयूखो मनोहा स्खलोविरुजस्तनुदूषुरिन्द्रियहा तान्विजहामि यो रोचनस्तमिह गृह्णामीत्येकस्मादपो गृहीत्वा तेनाभिषिञ्चते तेन मामभिषिञ्चामि श्रियै यशसे ब्रह्मणे ब्रह्मवर्चसायेति येन श्रियमकृणुतां येनावमृशता<MISSING_FIG href=”../books_images/U-IMG-1698423285Screenshot(1”/>.png)सुराम् ।येनाक्ष्यावभ्यषिञ्चतां यद्वातदश्विना यश इत्यापोहिष्ठति च प्रत्यूचं त्रिभिस्तूष्णीमितरैरुदुत्तम- मिति मेखलामुन्मुच्य दण्डं निधाय वासोऽन्यत्परिधायादित्यमुपतिष्ठत उद्यन्भ्राजभृष्णुरिन्द्रो मरुद्भिरस्थात्प्रातर्यावभिरस्थाद्दशसनिरसि दशसनिं मा कुर्वाविदन्मागमयोद्यन्भ्राजभृष्णुरिन्द्रो मरुद्भिरस्थाद्दिवा याचभिरस्थाच्छतसनिरसि शतसनिं मा कुर्वाविदन्मागमयोद्यन्भ्राजभृष्णुरिन्द्रो मरु-
द्भिरस्थात्सायं यावभिरस्थात्सहस्रसनिरसि सहस्रसनिं मा कुर्बाविदन्मागमयेति दधि तिलान्वा प्राश्य जटालोमनखानि सर्ठ०हृत्यौदुम्बरेण दन्तान्धावतान्नाद्याय व्यूहध्वर्ठ०सोमो राजाऽयमागमत् । स मे मुखं प्रमार्क्ष्यते यशसा च भगेन चेत्युत्साद्य पुनः स्नात्वाऽनुलेपनं नासिकयोर्मुखस्य चोपगृह्णीते प्राणापानौ मे तर्पय समानव्यानौ मे तर्पय चक्षुर्म्मेतर्प्पय श्रोत्रं मे तर्पयेति पितरः शुन्धध्वमिति पाण्योरवनेजनं दक्षिणा निषिच्यानुलिप्य जपेत्सुचक्षाऽअहमक्षीभ्यां भूयासर्ठ०सुवर्चा मुखेन । सुश्रुत्कर्णाभ्यां भूयासमित्यहतं वासो धौतं वाऽमौत्रेणाच्छादयीत परिधास्यै यशोधास्यै दीर्घायुत्वाय जरदष्टिरस्मि । शतञ्चजीवामि शरदः पुरुची रायस्पोषमभिसंव्ययिष्य इत्यथोत्तरीयं यशसा मा द्यावापृथिवी यशसेन्द्राबृहस्पती ।यशो भगश्च माविदद्यशो मा प्रतिपद्यतामित्येकञ्चेहपूर्वस्योत्तरवर्गेण प्रच्छादयीत ।सुमनसः प्रतिगृह्णाति या आहरज्जमदग्निः श्रद्धायै मेधायैकामायेन्द्रियाय । ता अहं प्रतिगृह्णामि यशसा च भगेन चेत्पथावबधनीते यद्यशोऽप्सरसामिन्द्रश्चकार विपुलं पृथु । तेन सङ्ग्रथिताः सुमनस आबध्नामि यशो मधीत्युष्णीषेण शिरो वेष्टयते युवा सुवासा इत्यलङ्करणमसि भूयोऽलङ्करणं भृयादिति कर्णवेष्टकौवृत्रस्येत्यङ्क्तेऽक्षिणी रोचिष्णुरसीत्यात्मानमादर्शे प्रेक्षते छत्रं प्रतिगृह्णाति बृहस्पतेश्छदिरसि पाप्मनो मामन्तर्धेहि तेजसो यशसो माऽन्तर्धेहीति प्रतिष्ठे स्थो व्विश्वतो मा पातमित्युपानहौप्रतिमुञ्चते विश्वाभ्यो मा नाष्ट्राभ्यस्परिपाहि सर्वत इति वैणवं दण्डमादत्ते दन्तप्रक्षालनादीनि नित्यमपि वासश्छत्रोपानहश्चपूर्वाणि चेन्मन्त्रः॥६॥
“वेद<MISSING_FIG href=”../books_images/U-IMG-1698424005Screenshot(14”/>.png)समाप्य स्नाया"दितिसूत्रम् ।वेदं मन्त्रब्राह्मणात्मकं यथोक्तविधिना समाप्य स्नायात् । स्नानशब्देन समावर्तनसंस्कार उच्यते । अत्र समाप्य इत्यनेनैव सुत्रेण वेदारम्भः सूचितः । न ह्यारम्भं विना समाप्तिर्दृश्यते । अतो वेदारम्मः कार्यः । अथ ब्रह्मचर्यकालावधिमाह “ब्रह्मचर्यं वाष्टाचत्वारि<MISSING_FIG href=”../books_images/U-IMG-1698424005Screenshot(14”/>.png)शक"मिति सूत्रम् ।अथ वा ब्रह्मचर्यव्रतं अष्टाचत्वारिंशकं अष्टाचत्वारिंशद्वर्षं निर्वर्त्य समाप्य अवसानं प्राप्य गुरुणाऽनुज्ञातः स्नायादिति सम्बन्धः ।वेदान् वेदौ वेदं वा प्रतिवेदं द्वादशाब्दानीति न्यायेनाष्टाचत्वारिंशद्वर्षाणि ब्रह्मचर्यं भवति । यदा त्रीन् तदा षटत्रिंशत् । यदा द्वौ तदा चतुर्विंशतिः । यदा त्वेकं तदा द्वादशेति व्याख्येयम् । न तु वेदं वेदं प्रतीति कमनीयम् । तथा प्रत्येकस्मिन् वेदेऽऽष्टा-चत्वारिंशद्वर्षाणीति न्यायेन चतुर्षु वेदेषु द्विनवत्युत्तरं शतं वर्षाणि ब्रह्मचर्यमापद्येत तच्चासम्भवमिति, शतायुष्ट्वविरोधात् । अत एव देवलः–“अतः परमष्टाचत्वारिंशद्वार्षिकीं वेदचर्यामधितिष्ठेत्तदशक्त-श्चेच्छट्त्रिंशद्वार्षिकीं चतुर्विंशद्वार्षिकीं द्वादशवार्षिकीं वेति” । अशक्तश्चतुर्वेदाध्ययनाशक्तः । एवमुत्तरत्रापि व्याख्येयम् । यमोऽपि—
वसेद्द्वादश वर्षाणि चतुर्विंशतिमेव वा ।
षट्त्रिंशतं वा वर्षाणि प्रतिवेदं व्रतं चरेत् ॥ इति ।
गुरुगृहे वसेदित्यर्थः। “द्वादशेकेऽप्येके” इति सूत्रम् ।एके आचार्याःद्वादशवार्षिकव्रतं समाप्य स्नानमिच्छन्ति ।“गुरुणानुज्ञात"इति सूत्रम् ।गुर्वनुज्ञा च समावर्तनकर्माङ्गंन तु स्नानकालानन्तरमेतत् । तत्र वेदशब्देन किमुच्यत इत्याह “विधिर्विधेयस्तर्कश्च वेद” इति सूत्रम् ।विधीयत इति विधिः । “दर्शपौर्णमासाभ्यां यजेत ।अग्निहोत्रं जुहुया"दित्यादि विधायकं वाक्यम् ।विधीयते विनियुज्यते ब्राह्मणवाक्येन कर्माङ्गत्वेनेति विधेयो मन्त्रः “इषे त्वा”दिः । तर्कशब्देनार्थवादो विधीयते तर्क्यते ह्यनेन सन्दिग्धोऽर्थः । यथा “अक्ताः शर्करा उपदधाति तेजो वै घृत"मिति । अञ्जनं तैलवसादिनापि सम्भवति, तत्र “तेजो वै घृत"मिति घृतसंस्तवात्तत् तर्व्यतेघृताक्ता इति । तेन
विध्यर्थवादमन्त्रा वेदशब्देनाभिधीयन्ते इत्युक्तम् । तर्कःकल्पसूत्रमिति भर्तृयज्ञः, तर्कोमीमांसेति कल्पतरुः । चशब्दान्नामधेयानां सङ्ग्रह इति हरिहरः । “षडङ्गमेके” इति सूत्रम् । शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति षड्भिरङ्गैरुपेतमेके आचार्या वेदमिच्छन्ति । तमधीस्य स्नायादित्यन्वयः । स्नानं च द्वितीयाश्रमप्रतिपत्तिः । तद्नुष्ठानयोग्यता च षडङ्गवेदेऽधिगते भवति । अत एवोच्यते “न कल्पमात्रे” इति सूत्रम् । कल्पशब्देन च ग्रन्थमात्रमभिधीयते कल्पमात्रे ग्रन्थमात्रे मन्त्र-ब्राह्मणे वा अधीते न स्नानमिच्छन्ति, न हि ग्रन्थमात्राध्ययनेन कर्मानुष्ठानयोग्यता भवति । तस्मादर्थतो ग्रन्थतश्चाधिगम्य स्नानमिति । “कामं तु याशिकस्ये"ति सूत्रम् ।यज्ञं वेदेति याज्ञिकः । तुशब्दः पक्षव्यावृत्तौ, यज्ञानां संस्कारे पाठात्॥
इति श्रीप्रथमशाखीयरामकृष्णविरचिते पारस्करगृह सूत्रविवरणे
संस्कारगणपतौ उपनयने व्रतानां पदार्थक्रमः॥
<MISSING_FIG href=”../books_images/U-IMG-1696053156D.PNG”/>
अथ वेदारम्भः । “वेद<MISSING_FIG href=”../books_images/U-IMG-1698424005Screenshot(14”/>.png)समाप्य स्नाया”दिति सूत्रम् ।समाप्य इत्यनेनैव सूत्रेण प्रारम्भः सूचितः । नद्यारम्भंविना समाप्तिर्दृश्यते । अतोवेदारम्भ उक्तो गृह्यकारिकायाम्—
ब्रह्मचारिप्रसङ्गेन वेदारम्भोऽधुनोच्यते ।
असुप्ते तु हरौ स स्यान्नानध्याये शुभेऽहनि॥
नास्तङ्गते सिते जीवे बाले वृद्धे मालम्लुचे ।
षष्ठीं रिक्तां शनिं सोमं भौमं हित्वेरितोडुनि॥
मृगादिपञ्चधिष्णेषु मूलाश्विन्योःकरत्रये ।
पूर्वासु तिसृषूपेन्द्रभत्रये केन्द्रगैः शुभैः॥
व्रतादेशनिमित्तन्तु मातृपूजनपूर्वकम् ।
श्राद्धं कृत्वा यमेमाणाँस्ततः सङ्कल्पमुच्चरेत्॥
यजुर्वेदव्रतादेशं करिष्येऽथ विकल्पनम् ।
स्छापयेल्लौकिकं वह्निं स्थलेभूशुद्धिपूर्वकम्॥
ध्यायेद्देवानथाघारावाज्यभागौ तु पूर्वकान् ।
अन्तरिक्षं ततो वायुं ब्रह्माणं तदनन्तरम्॥
छन्दांसि च स्मरेदत्र प्रजापतिमनुस्मरेत् ।
देवानृषींस्ततः श्रद्धां मेधां च सदसस्पतिम्॥
ततोऽनुमतिमाज्येन सर्वान्भूरादिकाँस्ततः ।
अग्निस्विकृष्टदन्ताः स्युरेता यक्ष्येऽत्र देवताः॥
ब्रह्मणो वरणाद्याज्यभागान्तं पूर्ववद्भवेत् ।
जुहुयादाज्यभागान्ताः स्थाल्याज्येनाहुतीरिमाः॥
स्वाहान्वितान्तरिक्षाय वायवे ब्रह्मणे तथा ।
ततश्छन्दोभ्य इत्येवं प्रजापतय इत्यनु॥
देवेभ्यश्च ऋषिभ्यश्च श्रद्धायै तदनन्तरम् ।
मेधायै वाऽथ सदसस्पतये हूयतेऽपि च॥
ततोऽनुमतये भूराद्याथ स्विष्टकृदन्तिकाः ।
प्राशनादि विमोकान्तं कृत्वा विघ्नेशपूजनम्॥
सरस्वतीं हरिं लक्ष्मी स्वविद्यां पूजयेद्द्विजः ।
ऋग्वेदेऽधीयमाने स्यात्पृथिव्या अग्नये हुती॥
ततो ब्रह्मण इत्यादि विमोकान्तं च पूर्ववत् ।
सामवेदे दिवे स्वाहा सूर्यायेत्यथ पूर्ववत्॥
दिग्भ्यश्चन्द्रमसे स्वाहाऽथर्वेदेऽपि हूयते ।
एक एव व्रतादेशो यदि स्याद् ब्रह्मचारिणम्॥
आधारावाज्यभागौ च पृथिव्या अग्नये ततः ।
ब्रह्मणेत्यनुच्छन्दोभ्यस्त्वन्तरिक्षाय वायवे॥
पुनर्द्वेब्रह्मणे च्छन्दोभ्यो दिवे तदनन्तरम् ।
सूर्याय ब्रह्मणे तद्वच्छन्दोभ्यश्च पुनस्ततः॥
दिग्भ्यश्चन्द्रमसे तद्वद्ब्रह्मणे द्वे जुहोत्यथ ।
प्रजापतय इत्याद्याः स्युस्तन्त्रेणात्र सप्त वै॥
सर्वत्रेति पृथग्योगकरणादित्ययं क्रमः ।
कुर्यात्कर्मैतदाचार्यो वृद्ध्यादिमुतसंस्कृतिम्॥
तत्र प्रत्यङ्मुखायोपविष्टायानवमीक्षते ।
वेदारम्भमनुब्रूयाद्यथाशास्त्रमतन्द्रितः॥
अथाध्ययनप्रकारः। तत्र याज्ञवल्क्यः ।
गुरुं चैवाप्युपासीत स्वाध्यायार्थं समाहितः॥
मनुश्च—
अध्येष्यमाणस्त्वाचान्तो यथाशास्त्रमुदङ्मुखः॥
प्राञ्जलिश्च कृतोऽध्याप्यो लघुवासा जितेन्द्रियः ।
ब्रह्मारम्भेऽवसाने च पादौ ग्राह्यौ गुरोः सदा॥
व्यत्यस्तपाणिना कार्यमुपसङ्ग्रहणं गुरोः ।
सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन तु दक्षिणः॥
ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा ।
स्रवत्यनोङ्कृतं पूर्वं परस्ताच्च विशीर्यते॥
प्राञ्जलिःपर्युपासीत पवित्रैश्चैव पावितः ।
प्राणायामैस्त्रिभिः पुतस्तत ॐकर्तुमर्हति॥
अध्येष्यमाणश्च गुरुर्नित्यकालमतन्द्रितः ।
अधेष्व भो३ इति ब्रूयाद्विरामोऽस्त्विति वारयेत्॥
नोदितो गुरुणा नित्यमप्रणोदित एव वा ।
कुर्यादध्ययने योगमाचार्यस्य सुतेषु च॥
दक्षः—
द्वितीये तु तथा भागे वेदाभ्यासो विधीयते ।
वेदस्वीकरणं पूर्वं विचाराभ्यसनं जपः॥
मनुः—
नित्यमुद्धृतपाणिःस्यात्स्वाध्यायार्थं समाहितः ।
आस्यतामिति चोक्तः सन्नासीताभिमुखं गुरोः॥
होनान्नवस्त्रवेषः स्यात्सर्वदा गुरुसन्निधौ॥
हीनान्नवस्त्रवेषः गुर्वपेक्षया ।
उत्तिष्ठेत्प्रथमं चास्य चरमं चैव संविशेत्॥
पाणिनीयशिक्षायाम्—
हस्तेन वेदं योऽधीते स्वरवर्णार्थसंयुतम् ।
ऋग्यजुःसामभिः पूतो ब्रह्मलोके महीयते॥
हस्तहीनन्तु योऽधीते स्वरवर्णविवर्जितम् ।
ऋग्यजुःसामभिर्दग्धो वियोनिमधिगच्छति॥
बेदः सार्थोऽध्येतव्य इति । व्यासः—
वेदस्याध्ययनं सर्वं धर्मशास्त्रस्य चैव हि ।
अजानतोऽर्थंतद्व्यर्थं तुषाणां कण्डनं यथा॥
गृह्यकारिकायाम्—
मेखलाजिनदण्डानां धारिभिर्ब्रह्मचारिभिः ।
वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजातिभिः॥
भिक्षा शिलिर्गुरोर्नित्यं शुश्रूषणपरैस्तथा ।
आसमांप्तेर्व्रतं कार्यं वेदस्य विधिवद्द्विजैः॥
पारम्पर्यगतो येषां वेदः सपरिबृंहणः ।
तच्छाखंकर्म कर्तव्यं तच्छाखाध्ययनं तथा॥
अधीत्य शाखामात्मीयां परशाखां ततः पठेत् ।
स्वशाखां तु परित्यज्य शाखारण्डः स उच्यते॥
एवमध्ययनं कुर्वन्ब्रह्मसायुज्यमाप्नुयात् ।
प्रथमवेदारम्भन्तु उपाकर्म कृत्वा कुर्यात् । तदुक्तं गृह्ये–
इत्युक्तं शौनकेनोपाकर्मणोऽनन्तरं भवेत् ।
एतत्प्रथमतो वेदारम्भणं प्राहगौतमः॥
इति गणपतौ वेदारम्भः॥
अथ वेदारम्भप्रयोगः ।उपनयनानन्तरं ज्योतिर्विदादिष्टे मूहूर्त्ते आचार्यो देशकालौ स्मृत्वा “अस्मिन्पुण्याहे अस्य ब्रह्मचारिणो वेदारम्भनिमित्तं पुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धं च करिष्येनिर्विघ्नेन समाप्त्यर्थं गणपतिपूजनमहं करिष्ये” पूर्ववत्सर्वं सम्पाद्य
ततः स्थाण्डले पञ्चभूसंस्कारान्कृत्वा लौकिकाग्निस्थापनं कुर्यात् । ततः प्राणानायम्य देशकालौ स्मृत्वा “अस्य ब्रह्मचारिणो यजुर्वेदारम्भमहं करिष्ये” । अथ वैकल्पिकानि । “एकस्य वेदस्यारम्भः । पूर्वेण ब्रह्मणो गमनम् ।उत्तरेण पात्रासादनम् ।द्वे पवित्रे ।आज्यस्थाली ताम्रमयी । पालाश्यःसमिधः । प्राञ्चावाधारौ । समिद्धतमे आज्यभागौ ।वरो दक्षिणा । एतान्वैकल्पिकान्पदार्थानहं करिष्ये"अथ देवताऽभिध्यानम् । “तत्र प्रजापतिं, इन्द्रं, अग्निं, सोमं, अन्तरिक्षं, वायुं, ब्रह्माणं, छन्दांसि, प्रजापतिं, देवान्, ऋषीन्, श्रद्धां, मेधां, सदसस्पतिं, अनुमतिं, अग्निं, वायुं, सूर्यं, अग्नीवरुणौ, अग्नीवरुणौ, अग्निं, वरुणं सवितारं विष्णुं विश्वान्देवान् मरुतः स्वर्कान्, बरुणं, प्रजापतिं, अग्निं स्विष्टकृतं, एता अङ्गप्रधानार्थदेवता आज्येनाहं यक्ष्ये” । ब्रह्मवरणादि आज्यभागान्तं पूर्ववत् ।अथ प्रधानहोमः । “ॐ अन्तरिक्षाय स्वाहा । इदमन्तरिक्षाय न मम । ॐ वायवे स्वाहा । इदं वायवे० । ॐ ब्रह्मणे स्वाहा । इदं ब्रह्मणे । ॐ छन्दोभ्यः स्वाहा ।इदं छन्दोभ्यो० । ॐ प्रजापतये स्वाहा । इदं प्रजापतये० । ॐ देवेभ्यः स्वाहा । इदं देवेभ्यो० । ॐ ऋषिभ्यः स्वाहा ।इदमुषिभ्यो० । ॐ श्रद्धायै स्वाहा । इदं श्रद्धायै० । ॐ मेधायै स्वाहा । इदं मेधायै० । ॐ सदसस्पतये स्वाहा । इदं सदसस्पतये० । ॐ अनुमतये स्वाहा । इदं अनुमतये० ।” एतत्प्रधानम् । ततो भूरादिस्विष्टकृदन्ता दशाहुतयः । “ॐ भूः स्वाहा । इदमनग्ये० ।ॐ भुवः स्वाहा ।इदं वायवे० ।ॐ स्वः स्वाहा । इदं सूर्याय० । ॐ त्वन्नो अग्ने० । इदमनीवरुणाभ्यां० । ॐ सत्वन्नो० ।इदमनीवरुणाभ्यां० । ॐ अयाश्चाग्ने० । इदमग्नये० । ॐ ये ते शतं० । इदं वरुणाय सवित्रे विष्णवे विश्वेभ्यो देवेभ्यो मरुद्भ्यः स्वर्केभ्यश्च० । ॐ उदुत्तमं०।इदं वरुणाय० ।ॐ प्रजापतये स्वाहा । इदं प्रजापतये० ।ॐ अग्नये स्विष्टकृते स्वाहा । इदमग्नये स्विष्टकृते०” ततः संस्रवप्राशनम् । द्विराचमनम् । पवित्राभ्यां
मार्जनम् । पवित्रप्रतिपत्तिः । ब्रह्मणे पूर्णपात्रदानम् ।“ब्रह्मन्नस्य कर्मणः साङ्गतासिध्यर्थं इदं पूर्णपात्रं तुभ्यमहं सम्प्रददे ।” यदि ऋग्वेदारम्भस्तदा आज्यभागान्ते । “ॐ पृथिव्यै स्वाहा । इदं पृथिव्यै० । ॐअग्नये स्वाहा । इदमग्नये० ।” ततो ब्रह्मणे इत्यादि स्विष्टकृदन्ता एकोनविंशतिराहुतयः । यदि सामवेदारम्भस्तदा आज्यभागान्ते । “ॐ दिवे स्वाहा ।इदं दिवे० । ॐ सूर्याय स्वाहा । इदं सूर्याय० ।” ततो ब्रह्मणे इत्याद्या एकोनविंशतिराहुतयः ।यदि अथर्ववेदारम्भस्तदा आज्यभागान्ते । “ॐ दिग्भ्यः स्वाहा ।इदं दिग्भ्यो० । ॐ चन्द्रमसे स्वाहा । इदं चन्द्रमसे० ।” ब्रह्मणे इत्याद्या एकोनविंशतिराहुतयः । यदि एकदा सर्ववेदारम्भस्तदा आज्यभागान्ते । “ॐ पृथिव्यै स्वाहा । इदं पृथिव्यै० । ॐ अग्नये स्वाहा ।इदमग्नये० । ॐ ब्रह्मणे स्वाहा । इदं ब्रह्मणे० । ॐ छन्दोभ्यः स्वाहा ।इदं छन्दोभ्यो० । ॐ अन्तरिक्षाय स्वाहा ।इदमन्तरिक्षाय० । ॐ वायवे स्वाहा । इदं वायवे ।ॐ ब्रह्मणे स्वाहा ।इदं ब्रह्मणे । ॐ छन्दोभ्यः स्वाहा ।इदं छन्दोभ्यो० ।ॐ दिवे स्वाहा । इदं दिवे० ।ॐ सूर्याय स्वाहा ।इदं सूर्याय० ।ॐ ब्रह्मणे स्वाहा । इदं ब्रह्मणे० । ॐ छन्दोभ्यः स्वाहा । इदं छन्दोभ्यो० । ॐ दिग्भ्यः स्वाहा । इदं दिग्भ्यो०। ॐ चन्द्रमसे स्वाहा । इदं चन्द्रमसे० ।ॐ ब्रह्मणे स्वाहा । इदं ब्रह्मणे० । ॐ छन्दोभ्यः स्वाहा ।इदं छन्दोभ्यो० । ॐ प्रजापतये स्वाहा । इदं प्रजापतये० । ॐ देवेभ्यःस्वाहा । इदं देवेभ्यो० ।ॐ ऋषिभ्यःस्वाहा ।इदं ऋषिभ्यो० । ॐ श्रद्धायै स्वाहा ।इदं श्रद्धायै० ।ॐ मेधायै स्वाहा \॥इदं मेधायै०। ॐ सदसस्पतये स्वाहा । इदं सदसस्पतये० । ॐ अनुमतये स्वाहा । इदमनुमतये० ।” एतावान् प्रधानहोमः । ततो भूरादिस्विष्टकृदन्ता दशाहुतयः । अनेनैव क्रमेण देवताभिध्यानम् । ततः गणेशं सरस्वतीं लक्ष्मी हरिं विद्यादीन् पूजयित्वा ततः प्रत्यङ्मुखायोपविष्टाय ब्रह्मचारिणे आचार्यः वेदारम्भं कुर्यात् । “श्रीगणेशायनमः ।
श्री सरस्वत्यैनमः । श्रीगुरुभ्योनमः ।हरिः ॐ ।ॐ भूभुर्वःस्वः । ॐ तत्सवितुः” सावित्रीमुच्चार्य इस्तौ जानुभ्यामुपरि स्थापयित्वा वेदरम्भं कुर्यात् । एवमेव ब्रह्मचारी यथाध्यापितं पठेत् । आरम्भे चावसाने च ब्रह्मचारी गुरोः पादोपग्रहणं कुर्यात् । एवं स्वशाखामधीत्य परशाखां पठेत् ।
अस्कन्दयँस्तथा रेतो वासुदेवपरायणः ।
मुण्डो वा जटिलो वा स्यादथ वा स्याच्छिखी जटी॥
एवं धर्मेण वेदाध्ययनं कर्तव्यम् ।
इति श्रीरामकृष्णविरचिते पारस्करगृह्मसूत्रविवरणे संस्कारगणपतौ
वेदारम्भप्रयोगः ।
<MISSING_FIG href=”../books_images/U-IMG-1696058024E.PNG”/>
अथ गोदानप्रयोगः ।“षोडशवर्षस्य केशान्त” इति सूत्रम् । केशान्त इतिसंस्कारनामधेयम् । षोडश वर्षाण्यतीतानि यस्य स षोडशवर्षः ।तस्य पुरुषस्य केशान्ताख्यः संस्कारः स्यात् । मुहूर्त्तरत्ने—
**जाताधिकाराद्गोदानं जन्माद्यब्देतु षोडश॥ **इति ।
मनुः—
केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते ।
राजन्यबन्धोर्द्वाविंशे वैश्यस्य द्व्यधिके ततः॥
गोदानं स्नानकं चैव समावर्तनकं तथा ।
चौलोपनयने चैव न कुर्याद्दक्षिणायने॥
आवश्यके अपवादमाह मरीचिः—
गोदानासंस्कृतस्येह विवाहश्चेदुपस्थितः ।
याम्यायनेऽपि कुर्वीत गोदानं स्नानकं च वै॥
चकारात्समावर्तनम् । षोडशवर्षे नियटकाल एव । अतो विवाहिता विवाहितयोर्भवतीति जयरामः ।व्रतविसर्गात्पूर्वं कालापकर्षं कृत्वेति प्रयोगरत्नकारः ।कश्यपः—
चैत्रमासविवर्जेषु माघादिषु च पञ्चसु॥
नारदः—
सौम्यायने नास्तगयोरसुरामुरमन्त्रिणोः ।
अपर्वरिक्तातिथिषु शुक्रेज्यज्ञेन्दुवासरे॥
गुरुः—
सोमवारःसिते पक्षे कृष्णपक्षेऽतिगर्हितः ।
बुधवारः शुभः प्रोक्तः शुभग्रहयुतो यदा॥
पापग्रहाणां वारादौ विप्राणां तु शुभो रविः ।
क्षत्रियाणां क्षमासूनुर्विट्शुद्राणां शनिःशुभः॥
नक्षत्राणि—
हस्ताश्विविष्णुपौष्णानि श्रविष्ठादित्यपौष्णभम् ।
सौम्यचित्रे नवक्षौरऽउत्तमा नवतारकाः॥
त्रीण्युत्तराणि वायव्यं रोहिणी वारुणं तथा ।
क्षौरे षण्मध्यमाः प्रोक्ताःशेषा द्वादश गर्हिताः॥
नारदः—
अष्टमे शुद्धिसंयुक्ते शुभलग्ने शुभांशके ।
न नैधने मे शीतांशौ षष्टाष्टान्त्य ६/८/१२ विवर्जिते॥
धनत्रिकोणकेन्द्रस्थैः शुभैरन्यायारिगैः खलैः।
गोदानप्राशने शस्ताः सौम्या रन्ध्रव्ययायगाः॥
अष्टमस्था ग्रहाः सर्वे नेष्टाः शुक्रविवर्जिताः ।
अत्र विधिमाह । चूडाकर्मणस्तुल्यत्वारकेशान्तकर्मणः चूडाकर्मणा सह कथनं कात्यायनेन महर्षिणा कृतम् । तथा च गृह्यकारिकायाम्—
केशान्ताख्यमिदं कर्म व्याख्यातं चौलकर्मणा॥
सहेति शेषः । स्मृत्यन्तरे—
गोदानं चौलवत्कार्यं षोडशेऽब्दे तदुच्यते ।
अङ्कोपवेशनं नास्ति श्मश्रूणामुन्दनं भवेत्॥
अत्र मातुरुपस्थ उपवेशनं न भवेत् ।अबालवात् । शौनकः—
अबालत्वाज्जनन्यङ्के निवेशोऽप्यस्य नेष्यते॥
मन्त्रे ऊहविशेषः —
केशान्वोक्तिप्रदेशेषु श्मश्रुशब्दमुदीरयेत् ।
श्मश्रूणामेव सेकोऽत्र सकेशानामितीरितम्॥
केशान्वपत्पित्यत्रापि श्मश्रूणीति समीरयेत् ।
केशपक्षे तु कर्तव्यं श्मश्रुपक्षे तदाचरेत्॥
क्षुराभिमर्शनं मन्त्रं यत्क्षुरेणादिकेष्वपि ।
श्मश्रूणि छिन्धीत्युत्क्वाथ शिरोमुखमुदीरयेत्॥
यः शीतोष्णाभिरित्यादिमन्त्रो नापितशासनः ।
तत्र केशश्मश्रू लोमनखानीति पदात्परम्॥
उदक्संस्थानि कुशली कुर्वित्येवमुदीरयेत् ।
ततः स्नाते समीपस्थे तस्मिन्स्विष्टकृदादिकम्॥
उपरिष्टात्तनं मन्त्रमाचार्यस्तु समापयेत् ।
शिष्यः स्नात्वा ततो वाचं नियम्यादिवसक्षयात्॥
तिष्ठेदस्तमिते सूर्ये गुरोरन्तिकमागतः ।
वरं ददामीत्युक्त्वाथ गोवृषौ गुरवे दिशेत्॥
असम्भवे गोवृषयोर्भिक्षित्वा वा गुरौर्दिशेत् ।
उत्तरेद्युर्गुरुस्तस्य वत्सरं व्रतमादिशेत्॥
सर्वासु व्रतचर्यासु प्रसिद्धं केशधारणम्॥
एषां चाकरणे प्रायश्चित्तमाह । शौनकः—
व्रतानि विधिवत्कृत्वा स्वशाखाध्ययनं चरेत् ।
अकृत्वाभ्यस्यते येन स पापी विधिघातकः॥
प्रत्येकं कृच्छ्रमेकैकं चरित्वाज्याहुतीः शतम् ।
हुत्वा चैव तु गायत्र्या स्नायादित्याह शौनकः॥
अथ गोदाने स्पष्टप्रयोगः। जन्मतः सप्तदशे वर्षे नोचेकालापकर्षं वा कृत्वा ज्योतिर्विदुक्ते काले पूर्वेद्युर्वा कृतनित्यक्रियः बटुं दक्षिणत उपवेश्य प्राणानायम्य देशकालौ स्मृत्वा “अस्य ब्रह्मचारिणः केशान्तमहं करिष्ये । तदङ्गतया विहितं गणेशपूजनपूर्वकं स्वस्तिपुण्याह-
वाचनं मातृकापूजनं वसोर्द्धारां नान्दीश्राद्धं च करिष्ये” । ततो बहिःशालायां भूसंस्कारपूर्वकं अग्निस्थापनं कृत्वा पुनर्द्देशकालौ स्मृत्वा “अस्य केशान्तमहं करिष्ये । पूर्वेण ब्रह्मणो गमनम् । उत्तरेण पात्रासादनम् । द्वे पवित्रे । ताम्रमयी आज्यस्थाली । पालाश्यःसमिधः । प्राञ्चावाघारौ । समिद्धतमे आज्यभागौ । पूर्णपात्रं दक्षिणा । त्रिरात्रं ब्रह्मचर्यम् । घृतपिण्डः । सकेशगोमयपिण्डस्य गोष्ठे निधानम् । एतान् वैकल्पिकान्पदार्थानहं करिष्ये” । अथ देवताभिध्यानम् । “तत्र प्रजापतिं, इन्द्रं, अग्निं, सोमं, अग्निं, वायुं, सूर्यं, अग्नीवरुणौ, अग्नीवरुणौ, अग्निं वरुणं सवितारं विष्णुं विश्वान् देवान्मरुतः स्वर्कान्, वरुणं, प्रजापतिं, अग्निं स्विष्टकृतं, एतानाज्येनाहं यक्ष्ये” ततो ब्रह्मोपवेशनाद्याज्यभागान्ते विशेषः । नात्र चरुः । आसादनानन्तरं उपकल्पनीयानि । शीतोदकम् । उष्णोदकम् । घृतपिण्डः । त्र्येणी शलली । सप्तविंशतिकुशतरुणानि। ताम्रपरिष्कृत आयसक्षुरः । आनडुहं गोमयपिण्डम् । नापितञ्च । अत्र गौरेव वरः । एतानुपकल्प्य पवित्रे कृत्वा प्रोक्षणीसंस्कारादि पर्युक्षणान्तं कृत्वा । “ॐ प्रजापतये स्वाहा । इदं प्रजापतये०। ॐ इन्द्राय स्वाहा। इदमिन्द्राय०। ॐ अग्नये स्वाहा । इदम्गनये० । ॐ सोमाय स्वाहा । इदं सोमाय० । ततो महाव्याहृत्यादि स्विष्टकृदन्तं जहुयात् । ततः संस्रवप्राशनान्ते । तत “उष्णेन वाय उदकेनेह्यदिते श्मश्रून्वपे”तिमन्त्रेण शीतास्वप्सु उष्णा अपः आसिञ्चति । उष्णोदकमिश्रिते शीतोदके उपकल्पितं घृतपिण्डं तूष्णीं प्रास्यति । तत उदकमादाय दक्षिणगोदानसमीपश्मश्रुमुन्दति । “ॐ सवित्रा प्रसूता दैव्या आप उन्दन्तु ते तनूम् । दीर्घायुत्वाय वर्च्चसे” इत्यनेन मन्त्रेण । तुर्ष्णी ततस्त्रेण्या शलल्याश्मश्रून्विनीय त्रीणि कुशतरुणान्यन्तर्दघाति । “ॐ ओषधे त्रायस्वे”ति मन्त्रेण । ततस्ताम्रपरिष्कृतमायसं क्षुरमादत्ते । ॐ शिवो नामासि० हि<MISSING_FIG href=”../books_images/U-IMG-1698462942Screenshot(14”/>.png)सी” रित्यनेन मन्त्रेण क्षुरग्रहणम् । ततो दर्भतरुणान्तर्हितेषु क्षुरं संलग्नं करोति । “ॐनिवर्तया० वीर्याये"ति मन्त्रेण “ॐ येनावपत्सविता० र्यथास” दित्यनेन मन्त्रेण स–
श्मश्रुणि कुशतरुणानि प्रच्छिद्य उत्तरतो ध्रियमाणे गोमयपिण्डे प्रास्य । ततस्तस्मिन्नेव दक्षिणश्मश्रुणि एवमेवापरं वारद्वयं तूष्णीं कर्म कर्तव्यम् । अत्र पश्चिमगोदानाभावात् श्मश्रुमध्ये अधरोष्ठादधस्थे सर्वमुन्दनादि कर्म कुर्यात । श्मश्रुच्छेदने मन्त्रे विशेषः । “ॐ त्र्वायुषं जमदग्ने०” मितिमन्त्रेण । ततः पूर्ववत् तूर्ष्णी पुनर्वारद्वयं कर्म कुर्यात् । तत उत्तरगोदानसमीपे पूर्ववदुन्दनादि कर्तव्यम् । छेदनमन्त्रे तु विशेषः । “ॐ येन भृरिश्चरा दिवं० स्वस्तय” इति मन्त्रेण च्छेदनम् । अत्रापि वारद्वयं तूष्णीम् । त्रिःक्षुरेण शिरः प्रदक्षिणं समुखं परिहरेत् । तत्र मन्त्रः । “यत्क्षुरेण मज्जयता सुपेशसा वप्त्वा वा वपति श्मश्रूञ्छिन्धि शिरोमास्यायुः प्रपोषीः समुखम्” । नापिताय क्षुरदानम् । “अक्षण्वन्परिवप” इत्यनेन मन्त्रेण स नापितः उदङ्मुखस्थितस्य प्राङ्मुखस्थितस्य वा मुण्डनं करोति । सकेशं गोमयपिण्डं अनुगुप्तं गोष्ठे निघाय, ततो वरदानं ब्राह्मणेभ्यो भूयसीं दक्षिणां दत्वा, दशसंख्याकेभ्यो ब्राह्मणेभ्यो भोजनं सङ्कल्प्यकर्मसम्पूर्णतां वाचयित्वा “यस्य स्मृत्ये”त्युक्त्वा विष्णुं नमस्कृत्य आशिषो ब्राह्मणोक्ताः स्वयं गृह्णीयात् ॥
इति श्रीप्रथमशखीयरामकृष्णाविरचिते पारस्करगृह्यसूत्रविवरणे
संस्कारगणपतौ गोदानमयोगः ॥
<MISSING_FIG href=”../books_images/U-IMG-169632990420.png”/>
अथ समावर्तनसम्भाराः । तत्राश्वलायनः– “अथोपकल्पयीत समावर्त्यमानो मणिकुण्डले वस्त्रयुगं छत्रमुपानद्युगं दण्डं स्रगुन्मर्दन मनुलेपनमञ्जनमुर्ष्णषमित्यात्मृने चाचार्याय च यद्युभयोर्न विन्दे- ताचार्यायैवे”ति । अस्यार्थः– उपकल्पयीतेति शब्दश्छान्दसः । समावर्त्यमानः समावर्तनं नाम संस्कारः तेन संस्क्रियमाण इत्यर्थः । मणिकुण्डले । अहते वाससी । वस्त्रयुगं छत्रम् । उपानद्युगं उपानहद्वयम्। दण्डं बैणवम् , स्रक् पुष्पमाला । उन्मर्दनमनुलेपनं कस्तूर्याद्यनुलेपनम् । अञ्जनं प्रसिद्धम् । उष्णीषं शिरोवेष्टनम् । इत्यादि आत्मने आचार्याय च धार–
णार्थं एकादश द्रव्याणि उपकल्पयेदिति विधानार्थम् । तथा च शौनकः —
समावर्त्तनमानस्तु पूर्वमेवोपपादयेत् ।
मण्याद्युष्णीषपर्यन्तान्सम्भारान्सकलानपि॥
यद्युभयोर्न लभेत् तदा केवलाचार्याय उपकल्पयेदिति । अथ समावर्तनकालः—
वर्षे मासे च दिवसे तृतीये वा चतुर्थके ।
पञ्चषष्ठे न कुर्वीत मेखलामोक्षणं बुधः॥
नारदः—
अथोत्तरायणे जीवशुक्रयोर्दृश्यमानयोः ।
द्विजातीनां गुरोर्गेहान्निवृत्तानां यतात्मनाम्॥
वसिष्ठोऽपि —
सौम्यायने निर्मलयोः सुरेज्यदैत्येज्ययोर्व्योम्नि वलक्षपक्षे ।
सन्त्यज्य रिक्तामवमा (?) ष्टमीं च वैनाशिकाद्याखिलऋृक्षवृन्दतः॥
अथ तिथयः । तत्र देवरातः —
विच्छिद्रासु विरिक्तासु तिथिषु स्नानमाचरेत्॥
नारदोऽपि —
प्रतिपत्पर्वरिक्तामामष्टमीं च दिनक्षयम् ।
हित्वान्यदिवसे कार्यं समावर्त्तनमण्डनम्॥
अथ वाराः । देवरातः —
**सौम्यानामंशवारेषु शुभाः शेषेषु वर्जिताः॥ **इति ।
क्रिया इति शेषः । सुरेश्वरः —
भौमभानुजयोर्वारे नक्षत्रे च व्रतोदिते ।
ताराचन्द्रविशुद्धौ च स्यात्समावर्तनक्रिया॥
अत्र भौमभानुजयोर्ग्रहणं विवाहोपस्थित्या दिनवारान्तरासम्भवे द्रष्टव्यम् । इदं वीरमित्रोदये द्रष्टव्यम् । अथ नक्षत्राणि । तत्र नृसिंहः —
त्रीण्युत्तराणि मैत्रेन्दुरोहिण्यादित्यपुष्यभाः ।
हस्तश्रवणपौष्णाश्च स्नानकर्माणि पूजिताः॥
वसिष्ठोऽपि —
आदित्यः सौम्यसावित्रे मैत्रतिष्योत्तरात्रयम् ।
पौष्णश्रवणरोहिण्यः श्रेष्ठाः स्युः स्नानकर्मणि॥
आदित्यः पुनर्वसुः । सौम्यं मृगशिरः । सावित्रं इस्तः । मैत्रं अनुराघा । अथ राशयः । देवरातः—
न क्रगोयमकन्याश्च तौलिमीनौ सुपूजिताः ।
अम्भोयुक्तं यदि स्यात्तु देशेषु स्नानमाचरेत्॥
राजमार्तण्डस्तु चौलोक्तमेवास्यापि कालमाह —
क्षुरकर्माणि प्रदिष्टं यदिष्टफलदायकं दिनाद्यन्तु ।
तन्मेखलाविमोक्षे भवति हिताय द्विजातीनाम्॥ इति ।
अथ ग्रहसंस्थानम् । देवरातः —
त्र्यायारिभातृगाः पापाः शुभाः केन्द्रत्रिकोणगाः ।
अशुभाश्च शुभाश्चैव अष्टमे वर्जिताः सदा॥
मौञ्जीप्रकरणोक्ताः प्रदोषादयो वर्जनीयाः । शब्देन ग्रन्थमात्राधीतस्याध्वर्यवादियज्ञविधाकुशलस्य षडङ्गमर्थतोऽनधिगम्यापि काममिच्छया स्नानं भवति । तेनायमर्थः–मन्त्रव्राह्मणात्मकं वेदमधीत्यावबुद्ध्य च स्नायादित्येकः पक्षः । साङ्गं वेदमधीत्यावबुद्ध्य च स्नायादिति द्वितीयः पक्षः । अग्रमात्रमधीत्य यज्ञविद्यां चाभ्यस्य स्नायादिति तृतीयः पक्षः । स्नायादित्युक्तं तत्कथं स्नायादित्यपेक्षायामाह–“उपमंगृह्य गुरु<MISSING_FIG href="../books_images/U-IMG-1698464136Screenshot(14"/>.png)समिघोऽभ्याधाय परिश्रितस्योत्तरतः कुत्रेषु प्रागग्रेषु पुग्स्तात्स्थित्वाष्टानामुदकुम्भानां येऽप्स्वन्तरग्नयः प्रविष्टा गोह्य उपगोह्यो मयूखो मनोहा स्खलो विरुजस्तनुदूषुरिन्द्रियहा तान्विजहामि यो रोचनस्तमिह गृह्णामीत्यकस्मादपो गृहीत्वा तेनाभिषिञ्चते तेन मामभिषिञ्चामि श्रियै यशसे ब्रह्मणे ब्रह्मवर्चसायेति” इति सूत्रम् । उपसङ्गृह्य गुरुं गुरोः पादोपग्रहणं कृत्वा, समिधोऽभ्याघायाग्निपरिचरणं कृत्वा, इतश्च पूर्वं वेदाहुतिहोमः । एतदेव व्रतादेशनविसर्गेष्वित्युक्तत्वात् । ननु समिदाधानस्य पश्चाद्वेदाहुतयः कुतो न भवन्ति ? क्रमान्तरानमिधा-
नात् , “उपसङ्गृह्य गुरुँसमिघोऽभ्याधाये”ति पाठानुग्रहापत्तेश्च । मैवम् । यतो वेदाहुतीनां पश्चादेव समिदाधानम् , ततश्च स्नानमिति श्रूयते । “स यामुपयन्त्समिधमादधाति सा प्रायणीया याँस्नास्यन्त्सोदयनीये”ति । तस्मात्समिदाधानस्नानयोरव्यवहितकालोपपादनाद्वेदाहुतीनां स्नानातिदेशाञ्च समिदाघानात्पूर्वं वेदाहुतिहोम इत्युक्तम् । स्नानं चाष्टभिरुदकुम्भैः क्रमेण । परिश्रितस्य वस्त्रादिना बेष्टितसमावर्तनस्थानस्थितस्याग्नेरुत्तरपार्श्वे स्थापितानामष्टानामुदकुम्भानां दक्षिणोत्तरायतानां पुरस्तात्पूर्वस्यां दिशि आस्तीर्णेषु कुशेषु ब्रह्मचारी स्थित्वा ऊदूर्ध्वीभूय “येऽप्स्वन्तरग्नय” इति मन्त्रेण प्रथमादुदकुम्भादपो गृहीत्वा “तेन मामभिषिञ्चामी”ति मन्त्रेणात्मानमभिषिञ्चति । मन्त्रार्थः– येऽग्नयो गोह्यादयोऽप्सु अन्तर्मध्ये प्रविष्टाः स्थिताः । इन्द्रियहान्ताः अष्टौ तान् अमेध्यत्वादमङ्गख्यत्वादेताभ्योऽद्भ्यः सकाशात् अग्नीन् विजहामित्यजामि । यश्च रोचनोऽग्निर्मेध्यत्वान्मङ्गल्यत्वात् प्रीतिकारित्वाच्च तमिहाप्सु विषये गृह्णामि स्वीकरोमि । यतः अद्भयो अग्निरुत्पद्यते । गुह्यते संव्रियते आच्छाद्यत इति गोह्यः । उपगोह्यः अङ्गतापकः । मयूखो जन्तुहिंसकः । मनस उत्साहं हन्तीति मनोहाः । अस्खलः प्रध्वंसी अजीर्णकृत् । विविधतया रुजति पीडयतीति विरुजः । तनुं शरीरं दूषयति धिक्कृतिं नयतीति तनुदूषुः । इन्द्रियाणि हन्तीति इन्द्रियहा । अभिषेकमन्त्रार्थः– तेनोदकेन मां इममात्मानमभिषिञ्चामि । किमर्थं श्रियै सम्पत्यर्थम् । यशसे कीर्त्त्यै । ब्रह्मणे ब्रह्मवर्चसाय यागाध्यापनोत्कृष्टतेजसे । “येन श्रियमकृणुतां येनावमृशताँसुरां येनाक्षावभ्यषिञ्चतां यद्वां तदश्विना यश इत्यापो हि ष्ठेति च प्रत्यृचं त्रिभिस्तूष्णीमितरै”रिति सूत्रम् । अष्टभ्य उदकुम्भेभ्योऽपां ग्रहणे एक एव मन्त्रो “येऽप्स्वरन्तरग्नय” इति। अभिषेचने तु भिद्यते । तद्यथा “येन श्रिय”मितिद्वितीयम् । “आपो हि ष्ठे”ति तृतीयम् । “यो वः शिवतम” इति चतुर्थम् । “तस्मा अरं गमाम व” इति पञ्चमम् । ततस्तूष्णीं त्रिभिरितरैरुदकुम्मैरभिषेकः । मन्त्रार्थः– हे अश्विनौ ! येन जलप्रभावेन –
भवन्तौ सुराणां श्रियं सम्पदं शोभां वा अकृणुतां कृतवन्तौ । येन सुराममृतं अवमृशतां प्राप्तवन्तौ । अटोऽदर्शनं छान्दसम् । येन यत्नेनाक्षौ उपमन्योरक्षिणी अभ्यषिञ्चताम् अभिषिक्तवन्तौ । वां युवयोर्यदेवम्भूतं यशस्तत् एतज्जलाभिषेकेण ममाप्यस्त्विति शेषः । “उदुत्तममिति मेखलामुन्मुच्य दण्डं निधाय वासोऽन्यत्परिधायादित्यमुपतिष्ठत उद्यन्भ्राजभृष्णुरिन्द्रो मरुद्भिरस्थात्पातर्यावभिरस्थाशसनिरसि दशसनिं मा कुर्वाविदन्मा गमयोद्यन्भ्राजभृष्णुरिन्द्रो मरुद्भिरस्थाद्दिवा यावाभिरस्थाच्छतसनिरसि शतसनिं मा कुर्वाविदन्मा गमयोद्यन्भ्राजभृष्णुरिन्द्रो मरुद्भिरस्थात्सायं यावभिरस्थात्सहस्रसनिरसि सहस्रसनिं मा कुर्वाविदन्मा गमयेति” इति सूत्रम् । तत “उदुत्तम”मिति मन्त्रेण मेखलां रशनामुन्मुच्य शिरोमार्गेण निःसार्य तां च भूमौ निक्षिप्य वासोऽन्यत्परिघाय वस्त्रान्तरं परिहितं कृत्वा “उद्यन्भ्राजभृष्णु”रिति मन्त्रेण सूर्यमुपतिष्ठते । मेखलानिधानोत्तरं दण्डजिनयोर्निधानम् । तूष्णीमिति जयरामः । तथा च गृह्णकारिकायाम् —
मेखलोन्मोचनं कुर्यादुदुत्तममिति स्वयम् ।
उपवीतं विना दण्डाजिनादीनि परित्यजेत् ॥
तूष्णीं निधाय वासोऽन्यत्परिधायोपतिष्ठति ॥
मन्त्रार्थः–हे सूर्य ! यतो भवान् प्रातःसवने यावमिर्गमनशीलैः ऋष्यादिसप्तगणैः सेवितोऽस्थात्तिष्ठति । यथेन्द्रो मरुद्भिरस्थात् तिष्ठति तद्वत् । किम्भूत उद्यन् उद्गच्छन् भ्राजभृष्णुः स्वप्रभयाऽन्यतेजोद्भासकः ।आविदन् सर्वं शुभाशुभं जानन् । किश्च यथा च त्वं प्रातःसवने दशसनिः दशसंख्याकानां गवादीनां सनिर्दाता । षणु दाने । अतो मामपि दशसनिं दशगुणदक्षिणादिदातारं कुरु । मा मामविन्दन् वेदयन् ज्ञापयन् गमय प्रापय प्रतिष्ठामीति शेषः । एवमुत्तरत्रापि व्याख्येयम् । “दधि तिलान्वा प्राश्य जटालोमनखान्स<MISSING_FIG href="../books_images/U-IMG-1698548185Screenshot(14"/>.png)हृत्यौदुम्बरेण दन्तान्धावेतान्नाद्याय व्यूहध्व<MISSING_FIG href="../books_images/U-IMG-1698548185Screenshot(14"/>.png)सोमो राजायमागमत् । स मे मुखं प्रमार्क्ष्यते यशसा च भगेन चेति” इति सुत्रम् । ततो दधितिलयोरन्य–
तरं प्राशयित्वा । जटाश्च लोमानि च नखानि च जटालोमनखानि संहृत्यापनीय वापयित्वा, संहृत्येत्यत्र णिचो लोपश्छन्दसः । स्वयं संहर्तुमशक्यत्वात् । तथा च गृह्यकारिकायाम् —
वपनं श्मश्रुकेशानां नखानां स्यान्निकृन्तनम् ।
इस्तयोः पादयोरेव कनिष्ठाद्यविशेषतः॥
ततः क्षुरनिमित्तं स्यात्स्नानं शीतेन वारिणा॥ इति ।
“औदुम्बरेण दन्तान् घावेत” इतिसूत्रम् । औदुम्बरेण काष्ठेन दन्तान् शोधयेत् “अन्नाद्याये” तिमन्त्रेण । तथा च कारिकायाम्—
कनिष्ठिकाग्रस्थूलेन काष्ठेनौदुम्बरेण तु ।
अन्नाद्यायेति धावेत दन्तधावनमार्द्रवत्॥
प्राग्वोदगास्यस्तद्भुक्त्वा प्रक्षाल्य पुरतस्त्यजेत्॥ इति ।
मन्त्रार्थः— हे दन्ताः ! यूयं अन्नाद्याय अन्नादनाय व्यूहध्वम् निर्मला भवत । यतोऽयं राजा सोमश्चन्द्रः काष्ठरूपेणागमत् आगतः । अतः स एव सोमो मे मम मुखं प्रमार्क्ष्यते शोधयिष्यति, केन ? यशसा सत्कीर्त्या भगेन भाग्येन च । दन्तधावनस्य नित्यकाम्यत्वादुभयफलसम्बन्ध इति मुरारिमिश्राः । “उत्साद्य पुनः स्नात्वाऽनुलेपनं नासिकयोर्मुखस्य चोपगृह्णीते प्राणापानौ मे तर्पय चक्षुर्मे तर्पय श्रोत्रं मे तर्पयेति” इति सूत्रम् । उत्साद्य अङ्गोद्वर्तनेन मलमपसार्य पुनः स्नात्वा मलापकर्षस्नानोत्तरं स्नानं पुनः कृत्वा अनुलेपनं चन्दनादि नासिकयोर्मुखस्य च उपगृह्णीते आदत्ते “प्राणापानौ मे” इति मन्त्रेण । मुखनासिके चानुलिम्पतीति हरिहरः । “पाण्योरवनेजनं निषिच्ये”ति वक्ष्यमाणत्वात् । अत्र पाणिभ्यामुपलेपनग्रहणम् । तथा च गृह्यकारिकायाम् —
उद्वर्त्तनं सुगन्धेन द्रव्येण स्यान्निशादिना ।
पुनः स्नानं सुखोष्णेन वारा मुखनसोरनु॥
मन्त्रार्थः— हे उपलेपनाधिदेवते ! मम प्राणापानौ तर्पय प्रीणय । तथा मे चक्षुरिन्द्रियं तथा मे श्रोत्रं श्रवणेन्द्रियं च तर्पय । “पितरः शुन्धध्वमिति पाण्योरवनेजनं दक्षिणा निषिच्यानुलिप्य जपेत्
सुचक्षा अहमक्षीभ्याम्भूयास<MISSING_FIG href="../books_images/U-IMG-1698548802Screenshot(14"/>.png) सुवर्चा मुखेन । सुश्रुत्कर्णाभ्यां भूयासमिति”इतिसूत्रम् । प्राचीनावीती दक्षिणाभिमुखो भूत्वा “पितरः श्रुन्बध्व”मित्येतावता मन्त्रेण पाण्योरवनेजनं हस्तयोः प्रक्षालनोदकं दक्षिणा निषिच्य दक्षिणस्यां दिशि निषिच्य प्रक्षिप्य यज्ञोपवीती भूत्वा पितृकर्मत्वादुदकं स्पृष्ट्वा चन्दनेनानुलिप्य “सुचक्षा अह”मिति मन्त्रं जपेत् । तथा च गृह्यकारिकायाम् —
ततः पितर इत्युक्त्वा स पाण्योरवनेजनम् ।
अनुषिञ्चति पाणिभ्यां प्रागास्यः प्रेतराड़दिशि ॥
गङ्गाधरोऽप्येवमेव —
ततो वा–रि स्पृशेदस्य गुणत्वान्नापसव्यवत् ।
अनुलिप्य जपेन्मन्त्रं सुचक्षा अहमित्यसुम् ॥
अत्र दक्षिणापदं लुप्तसप्तम्यन्तम् । मन्त्रार्थः–हे सवितः ! अहमक्षीभ्यां कृत्वा सुचक्षाः सुदर्शनो भूयासं भवेयम् । तथा मुखेन सुवर्चाः सुतेजाः भूयासमिति पूर्वत्र सम्बन्धः । तथा कर्णाभ्यां सुश्रुत् सुश्रवणो भूयासम् । “अहतं वासो धौतं वाऽमौत्रेणाच्छादयीत परिधास्यै यशोधास्यै दीर्घायुत्वाय जरदष्टिरस्मि । शतं च जीवामि शरदः पुरुची रायस्योषमभिसंव्ययिष्य इति”इतिसूत्रम् । अहतं नवीनं सदशं वासः वसनं अथवा अमौत्रेण अरजकेन धौतं वास आच्छादयति “परिधास्या”इति मन्त्रेण । मन्त्रार्थःहे वासोदेवते ! परिधास्यै अनेकशुभवस्त्रपरिधानाय तथा यशोधास्यै स्तुत्यै दीर्घायुत्वाय जीवनाय च इदं वासः संव्ययिष्ये परिधास्थे । किंभूतः वासोदेवतानुग्रहेण जरदष्टिरस्मिवृद्धत्वव्याप्यायुर्भवामि । पुरुचीः पुरुभिर्बहुभिः पुत्रैर्धनादिभिरुचः संयोगोऽस्ति यस्य सः । उच समवाये । किंभूतं वासः रायस्योषं धनादिपोषणं पुष्टिकरम् । किञ्च एतत्सम्बन्धेनाहं शतं शरदो वर्षाणि जीवामि । “अथोत्तरीयं यशसा मा द्यावापृथिवी यशसेन्द्राबृहस्पती । यशो भगश्च मा विदद्यशो मा प्रतिपद्यतामिति”इतिसूत्रम् । अथ परिधानानन्तरं आचम्य “यशसा मे”ति मन्त्रेण अहतमेव वास उत्तरीयं आच्छा–
दयीतेति सम्बन्धः । तथा च कारिकायाम् —
द्वितीयमुत्तरीयं स्यात्परिधत्तेति चेन्नवम् ।
मन्त्रेण यशसामेति स्याद्द्विराचमनं ततः ॥
मन्त्रार्थः— हे वासोदेवते ! द्यावापृथिवी द्यावाभूमी यशसा युक्तौ मा मां अविदत् विन्दताम् । प्राप्नुतामिति यावत् । विद्लृलाभेधातुः । विभक्तिवचनव्यत्ययेनान्वयः । तथा इन्द्राबृहस्पती अपि यशसा युक्तौ मा अविदत् । तथा भगः सूर्योऽपि यशसा अविदत् । तच्चैतैः सम्पादितं यशो मा माँ प्रतिपद्यतां मयि सर्वदा तिष्ठत्वित्यर्थः । “एकं चेत्पूर्वस्योत्तरवर्गेण प्रच्छादयीत” । चेद्यदि एकं वासो भवति द्वितीयं न भवति तदा पूर्वस्य परिधानीयस्यैव वासस उत्तरवर्गेण उत्तरभागेन प्रच्छादयीत उत्तरीयं कुर्यात् । तत्रापि “यशसा मे”ति मन्त्रो भवति क्रियान्तरत्वात् । अत्रैवं पूर्वं वस्त्रार्धं समन्त्रकं परिधाय द्विराचम्य उत्तरार्धं गृहीत्वा उत्तरीयमन्त्रं पठित्वोत्तरीयं कृत्वा पुनर्द्विराचामेत् । तथा च गृह्यकारिकायाम्–
एकञ्चेदधरीयं स्यात्तस्यैवोत्तरमागतः ।
प्रच्छादयीत मन्त्रोऽपि चोत्तरत्वात्तयोर्भवेत् ॥
चतुस्त्रिव्द्यङ्गुलं वस्त्राकृतिर्वा ब्रह्मसूत्रकम् ।
अत्रापि यशसा मेति कार्यापत्तेर्मनुर्भवेत् ॥
अत्रैकवचनादेकमेव यज्ञोपवीतम् । गङ्गाधरगदाधरादिमतेऽप्येकमेव । तथा च मनुः —
धारयेद्वैणवीं यष्टिं सोदकं च कमण्डलुम् ।
यज्ञोपवीतं वेदं च शुभे रौक्मे च कुण्डले ॥
यज्ञोपवीतद्वयधारणमिति हरिहरः । प्रयोगरत्नेऽप्येवमेव । तथा च बौधायनः– “स्नातकोऽन्तर्वसन उत्तरीयं वैणवं दण्डं धारयेत्सोदकं च कमण्डलुं द्वे यज्ञोपवीते उष्णीषमजिनोत्तरीयोपानहौ च्छत्रं चे”ति । कूर्म्मपुराणे ––
यज्ञोपवीतद्वितयं सोदकं च कमण्डलुम् ।
छत्रं चोष्णीषयुगलंपादुके चाप्युपानहौ ॥
“सुमनसः प्रतिगृह्णाति या आहरज्जमदग्निः श्रद्धायै मेधायैकामायेन्द्रियाय । ता अहं प्रतिगृह्णामियशसा च भगेन चेति” इतिसूत्रम् ।सुमनसः पुष्पाणि । प्रतीत्युपसर्गसामर्थ्यात् गुरुणा समर्पिताःसुमनसः प्रतिगृह्णाति “या आहरत्" इति मन्त्रेण । मन्त्रार्थः– याःसुमनसः पुष्पाणि जमदग्निः प्रजापतिः श्रद्धाद्यर्थमाहरत्आददे । ताःसुमनसो यशसा कीर्त्या भगेनैश्वर्येण च सह अहं प्रतिगृह्णामि श्रद्धाद्यर्थम् ।तत्र श्रद्धा धर्मादरः । मेधा धारणशक्तिः । कामोऽभिलाषपूर्त्तिः ।इन्द्रियं तत्सारवम् । “अथावबध्नीते यद्यशोऽप्सरसामिन्द्रश्चकारविपुलं पृथु ।तेन सङ्ग्रथिताः सुमनस आबध्नामियशो मयीति" इतिसूत्रम् । ताः प्रतिगृह्यस्वशिरसिबध्नाति“यद्यशोऽप्सरसामि"तिमन्त्रेण । मन्त्रार्थः–हे सुमनसः ! इन्द्रोदेवःअप्सरसामुर्वश्यादीनां कुसुमावबन्धेन यद्यशः सर्वजनप्रियत्वं चकारकृतवान् ।तेन यशसा सङ्ग्रथिताः युष्मानाबध्नामि चूडायाम् । किम्भूतंयशःविपुलं विशालम् । पृथु सन्ततं दीर्घं तद्यशो मयि विषये तिष्ठतीत्यर्थः। “उष्णीषेण शिरो वेष्टयते युवा सुवासा इति” इति सूत्रम्उष्णीषेण शिरोवेष्टनवस्त्रेण शिरो वेष्टयेत् ।“युवा सुवासा " इति मन्त्रेणव्याख्यातश्चायमुपनयने । “अलङ्करणमसि भूयोऽलङ्करणं भूयादित्तिकर्णवेष्टकौ" इति सूत्रम् ।कर्णवेष्टकौकुण्डलं दक्षिणसव्यकर्णयोरामुञ्चति"अलङ्करणमसी"ति मन्त्रावृत्त्या ।मन्त्रार्थः–हे कुण्डलदेवते !त्वमलङ्करणमलङ्कारशोभासि । अतस्त्वयाऽलङ्कृतस्य मम भूयो बहुवारंअलङ्करणं भूयादस्तु । “वृत्रस्येत्यङ्क्तेऽक्षिणी” इति सूत्रम् ।“वृत्रस्ये"त्यादि “चक्षुर्मे देहि” इत्यन्तेन मन्त्रेण कज्जलेनाक्षिण्यङ्क्तेसंस्करोति ।सौवीराञ्जनेनेति हरिहरः । अत्र च सव्यनेत्रमङ्क्त्वा ततो दक्षिणाञ्जनंमन्त्रावृत्त्या । तथा च दीक्षाप्रकरणं लिङ्गम् । “सव्यं वाऽग्रे मानुष"इति । कारिकायाम्—
वृत्रस्येत्यक्षिणी अङ्केऽभ्यञ्जनं वामनासिकाम् ।
सव्यं प्रथममित्येव श्रूयते बह्वृचश्रुतौ॥
हरिहरेण दक्षिणाञ्जनं पूर्वमुक्तं तदाशयं न विद्मः । “रोचिष्णुरसीत्यात्मानमादर्शे प्रेक्षते”इतिसूत्रम् ।आत्मानं सर्वदेहं आदर्शेदर्पणेप्रेक्षते पश्यति। “रोचिष्णुरसी"त्येतावता मन्त्रेण । मन्त्रार्थः–रोचिष्णुः प्रकाशकः । “छत्रं प्रतिगृह्णातिबृहस्पतेश्छदिरसि पाप्मनो मामन्तर्धेहि तेजसो यशसो माऽन्तर्धेहीति" इतिसूत्रम् ।उपसर्गसामर्थ्याद्ग्रहणाद्दत्तं छत्रमातपत्रं “बृहस्पतेश्छदिरसी"तिमन्त्रेण प्रतिगृह्णाति ।मन्त्रार्थः–हे छत्र ! त्वं बृहस्पतेः पितामहस्य छदिर्धर्मादिनिवर्तकोऽसिप्रथममतः पाप्मनो निषिद्धाचरणात् मां अन्तर्धेहि अन्तर्हितं कुरु ।तेजसःप्रतापाद्यशसश्चसकाशान्माऽन्तर्द्धेहि मा व्यवहितं कुरु तद्युक्तं कुर्वित्यर्थः ।“प्रतिष्ठेस्थो व्विश्वतो मा पातमित्युपानहौप्रति मुञ्चत” इति सूत्रम् ।” प्रतिष्ठेस्थ" इति मन्त्रेणोपानहौपादत्राणे पादयोः प्रतिमुञ्चते परिधत्तेयुगपत् शक्यत्वात् द्विवचनान्तत्वाच्च मन्त्रस्य ।मन्त्रार्थः–हे उपानहौदेवते ! युवां प्रतिष्ठे स्थितिहेतू स्थः भवथः । अतो विश्वतः सर्वस्मात्परिभवात् मा मां पातं रक्षतम् ।“व्विश्वाभ्यो मा नाष्ट्राभ्यस्परिपाहि सर्वत इति वैणवं दण्डमादत्ते” इतिसूत्रम् ।“विश्वाभ्य"इति मन्त्रेण वैणवं वंशमयं दण्डं यष्टिं आदत्ते । अत्राभिषेकादिदण्डधारणान्तं कर्म स्नानकर्तुर्नत्वाचार्यस्य । मन्त्रार्थः–हे दण्ड ! विश्वाभ्यःसर्वाभ्यो नाष्ट्राभ्यो राक्षसादिभ्यः सर्वावस्थासु मा मां परिपाहि सर्वभावेनरक्ष ।“दन्तप्रक्षालनादीनि नित्यमपि वासश्छत्रोपानहश्चापूर्वाणिचेन्मन्त्रः” इति सूत्रम् । दन्तप्रक्षालनमादौ येषां पुष्पदानान्तानि दन्तप्रक्षालनादीनि तत्साधनं प्राप्य नित्यमपि नित्यमेव मन्त्रो भवति । अपिरेवार्थे ।वाससी च छत्रं च उपानहौ च वासश्छत्रोपानहः चकाराद्दण्डोऽपि एतानि वास आदीनि चेद्यदि नवीनानि ध्रियन्ते तदैव मन्त्रोभवति न सर्वदा ।
इति श्रीप्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्रविवरणे
संस्कारगणपतौ षष्ठी कण्डिका ।
<MISSING_FIG href=”../books_images/U-IMG-1698550791Screenshot(3"/>.png)
अथास्य स्पष्टप्रयोगः । अथब्रह्मचारीगुरुंअर्थदानेनसम्पूज्यतेनानुज्ञातोज्योतिश्शास्त्रोक्ते शुभे काले आचार्यगृहे समावर्तनंकुर्यात् ।ततो ब्रह्मचारी कृतनित्यक्रियः कृतप्रातरग्निकार्यश्च गुरोः पादावुपसंगृह्यतच्चरणयोर्मस्तकं निधाय “स्नास्यापी"ति पृच्छेत्। “स्नाही"तिगुरुरनुज्ञांदद्यात् । ततआचार्यः प्राणानायम्य देशकालौस्मृत्वा“अस्य ब्रह्मचारिणः गृहस्थाद्याश्रमान्तरप्राप्तिद्वारा श्रीपरमेश्वरप्रीत्यर्थं समावर्तनाख्यं कर्म करिष्ये । नङ्गदभृतं निर्विघ्नार्थंगणपतिपूजनं पुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धं च करिष्ये"पूर्ववत्सर्वं समाप्य ।ततो ब्रह्मचारी आचार्यं “अहं स्नास्ये” इति पृच्छेत् ।“स्नाही"ति गुरुः । अनुज्ञातः स्थण्डिले पञ्चभूसंस्कारपूर्वकं लौकिकाग्निंस्थापयेत् । अथ वैकल्पिकावधारणम् । “तत्र पूर्वेण ब्रह्मणोगमनं, उत्तरेण पात्रासादनं, द्वे पवित्रे, ताम्रमयी आज्यस्थाली,पालाश्यः समिधः, प्राञ्चावाधारौ, समिद्धतमे आज्यभागौ,पूर्णपात्रं दक्षिणा, वेदाध्ययनानन्तरं समावर्तनं, दधिप्राशनं, अमौत्रधौतं वस्त्रं, एतान्वैकल्पिकान्पदार्थांनहं करिष्ये” । अथ देवताभिध्यानम् । तत्र “प्रजापतिं, इन्द्रं, अग्निं, सोमं, अथप्रधानदेवताःअन्तरिक्षं, वायुं, ब्रह्माणं, छन्दांसि, प्रजापतिं, देवान्, ऋषीन्,श्रद्धां, मेधां, सदसस्पतिं, अनुमतिं, " इति यजुर्वेदपठनानन्तरं समावर्तने ।यदा वेदद्वयं पठित्वा वेदत्रयं पठित्वा वेदचतुष्टयं पठित्वा वा समावर्तनं तदा तत्तद्देवताभिध्यानं ततो देवताहोमं वेदारम्भं च कुर्यात्।“अग्निं, वायुं, सूर्यं, अग्नीवरुणौ, अग्नीवरुणौ, अग्निं वरुणंसवितारं विष्णुं विश्वान्देवान् मरुतः स्वर्कान्, वरुणं, प्रजापतिं, अग्निं स्विष्टकृतं, एता आज्येन अस्मिन्कर्मण्यहं यक्ष्ये” ।ततो ब्रह्मवरणाद्याज्यभागान्ते विशेषः । पात्रासादने उपकल्पनीयेषु“समिन्धनकाष्ठानि, समिधः, पर्युक्षणार्थं उदकं, हरितान् कुशान्अष्टौ वारिकुम्भान्, औदुम्बरं दन्तकाष्ठं दधि, नापितं, स्नानवारि, उद्वर्त्तनद्रव्यं, चन्दनं, अहते वाससी, यज्ञोपवीते, पुष्पा
णि, उष्णीषं, कर्णालङ्कारौ, अञ्जनं, दर्पणं, नूतनं छत्रं, उपानहौ, वैणवं दण्डं, पूर्णपात्रं, चे”ति ।ततः पवित्रकरणादि पर्युक्षणान्तंकृत्वा होमं कुर्यात्।ॐ प्रजापतये स्वाहा । इदं प्रजापतये० । ॐ इन्द्राय स्वाहा । इदमिन्द्राय०।ॐ अग्नये स्वाहा ।इदमग्नये०।ॐ सोमाय स्वाहा । इदं सोमाय०।ॐ अन्तरिक्षाय स्वाहा । इदमन्तरिक्षाय० ।ॐ वायवे स्वाहा ।इदं वायवे० \। ॐ ब्रह्मणे स्वाहा। इदं ब्रह्मणे० । ॐ छन्दोभ्यः स्वाहा । इदं छन्दोभ्यो० ।ॐ प्रजापतये स्वाहा । इदं प्रजापतये० । ॐ देवेभ्यःस्वाहा ।इदन्देवेभ्यो० । ॐ ऋषिभ्यः स्वाहा । इदं ऋषिभ्यो० । ॐ श्रद्धायैस्वाहा ।इदं श्रद्धायै ।ॐ मेधायै स्वाहा । इदं मेधायै० ।ॐसदस्पतये स्वाहा ।इदं सदस्पतये \। ॐ अनुमतये स्वाहा । इदमनुमतये०” । यदि ऋग्वेदमधीत्य स्नानं करोति तदा “ॐ पृथिव्यैस्वाहा ।इदं पृथिव्यै० \। ॐ अग्नये स्वाहा ।इदमग्नये०” ।इत्याहुतिद्वयं हुत्वा ब्रह्मणे च्छन्दोभ्य इत्यारभ्यानुमत्यन्ता नवाहुतीर्जुहोति ।एवं सामवेदेऽपि “ॐ दिवे स्वाहा । इदं दिवे० । ॐ सूर्याय स्वाहा । इदं सूर्याय०” ।ब्रह्मण इत्याद्या नवाहुतीर्जुहोति । एवमथर्ववेदेऽपि “ॐ दिग्भ्यः स्वाहा ।इदं दिग्भ्यो० ।ॐ चन्द्रमसे स्वाहा ।इदं चन्द्रमसे०" ।ब्रह्मण इत्याद्या नवाहुतीर्जुहोति । यदि वेदचतुष्टयमधीत्य स्नानं करोति तदा आज्यभागानन्तरं “ॐ अन्तरिक्षाय स्वाहा ।इदमन्तरिक्षाय० । ॐ वायवे स्वाहा ।इदं वायवे० \। ॐ ब्रह्मणे स्वाहा । इदं ब्रह्मणे ।ॐछन्दोभ्यः स्वाहा । इदं छन्दोभ्यो०।ॐपृथिव्यै स्वाहा । इदं पृथिव्यै० । ॐअग्नये स्वाहा ।इदमग्नये० । ॐ ब्रह्मणे स्वाहा । इदं ब्रह्मणे० । ॐ छन्दोभ्यः स्वाहा । इदं छन्दोभ्यो० । ॐ दिवे स्वाहा । इदं दिवे० । ॐ सूर्यायस्वाहा ।इदं सूर्याय० । ॐ ब्रह्मणे स्वाहा । इदं ब्रह्मणे० । ॐ छन्दोभ्यः स्वाहा । इदं छन्दोभ्यो० \। ॐ दिग्भ्यः स्वाहा । इदं दिग्भ्यो० ।ॐ चन्द्रमसे स्वाहा । इदं चन्द्रमसे० । ॐ ब्रह्मणे स्वाहा ।
इदं ब्रह्मणे० । ॐ छन्दोभ्यः स्वाहा । इदं छन्दोभ्यो०।ॐ प्रजापतये स्वाहा । इदं प्रजापतये०।ॐ देवेभ्यः स्वाहा । इदं देवेभ्यो०। ॐ ऋषिभ्यः स्वाहा । इदं ऋषिभ्यो० ।ॐ श्रद्धायै स्वाहा ।इदं श्रद्धायै० ।ॐ मेधायै स्वाहा । इदं मेधायै० । ॐ सदसस्पतये स्वाहा । इदं सदसस्पतये०।ॐ अनुमतये स्वाहा । इदंअनुमतये० ।ॐ भूः स्वाहा ।इदमग्नये० ।ॐभुवः स्वाहा । इदंवायवे० ।ॐ स्वः स्वाहा । इदं सूर्याय० । ॐ त्वन्नो अग्ने०।इदमग्नीवरुणाभ्यां । ॐ सत्वन्नो अग्ने०।इदमग्नीवरुणाभ्यां० ।ॐ अयाश्चाग्ने० ।इदमग्नये०।ॐ ये ते शतं०।इदं वरुणाय सवित्रेविष्णवे विश्वेभ्यो देवेभ्यो मरुद्भ्यःस्वर्क्केभ्यश्चन मम । ॐउदुत्तमं० । इदं वरुणाय० ।ॐ प्रजापतये स्वाहा । इदं प्रजापतये० ।ॐ अग्नये स्विष्टकृते स्वाहा ।इदमग्नये स्विष्टकृते० ।प्राशनान्तेब्रह्मचारी पादोपसंग्रहणपूर्वकं गुरुं नमस्कृत्य ततस्तस्मिन्नेवाग्नौसमिदाधानं यथा– “ॐ अग्ने सुश्रवः सुश्रवसंमा कुरु । यथा त्वमग्ने सुश्रवःसुश्रवा असि । एवं मा<MISSING_FIG href=”../books_images/U-IMG-1698551855Screenshot(21"/>.png)सुश्रवःसौश्रवसंकुरु ।यथा त्वमग्नेदेवानांयज्ञस्य निधिपा असि। एवमहं मनुष्याणां वेदस्य निधिपो भूयासम्” । ततः प्रदक्षिणमग्निं पर्युक्ष्य उत्थाय समिधमादधाति “ॐ अग्नयेसमिधमाहार्षं बृहते जातवेदसे ।यथा त्वमग्ने समिधा समिध्यसएवमहमायुषा मेधया वर्च्चसा प्रजया पशुभिर्ब्रह्मवर्च्चसेन समिन्धेजीवपुत्रो ममाचार्यो मेधाव्यहमसान्यनिराकरिष्णुर्यशस्वी तेजस्वीब्रह्मवर्चस्यन्नादो भूयास<MISSING_FIG href="../books_images/U-IMG-1698551955Screenshot(1"/>.png)स्वाहा" इत्यनेन मन्त्रेण । ततोऽनेनैवमन्त्रेण द्वितीयां समिधमादधाति । अनेनैव तृतीयाम् । “एषा त” इतिवा मन्त्रः । तत उपविश्य पूर्ववत्परिसमूहनपर्युक्षणे । “अग्ने सुश्रव"इत्यादिभिर्मन्त्रैरग्निंसन्धुक्ष्य पर्युक्षणं कृत्वा, ततस्तूष्णीं पाणी प्रतप्यवक्ष्यमाणैः सप्तभिर्मन्त्रैः प्रतिमन्त्रं मुखमार्जनम् । “ॐ तनूषाअग्नेऽसितन्वं मे पाहि । आयुर्दा अग्नेऽस्यायुर्मे देहि । वर्चोदाअग्नेऽसि वर्चोमे देहि । अग्ने यन्मे तन्वा ऊनं तन्म आपृण ।मेधाम्मे देवः सविता
