पीताम्बरः - विवाहपटलम्

[[विवाहपटलम् split-2 Source: EB]]

[

review करणीयम्

श्रीः ।

विवाहपटलम् \।

सारसमुच्चयः

ःःःःःःः♦ःःःःःःःः

ग्रंथोऽयं

सूर्यपुर (सुरत)स्थ ज्योतिर्विद्

कृष्णशंकर केशवराम रैक्व इत्येतैः संपादितः.

मुंबय्यां

पाण्डुरङ्ग जावजी इत्येतैः

स्वीये(“निर्णयसागरमुद्रणालये मुद्रयित्वा प्रकाशितः ।
_______________

प्रतयः १०००.

शकाब्दाः १८५६, सन १९३५.

मूल्य ४ आणका

[All rights reserved by the publisher.]

______________

Publisher:-Pandurang Jawaji,

}

‘Nirnaya-sagar’ Press,

Printer :-Ramchandra Yesu Shedge,

}

26-28, Kolbhat Lane,Bombay,

विवाहपटलम् ।

ःःःःःः♦♦♦

ःःःःःः

सारसमुच्चयः ।

राशिकूटाध्यायः ॥ १ ॥

मंगलाचरणम्-

सुरासुरैर्वंदितपादपद्मं शिवात्मजं भक्तजनस्य सिद्धिदम् ।

तं विघ्नराजं प्रणतोऽस्मि नित्यं वागीश्वरीं देवगुरुं हरिं तम् ॥ १ ॥

विश्वरूपेण यः साक्षात् श्रीविष्णुं ब्रह्मविद्गुरुम् ।

हृच्चिंतकस्य सुखदं तं मुकुंदं नमाम्यहम् \।\। २ \।\।

नानाशास्त्रोद्धृतं सारं वैद्यनाथेन यत्कृतम् ।

अन्यैश्च यद् गृहीतं तं वक्ष्ये सारसमुच्चयम् ॥ ३ ॥

वर्णविचारः-

मीनाद्ब्राह्मणपूर्वा वर्णाः कन्योत्तमो वरः श्रेष्ठः ।

मध्यस्थः- समवर्णे नीचो हीनोद्भवः पुरुषः ॥ ४॥

राशिस्वरूपाणि । वराहमिहिरः-

मत्स्यौ घटी नृयुगलं सगदं सवीणं

          चापी नरोऽश्वजघनो मकरो मृगास्यः ।

तौली ससस्यदहना लवगा च कन्या

              शेषाः स्वनामसदृशाः खचराश्च सर्वे ॥ ५ ॥

राशिस्वभावः-

मेषो दैन्यमुपैति गर्वति वृषो नानामतिर्मन्मथः

   शूरः कर्कटको धृतिर्वनपतेः कन्यात्र मायान्विता ।

विवाहपटले

सत्त्वं रज्जुतुला अलिर्मलिनता चापश्च पापाशयो

मौखर्यं मकरे घटे चतुरता मीने च धीरा मतिः ॥६॥

वश्यविचारः-

वश्या मनुष्यजातेः सिंहं हित्वा जलोद्भवा भक्ष्याः ।

विसरीसृपाश्च सिंहस्यान्यं लोकात्परिज्ञेयम् ॥ ७ ॥

ताराविचारः-

जन्मतारा शुभा प्रोक्ता द्वाभ्यामेकर्क्षसंस्थिता ।

त्यक्त्वा त्रिपंचसप्ताख्या शेषोद्वाहे मिथः शुभा ॥ ८ ॥

वरर्क्षाद्गणयेद्यावत्कन्यर्क्षं वरभं पुनः ।

कन्यर्क्षान्नवहृच्छेषं त्रीष्वद्रिभमसत्स्मृतम् ॥ ९ ॥

योनिविचारः-

अश्वेभाजफणिद्वयं श्ववृषभुङ्मेषोतवो मूषक-

श्चाखुर्गौः क्रमशस्ततोऽपि महिषी व्याघ्रः पुनः सैरिभी ।

व्याघ्रैणौ मृगमंडलौ कपिरथो बभ्रुद्वयं वानरः

सिंहोऽश्वो मृगराट् पशुश्च करटी योनिस्तु भानामियम् ॥ १०॥

माधवः-

गोव्याघ्रमश्वमहिषं नकुलं द्विजिह्व-

मोतून्दुरं हरिगजं मृगसारमेयम् ।

मेषप्लवंगमिदमन्यदपीह वैरं

त्याज्यं वधूपुरुषयोर्नृपभृत्ययोश्च ॥ ११ ॥

भोजदेवः-

अनुक्तेषु पुनः कल्प्यमृक्षेषु व्यवहारतः ।

बलाबलं विचारज्ञैरभीष्टार्थस्य सिद्धये ॥ १२ ॥

हारीतः-

वश्ये योनौ वश्यवैरं च भक्ष्यं प्रोक्तं त्रेधा गर्गमुख्यैर्मुनींद्रैः ।

एवं ज्ञात्वा लोकतश्चिंतनीयं तज्ज्ञैर्यस्मात्सौख्यवृद्ध्यै नृनार्योः

राशिस्वामिनः-

मेषवृश्चिकयोर्भौमः कन्यामिथुनयोर्बुधः ।

शनिर्मकरकुंभेशो जीवो मीनधनुर्भृतोः ॥ १४ ॥

आस्फुजित्तौलिवृषयोश्चंद्रः कर्कटराशिपः ।

सिंहस्याधिपतिः सूर्यो नवांशानामधीश्वराः ॥ १५ ॥

जातके–

द्विर्द्वादशं त्रिकोणं च ग्रहमैत्रीयुतं शुभम् ।

योनिदोषो न चात्रास्ति इत्याहुः शौनकादयः ॥ १६ ॥

ग्रहमैत्रीविचारः । वराहमिहिरः–

शत्रू मंदसितौ समश्च शशिजो मित्राणि शेषा रखे-

स्तीक्ष्णांशुर्हिमरश्मिजश्च सुहृदः शेषाः समाः शीतगोः ।

जीवेंदूष्णकराः कुजस्य सुहृदो ज्ञोऽरिः सितार्थी समौ

मित्रे सूर्यसितौ बुधस्य हिमगुः शत्रुः समाश्चापरे ॥ १७ ॥

जीवे सौम्यसितावरी रविसुतो मध्योऽपरे त्वन्यथा

सौम्यार्कीसुहृदौ समौ कुजगुरू शुक्रस्य शेषावरी ।

शुक्रज्ञौ सुहृदौ समः सुरगुरुः सौरस्य चान्येऽरय-

स्तत्काले च दशायबंधुसहजस्वांत्येषु मित्रं स्थिताः1॥ १८ ॥

ग्रहमैत्रीगुणाः पंच द्वे शुभे द्विशुभप्रदे \।

सममेकं बुधैर्ज्ञेयं बलाबलविचारणे ॥ १९ ॥

आयुष्यं प्रथमे प्रीतिर्द्वितीयेऽन्यत्समे समम् ।

चतुर्थे मानसं वैरमायुर्हीयेत पंचमे ॥ २० ॥

गणविचारः–

पूषानिलाश्विनो मित्रविष्णुचंद्रार्कदैवतम् ।

पुनर्वसुद्वयं प्रोक्तं मुनिभिर्देवतागणे ॥ २१ ॥

पूर्वा त्रीण्युत्तरात्रीणि रोहिणी भरणी तथा ।

आद्वैतानि मनुष्याणां गणः प्रोक्तो मनीषिभिः ॥२२॥

चित्रा ज्येष्ठा धनिष्ठा च विशाखामूलकृत्तिकाः ।

शततारामघाश्लेषा आसुरो गण उच्यते ॥ २३ ॥

ब्रह्मगुप्तः–

प्रीतिः स्ववर्गे नरदेवयोश्च मैत्री कलिः स्यात्सुररक्षसोश्च ।

मृत्युर्भवेद्राक्षसमर्त्ययोश्च कलत्रमित्रस्वगृहेषु चिंत्यम् ॥२४॥

गर्गः–

प्रीतिरायुर्गणे चैके प्रीतिः स्यान्नरदेवयोः ।

अमरासुरयोर्युद्धं मृत्युः स्यान्नरदैत्ययोः ॥ २५ ॥

श्रीपतिः–

प्रीतिः स्मृतैकगणयोरुभयोर्नृनार्योः

      सा मध्यमा नरमरुद्गणयोः सदैव ।

रक्षोगणेन सह देवगणस्य वैरं

              मृत्युर्निशाचरगणो नृगणस्य नूनम् ॥ २६ ॥

रक्षोगणो यदा पुंसः कन्या भवति मानवी ।

केऽपीच्छंति तदोद्वाहं व्यस्तं कोऽपीह नेच्छति \।\।२७\।

विशेषविचारः । भृगुः –

यदा तीव्रगणा नारी नरो नरगणो भवेत् ।

तदोद्वाहो न कर्तव्यो यस्माद्वैधव्यदो ध्रुवम् ॥ २८ ॥

रक्षोमनुष्यर्क्षजयोर्नृनार्योः

       सद्राशिकूटे च भयोनिशुद्धौ ।

उद्वाहमिच्छंति हि धर्मसिद्ध्यै

        भेशारिभावेऽपि पुनर्मुनींद्राः ॥ २९ ॥

हरिदेवः–

रक्षोगणो यदि वरो नृगणा कुमारी

   सद्राशिकूटखगमैत्रभयोनिशुद्धौ ।

यद्यस्ति तत्र शुभदं करपीडनं स्या-

             द्वामभ्रुवां न हि यदा खलु नाडियोगः ॥ ३० ॥

गर्गः –

रक्षोगणो यदा पुंसः कुमारी नृगणा भवेत् ।

सद्भकूटः खगप्रीतिर्योनिशुद्धिः शुभं तदा ॥ ३१ ॥

वराहः–

तीव्रपुंसमनुजा च कन्यका सद्भकूटखगयोश्च मित्रता ।

नाडियोनिषु विशुद्धिता यदा धर्मकामधनवृद्धये तदा ॥ ३२॥

सप्तर्षयः–

एकग्रहोद्भवानां भवति विवाहः सुखार्थसंपत्त्यै ।

यद्युभयोरेकर्क्षं न भवति यदि वांशको नैकः ॥ ३३ ॥

भोजदेवः–

एकराशौ धनापत्यसौभाग्यजननः स्मृतः ।

एकर्क्षे यदि चैकांशे विवाहो न प्रशस्यते ॥ ३४ ॥

श्रीपतिः–

कुर्यात्सौभाग्यवित्ताप्तिमेकराशौ करग्रहः ।

शस्यते नैकभे कैश्चिदेकांशे नेष्यते परैः ॥ ३५ ॥

हरिदेवः–

एकराशिषु करग्रहः पृथग्भे सुतार्थसुखभर्तृमानदः ।

एकभे न शुभदो मृतिप्रदो नैकभांश उदितः पुरातनैः ॥३६॥

ब्रह्मगुप्तः–

एकराशौ पृथग्भे भवेदुत्तमं तद्वदेवान्यभागे भवेन्मध्यमम् ।

एकभागे त्वनिष्टं हि पाणिग्रहं वर्णयंत्यत्र योषित्सु पुंसः सदा ॥

विशेषश्च–

दंपत्योरेकराशौ चेद्भिन्नपादैकभं यदि ।

विवाहं शुभदं प्राहुर्वसिष्ठासितदेवलाः ॥ ३८ ॥

सप्तर्षयः–

अभिन्नराशौ यदि भिन्नमृक्षं विवाहमिच्छंति हि शौनकाद्याः ।

प्रीतिस्तयो रोहिणिकृत्तिका चेन्न नाडिदोषो न गणोत्यदोषः ॥

वह्निप्रजापश्च मृदादितिश्च अर्यम्णहस्तोऽप्यनिलाग्निसर्पाः ।

विशेषविष्णूवरुणाजपं च एकाधिराशौ न च नाडिदोषः ४०

लल्लुः–

प्रीतिवित्तसुखदः करग्रहस्त्वेकराशिरिह भिन्नभं भवेत् ।

वारुणाजचरणं यदा तदा नाडिदोषगणजौ न दोषदौ ॥ ४१ ॥

वामदेवः–

स्त्रीपुंसोरेकराशिश्चेत्पृथगृक्षं यदा भवेत् ।

वसिष्ठोक्तेविवाहः स्याद्गणनाडी न दोषदौ ॥ ४२ ॥

अष्टधामैत्री । लघुगर्गः–

एकराशौ पृथग्धिष्ण्ये विवाहः शुभदो भवेत् ।

नाडीदोषो न चात्रास्ति दंपत्योश्च चिरायुपम् ॥ ४३ ॥

शुभाशुभे भकूटे स्यान्नाडीयोगस्तु मृत्युदः ।

एकराशिं विना प्राहुर्वसिष्ठासितदेवलाः ॥ ४४ ॥

सद्राशिकूटं ग्रहमित्रता च वर्णोऽथ वश्यं च विचिंत्य राशेः ।

ऋक्षस्य नाडीगणयोनितारामैत्री विचार्याऽष्टविधा विवाहे ॥ ४५ ॥

लक्ष्मीधरस्तु विशेषमाह –

योनिनाडीगणर्क्षादिवश्यमैत्रीस्वभावजाः ।

तारावर्णविशुद्धिश्च प्रीतिरष्टविधा स्मृता ॥ ४६ ॥

राशिकूटखगमैत्रितारकायोनिनाडिगणवर्णशुद्धया ।

   राशिवश्यवरदूरतादिभिः प्रीतिभिर्दशगुणाः प्रकीर्तिताः ॥ ४७ ॥

ग्रंथांतरेऽपि–

मैत्री ग्रहाणामथ राशिकूटं नाडीप्रभेदौ गणवर्गताराः ।

भयोनिशुद्धिर्वधुदूरता च वर्णो वशित्वं दशधा प्रदिष्टम् ४८

एकराशौ पृथग्धिष्ण्ये लभेयुर्दशधा गुणाः ।

 एकनाड्यादिभिर्दोषैर्नारिष्टं प्राह भागुरिः ॥ ४९ ॥

राशिकूटभवनाधिपमैत्रीतारकागणविशुद्धिविनाड्यः । वर्णशुद्धिरुडुयोनिभवश्ये पाणिपीडनविधौ खलु चिंत्यम् ५०

राशिकूटं गणो मैत्री वर्गोऽथ वश्यतारके ।

नाडी योनिर्वधूदूरं वर्णाश्चेति गुणा दश ॥ ५१ ॥

वश्यं वर्णो भकूटं च मैत्री च वरदूरकम् ।

   नाडियोनिगणास्तारा वल्लभत्वं गुणा दश ॥ ५२ ॥

वल्लभत्वकथनं श्रीपतिः–

षट् पौष्णतो द्वादश शांकराच्च पौरंदराद्भानि नव क्रमेण । पूर्वार्धमध्यापरभागयुंजि चिरंतनज्यौतिषिकैः स्मृतानि ॥५३॥

