दानमयूखः

[[दानमयूखः Source: EB]]

[

अथ दानमयूखस्य सूचीपत्रम्।

मङ्गलाचरणम् अथ परिभाषा
दानस्वरूपम् पूजाङ्गहोमः
दानप्रशंसा स्वगृह्योक्तं कर्त्तव्यमिति
दानत्रैविध्यम् अविरोधिपारक्यग्रहणं
दानसामान्येतिकर्त्तव्यता अन्यथाकरणे
पूर्त्तधर्माः अयातयामानि
अथ पात्रम् वर्ज्यदर्भाः
अथ देयम् यथोक्तवस्त्वसम्पत्तौ
शुल्कादिस्वरूपम् अनादेशे
वित्तात्कियतिदानं कर्त्तव्यम् मूलमन्त्रलक्षणम्
कृपणाशक्तविषये छन्दर्षिदेवता ज्ञातव्येति
अदेयानि पञ्च रत्नानि
अग्राह्याणि पञ्चगव्यम्
अथ कालाः त्रिमधु
पुण्यदेशाः पञ्चपल्लवाः
प्रतिग्रहे देशनिषेधः चतुःसमम्
दातृकृत्यम् सर्वगन्धम्
देयपात्राऽसन्निधाने यक्षकर्दमः
प्रतिगृहीतृकृत्यम् सर्वोषध्यः
अप्रत्याख्येयम् सौभाग्याष्टकम्
द्रव्यदेवताः महारत्नानि
अष्टाङ्गोऽर्घः षडस्रम्
सप्तधातवः पद्मम्
मण्डलार्थं रङ्गाः अष्टास्रम्
नवकौतुकानि अथ चतुर्विंशांशाः
दशाङ्गधूपः अष्टमांशाः
प्रतिमालक्षणम् षष्ठांशाः
तुलाधिष्ठितदेवताप्रतिमालक्षणानि द्वादशांशाः
दानकाले प्रतिमानां देवत्वम् अथ खातम्
कुम्भलक्षणानि अथ योनिः
सप्तधान्यानि अथ षोडशारचक्रम्
सप्तदशधान्यानि ग्रहपूजाप्रकारः
अष्टादशधान्यानि विनायकादिलक्षणानि
दक्षिणा लोकपालरूपाणि
द्रव्यमानम् तेषां पूजाप्रकारः
धान्यादिमानम् अथ पुण्याहवाचनम्
भूमानम् नीराजनाभिषेकौ
मण्डपभूमेरुच्छ्रायः आचार्यवरणम्
प्राचीसाधनम् रक्षासूत्रबन्धनम्
मण्डपादिलक्षणम् मातृकापूजा
कुण्डानि वृद्धिश्राद्धम्
अथ योनिकुण्डम् अथ वास्तुपूजा
अर्द्धचन्द्राभम् मण्डपपूजा
अथ त्रिकोणम् द्वारपूजा
अथ वृत्तम् मण्डपदेवतास्थापनम्
अधिदेवतानाम् गोसहस्रम्
प्रत्यधिदेवतानां प्रयोगः
लोकपालानाम् हिरण्यकामधेनुः
वस्वाद्येकादशानाम् हिरण्याश्वदानम्
एषां पूजा हिरण्याश्वरथदानम्
कलशस्थापनपूजने हेमहस्तिरथदानम्
वितानवन्धनम् पञ्चलाङ्गलदानम्
जपसूक्तानि धरादानम्
बलिदानम् विश्वचक्रदानम्
पूर्णाहुतिः महाकल्पलतादानम्
अभिषेकः सप्तसागरदानम्
अथ दानानि रत्नधेनुदानम्
तत्रादौ तुलापुरुषदानम् महाभृतघटदानम्
तुला पुरुषदानप्रयोगः अथ दशमहादानानि
रजतादितुलाविधिः तत्रादौ काञ्चनदानम्
नानारोगघ्नादितुलापुरुषदानम् शतमानदानम्
घृतादितुलाविधिः रजतदानम्
रूप्यादितुलादानम् अश्वदानम्
हिरण्यगर्भदानम् श्वेताश्वदानम्