आदधातु ।मेधान्देवी सरस्वती आदधातु । मेधामश्विनौ देवावाधत्तां पुष्करस्रजौ" “अङ्गानि च म आप्यायन्तां” सर्वाङ्गम् । “वाक्च मआप्यायतां" मुखन् । “प्राणश्च म आप्यायतां" नासिकाम् । “चक्षुश्र म आप्यायतां" नेत्रे । “श्रोत्रञ्चम आप्यायतां" श्रोत्रयोः । यशोबलं च म आप्यायतां" केवलमन्त्रपाठः । त्र्यायुषकरणं पूर्ववत् । ततोऽग्नेरुत्तरतः स्थापितानामष्टानां कुम्भानांदक्षिणोत्तरायतानां जलपूरितानां आम्रपल्लवसहितानां पूर्वभागे व्यस्तृतेषु कुशेषु प्रागग्रेषुब्रह्मचारी उदङ्मुखः स्थित्वा “येऽप्स्वन्तरग्नयः प्रविष्टा गोह्य उपगोह्यो मयूखो सनोहा स्खलोविरुजस्तनूदुषूरिन्द्रियहा तान्विजहामियो रोचनस्तमिह गृह्णामि” इत्यनेन मन्त्रेण प्रथमकलशाद्दक्षिणचुलुकेनजलमादाय तेनोदकेन स्वकीयं शिरोऽभिषिञ्चति । तत्र मन्त्रः “तेनमामभिषिञ्चमि श्रियै यशसे ब्रह्मणे ब्रह्मवर्चसाय” । अपरेभ्यःसप्त कुम्भेभ्यस्तदुत्तरस्थितेभ्यः दक्षिणचुलुकेन ग्राह्यम् “येऽप्स्वन्तरग्नय” इत्यनेन मन्त्रेण । अभिषेचनमन्त्रास्तु पृथक् पृथक् । तत्र मन्त्रः"येन श्रियमकृणुतां येनावमृशता<MISSING_FIG href="../books_images/U-IMG-1696474844Screenshot(1"/>.png)सुरां येनाक्षावभ्यषिञ्चतां यद्वां तदश्विना यशः" इति मन्त्रेण द्वितीयकुम्भजलेनाभिषिच्य, पुन “र्येऽप्स्वन्तरग्नय” इत्यनेन मन्त्रेण तृतीयकुम्भाज्जलमादाय"आपोहि ष्ठे" तिमन्त्रेणाभिषिच्य, पुनरपि “येऽप्स्वन्त"रित्यनेन चतुर्थकुम्भजलमादाय “यो वः शिवतम” इतिमन्त्रेण अभिषेचनम् । पुनरपि“येऽप्स्वन्तरि ” त्यनेन मन्त्रेण पञ्चमात्कुम्भादुदकमादाय “तस्मा अरङ्ग” इति मन्त्रेणाभिषेचनम् । पुनरपि षष्ठकुम्भात्तेनैव मन्त्रेण जलमादाय तूष्णीमभिषेचनम् । एवं सप्तमाष्टमकुम्भेभ्यो जलमादाय तेनैव मन्त्रेण तूष्णीमभिषेचनम् । “उदुत्तम"मितिमन्त्रेण मेखलां शिरोमार्गेण निःसार्य भूमौ निधाय कृष्णाजिनं चोत्तरीयं दण्डं च त्यजेत् । वासोऽन्यत्परिधाय आदित्यमुपतिष्ठते “उद्यन्भ्राजभृष्णुरिन्द्रो मरुद्भिरस्थात्प्रातर्यावभिरस्थद्दशसनिरसि दशसानिंमा कुर्वाविदन्मा गमयोद्यन्भ्राजभृष्णुरिन्द्रो मरुद्भिरस्थाद्दिवा यावभिरस्थाच्छतसनिरसि शत-
सनिं माकुर्वाविदन्मागमयोद्यन्भ्राजभृष्णुरिन्द्रो मरुद्भिरस्थात्सायंयावभिरस्थात्सहस्रसनिरसिसहस्रसनिं मा कुर्वाविदन्मा गमय"इत्यनेन मन्त्रेण सूर्यमुपस्थाय ततो दधि तिलान्वा प्राश्य जटालोमनखानां निकृन्तनम् ।आचमनम् । शीतोदकेन स्नानम् ।औदुम्बरेण काष्ठेनदन्तधावनम् । तत्र मन्त्रः “ॐ अन्नाद्याय व्यूहध्व<MISSING_FIG href=”../books_images/U-IMG-1698552178Screenshot(21”/>.png)सोमो राजायमागमत् । स मे मुखं प्रमार्क्ष्यते यशसा च भगेन च" ततः सुगन्धिद्रव्येण उद्वर्तनम् ।उष्णोदकेन स्नानम् ।चन्दनाद्यनुलेपनं गृहीत्वा मुखनासिकयोरालम्भनम् । तत्र मन्त्रः"प्राणापानौ मेतर्पय चक्षुर्म्मेतर्पयश्रोत्रं मे तर्पय"। ततः पाण्योरवनेजनं कृत्वा तदुदकमादाय अपसव्यं कृत्वाप्राङ्मुखो भूत्वा तदुदकं दक्षिणस्यां दिशि निषिञ्चति । तत्र मन्त्रः “पितरःशुन्धध्वम्” । ततो यज्ञोपवीती भूत्वा उदकोपस्पर्शनम् । ततश्चन्दनादिनाऽऽत्मानमनुलिप्य जपेत् “ॐ सुचक्षा अहमक्षीभ्यां भुयास<MISSING_FIG href="../books_images/U-IMG-1698552265Screenshot(1"/>.png)सुवर्चा मुखेन ।सुश्रुत्कर्णाभ्यां भूयास"मिति । अहतवासःपरिधानम् । तत्र मन्त्रः“परिधास्यै यशोधास्यै दीर्घायुत्वाय जरदष्टिरस्मि ।शतञ्चजीवामिशरदः पुरूची रायस्पोषमाभिसंव्ययिष्ये" । अत्र यज्ञोपवीतधारणं पूर्ववन्मन्त्रेण । गङ्गाधरोऽप्येवमेव । यज्ञोपवीतद्वयधारणं इति प्रयोगरत्नकारः ।यजुर्वल्लभकारोऽप्येवमेव । अत्र गङ्गाधरमतं समीचीनं भासते, पूर्वयज्ञोपवीतत्यागाभावात् । यज्ञोपवीतद्वयस्य सर्वदैव परिधानविधानात् । अथोत्तरीयं"यशसा मा द्यावापृथिवी यशसेन्द्राबृहस्पती ।यशो भगश्च माविदद्यशो मा प्रतिपद्यता"मितिमन्त्रेण । अथ पुष्पमालाग्रहणं “या आहरज्जमदग्निः श्रद्धायैकामायेन्द्रियाय ।ता अहं प्रतिगृह्णामि यशसा च भगेन च” इति मन्त्रेण ।ततः शिरसि बन्धनं “यद्यशोऽप्सरसामिन्द्रश्चकार विपलं पृथु ।तेन संग्रथिताः सुमनस आबध्नामि यशो मयि” इतिमन्त्रेण ।उष्णीषेण शिरो वेष्टयेत् “युवा सुवासाःपरिवीत आगात्सऽउ श्रेयान्भवति जायमानः। तन्धीरासः कवय उन्नयन्ति स्वाध्यौमनसा देवयन्त” इतिमन्त्रेण ।दक्षिणकर्णे कुण्डलं करोति"अलङ्करणमसि भूयोऽलङ्करणं भूयात्" इतिमन्त्रेण । ततो वामकर्णे
अनेनैव मन्त्रेण ।अथाञ्जनं “वृत्रस्यासि कनिकश्चक्षुर्द्दाअसि चक्षुर्म्मेदेहि” इतिमन्त्रेण प्रथमं वामम् । ततो दक्षिणम् ।आदर्शः"रोचिष्णुरसी"त्यनेन मन्त्रेणात्मानमादर्शे प्रेक्षते ।छत्रं “बृहस्पतेश्छदिरसि पाप्मनो मामन्तर्धेहि तेजसो यशसो माऽन्तर्धेही"त्यनेन मन्त्रेण । उपानहौ “प्रतिष्ठेस्थो व्विश्वतो मा पात"मित्यनेन मन्त्रेण । उपानहौ पादयोर्युगपत् ।“विश्वाभ्यो मा नाष्ट्राभ्यस्परिपाहि सर्वत” इत्यनेन मन्त्रेण वैणवंदण्डमादत्ते ।अभिषेकादि दण्डदानान्तं स्नानकर्त्ता करोति नाचार्यः ।
इति श्रीप्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्रविवरणे
संस्कारगणपतौ समावर्तनप्रयोगः ।
<MISSING_FIG href=”../books_images/U-IMG-1698552843Screenshot(31"/>.png)
सप्तमी कण्डिका ।
स्नातस्य यमान्वक्ष्यामः कामादितरी नृत्यगीतवादित्राणि न कुर्यान्न च गच्छेत्कामन्तु गायति वैव गीते वा रमत इति श्रुतेर्ह्यपरं क्षेमे नक्तं ग्रामान्तरं न गच्छेन्नच धावेदुदपानावेक्षणवृक्षारोहणफलप्रपतनसन्धि- सर्पणविवृतस्नानविषमलङ्घनशुक्लवदनसन्ध्यादित्यप्रेक्षणभैक्षणानि न कुर्यान्न ह वै स्नात्वा भिक्षेताप ह वैस्नात्वा भिक्षां जयतीति श्रुतेर्वर्षत्यप्रावृतो व्रजेदयम्मे व्रजःपाप्मानमपहनदित्यप्स्वात्मानं नावेक्षेताजातलोम्नीं विपु<MISSING_FIG href="../books_images/U-IMG-1698552995Screenshot(21"/>.png)षी<MISSING_FIG href="../books_images/U-IMG-1698552995Screenshot(21"/>.png)षण्ढं च नोपहसेद्गर्भिणीं विजन्येतिब्रूयात्सकुलमिति नकुलं भगालमिति कपालं मणिधनुरितीन्द्रधनुर्गां धयन्तीं परस्मै नाचक्षीतोर्वरायामनन्तर्हितायां भुमावुत्सर्पंस्तिष्ठन्न मूत्रपुरीषे कुर्यात्स्वयं प्रशीर्णेन काष्ठेन गुदं प्रमृजीत विकृतं वासो नाच्छादयीतदृढव्रतो वधत्रःस्यात्सर्वत आत्मानं गोपायेत्सर्वेषांमित्रमिव शुक्रियमध्येष्यमाणः॥ ७ ॥
“स्नातस्य यमान्वक्ष्याम” इति सूत्रम् ।स्नातस्य ब्रह्मचर्यात्समावृत्तस्य त्रैवर्णिकस्य यमान् नियमान् वक्ष्यामः ।अधिकारसूत्रमेतत् ।तेषुस्नातकोऽधिक्रियते “कामादितरः” इति सूत्रम् ।कामादिच्छातः स्नानसम्बन्धशून्यः शूद्रोऽभिधीयते । स हि स्नातको भवति । एवं सति इच्छया शूद्रस्यापि यमेष्वधिकारो भवति । तानाह्व"नृत्यगीतवादित्राणि नकुर्यान्नच गच्छेत्" इति सूत्रम् ।नृत्यं गीतं च वादित्रं च नृत्यगीतवादित्राणि तानि स्वयं न कुर्यात् । अन्यैः क्रियमाणानि नृत्यादीनि द्रष्टुं श्रोतुंवा न गच्छेत् । “कामन्तु गीत"मिति सूत्रम् ।तु पुनः काममिच्छयागीतं गानं स्वयं कुर्यात् । अन्यैः क्रियमाणं द्रष्टुं श्रोतुं च गच्छेत् ।कर्मण्यौपयिकत्वाद्गीतस्य ।दृश्यते हि अश्वमेधे गानं “ब्राह्मणोऽन्यां गायति राजन्योऽन्याम्” इति । नचाक्रियमाणं शक्यते गातुमिति ।“गायति वैव गीते वा रमत इति श्रुतेर्ह्यपर"मिति सूत्रम् ।अपरंउखासम्भरणकाण्डे वचनमस्ति ।“तस्मादुहैतद्यः सर्वः कृत्स्नोमन्यतेगायति वैव गीते वा रमते " इति । अपरग्रहणाच्च पूर्वन्यायप्राप्तमभिहितम् । एवं च यत्रापि पुनर्वचनेन देवताग्रे नृत्यगीतादिकं विहितं तत्रापिब्राह्मणादिभिः कार्यमेव, विहिते निषेधप्रवृतेः न“क्षेमे नक्तंग्रामान्तरं नगच्छेत्” इति सूत्रम् । क्षेमे सति रात्रौ ग्रामान्तरं अन्यग्रामं न गच्छेत् ।आपदि तु रात्रावपि गच्छेत् । “न च धावेत्” इति सूत्रम् । क्षेमेइत्यनुवर्तते । क्षेमे सति न च धावेत्किन्तु शीघ्रं गच्छेत् । “उदपानावेक्षणवृक्षारोहणफल- प्रपतनसन्धिसर्पणवितृतस्नानविषमलङ्घनशुक्लवदनसन्ध्यादित्यप्रेक्षणभैक्षणानि न कुर्यात्” इति सूत्रम् ।उदपानस्य कूपस्यावेक्षणं उपरि स्थित्वाऽधोमुखीभूयावलोकनम् । आम्रादिवृक्षस्यारोहणम् ।उपरिगमनम् । फलानामाम्रादीनां प्रपतनं त्रोटनम् ।सन्धौ सन्ध्यासमये सर्पणमध्वगमनम् ।सन्धिः कुद्वारं वा तत्र सर्पणम् ।सर्पगर्तादिलक्षणं वा । विवृतेन नग्नेन स्नानम् ।विषमस्य पर्वतादेःऊर्ध्वगमनंपर्वतगर्तादेर्लङ्घनमतिक्रमणं वा । शुक्लवदनमश्लीलभाषणम् । तत् त्रिविधंलज्जाकरम् दुःखकरम् अमङ्गलसूचकं च ।सन्ध्यादित्यप्रेक्षणं सन्ध्या-
सूर्यावेक्षणम् ।
नेक्षेतादित्यमुद्यन्तं नास्तं यन्तं कदाचन ।
नोपस्पृष्टं न वारिस्थं न मध्यं नभसो गतम्॥ इति ।
भिक्षणं सिद्धान्नस्यैव ।उदपानावेक्षणादि वर्जयेत् । तत्र भैक्षणप्रतिषेधेप्रत्यक्षमेव वचनमस्तीत्याह “न ह वै स्नात्वा भिक्षेताप ह वैस्नात्वा भिक्षां जयतीति श्रुतेः” इति सूत्रम् ।स्नात्वा समावर्त्य न भिक्षेत् ।यतः स्नात्वा भिक्षां अपजयति अपाकरोति । “ह वै” इतिनिपातसमुदायोनिश्चयार्थः । अत्र यो दृष्टार्थःविषयप्रतिषेधस्तत्र दृष्टार्थत्वादेवाकरणेप्राप्तेप्रतिषेधविधानसामर्थ्याददृष्टार्थताऽप्यनुमीयते। “वर्षत्यप्रावृतोव्रजेदयम्मे वज्रः पाप्मानमपहनदिति” इति सूत्रम् ।पर्जन्ये वर्षति अप्रावृतः अनाच्छादित एव व्रजेत् गच्छेत् । “अयं मे वज्र" इतिमन्त्रेण । मन्त्रार्थः–जलकणरूपो वज्रो मम पाप्मानं अपहनत् अपहन्तु ।“अप्स्वात्मानं नावेक्षेत” इति सूत्रम् ।अप्सु जले आत्मानं स्वशरीरंन पश्येत् । “अजातलोम्नीं विपु<MISSING_FIG href=”../books_images/U-IMG-1698554032Screenshot(21"/>.png)षी<MISSING_FIG href="../books_images/U-IMG-1698554059Screenshot(1"/>.png)षण्ढं च नोपहसेत्” इति सूत्रम् ।समयेऽप्यनुत्पन्नलोम्नीं अजातानि लोमानि यस्याः सेयमजातलोम्नी ताम् ।विपुंषीं कूर्च्चादिना पुरुषाकृतिं स्त्रियं, षण्ढः प्रसिद्धः । एतानि नोपहसेत्नाभिगच्छेत् । उपहासशब्देनाभिगमनमुच्यते । “गर्भिणीं विजन्येतिब्रूयात्सकुलमिति नकुलं भगालमिति कपालं मणिधनुरितीन्द्रधनुर्गां धयन्तीं परस्मै नाचक्षीत" इति सूत्रम् ।गर्भिणीं गुर्विणीं विजन्येतिपर्यायशब्देन वदेत्, न गर्भिणीमिति ।उत्तरत्राप्येवमेव योज्यम् ।सकुलंइति नकुलं ब्रूयात् । भगालमिति कपालं खर्परं ब्रूयात् । मणिधनुरितिइन्द्रधनुर्ब्रूयात् । परस्य गां सुरभिं धयन्तीं वत्सं पापयन्तीं परस्मै अन्यस्मैस्वामिनं वा नाचक्षीत न कथयेत् । “उर्वरायामनन्तर्हितायाम्भूमावुत्सर्पंस्तिष्ठन्न मूत्रपुरीषे कुर्यात्” इतिसूत्रम् ।उर्वरायां सस्यवत्यांभूमौ तृणैरनन्तर्हितायां केवलायां च मूत्रस्य पुरीषस्य वा उत्सर्गं न कुर्यात् ।किं च तिष्ठन् ऊर्ध्वः सन् न कुर्यात् । तथोत्सर्पन् उत्प्लवमानः सन्नकुर्यात् ।“स्वयं प्रशीर्णेन काष्ठेन गुदं प्रमृजीत” इतिसूत्रम् ।आत्मनः—
प्रयत्नमन्तरेण स्वयमेव प्रशीर्णेन छिन्नेन दारुशकलेन गुदंप्रमृजीत्प्रोञ्छेत् परिमार्जयेत् । ततः शौचं कुर्यात् । “विकृतं वासो नाच्छादयीत” इति सूत्रम् ।विकृतं नील्यादिना विकारमापादितं वस्त्रं न परिदधीत । अत्र न कषायप्रतिषेधः “कषायरक्तन्तु प्रशस्यत” इतिभाष्यकारः। " दृढव्रतो वधत्रःस्या”दिति सूत्रम् ।दृढं व्रतं सङ्कल्पो यस्य स दृढव्रतः स्याद्भवेत् । तथा बधात् घातादात्मानं परं चत्रायते रक्षतीति वधत्रः स्यात् । “सर्वेषां मित्रमिव’ इति सूत्रम् । सर्वेषांस्वेषां परेषां च मित्रमिव सखेव सर्वेषु सुहृदिव हितकारी भवेत् । “मैत्रोवा ब्राह्मण" इति श्रुतेः ।
इति श्रीप्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्रविवरणे
संस्कारगणपतौ द्वितीयकाण्डे सप्तमी कण्डिका ॥ ७ ॥
<MISSING_FIG href="../books_images/U-IMG-1698554538Screenshot(32"/>.png)
अष्टमी कण्डिका ।
तिस्रो रात्रीर्व्रतं चरेदमा<MISSING_FIG href="../books_images/U-IMG-1698554609Screenshot(1"/>.png)साश्यमृण्मयपायी स्त्रीशूद्रशवकृष्णशकुनिशुनां चादर्शनमसम्भाषणं च तैः शवशूद्रशुतकान्नानि च नाद्यान्मूत्रपुरीषे ष्ठीवनं चातपे नकुर्यात्सूर्याच्चात्मानं नान्तर्द्दधीत तप्तेनोदकार्थान्कुर्वीतावज्योत्यरात्रौ भोजनसत्यवदनमेव वा दीक्षितोऽप्यातपादीनि कुर्यात्प्रवर्ग्यवाँश्चेत्॥ ८॥
स्नातस्य समावर्तनप्रभृति यावद्गार्हस्थ्यं धर्मानभिधाय अधुनातस्यैव समावर्तनमारभ्य त्रिरात्रं व्रतमाह “तिस्रो रात्रीर्व्रतं चरेत्” इतिसूत्रम् ।वक्ष्यमाणं व्रतं तिस्रः त्रिसंख्या रात्रीः अहोरात्राणि चरेदनुतिष्ठेत् । “अमा<MISSING_FIG href=”../books_images/U-IMG-1698554609Screenshot(1"/>.png)साश्यमृण्मयपायी" इति सूत्रम् ।मांसमश्नातीत्येवंशीलो मांसाशीन मांसाशी अमांसाशी मृन्मयेन मृत्पात्रेण पिबतीत्येवंशीलो मृन्मयपायी न मृन्मयपायी अमृन्मयपायी स्यादिति शेषः । “स्त्रीशूद्रशवकृष्णशकुनिशुनां चादर्शनमसम्भाषणं च तै"रिति सूत्रम् । स्त्री नारी,
शूद्रोऽन्त्यवर्णः, शवः मृतशरीरं, कृष्णशकुनिः काकः, श्वा कुक्कुरः,एतेषां अदर्शनं भवेत् । एतैः स्त्र्यादिभिः सह असम्भाषणं च अवचनव्यवहारः । अत्र यस्य येन यादृक् सम्भाषणं तादृक् निषिद्ध्यते । “शवशूद्रसूतकान्नानि च नाद्यात्" इति सूत्रम् ।मरणानन्तरं क्रीत्वा लब्धा वाज्ञातिभिर्यदद्यते तच्छवान्नम् ।शूद्रस्य भोज्यान्नस्य नापितादेरन्नं शूद्रान्नम् ।प्रसवेसति अर्वाक्दशाहात् यत् ज्ञातीनामन्नन्तत्सूतकान्नम् । एतानि नाद्यात् न भक्षयेत् । “मूत्रपुरीषे ष्ठीवनं चातपे न कुर्या"दिति सूत्रम् ।मूत्रं च पुरीषञ्च मूत्रपुरीषे ष्ठीवनं थूत्कृत्य मुखाल्लालादित्यजनमेतत्त्रयं आतपेघर्म्मेकुर्यात् नोत्सृजेत् । “सूर्याच्चास्मानं नान्तर्द्दधीत"इति सूत्रम् ।सूर्यादादित्यादात्मानं स्वं छत्रादिनान्तर्हितं न कुर्यात् । “तप्तेनोदकार्थान्कुर्वीत” इति सूत्रम् ।तप्तेन जलेनोदकार्थानुदकसाध्याः शौचाचमनादिकाः क्रियाः कार्याः । “अवज्योत्य रात्रौ भोजन"मिति सूत्रम् ।रात्रौ अवज्योत्यदीपोल्काद्यन्यतरेण प्रकाशं कृत्वाभोजनं कुर्यात् । “सत्यवदनमेव वा" इति सूत्रम् ।अथ वा सत्यभाषणमेव कुर्यात्, नाघस्तनृनियमान् ।“दीक्षितोऽप्यातपादीनि कुर्यात्प्रवर्ग्यवाँश्चेत्” इति सूत्रम् ।चेद्यदि दीक्षितः सोमयागार्थं स्वीकृतदीक्षः प्रवर्ग्यवान् प्रवर्ग्यः सोमयागाङ्गकर्मविशेषः सोऽप्यास्तीति तथा तदाआतपादीनि “मूत्रपुरीषे ष्ठीवनं चातपे न कुर्या"दित्यादीनि करोति ।अत्रान्येऽपि नियमा उच्यन्ते । याज्ञवल्क्यः—
मातृपित्रतिथिभ्रातृजामिसम्बन्धिमातुलैः ।
वृद्धबालातुराचार्यवैद्यसंश्रितबान्धवैः ॥
ऋत्विक्पुरोहितापत्यभार्यादाससनाभिभिः ।
विवादं वर्जयित्वा तु सर्वांल्लोकाञ्जयगृही ॥
एतैः सह विवादवर्जने कारणमाह मनुः—
आचार्यो ब्रह्मलोकेशःप्राजापत्यः पिता प्रभुः ।
अतिथिस्त्विन्द्रलोकेशो देवलोकस्य चर्त्विजः ॥
जामयोऽप्सरसां लोके वैश्वदेवस्य बान्धवाः ।
सम्बन्धिनो ह्यपां लोके पृथिव्यां मातृमातुलाः॥
आकाशेशास्तु विज्ञेया बालवृद्धकृशातुराः ।
भ्राता ज्येष्ठः समः पित्रा भार्या पुत्रः स्विका तनुः॥
छाया स्वा दासवर्गस्तु दुहिता कृपणः परः ।
तस्मादेतैरधिक्षिप्तः सहेतासत्वरः सदा॥ इति ।
पैठीनसिः– “मत्तप्रमत्तोन्मत्तैः सह सम्भाषणं न कुर्वीत नपरस्त्रियं रहसिसम्भाषेते"ति । मत्तो मदनीयद्रव्येण, प्रमत्तो ग्रहावेशादिना, उन्मत्तो वाय्वाहिना । सांख्यायनगृह्ये– “सूतिकोदक्यां नवदेत्” इति । गौतमः– “न म्लेच्छाशुच्यधार्मिकैः सह सम्भाषेतसम्भाष्य पुण्यकृतो मनसा ध्यायेद्ब्राह्मणेन सह सम्भाषेते” ति । महाभारते—
सम्पन्नं भोजने ब्रूयात्पनीये तर्पणं तथा ।
सुश्रुतं पायसे ब्रूयाद्यवाग्वां कृसरे तथा॥
महात्मनां च गुह्यानि न वक्तव्यानि कर्हि चित् ।
त्वङ्कारं नामधेयं च ज्येष्ठानां परिवर्जयेत्॥
अधराणां समानानामुभयेषां न दुष्यति॥
नारदोऽपि—
गुरोर्ज्येष्ठकलत्रस्य भातुर्येष्ठस्य चात्मनः ।
आयुःकामो न गृह्णीयान्नामातिकृपणस्य च॥
वसिष्ठः– “नावृतो यज्ञं गच्छेद्यदि गच्छेत्प्रदक्षिणं पुनराव्रजे"दिति । नावृतोऽनिमन्त्रितः ।
द्वौ विप्रौविप्रमग्निं च दम्पत्योः स्वामिनोस्तथा ।
अन्तरेण न गन्तव्यं हलस्य वृषभस्य च॥
पैठीनसिरपि– “न गोब्राह्मणाग्न्यन्तरे व्यवेयादनुज्ञातोऽथवा व्रजे"दिति । अथानाक्रमणीयानि । तत्र मनुः—
देवतानां पुरो राज्ञः स्नातकाचार्ययोस्तथा ।
नाक्रामेत्कामतश्छायां बभ्रुणो दीक्षितस्य च॥
वभ्रुःकपिलः । याज्ञवल्क्योऽपि—
देवर्त्विक्स्नातकाचार्यराज्ञां छायां परस्त्रियाः ।
नाक्रामेद्रक्तविण्मूत्रष्ठीवनोद्वर्त्तनानि च॥
विष्णुपुराणे—
पूज्यदेवध्वजज्योतिश्छायां नातिक्रमेद्बुधः॥
देवीपुराणे—
न चैव गोःप्रसूताया विश्वसेत्स्त्रीजनस्य च ।
न मुखेन धमेदग्निं न खङ्गं लङ्घयेत्तथा॥ इति ।
याज्ञवल्क्यः—
पादौ प्रतापयेन्नाग्नौचैनमभिलङ्घयेत्॥
यमः—
स्वान्तु नाक्रामयेच्छायां क्लीबेन पतितेन वा ।
चाण्डालेन द्विषद्भिश्च नित्यं रोगान्वितेन वा॥
अथानधिष्ठेयानि । तत्र मनुः—
मध्यन्दिनेऽर्धरात्रे च श्राद्धं भुक्त्वा च सामिषम् ।
सन्ध्ययोरुभयोश्चैव न सेवेत चतुष्पथम्॥
उद्वर्त्तनमधःस्नानं विण्मूत्रे रक्तमेव च ।
श्लेष्मनिष्ठ्यूतवातानि नाधितिष्ठेत कामतः॥
वैरिणो नोपसेवेत साहाय्यं नैव वैरिणः ।
अधार्मिकं तस्करं च परस्यैव च योषितम्॥
उद्वर्त्तनंविलेपनम्, अधःस्नानं स्नानादधः पतितं जलम् । निष्ठ्यूतंउद्गीर्णं फूत्कारादि । विष्णुः– “न चतुष्पथमधितिष्ठेत न रात्रौ वृक्षमूलं शून्यालयं न तृणं न वर्धनागारम्” ।तृणं तृणकूटः । आसनार्थंतु न निषेधः । मनुः—
तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता ।
एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन॥
आसनत्वेन तस्य विधानात । शङ्खः– “नोद्धतकुहकैः सहैकत्र
तिष्ठेत् “उद्धतो अविनीतः । कुहकःवशीकरणादिनिष्ठः । हारीतः– “आवपनापमार्ज्जनापस्नानतुषभस्मास्थिकपालसञ्चयन्नाधितिष्ठेत्” । आवपनं गोण्यादि भाण्डम् ।अपमार्जनं सम्मार्जनी । कपालसञ्चयः खरसमूहः । याज्ञवल्क्यः—
विरुद्धं वर्जयेत्कर्म प्रेतधूमंनदीतरम् ।
केशभस्मतुषाङ्गारकपालेषु च संस्थितिम्॥
विरुद्धं आर्याचारविरुद्धम् । तथा च मार्कण्डेयः—
म्लेच्छभाषा न वक्तव्या म्लेच्छवेषं न कारयेत् ।
नासंवृतमुखः कुर्याद्धास्यं जृम्भां तथैव च॥
पानीयस्य क्रिया नक्तंन कार्या भूतिमिच्छता ।
शूर्पवातं नखाग्राम्बुस्नानवस्त्रघटोदकम्॥
मार्जनीरेणुकेशाम्बु हन्ति पुण्यं पुराकृतम्॥ इति ।
क्रिया स्नानाहरणादि ।घटोदकं स्नानघटावशिष्टम् ।शातातपः—
**अजाविरेणुसंस्पर्शादाशु लक्ष्मीश्च हीयते ।
श्वकाकोष्ट्रखरोलूकशूकरग्रामपक्षिणाम्॥**इति ।
विष्णुः– न संहताभ्यां पाणिभ्यां शिर उदरञ्च कण्डूये"दिति । याज्ञवल्क्यः ।
**नेक्षेतार्कं न नग्नांस्त्रीं न च संस्पृष्टमैथुनाम् ।
न च मूत्रं पुरीषं वा नाशुची राहुतारकाः॥**इति ।
मनुः—
नाश्नीयाद्भार्यया सार्धं नैनामीक्षेत्चाश्नतीम् ।
क्षुवन्तीं जृम्भमाणाञ्च न चासीनां यथासुखम्॥
**नाञ्जयन्तीं स्वके नेत्रे न चाभ्यक्तामनावृताम् ।
न पश्येत्प्रस्रवन्तीं च तेजस्कामो द्विजोत्तमः॥**इति ।
मार्कण्डेयपुराणे—
देवतापितृसच्छास्रयज्ञसत्यादिनिन्दकैः ।
कृत्वा स्पर्शनमालापं शुद्ध्येतार्काकवलोकनात्॥
अवलोक्य तथोदक्यामन्त्यजं पतितं शठम् ।
विधर्मसूतिकाषण्ढविवस्त्रान्त्यावसायिनः॥
मृगनिर्यातकाँश्चैव परदाररताँस्तथा ।
एतदेव हि कर्तव्यं प्राज्ञैः शोधनमात्मनः॥
स्कान्दे—
**कृतघ्नं मानवं दृष्ट्वा नरकेष्वपि कुत्सितम् ।
शुध्यर्थं देवि ! द्रष्टव्याः सोमानलदिवाकराः॥**इति ।
सोमादीनां यथासम्भवं विकल्पः । अथैषां प्रायश्चित्तानि । मनुः—
वेदोदितानां नित्यानां कर्मणां समतिक्रमे ।
स्नातकव्रतलोपे तु प्रायश्चित्तमभोजनम्॥
इदं प्रायश्चित्तं ब्राह्मणक्षत्रिययोः । तथा च हरदत्तः—
स्नातकव्रतलोपे तु प्रायश्चित्तं विधीयते ।
राजब्राह्मणयोरेव नेतरेषां कथञ्चन॥
एषां च स्नातकधर्माणां गृहस्थादिसाधारण्यमवगन्तव्यम् ।
इति श्री प्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्रविवरणे
संस्कारगणपतौ अष्टमी कण्डिका॥
<MISSING_FIG href=”../books_images/U-IMG-1698557346Screenshot(10”/>.png)
अत्र प्रसङ्गतः शौचस्नानसन्ध्यातर्पणदेवार्चनवैश्वदेवविधिरुच्यते ।तत्र याज्ञवल्क्यः—
उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् ।
वेदमध्यापयेदेनं शौचाचाराँश्च शिक्षयेत्॥
तत्रादौ शौचविधिमाह । तत्र—
ब्राह्मेमुहूर्ते चोत्थाय चिन्तयेदात्मनो हितम्॥
इति याज्ञवल्क्यादिवचनादात्मचिन्तनं विधातव्यम् । तथा च मनुः–
ब्राह्म मुहूर्ते चोत्थाय धर्मार्थौचानुचिन्तयेत् ।
कायक्लेशाँश्च तन्मूलान्वेदतत्त्वार्थमेव च॥
धर्मप्रवृत्तावपि—
उषःकाले समुत्थाय चिन्तयेदात्मनो हितम् ।
स्मृत्वा नारायणं देवं स्तोत्राण्यपि च सञ्जपेत्॥
अत्र ब्राह्मो मुहूर्तःसूर्योदयात्प्रागुपान्त्यो मुहूर्तः । तत्र गर्गः—
नाडिकाः षट्पञ्चाशत्प्रातस्त्वेकाधिकोऽरुणः ।
उषःकालोऽष्टपञ्चाशच्छेषः सूर्योदयः स्मृतः॥
तथा च मनुः—
रात्रेस्तु पश्चिमो यामो मुहूर्तो ब्राह्म उच्यते॥ इति ।
व्यासः—
प्रातः स्मरामि भवभीतिमहार्त्तिशान्त्यै नारायणं गरुडवाहनमब्जयोनिम्
ग्राहाभिभूतवरवारणमुक्तिहेतुं चक्रायुधं तरुणवारिजपत्रनेत्रम्॥
प्रातर्नमामि मनसा वचसा च मूर्ध्नापादारविन्दयुगलं परमस्य पुंसः।
नारायणस्य नरकार्णवतारणस्य पारायणप्रवणविप्रपरायणस्य॥
प्रातर्भजामि भजतामभयङ्करं तं प्राक्सर्वजन्मकृतपापभयापहन्त्यै ।
योग्राहवक्रपतिताङ्घ्रिगजेन्द्रघोरंशोकप्रणाशमकरोद्धृतशङ्खचक्रः॥
श्लोकत्रयमिदं पुण्यं प्रातः प्रातः पठेन्नरः ।
लोकत्रयगुरुस्तस्मै दद्यादात्मपदं हरिः॥
अन्यानपि स्मृत्युक्तान् पठित्वा भूमिं प्रार्थयेत् । तत्र मन्त्रः—
**समुद्रवसने ! देवि !पर्वतस्तनमण्डिते ! ।
विष्णुपत्नि ! नमस्तुभ्यं पादस्पर्शं क्षमस्व मे॥**इति ।
अथ मूत्रपुरीषोत्सर्गः । विधानपारिजाते पाराशरः—
ततः प्रातः समुत्थाय कुर्याद्विण्मूत्रमेव च ।
नैर्ऋत्यामिषुनिक्षेपमतीत्याभ्यधिकं भुवः॥
तथा चापस्तम्बः —“मूत्रपुरीषे कुर्याद्दक्षिणा दिशि दक्षिणापरां वा गत्वे"ति । दक्षिणापरा नैर्ऋती ।पराशरः—
अन्तर्धाय तृणैर्भूमिं शिरः प्रावृत्य वाससा ।
वाचं नियम्य यत्नेन ष्ठीवनोच्छ्वासवर्जितः॥
कुशादिव्यतिरिक्तैः । तथा च हारीतः—
प्रभाते मैथुने चैव प्रस्रावे दन्तधावने ।
स्नाने भोजनकाले च षट्सु मौनं विधीयते॥
शाङ्खायनगृह्यम् – “यद्येवावस्त्रो यज्ञोपवीतं कर्णे कृत्वा मूत्रपुरीषोत्सर्गं कुर्या”दिति । कर्णोऽत्र दक्षिणः। विधानपारिजाते—
कृत्वा यज्ञोपवीतन्तु पृष्ठतः कण्ठलम्बितम् ।
विण्मूत्रन्तु गृही कुर्यात्कर्णस्थः प्रथमाश्रमी॥
विशेषमाह संग्रहे—
मूत्रे तु दक्षिणे कर्णे पुरीषे वामकर्णके ।
धारयेद्ब्रह्मसूत्रन्तु मैथुने ह्युपवीतवत्॥
मनुः—
मूत्रोच्चारसमुत्सर्गं दिवा कुर्यादुदङ्मुखः ।
दक्षिणाभिमुखो रात्रौ सन्ध्ययोश्च यथा दिवा॥
छायायामन्धकारे वा रात्रावहनि वा द्विजः ।
यथासुखमुखः कुर्यात्प्राणबाधाभयेषु च॥
शङ्खः—
तर्जनीं रौप्यसंयुक्तां ब्रह्मग्रन्थियुतां शिखाम् ।
भोजने मैथुने मूत्रे कुर्वन्कृच्छ्रेण शुद्ध्यति॥
अथ वर्ज्यदेशानाह मनुः—
न मूत्रं पथि कुर्वीत न भस्मनिन गोव्रजे ।
न फालकृष्टे न जलेन चित्यां न च पर्वते॥
न जीर्णदेवायतने न वल्मीके न शादूले।
न ससत्त्वेषु गर्त्तेषु न गच्छन्नापि च स्थितः॥
वाय्वग्निविप्रमादित्यमपः पश्यँस्तथैव च॥
नद्यादौ विशेषमाह स्मृतौ—
दश हस्तान्परित्यज्य मूत्रं कुर्याज्जलाशये ।
शतहस्तं पुरीषं तु तीर्थे नद्यां चतुर्गुणम्॥
तथोपकृष्य विण्मूत्रं काष्ठलोष्ठतृणादिना॥
इति परिमृष्टगुदलिङ्गो गृहीतशिश्नश्चोत्तिष्ठेत् । मनुः—
अरण्येऽनुदके रात्रौ चोरव्याघ्राकुलेपथि ।
कृत्वा मूत्रपुरीषे च द्रव्यहस्तो न दुष्यति॥
इति मूत्रपुरीषोत्सर्गविधिः । अथ शौचम् ।दक्षः—
शौचे यत्नः सदा कार्यः शौचमूलो द्विजोत्तमः ।
शौचाचारविहीनस्य समस्ता निष्फलाः क्रियाः॥
अन्यच्च—
मूत्रं कृत्वा विना शौचं कच्छंबद्ध्वा द्विजाधमः ।
कथितो मूत्रकृत्वा च स मूढो नरकं व्रजेत्॥
स्मृत्यर्थसारे—
शौचन्तु द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा ।
मृज्जलाभ्यां स्मृतं बाह्यं भावशुद्धिस्तथान्तरम्॥
तत्र देवतागृहवाल्मीकमूषकोत्करादिमृद्भिन्नां मृदमुद्धृतोदकं चादाय वाग्यत उदङ्मुखो दिवा शौचं कुर्यात् ।रात्रौ चेद्दक्षिणामुखः । तदप्युदपात्रं मलमूत्रोत्सर्जनसमये हस्ते न धार्यम् । गौतमः—
करस्थोदकपात्रस्तु विण्मूत्रं कुरुते यदि ।
तज्जलं मूत्रसदृशं सुरापानेन तत्समम्॥
धर्मप्रवृत्तौ—
अन्तर्जले देवगृहे वल्मीके मूषकस्थले।
कृतशौचावशिष्टा च न ग्राह्याः पञ्च मृत्तिकाः॥
मलमूत्रसमीपे वा वृक्षमूलस्थिता च या ।
वापीकूपतडागेषु न ग्राह्याः पञ्चमृत्तिकाः॥
आहरेन्मृत्तिकां विप्रः कुल्यासरिदकूलयोः ।
शुद्धदेशं तु संवीक्ष्य शर्कराश्मविवर्जितम्॥
अभावे मृदउक्ताया यस्मिन्देशे तु या भवेत् ।
तथा शौचं प्रकुर्वीत द्विजो मृत्तिकयाऽपि च॥
आर्द्रामलकमात्रा तु मूत्रशौचे तु मृत्तिका ।
त्रिपर्वपूरमात्रा वा मूत्रशौचे तु मृत्तिका॥
शौनकः—
एका तु मृत्तिका लिङ्गे तिस्रः सव्यकरे मृदः ।
करद्वये मृद्द्वयंस्यान्मृत्प्रमाणमिहोच्यते॥
मूत्रात्तु द्विगुणं शुक्रे मैथुने त्रिगुणं स्मृतम् ।
लिङ्गशौचमिदं प्रोक्तं गुदशौचमथोच्यते॥
विज्ञानेश्वरः—
लिङ्गशौचं पुरा कार्यं गुदशौचं ततः स्मृतम्॥
इति वचनाल्लिङ्गशौचानन्तरं गुदशौचम् ।
पञ्चापाने मृदः क्षेप्याः करे वामे दश स्मृताः ।
हस्तयोः सप्त दातव्याः पुरीषे मृत्प्रमाणकम्॥
अर्धप्रसृतिमात्रा स्यात्तदर्धं तु ततः परम् ।
गुदशौचमिति प्रोक्तं पादशौचमथोच्यते॥
विधानपारिजाते—
एकैकं पादयोर्दद्याद्धस्तयोर्लिङ्गशौचवत् ।
एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम्॥
त्रिगुणं स्याद्वनस्थानां यतीनां च चतुर्गुणम् ।
यद्दिवा विहितं शौचं तदर्थं निशिकीर्तितम्॥
तदर्धमातुरे प्रोक्तमातुरस्यार्धमध्वनि ।
स्त्रीशूद्रयोरर्धमानं शौचं प्रोक्तं मनीषिभिः॥
स्त्रीशूद्रादेरशक्तानां बालानां चोपनीतिनाम् ।
गन्धलेपक्षयकरं शौचं कुर्यादतन्द्रितः॥
गङ्गातोयेन कृत्स्नेनमृद्भारैश्च नगोपमैः ।
आमृत्योराचरन् शौचं भावदुष्टो न शुध्यति॥
इति स्मृतेर्भावशुद्धिरप्यपेक्षिता । अत्रोक्तसंख्यानियमातिक्रमे सति
प्रायश्चित्तमुक्तं स्मृतिरत्नावल्याम्—
गायत्र्यष्टशतं चैव प्राणायामत्रयं तथा ।
प्रायश्चित्तमिदं प्रोक्तं नियमातिक्रमे सति॥
क्वचिद्विष्णुस्मरणमेवोक्तम् ।अनुदकमूत्रकरणे सचैलं स्नानं व्याहृतिहोमश्चेति प्रायश्चित्तद्वयमिति, प्रयोगपारिजाते उक्तम् । तत आचमनात्प्राग्वामभागे गण्डूषान् क्षिपेत् । तदुक्तमाचारप्रदीपे—
मूत्रे पुरीषे भुक्त्यन्ते रेतःप्रस्रवणे तथा ।
चतुरष्टद्विषट्द्व्यष्टगण्डूषैः शुद्ध्यते क्रमात्॥
पुरतः सर्वदेवाश्च दक्षिणे पितरस्तथा ।
ऋषयः सर्वतः पृष्ठे वामे गण्डूषमुत्सृजेत्॥
इति शौचविधिः ।
अथाचमनम् ।
तत्त्रिविधम्–श्रौताचमनस्मार्त्ताचमनपौराणाचमनभेदात् । तत्र श्रौताचमनम् । पराशरः–
देव्याः पादैस्त्रिभिः पीत्वा अब्लिङ्गैर्नवधा स्पृशेत्।
पुनर्व्याहृतिगायत्र्या शिरोमन्त्रैर्द्वधा स्पृशेत्॥
अब्लिङ्गकै"रापो हि ष्ठे"त्यादिभिस्त्रिभिः प्रतिपादैः ।
यः करोति प्रयत्नेन श्रौतमाचमनं द्विजः ।
अशुद्धात्माऽपि पापिष्ठः स पूतो नात्र संशयः॥
आश्वलायनः– “दक्षिण उपवीतोपविश्य हस्ताववनिष्य त्रिराचामेदद्भिः परिमृज्य सकृदुपस्पृश्य पच्छिरश्चक्षुषी नासिके श्रोत्रे हृदयमालभ्य सव्यपाणिपादं प्रोक्षति” ।
सन्ध्यादौ ब्रह्मयज्ञे च होमे देवार्चने तथा ।
श्रौतमेव द्विजैः कार्यमिति बौधायनोऽब्रवीत्॥
विधानपारिजाते—
पौराणमथ वा स्मार्तं श्रौतमाचमनं तथा ।
तत्तत्कर्मणि कुर्वन्ति यथेष्टं वा विधीयते॥
अथ स्मार्त्ताचमनम् ।सूत्रोक्त"मामाग"न्निति मन्त्रेण ।अथ पौराणाचमनं सङ्ग्रहे—
केशवादित्रिभिः पीत्वा द्वाभ्यां प्रक्षालयेत्करौ ।
द्वाभ्यामोष्ठौ च सम्मृज्य द्वाभ्यामुन्मार्जयेत्ततः॥
तथा त्वेकेन मूर्द्धानं ततः सङ्कर्षणादिभिः ।
ऊर्ध्वोष्ठनासाक्षिकर्णान्नाभ्युरःस्कन्धकान्स्पृशेत्॥
**एवमाचमनं कृत्वा साक्षान्नारायणो भवेत्॥**इति ।
आचमनधर्माः अत्रिः—
ताम्रपात्रस्थितैर्वापि तथा तोयाशयस्थितैः॥
कुर्वीताचमनं विप्रस्ततः खानि समालभेत् ।
तदलाभेतु कुर्वीत पात्रधारोदकेन च॥
तथा—
तावन्नोपस्पृशेद्विप्रोयावद्वामेन न स्पृशेत् ।
वामे हि द्वादशादित्या वरुणस्त्रिदशेश्वरः॥
वर्त्तन्ते सर्वदा यस्मात्तस्माद्वामेन संस्पृशेत् ।
शूद्राहृतैस्तु नाचामेन्नैव पाण्याहृतैरपि॥
मनुः—
कांस्येनायसपात्रेण त्रपुसीसकपित्तलैः ।
आचान्तःशतकृत्वोऽपि न कदाचन शुद्ध्यति॥
पादशेषं पीतशेषं शौचशेषं च यज्जलम् ।
तज्जलं रुधिरैस्तुल्यं पर्यग्निकरणं विना॥
पर्यग्निकरणमप्यसम्भवे द्रष्टव्यम् । अथ द्विराचमननिमित्तानि ।याज्ञवल्क्यः—
स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथ्योपसर्पणे ।
आचान्तः पुनराचामेद्वासोऽपि परिधाय च॥
आचारदीपे यमः—
भोजने शयने दाने उच्चारे च प्रतिग्रहे ।
सन्ध्यात्रयाम्बुदाने च पूर्वं पश्चाद्द्विराचमेत्॥
सपवित्राचमने विशेषः । मार्कण्डेयः—
सपवित्रेण हस्तेन कुर्यादाचमानक्रियाम् ।
नोच्छिष्टं तत्पवित्रन्तु भुक्तोच्छिष्टं तु वर्जयेत्॥
सपवित्रत्वं दक्षिणहस्तस्य ज्ञेयम् ।कात्यायनः—
सव्ये पाणौ कुशान्कृत्वा दक्षिणे सपवित्रकः॥
इत्याचमनविधिः । अथ दन्तधावनम् । दक्षः—
मुखे पर्युषिते नित्यं भवत्यप्रयतो नरः ।
तदार्द्रकाष्ठं शुष्कं वा भक्षयेद्दन्तधावनम्॥
गर्गः—
दशाङ्गुलं तु विप्राणां क्षत्रियाणां नवाङ्गुलम् ।
अष्टाङ्गुलं तु वैश्यानां शूद्राणां सप्त सम्मितम्॥
चतुरङ्गुलमानेन नारीणां विधिरुच्यते॥
विष्णुः—
कण्टकीक्षीरवृक्षोत्थं द्वादशाङ्गुलमव्रणम् ।
कनिष्ठिकाग्रवत्स्थूलं पर्वार्धकृतकूचकम्॥
स्मृत्यन्तरे—
खरिदश्च करञ्जश्चकदम्बश्च वटस्तथा ।
तिन्तिणी वेणुपृष्ठश्व ह्याम्रो निम्बस्तथैव च॥
अपामार्गश्च बिल्वश्च ह्यर्कश्चौदुम्बरस्तथा ।
एते प्रशस्ताः कथिता दन्तधावनकर्म्मसु॥
अथ वर्ज्यकाष्ठादि । मार्कण्डेयः—
कोविदारशमीतालश्लेष्मातकबिभीतकान् ।
वर्जयेद्दन्तकाष्ठे च गुग्गुलं क्रमुकं तथा॥
स्मृत्यर्थसारे—
आसने शयने याने पादुके दन्तधावने ।
पालाशाश्वत्थकौ वर्ज्यौसर्वकुत्सितकर्मसु॥
अलाभे दन्तकाष्ठानां निषिद्धायां तिथौ तथा ।
अपां द्वादशगण्डूषैर्विदद्ध्याद्दन्तधावनम्॥
तृणपर्णैः सदा कुर्यादमामेकादर्शीविना ।
तयोरपि च कर्तव्यं जम्बुनिम्बाम्रपल्लवैः॥
अथ निषिद्धतिथयः ।
चतुर्दश्यष्टमीदर्शपूर्णिमासङ्क्रमेषु च ।
नन्दासु च नवम्यां च दन्तकाष्ठं विवर्जयेत्॥
उत्पत्तौ च विपत्तौ च मैथुने दन्तधावने ।
अभ्यङ्गे ह्युदधिस्नाने तिथिस्तात्कालिकी स्मृता॥
विधानपारिजाते—
श्राद्धे यज्ञे च नियमे तथा प्रोषितभर्तृका ।
रजस्वला सूतिका च वर्ज्जयेद्दन्तधावनम्॥
यमः—
श्राद्धे जन्मदिने चैव विवाहे जीर्णदूषिते ।
व्रते चैव प्रवासे च वर्जयेद्दन्तधावनम्॥
धर्मप्रवृत्तौ—
अङ्गारवालुकामिश्रभस्माङ्गुलिनखैरपि ।
इष्टकालोष्ठपाषाणैर्न कुर्याद्दन्तधावनम्॥
दन्तकाष्ठग्रहणमन्त्रस्तु—
आयुर्बलं यशो वर्चःप्रजाःपशुवसूनि च ।
ब्रह्म प्रज्ञां च मेधां च त्वन्नो देहि वनस्पते !॥
भक्षणमन्त्रस्तु– “ॐअन्नाद्याय व्यूहध्व<MISSING_FIG href=”../books_images/U-IMG-1698576278Screenshot(21"/>.png)सोमो राजायमागमत् ।स मे मुखं प्रमार्क्ष्यते यशसा च भगेन च । उदिते सूर्ये दन्तघावनेदोषमाह—
उदिते तु सहस्रांशौयः कुर्याद्दन्तधावनम् ।
सविता भक्षितस्तेन पितृवंशस्य घातकः॥
अथ स्नानसूत्रम् ।
अथातो नित्यस्नानं नद्यादौ मृद्गोमयकुशतिलसुमनस आहृत्योदकान्तं गत्वा शुचौ देशे स्थाप्य प्रक्षा-
ल्य पाणिपादं कुशोपग्रहो बद्धशिखी यज्ञोपवीत्याचम्योरुर्ढ०हीति तोयमामन्त्र्यावर्त्तयेद्ये ते शतमिति सुमित्रिया न इत्यपोऽञ्जलिनादाय दुर्मित्रिया इति द्वेष्यंप्रति निषिञ्चेत्कटिं बस्त्यूरूजङ्घेचरणौ करौमृदा त्रिस्त्रिःप्रक्षाल्याचम्य नमस्योदकमालभेदङ्गानिमृदेदं विष्णुरिति सुर्याभिमुखो निमज्जेदापोऽअस्मानिति स्नात्वोदिदाभ्य इत्युन्मज्य निमज्ज्योन्मज्ज्याचम्य गोमयेनविलिम्पेन्मा नस्तोक इति ततोऽभिषिञ्चेदिमम्मे वरुणेतिचतसृभिर्माप उदुत्तमं मुञ्चन्त्ववभृथेत्यन्ते चैतन्निमज्ज्योन्मज्ज्याचम्य दर्भैःपावयेदापो हि ष्ठेतितिसृभिरिदमापो हविष्मतीर्द्देवीराप इति द्वाभ्यामपो देवा द्रुपदादिव शन्नो देवीरपा<MISSING_FIG href="../books_images/U-IMG-1698577809Screenshot(1"/>.png)रसमपो देवीः पुनन्तु मेति नवभिश्चित्पतिर्म्मेत्योङ्कारेण व्याहृतिभिर्गायत्र्या चादावन्तेचान्तर्जलेऽघमर्षणं त्रिरावर्त्तयेद् द्रूपदादिवायङ्गौरितिवा तृचं प्राणायामं वा सशिरसमोमिति वा विष्णोर्वास्मरणम् १॥
अथ स्नानविधिः“अथातो नित्यस्नान"मिति सूत्रम् ।अथ श्रौतस्मार्त्तक्रियाविधानानन्तरम् । अतो हेत्वर्थः । यतस्ताः क्रियाः स्नानपूर्विकाः अतो हेतोर्नित्यं सन्धोपासनपञ्चमहायज्ञादिनित्य क्रियानुष्ठानाधिकारसम्पादकत्वेन स्नानविधानमावश्यकं विधास्ये इति सूत्रे शेषः । शिष्यबुद्धिसमाधानार्थं प्रतिज्ञाकरणम् ।काम्यनैमित्तिकस्नानव्युदासार्थं नित्यशब्दोपादानम् ।स्नानं बहिःसर्वाङ्गजलसंयोगः । शङ्खः—
अस्नातो हि पुमान्नार्होजपाग्निहवनादिषु ।
प्रातः स्नानं तदर्थन्तु नित्यस्नानमुदाहृतम्॥
योगियाज्ञवल्क्यः—
प्रातर्मध्याह्नयोःस्नानं वानप्रस्थगृहस्थयोः ।
यतेस्त्रिषवणं प्रोक्तं सकृच्च ब्रह्मचारिणः॥
ब्रह्मचारिणः सकृत्स्नानमशक्तविषयम् ।
स्नायात्प्रातश्च मध्याह्ने ब्रह्मचारी तथा गृही॥
इतिविष्णूक्तेः ।
सप्ताहं प्रतिरस्नायी द्विजः शुद्रत्वमाप्नुयात् ।
तस्माच्छुद्रत्वशुद्ध्यर्थं रविवार समाचरेत्॥
इदं त्रिकण्डिकासूत्रन्तु मध्याह्नस्नानपरम् ।यतः प्रातःस्नानंतिलहीनम् । अत्र तु कात्यायनाचार्यैस्तिलाहरणमुक्तम्, अतः मध्याह्नपरमेवेति । तथा च स्मृतिसमुच्चये—
प्रातःस्नाने न कर्त्तव्यं कदाचित्तिलतर्पणम् ।
जलमध्ये स्थितः कुर्यात्केवलं कुशवारिणा॥
शौनकोऽपि—
प्रातःस्नाने विशेषोऽयं तद्धि नैव तिलैर्युतम् ।
नैमित्तिकं च नित्यं च तिलैरेवच विधीयते॥
अन्यच्च कात्यायनः—
यथाऽहनि तथा प्रातर्नित्यं स्नायादनातुरः॥
इतिवचनात्प्रातःस्नानेऽप्यस्यविधेःप्राप्तौस्वयमेवसाग्निकानांप्रातःस्नाने विस्तरनिषेधमपि वदति कात्यायनः—
अल्पत्वाद्धोमकालस्य बहुत्वात्स्नानकर्मणः ।
प्रातर्न तनुयात्स्नानं होमलोपो हि गर्हितः॥
व्यासोऽपि—
प्रातःसंक्षेपतः स्नानं शौचार्थन्तु तदिष्यते ।
विधिमन्त्रसमायुक्तं मध्याह्नेतु सविस्तरम्॥
प्रातः संक्षेपतः स्नानं शौचार्थन्तु तदिष्यते ।
मन्त्रैस्तु विधिनिष्पाद्यं मध्याह्नेतु सविस्तरम्॥
अत्र प्रातःशब्देनोदयात्प्राक्तनाश्चतस्त्रो नाड्य उच्यन्ते “अरुणरविग्रस्तां प्राचीमवलोक्य स्नाया"दिति बोधायनोक्तेः । व्यासः—
स्नानन्तु द्विविधं प्रोक्तं मुख्यगौणप्रभेदतः ।
तयोस्तु वारुणं मुख्यं तत्पुनः षड्विधं भवेत्॥
जलनिष्पाद्यं वारुणम् ।
नित्यं नैमित्तिकं काम्यं क्रियाङ्गं मलकर्षणम् ।
क्रियास्नानं तथा षष्ठं षोढा स्नानं प्रकीर्त्तितम्॥
तत्र प्रातःस्नानं नित्यम् ।
प्रातः समाचरेत्स्नानं तच्च नित्यमिति स्मृतम्॥
इति मार्कण्डेयोक्तेः । चन्द्रसूर्यग्रहणादौ सूतकादौ यत्स्नानंतन्नैमित्तिकम् ।
भासवायसमार्जारखरोष्ट्रश्वानशूकरान् ।
अमेध्यानि च संस्पृश्य सवासा जलमाविशेत्॥
इत्याद्यपि नैमित्तिकमेव ।
पुष्येऽर्क्केजन्मनक्षत्रे व्यतीपाते च वैधृतौ ।
अमायां च नदीस्नानं पुनात्यासप्तमं कुलम्॥
इत्याद्युक्तं स्नानं काम्यम् ।धर्मक्रियां कर्त्तुं यत्पूर्वं स्नानं तत्क्रियाङ्गम् ।
मलापकर्षणं नाम स्नानमभ्यङ्गपूर्वकम् ।
मलापकर्षणायैव प्रवृत्तिस्तत्र नान्यथा॥
इत्याद्युक्तं स्नानं मलापकर्षणम् ।
यत्तु तीर्थादिषु स्नानं क्रियास्नानं प्रकीर्त्तितम्॥
अथ गौणस्नानं विविच्यते । याज्ञवल्क्यः—
मान्त्रं भौमं तथाग्नेयं वायव्यं दिव्यमेव च ।
वारुणं मानसं चैव सप्त स्नानान्यनुक्रमात्॥
एवमापदीमानि । तथा च जाबालिः—
असामर्थ्याच्छरीरस्य देशकालाद्यपेक्षया ।
मन्त्रस्नानादितः सप्त केचिदिच्छन्ति सूरयः॥
आपो हिष्ठादिभिर्मान्त्रं मृदालम्भश्च पार्थिवम् ।
आग्नेयं भस्मना स्नानं वायव्यं रजसा गवाम्॥
अद्भिः सातपवर्ष्याभिःस्नानं तद्दिव्यमुच्यते ।
वारुणं चावगाहश्च मानसं विष्णुचिन्तनम्॥
सशिरस्कावगाहाशक्तौ जाबालिः—
अशिरस्कं भवेत्स्नानं स्नानाशक्तौ तु कर्मिणाम् ।
आर्द्रेण वाससा वापि मार्जनं कापिलं विदुः॥
ऋचाभिमन्त्रितैस्तोयैः प्रोक्षयेन्मूर्द्घ्नि सर्वतः ।
अनुकल्पमिदं स्नानं सर्वपापहरन्नृणाम्॥
नित्यविधाबनधिकारिणमाह गोपीनाथीये—
न स्नानमाचरेद्भुक्त्वा नातुरो न महानिशि ।
न वासोभिः सहाजस्रं नाविज्ञाते जलाशये॥
भोजनासम्भवात्ताम्बूलादिभक्षणप्रतिषेधः—
इक्षुरापः पयो मूलं ताम्बूलमौषधं फलम् ।
भक्षयित्वापि कुर्वीत स्नानदानादिकाःक्रियाः॥
इति स्मृतिरशक्तविषया ।
स्नानार्हस्तु निमित्तेन कृत्वा तोयावगाहनम् ।
आचम्य प्रयतः पश्चात्स्नानं विधिवदाचरेत्॥
अस्पर्थस्पर्शादिनिमित्तेनेत्यर्थः । तत्स्नानं कुत्र कर्तव्यामित्यपेक्षायामाह “नद्यादौ” इतिसूत्रम् ।नदी आदिः प्रथमा मुख्या यस्य स्नानाधिकरणजलाशयस्य असौ नद्यादिः तस्मिन् । अकृत्रिमे जलाशये स्नायात् । तथा च गोपीनाथीये स्मृतिः—
नदीसरिद्देवखातगर्त्तप्रस्रवणेषु च ।
सरस्सु वा कृत्रिमेषु शस्तं तीर्थं विशेषतः॥
बहुतोयासुवापीषु कूपेष्वपि कदाचन॥ इति मरीचिः ।
तत्र नदी अशोष्यसलिला स्रवन्ती । अन्यदपि नदीलक्षणं छन्दोगपरिशिष्टे—
धनुःसहस्राण्यष्टौ च गतिर्यासां न विद्यते ।
न ता नदीशब्दवहा गर्त्तास्ते परिकीर्तिताः॥
धनुर्लक्षणमाह । आदित्य पुराणे—
अष्टौ यूकायवं प्राहुरङ्गुलं तु यवाष्टकम् ।
चतुर्विंशाङ्गुलैर्हस्तश्चतुर्हस्तमितं धनुः॥ इति ।
सरित्पुराणे प्रसिद्धा ।देवनिर्मितत्वेन प्रसिद्धो देवखातः । गर्त्तस्तु योजनभूभागपर्याप्तजलप्रवाहः । प्रस्रवणं पर्वतादेःस्वतः प्रवृत्तो, निर्झरः ।सरःउत्तरार्कदण्डखातादिः । तीर्थं पुराणे प्रसिद्धम् ।हरिहरभाष्ये—
नदीषु देवखातेषु प्रातः स्नायाद्दिनेदिने ।
तदभावे तडागे वा कूपेस्नानं समाचरेत्॥
उत्तमन्तु नदीस्नानं तडागे मध्यमं स्मृतम् ।
कूपस्नानं तु सामान्यं भाण्डस्नानं वृथा वृथा॥
अत्रिः—
अलाभेदेवखातानां हृदानां सरितां तथा ।
उद्धृत्य चतुरः पिण्डान्पारक्ये स्नानमाचरेत्॥
“पञ्च पिण्डानुद्धृत्ये"ति व्यासः । सप्त समुद्घृत्त्येति योगी ।दशेति शौनकः । शक्त्यनुसारेणैवं व्यवस्था ।स्कान्दे—
अनुद्धृत्य तु तत्कर्तुरेनसः स्यात्तुरीयभाक्॥
अथान्यखातानि—
अन्त्यजैः खानिताः कूपास्तडागादि तथैव च ।
तेषु स्नात्वा च पीत्वा च पञ्चगव्येन शुद्ध्यति॥
अत्रिः—
स्नानं रजकतीर्थे च भोजनं गणिकागृहे ।
ये कुर्वन्ति द्विजा मोहात्ते यान्ति निरयं परम्॥
गोपीनाथीये स्मृतिः—
शाल्मली तिन्तिणी निम्बः करञ्जश्च हरीतकी ।
कोविदारकपित्थार्कबदर्येरण्डशिग्रवः॥
शैलश्च खदिरश्चैषां स्नानं छायासु वर्जयेत् ।
अग्राह्या ह्यागता ह्यापो नद्याः प्रथमवेगतः॥
प्रक्षोभितास्तु केनापि याश्चतीर्थादिनिःसृताः॥
प्रवाहेण च्युते तोये न स्नायात्तु कदा चन ।
अमेध्यन्तद्विजानीयात्पीत्वा चान्द्रायणं चरेत्॥
व्याघ्रपादः—
सिंहकर्कटयोर्मध्ये सर्वा नद्यो रजस्वलाः ।
तासु स्नानं न कुर्वीत वर्जयित्वा समुद्रगाः॥
विधानपारिजाते—
**गङ्गादिसरितः सर्वाः शुभाः सर्वत्र सर्वदा॥**इति ।
भविष्योत्तरे विशेषः—
आदौ कर्काटके देवि !महानद्यो रजस्वलाः।
त्रिदिनं तु चतुर्थेऽह्निशुद्धाः स्युर्जान्हवी यथा॥
उपाकर्मादावदोषः । तथा च वसिष्ठः—
उपाकर्मणि चोत्सर्गे प्रेतस्नाने तथैव च ।
चन्द्रसूर्यग्रहे चैव रजोदोषो न विद्यते॥
इत्यादि । मार्गमध्ये नदीप्राप्तौ विशेषः—
मार्गान्तरानदीप्राप्तौ स्नानादि परपारतः ।
अर्वाक्तीरे सरस्वत्या एषमार्गगतो विधिः॥ इति ।
इदमपि पूर्वपारे तीर्थदेवाद्यभावे द्रष्टव्यम्, तत्सद्भावे तत्रैव भवति ।अथस्नानोपकरणान्याह"मृद्गोमयकुशतिलसुमनसआहुत्ये"तिसूत्रम् ।मृत्तिकां गोमयं कुशान् तिलान् पुष्पाणि च आहृत्य स्वयमानीयशूद्रादन्येन वा आहृत्य आनयेत् । तथा च शङ्खः—
समित्पुष्पकुशादीनि ब्राह्मणः स्वयमाहरेत् ।
शुद्रानीतैः क्रयक्रीतैः कर्म कुर्वन्पतत्यधः॥
अशक्तौ न्यायार्जितधनैः क्रीतान्यपि गृह्णीयात् महाजनग्रहीतत्वात् । तथा च विष्णुधर्मोत्तरे—
धर्मार्जितधनक्रीतैर्यः कुर्याद्देवतार्चनम् ।
उद्धरिष्यत्यसन्देहं सप्त पूर्वांस्तथा परान्॥
मृत्तिकां नदीकूलादिशुचिदेशस्थाम् । जीर्णत्वादिदोषरहिताया गोर्गोमयम् ।तिलान् क्षेत्रादिसम्भवान् ।कुशान् शुचिदेशसम्भवान् ।सुमनसः सुरभीणि बिल्वतुलसीप्रभृतिपुष्पाणि । वस्त्रयुग्मोदपात्राणिआदाय, स्नानोपयोगित्वात् अग्रहणे दोषश्रवणाच्च । तथा चोक्तम्स्मृतिसारे—
यदि स्नातो द्विजस्तीर्थादगृहीतकमण्डलुः ।
अज्ञानाद्गृहमागच्छेत्स्नानं तस्य वृथा भवेत्॥
आददीत विशुद्धात्मा धौतवासोयुगं तथा॥ इति जाबालिः ।
“उदकान्तं गत्वा शुचौ देशे स्थाप्ये"ति सूत्रम् ।उदकस्य नद्यादेः सम्बन्धिनोऽन्तं समीपं स्वगृहाद्गत्वा प्राप्य प्रक्षालनादिना शुचौदेशे स्थाप्य निधाय, तथा च गोपीनाथीये—
एकान्तमुदकं गत्वा तटंप्रक्षाल्य पाणिना ।
तत्र संस्थापयेत्सर्वं यथादेशं पृथक् पृथक्॥
अनन्तभट्टीयेऽपि—
विशोध्य तीरं कुशपिञ्जलानि पूर्वोत्तराग्रान्मृदमभ्यसेच्च॥ इति ।
“प्रक्षाल्यपाणिपाद”मिति सूत्रम् ।पाणी च पादौ च पाणिपादम् ।“द्वन्द्वश्चप्राणितूर्यसेनाङ्गानामि"ति सूत्रेणैकवचनम् । ब्राह्मणश्चेद्दक्षिणपादोपक्रमं पादौ प्रक्षाल्य पाणी प्रक्षालयेत्, न तु पाठक्रमेण ।तदुक्तं गोपीनाथीये—
प्रक्षाल्य पादौ हस्तौ च शिवं नत्वा समारमेत्।
श्रीकामः पादयोः शौचं मृदा पूर्वं समाचरेत्॥
इति नन्दिपुराणात् । एतत्पादप्रक्षालनमुद्धृतजलेन कुर्यात् । तदुक्तंबौधायनेन–“अपो देवं गृहं गोष्ठं द्विजालयं निर्णिक्तपादःप्रविशे"दिति । कात्यायनः—
तिष्ठन्नासीनःप्रव्हो वा नियमो यत्र नेदृशः ।
तदासीनेन कर्तव्यं न प्रव्हेण न तिष्ठता॥
प्रव्हः किञ्चिदूर्ध्वः । “कुशोपग्रह” इतिसूत्रम् ।कुशास्त्रिप्रभृतयः
सव्यहस्ते उपग्रहो धृतो येनासौ कुशोपग्रहः । सर्वत्रोपग्रहः पवित्रमप्युपलक्षयति । तथाच व्यासः—
सव्यः सोपग्रहः कार्यो दक्षिणः सपवित्रकः॥ इति ।
तथा च कात्यायनोऽपि—
स्नाने होमे तथा दाने स्वाध्याये पितृतर्पणे ।
सपवित्रौसदर्भौवा करौकुर्वीत नान्यथा॥ इति॥
अनामिकाग्रपर्वस्थं पवित्रं बिभृयात्सदा ।
मध्यपर्वणि कुर्वाणः पुत्रदारैर्वियुज्यते॥
हारीतः—
चतुर्भिर्दर्भविदलैःपवित्रं ब्राह्मणस्य तु ।
एकैकं ह्रासयेत्तत्र वर्णे वर्णे यथाक्रमम्॥
सर्वेषां वा भवेद्द्वाभ्यां पवित्रं ग्रन्थितं न वा॥ इति ।
सपवित्रः सदर्भोवा कर्माङ्गाचमनं चरेत् ।
न चोच्छिष्टं तत्सदर्भं भुक्तोच्छिष्टं तु वर्जयेत्॥
“बद्धशिखी यज्ञोपवीत्याचम्ये"तिसूत्रम् ।बद्धा चासौ शिखाच बद्धशिखा सा यस्यास्तीति बद्धशिखी, यज्ञोपवीतमस्यास्तीति यज्ञोपवीती बद्धशिखः सन् सव्यस्कन्धस्थितयज्ञोपवीती कर्म कुर्यादित्यर्थः ।
अत्र केचित्—
सदोपवीतिना भाव्यं सदा बद्धशिखेन च ।
विशिखो व्युपवीतश्च यत्करोति न तत्कृतम्॥
इत्यनेनबद्धशिखित्वेयज्ञोपवीतित्वेप्राप्तेकेशबन्धोत्तरीयव्युदासार्थपुनरुक्तिरिति चेन्न ।
नार्द्रमेकं च वसनं परिदध्यात्कथञ्चन॥
इति पुरुषस्य सर्वदैकवस्त्रनिषेधात् वस्त्रद्वयधारणस्य नियमात्,स्नानकाले तत्परित्यागे प्रमाणाभावात् ।
स्नानं दानं जपं होमं स्वाध्यायं पितृतर्पणम् ।
नैकवस्त्रोद्विजः कुर्याच्छ्राद्धभोजनसत्क्रियाम्॥
एकवस्त्रो न भुञ्जीयान्न कुर्याद्देवतार्चनम् ।
न कुर्यात्पितृकर्माणि दानहोमजपादिकम्॥
इत्यादिवचनाच्च । बद्धशिखी यज्ञोपवीतीतिस्मरणं सावधानीकरणार्थम् । केशप्रसादनादौ विशिखित्वप्राप्तेः । तथा च स्मृतिसारः—
तर्जन्यां च स्थिते रौप्ये ब्रह्मग्रन्थौ च मस्तके ।
भोजनं मैथुनं मूत्रं कुर्वन्कृच्छ्रेण शुद्ध्यति॥
यद्वामन्त्रेण पार्श्वेकर्माङ्गं शिखैकदेशबन्धनमुच्यते । व्यासः—
स्मृत्वोङ्कारं तु गायत्रीं निबध्नीयाच्छिखां द्विजः॥
इतिचतुर्विंशतिमतात्।
**मानस्तोकेति मन्त्रेण शिखाबन्धनमाचरेत्॥**इति ।
यद्वा प्रशस्तं यज्ञोपवीतमस्यास्तीति यज्ञोपवीती ।प्राशस्त्यन्तु क्षालनाद्भवति । उक्तञ्च अनन्तभट्टीये—
**प्रक्षाल्य पादौ तु मुखं च कण्ठे
यज्ञोपवीतं च जलं पिबेत्रिः॥**इति ।
नीवीं कृत्वा प्रक्षालयेदित्यर्थः । तथा च गोपीनाथीये—
प्रक्षालयेद्यज्ञसूत्रं मृद्भिरद्भिः शनैः शनैः॥ इति ।
नागदेवा अपि—
पादौ प्रक्षालयेत्पूर्वं मुखं यज्ञोपवीतकम् ।
द्विराचम्य कराभ्यां तु दर्भान्धृत्वा शिखां स्पृशेत्॥ इति ।
तस्य कण्ठस्थस्यैव प्रक्षालनम् ।भृगुः—
कायस्थमेव प्रक्षालयमुत्तार्यं न कदाचन ।
सकृदुद्धारणेनास्य प्रायश्चित्ती भवेद्द्विजः॥ इति ।
पुनर्मन्त्रेण धारणमिति प्रायश्चित्तम् । तथा चोक्तम्—
**मन्त्रन्यस्तोपवीतं यन्नोद्धरेत कदाचन ।
मोहाद्द्विजस्तदुद्धृत्य पुनर्मन्त्रेण धारयेत्॥**इति ।
**तैत्रा मैत्राः कठाः काण्वाश्चरका वाजसनेयकाः ।
कण्ठादुत्तीर्य सूत्रन्तु कुर्युर्वैक्षालनं द्विजाः॥**इति ।
विशेषः—
बह्वृचाःसामगाश्चैव ये चान्ये याजुषास्तथा ।
कण्ठादुत्तीर्य सूत्रन्तु पुनः संस्कारभागिनः॥
इतिस्कान्दात् । आचम्येति शास्त्राचमनं कृत्वा, तत्र व्याघ्रपादः—
प्राङ्मुखोदङ्मुखो वापि कुर्यादाचमनक्रियाम् ।
पश्चिमे पुनराचम्य दक्षिणे स्नानमाचरेत्॥
गोकर्णकृतहस्तेन माषमात्रजलं पिबेत् ।
तन्न्यूनमधिकं पीत्वा पुनराचम्य शुद्ध्यति॥
प्राणायामत्रयंकृत्वा सङ्कल्पंकुर्यात् । तत्र यमः—
**सपवित्रकरं कृत्वा आचम्य प्राङ्मुखः स्थितः ।
प्राणायामत्रयंकुर्यात्कालज्ञानमतः परम्॥**इति ।
तच्च—
**अब्दायनर्तुमासाश्चपक्षतिथ्यर्क्षवासरम् ।
योगं च करणं चेति सङ्कल्पोऽयमुदाहृतः॥**इति ।
“उरु<MISSING_FIG href=”../books_images/U-IMG-1698594752Screenshot(21”/>.png)हीति तोयमामन्त्र्यावर्त्तयेद्येते शतमिति” इतिसूत्रम् । “उरु<MISSING_FIG href=”../books_images/U-IMG-1698594752Screenshot(21”/>.png)हिराजे"त्यनयर्चा तोयं जलमामन्त्र्य सन्मुखीकृत्य “येते शत”मित्यनयर्चातज्जलं दक्षिणहस्तेनावर्तयेत् सकृद् भ्रामयेत् । “सुमित्रयान इत्यपोऽञ्जलिनादाय दुर्मित्रिया इति द्वेष्यं प्रतिनिषिञ्चे"दिति सूत्रम् । “सुमित्रियान आप ओषधयः सन्त्वि"ति मन्त्रेण अञ्जलिनाहस्तद्वयसम्पुटेनादाय गृहीत्वा “दुर्मित्रियास्तस्मै सन्तु योऽस्मान्द्वेष्टि यं च व्वयं द्विष्म” इतिमन्त्रेण द्वेष्यं रिपुं प्रति निषिञ्चेत् । रिपुंमनसा ध्यात्वाञ्जलिगृहीतं जलं जन्तुरहिते देशे प्रक्षिपेदित्यर्थः । द्वेष्याभावे कामक्रोधमोहादीनामुत्तरतः प्रक्षेपः । “कटिं बस्त्यूरू जङ्घेचरणौकरौ मृदा त्रिस्त्रिःप्रक्षाल्याचम्ये"ति सूत्रम् ।सव्यहस्ते गृहीतया मृदाकटिं सकृदालिप्य प्रक्षालय, तथैव द्वितीयं तथैव तृतीयं कटिंप्रक्षालयित्वा । एवमेव सर्वत्र । त्रिस्त्रिरिति वीप्सा काण्डानुसमयज्ञानार्था । “एकद्रव्ये कर्मावृत्तौ सकृदेव मन्त्रपाठ” इति परिभाषासूत्रपाठात् ।
तत आचमनं कारयेत् । ततो नद्यां तीर्थं विचिन्त्य,
यत्र स्थानेषु यत्तीर्थं नदीरायवनानि वा ।
तान्ध्यायेन्मनसा वापि नान्यतीर्थं विचिन्तयेत्॥
इदं गङ्गातिरिक्तविषयम् । स्कान्दे—
स्नानकालेऽन्यतीर्थेषु जप्यते जान्हवी जनैः ।
विना विष्णुपदीं काऽन्या समर्थाऽघौघनाशने॥
“नमस्योदकमालभेदङ्गानि मृदेदं विष्णुरिति” इतिसूत्रम् ।“उदकाय नम” इति तीर्थोदकं नमस्कृत्य “इदं विष्णु"रित्यनयर्चादक्षिणपाणिगृहीतया मृदा शिरःप्रभृति नाभिपर्यन्तानि सव्यहस्तगृहीतयामृदा नाभिप्रभृति पादपर्यन्तानि अङ्गानि आलभेत् अनुलिम्पेत् । “सूर्याभिमुखो निमज्जेदापोऽअस्मानिति” इतिसूत्रम् ।ततः शन्नकैर्जलाशयं प्रविश्य नाभिमात्रं जलं स्थितः सूर्याभिमुखो मज्जेत् । विष्णुः—
नाभिमात्रे जलेतिष्ठन्सप्त द्वादश पञ्च च ।
त्रिवारमपि संस्तुत्य स्नानमेवं विधीयते॥
प्रचेताः—
नाभिमात्रे जलेस्थित्वा केशान्कृत्वा द्विधा द्विजः।
निरुद्ध्य कर्णौ नासां च त्रिःकृत्वा मज्जनं चरेत्॥
स्मृतिसारे वसिष्ठः—
स्रोतसोऽभिमुखं स्नायान्मार्जनं चाघमर्षणम् ।
अन्यत्रार्कमुखो रात्रौ प्राङ्मुखोऽग्रिमुखोऽपि वा॥ इति ।
प्रवाहाभिमुखो मज्जेद्यत्रापः प्रवहन्ति वै ।
स्थावरेषु च सर्वेषु ह्यादित्याभिमुखस्तथा॥
इति जाबालिवचनन्तदन्यशाखाविषयम् ।कुतः ?