पूर्वभागयुजि भे पतिः प्रियो योषितामपरभागयोगिनि ।

   स्त्री नृणां भवति मध्ययोगिनि प्रेम नूनमुभयोः परस्परम् ॥ ५४ ॥

पराशरस्तु विशेषमाह–

स्त्री2ग्रहैर्वल्लभा नारी पुंग्रहैर्वल्लभो नरः ।

महादेवः–

भकूटमैत्री खलु वश्यवर्णौ राशेर्गुणाः पंचमकं च दूरम् ।

    नाडी गणो योनियुता च तारा सवल्लभा वेति वदंति सन्तः ॥ ५६ ॥

अन्यच्च–

नाडीमैत्री द्विजस्योक्ता गणवर्णौच बाहुजे ।

वैश्यस्य राशिदूरं च योनिवर्गौच शूद्रजे ॥ ५७ ॥

यस्य वर्णाधिका नारी तस्या भर्ता न जीवति ।

 यदि जीवति भर्ताऽस्याः पुत्रस्तस्या न जीवति ॥५८॥

भोजराजः –

उत्तमां वर्जयेत्कन्यां विवाहसुहृदंबुभम् ।

      धनायुः क्षीयते तेजो योऽधिकां वरयेत्स्त्रियम् ॥५९॥

पूर्वपंचकमेकानां शेषद्वययुतं शुभम् ।

      भाव्यं षडष्टके नाडी योगो वा गुणसप्तकम् ॥ ६० ॥

तृतीयलाभं कुलवृद्धयेऽपि बंधुर्दशाख्यं धनपुत्रकारि ।

   पुंस्त्री मिथः सप्तमकः सुखायुस्तथैकराशेरपि नान्यदोषः ॥ ६१ ॥

राशिकूटाख्यसन्नाडी गणयोनिः समित्रता ।

  तारा स्त्रीदूरवश्यानि दंपत्योः सद्गुणाष्टकम् ॥ ६२ ॥

शुभौ द्विर्द्वादशौ–

मेषझषौवृषमिथुनौ कर्कहरी घटमृगौ तुलाकन्ये ।

हरिषष्ठौ धन्वलिको श्रेष्ठौ द्विर्द्वादशौ राशी ॥ ६३ ॥

षडष्टकविषये वृत्तशतेऽपि –

सिंहो मीनयुतस्तुलायुतवृषो धन्वी कुलीरान्वितः

कुंभः कन्यकया युतोऽथ मकरो द्वंद्वान्वितोऽजोऽलिना ।

योगेष्वेषु षडष्टकेष्वपि शुभः पाणिग्रहः स्याद्यदा

प्रागुक्तं च गणत्रयं वशगृहं तारानुकूल्यं भवेत् ॥ ६४ ॥

अन्यत्रापि–

मीनालिभ्यां युते कीटे कुंभे मिथुनसंयुते ।

मकरे कन्यकायुक्ते कुर्याद्वै नवपंचमम् ॥ ६५ ॥

द्विषष्ठाभ्यां समो राशिर्विषमोऽष्टव्ययान्वितः ।

  शुभो विलोमतो नेष्टः सिंहोऽपीष्टो बलान्वितः ॥ ६६॥

विप्राणां दशकूटं स्यात्क्षत्रियाणां तथाष्टकम् \।

वैश्यानां कूटषटुं च शेषाणां तु चतुष्टयम् ॥ ६७ ॥

दुष्टं भकूटं ग्रहमैत्रियुक्तं शुभं भवेद्यद्यपि योनिवैरम् ।

 योनौ विहीनं गणमैत्रयुक्तं सुतायुरारोग्यकरं नृनार्योः ॥ ६८ ॥

पुंराशिः स्त्रीराशेर्द्वादशनवमाष्टमो यदा भवति ।

   मध्यमयोस्तूभययोः समसुहृदोर्मित्रयोः सुखावाप्त्यै॥ ६९ ॥

गर्गमुकुंदौ–

कन्यर्क्षाद्वरभं दूरं कन्यादूरमुदीरितम् ।

     सुखप्रदं विवाहे स्याद् व्यस्तं दुःखप्रदायकम् ॥ ७० ॥

पूर्वभागयुजि भे पतिः प्रियो योषितामपरभागयोगिनि ।

   स्त्री नृणां भवति मध्ययोगिनि प्रेम नूनमुभयोः परस्परम् ॥ ५४ ॥

पराशरस्तु विशेषमाह–

स्त्री2ग्रहैर्वल्लभा नारी पुंग्रहैर्वल्लभो नरः ।

महादेवः–

भकूटमैत्री खलु वश्यवर्णौ राशेर्गुणाः पंचमकं च दूरम् ।

    नाडी गणो योनियुता च तारा सवल्लभा वेति वदंति सन्तः ॥ ५६ ॥

अन्यच्च–

नाडीमैत्री द्विजस्योक्ता गणवर्णौच बाहुजे ।

वैश्यस्य राशिदूरं च योनिवर्गौच शूद्रजे ॥ ५७ ॥

यस्य वर्णाधिका नारी तस्या भर्ता न जीवति ।

 यदि जीवति भर्ताऽस्याः पुत्रस्तस्या न जीवति ॥५८॥

भोजराजः –

उत्तमां वर्जयेत्कन्यां विवाहसुहृदंबुभम् ।

      धनायुः क्षीयते तेजो योऽधिकां वरयेत्स्त्रियम् ॥५९॥

पूर्वपंचकमेकानां शेषद्वययुतं शुभम् ।

      भाव्यं षडष्टके नाडी योगो वा गुणसप्तकम् ॥ ६० ॥

तृतीयलाभं कुलवृद्धयेऽपि बंधुर्दशाख्यं धनपुत्रकारि ।

   पुंस्त्री मिथः सप्तमकः सुखायुस्तथैकराशेरपि नान्यदोषः ॥ ६१ ॥

शेषेष्वर्थसुखात्मजाः सुपशवः स्यादेकनाडी न चेद्

** दंपत्योर्भगणौ निषिद्धफलदौ वैरं भयोन्योस्तथा ॥ ८१ ॥**

गदाधरः–

राशिकूटे शुभे लब्धे ग्रहमैत्रीं न चिंतयेत् ।

** अलाभे राशिकूटस्य ग्रहमैत्रीं विचिंतयेत् ॥ ८२ ॥**

कन्यकाभवनतो वरराशिर्द्वादशाष्टनवमो गुणयुक्तः ।

** पाणिपीडनविधौ यदि कुर्यादन्यथा निधनमेति वियोगम् ॥ ८३ ॥**

** कन्यर्क्षतो रिप्फनवाष्टमं भं स्याच्चेद्वरस्यार्थसुतायुराप्त्यै। **

तद्भेशयोश्चेत्सममित्रवृत्त्योर्मध्यस्थमैत्री च यदाह सत्यः ॥ ८४ ॥

षट्काष्टकेऽनपत्यत्वं नवपंचमयोस्तथा ।

** नैः स्वं द्विर्द्वादशे प्रोक्तं कन्यादूरं सुशोभनम् ॥ ८५ ॥**

भोजदेवः –

भवनैकाधिपत्यादौ केऽपीच्छंति करग्रहम् ।

द्विर्द्वादशे त्रिकोणे च न कदाचित्षष्टके \।\। ८६ ॥

चिंतामणौ–

एकाधिपत्यं ह्युभयोः सुहृत्त्वं नाडी मिथस्तारकशुद्धियुक्तम् ।

विहाय षट्काष्टकमन्ययोः स्यात्पाणिग्रहः सौख्यकरो नृनायोः ॥

महेश्वरः–

मित्रत्वं ग्रहयोश्च पंचनवमे द्विर्द्वादशे चेद्भवे-

** देको वाधिपतिः परस्परशुभा तारा शुभं स्यात्तदा ॥ ८८ ॥**

** वश्याद्यैः पंचभिर्युक्तं गुणैः षट्काष्टकं शुभम् ।**

** यदि नाडीविशुद्धिः स्यादुद्वाहः सौख्यदस्तदा \।\।८९१९६**

लक्ष्मीधरः–

** वश्यं राश्योर्योनिनाडीगणानां**

** शुद्धा तारा मैत्र्यमेवं मिथः स्यात् ।**

एकेशत्वं खेटयोर्वानुकूल्यं

  यस्मिन्नार्याः प्राहुरिष्टं षडष्टे ॥ ९० ॥

षट्काष्टकेऽपि कर्तव्यं नृनार्योः पाणिपीडनम् ।

   अश्लेषामूलयोः सौम्यस्वात्योः श्रवणसौम्ययोः ॥९१॥

चित्राश्रवणयोश्चेति कैश्चित्प्रोक्तं चतुष्टयम् ।

गुर्वर्केशं कुजैकेशं प्रकर्तव्यं तदा बुधैः ॥ ९२ ॥

मित्रत्वे वश्यत्वे वैकेशत्वे च तारकामैत्र्याम् ।

       षट्काष्टकेऽपि कार्यो विवाह इति शौनकेनोक्तम् ॥ ९३ ॥

श्रीपतिः–

भवनपतिसुहृत्त्वं स्यात्तथैकाधिपत्यं

            यदि भवति न वशित्वं चैकषट्काष्टकेऽपि ।

शुभकृदिह विवाहोऽन्योन्यताराविशुद्धौ

               यदि खलु फणिचक्रे स्यान्न नाडी समाजः ॥ ९४ ॥

व्यवहारसारे–

मित्रता यदि भनाथयोर्द्वयोरेक एव यदि नायको द्वयोः ।

वश्यराशिरपि शुद्धतारका प्राहुरिष्टमषडष्टके शुभम् ॥ ९५ ॥

नाडिवश्यगणयोनितारकाशुद्धिमैत्रखगयोस्तथैकपम् ।

  जायते यदि षडष्टके तथा पुंस्त्रियोः खलु चिरायुषे भवेत् ॥ ९६ ॥

वृषकर्किमीनकन्यावृश्चिकमकराः स्वषष्ठसंयुक्ताः ।

  दंपत्योः प्रीतिकराः स्वाष्टमयुक्तास्तु मृतिकरास्तेऽपि ॥९७॥

मुकुन्दः–

मकरसकेसरिमेषयुवत्या तुलसहमीनकुलीरघटी च ।

 वृषधनवृश्चिकमन्मथयोगे मृत्युषडष्टकमरणवियोगः ॥ ९८ ॥

लक्ष्मीधरः–

ग्रहमैत्री मिथस्ताराशुद्धिर्नाडी च वश्यता ।

विरुद्धभे वरे दूरे प्रकर्तव्यः करग्रहः ॥ ९९ ॥

वराहमिहिरः–

वर्णो वश्यं तारा योनिग्रहगणभकूटनाडीभिः ।

पाणिग्रहणे प्रोक्तं यथोत्तरं तत्तु बलयुक्तम् ॥ १०० ॥

 न वर्णशुद्धिर्न गणो न योनिर्द्विर्द्वादशे चैव षडष्टकेऽपि ।

      वरेऽपि दूरे यदि वा त्रिकोणे मैत्री यदि स्याच्छुभदो विवाहः ॥ १ ॥

द्विर्द्वादशे वा नवपंचमे वा षडष्टके वापि वरेऽपि दूरे ।

    गणो न वर्णो नच योनिशुद्धिः स्यात्खेटमैत्र्यां शुभदो विवाहः ॥ २॥

नाडीविचारः–

दास्रर्क्षात्फणिचक्रे त्रिनाडिके नाडिकायोगः ।

दंपत्योर्ऋक्षाभ्यां नाडीयोगे विनिर्दिशेन्मरणम् ॥ ३ ॥

हारीतः–

द्वयंघ्रिभे त्र्यंघ्रिभे कन्या जाताया गणयेत्क्रमात् ।

वह्निभादिंदुभान्नाडी चतुः पंचसु पर्वसु ॥ १०४ ॥

हीनं षोडशभिर्भेदैर्मध्यमं तु गजेंदुभिः ।

   विंशत्यास्तु भवेदूर्ध्वं राशिकूटं शुभं भवेत् ॥ १०५ ॥

वृद्धगर्गः–

जांगले तु चतुर्माला पांचाले पंचमालिका ।

त्रिमाला सर्वदेशेषु विवाहेषु निजं मतम् ॥ १०६ ॥

मुकुंदः–

नाडीयोगे मरणं तद्वत्तु षडष्टके नूनम् ।

 जन्मर्क्षे वैधव्यं ग्रहवेधे चोभयं भवति ॥ १०७ ॥

एकेशत्वं खेटयोर्वानुकूल्यं

  यस्मिन्नार्याः प्राहुरिष्टं षडष्टे ॥ ९० ॥

षट्काष्टकेऽपि कर्तव्यं नृनार्योः पाणिपीडनम् ।

   अश्लेषामूलयोः सौम्यस्वात्योः श्रवणसौम्ययोः ॥९१॥

चित्राश्रवणयोश्चेति कैश्चित्प्रोक्तं चतुष्टयम् ।

गुर्वर्केशं कुजैकेशं प्रकर्तव्यं तदा बुधैः ॥ ९२ ॥

मित्रत्वे वश्यत्वे वैकेशत्वे च तारकामैत्र्याम् ।

       षट्काष्टकेऽपि कार्यो विवाह इति शौनकेनोक्तम् ॥ ९३ ॥

श्रीपतिः–

भवनपतिसुहृत्त्वं स्यात्तथैकाधिपत्यं

            यदि भवति न वशित्वं चैकषट्काष्टकेऽपि ।

शुभकृदिह विवाहोऽन्योन्यताराविशुद्धौ

               यदि खलु फणिचक्रे स्यान्न नाडी समाजः ॥ ९४ ॥

व्यवहारसारे–

मित्रता यदि भनाथयोर्द्वयोरेक एव यदि नायको द्वयोः ।

वश्यराशिरपि शुद्धतारका प्राहुरिष्टमषडष्टके शुभम् ॥ ९५ ॥

नाडिवश्यगणयोनितारकाशुद्धिमैत्रखगयोस्तथैकपम् ।

  जायते यदि षडष्टके तथा पुंस्त्रियोः खलु चिरायुषे भवेत् ॥ ९६ ॥

वृषकर्किमीनकन्यावृश्चिकमकराः स्वषष्ठसंयुक्ताः ।

  दंपत्योः प्रीतिकराः स्वाष्टमयुक्तास्तु मृतिकरास्तेऽपि ॥९७॥

मुकुन्दः–

मकरसकेसरिमेषयुवत्या तुलसहमीनकुलीरघटी च ।

 वृषधनवृश्चिकमन्मथयोगे मृत्युषडष्टकमरणवियोगः ॥ ९८ ॥

संपूज्य ज्यौतिषिकं पृच्छेदथ तेन शास्त्रतो दृष्टम् ।

प्रष्टा निमित्तलग्नादिभिः शुभाशुभफलं वाच्यम् ॥ ३ ॥

जातकनिमित्तशुद्धां शुभलक्षणलक्षितां कुलोद्भूताम् ।

वरयेत्सुतसौख्यार्थी यवीयसीं कन्यकामिष्टाम् ॥ ४ ॥

सुरभिकुसुमगंधैः पूजयित्वा द्विजेंद्रान्

     शुभतिथिकरणर्क्षेदैववित्संप्रदिष्टे ।

उभयकुलविशुद्धे ज्ञातिशीलस्वरूपे

           प्रथमवयसि दद्यात्कन्यकां यौवनस्थे ॥ ५ ॥

कुलं च शीलं च वपुर्वयश्च वित्तं च विद्या च सनाथता च ।

एते वरे सप्त गुणाः परीक्ष्य देया सुता शेषमचिंतनीयम् ॥ ६ ॥

ज्ञातिर्विद्या वयः शीलमारोग्यं बहुपुत्रता ।

अर्थित्वं वित्तसामर्थ्यमष्टावेते वरे गुणाः ॥ ७ ॥

दूरस्थानामविद्यानां मोक्षधर्मानुवर्तिनाम् ।

  शूराणां निर्धनानां च न देया कन्यका बुधैः ॥ ८ ।

नातिदूरे समीपे च नात्याढ्ये नातिदुर्बले ।

 वृत्तिहीने च मूर्खे च षट्सु कन्या न दीयते ॥ ९॥

पूर्वाश्रवणधनिष्ठामित्रानिलवह्निवैश्वदेवेषु ।

कुर्यात्कन्यावरणं वदंति केचिद्विवाहर्क्षे ॥ १० ॥

वपुः शीलं कुलं वित्तं वयो विद्या सनाथता ।

 एतानि यस्य विद्यते तस्मै देया निजा सुता ॥ ११ ॥

मूर्खनिर्धनदूरस्थशूरमोक्षाभिलाषिणाम् ।

 त्रिगुणाधिकवर्षाणां नापि देया च कन्यका ॥ १२ ॥

विवेकविलासग्रंथे–

धीधर्मचतुष्टयगैः सौम्यैः क्रूरैस्त्रिषष्टलाभगतैः ।

 उपचयसंस्थे च गुरौ कन्यावरणं प्रशंसति ॥ १३ ॥

धीधर्मकेंद्रेषु शुभैरशुभैस्त्रायारिगैर्गुरावुच्चे।

   शस्तं कन्यादानं शोभनलग्नादृते विवाहसमम् ॥ १४॥

श्रीपतिः–

कन्याप्रदानमाचायैर्विवाहसदृशं मतम् ।

 विना लग्नगुणैर्नाह वसिष्ठो नारदो मुनिः ॥ १५ ॥

सर्वसंमते–

अव्यंगेऽपतितेऽक्रूरे स्नाते स्नातामरोगिणीम् ।

    तत्कालोपस्थिते कन्यां पिता तुभ्यं प्रदास्यति ॥१५॥

कन्यर्क्षात्पंचमे जीवे नवमे सप्तमेऽर्थगे ।

  वामे च सुतसौख्याप्तिरायुरारोग्यसंपदः ॥ १७ ॥

गर्गः –

द्वादशदशमचतुर्थे जन्मनि षष्ठाष्टमे तृतीयेऽपि ।

प्राप्ता पाणिग्रहणं जीवे वैधव्यमाप्नोति ॥ १८ ॥

रवौ गुरौ वा विषमास्पदस्थे स्त्रियो विपर्यस्तफलं लभते ।

वराग्र्यलाभे च तथातिकाले पूजाभिषेकैः शुभदो विवाहः ॥ १९ ॥

मांडव्यः–

जन्मत्रिषष्ठदशमस्थगुरोः सुराणां

            कन्यर्क्षतः श्रुतिपुराणविधेस्तु कार्या ।

पूजांत्यरंध्रसुखभे १२\।८\।४ द्विगुणा विवाहे

               कालः स्मृतौ हि कथितो न हि लंघनीयः ॥ २० ॥



 कालात्ययान्मंडलभंगभीतेर्वरप्रलोभाद्व्ययवेश्मगो गुरुः ।

    शुभप्रदः स्याद्द्विगुणार्चितोऽसौ न चाष्टमो लक्षगुणैः प्रपूजितः

देवेज्यो यदि शुभदो वर्षे त्वेकादशे च कन्यायाः ।

    कथयति यदि वाऽशुद्धिं स भवति वै ब्रह्महा गणकः ॥ २२ ॥

वृद्धगर्गः–

यदा गुरुर्नैधनगो विवाहे सुखार्थलाभाय भवेद्वधूनाम् ।

   पूजा यदि स्यात्रिगुणा प्रदिष्टा प्रदानतौल्ये च विलग्नगेऽह्नि ॥ २३ ॥

सर्वसंमते–

व्ययत्रिदिग्बंधुमृतिस्थितोऽपि स्त्रियो धनास्तांकसुतायगैश्चेत्।

विद्धो ग्रहैर्देवपुरोहितश्च शुभप्रदश्चेति वसिष्ठ आह ॥ २४ ॥

विवाहं व्रतबंधं च कुर्यादन्दे सदाष्टमे ।

      अत ऊर्ध्वं न शस्तौ तौ तस्माच्छुद्धिरकारणम् ॥२५॥

इति श्रीशार्ङ्गीयसारसमुच्चये विवाहपटले वरणाध्यायो

द्वितीयः समाप्तः ॥ २ ॥

______________

॥ नानादोषदेशाचारनिर्णयाध्यायः ॥ ३ ॥

राशिकरणम्–

प्रत्यङ्मुखः सन्विविधैः फलैस्तामभ्यर्च्य तत्र श्रुतिमंत्रपाठैः ।

प्राचीदिगास्यां वरयेत्सुभूषां मंद्राद्यघोषैर्मनुवर्त्मनि स्थः ॥ १ ॥

आरुह्य राशिं शिवतंदुलानामन्योन्यवक्राभिविलोकनेन ।

कृत्वांजलिं पूर्णफलाक्षतैश्च पश्चाद्वरं पूर्वत एव कन्याम् ॥२॥

अतिचारविचारः–

वामदेवः–

सर्वे ग्रहा विकृतिनो दद्युः सांसृष्टिकं फलम् ।

अतिचारे च वक्रे च दद्यात्पूर्ण फलं गुरुः ॥ ३ ॥

विवा० २

विवेकविलासग्रंथे–

धीधर्मचतुष्टयगैः सौम्यैः क्रूरैस्त्रिषष्टलाभगतैः ।

 उपचयसंस्थे च गुरौ कन्यावरणं प्रशंसति ॥ १३ ॥

धीधर्मकेंद्रेषु शुभैरशुभैस्त्रायारिगैर्गुरावुच्चे।

   शस्तं कन्यादानं शोभनलग्नादृते विवाहसमम् ॥ १४॥

श्रीपतिः–

कन्याप्रदानमाचायैर्विवाहसदृशं मतम् ।

 विना लग्नगुणैर्नाह वसिष्ठो नारदो मुनिः ॥ १५ ॥

सर्वसंमते–

अव्यंगेऽपतितेऽक्रूरे स्नाते स्नातामरोगिणीम् ।

    तत्कालोपस्थिते कन्यां पिता तुभ्यं प्रदास्यति ॥१५॥

कन्यर्क्षात्पंचमे जीवे नवमे सप्तमेऽर्थगे ।

  वामे च सुतसौख्याप्तिरायुरारोग्यसंपदः ॥ १७ ॥

गर्गः –

द्वादशदशमचतुर्थे जन्मनि षष्ठाष्टमे तृतीयेऽपि ।

प्राप्ता पाणिग्रहणं जीवे वैधव्यमाप्नोति ॥ १८ ॥

रवौ गुरौ वा विषमास्पदस्थे स्त्रियो विपर्यस्तफलं लभते ।

वराग्र्यलाभे च तथातिकाले पूजाभिषेकैः शुभदो विवाहः ॥ १९ ॥

मांडव्यः–

जन्मत्रिषष्ठदशमस्थगुरोः सुराणां

            कन्यर्क्षतः श्रुतिपुराणविधेस्तु कार्या ।

पूजांत्यरंध्रसुखभे १२\।८\।४ द्विगुणा विवाहे

               कालः स्मृतौ हि कथितो न हि लंघनीयः ॥ २० ॥

लत्ता सुराष्ट्रविषये परिवर्जनीया

** हूणे खशे च परिवर्ज्य उपग्रहः स्यात् ॥ १२ ॥**

वराहः–

तारावलं माधवमाथुरीया वदंति तारेंदुफलं सुमद्राः ।

** सौराष्ट्रिकाः पश्चिमदिक्स्थिताश्च सोमार्कताराप्रभवं वदंति ॥ १३ ॥**

श्रीपतिः–

विरुद्धयोगास्तिथिवारजाता नक्षत्रवारप्रभवाश्च ये

स्युः ।

** हूणेषु वंगेषु खशेषु वर्ज्याः शेषेषु देशेषु न ते निषिद्धाः ॥ १४॥**

नक्षत्रवारजा योगास्तिथिवारोद्भवाश्च ये ।

** हूणवंगखशेष्वेव वर्जनीयाः सदा बुधैः ॥ १५ ॥**

पाराशरः–

वारर्क्षतिथियोगेषु यात्रामेव च वर्जयेत् ।

** विवाहादीनि वै कुर्यात् गर्गादीनामिदं मतम् ॥ १६॥**

वसिष्ठः–

** ग्रहर्क्षयोगास्तिथिवारयोगाः शुभाशुभा ये कथिताः प्रभूताः ।**

** वंगेषु ते प्रोक्तफला भवंति नान्येषु देशेषु विचिंतनीयाः ॥ १७ ॥**

वराहः–

तिथ्युडुदिनपतिजाता दोषास्त्याज्यास्तु, हूणखशवंगे ।

तेऽपि शुभाशुभफलदा न भवत्यन्येषु विषयेषु ॥ १८ ॥

त्यज॑त्येकार्गलं योगमाद्यं पादमथापरे ।

** पादवेधं त्यज॑त्यन्ये काश्मीरादिषु चापरे ॥ १९ ॥**

सर्वदेशे भवेधं तु लत्तां मालबके त्यजेत् ।

** एकार्गलं तु सौराष्ट्रे पातं कौसलके त्यजेत् ॥ २० ॥**

लत्तां मागधके देशे पातं कौसलके तथा ।

** एकार्गलं तु काश्मीरे वेधं सर्वत्र वर्जयेत् ॥ २१ ॥**

वामदेवः–

त्यजंत्येकार्गलं दोषं काश्मीरेषु क्वचिज्जनाः ।

** हूणे वंगे कलिंगाख्ये ब्रह्मदंडादिकांस्त्यजेत् ॥ २२ ॥**

सत्यसूरिः–

उपग्रहेषु ये योगाः कथिताः सूर्यभानुधैः ।

** सर्वांस्तान्वर्जयेन्नित्यं खशे वंगे च नान्यतः ॥ २३ ॥**

सौराष्ट्रसाल्वेषु च लत्तिकं भं कलिंगबंगेषु च पातितं भम् ।

उपग्रहाख्यं कुरुबाह्निकेषु त्यजेच्च सर्वत्र सवेधमृक्षम् \।\।२४\।\।

वसिष्ठः–

लत्ता जालंधरे प्रोक्ता पातश्चैव तु कौसले \।

** एकार्गलं तु काश्मीरे वेधं सर्वत्र वर्जयेत् ॥ २५ ॥**

लक्ष्मीधरः–

लत्तापाताविमौ योगौ विवर्ज्यौ मागधे जने ।

** नान्यदेशे मुनिः प्राह वसिष्ठो भगवान्स्वयम् ॥ २६ ॥**

शक्तिः–

कंटकं कालवेलां च त्यजेद्वर्बरमालवे ।

** उपग्रहं त्यजेदूंगे बाह्निके पंचपंचकम् ॥ २७ ॥**

वेधभंगः–

** लग्ने गुरुः सौम्ययुतेक्षितो वा लग्नाधिनाथो भवगस्तथा वा ।**

** कालाख्यहोरा च यदा शुभस्य भवेधदोषस्य तदा हि भंगः ॥ २८ ॥**

ये लग्नदोषाः कुनवांशदोषाः पापैर्युता दृष्टिनिपातदोषाः ।

** लग्ने गुरुस्तान् विमलीकरोति फलं यथांभः कतकद्रुमस्य ॥ २९ ॥**

कुलधर्मदेशाचारविचारः ।

वामदेवः–

कुले देशे च ये धर्मा न ते शास्त्रदृशा विदा ।

 समुल्लंध्याविवाहादौ स्त्रीवाक्यं न तु लंघयेत् ॥३०॥

श्रीपतिः–

न शास्त्रदृष्ट्या विदुषा कदाचिदुल्लंघनीयाः कुलदेशधर्माः ।

 तेषां हि मूलं च्युतवेदशाखा भूयो न धर्मस्थितिभंगदोषात् ॥ ३१ ॥

शास्त्रस्वरूपं बहवोऽप्यबुध्वा वदंति यच्चानुमतं हितं नः ।

देशं गतो ह्येकविलोचनानां निमील्य नेत्रं निवसेन्मनीषी ॥ ३२ ॥

वराहः–

देशाचारस्तावदादौ विचिंत्यो देशे देशे या स्थितिः सैव कार्या ।

लोके दुष्टं पंडिता वर्जयति दैवज्ञोऽसौ लोकमार्गेण यायात् ॥ ३३ ॥

देशे देशे य आचारः स्थाने स्थाने च या स्थितिः ।

तथैव व्यवहर्तव्यं पारंपर्यात्कुले कुले ॥ ३४ ॥

इति श्रीशार्ङ्गीयसारसमुच्चये विवाहपटले नानादोष-

देशाचारनिर्णयाख्यस्तृतीयोऽध्यायः ॥ ३ ॥

_______________

चंद्रताराबलाध्यायः ॥ ४ ॥

पाणिग्रहं न शंसंति दंपत्योरष्टमे विधौ ।

द्वादशे वा यतस्तत्र मृत्युरर्थक्षयस्तयोः ॥ १ ॥

   यत्र गोचरफलप्रमाणता तत्र वेधफलमिष्यते न वा ।

        प्रायशो न बहुसंमतं त्विदं स्थूलमार्गफलदो हि गोचरः ॥२॥

पक्षादिंदुबलं प्रोक्तं यात्रायुद्धादिकर्मणि ।

मुख्यं चन्द्रबलं प्रोक्तं विवाहे शुभकर्मणि ॥ ३ ॥

लत्तां मागधके देशे पातं कौसलके तथा ।

** एकार्गलं तु काश्मीरे वेधं सर्वत्र वर्जयेत् ॥ २१ ॥**

वामदेवः–

त्यजंत्येकार्गलं दोषं काश्मीरेषु क्वचिज्जनाः ।

** हूणे वंगे कलिंगाख्ये ब्रह्मदंडादिकांस्त्यजेत् ॥ २२ ॥**

सत्यसूरिः–

उपग्रहेषु ये योगाः कथिताः सूर्यभानुधैः ।

** सर्वांस्तान्वर्जयेन्नित्यं खशे वंगे च नान्यतः ॥ २३ ॥**

सौराष्ट्रसाल्वेषु च लत्तिकं भं कलिंगबंगेषु च पातितं भम् ।

उपग्रहाख्यं कुरुबाह्निकेषु त्यजेच्च सर्वत्र सवेधमृक्षम् \।\।२४\।\।

वसिष्ठः–

लत्ता जालंधरे प्रोक्ता पातश्चैव तु कौसले \।

** एकार्गलं तु काश्मीरे वेधं सर्वत्र वर्जयेत् ॥ २५ ॥**

लक्ष्मीधरः–

लत्तापाताविमौ योगौ विवर्ज्यौ मागधे जने ।

** नान्यदेशे मुनिः प्राह वसिष्ठो भगवान्स्वयम् ॥ २६ ॥**

शक्तिः–

कंटकं कालवेलां च त्यजेद्वर्बरमालवे ।

** उपग्रहं त्यजेदूंगे बाह्निके पंचपंचकम् ॥ २७ ॥**

वेधभंगः–

** लग्ने गुरुः सौम्ययुतेक्षितो वा लग्नाधिनाथो भवगस्तथा वा ।**

** कालाख्यहोरा च यदा शुभस्य भवेधदोषस्य तदा हि भंगः ॥ २८ ॥**

ये लग्नदोषाः कुनवांशदोषाः पापैर्युता दृष्टिनिपातदोषाः ।

** लग्ने गुरुस्तान् विमलीकरोति फलं यथांभः कतकद्रुमस्य ॥ २९ ॥**

स्त्रीणां चंद्रबलं योज्यं ताराबलसमन्वितम् \।

नाधिकारो नराणां च विवाहे गर्भशोधने ॥ १३ ॥

मांडव्यः–

जन्मलग्ने तथांत्ये च मृत्युः सुहृदमानवैः ।

   विवाहो नैव कर्तव्यो दंपत्योर्हितमिच्छुभिः ॥ १४ ॥

जन्मलग्ने भवेन्मृत्युरंत्यादिषु यथक्रमम् ।

   हानिर्मृत्युस्तथा शोक इति मांडव्यशासनम् ॥ १५ ॥

 पाणिपीडनविधेरनंतरं भर्तुरेव बलमैदवादिकम् ।

        पाणिपीडनविधौ निरीक्षयेत्कन्यकासु बलमैंदवं ध्रुवम् ॥ १६॥

        आधाने संप्रदाने च विवाहे गर्भशोधने ।

स्त्रीणां चंद्रबलं योज्यं न तत्पुंसां कदाचन ॥ १७ ॥

        अर्वाग्विवाहकालाच्च पितुश्चंद्रबलं स्मृतम् ।

स्त्रीणां विवाहे सीमंते ग्राह्यमन्यत्र तत्पतेः ॥ १८ ॥

पुंसो न भवनदोषो न चंद्रताराबलं च परियोज्यम् ।

 आपरिणयनाद्यस्मात्प्राधान्यं नास्ति पुरुषस्य ॥ १९ ॥

इति श्रीशार्ङ्गीयसारसमुच्चये विवाहपटले चंद्रतारा-

बलाध्यायश्चतुर्थः ॥ ४ ॥

______________

चंद्रयोगाध्यायः ॥ ५ ॥

रविणा दारिद्रवती कुजेन विधवा बुधे च सुतहीना ।

दौर्भाग्यवतीज्ययुते चंद्रे शुक्रेण सह संपन्ना ॥ १ ॥

शनिना प्रव्रजिता स्यात्तमसा परनररता च शिखियुक्ते ।

कापालिनीति केचिद्वदंति शुभमिंदुजेज्ययुते ॥ २ ॥

वामदेवः–

 क्रूरखेचरसमन्विते विधौ पीडितं सकलमृक्षमुच्यते ।

     तप्तलोहमुदके निवेशितं तापयेन्न खलु किंतु वार्यपि ॥ ३ ॥

द्व्याद्यैः क्रूरैर्मृत्युः प्रव्रजिता स्याच्छुभग्रहैः कन्या ।

यस्मात्तस्माच्चंद्र लग्ने ग्रहवर्जितः श्रेयान् ॥ ४ ॥

हरिदेवः–

द्विखेटसंयुते मृतिः कुलक्षयस्त्रिपूर्वके ।

निपीडितो भवेद्युतौ ग्रहप्रयोगतः शशी ॥ ५ ॥

श्रीपतिः–

न कुर्वीतास्तगे चंद्रे दुःस्थिते जन्मराशितः ।

क्रूरग्रहयुते तद्वन्मंगलान्यखिलान्यपि ॥ ६ ॥

एकर्क्षफलांशगतो यथोक्तफलदः शशी ग्रहवशेन ।

अन्यर्क्षगतः स्वप्ने मनसापि न भावनां कुरुते ॥ ७ ॥

सत्यसूरिः–

अन्यर्थेऽन्यगृहे वा कुजबुधगुरुशुक्रसौरिभिः सार्धम् ।

न भवति दोषाय शशी प्रदक्षिणं याति यदि चैषाम् ॥ ८ ॥

भोजदेवः–

भवंति कालार्धविभागभाजां योगा यथा प्रोक्तफला ग्रहाणाम् ।

अप्राप्त्यतिक्रांतमतः पुनस्ते पाणिग्रहे तेऽप्यफला भवंति ॥९॥

शौनकः–

  योगा यथोक्तफलदाः सकलार्धभागौकसंयुतानां तु ।

अप्राप्तातीतानामिच्छामात्रं फलं धत्ते ॥ १० ॥

यथोक्तफलदा योगाः समयार्धविभागिनाम् ।

  ग्रहाणां तेऽल्पफलदा गतैष्यसमयस्थिताम् ॥ ११॥ (?)

ग्रहाहवे सूर्यविधूपमर्दे शृंगाटके धूमशिखोद्गमे च ।

  उपप्लवः पाणिभचक्रसंधिः प्राप्ते च पापांतरगे च चंद्रे ॥ १२॥

इति श्रीशार्ङ्गीयसारसमुच्चये विवाहपटले चंद्रयोगाध्यायः पंचमः संपूर्णः ॥ ५ ॥

________________

जामित्रविचाराध्यायः ॥ ६ ॥

सप्तर्षयः–

प्राग्लग्नाच्चंद्राद्वा सर्वे जामित्रगा न शुभदाः स्युः ।

तत्रापि केचिदूचुः शुभग्रहा नातिकष्टफलाः ॥ १ ॥

लग्नात्कलत्रगेऽर्के विधवा, चंद्रे सपत्निसंयुक्ता ।

वंध्योपघातसहिता, भौमे सौम्ये प्रजाहीना ॥ २ ॥

जीवे दौर्भाग्यवती, सुभगाऽन्यमते, भृगौ भवेद्वेश्या ।

  मंदे त्वनेकगर्भच्युतिर्भवति (?) दुःखान्विता नारी ॥ ३ ॥

श्रीपतिः –

सूर्ये जामित्रगे चंद्रात्प्रमदा भर्तृवर्जिता ।

भवेद्दुश्चारिणी भौमे सोमपुत्रे पतिव्रता ॥ ४ ॥

मानार्थापत्यसौभाग्यसतीत्वैः संयुता गुरौ ।

 सापत्न्यकवती शुक्रे दुर्भगा विसुताऽर्कजे ॥ ५ ॥

द्वौ ग्रहौयदि जामित्रे क्रूरौ सौम्यौ च संस्थितौ ।

 अब्दत्रयेण दारिद्र्यं कन्या प्राप्नोति दारुणम् ॥ ६ ॥

लग्नेंदुसंयुतादंशात्पंचपंचाशदंशके ।

    ग्रहोऽन्यो यद्यसौ दोषो न गुणैरपि हन्यते ॥ ७ ॥

लग्नाच्छशांकाच्च तदैष्यमंशाद्यूनस्थखेटा गतवांशकाद्याः (?)
शराब्धियुक्तायुगबाणसंख्या जामित्रगं तत्परमं विवर्ज्यम् ॥ ८ ॥

हरिदेवः–

जामित्रगाद्भगनगाद्धरिजं विधुं वा

    शोध्यं कलीकृतमथांबरखाश्वि २०० भक्तम् ।

लब्धाश्च ते नवलवा यदि वेदवाणा

  भागे ग्रहो गुणशतं हरिजं विवर्ज्यम् ॥ ९ ॥

यस्मिन्नवांशोपगतः शशांकस्तस्माच्छरप्राणनवांशकेऽन्यः ।

ग्रहः स्थितस्तज्जनितस्तु दोषो हर्तुं न शक्यो हि गुणैरनेकैः ॥

हरिजदिवसचंद्रात्सप्तमः क्रूरदोष-

             क्षयकृदमरपूज्यः सोमपुत्रः सितो वा ।

उदयहिबुकधर्मव्योमपुत्रालयस्थो

              यदि च सकलदृष्ट्या लोकयन् शीतरश्मिम् ॥ ११ ॥

श्रीपतिः–

चंद्रजामित्रगः क्रूरदोषघ्नो ज्ञोंऽगिराः सितः ।

धीधर्मखांबुलग्नस्थः पश्यन् पुष्टदृशा विधुम् ॥ १२॥

सप्तर्षयः–

शशिजो जामित्रस्थः क्रूरग्रहजनितदोषमपहंति ।

जीवः सौम्योऽपि भृगुस्त्रिकोणकेंद्राश्रितः पश्यन् ॥ १३ ॥

वामदेवः–

सुखत्रिकोणांबरपूर्वलग्नेष्वनीचगाश्चास्तभमत्रपश्यन् ।

जीवः सितो वा शशिजस्तदानीं जामित्रराशिं प्रवदंत्यनिष्टम्

वर्गोत्तमस्थः स्वगृहोच्चसंस्थ-

स्तदंशके वेज्यसितेंदुजानाम् ।

एकोऽप्यमीषां शुभभागगो वा

  दृष्ट्वास्तभं तद्दुरितानि हन्यात् ॥ १५ ॥

बृहस्पतिः-

जामित्रं न प्रशंसंति गर्गकाश्यपदेवलाः ।

   आयशत्रुतृतीये व धनधान्यप्रदो रविः ॥ १६ ॥

वृद्धपाराशरो मुक्तावल्यां वृद्धगर्गश्च—

यन्महाक्रूरजामित्रदोषोद्भवं ।………..।

** ……………………………………………….**

क्रूरजामित्रदोष, नाशयेत्सौम्यजीवास्फुजिल्लग्नपातालगा…..