या याः समुद्रगा नद्यस्तासु स्नानं तु सम्मुखम् ।
सर्वेऽपि शाखिनः कुर्युर्विनवाजसनेयिनः॥ इति ।
वाजसनेयिभिस्तु सर्वत्र सूर्याभिमुखैरेव मज्जनं कार्यमित्यर्थः ।
आपस्तम्बः—
प्रवाहाभिमुखं स्नानं ऋक्सामार्थवोदिनाम् ।
आदित्याभिमुखं स्नानं याजुषस्यसदैव हि॥
इत्यनेन आपस्तम्बानामपि सूर्याभिमुखं स्नानम् ।“स्नात्वोदिदाभ्य इत्युन्मज्यनिमज्योन्मज्याचम्ये"ति सूत्रम् ।“आपोऽअस्मा"नित्यनयर्चा स्नात्वा अङ्गानि संशोध्य “उदिदाभ्यःशुचि"रितिमन्त्रान्तेउन्मज्ज्योत्क्राम्यपुनस्तूष्णींनिमज्य स्नात्वा उन्मज्ज्य तथैवोत्क्रम्याचम्योपस्पृश्य, जमदग्निः—
मध्यन्दिने य आचामेन्मन्त्रेणापःपुनन्त्विति॥
“गोमयेन विलिम्पेन्मा नस्तोक इति” इतिसूत्रम ।“मा नस्तोक” इत्यनयर्चागोमयेन शिरःप्रभृति सर्वाण्यङ्गान्यनुलिम्पेत् ।अत्रापि नाभेरूर्ध्वंदक्षिणहस्तेनाधःसव्येन च । अत्र विशेषमाह विष्णुः—
अग्रमग्रमिति स्मृत्वा मा नस्तोकेन वा पुनः ।
गोमयैर्लेपयेत्प्राज्ञः सोदकेनानुदर्शितैः॥ इति ।
ऐन्द्रमन्त्रत्वादुदकस्पर्शः । योगी—
**गोमयेन तु यः स्नायादापादतलमस्तकम् ।
स स्नातः सर्वतीर्थेषु फलं संवत्सरं भवेत्॥**इति ।
विष्णुर्विशेषमाह—
अपाघमित्यपामार्गं दूर्वांकाण्डादिति स्मरन् ।
त्रिस्त्रिरेकैकमादाय मार्जयेत्सुसमाहितः॥ इति ।
इदं मार्जनमुपाकर्मोत्सर्जनविषयमेव ।
**काण्डादपाघमिति द्वौ युक्तौश्रवणकर्मणि॥**इति ।
“ततोऽभिषिञ्चेदिमम्मे व्वरुणेति चतसृभिर्मापउदत्तमं मुञ्चन्त्ववभृथेति” इतिसूत्रम् । ततो गोमयविलेपानन्तरं “इमम्मे व्वरुणे"त्येवमादिभिश्चतसृभिर्ऋग्भिः । “मापो मौषधी"रित्येकया । “उदुत्तम"मित्येकया। “मुञ्चन्तु मे"त्येकया । “अवभृथे"त्येकया क्रमेण प्रतिमन्त्रमभिषिञ्चेत् । अञ्जलिना जलं मूर्द्धनि प्रक्षिपेदित्यर्थः । तथा च योगीयाज्ञवल्क्यः–
कार्योऽभिषेकोऽञ्जलिना इमम्माद्यष्टभिस्ततः॥ इति ।
अत्र पाठक्रमेण मन्त्रेणाभिषेचनम् । “अन्ते चैतत्” इति सुत्रम् ।एतदभिषेचनमन्तेऽपि भवति पावनान्तेऽपि कर्तव्यमित्यर्थः । “निमज्ज्योन्मज्ज्याचम्य दर्भैः पावये"दिति सूत्रम् ।निमज्ज्य तूष्णीं मज्जित्वोन्मज्ज्योत्क्राम्याचमनं कृत्वा दर्भैरप्रसूतैःकुशैर्दक्षिणहस्तगृहीतैःप्रादक्षिण्येन नाभेरूर्ध्वं शिरो यावत्ततः पुनर्नाभिपर्यन्तं पावयेत् । तदुक्तंस्मृतिसारे—
दर्भैरुन्मार्जनं नाभेरुपरिष्टात्प्रदक्षिणम् ।
इदं पावनमद्भिश्चकुशैरेवापरत्र तु॥
अप्रसूताः स्मृता दर्भाः प्रसूतास्तु कुशाः स्मृताः॥ इति ।
पावनसमाख्यानात्पावनमन्त्रानाह–“आपो हि ष्ठेति तिसृभिरिदमापो हविष्मतीर्द्देवीराप"इति द्वाभ्यामपो देवा द्रुपदादिव शन्नोदेवरिपा<MISSING_FIG href=”../books_images/U-IMG-1698596084Screenshot(14”/>.png)रसमपो देवीः पुनन्तु मेति नवभिश्चित्पतिर्म्मेति” इतिसूत्रम् । “आपो हि ष्ठे"त्यादिभि"श्चित्पतिर्म्मे"त्यन्तैर्यथाक्रमेण पठितैरेव मन्त्रैः पावयेदित्यर्थः । योगी—
दर्भैस्तु पावयेन्मन्त्रैरब्लिङ्गैः पावकैः शुभैः॥ इति ।
“चित्पतिर्म्मे"त्यत्र पारिजातादौ मन्त्रैकतोक्ता । हरिहर्देवयाज्ञिकादयस्तु मन्त्रचतुष्टयमाहुः ।“ॐकारेण व्याहृतिभिर्गायत्र्या चादावन्तेचे"तिसूत्रम् ।ॐकारेण तिसृभिर्व्याहृतिभिर्व्याहृतिभिर्गायत्र्या “आपो हि ष्ठे"त्यस्यादौ"चित्पतिर्म्मे"त्यस्यान्ते च पावयेदित्यर्थः । योगी याज्ञवल्क्यः—
**“ॐकारेण व्याहृतिभिर्गायत्र्या च समाहितः ।
आदावन्ते च कुर्वीत मार्जनं तु यथाक्रमम्॥**इति ।
“अन्तर्जलेऽघमर्षणन्त्रिरावर्तये"दिति सूत्रम् ।अन्तर्जले जलमध्ये मग्नः सन् अघमर्षणं “ऋतं च सत्यं चे"त्येतत्सूक्तं त्रिरावर्तयेत् वारत्रयं जपेत् । चतुर्विंशतिमते—
**ततोऽङ्गुष्ठाङ्गुलिभिस्तु श्रोत्रं दृङ्नासिकामुखम् ।
पिधायान्तः प्रतिस्रोतस्त्रिर्जपेदघमर्षणम्॥**इति ।
कात्यायनः—
**अघमर्षणसूक्तन्तु अश्वमेधावभृत्समम् ।
अन्तर्जले त्रिरावृत्य मुच्यते ब्रह्महत्यया॥**इति ।
“द्रुपदादिवायङ्गौरिति वा तृचं प्रणायामं वा सशिरसमोङ्कारं वा विष्णोर्वा स्मरण"मिति सूत्रम् । यद्वा “द्रुपदादिवे “त्यृचं"आयोङ्गौ"रिति वा तृचं सशिरसं शिरसा “आपो ज्योति"रितिमन्त्रेण सह प्राणायामत्रयं चेत्यनुषङ्गः । “ॐ” इति त्रिरावर्त्तयेत् ।अथ वा विष्णोः स्मरणं कुर्यात् । व्यासः—
आवर्त्तयेद्वा प्रणवं स्मरेद्वा विष्णुमव्ययम्॥
वसिष्ठः—
प्रणवाद्यास्तथा वेदाः प्रणवं पर्युपस्थिताः ।
ब्राह्मण्यं प्रणवः सर्वं तस्मात्प्रणवमभ्यसेत्॥
अघमर्षणानन्तरं पुनस्तस्मिंस्त्रिवारं मज्जित्वा स्नानाङ्गं तर्पणं कुर्यात् । अत्र प्रचेताः—
अघमर्षणमन्त्रेण धूतपापः समाहितः ।
ततो निमज्ज्य वाराँस्त्रींस्ततस्तर्पणमारभेत्॥
तथा च दक्षः—
नित्यं नैमित्तिकं काम्यं त्रिविधं स्नानमाचरेत् ।
तर्पणन्तु भवेत्तत्रह्यङ्गत्वेनोपपद्यते॥
शङ्खः—
देवानाञ्च पितॄणाञ्च जले दद्याज्जलाञ्जलिम् ।
असंस्कृतमृतानाञ्च स्थलेदद्यात्तिलाञ्जलिम्॥
जलमध्ये तु कर्तव्यं केवलं कुशवारिणा ।
विशेषोऽयं स्थलेप्रोक्तो न जले तु कदाचन॥
इति योगिस्मरणात् ।विधानपारिजाते विष्णुः—
सव्येन चोपवीतेन देवतानाञ्च तर्पणम् ।
पितॄणामपसव्येन मनुष्याणां निवीतिना॥
तर्पणे चाशून्यं करं कुर्यात् । तथा च याज्ञवल्क्यः—
अनामिकाधृतं स्वर्णं तर्जन्यां रौप्यधारणम् ।
कनिष्ठिकाधृतं खङ्गं ततस्तर्पणमारभेत्॥
स्नानाङ्गतर्पणप्रकारस्त्वाश्वलायनगृह्यपरिशिष्टे—
“अथसाक्षताभिरद्भिःप्राङ्मुखउपवीतीदेवतीर्थेनव्याहृतिभिर्व्यस्तसमस्ताभिर्ब्रह्मादिदेवान्सकुत्सकृत्तर्पयित्वाऽथदक्षिणाभिमुखःप्राचीनावीतीपितृतीर्थेनसतिलाभिरद्भिर्व्याहृतिभिरेवसोमःपितृमान्यमोऽङ्गिरस्वानग्निःकव्यवाहनइत्यादिस्त्रिस्त्रिस्तपयेदेतत्स्नानाङ्गतर्पणमथ तीरमेत्य दक्षिणाभिमुखः प्राचीनावीतीये के चास्मत्कुले जाता इति वस्त्रं निष्पीड्योपवीत्यापउपस्पृशे"दितीदं तर्पणं येषा शाखिनां सूत्रे नास्ति तैरपि कार्यम् । “पारक्यमविरोधि य"दिति वचनात्सर्वोपसंहारन्यायाच्च । स्मृतिसारः–
संक्रान्त्यादिनिमित्ते तु स्नानाङ्गं तर्पणं द्विजः ।
तिथिवारनिषेधेऽपि तिलैस्तर्पणमाचरेत्॥
अयं नियमोऽपि प्रातःस्नानाङ्गव्यतिरिक्तस्नानाङ्गतर्पण एव ।
प्रातःस्नाने न कर्तव्यं कदाचित्तिलतर्पणम् ।
जलमध्ये तु कर्तव्यं केवलं कुशवारिणा॥
इतियोगिवचनात् । अथ देवादितीर्थान्याह गोपीनाथीये—
कनिष्ठादेशिन्यङ्गुष्ठमूलान्यग्रं करस्य च ।
प्रजापतिपितृब्रह्मदेवतीर्थान्यनुक्रमात्॥
अत्र यक्ष्मतर्पणमाहाश्वलायनः —
स्नानाङ्गतर्पणं कृत्वा यक्षपणे जलमाहरेत्॥
तन्मन्त्रस्तु—
यन्मया दूषितं तोयं शारीरमलसंचयात् ।
तद्दोषपरिहारार्थं यक्ष्माणं तर्पयाम्यहम्॥
अत्रोदकं बहिः क्षिपेत्, सदाचारात् प्रकरणाच्च । केशोदकमग्रेप्रपात-
येत् । तथा च वायवीये—
अमृतेन समा ज्ञेयाः पुरतः केशबिन्दवः ।
सुराबिन्दुसमा ज्ञेयाः पृष्ठतः केशबिन्दवः॥
पिबन्ति शिरसो देवाः पिबन्ति पितरो मुखात् ।
मध्यतः सर्वगन्धर्वा अधस्तात्सर्वजन्तवः॥
तस्मात्कायं न मृज्येत अम्बरेण करेण वा ।
केशान्दक्षिणतः कृत्वा जलमध्ये न तर्पयेत्॥
इति पराशरः ।
स्नानं कृत्वा चार्द्रवस्त्रं त्यजेन्नद्यामधो द्विजः ।
गृहस्नानमथो कृत्वा विसृजेदेतदूर्द्धतः॥
अज्ञानादन्यथा कुर्वन्पुनः स्नानेन शुद्ध्यति॥
“उत्तीर्यधौतेवाससी परिधाये"ति सूत्रम् ।स्नानाङ्गतर्पणानन्तरंउत्तीर्य जलाद्बहिर्निर्गम्य धौते वाससी अरजकादिप्रक्षालिते अन्तरीयोत्तरीये द्वे वस्त्रे परिधाय प्रान्तद्वयगोपनेन परिधानं कुर्यात् । कात्यायनः—
**नोत्तरीयमधः कुर्यान्नोपर्यधःस्थमम्बरम्॥**इति ।
वस्त्रविषये मनुः—
ब्राह्मणस्य सितं वस्त्रं नृपते रक्तमुल्बणम् ।
पीतं वैश्यस्य शूद्रस्य नीलंमलवदिष्यते॥
उल्बणंनिबिडम् । मिताक्षरायाम्—
नीलीरक्तं यदा वस्त्रं विप्रःस्वाङ्गेषु धारयेत् ।
तन्तुसन्ततिसंख्याके वसेत्स नरके ध्रुवम्॥
व्याघ्रपादः—
कषायं कृष्णं वस्त्रं वा मलिनं केशदूषितम् ।
जीर्णं नीलं सन्धितं च पारक्यं मैथुने धृतम्॥
छिन्नाग्रमुपवस्त्रं च कुत्सितं धर्मतो विदुः ।
केवले पट्टमूत्रे च नीलीदोषो न विद्यते॥
इति विधानपारिजातात् । याज्ञवल्क्यः—
दग्धं जीर्णं च मलिनं मूषकोपहतं तथा ।
खादितं गोमहिष्याद्यैस्त्तत्त्यज्यं सर्वथा द्विजैः॥
अधूतं क्षारधूतं वा पूर्वेद्युर्धृतमेव वा ।
त्रयमेतदसम्बद्धं सर्वकर्मसु वर्जयेत्॥
शुष्कवस्त्रत्वमेव कार्यम् ।
प्रागग्रमुदगग्रं वा धौतंवासः प्रसारयेत् ।
पश्चिमाग्रे दक्षिणाग्रेपुनः प्रक्षालनं भवेत्॥
शुष्काभावे गौतमः—
सप्तवाताहतं वस्त्रं शुष्कवत्प्रतिपादितम् ।
आर्द्रं वापि द्विजातीनामादृतं गौतमादिभिः॥
धौताधौतंतथा दग्धं सन्धितं रजकाहृतम् ।
शुक्रमूत्राद्यसंसृष्टमाविकं चातसीभवम् ।
पवित्रमिति विज्ञेयं सर्वकर्मस्वसंशयम्॥
इति पाद्मे। अतसीभवं क्षौमम् ।विधानपारिजाते—
आजानुमूलं वस्त्रं स्यात्पञ्चकच्छन्तु धारयेत् ।
तन्न्यूननमधिकं चैव सर्वकर्मसु गर्हितम्॥
कुक्षिद्वये तथा पृष्ठे नाभौ द्वौ परिकीर्तितौ।
वस्त्रस्य धारणं यच्च पञ्चकच्छन्तु तद्विदुः॥
द्वा—
कट्यांनाभौ तथा पृष्ठे कच्छत्रयमुदाहृतम् ।
कच्छत्रयसमायुक्तो यो विप्रः स शुचिः स्मृतः॥
एककच्छो द्विकच्छस्तु मुक्तकच्छस्तथैव च॥
एकवासा अवासाश्चनग्नः पञ्चविधः स्मृतः॥
वसिष्ठः—
अपवित्रपटो नग्नोनग्नश्चार्द्धपटः स्मृतः ।
नग्नो मलिनवासाः स्यान्नग्नः कौपीनवानपि॥
काषायवाससा नग्नोनग्नस्तौतल्पवानपि ? ।
अन्तःकच्छो बहिःकच्छो मुक्तकच्छस्तथैव च॥
साक्षान्नग्नश्चविज्ञेयो दश नग्नाः प्रकीर्तिताः॥
एवं अन्तरीयवस्त्रं परिधाय उत्तरीयवस्त्रपरिधानं कारयेत् । द्वितीयवस्त्राभावे कात्यायनः– “एकञ्चेत्पूर्वस्योत्तरवर्गेण प्रच्छादयीते”ति । जातूकर्ण्यः—
अभावश्चेद्द्वितीयस्य वस्त्रचीरं तदा भवेत् ।
द्व्यङ्गुलं त्र्यङ्गुलं वापि चतुरङ्गुलमेव वा॥
सूत्रं वस्त्राकृतिं कुर्यात्तेन स्यादुत्तरीयकम्॥
इदमुत्तरीयं यज्ञोपवीतेन सह योज्यम् ।
“अजिनंवासोवादक्षिणतउपवीयदक्षिणंबाहुमुद्धरतेऽवधत्तेसव्य"मित्यापस्तम्बोक्तेः। यज्ञोपवीतेनापि द्विवस्त्रता सम्पादनीया । तथा च मनुः—
यज्ञोपवीते द्वे धार्येश्रौते स्मार्ते च कर्मणि ।
तृतीयमुत्तरीयार्थं वस्त्राभावे चतुर्थकम्॥ इति ।
अत्र विशेषः सङ्ग्रहे—
**उत्तरीयं योगपट्टं तर्जन्यां रजतं तथा ।
न जीवत्पितृकैर्धार्यं ज्येष्ठो वा विद्यते यदि॥**इति ।
जीवत्पित्रग्रजो नोत्तरीयं कुर्यादित्यत्रोत्तरीयं नोपरिवासोमात्रम् ।“मृदोरू करौ प्रक्षाल्ये"तिसूत्रम् ।वस्त्रपरिधारणानन्तरं मृदाद्भिश्चोरूलोकप्रसिद्धे जङ्घे हस्तौ चप्रक्षालयेत् । तथा चोक्तम्—
स्नात्वा निरस्य वासोऽन्यज्जङ्घेप्रक्षाल्य चाम्भसा ।
अपवित्रीकृते ते तु कौपीनच्युतवारिणा॥
ततस्तीर्थमृत्तिकया तिलकं भस्मना त्रिपुण्ड्रमुभयं वा यथा वा श्रद्धया कुर्यात् । धर्मप्रवृत्तौ—
ललाटे तिलकं कुर्यान्मृदा वापि च भस्मना ।
तदभावे तु तोयेन चन्दनेनापि वै द्विजः॥
ऊर्ध्वपुण्ड्रंमृदा कुर्यात्तिर्यक्चैव तु भस्मना ।
चन्दनेनोभयं कुर्यादन्यथा नरकं व्रजेत्॥
आचारप्रदीपे विशेषमाह—
ऊर्ध्वपुण्ड्रंद्विजस्योक्तं क्षत्रियस्य त्रिपुण्ड्रकम् ।
अर्द्धचन्द्रन्तु वैश्यस्य वर्तुलं शुद्रजातिषु॥
**यद्वासमस्तजातीनामूर्द्धपुण्ड्रंपरं स्मृतम्॥**इति ।
अथ ऊर्ध्वपुण्ड्रकरणप्रकारमाह ।ब्रह्माण्डे—
पर्वताग्रेनदीतीरे मप क्षेत्रे विशेषतः ।
सिन्धुतीरे व वल्मीके तुलसीमूलमाश्रिते॥
मृद एतास्तु सङ्ग्राह्या वर्जयेदन्यमृत्तिकाः ।
अङ्गुष्ठ पुष्टिदः प्रोक्तो मध्यमायुष्करी भवेत्॥
अनामिकान्नदा नित्यं मुक्तिदा च प्रदेशिनी ।
एतैरङ्गुलभेदैस्तु कारयेन्ननखैः स्पृशेत्॥
नासामूलं समारभ्य वंशपत्रनिभं शुभम् ।
वंशकामो द्विजः कुर्यात्तिलकं चन्दनादिना॥
गोपीनाथीये—
ललाटे हृदि बाह्वोश्चचतुष्पुण्ड्राणि धारयेत् ।
मूर्त्तयो वासुदेवाद्याश्चतुष्पुण्ड्रेषु धारयेत्॥
द्वयोर्गोविन्दकृष्णौ तु एकं नारायणं धरेत् ।
एवं पुण्ड्रविधिः प्रोक्तः सर्वेषां गिरिजे! मया॥
यज्ञदानं तपश्चर्या जपहोमादिकं च यत् ।
ऊर्ध्वपुण्ड्रधरः कुर्यात्तस्य पुण्यमनन्तकम्॥
ब्रह्मघ्नोवाऽथ गोघ्नोवा हेतुकःसर्वपापकृत् ।
गोपीचन्दनसम्पर्कान्मुक्तो भवति तत्क्षणात्॥
अभ्यङ्गे सूतके चैव विवाहे पुत्रजन्मनि ।
माङ्गल्येषु च सर्वेषु न धार्यं गोपिचन्दनम्॥
**अभ्यङ्गोत्सवकाले तु कस्तूरीचन्दनादिना॥**इति ।
अथ त्रिपुण्ड्रमाहशैवैस्तिर्यक्पुण्ड्रमपि धार्यम् । तदुक्तं स्कान्दे—
अग्निहोत्राग्निजं भस्म अग्निकार्योद्भवं तथा ।
औपासनात्समुत्पन्नं लक्षहोमोद्भवं तथा॥
महारुद्राग्निजं भस्म रुद्रस्थानोद्भवं तथा ।
भस्मानि पड्विधान्याहुः सर्वपापहराणि च॥
त्रैवर्णिकानां सर्वेषामग्निहोत्रसमुद्भवम् ।
अग्निकार्यात्समुत्पन्नं तद्धार्यंब्रह्मचारिणा॥
आवसथ्याग्निसम्भूतं गृहस्थैरेव धार्यते ।
शेषं भस्मत्रयं चैव सर्वैः सर्वत्र धार्यते॥
अगस्त्यः—
प्रातस्तु सजलं भस्म मध्याह्नेचन्दनान्वितम् ।
सायन्तु केवलं भस्म शैवैर्धार्यंसदैव तु॥
स्मृतिरत्नावल्याम्ः—
मध्याङ्गुलित्रयेणैव स्वदक्षिणकरस्य च ।
त्रिपुण्ड्रंधारयेद्विद्वान्सर्वकल्मषनाशनम्॥
तर्जन्यनामिकाङ्गुष्ठैरनुलोमविलोमतः ।
अतिस्वल्पमनायुष्यमतिदीर्घन्तपःक्षयम्॥
**नेत्रयुग्मप्रमाणेन त्रिपुण्ड्रं धारयेद्विजः॥**इति ।
मध्याङ्गुलित्रयेणेति नियमस्तु ललाटातिरिक्तस्थले एव ।
ऊर्ध्वपुण्ड्रे त्रिपुण्ड्रंस्यान्नोर्द्धपुण्ड्रंत्रिपुण्ड्रके।
ततः शाखोक्तविधिना नित्यं कर्म समारभेत्॥ इति ।
“आचम्य त्रिरायम्यासूनि"ति सूत्रम् \। कुशासने उपविष्टः सन्त्रिस्त्रीन्वारान् असून प्राणान् आयम्य सन्निरुध्यात् । बृहस्पतिः—
बद्धासनमथाचम्य स्मृत्वा चार्षादिकं ततः ।
सुसम्मीलितदृङ् मौनी प्राणायामान्समाचरेत्॥
स्कान्दे—
गायत्रीं शिरसा सार्धं सप्तव्याहृतपूर्विकाम् ।
त्रिर्जपेत्सदशोङ्कारां प्राणायामोऽयमुच्यते॥
कात्यायनः—
भूराद्यास्तिस्त्र एवैता महाव्याहृतयोऽव्ययाः ।
महर्जनस्तपः सत्यं गायत्री च शिरस्तथा॥ इति ।
प्रतिप्रतीके प्रणवमुच्चारयेत् ।शिवः—
पुनश्चैवं त्रिभिः कुर्याद्गृहस्थश्च त्रिसन्धिषु \।
ब्रह्मचर्याश्रमस्थानां वनस्थाना महामुने !॥
प्राणायामो विकल्पेन प्रोक्तो वेदान्तवेदिभिः॥
याज्ञवल्क्यः—
दक्षिणे रेचयेद्वायुं वामेनापूरितोदरम् ।
कुम्भेन धारयेन्नित्यं प्राणायामं विदुर्बुधाः॥
विष्णुपुराणे—
पूरकःपूरणं वायोः कुम्भकः स्थापनं क्वचित् ।
बहिर्निस्सरणं तस्य रेचकः परिकीर्तितः॥
पीडयेद्दक्षिणां नाडीमङ्गुष्ठेन तथोत्तराम् ।
कनिष्ठानामिकाभ्यां च मध्यमां तर्जनीं त्यजेत् ।
व्यासः—
अङ्गुष्ठतर्जनीभ्यान्तु ऋग्वेदी सामगायनः ।
अङ्गुष्ठानामिकाभ्यान्तु ग्राह्या सर्वैरथर्वभिः॥
“पुष्पाण्यम्बुमिश्राण्यूर्ध्वंप्रक्षिप्ये"ति सूत्रम् ।पुष्पाणि कुसुमानि अभावे बिल्वादिपत्राणि अम्बुमिश्राणि जलयुक्तानि अञ्जलिनागृहीत्वोर्ध्वमुपरि सूर्याभिमुखस्तिष्ठन् ॐकारव्याहृतियुता गायत्र्योत्सृजेत् ।
तथा चोक्तंकौर्मे—
ओङ्कारव्याहृतियुतां गायत्रीं वेदमातरम् ।
कृत्वा जलाञ्जलिमूर्ध्वं भास्करं प्रति जन्मना॥
वेदमातरमुच्चार्येत्यध्याहारः ।जन्मना द्विजन्मना । योगीशः—
कराभ्यां तोयमादाय गायत्र्याचाभिमन्त्रितम् ।
आदित्याभिमुखस्तिष्ठँस्त्रिः क्षिपेत्सन्ध्ययोर्द्वयोः॥
मध्याह्नेतु सकृच्चैव क्षेपणीयं द्विजातिभिः ।
ईषन्नम्रः प्रभाते तु मध्याह्ने ऋजुसंस्थितः ।
**उपविश्य तु सायाह्नेभूमावर्घ्यं विनिक्षिपेत्॥**इति ।
विधानपारिजाते—
द्वौपादौ तु समौ कृत्वा पार्ष्णीउद्धृत्यनिःक्षिपेत् ।
मुक्तहस्तेन दातव्यं मुद्रां तत्र न कारयेत्॥
तर्जन्यङ्गुष्ठयोर्योगे राक्षसी मुद्रिका भवेत् ।
राक्षसीमुद्रया दत्तं तत्तोयं रुधिरं भवेत्॥
शातातपः—
जलेऽप्यर्घ्यंप्रदातव्यं जलाभावे शुचिस्थले।
प्रातर्मध्याह्नयोःकालेउत्थायार्घ्यं जले क्षिपेत्॥
उपविश्य तथा सायङ्काले चार्घ्यं स्थले क्षिपेत् ।
असावादित्यमन्त्रेण सोदकेनैव पाणिना॥
प्रदक्षिणमुपव्रज्य त्वाचमेत्सन्ध्ययोर्द्वयोः॥
अत्रार्घदाने हेतुमाह स्कान्दे—
त्रिंशत्कोट्यो महावीर्या मन्देहा नाम राक्षसाः।
कृष्णातिदारुणा घोराःसूर्यमिच्छन्ति खादितुम्॥
ततो देवगणाः सर्वे ऋषयश्च तपोधनाः ।
उपासते सदा सन्ध्यां प्रक्षिपन्त्युदकाञ्जलिम्॥
दह्यन्ते तेन ते दैत्या वज्रीभूतेन वारिणा ।
ततः प्रयाति भगवान्ब्राह्मणैरभिरक्षितः॥
बालखिल्यादिभिश्चैव जगतः पालनोद्यतः ।
पश्चाज्जपेच्च सावित्रीं मादक्षिण्यविवर्तनम्॥
कुर्याज्जलेन नासां च चक्षुः श्रोत्रमुपस्पृशेत्॥
धर्मप्रवृत्तौ—
मन्देहानां विनाशाय निक्षिपेत्तु त्रिरञ्जलीन् ।
प्रायश्चित्तार्थमाचम्य मुच्यते दैत्यहत्यया॥ इति॥
“ऊर्ध्वबाहुः सूर्यमुदीक्षन्नुद्दूयमुदुत्यञ्चित्रन्तच्चक्षुर्गायत्र्याचयथाशक्ति व्विभ्राडित्यनुवाकपुरुषसूक्तशिवसङ्कल्पमण्डलब्राह्मणै-
रित्युपस्थाय प्रदक्षिणीकृत्य नमस्कृत्योपविशेद्दर्भेष्वि"तिसूत्रम् ।ऊर्ध्वौसूर्याभिमुखौ बाहू यस्य स ऊर्ध्वबाहुः । अत्र विशेषमाहकश्यपः—
हस्ताभ्यां स्वस्तिकं कृत्वा प्रातस्तिष्ठेद्दिवाकरम् ।
मध्याहे तु ऋजू बाहू सायं मुकुलितौकरौ॥ इति॥
सूर्यमुदीक्षन् आदित्यमुदीक्षमाणः ।शातातपः—
तिष्ठंश्चेद्वीक्ष्यमाणोऽर्कं जपं कुर्यात्समाहितः ।
अन्यथा प्राङ्मुखः कुर्यात्समासीनः कुशासने॥
“उद्वयमुदुत्यं चित्रं तच्चक्षु”रित्यादिभिः । ऋग्भिः गायत्र्या यथाशक्ति । स्कान्दे—
उद्वयन्तदुदुत्यं च चित्रन्देवेति तत्परम् ।
तच्चक्षुरित्युपस्थानमन्त्राब्रह्मस्य सिद्धिदाः॥
सहस्रपरमां देवीं शतमध्यां दशावराम् ।
इत्यादि । अथ जपधर्माः ।विधानपरिजाते व्यासः—
तेजोसीति जपेन्मन्त्रं गायत्र्यावाहने द्विजः ।
प्रणवव्याहृतियुतां गायत्रीं च जपेत्ततः॥
योगीश्वरः—
ॐकारं पूर्वमुच्चार्य भूर्भुवःस्वस्तथैव च ।
गायत्री प्रणवश्वान्ते जपो होष उदाहृतः॥
अन्ते प्रणवोच्चारस्तु वमस्थसंन्यासिनामेव । तथा च स्मृतिसारे—
गृहस्थो ब्रह्मचारी वा प्रणवाद्यामिमां जपेत् ।
अन्ते यः प्रणवं कुर्यान्नासौ सिद्धिमवाप्नुयात्॥
पारिजाते—
समाहितमनास्तूष्णीं मनसा चापि चिन्तयेत् ।
ध्यायेच्च मनसा मन्त्रं जिह्वोष्ठौन विचालयेत्॥
**न कम्पयेच्छिरोग्रीवां दन्तान्नैव प्रकाशयेत्॥**इति ।
जपसंख्यामाह ।मनुः—
ब्रह्मचारी गृहस्थश्च शतमष्टोत्तरं जपेत् ।
वानप्रस्थो यतिश्चैव सहस्रादधिकं जपेत्॥
शौनकः—
अष्टोत्तरशतं नित्यमष्टाविंशतिरेव च ।
विधिना दशकं वापि त्रिकालेषु जपेद्द्विजः॥
व्यासः—
प्रातर्मध्याह्नयोस्तिष्ठन्गायत्रीजपमाचरेत् ।
ऊर्ध्वजानुस्तु सायाह्ने ध्यानालोकनतत्परः॥
प्रातर्नाभौकरौकृत्वा माध्याह्नेहृदि संस्थितौ ।
सायं जपति नासाग्रे जपश्च त्रिविधः स्मृतः॥
गोपीनाथीये व्यासः—
वस्त्रेणाच्छाद्य स्वकरं दक्षिणं यः सदा जपेत् ।
तस्य तत्सफलं जाप्यं तद्विना निष्फलं भवेत्॥
जपकालेत्वक्षमालांगुरोरपि न दर्शयेत् ।
उल्लङ्घिते तथा मेरौ पतिते चाक्षसूत्रके॥
प्राणायामत्रयंकृत्वा घृतप्राशनमाचरेत्॥
अथ जपमालाप्रकारः । पाद्मे—
अरिष्टं पुत्रजीवं च शङ्खं पद्मं तथा मणिम् ।
कुशग्रन्थिं च रुद्राक्षमुत्तमं चोत्तरोत्तरम्॥
अष्टोत्तरशतं संख्या मणीनां श्रेयसी भवेत् ।
तदर्धसंख्या कथिता मध्यमा चाधमा पुनः॥
**सप्तविंशतिसंख्याता ततो नैवाधमा भवेत्॥**इति॥
तर्जन्या न स्पृशेत्सूत्रं न कम्पेन्न विधूनयेत् ।
अङ्गुष्ठस्य तु मध्यस्थं परिवर्त्तं समाचरेत्॥
मध्यमाकर्षणं तस्याः सर्वसिद्धिप्रदायकम् ।
नान्याङ्गुलीभिराकर्षेन्ननखैश्च तथा स्पृशेत्॥
अभावे त्वक्षमालायाः कुशग्रन्थ्याऽथ पाणिना॥
पाणिमाला चेत्थम्—
अनामिकाया मध्ये च मध्याधःप्रक्रमेण च ।
तर्जन्यादिगतान्ते च अक्षमाला करे स्थिता॥
अस्यार्थः–अनामिकामध्यरेखामादिं कृत्वा तदधःक्रमेण प्रदक्षिणावर्तं तर्जन्या आदिरेखा अन्ते कार्या । सेयं करे स्थिता मालेत्यर्थः । यमः—
मध्यमादिपर्वद्वयं जपकालेतु वर्जयेत् ।
स तं मेरुं विजानीयाद्दूषितं ब्रह्मणा स्वयम्॥
अङ्गुष्ठाग्रे च यज्जप्तं यज्जप्तं मेरुलङ्घनात् ।
असङ्ख्यातन्तु यज्जप्तं तत्सर्वं निष्फलं भवेत्॥
गायत्रीजपे तु करमालैव प्रशस्ता विधानपारिजाते—
पर्वभिस्तु जपेद्देवीमन्यत्रानियमः स्मृतः ।
गायत्र्या वेदबीजत्वाद्वेदः पर्वसु गीयते॥
धर्मप्रवृत्तावपि—
गायत्रीं वेदमूलत्वाद्वेदः पर्वसु गीयते ।
पर्वभिस्तु जपेद्देवीं न मालाभिः कदाचन॥
विशेषमाह याज्ञवल्क्यः—
सर्वेषां चैव पापानां सङ्करेसमुपस्थिते ।
दशसाहस्रिकोऽभ्यासो गायत्र्याः शोधनं परम्॥
मन्त्रसिद्धिकामस्य चतुर्विंशतिलक्षजप उक्तः । शारदातिलके—
तत्त्वलक्षं विधानेन भिक्षाशी विजितेन्द्रियः ।
व्याहृतित्रयसंयुक्तां गायत्रीं दीक्षितो जपेत्॥
तथा—
गृहे त्वेकगुणं ज्ञेयं नद्यान्तु द्विगुणं स्मृतम् ।
गवां गोष्ठे दशगुणमग्न्यगारे दशार्धकम्॥
सिद्धिक्षेत्रेषु सर्वेषु देवतायाश्च सन्निधौ ।
सहस्रं शतकोटीनामनन्तं विष्णुसन्निधौ॥
अथ गायत्रीजपनिषेधमाह—
पतितानामन्त्यजानां दर्शने भाषणे श्रुते ।
क्षुतेऽधोवातगमने जृम्भणे जपमुत्सृजेत्॥
विधानपारिजाते—
यज्जले शुष्कवस्त्रेण स्थलेचैवार्द्रवाससा ।
जपो होमस्तथा दानं तत्सर्वं निष्फलं भवेत्॥
व्यासः—
**आर्द्रवासाश्च यः कुर्याज्जपं होमं प्रतिग्रहम् ।
सर्वन्तद्राक्षसं विन्द्याद्बहिर्ज्जानुच यत्कृतम्॥**इति ।
“विभ्राडि"त्यनुवाकेन पुरुषसूक्तेन “सहस्रशीर्षे"त्यादिषोडशर्चेनशिवसङ्कल्पेन “यज्जाग्रत” इत्यादिषडर्चेन काण्वश्चेदेकया ऋचा मण्डलब्राह्मणेन उपस्थाय सूर्यं स्तुत्वा तमेव प्रदक्षिणीकृत्य नमस्कृत्य च कायवाङ्मनोभिः प्रणम्य उपविशेत् आसीत्। अत्र सायं प्रातः सन्ध्योपासनं"विभ्राडा"दिरहितमिदमेव कार्यम् । मध्याह्नसन्ध्यायां गायत्रीजपोत्तरं"विभ्राडा"दि जपेत् । तथा च कात्यायनः—
सन्ध्यात्रयेषूपस्थानमेतदाहुर्मनीषिणः ।
मध्ये त्वह्नउपर्यस्य विभ्राडादीच्छयाजपेत्॥
स्कान्दे—
विभ्राडित्यनुवाकं वा सूक्तं वा पौरुषं जपेत् ।
शिवसङ्कल्पमथ वा मण्डलब्राह्मणं तु वा॥
एतानि चोपस्थानानि रविप्रीतिकराणि च॥ इति ।
एवं यत्कात्यायनाचार्येण सन्ध्योपासनमुक्तं तत्काण्वमाध्यन्दिनानांपञ्चदशशाखिनां च स्वगृह्योक्तत्वाच्छास्त्रानुष्ठानसिद्धिकरम् । यत्पुनः सायंप्रातः सन्ध्योपासनं शाखान्तराधिकरणन्यायेनेदमेव कल्पतरुकारप्रभृतिनिबन्धकारैराह्निकपद्धतिकारैश्च स्मृत्यन्तरोक्तं “मित्रस्य चर्षणी, इमम्मे"इत्यादिकंसन्ध्योपासनमुचितंलिखितं,तत्सर्ववेदशाखाध्येतृसाधारणत्वात्सर्वशाखिना- मनुष्ठातुमुचितम् । तत्रापि यदि स्मृत्यन्तरस्थं गृह्यते
तर्हियोगियाज्ञवल्क्यकात्यायनोक्तमेव ग्राह्यम् \।एतच्छाखाध्येतृप्रसिद्धेः ।
हरिहरादयोऽप्येवमेव। आवेशनानन्तरं किं कुर्यादित्याह–“दर्भवाणिः
स्वाध्यायं च यथाशक्त्यादावारभ्य वेद"मिति सूत्रम् । उपग्रहातिरिक्तदर्भाः पाण्योर्यस्य स दर्मपाणिः सः । स्वाध्यायं ब्रह्मयज्ञं स्वशाखाध्ययनम् । तथा च लिङ्गपुराणे—
स्वशाखाध्ययनं विप्र ! ब्रह्मयज्ञ उदाहृतः॥ इति ।
चकारात् अभ्यशाखाथर्वाङ्गिरसपुराणेतिहासादीनां चाध्ययनं शक्त्यनुसारेण कुर्यात् । किन्तु आदौ आदित आरभ्योपक्रम्य किं वेदं मन्त्रब्राह्मणात्मकम् । अत्र वेदमित्येकवचनादनेकवेदाव्यायिनोऽपि एकं वेदमारभ्य प्रतिदिनमुपर्युपरि अध्ययनेन समाप्यवेदान्तरं पठेयुः । तथैवाथर्वंपुराणादीनि । याज्ञवल्क्यः—
वेदाथर्वपुराणानि सेतिहासानि शक्तितः ।
ब्रह्मयज्ञप्रसिद्ध्यर्थं विद्यां चाध्यात्मिकींजपेत्॥ इति ।
शौनकः—
ॐकार व्याहृतीस्तिस्रो गायत्रीं त्रिपदां तथा ।
मनसैवमनुस्मृत्य वेदादिकमुपक्रमेत्॥
याज्ञवल्क्यः—
आदावारभ्य वेदन्तु स्नात्वोपर्युपरि क्रमात् \।
यदधीते स्वयं शक्त्या स स्वाध्याय इति श्रुतिः॥
गोपीनाथी ये स्मृतिः—
स्वरवर्णोभयोपेतं मन्त्रस्थानक्रियान्वितम् ।
वेदमेवं पठेद्यस्तु स्वाध्यायफलमश्नुते॥
मनुः—
इहैव स नखाग्रेभ्यः परमं तप्यते तपः ।
ऋचं वा यो द्विजोऽधीते स्वाध्यायं शक्तितोऽन्वहम्॥
वेदोपकरणे चैवजपे चैव तु नैत्यिके \।
नानुरोधोऽस्त्यनध्याये होममन्त्रेषु चैव हि \।\।
ब्रह्मयज्ञे पुरुषसूक्तस्य फलातिशय उक्तः । मात्स्ये—
ब्रह्मयज्ञे जपेत्सूक्तं पौरुषं चिन्तयन्हरिम् \।
स सर्वाञ्जपते वेदान्साङ्गोपाङ्गान्द्विजोत्तमः॥ इति ।
कालान्तरेऽपि ब्रह्मयज्ञः स्मर्यते । छन्दोगपरिशिष्टे कात्यायनः—
यक्ष श्रुतिजपः प्रोक्तो ब्रह्मयज्ञस्तु स स्मृतः ।
स चार्वाक्तर्पंणात्कार्यः पश्चाद्वा प्रातराहुतेः॥
वैश्वदेवावसाने वा नान्यत्रेत्यनिमित्तकात्॥ इति ।
श्रुतौ पञ्चमहायज्ञसन्निहितपठितत्वात्तत्रैवेति गम्यते । अतः काण्वमाध्यन्दिनीयैर्वैश्वदेवावसान एवानुष्ठेय इति । आश्वलायनैस्तु मध्याह्नसन्ध्यायाः प्राक् । तदुक्तम्—
आवर्तनेश्वगाह्यापः कुशपाणिस्तु बह्वृचः \।
ब्रह्मयज्ञञ्च कुर्वीत सन्ध्यां माध्याह्निकींततः॥
स्नानं कृत्वा तु मध्याह्ने द्विजः सन्ध्यामुपासते \।
ब्रह्मयज्ञं ततः कुर्यात्तर्पणं तैत्तिरीयकः॥ इति ।
यदि स्मृत्यन्तरस्थं गृह्यते तर्हियोगियाज्ञवल्क्य्कात्यायनोक्तमेव ग्राह्यम्, एतच्छाखाध्येतृप्रसिद्धेः । “उत्तमे शिखरे जात” इति विसर्जनं कृत्वा ब्रह्मार्पणंकार्यम् \। याज्ञवल्क्यः—
करे नीरं समादाय देवा गात्वितिमन्त्रतः ।
निवेदयेज्जपं मातः प्रयोगस्तत्र कथ्यते॥
प्रातःसन्ध्याङ्गभूतेन गायत्र्यास्तु जपेन च ।
साष्टशतसंख्येन ब्रह्मा मे प्रीयतां रविः॥
एवं सन्ध्यावन्दनादिकं मुख्यकाल एव कर्तव्यम् । तथा च मिताक्षरायाम्—
काले फलन्त्यौषधयः काले पुष्यन्ति पादपाः ।
वर्षन्ति तोयदाः काले तस्मात्कालं न लङ्घयेत्॥
प्रातःसन्ध्यांसनक्षत्रां मध्यमां स्नानकर्मणि ।
सादित्यां पश्चिमां सन्ध्यामुपासीत यथाविधि॥
अयं मुख्यकालः स्नानकर्मणि मध्याह्नस्नानान्तरमित्यर्थः । मुख्यकाले सन्ध्यावन्दनाकरणे प्रायश्चित्तं व्यासः—
आदित्योऽभ्युदियाद्यस्य सन्ध्योपास्तिमकुर्वतः ।
स्नात्वा प्राणॉस्त्रिरायम्य गायत्र्यष्टशतं जपेत्॥
कात्यायनः—
सन्ध्याकालेव्यतिक्रान्ते जपं कुर्यात्पुनर्म्मनः ।
ऋचं वाचमूचंजप्त्वा ततः सन्ध्यामुपासते॥
पारिजाते तु—
कालातिक्रमणे चैव चतुर्थार्घ्यंप्रदापयेत्॥
सङ्गवपर्यन्तं प्रातःसन्ध्यागौणकालः । आप्रदोषावसानं सायंसन्ध्याया इति मण्डनः । स्मृतिसारे—
उदयात्प्राक्तनी सन्ध्या घटिकात्रयमुच्यते ।
सायंसन्ध्या विघटिका अस्तादुपरि भास्वतः॥
उदयास्तमयादूर्ध्वंयावत्स्याद्घटिकात्रयम् ।
तावत्सन्ध्यामुपासीत प्रायश्चित्तमतः परम्॥
मध्याह्नेतु दक्षः—
अध्यर्द्धयामादासायं सन्ध्या माध्याह्निकष्यते \।
अर्धप्रदानत पूर्वमुदयास्तमयेऽपि वा॥
गायत्र्यष्टशतं जप्यं प्रायश्चित्तं द्विजातिभिः॥ इति ।
गौणकालेऽप्यसम्भवे यमः—
दिवोदितानि कर्माणि प्रमादादकृतानि चेत् ।
शर्वर्याः प्रथमे यामे तावत्कुर्याद्यथाक्रमम्॥
अत्र मुख्यकालानुरोधात् सायंसध्योपासनं पूर्वं कृत्वा “आगन्तुकानामन्ते निवेश” इति न्यायेनातीतकालं कर्म पश्चारकार्यमिति न्यायतः प्राप्तम् ।
मध्याह्ने समतिक्रान्ते सायङ्कालो भवेद्यदि ।
सायंसन्ध्यामुपास्यादौ सन्ध्या माध्याह्निकी तदा॥
धर्मप्रवृत्तौ शङ्खः—
सायङ्कालोव्यतीतश्चेदस्तं याते दिवाकरे ।
कुर्यादावर्त्तिनीं सन्ध्यां समारभ्य यथाक्रमम्॥
आवर्त्तनो मध्याह्नस्तस्येयं सन्ध्येत्यर्थः ।
कुर्वीतावर्तिनीं सन्ध्यां रात्रावपि न दुष्यति ।
दद्यादर्धन्तु गायत्र्या सौरसूक्तोविवर्जिता॥
मध्याह्नसन्ध्या रात्रौ चेत्प्रमादात्क्रियते यदि ।
सौरस्थाने जपेत्सूक्तं सौरं वैश्वानरात्मकम्॥ इति ।
तस्य निषेधार्थं यथाक्रममिति वचनमिति मदनपारिजाते—
दिवोदितानि कर्माणि प्राप्नुवन्त्युत्तरराणि च ।
दिवोदितानि कृत्वैव विदध्यादुत्तराणि तु॥
अनगाहं ब्रह्मयज्ञं सौरजप्यं च वर्जयेत्॥ इति ।
स्नानं सन्ध्यां त्यजन्विप्रःसप्ताहाच्छूद्रतां व्रजेत् ।
तस्मात्स्नानं च सध्यां च सूतकेऽपि न सन्त्यजेत्॥
सूतके मृतके चैव सन्ध्याकर्म समाचरेत् ।
मनसोच्चारयेन्मन्त्रान्प्राणायाममृते द्विजः॥
प्राणायाममन्त्रा मनसा नोच्चार्या इत्यर्थः । पैठीनसिस्तु—
“सूतके सावित्र्याञ्जलिं प्रदक्षिणं कृत्वा सूर्यंध्यायन्नमस्कुर्या-“दित्यर्घ्यदानपर्यन्तांसन्ध्यामाह—
उच्चार्य वाचा गायत्रीं दद्यादर्घाञ्जलीनपि ।
अष्टाविंशतिकृत्वोऽत्र गायत्रीं मनसा जपेत्॥
इत्यनेन गायत्रीजपमपि केऽप्याहुः । अत्र यथाचारं व्यवस्थेयम् । अत्र जपात्पूर्वंपश्चाद्वोमयत्र वा मुद्रा दर्शनीयाः । ताश्चोक्ता विधानपारिजाते गायत्रीहृदये—
सुमुखं १ सम्पुटं २ विततं ३ विस्तीर्णं ४ द्विमुखं ५ त्रिमुखं ६ चतुर्मुखं ७ पञ्चमुखं ८ षण्मुखं ९ अधोमुखं १० व्यापकाञ्जलिकं ११शकटं१२ यमपाशं १३ ग्रन्थितं १४ सन्मुखान्मुखं १५ प्रलम्बं१६ मुष्टिकं १७ मत्स्य : १८ कूर्मः १९ वराहकं २० सिंहाक्रान्तं २१ महाक्रान्तं २२ मुद्रं २३ पल्लवं २४ \। आसां लक्षणा-
नि विधानपारिजाते—
सुमुखं संहतौ हस्तावुत्तानौ कुञ्चिताङ्गुली ।
सम्पुटं पद्मकोशाभौ तावेवान्योन्यसंहतो॥
विततं संमुखौ हस्तावुत्तानावायताङ्गुली ।
विस्तीर्णं संहतौ पाणी मिथो मुक्ताङ्गुलिद्वयौ॥
सम्मुखात्सन्त्यक्तपाण्योः कनिष्ठाद्वययोगतः ।
शेषाङ्गुलीनां वैरल्याद्विमुखप्रमुखादयः॥
अस्यार्थः– सुमुखम् । संमुखात्सन्त्यक्तपाण्योः कनिष्ठाद्वययोगेन शेषाङ्गुलीनां विरलत्वेनाङ्गुष्ठद्वयमारम्यानामिकान्तं यावत् द्विमुखात्रिमुखचतुर्मुखपञ्चमुखा मुद्राः स्युः ।
शेषाङ्गुलीनां संयोगात्पूर्वयोगविनाशतः ।
तिर्यक् संयुज्यमानाग्रौ संयुक्ताङ्गुलिमण्डलौ॥
हस्तौ षण्मुख इत्युक्ता मुद्रा मुद्राविशारदैः॥
अत्र पूर्वयोगविनाशत इत्यत्र पूर्वयोगः कनिष्ठाद्वययोगस्तद्विनाशेनेत्यर्थः । शेषं सुगमम् ।
आकुञ्चिताग्रौसंयुक्तौ न्युब्जौ हस्तावधोमुखम् ।
उत्तानौतादृशावेव व्यापकाञ्जलिकं करौ॥
अधोमुखौ बद्धमुष्टी बद्धाग्राङ्गुष्टकौ करौ॥
शकटं नाम कथित “मिति ।
बद्धमुष्टिकयोः पाण्योरुताना वामतर्जनी ।
कुञ्चिताग्राऽन्यथा युक्ता तर्जन्या न्युब्जवक्रया॥
यमपाशमिति \।
अस्यार्थः– बद्धमुष्टिकयोः पाण्योर्या उत्ताना कुच्चिताग्रावामतर्जनी साऽन्यथा दक्षिणतर्जन्या न्युब्जवक्रया युक्ता यमपाशमुद्रेति ।
उत्तानसन्धिसंलीनबद्धाङ्गुलिदलौ करौ।
सम्यगुद्घाटितौ दीर्घावङ्गुष्ठौ ग्रन्थमुच्यते॥
उत्तानानि सन्धिसंलीनानि बद्धान्यङ्गुलिदलानि ययोस्तौ तथोक्तौ । शेषं सुगमम् ।
सञ्चितोर्ध्वङ्गुलिर्वामस्तादृशा दक्षिणेन तु ।
अधोमुखेन संयुक्तः सन्मुखोन्मुख उच्यते॥
उत्तानोन्नतकोटी च विलम्बः कथितः करौ।
मुष्टी चान्योन्यसंयुक्तावुत्तानौ मुष्टिको भवेत्॥
मीनस्तु सम्मुखीभूतौ युक्तानामकनिष्ठिकौ ।
ऊर्ध्वसंयुक्तवत्क्राग्रं शेषाङ्गुलिदलौ करौ॥
युक्ते संयुक्ते अनामिकाकनिष्ठिके ययोस्तौ तथोक्तौ तावन्योन्यसम्मुखीभूतौ । तथा ऊर्ध्वसंयुक्तानि वाक्राग्राणि शेषाङ्गुलिदलानि ययोः करयोस्तौमीनो नाम मुद्रा ।
अधोमुखकरो वामस्तादृशा दक्षिणेन तु ।
पृष्ठदेशे समाक्रान्तः कूर्मो नामाभिधीयते॥
ऊर्ध्वमध्यो वामभुजो करे दक्षकराश्रये ।
वराहेति॥
दक्षकराश्रये करे सति उक्तलक्षणो वामभुजो वाराही नाम मुद्रा ।
यथातथाङ्गुली सिंहाक्रान्तकर्णाश्रितौ करौ ।
किञ्चिदाकुञ्चिताप्रौचेन्महाक्रान्तं ततः परम्॥
तावेव कुञ्चिताग्रौमहाकान्तं नाम मुद्रा ।
ऊर्ध्वं किञ्चिद्गतौ पाणी मुद्गरोवामतर्जनी॥
अस्यार्थः–किञ्चिदूर्ध्वगतयोः पाण्योर्या वामतर्जनी दक्षिणहस्तेन गृहीता सा मुद्गरमुद्रा ।
अधोमुखस्थितो मूर्ध्नि पल्लवो दक्षिणः करः॥
अस्यार्थः– उक्तलक्षणवामतर्जन्याः मूर्ध्नि अधोमुखस्थितः करः पल्लवो नाम मुद्रा ।
न जातु दर्शयेन्मुद्रां महाजनसमागमे ।
देवास्तस्य न पश्यन्ति विफलं च कुतं भवेत् ॥ इति ।
तस्माद्रहस्येव मुद्रा दर्शनीया । अत्रावसरे गायत्रीतर्पणमुक्तं शौनकेन—
अर्धान्ते वा जपान्ते वा प्रागासीनः कुशासने ।
सन्ध्यासुतर्पणं कार्यं स्मृत्वा चर्ष्यादिकं ततः॥ इति ।
<MISSING_FIG href=”../books_images/U-IMG-16986714607899.png”/>
उत्तीर्य29 धौतेवासनी परिधाय मृदोरूकरौ प्रक्षाल्याचम्य त्रिरायम्यासन्पुष्पाण्यम्वुमिश्राण्यूर्द्धंक्षिप्त्योर्ध्ववाहुः सुर्यमुदीक्षन्नुद्रयमुदुत्यंचित्रं तच्चक्षुरिति गायत्र्याच यथाशक्ति विभ्रांडित्यनुवाकपुरुषसूक्तशिवसङ्कल्पमण्डलब्राह्मणैरित्युपस्थाय प्रदक्षिणीकृत्य नमस्कृत्योपविशेद्दर्भेषु दर्भपाणिः स्वाध्यायं च यथाशक्त्यादावारभ्य वेदम्॥ २ ॥
ततस्तर्पयेद्ब्रह्माणं पूर्वंविष्णुर्ठ०रुद्रंप्रजापतिं देवाँश्छ्न्दा<MISSING_FIG href=”../books_images/U-IMG-1698671582Untitled117.png”/>सि वेदानृषीन्पुराणाचार्यान्गन्धर्वानितराच्यार्यान्त्संवत्सर च सावयवं देवीरप्सरसो देवानुगान्नागान्सागरान्पर्वतान्सरितो मनुष्यान्यक्षान्त्रक्षा<MISSING_FIG href=”../books_images/U-IMG-1698671582Untitled117.png”/>सि पिशाचान्त्सुपर्णान्भूतानि पशुन्वनस्पतीनोषधीभूतग्रामश्चतुर्विदधस्तृप्यतामित्योङ्कारपूर्वंततो निवती मनुष्यान् । सनकं च सनन्दनं तृतीयं च सनातनम् । कपिलमासुरिञ्चैव वोढुं पञ्चशिखं तथा । ततोऽपसव्यं तिलमिश्रं कव्यवाडनलर्ठ० सोमं यममर्यमणमग्निष्वात्तान्सोमपा वर्हिषदो यमाँश्चैके । यमाय धर्मराजाय मृत्यवे चान्तकाय च । वैवस्वताय कालाय सर्वभूतक्षयाय च । औदुम्बराय दध्नाय नीलाय परमेष्ठिने। वृकोदराय चित्राय चित्रगुप्ताय वै नम इत्येकैकस्य तिलैर्मिश्राँस्त्रींस्त्रीन्दद्याजलाञ्जलीन् । यावज्जीवकृतं पापं तत्क्षणादेव नश्यति । जीव-
त्पितृकोऽप्येतानन्यांश्चेतर उदीरतामाङ्गिरस आयन्तु न ऊर्ज्जंव्वहन्तीः पितृभ्यो ये चेह मधुव्वाता इति तृचञ्जपन्प्रसिञ्चेत्तृप्यध्वमिति त्रिर्न्नमो व इत्युक्त्वा मातामहानां चैवं गुरुशिष्यत्विग्ज्ञातिबान्धवा न तर्पिता देहादुधिरं पिबन्ति वाम निष्पीड्याचम्य ब्राह्मवैष्णवरौद्रसावित्रमैत्रवाणैस्तल्लिङ्गैरर्चयंददृश्रमर्ठहर्ठास इत्युपस्थाय प्रदक्षिणीकृत्य दिशश्च देवताश्च नमस्कृत्योपविश्य ब्रह्माग्निवृथिव्योषधिवाग्वाचस्पतिविष्णुमहद्भ्योऽद्भ्योऽपाम्पतये वरुणाय नम इति सर्वत्र सं व्यर्चसेति मुखंविमृष्टे देवा गातुविद इति विसर्जयेदेव स्नानविधिरेष स्नानविधिः॥ ३ ॥
“ततस्तर्पयेद्ब्रह्माणं पूर्वंविष्णुं रुद्रं प्रजापतिं देवाँश्छन्दा<MISSING_FIG href=”../books_images/U-IMG-1698672333987.png”/>सि वेदानृषीन्पुराणाचार्यान्गन्धर्वानितराचार्यान्संवत्सरं च सावयवं देवीरप्सरसो देवानुगान्नागासागरान्पर्वतान्त्सरितो मनुष्यान्यक्षात्रक्षा<MISSING_FIG href=”../books_images/U-IMG-1698672333987.png”/>सि पिशाचान्सुपर्णान्भूतानि पशून्वनस्पतीनोपघीर्भूतग्रामञ्चतुर्विधस्तृप्यतामित्योंकारपूर्वं”मिति सूत्रम् ।
“तर्पयेत्” प्रीणयेत् । कं ब्रह्माणम् । कथं ? पूर्व आदौ । केषां ? विष्ण्वादिदेवानाम् । नन्वत्र ब्रह्माणं विष्णुमित्याद्येव वक्तुमुचितं किमर्भमत्र पूर्वपदमिति, पाठक्रमादेव पूर्वस्वसिद्धेः ? सत्यम् । उच्यते स्मृत्यन्तरोक्तंमोदादिषड्विनायकतर्पपूर्वमिति निवृत्यर्थमित्यदोषः । तथा च याज्ञवदक्यः—
**आवाह्य देवताः सर्वा विश्वे देवास इत्यृचा \।
ब्रह्माणं तर्पयेत्पूर्वंविष्णुं रुद्रं प्रजापतिम्॥**इति ।
“साव्यव”मिति चकारात्संवत्सरस्यैवविशेषणम् । ॐ कारपूर्वंप्रणवपूर्वकं तर्पयेदित्यर्थः । तदुक्तं दाल्म्यपरिशिष्टे—
ब्रह्मयज्ञो जपो होमो देवर्षिपितृकर्म च ।
अनोङ्कृत्यकृतं सर्वं न भवेत्सिद्धिकारकम्॥ इति ।
तर्पयेद्ब्रह्माणमित्यत्र तर्पणक्रियायाः कर्मभूतान्ब्रह्मादीनभिधाय “भूतग्रामश्चतुर्विधस्तृप्यता"मित्यत्र प्रयोगमुपदिशन्त्याचार्याः। ततश्च “ॐब्रह्मा तृप्यता"मिति तर्पणे प्रथमान्त एवप्रयोगः कार्यः। गोभिलपरिशिष्टेऽपि—
तर्पणे प्रथमा प्रोक्ता श्राद्धे सम्बुद्धिरुच्येत ।
पिता तर्पणकाले तु पितः ! स्याच्छ्राद्धकर्मणि॥ इति ।
अत्र विसर्जनोपदेशादावाहनमपि द्रष्टव्यम् । तथा च याज्ञवल्क्यः—
आवाह्य पूर्ववन्मन्त्रैरास्तीर्य च कुशान्क्षितौ।
प्रागग्रेषु सुरान्सर्वान्दक्षिणाग्रेषु वै पितॄन्॥
नामगोत्रे समुच्चार्य दद्यात्प्रणवपूर्वकम् ।
नोदकेषु न पात्रेषु न क्रुद्धो नैकपाणिना॥
नोपतिष्ठति तत्तोयं यत्तु भूमौ प्रदीयते॥
यत्तु—
उभाभ्यामपि पाणिभ्यामुदकं यः प्रयच्छति ।
स मूढो नरकं याति कालसूत्रमवाक्शिराः॥
इतिव्याघ्रपाद्वचनं तच्छ्राद्धादिविषयम् । तथा चोक्तम्—
श्राद्धे दाने विवाहे च पाणिनैकेन दीयते ।
तर्पणे तूभयेनैव जलं देयं तु नान्यथा॥
गोभिलः—
द्वो हस्तौ युग्मतः कृत्वा पूरयेदुदकाञ्जलिम् ।
गोशृङ्गमात्रमुद्धृत्य जलमध्ये जलं क्षिपेत्॥
दक्षः—
प्रादेशमात्रमुद्धृत्य सलिलं प्राङ्मुखः सुरान् ।
उदङ्मुखो मनुष्याँश्चपित्रादीन्दक्षिणामुखः॥
तर्पयेदित्यध्याहारः ।शिष्टाचारपरिप्राप्तं यस्मिन्सूक्ष्मपात्रे घृतेऽञ्जलिभङ्गो न भवति तद्ग्राह्यमित्यवधेयम् । तथा च च्छागलेयः—
लघुपात्रं करे कृत्वा सौवर्णंखड्गमेव च ।
राजतं ताम्रजं वापि तेन सन्तर्पयेत्पितॄन्॥
भृगुश्व—
प्रागग्रैस्तर्पयेद्देवानुदगग्रैश्चमानुषान् ।
तेनैव द्विगुणीकृत्य तर्पयेत्प्रयतः पितॄन्॥
द्विगुणीकृत्योभाभ्यामग्राभ्यां पितृतीर्थगताभ्यामित्यर्थः । मनुष्यतर्पणे अग्राणां प्राजापत्यतीर्थेन सम्बन्धः ।गोभिलः—
दर्भाःकृष्णाजिनं गावो मन्त्राग्निब्रिाह्मणाःसुराः ।
नैते निर्माल्यतां यान्ति योज्यमानाः पुनः पुनः॥
अतो देवतर्पणे युक्तैरपि दर्भैर्मनुष्यपितृतर्पणकरणे न प्रत्यवायः । ततो निवती मनुष्यान्देवमानवान् तर्पयेदित्यनुषङ्गः ।भारद्वाजः—
कण्ठावलम्बितं चैव ब्रह्मसूत्रं यदा भवेत् ।
तन्निवीतमिति ख्यातं शस्तं कर्मणि मानुषे॥
योगी च—
मनुष्याणां तथा कुर्यात्तर्पणं कण्ठसञ्जने ।
प्राजापत्येन तीर्थेन तर्पयेद्ब्रह्मणः सुतान्॥
अत्रदिङ्गियमोऽपि नन्दिपुराणे—
ऐशान्यामथ कौवेर्यांब्रह्मपुत्राॅश्च तर्पयेत्॥ इति ।
स्थले तु उदङ्मुख एव । तथा चोक्तं ब्रह्मवैवर्ते—
सौम्याभिमुखतो नित्यमुदगग्रे च वर्हिषि ।
मनुष्याणां च तुष्ट्यर्यं निक्षिपेत्तु जलाञ्जलीनू॥ इति ।
तानेवाह—
सनकं च सनन्दनं तृतीयं च सनातनम् \।
कपिलमासुरिं चैव वोढुपञ्चशिखं तथा॥
इति श्लोकपठिताः सप्त मानुषाः । “ततोऽपसव्यं तिलमिश्रं कव्यवाडनल<MISSING_FIG href=”../books_images/U-IMG-1698718676Screenshot(21”/>.png)सोमं यममर्यमणमग्निष्चात्तान्सोमपो बर्हिषद” इतिसूत्रम् ।ततः मनुष्यतर्पणानन्तरमपसव्यं प्राचीनावीतितां कृत्वा तिलयुक्तं जलं गृहीत्वा कव्यवाडनलादींस्तर्पयेदिति सम्बन्धः ।अग्नि़ष्वात्तदावपि पितृपदं संयोज्यम् । तत्रैवंप्रयोगः–“अग्निष्वात्ताःपितरः सामपाः पितरः
बर्हिषदः पितर” इति । अपसव्यामित्यनेन सव्यजानुपातःदक्षिणाभिमुखताच ज्ञातव्या । तथा च कात्यायनः—
सव्यं जानु ततोऽवाच्य पाणिभ्यां दक्षिणामुखः ।
तल्लिङ्गैस्तर्पयेन्मन्त्रैः सर्वान्पितृगणानपि॥
“यमाँश्चके " इति सूत्रम् ।एके आचार्याःयमांस्तर्पयेदित्याहुः । एकेग्रहणाद्विकल्पः \। यमानेवाह—
“यमाय धर्मराजाय मृत्यवे चान्तकाय च ।
वैवस्वताय कालाय सर्वभूतक्षयाय च॥
औदुम्बराय दध्नाय नीलाय परमेष्ठिने ।
वृकोदराय चित्राय चित्रगुप्ताय वै नमः॥” इतिसूत्रम् ।
चतुर्द्दशमन्त्रैश्चतुर्द्दशयमास्तर्पयेदिति । अत्र केचित्–“यमस्तृप्यता"मिति प्रयोगं कुर्वन्ति, तदसत् । न ह्येतानि देवतापदानि, किं तर्हि ? एते मन्त्राः ।मन्त्राणां च यथाम्नातानामेव प्रयोग इति । यमतर्पणे नमस्कारः सर्वत्र योज्यः। पाद्मेविशेषः—
पितृत्वादपसव्येन दक्षिणाभिमुखस्तिलैः ।
देवत्वाद्देवतीर्थेन यमान्सन्तर्पयेद्बुधः॥ इति ।
पितृतर्पणेऽञ्जलिसंख्यामाह– “एकैकस्य तिलैर्मिश्राँस्त्रींस्त्रीन्दद्याज्जलाञ्जली"नितिसूत्रम् ।एकैकस्य प्रत्येकं कव्यवाडनलादेः तिलैर्मिश्रान्संयुक्तान् जलपूर्णानञ्जलींस्त्रींस्त्रीन् दद्यात् । तथा च व्यासस्मृतिः—
एकैकमञ्जलिंदेवा द्वौ द्वौ तु सनकादयः ।
अर्हन्ति पितरस्त्रींस्त्रीन् स्त्रियश्चैकैकमञ्जलिम्॥
वृद्धशातातपस्तु—
मातृमुख्याश्च यास्तिस्रस्तासां दद्याज्जलाञ्जलीन् ।
त्रीँस्त्रीनेव तथान्यासां दद्यादेकैकमञ्जलिम्॥
विधानपारिजाते शालङ्कायनः—
सपत्न्याचार्यपत्नीनां द्वौ द्वौ दद्याञ्जलाञ्जली॥
सपत्नी सापत्नमाता । आचार्यःप्रसिद्धः । पत्नी आत्मनः । गुर्वा-
दयोऽप्येकाञ्जलिना तर्प्याः। नन्व“पसव्यं तिलमिश्र” मित्यनेनैव तिलप्राप्तौ पुनस्तिलशब्दोपादानं व्यर्थम् ? सत्यम् ।‘स्मृत्यन्तरे यमादीनां पितृदेवोभयरूपत्वान्नियमार्थ’मिति गोपीनाथः ।‘स्मृत्युक्तनिषिद्धदिने तिलनिवृत्तिर्माभूदित्येतदर्थ’मिति हरिहरः । तथा च कात्यायनः—
कठाःकाण्वाश्च जाबालास्तथा वाजसनेयिनः ।
सतिलं तर्पणं कुर्युर्निषिद्धेषु दिनेष्वपि॥
तीर्थे तिथिविशेषे च गयायां प्रेतपक्षके ।
निषिद्धेऽपि दिने कुर्यात्तर्पणं तिलमिश्रितम्॥
तर्पणे प्रत्यञ्जलि मन्त्रावृत्तिः कार्या । ननु मन्त्रस्य तर्पणकर्मणि करत्त्वात्संख्याञ्जलिदानस्यैककर्मत्वाच्चै “कद्रव्ये कर्मावृत्तौ सकृन्मन्त्रकरण"मिति कात्यायनवचनाच्च सकृदेव मन्त्रपाठ इति चेत् ? मैवम् । प्रत्यञ्जलि ह्यन्यज्जलेदीयते । ततश्च यत्र मन्त्रः प्रयुक्तस्तदर्थ एव स्यात् । न सर्वार्थ, इति संस्कारसिद्धेस्तत्सिद्धये निर्वपणलवनादिवद्द्रव्यान्वरत्वेन प्रत्यञ्जलि मन्त्रावृत्तिः स्यादेव । “कर्म्मावृत्तौमन्त्रावृत्ति’‘रिति कात्यायनोक्तेश्चेत्यलं पल्लवितेन । तस्मात्सन्ध्यार्ध्यवत्प्रत्यञ्जलि मन्त्रावृतिरिति सिद्धम् ।गोपीनाथीये—
मुक्तहस्तेन दातव्यं न मुद्रां तत्र दर्शयेत् ।
तर्जन्यङ्गुष्ठयोगेन मुद्रेयमभिधीयते॥
योगी —
अनामिकाधृतं हेम तर्जन्यां रूप्यमेव च ।
कनिष्ठिकाधृतं खड्गं तेन पूतो भवेद्द्विजः॥
शातातपः—
खङ्गमौक्तिकहस्तेन कर्तव्यं तिलतर्पणम् ।
मणिकाञ्चनहस्तेन न शून्येन कदाचन॥
शङ्खस्तु —
विना रौप्यसुवर्णेन विना ताम्रतिलैस्तथा ।
विना दर्भैश्च मन्त्रैश्च पितॄणां नोपतिष्ठते॥
हरिहरभाष्येस्मृतिः—
ये च पाणितले श्लिष्टा रोमकूपेषु ये तिलाः ।
तैस्तिलैस्तर्पणं कुर्वन् पितृघाती भवेन्नरः॥
अन्यत्रापि—
पटे तटेऽश्मनि पात्रे रोमकूपेषु ये तिलाः ।
ते तिलाः क्रिमिसंयुक्तास्तज्जलं रुधिरायते॥
तस्मात्ते मणिबन्धे तु कार्या विप्रैःप्रयत्नतः ॥ इति ।
अस्य तर्पणस्य नित्यत्वेऽप्यानुषङ्गिकफलमाह—
“यावज्जीवकृतं पापं तत्क्षणादेव नश्यति”॥
इति सूत्रम् ।यावज्जीवं जन्मत आरभ्य तर्पणदिनपर्यन्तं आचरितं पापं अशुभं कर्म तत्क्षणादेव तर्पणसमनन्तरमेव नश्यति क्षीयते । “जीवत्पितृकोऽप्येतानन्याँश्चेतर” इति सूत्रम् ।जीवो विद्यमानः पिता यस्यासौ जीवत्पितृकः । सोऽपि एतान्पूर्वोक्तान् ब्रह्मादिचित्रगुप्तान्तान् तर्पयेदिति ।इतरस्तु जीवत्पितृकादन्यो मृतपितृकः अन्यान् एभ्यः परान् पित्रादीन् चकारात् ब्रह्मादींश्च तर्पयेदिति पूर्वेण सम्बन्धः । विष्णुः —
अपसव्यं द्विजेन्द्राणां पित्र्ये सर्वत्र कीर्तितम् ।
आप्रकोष्ठं प्रकर्तव्यं मातापित्रोस्तु जीवतोः॥
न जीवत्पितृकः कृष्णैस्तिलैस्तर्पणमाचरेत्॥ इति ।
योगी याज्ञवल्क्यः—
यदि स्याज्जीवपितृकः केभ्यो दद्याज्जलाञ्जलिम् ।
येभ्य एव पिता दद्यात्तेभ्यो दद्यात्स्वयं सुतः॥
पराशरस्तु—
**वृद्धौ तीर्थे च सन्न्यस्ते ताते च पतिते सति ।
येभ्य एव पिता दद्यात्तेभ्यो दद्याज्जलं सुतः॥ **इति ।
“उदीरता मङ्गिरसऽसआयन्तु नऽऊर्ज्जंपितृभ्यो षेचेह मधु व्वाता इत्यृचं जपन् प्रसिञ्चेत्तृप्यध्वमिति च त्रि”रिति सूत्रम् । “उदीरता “मिति क्रमेण नवर्च्चोजपन् उपांशु आम्नायस्वरेण पठन् प्रसिञ्चेत् । अञ्जलिकृतं जलं पितृतीर्थेन वर्पणजलाधिकरणे प्रक्षिपेत् । “तृ-
प्यदूर्ध्व"मित्युक्त्वा प्रतिपुरुषं त्रींस्त्रीञ्जलाञ्जलीन्प्रक्षिपेदित्यर्थः । तथा च योगी—
पितृृन्ध्यायन्प्रसिञ्चेत जपन्मन्त्रान्यथाक्रमम् ।
तृप्यद्ध्वमिति च त्रिस्त्रिः पुरुषंप्रति तर्पयेत्॥
मार्जनं तर्पणं श्राद्धं न कुर्याद्वारिधारया ।
कुर्याच्चेद्वारिधाराभिस्तत्सर्वं निष्फलं भवेत्॥
अत्र केचित् “उदीरता"मित्यादिकानामृचां पित्रादितर्पणेऽञ्जलिदाने करणत्वं मन्यन्ते, तदसमञ्जसम् ।सूत्रार्थपर्यालोचनयाऽकरणता प्रतीतेः। कथम् ? जपन्प्रसिञ्चेदित्यत्र शतृप्रत्ययेन मन्त्रान् जपता सततं जलप्रक्षेपः कार्य इति सूत्रात्प्रतीयते । करणत्वे तु “मन्त्रान्तैःकर्मादिःसान्निपात्य” इति परिभाषया मन्त्रान्ते अञ्जलिः प्राप्तः । तथा सति जपशब्दस्य शतृप्रत्ययस्य चानर्थक्यप्रसङ्गः दानार्थताकल्पना च प्रसेकशब्दस्य ।तस्मादिदं प्रसेकाख्यं कर्मान्तरं स्यात् । धारानिषेधस्तु प्रसेकातिरिक्तविषयः। “नमो वऽइत्युक्त्वा मातामहानां चैव”मिति सूत्रम् ।“नमो व” इत्यष्टौ यजूंषि उक्त्वा जपित्वा मातामहादित्रयाणामपि एवं अमुना प्रकारेण जलं प्रक्षिपेत् ।योगी—
नमो व इति जप्त्वा वै ततो मातामहानपि ।
तर्पयेत नृशंस्यार्थं धर्मं परममाश्रितः॥ इति ।
अत्र यद्यपि सूत्रकृता मातृतर्पण नोक्तं, तथापि स्मृतिवाक्यात्कर्त्तव्यमेव । तथा च ऋष्यशृङ्गः—
**पित्रादिभ्यो जलं दद्याञ्जपन्मन्त्रान्यथाविधि ।
तृप्यद्ध्वमिति च त्रिर्वैततो मातृस्तर्प्यऽएव च ॥**इति ।
मरीचिः—
पित्रादित्रयपत्नीनां पृथग्देयं ततो जलम् ।
ततो मातामहानां च क्रम एवं हि तर्पणे॥
गोपीनाथीये स्मृतिः—
अन्तर्म्मातामहान्कृत्वा मातॄणां यः प्रयच्छति ।
तर्पणं पिण्डदानं च नरकं स तु गच्छति॥
“गुरुशिष्यत्विज्ञातिबान्धवानि"तिसूत्रम् ।गुरुराचार्य उपनीय वेदाध्यापकः । शिक्षितुं योग्यान् शिष्यान्पुत्रादीन् । ऋत्विजो याजकान्ज्ञातीन् पितृव्यम्रात्रादिसपिण्डगोत्रजान् \। बान्धवान् मातुलमातुलेयपितृष्वस्त्रीयादीन् । योगी—
पूर्वंस्ववंशजानां तु कुर्यादुदकतर्पणम् ।
सुहृत्सम्बन्धिभूतानां ततः कुर्यात्तु तर्पणम्॥
तथा च भोजराजीये पितृक्रम उक्तः—
आदौ पिता ततो माता सापत्नजननी तथा ।
मातामहाः सपत्नीकाः स्वपत्न्यस्तदनन्तरम्॥
सुतभ्रातृपितृव्याश्च मातुलाश्च सपत्निकाः ।