क्रूरजामित्रगं क्रूरलत्ताहतं…………………………………………

दोषान्सहस्रान्विनिर्हति शुक्रः…………. ॥ १७ ॥

मुक्तावल्याम्–

बुधोऽशीतिशतं जीवः सविंशतिशतं सितः ।

 दोषानेते विनिघ्नंति स्वोच्चस्था बलिनो यदि ॥ १८ ॥

सप्तर्षयः–

एकार्गलोपग्रहपातलत्ताजामित्रकर्तर्युदयादिदोषाः ।

लग्नेऽर्कचंद्रेज्यबले विनश्यंत्योदये यद्वदहो तमांसि ॥१९॥

इति श्रीशार्ङ्गीयसारसमुच्चये विवाहपटले जामित्रवि-

चाराध्यायः समाप्तः ॥ ६ ॥

………………………

कर्तरीविचाराध्यायः ॥ ७ ॥

वराहः–

द्वयोश्च पापयोर्मध्ये यदा लग्नं भविष्यति ।

 तदा मृत्युं विजानीयात्पंचमेऽब्दे न संशयः ॥ १ ॥

यवनः–

यापद्वयमध्यगतं चंद्रं लग्नं च वर्जयेद्यत्नात् ।

   परिणयने वनितानां शतगुणमपि मृत्यवे पुंसाम् ॥२॥

लक्ष्मीधरः–

क्रूरांतस्थो यदा चंद्रो लग्नं वा यदि युज्यते ।

 शुभेनांतस्थितो न स्याद्यदि साम्यं न सेवते ॥ ३ ॥

क्रूरमध्यगतलग्नचंद्रयोः सौम्यता यदि न कर्तरी भवेत् ।

केचिदूचुरशुभां न कर्तरीं सौम्यखेटयुगमध्यगौ यदि ॥ ४ ॥

यवनः–

विधोर्धनोपगे शुभग्रहेऽथवांत्यगे गुरौ ।

न कर्तरी भवत्यहो जगाद बादरायणः ॥ ५ ॥

बभ्रुः–

क्रूरद्वयस्यांतरगं भवेत्तनु मृतिप्रदं चंद्रमसं च रोगदम् ।

    शुभैर्धनस्थैरथवांत्यगे गुरौ न कर्तरी स्यादिह भार्गवा विदुः ॥ ६ ॥

मुकुंदः–

लग्नाद्विर्द्वादशे क्रूरौ तुल्यभागत्रयस्थितौ ।

तदा कर्तरिजं दोषमन्यथा भावजं फलम् ॥ ९ ॥

श्रीपतिः–

सौम्यग्रहैः शशांकात्केंद्रगतैः सुखवती योषित् ।

पाणिग्रहणमवाप्ता क्रूरैरपि कामदुःखार्ता ॥ १० ॥

गर्गः –

पापैकयुक्ते ग्रहपापविद्धे मध्ये च पापग्रहयोः शशांके ।

अब्दैकमध्ये मरणं वरस्य शुभं च जीवज्ञसितेक्षिते च ॥ ११ ॥

इति श्रीशार्ङ्गीयसारसमुच्चये विवाहपटले कर्तरी-

विचाराध्यायः ॥ ७ ॥

_______________

अथ पंचांगशुच्याध्यायः ॥ ८ ॥

अस्तादिनिषेधः–

क्षयमासे दिनपाते धनुषि रवौ भानुलंघिते मासि ।

चत्रिणि सुप्ते कुर्यान्मांगल्यं नो कवीज्यशशिलोपे ॥ १ ॥

असंक्रांतिमासोऽधिमासः स्फुटः स्या-

       द्विसंक्रांतिमासः क्षयाख्यः कदाचित् ।

क्षयः कार्तिकादित्रये नान्यथा स्या-

            त्तदा वर्षमध्येऽधिमासद्वयं स्यात् ॥ २ ॥

व्रतचौलसुरस्थापनपरिणयनानलगृहालयनिवेशाः ।

भूपाभिषेकयात्रात्रतादि याम्यायनेऽशस्तम् ॥ ३ ॥

गुरुशुक्रास्तविचारः–

विवाहो व्रतबंधो वा यात्रा वा गृहकर्म च ।

गुरावस्तमिते शुक्रे ध्रुवं मृत्युं विनिर्दिशेत् ॥ ४ ॥

नष्टे सुरेज्ये पुरुषस्य नाशः कन्याविनाशो भृगुनंदने स्यात् ।

चंद्रे प्रणष्टे द्युभयोर्विनाशो भौमेऽष्टमस्थानगते च लग्नात् ॥५॥

बाल्यवार्धक्यविचारः–

अस्तमितौ गुरुशुक्रौ बालौ वृद्धौ च वर्जयेद्यत्नात् ।

बालत्वं वृद्धत्वं सप्तदिनान्तं मुनिभिरुक्तम् ॥ ६ ॥

ज्येष्ठे माघे फाल्गुने मार्गशीर्षे

       वैशाखे वा मंगलाप्त्यैविवाहः ।

त्यक्त्वा मासौ हीनसंज्ञाधिकाख्यौ

           ज्येष्ठं मासं ज्येष्ठयोः पुंस्त्रियोश्च ॥ ७ ॥

त्रिज्येष्ठविचारः–

न ज्येष्ठे ज्येष्ठयोः कार्यं नृनार्योःपाणिपीडनम् ।

तयोरन्यतरे ज्येष्ठे ज्येष्ठमासेऽपि कारयेत् ॥ ८ ॥

शुक्लादितिथिद्वितयं त्याज्यं कृष्णे च पंचतिथयोऽन्त्याः ।

    अष्टांशी निंद्याह्नो योगाद्यो भतिथिसंधिश्च ॥ ९ ॥

कन्यावरौ यदि ज्येष्ठौ तयोरेकस्य ज्येष्ठभम् ।

ज्येष्ठाख्यं चेत्तदा ज्येष्ठे मास्युद्वाहस्तयोः शुभः ॥१०॥

वाल्यं वार्द्ध्यं जीवशुक्रोडुपानामस्तं चान्यत्संगमं च ग्रहाणाम् ।

हित्वा तारां सप्तपंचत्रिसंस्थामादेष्टव्यं लग्नमेवं विधिज्ञैः ॥११

वार्धक्यमार्यास्त्रयहमामनंति बालत्वमिदोश्च तथा निशैकम् ।

सुरासुरेज्यौ हि शुभे विवर्ज्यौ सप्ताहमेवं शिशुवृद्धयोश्च १२

वाले व वार्धके तद्वदृतुदर्शनजातके ।

   द्वादशान्नप्राशने च न मौढ्यं गुरुशुक्रयोः ॥ १३ ॥

नित्ययाने गृहे जीर्णे परिधानेऽन्नप्राशने ।

  वधूप्रवेशमांगल्ये न मौढ्यं गुरुशुक्रयोः ॥ १४ ॥

शुक्रेज्यावस्तौ त्याज्यौ विवाहे मरणप्रदौ ।

    बालवृद्धौ तु सप्ताहं निशैकं त्रिदिनं शशी ॥ १५ ॥

मीनस्थेऽर्के जीवे सिंहस्थे वर्जयेत्करग्रहणम् ।

 चंद्रार्कग्रहणोत्पातदर्शने सप्तदिवस च ॥ १६ ॥

सिंहस्थापवादः–

नीचर्क्षस्थे वाक्पतौ शत्रुभे वा

      जन्माधीशे नीचगे सूर्यगे वा ।

स्यादुद्वाहो दुःखशोकाय नूनं

           पित्र्यर्क्षस्थे वाक्पतौ स्याद्व्यसुत्वम् ॥ १७ ॥

सप्तर्षयः–

गोदावर्युत्तरतो यावद्भागीरथीतटं याम्यम् ।

तत्र विवाहो नेष्टः सिंहस्थे देवपतिपूज्ये ॥ १८ ॥

पितृभे यदि सुरपूज्यो नीचर्क्षेवाथवाऽरिराशिस्थे ।

कन्योढा वैधव्यं प्रयाति संवत्सरैः षड्भिः॥ १९ ॥

लल्लः–

गौतमीजाह्नवीमध्ये नोद्वाहो जायते तदा ।

 अन्यत्रेष्टप्रदः प्रोक्तो जीवे सिंहस्थिते सदा ॥ २० ॥

पराशरः–

सिंहस्थो देवपूज्यो न भवति शुभदः सर्वमांगल्यकार्ये

यावत्पित्र्ये समग्रे विचरति हि तथा चाद्यभागे च भाग्ये ।

शेषाः सिंहस्य पादाः सुतसुखशुभदा गौतमीजाह्नवीये

तीरे याम्ये च सौम्ये भवति विधनता गंगयोर्मध्यदेशे ॥ २१ ॥

भागीरथ्युत्तरे तीरे गोदावर्याश्च दक्षिणे ।

   विवाहो व्रतबंधो वा सिंहस्थेज्ये न दुष्यति ॥ २२ ॥

सप्तर्षयः–

मीनस्थे पद्मिनीमित्रे सिंहस्थे सुरमंत्रिणि ।

    विवाहोपनयौ शस्तौ विंध्यस्योत्तरवासिनाम् ॥ २३ ॥

सिंहस्थितेनापि सुरेंद्रमंत्रिणा विवाहयज्ञोत्सवमंगलादीन् ।

कुर्वीत सिंहांशमतीत्य याम्यदेशेष्वशेषेष्वपि नर्मदायाः ॥ २४ ॥

   सिंहस्थिते देवगुरौ न कुर्याद्विवाहचौलव्रतदीक्षणादीन् ।

 यात्राप्रतिष्ठाऋतुवास्तुपूजा धनुः स्थितेऽर्के झषगे च तद्वत् ॥ २५ ॥

वैधव्यं तु विवाहेषु जडत्वं व्रतबंधने ।

    चूडायां च शिशोर्मृत्युः प्रवेशे च ध्रुवं क्षयः ॥ २६ ॥

त्रिज्येष्ठविचारः–

न ज्येष्ठे ज्येष्ठयोः कार्यं नृनार्योःपाणिपीडनम् ।

तयोरन्यतरे ज्येष्ठे ज्येष्ठमासेऽपि कारयेत् ॥ ८ ॥

शुक्लादितिथिद्वितयं त्याज्यं कृष्णे च पंचतिथयोऽन्त्याः ।

    अष्टांशी निंद्याह्नो योगाद्यो भतिथिसंधिश्च ॥ ९ ॥

कन्यावरौ यदि ज्येष्ठौ तयोरेकस्य ज्येष्ठभम् ।

ज्येष्ठाख्यं चेत्तदा ज्येष्ठे मास्युद्वाहस्तयोः शुभः ॥१०॥

वाल्यं वार्द्ध्यं जीवशुक्रोडुपानामस्तं चान्यत्संगमं च ग्रहाणाम् ।

हित्वा तारां सप्तपंचत्रिसंस्थामादेष्टव्यं लग्नमेवं विधिज्ञैः ॥११

वार्धक्यमार्यास्त्रयहमामनंति बालत्वमिदोश्च तथा निशैकम् ।

सुरासुरेज्यौ हि शुभे विवर्ज्यौ सप्ताहमेवं शिशुवृद्धयोश्च १२

वाले व वार्धके तद्वदृतुदर्शनजातके ।

   द्वादशान्नप्राशने च न मौढ्यं गुरुशुक्रयोः ॥ १३ ॥

नित्ययाने गृहे जीर्णे परिधानेऽन्नप्राशने ।

  वधूप्रवेशमांगल्ये न मौढ्यं गुरुशुक्रयोः ॥ १४ ॥

शुक्रेज्यावस्तौ त्याज्यौ विवाहे मरणप्रदौ ।

    बालवृद्धौ तु सप्ताहं निशैकं त्रिदिनं शशी ॥ १५ ॥

मीनस्थेऽर्के जीवे सिंहस्थे वर्जयेत्करग्रहणम् ।

 चंद्रार्कग्रहणोत्पातदर्शने सप्तदिवस च ॥ १६ ॥

सिंहस्थापवादः–

नीचर्क्षस्थे वाक्पतौ शत्रुभे वा

      जन्माधीशे नीचगे सूर्यगे वा ।

स्यादुद्वाहो दुःखशोकाय नूनं

           पित्र्यर्क्षस्थे वाक्पतौ स्याद्व्यसुत्वम् ॥ १७ ॥

संक्रांतिनिषेधः–

स्यात्संधिकालश्च समादिभोगा-

         स्थित्यर्धतस्त्रिंशतिमो विभागः ।

संक्रांतिकालोभयतस्तु तज्ज्ञै-

               स्त्याज्याः सदा षोडश एव नाड्यः ॥ ३८ ॥

अर्वाक षोडशनाढ्यः संक्रांतेः पुण्यदा हि परतश्च ।

दानादौ व्रतयात्रापरिणयनादौ विवर्ज्यास्ताः ॥ ३९ ॥

कुलिकादि–

तिथ्यंशैर्मन्वर्कदिशाष्टांगाब्धियमैरवेः

कुलिकाः ।

     व्यकैर्निशियुगनगयमशराष्टरामर्तवोऽर्धयामाः स्युः ॥ ४० ॥

     दिवा द्वितीये कुलिकोऽर्कजस्य रात्रौ प्रदिष्टः प्रथमः स एव ।

       रात्रेः स्थितः पंचदशे विभागे एवं विवर्ज्यं कुलिकत्रयं च ॥ ४१ ॥

रविवारादि ये प्रोक्ता मुनिभिः कुलिकाः क्षणे ।

तेऽपीह शुक्रवारादि तत्रोपकुलिकाः स्मृताः ॥ ४२ ॥

    द्युवारतो जीवशनैश्चरांतं संख्या भवेत्सा द्विगुणा तु कार्या ।

     तत्संख्यके रूपलवेऽह्नि रात्रौ व्येके च केचित्कुलिकं वदंति ॥

“यद्युचरास्तेषां येऽपि दिवा यथोक्तास्तथैव ते रात्रौ ।

 कालः कुलिको ज्ञेयः सरोजशंखोक्तवेलायाम् ॥ ४४ ॥

     शंखोत्तरार्धाभ्युदये तु वारं त्यजेत्सदा तं कुलिकस्य कालम् ।

     न चांद्रपद्मं परिहार्यमार्या जगुरु....................... ॥ ४५ ॥'' ?

अर्धयामादि त्रिविक्रमः –

अर्धयामो द्वितीयादि दिवा त्याज्यः सदा बुधैः ।

अर्वाक् त्रिंशत्पलान्येव ह्यर्धयामे त्यजेत्सदा ॥ ४६ ॥

             विवा० ३

विष्टिस्तु सर्वदा त्याज्या क्रमेणैवागता तु या ।

अक्रमेणागता विष्टिः सर्वकार्येषु शोभना ॥ ४७ ॥

रात्रिभद्रा यदाह्निस्यादहर्भद्रा यदा निशि ।

तदा सर्वेषु कार्येषु ऋषिभिः शुभदा मता ॥ ४८ ॥

पक्षः समस्तोऽपि शुभः सितोंऽत्यं

      हित्वा त्रिभागं बहुलोऽपि शस्तः ।

षष्ठ्यष्टमीरिक्ततिथीश्च जह्यान्,

        मार्तंडसंक्रांत्ययनर्तुसंधीन् ॥ ४९ ॥

चंद्रबिंबांतरमध्यमार्गाद्यावत्परिक्रामति सोऽस्य कालः ।

यातो यथा स्यादथवा भविष्यस्तावत्फलं ...................॥ ५० ॥

व्यतीपातादि–

व्यतिपातहतं दिनत्रयं व्यतिपातेन समं च वैधृतम् ।

  तंदपि स्फुटपातदर्शने द्विगुणं तं यदि वा न निश्चितम् ॥५१॥

एष्योधनं क्षपयति व्यतिपातयोगो

       मृत्युं करोति न चिरादपि वर्तमानः ॥

संतापशोकवधबंधभयान्यतीत-

             स्तस्माद्दिनत्रयमपि प्रजहीत मर्त्यः ॥ ५२ ॥

विषप्रदग्धेन हतस्य पत्रिणा मृगस्य मांसं च शुभं क्षतादृते ।

यथा तथैव व्यतिपातयोगे क्षणोऽत्र दुष्टो न तिथिर्न वारः ॥

व्याघाते हर्पणे वज्रे विष्कम्भे वैधृते तथा ।

 ऐंद्रे सूर्येद्वपक्रांतिसाम्ये पातस्य संभवः ॥ ५४ ॥

सूर्योदये यथा तारा विनश्यंति समंततः ।

सलिलेन यथा वह्निर्लग्नं वृद्धिक्षये तिथौ ॥ ५५ ॥

त्र्यहस्पृशं नाम यदेतदुक्तमत्र प्रयत्नात्कृतिभिस्तु तज्ज्ञैः ।

विवाहयात्राशुभपुष्टिकर्म सर्वं न कार्यं त्रिदिनस्पृशे तु ॥ ५६ ॥

मंगलमध्ये मातूरजसि –

विवाहोत्सवकार्येषु माता चैव रजस्वला ।

    वैधव्यं जायते तत्र नृनार्योः पाणिपीडने ॥ ५७ ॥

वधूवरे त्वन्यतरं जननी चेद्रजस्वला ।

      तस्याः शुद्धेः परं कार्यं मांगल्यं गुरुरब्रवीत् ॥ ५८ ॥

ज्वरादिव्याधौ पराशरः–

न देयं ज्वरिणे लग्नं तेन तत्रैव कारयेत् ।

   संपूर्णे तु बले प्राप्ते स्वस्थो धर्मं समाचरेत् ॥ ५९ ॥

वृद्धमांडव्यः–

ज्वरस्योत्पादनं यस्य लग्नं तस्य न कारयेत् ।

दोषापगमनात्पश्चात्स्वस्थो धर्मं समाचरेत् ॥ ६० ॥

भद्रार्धयामकुलिकव्यतिपातो वैधृतं च परिघार्धम् ।

क्रांतिसमत्वं जह्यात्संक्रांतिं क्षयदिनं पित्रोः ॥ ६१ ॥

विवाहनक्षत्राणि नक्षत्रविचारश्च–

हस्तोत्तरास्वातिमघानुराधाप्रजेशमूलेंदुभरेवतीषु ।

   ऊढा तु सौभाग्यसुखानि कन्या प्राप्नोति शेषेष्वपि भर्तृशोकम्

नक्षत्रशुद्धिपूर्वं लग्नं शंसति सर्वकार्येषु ।

   अविशुद्धर्क्षं लग्नं ग्रहबलयुतमप्यनादेश्यम् ॥ ६३ ॥

वसिष्ठः–

क्रूरविमुक्तं दग्धं क्रूरयुतं ज्वलितधूमितं पुरतः ।

एकशलाकाद्युचरं सवेधमृक्षं विजानीयात् ॥ ६४ ॥

दग्धे सधूमवेधे ज्वलमाने चापि चंद्रनक्षत्रे ।

  यात्राप्रवेशमंगलविवाहकार्याणि नेष्यंते ॥ ६५ ॥

क्रूरग्रहविद्धे भे यद्यूढा कन्यका भवति ।

 भर्तुर्निधनं कुरुते सापत्न्यंसौम्यविद्धे न ॥

६६ ॥

         निर्घातोल्कामहीकंपग्रहभेदादिदर्शने ।

आपंचवासरादूढा नाशमाप्नोति कन्यका ॥

६७ ॥

यस्मिन् भे दृश्यते राहुस्तन्नक्षत्रं विवर्जयेत् ।

  षण्मासं पाणिसंयोगे यतो वैधव्यता भवेत् ॥ ६८ ॥

क्रूरभुक्तं युतं गम्यं क्रूरलत्तानिपीडितम् ।

 दिव्य भौमांतरिक्षोत्थैरुत्पातैर्दूषितं च यत् ॥ ६९ ॥

संध्यागतं ग्रहणगं शिखिना यच्च मर्दितम् ।

राहोर्युद्धहतं चापि नक्षत्रं तद्विवर्जयेत् ॥ ७० ॥

एकार्गलः–

        विरुद्धनामयोगेषु साभिजिद्विषमर्क्षगः ।

 अर्कादिंदुस्तदा योगो वर्ज्य एकार्गलाभिधः ॥ ७१ ॥

        चंद्रभाद्वा समे न स्यान्न शुभः पाणिपीडने ।

  संभवोऽर्कें

दुदृक्पाताद्गणयेदभिजित्समम् ॥ ७२ ॥ ?

गंडांतम–

नक्षत्रैस्तिथिभिर्लग्नैर्गंडांतं त्रिविधं मतम् ।

उद्वाहे वर्जयेत्तत्तु कुलांतं तत्र पश्यति ॥ ७३ ॥

 गंडांतसंज्ञा त्रिविधा प्रदिष्टा भानां तिथौ राश्युदयांतसंधिम् । 

नवांतपंचांतचतुष्टयांतर्द्विरेकनाड्यर्धघटीक्रमेण ॥ ७४ ॥

पौष्णाश्व्योरंतरे प्रोक्तमाश्लेषामघयोः पुनः ।

शाक्रनिर्ऋतयोर्मध्ये गंडांतं वेदनाडिकम् ॥ ७५ ॥

रव्यंगारकभास्करिहोरायां करतलग्रहणे ।

  दारिद्र्यं धनहानिः कन्यामरणं विजानीयात् ॥ ७६ ॥

 क्रूरैर्भुक्तं युक्तं भोग्यं च तथैव राहुखेटयुद्धगतम् ।

ग्रहभिन्नं केतुहतं त्यजेन्महोत्पातदुष्टं च ॥ ७७ ॥

 यद्राहुसंदर्शनदुष्टमृक्षं शीतांशुयुक्तेऽथ विलग्नगे वा ।

      आमासषट्कंविदधीत तस्मिन्नोद्वाहयात्रादि शुभं शुभार्थी ॥

सप्तर्षयः ( सर्वर्षिः ) –

पक्षांतरेण ग्रहणद्वयं स्याद्यदा तदाद्य ग्रहणोपगं भम् ।

    पक्षाद्विशुद्धं भवति द्वितीयग्रहोपगं शुध्यति भोगषट्कात् ॥ ७२ ॥

क्रूराश्रितक्रूरविमुक्तदुष्टग्रहाढ्यधिष्ण्येषु कुमारिकाणाम् ।

   वदंति पाणिग्रहणे मुनींद्रा वैधव्यमब्दैस्त्रिभिर त्रिमुख्याः ॥ ८० ॥

( वेधविचारः ) श्रीपतिः–

तिर्यक् पंचोध्वर्गाः पंच द्वे द्वे रेखे च कोणगे ।

   ईशद्वितीयरेखातः कृत्तिकादीनि विन्यसेत् ॥ ८१ ॥

भानि प्रदक्षिणं यत्र या रेखा ग्रहसंयुता ।

तस्यां यच्चंद्रसंयुक्तमृक्षं तद्विद्धमुच्यते ॥ ८२ ॥

वैश्वांत्यचतुर्थेंऽशे श्रवणादौ नाडिकाचतुष्के च ।

  अभिजित्तत्स्थे खेटे विज्ञेया रोहिणी विद्धा ॥ ८३ ॥

चंद्रे वैधव्यमर्केण विद्धेऽपत्यक्षयोऽसृजा ।

   बुधेनार्थच्युतिः स्त्रीणां दास्यमंगिरसा भवेत् ॥ ८४ ॥

प्रव्रज्या भृगुपुत्रेण पतित्यागोऽर्कजन्मना ।

राहुणा केतुना चैव गणिकात्वं न संशयः ॥ ८५ ॥

शौनकः–

विद्धं लग्नगतं धिष्ण्यं जन्मर्क्षं लग्नगं तथा ।

सप्तर्षयो जगुर्नेष्टं क्रूरांतस्थश्च शीतगुः ॥ ८६ ॥

भोजदेवः–

विद्धे बिलग्ने हिमदीधितौ च किंत्वर्कजोवसुतसैंहिकेयैः ।

परस्परं विग्रहमामनंति क्षपाकरः क्रूरनवांशवर्ती ॥ ८७ ॥

श्रीपतिः–

क्रूरग्रहानुपगतो भगतः स्वकर्म-

            सिद्धिं प्रयच्छति हिमद्युतिना समेतः ।

क्रूरग्रहैरुपहतस्तु स योजनीयः

              क्रूरेषु कर्मसु शुभेषु विवर्जनीयः ॥ ८८ ॥

वधूप्रवेशे दाने च वरणे पाणिपीडने ।

वेधः पंचशलाकाख्योऽन्यत्र सप्तशलाकजः ॥ ८९ ॥

ऋक्षं सौम्यग्रहैर्विद्धं पादमात्रं परित्यजेत् ।

क्रूरैस्तु सकलं त्याज्यमिति वेधविनिश्चयः ॥ ९० ॥

वेधमाद्यंतयोरंध्र्योरन्योन्यं द्वितृतीययोः ।

क्रूरैरपि त्यजेत्पादं केचिदूचुर्मनीषिणः ॥ ९१ ॥

नक्षत्राणां चंद्रभोगाच्छुद्धिः–

कृतं भं कर्मसंसिध्यै दोषैरेतैर्यदक्षमम् ।

     भुक्त्वा भुक्तं क्षमं तत्स्याद्भानुनाऽमृतरोचिषा ॥९२॥

ब्रह्मगुप्तः–

उत्पातदोषदुष्टं शुभकर्मसु योजयेन्न तावद्भम् ।

यावन्नामृतधाम्ना भुक्त्वा विमलीकृतं भूयः ॥ ९३ ॥

सप्तर्षयः–

दोषैरपरित्यक्तं धिष्ण्यमनिष्टं रवींदुभुक्तमपि ।

दोषविमुक्तं पश्चाद्रवींदुभुक्तं भवेच्छुद्धम् ॥ ९४ ॥

वराहः–

दोषैस्त्यक्तं यदा धिष्ण्यं पश्चाच्चंद्रेण संयुतम् ।

ततः पश्चाद्विशुद्धं भं नान्यथा शुभदं भवेत् ॥ ९५ ॥

द्वाभ्यां धरित्रीतनयेन दुष्टं त्रिभिश्च राहुग्रहणोपयातम् ।

     षट्भिश्चतुर्भिः शनिभोगदुष्टं शुद्धं भवेद्धं तुहिनांशुभोगात् ॥ ९६ ॥

ब्रह्मगुप्तः–

यावन्न भुक्तं रविणाऽत्र धिष्ण्यं शीतांशुना चोत्तरगेण शुके ।

 तावत्त्वशुद्धिं समुपैति सम्यगात्मेव दुष्टाश्रयसंप्रयोगात् ॥ ९७ ॥

भावांशशुद्धोदयमप्यशुद्धं भशुद्धिहीनं प्रवदंति संतः ।

   तस्माद्विशेषेण भशुद्धिमादौ विचार्य कार्यं शुभमाहुरार्याः ॥ ९८ ॥

चंडायुधः–

साध्यहर्षणशूलानां वैधृतिव्यतिपातयोः ।

   यद्धं गंडस्य चांते स्यात्तत्पातेन निपातितम् ॥ ९९ ॥

अथ ग्रहणविचारः –

त्रयोदश्यादितो वर्ज्यं दिनानां दशकं ध्रुवम् ।

मांगल्येषु समस्तेषु ग्रहणे चंद्रसूर्ययोः ॥ १०० ॥

भोजदेवः –

राहौ दृष्टे शुभं कर्म वर्जयेद्दिवसाष्टकम् ।

 त्यक्त्वा वैतालसंसिद्धिं पापदं भमयं तथा ॥ १ ॥

वृद्धवसिष्ठः–

ग्रहणात्प्राक् परे वर्ज्यास्त्रीणि सप्तदिनानि च ।

विवाहोत्सवमांगल्ये वर्जयेत्तेषु सर्वदा ॥ २ ॥

शौनकः–

विद्धं लग्नगतं धिष्ण्यं जन्मर्क्षं लग्नगं तथा ।

सप्तर्षयो जगुर्नेष्टं क्रूरांतस्थश्च शीतगुः ॥ ८६ ॥

भोजदेवः–

विद्धे बिलग्ने हिमदीधितौ च किंत्वर्कजोर्वीसुतसैंहिकेयैः ।

परस्परं विग्रहमामनंति क्षपाकरः क्रूरनवांशवर्ती ॥ ८७ ॥

श्रीपतिः–

क्रूरग्रहानुपगतो भगतः स्वकर्म-

सिद्धिं प्रयच्छति हिमद्युतिना समेतः ।

क्रूरग्रहैरुपहतस्तु स योजनीयः

क्रूरेषु कर्मसु शुभेषु विवर्जनीयः ॥ ८८ ॥

वधूप्रवेशे दाने च वरणे पाणिपीडने ।

वेधः पंचशलाकाख्योऽन्यत्र सप्तशलाकजः ॥ ८९ ॥

ऋक्षं सौम्यग्रहैर्विद्धं पादमात्रं परित्यजेत् ।

क्रूरैस्तु सकलं त्याज्यमिति वेधविनिश्चयः ॥ ९० ॥

वेधमाद्यंतयोरंध्र्योरन्योन्यं द्वितृतीययोः ।

क्रूरैरपि त्यजेत्पादं केचिदूचुर्मनीषिणः ॥ ९१ ॥

नक्षत्राणां चंद्रभोगाच्छुद्धिः–

कृतं भं कर्मसंसिध्यै दोषैरेतैर्यदक्षमम् ।

     भुक्त्वा मुक्तं क्षमं तत्स्याद्भानुनाऽमृतरोचिषा ॥ ९२ ॥

ब्रह्मगुप्तः–

उत्पातदोषदुष्टं शुभकर्मसु योजयेन्न तावद्भम् ।

यावन्नामृतधाम्ना भुक्त्वा विमलीकृतं भूयः ॥ ९३ ॥

अथ लग्नशुद्ध्यध्यायः ॥ ९ ॥

पंचांगशुद्धिः कथितोडुशुद्धिर्विलग्नशुद्धिर्ग्रह भावशुद्धिः ।

समुद्गमास्तांशविशुद्धिराभिः स्यात्पंचभिः शुद्धिभिरिष्टलग्नम् ॥१॥

लग्नादिभावोपगतैः शुभैः स्यात्पत्युः प्रिया द्रव्यवती गुणाढ्या ।

साध्वी सुपुत्रा हतशत्रुवर्गा सुखोज्झिता नायुरनंतधर्मा ॥ २ ॥

साध्वी धनाढ्या व्यायिनी च शुक्रे तृतीयगे देवररक्तचित्ता ।

षष्ठे महावैरयुता च पत्युः केऽप्याहुरंते शुभदौ सितेज्यौ ॥ ३ ॥

वराहः–

त्रिकोणगे स्त्रीजननी शशांके द्व्याये धनाढ्या सुभगा तृतीये ।

षडष्टलग्नेषु मृतिः कलत्रे सपत्नियुक्तांत्यगृहेषु निःस्वा ॥ ४ ॥

सप्तर्षयः–

बंधुस्थाने चंद्रः स्वजनेष्टां बंधुभोगिनीं कुरुते ।

गर्गमते मध्योऽसौ श्रेयान्स्यात्सौम्यग्योगात् ॥ ५ ॥

वराहः–

त्रिकोण सप्तमांबरव्ययोपगो विलग्नतः ।

हिमद्युतिः शुभर्क्षगः शुभेक्षितश्च शोभनः ॥ ६ ॥

ब्रह्मगुप्तः–

न यत्र वित्तगः शशी त्रिलाभगोऽथवा भवेत् ।

न लग्नमत्र दापयेदुवाच शौनको मुनिः ॥ ७ ॥

सर्वेषां मते क्रूराणां फलानि –

नष्टासुं विधनां तथा धनवतीं बंध्वग्रवैरान्वितां

निःपुत्रां ससुतां तथा च विधवां रोगोज्झितां पांसुलाम् ।

दुःशीलां सधनां वृथा व्ययववींलग्नाच्च पापाः क्रमात्

विक्षीरां हिबुके शनिर्निधनगोऽसृक्स्रावयुक्तां कुजः ॥ ८ ॥

वैधव्यकृद्भवति लग्नगतोंऽगनानां

चंद्रान्वितो मरणदोऽस्तगतश्च राहुः ।

केतुश्च मंदवदसौ परतो निरुक्तः

केंद्रस्थितो न शुभ इत्यपरे वदंति ॥ ९ ॥

वराहः–

नष्टे सुरेज्ये पुरुषस्य नाशः कन्याविनाशो भृगुनंदने स्यात् ।

चंद्रे प्रणष्टे द्युभयोर्विनाशो भौमेऽष्टमस्थानगते च लग्नात् ॥१०॥

गर्गः–

लग्नाद्भौमेऽष्टमगे पंचत्वं याति दंपती वह्नौ ।

जन्मनि यो वाष्टमगस्तलग्नगते तथैव फलम् ॥ ११ ॥

भृगुः षष्ठोऽष्टमो भौमो लग्नस्थोऽपि बृहस्पतिः ।

लग्नात्षष्ठोविलग्नेशो वर्जनीयः सदैव हि ॥ १२ ॥

श्रीपतिः–

आषष्ठतः खनवमायगताश्च साम्याः

शस्ताः षडायसहजाष्टमभेषु पापाः ।

पाणिग्रहे त्रिसुखलाभधनेषु चंद्रः

षष्ठत्रिगो न शुभ आस्फुजिदष्टमोऽसृक् ॥ १३ ॥

सप्तर्षयः–

जन्मसमये यदुक्तं शुभाशुभं दिव्यदृग्भिराचार्यैः ।

पृच्छापरिणयनाभ्यां तदेव युक्त्या प्रयोक्तव्यम् ॥ १४ ॥

योगजातके–

विनिहंति द्वादशभिर्मासैर्लग्नाधिपः स्थितः षष्ठे \।

मासैश्चतुभिरेवं त्वष्टमवर्ती दिनैकेन ॥ १५ ॥

राशिप्रमितैर्वर्षैर्मारयति विलग्नपो रिपुस्थाने ।

मासैद्रेष्काणपतिर्दिवसैरंशाधिपो हंति ॥ १६ ॥

लक्ष्मीधरः–

विलग्नाधिपतौ षष्ठे विधवा स्यात्तथांशपे \।

द्रेष्काणाधिपतौ मृत्युर्विलग्ने बलवत्यपि ॥ १७ ॥

सप्तर्षयः –

लग्नाधिपे तु षष्ठस्थे वैधव्यं निश्चितं भवेत् ।

तथाप्यस्तंगते क्षीणे त्रिभिर्वर्षैस्तु मृत्युदः ॥ १८ ॥

वृद्धसप्तर्षयः–

लग्नाधिनाथोऽथ नवांशनाथः षष्ठाष्टमो वा यदि लग्नकाले ।

स्वप्नेऽपि न पश्यति चात्मनो मुखं विचर्चितं कज्जलकंकुमेन ॥

लघुः –

यत्र लग्नाधिपः षष्ठो रविर्भौमोऽथवा परः ।

तल्लग्नं यत्नतस्त्याज्यं शुभैः सर्वग्रहैरपि ॥ २० ॥

चंद्रे षष्ठाष्टगमे लग्नपतौ वा भवेत्स संवर्तः ।

   सर्वशुभयोगनाशं करोति दावाग्निवदरण्यम् ॥ २१ ॥

लग्नस्य येंऽशा उदिता ग्रहो यस्तेषु स्थितः स्थानफलं स धत्ते ।

यत्स्थानयातः स भवेद्द्वितीयः स्थानेषु शेषेष्वपि चिंत्यमेतत् ॥२२॥

भावप्रवृत्तौ हि फलप्रवृत्तिः पूर्णं फलं भावसमांशकेषु ।

ह्रासः क्रमाद्भावविरामकाले फलस्य नाशः कथितो मुनींद्वैः ॥२३॥

ग्राह्या न भावोत्थगुणा विलग्ने

त्याज्याश्च दोषा जगदुस्त्विहैके

लग्नांशकेभ्योऽभ्यधिकोऽपि धीस्थः

  शुक्रोऽरिगः स्यान्न हि सूर्यजस्तु ॥२४ ॥

वैधव्यकृद्भवति लग्नगतोंऽगनानां

चंद्रान्वितो मरणदोऽस्तगतश्च राहुः ।

केतुश्च मंदवदसौ परतो निरुक्तः

केंद्रस्थितो न शुभ इत्यपरे वदंति ॥ ९ ॥

वराहः–

नष्टे सुरेज्ये पुरुषस्य नाशः कन्याविनाशो भृगुनंदने स्यात् ।

चंद्रे प्रणष्टे द्युभयोर्विनाशो भौमेऽष्टमस्थानगते च लग्नात् ॥१०॥

गर्गः–

लग्नाद्भौमेऽष्टमगे पंचत्वं याति दंपती वह्नौ ।

जन्मनि यो वाष्टमगस्तलग्नगते तथैव फलम् ॥ ११ ॥

भृगुः षष्ठोऽष्टमो भौमो लग्नस्थोऽपि बृहस्पतिः ।

लग्नात्षष्ठोविलग्नेशो वर्जनीयः सदैव हि ॥ १२ ॥

श्रीपतिः–

आषष्ठतः खनवमायगताश्च साम्याः

शस्ताः षडायसहजाष्टमभेषु पापाः ।

पाणिग्रहे त्रिसुखलाभधनेषु चंद्रः

षष्ठत्रिगो न शुभ आस्फुजिदष्टमोऽसृक् ॥ १३ ॥

सप्तर्षयः–

जन्मसमये यदुक्तं शुभाशुभं दिव्यदृग्भिराचार्यैः ।

पृच्छापरिणयनाभ्यां तदेव युक्त्या प्रयोक्तव्यम् ॥ १४ ॥

योगजातके–

विनिहंति द्वादशभिर्मासैर्लग्नाधिपः स्थितः षष्ठे \।

मासैश्चतुभिरेवं त्वष्टमवर्ती दिनैकेन ॥ १५ ॥

स्वगृहत्रिकोणतुंगाभिसंस्थितो मित्रभवनभावगतः ।

चेष्टादिबलयुतो वा यत्नाद्योज्यः शुभस्थाने ॥ ३४ ॥

नेष्टः शुभो विलग्ने नीचारिगृहोपस्तु शत्रुदिने ।

      क्रूरोऽपि सुहृद्दिवसे स्वोच्चगतः शुभफलोऽन्येषाम् ॥ ३५ ॥

पापोऽप्यनिष्टदो न स्यादनिष्टस्थानगो यदि ।

शुक्रज्ञगुरुभिर्दृष्टः स्वोच्चधीधर्मकेंद्रगैः ॥ ३६ ॥

भोजदेवः –

उदेति यो दक्षिणमार्गवतीं सरोजिनीभर्तुरुपैति चास्तम्

 शुभो विलग्नोपगतः स धत्ते ग्रहो न पाणिग्रहणे शुभानि ॥३७॥

अनिष्टफलधामगः शुभकरो ग्रहो वीक्षितो

बृहस्पतिसितेंदुजैर्बलयुतैरपापैर्यदा ।

तनुर्भवति पंचभिर्गगनगैः शुभैः शोभनं

हिमांशुगुरुभास्करैर्विरहितं हितं नो भवेत् ॥ ३८ ॥

पंचभिरिष्टैरिष्टं पुष्टमनिष्टैरनिष्टमादेश्यम् ।

स्थानादिबलसमृद्धैश्चतुर्भिरपि पठ्यते यवनैः ॥ ३९ ॥

पंच पाणिग्रहे दोषांवर्जनीयाः प्रयत्नतः ।

दारिद्र्यमृत्युपुंश्चल्यवैधव्यमनपत्यता ॥ ४० ॥

पाणिग्रहे गुणाः पंच यत्नात्तज्ज्ञो विचिंतयेत् ।

उभयोः प्रीतिमायुष्यं धनं पुत्रानरोगताम् ॥ ४१ ॥

जातकेऽपि–

    लग्नाधिपोऽतिबलवानशुभैरदृष्टः

केंद्रस्थितैः शुभखगैरवलोक्यमानः ।

        मृत्युं विधूय विदधाति सुदीर्घमायुः

सार्धं गुणैर्बहुभिरूर्जितया च लक्ष्म्या ॥ ४२ ॥

सौम्यग्रहैरतिबलैर्विबलैश्च पापै-

लग्ने च सौम्यभवने शुभदृष्टयुक्ते ॥

    सर्वापदाविरहिता भवतीह कन्या

दोषोज्झितं जगदिवार्कसमुद्गमे स्यात् ॥ ४३

       लग्नाधिपो यदा केंद्रे लग्नादुपचये तथा ।

क्रमाच्छुभोऽशुभो ज्ञेयो दोषसंघांश्च घातयेत् ॥ ४४ ॥

प्रस्फुरितकिरणजाले स्निग्धामलमंडले बलोपेते ।

सुरमंत्रिणि केंद्रगते सर्वे दोषाः क्षयं यांति ॥ ४५ ॥

नारदः–

लग्नं लग्नांशनाथो वा आयगः केंद्रगोऽपि वा ।

राशीन्निहंति दोषाणामिंधनानीव पावकः ॥ ४६ ॥

अब्दायनर्तुमासोत्था ये दोषाः पक्षसंभवाः ।

 ते दोषा विलयं यांति केंद्रस्थे च बृहस्पतौ ॥ ४७ ॥

लग्नस्थो गुरुरेकोऽपि लग्नदोषस्य संचयम् ।

हंति पापान्हरिदिने चोपवासव्रतं यथा ॥ ४८ ॥

उक्तानुक्ताश्च ये दोषास्तान्निहंतिं बली गुरुः ।

  केंद्रसंस्थः सितो वापि पन्नगान् गरुडो यथा ॥ ४९ ॥

दुःस्थानस्थग्रहकृताः पापभंगसमुद्भवाः ।

ते सर्वे विलयं यांति केंद्रस्थाने बृहस्पतौ ॥ ५० ॥

गर्गः –

सर्वविरुद्धे लग्ने तिष्ठति केंद्रे यदा सुराचार्यः ।

   हिमकरदिनकरकिरणैः सर्वे दोषाः प्रलीयते ॥ ५१ ॥

धर्मकर्मांबुधौ लग्ने स्थिते जीवे सिते बुधे ।

 अशुभं तच्छुभं याति शुभं वृद्धिमुपैति च ॥ ५२ ॥

वराहः–

ये लग्नदोषाः कुनवांशदोषाः पापैः कृता दृष्टिनिपातदोषाः ।

लग्ने गुरुस्तान्विमलीकरोति फलं यथांभः कतकद्रुमस्य ॥५३॥

यस्मिन्विवाहे गुरुशुक्रसौम्याः केंद्रस्थिता धर्मसुतस्थिता वा ।

सर्वांश्च दोषान्विनिहंति लग्ने कुर्वति सिद्धिं सुखसंपदायुः ॥५४॥

राहुस्त्रिषष्ठलाने लग्नात्सौम्यैर्निरीक्षितः सम्यक् ।

नाशयति सर्वदुरितं मारुत इव तूलसंघातम् ॥ ५५ ॥

॥ नवमांशादिविचारः–

प्राग् लग्ने द्विपदगृहे कुर्यादन्यांशकोदयोनांशे ।

द्विपदेष्वपि कन्यातौलिमिथुनधन्वंशकाः शस्ताः ॥ ५६ ॥

क्षेत्रेषु मेषमृगतुलाकर्काद्याः स्युर्नवांशकाः क्रमशः ।

इष्टांशात्पूर्वंशात् (?) द्विशतगुणा लग्नकालिकास्ते स्युः ॥५७॥

ओजेऽर्कचंद्रयोर्होरे युग्मे स्तश्चंद्रभास्वतोः ।

आद्यपंचनवेशानां द्रेष्काणाः स्वाद्विषड्लवाः ॥ ५८ ॥

यवनः–

आद्यां तु होरां भवनस्य पत्युरेकादशक्षेत्रपतेर्द्वितीयाम् ।

स्वद्वादशैकादशराशिपानां द्रेष्काणसंज्ञा यवना वदंति ॥५९॥

कुजयमजीवज्ञसिताः पंचेंद्रियवसुमुनींद्रियांशानाम् ।

विषमेषु समक्षेषूत्क्रमेण त्रिंशांशकाः कल्प्याः ॥ ६० ॥

खेटभागास्त्रिभिर्निघ्ना दशभक्ता नवांशकाः ।

द्विघ्नाः पंचविभक्ताः स्युः स्वस्थानाद्द्वादशांशकाः ॥ ६१॥

सप्तर्षयः–

गृहं च होराद्रेष्काणौ नवांशो द्वादशांशकः ।

त्रिंशांशो यः शुभो वर्गः सौम्यानामशुभोऽसताम् ॥ ६२ ॥

हरिदेवः–

आदौ समस्तफलदं हरिजं फलार्धं

मध्ये च तुच्छफलमंत्यनवांशकेऽपि ।

अंत्यांशकेऽपि सकलं विफलं विलग्नं

वर्गोत्तमं चरगृहे न चरो नवांशः ॥ ६३ ॥

वर्गोत्तमं विलग्नं वर्गोत्तमजी नवांशको यस्मिन् ।

वर्गोत्तमा नवांशाश्चरादिषु प्रथममध्यांत्याः ॥ ६४ ॥

लघुः–

वर्गोत्तमादृते दद्याच्चरमं न नवांशकम् ।

चरलग्नेतुलांशे तु तुलामकरगे विधौ ॥ ६५ ॥

अस्यापवादो होराप्रकाशे–

चरराशिगते चंद्रे चरलग्ने चरांशके ।

द्वौ पती भजते कन्या शुक्रदृष्टे निशाकरे ॥ ६६ ॥

वराहः–

चरलग्ने चरांशे च चरराशिगतः शशी ।

इत्थं शतगुणं वापि भावशुद्धं तनुं त्यजेत् ॥ ६७ ॥

गर्गः –

कर्कलग्नेऽथवा मेषे तुलांशो यदि दीयते ।

तुले वा मकरे चंद्रो वैधव्यं जायते तदा ॥ ६८ ॥

सप्तर्षयः–

लग्नेंदू चरभवने बलिनो योषिद्ग्रहाः स्थिताः केंद्रे \।

योषिद्ग्रहसंदृष्टे भर्तृबहुत्वं प्रकुर्वंति ॥ ६९ ॥

रविशशीज्ययमाः कुलखेचरा उपकुलाः कुजभार्गवराहवः ।

शशिसुतस्तु कुलोपकुलाभिधोनिगदितो नृपसंधिविधायकः ॥७०॥

षड्वर्गतः स्याच्छ्रुतसंपदाप्तिर्लग्ने सुतान्या खलु पंचवर्णैः ।

वर्गैरपि स्याच्छुभदं चतुर्भिस्त्रिंशांशको यस्य शुभग्रहस्य ॥७१॥

लघुः–

न लग्नं सच्चतुर्वर्गं दूष्यते कालहोरया ।

अपि षड्वर्गसंशुद्धं कुलिकेन विहन्यते ॥ ७२ ॥

ब्रह्मगुप्तः–

न सच्चतुर्वर्गसह विलग्नं प्रदूष्यते कालजहोरया वा ।

न जन्ममासर्क्षदिनर्क्षयोर्वा न चापि पाद्मः कुलिकोदयैर्वा ॥७३॥

हरिदेव :–

यस्मिन् राशौ भवेच्चंद्रस्तदेशं परिवर्जयेत् ।

यस्माद्भवेच्च वैधव्यमावर्षान्मुनयो जगुः ॥ ७४ ॥

बादरायणः–

राशिवद्वर्जयेत्कूरोऽप्यंशस्थो मरणप्रदः ।

चंद्रक्रूरयुतो राशिलग्नांशं नैव कारयेत् ॥ ७५ ॥

लघुः –

यस्मिन् राशौ भवेत्क्रूरो यस्मिन् राशौ तु चंद्रमाः ।

द्वावप्यंशो न दातव्यौलग्ने तौमरणप्रदो ॥ ७६ ॥

यस्मिन् राशौ भवेत्क्रूरस्तदंशो दीयते यदि ।

लग्ने मृत्युं विजानीयात्पंचमेऽब्दे न संशयः ॥ ७७ ॥

गर्गः –

सक्रूरग्रहराश्यंशं लग्ने दद्यान्न बुद्धिमान् ।

यतः सक्रूरराश्यंशादायुहींनं प्रजायते ॥ ७८ ॥

जातके –

दशमतृतीये नवपंचमे चतुर्थाष्टमेकलत्रे च ।

पश्यंति पादवृद्ध्या फलानि चैवं प्रयच्छंति ॥ ७९ ॥

युतः स्वनाथेन निरीक्षितो वा नवांशको लग्नगतो नराणाम् ।

निहंति रिष्टानि तथापमृत्युः कलत्रसंस्थश्च नितंबिनीनाम् ॥८०॥

वामदेवः–

पश्येद्यदांशाधिपतिर्विलग्नं लग्नेऽथवा स्यादुदयांशशुद्धिः ।

अस्तांशनाथः स्मरभं विलग्नात्पश्येत्तदास्तांशविशुद्धिरुक्ता ॥८१॥

अस्यापवादः । वृद्धगर्गात्रेयादयः–

   शुद्धस्त्विह स्यान्न यदोदयांशो लग्ने न चास्तांशमुपैति सिद्धिः ।

तयोः

सुहृत्सौम्यनिरीक्षितो यः शुभाय स स्यात्प्रवदंति संतः ॥

वृद्धवसिष्ठः–

उदयास्तांशयोः शुद्धिर्यदि लग्नेन जायते ।

   तदा तन्मित्रसौम्याढ्यवीक्षितोंऽशः शुभो भवेत् ॥८३॥

सप्तर्षयः–

उदयास्तविशुद्धं चेद्दंपत्योर्लग्नमायुषे वृद्ध्यै ।

  उदयास्तविशुद्धयूनं मरणकरं निश्चितं वर्ज्यम् ॥ ८४ ॥

श्रीपतिः–

पाणिग्रहे लग्नगतो नवांशः स्वस्वामिना चेन्न युतो न दृष्टः ।

करोति पुंसामचिरेण मृत्युं तद्वत्कलत्रोपगतोंऽगनानाम् ॥८५॥

सप्तर्षयः–

कृत्वायनांशयुक्तौ लग्नार्कौनिशि च भार्धमितम् ।

रविभोग्यांशैर्गुणितं निजोदयाल्लग्नभुक्तांशैः ॥ ८६ ॥

खगुणहृतात्पलयोगो मध्योदयसंयुतो भवेत्कालः ।

एकर्क्षगार्कतन्वोर्विवरांशैः साध्यते कालः ॥ ८७

उत्तरदक्षिणचरलवहीनयुतानाडिका रवेरुदयात्

प्राक्पश्चाद्देशांतरयोजनखाष्टांशकेनापि ॥ ८८ ॥

द्विगुणाः पंचविभक्ता रविसितबुधचंद्रमंदगुरुभौमाः ।

दिनपाद्या- होरेशा विवर्जयेत्पापखगहोराम् ॥ ८९ ॥

लग्नफलं नवभागे वारफलं व्योमगः स्वहोरायाम् ।

यच्छेत्फलं नवांशे नवांशके खेचरः पश्येत् ॥ ९० ॥

लघुः –

वारफलं होरायां लग्नफलं चांशके विनिर्दिष्टम् ।

अंशस्थोऽप्यंशपतिर्यस्माञ्चित्यं प्रयत्नेन ॥ ९१ ॥

भानोः कुजस्य च दिने विगुणा दरिद्रा

सौख्यान्विता भवति चंद्रदिने कुमारी ।

सौभाग्यशीलसहिता हि शशांकसूनो-

र्वारे गुरोः सुखवती सुभगा सुपुत्रा ॥ ९२ ॥

प्रीत्यर्थभोगसुखभाग्भृगुजाहि नीच-

स्थैर्यान्वितार्कजदिने पतिवल्लभा च ।

केऽप्याहुरिंदुदिवसे सहिता सपुत्रा

स्याद्दुर्भगा शनिदिने पतिवर्जिता च ॥ ९३ ॥

तिथिरेकगुणा प्रोक्ता बलेन द्विगुणः क्षयः ।

चतुर्गुणं तु नक्षत्रं वासरः षङ्गुणः स्मृतः ॥ ९४ ॥

चंद्रः शतगुणो लग्ने सहस्रगुणमुच्यते ।

लग्नाद्धोरादयो भेदा बलिनः स्युर्यथोत्तरम् ॥ ९५ ॥

      "योगाः”