दुहिता च स्वसाप्रोक्ता दौहित्रो भागिनेयकः ॥
पितृष्वसा मातृष्वसा श्वशुरो गुरुरिक्थदौ ।
एते स्युः पितरस्तीर्थे तर्पणे च महालये॥
पितेति पित्रादित्रयमित्यर्थः । रिक्थं धनम् ।बहुपुराणाभिमतोऽयंक्रमः । याज्ञवल्क्यः—
सवर्णेभ्यो जलं देयं नासवर्णेभ्य एव च ।
नामगोत्रस्वधाकारैस्तर्पयेदनुपूर्वशः॥
गोपीनाथीये—
ब्राह्मणस्त्वन्यवर्णान्सन्तर्प्य तज्जातितामियात् ।
सवर्णेभ्यो जलं दद्यान्नान्येभ्यस्तु कदाचन॥
कामाल्लोभाद्भयान्मोहात्कृत्वा तज्जातितामियात् ।
क्षत्रियाणां प्रकर्तव्यं तर्पणं तु पुरोहितैः ॥ इत्यादि ।
अतर्पणे प्रत्यवायमाह “अतर्पिता देहाद्रुधिरं पिबन्ती"ति सूत्रम् ।पूर्वोक्ताःब्रह्मादयः अतर्पिता सन्तः अतर्पयितुर्देहाच्छरीरात् रुधिरं रक्तंपिबन्ति शोषयन्ति \। तर्पणाकरणप्रत्यवायेन देहाद्रतशोषो भवतीत्यर्थः । ब्रह्मवैवर्ते—
देवताश्च मुनींश्चैव पितॄन्यो नैव तर्पयेत् ।
देवादीनामृणी भूत्वा नरकं स व्रजत्यधः ॥ इति ।
“अतर्पिता देहाद्रुधिरं पिबन्ती’‘ति निन्दार्थवादश्रवणान्नित्यत्वाच्च आवश्यकं कर्तव्यमिति । “वामो निष्पीड्याचम्ये"तिसूत्रम् । एवं तर्पणं विधाय स्नानवस्त्रं निष्पीड्य तस्माज्जलं निष्काश्याचामेत् । योगी—
वस्त्रनिष्पीडनं तोयं श्राद्धे चोच्छिष्टभोजनम् ।
भागधेयं श्रुतिः प्राह तस्मान्निष्पीडयेत्स्थले॥
जलमध्ये तु यःकश्चिद्ब्राह्मणो ज्ञानदुर्बलः ।
निष्पीडयति तद्वस्त्रं दक्षिणाभिमुखः स्थले॥
पराशरः—
स्नानार्थमुपगच्छन्ति देवः पितृगणैः सह ।
वायुभृता हि गच्छन्ति तृषार्त्ताः सलिलार्थिनः ॥
निराशास्ते निवर्त्तन्ते वस्त्रनिष्पीडने कृते ।
तस्मान्न पीडयेद्वस्त्रमकृत्वा पितृतर्पणम्॥ इति ।
निष्पीडयति यः पूर्वंस्नानवस्त्रमतर्पिते ।
निराशाः पितरो यान्ति शापं दत्वा सुदारुणम्॥
पराचरः—
न पूर्वं तर्पणाद्वस्त्रं न चाम्भसि न पादयोः ।
शिलास्वधोदशं नैव द्विगुणं त्रिगुणं न वा॥
एतेषु पीडयेद्वस्त्रंराक्षसीं कुरुते क्रियाम्॥
स्मृत्यन्तरात्—
त्रिगुणीकृतवस्त्रं न पीडनीयं विचक्षणैः ।
पीडनीयं चतुर्द्धा तु न चाधोदशमम्बुनि॥ इत्यादि ।
विधानपारिजाते—
द्वादश्यां पञ्चदश्यां च सङ्क्रान्तौ श्राद्धवासरे ।
वस्त्रं निष्पीडयेन्नैव वस्त्रं क्षारेण योजयेत्॥
अथ जलदेवतार्चनमाह—
** ** “ब्राह्मवैष्णवरौद्रसावित्रमैत्रवारुणैस्तल्लिङ्गैर्मन्त्रैरर्चयेत् । ब्रह्मणोऽयं ब्राह्मः । विष्णोरयं वैष्णवः । रुद्रस्यायं रौद्रः । सवितुरयं सा-
वित्रः । मित्रस्यायं मैत्रः । वरुणस्यायं वारुणः । तल्लिङ्गैः तेषां ब्रह्मादीनांलिङ्गं प्रकाशनसामर्थ्यं तादृशैःमन्त्रैः तान् षोडशोपचारैः पञ्चोपचारैर्वा पृथक् पृथक् अर्चयेत् पूजयेत् । योगी—
ब्राह्मवैष्णवरौद्रैस्तुसावित्रैर्मैत्रवारुणैः ।
तल्लिङ्गैरेव मन्त्रैस्तानर्चयेत्सुसमाहितः॥
स्मृतिसारे—
नैकं पुष्पं द्विधा कुर्यान्न भिन्द्यात्कलिकामपि ।
भेदश्व कलिकुन्दानां समानो ब्रह्महत्यया॥
पुराणे—
अप्स्वग्नौ हृदये सूर्ये स्थण्डिले प्रतिमासु च ।
षट्स्वेतेषु हरेः सम्यगर्चनं मुनिभिः स्मृतम्॥
अग्नौक्रियावतां देवो हृदि देवो मनीषिणाम् ।
प्रतिमास्वल्पबुद्धीनां योगिनां हृदये हरिः॥
“अहश्र<MISSING_FIG href=”../books_images/U-IMG-1698744680987.png”/>ह<MISSING_FIG href=”../books_images/U-IMG-1698744680987.png”/>सऽइत्यादित्यमुपस्थाय प्रदक्षिणीकृत्य दिशश्च देवताश्च नमस्कृत्योपविशेत्” इति सूत्रम् ।
“अदृश्रमस्य केतवो०, ह<MISSING_FIG href=”../books_images/U-IMG-1698744680987.png”/>सःशुचिषत्” । इति द्वाभ्यां ऋभ्यां आदित्यं सूर्यं उपस्थाय प्रदक्षिणीकृत्य दक्षिणेनावृत्य दिशः प्राच्यादयः देवताश्च सन्निधानात्तासामेवाधिपतयः इन्द्रादयः तानपि मन्त्रान्तरानमिधानात् चतुर्थ्यन्तैः नाममन्त्रैरेव नमस्कृत्य तत उपविशेत् । तथा च योगी—
ततोऽवलोकयेदर्कंह<MISSING_FIG href=”../books_images/U-IMG-1698744680987.png”/>सः शुचिषदृचा \।
स याति ब्रह्मणः सद्म स्नात्वेच्छेद्योऽनया अपि ।
ततश्चापो नमस्कुर्याद्दिग्दिक्पालाष्टदेवताः॥ इति ।
पाठक्रमेण ब्रह्मादिभ्यो जलदानपूर्वकं नमेदित्यर्थः । नम इति सर्वत्रानुषङ्गः कार्यः । ततः किं कुर्यादित्याह “सं वर्च्चसेति मुखं व्विमृष्टे देवा गातुविद ऽइति विसर्जयेत्” इति सूत्रम् । “संव्वर्चसे”तिमन्त्रेणाञ्जलिना जलमादाय मुखं आस्यं विमृष्टे शोधयति । “देवा गा-
तुविद” इति मन्त्रेण कर्माङ्गभूतान्देवान् संहारमुद्रया विसर्जयेत् स्वस्थानं गमयेत् । तथा च शिवः–
अधोमुखे वामहस्तेऽनुत्तानं दक्षहस्तकम् ।
क्षिप्ताङ्गुलीरङ्गुलिभिः संयोज्य परिवर्तयेत्॥
एषा संहारमुद्रा स्याद्विसर्जनविधौ मता ॥ इति ।
“एष स्नानविधिरेष स्नानविधिः” इति सूत्रम् । एषः पूर्वोक्तः स्नानविधिः नित्यस्नानेतिकर्तव्यता । समाप्तिज्ञापनार्था द्विरुक्तिः । हरिहरमिश्रैःप्रातःसन्ध्यावन्दनानन्तरं तर्पणमुक्तम् । तेषामयं ग्रन्थः “एवं तु तर्पणं प्रातःस्नानानन्तरं कार्यम् । तदा न कृतं चेन्मध्याह्नस्नानानन्तरं कार्यम् । मध्याह्ने मन्त्रैः स्नानं न कृतं चेत्तदाऽपराह्णादिषुस्नानं कृत्वा कार्यम् । “पूर्वाह्णो वै देवानां मध्यन्दिनो मनुष्याणां अपराह्णःपितॄणा"मिति श्रुतिस्तर्पणव्यतिरिक्तविषया” । प्रातश्चैवंकृते तर्पणे मध्याह्नादिषु न कर्तव्यमेव । स्नानाङ्गतर्पणं तु बुधैः स्नानानन्तरं कार्यम् ।
प्रातः सध्यां समासाद्य द्विजस्तर्पणमाचरेत् ।
तत्र चेन्न कृतं तत्तु मध्यस्नानोत्तरं भवेत्॥
कारिकायामिति । मध्यस्नानं मध्याह्नम्नानम् । गोपीनाथप्रभृतिभिस्तु मध्याह्नसन्ध्योत्तरकाले तर्पणमुक्तम् ।
इति श्रीप्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्रविवरणे संस्कारगणपतौ कातीयत्रिकण्डिकासूत्रोक्तस्नानसन्ध्या- तर्पणविधिः॥
अथ श्राद्धाङ्गतर्पणे विशेषः । प्रयोगपारिजाते—
दर्शे तिलोदकं पूर्वंपश्चादद्यान्महालये \।
मातापित्रोः क्षये पूर्वंन पश्चात्तु परेऽहनि॥
वर्गैकस्य क्षयो येषामन्येषां तु विवर्जयेत्॥
वृद्धशातातपः—
पूर्वं तिलोदकं दत्वा ह्यामश्राद्धं समाचरेत् ।
प्रत्यब्दे न भवेत्पूर्वं परेऽहनि तिलोदकम्॥
हारीतोऽपि क्षयाहं प्रकृत्याह—
ततः परेऽह्नि कुर्वीत तर्पणं पुरुषः सुधीः।
तच्छेषैस्तिलदर्भैस्तुप्रातः स्नात्वा सुधासमम्॥
गार्ग्यः—
परेद्युःश्राद्धकृन्मर्त्यो यो न तर्पयते पितॄन् ।
अतृप्ताः पितरस्तस्य शापं दत्वा व्रजन्ति ते॥
स्नात्वा तीरं समासाद्य उपविश्व कुशासने ।
सन्तर्पयेत्पितृृन्पूर्वान्स्नात्वा वस्त्रं च धारयेत्॥
इदन्तु श्राद्धदेवताभूतपितृविषयम् । तेन नित्यतर्पणं बहुदैवत्यंश्राद्धदिने यथाकालं भवत्येव । अत ए —
निषेद्धेऽपि दिने कुर्यात्क्षयाहेतिलतर्पणम्॥
इति वचनं युज्यते नित्यतर्पणविषयत्वेन । अन्यथा क्षयाहेतर्पणमेव नास्तीति कुत्र प्रतिप्रसवः स्यादिति, उक्तं प्रयोगरत्ने नारायणभट्टैः । महालयश्राद्धे तु देवर्षिपितृतर्पणं कृत्वा श्राद्धं कुर्यात् । श्राद्धानन्तरं तु श्राद्धदेवताभूतपितृतर्पणमेव तर्पयेत् । क्षयाहे तु नित्यतर्पणं पूर्वमेव कर्यम्, श्राद्धाङ्गभूततर्पणं द्वितीयदिने सन्धावन्दजात्पूर्वमेव कार्यम्, शिष्टाचारात् । तथा विधानपारिजाते—
पक्षश्राद्धन्तु निर्वर्त्य तर्पणं स्याद्दिने दिने ।
सकृन्महालये दद्यात्परेऽहनि तिलोदकम्॥
जीवमानः पिता यस्य माता यदि विपद्यते ।
मातुः श्राद्धं सुतः कुर्यान्न कुर्याच्छ्राद्धतर्पणम् ॥ इति संग्रहे । श्राद्धाङ्गतर्पणमित्यर्थः । वृद्धिश्राद्धादौ तु नास्त्येव—
वृद्धिश्राद्धे सपिण्डे च प्रेतश्राद्धे तथैव च ।
मासानुमासिकश्राद्धे न कुर्यात्तिलतर्पणम्॥ इति गर्योक्तेः ।
तीर्थप्राप्तौ तु स्वशाखोक्तंतर्पणं कृत्वा “देवा यक्षास्तथा नागा” इत्यादिपुराणोक्तमन्त्रैः देवान्सन्तर्प्य"सनकः सनन्दन"श्चेति ऋषीन्सन्तर्प्य “अग्निष्वात्तास्तथा सौम्या” इति पितृतर्पणं च कुर्यादिति त्रि-
स्थलीसेतौउक्तम् । अथ यमतर्पणन्तु काम्यं दिनविशेष एव । तथा च वृद्धमनुः—
यां काञ्चित्सरितंप्राप्यकृष्णपक्षे चतुर्द्दशी।
यमुनां तु विशेषेण नियतो नियतेन्द्रियः॥
यमाय धर्मराजाय मृत्यवे चान्तकाय च ।
वैवस्वताय कालाय सर्वभूतक्षयाय च॥
औदुम्बराय दघ्नाय नीलाय परमेष्ठिने ।
वृकोदराय चित्राय चित्रगुप्ताय वै नमः॥
इत्येतैर्नाममन्त्रैस्तु प्रणवादिनमोऽन्तकैः ।
तर्पयित्वा यमं देवं सर्वपापैः प्रमुच्यते॥
स्कान्दे तु—
कृष्णपक्षे त्रयोदश्यामङ्गारकदिनं यदि ।
तदा स्नात्वा शुभे तोये तर्पयेद्यमनामभिः॥
इत्युक्तं यमतर्पणं वाजसनेयिनां नित्यम्, न तु काम्यम्, तत्सूत्रे नित्यत्वेन बोधनात् । इति यमतर्पणम् ।
अथ भीष्मतर्पणन्तु– कार्तिकशुक्लैकादशीप्रभृतिपञ्चसु माघशुक्लेऽष्टम्यादिषु च । इदं भीष्मतर्पणं जीवत्पितृकेणापि कर्तव्यम् । तथा च पाद्मे—
जीवत्पितृकोऽपि कुर्वीत तर्पणं यमभीष्मयोः॥ इति ।
तत्र मन्त्रः—
वैय्याघ्रपादगोत्राय साङ्कृत्यप्रवराय च ।
गङ्गापुत्राय भीष्माय प्रदास्येऽहं तिलोदकम्॥
अपुत्राय ददाम्येतज्जलं भीष्माय तर्पणम्॥
इति भीष्मतर्पणम् । कालातिक्रमे तु—
न कृतानि प्रमादाच्चेत्प्रातःकर्माणि यानि च ।
रात्रावपि तु कार्याणि विना शौचं च तर्पणम्॥
अन्यच्च—
दिवोदिताः क्रियाः कार्या रात्रावपि यथाक्रमम् ।
विना सौरं चावगाहं ब्रह्मयज्ञञ्च तर्पणम्॥
केचिद्द्रात्रावपि ब्रह्मयज्ञामिच्छन्ति। “ग्रामे मनसा स्वाध्यायमधीयीत दिवानक्तञ्चे” त्यापस्तम्बविषयम् । तथा च—
आचार्याःकेचिदिच्छन्ति रात्रावपि हि तर्पणम् ।
तद्यजुःशाखिनामेव नान्येषान्तु विधीयते॥
तत्तु रात्रौ यामपर्यन्तम् । तथा च धर्मप्रवृत्तौ—
रात्रौ प्रहरपर्यन्तं दिवा कर्माणि कारयेत् ।
अवगाहं च सौरञ्चब्रह्मयज्ञंच वर्जयेत्॥
अथ गृहस्नानं चतुर्विंशतिमतात्—
आपः स्वभावतो मेध्याः किं पुनर्वह्नितापिताः ।
अतः सन्तः प्रशंसन्ति स्नानमुष्णोदवारिणा॥
यमः—
आप एवसदा पूज्यास्तासां वह्निर्विशेषतः ।
अतः सर्वेषु कालेषु उष्णापः पावनं स्मृतम्॥
पादौ प्रक्षालयेत्पूर्वंमुखं यज्ञोपवीतकम् ।
द्विराचम्य कराभ्यान्तु धृत्वा दर्भान् शिखां स्पृशेत्॥
प्राणायामं ततः कृत्वा कालज्ञानेयथोदितम् ।
पूर्वोत्तरामुखो भूत्वा इत्थं स्नानं समाचरेत्॥
( इति संस्कारगणपतौ स्नानसन्ध्याविधिः॥ )
“इषेत्वे” त्यादि “खं ब्रह्मे"त्यन्तमन्त्राणां विवस्वान् ऋषिःसर्वाणि यजू<MISSING_FIG href=”../books_images/U-IMG-1698809467Screenshot(9”/>.png)षिसर्वाणि च्छन्दा<MISSING_FIG href=”../books_images/U-IMG-1698809504Screenshot(1”/>.png)सि प्रजापतिर्देवता स्नानादिसर्वकर्मसु विनियोगः” इति ऋष्यादिकं छात्रैः पठेत्—
अविदित्वा तु यः कुर्याद्यजनाध्यापने ततः \।
होममन्तर्जलादीनि तस्य चाल्पफलं भवेत्॥
इति वचनात् । अविदित्वा आर्षादिकमित्यर्थः । प्रतिमन्त्र चार्षादिकं पठनीयमिति ।
अथ प्रयोगः । तत्रादौ स्नानोपकरणाहरणम् । ततो नद्यादेर्जलसमीपगमनम् । तत्र प्रक्षालितदेशे स्नानोपकरणस्थापनम् । मृज्जलाभ्यां
पादौ प्रक्षाल्यपाण्योःप्रक्षालनम \। कुशोपग्रहपवित्रधारणम् \। गायत्र्या"मा नस्तोक” इति मन्त्रेण वा शिखैकदेशबन्धनम् ।तूष्णींजूटिका बन्धनं च ।“मानस्तोक इति मन्त्रस्य कुत्सऋषिर्जगतीच्छन्दः एकरुद्रो देवता शिखाबन्धने विनियोगः ।ॐमा नस्तोके० हवामहे "
उर्द्धकेशि ! विरूपाक्षि ! मांसशोणितभोजने ! ।
तिष्ठ देवि ! शिखामध्ये चामुण्डे ! चापराजिते !॥
इति पक्षान्तरे । ततो यज्ञोपवीतप्रक्षालनम् । आचमनं प्राणायामत्रयंकालज्ञानम् । तद्यथा “अत्र पृथिव्यां जम्बूद्वीपे भारतवर्षेऽमुकक्षेत्रेऽमुकस्मिन् देशे अद्य श्रीब्रह्मणो द्वितीये परार्द्धे श्वेतवाराहकल्पे वैवस्वतमन्वन्तरे कलियुगे प्रथमचरणेऽमुकवत्सरेऽमुकायनेऽमुकर्तौअमुकमासे अमुकपक्षे अमुकतिथावमुकनक्षत्रेऽमुकवासरेऽमुकयोगेऽमुकमुहूर्ते नित्यस्नानमहं करिष्ये” इति कालज्ञानम् । “उरु<MISSING_FIG href=”../books_images/U-IMG-1698809727Screenshot(1”/>.png) हीत्यस्य शुनःशेपर्षिः त्रिष्टुप्छन्दः वरुणो देवता तोयाभिमन्त्रणे विनियोगः । “ॐउरु<MISSING_FIG href=”../books_images/U-IMG-1698809769Screenshot(21”/>.png)ही ०"ति तोयामिमन्त्रणम् ।“ये ते शतं विश्वामित्र ऋषिः त्रिष्टुप्छन्दः वरुणो देवता तोयावर्त्तने विनियोगः । ॐ ये ते शतं वरुण ये संहस्रं यज्ञियाः पाशा वितता महान्तः । तेभिर्न्नोऽअद्यसवितोत विष्णुर्व्विश्वेमुञ्चन्तु मरुतः स्वर्क्काःस्वाहे"ति हस्तेन तोयावर्त्तनम् । “सुमित्रिया दुर्मित्रिया द्वे यजुवी प्रजापतिर्ऋषिः आपो देवताःआद्यस्य जलाञ्जलिग्रहणे द्वितीयस्य द्वेष्यं प्रत्यपां निषिञ्चने विनियोगः । “ॐसुमि० सन्त्वि"ति जलाञ्जलिं गृहीत्वा “ॐदुर्म्मि० द्विष्म” इत्यनेन द्वेष्यं प्रति निषिञ्चेत् । ततो मृदन्त्रेधा विभज्यैकं भागमादाय मृज्जलाभ्यां कट्यादीनां त्रिस्त्रिः प्रक्षालनम् ।आचमनम् “उदकाय नमः” इति तीर्थोदकनमस्कारः ।“इदं विष्णुरिति मेधातिथिर्ऋषिः गायत्रीच्छन्दो विष्णुर्देवता मृदाङ्गलम्भने विनियोगः । ॐइदं व्वि०सुरे” इति मृदाऽङ्गालम्भनम् । ततः शनैर्नाभिमात्रं जलं प्रविश्य केशान्द्विधा कृत्वा कर्णौ नासां च निरुध्य । “अपोऽअस्मा” निति सूर्याभिमुखो मज्जेत् । “आपोऽअस्मानिति हवि-
र्द्धानऋषिः त्रिष्टुप् छन्दः आपो देवता मज्जने विनियोगः । ॐआपोऽअस्मा० देवीः ।उदिदाभ्यऽइति प्रजापतिर्ऋषिःयजुश्छन्दःआपो देवताःअप्सु मज्जने विनियोगः ।ॐउदिदाभ्यः० एमि” इत्युन्मज्जनं पुनस्तूष्णीं निमज्ज्योन्मज्जनम् । आचमनम् \। “मानस्तोक इति कुत्सऽऋषिः जगतीच्छदः एकरुद्रो देवता गोमयेनाङ्गविलेपने वि० । ॐमा न० हवामहे” इति गोमयनाङ्गविलेपनम् ।उदकोपस्पर्शनम् । " इमं मे तत्वा यामीत्यनयोः शुनःशेपऽऋषिः आद्याया गायत्रीच्छन्दः द्वितीयायास्त्रिष्टुप् छन्दः वरुणो देवता, त्वन्नोऽअग्ने सत्वन्नोऽअग्नऽइयनयोर्वामदेवऋषिः त्रिष्टुप् छन्दःअग्नीवरुणौदेवते, माप इति प्रजापतिर्ऋषिः यजुः हृदयशूलं देवता, घाम्रोधाम्नऽइति प्रजापतिऋषिः अनवसाना गायत्री वरुणो देवता, उदुत्तमं शुनःशेपऽऋषिःत्रिष्टुप्छन्दःवरुणो देवता, मुञ्चन्त्विति आथर्वणो भिषक अनुष्टुप् ओषधयो देवताः, अवभृथेति प्रजापतिः यजुः यज्ञो देवता सर्वेषामभिषिञ्चने विनियोगः ।ॐइमम्मे०चके ।तत्वा० मोषीः। त्वन्नो० ध्यस्मत् । सत्वन्नो०एधि ।मापो० यदा० मुञ्च ।इदुत्तमं० स्याम ।मुञ्चन्तु मा०किल्विषात् । अवभृ० स्पाहि” इत्यष्टभिर्मन्त्रैरञ्जलिना मस्तके जलं प्रक्षिपेत् । ततस्तूष्णीं निमज्ज्योन्मज्ज्याचम्य सोदकैर्दर्भैःपावयेत् ।“प्रणवस्य ब्रह्मर्षिर्गायत्रीच्छन्दः परमात्मा देवता, व्याहृतीनां प्रजापतिर्ऋषिर्गायत्र्युष्णिगनुष्टुप्छन्दांसि अग्निवायुसूर्याः, गायत्री मन्त्रस्य विश्वामित्रऽऋषिःगायत्रीच्छन्दः सविता, आपो हि ष्ठॆति तृचस्य सिन्धुद्वीप ऋषिःगायत्रीच्छन्दऽअपो देवता, इदमापः प्रजापतिर्ऋषिःअनुष्टुप्छन्दःआपो हविष्प्रतीरिति प्रजापतिर्ऋषिःअनुष्टुष्छन्दःआपो यजमानोऽध्वरः सूर्यश्चदे०, देवीराप इति द्वयोः प्रजापतिः पङ्किःआद्यस्यापो द्वितीयस्याज्यं, अपो देवा वरुणः त्रिष्टुबग्नेः, द्रुपदादिवेति प्रजापत्यश्विसरस्वत्य ऋषयः अनुष्टु० आपो; शन्नो देवीरिति दध्यङ्ङाथर्वणः गायत्री शनिः०, अपा<MISSING_FIG href=”../books_images/U-IMG-1698810217Screenshot(1"/>.png)रसमिति बृहस्पतिरिन्द्रश्च० अनुष्टुप्छन्दो रसो०, अपो देवी
रुपसृजेति सिन्धुद्वीपः न्यङ्कुसारिणी बृहती आपो०, पुनन्तु मेति द्वयोः प्रजापत्याश्विसरस्वत्यः, अत्र पितरो अग्न आयू<MISSING_FIG href="../books_images/U-IMG-1698810328Screenshot(1"/>.png)षि वैखानसः गायत्री अग्नि, पुनन्तु मा देव प्रजापत्यश्विसरस्वत्यः अनुटुप्देवजना धीश्चभूतानि जातवेदाश्च दे०, पवित्रेणेत्यादीनां चतुर्णां प्रजापत्यश्विसरस्वत्यः पञ्चम्या गायत्री० अनिर्दे०, षष्ट्या गायत्री अग्निर्ब्रह्म च, सप्तम्या गायत्री सोमो, अष्टम्या गायत्री सविता देवता, चित्पतिर्मा व्वाक्पतिर्मा देवो मेति त्रयाणां प्रजापतिःयजूंषि आद्ययोःप्रजापतिर्दे० तृतीयस्य सविता, सर्वेषां पावने विनियोगः ।एभिः पावयित्वा पुनरोङ्कारेण व्याहृतिभिर्गायत्र्या च पावयेत् । तत्रैवं प्रयोगः “ॐ भूः पुनातु । ॐ भुवः पुनातु । ॐ स्वः पुनातु । ॐ तत्स० यात् सर्वं पुनातु । आपो०क्षसे । योवः०तरः । तस्मा० च नः । इदमापः ० हस मुञ्चन्तु० षात्" एवं क्रमेण पावयित्वा तरकुशन्परित्यज्य, ततः पुनः “इमं मे व्वरुणे” त्यष्टभिरञ्जलिनाऽभिषिञ्चेत् । ततोऽघमर्षणं “ऋतञ्च सत्यञ्चेत्यघर्मण ऋषिःअनुष्टुप्छन्दःभावभुत्तो देवता अन्तर्जलेजपे वि०” । अथवा द्रुपदादिवेति प्रजापत्यश्विसरस्वत्यः आपो दे० अन्तर्जले जपे०" । अथवा “आयङ्गौरित्यस्य सार्पराज्ञीति ऋषिः गायत्री अग्निर्दे० अन्तर्जलेजपे वि०” प्राणायामंवा त्रिरावर्त्तयेत् ।विष्णोः स्मरणं वा कुर्यात् । ततस्तूष्णीं त्रिर्मज्जनम् ।स्नानाङ्गतर्पणम्– आश्वलायनः—
स्नानाङ्गतर्पणं कृत्वा यक्ष्मणे जलमाहरेत् ।
“यन्मया दूषितं तोयं मलैः शारीरसम्भवैः॥
तस्य पापस्य शुद्ध्यर्थं यक्ष्मैतत्तेतिलोदकम्॥ इति ।
ॐ ब्रह्मदयो देवास्तृप्यन्ताम् । ॐ भूर्देवास्तृप्यन्ताम् । ॐ भुवर्देवास्तप्यन्ताम् । ॐस्वर्देवास्तृप्यन्ताम् । ॐ भूर्भुवः स्वर्देवास्तृप्यन्ताम्” । यज्ञोपवीतं कण्ठे कृत्वा “ॐ सनकादिकद्वैपायनादयो ऋषयस्तृप्यन्ताम् । ॐ भूःऋषयस्तृप्यन्ताम् । ॐभुवः ऋषयस्तृप्यन्ताम् । ॐ स्वः ऋषस्तृप्यन्ताम् । ॐभूर्भुवः स्वः
ऋषयस्तृप्यन्ताम्" । अथापसव्यम् । “ॐ कव्यवाडनलादयस्तृप्यन्ताम् । ॐ भूः पितरस्तृप्यन्ताम् । ॐ भुवः पितरस्तृप्यन्ताम् । ॐ स्वः पितरस्तृप्यन्ताम् । ॐ भूर्भुवः स्वः पितरस्तृप्यन्ताम् । “सव्यम् । आचमनं कुर्युः ।
” यन्मया दूषितं तोयं शारीरमलसम्भवम् ।
तस्य पापस्य शुद्ध्यर्थं यक्ष्मैतत्ते तिलोदकम्॥"
इत्यनेन अञ्जलिना जलं स्थले क्षिपेत् ।
“लतागुल्मेषु वृक्षेषु पितरो ये व्यवस्थिताः ।
ते सर्वे तृप्तिमायान्तु मयोत्सृष्टैःशिखोदकैः॥”
इत्यनेन शिखोदकं बहिः क्षिपेत् । इति स्नानविधिः । ततो जलाद्बहिर्निर्गमनम् । वस्त्रपरिधानम् \। मृदाद्भिश्चोरू करौ प्रक्षाल्यललाटे यथाविधि तिलककरणम् । पवित्रोपग्रहः । अचमनम् \। “केशव, नारायण, माधव, गोविन्द, विष्णु, मधुसूदन, त्रिविक्रम, वामन, श्रीधर, हृषीकेश, पद्मनाभ, दामोदर, सङ्कर्षण, वासुदेव, प्रद्युम्न, अनिरुद्ध, पुरुषोत्तम, अधोक्षज, नृसिंह, अच्युत, जनार्दन, उपेन्द्र, हरि, कृष्णाय नमः । मनो मनः । वाक् वाक् । प्राणः प्राणः । चक्षुश्चक्षुः । श्रोत्रं श्रोत्रम् । नाभिः । हृदयम् । कण्ठः । शिरः । शिखा । बाहुभ्यां यशोबलम् ।
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः॥
ममोपात्तदुरितक्षयार्थं ब्रह्मावाप्त्यैप्रातः सन्ध्योपासनमहं करिष्ये ।ॐ कारस्य ब्रह्मऋषिः गायत्रीच्छन्दः अग्निर्देवता सर्वकर्मारम्भे विनियोगः । ॐ पृथिव्या मेरुपृष्ठ ऋषिः कूर्मो देवता सुतलं छन्दः आसनोपवेशने विनियोगः ।
पृथ्वि ! त्वया धृता लोका देवि ! त्वं विष्णुना धृता ।
त्वं च धारय मां देवि ! पवित्रं चासनं कुरु”॥
गायत्र्यावामजूटिकाबन्धनम् । दक्षिणजूटिकाबन्धने मन्त्रः—
“ऊर्ध्वकेशि ! विरूपाक्षि ! मांसशोणितभोजने ! \।
तिष्ठ देवि ! शिखामध्ये चामुण्डे ! चापराजिते !॥”
अथाभिषेकः । “ॐ भूः पुनातु । ॐ भुवः पुनातु । ॐ स्वः पुनातु । ॐ महः पुनातु । ॐ जनः पुनातु । ॐ तपः पुनातु । ॐ सत्यं पुनातु । ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॐ सर्वं पुनातु" । अथ न्यासाः । “ॐ भूः अङ्गुष्ठाभ्यां नमः । ॐ भुवः तर्जनीभ्यां नमः । ॐ स्वः मध्यमाभ्यां० । ॐ तत्सवितुर्वरेण्यं अनामिकाभ्यां । ॐभर्गो देवस्य धीमहि कनिष्ठिकाभ्यां नमः । ॐ धियो योनः प्रचोदयात् करतलकरपृष्ठाभ्यां नमः । ॐ भूः हृदयाय नमः । ॐ भुवः शिरसे स्वाहा । ॐ स्वः शिखायै वषट् । ॐ तत्सवितुर्वरेण्यं कवचाय हुम् । ॐ भर्गो देवस्य धीमहि नेत्रत्रयाय वाषट् । ॐ धियो यो नः प्रचोदयात् अस्त्राय फट् ।" अथावाहनम्—
“गायत्रीं त्र्यक्षरां बालां साक्षसूत्रकमण्डलुम् ।
रक्तवस्त्रां चतुर्वक्त्रां हंसवाहनसंस्थिताम्॥
** ऋग्वेदेन कृतात्सङ्गां दिव्याभरणभूषिताम् ।
ब्रह्माणीं ब्रह्मदैवत्यां ब्रह्मलोकनिवासिनीम्॥**
** आवाहयाम्यहं देवीमायान्तींसूर्यमण्डलात् ।
आगच्छ वरदे ! देवि ! त्र्यक्षरे ! ब्रह्मवादिनि !॥**
गायत्रि ! च्छन्दसां मातर्ब्रह्मयोनिर्नमोऽस्तु ते ॥”
अथ प्राणायामः । “प्रणवस्य परब्रह्म ऋषिः दैवीगायत्रीच्छन्दः परमात्मा देवता सप्तव्याहृतीनां विश्वामित्रजमदग्निभरद्वाजगौतमात्रिवसिष्ठकश्यपाऋषयः अनुष्टुप्छन्दः अग्निवायुसूर्या देवताः तत्सवितुरित्यस्य विश्वामित्र ऋषिः गायत्रीच्छन्दः सूर्यो देवता, आपोज्योतिरिति परमेष्ठी ऋषिः अनुष्टुप्छन्दः प्रजापतिर्द्देवता सर्वेषां प्राणायामे विनियोगः । ॐ नमो भगवते वासु
देवाय” । आत्मनः समन्तात्प्रदक्षिणमुदकं प्रक्षिप्य “ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यं ॐ तत्सवितु० प्रचोदयात् । आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः स्वरोम्” । एवं त्रिः । अथाचमनम् । “सूर्यश्चमेति नारायण ऋषिः अनुष्टुप्छन्दः परमात्मा देवता आचमने विनियोगः । ॐ सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः पापेभ्यो रक्षन्ताम् । यद्रात्र्यापापमकार्षंमनसा वाचा हस्ताभ्याम् । पद्भ्यामुदरेण शिश्ना रात्रिस्तदवलुम्पतु यत्किञ्च दुरितं मयि इदमहं माममृतयोनौ सूर्ये ज्योतिषि जुहोमि स्वाहा ” ततो द्विराचमनम् । अथ मार्जनम् \। “आपो हि ष्ठेति तिसृणां सिन्धुद्वीप ऋषिः गायत्रीच्छन्दः आपो देवता मार्जने विनियोगः । ॐ आपो हि ष्ठा मयोभुवः " पादयोः । “ॐ ता न ऊर्ज्जे दघातन” मस्तके । “ॐ महे रणाय चक्षसे” हृदि । “ॐ यो वः शिवतमो रसः" हृदि । “ॐ तस्य भाजयतेह नः" पादयोः । “ॐ उशतीरिव मातरः" मस्तके । “ॐ तस्मा अरङ्गमाम वः" मस्तके । " ॐ यस्य क्षयाय जिन्वथ" हृदि । “ॐ आपो जनयथा च नः” पादयोः \। “सुमित्रिया दुर्मित्रिया इति द्वयोः प्रजापतिर्ऋषिः यजुश्छन्दः आपो देवता जलादानक्षेपयोर्विनियोगः । ॐ सुमित्रिया न ऽआप ओषधयः सन्तु " जलं गृहीत्वा “ॐदुर्मित्रियास्तस्मै सन्तु योऽस्मान्द्वेष्टि यश्च व्वयन्द्विष्मः” जलं त्यजेत् । “द्रुपदादिवेति कोकिलराजपुत्र ऋषिः अनुष्टुपूछन्दः आपो देवता अघमर्षणे विनियोगः । ॐ द्रुपदादिव मुमुचानः स्विन्नः स्नातो मलादिव । पूतं पवित्रेणेवाज्यमापः शुन्धन्तु मैनसः ।" इत्यनेन जलमाघ्नाय त्यजेत् । “ऋतश्चेत्यस्याधमर्षण ऋषिः अनुष्टुपूछन्दः भाववृत्तो देवता अघमर्षणे विनियोगः । ॐ ऋतश्च सत्यञ्चाभीद्धात्तपसोऽध्यजायत । ततो रात्र्यजायत । ततः समुद्रो अर्णवः । समुद्रादर्णवादधि संवत्सरो अजायत । अहोरात्राणि विदधद्विश्वस्य मिषतो वशी । सूर्याचन्द्रमसौधाता यथा पूर्वमकल्पयत् । दिवञ्च
पृथिवीञ्चान्तरिक्षमथो स्वः” । अथार्घ्यदानम् ।ॐकारस्य ब्रह्मा ऋषिर्गायत्रीच्छन्दः परमात्मा देवता भूर्भुवःस्वरिति तिसृणां प्रजापतिर्ऋषिः गायत्र्युष्णिगनुष्टुप्छन्दांसि अनिर्वायुः सूर्यो देवताः तत्सवितुरिति विश्वामित्र ऋषिः गायत्रीच्छन्दः सविता देवता सूर्यार्घदाने विनियोगः । ॐ भूर्भुवः स्वः ॐ तत्स० प्रचोदया"दिति सूर्याभिमुखो भूत्वा तिष्ठन् सपुष्प जलं प्रक्षिपेत् । एवं त्रिः ।
“निर्गच्छ देवि ! शीघ्रन्त्वं गायत्रि ! शक्तिरूपिणि ! ।
इदमर्ध्यंमया दत्तं दुष्टदैत्यवधं कुरु॥”
इति मन्त्रेण चतुर्थार्घः । ततः—
“आगच्छ देवि ! शीघ्रन्त्वं गायत्रि ! ब्रह्मरूपिणि ! ।
जपानुष्ठानसिद्ध्यर्थं प्रविश्य हृदयं मम॥
ॐ असावादित्यो ब्रह्म” इति आत्मनः प्रदक्षिणी कृत्याचम्य । अथ सूर्योपस्थानम् । “उद्बयमित्यस्य हिरण्यस्तूप ऋषिः गायत्रीछन्दः सूर्यो देवता उदुत्यमिति प्रस्कण्व ऋषिः गायत्रीच्छन्दः सूर्यो देवता चित्रमित्यस्य कौत्स ऋषिः त्रिष्टुप्छन्दः सूर्यो देवता
तच्चक्षुरित्यस्य दध्यङ्ङाथर्वण ऋषिः पुरउष्णिक्छन्दः सूर्यो देवता सूर्योपस्थाने विनियोगः । ॐ उद्वन्तमसस्परि स्वः पश्यन्तऽउत्तरम् । देवन्देवत्रा सुर्यमगन्म ज्ज्योतिरुत्तमम्॥ उदुत्यञ्जातवेदसं देवं वहन्ति केतवः । दृशे व्विश्वा मृर्यम्॥ चित्रन्देवानामुदगादनी कञ्चक्षुर्म्मित्रस्य व्वरुणस्याग्नेः । आप्राद्यावापृथिवी ऽअन्तरिक्ष<MISSING_FIG href=”../books_images/U-IMG-1698842230987.png"/>सूर्य आत्मा जगतस्तस्थुषश्च ॥ तच्चक्षुर्द्देवहितम्पुरस्ताच्छुकमुच्चरत् । पश्येम शरदः शतञ्जीवेम शरदः शत<MISSING_FIG href="../books_images/U-IMG-1698842230987.png"/>शृणुयाम शरदः शतम्प्रब्रवाम शरदः शतमदीनाः स्याम शरदः शतम्भूयश्च शरदः शतात्" इत्युपस्थाय “गायत्र्या गायत्रीच्छन्दो विश्वामित्र ऋषिः सविता देवता अग्निर्मुखं ब्रह्मा शिरः विष्णुर्हृदयं रुद्रः कवचं परमात्मा शरीर श्वेतवर्णां सांख्यायनसगोत्रा सांख्यायनकात्या-
यनगार्ग्यायणेति त्रिप्रवरा षट्स्वरा सरस्वती जिह्वापिङ्गाक्षी पृथ्वीनाभिः द्विशः कुक्षी पातालचरणौ चन्द्रसूर्यौचक्षुषी श्रुतिः कर्णौ त्रिपदा गायत्री अशेषपापक्षयार्थं गायत्रीजपे विनियोगः” । अथ मुद्राः—
" सुमुखं १ सम्पुटं चैव २विततं ३ विस्तृतं तथा ४ ।
** द्विमुखं ५ त्रिमुखं चैव ६ चतुः ७ पञ्चमुखं ८ तथा॥
षण्मुखा ९ धोमुखं चैव १० व्यापकाञ्जलिकं ११ तथा ।
शकटं १२ यमपाशं च १३ ग्रन्थितं १४ चोन्मुखोन्मुखम् १५॥
प्रलम्बं १६ मुष्टिकं १७ चैव मत्स्यः १८ कूर्मो १९ वराहकम् २० ।
सिंहाक्रान्तं २१ महाक्रान्तं २२ मुद्गरं२३ पल्लवं तथा २४॥**
एता मुद्रा न जानति गायत्री निष्फला भवेत् ।
एता मुद्रा विजानाति गायत्री सफला भवेत्॥”
अथ ध्यानम्—
“मुक्ताविद्रुमहेमनीलधवलच्छायैर्मुखैस्त्र्यक्षरै–
र्युक्तामिन्दुनिबद्धरत्नमुकुटां तत्त्वार्थवर्णात्मिकाम् ।
गायत्रीं वरदाभयाङ्कुशकशाः शुभ्रं कपालं गुणं
शङ्खंचक्रमथारविन्दयुगलं हस्तैर्वहंन्तीं भजे॥”
अत्र गायत्रीजपः । अष्टोत्तरसहस्रं १००८ अष्टोत्तरशतं वा १०८ अष्टाविंशतिर्वा २८ । जपानन्तरं अष्टौ मुद्राः प्रदर्श्य ।
" सुरभि १ ज्ञानं २ योनिश्च ३ मत्स्यः ४ कूर्मो ५ ऽथ पङ्कजम् ६ ।
** लिङ्ग ७ निर्वापणं चैव ८ अष्ट मुद्राः प्रकीर्तिताः॥**
ॐ देवा गातुविदो गातुं व्वित्वा गातुमित । मनसस्पत इमन्देव यज्ञ^(ँ)स्वाहा व्वाते धाः” इतिमन्त्रं पठित्वा “अष्टोत्तरशतसंख्याकेन गायत्रीजपेन श्रीसूर्यनारायणःप्रीयताम् । विश्वतश्चक्षुरिति विश्वकर्मा भौवन ऋषः त्रिष्टुप्छन्दः विश्वकर्मा देवता सूर्यप्रदक्षिणे विनियोगः । ॐ विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतोबाहुरुत विश्वतस्पात् । सम्बाहुभ्यां धमति सम्पतत्रैर्द्यावाभूमी जनयन्देव ऽएकः”॥
इति प्रदक्षिणीकृत्य—
“एकं चक्रं रथे यस्य दिव्यः कनकभूषितः ।
स मे भवतु सुप्रीतः पद्महस्तो दिवाकरः॥"
अथ विसर्जनम्—
“उत्तमे शिखरे जाता भूम्यां पवतमूर्द्धनि ।
ब्राह्मणेभ्योऽभ्यनुज्ञाता गच्छ देवि! यथासुखम्॥
** आकाशात्पतितं तोयं यथा गच्छति सागरम् ।
सर्वदेवनमस्कारः केशवं प्रति गच्छति॥**
ॐ प्राच्यै दिशे इन्द्राय नमः । आग्नेय्यै दिशे अग्नये नमः । दक्षिणायै दिशे यमाय नमः । नैर्ऋत्यै दिशे नैर्ऋतये नमः । पश्चिमायै दिशे वरुणाय नमः । वायव्यै दिशे वायवे नमः । उदीच्यै दिशे कुबेराय नमः । ईशान्यै दिशे ईश्वराय नमः । ऊर्ध्वायै दिशे ब्रह्मणे नमः । अधरायै दिशे अनन्ताय नमः । गायत्र्यै नमः । सावित्र्यै नमः । सरस्वत्यै नमः । अमुकगोत्रोत्पन्नोऽहं अमुकवरान्वितोऽहं अमुकशर्मा ब्राह्मणोऽहं भो अग्ने ! अभिवादयामि । भो सूर्य ! अभिवादयामि । भो वरुण ! अभिवादयामि । भो आचार्य ! अभिवादयामि”॥ इति प्रातः सन्ध्या ।
मध्याह्नसन्ध्या प्रातः सन्ध्यावत् । अत्रावाहनाचमनयोर्विशेषः । आवाहनम् ।
“सावित्रीं युवतीं शुक्लां शुक्लवस्त्रां त्रिलोचनाम् ।
त्रिशूलिनीं वृषारूढां रुद्राणीं रुद्रदैवताम्॥
आवाहयाम्यहं देवीमायान्तीं सूर्यमण्डलात् ।
आगच्छ वरदे ! देवि ! त्र्यक्षरे ! रुद्रवादिनि ! ।
सावित्रि ! च्छन्दसां माता ! रुद्रयोने ! नमोऽस्तुते॥”
अथाचमनम् । “आपः पुनन्त्वित्यस्य कश्यप ऋषिः अनुष्टुप्छन्दः आपो देवता आचमने विनियोगः । ॐआपः पुनन्तु पृथिवींपृथ्वी पूता पुनातु माम् । पुनन्तु ब्रह्मणस्पतिर्ब्रह्मपूता पुनातु
माम् । यदुच्छिष्टमभोज्यं यद्वा दुश्चरितं मम । सर्वं पुनन्तु मामापोऽसताञ्च प्रतिग्रह<MISSING_FIG href="../books_images/U-IMG-1698891238Screenshot(14"/>.png)स्वाहा” । अन्योऽपि विशेषः । सूर्योपस्थाने यथा सूर्यायार्धं दद्यात् । तद्यथा “ॐ कारस्प ब्रह्मा ऋषिःगायत्री च्छन्दः परमात्मा देवता भूर्भुवः स्वरित तिसृणां प्रजापतिर्ॠषिःगायत्र्युष्णिगनुष्टुपूछन्दांसिअग्निर्वायुःसूर्यो देवता तत्सवितुरिति विश्वामित्र ऋषिःगायत्रीच्छन्दः सविता देवता सूर्यायार्घदाने विनियोगः॥ ॐ भूर्भुवः स्वः तत्सवि०" दित्यादिसूर्याभिमुखो भूत्वा तिष्ठन् सपुष्प जलेऽर्घंप्रक्षिपेत् । “ॐ उद्वयमिति प्रस्कण्व ऋषिः अनुष्टुप् छन्दः सूर्यो देवता उदुत्यमित्यस्य प्रस्कण्व ऋषिः उष्णिक्छन्दः सूर्यो देवता । ॐकारस्य ब्रह्मा ऋषिःगायत्रीच्छन्दः परमात्मा देवता । भूरिति प्रजापतिर्ऋषिः गायत्रीच्छन्दः अग्नर्देवता ।भुवरिति प्रजापतिर्ऋषिःउष्णिक्छन्दः वायुर्देवता ।स्वरिति प्रजापतिर्ऋषिःअनुष्टुप्छन्दःसूर्यो देवता ।तत्सवितुरिति विश्वामित्र ऋषिःगायत्रीच्छन्दः सविता देवता ।बिभ्राडित्यस्य विभार्य ऋषिः जगतीच्छन्दः सूर्यो देवता । उदुत्यंतिस्रः प्रस्कण्वः गायत्री । तं प्रत्नथाऽवत्सारकश्यपवृषीजगतीच्छन्दः सूर्यो देवता । अयं वेनस्त्रिष्टुप्सूर्यः। चित्रन्देवानां कुत्स आझिरस ऋषिःत्रिष्टुप् छन्दः सूर्यो देवता । आ नो गस्त्या, यदद्य कच्चसुतकक्षौ । तरणिः प्रस्कण्वः ।तत्सूर्यस्य द्वे कुत्सः ।बण्महान्द्वे जमदग्निर्बृहतीसतबृहत्यौ । श्रायन्त इव नृमेधो बृहती ।अद्यादेवाः कुत्सः । आकृष्णेन हिरण्यस्तूप आङ्गिरसः त्रिपदानां गायत्रीच्छन्दः अन्यासामनुक्तानां त्रिष्टुप् ।सर्वासां सूर्यो देवता । सहस्रशीर्षेति षोडशर्चांनारायण ऋषिः पञ्चदशानामनुष्टुप् छन्दः पोडशस्त्रिष्टुप् सर्वासां सूर्यो देवता । यज्जाग्रत इति षडर्चस्य शिवसङ्कल्प ऋषिःत्रिष्टुप्छन्दः मनो देवता । उपस्थाने विनियोगः । मण्डलब्राह्मणस्य विवस्वान्नृषिः वायुर्देवता उपस्थाने विनियोगः" । एतैरुपस्थाय प्रदक्षिणीकृत्य नमस्कृत्य दर्भेषूपविशेत् ।
वृद्धमनुः —
न प्रातर्न प्रदोषश्च सन्ध्याकालोविपद्यते ।
मुख्यकल्पोऽनुकल्पश्च सर्वस्मिन्कर्मणि स्मृतः॥
प्रातःसन्ध्यांसनक्षत्रां मध्यमां स्नानकर्मणि ।
सादित्यां पश्चिमां सन्ध्यामुपासीत यथाविधि॥
इति मुख्यकालः ।स्नानकर्मणीति मध्याह्नस्नानानन्तरमित्यर्थः । गौणकालस्तु स्मृतिसारे—
उदयात्प्राक्तनी सन्ध्या घटिकात्रयमुच्यते ।
सायं सन्ध्या त्रिघटिका अस्तादुपरि भास्वतः॥
दक्षः—
अध्यर्द्धयामादासायं सन्ध्या माध्याह्निकीर्यते ।
अर्ध्यप्रदानतः पूर्वमुदयेस्तमयेऽपि वा ।
गायत्र्यष्टशतं जप्यं प्रायश्चित्तं द्विजन्मभिः॥
कात्यायनस्तु—
सन्ध्याकालेव्यतिक्रान्ते जपं कुर्यात्पुनर्मनः ।
**ऋचं वाचं तृचं जप्त्वा ततः सन्ध्यामुपासयेत्॥ **
योगीशः—
सर्वावस्थोऽपि यो विप्रः सन्ध्योपासनतत्परः ।
ब्राह्मण्याच्च न हीयेत अन्यजन्मगतोऽपि वा॥
यावन्तोऽस्यां पृथिव्यान्तु विकमस्था द्विजातयः॥
तेषां हि पावनार्थाय सन्ध्या सृष्टा स्वयम्भुवा ।
स्नानं सन्ध्यां त्यजन् विप्रःसप्ताहाच्छूद्रतां व्रजेत्॥
तस्मात्स्नानं च सन्ध्यां च सूतकेऽपि न सन्त्यजेत्॥
स्मृतिसारे—
अशक्तौ निर्जले देशे मृतौ जाते च सूतके ।
जपेच्च मानसींसन्ध्यां कुशवारिविवर्जिताम्॥ इति ।
तद्यथा—
सन्ध्यायां मनसा शक्त्या मन्त्रानुचारयेद्द्विजः ।
प्राणायामंविना सर्वा नाड्यः प्राणान्नियम्य च ।
मार्जनादिभवेत्सर्वं नवा कार्यं हि मार्जनम्॥
उच्चार्य वाचा गायत्रीं दद्यादर्घाञ्जलीनपि ।
अष्टाविंशतिकृत्वोऽत्र गायत्रीं मनसा जपेत्॥ इति ।
दर्भेषूपवेशनानन्तरं पाणिभ्यां दर्भानादाय “इषे त्वादि खं ब्रह्मा-
न्तस्य विवस्वानृषिः वायुर्देवता गायत्र्यादीनि च्छन्दांसि ब्रह्मपज्ञजपे विनियोगः” । इत्यृष्यादिकं च स्मृत्वा प्रणवव्याहृतिगायत्रीपूवकं ययाशक्ति ब्रह्मयज्ञं कुर्यात् । अनध्यायेऽल्पं पठेदेवं पर्वण्यल्पतरम् ।“नास्ति तेष्वप्यनध्याय” इति स्मरणात् ।
" इति विद्यातपोयोनिरयोनिर्विष्णुरीडितः ।
वाग्यज्ञेनार्चितो देवः प्रीयतां मे जनार्द्दनः”॥
इति समाप्य । तान् दर्भानुत्तरतो निरस्याचामेत् । तथा च मनुः—
कुशानुतरतः क्षिप्त्वायथाचमनमाचरेत्॥ इति ।
अथ स्थलतर्पणम् । तद्यथा–भूमौ प्रागग्रान् कुशानास्तीर्य तत्र प्रागग्रेषु सुरान् दक्षिणाग्रेषु च पितृन्मन्त्रैरावाहयेत्तर्पयेच्च अथवा आवाहनपूर्वकं तर्पणमप्स्वेव कुर्यात् । तत्र “विश्वे देवास आगतेति द्वयोः प्रजापतिर्ऋषिः गायत्रीच्छन्दः विश्वेदेवा देवताःजपे विनियोगः । ॐ विश्वे देवास ० ध्वम्” । २ । ततोऽपसव्यं कृत्वा दक्षिणाभिमुखः “उशन्तस्त्वेत्यस्य प्रजापत्यश्विसरस्वत्य ऋषयःगायत्रीच्छन्दः पितरो देवताःआयन्तु न इत्यस्य शङ्ख ऋषिःत्रिष्टुप् छन्दः पितरो देवता आवाहने विनियोगः” । ततुः यज्ञोपवीती प्राङ्मुखः नव सप्त पञ्च त्रीन्वाकुशान् समुलानच्छिन्नाग्रान्दक्षिणपाणिनाऽऽदाय सशुक्लतिलोदकेन वाञ्जलिं देवतीर्थेन पूरयित्वा जलं क्षिपेद्रोशृङ्गमात्रमुद्धृत्य देवतीर्थेन च प्रागग्रेर्दर्भैर्जलमध्ये जलं क्षिपेत् । तद्यथा— “ॐब्रह्मा तृप्यताम् । ॐ विष्णुस्तृप्यताम् । ॐ रुद्रस्तृप्यताम् । ॐ प्रजापतिस्तृप्यताम् । ॐ देवास्तृप्यन्ताम् । ॐ छन्दा<MISSING_FIG href=”../books_images/U-IMG-1698892685Screenshot(14"/>.png)सि तृप्यन्ताम् । ॐ ऋषयस्तृप्यन्ताम् । ॐ पुराणाचार्यास्तृप्यन्ताम् । ॐ गन्धर्वास्तृप्यन्ताम् । ॐ इतराचार्यास्तृप्यन्ताम् । ॐ सम्वत्सरः सावयवस्तृप्यताम् । ॐ देव्यस्तृप्यन्ताम् । ॐ अप्सरसस्तृप्यन्ताम् । ॐ देवानुगास्तृप्यन्ताम् । ॐ नागास्तृप्यन्ताम् । ॐ सागरास्तृप्यन्ताम् । ॐ पर्वतास्तृप्यन्ताम् । ॐ सरितस्तृप्यन्ताम् । ॐ मनुष्यास्तृप्यन्ताम् । ॐ यक्षास्तृप्यन्ताम् । ॐ
रक्षा<MISSING_FIG href="../books_images/U-IMG-1698892798Screenshot(14"/>.png)सि तृप्यन्ताम् । ॐ पिशाचास्तृप्यन्ताम् । ॐ सुपर्णास्तृप्यन्ताम् । ॐ भूतानि तृप्यन्ताम् । ॐ पशवस्तृप्यन्ताम् । ॐ वनस्पतवस्तृप्यन्ताम् । ॐ ओषधयस्तृप्यन्ताम् ।ॐ भूतग्रामचतुर्विधस्तृप्यताम्" इति प्रत्येकमेकैकाञ्जलिं दद्यात् । ततो निवीत्युदङ्मुख ऊर्ध्व ऋजुरुदगग्रैर्दर्भैर्मनुष्यतर्पणं कुर्यात् । अथवा दर्भाणां मूलानि वामपाणितले दक्षिणे च अग्राणि कृत्वा दर्भमध्यैः प्राजापत्येन तीर्थेन शबलतिलोदकैर्वाप्रतिदैवतं मन्त्रावृत्या द्वौ द्वौ अञ्जली दद्यात् । यथा । “ॐ सनकस्तृप्यताम् । ॐ सनन्दनस्तृप्यताम् । ॐ सनातनस्तृप्यताम् । ॐ कपिलस्तृप्यताम् । ॐॐ आसुरिस्तृप्यताम् । ॐ वोढुस्तृप्यताम् । ॐ पञ्चशिखस्तृप्यताम्” । ततोऽपसव्यं कृत्वा दक्षिणाभिमुखः सव्यं जान्वाच्य तानेव कुशान् मध्यमो टनेन द्विगुणान्कृत्वा तेषां मध्यं वामाङ्गुष्ठतर्जन्यन्तरे धृत्वा वामहस्तमणिबन्धे घृतान्कृष्णतिलान्सव्येनाङ्गुष्ठॆन तर्ज्जन्या वामहस्ते आदाय पितृतीर्थेन जलाञ्जलिमापूर्यतेनैव प्रतिदैवतं मन्त्रावृत्या त्रींस्त्रीनञ्जलीन्दद्यात् । यथा “ॐ कव्यवाडनलस्तृप्यताम् । ॐ सोमस्तृप्यताम् । ॐ यमस्तृप्यताम् । ॐ अर्यमा तृप्यताम् । ॐ अग्निष्वात्ताः पितरस्तृप्यन्ताम् । ॐ सोमपाः पितरस्तुप्यन्ताम् । ॐ वर्हिषदः पितरस्तृप्यन्ताम् । ॐ यमाय नमः । ॐ धर्मराजाय नमः ।ॐ मृत्यवे नमः । ॐ अन्तकाय नमः । ॐ वैवस्वताय नमः । ॐ कालाय नमः । ॐ सर्वभूतक्षयाय नमः । ॐ औदुम्बराय नमः । ॐ दध्नाय नमः । ॐ नीलाय नमः । ॐ परमेष्ठिने नमः । ॐ वृकोदराय नमः । ॐ चित्राय नमः । ॐ चित्रगुप्ताय नमः" । जीवत्पितृकोऽप्येतावत्तर्पणं कुर्यात् । मृतपितृकस्तु स्वपितॄणां च तद्यथा—“अमुकगोत्रः अस्मत्पिता अमुकशर्मा तृप्यताम् । इदं जलं तस्मै स्वधा नमः” । पुनरञ्जलिद्वयम् ।“अमुकगोत्रःअस्मत्पितामहः अमुकशर्मा तृप्यताम् । इदं जलं तस्मै स्वधा नमः ।अमुकगोत्रःअस्मत्प्रपितामहः अमुकशर्मा तृप्यताम् । इदं
जलं तस्मै स्वधा नमः । गोत्रा अस्मन्माता अमुकीदा वसुरूपा तृप्यताम् । इदं जलं तस्यै स्वधा नमः । गोत्रा अस्मपितामही अमुकीदा रुद्ररूपा तृप्यताम् । इदं जलं तस्यै स्वधा नमः । गोत्रा अस्मत्प्रपितामही अमुकीदा आदित्यरूपा तृप्यताम् । इदं जलंतस्यै स्वधा नमः” । अथ प्रसेकाख्यं कर्मोच्यते । “उदीरतामाङ्गिरसो न आयन्तु न इति तिसृणां शङ्ख ऋषिः त्रिष्टुछन्दः पितरो देवताः । उर्ज्जंवहन्तीरिति प्रजापतिर्ऋषिः गायत्रीच्छन्दः पितरो देवता । पितृभ्यो ये चेह पितर इति द्वयोः प्रजापत्यश्विसरस्वत्य ऋषयःत्रिष्टुप्छन्दः पितरो देवना । मधु वाता इत्यस्य गौतम ऋषिःगायत्रीच्छन्दः पितरो देवता । सर्वेषां प्रसेकाख्ये कर्मणि विनियोगः । ॐ उदीरता० । अङ्गिरसो नः० । आयन्तु नः । उर्ज्जंव्वहन्ती० ।पितृभ्यः स्वधायिभ्यः। ये चेह पितरो० । ॐ मधु व्वाता० । मधु नक्त० । मधुमान्नो० ।" इति नवर्चंजपन् सन् सिञ्चेत् । ततः “तृप्यध्वं तृष्यध्वं तृष्यध्वम्” इति नवचेपसेकान्ते प्रतिपुरुषमञ्जलित्रयं दद्यात् । “अमुकगोत्रोऽस्मन्मातामहः अमुकशर्मा वसुरूपस्तृप्यतां इदं जलं तस्मै स्वधा नमः ।” एवं प्रमाता महवृद्धप्रमातामहयोः । तथा मातामहिप्रमातामहिवृद्धप्रमातामहीनाञ्च । “नमो व इति यजुषां परमेष्ठी प्रजापतिर्ऋषिः पितरो देवता जपे विनियोगः । ॐ नमो वः पितरो रसाय नमो वः पितरः शोषाय नमो वः पितरो जीवाय नमो वः पितरः स्वधायै नमो वः पितरो घोराय नमो वः पितरो मन्यवे नमो वः पितरः पितरो नमो वो गृहान्नः पितरो दत्त सतो वः पितरो देष्मैतद्वःपितरो व्वासः। " इति मन्त्रंजप्त्वा “ॐ तृप्यध्वं तृप्यध्वं तृप्यध्वम्” इति । पूर्ववत्प्रतिपुरुषं अञ्जलित्रयं दद्यात् । ततः स्त्री । ततः पुत्रादिः । ततः पितृव्यः सपत्नीक ससुतः । ततो मातुलः सपत्नीक ससुतः । स्वभ्राता सपत्नीकःससुतः । ततः पितृभगिनी सभर्तृका
ससुता । ततो मातृभगिनी सर्भतृका ससुता । स्वभगिनी सभर्तृका ससुता । ततः श्वशुरः । ततो गुरुः । तल आप्तजनाः मित्रादयः । एवं तर्पणं विधाय । एकं तिलाजलिं दद्यात् । तत्र मन्त्रः । विष्णुपुराणे—
“देवासुरास्तथा नागा यक्षगन्धर्वराक्षसाः ।
पिशाचा गुह्यकाः सिद्धा कूष्माण्डास्तरवः खगाः॥
जलेचरा भूमिलया वाय्वाधाराय जन्तवः ।
तृप्तिमेते नयन्त्वाशु मद्दत्तेनाम्बुनाखिलाः॥
नरकेषु समस्तेषु यातनासु च ये स्थिताः ।
तेषामाप्यायनायैतद्दीयते सलिलं मया॥
येऽवान्धवा बान्धवा वा येऽन्यजन्मनि बान्धवाः ।
ते सर्वे तृप्तिमायान्तु ये चास्मतोऽभिकाङ्क्षिणः॥
यत्र क्वचन संस्थानां क्षुत्तृष्णोपहतात्मनाम् ।
इदमक्षय्यमेवास्तु मया दत्तं तिलोदकम्॥
आब्रह्मस्तम्बपर्यन्तं देवर्षिपितृमानवाः ।
तृप्यन्तु पितरः सर्वे मातृमातामहादयः॥
अतीतकुलकोटीनां सप्तद्वीपनिवासिनाम् ।
आब्रह्मभुवनाल्लोकादिदमस्तु तिलोदकम्॥ “
ततः स्नानवस्त्रं चतुर्धा कृत्वोर्द्ध्वदशं भूमौ निःपीडयेत् । तत्र मन्त्रः—
“ये चास्माकं कुले जाता अपुत्रा गोत्रिणो मृताः ।
ते गृह्णन्तु मया दत्तं वस्त्रनिष्पीडनोदकम्॥
येषां नैव पिता भ्राता न पुत्रो नान्यगोत्रिणः ।
ते सर्वे तृप्तिमायान्तु मयोत्सृष्टैःकुशैः सदा”॥
इति दर्भत्यागः ।अथ जले ब्रह्मादीनां पूजनम् । तत्र “ब्रह्म जज्ञानमिति प्रजापतिर्ऋषिः त्रिष्टुप् छन्दः ब्रह्मा देवता ब्रह्मपूजने विनियगः । इदं विष्णुरिति मेधातिथिर्ऋषिःगायत्रीच्छन्दःविष्णुःदेवता विष्ण्वर्चने० । नमस्ते रुद्रेति मित्रो गायत्री रुद्रो रुद्रार्चने० " गायत्र्यासवितारम् । “मित्रस्य चर्षणीघृत इति विश्वामित्रो गायत्री
मित्रो मित्रार्चने० ।इमम्मे वरुणेति शुनः शेपो गायत्री वरुणः वरुणार्चने विनियोगः ।” इति ऋष्यादि स्मृत्वा मन्त्रं पठित्वा “ॐ ब्रह्मणे नमः पाद्यं समर्पयामि । ॐब्रह्मणे नमः अर्घंसमर्पयामि " इत्येवं षोडशोपचारैः पञ्चोपचारैर्वा ब्रह्माणं सम्पूज्य एवं विष्णुरुद्रसवितृमित्रवरुणान् पूर्वोक्तस्तल्लिङ्गैरर्चयेत् । ततः “अदृश्रमिति प्रस्कण्वो गायत्री सूर्यःउपस्थाने० ।शुचिषदिति नामदेवो जगती सूर्यः उप० । ॐ अदृश्रम ।ह<MISSING_FIG href=”../books_images/U-IMG-1698893947Screenshot(21”/>.png)सः शु० " इत्युभाभ्यां सूर्यमुपस्थाय प्रदक्षिणनावृत्य । “ॐप्राच्यै दिशे नमः इन्द्राय नमः । ॐ आग्नेय्यै दि० अग्नये० । ॐ दक्षिणायै दिशे० यमाय नमः । ॐ नैर्ऋत्यै नैर्ऋतये । ॐ प्रतीच्यै० वरुणा ० ॐ वायव्यै दि० वायवे० ।उदीच्यै दि० सोमाय० । ॐ ईशान्यै दिशे० ईशानाय० । ॐ ऊर्ध्वायै दि० ब्रह्मणे० । ॐ अवाच्यैदि० अनन्ताय नमः ।" इति दिग्देवताश्च नमस्कृत्योपविश्य “ॐ ब्रह्मणे नमः । ॐ अग्नये नमः । ॐ पृथिव्यै नमः ।ॐ ओषधिभ्यो० । ॐ वाचेन ०। ॐ वाचस्पतये० ।ॐ विष्णवे० । ॐ महद्भयो० । ॐ अभ्द्यो०। ॐ अपां पतये वरुणाय नमः" इति क्रमेणैताभ्यो देवताभ्यो जलं दत्वा नमस्येत् । ततः “सं वर्चसेति परमेष्ठी त्रिष्टुप् त्वष्टा मुखमार्जने० । ॐ सं वर्च० लिष्ट"मिति मुख शोषयित्वा, “देवा गातुविद इति मनसस्पतिर्ऋषिःविराट्छन्दः वातो देवता विसर्जने विनियोगः ।ॐ देवा गातु० ते धाः” इति विसर्जनमुद्रया कर्माङ्गभूतदेवान्विसृज्य,
प्रक्षालय तीर्थदेशं तं गत्वा स्वं कर्म चाचरेत् ।
जलदेवं नमस्कृत्य ततो गच्छेद्गृहं बुधः॥
इति स्मृत्यन्तरे । अथ संक्षेपतर्पणम् । तथा चोक्तम् ।
आब्रह्मस्तम्बपर्यन्तं जगत्तृप्यत्त्विति ब्रुवन् ।
जलाञ्जलित्रयं दद्यात्कुर्वन्संक्षेपतर्पणम्॥
तच्चेत्थम्—
“आब्रह्मस्तम्बपर्यन्तं जगत्स्थावरजङ्गमम् ।
मया दत्तेन तोयेन तृप्तिं यातु परां गतिम्॥”
इति संक्षेपतर्पणम् । वृद्धमनुः—
यां कां चित्सरितं प्राप्य कृष्णपक्षे चतुर्दशी ।
यमुनान्तु विशेषेण नियतो नियतेन्द्रियः॥
यमाय धर्मरा०॥
इत्येतैर्नाममन्त्रैस्तु प्रणवादिनमोऽन्तकैः ।
तर्पयित्वा यमं देवं सर्वपापैः प्रमुच्यते॥ इति ।
स्कान्दे—
कृष्णपक्षे चतुर्दश्यामङ्गारकदिनं यदि ।
तदा स्नात्वा शुभे तोये तर्पयेद्यमनामपिः॥
यमोऽपि—
सदा जलाञ्जलीन्दत्वा कृष्णपक्षे चतुर्दशी ।
धर्मराजं समुद्दिश्य सर्वपापैः प्रमुच्यते॥
इति यमतर्पणम् ।
अथ गृहे देवार्चनविधिः । तत्र मरीचिः—
विधाय देवतापूजां प्रातर्होमादनन्तरम् ।
पूर्वाह्णएव कुर्वीत देवतानां च पूजनम्॥
कूर्मपुराणे—
पौरुषेण तु सूक्तेन ततो विष्णुं समर्चयेत् ।
वैश्वदेवं ततः कुर्याद्बलिकर्म तथैव च॥
इत्यनेन मध्याह्नकालो गौणः नारदीये तु—
प्रातर्मध्यन्दिने सायं विष्णुपूजां समाचरेत् ।
यथा सन्ध्या स्मृता नित्या देवपूजा तथैव च॥
अशक्तौ विस्तरेणैव प्रातः सम्पूज्य केशवम् ।
मध्याह्नेचैव सायं च पुष्पाञ्जलिमपि क्षिपेत्॥
पूज्यदेवताश्च पाद्मे दर्शिताः ।
आदित्यं गणनाथं च देवीं रुद्रं यथाक्रमम् ।
नारायणं विशुद्धाख्यमन्ते च कुलदेवताम्॥
धर्मप्रवृत्तावपि—
नारायणं महादेवमादित्यं गणनायकम् ।
शक्तिंचैवाथ पञ्चैतान्प्रत्यहं पूजयेद्द्विजः॥
अथ पूजाधारो निरूप्यते । तत्र नारदीये—
आपोऽग्निर्हृदयं चक्रं विष्णोः क्षेत्रसमुद्भवम् ।
यन्त्रं च प्रतिमा स्थानमर्चयेत्सर्वदा हरेः।
गौतमीये—
शालग्रामे मणौ यन्त्रे प्रतिमामण्डलेषु वा ।
नित्यं पूजां हरेः कुर्यान्न तु केवलभूतले॥
शालग्रामशिलास्पर्शात्त्कोटिजन्मोघनाशनम् ।
किंपुनश्चार्चनं यत्र हरिसान्निध्यकारणम्॥
एतेन विष्णुपूजायां शिलाया अपि प्राधान्यम् । मण्डलादीनान्तु सर्वसाधारणत्वात् विष्णुरित्युपलक्षणम् । पञ्चानामपि शिला ग्राह्या । विष्णोर्गण्डकीशिला । शिवगणेशयोनार्मदीया । शक्तेर्माहोरकुण्डजा । रवेः सूर्यकान्तजा शिलेति ।
यन्त्र मन्त्रमयं प्रोक्तं मन्त्रात्मा देवतेति च॥
पञ्चीयतनस्थापनक्रम उक्त आचारप्रदीपे—
शम्भौ मध्यगते हरीनहरभूदेव्यो हरौ शङ्करे–
भास्येनागसुता रवौ हरगणेशाजाम्बिकाः स्थापिताः ।
देव्यां विष्णुहरैकदन्तरवयो लम्बोदरेऽजेश्वरे—
नार्याः शङ्करभागतोऽतिशुभदा व्यस्तास्तु ते हानिदाः॥
अत्र प्रधानस्य शङ्करभागतः ईशानकोणादारभ्य प्रदक्षिणक्रमेण स्थापनीया इत्यर्थः । यत्र प्रधानः शिवः स मध्ये । तस्येशाने हरिर्विष्णुः । आग्नेय्यां इनः सूर्यः । नैर्ऋते हरभूर्गणेशः । वायव्ये देवी शक्तिः । यत्र विष्णुः प्रधानस्तत्र ईशान्ये शङ्करः शिवः । आग्नेय्यां इभास्यो गणेशः । नैर्ऋते इनः सूर्यः। वायव्ये अगसुता शक्तिः। यत्र रविः प्रधानस्तत्रेशाने हरः शिवः । आग्नेय्यां गणेशः प्रसिद्धः । नैर्ऋते अजो विष्णुः । वायव्ये अम्बिका शक्तिः । यत्र देवी प्रधाना तत्रेशाने विष्णुः प्रसिद्धः । आग्नेय्यां हरः शिवः । नैर्ऋते एकदन्तो गणेशः । वायव्ये रविः
पट्टवस्त्रं त्रिमासाच्च यज्ञसूत्रं त्र्यहःस्मृतम् ।
यावदन्नं भवेदुष्णं परमान्नं तथैव च ।
दत्तेच रुधिरं चैव अहोरात्रेण पार्वति !॥
मुहूर्त्तं दधिदुग्धञ्चआज्यं यामेन शाङ्करि ! ।
ताम्बूलं दत्तमात्रेण भवेत्पर्युषितं प्रिये !॥
भार्गवार्चने भविष्ये—
तुलस्यां बिल्वपत्रेषु सर्वेषु जलजेषु च ।
न पर्युषितदोषोऽस्ति मालाकारगृहेऽपि वा॥
इति श्रीप्रथमशाखीयरामकृष्णविरचिते पारस्करसूत्रविवरणे
संस्कारगणपतौगृहे देवार्चनविधिः ।
<MISSING_FIG href="../books_images/U-IMG-1698895772Screenshot(33"/>.png)
( नवमीकाण्डका )
अथातः पञ्च महायज्ञाव्वैश्वदेवादम्नात्पर्युक्ष्य स्वाहकारैर्जुहुयाद्ब्रह्मणे प्रजापतये गृह्याभ्यः कश्यपायानुमतय इति भूतगृह्येभ्यो मणिके त्रीन्पर्जन्यायाद्भ्यःपृथिव्यै धात्रेविधात्रे च द्वार्ययोः प्रतिदिशं वायवे दिशां च मध्ये त्रीब्रह्मणेऽन्तरिक्षाय सूर्याय विश्वेभ्यो देवेभ्यो विश्वेभ्यश्च भूतेभ्यस्तेषामुत्तरतऽ उषसे भूतानां च पतये परं पितृभ्यः स्वधा नमऽइति दक्षिणतः पात्रं निर्णिज्योत्तरापरस्यां दिशि निनयेद्यक्ष्मैतत्तऽइत्युद्धृत्याग्रं ब्राह्मणायावनेज्य दद्याद्वन्ततऽइति यथाऽर्हं भिक्षुकानतिथींश्चसम्भजेरन्बालज्येष्ठा गृह्या यथार्हमश्नीयुःपश्चाद्गृहपतिः पत्नी च पूर्वोवा गृहपतिस्तस्मादु स्वादिष्टं गृहपतिः पूर्वोऽतिथिभ्योऽश्नीयादिति श्रुतेरहरहः स्वाहा कुर्यादन्नाभावे केन चिदाकाष्ठाद्देवेभ्यः पितृभ्यो मनुष्येभ्यश्चॊदपात्रात्॥ ९॥
अथ पञ्च मद्दायज्ञाः । तत्र सूत्रम् “अथातः पञ्च महायज्ञाः"
इति । अथ पूर्वोक्तकर्मानन्तरं पञ्च महायज्ञाः व्याख्यास्यन्त इति सूत्रशेषः । महायज्ञा इति कर्मनामधेयम् । ते पञ्चधा भूतयज्ञ - मनुष्ययज्ञ - पितृयज्ञ- देवयज्ञ-ब्रह्मयज्ञभेदात् । तथा च कात्यायनः—
देवभूतपितृब्रह्ममनुष्याणामनुक्रमात् ।
महासत्राणि जानीयात्त एव हि महामखाः॥
पञ्चयज्ञविधानन्तु गृही नित्यं न हापयेत्॥
इतिशङ्खवचनान्नित्य एव । तथा च शतपथश्रुतिः– “पञ्चैवमहायज्ञस्तान्येव महासत्राणि भूतयज्ञो मनुष्ययज्ञः पितृयज्ञो ब्रह्मयज्ञ” इति । किमर्थं कर्त्तव्यमित्याह \। विधानपरिजाते—
पञ्चसूना गृहस्थस्य वर्त्तन्तेऽहरहः सदा ।
कण्डनी पेषणी चुल्ली जलकुम्भ उपस्करः॥
एतानि वाहयन्विप्रो बाध्यते वा मुहुर्मुहुः ।
एतेषां पावनार्थाय पञ्चयज्ञाः प्रकीर्तिताः॥
हिंसास्थानं सुना ।उपस्करो मार्जनादिः ।
सायं प्रातर्वैश्वदेवः कर्त्तव्यो बलिकर्म च ।
अनश्नतापि सततमन्यथा किल्बिषी भवेत्॥
इति कात्यायनवचनात् । स्मृत्यन्तरेऽपि—
वैश्वदेवविहीना ये आतिथ्येन विवर्जिताः ।
ते सर्वे निरयं यान्ति काकयोनिंप्रयान्ति ते॥
यज्ञपार्श्वे काव्यायनः—
अनाहिताग्निभिःकार्यो वैश्वदेवो यथाविधि ।
अभक्ष्यस्तु भवेत्पाको वैश्वदेवविवर्जितः॥
वीरमित्रोदये स्मृतिः—
ततः पञ्चमहायज्ञान्कुर्यादहरहर्द्विजः ।
न हापयेत तान्प्राज्ञः श्रूयन्ते हि श्रुतावपि॥
तत्र देवयज्ञो “ब्रह्मणे स्वाहे” त्यादिहोमरूपः । “मणिके त्री"नित्यादि बलिक्रमरूपो भूतयज्ञः ।“पितृभ्यः स्वधा नम” इति बलिदानं नित्यश्राद्धं वा पितृयज्ञः ।“हन्त " कारातिथिपूजादिरूपो मनुष्ययज्ञः । पञ्चग्रहणात्पञ्चमो ब्रह्मयज्ञः । तदुक्तं सङ्ग्रहे—
अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् ।
होमो दैवो बलिर्भूतो नृयज्ञोऽतिथिपूजनम्॥
तर्पणं नित्यश्राद्धम् ।कात्यायनः—
श्राद्धं वा पितृयज्ञःस्य़ात्पित्र्योबलिरथापि वा॥ इति ।
“पितृभ्यः स्वधा नम” इति पितृबलिः। एषामनुष्ठानप्रकारमाह— “वैश्वदेवादन्नात्पर्युक्ष्यस्वाहाकारैर्जुहुया” दितिसुत्रम् ।विश्वे देवा देवता यस्येति वैश्वदेवमन्नम् । ते च देवपितृमनुष्यादयः देवतात्वमिति चेत् ? येन स्मृतावेष ।दानंहितम् ।एभ्यो दत्वा शेषभुजा गृहपतिना भवितव्यम् । तस्माद्वैश्वदेवमन्नम् । यदहरहः पच्यते शालाग्नौतत आदायग्निंपर्युक्ष्य स्वाहाकारैः सह वक्ष्यमाणैर्मन्त्रैर्जुहुयात् । पर्युक्षणग्रहणाच्च कुशकण्डिकोक्तेतिकर्तव्यताव्युदासः । स्वाहाकारैरिति यज्जुहोति तत्स्वाहाकारैः । शेषा नमस्काराः । आचरन्ति हि बलिकर्मणि नमस्कारान् ।यद्वा स्वाहाकारग्रहणं संस्रवव्युदासार्थम् । “ब्रह्मणे प्रजापतये गृह्याभ्यः कश्यपायानुमतय इति" इति सूत्रम् ।एतैर्मन्त्रैः पञ्चाहुतीर्जुहोति । इतिकारो होमसमाप्त्यर्थः । “भूतगृह्येभ्य" इति सूत्रम् ।भूतानि च गृह्याणि च भूतगृह्याणि । तेभ्यो बलीन्ददाति । तान्याह “मणिके त्रीन्पर्जन्यायाद्भ्यःपृथिव्यै” इति सूत्रम् ।माणिके मणिकसमीपे त्रीन्बलीन्दद्यात् । सामीप्यार्थे सप्तमी ।" पर्जन्याय नमः ।अद्भ्यो नमः ।पृथिव्यै नमः" । त्रीनितिग्रहणं भूतगृह्येभ्य इति चतुर्थबलिहरणशङ्काव्युदासार्थम् \। केचित्तु भूतगृह्येभ्य इत्येवं समन्त्रकं चतुर्थबलिहरणमिच्छन्ति । तदसत् । “धात्रेविधात्रे च द्वार्ययो"रितिसूत्रम् ।द्वारशाखयोर्मध्ये धात्रे विधात्रे इति द्वौ बली ददति । “प्रतिदिशं वायवे दिशाञ्चे"ति सूत्रम् ।दिशं दिशं प्रति इति प्रतिदिशम् । वायवे नम इत्यनेन मन्त्रेण चतुर्दिक्षु एकैकं बलि दद्यात् । दिशाञ्च यद्दानं तदपि प्रतिदिशं स्वस्वनाममन्त्रैर्ददाति । ततश्च “प्राच्यै दिशे नम” इति पूर्वे । “दक्षिणायै दिशे नम" इति दक्षिणदिशि । “पश्चिमायै दिशे नम" इति पश्चिमे । “उदीच्यै दिशे नम" इति उत्तरस्यां
दिशि । “मध्ये त्रीन्ब्रह्मणेऽन्वरिक्षाय सूर्याय विश्वेभ्यो देवेभ्यो विश्वेभ्यो भूतेम्यस्तेषामुत्तरत" इति सूत्रम् । मध्ये “ब्रह्मणे नमः । अन्तरिक्षाय नमः । सूर्याय नमः” इति त्रीन् बलीन् दद्यात् । आनन्तर्यातेषां त्रयाणां । बलीनामुत्तरप्रदेशे “विश्वेभ्यो देवेभ्यो नमः । विश्वेभ्यो भूतेभ्यो नमः” इति द्वौ बली दद्यात् । “पितृभ्यः स्वधा नम इति दक्षिणत” इति सूत्रम् । तेषामेव ब्रह्मादिबलीनां त्रयाणां दक्षिणतः दक्षिणप्रदेशे “पितृभ्यः स्वधा नम इति दक्षिणत” इतिमन्त्रेण एकं बलिं दद्यात् । पित्र्यत्वाच्च दक्षिणामुखः प्राचीनावीतीपातितवामजानुः भवति । नमस्कारश्चात्र प्रदर्शित आचार्येण स सर्वत्र बलिद्दरणेषु योजनीयः । समाचारादुक्तमेव “पात्रं निर्णिज्योत्तरापरस्यां दिशि निनयेद्यक्ष्मैतत्त” इति सूत्रम् । पात्रं उद्धरणपात्रं निर्णिज्य प्रक्ष्याल्य तदुदकं ब्रह्मादिबलित्रयाणामेवोत्तरापरस्यां वायव्यां दिशि निनयेत् । “यक्ष्मैतत्ते” इतिमन्त्रेण । अत्र निर्णेजनमित्यध्याहारः । बलिहरणे मध्यादिदेशः शालाया ग्राह्य इति भर्तृयज्ञः । “उधृत्याग्रं ब्राह्मणायावनेज्य दद्याद्धन्तत इति" इति सूत्रम् । तत एव वैश्वदेवादन्नादुद्धृत्य अयं षोडशग्रासपरिमितं प्रासचतुष्टयमितं वा ब्राह्मणाय अवनेज्य जलं दत्वा" हन्त त" इति मन्त्रेण दद्यात् । अग्रदानासामध्ये कार्ष्णाजिनिः—
भिक्षां वा पुष्कलां दद्याद्धन्तकारमथा पि वा॥ इति ।
मनुः —
ग्रासमात्रं भवेद्भिक्षा अग्रंग्रासचतुष्टयम् ।
अग्रं चतुर्गुणीकृत्य हन्तकारोऽभिधीयते॥
हन्तकाराचच पूर्वम्—
“यथार्हंभिक्षुकानतिथींश्चसम्भजेरन्"
इति सूत्रम् । यथार्हंयो यदन्तमर्हति तदन्तमनतिक्रम्य यथार्हंतत् यथा भवति तथा । भिक्षुकान् परिव्राजकाचारिप्रभृतीन् । अथ भिक्षुकानाह ।
व्यासः —
ब्रह्मचारी यतिश्चैव विद्यार्थी गुरुपोषकः ।
अध्वगः क्षीणवृत्तिश्च षडेते भिक्षुकाः स्मृताः॥
तत्र मधुमांसवर्जितं देयम् । एवमितरेषां यथोचितम् । अतिथींश्च अध्वनीनान् सम्भजेरन् भिक्षाभोजनादिदानेन तोषयेरन् गृहमेधिनः ।
अतिथिलक्षणमाह । व्याघ्रपादः—
अचिन्तितमनाहूतं वैश्वदेवे व्यवस्थितम् ।
अतिथि तं विजानीयान्नैकग्रामनिवासिनम्॥
क्षुधार्त्तस्तृषितश्चैव भ्रान्तो गृहमुपागतः ।
प्रयत्नान्नेन वै पुज्यः सोऽतिथिः स्वर्गसङ्क्रमः॥
अतिथिविमुखगते दोषमाह—
अतिथिर्यस्य भग्नाशो गृहाद्यदि निवर्तते ।
स तस्य दुष्कृतं दत्वा पुण्यमादाय गच्छति॥
वैश्वदेवात्पूर्वंभिक्षुके गृहागते तदा वैश्वदेवार्थमन्नंपृथक् स्थाप्य भिक्षुकाय देयम् । तथा चोक्तंगदाधरभाष्ये—
अकृते वैश्वदेवे तु भिक्षुके गृहमागते ।
उद्धृत्य वैश्वदेवार्थं भिक्षुकं तु विसर्जयेत्॥
पराशरः —
वैश्वदेवकृतं दोषं शक्तो भिक्षुर्व्यपोहितुम् ।
न हि भिक्षुकृतान्दोषान्वैश्वदेवो व्यपोहति॥
वैश्वदेवसमाप्तौ भिक्षुके आगते तदा मनुराह—
वैश्वदेवे तु निर्वृत्ते यद्यन्योऽतिथिराव्रजेत् ।
तस्मा अन्नं यथाशक्ति प्रदद्यान्न बलिं हरेत्॥
“बालज्येष्ठा गृह्या यथार्हमश्नीयु"रिति सूत्रम् । बालो ज्येष्ठः प्रथमो येष । ते बालज्येष्ठाः । ते च गृह्याः गृहे भवाः पुत्रपौत्रादयः । यथा योग्यमश्नीयुः भुञ्जीरन् । “पश्चाद्गृहपतिः पत्नी चे"ति सूत्रम् । गृह्याणामशनानन्तरं गृहपतिर्गृहस्वामी पत्नी तत्स्त्री च अश्नीतः । “पूर्वो वा गृहपतिस्तस्माद् स्वादिष्टं गृहपतिः पूर्वोऽतिथिभ्योऽश्नीयादितिश्रुते"रिति सूत्रम् । गृहपतिर्वा पत्न्याः पूर्वं अश्नीयात् न युगपत् । कुतः ? “तस्माद् स्वादिष्ट"मिति श्रुतेः । अस्यार्थः– तस्मात्स्वात् अन्नात् यत् इष्टं गृहपतिरश्नाति, अतिथिभ्यः अशितेभ्यः पूर्वंपत्न्या इति । “अहरहः स्वाहा कुर्यादन्नाभावे केनचिदाकाष्ठाद्देवेभ्यः पितृभ्यो मनुष्येभ्यश्चोदपात्रात्" इतिसूत्रम् । अहरहः स्वाहा कुर्यादन्नाभावे
केनचिद्द्रव्येण काष्ठेन वा कार्यः । स्मृत्यर्थसारे—
पक्वाभावे प्रवासे वा तण्डुलानोषधीस्तु वा ।
पयो दधि घृतं वापि कन्दमूलफलादि वा॥
योजयेद्देवयज्ञादौ जलं वाऽऽपत्सु वा जले॥
व्यासः—
जुहुयात्सर्पिषाऽभ्यक्तं तैलक्षारं विवर्जयेत् ।
दध्यक्तं पयसाऽक्तं वा तदभावेऽम्भसाऽपि वा ।
इदं स्रुवेण होतव्यं पाणिना कठिनं हविः॥
विधानपारिजाते—
पाण्याहुतिर्द्वादशपर्वपूरिका घृतादिना चेत्स्रुवमात्रपूरिका ।
देवेन तीर्थेन च हूयते हविः स्वङ्गारिणि स्वर्चिषि तच्च पावके॥
उत्तानेन तु हस्तेन अङ्गुष्ठाग्रेण पीडितम् ।
संहताङ्गुलिपाणिस्तु वाग्यतो जुहुयाद्धविः॥
वर्ज्यद्रव्यमाह—
कोद्रवं चणकं माषंमसूरं च कपित्थकम् ।
क्षारं च लवणं सर्वं वैश्वदेवे विवर्जयेत्॥
स्मृत्यन्तरेऽपि—
कोद्रवं वरकं माषंमसूरं च कुलित्थकम् ।
काञ्जीपक्वंपरान्नं च वैश्वदेवे तु वर्जयेत्॥
अथात्र नित्यश्राद्धं कर्त्तव्यम् । तत्तु साग्नेर्न, पितृबलिनैव सिद्धत्वात् ।
तदुक्तं गदाधरभाष्ये—
कृत्यकृत्पितृयज्ञस्य साग्नेः श्राद्धं न विद्यते ।
नित्यं पित्र्येण बलिना निरग्नेस्तत्तु विद्यते॥
बलेरभावात्पित्र्यस्य शिष्टात्काकबलिः स्मृतः॥
विकल्पः प्रतिभाति ।
श्राद्धं वा पितृयज्ञः स्यात्पित्र्यो बलिरथापि वा ।
साग्निकः पितृयज्ञान्तं बलिकर्म समाचरेत्॥
अनग्निर्हुतशेष तु काके दद्यादिति स्मृतिः॥
बलिर्निवेशनम् । सोदकमन्नं भूमौ चाण्डालवायसादिभ्यो निक्षिपेत् । मनुः—
शुनां च पतितानां च श्वपचांपापरोगिणाम् ।
वायसानां क्रिमीणां च शनकैर्निक्षिपेद्भुवि॥
अथ स्पष्टप्रयोगः । वैश्वदेवपर्याप्तमन्नं पात्रान्तरे उद्धृत्य अभिघार्य पाकादुद्घृतमग्निंकुण्डस्थाग्नौसंयोज्य प्रदीप्य पवित्रपाणिराचान्तः प्राणानायम्य देशकालौ सङ्कीर्त्य"अद्य यज्ञेश्वरप्रीतये पञ्चमहायज्ञान् अहं करिष्ये । तत्र देवान् भूतानि पितॄन् मनुष्यान् वैश्वदेवान्नेन यक्ष्ये’ इति सङ्कल्पं कृत्वा मणिकस्थोदकेन ईशानकोणादारभ्य प्रदक्षिणं पर्युक्षणं कृत्वा दक्षिणं जान्ववाच्य वामहस्तं हृदि निधाय दक्षिणेन ग्रासार्द्धमानमोदनमादाय, “ॐ ब्रह्मणे स्वाहा । इदं ब्रह्मणे न मम । ॐ प्रजापतये स्वाहा । इदं प्रजापतये न मम । ॐ गृह्याभ्यः स्वाहा । इदं गृह्याभ्यो न मम । ॐ कश्यपाय स्वाहा । इदं कश्यपाय न मम । ॐअनुमतये स्वाहा । इदं अनुमतये न मम" । शेषान्नेनमणिकसमीपे प्राक्संस्थमुदक्संस्थं वा । “ॐपर्जन्याय नमः । इदं पर्जन्याय न मम । ॐअद्भ्यो नमः । इदमद्भ्यो न मम । ॐपृथिव्यै नमः । इदं पृथिव्यै न मम" । इति बलित्रयं दद्यात् । द्वारशाखयोर्दक्षिणोत्तरक्रमेण । " ॐधात्रे नमः । इदं धात्रे० । ॐविधात्रे नमः । इदं विधात्रे०" इति बलिद्वयं दद्यात् । अग्नेः पश्चिमतः चतुर्दिक्षु“ॐ वायवे नमः । इदं वायवे०" । इत्यनेनैव बलिचतुष्टयं दद्यात् । चतुर्णां बलीनां प्राकृ । “ॐ प्राच्यै दिशे नमः । इदं प्राच्यै दिशे न० । “दक्षिणस्यै दिशे नमः । इदं दक्षिणस्यै दिशे० ।ॐ प्रतीच्यै दिशे नमः । इदं प्रतीच्यै० । ॐ उदीच्यै दिशे नमः । इदमुदीच्यै०" इति । सर्वत्र वलीना मध्ये प्राक्संस्थम् । “ॐब्रह्मणे नमः । इदं ब्रह्मणे० । ॐअन्तरिक्षाय नमः । इदमन्तरिक्षाय० । सूर्याय नमः । इदं सूर्याय०” इति बलित्रयं दद्यात् । बलित्रयस्योत्तरे प्राक्संस्थम् “ॐ विश्वेभ्यो देवेभ्यो नमः । इदं विश्वेभ्यो देवेभ्यो० । ॐविश्वेभ्यो भुतेभ्यो नमः । इदं विश्वेभ्यो भृतेभ्यो०" \। इति द्वौ बली दद्यात् । तदुत्तरतस्तथैव “ॐ उषसे नमः । इदमुषसे ० । ॐभूतानां च पतये नमः । इदं भूतानां च पतये०” । इति द्वौ बली
दद्यात् । ततोऽपसव्यं कृत्वा पातितवामजानुः दक्षिणामुखः ब्रह्मबलितो दक्षिणे “ॐ पितृभ्यः स्वधा नमः । इदं पितृभ्यः०" इति पितृतीर्थेन एकं बलिं सर्वशेषान्नेन दद्यात् । पात्रं प्रक्षाल्यनिर्णेजनजलं वायव्यां दिशि “ॐयक्ष्पैतत्ते निर्णेजनं नमः । इदं यक्ष्मणे॰” इत्युत्सृजेत् । अत्र ब्रह्मयज्ञः । वेदमारभ्य प्रत्यहं अध्यायमात्रं अध्यायद्वयं वा यावच्छक्ति जप्त्वा ततः स्मृतिपुराणगाथादि यथाशक्त्या जपेत् । “ॐ” कारः पूर्वं समाप्तौ “स्वस्ती"ति पठेत् । अशक्तौ गायत्रीमात्रं जपेत् । अस्मिन्नवसरे आगतमतिथिंपूजयेत् । तृप्तिपर्यन्तं वा षोडशग्रासमितं चतुर्ग्रासमितं वाऽन्नं “ॐसनकादिमनुष्येभ्यो नमः । इदं सनकादिमनुष्येभ्यो०” इति दद्यात् । ततो गोग्रासः—
“सौरभेय्यः सर्वहिताः पवित्राः पापनाशनाः \।
प्रतिगृह्णन्त्विमं ग्रासं गावस्त्रैलोक्यमातरः॥"
इति गोभ्यो दद्यात् । ततो वायसबलिः—
“ऐन्द्रवारुणवायव्या याम्या वै नैर्ऋतास्तथा ।
वायसाः प्रतिगृह्णन्तु भूमौ पिण्डं मयार्पितम्॥”
इति वायसेभ्यो दद्यात् । ततः श्वानबलिः—
“द्रौ श्वानौश्यामशबलौवैवस्वतकुलोद्भवौ ।
ताभ्यामन्नं प्रदास्यामि रक्षेतांपथि मां सदा॥”
इति श्वभ्यः ।
“देवा मनुष्याः पशवो वयांसि सिद्धाश्च यक्षोरगदत्यंसघौः ।
प्रेताःपिशाचास्तरवः समस्ता ये चान्नमिच्छन्ति मया मदत्तम्॥ “
इति देवादिभ्यः ।
“पिपीलिकाः कीटपतङ्गकाद्या बुभुक्षिताः कर्मनिबद्धबद्धाः ।
तृप्त्यर्थमन्नंहि मया प्रदत्तं तेषामिदं ते मुदिता भवन्तु॥
इदं पिपीलिकादिभ्यः ।” पादौ प्रक्षाल्य आचम्य नित्यश्राद्धं कुर्यात् । अयं साग्नेर्वैश्वदेवः । निरग्नेरपि कात्यायनसूत्रोक्त एव वैश्वदेवो भवति । अत्रायं विशेषः । निरग्निना पृष्टोदिविविधानेन अग्निंप्रतिष्ठाप्य
तत्र कर्तव्यः । तदुक्तं कात्यायनपरिशिष्टे—
“अथातो धर्मजिज्ञासा केशान्तादूर्ध्वमपत्नीकऽउच्छिन्नाग्निरनग्निको वा प्रवासी ब्रह्मचारी विधुरो वाऽन्वग्निरिति ग्रामादग्निमाहृत्य पृष्टो दिवीत्यधिष्ठाप्य समितमिति द्वाभ्यामुपस्थानं व्याहृतिभिस्त्रिभिश्चसावित्रैः प्रज्वाल्यता<MISSING_FIG href=”../books_images/U-IMG-1699006841987.png”/>सवितुस्तत्सवितुर्व्विश्वानि देव सवतरिति पुनस्त्वेति समिद्ध्य पूर्ववदक्षतेर्हुत्वा पाकं पचेत्तत्र वैश्वदेवं कुर्याद्ब्रह्मणे प्रजापतये गृह्याभ्यःकश्यपायानुमतये विश्वेभ्यो देवेभ्योऽग्नये स्विष्टकृतइत्यपऽउपस्पृश्य पूर्ववद्बवलिकर्म नैवङ्कृते वृथा पाको भवति न वृथा पाकंपचेन्न वृथा पाकमश्नीयादत्रपिण्डपितृयज्ञः पक्षाद्याग्रयणानि कुर्या”दिति ।
अस्यार्थः– अथशब्दो गृह्यकल्पविहितपञ्चमहायज्ञानन्तर्य्यप्रज्ञप्त्यर्थः । अतःशब्दो हेस्वर्थः । अग्निमतो गृहस्थस्य तदधिकारात्तद्रहितस्याधिकारस्या वधेयत्वादतो हेतोः । कतिपयधर्मजिज्ञासा । ज्ञातुमिच्छाजिज्ञासा ज्ञातुमिच्छायां “सुपां सुपो भवन्ती"ति सप्तमीस्थाने प्रथम युज्यते । केशान्तादूर्ध्वं केशान्तसंस्कारानन्तरमुपकुर्वाणः स्नातको वा । अपत्नीकः अविवाहितपत्नीको मृतपत्नीको वा । उच्छिन्नाग्निः पतिताग्निः संस्थिताग्निर्वा । अनग्निकः कृतदारसङ्ग्रहोऽपि निमित्तवशादधिकाराभावेन अनाहितावसथ्याग्निः । प्रवासी साग्निकश्चिकीर्षितपाकः ।
तदुक्तम् —
प्रवसन्नग्निमान्विप्रः पयोमूलफलादिभिः ।
कालं नयेदशक्तौ तु विधिना पाकमाचरेत्॥
पाकमात्रविधानादेव साग्निकस्य न प्रवासे वैश्वदेवः । अत एव गर्गोपाध्यायैरुक्तम् ! “साग्नेःप्रवासे सतियावात्प्रवासंहोमवैश्वदेवयोरभाव” इति । अत्रायं विवेकः– अपत्नीकोच्छिन्नाग्न्यनमिकानां त्रयाणां पाकपचनपूर्वकं वैश्वदेवार्थमग्न्याहरणम् । प्रवासिब्रह्मचारिणोस्तु पाकार्थमेव न वैश्वदेवार्थम् । ब्रह्मचारिणो वैश्वदेवानधिकारात् । प्रवासिनस्तु गृहे वैश्वदेवस्य कृतत्वेन पाकस्य वैश्वदेवविवर्जितत्वाभावेन चाभक्ष्यत्वा-
भावात् । एकस्मिन्नहनिवैश्वदेवनिषेधाच्च । ब्रह्मचारी नैष्ठिकः । ननु ब्रह्मचारिणः पाकविधानाभावात्,
यतिश्च ब्रह्मचारी च पक्वान्नस्वामिनावुभौ॥ इति ।
अथ कथमेतदुक्तम् ? उच्यते । पितृश्राद्धादौ तस्यापि पाकसम्भवात् । गर्गोपाध्यायस्तु “ब्रह्मचारिणः स्वाग्निविच्छेदे सति अनेनैव विधानेनाग्न्याहरणादि प्रज्वालनान्तं विधाय समिदाधानं कार्यम् । इदं चाग्न्याहरणं समिदाधानार्थम् । पाकस्य तु निवृत्तिस्तस्ये"त्याह । तच्चिन्त्यम् । यतः पारस्करगृह्यकल्पे ब्रह्मचारिणः समिदाधानार्थं नित्यतयाऽग्निधारणस्य विधानाभावात् । यत्र “तस्मिन्नग्नौ पूर्ववदाधाय वाचं विसृजत” इति पारस्करगृह्यं तत्तदहः सम्बन्धिन्यां सायङ्कालीनाग्निपरिचर्यायामुपनयनाग्निनियामकं वेदितव्यम् । “ग्रामादग्नि"मिति लौकिकं न पुनः संस्कृतम् । “पूर्ववदक्षतैर्हुत्वे’‘ति । पूर्ववदित्यनेन गृह्योक्तं होममात्रं गृह्यते । स च होमः सायंप्रातःकालीनस्तन्त्रेण । “पूर्ववद्बलिकर्मे"ति । अत्र मणिकाभावादुदकुम्भसमीपे पर्जन्यादिभ्यस्त्रिभ्यो दानम् । “अद्भय उदकुम्भ” इति गौतमाभिधानात् । “उदपानसन्निधा” वित्यापस्तम्बवचनाच्च । शेषं निगदव्याख्यातम् । “विवाहादूर्ध्वमावसथ्याधानात्पूर्वं पृष्टोदिविविधानेनाभ्युदयिकपूर्वकमग्निंस्थापयित्वा नित्यहोमादि कुर्या"दिति हरिहरः । तथा च प्रसवोत्थानपरिशिष्टेऽपि “अथ सम्म्राडिति होवाच भगवान्याज्ञवल्क्यऽउच्छिन्नाग्नीनां को विधिः स्यात्स होवाच देवपितृमनुष्याणां निर्वपणार्थंपाकश्रपणं प्रसवार्थविधिं वक्ष्यामि विधानेनाग्निमुपसमाधाय ब्राह्मणानां च न वृथा पाको भवति केशान्तादूर्ध्वंमपत्नीकस्योच्छिन्नाग्नेरनग्निकस्य ग्रामादन्वग्निरित्यग्निमाहृत्य पृष्टो दिवीत्यधिष्ठाप्य त्रिभिश्च सावित्रैः प्रज्वाल्य तत्सवितुस्ता<MISSING_FIG href=”../books_images/U-IMG-1699007252987.png”/>वितुर्व्विश्वानि देव सवितरित्येवं प्रणीतो भवति पूर्ववदक्षतैर्हुत्वा पाकंश्रपयेत्तत्र वैश्वदेवं कुर्याद्ब्रह्मणे प्रजापतये गृह्याभ्यः कश्यपायानुमतये विश्वेभ्यो देवेभ्योऽग्नये स्विष्टकृत इति पूर्ववद्बलिं हरेन्नवृथा पाकं श्रपयेन्न
वृथा पाकमश्नीयात्तस्मादेवं न वृथापाको भवति गृहस्थो ब्रह्मचारी प्रवासी वा आमं भैक्ष्यमाहरेत्पक्षादिपिण्डपितृयज्ञाग्रयणञ्चेति” । अथापद्यालस्यादिना पृष्ठोदिविविधानं न करोति, तदा शाकलोक्तवैश्वदेवः कार्यः । यज्ञपार्श्वेकात्यायनः—
अनाहिताग्निभिः कार्यो वैश्वदेवो यथाविधि ।
अभक्ष्यस्तु भवेत्पाको वैश्वदेवविवर्जितः॥
इत्युक्त्वा,
**सभार्येयोऽगृहीताग्निर्विधुर स्नातकोऽपि वा ।
**व्याहृतिभिः समस्ताभिर्व्यस्ताभिश्च ततः परम्॥
हुत्वा तु शाकलैर्मन्त्रैः प्राजापत्यं ततः परम् ।
स्विष्टकृच्च हुनेदन्ते देवयज्ञोऽयमीरितः॥
भूतयज्ञं ततः कुर्यात्पर्जन्यादित्रिकं विना ।
नित्यश्राद्धं निरग्नेः स्यात्साग्नेः पित्र्यो बलिः स्मृतः॥
तथा च विधानपरिजाते व्यासः—
अनग्निकस्तु यो विप्रऽआदायान्नं घृतप्लुतम् ।
शाकलोक्तविधानेन जुहुयाल्लौकिकेऽनले॥
व्यस्ताभिर्व्याहृतीभिस्तु समस्ताभिस्ततः परम् ।
षड्भिर्देवकृतस्येतीत्यादिमन्त्रैर्यथाक्रमम्॥
प्राजापत्यं स्विष्टकृतं हुत्वैवं द्वादशाहुतीः ।
ॐकारपूर्वः स्वाहान्तस्त्यागः शिष्ट विधानतः॥
देवकृतस्येति षण्मन्त्रास्तु—
ॐदेवकृतस्यैनसोऽवयजनमसि स्वाहा॥१॥
ॐ मनुष्यकृतस्यै नसोऽवयजनमसि स्वाहा॥२॥
ॐ पितृकृतस्यैनसोऽवयजनमसि स्वाहा॥३॥
ॐआत्मकृतस्यैनसोऽवयजनमसि स्वाहा॥४॥
ॐएनसऽएनसोऽवयजनमसि स्वाहा॥५॥
ॐयच्चाहमेनो व्विद्वा<MISSING_FIG href=”../books_images/U-IMG-1699007971987.png"/>श्चाकारयच्चाविद्वाँस्तस्य सर्वस्यैनसोऽवयजनमसिस्वाहा । इदमग्नये न ममे"ति सर्वत्र त्यागः । अथ बलि-
दानम्—
भुवि दर्भान्समास्तीर्य वलिकर्म समाचरेत् ।
विश्वेभ्यो देवेभ्य इति सर्वभूतभ्य एव च॥
भूतानां पतये चेति नमस्कारेण शास्त्रवित् ।
दद्याद्बलित्रयं चाग्रे पितृभ्यश्च स्वधा नमः॥
पात्र निर्णोजनं वारि वायव्यां दिशि निक्षिपेत् ।
इदमन्नं मनुष्येभ्यो हन्तेत्युक्त्वा समुत्सृजेत्॥
गोत्रनामस्वधाकारैः पितृभ्यश्चापि शक्तितः।
षड्भ्योऽन्नमन्वहं दद्यात्पितृयज्ञविधानतः॥
ततोन्यदन्नमादाय निर्गत्त्यभवनावहिः ।
काकेभ्यः श्वपचेभ्यश्च प्रक्षिपेद्ग्रासमेव च॥
उपविश्य गृहद्वारि तिष्ठेद्यावन्मुहुर्त्तकम् ।
अप्रमत्तोऽतिथि लिप्सुर्भावशुद्धः प्रतीक्षकः॥ इति॥
अथ नित्यश्राद्धम् । मनुः—
दद्यादहरहःश्राद्धमन्नाद्येनोदकेन वा ।
पयोमूलफलैवपि पितृभ्यः प्रीतिमावहन्॥
पितॄनुद्दिश्य विभाँस्तु भोजयेद्विप्रमेव वा॥
अत्र विशेषमाह व्यासः—
आवाहनं स्वधाकारःपिण्डाग्नौकरणं तथा ।
ब्रह्मचर्यादिनियमो विश्वेदेवास्तथैव च॥
नित्यश्राद्धे त्यजेदेतान्भोज्यमन्नं प्रकल्पयेत्॥
याज्ञवल्क्योऽपि—
नित्यश्राद्धं दैवहीनं नियमादिविवर्जितम् ।
दक्षिणारहितं चैव दातृभोक्तृव्रतोज्झितम्॥
अत्र दक्षिणानिषेधो यथोक्तदक्षिणापरः । न तु तत्सामान्यपरः ।
दत्वा तु दक्षिणां शक्त्यानमस्कारैर्विसर्जयेत्॥ इति ।
नित्यश्राद्धप्रकरणे व्यासोक्तेः । इदं श्राद्धं षट्दैवतम् । तथा च व्यासः—
तत्तु षट्पुरुषं ज्ञेयं दक्षिणापिण्डवर्जितम्॥
इदं यत्रामावास्याश्राद्धादौ षडपि देवता इष्टास्तत्र न भवति, यत्रसाम्वत्सरिकादौ नेष्टास्तत्र भवति ।
नित्यश्राद्धं न कुर्वीत प्रसङ्गाद्यत्र सिध्यति ।
इति चमत्कारखण्डोक्तेः । अथ श्राद्धदिने वैश्वदेवनिर्णयः । अयंवैश्वदेवः साग्नेःपूर्वं निरग्रेःपश्चाद्भवति । हेमाद्रौ—
पक्षान्तं कर्म निर्वृत्य वैश्वदेवं च साग्निकः ।
पिण्डयज्ञं ततः कुर्यात्ततोऽन्वाहार्यकं बुधः॥ इति ।
आन्वाहार्यं दर्शश्राद्धम् । विधानपारिजाते—
वैश्वदेवाहुतिरग्नावर्वाग्ब्राह्मणभोजनात् ।
पितृृन्सन्तर्प्य विधिबद्बलिं दद्याद्वधानतः॥ इति ।
अत्र वैश्वदेवार्थं पृथक् पाकः कार्यः । तथा च विधानपारिजातेलौगाक्षिस्मृतिः—
पित्रर्थं निर्वपेत्याकं वैश्वदेवार्थमेव च ।
वैश्वदेवं न पित्रर्थं न दार्शं वैश्वदैविकम्॥
तत्तु शाखान्तरविषयम् । “उद्धृत्य घृताक्तमन्नंपृच्छत्यग्नौ करिष्य इति।" इतिसूत्रव्याख्याने कर्काचार्येण तथा व्याख्यातत्वात् । अतःकात्यायनानां तु उभयार्थमेक एव पाकः । “वैश्वदेवादन्नादि“तिसूत्रस्मरणाच्च । साग्नेरपि क्वचिदन्ते भवति । हेमाद्रौ शालङ्कायनः—
श्राद्धात्प्रागेव कुर्वीत वैश्वदेवं तु साग्निकः ।
एकादशाहिकं मुक्त्वा तत्र ह्यन्ते विधीयते॥
परिशिष्टेऽपि—
सम्माप्ते पार्वणश्राद्ध एकोदिष्टे तथैव च ।
अग्रतो वैश्वदेवःस्यात्पश्चादेकादशेऽहनि॥ इति ।
कातीयानां तु श्रौतस्मार्त्तवतामादावेव ।निरग्निकानामन्ते । तथा च यज्ञपार्श्वे कात्यायनः—
यदा श्राद्धं पितृभ्यश्च दातुमिच्छत्यनग्निमान ।
वैश्वदेवं तदा कुर्यान्निवृत्ते श्राद्धकर्मणि॥
षट्त्रिंशन्मते—
प्रातिवात्सरिको होमः श्राद्धादौ क्रियते यदि ।
देवा हव्यं न गृह्णन्ति कव्यं च पितरस्तथा॥
पैठीनसिरपि—
पितृपाकंसमुद्धृत्य वैश्वदेवं करोति यः ।
आसुरं तद्भवेच्छ्राद्धं पितॄणां नोपतिष्ठति॥
श्राद्धशेषेण तदिति स एवाह—
श्राद्धह्निश्राद्धशेषेण वैश्वदेवं समाचरेत् ।
पञ्चयज्ञाँश्चअन्ते च॥ इत्यादि ।
सुदर्शनभाष्येमार्कण्डेयः—
ततो नित्यक्रियां कुर्याद्भोजयेच्च ततोऽतिथीन् ।
ततस्तदन्नं भुञ्जीत सह भृत्यादिभिर्वरः॥
ततः श्राद्धशेषात् । चतुर्विंशतिमतेऽपि—
श्राद्धं निर्वृत्त्य विधिवद्वैश्वदेवादिकं ततः ।
कुर्याद्भिक्षां ततो दद्याद्धन्तकारादिकं ततः॥ इति ।
मेधातिथिस्मृतिरत्नावलीकारगदाधरादयोऽप्येवमेव । बहुस्मृत्युक्तत्वात्सर्वेषां निरग्निकानां श्राद्धान्त एव वैश्वदेवः ।क्वचिन्निरग्निकानामपि श्राद्धात्प्रागेव वैश्वदेवः ।साङ्ख्यायनपरिशिष्टे—
वृद्धावादौ क्षये चान्ते दर्शे मध्ये च कुर्वते ।
महालये च पिण्डान्ते वैश्वदेवो विधीयते॥
रेणुकारिंकायामपि—
निर्णेजनान्तं निर्वृत्त्य वैश्वदेवं द्विजोत्तमः ।
श्राद्धं करिष्ये संकल्प्य तत्कृत्वा पूर्ववत्स्थितः॥
अतो निरग्निनाऽप्याभ्युदयिकश्राद्धे चिकीर्षिते पूर्वं वैश्वदेवः कार्यः ।अत्र कठकाण्वादेरपि विशेषः ।साग्निनिरग्न्योःपूर्वम् । तदुक्तं विधानपारिजाते—
श्राद्धकर्माणि निर्वृत्त्य वैश्वदेवं विधाय च ।
ततो गृहबलिः कार्यःकठकाण्वादिकान्विना॥
धर्मानुशासनेऽपि—
निर्वृत्त्य श्राद्धयज्ञं वै वैश्वदेवं विधाय च ।
ततो गृहबलिर्देयःकठकाण्वादिकान्विना॥ इति ।
न चायमपि साग्निपरत्वेन नेयः । अनग्निकवैश्वदेवप्रकरण एवव्यवस्थापनात्, न साग्निपरत्वेन वर्णने । रूपनारायणीयकल्पलतायामपि—
साग्निकास्तद्विहीनाश्च कठकाण्वादिकास्तु ये ।
श्राद्धात्प्रागेव ते कुर्युर्वैश्वदेवं यथाविधि॥
रुद्रकल्पद्रुमे बृहत्पराशरः—
वैश्वदेवोऽग्रतश्चैव साग्नेर्हीनाग्निकस्य च ।
कर्त्तव्यः पाकशुद्ध्यर्थं भुक्तोच्छिष्टं विवर्जयेत्॥
स्मृत्यन्तरेऽपि—
याजुषाःसामगाः पूर्वं मध्ये जुह्वति वह्वचाः ।
आथर्वणैश्च पिण्डान्ते वैश्वदेवं विधीयते॥
बह्वृचां श्राद्धान्त एवेति वोपदेवः । अथ वैष्णवानां विशेषमाह ।विधानपारिजाते—
विष्णोर्निवेदितान्नेन यष्टव्यं देवतान्तरम् ।-
पितृभ्यश्चापि तद्देयं तदानन्त्याय कल्पते॥
पञ्चरात्रे–
साग्नेस्तद्रहितस्यापि वैष्णवस्य विशेषतः ।
श्राद्धं नैवेद्यशेषेण वैश्वदेवादिपूर्वकम्॥
आदिशब्दाद्वलिहरणम् ।विधानपारिजाते स्मृतिः—
पितृशेषं तु यो दद्याद्धरये परमात्मने ।
रेतोदाः पितरस्तस्य भवन्ति क्लेशभागिनः॥ इति ।
स्थालीपाकदिने विशेषमाह देवलः—
अकृते वैश्वदेवे तु स्थालीपाकाःप्रकीर्तिताः ।
अन्यत्र पितृयज्ञात्तु सोऽपराह्णे विधीयते॥
स्थालीपाका इति बहुवचनं स्थालीपाकसाध्यकर्मोपलक्षकम् ।अथ विभक्तवैश्वदेवः—
साग्निकोऽप्येकपाकाः स्युः पुत्रभ्रात्रादयो यदि ।
न पृथक्वैश्वदेवाः स्युः स्वपाकान्निर्वपेद्गृही॥
एकपाके निवसतां पितृदेवार्चनादिकम् ।
एकं भवेद्विभक्तानां तदेव स्यात्पृथक पृथक्॥
संस्कारा नाशिनः सर्वे कुर्यान्नित्यत्व सिद्धये ।
संसृष्टा भ्रातरः कुर्युंर्ब्रह्मयज्ञं पृथक् पृथक्॥
सच्छूद्रस्यापि वैश्वदेव उक्तो याज्ञवल्क्येन—
भार्यारतिः शुचिर्भृत्यो भर्ता श्राद्धक्रियापरः ।
नमस्कारेण मन्त्रेण पञ्चयज्ञान्न हापयेत्॥ इति ।
न हापयेत् किन्तु अनुतिष्ठेत् ।नमस्कारमन्त्रो वायुपुराणे—
देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च ।
नमः स्वाहायै स्वधायै नित्यमेव नमो नमः॥
शुद्रेण पञ्चमहायज्ञा आमद्रव्येण कार्याः, पक्वेन निषिद्धत्वात् ।
पाकाभावे प्रवासे च तण्डुलानोपधीस्तथा ।
पयो दधि घृतं वाऽपि कन्दमूलफलानि च॥
इति स्मृत्युक्तानुकल्पद्रव्येण पञ्चमहायज्ञान् कृत्वा तद्द्रव्यं विप्रकुलेप्रवेशयितव्यमिति शास्त्ररहस्यम् ।अथ वैश्वदेवः कुत्र कर्तव्य इत्यपेक्षायामाह ।शातातपः—
लौकिके वैदिके वाऽपि हुतोच्छिष्टे जले क्षितौ ।
वैश्वदेवन्तु कुर्वीत पञ्चसूनापनुत्तये॥
वदिके आवसध्याग्नौ। हुतोच्छिष्टे अन्येन होमं कृत्वा त्यक्ते । शेषं प्रसिद्धम् । अङ्गिराः—
शालाग्नौ तु पचेदन्नं लौकिके वाऽपि नित्यशः ।
यस्मिन्नग्नौ पचेदन्नं तस्मिन्नग्नौ विधीयते॥
अथ चलकुण्डं वायवीयसंहितायाम्—
अथाग्निकार्यं वक्ष्यामि कुण्डे वा स्थण्डिलेऽपि वा ।
वेद्यां वाप्यायसे पात्रे मृण्मये च नवे शुभे॥
स्थाण्डिलं वालुकाभिर्वा रक्तमृद्रजसाऽपि वा॥
क्रियासारे—
कुण्डमन्त्रोक्तमार्मेण मृदमालेपयेत्तथा ।
ताम्रेण लक्षणोपेतं कुर्यान्मृत्तिकयापि वा॥
एतत्कुण्डं चरार्चायो गृह्णीयान्न स्थिरार्चने॥
अथ कुण्डशुद्धिमाह—
अम्लेन ताम्रकं कुण्डं मृण्मयं गोमयाम्भसा ।
सौधञ्च सुधया सम्पकशोधयेदमरर्षभ !॥
चुल्ल्यां वैश्वदेवो निषिद्धः । विधानपरिजाते—
चुल्लीहोमो ब्रह्मदानमनृतौ गमनं तथा ।
असङ्ख्यातन्तु यज्जप्तं तत्सर्वं निष्फलं भवेत्॥
तथा–
न पश्येद्भूबालिंवीर ! दत्वा गृहबलीन्द्विजः ।
स्वयं नैवोद्धरेन्मोहाद्यदि तच्छ्रीर्विनश्यति॥
गालवः—
वैश्वदेवं दिवा नक्तं न भवेच्चेत्पृथक पृथक् ।
प्रातरेव द्विरावृत्त्याकर्तव्यं स्मृतिशासनात्॥
विधानपरिजातेऽपि—
दिवा वा यदि वा रात्रौ क्रियते वैश्वदेविकम् ।
द्विरावृत्या तदा कुर्यादिति वेदविदो विदुः॥
एतच्च यच्छास्वायां सायं प्रातर्वैश्वदेवो विहितस्तद्विषयम् । तथान्यद्विशेषं मदनपरिजाते ।जमदग्निः—
वैश्वदेवं तथा रात्रौ कुर्याद्वलिहृतिस्तथा ।
महतः पञ्चयज्ञांस्तु दिवैवेत्याह धर्मवित॥
अस्यार्थः– येषां तु शाखिनां ब्रह्मयज्ञव्यतिरिक्त महायज्ञानां वैश्वदेवेबलिहरणे चान्तर्भावस्तेषां वाजसनेयादीना ‘दिवैव वैश्वदेवाख्यं कर्म नरात्रौ । येषां तु स्वशाखायां कालद्वयेऽपि तद्विधानमस्ति नास्ति वा तेषामाश्वलायनादीनां कालद्वयेऽपि भवति इति निर्णयः ।
इति श्रीप्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्र विवरणे
संस्कारगणपतौ द्वितीयकाण्डे नवमी कण्डिका।
<MISSING_FIG href=”../books_images/U-IMG-1696266979Screenshot(5"/>.png)
अथ भोजनविधानम् । तत्र मनुः—
सायं प्रातर्द्विजातीनामशनं श्रुतिचोदितम् ।
नान्तरा भोजनं कुर्यादग्निहोत्रसमो विधिः॥
गोभिलः—
ततो भोजनवेलायां कृत्वाचारान्सदात्मवान् ।
पोष्यवर्गसमोपेतो भोजनं कारयेद्बुधः॥
षोष्यवर्गमाह—
माता पिता गुरुर्भार्या पुत्रो दासस्तथैव च ।
अभ्यागतोऽतिथिश्चापि पोष्यवर्ग इति स्मृतः॥
याज्ञवल्क्यः—
सम्भोज्यातिथिभृत्यांश्च दम्पत्योः शेषभोजनम् ।
बालस्ववासिनीवृद्धगर्भिण्यातुरकन्यकाः॥
दम्पत्योरपि मध्ये पूर्वं गृहपतिः श्रेष्ठान्नमश्नीयात् ततः पत्नीति ।महाभारते दानधर्मे—
भृत्यातिथिषु यो भुङ्क्तेभुक्तवत्सु नरः सदा ।
अमृतं केवलं भुङ्क्तइति विद्धि युधिष्ठिर !॥
हस्तौ पादौ मुखं प्रक्षालय इति अङ्गानि आर्द्राणि कुर्वन्भोजनं कुयात् । तथा च व्यासः—
पञ्चार्द्रौ भोजनं कुर्यात्प्राङ्मुखो मौनमास्थितः ।
हस्तौ पादौ तथैवास्यमेषा पञ्चार्द्रता मता॥
मनुः—
आयुष्यं प्राङ्मुखो भुङ्क्तेयशस्यं दक्षिणामुखः ।
श्रियं प्रत्यङ्मुखो भुङ्क्ते न कदाचिदुदङ्मुखः॥
एतत्काम्यम् । नित्यविधिस्तु—
प्राङ्मुखोऽन्नानि भुञ्जीत तथोत्तरमुखोऽपि वा ।
जीवन्मातृकस्य दक्षिणामुखभोजननिषेधः । तथा चापस्तम्बः–"अनायुष्यं त्वेवंमुखस्य भोजनंमातुरित्युपेदिशन्ती“ति । पुत्रवतउत्तरामुखभोजननिषेधः । आचारप्रदीपे—
पुत्रवान्स्वगृहे नित्यं नाश्नीयादुत्तरामुखः ।
सोमवारे तथात्यन्तं वर्जयेत्तु सदा बुधः॥
ब्रह्मपुराणे—
उपलिप्तेसमे स्थाने शुचौ शुद्धासनान्विते ।
मण्डलं गोमयेन स्यादथ वा गौरमृत्स्नया॥
आसनमाह मनुः—
श्रीपर्णी च शमीशल्लीकदम्बश्चारणस्तथा ।
पञ्चासनोपविष्टस्तु स्नानहोमादिकं चरेत्॥
वर्ज्यमुक्तं प्रचेतसा—
गोशकृन्मृण्मयं भिन्नं तथा पालाशपिप्पलम् ।
लोहबर्द्ध सदैवार्कं वर्जयेदासनं बुधः॥
मण्डलान्याह व्यासः—
चतुरस्रं त्रिकोणं च वर्तुलं चार्द्धचन्द्रकम् ।
कर्त्तव्यमानुपूर्वेण ब्राह्मणादिषु मण्डलम्॥
शङ्खः—
आदित्या वसवो रुद्रा ब्रह्मा विष्णुस्तथैव च ।
मण्डलान्युपजीवन्ति तस्मात्कुर्वीत मण्डलम्॥
यातुधानाः पिशाचाश्च असुरा राक्षसास्तथा ।
हरन्ति रसमन्नस्य मण्डलेन विवर्जितम्॥
भोजनपात्रमाह पैठीनसिः—
एक एव तु यो भुङ्क्तेविमले कांस्यभाजने ।
चत्वारि तस्य वर्द्धन्ते आयुःप्रज्ञा यशो बलम्॥
विधानपरिजाते स्मृतिः—
सौवर्णे राजते चैव पात्रे भोजनमाचरेत् ।
ताम्रपात्रे भोजननिषेधः । वृद्धमनुः—
ताम्रपात्रे न भुञ्जीत भिन्नकांस्ये मलान्विते॥ इति ।
स्वीयपात्रे सर्वदा भोज्यम् । स्मृतिः—
परपात्रेषु भुञ्जानः प्राजापत्यं चरेद्द्विजः॥ इति ।
पात्रपरिमाणमाह योगी—
पञ्चाशतः पलादूर्ध्वं महाभाजनमिष्यते ।
नातिदीर्घं नातिह्रस्वं रत्निमात्रप्रमाणकम्॥ इति ।
ग्रन्थान्तरे तु–
पलविंशतिमारभ्य अत ऊर्ध्वं यथेच्छया ।
इदमेव गृहस्थानां न यतिब्रह्मचारिणाम्॥ इति ।
तत्समन्ताल्लघुपात्राणि निधेयानि न तन्मध्ये \। महामारते—
लघीयांस्यपि पात्राणि भूमौ स्थाप्यानि भारत ! ।
पयःशाकादिभुक्त्यर्थं न महाभाजनोपरि ।
ताम्बूलाभ्यञ्जनं चैव कांस्यपात्रे च भोजनम् ।
यतिश्च ब्रह्मचारी च विधवा च विवर्जयेत्॥
पारणाहे तथा श्राद्धे वर्जयेत्कांस्यभोजनम् ।
यो मोहाद्यदि भुञ्जीत कृतं कर्म च निष्फलम्॥
पात्रशुद्धिमाह—
भस्मना शुद्ध्यते कांस्यं ताम्रमम्लेन शुद्ध्यति ।
रजसा शुद्ध्यते नारी नदी वेगेन शुद्ध्यति॥
कांस्यपात्राभावे यमः—
रम्भाकूटजमध्वाम्रजम्बूपनसचम्पकाः ।
पद्मौदुम्बरपालाशब्रह्मपत्रं पवित्रम् ।
अथ निषिद्धानि अत्रिः—
बटार्काश्वत्थपत्रेषु कुम्भीतिन्दुकपत्रयोः ।
कोविदारकदम्बानां भुक्त्वा चान्द्रायणं चरेत्॥
प्रयोगपारिजाते गर्गः—
रम्भापत्रपलाशेषु यः कुर्यात्पारणं क्वचित् ।
सप्तजन्मकृतं पुण्यं तत्क्षणादेव नश्यति॥
करे खर्परके चैव शिलायां ताम्रभाजने ।
भिन्नकांस्ये च वस्त्रे च न भुञ्जीत तथायसे॥
अथ पात्रे परिवेषणमाह यमः—
अन्नंमध्ये प्रतिष्ठाप्य दक्षिणे घृतपायसे ।
शाकादि पुरतः स्थाप्य भक्ष्यं भोज्यं च वामतः॥
परिवेषणक्रममाह—
अन्नं च पायसं भक्ष्यं घृतं च व्यञ्जनादिकम् ।
शर्करा च कथा चैव अन्ते च सूपमेव च॥
षट्त्रिंशन्मते—
ओदने परमान्ने च घृतपात्रस्थितिर्यदि ।
एतदाज्यं भवेद्रक्तं तदन्नं मा समुच्यते॥
धर्मप्रवृत्तौ—
ओदने पायसे चैव व्यञ्जने सूपके तथा ।
घृतपात्रं तु सोधृत्वा रौरवं नरकं व्रजेत्॥
विधानपारिजाते ब्राह्मे—
सैन्धवं लवणं चैव तथा मानससम्भवम् ।
पवित्रे परमे ह्येते प्रत्यक्षे च न दुष्यतः॥
सामुद्रं भूमिजं चैव प्रत्यक्षे चैव दुष्यतः॥
तस्मादिदं द्रव्यान्तरयुतं परिवेष्यम् । गर्गः—
सत्यन्त्वर्त्तेन वै प्रातर्वारिणा परिषेचयेत् ।
सायङ्काले तथैव स्यादृतन्त्वेत्यादितः क्रमात्॥
भविष्यपुराणे—
उद्धृत्य किञ्चिदन्नाग्रं धर्मराजाय वै बलिम् ।
दत्वाऽथ चित्रगुप्ताय भूतेभ्यश्च तथैव च॥
अन्नेनैव घृताक्तेन नमस्कारेण वै भुवि ।
तिस्र एवाहुतीर्दद्याद्भोजनादौ तु दक्षिणे॥
केचित्तु—
भूपतये भुवनपतये भूतानां पतये नमः ।
एवं वलित्रयं दद्याद्भोजनादौ विशेषतः॥
अत्राचारतो व्यवस्था—
एकाहुतिं त्रिधा कृत्वा आपोशाने तथानले ।
लाजाहोमे प्रकुर्वीत इति शातातपोऽब्रवीत्॥
चित्राहुतिः प्रदक्षिणक्रमेण \। सङ्ग्रहे—
परिषिञ्चनमारभ्य प्रदक्षिणक्रमेण तु \।
अपसव्यं च चित्रान्नं मुक्त्वा चान्द्रायणं चरेत्॥
मनुः—
दत्वा तु चित्रगुप्ताय हस्तं मक्षालयेद्द्विजः ।
अक्षालितकरो भुङ्क्ते रौरवं नरकं व्रजेत्॥
स्मृत्यन्तरे—
चित्राहुतिमनुद्धृत्य यो भुङ्क्तेग्रासपञ्चकम् ।
अधंस केवलं भुङ्क्ते ज्ञानतोऽज्ञानतोऽपि वा॥
चन्द्रिकायां दक्षः—
भोजनादौ बलिं मुक्तं समुद्धृत्य हि भोजनम् ।
अनुद्घृत्य च यो भुङ्क्तेरौरवं नरकं व्रजेत्॥
प्राणायामाष्टकं जपेदित्यपि पाठः ।
उक्त्वाऽमृतोपस्तरणमसि स्वाहान्तमेव च ।
आपोशानं तदित्याहुर्भोजनादौ प्रिबेज्जलम्॥
आपोशानमकृत्वा तु यो भुङ्क्ते द्विजसत्तमः ।
अभोज्यं तद्भवेदन्नंभुक्तादोषमवाप्नुयात्॥
तद्दोषपरिहारार्थं प्राणायामं समाचरेत् ।
आपोशनार्थं यत्तोयं धृतं चेन्निःसृतं भवेत्॥
हस्तं प्रक्षालय तोयेन पुनर्वै धारयेज्जलम् ।
आपोशानं करे कृत्वा यद्याशीर्वचनं पठेत्॥
अभोज्यं तद्भवेदन्नंदाता भोक्ता च किल्विषी ।
यो यस्यान्नं समश्नाति स तस्याश्नाति किल्जिषम्॥
तद्दोषपरिहारार्थं मन्त्रमेतमुदीरयेत् ।
अन्नं ब्रह्म रसो विष्णुर्भोक्ता देवो महेश्वरः॥
एवं ध्यात्वा तु यो भुङ्क्तेसोऽन्नदोषैर्न लिप्यते ।
प्राणाहुतीरभुक्त्वा तु यश्चान्नं परिमर्द्दयेत्॥
मर्द्दिते भोजयेद्यस्तु प्राजापत्यं ततश्चरेत्॥
चित्राहुतिदानानन्तरं हस्तं प्रक्षालय पङ्क्तिदोषसम्भावनायां जलधारादिना पङ्क्तिंभिन्द्यादित्युक्तं पारिजाते वृद्धमनुना—
एकपङ्क्त्युपविष्टानां दुष्कृतं यद्दुरात्मनाम् ।
सर्वेषां तत्समं तावद्यावत्पङ्क्तिर्नभिद्यते॥
धर्मप्रवृत्तौ—
एकपङ्क्त्युपविष्टानां विप्राणां सह भोजने ।
यद्येकोऽपि त्यजेत्पात्रं शेषमन्नं न भोजयेत्॥
विधानपारिजाते—
अग्निना भस्मना चैव स्तम्भेन सलिलेन वा ।
द्वारेणैव च मार्गेण पङ्क्तिभेदो बुधैः स्मृतः॥
धर्मप्रवृत्तावपि—
अग्निना भस्मना चैव स्तम्भेन सलिलेन वा ।
अन्तरे द्वारदेशे तु पङ्क्तिदोषो न विद्यते॥
याज्ञवल्क्यः—
आपोशनेनोपरिष्टादधस्तादशनं तथा ।
अनग्नममृतं चैव कार्यमन्त्रं द्विजन्मना॥
दक्षः—
शब्देनापोशनं पीत्वा शब्देन घृतपायसम्।
शब्देनापः पयः पीत्वा सुरापानसमं भवेत्॥
विधानपारिजाते—
आर्द्रामलकमानं तु यद्वा बदरिमात्रकम् ।
प्राणाहुतिप्रमाणं च सघृतान्नस्य तद्भवेत्॥
घृतहीनं तु यो भुङ्क्ते नरस्त्वाहुतिपञ्चकम् ।
पश्चाद्धृतेन यो भुङ्क्ते द्विजश्चान्द्रायणं चरेत्॥
घृताभावे तु गव्येन संस्कुर्वीत जलेन वा॥
गव्येन दुग्धादिना इत्यर्थः । पराशरः—
मुखे चान्नस्य निक्षेपो मन्त्रैः प्राणादिपञ्चभिः ।
भोजनं तद्धिविज्ञेयं तत्रैव नियमाः स्मृताः॥
पात्रालम्भस्तथा मौनं तदूर्ध्वमपि चेच्छया॥
शौनकः—
स्वाहान्ताः प्रणवाद्याश्च नाम्ना मन्त्रास्तु वायवः ।
जिहूया च ग्रसेदन्नं दशनेन न संस्पृशेत्॥
तथैव षष्ठीं दद्यात्तु सचैतन्ये सुखात्माने॥
स्मृतिसारसमुच्चये—
तर्जनीमध्यमाङ्गुष्ठलग्नाप्राणाहुतिर्भवेत् ।
मध्यमानामिकाङ्गुष्ठैरपाने जुहुयाद्धविः ।
कनिष्ठानामिकाङ्गुष्टैर्व्याने तु जुहुयाद्बुधः॥
कनिष्ठातर्जन्यङ्गुष्ठैरुदानाय हुनेद्धविः ।
सर्वाङ्गुलिभिरादाय समानस्याहुतिर्भवेत्॥
तथैव षष्ठीं जुहुयात्सचैतन्ये सुखात्मनि॥
केचिद् **“ब्रह्मणे स्वाहे”**ति सप्तमीमाहुः। “श्रद्धायां प्राणे निविष्टोऽमृतं जुहोमी“त्यारण्यके । इदं च प्राणाग्निहोत्रमिति ज्ञेयम् । तदुक्तंशतपथब्राह्मणे– “**ते पुरुषमाविशतस्तस्य मुखमेवाहवनीयं कुर्वीतजिह्वाँसमिघमन्नमेव शुक्रमाहुतिन्ते पुरुषं तर्पयतः स एवं व्विद्वानश्नात्यग्निहोत्रमेवास्य हुतं भवती”**ति । तथा च गोभिलसुत्रेऽपि—
“पञ्च ग्रासान् गृह्रीयात्प्राणाय स्वाहेति गार्हपत्यमेव तेन जुहोत्यपानाय स्वाहेत्यन्वाहार्यपचनमेव जुहोति व्यानाय स्वाहेत्याहवनीयमेव तेन जुहोत्युदानाय स्वाहेति सभ्यमेव तेन जुहोति समानाय स्वाहेत्यावसथ्यमेव तेन जुहोती“ति । नात्रोच्छिष्टदोषःप्रत्याहुरिति । तदाह मनुः—
मधुपर्के च सोमे च अप्सु प्राणाहुतीषु च ।
आस्यहोमेषु सर्वेषु नोच्छिष्टं मनुरब्रवीत्॥
स्मृतिसङ्ग्रहे–
एवं पञ्चाहुतीर्हुंत्वा ब्रह्मग्रन्थिं विसृज्य च ।
प्रक्षालय वामहस्तन्तु पश्चाद्भोजनमाचरेत्॥
तर्जन्यां च स्थिते रौप्ये ब्रह्मग्रन्थौ च मूर्द्धनि ।
कनिष्टिक्यां स्थिते खड्गेनैव भोजनमाचरेत्॥
शिरः संवेष्ट्य यो भुङ्क्ते यो भुङ्क्ते चोत्तरामुखः ।
वामपादे करं दद्यात्तुल्यं गोमांसभक्षणम्॥
समन्हे—
पञ्च प्राणाहुतीर्भुक्त्वा दक्षिणे पात्रमुत्सृजेत् ।
नेत्रस्पर्शनमात्रेण शिखाग्रन्थिं विसर्जयेत्॥
आचारदीपे मनुः—
दक्षिणे तु परित्यज्य वामे नीरं निधापयेत् ।
अभोज्यं तद्भवेदन्नं पानीयं च सुरासमम्॥
अत्र विशेषमाह विधानपरिजाते मार्कण्डेयः—
न्यस्तपात्रस्तु भुञ्जीत पञ्च ग्रासान्महामुने ! ।
शेषमुद्धृत्य भोक्तव्यं श्रूयतामत्र कारणम्॥
उद्धृत्य यन्त्रादौ पात्रं स्थापयित्वेत्यर्थः । यन्त्रमुक्तंसङ्ग्रहे—
कांस्यस्य काष्टकस्यापि वंशस्यापि तथैव च ।
पत्रिका तु त्रिकोणा वै कर्तव्या पात्रधारणे॥
यद्यद्ध्यपेक्षितं चान्नंगृहीत्वा भोजनं चरेत् ।
अनिधाय पृथक् चान्नंगायत्र्या त्वभिमन्त्रितम्॥
पुनरन्नं न गृण्हीयाद्यदि भुञ्जीत दोषभाक् ।
पङ्क्तिभेदेन यो भुङ्क्तेपरकीये स्वकेऽपि वा॥
तदन्नंमांसमित्याहुःक्षयरोगी च जायते ।
“सर्वाभिरङ्गुलिभिः समश्नीया“दिति वसिष्ठेोक्तेः समुदिताङ्गुलिभिर्भुञ्जीत \। मदनपारिजाते मार्कण्डेयः—
यस्तु पाणितले भुङ्क्तेयः सशब्दं समश्नुते ।
अङ्गुलिं चोद्धरेद्यस्तु गोमांसाशनवत्स्मृतम्॥
विष्णुपुराणे—
अश्नीयात्तन्मना भूत्वा पूर्वं तु मधुरं रसम् ।
लवणाम्लौतथा मध्ये कटुतिक्तादिकं ततः॥
प्रागद्रवं प्रदुषोऽश्नीयान्मध्ये तु कठिनाशनः ।
अन्ते पुनर्द्रवाशी च बलारोग्ये न मुञ्चति॥
अथ जलपानम् । विधानपरिजाते—
जलपात्रं तु निःक्षिप्य मणिवन्धे च दक्षिणे ।
विप्रो भोजनकालेतु पिबेद्वामेन पाणिना॥
धारया नोदकं पेयं पीत्वा दोषमवाप्नुयात् ।
जलपात्रेण तत्पेयमिति शातातपोऽब्रवीत्॥
“धारया न जलं पिबे”दिति वसिष्ठोक्तेः । अत्रोच्छिष्टदोषो न ।
मनुः—
मधुपर्के च सोमे च अप्सु प्राणाहुतीषु च ।
आस्यहोमेषु सर्वेषु नोच्छिष्टं मनुरब्रवीत्॥
नोच्छिष्टो घृतमादद्यात्तथा गव्यं विशेषतः ।
जठरं पूरयेदर्द्धमन्नैर्भागं जलस्य च॥
वायोःसञ्चारणार्थाय चतुर्थमवशेषयेत् ।
अनिन्द्यं भक्षयेन्नित्यं वाग्यतोऽन्नमकुत्सयन्॥ इति ।
अनिन्द्यान्नं भोक्तव्यम् । तच्च न निन्द्यात् ।अन्नं न निन्द्यात् । अथभोजने वर्ज्यमाह याज्ञवल्क्यः—
अनर्चित वृथामांसं केशकीटसमन्वितम् ।
शुक्लं पर्युषितोच्छिष्टं स्पृष्टं घुष्टं च कामतः॥
अनर्चितं उत्तमायावज्ञादत्तं यदन्नं तत् । वृथामांसम्,
प्राणात्यये तथा श्राद्धे प्रोक्षितं द्विजकाम्यया ।
देवान्पितृन्समभ्यर्च्य खादन्मांसं न दोषभाक्॥
इत्युक्तप्रकारेण असम्पादितं मांसं वृथामांसम् । केशकीटसमन्वितमन्नम् । शुक्लं यत्स्वयमनम्लं सत्कारपरिवासादिना अम्लीभवति तदित्यर्थः । पर्युषितं राज्यन्तरितम् ।उच्छिष्टं भुक्तोच्छिष्टम् । स्पृष्टं उदक्या रजस्वला तथा स्पृष्टम् । संघुष्टं को भुङ्क्तेइत्यादि यदाघुष्यदीयते । पर्यायानं अन्यसम्बन्धि अन्यव्यपदेशेन यद्दीयते । पर्युषिते प्रतिप्रसवमाह याज्ञवरुक्यः—
अन्नं पर्युषितं भोज्यं स्नेहाक्तं चिरसंस्थितम् ।
अस्नेहा अपि गोधूमयवगोरसविक्रियाः॥
गोधूमविकारो मण्डकः ।यवविकारः सक्तुः । शङ्खः—
अपूपाः सक्तवो धानास्तक्रं दधि धृतं मधु ।
एतत्पण्येषु भोक्तव्यं भाण्डलेपो न चेद्भवेत्॥
तथा–
आभीरभाण्डसंस्थानि पयोदधिघृतानि च ।
तावत्पूतं हि तद्भाण्डं यावत्तत्तत्र तिष्ठति॥
नारदः—
वृन्ताकं च कलिङ्गं च दग्धमन्नं मसूरिका ।
उदरे यस्य तिष्ठन्ति तस्य दूरतरो हरिः॥
शाकमूलफलेक्षूणि दन्तच्छेदैर्न भक्षयेत् ।
लवणं व्यञ्जनं चैत्र घृतं तैलं तथैव च॥
लेह्यं पेयं च विविधं हस्तदत्तं न भक्षयेत् ।
अतो लवणादि दर्व्या देयम् ।
अपक्वं स्नेहपक्वंच न तु दर्व्याकदाचन॥ इति ।
अपक्वस्नेहपक्वेहस्तनैव देये । केचित्तु—
वृन्ताकं लसुनं चैव भुक्त्वा चान्द्रायणं चरेत्॥
इति विशेषोक्तिरिति ।
रात्रौ दधि न भोक्तव्यं दिवा च नवनीतकम् ।
पय एकशफं हेयं तथा क्रमेलकाविकम्॥ इति स्कान्दे ।
तिथिविशेषे वर्ज्यान्याह बृहस्पतिः—
कूष्माण्डं तरुणीं चैव मूलकं बृहतीं तथा ।
श्रीफलं च कलिन्दं च धात्रीं प्रतिपदादिषु॥
वर्ज्जयेत्सप्तमीं व्यावदन्यथा कृच्छ्रमाचरेत्॥ इति ।
सप्तम्यां रविवारे च दिवा रात्रौ तथैव च ।
धात्रीफलं नरोऽश्नीयादलक्ष्मीको भवेन्नरः॥
अभोज्यानान्याह याज्ञवल्क्यः—
कदर्यवद्धचौराणां क्लीबरङ्गावतारिणाम् ।
वैणाभिशस्तवार्द्धुष्यगणिकागणदीक्षिणाम्॥
चिकित्सकातुरक्रुद्धपूंश्चलीमत्तविद्विषाम् ।
क्रूरोग्रपतितव्रात्यदाम्भिकोच्छिष्टभोजिनाम्॥
अवीरास्त्रीस्वर्णकारस्त्रीजितग्रामयाजिनाम् ।
शस्त्रविक्रयकर्मारतन्तुवायश्ववृत्तिनाम्॥
नृशंसराजरजककृतलवघ्नजीविनाम् ।
चैलधावसुराजीवसहपिपतिवेश्मनाम्॥
पिशुनानृतिनोश्चैव तथा चाक्रिकवान्दनाम् ।
एषामन्नं नभोक्तव्यं सोमविक्रयिणस्तथा॥
अस्यार्थः— कदर्योऽतिलुब्धः ।बद्धो निगडादिना ।चौरो ब्राह्मणहेमव्यतिरिक्तपरद्रव्यापहारी । क्लीबो नपुंसकः ।रङ्गावतारी नटादिः ।वैणो वेणूच्छेदनजीवी । अभिशस्तः पतनीयेन कर्मणाऽभियुक्तः । वार्धुष्योनिषिद्धवृत्त्युपजीवी । गणिका पण्यस्त्री ।गणदीक्षी बहुयाजकः । चिकित्सको भिषग्वृत्त्युपजीवी ।आतुरो महारोगाभिभूतः । पूंश्चली व्यभिचारिणी \। मत्तो विद्यादिना गर्वितः ।विद्विट्शत्रुः । क्रूरोऽभ्यन्तराधिककोपः । उग्रो वागादिनोद्वेजकः ।पतितो ब्रह्मादिः। व्रात्यः पतितसावित्रीकः ।दाम्भिको वञ्चकः । अवीरा स्त्री पतिपुत्ररहिता ।ग्रामयाजीग्रामशान्त्यादिकर्ता । कर्मारो लोहकारः ।तन्तुवायः सूचीशिल्पोपजीवी ।श्वजीवी श्वभिर्वृत्तं जीवनमस्यास्तीति, नीचसेवको वा । नृशंसो निर्दयः ।रजको वस्त्ररङ्गकृत् । चैलधावः वस्त्रनिर्णेजकः ।सहोपपतिवेश्मा सह सहितं उपपतिना जारेण वेश्म यस्यासौ स तथा ।पिशुनःपरदोषवक्ता ।चाक्रिकस्तैलिकः ।बन्दी जनस्तावकः ।सोमविक्रयी यज्ञे सोमलताविक्रेता ।कदर्यत्वादिदोषदुष्टानां एषां द्विजानाभन्नंनभोक्तव्यमिति समूहार्थः ।
गणान्नं गणिकान्नं च तथान्नंग्रामयाजिनाम् ।
सूतकान्नंतथा भुक्त्वा द्विजश्चान्द्रायणं चरेत्॥
बृहत्पराशरे—
ब्राह्मणान्नंददच्छ्रद्रः शूद्रान्नंब्राह्मणो ददत् ।
द्वावप्येतावभोज्यान्नौ चरेतान्तौ शशिव्रतम्॥
भुङ्क्तेशय्याशनस्थो यः पिबेद्वाऽपि द्विजोत्तमः ।
अभक्ष्येण हि तत्तुल्यंचरेच्चान्द्रायणव्रतम्॥
परपाकनिवृत्तस्य परपाकरतस्य च ।
अपचस्य च भुक्त्वान्नंद्विजश्चान्द्रायणं चरेत्॥
तल्लक्षणमाह याज्ञवल्क्यः—
गृहीत्वाग्निं समारोप्य पञ्चयज्ञान्न निर्वपेत् ।
परपाकनिवृत्तोऽसौ मुनिभिः परिकीर्तितः ॥
पञ्चयज्ञान्स्वयं कृत्वा परान्नमुपजविति ।
सततं प्रातरुत्थाय परपाकरतस्तु सः॥
गृहस्थधर्मवृत्तौ यो ददाति परिवर्जितः ।
ऋषिभिर्धर्मतत्वज्ञैरपचः परिकीर्तितः॥
पुराणसमुच्चये—
आज्यपात्रे स्थितं तक्रं मधुमिश्रं तु कारयेत् ।
ताम्रपात्रे स्थितं गव्यं त्रिषु सर्पिःसुरासमम्॥
पारिजाते भृगुः—
गव्यं ताम्रेण संयुक्तं कांस्ये चैवेक्षुगो रसः ।
सकांस्यं नारिकेलाम्बु मधुतुल्यं घृतं विना॥
आर्द्रकं सगुडं मद्यं दधिसम्मिश्रितो गुडः ।
नारिकेलाम्बुसम्मिश्रमैक्षवं बदरं तथा॥
मनुः—
होमकाले तथा दोहे पाके च परिवेषणे ।
सुरार्चनेऽभिषेके च ताम्रे गव्यं न दुष्यति॥
गर्गः—
ग्रासशेषं न चाश्नीयात्पीतशेषं पिबेन्न च ।
अन्यथा कुरुते यस्तु जपेद्देवीशतं ततः॥
यत्यन्नं यतिपात्रस्थं यतिना प्रेरितं च यत् ।