ये जातके नृपतिनाभसशीतरश्मे-

योगा वसिष्ठयवनप्रमुखैर्निरुक्ताः

सर्वेऽपि ते करतलग्रहणे

कुमार्या

योज्या यतः शुभफलाः प्रसवे विवाहे ॥ ९६ ॥

नंदो भद्राभिधो जीवो जीमूतः स्थावरो जयः ।

विजयो व्यालपातालसुखक्षयतमोंतकाः ॥ ९७ ॥

बुधे नंदः, सिते भद्रो, जीवे जीवो, विलग्नगे \।

   ज्ञजीवयोस्तु जीमूतः, स्थावरो जीवशुक्रयोः ॥ ९८ ॥

जयो ज्ञसितयो, र्ज्ञेज्यशुक्रेषु विजयो, भवेत् ।

 सहस्रकिरणे व्यालो, रसातलसुखः कुजे ॥ ९९ ॥

क्षयो मंदे, तमो राहौ, केतावंतकसंज्ञकः ।

  द्वादशैते स्मृता योगाः शुभाशुभफलप्रदाः ॥ १०० ॥

त्रिष्वाद्येषु भवेद्राज्ञी ततो देवी चतुष्वपि ।

 दरिद्रा विधवा सौख्या व्यालाद्येष्वथ पंचसु ॥ १ ॥

   अन्ये ये यवनाद्युक्ताः करग्रहे ये शुभाशुभा योगाः ।

 जातकविहिताभूपाकृतिपूर्वाश्चात्र संचिंत्याः ॥ २ ॥

एवं गुणदोषाणां बलाबलं समधिकल्पयित्वादौ ।

लग्नं विवाहसमयोदयं च होराविदा स्पष्टम् ॥ ३ ॥

 नहि सकलगुणसमेतं कालेनाल्पेन लभ्यते लग्नम् ।

यस्मात्तस्माद्देयं तनुदोषं बहुगुणं तज्ज्ञैः ॥ ४ ॥

शौनकस्तु विशेषमाह–

बहुतरगुणसंयुक्तं तनुना दोषेण दूषितं लग्नम् ।

दैवज्ञद्विजवचनात्तदेव संवर्धयत्यायुः ॥ ५ ॥

जातके गर्गः–

स्वल्पोऽप्यनर्थकृद्दोषो लग्ने बहुगुणो भवेत् ।

तोयबिंदुरिवासंघः समृद्धः कृष्णवर्त्मनि ॥ ६ ॥

अथ देवशलक्षणम् । वृद्धगर्गः –

उभयकुलविशुद्धः प्रसन्नमूर्तिः क्रियागमे शुद्धः ।

सद्भाववान्प्रगल्भो दैवज्ञस्तादृशो भवति ॥ ७ ॥

अविदित्वैव यः शास्त्रं दैवज्ञत्वं प्रपद्यते ।

  स पंक्तिदूषकः पापो ज्ञेयो नक्षत्रपाठकः ॥ ८ ॥

वेदशास्त्रविहीनाश्च हेतुतर्कविवर्जिताः ।

 तेभ्यो लग्नं न गृह्णीयाद्विषसंयुक्तदुग्धवत् ॥ ९ ॥

न वेत्ति यो जातककर्मपद्धतिं

          न ब्रह्मसिद्धांतभवानपि ग्रहान् ।

विवाहयात्रादिककालसूचको

                   ज्ञेयोऽपि मृत्युः खलु तत्स्वरूपधृक् ॥ १० ॥

संशोध्य लग्नं सुपरीक्षितं च ददाति लोके स च वल्लभः स्यात् ।

विस्तारमायाति च तस्य कीर्तिर्यथा जले तैलमिव प्रकीर्णं ॥११॥

वसिष्ठोऽपि –

लग्नदातरि संतुष्टे दुर्लग्नेऽपि सुलग्नता ।

 असंतुष्टे त्वसंतुष्टा निर्दहंत्यपमानिताः ॥ १२ ॥

यात्राधिकारदशकं गणितं च वेत्ति

     होरांगतंत्रकुशलो व्यवहारदर्शी ।

सम्यग्विवाहपटलार्थविदप्रमादी

               दातुं द्विजोऽर्हति स एव सतां विलग्नम् ॥ १३ ॥

अन्यत्रापि – दशाधिकारं यो वेत्ति जातकं वेत्ति तत्त्वतः ।

व्यवहारे सुकुशलो लग्नं दातुं क्षमो भवेत् ॥ १४ ॥

अथ गोरजलग्नविचारः तत्र वसिष्ठः–

न गोरजो यावदुपैति शांतिं न तारकाज्योतिरिनांशुसंघात् ।

विवाहकालो गदितस्तु तावद्विजातिवर्णत्रयबाह्यकेन (कस्य ) ॥

बुधे नंदः, सिते भद्रो, जीवे जीवो, विलग्नगे \।

   ज्ञजीवयोस्तु जीमूतः, स्थावरो जीवशुक्रयोः ॥ ९८ ॥

जयो ज्ञसितयो, र्ज्ञेज्यशुक्रेषु विजयो, भवेत् ।

 सहस्रकिरणे व्यालो, रसातलसुखः कुजे ॥ ९९ ॥

क्षयो मंदे, तमो राहौ, केतावंतकसंज्ञकः ।

  द्वादशैते स्मृता योगाः शुभाशुभफलप्रदाः ॥ १०० ॥

त्रिष्वाद्येषु भवेद्राज्ञी ततो देवी चतुष्वपि ।

 दरिद्रा विधवा सौख्या व्यालाद्येष्वथ पंचसु ॥ १ ॥

   अन्ये ये यवनाद्युक्ताः करग्रहे ये शुभाशुभा योगाः ।

 जातकविहिताभूपाकृतिपूर्वाश्चात्र संचिंत्याः ॥ २ ॥

एवं गुणदोषाणां बलाबलं समधिकल्पयित्वादौ ।

लग्नं विवाहसमयोदयं च होराविदा स्पष्टम् ॥ ३ ॥

 नहि सकलगुणसमेतं कालेनाल्पेन लभ्यते लग्नम् ।

यस्मात्तस्माद्देयं तनुदोषं बहुगुणं तज्ज्ञैः ॥ ४ ॥

शौनकस्तु विशेषमाह–

बहुतरगुणसंयुक्तं तनुना दोषेण दूषितं लग्नम् ।

दैवज्ञद्विजवचनात्तदेव संवर्धयत्यायुः ॥ ५ ॥

जातके गर्गः–

स्वल्पोऽप्यनर्थकृद्दोषो लग्ने बहुगुणो भवेत् ।

तोयबिंदुरिवासंघः समृद्धः कृष्णवर्त्मनि ॥ ६ ॥

अथ देवशलक्षणम् । वृद्धगर्गः –

उभयकुलविशुद्धः प्रसन्नमूर्तिः क्रियागमे शुद्धः ।

सद्भाववान्प्रगल्भो दैवज्ञस्तादृशो भवति ॥ ७ ॥

वसिष्ठः–

कुलिकं क्रांतिसाम्यं च मूर्तौषष्ठाष्टमे शशी ।

   पंच गोधूलिके त्याज्यास्त्वन्ये दोषाः शुभावहाः ॥ २४ ॥

अन्यत्रापि–

धिष्ण्यं क्रूरयुतं पापं लग्ने षष्ठाष्टमे शशी ।

 गोरजं तत्प्रशंसति संतः शनिदिनं विना ॥ २५ ॥

वृद्धगर्गः–

क्रूरभुक्तं च भोग्यं च विद्धं भं क्रूरवासरम् ।

लग्नं क्रूरयुतं चांशं संध्यालग्ने न चिंतयेत् ॥ २६ ॥

यदृक्षं शनिभौमाभ्यां युक्तं वा धूमितं भवेत् ।

  गोधूलिकेऽपि तद् ग्राह्यं हित्वा वेधं मनीषिभिः॥ २७॥

        लग्नशुद्धिर्यदा न स्याद्यौवनं च प्रदृश्यते ।

तदा च सर्ववर्णानां लग्नं गोधूलिकं शुभम् ॥ २८ ॥

पराशरः–

यावत्कुंकुमरक्तचंदननिभः संदृश्यते भास्करो

यावन्नैव निशा न चापि दिवसः संध्या भवेत्पश्चिमा !

यावन्नोडुगणो न खे विसृमरो नोन्मीलिता रश्मय-

 स्तावत्सर्वजनस्य मंगलविधौ गोधूलिकं शस्यते ॥ २९ ॥

गोपैर्यष्ट्या हतानां खुरपुटदलिता या च रेणुर्दिनांते

सोद्वाहे सुंदरीणां विपुलधनसुता चायुरारोग्यदा स्यात् ।

तस्मिन्काले न ऋक्षं न च तिथिकरणं नैव लग्नं न योगः

   ख्यातः पुंसां सुखार्थं शमयति दुरितं गोरजं यद्दिनांते ॥३०॥

यावद्दिनांते निशि पश्चिमायां पश्चात्तृतीये रविबिंबभागे ।

    तस्मात्परं नाडिकया च युग्मे गोधूलिकालं मुनयो वदंति ॥३१॥

रत्तमालायाम्–

समस्तगुणसंपदां न खलु लब्धिरल्पैदिने -

र्गुणप्रचुरता ततो बहुमता च दोषाल्पता ।

न भूरि गुणसंचये प्रभवतीह दोषोऽल्पको

द्युर्चिषि हुताशने सलिलबिंदुरेको यथा ॥ ३२ ॥

अन्यत्रापि–

घटिकालग्नाभावेंऽगीकार्यं गोरजं विप्रैः ।

 .......................................................॥ १३३ ॥

इति शार्ङ्गीयसारसमुच्चये विवाहपटले लग्नशुद्धिप्रकर-

णाध्यायः समाप्तः ॥ ९ ॥

___________________

अथ प्रकीर्णाध्यायः ॥ १० ॥

मंडपवेदिकामाह–

हस्तोन्नतां हस्तकपंचसप्तकूर्मोन्नतां मंदिरवामभागे ।

 स्तंभैश्चतुर्भिः कलशैर्विचित्रैर्वेदीं विवाहे प्रवदंति तज्ज्ञाः ॥ १ ॥

दलनकंडन मण्डपवेदिकागृहसुमार्जनवारकमंडपाः ।

करतलग्रहमध्यगतागतं तदखिलं विदधीत विवाहमे ॥ २ ॥

आशाधरः–

विवाहकृत्यं सकलं विवाहमे विलोकयेन्नात्र बलं हिमद्युतेः ।

नवत्रिषष्ठोऽत्र न वारकः शुभो न वर्णको नैव विवाहमंडपः ॥३॥

" एकादि नव तैलादि षष्ठं नेष्टं तृतीयकम् ।

अष्टसप्तचतुःपंच विवाहे मंडपाः शुभाः ॥ ४ ॥

निष्किंचने व्यहैकं च तैलं वा मृन्मयः शुभः ।

  कार्यस्थे राज्यविस्तारे मंडपो माससंज्ञितः ॥ ५ ॥

चतुः पंच तथा सप्त अष्टमैकादशस्तथा । ।

   विवाहे मंडपाः प्रोक्ता द्विरेकः स्यान्न किंचन \।\। ६ \।\।" ?

गर्गोऽपि –

चतुर्थो मंडपः श्रेष्ठः पंचमः सप्तमस्तथा ।

अष्टमैकादशः श्रेष्ठो नेष्टः षष्ठस्तृतीयकः ॥ ७ ॥

 उक्त काले विवाहानां कुर्यान्नान्दीमुखं पिता ।

देशांतरे विवाहश्चेत्तत्र गत्वा भवेदिदम् ॥ ८ ॥

व्यवधाने महानद्या गिरेर्वा व्यवधानतः ।

वाचो यत्र विभिद्यंते तद्देशांतरमुच्यते ॥ ९ ॥

पंचमे नवमयुग्मचतुर्थे सप्तमेऽह्नि च शचीप्रपूजनम् ।

  पाणिपीडनदिनादिपूर्वकं यत्प्रसिद्धमिह संज्ञया भवेत् ॥ १०॥

तैलप्रवाहो नोल्लंध्यो न दिनादौ नृयोषितोः ।

   वैधव्यं मुनिभिः प्रोक्तं तथैवांगिरसः स्मृतिः ॥ ११॥

         तैलं देवप्रतिष्ठार्थं कुमार्याश्च महोत्सवे ।

विप्रस्योपनये चैव तैलमादौ प्रधार्यते ॥ १२ ॥

          प्रतिष्ठाचौलोपनये विवाहे नरयोषितोः ।

तैलं प्रयत्नतो धार्यं सर्वदेशेष्वयं विधिः ॥ १३ ॥

तैलाद्देवत्वमायाति प्रेतत्वं याति तैलतः ।

   तस्मात्तैलं विधार्यं स्याद्विवाहे च प्रतिष्ठितम् ॥ १४ ॥

सुतैलेन विना लग्नं यः करोति स मूढधीः ।

प्रेतात्प्रेतः समुत्पन्नो वरत्वं च प्रमुंचति ॥ १५ ॥

रत्नकोशे --

रजनिजनितरागा मालिनी पूर्ववक्त्रा

           प्रथमरजनियामेऽलंकृताभ्यो रमाभ्यः ।

शिरसि विमलतैलं धारयेद्वै कुमारी

धवललुलितरागैर्नागवल्लीदलैश्च ॥ १६ ॥

अंत्यजश्वानचांडालोदक्यापतितसूतिकाः ।

    दर्शनं स्पर्शनं वर्ज्यं धृते तैले तु कन्यया ॥ १७ ॥

सर्वसंमते–

विस्तारतो हस्तचतुष्टयेन हस्तोच्छ्रितां मंदिरवामभागे ।

    स्तंभैश्चतुर्भिः कृतनिश्चलांगां वेदीं विवाहे प्रवदंति तज्ज्ञाः ॥१८॥

विवाहवेदी गृहमंडपस्य ईशानपूर्वोत्तरदिग्विभागे ।

   सौभाग्यकन्याधनपुत्रयुक्ता शेषैर्विभागैर्विधवा भवति ॥ १९ ॥

दक्षिणे पूर्वदिग्द्वारे तत्पूर्वोत्तरमादिशेत् ।

 गृहनिर्गमवामांगे वसोर्द्वारं च वेदिकाम् ॥ २० ॥

ऊषरे दुर्भगा नारी शल्ये चैव मृतप्रजा ।

द्वारवेधेऽनपत्या च सूत्रच्छेदे कुलक्षयः ॥ २१ ॥

गृहस्य दक्षिणे भागे कुर्याद्वेदीं ततः शुभाम् ।

अन्यथा नैव कर्तव्या सेत्येवं मनुरब्रवीत् ॥ २२ ॥

         अविघ्नकारिणं देवं विघ्नराजं प्रपूजयेत् ।

  समोदकाक्षतैः पूर्ण दंपत्योः सन्निधौ न्यसेत् ॥ २३ ॥

षोडशारत्निकं कुर्याच्चतुर्द्वारोपशोभितम् ।

मंडपं तोरणैर्युक्तं तत्र देवीं प्रकल्पयेत् ॥ २४ ॥

         अष्टहस्तं च रचयेन्मंडपं वा द्विषट्करम् ।

   चतुःकरां वा हस्तोच्चामिष्टकाभिर्मृदाऽथवा ॥ २५ ॥

विप्रे षोडशहस्तैश्च राजन्ये द्वादशैस्तु तैः ।

वसुहस्तमितो वैश्ये शूद्रजातौ चतुःकरः ॥ २६ ॥

गृहे तु पश्चिमे द्वारे तथैवोत्तर एव च ।

    विवाहे वेदिका कार्या गृहान्निर्गमदक्षिणे ॥ २७ ॥

      'अथ श्वशुरादीनां सुखं भविष्यति नवेति ज्ञानोपायः "