दम्पत्योर्भुक्तशेषंच भुक्त्वा चान्द्रायणं चरेत्॥
एकपङ्क्त्युपविष्टानामन्योन्यं स्पृश्यते यदि ।
भुक्त्वा तदन्नमत्याज्यं गायत्र्यष्टशतं जपेत्॥
अन्यच्च विधानपरिजाते—
उच्छिष्टोच्छिष्टसंस्पृष्टो ब्रह्मणस्तु कदाचन ।
कुर्वीत तत्क्षणे स्नानमाचामेन विशुध्यति॥
इदन्तु क्षत्रियादिस्पृष्टब्राह्मणाविषयम् ।ब्राह्मणस्पर्शे तु—
उच्छिष्टो ब्राह्मणः स्पृष्ट उछिष्टेनाग्रजन्मना ।
आचम्यैव तु शुद्धःस्याद्विष्णुनामानुकीर्तनात्॥
चन्द्रिकायां जीवत्पितृकादेर्विशेषः—
कनीयान्सपिता चैव मुक्त्वा श्राद्धिकभोजनम् ।
प्राणाग्निहोत्रादन्यत्र न समौनं विधीयते॥
भूताष्टम्यां दिवा भुक्त्वा रात्रौ भुक्त्वा तु पर्वणि ।
एकादश्यामहोरात्रं भुक्त्वा चान्द्रायणं चरेत्॥
शातातपः—
वनस्पतिगते सोमे परान्नं ये तु भुञ्जते ।
तेषांमासकृतं पुण्यं दातारमधिगच्छति॥
अत्र सर्वत्र चन्द्रायणप्रायश्चित्तकथनमभ्यासविषयम् । अनभ्यासेतु अहोरात्रमभोजनम् । ऋग्विधाने विशेषः—
पर्वणोरर्कवारे च रात्रौ भुङक्तेदिवा द्विजः ।
दाशवारं जपेन्मन्त्रमभिस्ववृष्टिरेव च॥
एकादश्यां यदा भुङ्क्तेस्वेच्छया व्याधिवर्जितः ।
त्यं सु मन्त्रं जपेद्भोक्ता दशवारं विशुद्ध्यति॥
अष्टम्यां च चतुर्दश्यां यदि भुङ्क्तेदिवा द्विजः ।
त्वं सोमासीति वै सूक्तं जपेत्पापात्प्रमुच्यते॥
भोजनं तु न निःशेषं कुर्यात्प्राज्ञः कथञ्चन ।
अन्यत्र दध्नः क्षीराद्वा घृतात्सक्तुभ्य एव वा॥
भुक्त्वा पीत्वा तु यः कश्चिच्छ्रन्यं पात्रं विमुञ्चति ।
क्षुधार्त्तःस पिपासार्त्तो भवेज्जन्मनि जन्मनि॥
देवलः—
भुक्तोच्छिष्टात्समादाय सर्वस्मात्कञ्चिदेव तु ।
उच्छिष्टभागधेयेभ्यः सोदकं निर्वषेद्भुवि॥
व्यासः—
अर्द्धं पीत्वा तु गण्डूषमर्द्धं त्याज्यं महीतले ।
रसातलगता नागास्तेन प्रीणन्ति नित्यशः॥
यद्युत्तिष्ठेदनाचान्तो भुक्तवानासनाहिजः ।
सद्यः स्नानं प्रकुर्वीत नान्यथा प्रयतो भवेत्॥
गण्डूपकरणात्पूर्वं हस्तं प्रक्षालयेद्द्विजः ।
हतं दैवं च पित्र्यं च ह्यात्माचैवोपपातकैः॥
यो वै गण्डूषसमये तर्जन्या वक्त्रशोधनम् ।
कुर्वीत यदि मुढात्मा रौरवं नरकं व्रजेत्॥
आचम्य च ततः कुर्यादन्तकाष्ठस्य भक्षणम् ।
भोजने दन्तलग्नानि निर्हृत्याचमनं चरेत्॥
आदौ पञ्च तथा सप्त त्रीणि त्रीणि तथैव च ।
आचमेच्चुलकान्प्राज्ञो मुखशुद्धिं यदीच्छति॥
गौतमः—
आचान्तोऽप्यशुचिस्ताव द्यावत्पात्रं न चोद्धरेत् ।
उद्घृतेऽप्यशुचिस्तावद्यावद्भूर्न प्रमार्जिता॥
भोजनान्ते द्विराचम्य तज्जलैर्नेत्रमार्जनम् ।
कार्य चक्षुर्विवृद्ध्यर्थं भार्गवादींश्च संस्मरेत्॥
तदुक्तं भारते—
शर्यातिं च सुकन्यां च भार्गवं चाश्विनौ खगम् ।
भोजनान्ते स्मरेद्यस्तु तस्य चक्षुर्न नश्यति॥
आहारपरिणामार्थमन्यान्स्मरेत्—
अगस्त्यं कुम्भकर्णं च शनिं च वडवानलम् ।
अन्नस्य परिणामार्थं स्मरेद्भीमं च पञ्चमम्॥
मार्कण्डेयः—
भूयोऽप्याचम्य कर्तव्यं ताम्बूलस्य च भक्षणम् ।
श्रवणं चेतिहासस्य तथा रामायणस्य च॥
ताम्बूलभक्षणे विशेषमाह । गर्गः—
प्रातःकाले फलाधिक्यं चूर्णाधिक्यं तु मध्यतः ।
निशि पर्णाधिकं खादेत्तस्य लक्ष्मीर्विवर्द्धते॥
पर्णमूलेभवेव्द्याधिः पर्णाग्रे पापसम्भवः ।
चूर्णं पर्णं हरत्यायुः शिरा बुद्धिं विनाशयेत्॥
तस्मादेतान्परित्यज्य ताम्बूलं भक्षयेत्सदा ।
अनिधाय मुखे पर्णं पूगं खादति यो नरः॥
सप्त जन्म दरिद्री स्यादन्ते नैव स्मरेद्धरिम् ।
पञ्चसप्ताष्टपत्राणि दश द्वादश वापि वा॥
दद्यात्स्वयं च गृह्णीयाद्भक्षणे वीटकस्य तु ।
तर्जन्या चूर्णमादाय ताम्बूलंन तु भक्षयेत्॥
यदि वा भक्षयेन्मूढो नरकं प्रतिपद्यते ।
मध्यमाङ्गुलिनादाय चूर्णं पर्णे विलेपयेत्॥
अङ्गुष्ठाग्रेण वा तद्वदन्यथा दोषमाप्नुयात्॥
आयुर्वेदे—
भुक्त्वा वह्निमुपस्पृश्य शनैः सप्तपदीं व्रजेत् ।
शयीत वामभागेन यतो रोगैर्न पीड्यते॥
भुक्त्वोपविशतः स्थौल्यं बलमुत्तानशायिनः॥
इति श्रीप्रथमशाखयरामकृष्णविरचिते पारस्करगृह्यसूत्र विवरणे
संस्कारगणपतौ भोजनविधिः॥
<MISSING_FIG href=”../books_images/U-IMG-1696300073Screenshot(7”/>.png)
अथ प्रयोगः ।
गायत्र्याऽन्नंसम्प्रोक्ष्य ।”सत्यन्त्वर्तेन परिषिञ्चामि” । इतिमन्त्रेण पात्रपरितः प्रदक्षिणजलं नीत्वा, हस्तेनान्नमभिमन्त्र्य।तत्र मन्त्रः—
अन्नं ब्रह्म रसो विष्णुर्भोक्ता देवो महेश्वरः ।
एवं ध्यात्वा तु यो भुङ्क्ते सोऽन्नदोषैर्न लिप्यते॥
दक्षिणेन हस्तेन घृताक्तमोदनमादाय आहुतित्रयं दद्यात् । “ॐभूपतये नमः ।ॐभुवनपतये नमः ।ॐभूतानां च पतये नमः” । इति स्वदक्षिणभागे भूमौ दद्यात्।
“अन्तश्चरसि भूतेषु गुहायां विश्वतोमुखः ।
त्वं यज्ञस्त्वं वषट्कारस्त्वं ब्रह्म त्वं प्रजापतिः॥
त्वं विष्णोः परमं पदममृतोपस्तरणमसि स्वाहा" इति मन्त्रेणजलं पीत्वा, अथ पञ्च प्राणाहुतयः ।** “ॐप्राणाय स्वाहा । ॐअपानाय स्वाहा । ॐव्यानाय स्वाहा । ॐउदानाय स्वाहा । ॐसमानाय स्वाहा । ॐब्रह्मणे नमः" ।**दन्तैरस्पृशन् । ततः सर्वं दन्तैर्भक्षयेत् \। भुक्तोच्छिष्टमन्नं सजलं गृहीत्वा । तत्र मन्त्रः—
“रौरवे पुण्यनिलये पद्मार्बुदनिवासिनाम् ।
अर्थिनां सर्वभूतानामक्षय्यमुपतिष्ठतु॥”
इति मन्त्रेण चित्राहुतिस्थाने त्याज्यम् । तत “अमृतापिधानमसि स्वाहा” इत्यनेन आचमनं कुर्यात् । आचमनशेषजलं चित्राहुतिसमीपभूमौ क्षिपेत् । ततो मृजलाभ्यां हस्तशुद्धिं कृत्वा पादौ प्रक्षाल्य आच-
मनं कार्यम् ।उदरे हस्तं निधाय पठेत् ।
अगस्तिरार्किर्वडवानलश्च भुक्तं मयान्नं जरयत्वशेषम् ।
सुखं ममैतत्परिणामसम्भवं यच्छत्वरोग्यं मम चास्तु देहे॥
विष्णुः समस्तेन्द्रियदेहदेही प्रधानभूतो जगतां यथैकः ।
सत्येन तेनान्नमशेषमेतदारोग्यदं मे परिणामहेतु॥
विष्णुरत्तात्तथैवान्नंपरिणामस्तु वै यथा ।
सत्येन तेन मद्भुक्तं जीर्यत्वन्नमिदं तथा॥
इति संस्कारगणपतौ भोजनविधिः ।
<MISSING_FIG href=”../books_images/U-IMG-1696301025Screenshot(8"/>.png)
दशमी कण्डिका ।
अथातोऽध्यायोपाकर्मौषधीनां प्रादुर्भावे श्रवणेनश्रावण्यां पौर्णमास्या<MISSING_FIG href="../books_images/U-IMG-1696301104Screenshot(1"/>.png)श्रावणस्य पञ्चमी<MISSING_FIG href="../books_images/U-IMG-1696301234Screenshot(9"/>.png) हस्तेन वाज्यभागाविष्ट्वापाऽऽज्याहुतीर्जुहोति पृथिव्याऽअग्नयऽइत्यृग्वेदेऽन्तरिक्षाय वायवऽइति यजुर्वेदे दिवे सूर्यायेति सामवेदे दिग्भ्यश्चन्द्रमसऽइत्यथर्ववेदे ब्रह्मणे च्छन्दोभ्यश्चेतिसर्वत्र प्रजापतये देवेभ्यऋषिभ्यःश्रद्धायै मेधायै सदसस्पतयेऽनुमतयऽइति चैतदेव व्रतादेशनविसर्गेषु सदसस्पतिमित्यक्षतधानास्त्रिः सर्वेऽनुपठेयुर्हुत्वाहुत्वाौदुम्बर्यस्तिस्रस्तिस्रः समिधऽआदध्युरार्द्राः सपलाशा घृताक्ताः सावित्र्या ब्रह्मचारिणश्चपूर्वकल्पेन शन्नो भवन्त्वित्यक्षतधानाऽअखादन्तः प्राश्नीयुर्दधिक्राव्णऽइति दधि भक्षयेयुः स यावन्तं गणमिच्छेत्तावतस्तिलानाकर्पफलकेनजुहुयात्सावित्र्या शुक्रज्योतिरित्यनुवाकेन वा प्राशनान्ते प्रत्यङ्मुखेभ्यउपविष्टभ्यऽॐ कारमुक्त्वा त्रिश्च सावित्रीमध्यायादीन्प्रब्रूयादृषिमुखानि बह्वृचानां पर्वाणिच्छन्दोगाना<MISSING_FIG href="../books_images/U-IMG-1696301843Screenshot(9"/>.png)सूक्तान्यथर्वणाना<MISSING_FIG href="../books_images/U-IMG-1696301899Screenshot(9"/>.png)सर्वे जपन्ति सह
नोऽस्तु सह नोऽवतु सह नऽइदं वीर्यवदस्तु ब्रह्म । इन्द्रस्तद्वेद येन यथा न विद्विषामहऽइति त्रिरात्रं नाधीयीरल्ँलोमनखानामनिकृन्तनमेके प्रागुत्सर्गात्॥ १० ॥
अथोपाकरणमुच्यते “अथातोध्यायोपाकर्म” इति सूत्रम् ।अथशब्दोऽधिकारार्थः । अतःशब्दो हेत्वर्थः । यस्माद्ब्रह्मयज्ञो नित्यः, अतोऽध्यायोपाकर्म ब्रूम इति । अधीयन्त इति अध्याया वेदास्तेषामुपाकर्म प्रारम्भः ।उक्तञ्च—
अध्यायो नाम वेदः स्यात्तस्योपाकरणं पुनः ।
आरम्भणमिति प्रोचुर्भवनागादयः स्फुटम्॥
गृह्यकारिकायामपि—
उपाकरणशब्देन वेदारम्भणमुच्यते॥ इति ।
स च द्विविधः—
सुतस्यैको गुरोरेकःसंस्कारोऽयं द्विधा स्मृतः ।
तत्रायं गुरुसंस्कार इत्यभाण्यत्र कैश्चन॥
साधुः पक्षो द्वितीयोऽयं वेदारम्भः पुरोदितः ।
किं वानेकस्मृतीर्दृष्ट्वाग्निहोत्र्येवमसूसुचत्॥
एतस्य कर्मसंज्ञा च वार्षिकं शौनकोऽब्रवीत्॥ इति ।
अत्रोपाकरणोत्सर्गयोर्मध्ये अभ्यर्हितत्वादुपाकरणस्य पूर्वनिपातः । किमर्थम् ? अकृत उपाकरणे उत्सर्गस्याप्यभावः । तच्चाग्निमतोऽध्यापनप्रवृत्तस्य ।उपाकरणस्यावसध्याग्निसाध्यत्वान्निरग्नेर्नाधिकारः ।उपाकर्मणि आचार्यस्याग्नौशिष्यकर्तृका समिदाहुतिर्यस्मात् तेनाध्यापयतोऽपि निरग्नेःसाग्नेरप्यनध्यापयतो नाधिकारः । तथा चोक्तंगृह्यकारिकायाम्—
अग्निमानधिकारीह नेतरः कर्कसम्मतिः ।
सम्यगध्ययने सोऽपि प्रवृत्तस्तस्य सत्क्रिया॥ इति ।
तथा च शौनकः—
अध्यायोपाकृतिं कुर्यात्तत्रोपासनवह्निना॥ इति ।
स्मृत्यन्तरेऽपि—
अग्निमान्स च कुर्वीताध्यापने यः प्रवर्त्तते ।
स एवेदमुपाकर्म भाष्यकारैरगादि च॥
यत्तु लौकिकाग्नौतदनुष्ठानं तत्राचारमेव मूलम् ।
कर्मद्वयमिदं केचिल्लौकिकाग्नौ प्रकुर्वते॥
इत्याश्वलायनवचनं तदन्यशाखा विषयम् ।उपाकरणस्य कालमाह"**औषधीनां प्रादुर्भावे श्रवणेन श्रावण्यां पौर्णमास्या"**मितिसूत्रम् । ओषधीनां ब्रीह्मपामार्गादीनां प्रादुर्भाव उत्पत्तौ सति एतदुपाकर्म कुर्यात् । श्रावणशुक्लपक्षः सर्वेषां ऋग्यजुः सामाध्यायिनामध्यायोपाकृतेः सामान्यतो मुख्यकालः । तत्रापि यजुःशाखिनां पूर्णिमा मुख्या । ऋग्वेदिनां श्रवणः । सामवेदिनां हस्त इति । नन्वत्र सूत्रकारेण श्रवणेन युक्तश्रावण्यां पौर्णिमास्यामुक्तं तत्कथम् ? उच्यते । श्रावण्यां श्रवण एवप्रायशो भवति । औषधिप्रादुर्भावश्च । एतदुभयं तस्या एव विशेषणम् ।अत्र पौर्णिमास्याः प्राधान्याद्विशेषणाभावेऽपि तस्यां तद्भवति । तथा चगृह्ये—
प्रायःस्यादुडुसंयोगस्तथौषधिसमुद्गमः ।
कर्कोक्त्यावै तदुभयं पौर्णमास्या विशेषणम्॥
अनादरस्तयोर्यस्मान्नित्यत्वादस्य कर्मणः॥ इति ।
तत्र तावद्यजुःशाखिना पूर्णिमायामपि विशेषः । एतत्कर्मणः पूर्वाद्धोऽनुष्ठानकालः ।तमियं पूर्णिमा व्याप्नुयान्न व्याप्नुयाद्वा । उभयपक्षेऽपि तैत्तिरीयकैः पराऽङ्गीकार्या ।काण्वमाध्यन्दिनीयैः पूर्वेति
पर्वण्यौदयिके कुर्युःश्रावणं तैत्तिरीयकाः ।
इति बह्वृचपरिशिष्टात् । केचिन्मतमिदं पूर्वा परा ग्राह्येति ।
पूर्णिमा प्रतिपद्युक्ता तत्रोपाकर्मणः क्रिया ।
उक्तोऽर्थोऽयं प्रसङ्गेन भविष्योत्तरसंज्ञके॥
श्रावणी दुर्गनवमी दुर्वा चैव हुताशनी ।
पूर्वविद्धैव कर्तव्या शिवरात्रिर्बलोर्दिनम्॥ इति हेमादिः ।
वस्तुतस्तु हेमाद्रिमतं युक्तम् । पराशरमाधवीये—
श्रावणी पौर्णमासी तु सङ्गवात्परतो यदि ।
सदैवोदयिकी ग्राह्यानान्यदौदयिकी भवेत्॥
गदाधरभाष्ये कालादर्शे—
श्रावण्यां प्रौष्ठपद्यांवा प्रतिपत्षण्मुहूर्त्तकैः ।
विद्धा स्थाच्छन्दसां तत्रोपकर्मोत्सर्जनं भवेत्॥
वह्वृचसामगयोः कालविशेषमाह—
बहूचाःश्रवर्णे कुर्युर्हस्तर्क्षेसामवेदिनः”॥ इति ।
ऋग्वेदिश्रवणेऽपि विशेषःधनिष्ठायुक्त एव ग्राह्यो नोत्तराषाढायुक्त इति ।
तपो हन्त्युत्तराषाढा उपाकर्मणि वैष्णवे ।
धनिष्ठामिश्रितं कार्यमुपाकरणसंज्ञितम्॥
इति निगमवचनात् । स्मृत्यन्तरेऽप्युक्तम्—
श्रवणर्क्षेतूपाकर्म उत्तराषाढसंयुते ।
संवत्सरकृतोऽध्यायस्तक्षणादेव नश्पति॥
धनिष्ठासंयुतं कुर्याच्छ्रावणं कर्म यद्भवेत् ।
तत्कर्म निर्मलं विन्द्यादुपाकरणसंज्ञितम्॥
विधानपारिजाते—
उदयव्यापिनं चैव विष्ण्वर्क्षंघटिकाद्वयम् ।
तत्कर्म सफलं ज्ञेयं तस्यै पुण्यमनन्तकम्॥
सामवेदिहस्ते विशेषः । चित्रायुक्त एव ग्राह्यो नोत्तरायुक्त इति ।
धनिष्ठा प्रतिपद्युक्तत्वाष्ट्रऋक्षसमन्वितम् ।
श्रावणं कर्म कुर्वन्ति ऋग्यजुः सामपाठकाः॥
इति पारीशष्टात् ।
त्वषट्रं चित्रा।इतरत्स्पष्टम् । एतेषु कालेषु त्रयाणामप्युष कर्मानुष्ठानम् । तत्सिंहस्थे सूर्ये सति एवेति कालादर्शकारः।
अध्यायानामुपाकर्म श्रावण्यातैत्तिरीयकाः ।
बह्वृचाःश्रवणे कुर्युःसिंहस्थोऽर्क्को भवेद्यदि॥
विधानपारिजाते —
वेदोपकरणे प्राप्ते कुलीरे संस्थिते रवौ ।
उपाकर्म न कर्तव्यं कर्तव्यं र्सिहयुक्तके॥
इति विरुद्धवचनं तद्देशान्तरविषयम् । तथा च बृहस्पतिः—
नर्मदोत्तरभागे तु कर्तव्यं सिंहयुक्तके ।
कर्कटे संस्थिते भानाबुपाकुर्यात्तु दक्षिणे ।
सामगानां विशेषः । वीरमित्रोदये गार्ग्यः—
सिंहे रवौ तु पुष्यर्क्षेपूर्वाह्णेविचरेद्बहिः ।
छन्दोगा मिलिताः कुर्युरुत्सर्गं सर्वछन्दसाम्॥
उत्सर्गशब्दऽउपाकर्मणोऽप्युपलक्षकः। ग्रहसंक्रान्त्यादिदूषिते तदा श्रावणं कर्म न कार्यम् ।अनन्तपाठकसङ्ग्रहे—
उपाकर्म न कुर्वन्ति क्रमात्सामग्यजुर्विदः ।
ग्रहसङक्रान्तियुक्तेषु हस्तश्रवणपर्वसु॥
अत्र विशेषमाहमनुः—
अर्द्धरात्रादयधस्ताच्चेद्ग्रहः सङ्क्रम एव वा ।
नोपाकर्म तदा कुर्याच्छ्रावण्यां श्रवणेन वा॥
कात्यायनोऽपि—
अर्धरात्रादधस्ताच्चेद्ग्रहःसङ्क्रम एव वा ।
नोपाकर्म तदा कुर्यात्परतश्चेन्न दोषभाक॥
ग्रहसंक्रान्त्यादिदूषितेषु हस्तश्रवणपर्वसु तदा तान्परित्यज्य श्रावणीसितपञ्चमी इस्तयुक्ता केवला वा वाजसनेयिभिर्बव्हृचैः सामगैश्चानुष्ठेया ।"श्रावणस्य पञ्चमी<MISSING_FIG href="../books_images/U-IMG-1696383731Screenshot(1"/>.png)इस्तेन वे" तिसूत्रम् ।प्रायशः श्रावणशुक्लपञ्चम्यां हस्तनक्षत्रं भवति । अतः पञ्चम्या विशेषणम् । विशेषणाभावेऽपिकेवलतिथौ कर्तव्यम् । गदाधरभाष्ये महार्णववचनम्—
संक्रान्तिर्ग्रहणं वापि यदि पर्वणि जायते ।
उपाकृतिस्तु पञ्चभ्यां कार्या वाजसनेयिभिः॥ इति ।
तैत्तिरीयैस्तु ग्रहणादिना मुख्यकालबाधे प्रौष्ठपदी ग्राह्या। तेषांश्रावणासितपञ्चम्या अविहितत्वात् । अथ वाजसनेयिनां विहिता सा यजुर्वेदित्वसाम्येन तेषामपि स्यादित्युच्यमाने ‘कार्या वाजसनेयिभि’ रिति वाजसनेयिविशेषविधिर्व्यर्थःस्यात् । तस्मात्प्रौष्ठपद्येवैभिर्ग्राह्येति सिद्धम् । तथाच वशिष्ठर्षिर्वैकल्पिकं कालमुदाजहार—"अथातः स्वाध्यायोपाकर्मश्रावण्यांप्रौष्ठपद्यां वे”ति \। अथवोक्तनिमित्तश्रावण्यंसभवेतैत्तिरीयैराषा-
ढ्यां कार्यम् ।"**श्रावण्यां पौर्णमास्यामाषाढ्यां वोपाकृत्य च्छन्दांस्पधीयीते"**ति तदीयबौधायनोदितत्वात् । यदा पुनः श्रावणे वृष्ट्यभावदोषस्यप्रादुर्भावः स्यात्तदा भाद्रपदे पौर्णमास्यां सर्वैर्यजुर्वेदिभिरनुष्ठेयम् । श्रवणे ऋग्वेदिभिः । हस्ते सामवेदिभिः । “अथ सर्वैर्ऋग्यजुःसामवेदिभिःसितपञ्चम्या“मिति बव्हृचपरिशिष्टे ।
अवृष्ट्यौषधयस्तास्मिन्मासे नो सम्भवन्ति चेत् ।
तदा भाद्रपदे मासि श्रवणेन तदिष्यते॥
गोभिलमुनिरपि–**“प्रौष्ठपदेन हस्तेनोपादान”**मिति ।मनुः—
श्रावण्यां प्रौष्टपद्यां वाप्युपाकृत्य यथाविधि ।
युक्तश्छन्दांस्यधीयीत मासान्विप्रोऽर्द्धपञ्चमान्॥ इति ।
अत्रापिशब्देन भाद्रपदीयहस्तपञ्चम्योरुपादानम् ।”**प्रौष्ठपदीं हस्तेनोपाकरण"**मिति गोभिलात् । मलमासे तूपाकर्म न भवति, किन्तु शुद्धेएव । चन्द्रिकायां पराशरः—
उपाकर्म तथोत्सर्गः प्रसवाहोत्सवाष्टकः ।
मासवृद्धौ परे कार्या वर्जयित्वा तु पैतृकम्॥ इति ।
प्रसवाहोत्सवः जातेष्टिः । कात्याययनोऽपि—
उत्कर्षः कालवृद्धौ स्यादुपाकर्मादिकर्मंणि ।
अभिषेकादिवृद्धीनां न तूत्कर्षोयुगादिषु॥ इति ।
छन्दोगानां तु मलमासे एव भवति, न शुद्धे ।
दशहरासु नोत्कर्षश्चतुर्ष्वपि युगादिषु ।
उपाकर्ममहाषष्ठ्योर्ह्येतदिष्टं वृषादितः॥ इति ।
इति ऋष्यशृङ्गश्रवणात् । एतच्च शुक्रास्तादावपि भवति,
उपाकर्मोत्सर्जनं च पवित्रदमनार्पणम्॥
इति वचनात् । पर्यग्निकरणे सति पूर्वं त्रिरात्रादिवेधाभाव उक्तःप्रयोगपारिजाते—
नित्ये नैमित्तिके जाप्ये होमयज्ञक्रियादिषु ।
उपाकर्मणि चोत्सर्गे ग्रहवेधो न विद्यते॥ इति ।
प्रथमारम्भस्तु न भवति । कश्यपः—
गुरुभार्गंवयोर्मौठ्ये वाल्येवा वार्द्धकेऽपि वा ।
तथाधिमाससंसर्पे मलमासादिषु द्विजः॥
प्रथमोपाकृतिर्न स्यात्कृतं कर्म विनाशकृत्॥
स्मृतिभास्करे—
चण्डांशोर्मण्डलं प्राप्तौ यदा शुक्रबृहस्पती ।
सर्वकर्मनिवृत्तिः स्यान्नित्यं नैमित्तिकं विना॥
निषिद्धे चेस्क्रियते तदा दोषमाह, गर्गः—
अथ चेद्दोषसंयुक्त पर्वणि स्यादुपाक्रिया ।
दुःखशोकामयग्रस्ता राष्ट्रे तस्मिन्द्रिजातयः॥
एतच्च मध्याह्नादुद्र्ध्वं कर्तव्यम् । तथा चोक्तं विधानपारिजाते हेमाद्रौ—
उपाकर्मापराह्णेस्यादुत्सर्गः प्रातरेव च॥
गोभिलोऽपि—
अध्यायानामुपाकर्म कुर्यात्कालेऽपराह्णके।
पूर्वाह्णेच विसर्गःस्यादिति वेदविदो विदुः॥ इति ।
तन्नसर्वसम्मतम् ।वचनान्तरदर्शनात् । प्रचेताः—
भवेदुपाकृतिः पौर्णमास्यां पूर्वाह्णएव तु॥
मनुरपि—
पुष्ये तु च्छ्रन्दसां कुर्याद्बहिरुत्सर्जनं द्विजः ।
माघशुक्लस्य वा प्राप्ते पूर्वाह्णे प्रथमेऽहनि॥ इति ।
“पूर्वाह्णोवै देवाना“मिति श्रुतेः । तस्मात्पूर्वाह्वएवानुष्ठेयोऽयमुपाकर्मसंस्कारः । उक्तयोगदिने गुरुः शिष्यैः सहाभ्यञ्जनक्रियां कृत्वाऽहतवासः परिधाय । उक्तञ्च—
समाचारपरिप्राप्तां कुर्यादभ्यञ्जनक्रियाम् ।
ततो नान्दीमुखं श्राद्धं मातृपूजनपूर्वकम्॥ इति ।
भविष्योत्तरपुराणे—
सम्प्राप्ते श्रावणस्यान्ते पौर्णमास्यां दिनोदये ।
स्नानं कुर्वीत मतिमान् श्रुतिस्मृतिविधानतः॥
तत्र प्रथमप्रयोगे आचार्येण मातृपूजापूर्वकं नान्दीश्राद्धं कार्यम् ।तथा च अनन्तभट्टीये—
गुरुसंस्कार एवाऽयं न शिष्याणामुदीरितः ।
अतोऽत्र गुरुणा कार्यं नान्दीश्राद्धं सपूजनम्॥
गृह्यकारिकायामपि—
गुरोस्तदात्मसंस्कारो न शिष्याणां परार्थतः॥ इति ।
तदिति नान्दीश्राद्धम्—
तच्छ्राद्धं गुरुसंस्कारो मातृपूर्वं विधीयते॥
तथा चोक्तं गृह्णकारिकायाम्—
दैवपूर्वं भवेच्छ्राद्धं सुतसंस्कारकर्मसु ।
तदेव मातृपूर्वं स्यादात्मसंस्कारकर्मसु॥
अनन्तभट्टीये—
नान्दीश्राद्धादिकं कार्यमध्यायोपाकृतेरिदम् ।
अनुष्ठानेऽग्रिमे न स्यादितरेष्विति निश्चितम्॥
आचम्य प्राणानायम्य तिथ्यादिकं स्मृत्वा मातृपूजापूर्वकं नान्दीश्राद्धं च कृत्वाग्नेः पश्चादुपविश्य शालाग्निनियमाच्छालाग्निं प्रतिष्ठापयेद्गुरुः । ब्रह्मचारिणोऽपि अग्निसमीपे उपविशेयुः । ततस्तिथ्यादिकं स्मृत्वा “उपाकर्म करिष्ये” इति सङ्कल्पं कृत्वा वैकल्पिकावधारणं कुर्यात् ।तथा चोक्तं गृह्यकारिकायाम्—
शालाग्नौस्यादिदं कर्म गुरुः श्राद्धे कृते सति ।
अग्नेःपश्चादुपविशेच्छिष्पाश्चाग्निसमीपुतः॥
तिथ्यादिकल्पितं कालं स्मृत्वा सङ्कल्पमाचरेत्॥ इति ।
अत्र चतुर्वेदोपाकर्म एकवेदोपाकर्म वा यथाशक्ति वैकल्पिकं स्मरणीयम्, अमुकवेदमेव स्मर्तव्यमिति नियमाभावात् । एवमन्यवैकल्पिकेष्वपि ज्ञेयम् । अभाणि च कैश्चित्—
विकल्पेषु च सर्वेषु स्वयमेवैकमादितः ।
अङ्गीकरोति यं कर्ता स विधिस्तस्य नेतरः॥ इति ।
संस्कारान्तरेऽपि अयं न्यायोऽनुसर्त्तव्यः । ततो वैकल्पिकस्मरणानन्तरं छन्दऋष्यादिकं स्मरणीयम् । ततो देवताभिध्यानम् । ततः परिस्तरणम् । ततो ब्रह्मवरणम् । अत्र परिस्तरणब्रह्मवरणादीनां क्रमभङ्गेनैव विधानात् न व्यतिक्रमभ्रान्तिः कार्या ।अपाठि च सोमयाजिभिः—
ब्रह्मणो वरणादादौ कुर्यादग्नौ परिस्कृतिः॥ इति ।
ततः प्रणीताप्रणयनम् । ततः पात्रासादनम् ।पर्युक्षणान्तं कृत्वा“आज्यभागाविष्ट्वाऽऽज्याहुतीर्जुहोति पृथिव्या ऽअग्नय ऽइत्यृग्वेदेऽन्तरिक्षाय वायव ऽइति यजुर्वेदे दिवे सूर्यायेति सामवेदे दिग्भ्यश्चन्द्रमसऽइत्यथर्ववेदे ब्रह्मणे च्छन्दोभ्यश्चेति सर्वत्र प्रजापतये देवेभ्यऋषिभ्यः श्रद्धायै मेधायै सदसस्पतयेऽनुमतय” इति सूत्रम् ।आज्यभागपर्यन्तं कर्म कुर्यात् । तदनन्तरं आज्याहुतीर्जुहोति । ऋग्वेदेऽधीयमाने “पृथिव्यै स्वाहा ।अग्नये स्वाहेति द्वे आहुती जुहोति ।यजुर्वेदेऽधीयमाने “अन्तरिक्षाय स्वाहा । वायवे स्वाहे“ति द्वे आहुती जुहोति । सामवेदेऽधीयमाने “दिवे स्वाहा ।सूर्याय स्वाहे“तिद्वे आहुती जुहोति । अथर्ववेदे अधीयमाने “दिग्भ्यः स्वाहा ।चन्द्रमसे स्वाहे“ति द्वे आहुती जुहोति । यदि सर्वेषु वेदेष्वधीयमानेषु “ब्रह्मणे स्वाहा । छन्दोभ्यः स्वाहे”ति द्वे आहुती सर्वत्र प्रतिवेदमावर्त्तयेत् । चशब्दात्प्रजापतय इत्यादिकाश्च सर्वत्र ।पृथक् योगकरणे चतुर्णामपि वेदानां तन्त्रेणोपाकरणे “**ब्रह्मणे छन्दोम्य”**श्चेति आहुतिद्वयं प्रतिवेदमावर्तनीयम् । प्रजापतय इत्येवमाद्यास्तन्त्रेणैव, योगविभागसामर्थ्यात् । तत्तद्देवताभ्यस्त्यागो ज्ञेयः। “एतदेव व्रतादेशनविसर्गेषु” इति सूत्रम् ।एतदेव आज्याहुतिनवकमेव कर्म ब्रतादेशेषु वेदारभ्भवतेषु विसर्गे समावर्तने च । व्रतादेशनानि च विसर्गाश्च वूतादेशनविसर्गाःतेषु भवति । “सदसस्पतिमित्यक्षतधानास्त्रिःसर्वेऽनुपठेयुर्हुवा हुत्वौदुम्बर्यस्तिस्रस्तिस्रःसमिध ऽआदध्युरार्द्राः सपलाशा धृताक्ताः सावित्र्या” इति सुत्रम् ।धानानां श्रपणानुपदेशात्सिद्धानामेवोपादानम् । तदुक्तं कारिकायाम्—
आसादने विशेषोऽयं नेह स्याच्चरुपात्रकम्॥ इति ।
अंत्र तण्डुलाभावे आज्यस्योत्तरतो धानानामासादनम् । तथा च रेणुः—
आज्योत्तरं च सिद्धानां धानानां सादनं स्मृतम्॥ इति ।
धानाशब्देन भृष्टयवा उच्यन्ते । तथा चोक्तं कारिकायाम्—
धाना भृष्टयवाःप्रोक्ता लाजास्तु व्रीहियस्तथा॥ इति ।
अक्षताश्चताः धानाश्च अक्षतवानाः । ताः“सदसस्पति” मिति मन्त्रेण
आचार्यस्त्रिर्जुहोति । सर्वे शिष्या अनु सहैव वर्तमानाः”**सदसस्पति”**मिति मन्त्रं त्रिः पठेयुः । किं कृत्वा हुत्वा हुत्वा एकैकामक्षतधानाहुतिम् ।उदुम्बरवृक्षोद्भवाः तिस्रस्तिस्रः आर्द्राः पत्रसहिताः घृतलिप्ताः समिध आचार्यसहिताः शिष्याः सावित्र्या “तत्सवितु” रित्तिमन्त्रेणादध्युः अग्नौप्रक्षिपेयुः । तिस्रस्तित्र इति वीप्सा आधातृपुरुषविषया न समिद्विषया । अतश्च प्रत्याहुति एकैकामेवादध्युः । एवमेव पुनर्द्विवारमुक्तमन्त्राभ्यामेवधानाहोमादि समिदाधानान्तं कुर्युः । अगादि च कारिकाकारैः—
एवं द्विरपरं कर्म धानाहोमादिकं भवेत्॥इति ।
“ब्रह्मचारिणश्च पूर्वकल्पेने“ति सूत्रम् । तत्र ये ब्रह्मचारिणः शिष्यास्ते पूर्वकल्पेन प्रागुपदिष्टाग्निपरिचरणसमिदाधानमन्त्रेणदध्युः। “शन्नो भवन्त्वित्यक्षतधाना ऽअखादन्तः प्राश्नीयु‘रिति सूत्रम् ।“शन्नो भवन्तु व्वाजिन” इति मन्त्रेणाक्षतधानाःअनवखण्डयन्तःदन्तैरस्पृष्ट्वा जिह्वयैवाश्नीयुःसर्वे आचार्यसहिताः, बहुवचनोपदेशात् ।”दधिक्राव्ण इति दधि भक्षयेयुः” इति सूत्रम् । “दधिक्राव्ण” इतिमन्त्रेण सर्वे दधिभक्षणं कुर्युः। “स यावन्तं गणमिच्छेत्तावतस्तिलानाकर्षफलकेन जुहुयात्सावित्र्या शुक्रज्योतिरित्यनुवाकेन वा” इतिसूत्रम् । स आचार्योयावन्तं यावत्संख्याकं शिष्याणां गणं समूहं इच्छेत्तावत्संख्याकान् तिलान् आकर्षफलकेन औदुम्बरेण बाहुप्रमाणेन सर्पाकृतिना पात्रेण सावित्र्या “तत्सवितु“रितिमन्त्रेण जुहुयात् । “शुक्रज्योति“रित्यनुवाकेन वा जुहुयात् । तथा च रेणुकारिकायाम्—
यावन्तं गणमिच्छेत्स शिष्याणां तावतस्तिलान् ।
अनन्वारब्ध आकर्षफलकेन जुहोत्यथ॥इति ।
ततो धानाभ्यः स्विष्टकृत् । तदुक्तं गृह्यकारिकायाम्—
धानाभ्यः स्विष्टकृद्धोमो भूरित्याद्यत्र पूर्ववत् ।
प्राशनादि विमोकान्तं कुशेषूत्तरतोऽन्वितम्॥ इति ।
“प्राशनान्ते प्रत्यङ्मुखेभ्यऽउपविष्टेभ्य ऽओङ्कारमुक्त्वा त्रिश्चसावित्रीमध्यायादीन्प्रब्रूयादृषि-मुखानि बह्वृचानां पर्वाणि च्छन्दोगा-
ना<MISSING_FIG href=”../books_images/U-IMG-1696389359Screenshot(9”/>.png)मुक्तान्यथर्वणाना“मिति सूत्रम् ।संस्रवभक्षणान्ते अग्नेरुत्तरतः स्वयं प्राङ्मुखः प्रत्यङ्मुखोपविष्टेभ्यः शिष्येभ्यो यजुर्वेदोपाकरणे ओङ्कारमुक्त्वा उच्चार्य “तत्सवितु”रिति सावित्री त्रिरुक्त्वा मन्त्रब्राह्मणयोरध्यायादीन्प्रब्रूयादध्यापयेत् । तथा च कारिकायाम्—
प्राशनादिविमोकान्ते कुशेषूत्तरतोऽन्वितम् ।
जलेशदिङ्मुखेभ्यः स आसीनेभ्यो गुरुस्तदा॥
ॐङ्कारमुक्त्वा सावित्रीं पच्छो व्याहृतिपूर्विकाम् ।
अर्धर्च्चशस्तकाराद्यांब्रूयात्सर्वांतथैव सः॥
अत्राहतुःस्पष्टतरं भवनागत्रिविक्रमौ ।
अध्यायादींस्ततो ब्रूयान्मन्त्रब्राह्मणयोरिह॥
वेदोपाकरणविषये विशेषमाह विधानपारिजाते व्यासः—
दर्भासनो दर्भकरः प्राङ्मुखो वाऽप्युदङ्मुखः ।
उपक्रमेत वेदान्वा वेदौ वा वेदमेव वा॥
प्रणवं प्राक्प्रयुञ्जीत व्याहृतीःप्रणवं ततः ।
पच्छोऽर्द्धर्चशःशिरसा सावित्रीमनुवाच्य च॥
उपक्रमेत्ततो मन्त्रानादौ च ब्राह्मणस्ततः ।
ततोपनिषदं कल्पं रहस्यान्यपि शक्तितः॥
अधीत्य प्रणवं चोक्त्वा भूमिं स्पृष्ट्वा जलं स्पृशेत् ।
नमस्कृत्वा ततो देवानृषींश्चैव गुरूनपि॥
बह्वृचां ऋग्वेदिनां वेदोपाकरणे ऋषिमुखानि मण्डलादीन् बूयात् । छन्दोगानां शिष्याणां सामवेदापोकरणे पर्वाणि ब्रूयात् । अथर्वणानां शिष्याणां अथर्ववेदोपाकरणे सुक्तानि ब्रूयात् । तथाचोक्तं गृह्ये—
ऋग्वेदेऽधीयमाने ताऽन्ब्रूयादृषिमुखान्यपि ।
पर्वाणि सामवेदवेश्चेत्सूक्तान्याथर्वणो यदि॥ इति ।
अत्र ब्रह्मचारिविषये विशेषमाह ।विधानपारिजाते—
मौञ्जींयज्ञोपवीतं च नवं दण्डं च धारयेत् ।
कटिसूत्रं नवं चैव नवं वस्त्रं तथैव च॥
गृह्यकारिकायां च—
समाचारप्रमाणं यन्मौञ्जीदण्डोपवीतकम् ।
नूतनं धारयन्तीह जीर्णान्त्यक्त्वोक्तिरेव च॥
विधानपारिजाते स्मृत्यन्तरे—
दण्डाजिनोपवीतानि मेखलां कटिसूत्रकम् ।
धृत्वोपाकरणं कृत्वा ततः स्वाध्यायमारभेत्॥
पुराणानि विसृज्याथ पुनः पुनरिति क्रमात्॥
सङ्ग्रहेऽपि—
मृतकान्त उपाकर्म गते मासचतुष्टये॥
अनवं वा नवं वापि धृत्वा पूर्वं विसर्जयेत्॥
यज्ञोपवीतमिति शेषः । प्रसङ्गतो ब्राह्मणेभ्यो यज्ञोपवीतदानं विधानपारिजाते वायुपुराणे—
उपाकर्मणि विप्रेभ्यो दद्याद्यज्ञोपवीतकम् ।
आयुष्मान् जायते तेन कर्मणा मानवो भुवि॥ इति ।
अनन्तभट्टीये—
प्रदानमुपवीतानां भवनागोऽब्रवीत्स्फुटम्॥ इति ।
“सर्वे जपन्ति सह नोऽस्तु सह नोऽवतु सह न इदं वीर्यवदस्तु ब्रह्म ।इन्द्रस्तद्वेद येन यथा न विद्विषामह इति” इति सूत्रम् । आचार्यसहिताः सर्वे शिष्याः जपेयुः । **मन्त्रार्थः—**साङ्गोऽयं वेदः । अध्ययनार्थं सहभाव प्राप्तानां नोऽस्माकं अस्मत्हृदये अस्तु स्थिरंभवतु । ततश्च सह मिलितान्नोऽस्मान् अवतु पापात् रक्षतु । यथा च मिलितानां नोऽस्माकं अनध्यायाद्यध्ययने शूद्रादिश्रवणादिना उपहसमपिइदं ब्रह्म वीर्यवत् अयातयाममस्तु । इन्द्रः प्रजापतिः तत् यथा यथावत् वेद ।यथा येन वेदनेन परस्परं न विद्विषामहे न द्विष्मः । “त्रिरात्रं नाधीयीरैल्लोमनखानामनिकृन्तन“मिति सूत्रम् ।उपाकर्मोत्तरं त्रिरात्रं नाधीयीरन् सर्वे अध्ययनं न कुर्युः । लोम्नां नखानां च छेदनं त्रिरात्रं न कुर्युः । कारिकायामपि—
अत ऊर्ध्वमनध्यायस्त्रिरात्रमनिकृन्तनम् ।
नखलोम्नामथो प्रागुत्सर्गाद्वाऽप्यनिकुन्तनम्॥
मधुमांसादिलवणं वर्जयन्तोऽनृतौ स्त्रियम्॥ इति ।
“एके प्रागुत्सर्गा” दिति सुत्रम् ।एके आचार्याः प्रागुत्सर्गात लो-
मनखानामनिकृन्तनमिच्छन्ति । इदमुपाकर्म ब्रह्मचारिणामेव न गृहस्थानामिति चेत्र। एतदुपाकर्म गृहस्थस्याप्यावश्यकम् । तथा च विधानपारिजाते व्यासः—
वेदव्रतानि कृत्वैव विप्रोयद्युद्वहेत तत् ।
अधीयीत गृहस्थोऽपि नियमाद्ब्रह्मचारिवत्॥
गोभिलोऽपि—
उपाकमोत्सर्जनं च वनस्थानामपीष्यते ।
धारणाध्ययनाङ्गत्वाद्गृहिणां ब्रह्मचारिणाम्॥ इति ।
ब्रह्मचारिवादितिव्यासवचनेन मधुमांसादिभक्षणनिषेधनूतनयज्ञोपवीतधारणजीर्णत्यागादिकं गृहस्थानामपि प्राप्तम् । अस्य फलमाह कात्यायनः—
प्रत्यब्दं यदुपाकर्म सोत्सर्गं विधिवद्द्विजैः ।
क्रियते छन्दसां तेन पुनराप्यायनं भवेत्॥
उत्सर्जनं च वेदानामुपाकरणकर्म च ।
अकृत्वा वेदजाप्येन फलं नाप्नोति मानवः॥
अयातयामच्छन्दोभिर्यत्कर्म क्रियते द्विजैः ।
क्रीडमानैरपि सदा तत्तेषां वृद्धिकारणम्॥ इति ।
अत्र रक्षाबन्धनमुक्तं हेमाद्रौ—
ततोऽपराह्णसमये रक्षापोटलिकां शुभाम् ।
कारयेदक्षतैः शस्तैः सिद्धार्थैहमभूषितैः॥
इदं भद्रायां नकार्यम् ।
भद्रायां द्वे न कर्तव्ये श्रावणी फाल्गुनी तथा ।
श्रावणी नृपतिं हन्ति ग्रामं दहति फाल्गुनी॥
इति सङ्ग्रहवचनात् । भद्रासत्वे तु रात्रावपि तदन्ते कुर्यादिति निर्णयामृते ।तत्र मन्त्रः—
येन बद्धो बलीराजा दानवेन्द्रो महाबलः ।
तेन त्वामपि बध्नामि रक्षे ! मा चल मा चल॥ इति ।
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैरन्यैश्च मानवैः ।
कर्तव्यो रक्षिकावन्धो द्विजान्सम्पूज्य शक्तितः॥ इति ।
इति श्री रामकृष्णविरचिते संस्कारगणपतौ दशमी कण्डिका॥
अथ उक्तदिने गुरुः शिष्यैः सहाभ्यञ्जन क्रियां कृत्वाऽहतवस्त्रं परिधायाचम्य प्राणानायम्य देशकालौ स्मृत्वा “अस्मिन्पुण्याहेअध्यायोपाकर्माहं करिष्ये । तत्रादौ तदङ्गत्वेन विहितं पुण्याहवाचनं मातृकापूजनं नान्दीश्चाद्धं च करिष्ये । निर्विघ्नेन परिसमाप्त्यर्थं गणपतिपूजनमहं करिष्ये” । सर्व सम्पाद्य शालाग्नेः पश्चादुपविश्य गुरुः ।ब्रह्मचारिणोऽप्यग्निसमीपे उपविशेयुः । वैकल्पिकं स्मरणं कुर्यात् ।तदित्यम्—” वह्ने पूर्वेण ब्रह्मणो गमनम् । पश्चिमे पात्रासादनम् ।पवित्राणि त्रीणि । मृण्मयी आज्यस्थाली।खादर्यः समिधः ।पूर्णंपात्रम् ।विदिशाबाधारौ । समिद्धतमेऽग्नौ आज्यभागौ ।चतुर्णां वेदानां तन्त्रेणोपाकर्म । शुक्रज्योतिरित्यनुवाकेन तिलहोमः । न नखलोमनिकृन्तनं त्रिरात्र“मिति । ततो देवताभिध्यानम् । “अत्र प्रजापतिम् । इन्द्रम् ।अग्निम् । सोमम् ।अन्तरिक्षम् । वायुम् । ब्रह्माणम् । छन्दाँसि । पृथिवीम् ।अग्निम् ।ब्रह्माणम् । छन्दाँसि।दिवम् । सूर्यम् ।ब्रह्माणम् । छन्छाँसि । दिशः । चन्द्रमसम् \। ब्रह्माणम् । छन्दाँसि ।प्रजापतिम् ।देवान् ।ऋषीन्। श्रद्धाम् ।मेधाम् । सदसस्पतिम् ।अनुमतिम् । एता आज्येन । ततोऽत्रातिरिक्तं सदसस्पतिं धानाभिः । सवितारं समिद्भिः । ततो अग्निँस्विष्टकृतम् । इयं धानाविशेषेण” । ततो व्याहृत्यादिदेवताभिध्यानं पूर्वोक्कमेव ।”एताःपुनराज्येन । अपस्तिलैः । (अथ वा) सवितारं तिलैः। एता देवता अङ्गप्रधानार्था अस्मिन्कर्मण्यहं यक्ष्ये” । एवमुक्त्वाऽनन्तरं परिस्तरणं कृत्वाब्रह्मवरणं कर्त्तव्यम् । “अमुकशर्मन् अस्मिन्नुपाकर्मणि त्वं ब्रह्माभव” । ततः प्रणीताप्रणयनम् । ततः पात्रासादनम् । पवित्रच्छेदनानित्रीणि । पवित्रे द्वे । प्रोक्षणीपात्रम् ।आज्यस्थाली । सम्मार्गकुशाः। उपयमनकुशाः । समिधस्तिस्रः । स्रुवः । आज्यम् । पूर्णपात्रम् । अथोपकल्पनीयानि सपत्रार्द्राः खादर्यः समिधः । औदुम्बर्यो वा । ताः समिधोगुरुः शिष्याश्च यावन्तो भवेयुस्तावतां प्रत्येकं नव नव ज्ञेयाः । धानाः
भृष्टायवाः। दधि ।आकर्षफलकम् सर्पाकारो बाहुमात्रः पात्रविशेषः । तिलाश्च । तत्रायं विशेषःअत्र तण्डुलाभाव आज्यस्योत्तरतो धानानामासादनं कार्यम् ।प्रोक्षणं च । पर्युक्षणान्तं कृत्वा प्रथमं घृतेन होमः । ॐप्रजापतये स्वाहा । इदं प्रजापतये न मम । ॐइन्द्राय स्वाहा ।इदमिन्द्राय न मम । ॐअग्नये स्वाहा । इदमग्नये न मम ।ॐ सोमाय स्वाहा । इदं सोमाय न मम " । केवलं ऋग्वेदोऽधीयमानश्चेत्तदा । “ॐपृथिव्यै स्वाहा । इदं पृथिव्यै न मम । ॐअग्नये स्वाहा । इदमग्नये न मम । ॐब्रह्मणे स्वाहा । इदं ब्रह्मणे० । ॐछन्दोभ्यःस्वाहा । इदं छन्दोभ्यो न मम " । यजुर्वेदश्चेत्तदा ।“ॐअन्तरिक्षाय स्वाहा । इदमन्तरिक्षाय० । ॐवायवे स्वाहा । इदंवायवे० । ॐब्रह्मणे स्वाहा । इदं ब्रह्मणे० । ॐछन्दोभ्यः स्वाहा ।इदं छन्दोभ्यो०” । सामवेदश्चेत्तदा “ॐ देवे स्वाहा । इदं दिवे० ।ॐ सूर्याय स्वाहा । इदं सूर्याय । ॐ ब्रह्मणे स्वाहा । इदं ब्रह्मणे० ।ॐछन्दोभ्यःस्वाहा । इदं छन्दोभ्यो०” । अर्थववेदश्चेत् “ॐदिग्भ्यः स्वाहा । इदं दिग्भ्यो० । ॐचन्द्रमसे स्वाहा । इदं चन्द्रमसे० ।ॐ ब्रह्मणे स्वाहा । इदं ब्रह्मणे न० । ॐछन्दोभ्यःस्वाहा । इदंछन्दोभ्यो न० । ॐप्रजापतये स्वाहा । इदं प्रजापतये० । ॐदेवेभ्यःस्वाहा । इदं देवेभ्यो० । ॐऋषिभ्यः स्वाहा । इदं ऋषिभ्यो० ।ॐ श्रद्धायै स्वाहा । इदं श्रद्धायै । ॐमेधायै स्वाहा । इदं मेधायैन० । ॐसदसस्पतये स्वाहा । इदं सदसस्पतये न० । ॐअनुमतये स्वाहा । इदमनुमतये न० । इति सप्ताहुतयः । यो वेदोऽधीयमानो भवेत्तस्याहुतिचतुष्टयं दत्वा सप्ताहुतयः “प्रजापतये” “इत्यादिका होतव्याः । चतुर्णामपि वेदानां तन्त्रेणोपाकरणे प्रतिवेदे स्वस्वचतस्रआहुतीर्हुत्वा “प्रजापतये” इत्येवमाद्यास्तन्त्रेणैव सकृत् होतव्याः । ततो धानाभिधारणम् । “ॐसदसस्पतिमद्भुतं प्रियमिन्द्रस्यकाम्यम् । सनिम्मेधामयासिषँस्वाहा " । इति मन्त्रं शिष्यैः सहआचार्यःपठित्वा स्रुवेणाक्षतधाना जुहुयात् । “इदं सदसस्पतये न
मम” । तत आचार्योब्रह्मचारिणश्च प्रत्येकं तिस्रस्तिस्रः प्रागानीताःसमिधो गृह्णीयुः । तिष्ठन्तस्ताः समिधो घृताक्ताः केवलां सावित्री पठित्वा तिस्रस्त्रिवारं जुहुयुः । एवमेव पुनर्द्विवारं उक्तमन्त्राभ्यामेव धानाहोमादिसमिधानान्तं कुर्युः । यदा ब्रह्मचारी शिष्यस्तदा “अग्नये समिधमाहार्ष“मित्यादिना समिदाधानं कुर्यात्, न सावित्र्या । अन्यत्सर्वंसमानम्।
“ॐशन्नो भवन्तु व्वाजिनो हवेषु देवताता मितद्रवः स्वर्काः।
जम्भयन्तोऽहिं व्वृकप्तरक्षा<MISSING_FIG href=”../books_images/U-IMG-1696470779Screenshot(1”/>.png)सि सनेम्यस्मद्युयवन्नमीवा” ।
इति मन्त्रेण गुरुः शिष्याश्च तिस्रस्तिस्रो धाना अखण्डिता दन्तैरस्पृष्ट्वाजिव्हयैवाश्नीयुः । ततो “दधिक्राव्णोऽअकारिप जिष्णोरश्वस्यव्वाजिनः । सुरभि नो मुखा करत्प्रणऽआयूषिँतारिषत्” । इतिमन्त्रेण सर्वेऽपि दधि भक्षेयुः । ततो द्विराचमनम् । ततो गुरुः अन्वारब्धःसन् आकर्षफलकेन तिलान् जुहुयात् ।
**“ॐशुक्रज्योतिश्च चित्रज्योतिश्च सत्यज्योतिश्च ज्योतिष्माँश्च ।शुक्रश्च ऋतपाश्चात्त्यँहाः॥ ईदृङ्चान्यादृङ्चसदृङ्च प्रतिसदृङ्च । मितश्च सम्मितश्च सभराः॥ ऋतश्चसत्यश्च ध्रुवश्च धरुणश्च ।धर्त्ताच व्विधर्त्ताच व्विधारयः॥ ऋतजिच्च सत्यजिच्च सेनजिच्चसुषेणश्च । अन्तिमित्रश्च दूरेऽअमित्रश्च गणः॥ईदृक्षासऽएतादृक्षासऽऊ षु णः सदृक्षासः प्रतिसदृक्षासऽएतन \। मितासश्च सम्मितासो नोऽ अद्य सभरसो मरुतो यज्ञेऽअस्मिन् \। स्वतवाँश्च प्रधासी च सान्तपनश्च गृहमेधी च \। क्रीडी च शाखी चोज्जेषी च ॥ इन्द्रन्दैवीर्व्विशो मरुतोऽनुर्त्क्मानोऽभवन्यथेन्द्रन्दैवीर्व्विशो मरुतोऽनुवर्त्क्मानोऽभवन् । एवमिमं यजमानन्दैवीश्च व्विशो मानुषीश्चानुवर्त्क्मानो भवन्तु स्वाहा । इदं सवित्रे० ।”**अत्रयं गुरुः बहुशिष्यकामश्चेत्तदा बहुभिस्तिलैर्होमः कर्त्तव्यः । ततः धानाशेषेण “ॐ अग्नये स्विष्टकृते स्वाहा । इदमग्नये स्विष्टकृते न मम । ॐभुः स्वाहा । इदमग्नये न मम ।ॐभुवः स्वाहा । इदं वायवे न मम । ॐस्वः स्वाहा ।इदं सूर्याय० । त्वन्नः ।सत्वन्नः । अयाश्चाग्ने । ये ते शतं० ।
उदुत्तमं० । ॐप्रजापतये स्वाहा । इदं प्रजापतये न मम।" ततःसंस्रवप्राशनम् । पवित्राभ्यां मार्जनम् । पवित्रप्रतिपत्तिः । ब्रह्मणे वरदानम् । तदिस्थम् – “ब्रह्मन् अस्योपाकर्मणोऽङ्गतया विहितोऽयंवरः तुभ्यमहं सम्प्रददे"।ततः प्रणीताविमोकः । ततोऽग्नेरुत्तरतःकुशोपविष्टेभ्यः प्रत्यङ्मुखेभ्यः शिष्येभ्यः प्राङ्मुखः कुशोपविष्टःआचार्यः ऋष्यादिकं पठित्वा ॐकारव्याहृतिपूर्वंसावित्रीं प्रथमं पादशो ब्रूयात् । ततोऽर्द्धर्चशः ब्रूयात् । ततः सर्वां तैः सहानुवर्तयेत् । अत्रऋषिपूजनम् । ततस्तर्पणम् । एतद्द्वयं उत्सर्गे स्पष्टं वक्ष्यामि । ततोऽत्रयथाशक्ति यज्ञोपवीतदानं कार्यम् । अत्रस्यापीतिकर्तव्यता तत्रैव वक्ष्यते ।तत “इषे त्वे” स्यारभ्य मन्त्राध्यायादीन् ब्रूयात् । यथा “ॐ भूर्भुवः स्वः ॐ तत्सवितु“रिति । “**ॐइषे त्वा ॐकृष्णोऽसि” ।**इत्यादिकाः । एवं सर्वे अध्यायाः । एवमेव ब्राह्मणाध्यायाः । तत उपनिषत्कल्पादि यथाशक्ति पठेत् । ततः प्रणवम्–”ॐ" । भूमिस्पर्शनम् । ततो जलस्पर्शनम् । ततो देवान् ऋषीन् गुरून् नमस्कृत्य उपविशेत्॥
<MISSING_FIG href="../books_images/U-IMG-1696472451Screenshot(10"/>.png)
( एकादशी काण्डका )
वातेऽमावास्याया<MISSING_FIG href="../books_images/U-IMG-1696472521Screenshot(9"/>.png)सर्वानध्यायः श्राद्धाशने चोल्कावस्फूर्जभूमिचलनाग्न्युत्पात ऽऋतुसन्धिषु चाकालमुत्सृष्टेष्वभ्रदर्शने सर्वरूपे च त्रिरात्रं त्रिसन्ध्यंवा भुक्त्वाऽऽर्द्रपाणिरुदके निशाषा<MISSING_FIG href="../books_images/U-IMG-1696472633Screenshot(9"/>.png)सन्धिवेलयोरन्तः शवे ग्रामेऽन्तर्द्दिवाकीर्त्यैधावतोऽभिशस्तपतितदर्शनाश्चर्याभ्युदयेषु च तत्कालन्नीहारेवादित्रशब्द आर्त्तस्वनेग्रामान्ते श्मशाने श्वगर्दभोलूकशृगालसामशब्देषुशिष्टाचरिते च तत्कालं गुरौ प्रेतेऽपोभ्यवेयाद्दशरात्रं चोपरमेत्सतानूनप्त्रिणिसब्रह्मचारिणि च त्रिरात्रमेकरा-
त्रमसब्रह्मचारिण्यर्धषष्ठान्मासानधीत्योत्सृजेयुरर्धसप्तमान्वाथेमामृषं जपन्त्युभा कवी युवा यो नो धर्मः परापतत् । परिसख्यस्य धर्मिणो विसख्यानि विसृजामहइति त्रिरात्रप्तसहोष्य विप्रतिष्ठेरन्॥ ११ ॥
“वातेऽमावास्यायाँ्सर्व्वानध्यायः” इति सूव्रम् । वातेवायौप्रचण्डे सति वातस्य सर्वदा विद्यमानत्वादतिशयितोऽत्र ग्राह्यः । सर्वशब्दाच्चाङ्गानामपि न च्छन्दसामेव । यद्यदुपाध्यायसकाशाद्गृह्यतेशिल्पाद्यपि तत्सर्वं ग्रहणेन गृह्यते । शिल्पिनामपि त्वनध्यायप्रसिद्धिरस्ति । अनध्यायश्चप्रकृतत्वात् गुरुमुखाद्यच्छिक्ष्यते तत्रैव भवति । न गुणनेऽपीति । अपरे तु सर्वविषयतामिच्छन्ति । “श्राद्धाशने चोल्कावस्फूर्ज्जभूमिचलनाग्न्युत्पात ऋतुसन्धिषु चाकाल" मिति सूत्रम् ।आकालिका एते अनध्यायाः । आकालं यस्मिन्काले उल्कादेरापतनं अपरदिनेतावत् कालपर्यन्तम् । श्राद्धाशने श्राद्धान्न भोजने । श्राद्धान्नाजीर्णे इत्यपरे । उल्का ज्वालाकृतिः पतति तारका ।अवस्फुर्जं विद्योतमाना विद्युत् ।भूमिचलनं भुमिकम्पः । अग्निर्ग्रामदाहः । एषात्मुपात उत्पतनम्,तस्मिन् ।ऋतुसन्धिशब्देन एकस्य ऋतोरन्तः अपरस्य यावदप्रवृत्तिः सकाल उच्यते । तत्र चाकालिकता नोपपद्यते । ततश्च पूर्वस्यर्तोरन्त्या रात्रिरुत्तरस्याद्यमहस्तावाननध्यायः । “उत्सृष्टेष्वभ्रदर्शने सर्व्वरूपे चत्रिरात्रं त्रिसन्ध्यं वा” इति सूत्रम् ।उत्सृष्टेषुच्छन्दःसु वेदानामुत्सर्गेकृते ।अभ्रदर्शनमत्रातिशयितं गृह्यते, सर्वकालभ्रस्य विद्यमानत्वात् । विद्युभ्रवायुवृष्टिगर्जितानां युगपत्प्रवृत्तिः सर्वस्वरूपम् । तत्रापि त्रिरात्रमनध्यायः । त्रिसन्ध्यं वेति विकल्पः । अभ्रदर्शने त्रिरात्रं सर्वस्वरूपेच त्रिसन्ध्यमिति व्यवस्थितविकल्प इत्यन्ये । “भुक्त्वार्द्रपाणिरुदके निशायाँ्सन्धिवेलयोरन्तःशवे ग्रामेऽन्तर्द्दिवाकीर्त्यै" इति सूत्रम् । भुक्त्वा यावदार्द्रपाणिस्तावन्नाधीयीत ।तथा उदके यावत्तिष्ठति तावत् ।निशायां स्मृत्यन्तरान्निशाशब्देनार्द्धरात्रमुच्यत इति कर्कः ।
महानिशा च विज्ञेया मध्यस्थं प्रहरद्वयम्॥
इति स्मरणात् ।
रात्रेः पूर्वोत्तरौ यामौ वेदाभ्यासेन तौ नयेत्॥
इति वचनेन रात्रेःपूर्वचतुर्थयामयोर्वेदाभ्यासविधिना द्वितीयतृतीययोः परिशेषादनध्याय इति हरिहरः । सन्धिवेलयोः अहोरात्रयोः सन्ध्याकालयोः अन्तःशवे ग्रामे ग्राममध्ये यावच्छवं मृतशरीरंभवति तावन्नाधीयीत \। अन्तर्द्दवाकीर्त्यैदिवा अह्नि कीर्त्यं पठनीयं यदप्रवर्त्तादि तद्दिवाकीर्त्यंतस्मिन्विषये ग्रामे अनध्यायः । तद्ग्राममध्ये न पठनीयम् । सूत्रयोजनायांग्रामपदं का काक्षिगोलकन्यायेनोभयत्र योजनीयम् । ग्रामेऽस्तर्द्दिवाकीर्त्यैइति । अन्ये तु अन्तः सन्निहितो दिवाकीर्तिश्चण्डालो यत्र सोऽन्तर्दिवाकीर्त्यो देशस्तत्रानध्यायः। “धावतोऽभिशस्तपतितदर्शनाश्चर्याभ्युदयेषु च तत्कालम्” इति सूत्रम् । धावतोऽभिशस्तपतितयोदर्शनम् । आश्चर्यमद्भुतमिन्द्रजालादि । अभ्युदयः पुत्रजन्मविवाहादि । एषु धावनादिनिमित्तेषु तत्कालं यावन्निमित्तं तावत्कालमनध्यायः । “नीहारे वादित्रशब्द आर्त्तस्वने ग्रामान्ते श्मशाने श्वगर्दभोलूकशृगालसामशब्दे शिष्टाचरिते च" इति सूत्रम् ।नीहारोधूमरिकायाम्, वादित्राणां मृदङ्गादीनां शब्दे, आस्य दुःखितस्य स्वनेशब्दे, ग्रामस्यान्ते सीम्नि, श्मशाने मृतकदाहभूमौ श्वा च गर्दभश्चउलूकश्च शृगालश्च साम च श्वगर्दभोलूकशृगालसामानि तेषां शब्दे श्रूयमाणे, शिष्टाचरिते च शिष्टस्य श्रोत्रियस्याचरिते आगमने, चकारात्तं कालंयावन्निमित्तमनध्यायः । “**गुरौ प्रेतेऽपोऽभ्यवेयाद्दशरात्रं चोपरमेत्"**इति सूत्रम् ।गुरौ आचार्ये प्रेते मृते, अप उदकं अभ्यवेयात प्रविशेत्स्नानपूर्वकमुदकदानाय \। दशरात्रं दशाहानि स्वाध्यायादुपरमेत् । “**सतानूनप्त्रिणि सब्रह्मचारिणि च त्रिरात्र”**मिति सूत्रम् ।तानूनप्त्रं च"ध्रौवं व्रतप्रदाने गृह्णात्यापतय इति द्विश्च स्थालयाःस्रुवेणतानूनष्त्रमेतद्दक्षिणस्यां वेदिश्रोणौ निधायावमूशन्त्यृत्विजो यजमानश्वानाधृष्ट“मिति ज्योतिष्टोमे विहितम् ।सह तानूनप्त्रं आज्यं येनस्पृष्टं स सतानूनप्त्री तस्मिन्सतानूनप्त्रिणि प्रेते । समाने तुल्ये ब्रह्माणि
वेदे चरतीति सब्रह्मचारी तस्मिन्सब्रह्मचारिण सहाध्यायिनि आचार्ये च प्रेते त्रिरात्रं स्वाध्यायादुपरमेत् । “एकरात्रमसब्रह्मचारिणि” । न स ब्रह्मचारी असब्रह्मचारी तस्मिन्नाचार्ये प्रेते एकरात्रमनध्यायः । अथ स्मृत्यन्तरोक्ता अनध्यायाः । तत्र स्मृत्यर्थसारे “अर्धषष्ठान्मासानधीत्योत्सृजेयुः” । अर्धः षष्ठो मासो येषां ते अर्ध षष्ठा मासास्वानर्धषष्ठान्मासानधीत्य पठित्वा उत्सृजेयुः पूर्वमुपाकृतानि छन्दांसि । उत्सर्गश्छन्दसामेव । अङ्गानि पुनरधीयीत। “अर्धसप्तमान्वा” । अधीत्योत्सृजेयुरिति शेषः । अर्धः सप्तमो मासो येषु ते अर्धं सप्तमाः । “अथेमामृचं जवन्त्युभा कवी युवा यो नो धर्मः परापतत् । परिसख्यस्य धर्मिणो विसख्यानि विसृजामह इति” \। उत्सर्गानन्तरं आचार्येण सह शिष्या “उभा कवी” इति इमामृचं जपन्ति उच्चारयन्ति । मन्त्रार्थ:–हे अश्विनौ ! युवां उभा उभौ यतः कवी कान्तदर्शनौ युवा युवानौ युष्मत्संपादितो धर्मो नोऽस्माकं परिसख्यस्य सुमित्रभावस्य परापतत् रक्षणार्थमागतः । तेन धर्मेण विसख्यानि विद्विषादीनि विषमाध्यायादीनि वा विसृजामहे त्यजाम, किंभूतस्य सख्यस्य धर्मिणः उपकारादिधर्मवतः परस्परमनुकूलस्य इत्यर्थः । “त्रिरात्र<MISSING_FIG href=”../books_images/U-IMG-1696586183Untitled101.png"/>सहोप्य विप्रतिष्ठेरन्" इति सूत्रम् । अत्र त्रिरात्रं सह एकस्मिन्गृहे आचार्यसहिताः शिष्या निवासं कृत्वा विप्रतिष्ठेरन् । विविधं प्रवासं कुर्युः । त्रिरात्रं सहवासनियमः । विप्रतिष्ठाऽत्र विद्यत एव ।
इति श्रीप्रथमशाखीयरामकृष्णविरचिते पारस्करगृह्यसूत्राविवरणे
संस्कारगणपतौ द्वितीयकाण्ड एकादशी काण्डका ।
( द्वादशी कण्डिका )
पौषस्य रोहिण्या मध्यमायां वाऽष्टकाया मध्यायानुत्सृजेरन्नुकान्तं गत्वाऽद्भिर्देवाँइछन्दा<MISSING_FIG href="../books_images/U-IMG-1696586535Untitled102.png"/>सि वेदानृषीपुराणाचार्यान गन्धर्वानितराचार्यान्संवत्सरं च
सावयवं पितृृनाचार्यान्स्वांश्च तर्पयेयुः सावित्रीं चतुरनुद्रुत्य विरताः स्म इति प्रब्रूयुः क्षपणं प्रवचनं च पूर्ववत्॥ १२ ॥
अथोत्सर्गउच्यते ।
“पौषस्य रोहिण्यां मध्यमायां वाष्टकायामध्यायानुत्सृजेरन्” इति सूत्रम् । पौषमासस्य रोहिणीनक्षत्रे मध्यमायामष्टकायां पौषशुक्लपौर्णिमाया ऊर्ध्वं अष्टम्यां वा अध्यायान् वेदान् उत्सृजेरन्नाधीयीरन् उत्सर्गं कुर्यात् । उत्सर्गशब्देन श्रवणशुक्लपौर्णिमास्यां उपाकर्मविधिना स्वीकृतस्य वेदस्य त्यागः । तथा चोतं अनन्तमट्टीये—
श्रावणे पौर्णमास्पादौ ब्रह्मणः स्वीकृतस्य तु ।
त्याग उत्सर्गशब्देन कोविदैरभिधीयते॥
अध्ययनस्य त्यागः न तु वेदस्य ।
पौषमासे तु या रोहिणी जायते तस्य कृष्णेऽथ वा याष्टमी तत्र च ।
कार्यमुत्सर्गकर्म द्विजैश्छन्दसां छात्रवर्गेण साकं बहिर्जीवने॥
तथा च याज्ञवल्क्यः—
पौषमासस्य रोहिण्यामष्टकायामथापि वा ।
जलान्ते छन्दसां कुर्यादुत्सर्गं विधिवद्वहिः॥ इति ।
यदा श्रावण्यामुपाकर्मानुष्ठितं भवेत्तदोत्सर्गः पौषशुक्लप्रतिपदि कार्यः । यदा प्रौष्ठपद्यां तदा माघशुक्लप्रतिपदि । बभाण च मनुः—
पुष्ये तु च्छन्दसां कुर्याद्वहिरुत्सर्जनं द्विजः ।
माघशुक्लस्य वा प्राप्ते पूर्वाह्णे प्रथमेऽहनि॥ इति ।
“मासान्विमोऽर्द्धपञ्चमानि” त्यपि पठन् । तथा च हारीतः—"अर्धपञ्चमानधीत्योर्द्धमुत्सृजती“ति । अथ वोपाकर्मप्रकरणे यस्य उपाकर्मकालो यो विहितः तेन तस्मिन्नेव काले उत्सर्गोऽप्यनुष्ठेयः । तथा च खादिरगृह्ये प्रोक्तम्—
पुष्ये तत्सर्जनं कुर्यादुपाकर्मदिनेऽथवा ॥ इति ।
तस्मिन्पक्षे आरब्धोपाकर्मोत्सर्जनो नरः पूर्वमुत्सर्जनं कृत्वा तदन-
न्तरमुपाकर्म कुर्यादिति विवेकः । बौधायनादीनां तु पौषी माधी च पूर्णिमोत्सर्गकालत्वेन संमता । अपाठि च वौधायनेन—”श्रावण्यां पौर्णमास्यामाषाढ्यां वोपाकृत्य तैष्यमाध्यां चोत्सृजे”दिति । एतत्तैत्तिरीयविषयमाभाति । सामवेदिनस्तु सिंहस्थे सूर्ये सति पुष्यनक्षत्रे कुर्युः । तथा च गर्गर्षिः—
सिंहे रवौ तु पुष्पर्क्षे पूर्वाह्ने विचरेद्बहिः ।
छन्दोगा मिलिताः कुर्युरुत्सर्गं सर्वछन्दसाम्॥ इति ।
यदा भाद्रपदे मासि हस्तनक्षत्रात्प्रागेव पुष्यो भवेत्तदा ते श्रावणेऽप्युत्सर्गं विदध्युः । तथा च परिशिष्टे—
माघे प्रौष्ठपदे हस्तात्पुष्यः पूर्वो भवेद्यदा ।
तदा च श्रावणे कुर्यादुत्सर्गं छन्दसां द्विजः॥ इति ।
अथोत्सर्गे इयमितिकर्तव्यता । उक्तयोगदिने गुरुः शिष्यैः सहाभ्यञ्जनादिकं कृत्वाऽहतवस्त्राणि परिधायोपविश्य द्विराचम्य तिथिं स्मृत्वा “अस्मिन् पुण्याहे अध्यायोत्सर्गमहं करिष्ये । तदङ्गत्वेन विहितं गणपतिपूजनपुण्याहवाचनमातृकापूजननान्दीश्राद्धं करिष्ये” इति सङ्कल्पं कृत्वा पूर्ववत्सर्वं सम्पाद्य, तथा च रेणुः—