श्रीपतिः–

श्वशुरोऽर्कः सितः श्वश्रूः स्त्रीणामस्तपतिः पतिः ।

एभिरुच्चोपगैरेषां शुभं नीचादिगैरसत् ॥ २८ ॥

ब्रह्मगुप्तस्तु विशेषमाह–

सूर्यात्पतिः स्त्री च विधोस्तथाराद्वित्तं सुतो ज्ञाच्च सुखं गुरोश्च ।

धनं सितादर्कसुताच्च वेश्म ब्रूयात्समुद्वाहविधौ स्वयुक्त्या ॥२९॥

एतैर्नीचस्थितैरस्तंगतैः शत्रुगतैर्न सत् ।

    स्वगृहोच्चत्रिकोणस्थैः शुभं तेषां तथोदितैः ॥ ३० ॥

अथ घटिकास्थापनं तत्फलं चाह–

यंत्राणां मुख्यरूपासि ब्रह्मणा निर्मिता घटी ।

   दंपत्योः शुभकालाप्तिं कुरु त्वं सृष्टिकारिके ॥ ३१ ॥

प्रस्तुत्यैवं घटीं नीरे क्षिपेत्कुंडे जले शुभे ।

अर्धोदितार्धास्तमिते सूर्यबिंबेऽद्रिसंग ॥ ३२ ॥

शौनकः–

यद्रूपं प्रथमं करोति घटिका पूर्वादिदिक्षु क्रमा-

त्सौभाग्यं निधनं च गोविरहिता रोगोद्गमः सर्वदा ।

धन्या वल्लभतामुपैति नियतं पत्युश्चला सर्वदा

स्यात्साध्वी सुतवित्तबंधु सहिता नंदत्यलं भूतले \।\।३३\।\।

दिनापरार्धे च कपाटसंधौ न वैधृते न व्यतिपातयोगे ।

   क्रांत्योश्च साम्ये कुलिकार्धयामे करग्रहः स्याद्विषभक्षतुल्यः ॥३४॥

न दिवा पराह्णसमये नाधिकमासे करग्रहो न तिथिपाते ।

ग्रहणद्वयमध्यगते ग्रहणादौ सप्तवासरैः परतः ॥ ३५ ॥

शिरसि विमलतैलं धारयेद्वै कुमारी

** धवललुलितरागैर्नागवल्लीदलैश्च ॥ १६ ॥**

** अंत्यजश्वानचांडालोदक्यापतितसूतिकाः ।**

** दर्शनं स्पर्शनं वर्ज्यं धृते तैले तु कन्यया ॥ १७ ॥**

सर्वसंमते–

** विस्तारतो हस्तचतुष्टयेन हस्तोच्छ्रितां मंदिरवामभागे ।**

** स्तंभैश्चतुर्भिः कृतनिश्चलांगां वेदीं विवाहे प्रवदंति तज्ज्ञाः ॥१८॥**

विवाहवेदी गृहमंडपस्य ईशानपूर्वोत्तरदिग्विभागे ।

** सौभाग्यकन्याधनपुत्रयुक्ता शेषैर्विभागैर्विधवा भवति ॥ १९ ॥**

दक्षिणे पूर्वदिग्द्वारे तत्पूर्वोत्तरमादिशेत् ।

** गृहनिर्गमवामांगे वसोर्द्वारं च वेदिकाम् ॥ २० ॥**

ऊषरे दुर्भगा नारी शल्ये चैव मृतप्रजा ।

** द्वारवेधेऽनपत्या च सूत्रच्छेदे कुलक्षयः ॥ २१ ॥**

** गृहस्य दक्षिणे भागे कुर्याद्वेदीं ततः शुभाम् ।**

** अन्यथा नैव कर्तव्या सेत्येवं मनुरब्रवीत् ॥ २२॥**

अविघ्नकारिणं देवं विघ्नराजं प्रपूजयेत् ।

** समोदकाक्षतैः पूर्ण दंपत्योः सन्निधौ न्यसेत् ॥ २३ ॥**

षोडशारत्निकं कुर्याच्चतुर्द्वारोपशोभितम् ।

** मंडपं तोरणैर्युक्तं तत्र देवीं प्रकल्पयेत् ॥ २४ ॥**

अष्टहस्तं च रचयेन्मंडपं वा द्विषट्करम् ।

** चतुःकरां वा हस्तोच्चामिष्टकाभिर्मृदाऽथवा ॥ २५ ॥**

विप्रे षोडशहस्तैश्च राजन्ये द्वादशैस्तु तैः ।

** वसुहस्तमितो वैश्ये शूद्रजातौ चतुःकरः ॥ २६ ॥**

न मुंडनोपनायनं न मेखलाविमोक्षणम् ।

वदंति शौनकादयः सचौलकर्म मुंडनम् ॥ ४७ ॥

न मुंडनं स्याद्रशनादिबंधो न चापि मोक्षो व्रतबंधनस्य ।

  वदंति गर्गप्रमुखा मुनींद्राः शूद्राकृतिं (?) मुंडनमेव नान्यत् ॥४८॥

स्वसृद्वये भ्रातृयुगे स्वसृभ्रातृयुगे तथा ।

  न जातु मंगलं कुर्यादेकस्मिन्मंडपेऽहनि ॥ ४९ ॥

मातृयज्ञक्रियापूर्वं ज्येष्ठं कृत्वा तु मंगलम् ।

ऋतुत्रयं पुनर्यावन्न कुर्याल्लघु मंगलम् ॥ ५० ॥

विवाहकृत्यं दुहितुश्च कृत्वा पश्चाद्विवाहो न सुतस्य कार्यः ।

प्रकीर्तयंत्येवमृषिप्रवर्या न मुंडनं चापि हि मंडनादनु ॥५१॥

दर्शश्राद्धं क्षयश्राद्धं शीताद्भिः स्नानमेव च ।

प्राचीनावीतिकरणं नदीसीमानुपातनम् ॥ ५२ ॥

नांदीश्राद्धे कृते नैव यावन्मातृविसर्जनम् ।

  नदीप्रवाहो नोल्लंघ्यो न दिनादौ न योषिताम् ॥५३॥

वैधव्यं मुनिभिः प्रोक्तं तथैवांगिरसः स्मृतिः ।

 पाणिपीडनविधेरनंतरं चूलिकोपनयने विवर्जयेत् ।

     मासषट्कमुपरागभं त्यजेन्यूनमृक्षमपि पादभेदतः ॥५४॥

ज्येष्ठात्कृत्याच्च षण्मासं न कुर्यालघुमंगलम् ।

कुर्वंति मुनयः केचिदन्यस्मिन्नपि वत्सरे ॥ ५५ ॥

स्त्रीविवाहः कुले निर्गमः कथ्यते

पुंविवाहः प्रवेशो बुधैः कीर्तितः ।

निर्गमादादितो न प्रवेशः शुभ-

   स्तत्र संवत्सरांतो विधिः कीर्तितः ॥ ५६ ॥

ऊर्ध्वं विवाहाच्छुभदो नरस्य

          नारीविवाहोऽपि ऋतुत्रये स्यात् ॥

नारीविवाहादपि हि प्रशस्तं

             नरस्य पाणिग्रहमाहुरार्याः ॥ ५७ ॥

अष्टवर्षा भवेद्गौरी नववर्षा च रोहिणी ।

   दशवर्षा भवेत्कन्या अत ऊर्ध्वं रजस्वला ॥ ५८ ॥

प्राप्ते तु द्वादशे वर्षे यः कन्यां न प्रयच्छति ।

       मासि मासि रजस्तस्याः पिता पिबति शोणितम् ॥५९ ॥

अकीर्तिं भुवि संप्राप्य वसंति निरये यतः ।

 प्राप्नुवंति नराः पापं परदाराभिदर्शनात् ॥ ६० ॥

मातापिताग्रजो भ्राता बांधवाः सहवासिनः ।

   सर्वे ते नरकं यांति दृष्ट्वा कन्यां रजस्वलाम् ॥ ६१ ॥

पितृगेहे च या कन्या रजः पश्यत्यसंस्कृता ।

    ब्रह्महत्या पितुस्तस्याः सा कन्या वृषली भवेत् ॥ ६२॥

   इति शार्ङ्गीयसारसमुच्चये विवाहपटले प्रकीर्णाध्यायः

समाप्तः ॥ १० ॥

___________________

कार्तिकीविवाहपटलम् ।

शौनकादिमुनयस्तु पुष्करे कार्तिकीकरतलग्रहं शुभम् ।

कीर्तयंति धनपुत्रकीर्तिदं दीर्घमायुरमरेज्यताखिलम् ॥ १ ॥

पद्मयोनिरपि कार्तिकी सदा माघमासकृतदारसंग्रहः ।

   सृष्टिकर्तुरपि वांछिताखिलं नात्र विष्टिकुलिकादि चिंतयेत् ॥२॥ 

ब्रह्मविष्णुशिववासवादिभिर्दत्तशोभनवरा हि कार्तिकी ।

तत्र पाणितलपीडने कृते पुत्रवित्तसुखभाग्भवेज्जनः ॥ ३ ॥

नैव गोचरविधिर्न चाष्टकः शोधयेन्न बलमर्कजीवयोः ।

तारकाशशभृतोर्बलं शुभं नैव लग्नविधिमत्र चिंतयेत् ॥ ४ ॥

    भार्गवामरगुरोरदर्शने दुष्टदोषपरिदूषिते दिने ।

कार्तिके सकलदोषनाशनं कारयेत्करतलग्रहं बुधः ॥ ५ ॥

पूर्वतः पृष्ठतो वापि कार्तिक्यां दिनपंचकम् \।

विवाहं तत्र कुर्वीत नात्र कार्या विचारणा ॥ ६ ॥

कुर्याद्गोधूलिकं लग्नं कार्तिक्यां शुभमिच्छता ।

सर्वदोषापहं प्रोक्तं दैवज्ञैः पूर्वसूरिभिः ॥ ७ ॥

कार्तिक्यां घटिकालग्नं कुर्यादज्ञानतोऽपि यः ।

 कर्ता कारयिता चोभौ निहतौ सकलैः सुरैः ॥ ८ ॥

         नष्टे शुक्रे तथा जीवे ग्रहणे चंद्रसूर्ययोः ।

 केशवस्थितिनंदायां विवाहः शोभनः स्मृतः ॥ ९ ॥

         इक्षुसान्निध्य आरामे प्रसिद्धे देवकीर्तने ।

नदीह्रदतडागे वा विवाहः पुष्करे स्मृतः ॥ १० ॥

॥ इति श्रीमांडव्यसंहितायां कार्तिकीविवाहपटलं समाप्तम् ॥

_____________________

॥ मौंजीपटलम् ॥

जनुर्गर्भतो वाष्टमेऽब्देबटोः स्याद्व्रतं माघतः पंचमासेषु शुक्ले।

गुरौजन्मभाच्छोभनेभेऽष्टमाब्दाद्वरंमध्यमंनिन्दितं वर्षमुक्तम्

दिने नापराह्ने प्रदोषे कुजार्की-

विना प्रोक्तधिष्ण्येऽप्यनध्यायहीने ।

दिने पूर्वके पश्चिमे वा शुभं स्या-

दवेधे त्रिधोत्प्रातके सप्तरेखात् ॥ २ ॥

तथा क्रूरयुक्तैष्ययातर्क्षवर्ज्ये

          बटोर्मृत्युदे नो शुभं मंगलं स्यात् ।

ऋगीशः सुरेज्यो यजुर्वेदसाम्नोः

             पती भार्गवारी बुधोऽथर्वनाम्नः॥ ३ ॥

बलाढ्येऽधिपे वास्य होरादिवर्गे

          शुभं मेखलाबंधनं नाधिके तत् ।

करत्रिश्नवः सार्परौद्रर्क्षपूर्वा-

               त्रये मूलभे बह्वृचानां शुभं स्यात् ॥ ४ ॥

गुरुब्राह्यसूर्यादितींद्वर्क्षपौष्णा-

             नुराधोत्तराख्यो यजुः सौख्यकारी ।

करे वासवे विष्णुभे पुष्यरौद्रो-

               त्तरादस्रभे वै श्रियः सामगानाम् ॥ ५ ॥

श्रवः पुष्यमैत्राश्विहस्तेंदुभेषु

         व्रतं सप्तमे भे शुभेऽथर्ववेदे \।

गुरुर्भागर्वश्चंद्रजः सूर्यनामा

               तथेंदुः शुभो वासरो मौंजिबंधे ॥ ६ ॥

नवांशोऽर्कतः क्रौर्यजाड्ये भवेतां

            तथा पापिता पाटवं यज्वता च ।

तथा यज्वता मूर्खताऽथ प्रसंगाद्

               ब्रुवे केंद्रगानां फलं स्पष्टमत्र॥ ७ ॥

सुरेज्ये धनी पुण्यकृत्सौख्यविद्या-

             गुणाढ्यो भृगौ तद्वदेवाथ सौम्ये ।

सदाध्यापकः सूर्यजेंऽत्यादिसेवी

            रवौराजसेवी कुजे शास्त्रवृत्तिः ॥ ८ ॥

वणिग्वृत्तिरिंदौरविः षट्त्रिलीभे

      रिपुत्र्यागा राहुभौमार्कपुत्राः ।

तपस्त्र्यायधीलोचनेऽब्जोऽर्थधर्म-

              शरायत्रिषु ज्ञेज्यशुक्राः शुभाः स्युः ॥ ९ ॥

भवार्यग्निकेऽऽनुः शुभं तून शुक्रो

           न षष्ठः शुभो मृत्युरिप्फस्थितोऽपि ।

तथा लग्नपेंदू षडष्टस्थितौ नो

                 शुभौ देवपूज्योऽपि पूज्यो न मृत्यौ ॥ १० ॥

न लग्ने कुजाकर्कयो राहुकेतू

          बटोर्जीवनं दीर्घकालं सहते ।

न मंदापराह्णाधिमासेषु कंठ-

                ग्रहो देववंद्ये स्थिते सिंहराशौ ॥ ११ ॥

न संध्याभवे गर्जिते नष्टसंस्थे

             गुरौ नीचगे चारिराशिस्थिते वा ।

दिनद्व्यंशशस्तं तृतीयं त्वशस्तं

                 द्विजानामिदं मौजिबंधे विधेयम् ॥ १२ ॥

इति श्री केशवार्कविरचितं मौंजीपटलं समाप्तम् ॥

तथा क्रूरयुक्तैष्ययातर्क्षवर्ज्ये

          बटोर्मृत्युदे नो शुभं मंगलं स्यात् ।

ऋगीशः सुरेज्यो यजुर्वेदसाम्नोः

             पती भार्गवारी बुधोऽथर्वनाम्नः॥ ३ ॥

बलाढ्येऽधिपे वास्य होरादिवर्गे

          शुभं मेखलाबंधनं नाधिके तत् ।

करत्रिश्नवः सार्परौद्रर्क्षपूर्वा-

               त्रये मूलभे बह्वृचानां शुभं स्यात् ॥ ४ ॥

गुरुब्राह्यसूर्यादितींद्वर्क्षपौष्णा-

             नुराधोत्तराख्यो यजुः सौख्यकारी ।

करे वासवे विष्णुभे पुष्यरौद्रो-

               त्तरादस्रभे वै श्रियः सामगानाम् ॥ ५ ॥

श्रवः पुष्यमैत्राश्विहस्तेंदुभेषु

         व्रतं सप्तमे भे शुभेऽथर्ववेदे \।

गुरुर्भागर्वश्चंद्रजः सूर्यनामा

               तथेंदुः शुभो वासरो मौंजिबंधे ॥ ६ ॥

नवांशोऽर्कतः क्रौर्यजाड्ये भवेतां

            तथा पापिता पाटवं यज्वता च ।

तथा यज्वता मूर्खताऽथ प्रसंगाद्

               ब्रुवे केंद्रगानां फलं स्पष्टमत्र॥ ७ ॥

सुरेज्ये धनी पुण्यकृत्सौख्यविद्या-

             गुणाढ्यो भृगौ तद्वदेवाथ सौम्ये ।

नेष्टं नाडीवेधे चान्ये प्राहुः पादानां वेधे

हीनेऽनासन्ने वेधे सर्वाभिर्मैत्रीभिः सौख्यम् ॥ ३ ॥

गणमैत्री –

सौख्यं दंपत्योः श्रस्वारेहाश्वादित्येज्यान्वब्जं।

देवे, चित्रावस्वेंद्रमुशाग्नींद्राग्नीमव्यालम् ॥

दैत्ये ऽन्यन्मर्त्ये, पुंदैत्यानां मृत्युः स्या, द्दै

त्यानां

वैरं देवैः, स्त्रीभं ना भर्तुर्भं रक्षस्तत्रेष्टम् ॥ ४ ॥

नक्षत्रयोनिः –

तत्रेष्टं चेन्नाड्यां योनौ शुद्धिः खेटप्रीतिः स्या-

च्चाश्वेभाजाहिव्यालश्वानौत्वव्योतुव्द्याख्वघ्न्याः ॥

काली द्वीपी काली व्याघ्रद्व्येणश्वानः कीशो द्वौ ।

बभ्रू कीशः सिंहाश्वौ सिंहो गौर्हस्तीयं योनिः ॥ ५ ॥

योनिमैत्री, वर्गमैत्री –

योनिः श्रेष्ठा स्याच्चान्योन्यं वैरं त्यक्त्वा वर्गः स्यात् ।

कुश्वौतुश्चः सिंहष्टुः श्वानस्तुर्व्यालः पुश्चाखुः \।\।

यादेरेणः शोऽविश्वावर्गस्तार्क्ष्य, स्तार्क्ष्यव्यालं, ।

पंचास्यैणं, श्वानाव्योत्वाखु त्याज्यं नित्यं वैरम् ॥६॥

ग्रहमैत्री, वर्धामैत्री –

वैरं त्याज्यं खेटानां दंपत्योर्जन्मन्यन्योन्यं ।

मीनादेराशेर्विप्राद्याश्चत्वारो वर्णा ज्ञेयाः ॥

वा विप्रादेः शुक्रेज्यावीशौ भौमार्काबब्जोज्ञ-

श्चैनिः संकीर्णस्येयं मैत्री भर्तृश्रैष्ट्ये सौम्या ॥ ७ ॥

कन्यादूरं, तारामैत्री–

सौम्यं कन्यर्क्षाद्वा नुर्भं दूरं व्यस्तं न श्रेष्ठं ।

भीरोर्भात्ताराः शस्ता हित्वा पंचर्षींदुत्र्याख्याः \।\।

श्रेष्ठा जन्माख्या दंपत्योस्त्यक्त्वैकक्षं चैकांशे ।

चेत्कन्योत्पत्तौ रव्याद्याश्वाशस्ता न स्युः सर्वे ॥ ८ ॥

वश्यमैत्री, गुरुशुद्धिः–

सर्वे नृृणां वश्याः सिंहं हित्वा तेषां भक्ष्याः स्यु-

स्तोयोत्पन्नाः कूर्षिं त्यक्त्वा सर्वे वश्यास्त्वेणारेः ॥

एवं दिग्भिर्मैत्री चिंत्या कन्योक्ते काले जीवे ।

बुद्ध्यां द्रव्ये लाभे धर्मे मार्गे चोद्वाहो रम्यः ॥ ९ ॥

प्रश्नद्वारा शुभाशुभफलं पुंस्त्रियोर्लक्षणम्–

रम्यस्थाने दैवज्ञं संपूज्य प्रष्टार्थं विप्रं ।

पृच्छेत्तेन प्रश्नाद्यैः श्रेष्ठैः श्रेष्ठं संवक्तव्यम् ॥

भर्ता धर्मस्वायुर्विद्याढ्यो व्याधित्यक्तः श्रेष्ठः ।

कन्या जन्माद्यैः शुद्धा सच्चिह्ना लध्वी वैवाह्या ॥१०॥

कन्यादानकालः–

वैवाह्ये भे कन्यादानं केचित्पूर्वास्वाग्नेये ।

विष्णोर्भे राधायां वैश्वस्य त्रिष्वंशेषु प्राहुः ।

स्वातौ वस्वर्क्षे लग्नं त्यक्त्वात्रान्ये दोषा वर्ज्याः

सौम्यैर्धींगोकेंद्रस्थैः क्रूरैस्त्र्यर्यायस्यैः श्रेष्ठम् ॥ ११ ॥

वर्षशुद्धिः –

श्रेष्ठा आद्याः षट्पक्षा युग्मेऽब्दे कन्या जन्माहा-

च्चौजेऽब्दे ते नो शस्ता व्यस्ता नृृणां वर्षे ज्ञेयाः ॥

खेटाब्दश्रैष्ठ्येसौख्यं हैन्ये कष्टं खेटे वाब्दे

ह्येकस्मिन् शुद्धे मध्यं खेटे शुद्धे वर्षं शस्तम् ॥ १२ ॥

गुरुशुद्धौ विशेषः–

शस्तो देवेज्यःपूर्णं सौभाग्यं कुर्यात्कन्यानां ।

जन्मत्र्ययकाशस्थः पूजाद्यैः शस्तोऽब्दे शुद्धे \।\।

रिप्फांबुस्थः खेदैर्विद्धो रेखाशुद्धो वा मध्यः ।

स्वोच्चादिस्थो वा कालेऽतीते तच्छुद्धिर्नोचिंत्या ॥ १३ ॥

ताराबलं चंद्रबलम् –

नो चिंत्यं तारावीर्यं शुक्ले पक्षे कृष्णे चांद्रं ।

दंपत्योः शश्वद् ग्राह्यं चांद्रं चांद्राभावे स्त्रीणाम् ॥

शुद्धे लग्ने राश्युत्थं चांद्रं वीक्ष्यं भर्तुः सौरं ।

चोद्वाहाद्भर्तुश्चद्रं हित्वा सीमंतं वा यात्राम् ॥ १४ ॥

विवाहांगकार्यम् –

यात्रामुद्वाहापौर्णे जीवेच्छुर्नो कुर्वीतार्वाक् ।

त्र्यर्यंकाहस्स्वाद्याचार्यैर्वर्णाद्यं कार्यं वर्ज्यम् ॥

वैवाह्यं कृत्यं वैवाह्यर्थे वा कन्यादानर्क्षे \।

कर्तव्यं कर्तुश्चंद्रे शुद्धे नो विष्ट्यादौ दोषे ॥ १५ ॥

लग्नशुद्ध्यै त्याज्यदोषाः–

दोषास्त्याज्या लग्ने पंचांगाशुद्धिः क्रांत्योः साम्यं ।

क्रूरैर्विद्धं युक्तं भुक्तं गम्यं भं यद्राहुस्थम् ॥

भानोर्भादिंद्राख्यं गंडांतं यामार्धं शन्यर्थं ।

लत्ताशर्वास्त्रं खार्जूरं संक्रांतिः क्रूरा होरा ॥ १६ ॥

गुरोर्नीचादिविचारः–

क्रूरा होरा दुष्टा क्रूरे वारेऽह्नि स्यादुल्काद्यैः ।

दुष्टं भं तावत्त्याज्यं यावच्चंद्रणामुक्तं स्यात् ॥

नीचस्थो नीचांशे जीवो वर्ज्यःसिंहे वा वक्री \।

चातीचार्यह्नामष्टाविंशत्यां वा गोतौलिस्थः ॥ १७ ॥

वृषतुलागतगुरोर्व्यवस्था, ग्रहयुक्तचंद्रफलं, कर्तरी,–

गोतौलिस्थो वर्ज्योनिंद्ये देशे नान्यस्मिन् जीवः ।

चंद्रः खेटैर्युक्तो नेष्टः सौम्येज्याभ्यां श्रेष्ठः स्यात् ॥

लग्नाभावे चैकर्क्षाशहित्वा श्रेष्ठो वा स्याच्चेत् ।

खेटानां प्रादक्षिण्यं प्राप्तश्च क्रूरांतर्नेष्टः ॥ १८ ॥

चंद्र - लग्न - कर्तरी विचारः–

क्रूरांतर्नेष्टं लग्नं वित्ते मार्गी रिप्फे वक्री ।

क्रूरः सेष्टस्तन्मध्यं विच्छुक्रेज्यैर्दृष्टं वा स्यात् ॥

लग्ने॑दुभ्यां षड्भाढ्याभ्यां तुल्यः सत्खेटो नेष्टो ।

द्यूने क्रूरः शश्वच्चाब्जाशाद्बाणेष्वंशे त्यक्तः ॥ १९ ॥

गुरुशुक्र चंद्राणामस्तादि, बाल्यत्व, वृद्धत्व, जन्ममास, नक्ष प्रतिथीनां वर्ज्यत्वं प्रथमगर्भस्य ज्येष्ठमासवर्ज्यत्वम्–