तिथ्यादिकल्पितं कालं स्मृत्वा शिष्यैर्गुरुः सह ।
वेदस्य गुरुमध्यायोत्सर्गं करिष्य इत्यमुम्॥
जपन्ति ते सहाचार्येणामुं मन्त्रमुभा कवी ।
इतःप्रभृति सर्वेषां त्रिरात्रं स्यात्सहासनम्॥
नियमो प्रथमोऽब्दे स्याद्विप्रतिष्ठानुवादतः॥
“उदकान्तं गत्वे“ति सूत्रम् । नद्याद्युदकसमीपं गत्वा विधिवत्स्नास्वा उत्सर्ग कुर्यात् । उदकान्तगमनेन च स्नानं लक्ष्यते । तच्च स्वगृह्योक्तम् । गन्धाक्षतपुष्पताम्बूलदर्भदूर्वागोमयमृत्तिकापामार्गादीनि स्नानार्थं यज्ञोपवीतधूपनैवेद्यादिकं ऋषिपूजनार्थं गृहीत्वा ग्रामादुत्तरतो नद्यादिसमीपे गत्वा तीरं प्रक्ष्यालय तत्र तानि संस्थापयेत् । उक्तं च कारिकायाम्—
मृदक्षतकुशान्दूर्वापामार्गौ गोमयं तिलान् ।
यज्ञोपवीतं गन्धादीनादायोदकमात्रजेत्॥
तिथ्यादिकल्पितं कालं स्मृत्वा शिष्यैर्गुरुः सह ।
एकान्तमुदकं गत्वा तटं प्रक्षाल्य पाणिना॥
तत्र संस्थापयेत्सर्वं यथादेशं पृथक् पृथक् ।
कृत्वात्र विधिवत्स्नानं नित्यकर्मविधिं तथा॥
एवं स्नानसन्ध्यादिकं विधाय नद्यादित ऋषिं पूजयेत् । तथा च विधानपारिजाते कृष्णाजिनिः—
उपाकर्मणि चोत्सर्गे यथाकालं समेत्य च ।
ऋषीन्दर्भमयान् कृत्वा पूजयेत्तर्पयेत्ततः॥
व्यासः—
विष्टरं सप्तभिर्दर्भैर्द्वादशाङ्गुलदैर्ध्यकम् ।
चतुरङ्गुलमग्रे स्याद्ग्रन्थिरेकाङ्गुलस्तथा॥
प्रदक्षिणभ्रमं कृत्वा ऋषीनावाह्य पूजयेत्॥
सम्प्रदायकारिकायाम्—
स्नातव्यं विधिवत्तत्र स्थापयेदृश्यरुन्धतीन् ।
प्रवरांश्च ततो धीमान्कुर्यात्तेषां प्रतिष्ठितिम्॥
अथ ऋषिमाह । गृह्यकारिकायाम्—
कश्यपोऽथ भरद्वाज अङ्गिरा गौतमो मुनिः ।
वत्सः पराशरश्चेति माण्डव्यः सप्तमस्तथा॥
प्रतिष्ठाप्य मनोजूतिरिमं मन्त्रं समुच्चरन् ।
मन्त्राभ्यां सप्त ऋषय इदं विष्णुर्विचक्रमे॥
अर्चयेद्विष्णुरूपाँस्तान्गन्धाद्यैः सोपवीतकैः ।
सम्प्रदायकारिकायामपि —
इमावेवेति यजुषा नामान्येषां विनिर्दिशेत् ।
अद्भिस्तान स्नापयेद्विप्रः सप्त ऋषय इत्यृचा॥
अर्ध्यस्तेभ्यः प्रदातव्यः पूजनं चन्दनादिभिः।
नैवेद्यैर्विविधैः पूज्या वेदस्य हितमिच्छता॥
ऋषीणां प्रीतये दद्यादुपवतान्य नेकशः ।
प्रणम्य च मुनीन्भक्त्या पश्चात्तर्पणमारभेत्॥
अत्र यज्ञोपवीतदानमपसव्येन । तथा च स्मृतिरत्ने—
कुर्यात्सप्त ऋषिभ्यश्च स्थापनं च पृथक् पृथक् ।
प्रतिष्ठावाहनं चैव कालज्ञानं भवेत्ततः॥
पूजोपवीतिना दानं प्राचीनावीतिपूर्वकम्॥ इति ।
ततस्तर्पणे “अद्भिर्देवाँश्छन्दाँसवेदानृषीन्पुराणाचार्यान गन्धर्वानितराचार्यान्संवत्सरं च सावयवं पितृृस्वांश्च तर्पयेयु“रिति सूत्रम्। अद्भिर्जलैर्देवादींस्तर्पयेयुराचार्यसहिताः शिष्याः । इदं तर्पणमुत्सर्गतर्पणम् । तत्तु तिलमिश्रितजलैः कार्यम् । तथा च गृह्यकारिकायाम—
उदकान्ते समाप्तीनाः कुर्युरुत्सर्गतर्पणम् ।
अद्भिस्तु तिलमिश्राभिर्देवादीनां समाहिताः॥
उभाभ्यामपि पाणिभ्याममरोदितदिङ्मुखाः ।
उच्चैस्तर्पणमत्यन्तं स्फुटमाह त्रिविक्रमः॥
तथा सम्प्रदायभाष्यकारिकायाम्—
देवांश्छन्दांसि वेदाश्च ऋषयश्च सनातनाः ।
ततः पुराणानाचार्यान्गन्धर्वांश्च तथेतरान्॥
अहोरात्रार्द्धपासांश्च मासा ऋतव एव च ।
संवत्सरोऽवयवैः सार्धं स्वान्पितृृस्तर्पयेदथ॥
आचार्यतर्पणैः सार्धमयंपुरश्च पञ्चभिः ।
मन्त्रैर्द्वाभ्यां च मूर्धेति माच्छन्दस्त्रितएव च॥
एवं षोडशभिर्मन्त्रैः सप्त ऋषय एकया ।
नमोऽस्तु सर्पमन्त्रेण नवनागांस्तु तर्पयेत्॥
भुरसीति भुवं तद्वत्समुद्रायेति सागरान् ।
पञ्च नद्यः प्रपर्वेति नद्यगाँस्तर्पयेत्ततः ।
व्रीहयेण तथा सस्यानश्मा चेति च धातवः ।
या ओषध्योषधीस्तद्वन्नक्षत्राणि च तदृचा॥
वातायेति तथा मेघान् गणानान्त्वा गणाँस्तथा ।
प्राणायेति च मन्त्रेण भगवतीः प्रतर्पयेत्॥
भद्रं कर्णेति करणान्योगान् योगेति मन्त्रतः ।
त्रातारेति तथा दिक्पान् लोकपालान् प्रजापते॥
अग्ने पक्षेति पक्षास्तु दिशः प्राच्या अवेष्टतः ।
होता यक्षद्वनस्पति द्वेऽन्तर्हि विदेधो माधवः॥
एतद्विष्णोः क्रान्तमिति गङ्गां च यमुनां तथा ।
चतुर्भिस्तर्पयेद्वंशैरिमावेवेत्यनेन च॥
तृप्यन्त्वित्येवात्र प्रयोगः ।
प्रयोग ईदृशस्तज्ज्ञैर्देवास्तृप्यन्त्वितीरितः॥
इति वचनात् । यथा— “देवास्तृप्यन्तु । छन्दाँसि तृप्यन्तु” । एवं सर्वत्र ज्ञेयम् । अत्रापि नामगोत्रोच्चारपूर्वकं स्वान्पितॄँश्च तर्पयेयुः । तद्यथा प्राचीनावीती तर्जनीमूलेन पितृतीर्थेन पितृतर्पणम् । अत्र मृतपितृकैर्जीवत्पितृकैरपि तर्पणं कार्यम् । तत्र जीवत्पितृकैः पितुः पितॄणाम् । मृतपितृकस्य प्रसिद्धम् । आचार्यपितॄणामप्युभयैः कार्यम् । तथा च गृह्यकारिकायाम्—
तिलमिश्राभिरद्भिस्तास्ते जीवत्पितृका अपि ।
आचार्यपितरस्तूप्यध्वं स्वधेति प्रयोगतः॥
पितुः पितर इत्येवं स्याज्जीवत्पितृको यदि॥ इति ।
“अमुकसगोत्राः अस्मत्पितरः अमुकशर्माणस्तृप्यध्वम्”। एवं पितामहप्रपितामहयोः। तथा– “अमुकसगोत्राः अस्मदाचार्यस्य पितरः अमुकशर्माणस्तृप्यध्वं स्वधा”। एवमाचार्यस्य पितामहप्रपितामहयोः । एवं यथाविधि तर्पणं कृत्वा ततो यज्ञोपवीतिनो भूत्वा आचम्य सर्वे ऋषिसम्मुखाः सन्तः “अथ वँश” इत्यादीनां चतुर्णां वंशानामुच्चारणं कुर्युः । “वंशोक्ता ऋषयस्तृप्यन्तु” । इत्येवं प्रतिवंशं वंशोक्तानामृषीणां तर्पणमिति रेणुः । “अयं पुर” इति पञ्ज मन्त्रान् पठित्वा “मन्त्रोक्ताऽऋषयस्तृप्यन्तु । मूर्द्धा व्वय” इति द्वौ मन्त्रौ पठित्वा” मन्त्रोक्तानि च्छन्दांसि तृप्यन्तु । माच्छन्द" इति मन्त्रौ पठित्वा " मन्त्रोक्ता देवास्तृप्यन्तु । अभिर्देवता" मन्त्रान्ते “देवा-
स्तृप्यन्तु । एवश्छन्द” इति मन्त्रं समुच्चार्य “मन्त्रलिङ्गोक्तानि च्छन्दांसि तृप्यन्तु । रश्मिना सत्याय” इति चतुर्दश कण्डिकाः पठित्वा “मन्त्रलिङ्गोक्ता देवास्तृप्यन्तु । सप्त ऋषय" इति मन्त्रं पठित्वा “मन्त्रलिङ्गोक्ता ऋषयस्तृप्यन्तु । एकयाऽस्तुव" इत्यनेन मन्त्रेणापि “मन्त्रलिङ्गोक्ता देवतास्तृप्यन्तु" सम्प्रदायकारिकावचनात् । “नमोऽस्तु सर्पेभ्य" इति “नवनागास्तृप्यन्तु । भूरसी“ति “भूस्तृप्यतु । समुद्राय शिशुमारान्” इति “सागरास्तृप्यन्तु । पञ्च नद्य” इति “नद्यस्तृप्यन्तु । प्र पर्वतस्ये”ति “पर्वतास्तृप्यन्तु । व्रीहयश्च म” इति “सस्यास्तृप्यन्तु । अश्मा च म " इति “**धातवस्तृप्यन्तु । या ओषधी”**रिति “ओषधयस्तृप्यन्तु । नक्षत्रेभ्यः स्वाहे “ति “नक्षत्राणि तृप्यन्तु । वाताय स्वाहे“ति “मेधास्तृप्यन्तु । गणानान्त्वे“ति “गणास्तृप्यन्तु । प्राणाय स्वादे“ति “**भगवत्यस्तृप्यन्तु । भद्रङ्कर्णेभि”**रिति “करणानि तृप्यन्तु । योगेयोगे” इति “योगास्तृप्यन्तु । त्रातारमिन्द्र“मिति “दिक्पालास्तृप्यन्तु । प्रजापते न त्वे“ति " लोकपालास्तृप्यन्तु । अग्नेः पक्षति“रिति “पक्षास्तृप्यन्तु । अवेष्टा दन्दशूका” इति “दिशस्तृप्यन्तु । होता यक्षद्वनस्पतिमाम ही“ति “वनस्पतयस्तृप्यन्तु । (१30) अन्तर्हि विदेधो मा” इति । “गङ्गा तृप्यन्तु । एतद्विष्णोः क्रान्त“मिति “यमुना तृप्यतु” ।
इति तर्पणं सम्प्रदायभाष्यकारिकानुसारेण बोध्यम् । एवं यथाविधि तर्पणं कृत्वा सर्वे ऋषिसम्मुखाः सन्तो वंशोद्धरणं कुर्युः । तद्यथ—“अथ वँशः समानमासाञ्जीवी“ति कण्डिकां पठित्वा “अग्निरहस्योक्ता ऋषयस्तृप्यन्तु । अथ वँशस्तदिद”मिति कण्डिकात्रयं पठित्वा “उपनिषद्वंशोक्ता ऋषयस्तृप्यन्तु । अथ वँशस्तदिदं वयँशौर्पणाय्या“दिति कण्डिकात्रयं पठित्वा “उपनिषद्वंशोक्ता ऋषयस्तृप्यन्तु । अथ वँशस्तदिदं वयं भारद्वाजी पुत्रा”दिति “उपनिषद्वंशोक्ता ऋषयस्तृप्यन्तु । इपावेवे“ति “ब्राह्मणोक्ता ऋषयस्तृप्यन्तु” ।
“सावित्रीं चतुरनुद्रुत्य विरताः स्मइति ब्रूयु“रिति सूत्रम् ।तर्पणस्यान्ते आचार्यसहिताः सर्वे शिष्याः सावित्रीं “तत्सवितु“रिति चतुःकृत्वा चतुर्वारं अनुद्रुत्य पठित्वा “विरताःस्म” इति मन्त्रं सकृत् प्रब्रूयुः ।गृह्यकारिकायां च—
सावित्रीं ते चतुःकृत्वा ब्रूयुर्व्याहृतिवर्जिताम् ।
विरताः स्म सकृच्चेति ततः प्रत्यङ्मुखादिकम्॥
ततः प्रत्यङ्मुखेभ्य उपविष्टेभ्यः प्राङ्मुख आचार्यः प्रथमतः ॐकारमुत्क्वा त्रिश्च त्रिवारं सावित्रीमुक्त्वा “इषेस्वा” दिसंहिताध्यायादीन् “**व्रतमुपैष्यन् । स वै कपालान्येवान्यतर उपदधाती”**त्येवमादीन्ब्राह्मणस्याध्यायादीन् प्रपाठकादीन शतस्थानानि तथाध्यायान्तिमकण्डिकामन्तिमफक्किकां “अग्निमीले पुरोहितं । इषे त्वा । अग्न आ याहि ।शन्नो देवी ।सह नोऽस्त्वि” ति मन्त्रं पठित्वा श्राद्धं कुर्युः । तथा चसम्प्रदायभाष्ये—
सावित्रीं त्रिः समुच्चार्य अध्यायांश्च प्रपाठकान् ।
शतस्थानान्यनुस्मृत्य कण्डिकाश्च तथान्तिमाः॥
अन्तिमाः फक्किका ब्रूयादग्निमीले पुरोहितम् ।
इषे त्वेत्यग्न आ याहि शन्नोदेवीरभिष्टये॥
सह नोऽस्त्विति मन्त्रं च पश्चादुमा कवीति च ।
सह नश्चोभां पठित्वा श्राद्धमार्षं चरेद्बुधः॥
आदौ संहिताध्यायान् ।“इषे त्वा॥ १॥ कृष्णोऽसि॥ २॥समिधाग्निम्"॥ ३ ॥इत्यादिकान् चत्वारिंशत्संख्याकान् । ततोब्राह्मणाध्यायान् “व्रतमुपैष्यन्॥ १ ॥ स वैकपालान्येवान्यवर उपदधाति” ॥ २ ॥ इत्यादिकान् शत १०० सङ्ख्याकान् ।ततः प्रपाठकान् । शतपथब्राह्मणे प्रपाठकसंज्ञकाः कण्डिकादिफक्किकाः । “व्रतमुपैष्यन् ॥ १ ॥ तद्यदेवं पिनष्टि ॥ २ ॥ अथाज्यलिप्ताभ्यांपवित्राभ्या” मित्यादिकान् । ततः शतस्थानानि संहितायाम् । प्रथमतः”इषेत्वा ॥ १ ॥” तदारभ्य गणनया शततमा “परिते”॥ २ ॥ सा पठनी-
या ।ततः शततमा “अग्ने नय"॥३ ॥ सा पठनीया । एवमनेनैव क्रमेण शतस्थानानि भवन्ति । ब्राह्मणशतानि । “व्रतमुपैष्यन् ।॥ १ ॥ तद्यदेवं पिनष्टि॥ २ ॥” एवमन्यान्यपि । तव अन्तिमांकण्डिकां ब्रूयात् । शतपथब्राह्मणे काण्डसमाप्तौ कण्डिका अन्तिमाकण्डिका । तथैव काण्डसमाप्तौ या कण्डिका तस्या अन्तिमा फक्किका तामपि ब्रूयात् । चतुर्णां वेदानां तन्त्रेणोत्सर्गे तु “ऋषिमुखानिबह्वृचां पर्वाणि छन्दोगाना<MISSING_FIG href=”../books_images/U-IMG-1696645423Screenshot(1”/>.png)सूक्तान्याथर्वणानां प्रब्रूयात्” इति सूत्रम् ।कारिकाकारस्तु ऋषिमुखादेर्ज्ञानाभावेतत्तद्वेदस्याद्यैकैकऋगादिब्रूयादित्याह । “अग्निमीले” सम्पूर्णकाण्डिका । “इषे त्वा” सम्पूर्णकण्डिका ।”अग्नं आ याहि " सम्पूर्णकाण्डिका । “शन्नो देवी” सम्पूर्णकण्डिका ।वासुदेवस्तु अत्रावसरे चतुर्णां वंशानां प्रब्रुवणम् ।हरिहरमते तु ऋषिपूजनानन्तरं तत उत्सर्गतर्पणम् । ततो विसर्जनं कुर्युः ।”उत्तिष्ठ ब्रह्मणस्पते०” ।
ऋषीणां प्लवनं तद्वदाचम्येयुर्गृहांस्ततः॥
“क्षपणं प्रवचनं च पूर्ववत्” इति सूत्रम् । ततः क्षपणं अनध्ययनं लोमनखानामनिकृन्तनञ्च ।प्रवचनं चाध्यायादीनां पठनम् ।पूर्ववत् उपाकर्मकालवत् । ततस्तैः शिष्यैर्नियमेन त्रिरात्रमविरोधेन गुरुगृहे स्थातव्यम् ।पश्चाद्यथेष्टं गन्तव्यम् । ततस्तत्कर्मदिनमारभ्य तेश्छन्दांसि शुक्लपक्षे पठनीयानि ।वेदाङ्गानि तु कृष्णपक्षे ।तथा गृह्ये—
अत ऊर्ध्वन्तु छन्दांसि शुक्ले तु नियतः पठेत् ।
वेदाङ्गानि तु सर्वाणि कृष्णपक्षेषु सम्पठेत्॥
शुक्लृपक्षेऽप्यनध्यायदिनेषु कल्पसूत्राणि वेदाङ्गानि च पठेत् ।उक्तं च अनन्तपाठककारिकायाम्—
शुक्लपक्षेऽप्यनध्याये सर्वानध्यायमन्तरा ।
वशिष्ठवचनात्कल्पसूत्राण्यङ्गानि सम्पठेत्॥
यदोपाकर्मकाल एवोत्सर्गः केनचित्कारणेनानुष्ठेयः स्यात्तदोत्सर्गपूर्वकमुपाकर्मणोऽनुष्ठानम् । तत्र सङ्कस्पो यथा “देशकालौसङ्कीर्त्य
अध्यायोत्सर्गोपाकर्माहं तन्त्रेण करिष्ये” तदङ्गस्नानमपि ऋषिपूजनाद्यपि तन्त्रेणानुष्ठेयम् । प्रतिवर्षमेतत्कर्मद्वयं भेदेन वा तन्त्रेण विद्याकामैरनुष्ठेयमेव ।
प्रत्यब्दं यदुपाकर्म सोत्सर्गं विधिवद्द्विजैः ।
क्रियते च्छन्दसां तेन पुनराप्यायनं भवेत्॥
अयातयामैश्छन्दोभिर्यत्कर्म क्रियते नरैः ।
क्रीडमानैरपि सदा तत्तेषां सिद्धिकारकम्॥
इति श्रीप्रथमशाखीयरामकृष्णविराचेते पारस्करगृह्यसूत्रविवरणे
संस्कारगणपतौ द्वितीयकाण्डे द्वादशी कण्डिका ।
<MISSING_FIG href=”../books_images/U-IMG-1696646400Screenshot(11”/>.png)
अथास्य स्पष्टप्रयोगः । उक्तयोगदिने गुरुः शिष्यैः अन्यैश्च ब्राह्मणैः सह अक्षतातिलदर्भदूर्वापामार्गगोमयमृत्तिकागन्धपुष्पधूपदीपनैवेद्याच्छादनयज्ञोपवीतफलताम्बूलदक्षिणाञ्चामृतपञ्चगव्यानि गृहीत्वा गृहादुदग्दिर्श प्राग्दिशंवा रम्यं जलाशयं गच्छेत् ।तीरं प्रक्षाल्य तत्र मृत्तिकादिकं संस्थाप्य शुचौ देशे शिष्यैरन्यैर्ब्राह्मणैश्च परिवृत उपविश्य वामहस्ते कुशोपग्रहः । दक्षिणहस्ते पवित्रधारणम् ।गायत्र्या शिखैकदेशबन्धनम् । ततो यज्ञोपवीतप्रक्षालनम् ।आचमनम् ।“विश्वेशं माधवं० । तीक्ष्णद्रंष्ट्र० ।सुमुखश्चे“त्यादि पठित्या प्राणायामत्रयं कालज्ञानं च कृत्वा”एवंगुणविशेषणविशिष्टायां पुण्यतिथौ अधीतानामध्येष्यमाणानामध्यायानामस्थापनस्थानविच्छेद क्रोषघोषणद्रुतवृत्त्युच्चारितंवर्णानां पूर्वसवर्णानां ग्रामलोपविलम्बितवृत्त्युच्चारितवर्णानां श्लिष्टवर्णविघट्टनादिभिः प्रामादिकश्रुतीनां यज्जातं यातयामत्वं तत्परिहारार्थं अक्षरहीनं स्वरहीनं रङ्गहीनं मात्राहीनमनुस्वारपदच्छेदकण्डिकाव्यञ्जनविकरिषस्वरभक्तिद्विर्भावहूस्वदीर्घप्लुतद्विष्करणपिण्डविक्लिष और सकण्ठ्यतालुमूर्द्धन्यदन्त्यौष्ठ्ययमानुनासिकाननुनासिकरेफजिह्वामूलीयोदात्तानुदात्तस्वस्तिप्रचितजातिवर्णगोत्रप्रयत्रसृ-
ञ्चारोच्चारणगुरुलघुलधुतरार्द्धक्षेपोभक्षेपोष्प्रान्तानुस्वाररञ्चनमाधुर्याक्षरव्यक्तिहीनं यत्कृतं शुक्लयजुर्वेदान्तर्गत (काण्व ) (१31) शाखाध्ययनंतज्जनितपातकनिरासार्थं म्लेच्छादिश्रवणदोषपरिहारार्थं सर्वेषांछन्दसामाप्यायनार्थं वीर्यत्वार्थं च नवोपनीतानां वेदग्रहणाधिकारार्थमितरेषामुत्सृष्टानां वेदानां पुनर्ग्रहणार्थ च यावदधीतमन्त्रराशिस्तेन त्ततद्देवतोपासनया यथावत्फलप्राप्त्यर्थं यजुर्वेदोत्सर्गोपाकरणमहं करिष्ये” ।ततः सर्वे “उभा कवी युवा यो नो धर्मः परापतत् । परिसख्यस्य धर्मिणो विसख्यानि विसृजामहे” ।इति मन्त्रंपठित्वा यथाज्येष्ठमभिवादनं कुर्युः। पुनःदेशकालौ स्मृत्वा “अध्यायोत्सर्गोपाकर्मनिमित्तं गणस्नानमहं करिष्ये” इति सङ्कल्पः । “इषेत्वादि ॐ खम्ब्रह्मान्तेषु याः क्रियास्तत्र विवस्वानृषिः सर्वाणियजूँषि सर्वाणि सामानि सर्वाणि च्छन्दाँसिप्रजापतिर्देवतास्नानादिसर्वकर्मसु विनियोगः” । अथ तीर्थस्नानानुज्ञां प्रार्थयेत् ।
“ॐ नमो देवदेवाय शितिकण्ठाय वेधसे ।
रुद्राय चापहस्ताय दण्डिने चक्रिणे नमः॥
सरस्वती च गायत्री वेदमाता गरीयसी ।
सन्निधात्री भव त्वं च सर्वपापप्रणाशिनी॥
यद्वा सागरनिर्घोष ! दण्डहस्तासुरान्तक ! ।
जगत्स्रष्टर्जगन्मित्र ! नमामि त्वासुरान्तक !॥
तीक्ष्णदंष्ट्र ! महाकाय ! कल्पान्तदहनोपन ! ।
भैरवाय नमस्तुभ्यमनुज्ञां दातुमर्हसि॥
इमं मन्त्रं समुच्चार्य तीर्थस्नानं समाचरेत् ।
अन्यथा तत्फलस्यार्थं तीर्थेशो हरति ध्रुवम्॥
उत्तिष्ठन्तु महाभूता ये भूता भूमिवासिनः ।
भूतानामविरोधेन स्नानकर्म समारभे॥
अपसर्पन्तु ते भूता ये भूतास्तीर्थसाधकाः ।
ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया॥
पुष्कराद्यानि तीर्थानि गङ्गाद्याः सरितस्तथा ।
आगच्छन्तु पवित्राणि स्नानकाले सदा मम॥
अपामधिपतिस्त्वं च तीर्थेषु वसतिस्तव ।
वरुणाय नमस्तुभ्यं स्नानानुज्ञां प्रयच्छ मे॥
अधिष्ठात्र्यश्च तीर्थानां तीर्थेषु विचरन्ति याः ।
देवतास्ताःप्रयच्छन्तु स्नानाज्ञां मम सर्वदा॥
गङ्गे ! च यमुने ! चैव गोदावरि ! सरस्वति ! ।
नर्मदे ! सिन्धु ! कावेरि ! जलेऽस्मिन् सन्निधिं कुरु ॥
स्वगृह्योक्तस्नानसन्ध्यातर्पणादिनित्यविधिं कुर्यात् । यथा–”उरुँही“ति मन्त्रेण तोयमभिमन्त्रयेत् । “ये ते शत“मिति उदकं त्रिरावर्तयेत् हस्तेन भ्रामयेत् । “सुमित्रिया न आप ओषधयः सन्त्वि“तिजलाञ्जलिं गृहीत्वा “दुर्म्मित्रियास्तस्मै सन्तु योऽस्मान्द्वेष्टि यञ्च वयंद्विष्मः” “इति मन्त्रेण अञ्जलिस्थोदके स्वशत्रुं मनसा विचिन्त्य स्ववामभागे क्षिपेत् ।त्रिधा कृताया मृदः तृतीयभागमादाय कटिंबस्तिं ऊरूजङ्घे चरणौ करौ मृदा त्रिस्त्रिस्त्रिारं प्रत्येकं प्रक्षालयेत् । आचम्य,
नमस्ते सर्वलोकानां प्रभवारि ! नमोऽस्तु ते॥ इति ।
“उदकाय नमः” इति तीर्थोदकं नमस्कुर्युः। “इदं विष्णु"रिति मन्त्रेण मृत्तिकया मस्तकारिपादान्तमनुलिप्य नाभिमात्रे जले प्रविश्य”आपोऽअस्मा“निति सूर्याभिमुख निमज्जेयुः । “**उदिदाभ्यः”**०उन्मज्जनं कुर्युः। पुनस्तूष्णी निमज्जनं च ।आचमनम् ।
“अग्रमग्रश्चरन्तीनामोषधीनां रसं वने ।
तासामृषभपत्नीनां पवित्रं कायशोधनम् ।
यन्मे रोगांश्च शोकांश्च पापं मे हर गोमय !॥
इति मन्त्रेण गोमयमभिमन्त्रयेयुः।”मानस्तोके“० इति मन्त्रेणसोदकेन गोमयेन सूर्यदर्शनेन त्रिवारमङ्गानि विलेप्य क्षालयेयुः । ततोऽ-
भिषेकः। “इमम्मे १ तत्वा यामि २ त्वन्नः ३सत्वन्न ४ मापोमौषधीः५ उदुत्तमं ६ मुञ्चन्तु मा ७ अवभृथ निचुम्पुण ८” इत्यष्टभिर्मन्त्रैरञ्जलिना मस्तके जलं क्षिपेत् । ततस्तूष्णीं निमज्य उन्मज्यआचम्य **“काण्डात्काण्डात्०।या शतेन”**० ।आभ्यां मन्त्राभ्यांदुर्वाभिर्मार्जयेयुः । ततः “**अपाघमप किल्विष”**० इत्यपामार्गेण मार्जनं त्रिः । ततो दर्भैपावयेत् । “ॐ भूः पुनातु । ॐ भुवः पुनातु । ॐ स्वः पुनातु ।ॐ महः पुनातु । ॐ जनः पुनातु । ॐ तपः पुनातु ।ॐसत्यं पुनातु । ॐतत्सवितुर्वरेण्यं० ॐसर्वं पुनातु । ॐआपो हि ष्टा० । यो वः शिवत० ।तस्मा अरङ्ग० ।इदमापः० । हविष्मतीरिमा० । देवीरापः० । कार्षिरसि० । अपो देवा० । द्रुपदादिव० । शन्नो देवी० । अपाँरसमुद्वय० । अपो देवीरुप सृज० । पुनन्तु मा पितरः २ । अग्न आयूँषि० । पुनन्तु मा देवजनाः० । पवित्रेण पुनीहि मा० । यत्ते पवित्र० । पवमानः० । उभाभ्यां देव सवितः० । वैश्वदेवी पुनती० । चित्पतिर्मा पुनात्व० । वाक्पतिर्मा पुनात्वच्छि० । देवो मा सविता पुनाख० । चित्पतिर्म्मा० । ॐ भूः पुनातु । ॐभुवः पुनातु । ॐ स्वः पुनातु \। ॐमहः पुनातु । ॐजनः पुनातु । ॐ तपः पुनातु । ॐ सत्यं पुनातु । ॐतत्सवितुर्वरेण्यं० । ॐसर्व पुनातु” । तान् मार्जनकुशान् परित्यज्य पुनः “**इमम्मे । तत्वा यामि । त्वान्नः । सत्वन्न । मापो मौषधीः । उदुत्तमम् \। मुञ्चन्तु मा । अवभृथ निचुम्पुण”**० इत्यष्टभिर्मन्त्रैरञ्जलिना मस्तके जलं क्षिपेयुः । अथान्तर्जलेऽघमर्षणम् । “द्रुपदादिवे” ति मन्त्रं त्रिवारं पठेयुः । अथ वा “आयङ्गौ“रिति त्र्यृचम् । अथवा “ॐ” इति त्रिवारं । अथ वा विष्णुस्मरणम् । ततः स्नानाङ्गतर्पणम् । “ॐ ब्रह्मादयो देवास्तृप्यन्ताम् । ॐभुर्देवास्तृप्यताम् । ॐ भुवर्द्देवास्तृप्यन्ताम् । ॐस्वर्द्देवास्तृप्यन्ताम् । ॐभूर्भुवः स्वर्द्देवास्तृप्यन्ताम्” । यज्ञोपवीतं कण्ठे कृत्वा । “ॐ सनकादिद्वैपायनादय ॠषयस्तृप्यन्ताम् । ॐभूः ऋषयस्तृप्यन्ताम् ।
ॐभुवः ऋषयस्तृप्यन्ताम् । ॐ स्वः ऋषयस्तृप्यन्ताम् । ॐ भूर्भुवः स्वः ऋषयस्तृप्यन्ताम्” । अथापसव्यम् “ॐकव्यवाडनलादयः पितरस्तृप्यन्ताम् । ॐ भूः पितरस्तृप्यन्ताम् । ॐभुवः पितरस्तृप्यन्ताम् । ॐस्वः पितरस्तृप्यन्ताम् । ॐ भूर्भुवः स्वः पितरस्तृप्यन्ताम्” । सव्यम् । आचमनं कुर्युः ।
“यन्मया दूषितं तोयं शारीरमलसम्भवम् ।
तस्य पापस्य शुद्ध्यर्थं यक्ष्मैतत्ते तिलोदकम्”॥
इति मन्त्रेणाञ्जलिना जलमादाय तीरे निक्षिपेयुः ।
“लतागुल्मेषु वृक्षेषु पितरो ये व्यवस्थिताः ।
ते सर्वे तृप्तिमायान्तु मयोत्सृष्टैः शिखोदकैः”॥
इति मन्त्रेण स्वदक्षिणभागे शिखाग्रेण जलं प्रपातयेयुः । एवं स्नात्वा जलाद्बहिर्निर्गत्य घौते वाससी परिवाय मृत्तिकया ऊरू करौ प्रक्षाल्य आचमेयुः । तिलकधारणम् । गुरुः शिष्यैः सह सन्ध्यावन्दनादि कुर्यात् । सूर्योपस्थानं कुर्युः । यथा—कृतोद्र्ध्वबाहुः “उद्यं० १ उदुत्यं० १ चित्रं० १ तच्चक्षुः” ० १ । यथाशक्ति गायत्रीजपः । “विभ्राट्० १७ सहस्रशीर्षा० १६ यज्जाग्रतो"० १ । मण्डलब्राह्मणम् । इत्यादिभिः सूर्योपस्थानं कृत्वा । सन्ध्यावन्दनं सृमाप्य ततो ब्रह्मयज्ञः । आदावारभ्य क्रमेण समापनीयानि । ततः स्वगृह्योक्ततर्पणं कृत्वा ऋषिपूजनं कुर्युः । यथा–ऋषिपूजनार्थं आसनादि विघाय प्राङ्मुख उदङ्मुखो वा उपविश्य सस्वशाखोक्तं शान्तिपाठं पठन् अपामार्गमिश्रितानां कुशादीनां त्रिमिस्त्रिभिः कुशैः सप्तर्षिस्वरूपाणि स्वगोत्रे यावन्तः प्रवराः स्युस्तावतः सावित्र्या ग्रन्थीन्कुर्यात् ।
कश्यपोऽथ भरद्वाज अङ्गिरा गौतमो मुनिः ।
वत्सः पराशरश्चेति माण्डव्यः सप्तमस्तथा॥
प्रागग्रानुदगग्रान्वा स्थापयेत् । “ॐ भूर्भुवः स्वः कश्यपं आवाहयामि । कश्यप इहागच्छ इह तिष्ठ” । एवं भरद्वाजम् । अङ्गिरसम् । गौतमम् । बत्सम् । पराशरम् \। माण्डव्यम् । आवाहयेत् । “मनो जूति”-
रिति मन्त्रेण प्रतिष्ठापयेत् । “इमावेच गोतम०” इति मन्त्रेण प्रार्थना कार्या । प्राणानायम्य कालज्ञानं च कृत्वा “अध्यायोत्सर्गोपाकर्माङ्गभूतं सप्तर्षिपूजनमहं करिष्ये । सप्त ऋषयः ॥१॥ इदं विष्णुर्विचक्रमे० ॥२॥” इति मन्त्रद्वयं पठित्वा षोडशोपचारैः पूजयेत् । आसनम्—
“सुवर्णघटितं दिव्यं नानारत्नसमन्वितम् ।
आसनं रुचिरं यच्च गृह्यतां भो मुनीश्वराः ! ॥
अरुन्धतीसहितसप्तऋषिभ्यः इदमासनम् ।
गङ्गाजलं समानीतं गन्धद्रव्येण संयुतम् ।
पाद्यार्थ प्रतिगृह्णन्तु कश्यपाद्या महर्षयः॥
अरुन्धति स० इदं पाद्यम् ।
सुवर्णपत्र संयुक्तं गन्धपुष्पाक्षतैर्युतम् ।
सप्तर्षयः प्रगृह्णन्तु अर्ध्य दत्वा मया सह॥
अरुन्धती स० इदमर्थ्यम् ।
कर्पूरवासितं तोयं सुवर्णकलशे स्थितम् ।
दत्तमाचमनीयं च ऋषीणां प्रीतये सदा॥
**अरुन्धतीस० इदमाचमनम् ।अरुप्रधतीस० इदं मधुपर्कम् ।“पयः पृथिव्या”**मिति पयःस्नानम् \। “दधिक्राव्ण” इति दघिस्नानम् ।”घृतम्मिमिक्ष” इति घृतस्नानम् \। “मधु व्वातेति मधुस्नानम् ।“**अपाँ रस”**मिति शर्करास्नानम् । “**आपो हि ष्ठे”**ति शुद्धोदकस्नानम् ।
“सुगन्धद्रव्यसंयुक्तं पवित्रं मङ्गलं जलम् ।
स्नानार्थं वः समानीतं मुनीनां प्रतिगृह्यताम्॥
अरुन्धतीस० इदं स्नानीयम् ।
सूक्ष्मण्यतीव शुभ्राणि वस्त्राणि विविधानि च ।
ऋषयः प्रतिगृह्णन्तु सवस्त्राम्बरकानि च॥
अरुन्धतीस० वस्त्रम् ।
नानामन्त्रैः समुद्भूतं त्रिवृतं ब्रह्मसूत्रकम् ।
प्रत्येकं दीयते स्वच्छमूषयः प्रतिगृह्यताम्॥
अरुन्धतीस० इदं यज्ञोपवीतम् ।
आत्मसन्तापहारं च सुगन्धद्रव्यसंयुतम् ।
चन्दनं तत्प्रयच्छामि ऋषीणां प्रीतये ह्यहम्॥
अरुन्धतीस० इदं चन्दनम् ।
शुभ्रतण्डुलजाः शुभ्राः शङ्खशुभ्रा मनोरमाः ।
अक्षतार्थं प्रयच्छामि ता गृह्णन्तु मुनीश्वराः !॥
अरुन्धतीस इमा अक्षताः ।
शतपत्रं जातिपुष्पं मल्लिकाकुसुमं तथा ।
पूजार्थं तु मया भक्त्या मुनीनां विदुषां सदा॥
अरुधतीस० इदं पुष्पम् ।
कृष्णागरुर्गुग्गुलोऽयं सुगन्धश्च दशाङ्गकः ।
धूपोऽयं कश्यपादिभ्यो दीयते प्रीतयेऽधुना॥
अरुन्धतीसहित० इदं धूपम् ।
पञ्चवर्त्तिसमायुक्तं सर्वमङ्गलशोभनम् ।
दत्तं नीराञ्जनं तेभ्यो दीपोऽयं प्रतिगृह्यताम्॥
अरुन्धतीसहित० इन्दं दीपम् ।
स्वादन्यन्नानि सर्वाणि सुदेयं व्यञ्जनानि च ।
शर्कराघृतसंयुक्तं नैवेद्यं दीयते मया॥
अरुन्धतीस० इदं नैवेद्यम् ।
उष्णोदकं शुद्धिकरं क्षालितं दत्तमुत्तमम् ।
गृह्णन्तु मुनयः सर्वे प्रियतां यान्तु मे सदा॥
अरुन्धतीस० इदमाचमनीयम् ।
नारिकेलं च कूष्माण्डं कदलीकर्कटीफलम् ।
ऋतुदेशोद्भवं चान्यं दीयतेऽद्य मुनीश्वराः॥
अरुन्ध० इदं फलम् ।
पूगीफलं सकर्पूरं नागवल्लीदलैर्युतम् ।
कर्पूरेण समायुक्तं ताम्बूलं प्रतिगृह्यताम्॥
अरु० इदं ताम्बूलम् ।
हिरण्यगर्भगर्भस्थं हेम बीजं विभावसोः ।
अनन्तपुण्यफलदमतः शान्ति प्रयच्छ मे॥
अरु० दक्षिणाम् ।
ब्रह्मिष्ठा ब्रह्मरूपाश्च कश्यपाद्या महर्षयः ।
ब्रह्मप्रज्ञादिदातारः सन्तु मे नित्यकर्मणि॥
अरु० नीराञ्जनदीपम् ।
** “यज्ञेन यज्ञं” पुष्पाञ्जलिः । “अतिरिक्तो यो विधिः स सर्वः परिपूर्णोऽस्तु”** । प्राचीनावीतिनो दक्षिणाभिमुखाः सर्वे कुशोदकं गृहीत्वा पुरतो यज्ञोपवीतं निधाय”अमुकगोत्रेभ्यः अमुकशर्मभ्यः अस्मत्पितृपितामहप्रपितामहेभ्यः तथा च गोत्रेभ्यः अस्मन्मातामहप्रमातामहवृद्धप्रमातामहेभ्यः (अन्ये ) कव्यवाडनलादिदिव्यपितृभ्यः इमानि यज्ञोपवीतानि स्वाहा सम्पद्यन्ताम्” । जीवत्पितृकैरपि पितुः पित्रादिभ्यो मातामहादिभ्यः यज्ञोपवीतानि देयानि । सव्यम् । ततः सर्वेषां ब्राह्मणानां गन्धादिदक्षिणापर्यन्तं दत्वा तेभ्यो यज्ञोपवीतानि दद्युः । दीक्षाबन्धनम् । अथ पूर्वतर्पणकुशैः सह ऋषितर्पणकुशानेकीकृत्यादायोत्सर्गतर्पणम् । तच्चाञ्जलिना देवादीनां देवतीर्थेन यज्ञोपवीतिनो दक्षिणं जान्ववाच्य प्रागग्रैर्दभैः ईशानाभिमुखाः उच्चैः वक्ष्यमाणग्रकारेण कुर्युः ।तद्यथा । आचम्य प्राणानायम्य देशकालौ संकीर्त्य— “अनध्यायादिषु अशुचित्वेन अनधिकारिभिः शुद्रादिभिः श्रूयमाणत्वे कृतस्याध्ययनस्योपसर्गनिवृत्तये शुक्लयजुर्वेदान्तर्गत (काण्व) शाखाध्यायिनश्छन्दसामुत्सर्गाख्यं तर्पणं करिष्यामहे” । इति सङ्कल्पः । “ॐ विश्वे देवास आगत॥१॥ ॐ विश्वे देवाः शृणुते०॥२॥” इति मन्त्राभ्यामावाह्य । ॐ देवास्तृप्यन्तु । ॐ छन्दाँ्सि तृप्यन्तु । ॐ वेदास्तृप्यन्तु। ॐ ऋषयस्तृप्यन्तु। ॐ पुराणाचार्यास्तृप्यन्तु । ॐ गन्धर्वास्तृप्यन्तु। ॐ इतराचार्यास्तृप्यन्तु । ॐ सम्वत्सराः सावयवास्तृप्यन्तु” । के चित्सम्बत्सरावयवान् पृथक्त्वेन तर्पयन्ति । यथा । “अहोरात्रास्तृप्यन्तु । ॐ अर्द्धमासास्तृप्यन्तु। ॐ मासा-
स्तृप्यन्तु । ॐ ऋतवस्तृप्यन्तु । ॐ सम्वत्सरस्तृप्यतु । ॐ पितरस्तृप्यन्तु । ॐ आचार्यास्तृप्यन्तु” । अपसव्यम् । “अमुकसगोत्राः अस्मत्पितरः अमुकशर्माणस्तृप्यध्वं स्वधा नमः । अमुकसगोत्राःअस्मत्पितामहाः अमुकशर्माणःतृप्यध्वं स्वधा० । अमुकसगोत्राःअस्मत्मपितामहाः अमुकशर्माणस्तृप्यध्वं स्वधा० । अमुकसगोत्राःअस्मदाचार्यस्य पितरः अमुकशमाणस्तृप्यध्वं स्वधा०”। एवमाचार्यस्य पितामहप्रपितामहानाम् । आचार्यस्य पितृतर्पणं जीवत्पितृकैरपि कर्तव्यम् । एव तर्पणं कृत्वा यज्ञोपवीतिनो भूत्वा आचम्य सर्वेऋषिमुखाः सन्तः “अथ वँश” इत्यादीनां चतुर्णां वंशानामुच्चारणंकुर्युः। “वंशोक्ता ऋषयस्तृप्यन्तु । अयम्पुरः ॥१॥ अयन्दक्षिणा॥२॥ अयम्पश्चात् ॥३॥ इदमुत्तरात् ॥४॥ इयमुपरि ॥५॥ मन्त्रोक्ताऋषयस्तृप्यन्तु । मूर्द्धा व्वयः प्रजापतिः ॥१॥ अनड्वान्न्वयः ॥२॥ मन्त्रोक्तानि च्छन्दांसि स्तुप्यन्तु । माच्छन्दः प्रमा च्छन्दः ॥१॥पृथिवीच्छन्दः ॥२॥ मन्त्रोक्तानि च्छन्दाँसि तृप्यन्तु । ॐ अग्निर्देवता व्वातो देवता० ॥१॥ मन्त्रोक्ता देवतास्तृप्यन्ताम् । एवश्छन्दो व्वरिवश्छन्दः० ॥१॥ आच्छच्छन्दः प्रच्छच्छन्द० ॥२॥मन्त्रलिङ्गोकानि छन्दाँसि तृप्यन्तु । रश्मिना सत्याय० ॥१॥तन्तुना रायस्पोषेण० ॥२॥ प्रतिपदसि०] ॥३॥ त्रिवृदसि० ॥४॥ राज्ञ्यसि ॥५॥ व्विराडपि० ॥६॥ सम्म्राडसि० ॥७॥ स्वराडसि०॥८॥ अधिपत्न्यसि० ॥९॥ अयं पुरो हरिकेशः० ॥१०॥ अयन्दक्षिणा विश्वकर्मा० ॥११॥ अयम्पश्चाद्विश्वव्य० ॥१२॥ अयमुत्तरात् ॥१३॥ अयमुपर्य्यक् ॥१४॥ मन्त्रलिङ्गोक्ता देवास्तृप्यन्तु । सप्त ऋषयः० । लिङ्गोक्ता ऋषयस्तृप्यन्तु । एकयाऽस्तुवत० ॥१॥ मन्त्रलिङ्गोक्ता देवास्तृप्यन्तु । नमोऽस्तु सर्पेभ्यः० ॥१॥ नवनागास्तृप्यन्तु । भूरसि० ॥१॥ भूस्तृप्यतु । समुद्रायशिशुमारा० ॥१॥ सागरास्तृप्यन्तु । पञ्चनद्यः० ॥१॥ नद्यस्तृप्यन्तु । प्रपर्वतस्य० ॥१॥ पर्वतास्तृप्यन्तु । व्रीहयश्च मे० ॥१॥ सस्यास्तृप्यन्तु । अश्माच मे० ॥१॥ धातवस्तृप्यन्तु । या ओषधीः०
॥१॥ ओषधयस्तृप्यन्तु । नक्षत्रेभ्यः स्वाहा० ॥१॥ नक्षत्राणि तृप्यन्तु । व्वाताय स्वाहा० ॥१॥ मेघास्तुप्यन्तु ॥१॥ गणानान्त्वा० ॥१॥ गणास्तृप्यन्ताम् । प्राणाय स्वाहाऽपानाय स्वाहा० ॥१॥ भगवत्यस्तृप्यन्ताम् । भद्रंकर्णेभिः० ॥१॥ करणानि तृप्यन्ताम् । योगे योगे० ॥१॥ योगास्तृप्यन्ताम् । त्रातारमिन्द्र० ॥१॥ दिक्पाला स्तृप्यंन्ताम् । प्रजापते न स्व०॥१॥ लोकपालास्तृप्यन्ताम् । अग्नेःपक्षतिर्ब्वायोर्न्निपक्षति० ॥१॥ पक्षास्तृप्यन्ताम् । अवेष्टा दन्दशुका० ॥१॥दिशस्तृप्यन्तु । होता यक्षद्वनस्पतिमभि० ॥१॥ वनस्पतयस्तृप्यन्तु । विष्णोःक्रान्त०। गङ्गायमुनाद्यास्तृप्यन्तु” । एवं तर्पणं कृत्वातर्पणार्थान् कुशांस्त्यक्त्वा मन्त्रेण स्नानवस्त्रं निष्पीड्याचम्य “देवागातुविद” इति मन्त्रेण तर्पणीयदेवान् विसर्जयेत् । ततो गुरुः व्याहृतिवर्जितां गायत्रीं चतुर्वारं पठेत् । ततः सर्वे शिष्याश्चानुपठेयुः । ततः सर्वेशिष्या “विरताःस्म” इति सकृत्प्रब्रूयुः । ततः प्रत्यङ्मुखेभ्य उपविष्टेभ्यः शिष्येभ्यः प्राङ्मुख आचार्यः**“ॐ**“कारमुक्त्वा त्रिवारं सावित्री पठित्वा (१32)
संहिताऽध्यायान् ब्राह्मणप्रपाठकान उभयोः शतस्थानानि अन्तिमाः कण्डिकाः अन्तिमाः फक्किकाः पठित्वा “अग्निमीले पुरोहितम् । इषे त्वा । अग्न आ याहि । शन्नो देवीराभिष्टये । सह नोऽस्तु० विद्विषामहे । उभा कवी० विसृजामहे” । इति । त्रिरात्रमनध्यायः । लोमनखानामनिकृन्तनं च त्रिरात्रम् । ततस्त्रिरात्रादूर्ध्वं शुक्लपक्षेषु छन्दांसिकृष्णपक्षेष्वङ्गानि । ततः पुनरर्द्धषष्ठमासानधीत्यार्धसप्तमासान्वाऽधीत्यएवमेवोत्सर्गं विधाय “उभाकवी“त्यादिकामृचं जपित्वा त्रिरात्रमेकत्रावस्थाय पश्चाद्यथेष्टं पृथक् गच्छेयुः । ततः पुनरुपाकरणकाले उत्सृष्टान्बेदानुपाकृत्याध्ययनं यावदुत्सर्गम् ।
इति श्रीप्रथमशाखीयरामकृष्णविराचेते पारस्करगृह्यसूत्रविवरणे
संस्कारगणपतौ द्वितीयकाण्डे उत्सर्गप्रयोगः समाप्तः॥
अवशिष्ट - गृह्यसूत्रम्।
पुण्याहे लाङ्गलयोजनं ज्येष्ठया वेन्द्रदेवत्य’मिन्द्रं, पर्जन्य, मश्विनौ,मरुत,उदलाकाश्यप<MISSING_FIG href=”../books_images/U-IMG-1696733034Screenshot(1”/>.png), स्वातिकारी<MISSING_FIG href=”../books_images/U-IMG-1696733034Screenshot(1”/>.png), सीता, मनुमति’ च दध्ना तण्डुलैर्गन्धैरक्षतैरिष्ट्वाऽनडुहोमधुघृते प्राशयेत् ‘सीरायुञ्जन्तीति योजये’च्छुन<MISSING_FIG href=”../books_images/U-IMG-1696735241Screenshot(12"/>.png)सुफाला’ इति कृषेत् फालं वालभेत न वाऽग्न्युपदेशाद्वपनानुषङ्गाच्चाज्यमभिषिच्याकृष्टं तदाकृषेयुःस्थालीपाकस्य पूर्ववद्देवता यजेदुभयेव्रीहियवयोः प्रवपन्त्सीतायज्ञे च ततो ब्राह्मणभोजनम्॥ १६॥
अथातः श्रवणकर्म श्रावण्यां पौर्णमास्या<MISSING_FIG href="../books_images/U-IMG-1696733753Screenshot(1"/>.png)स्थालीपाक<MISSING_FIG href="../books_images/U-IMG-1696733753Screenshot(1"/>.png)श्रपयित्वाऽक्षतधानाश्चैककपालं पुरोडाशं धानानां भूयसीःपिष्ट्वाज्यभागाविष्टाऽऽज्याहुती जुहो’त्यपश्वेतपदाजहि पूर्वेण चापरेण च । सप्त च वारुणीरिमाः प्रजाः सर्वाश्च राजबान्धवैः स्वाहा ।, न वै श्वेतस्याध्याचारेऽहि ददर्श कञ्चन । श्वेताय वैदर्याय नमः स्वाहेति स्थालीपाकस्य जुहोति ‘विष्णवे, श्रवणाय, श्रावण्यौ, पौर्णमास्यै, वर्षाभ्यश्चेति ‘धानावन्तमिति धानानां घृताक्तान्सक्तून्सर्पेभ्यो जुहोत्याग्नेयपाण्डुपार्थिवाना <MISSING_FIG href="../books_images/U-IMG-1696733753Screenshot(1"/>.png)सर्पाणामधिपतये स्वाहा, श्वेतवायवान्तरिक्षाणा <MISSING_FIG href="../books_images/U-IMG-1696733753Screenshot(1"/>.png)सर्पाणामधिपतये स्वाहा, भिभूः सौर्यदिव्याना<MISSING_FIG href="../books_images/U-IMG-1696733753Screenshot(1"/>.png)सर्पाणमधिपतये स्वाहेति सर्वहुतमेककपालं ‘ध्रुवाय भौमाय स्वाहेति प्राशनान्ते सक्तूनामेकदेश<MISSING_FIG href="../books_images/U-IMG-1696735241Screenshot(12"/>.png) शूर्पे न्युप्योपनिक्रम्य बहिःशालायाः स्थण्डिलमुपलिप्याल्कायां ध्रियमाणायां ‘मान्तरा गमतेत्युक्त्वा वाग्यतः सर्पानवनेजय’त्याग्नेयपाण्डुपार्थिवाना<MISSING_FIG href="../books_images/U-IMG-1696733753Screenshot(1"/>.png)सर्पाणामधिपतेऽवनेनिक्ष्व, श्वेतवायवान्तरिक्षाणा<MISSING_FIG href="../books_images/U-IMG-1696733753Screenshot(1"/>.png)सर्पाणामधिपतेऽवनेनिक्ष्वाभिभूः सौर्यदिव्याना<MISSING_FIG href="../books_images/U-IMG-1696733753Screenshot(1"/>.png)सर्पाणामधिपतेऽवनेनिक्ष्वेति, यथाऽवनिक्तं दर्व्योपघात<MISSING_FIG href="../books_images/U-IMG-1696735241Screenshot(12"/>.png) सक्तून्सर्पेभ्यो बलि<MISSING_FIG href="../books_images/U-IMG-1696735241Screenshot(12"/>.png)हरत्याग्नेयपाण्डुपार्थिवाना<MISSING_FIG href="../books_images/U-IMG-1696733753Screenshot(1"/>.png) सर्पाणामधिपत एष ते बलिः, श्वेतवायवान्तरिक्षाणा<MISSING_FIG href="../books_images/U-IMG-1696733753Screenshot(1"/>.png)सर्पाणामधिपतएष ते बलि, रमिभूः सौर्यदिव्याना<MISSING_FIG href="../books_images/U-IMG-1696733753Screenshot(1"/>.png)सर्पाणामधिपत एष ते बलि’ रित्यवनेज्य पूर्ववस्कङ्कतैः प्रलिख’त्याग्नेय पाण्डुपार्थिवाना<MISSING_FIG href="../books_images/U-IMG-1696733753Screenshot(1"/>.png) सर्पाणामधिपते प्रलिखस्व, श्वेतवाय बान्तरिक्षाणा<MISSING_FIG href="../books_images/U-IMG-1696733753Screenshot(1"/>.png)सर्पाणामधिपते प्रलिखस्वा, भिभूः सौर्यदिव्यानाः सर्पाणामधिपते प्रलिखस्वेत्यञ्जनानुलेपन स्रज’श्चाञ्जस्वा, नुलिम्पस्व,स्रजोऽपिनह्यस्वेति सक्तुशेष<MISSING_FIG href="../books_images/U-IMG-1696733753Screenshot(1"/>.png) स्थण्डिले न्युप्योदपात्रेणोपनिनीयोपतिष्ठते ‘नमोऽस्तु सर्पेभ्य’ इति तिसृभिः स यावत्कामयेत न सर्पा अभ्युपेयुरिति तावत्सन्ततयोदधारया निवेशनं त्रिः परिषिञ्चन्परीया ‘दपश्वेत-
पदा जहीतिद्बाभ्यान्दर्वी<MISSING_FIG href="../books_images/U-IMG-1696735734Screenshot(1"/>.png)शूर्पं प्रक्षाल्य प्रतप्यप्रयच्छति द्वारदेशे मार्जयन्त ‘आपोहिष्ठे’तितिसृभिरनुगुप्तमेत<MISSING_FIG href="../books_images/U-IMG-1696735870Screenshot(12"/>.png) सक्तुशेषं निधाय ततेऽस्तमितेऽस्तमितेऽग्निं परिचर्य दर्व्योपघात<MISSING_FIG href="../books_images/U-IMG-1696735870Screenshot(12"/>.png) सक्तून्सर्पेभ्यो वलि<MISSING_FIG href="../books_images/U-IMG-1696735870Screenshot(12"/>.png)हरेदाग्रहायण्यास्त<MISSING_FIG href="../books_images/U-IMG-1696735870Screenshot(12"/>.png) हरन्तं नान्तरेण गच्छेयुर्व्याचमनं प्रक्षालय निदधाति धानाःप्राश्नन्त्यस<MISSING_FIG href="../books_images/U-IMG-1696736023Screenshot(1"/>.png)स्तूतास्तता ब्राह्मणभोजनम्॥१७॥
प्रौष्ठपद्यामिन्द्रयज्ञः पायसमैन्द्र<MISSING_FIG href="../books_images/U-IMG-1696736023Screenshot(1"/>.png)श्रपत्विाऽपूपाँश्चापूणैस्तीर्त्वाऽऽज्यभागाविष्ट्वाज्याहुनीर्जुहो’तीन्द्राये,न्द्राण्या, अजायै, कपदे, ऽहिर्बुध्न्याय, प्रौष्ठपदाभ्यश्चेति स्थालीपाकस्य जुहोती’न्द्राय स्वाहेति प्राशनान्ते मरुद्भ्यो वलि<MISSING_FIG href="../books_images/U-IMG-1696735870Screenshot(12"/>.png)हर’त्यहुतादो मरुत’ इति श्रुतेराश्वत्थेषु पलाशेषु ‘मरुतोऽश्वत्थे तस्थु’रितिवचना’च्छुक्रज्योति’रिति प्रतिमन्त्रं विमुखेन च मनसा ‘नामान्येषामेतानी’तिश्रुते’रिन्द्रं दैवीरिति जपति ततो ब्राह्मणभोजनम्॥१८॥
आश्वयुज्यां पृषातकाः पायसमैन्द्र<MISSING_FIG href="../books_images/U-IMG-1696736023Screenshot(1"/>.png) श्रपयित्वा दिवमधुघृतमिश्रजुहोती’न्द्रायेन्द्राण्या, अश्विभ्या, माश्वयुज्यै, पौर्णमास्यै, शरदे’ चेतिप्राशनान्ते दधिपृषातकमञ्जलिना जुहो’त्यूनं मे पूर्यतां पूर्णं मे माव्यगोत्स्वाहेति दधिमधुघृतमिश्रममात्या अवेक्षन्त ‘आयात्विन्द्र’ इत्यनुवाकेन मातृभिर्वत्सान्त्स<MISSING_FIG href="../books_images/U-IMG-1696735870Screenshot(12"/>.png)सृज्य ता<MISSING_FIG href="../books_images/U-IMG-1696736023Screenshot(1"/>.png)रात्रिमाग्रहायणीं च ततो ब्राह्मणभोजनम्॥ १९॥
अथ सीतायोज्ञोव्रहियवानां यत्र यत्र यजेत तन्मय<MISSING_FIG href="../books_images/U-IMG-1696736023Screenshot(1"/>.png)स्थालीपाक<MISSING_FIG href="../books_images/U-IMG-1696736023Screenshot(1"/>.png)श्रपयेत्कामादीजानोऽन्यत्रापि व्रीहियवयोरेबान्यतर<MISSING_FIG href="../books_images/U-IMG-1696736023Screenshot(1"/>.png)स्थालीपाक<MISSING_FIG href="../books_images/U-IMG-1696736023Screenshot(1"/>.png) श्रपयेन्न पूर्वचोदितत्वात्सन्देहोऽसम्भवाद्विनिवृत्तिः क्षेत्रस्य पुरस्तादुत्तरतो वा शुचौ देशे कृष्टे फलानुपरोधेन ग्रामे वोभयसम्प्रयोगादविरोधाद्यत्र श्रपयिष्यन्नुपलिप्त उद्धतावोक्षितेऽग्निमुपसमाधायतन्मिश्चैदर्भैस्तीर्त्वाऽऽज्यभागाविष्ट्वाज्याहुतीर्जुहोति ‘पृथिवी द्यौः प्रदिशो दिशो यस्मै द्युभिरावृताः । तमिहेन्द्रमुपह्वये शिवा नः सन्तुहेतयः स्वाहा ।, यन्मे किञ्चिदुपेप्सितमस्मिन्कमेणि वृत्रहन् \। तम्मे सर्व<MISSING_FIG href="../books_images/U-IMG-1696735870Screenshot(12"/>.png)समृध्यतां जीवतः शरदः शत<MISSING_FIG href="../books_images/U-IMG-1696736023Screenshot(1"/>.png) स्वाहा ।, सम्पत्तिर्भृतिभूमिर्वृष्टिर्ज्यैष्ठ्य<MISSING_FIG href="../books_images/U-IMG-1696736023Screenshot(1"/>.png)श्रेष्ट्य<MISSING_FIG href="../books_images/U-IMG-1696736023Screenshot(1"/>.png)श्रीः प्रजामिहावतु स्वाहा ।, यस्याभावे वैदिकलौकिकानां मूतिर्भवति कर्मणाम् । इन्द्रपत्नीमुपह्वये सोता<MISSING_FIG href="../books_images/U-IMG-1696735870Screenshot(12"/>.png)सा मे त्वनपायिनी भूपात्कर्मणि कमणि स्वाहा ।, अश्वावती गोमती सूनुतावती विभर्तियाप्राणभूतो अतन्द्रिता \। खलमालिनोमुर्वरामस्मिन्कर्मण्युपह्वये ध्रुवा<MISSING_FIG href="../books_images/U-IMG-1696736023Screenshot(1"/>.png)सा मे त्वनपायिनी भूयात्स्वाहेति स्थालीपाकस्य जुहोति सीतायै यजायैशमायैभूत्या इति मन्त्रवत्प्रदानमेकेषा<MISSING_FIG href="../books_images/U-IMG-1696736023Screenshot(1"/>.png) ‘स्वाहाकारप्रदाना’इति श्रुतेविनिवृत्तिः स्तराणशेषकुशेषु सीतागोष्तृभ्यो बलि<MISSING_FIG href="../books_images/U-IMG-1696735870Screenshot(12"/>.png)हरति
द्वितीय कण्डम्
‘पुरस्ताद्ये त आसते सुधन्वानो निपङ्गिणः । ते त्वा पुरस्ताद् गोपायन्त्वप्रमत्ता अनपायिनो नम एषां करोम्यहं बलिमेभ्यो हरामीममित्यथ दक्षिणतो’ऽनिमिषा वर्मिण आसते । ते त्वा दक्षिणतो गोपायन्त्वप्रमत्ता अनपायिनो नम एषां करोम्यहं बलिमेभ्यो हरामीममित्यथपश्चा’दाभुवः प्रभुवो भूतिर्भूमिः पार्ष्णिशुनङ्करिः । ते त्या पश्चाद्गोपायन्त्वप्रमत्ता अनपायिनो नम एषां करोम्यहं बलिमेभ्यो हरामीममित्यथोत्तरतो ‘भीमा वायुः समाजवे । ते त्वोत्तरतः क्षेत्रे खले गृहेऽध्वनिगोपायन्त्वप्रमत्ता अनपायिनो नम एषां करोम्यहं वलिमेभ्यो हरामीममिति प्रकृतादन्यस्मादाज्यशेषेण च पूर्वववद्वलिकर्म स्त्रियश्चोपयजेरन्नाचरितत्वात्स <MISSING_FIG href="../books_images/U-IMG-1696755731Screenshot(1"/>.png)स्थिते कर्मणि ब्राह्मणान्भोजये<MISSING_FIG href="../books_images/U-IMG-1696755731Screenshot(1"/>.png)त्सस्थिते कर्मणि ब्राह्मणान्भोजयेत्॥२०॥
इति गृह्यसूत्रे द्वितीयकाण्डं समाप्तम्॥
अथ तृतीयं काण्डम् ।
अनाहिताग्नेर्न्नवप्राशनं नव<MISSING_FIG href="../books_images/U-IMG-1696755731Screenshot(1"/>.png)स्थालीपाक<MISSING_FIG href="../books_images/U-IMG-1696755731Screenshot(1"/>.png)श्रपयित्वाऽऽज्यभागाविष्ठ्वाज्याहुतीर्जुहोति ‘शतायुधाय शतवीर्याय शतातये अभिमातिषाहे । शतं यो नः शरदोऽजोजानिन्द्रोनेषति दुरितानि विश्वा स्वाहा ।, ये चत्वारः पथयो देवयाना अन्तरा द्यावापृथिवी वियन्ति । तेषांयाज्यानिमजीजिमावहात्तस्मै नेह देवाः परिधत्तेह सर्वेस्वाहेति स्थालीपाकस्याग्रयणदेवताभ्यो हुत्वाजुहोति स्विष्टकृते च ‘स्विष्टमग्ने अभितत्पृणीहि विश्वाँश्च देवः पृतना अविष्यत् । सुगन्नु पन्थां प्रदिशन्न एहिज्योतिष्मध्ये ह्यजरन्न आयुः स्वाहेत्यथ प्राश्ना’त्यग्निः प्रथमः प्राश्नातु स हि वेद यथा हविः ।शिवा अस्मभ्यमोषधीः कृणोतु विश्ववर्षणिः ।भद्रान्नःश्रेयः सननैष्ट देवास्त्वयाऽवशेन समशीमहि त्वा । सनो मयोऽभूः पितो आविशस्व शन्तोकाय तनुवे स्योन’ इत्यन्नपतीययावाथ यवाना ‘मेतमु त्यं मधुना संयुतं यव<MISSING_FIG href="../books_images/U-IMG-1696756286Screenshot(12"/>.png) सरस्वत्या अधिवनाय चकृषुः ।इन्द्र आसीत्सीरपतिः शतक्रतुः कीनाशा आसन्मरुतः सुदानव’इति ततो ब्राह्मणभोजनम्॥ १ ॥
मार्गशीर्ष्याम्पौर्णमास्यामाग्रहायणीकर्म स्थालीपाक<MISSING_FIG href="../books_images/U-IMG-1696755731Screenshot(1"/>.png)श्रपयित्वा श्रवणावदाज्याहुती हुत्वाऽपरा जुहोति ‘यां जनाः प्रतिनन्दन्ति रात्रीं धेनुमिवायतीम् \। संवत्सरस्य या पत्नीः सा नोऽअस्तु सुमङ्गली स्वाहा ।, संवत्सरस्थ प्रतिमा या ता<MISSING_FIG href="../books_images/U-IMG-1696755731Screenshot(1"/>.png)रात्रिमुपास्महे । प्रजा<MISSING_FIG href="../books_images/U-IMG-1696755731Screenshot(1"/>.png) सुवीर्यांकृत्वा दीर्घमायुर्व्यश्लनैस्वाहा । संवत्सराय परिवत्सरायेदावत्सरायेद्वत्सराय
वत्सराय कृणुते बृहन्नमः । तेषां वय<MISSING_FIG href="../books_images/U-IMG-1696755731Screenshot(1"/>.png) सुमतौ यज्ञियानां ज्योग्जीता अहताः स्याम स्वाहा। ग्रीष्मो हेमन्त उत नो वसन्तः शिवा वर्षा अभयाशरन्नः। तेषामृतुना<MISSING_FIG href="../books_images/U-IMG-1696755731Screenshot(1"/>.png) शतशारदानां निवात एषामभयेवसेम स्वाहे’ति स्थालीपाकस्य जुहोति ‘सोमाय, मृगशिरसे, मार्गशीर्ष्यैपौर्णमास्यै, हेमन्ताय, चेति प्राशनान्ते सक्तुशेष<MISSING_FIG href="../books_images/U-IMG-1696756937Screenshot(12"/>.png)शूर्षन्युप्योपनिष्क्रमणप्रभृत्यामार्जनान्मार्जनान्त ‘उत्सृष्टोबलिरित्याह पश्चादग्नेः स्वस्तरमास्तीर्याहतं च वास आप्लुता अहतवाससः प्रत्यवरोहन्ति दक्षिणतः स्वामी जायोत्तरा यथा कनिष्ठमुत्तरतो दक्षिणतो ब्रह्माणमुपवेश्योत्तरत उदपात्र<MISSING_FIG href="../books_images/U-IMG-1696757053Screenshot(12"/>.png)शमीशाखासीतालाष्ठाश्मनो निधायाग्निमीक्षमाणो जपत्ययमग्निर्वीरतमोऽयं भगवत्तमः सहस्रसातमः \। सुबीर्योऽय<MISSING_FIG href="../books_images/U-IMG-1696755731Screenshot(1"/>.png)श्रेष्ठ्ये दधातु नाविति पश्चादग्नेः प्राञ्चमञ्जलिं करोति ‘दैवीं नावमिति तिसृभिः स्रस्तरमारोहन्ति ब्रह्माणमामन्त्रयते ‘ब्रह्मन्प्रत्यवरोहामेति ब्रह्मानुज्ञाताःप्रत्यवरोह’न्त्यायुः कीर्तिर्यशो बलमन्नाद्यं प्रजामि’त्युपेता जपन्ति ‘सुहेमन्तः सुवसन्तः सुग्रीष्मः प्रतिधीयतान्नः \। शिवा नो वर्षाःसन्तु शरदः सन्तु नः शिवा’ इति ‘स्येना पृथिवि नो भवेति दक्षिणपार्श्वैःप्राकिशरसः संविशन्त्युपोत्तिष्ठ’न्त्युदायुषास्वायुषोत्पर्जन्यस्य वृष्ट्या ।पृथिव्याः सप्तधामभिरित्येवं द्विरपरं ब्रह्मानुज्ञाता अधः शयोरँश्चतुरोमासान्यथेष्टं वा ॥२॥
ऊर्ध्वमाग्रहायण्यास्तिस्रोऽष्टका ऐन्द्री वैश्वदेवी प्राजापत्या पित्र्येत्यपूपमा<MISSING_FIG href="../books_images/U-IMG-1696755731Screenshot(1"/>.png)सशाकैर्यथासंङख्यं प्रथमाष्टका पक्षाष्टम्या<MISSING_FIG href="../books_images/U-IMG-1696755731Screenshot(1"/>.png) स्थालापाक<MISSING_FIG href="../books_images/U-IMG-1696755731Screenshot(1"/>.png)श्रपयित्वाऽऽज्यभागाविष्ट्वाऽऽज्याहुतीर्जुहोति ‘त्रि<MISSING_FIG href="../books_images/U-IMG-1696757053Screenshot(12"/>.png)शत्स्वसार उपयन्ति निष्कृत<MISSING_FIG href="../books_images/U-IMG-1696757053Screenshot(12"/>.png)समानं केतुं प्रतिमुञ्चमानाः \। ऋतूँस्तन्वते कवयः प्रजानतीमध्ये च्छन्दसः परियन्ति भास्वतीः स्वाहा ।, ज्योतिष्मती प्रतिमुञ्चते नभी रात्री देवी सूर्यस्य व्रतानि । विपश्यन्ति पशवो जायमाना नानारूपा मातुरस्या उपस्थे स्वाहा । एकाष्टका तपसा तप्यमाना जजान गर्भ महिमानमिन्द्रम् ।तेन दस्यून्व्यसद्दन्त देवा हन्ताऽसुराणामभवच्छवीभिः स्वाहा ,। अनानुजामनुजां मामकर्त्त सत्यं वदन्त्यन्विच्छ एतत् । भूयासमस्य सुमतौ यथा यूयमन्या वोऽअन्यामति मा प्रयुक्त स्वाहा ।, अभून्मम सुमतौविश्ववेदा आष्ट प्रतिष्ठामविदद्धि गाधम् ।भूयासमस्य सुमतौ यथा यूयमन्यावोअन्यामति मा प्रयुक्त स्वाहा,। पञ्च व्युष्टीरनु पञ्च दोहा गां पञ्च नाम्नीमृतवोऽनु पञ्च ।पञ्च दिशः पञ्चदशेन क्लृप्ताःसमानमूर्ध्नीरधिलोकमेक<MISSING_FIG href="../books_images/U-IMG-1696755731Screenshot(1"/>.png)स्वाहा । ऋतस्य गर्भः प्रथमाव्यूषिष्यपामेका महिमानं बिभर्ति ।सूर्य्यस्यैका चरति निष्कृतेषु धर्म-