त्यक्ताः सर्वैः शुक्रेज्याङब्जाअस्तं यातास्ते बाला ।

वृद्धाश्च स्युर्बाल्यं वृद्धत्वं सप्ताहं चाशाहम् ॥

चंद्रस्यैकं त्रिद्युः स्याज्जन्मक्षं मासोऽहर्नेष्टम् ।

चाद्योत्पत्त्योः स्त्रीत्रोर्ज्येष्ठो नेष्टः स्याच्चांद्रो मासः ॥२०॥

सौरादिमासज्ञानं, प्रकारांतरेण जन्ममासादीनां वर्ज्यत्वम्–

मासः सौरो जन्माख्यो यद्राशौ सूर्ये जन्मासौ ।

चांद्रे पक्षौ व्यस्तौ श्रेष्ठौ वाह्न्येवं वा जन्मर्क्षे \।\।

केचित्प्राहुश्चान्यैर्जन्मद्यूर्ध्वं मासो नेष्टः स्या–

दुक्तश्चैवं यज्जन्मर्क्षं वा जन्माहो लग्नं वा ॥ २१ ॥

मासानां फलम्, एकादिज्येष्ठविचारः–

वा मासो नेष्टः पौषश्चैत्रः स्याच्चैत्रः पौषो वा ।

जीवक्षेत्रार्कं चाद्यं पक्षं हित्वोद्वाहे चारुः ॥

माघाद्द्वौवैशाखाद्वावाषाढस्य त्र्यंशः स्त्रीत्रो– ।

श्चैकज्येष्ठं स्याद् द्विज्येष्ठं मध्यं त्रिज्येष्ठं त्याज्यम् ॥२२॥

क्षयमासाधिकमास, दक्षिणायननिषेध, कार्तिकीलग्नविचारः–

त्याज्यं हीनाधिक्यं मासो याम्ये चार्कस्तत्रोर्जे ।

कार्तिक्याः प्रागू वा पश्चात्पंचाहानि श्रेष्ठानि स्युः ॥

संध्यालग्नेऽत्राद्यैर्ये दोषास्ते वर्ज्या देवाग्रे।

रम्ये स्थाने कालेऽतीते कार्यं वा वैवाह्यर्क्षे॥ २३ ॥

विवाहनक्षत्राणि—

वैवाह्यर्क्षाण्याहुर्मूलो मैत्रं पैत्र्यं ब्राह्माद् द्वे ।

स्वात्याहिर्बुध्न्याद् द्वे वैश्वं पादोनं चार्यम्णो द्वे ॥

वैश्वांत्यो भागस्तिथ्यंशो विष्णोर्भस्य द्वाविंशं

नक्षत्रं तत्रस्यैः खेटैःस्यात्प्राजापत्यं विद्धम् ॥ २४ ॥

नक्षत्रवेधः–

विद्धं सौम्यस्थैर्विश्वं पौष्णस्थैश्चोफा यामस्थैः।

मैत्रं श्रस्थैःपित्र्यं हस्तस्यैश्वोभा शस्थैःस्वाती ॥

मूलस्थैरादित्यं भं क्रूरैः कृत्स्नं त्याज्यं सौम्यैः ।

पादः स्याद्वेधश्चाद्याव्ध्योरंध्र्योर्द्व्यरग्न्योन्यम् ॥२५॥

पादवेधः, ग्रहणनक्षत्रत्याज्यत्वम्–

अन्योन्यं वेधस्त्याज्यो नाडीलत्ताद्येषु स्याद्वा ।

यस्मिन् भे ग्रासः स्यात्तत्त्याज्यं चाषण्मासं नेष्टाः ॥

घस्राः स्वर्ग्रासे पूर्णे पादोने खंडेऽघ्रावल्पे ।

ग्रासे चान्वष्टौ सप्तेष्वब्ध्यग्न्यब्जाःप्राक् तत्खंडम् ॥२६॥

त्याज्ययोगाः, क्षयाह, विष्टि, निशीथ, मध्याह्ननिषेधः –

खंडं वाद्यस्त्र्यंशो ह्येकोने विंशे योगे वर्ज्यो।

गंशूवव्यान्त्याद्येष्वाद्या नाड्यः षट्पंचांकांकाः \।\।

षट् तिस्रो वर्ज्याः स्युर्वैव्यौ कृत्स्नौ पित्रोर्नाशाहो ।

विष्टिर्मध्याह्ने घट्यास्त्र्यंशो वा रात्र्यर्धे निंद्यः \।\।२७\।\।

देशपरत्वे निंद्ययोगानां परिहारः, वृद्धिक्षयतिथिदग्धतिथि, मीनार्क- त्याज्यत्वम्-

निंद्या योगा वारर्क्षाह्नां योगे ये चार्यैरुक्ता ।

यस्मिन् यस्मिन् देशे तस्मिन् तस्मिन् देशे ते वर्ज्याः ॥

मृत्याख्या योगा यात्रादौ वर्ज्याः स्युर्नोद्वाहादौ ।

वृद्ध्याख्यं हीनाख्यं दग्धाश्चार्को मीने वर्ज्यः ॥ २८॥

क्रांतिसाम्य, (व्यतीपात - वैधृति) गंडांत- विचारः-

वर्ज्यौ द्वौ पातौ वैव्यौ चंद्रार्यम्णोः क्रांत्योः साम्ये ।

चक्रे भार्द्धेभाहर्लग्नैर्गंडांतं त्रैधं नेष्टम् ॥

पौष्णाश्विन्योरश्लेषापित्रोश्च ज्येष्ठानिर्ऋत्यो- ।

र्मध्यं नाडीवेदाख्यं वेदार्धंपूर्णाद्योस्तिथ्योः ॥ २९ ॥

लग्नगंडांतं, वर्षादेः संधिकालनिषेधः –

तिथ्यंते भांते योगांते वादौ घट्येका नेष्टा ।

मीनाव्योर्नाडी गंडांतं तन्मेषात्तूर्ये तुर्ये ॥

शेषेषु स्यान्नाड्याः षष्ठांशोवर्षादेः षष्ट्यंशः ।

संधेः कालो वा हीनः संधेः संधिः सर्वैर्नेष्टः ॥ ३० ॥

प्रहरार्ध-कुलिकादिज्ञानम् –

नेष्टास्तिग्मांशोर्वेदाग्न्यश्वीष्वष्टाग्न्यंगाख्यास्ते ।

यामार्धाश्चाह्निस्युस्तिथ्यंशैः शन्यर्धं वर्ज्यं स्यात् ॥

मन्वर्कांशेभांगाब्धिद्व्याख्यैर्व्यर्कै रात्रौ लत्ता ।

राह्वर्कारार्किभ्यो विंशार्काग्नीभेष्वृक्षेषु स्यात् ॥ ३१ ॥

हरायुधपातैकार्गलसंक्रांतिकालवर्जनम्–

ऋक्षं यत्सागंशूवैव्यैंद्राणां योगानामंते ।

तत्रस्थे चंद्रे पातोऽसौ वर्ज्योऽथोनिंद्ये योगे ॥

सूर्यर्क्षात्सद्वाविंशोर्क्षोऽजस्थोऽब्जो नेष्टो भानोः ।

संक्रांतेश्वाहस्त्वन्यैः प्राक्पश्चाद्भूपाख्या नाड्यः ॥३२॥

कालहोरा-वारप्रवृत्तिः–

नाड्यो वारप्राप्तेर्द्विघ्नावाणाप्ता होराधीशाः ।

वाराधीशाद्या भास्वच्छुक्रज्ञाब्जैनीज्याराः स्युः ॥

साहर्यामिन्यर्धे सार्धेंद्राभिर्नाडीभिर्युक्ते ।

नाडीतिथ्यंशैः संयुक्ताभिर्वाराप्तिः शश्वत्स्यात् ॥३३॥

देशाचारविचारः–

शश्वच्चिंत्या देशाचारा यस्मिन् देशे ये धर्माः ।

ते नो वर्ज्या भाद्रस्याद्यायां दिकूतिथ्यां कौंडिन्यः ॥

तज्जानामुद्वाहं श्रेष्ठं स्माहैवंकश्चिन्मागें ।

मासे कस्मिँश्चिद्देशे तौ संस्मर्येते नो अन्यैः ॥ ३४ ॥

षड्वर्गानयनम्–

अन्ये ये दोषा नोक्तास्ते लोकाद्द्रष्टव्याश्चाथो ।

मंशुर्ज्ञश्चंसूर्यो ज्ञः शुर्मंजीशौ सौरिर्जीवः ॥

मेषादीशास्ते चांशेशाश्चौजे सूर्येंद्वोर्होरे ।

युग्मे चंद्रार्यम्णोर्द्दष्काणाश्चाद्येष्वंकेशानाम् ॥ ३५ ॥

अंकांशानां मेषश्चैणास्यस्तौली कर्कश्चाद्याः ।

अर्कांशाः स्वात् ज्ञेयाः शुक्रज्ञेज्यैन्यारांशा युग्मे \।\।

पंचाद्र्यष्टेष्विष्वाख्याश्चौजे ते व्यस्तस्थाः क्षेत्रं ।

होरा त्र्यंशो नंदाशोऽर्काशस्त्रिंशोऽयं षड्वर्गः ॥ ३६ ॥

वर्गो ज्ञेयः खेटस्य स्यात् यो यस्योक्तः स श्रेष्ठः ।

सन्मित्रस्वस्थः प्राग् लग्ने द्वयंघ्रौभेऽन्यांशः कुर्यात् ।

नाशं चाद्व्यंघ्रौकन्या तौली चापी पुंयुग्मांशः ॥

शस्तस्ते नंदांशा नो साब्जक्रूराः सौख्यं दद्युः ॥३७॥

दृष्टिविचारः । जन्मनि सक्रूरराश्यंशस्य निषेधः–

दद्यादायुर्भर्तुश्चांशेशोंऽशं लग्नं पश्यन् वा ।

प्राप्तस्तद्वच्चांशास्तेशोंऽशास्तं लग्नास्तं वध्वाः ॥

लग्नेशो लग्नं चैवं पुंसः श्रेष्ठं कुर्यान्नार्याः ।

अस्ताधीशश्चास्तं चेदंशादेर्मुख्या स्याद् दृष्टिः \।\।३८\।\।

दृष्टिर्न स्याल्लग्ने खेदानां द्वित्र्यष्टांत्यस्थाना-

मंशास्ताभ्यां शुद्धं लग्नं पुंनार्योरायुर्वृद्ध्यै ॥

तद्धीनं रिष्टायोत्पत्तौ योंऽशः स क्रूरोऽस्मिन् स्यात् ।

चंद्रस्थे नेष्टं लग्नस्थेऽप्योजस्वी चेन्नाऽसौ स्यात् ॥ ३९ ॥

भर्तृयुग्मयोगविचारः–

स्याच्छीघ्रं लग्नं सांशं वयं नक्रे जूके चंद्रे ।

लग्ने तूर्णे चैवं चंद्रे योषित्खेदैर्दृष्टे स्यात् ॥

कामिन्याः पुंयुग्मं चेत्केंद्रे यायी चौजस्वी वा ।

युग्मेऽब्जे क्रूरैर्दृष्टे चेत्सौम्यैर्दृष्टोऽब्जो न स्यात् ॥४०॥

लग्नद्रेष्काणनवांशपतानां षडष्टमवर्जनं, ग्रहस्पष्टीकरणम्–

न स्यादायुर्लग्नेशेऽष्टस्थे षष्ठे वा दंपत्यो-

श्चैवं द्रेष्काणेशे चांशाधीशेऽथो याता नाड्यः ॥

मध्यांशैर्निघ्नाः सर्वाभिर्लब्धं चांशाद्यं हीने ।

याते खेटे स्वं हीनं चांशाधिक्ये खेटः स्पष्टः ॥ ४१ ॥

अयनांशलग्नेष्टकालानयनम् –

स्पष्टः शाको वेदच्छंदोब्ध्यूनःषष्ट्याप्तेंऽशाः स्युः ।

तैर्युक्तौ लग्नार्कौंकृत्वा रात्रौ भार्धाढ्यं सूर्यम् ॥

भानोर्भोग्यांशैर्निघ्नं स्वं भं लग्नस्यांशैर्भुक्तः ।

खाग्न्याप्त्योर्योर्योगश्चांतर्लग्नाढ्यः कालः स्याच्छुद्धः ॥४२॥

नवमांशोपरिलग्नस्पष्टीकरणम् वर्गोत्तमफलं च–

शुद्धं लग्नं स्यादेवं दिग्भिर्निघ्ना रामैर्भक्ताः ।

नंदांशा भुक्ता लग्नस्य त्रिंशांशाः स्पष्टा ज्ञेयाः ॥

काले सार्ध्येऽशस्यादौ त्र्यंशं चापस्य त्र्यंशार्धं ।

दद्याद्वा वर्गश्रेष्ठादन्यं चांत्यांशं नो लग्ने ॥ ४३ ॥

अस्तंगतलग्नेशादेर्निषेधः –

लग्नेशेऽस्तं याते पुंसो नेष्टं द्यूने वध्वाः ।

सौम्ये वा कन्यापुंयुग्मांशौ नेष्टौ चान्यैर्मध्यौ \।\।

यस्मात् ज्ञो भास्वद्रश्मौ वर्ती शश्वच्चोपार्कत्वं

गच्छत्यस्माद्वा लग्नेशश्चांशाधीशः स्यान्मध्यः ॥ ४४ ॥

मध्यमफलग्रहस्य सौम्यदृक्कालादिवलवशाच्छ्रेष्ठत्वं, क्रूरदृक्नीचादिवशादनिष्टत्वं, चोत्तमाधमभेदेन रेखाप्रदाग्रहः–

मध्यः खेटः कालाद्यैश्चौजोभिर्युक्तः श्रेष्ठश्चेत् ।

सौम्यैर्दृष्टः स्यात् क्रूरैर्दृष्टो नीचादिस्थो नेष्टः ॥

एवं श्रेष्ठोऽपि स्यान्मध्यस्त्र्यायाष्टारिस्थौ श्रेष्ठौ ।

सूर्याकीं शेषस्थौ मध्यौ वर्ज्यौ लग्नद्यूनस्थौ ॥ ४५ ॥

लग्नद्यूनाष्टस्थो भौमो वज्यः कर्मस्थोऽप्यन्यैः ।

शत्रुत्र्यायस्थः श्रेष्ठोऽन्यस्थो मध्योऽथो जीवज्ञौ ॥

रिप्फद्यूनाष्टस्थौ वर्ज्यावन्यस्थौ श्रेष्ठावन्यैः ।

रिप्फे मध्यौ शुक्रस्त्याज्योऽष्टारिद्यूनार्काग्निस्थः ॥४६॥

अर्काग्न्योर्मध्योऽन्यैः शेषेषु श्रेष्ठो द्वित्र्यायस्थः ।

चंद्रः श्रेष्ठोऽन्यैश्वांबुस्थो मूर्त्यष्टारिस्थो वर्ज्यः ॥

शेषस्थो मध्यो राहुः केतुश्चांबुद्यूनाद्यस्थौ ।

नेष्टौ सौरेणान्यैस्तुल्यौ जीवो मध्यो वा द्यूने ॥४७॥

चंद्रान्वितराहुकेतुवर्जनं दोषाणां चादोषत्वम् –

द्यूने चंद्रो नेष्टः केतोश्चागोर्लग्नाद्बंधुस्थः ।

केतुर्मध्यः स्याद्दोषाणां लक्षं हंतीज्यः केंद्रे \।\।

द्यूनं हित्वा शुक्रो भूम्नश्चैवं ज्ञो यैः सद्योगैः ।

ये दोषा बाध्यंते तत् ज्ञैः सम्यक् चिंत्यास्ते योगाः ॥ ४८ ॥

कियद्ग्रहरेखायां लग्नं कार्यं, नंदादियोगानां फलम् –

योगैस्तैः पंचांगादीन् संशोध्यार्यैर्लग्नं देयम् ।

वाणैः खेटैःश्रेष्ठैः शस्तं वेदैर्मध्यं तल्लग्ने \।\।

ज्ञे नंदः शुक्रे भद्रो जीवे जीवो जीवज्ञाभ्यां ।

जीमूतः काव्येज्याभ्यां स्थाणुर्जेयो विच्छुक्राभ्याम् ॥४९॥

शुक्रज्ञेज्यैः संज्ञेयो नंदे’ कन्योढा पृथ्वीशं ।

पुत्रं सूते भद्रे सा देवीशब्दं प्राप्नोति द्राक् ॥

जीवेऽपि श्रीयुक्ता धर्माढ्या सा जीमूते नप्तुः ।

पुत्रान् दृष्ट्वा भर्त्रा सार्धं प्राप्नोत्यंते देवत्वम् ॥५०॥

दैवाज्जातश्चेदुद्वाहः स्थाणौ सा सत्पुत्राढ्या ।

वर्गस्यौन्नत्यं कुर्याज्जेये हीनज्ञातेर्जाता ॥

सैश्वर्यं सौभाग्यं चेत्यूढा संजेये सद्भोगान् ।

भुक्त्वा क्ष्मापालं पुत्रं दृष्ट्वान्ते याति स्वर्लोकम् ॥ ५१ ॥

शुभाशुभयोगानां निर्देशः । व्यालादियोगफलम् –

लोकात् ज्ञेया अन्ये ये शस्ता योगाश्चाथो निंद्याः ।

लग्नेऽर्के व्यालो भौमे पातालाख्यः कोणे क्षीणः ॥

राहौध्वांतः केतौ कालस्तेषूढा सा वैधव्यं ।

चायच्छत्याचार्यैस्ते योगा वर्ज्या भावेऽपि स्युः ॥५२॥

भावसंधिसाधनं, लग्नजन्मराशितोऽनिष्टलग्नानि–

भावाश्चिंत्याश्चार्काद्यद्वद्रात्र्यर्धं तद्वल्लग्नाद् ।

वा कृत्वा भूयस्तस्मात्तन्नाडीभिर्लग्नं साध्यम् ॥

अस्तंगतलग्नेशादेर्निषेधः –

लग्नेशेऽस्तं याते पुंसो नेष्टं द्यूने वध्वाः ।

सौम्ये वा कन्यापुंयुग्मांशौ नेष्टौ चान्यैर्मध्यौ \।\।

यस्मात् ज्ञो भास्वद्रश्मौ वर्ती शश्वच्चोपार्कत्वं

गच्छत्यस्माद्वा लग्नेशश्चांशाधीशः स्यान्मध्यः ॥ ४४ ॥

मध्यमफलग्रहस्य सौम्यदृक्कालादिवलवशाच्छ्रेष्ठत्वं, क्रूरदृक्नीचादिवशादनिष्टत्वं, चोत्तमाधमभेदेन रेखाप्रदाग्रहः–

मध्यः खेटः कालाद्यैश्चौजोभिर्युक्तः श्रेष्ठश्चेत् ।

सौम्यैर्दृष्टः स्यात् क्रूरैर्दृष्टो नीचादिस्थो नेष्टः ॥

एवं श्रेष्ठोऽपि स्यान्मध्यस्त्र्यायाष्टारिस्थौ श्रेष्ठौ ।

सूर्याकीं शेषस्थौ मध्यौ वर्ज्यौ लग्नद्यूनस्थौ ॥ ४५ ॥

लग्नद्यूनाष्टस्थो भौमो वज्यः कर्मस्थोऽप्यन्यैः ।

शत्रुत्र्यायस्थः श्रेष्ठोऽन्यस्थो मध्योऽथो जीवज्ञौ ॥

रिप्फद्यूनाष्टस्थौ वर्ज्यावन्यस्थौ श्रेष्ठावन्यैः ।

रिप्फे मध्यौ शुक्रस्त्याज्योऽष्टारिद्यूनार्काग्निस्थः ॥४६॥

अर्काग्न्योर्मध्योऽन्यैः शेषेषु श्रेष्ठो द्वित्र्यायस्थः ।

चंद्रः श्रेष्ठोऽन्यैश्वांबुस्थो मूर्त्यष्टारिस्थो वर्ज्यः ॥

शेषस्थो मध्यो राहुः केतुश्चांबुद्यूनाद्यस्थौ ।

नेष्टौ सौरेणान्यैस्तुल्यौ जीवो मध्यो वा द्यूने ॥४७॥

चंद्रान्वितराहुकेतुवर्जनं दोषाणां चादोषत्वम् –

द्यूने चंद्रो नेष्टः केतोश्चागोर्लग्नाद्बंधुस्थः ।

केतुर्मध्यः स्याद्दोषाणां लक्षं हंतीज्यः केंद्रे \।\।

पंचांगाद्यैः शुद्धं मूर्त्यष्टारिस्थं चंद्रं हित्वा ।

कैश्चिद्भौमोऽष्टाद्यास्तस्थो वर्ज्यःशुक्रोऽष्टारिस्थः ॥५८॥

अष्टारिस्थो लग्नेशो वर्ज्यश्वास्तं प्राप्तो नान्यैः ।

ते वर्ज्या यस्माद् द्यूने सूर्ये श्रीपेणास्मिन् लक्ष्म्याः ॥

उद्वाहश्चाकारि ग्राह्यं सार्कं सौरे तद्वारे ।

चान्यैस्त्यक्तं शन्यर्द्धाद्यामार्द्धाद् व्यर्कं देवेज्ये ॥ ५९ ॥

ग्रंथसमाप्तिः, प्रणामपूर्वं गणेशस्मरणम्–

देवेज्ये पूर्णाब्जे भे, पूर्णव्योमेंद्राढ्येसाब्धौ

पूर्णाब्धौ शाके प्राप्ते, पूर्णैकेऽर्के, जीवे वारे ॥

पौषे पूर्णायां पूर्णे चंद्रे पुष्ये पूर्णं प्रोक्तम् ।

वैवाद्यं कर्मेदं नाडीमाने नत्वा हेरंबम् ॥ ६० ॥

स्ववंशपरिचयः–

श्रीगौडज्ञातिजातो द्विजवरतिलकः श्रीजगन्नाथशर्मा \।

तत्सूनुः श्रीमहीनद्युदधियुतितटस्तंभतीर्थाधिवासी ॥

रामः पीतांबरेण द्विजचरणनतेनार्थसारं सुबोधम् ।

तज्जेनोद्वाहसंज्ञं लघुपटलमकारीशरामप्रसादात् ॥ ६१ ॥

॥ इति श्रीमद्गौडज्ञातीयपंडितरामात्मजेन पीतांबरेण विरचितं नाडीमानविवाहपटलं संपूर्णम् ॥

]


  1. “वराहमिहिरः– मित्रमुदासीनोऽरिर्व्याख्याता ये निसर्गभावेन । तेऽधिसुहृन्मित्रसमास्तत्कालमुपस्थिताश्चिंत्याः ॥ मूलत्रिकोणषष्टत्रिकोणनिधनैकराशिसप्तमगाः । एकैकस्य यथोक्तं भवंति तात्कालिका रिपवः ॥” ↩︎

  2. “पुरुषा रविगुरुभौमा नपुंसकाख्यौ बुधार्कपुत्रौ च । नार्यौं भृगुचंद्रमसौ ग्रहस्वभावास्त्रिधा प्रोक्ताः ॥ १ ॥”

    सबलैरुभयोः प्रीतिः सर्वथा स्यात्करग्रहे ॥ ५५ ॥ ↩︎ ↩︎