स्यैका सवितैकान्नियच्छतु स्वाहा ।, या प्रथमा व्यौच्छत्साधेनुरभवद्यमे ।सा नः पयस्वती धुक्ष्वोत्तरामुत्तरा<MISSING_FIG href="../books_images/U-IMG-1696758173Screenshot(1"/>.png) समा<MISSING_FIG href="../books_images/U-IMG-1696758173Screenshot(1"/>.png)स्वाहा ।, शुक्र ऋषभ नभसा ज्योतिषाऽऽगाद्विश्वरूपा शवली अग्निकेतुः । समानमर्थ<MISSING_FIG href="../books_images/U-IMG-1696758173Screenshot(1"/>.png) स्वपस्थमाना बिभ्रती जरामजर उप आगाःस्वाहा ।, ऋतूनां पत्नी प्रथमेयमागादह्नांनेत्री जनित्री प्रजानाम् ।एका सती बहुधोपो व्यौच्छत्साऽजीर्णा त्वं जरयसि सर्वमन्यत्स्वाहेति स्थालीपाकस्य जुहोति’शान्ता पृथिवी शिवमन्तरिक्ष<MISSING_FIG href="../books_images/U-IMG-1696758342Screenshot(12"/>.png) शन्नो द्यौरभयं कृणातु । शं नो दिशःप्रदिश आदिशो नोऽहोरात्रे कृणुतं दीर्घमायुर्व्यश्नवै स्वाहा , आपोमरीचीः परिपान्तु सर्वतो धाता समुद्रो अपहन्तु पापम् । भूतं भविष्यदकृन्तद्विश्वमस्तु मे ब्रह्माभिगुप्तः सुरक्षितः स्या<MISSING_FIG href="../books_images/U-IMG-1696758173Screenshot(1"/>.png)स्वादा, विश्वेआदित्या वसवश्व देवा रुद्रा गोप्तारों मरुतश्च सन्तु ।ऊर्जं प्रजाममृतंदीर्घमायुः प्रजापतिर्मयि परमेष्ठी दधातु नः स्वाहे ‘त्यष्टकायै स्वाहेतिमध्यमा गवा तस्यै चपां जुहोति ‘वह वर्षाजातवेदः पितृभ्य इतिश्वोऽन्वष्टाकासु सर्वासां पार्श्वसक्थिसव्याभ्यां परिवृते पिण्डपितृयज्ञवत्स्त्रीभ्यश्वोपसेचनं च कर्पूषु सुरया तर्पणेन चाञ्जनालेपन<MISSING_FIG href="../books_images/U-IMG-1696758173Screenshot(1"/>.png) स्रजश्चाचार्यायान्तेवासिभ्यश्चानपत्येभ्य इच्छन् मध्या वर्षे च तुरीया शाकाष्टका॥ ३॥
अथातः शालाकर्म पुण्याहे शालां कारयेत्तस्या अवटमभिजुहो’त्यच्युताय भौमाय स्वाहेति स्तम्भमुच्छ्रयतीमामुच्छ्रयामि भुवनस्य नाभि वसोर्धारां प्रतरणीं वसूनाम् । इहैव ध्रुवान्निभिनोमि शालांक्षेमे तिष्ठतु घृतमुक्षमाणा ।अश्वावती गोमती सूनृतावत्युच्छ्रयस्वमहते सौभगाय । आ त्त्वा शिशुराक्रन्दत्वा गावो धेनवो वाश्यमानाः ।आ त्वो कुमारस्तरुण आ वत्सोजगदैः सह । आत्वा परिस्रुतः कुम्भआदघ्नःकलशैरुप ।क्षेमस्य पत्नी वृहती सुवासा रयि नोधेहि सुभगे सुवीर्यम् ।अश्वावद्गोमदूर्जस्वत्पर्ण वनस्पतेरिव । अभि नः पुर्यता<MISSING_FIG href="../books_images/U-IMG-1696758173Screenshot(1"/>.png)रयिरिदमनुश्रेयो वसान’ इति चतुरः प्रपद्यतेऽभ्यन्तरतोऽग्निमुपसमाधाय दक्षिणतो ब्रह्माणमुपवेश्योत्तरत उदपात्रं प्रतिष्ठाप्य स्थालीपाक<MISSING_FIG href="../books_images/U-IMG-1696758173Screenshot(1"/>.png)श्रपयित्वा निष्क्रम्यद्वारसमीपे स्थित्वा ब्रह्माणमामन्त्रयते ‘ब्रह्मन्प्रविशामीति ब्रह्मानुज्ञातः प्रविशत्यृतम्प्रपद्ये शिवं प्रपद्य’ इत्याज्य<MISSING_FIG href="../books_images/U-IMG-1696759168Screenshot(12"/>.png)संस्कृ’त्येहरतिरित्याज्याहुती हुत्वाऽपरा जुहोति ‘वास्तोष्पते प्रतिजानीह्यस्मान्त्स्वावेशो अनमीवो भवा नः ।यत्त्वेमहेप्रति तन्नो जुषस्वशन्नो भव द्विपदे शञ्चतुष्पदे स्वाहा, वास्तोष्पते प्रतरणो न एधिगयस्फानो गोभिरश्वेभिरिन्दो ।अजरासस्ते सख्ये स्याम पितेव युवा
न्प्रति तन्नो जुषस्व शन्नो भव द्विपदे शं चतुष्पदे स्वाहा ।वास्तोष्यते शग्मया स<MISSING_FIG href="../books_images/U-IMG-1696773379Screenshot(12"/>.png)सदा ते सक्षीमहि रण्वया गातुमत्या ।पाहि क्षेम उत योगे वरन्तो यूयम्पात स्वस्तिभिः सदा नः स्वाहा ।अमीबहा वास्तोष्पते विश्वारूपाण्याविशन् ।सखा सुशेव एधि नः स्वाहेति स्थालीपाकस्य जुहो’त्यग्निमिन्द्रं वृहस्पति विश्वान्देवानुपह्णये । सरस्वती च वाजींच वास्तु मे दत्त वाजिनः स्वाहा । सर्पदेवजनान्त्सर्वान् हिमवन्त<MISSING_FIG href="../books_images/U-IMG-1696773379Screenshot(12"/>.png) सुदर्शनम् ।वसुँश्च रुद्रानादित्यानीशानं जगदैः सह । एतान्त्सर्वान्प्रपद्येऽहं वास्तु मे दत्त वाजिनः स्वाहा, पूर्वाह्णमपराह्णञ्चोमौमध्यन्दिना सह । प्रदोपमर्द्धरात्रं च व्युष्टां देवीं महापथाम् । एतान्त्सर्वान्प्रपद्येऽहं वास्तु मे दत्त वाजिनः स्वाहा ।, कर्तारं च विकर्तारं विश्वकर्माणमोपधीश्च वनस्पतीन ।एतान्त्सर्वान्प्रपद्येऽहं वास्तु मे दत्त वाजिनः स्वाहा ।, धातारं च विधातारं निधीनां च पति<MISSING_FIG href="../books_images/U-IMG-1696773379Screenshot(12"/>.png)सह । एतान्त्सर्वान्प्रपद्येऽहं वास्तु मे दत्त वाजिनः स्वाहा । स्योन<MISSING_FIG href="../books_images/U-IMG-1696773379Screenshot(12"/>.png) शिवमिदं वास्तु दत्तं ब्रह्मप्रजापती । सर्वाश्च देवताः स्वाहेति प्राशनान्ते का<MISSING_FIG href="../books_images/U-IMG-1696773946Screenshot(1"/>.png)स्ये सन्भारानोष्यौदुम्बरपलाशानि ससुराणि शाड्वलं गोमयं दधि मधु घृतं कुशान्यवाँश्वासनोपस्थानेषु प्रोक्षेत्पूर्व सन्धावभिमृशति ‘श्रीश्च त्वा यशश्च पूर्वं सन्धौ गोपायेतामिति दक्षिणे सन्धावभिमृशति ‘यज्ञश्च त्वा दक्षिणा च दक्षिणे सन्धौ गोपायेतामिति पश्चिमे सन्धावभिमृत्यन्नं च त्वा ब्राह्मणश्च पश्चिमे सन्धौ गोपायेतामि’त्युत्तरे सन्धावभिमृशत्यूकर्च त्वा सूनृता चोत्तरे सन्धौ गोपायेतामिति निष्क्रम्य दिश उपतिष्ठते ‘केता च मा सुकेता च पुरस्ताद्गोपायेतामि"त्यग्निर्वै केताऽऽदित्यः सुकेता तौ प्रपद्ये ताभ्यां नमोऽस्तु तौमा पुरस्ताद्गोपायेवामित्यथ दक्षिणतो ‘गोपायमानं च मा रक्षमाणा च दक्षिणतो गोपायेतामि त्यहर्वैगोपायमान<MISSING_FIG href="../books_images/U-IMG-1696773379Screenshot(12"/>.png) रात्री रक्षमाणा ते प्रपद्ये ताभ्यां नमोऽस्तु ते मा दक्षिणतो गोपायेतामित्यथ पश्चा’द्वीदिविश्व मा जागृविश्व पश्चाद्गोपयेतामि’त्यन्नं वै दीदिविः प्राणो जागृविस्तौ प्रपद्ये ताभ्यां नमोऽस्तु तो मा पश्चागोपायेतामित्यथोत्तरतो’ऽस्वप्नश्च मानवद्राणश्चोत्तरतो गोपायेतामि’ति ‘चन्द्रमा चाऽअस्वप्नो वापुरनवद्राणस्तौ प्रपद्ये ताभ्यां नमोऽस्तु तौमोत्तरतो गोपायेतामिति निष्ठितां प्रपद्यते ‘धर्मस्थूणाराज<MISSING_FIG href="../books_images/U-IMG-1696773946Screenshot(1"/>.png) श्रीस्तूपमहोरात्रे द्वारफलके ।इन्द्रस्य गृहा वसुमन्तो वरुथिनस्तानहं प्रपद्ये सह प्रजया पशुभिः सह। यन्मे किञ्चिदस्त्युपहूतःसर्वगण सखाय साधुसंवृत्तः । तां त्वा शालेऽरिष्टवीरा गृहान्नःसन्तु सर्वत’ इति ततो ब्राह्मणभोजनम्॥ ४ ॥
अथातो वापीकूपतडागारामदेवतायतनपुष्करिण्याम्प्रतिष्ठापनं व्याख्यास्यामस्तत्रोदगयन आपूर्यमाणपक्षे पुण्याहे तिथिवारकरणे नक्षत्रे च गुणान्विते तत्र वाढणं यत्रमयं चरु<MISSING_FIG href="../books_images/U-IMG-1696775920Screenshot(1"/>.png) श्रपयित्त्वाऽऽज्यभागाविष्ट्वाऽऽज्याहुतीजुहोति ‘त्वन्नो ऽअग्ने, सत्वन्नोऽअग्न, इमं मे वरुण, तत्त्वा यामि, ये ते शत, मयाश्चाग्न उदत्तम, मुरु<MISSING_FIG href="../books_images/U-IMG-1696776212Screenshot(12"/>.png)हि राजा, वरुणस्योत्तम्मन, मग्नेरनीकमिति दशर्च्च<MISSING_FIG href="../books_images/U-IMG-1696775920Screenshot(1"/>.png)स्थालीपाकस्य जुहोत्यग्नये स्वाहा, सोमाय स्वाहा, वरुणाय स्वाहा, यज्ञाय स्वाहो, ग्राय स्वाहा, भीमाय स्वाहा, शतकतये स्वाहा, व्युष्ट्यस्वाहा, स्वर्गाय स्वाहेति यथोक्त<MISSING_FIG href="../books_images/U-IMG-1696775920Screenshot(1"/>.png) स्थिष्टकृत्प्राशनान्ते जलचराणि क्षिप्त्वाऽलङ्कृत्य गां तारयित्वा ‘पुरुषसूक्तं जपन्नाचार्याय वरं दत्वा कर्णवेष्टकौवासा<MISSING_FIG href="../books_images/U-IMG-1696775920Screenshot(1"/>.png)सि धेनुर्दक्षिणा ततो ब्राह्मणभोजनम्॥५॥
अथातो मणिकावधानमुत्तरपूर्वस्यां दिशि यूपववटंखात्वा कुशानास्तीर्याक्षतानरिष्टकान्सुमनसः कपर्दिकाँश्चान्यानि चाभिमङ्गलानि तस्मिन् मिनोति मणिक<MISSING_FIG href="../books_images/U-IMG-1696776212Screenshot(12"/>.png)‘समुद्रोऽसी’त्यप आसिञ्चत्यापो रेवतीः क्षयथा हि वस्वः क्रतुं च भद्रं विभृथामृतं च ।रायश्च स्थ स्वपत्यस्य पत्नी सरस्वती तद्गृणत वयोधादि’त्यापे हि ष्टेति तिसृभिस्ततो ब्राह्मणभोजनम्॥६॥
अथातः शीर्षरोगभेषजम्पाणी प्रक्षालय भ्रुवौ विमार्ष्टि’चक्षुर्भ्या<MISSING_FIG href="../books_images/U-IMG-1696775920Screenshot(1"/>.png)श्रोत्राभ्यां गोदानाच्छुबुकादधि ।यक्ष्म<MISSING_FIG href="../books_images/U-IMG-1696776212Screenshot(12"/>.png)शीर्षण्य<MISSING_FIG href="../books_images/U-IMG-1696776212Screenshot(12"/>.png)रराटाद्विवृहामीममि’त्यर्द्धञ्चेदवभेदक विरूपाक्ष श्वेतपक्ष महायशः । अथो चित्रपक्ष शिरो माऽस्याभिताप्सीदिति क्षेम्यो ह्येव भवति॥७॥
उतूलपरिमेहः स्वपतो जीवविषाणे स्वं मूत्रमासिच्यापसलवित्रिः परिषिश्चन्परीयात्परि त्वा गिरेरहं परिमातुःपरिस्वतुः । परिपित्रोश्च भ्रात्रोश्च सख्येभ्यो विसृजाम्यहम् ।उतूल परिमीढोऽसि परिमीढः क्व गमिष्यसीति स यदि भ्रम्याद्वावाग्निमुपसमाधाय घृताक्तानि कुशेण्डूवानि जुहुया’त्परित्वा ह्वल नो ह्वल निर्वृत्तेन्द्र वीरुधः । इन्द्रपाशेन सित्वा मह्यं मुक्त्वाथान्यमानयेदिति क्षेम्यो ह्येव भवति ॥८॥
शुलगवः स्वर्ग्यः पशव्यः पुत्र्यो धन्यो यशस्य आयुष्य औपासनमरण्य<MISSING_FIG href="../books_images/U-IMG-1696776212Screenshot(12"/>.png) हृत्वा वितान<MISSING_FIG href="../books_images/U-IMG-1696776212Screenshot(12"/>.png)साधयित्वा रौद्रं पशुमालभेत साण्डं गौर्वा शब्दाद्वपा<MISSING_FIG href="../books_images/U-IMG-1696775920Screenshot(1"/>.png)श्रपयित्वा स्थालीपाकमवदानानि च रुद्राय व प्रामन्तरिक्षाय वसा<MISSING_FIG href="../books_images/U-IMG-1696775920Screenshot(1"/>.png) स्थालीपाकमिश्राण्यवदानानि जुहोत्यग्नये, रुद्राय, शर्वाय, पशुपतय, उग्राया, शनये, भवाय, महादेवाये, शानायेति च चनस्पतिस्विष्टकृदन्ते दिग्व्याधारणं व्याधारणान्ते पत्नाः
संयाजयन्तीन्द्राण्य, रुद्राण्य, शर्वाण्यै, भवान्या, अग्निं गृहपतिमि’ति लोहितं पालाशेषुकूर्चेषु रुद्राय सेनाभ्यो बलि<MISSING_FIG href="../books_images/U-IMG-1696782653Screenshot(12"/>.png) हरति ‘यास्ते रुद्र पुरस्तात्सेनास्ताभ्य एष बलिस्ताभ्यस्ते नमः । यास्ते रुद्र दक्षिणतः सेनास्ताभ्य एष बलिस्ताभ्यस्ते नमः । यास्ते रुद्र पश्चिमतः सेनास्ताभ्य एषबलिस्ताभ्यस्ते नमः । यास्ते रुद्रोत्तरतः सेनास्ताभ्य एष बलिस्ताभ्यस्तेनमः । यास्ते रुद्रोपरिष्टात्सेनास्ताभ्य एष वलिस्ताभ्यस्ते नमः । यास्तेरुद्राधस्तात्सेनास्तास्य एष बलिस्ताभ्यस्ते नम’ इत्यूवध्यं लोहिसलिप्तमग्नौ प्रास्यत्यधो वा निखनत्यनुवातं पशुमवस्थाप्य रुद्ररुपतिष्ठतेप्रथमोत्तमाभ्यां वाऽनुवाकाभ्यां नैतस्य पशोर्ग्राम<MISSING_FIG href="../books_images/U-IMG-1696782653Screenshot(12"/>.png) हरन्त्येतेनैव गोयज्ञोव्याख्यातः पायसेनानर्थलुप्तस्तस्य तुल्यवया गौर्द्दक्षिणा॥९॥
अथ वृषोत्सर्गो गोयज्ञेन व्याख्यातः कार्तिक्यां पौर्णमास्याए<MISSING_FIG href="../books_images/U-IMG-1696783098Screenshot(1"/>.png)रेवत्यां वाऽऽश्वयुजस्य मध्ये गवा<MISSING_FIG href="../books_images/U-IMG-1696783098Screenshot(1"/>.png)सुसमिद्धमग्निं कृत्वास्या<MISSING_FIG href="../books_images/U-IMG-1696783098Screenshot(1"/>.png)संस्कृ’त्येहरतिरिति पट्जुहोति प्रतिमन्त्रं ‘पूषा गा अन्वेतु नः पूषा रक्षत्वर्वतः । पूषावाज<MISSING_FIG href="../books_images/U-IMG-1696782653Screenshot(12"/>.png)सनोतु नः स्वाहेति पौष्णस्य जुहोति रुद्राञ्जपित्वैकवर्णं द्विवर्णं वा यो वा यूथं छादयति यं वा यूथं छादयेद्रोहितोचैव स्यात्सर्वाङ्गैरुपेतो जीववत्सायाः पयस्विन्याः पुत्रो यूथे च रूपस्वित्तमः स्यात्तमलङ्कृत्य यूथे मुख्याश्चतस्रोवत्सतर्यस्ताश्चालङ्कृ’त्यैतंयुवानं पति वो ददामि तेन क्रीडन्तीश्चरथ प्रियेण । मानः साप्तजनुषाऽसुभगा रायस्पोषेण समिषामदेमेत्येतयैवोत्सृजेरन्नभ्यस्थमभिमन्त्रयते ‘मयोभूरित्यनुवाकशेषेण (वामे चक्रं दक्षिणे त्रिशूल<MISSING_FIG href="../books_images/U-IMG-1696782653Screenshot(12"/>.png)) सर्वासांपयसि पायस<MISSING_FIG href="../books_images/U-IMG-1696783098Screenshot(1"/>.png) श्रपयित्वा ब्राह्मणान्भोजयेत्पशुमप्येके कुर्वन्ति तस्यशूलगवेन कल्पो व्याख्यातः ॥ १० ॥
अशोदककर्माद्विवर्षे प्रेते मातापित्रोराशौच<MISSING_FIG href="../books_images/U-IMG-1696782653Screenshot(12"/>.png)शौचमेवेतरेषामेकरात्रंत्रिरात्रं वा शरीरमदग्ध्वा निखनन्त्यन्तःसूतके चेदोस्थानादाशौच<MISSING_FIG href="../books_images/U-IMG-1696782653Screenshot(12"/>.png)सूतकवन्नात्रोदककर्म द्विवर्षप्रभृति प्रेतमाश्मशानात्सर्वेऽनुगच्छेयुर्यमगाथांगायन्तोयमसूक्तं च जपन्त इत्येके यद्युपेतो भूमिजोषणादि समानमाहिताग्नेरोदकान्तस्य गमनाच्छालाग्निना दहन्त्येनमाहितश्चेत्तूष्णीं ग्रामाग्निनेतर<MISSING_FIG href="../books_images/U-IMG-1696782653Screenshot(12"/>.png)संयुक्तं मैथुनं वोदकं याचेरन्नुदकं करिष्यामह’ इति ‘कुरुध्वं मा चैवं पुनरित्यशतवर्षे प्रेते ‘कुरुध्वमेवेतरस्मिन्सर्वे ज्ञातयोऽपोभ्यवयन्त्यासप्तमात्पुरुषाद्वाशमाद्वासमानग्रामवासे यावत्सम्बन्धमनुस्मरेयुरेकवस्त्राः प्राचीनावीतिनः सव्यस्यानामिकयाऽपनो’द्याप नः शोशुचदधमि’ति दक्षिणामुखा निमज्जन्ति प्रेतायोदक<MISSING_FIG href="../books_images/U-IMG-1696782653Screenshot(12"/>.png)सकृत्प्रसिञ्चन्त्यञ्जलिना’ऽसावेतत्त ऽउदकमित्युत्तीर्णाञ्छुचौदेशे शाडूलवत्युपविष्टाँस्तत्रै-
तानपवदेयुरनवेक्षमाणा ग्राममायान्ति रोतीभूताः कनिष्टपूर्वा निवेशनद्वारे पिचुमन्दपत्राणि विदश्याचम्यादकमग्नि गोमयं गौरसर्षपॉस्तैलमालभ्याऽऽश्मानमाक्रम्य प्रविशन्ति त्रिरात्रं ब्रह्मचारिणोऽधःशायिनो न किञ्चन कर्म कुर्युर्न्न प्रकुर्वीरन्क्रीत्वा लब्ध्वा वा दिवैवान्नमश्नीयुरमा<MISSING_FIG href="../books_images/U-IMG-1696844437काका.png"/>सं प्रेताय पिण्डं दत्वाऽवनेजनदानप्रत्यवनेजनेषु नामग्राहम्मृन्मये ता <MISSING_FIG href="../books_images/U-IMG-1696844437काका.png"/>रात्रीं क्षीरोदके विहायसि निदध्युः ‘प्रेतात्र स्नाही ति त्रिरात्र<MISSING_FIG href="../books_images/U-IMG-1696844590मामा.png"/> शावमाशौचन्दशरात्रमित्येके न स्वाध्यायमधीयीरन्नित्यानि निवर्त्तेरन्वैतानवर्ज<MISSING_FIG href="../books_images/U-IMG-1696844590मामा.png"/> शालाग्नौ चैकेऽन्य ऽएतानि कुर्युः प्रेतस्पर्शिनो ग्रामं न प्रविशेयुरानक्षत्रदर्शनाद्रात्रौ चेदादित्यस्य प्रवेशनादि समानमितरैः पक्षं द्वौ वाऽऽशौचमाचार्य चैवम्मातामहयोश्च स्त्रीणां चाप्रत्तानाम्प्रत्तानामितरे कुर्वीरँस्ताश्च तेषां प्रोषितश्चेत्प्रेयाच्छ्रवणप्रभृति कृतोदकाः कालशेषमासीरन्नतीतश्चैकरात्रं त्रिरात्रं वाऽथ कामादकान्यृत्विक्श्वशुरसखिसम्बन्धिमातुलभागिनेयानां प्रत्तानां चैकादश्यामयुग्मान्ब्राह्मणाम्भोजयित्वा मा<MISSING_FIG href="../books_images/U-IMG-1696844437काका.png"/> सवत्प्रेतायोद्दिश्य गामप्येके ध्नन्ति पिण्डकरणे प्रथमः पितॄणां प्रेतः स्यात्पुत्रवाँश्चेन्निवर्तत चतुर्थः संवत्सरं पृथगेके न्यायस्तु “न चतुर्थः पिण्डो भवतीति श्रुतेरहरहरन्नमस्मै ब्राह्मणायोदकुम्भं च दद्यात्पिण्डमप्येके निपृणन्ति॥ ११ ॥
पशुश्चेदाप्लाव्यागामग्रेयाग्नीपरीत्य पलाशशाखां निहन्ति परिध्ययणोपाकरणनियोजनप्रोक्षणान्यावृता कुर्याद्यच्चान्यत्परिपशव्ये हुत्वा तूष्णीमपराः पञ्च वपोद्धरणं चाभिघारयेहेवताञ्चदिशेदुपाकरणनियोजनप्रोक्षणेषु स्थालीपाके चैवं वपा<MISSING_FIG href=”../books_images/U-IMG-1696844437काका.png"/>हुत्वाऽवदानान्यवद्यति सर्वाणि त्रीणी पञ्च वा स्थालीपाकमिश्राण्यवदानानि जुहोति पश्वङ्गं दक्षिणा यहेवते तद्वैवतं यजेत्तस्मै च भागं कुर्यातं च ब्रूया’दिममनुप्रापयेति नद्यन्तरे नावं कारयेन्न वा॥ १२ ॥
अथातोऽवकीर्णिप्रायश्चित्तममावास्यायाञ्चतुष्पथे गर्द्दभं पशुमालभते निर्ऋति पाकयज्ञेन यजेताप्स्ववदानहामो भूमौ पशुपुरोडाशश्रपणताञ्छविपरिदधीतोर्ध्वबालामित्येक संवत्सरं भिक्षाचर्यं चरेत्स्वकर्मं परिकीर्तयन्नथापरामाज्याहुतो जुहोति “कामावकीर्णोऽस्म्यवकीर्णोऽस्मि काम कामाय स्वाहा । कामाभिद्रुग्धोऽस्म्यभिद्रुग्धोऽस्मि काम कामाय स्वाहेत्यथोपतिष्ठते ‘सम्मा सिञ्चन्तु मरुतः समिन्द्रः सं बृहस्पतिः । सम्माऽयमग्निः सिञ्चतु प्रजया च धनेन चेत्येतदेव प्रायश्चित्तम्॥ १३ ॥
अथातः सभाप्रवेशन<MISSING_FIG href="../books_images/U-IMG-1696844590मामा.png"/> सभामभ्येति “सभाङ्गिरसि नादिर्न्नामासि
त्विपिनमासि तस्यै ते नम” इत्यथ प्रविशति ‘सभा च मा समितिश्चोभे प्रजापतेर्द्दुहितरौ सचेतसौ । यो मान विद्यादुपमा स तिष्ठेत्सचेतना भवतु श<MISSING_FIG href="../books_images/U-IMG-1696844590मामा.png"/>सथे जन’ इति पर्षदमेत्य जपेद ‘भिभूरहमागमधिराडप्रतिवाश्याः । अस्याः पर्षद ईशानः सहसा सुदुष्टरो जन’ इति स यदि मन्येत क्रुद्धाऽयमिति तमभिमन्त्रयते ‘या त एषा रराट्या तनूर्मन्योः क्रोधस्य नाशनी। तां देवा ब्रह्मचारिणो विनयन्तु सुमेधसः । द्यौरहं पृथिवी चाहं तौ ते क्रोधं नयामसि । गर्भमश्वतर्थसहासाचि’त्यथ यदि मन्येत द्रुग्धोऽयमिति तमभिमन्त्रयते ‘तान्ते वाचमास्य आदत्ते हृदय आधे यत्र यत्र निहिता वाक्तां ततस्तत आदे यदहं ब्रवीमि तत्सत्यमधरो मत्तान्द्यस्वेत्येतदेव वशीकरणम्॥ १४ ॥
अथातो रथारोहणं ‘युङ्क्तेति रथ<MISSING_FIG href="../books_images/U-IMG-1696844590मामा.png"/> सम्प्रेष्य ‘युक्त’ इति प्रोक्ते ‘सा विराडियेत्य चक्रेऽभिमृशति ‘रथन्तरमसी’ति दक्षिणं ‘वृहदसी’त्युत्तरं ‘वामदेवयमसी’ति कुबरी<MISSING_FIG href="../books_images/U-IMG-1696847357काका.png"/> हस्तेनोपस्थमभिमृश त्यङ्कौ न्यङ्का वभितो रथं यौ ध्वान्तं वाताग्रमनुसञ्चरन्तम् । दूरे हेतिरिन्द्रियवान्पतत्रि ते नोऽग्नयः पप्रयः पारयन्त्विति ‘नमो माणिचरायेति दक्षिणं धुर्यं प्राजति गवां मध्ये स्थापयत्यप्राप्य देवताः प्रत्यवराहेत्सम्प्रति ब्राह्मणान्मध्ये गा अभिक्रम्य पितृृन्न स्त्रीब्रह्मचारिणौ सारथी स्याताम्मुहूर्तमतीयाय जपे दिहरतिरिहरमध्यमेके ‘मास्त्विह रतिरि’ति च स यदि दुर्बलो रथः स्यात्तमास्थाय जपेदयं वामश्विना रथो मा दुर्गे मास्तरोरिषदिति स यदि भ्रम्याद्भुम्या<MISSING_FIG href="../books_images/U-IMG-1696844590मामा.png"/> स्तम्भमुपस्पृश्य भूमि वा जपे देवं वामश्विना स्थो मा दुर्गं मास्तरीरिषदिति तस्य न का चनार्तिन्न रिष्टिर्भ वति यात्वाऽध्वानं विमुच्य रथं यवसाद के दापये देष उ ह वाहनस्या पह्नव’ इतिश्रुतेः॥ १५ ॥
अथातो हस्त्यारोहणमेत्य हस्तिनमभिमृशति ‘हस्तियशसमसि हस्तिवर्च्चसमसी’त्यथारोह’तीन्द्रस्य त्वा वज्रेणाभि तिष्ठामि स्वस्तिमा सम्पारयेत्येतेनैवाश्वारोहणं व्याख्यातमुद्रमारोक्ष्यन्नभिमन्त्रयते ‘त्वाष्ट्रोऽसि त्वष्टृृदैवत्यः स्वस्ति मा सम्पारयेति रासभमारोक्ष्यन्नभिमवन्त्रयते ‘शुद्रोऽसि शुद्रजन्माग्नेयो वै द्विरेताः स्वस्ति मा सम्पारयेति नदीमुत्तरिष्यन्नभिमन्त्रयते ‘नमो रुद्रायाप्सुपदे स्वस्ति मा सम्पारयेति नावमारोदयन्नभिमन्त्रयते ‘सुनावमित्युत्तरिष्यन्नभिमन्त्रयते ‘सुत्रामाण मिति वनमभिमन्त्रयते ‘नमो रुद्राय वनसदे स्वस्ति मा सम्पारयेति गिरिमभिमन्त्रयते ‘नमो रुद्राय गिरिषदे स्वस्ति मा सम्पारयेति चतुपष्पथमभिमन्त्रयते ‘नमो रुद्राय पथिषदे स्वस्ति मा सम्पारयेति श्मशा-
तृतीय काण्डम्
तमभिमन्त्रयते ‘नमो रुद्राय पितृषदे स्वस्ति मा सम्पारयेति गोष्ठमभिमन्त्रयते ‘नमो रुद्राय शकृत्पिण्डसदे स्वस्ति मा सम्णस्येति यत्र चान्यत्रापि ‘नमो रुद्राये’त्येव ब्रूया’द्रुद्रो ह्येवेद<MISSING_FIG href="../books_images/U-IMG-1696854280मामा.png"/> सर्व’मिति श्रुतेः सिचाऽवधृतोऽभिमन्त्रयते ‘सिगसि न वज्रोऽसि नमस्ते अस्तु मा मा हि<MISSING_FIG href="../books_images/U-IMG-1696854280मामा.png"/>सीरिति स्तनायित्नुमभिमन्त्रयते ‘शिवा नो वर्षाः सन्तु शिवा नः सन्तु हेतयः । शिवा नस्ताः सन्तु यास्त्व<MISSING_FIG href="../books_images/U-IMG-1696854280मामा.png"/>सृजसि वृत्रहन्निति शिवां वाश्यमानामभिमन्त्रयते ‘शिवो नामेति शकुनि वाश्यमानमभिमन्त्रयते ‘हिरण्यपूर्ण शकुने देवानां प्रतिङ्गम । यमदूत नमस्तेऽस्तु किन्त्वा कार्कारिणोऽब्र वीदिति क्षेम्यो ह्येव भवति लक्षण्यं वृक्षमभिमन्त्रयते ‘मा त्वाऽशनिर्म्मा परशुर्म्मा वातो मा राजप्रेषितो दण्डः । अङ्कुरास्ते प्ररोहन्तु निवाते त्वाऽभिवर्षतु । अग्निष्टे मूलम्माहि<MISSING_FIG href="../books_images/U-IMG-1696854280मामा.png"/>सीत्स्वस्ति तेऽस्तु वनस्पते स्वस्ति मेऽस्तु वनस्पत’ इति स यदि किञ्चिलभेत तत्प्रतिगृह्णाति ‘द्यौस्त्वा ददातु पृथिवी त्वा प्रतिगृह्णात्विति सास्य न ददतः क्षीयते भूयसी च प्रतिगृहीता भवत्यथ यद्योदनं लभेत तत्प्रतिगृह्णाति ‘द्यौस्त्वा ददातु पृथिवी त्वा प्रतिगृह्णात्वि’ति तस्य द्विः प्राश्नाति ‘ब्रह्मा त्वाऽश्नातु ब्रह्मा त्वा प्राश्नात्वित्यथ यदि मन्थं लभेत तत्प्रतिगृह्णाति ‘द्यौस्त्वा ददातु पृथिवी त्वा प्रतिगृह्णात्वि’ ति तस्य त्रिः प्राश्नाति ‘ब्रह्मा त्वाऽश्नातु ब्रह्मा त्वा प्राश्नातु ब्रह्मा त्वा पिबत्वि’त्यथातोऽधीत्याधीत्यानिराकरणं ‘प्रतीकम्मे विचक्षणं जिह्वा मे मधु यद्वचः । कर्णाभ्यां भूरि शुश्रुवे मा त्वां<MISSING_FIG href="../books_images/U-IMG-1696854280मामा.png"/>हार्पीः श्रुतम्मयि । ब्रह्मणः प्रवचनमसि ब्रह्मणः प्रतिष्ठानमसि ब्रह्मकोशोऽसि सनिरसि शान्तिरस्यनिराकरणमसि ब्रह्मकोशम्मे विश । वाचा त्वा पिदधामि वाचा त्वा पिद्धामीति तिष्ठ प्रतिष्ठ स्वरकरणकण्ठ्यौर सदन्त्यौष्ठ्यग्रहणधारणोश्चारणशक्तिर्मयि भवत्वाप्यायन्तु मेऽङ्गानि वाक्प्राणश्चक्षुः श्रोत्रं यशो बलम् । यन्मे श्रुतमधीतन्तन्मे मनसि तिष्ठतु तिष्ठतु’ ॥१६॥
इति श्रीपारस्काराचार्यविरचिते गृह्यसूत्रे तृतीयकाण्डं समाप्तम्॥३॥
अवशिष्टक्षेपककण्डिकाः
अथर्तुमतीं जायामधिगच्छेत्पिण्डपितृयज्ञेन यजेत मध्यमपिण्डं पत्नी प्राश्नाति पुत्रकामा तत एतामाहुतिं जुहो“त्याधत्त पितर’ इत्यलङ्कारमवजिघ्र ‘त्या यन्तु न’ इति जपत्येत्रमथर्त्तुमतीजायाहृदयमालभ्य पूर्ववत्सव्येन पाणिनोपस्थमभिमृशति ‘भग प्रणेतरिति प्रा’गुतेदानीमिति ‘रेतोमूत्रमि’ति सन्धत्ते ‘गायत्रेणेति प्रतिमन्त्रं मन्यति पुत्रकामोऽभिगच्छेन्नित्यम्॥ १॥
अथ गर्भाधान<MISSING_FIG href="../books_images/U-IMG-1696855860काका.png"/> स्त्रियाः पुष्पवत्याश्चतुरहादूर्ध्व<MISSING_FIG href="../books_images/U-IMG-1696855860काका.png"/> स्नात्वा विरजा यास्तस्मिन्नेव दिवाऽ’आदित्यं गर्भमि’ त्यादित्यमवेक्षते गृहे वा स्नापयित्वा तामभिगच्छेदिति श्रुतेस्तस्मिन्प्रजायाः सम्भवकाले निशायां कुर्याद्यदि दिवा मैथुनं व्रजेत्क्लीबा अल्पवीर्या अल्पायुषाश्च प्रसूयन्ते तस्मादेतद्वर्जयेत्प्रजाकामो गृही श्रुतिस्मृतिविरोधाभ्यां दक्षिणेन पाणिनोरू प्रसार्य प्रजास्थानमभितृशति पूषा भग<MISSING_FIG href="../books_images/U-IMG-1696856062मामा.png"/> सविता मे ददातु रुद्रः कल्पयति ललामगुं विष्णुर्योनि कल्पयतु त्वष्टा रूपाणि पि<MISSING_FIG href="../books_images/U-IMG-1696856062मामा.png"/>शतु । आसिञ्चतु प्रजापतिर्द्धाता गर्भ धातु ते । गर्भ धेहि सिनीवालि गर्भ धेहि पृथुष्टुके । गर्भ से अश्विनौ देवावाधत्तां पुष्करस्रजाविति स<MISSING_FIG href="../books_images/U-IMG-1696856062मामा.png"/>सृजेथा’स्तेजो वैश्वानरो दद्याद्’ब्रह्माणमामन्त्रते ‘ब्रह्मा गर्भन्दधात्विति प्राङ्मुख उदङ्मुखो वोपविष्टो मन्थे ‘द्वेतो मूत्रमिति चैके स्रावणं कुर्यात्॥ २॥
अथ यमलचरुं मारुतं व्याख्यास्यामो यस्य च यमलौ पुत्रौ दारिका वा प्रजायेत पूर्णो दशाहे चतुर्णा क्षीरवृक्षाणां काषायमाहृत्याश्वत्थप्लक्षन्यग्रोधौदुम्बराश्चत्वारोऽविधवाः स्नापयन्ति ब्रह्मचारिणो वा शुक्लवासस ऐन्द्रीं दिशमुदीचीं वा मङ्गलं पूर्ववद्वायन्त्यो यमलिनी<MISSING_FIG href="../books_images/U-IMG-1696856440काका.png"/> स्नापयन्त्वाचार्यः स्नापयति ‘वसोः पवित्रेण शतधारेण’ चाष्टभिः कलशैः स्नात्वाऽप्रतिरथं जपे दिदमापः प्रवहतेति तौ स्नापितौ वरं प्रयच्छत्यानडुहमातृभ्यश्च हिरण्यं वस्त्रमेवपरितोषणं ‘वाजे वाजेऽवते’ति जपत्याधारं मारुतं चरुं जुहोति ‘मरुताय स्वाहा, मारुताय स्वाहा, मरुद्भो, विष्णुवे, प्रजापतये, विश्वेभ्यो देवेभ्यो, ऽग्नये स्विष्टकृते स्वाहेति प्राशनान्ते शेषं चरु गृहीत्वाऽश्वत्थं प्रदक्षिणीकृत्योपविशेत्तदेव तन्त्र’<MISSING_FIG href="../books_images/U-IMG-1696856062मामा.png"/> समाप्य ततो ब्राह्मणभोजनम्॥ ३ ॥
अथ कर्णवेधो वर्षे तृतीये पञ्चमे वा पुष्येन्दुचित्राहरिरेवतीषु पूर्वाह्णे कुमारस्य मधुरं दत्वा प्राङ्मुखायोपविष्टाय दक्षिणं कर्णमभिमन्त्रयते ‘भद्रं कर्णेभिरिति सव्यं ‘वक्ष्यन्तीवेदि’ति चाथ भिन्द्यात्ततो ब्राह्मणभोजनम्॥ ४ ॥
अधोपनीतो ब्राह्मणस्त्रिशिखः शिखी जटिलो मुण्डो वाक्षारालवणाशी स्यात्सावित्र<MISSING_FIG href="../books_images/U-IMG-1696856062मामा.png"/> पड़ात्रं त्रिरात्र<MISSING_FIG href="../books_images/U-IMG-1696856062मामा.png"/> सद्यः कालं वा चरेत्तदेव व्रतमुदीक्ष्य दण्डमपो निधाय मेखलां यज्ञोपवा ’ ‘चाप्स्वन्तरिति प्रत्यृचं ‘नमो वरुणायेति त्रिमधुरं दत्वा ततोऽस्याग्नेयं प्रथमं वेदव्रतमादिशेद्ब्राह्मणक्षत्रियविशां पञ्च सांवत्सरिकाणि वेदव्रतानि भवन्त्याग्नेय<MISSING_FIG href="../books_images/U-IMG-1696856062मामा.png"/> शुक्रियमौपनिषद<MISSING_FIG href="../books_images/U-IMG-1696856062मामा.png"/> शौलभङ्गोदानमिति पञ्च सांवत्सरिकाणि वेदव्रतानि चरित्वा स्नात्वोपव्रतं चरत्रिष्ववगुण्ठन<MISSING_FIG href="../books_images/U-IMG-1696856062मामा.png"/> शुक्रियादिषु शुक्रिय<MISSING_FIG href="../books_images/U-IMG-1696856062मामा.png"/> शुक्राभिः श्रावये
क्षेत्रम्
दौपनिषदमौपनिषद्भिः शौलभ<MISSING_FIG href="../books_images/U-IMG-1696856062मामा.png"/> शौलभिनीभिरथ वाऽविद्यमान ‘आ ब्रह्मन्नुदारता, मा नो भद्रा, आशुः शिशान, इमानुकमिति च वेदशिरसाऽवगुण्ठयेदवगुण्ठनीं त्रिवलिं पञ्चवलिं वा नाभिदेशात्प्रच्छाद्य वाग्यतोऽरण्येऽधः शयीत ग्रामे गोष्ठे देवतायतने वा ब्युष्टायामवगुण्ठनीमरण्ये विसृजे ददृश्रमस्यो, दुत्यं, चित्रन्देवानामित्युदितेऽर्क्के जपति वर्षति ‘द्यौः शान्तिरि’ति शान्ति करोति शान्तिभाजनं गुरवे दद्यादेवमेवाचगुण्ठनीं च गोदाने गोमिथुनं तस्माद्गोदानमिति तस्माद्गोदानमिति॥ ५ ॥
अथ परिशिष्टशौचसूत्रम् ।
** अथातः शौचविधिं व्याख्यास्यामो दूरङ्गत्वा दूरतरङ्गत्वा यज्ञोपवीतर्ठ शिरसि दक्षिणकर्णे वा धृत्वा तृणमन्तर्धानङ्कृत्वोपविश्याहनीत्युत्तरतो निशायान्दक्षिणत उभयोः सन्ध्ययोरुदङ्मुखो नाग्नौ न गोसमीपे नाप्सु, नागे वृक्षमुले चतुष्पथे गवाङ्गाष्ठे देवब्राह्मणसन्निधौ दहनभूमिं भस्माच्छन्नं देशं फालकृष्टभूमिञ्च वर्जयित्वा मूत्रपुरीषे कुर्यात्ततः शिश्नं गृहीत्वोत्थायाद्भिः शौचं गन्धलेपहरं विदध्याति देया सकृन्मृद्वै त्रिवारं गुदे दशधा वामपाणावुमयोः सप्तवारं मृत्तिकां दद्यात्करयोः पादयोः सकृत्सकृदेव मृत्तिका देयेति शौचं गृहस्थानां द्विगुणं ब्रह्मचारिणां त्रिगुणं वनस्थानां चतुर्गुणं यतीनामिति यद्दिवा विहित<MISSING_FIG href="../books_images/U-IMG-1696856062मामा.png"/>शौचं तदर्धं निशायाम्भवात मार्गे चेत्तदर्धमार्त्तश्चेद्यथाशक्ति कुर्यात्॥ १ ॥**
** प्रक्षालितपाणिपादः शुचौ देश उपविश्य नित्यं बद्धशिखी यज्ञोपबीती प्रागुदङ्मुखो वा भूत्वा जान्वोर्मध्ये करौ कृत्वाऽशद्रानतीतोदकैर्द्विजातयो यथाक्रमं हृत्कण्ठतालुगैराचामन्ति न तद्भिन्नेष्टेन न विरलाङ्गलिभिर्न तिष्ठन्नैव हसन्नापि फेनबुद्बुदयुतं ब्राह्मतीर्थेन त्रिः पिबेद् द्वि परिमृजेब्राह्मणस्य दक्षिणहस्ते पञ्च तीर्थानि भवन्त्यङ्गुष्ठले ब्रह्मतीर्थं कनिष्ठिकाङ्गुलिमूले प्रजापतितीर्थं तर्जंन्यङ्गुष्ठमध्यमूले पितृतीर्थमङ्गुल्यग्रे देवतीर्थ मध्येऽग्नितीर्थमित्येतानि तीर्थानि भवन्ति॥ २ ॥**
** प्रथमं यत्प्रिबति तेन ऋग्वेदं प्रीणाति द्वितीयं यत्पिवति तेन यजुर्वेदं प्रीणाति तृतीयं यत्पिबति तेन सामवेदं प्रीणाति चतुर्थ यदि पिवेत्तेनाथर्ववेदेतिहासपुराणानि प्रीणाति यदङ्गुलिभ्यः स्नवति तेन नागयक्षकुबेराः सर्वे वेदाः प्रीणन्ति यत्पादाभ्युक्षणं पितरस्तेन प्रीणन्ति यन्मुखमुपस्पृशत्यग्निस्तेन प्रीणाति यन्नासिके उपस्पृशति वायुस्तेन प्रीणाति यच्चक्षुरुपस्पृशति सूर्यस्तेन प्रीणाति यच्छ्रोत्रमुपस्पृशत दिशस्तेन प्रोणन्ति यन्नाभिमुपस्पृशति ब्रह्मा तेन प्रीणाति यद्घृदयमुपस्पृशति तेन परमात्मा प्रीणाति यच्छिर उपस्पृशति रुद्रस्तेन प्रीणाति यद्वाहू उपस्पृशति**
विष्णुस्तेन प्रोणाति मध्यमानामिकया मुखं तर्जन्यङ्गुष्ठेन नासिकां मध्यमाङ्गुष्टेन चक्षुषी अनामिकाङ्गुष्टेन नाभि हस्तेन हृदयं सर्वाङ्गुलिभिःशिर इत्यसौ सर्वदेवमयो ब्राह्मणो देहिनामित्याहेत्येवं शौचविधि कृत्वाब्रह्मलोके महीयते ब्रह्मलोके महीयत इत्याह भगवान्कात्यायनः॥ ३ ॥
अथ भोजनसूत्रम् ।
वन्दे श्रीदक्षिणामूर्त्ति सच्चिदानन्दविग्रहम् ।
सर्वार्थानाम्प्रदातारं शिवादेहाधधारिणम्॥ १ ॥
अथातः श्रुतिस्मृतीरनुसृत्य भोजनविधिं व्याख्यास्याम आचान्तो धृतोत्तरीयवस्त्रो धृतश्रीखण्डगन्धपुण्ड्रो भोजनशालामागत्य गोमयेनोपलिप्य शुचौ देशे विहितपीठाधिष्ठितो नित्यम्प्राङ्मुखो न दक्षिणामुखो न प्रत्यङ्मुखो न विदिङ्मुखः श्रीकामश्चेत्प्रत्यङ्मुखः सत्यकामश्चेदुदङ्मुखो यशस्कामश्चेदक्षिणामुखो जीवन्मातृकवर्ज हस्तपादास्येषु पञ्चस्वार्द्रेनीवारचूर्णैर्गोमृदा भस्मनोदकेन वा मण्डलङ्कुर्याच्चतुष्कोणं ब्राह्मणस्य त्रिकोणं क्षत्रियस्य मण्डलाकृति वैश्यस्याभ्युक्षर्ण्ठशद्रस्य “यथा चक्रायुधो विष्णुस्त्रलोक्यं परिरक्षति । एवं मण्डलमस्मैतत्सर्वभूतानि रक्षत्विति तत्र भूमौ निहितपात्रेऽन्ने परिविष्टे ‘पितुन्नुस्तोषमित्यन्न<MISSING_FIG href=”../books_images/U-IMG-1696787877Screenshot(1"/>.png)स्तुत्वा ‘मानस्तोके, नमो वः किरिकेभ्यो नमः शम्भवायेत्यभिमन्त्र्य ग्राक्षये’त्सत्यन्त्वर्त्तेनपरि षिञ्चमीति प्रात’र्ॠतन्त्वासत्येन परिषिञ्चामी’ति साय’न्तेजोऽसि शुक्रमस्यमृतमसाति यजुपाऽन्नमभिमृश्या’ग्निरस्मी’त्यात्मानमग्निन्ध्यात्वा ‘भूपतये, भुवनपतये, भूतानाम्पतय’ इति ‘चित्राय, चित्रगुप्ताय, सर्वभ्यो भूतेभ्यो नम’ इति दिवाप्रणवादिकैः स्वाहानमोन्तैर्मन्त्रैःप्रतिमन्त्रं बलीन्हरे दन्तश्चरसि भूतेषु गुहायां विश्वतोमुखः । त्वं ब्रह्म त्वं यज्ञस्वं चषट्कारस्तवमोङ्कारस्त्वं विष्णोः परमम्पदम् ।अमृतोपस्तरणमसि स्वाहेति विष्णुमन्त्रमभिध्यायन्नाचम्यानममृतं ध्यायत्मौनी हस्तचापल्यादिरहितो मुखे पञ्चप्राणाहुतीर्जुहोति॥ १ ॥
‘प्राणाय स्वाहा,ऽपानाय स्वाहा, व्यानाय स्वाहा, समानाय स्वाहो, दानाय स्वाहेति क्रमं याज्ञवल्क्योऽमन्य ‘तोदानाय स्वाहा, समानायस्वाहेति शौनकवौधायनौ याज्ञवल्क्योदितक्रमो वाजसनेयिनान्दन्तैर्नोप्रस्पृशेज्जिव्हया ग्रसेदङ्गुष्ठ प्रदेशिनीमध्यमाभिः प्रथमामङ्गुष्ठमध्यमानामिकाभिद्वितीयामङ्गुष्ठानामिकाकनिष्ठिकाभिस्तृतीयां कनिष्ठिकातर्जन्यङ्गुष्ठेश्चतुर्थी<MISSING_FIG href="../books_images/U-IMG-1696858774काका.png"/> सर्वाभिरङ्गुलीभिः साङ्गुष्ठाभिः पञ्चमीमङ्गुष्ठाना-
अमिकाग्राह्यान्नेनैता आहूतय इति हारीतव्याख्यातारः सर्वाभिरेता इतिबौधायनो मौनन्त्यक्त्वा प्राग्द्रवरूपमश्नीयान्मध्ये कठिनमन्ते पुनद्रवाशोस्यान्मधुरम्पूर्व लवणाम्लो मध्ये कटुतिकादिकाम्पश्चाद्यथासुखम्भुञ्जीतभुञ्जानो वामहस्तेनानन्न स्पृशेन्न पादौ न शिरो न बस्ति न परभाजन<MISSING_FIG href="../books_images/U-IMG-1696869783Screenshot(1"/>.png)स्पृशेदेवं यथारूचि भुक्त्वा भुक्तशेषमन्नमादाय ‘मद्भुक्ताच्छिष्टशेषं येभुञ्जते पितरोऽधमाः । तेषामन्नं मया दत्तमक्षयमुपतिष्ठत्विति पितृतीर्थेन दत्वाऽमृतापिधानमसि स्वाहेति हस्तगृहीतानामपामर्धंपीत्वाऽर्धम्भूमौ निक्षिपेद्गौरवेपूयनिलये पद्मार्बुदनिवासिनाम्। अर्थिना<MISSING_FIG href="../books_images/U-IMG-1696869783Screenshot(1"/>.png)सर्वभूतानामक्षयमुपतिष्ठत्वि’ति तस्माद्देशादपसृत्य गण्डूषशलाकादिभिस्तर्जनीवर्जमास्यर्ठं शोधयेत्॥ २ ॥
**न भार्यादर्शनेऽश्नीयान्न भार्यया सह न सन्ध्ययोर्न्नमध्यान्हे नार्द्धरात्रे नायज्ञोपवीती नार्द्रवासा नैकवासान शयानो न ताम्रभाजने नभिन्ने न राजतसौवर्णशङ्खस्फाटिककांस्यभाजनवर्जं न लौहे न मुन्मये नसन्धिस<MISSING_FIG href="../books_images/U-IMG-1696869783Screenshot(1"/>.png)स्थिते न भुवि न पाणौ न सर्वभोजी स्यात्किञ्चिद्भोज्यं परित्यजेदन्यत्र घृतपायसदधिसक्तुपललमधुभ्यः साध्वाचान्तो दक्षिणपादाङ्गुष्ठे पाणि निःस्नावयेदङ्गुष्टमात्रः पुरुषोऽ अङ्गुष्ठञ्च समाश्रितः ।ईशःसर्वस्य जगतः प्रभुः प्रीणातु विश्वभुगि’ति ‘श्वात्राः पीता’ इति नाभिमालभे’तामता’ इत्यतः प्रा’गगस्त्यं वैनतेयञ्च शनिश्च वडवानलम् । आहारपरिणामार्थं स्मरेद्भीमञ्च पञ्चममित्युदरमालभ्य ‘शर्यातिञ्च सुकन्याञ्जच्यवमं शक्रमश्विनौ । भाजनान्ते स्मरेन्नित्यं तस्य चक्षुर्न्न हीयतइति स्मृत्वा मुखशुद्धिं कुर्यान्नमो भगवते वाजसनेयाय याज्ञवल्क्यायनमो भगवते वाजसनेयाय याज्ञवल्क्याय॥ ३ ॥ ( १ ) **
इति श्रीकात्यायनोक्तभोजनसूत्रं समाप्तम् ।
<MISSING_FIG href="../books_images/U-IMG-1696870570Screenshot(13"/>.png)
——————————————————————————————
(१) अत्र संस्कारगणपतौ ग्रन्थकारणानुक्ताः क्षेपककण्डिकाः
शौचभोजनपरिशिष्टे चान्ते विनिवेश्यालङ्कृतो ग्रन्थोऽयम् ।
परिशिष्टत्रिकण्डिकास्नानसूत्रस्य ग्रन्थे व्याख्यानान्नात्र पौनरुक्त्यमिति \। श्राद्ध परिशिष्ठन्तु ग्रन्थकर्तश्रीमद्विद्वद्वररामकृष्णव्याख्योछसितमेवेतिकृत्वा श्राद्धपतौप्रकाशयिष्यते । काण्वशाखीयकृत ग्रन्थसाहचर्यादत्र न प्रदर्शितं यकारादिचिन्हं माध्यन्दिनीयपाठकैस्तत्स्वसम्प्रदायानुसारेण गुरुमुखात्तत्र तत्रावगन्तव्यमिति शिवम् ।
संस्कारगणपतौ प्रमाणश्वेनोपन्यस्तानां ग्रन्थानामकाराद्य.
नुक्रमनिघण्टुपत्रम् ।
| अ | ई |
| अगस्त्यस्मृतिः | ईश्वरस्मृतिः |
| अग्निगुह्यम् | उ |
| अङ्गिरःस्मृतिः | उत्तरगार्ग्यस्मृतिः |
| अत्रिस्मृतिः | उत्तरसारस्मृतिः |
| अथर्वसंहिता | उद्वाहतत्वम् |
| अध्यात्मरामायणम् | उशनःस्मृतिः |
| अनन्तपाठककारिका | ऋ |
| अनन्तभट्टीयम् | ऋग्विधानम |
| अनन्तभाष्यम् | ऋग्वेदसंहिता |
| अपरादित्यस्मृतिः | ऋष्यशृङ्गस्मृतिः |
| अपरार्कचन्द्रिका | क |
| अभिधानम्रन्थः | कठस्मृतिः |
| अर्णवः | कपर्द्दिकारिका |
| आ | कपिलसंहिता |
| आचारदीपः | कर्कभाष्यम् |
| आचारप्रदीपः | कर्मकौमुदी |
| आत्रेयसंहिता | कर्मतत्वदीपिका |
| आथर्वणगृह्यसूत्रम् | कश्यपपटलम् |
| आदित्यभाष्यम् | काठकगृह्यम् |
| आदित्यपुराणम् | काण्वसंहिता |
| आदिपुराणम् | कात्यायनपरिशिष्टम् |
| आपस्तम्बसूत्रम् | कात्यायनश्रौतसूत्रम् |
| आपस्तम्बस्मृतिः | कात्यायनस्मृतिः |
| आश्वलायन ब्राह्मणम् | कारिकानिबन्धः |
| आश्वलायनगृह्यपरिशिष्टम् | कालकल्पद्रुमः |
| कालनिर्णयः | गोभिलकारिका |
| कालप्रदीपः | गोभिलगृह्यसूत्रम् |
| कालविधानम् | गोविन्दभट्टकारिका |
| कालादर्शः | गौतमधर्मसूत्रम् |
| कालिकापुराणम् | गौतमस्मृतिः |
| काश्यपसंहिता | ग्रहकौमुदी |
| काश्यपस्मृतिः | गृहदीपिका |
| काशिका | गृहपीठमाला |
| काशीखण्डः | च |
| क्रियासारः | चतुर्वर्गचिन्तामणिः |
| कुलार्णवः | चतुर्विंशतिमतम् |
| कूर्मपुराणम् | चन्द्रिका |
| कृष्णाजिनिस्मृतिः | चण्डेश्वरः |
| ख | चरणव्यूहः |
| खादिरगृह्यसूत्रम् | चिन्तामाणटीका |
| ग | चूडामणिः |
| गङ्गाधरकारिका | चूडारत्नम् |
| गङ्गाधरभाष्यम् | च्यवनस्मृतिः |
| गदाधरभाष्यम् | छ |
| गर्गसंहिता | छन्दोगपरिशिष्टम् |
| गर्गस्मृतिः | छागलेयस्मृतिः |
| गरुडपुराणम् | ज |
| गायत्रीहृदयम् | जगन्नाथकारिका |
| गार्ग्यस्मृतिः | जगन्मोहनम् |
| गालवस्मृतिः | जातकाभरणम् |
| गुरुस्मृतिः | जातूकर्ण्यस्मृतिः |
| गृहतत्वदीपिका | जावालिस्मृतिः |
| गृहस्थकाण्डम् | जैमिनिस्मृतिः |
| गृह्यकारिका | ज्योतिःप्रकाशः |
| गृह्यपरिशिष्टम् | ज्योतिःसागरः |
| गृह्यसंग्रहः | ज्योतिःसारः |
| गोत्र निणयः | ज्योतिर्निबन्धः |
| गोपीनाथकारिका | ज्योतिर्विवरणम् |
| ज्योतिश्चन्द्रिका | ‘धर्मप्रवृत्तिः |
| ज्योतिषार्कः | धर्मशास्त्रम् |
| ज्योतिस्तिलकम् | न |
| ज्यौतिषम् | नवनीतारिष्टम् |
| ड | नागदेवकारिका |
| डामरतन्त्रम् | नारदपश्चरात्रम् |
| ढ | नारदसंहिता |
| ढुण्ढिराजकारिका | नारदस्मृतिः |
| ढोण्ढूमिश्रपद्धतिः | नारदीयपुराणम् |
| त | नारायणवृत्तिः |
| तैत्तिरीयब्राह्मणम् | निगमः |
| तैत्तिरीयसंहिता | निबन्धसारः |
| त्रिकाण्डमण्डनस्मृतिः | निरुक्तम् |
| त्रिविक्रमपद्धतिः | निर्णयसिन्धुः |
| त्रिस्थलीसेतुः | नृसिहः |
| त्रैलोक्यप्रकाशः | नृसिहप्रसादः |
| द | नृसिहपुराणम् |
| दक्षस्मृतिः | नन्दिपुराणम |
| दानप्रदीपः | प |
| दानसागरः | पद्मपुराणम् |
| दाल्भ्यपरिशिष्टम् | पद्धतिरत्नम् |
| दीपिका | परशुरामभाष्यम् |
| देवभाष्यम् | पराशरमाधवः |
| देवयाज्ञिकभाष्यम् | पराशरस्मृतिः |
| देवरातस्मृतिः | परिशिष्टम |
| देवलस्मृतिः | पाकयज्ञप्रदीपः |
| देवीपुराणम् | पाणिनीयशिक्षा |
| दैवशभूषणम् | पीणिनीयसूत्रम् |
| दैवज्ञमनोहरः | पारस्करगृह्यसूत्रम् |
| दैवज्ञवल्लभः | पितृभक्तितरङ्गिणी |
| ध | पुराणसमुच्चयः |
| धर्मप्रदीपः | पृथ्वीचन्द्रोदयः |
| पैठीनसिसूत्रम् |
| प्रचेतःस्मृतिः | भास्करः |
| प्रजापतिस्मृतिः | भुजवलः |
| प्रभासखण्डः | भूपालवल्लभः |
| प्रयोगपरिजातः | भृगुस्मृतिः |
| प्रयोगरत्नः | भोजराजीयम् |
| प्रवरसूत्रम् | म |
| प्रवरसंग्रहः | मत्स्यपुराणम् |
| प्रातिशाख्यभाष्यम् | मदनरत्नः |
| प्रासाददीपिका | मन्त्रखण्डः |
| ब | मन्त्रमुक्तावलिः |
| बहुचकारिका | मनुस्मृतिः |
| बहुचपरिशिष्टम् | मण्डनकारिका |
| बृहदाह्निकम् | मरीचिस्मृतिः |
| बृहत्पराशरस्मृतिः | महाभारतम् |
| बृहन्नारदीयम् | माध्यन्दिनसंहिता |
| बृहस्पतिस्मृतिः | माधवनिदावम् |
| बैजवापसूत्रम् | मानवसंहिता |
| बैजवापस्मृतिः | माण्डव्यस्मृतिः |
| बौधायनगृह्यसूत्रम् | मार्कण्डेयपुराणम् |
| बौधायनधर्मसुत्रम् | मार्कण्डेयस्मृतिः |
| बौधायनस्मृतिः | मिताक्षरा |
| ब्रह्मपुराणम् | मिहिरः |
| ब्रह्मयामलम् | मुहूर्त्तकल्पद्रुमः |
| ब्रह्मवैवर्त्तपुराणम् | मुहूर्त्तचिन्तामणिः |
| ब्रह्माण्डपुराणम् | मुहूर्त्तमाला |
| भ | मुहूर्त्तमुक्तावलिः |
| भट्टकारिका | मुहूर्त्तरत्नम् |
| भर्तयज्ञभाष्यम् | मुहूर्त्तसर्वस्वम् |
| भविष्यपुराणम् | मुहूर्त्तसंग्रहः |
| भागवतम् | मूलागमः |
| भाट्टग्रन्थः | मूल्याध्यायः |
| भार्गवार्चनम् | मेधातिथिस्मृतिः |
| भारद्वाजस्मृतिः | मैत्रायणीयगृह्यसूत्रम् |
| य | वराहपुराणम् |
| यजुर्वल्लभा | वराहसंहिता |
| यमस्मृतिः | वसिष्ठस्मृतिः |
| यवनस्मृतिः | वसिष्ठसूत्रम् |
| यज्ञपार्श्वम् | वसिष्ठसंहिता |
| याज्ञवल्क्यस्मृतिः | वाक्यसंग्रहः |
| योगियाज्ञवल्कयः | वात्स्यस्मृतिः |
| योगिनीतन्त्रम् | वामनः |
| योगीशस्मृतिः | वायुपुराणम् |
| र | वासनाभाष्यम् |
| रङ्गनाथीरुद्रपद्धतिः | वासुदेवपद्धतिः |
| रत्नकम् | वासुदेवभाष्यम् |
| रत्नकोशः | विद्यारण्यभाष्यम् |
| रत्नमाला सटीका | विधानखण्डः |
| रत्नसंग्रहः | विधानपारिजातः |
| राजमार्त्तण्डः | विधानमाला |
| रुद्रकल्पद्रुमः | विधिरत्नम् |
| रुद्रयामलम् | विवाहपटलम् |
| रूपनारायणकारिका | विवाहवृन्दावनम् |
| रूपनारायणभाष्यम् | विश्वादर्शः |
| रेणुकारिका | विष्णुधर्मोत्तरम |
| ल | विष्णुपुराणम् |
| लग्नचन्द्रिका | विष्णु मिश्रभाष्यम् |
| लघुनारदस्मृतिः | विष्णुस्मृतिः |
| लघुव्यासस्मृतिः | विष्णुसूत्रम् |
| लघुहारीतस्मृतिः | वीरमित्रोदयः |
| लल्लस्मृतिः | वृत्तशतम् |
| लिखितस्मृतिः | वृद्धगर्गस्मृतिः |
| लिङ्गपुराणम् | वृद्धगार्ग्यसंहिता |
| लीलावती | वृद्धगार्ग्यस्मृतिः |
| लौगाक्षिस्मृतिः | वृद्धगौतमस्मृतिः |
| व | वृद्धनारदस्मृतिः |
| वर्धमानभाष्यम् | वृद्धपराशराशरस्मृतिः |
| वृद्धप्रचेतःस्मृतिः | श्राद्धकोशिका |
| वृद्ध मनुस्मृतिः | श्राद्धचन्द्रिका |
| वृद्धयाज्ञवल्कयः | आडमजरी |
| वृद्धवसिष्ठस्मृतिः | श्राद्धसूत्रम् |
| वृद्धविष्णुस्मृतिः | श्रीधरीयम् |
| वृद्धशातातपस्मृतिः | श्रीपतिकारिका |
| वृद्धसम्मतिः | श्रुतिः |
| वैद्यनाथीरुद्रपद्धतिः | ष |
| वैशम्पायनस्मृतिः | षट्त्रिंशन्मतम् |
| वोपदेवभाष्यम् | षट्पञ्चाशिका |
| व्यवहारतत्वम् | स |
| व्यवहारोष्वयः | सङ्ग्रहः |
| व्याघ्रपादस्मृतिः | सत्यव्रतकारिका |
| व्यासस्मृतिः | सत्याषाढसूत्रम् |
| व्रतप्रकाशः | सनत्कुमार स्मृतिः |
| श | सप्तर्षिपटलम् |
| शङ्कस्मृतिः | सप्तर्षिमतम् |
| शवसूत्रम् | सम्प्रदायकारिका |
| शतपथब्राह्मणम् | सर्वानुक्रममूत्रम् |
| शाकटायनस्मृतिः | साङख्यानगृह्य सुत्रम् |
| शाकल्यसंहिता | सांडूख्यायनस्मृतिः |
| शाङ्खायनगृह्यसूत्रम् | सायनभाष्यम् |
| शातातपस्मृतिः | सायणीयः प्रयोगरत्नः |
| शान्तिकाण्डम् | लारसङ्ग्रहः |
| शान्तिमाला | सिद्धान्तशिरोमणिः |
| शान्तिसर्वस्वम् | सिद्धान्तशेखरः |
| शार्ङ्गधर | सुमन्तुस्मृतिः |
| शारदातिलकम् | सूर्यसिद्धान्तः |
| शालङ्कायनस्मृतिः | सोमयाजिकारिका |
| शिवपुराणम् | संघर्तस्मृतिः |
| शिवस्मृतिः | संस्कारनृसिंह |
| शनिककारका | संहिताप्रदीपः |
| श्राद्ध कल्पतरुः | संहितासारावलिः |
| स्कन्दपुराणम् | स्वरशास्त्रम् |
| स्मृत्यन्तरम् | ह |
| स्मृत्यर्थसारः | हरदत्तकारिका |
| स्मृतिकौस्तुभः | हरिहरभाष्यम् |
| स्मृतिचन्द्रिका | इलायुधभाष्यम् |
| स्मृतिभास्करः | हारीतस्मृतिः |
| स्मृतिमञ्जरी | हारीतसूत्रम् |
| स्मृतिमहार्णवः | हिरण्यकेशिगृह्यसूत्रम् |
| स्मृतिरत्नम् | हेमाद्रिः |
| स्मृतिरत्नावलिः | होरामकरन्दः |
| स्मृतिसङ्ग्रह | ज्ञ |
| स्मृतिसारः | ज्ञानभास्करः |
| स्मृतिसारसमुच्चयः | ज्ञानमखरी |
इति ३७७ प्रणाम ग्रन्थसूचिका \।
<MISSING_FIG href="../books_images/U-IMG-1696268850Screenshot(6"/>.png)
————————————————————————————————————————
प्राप्तिस्थानम्—
चौखम्बा संस्कृत पुस्तकालय,
बनारस सिटी \।
]
-
" कण्ठं भित्त्वेति पाठान्तरम् ।" ↩︎
-
“कल्पोऽथंपठ्यत इति पाठान्तरम् ।” ↩︎
-
“सूक्ष्ममेतदिति पाठान्तरम् ।” ↩︎
-
" नैकवेदीमिति पाठान्तरम् ।" ↩︎
-
" कंडनमिति पाठान्तरम् ।" ↩︎
-
“महानाम्न्यांदिव्रतविशेषे इत्यर्थः ।” ↩︎
-
“नोक्तमिति पाठान्तरम् ।” ↩︎
-
“विधिः प्रेरणम् ।अर्थवादः स्तुतिः ।” ↩︎
-
“प्राङत्क्रम्य किञ्चित्प्राग्देशं गत्वेत्यर्थः । एतदुत्क्रमणमन्तः संमार्गकाले बहिःसंमार्गकाले च उभयत्र कार्यम " ↩︎
-
“उक्त इति शेषः” ↩︎
-
“(१ ↩︎
-
“आद्यो नतु द्वितीयादिर्ग्राह्य इत्यर्थः ।” ↩︎
-
“कृष्णलः गुञ्जा इत्यर्थः।” ↩︎
-
“अस्यार्थः ताम्रस्य कार्षापणो माम कपर्दिकामानेन गो मूल्यं ॥ ↩︎
-
“हेमाद्रिमतस्यैवं स्वरूपं तेनायमपि द्विविधस्तुलारूप एव ।” ↩︎
-
“ढबुकानामधुना प्रचाराभावाद्वात्रिंशत्कर्षपरिमितन्ताम्रमेकस्या गोर्मूल्यमित्यवधेयम् ।” ↩︎
-
“अत्रैव अग्न्याधान एवेत्यर्थः” ↩︎
-
“इयं शौनकोक्तिस्तु साध्वी किन्त्वेतत्प्राचीना न सहन्ते । यतः स्वस्तये स्वस्तिः इत्यादिप्रयोगाणां वेदे लोकेषु च बहुत्र दर्शनात्स्व स्तिशब्दो न केवलमव्ययम् किन्तु सार्वविभक्तिकोऽपि । “नमः स्वस्ति” ↩︎
-
“इष्टिश्राद्धलक्षणमाह श्राद्धचन्द्रिकायाम् —” ↩︎
-
“सर्वमन्नमेकतोद्धृत्योच्छिष्टसमीपे दर्भेषु त्रिंस्त्रीन्पिण्डानवनेज्य दद्यादिति प्रकृतिः। तद्वदत्रापीत्यर्थः। वीप्सा मातामहविषया।” ↩︎
-
“छन्दोगपरिशिष्टस्य कात्यायनकृतत्वेऽपि च्छन्दोगानुद्दिश्यैव करणाच्छन्दोगानां षड्दैवतमन्येषां नवदैवतामति स्वारसिकोऽर्थः । षड्भ्य इति वचनं मात्रादेरप्युपलक्षणमिति कल्पतरुः ।जीवन्मात्रादि-त्रिकपरमिति श्राद्धकल्पः । वस्तुतस्तु षड्भ्यः पितृभ्य इत्यस्य शातातपादिवचनैकवाक्यतालाघवात् । आनन्तर्यमात्रविधायकत्वात् न संख्यायां तात्पर्यम् । इति न कोऽपि विरोधशङ्काऽवभास इति निष्कण्टकः पन्थाः । इति संस्कारदीपके ।तेन यथाऽऽचारं व्यवस्थितो विकल्प इति भाति ।” ↩︎
-
“केवलयजुर्मन्त्रपाठपक्षे यजुराशीर्वचनम् ।यावद्वेदमन्त्रपाठेच्छा तादृश ऊहो योज्यः । सर्वत्राप्यादौ स्वशास्वीयमन्त्रपाठस्ततोऽन्येषाम् ।” ↩︎
-
“सुमङ्गलन्तु " ↩︎
-
“मातृपूजने यथाकुलदेशाचारं क्रम आदरणीयः ।क्रमभेदस्य प्रत्यक्षदर्शनात् ।” ↩︎
-
“अभिषेचनमित्यर्थः ।” ↩︎
-
“नोत्सृजान्त उत्सर्गंन कुर्वन्ति आलभन्तीत्यर्थः ।” ↩︎
-
“एतेन विवाहप्रकरणाम्नानानादत्रेव स्मार्ते जयादयः स्युर्नान्यत्रेति फलितम् ।” ↩︎
-
“काण्वशास्त्रीयः ।” ↩︎
-
“कण्डिकेयं व्याख्यानानन्तरं लिखितेति सुधीभिरूह्यम् ।” ↩︎
-
“काण्वशाखीयोऽयं मन्त्राऽाम्रमञ्च ।” ↩︎
-
“अत्र माध्यन्दिनीयादिभिः स्वस्वशाखानामोश्चार्यम् । सु० सं० १९४” ↩︎
-
“ग्रन्थकतुरेतावानेव ग्रन्थ उपलब्धः । आग्रीमःपाठा भाष्यनुसारेण पूरित इति ज्ञेयम्।” ↩︎