अथैतत्प्रयोगः तिलदानम्
ब्रह्माण्डदानम् महातिलपात्रम्
अथ प्रयोगः तिलकुम्भदानम्
कल्पतरुदानम् तिलकरकदानम्
प्रयोगः गजदानम्
दासीदानम्
रथदानम् उभयतोमुखीदानम्
महीदानम् कण्ठप्रवलकम्बलम्
गृहदानम् वैतरणीदानम्
गृहवास्तुशान्तिप्रयोगः महिषीदानम्
प्रतिश्रयदानम् मेषीदानम्
कन्यादानम् अजादानम्
कपिलादानम् मेषदानम्
दशधेनुदानानि पर्वतदानानि
तत्रादौ गुडधेनुः तत्रादौ धान्यपर्वतदानम्
तिलधेनुः लवणाचलदानम्
घृतधेनुः गुडपर्वतदानम्
जलधेनुदानम् सुवर्णाचलदानम्
क्षीरधेनुः तिलाचलदानम्
दधिधेनुः अर्द्धोदये तिलाचलदानम्
मधुधेनुः कार्पासाचलदानम्
रसधेनुः घृताचलदानम्
शर्कराधेनुः रत्नाचलदानम्
कार्पासधेनुः रौप्याचलदानम्
लवणधेनुः शर्कराचलः
सुवर्णधेनुः शिखरदानम्
वन्ध्यात्वहरं सुवर्णधेनुदानम् भद्रनिधिदानम्
स्वरूपतो गोदानम् आनन्दनिधिदानम्
हेमशृङ्गीदानम् अथ देवतादानानि
देवार्थधेनुदानम् तत्रादौ दशावतारदानम्
ब्रह्मविष्णुरुद्रदानम्
द्वादशादित्यदानम् पुस्तकदानम्
चन्द्रादित्यदानम् छत्रोपानहदानम्
लोकपालाष्टकदानम् अन्नदानम्
नवग्रहदानम् वर्षाशनदानम्
वारदानानि ताम्बूलदानम्
शूलदानम् गन्धद्रव्यदानम्
आत्मप्रतिकृतिदानम् रत्नदानम्
धनदमूर्त्तिदानम् गलन्तिकादानम्
शालग्रामदानम् प्रपादानम्
कालपुरुषदानम् उदकदानम्
कालचक्रदानम् धर्मघटदानम्
यमदानम् यज्ञोपवीतदानम्
आयुष्करदानम् यष्टिदानम्
सम्पत्करदानम् दण्डदानम्
कृष्णाजिनदानम् इन्धनदानम्
शय्यादानम् अग्नीष्टिकादानम्
वस्त्रदानम् दीपदानम्
आसनदानम् अभयदानम्
पात्रदानम् मासेषु दानानि
स्थालीदानम् अश्वत्थसेचनम्
पाकदानम् पान्थोपचाराः
विद्यादानानि गोपरिचर्या
पुराणदानम् सहस्रादिविप्रभोजनविधिः
वेददानम् नानाद्रव्यदानमन्त्राः

इति दानमयूखस्य सूचीपत्रम्।

श्रीगणेशाय नमः॥

अथ श्रीभगवन्तभास्करस्य

दानमयूखः।

विद्वद्वरभट्टश्रीनीलकण्ठविरचितः॥

यो लीलया सन्तनुतेऽत्रविश्वे
तत् पालयत्यात्मनिविश्वरूपे॥
लयं नयत्याशु च पूर्णरूपः
शिवं तनोत्वाशु रविर्ममासौ॥१॥
श्रुतःः स्मृतीर्वीक्ष्य पुराणजातं
तत्तन्निबन्धानपि सन्निबन्धात्॥
श्रीशङ्करस्यात्मजएषदाने
श्रीनीलकण्ठो विवृणोति कृत्यम्॥२॥

परस्वत्वोत्पत्त्यन्तो द्रव्यत्यागो दानम्।व्यत्ययविनिमयादयस्त्वेतव्द्याप्या एव।दानपदप्रयोगादिति केचित्।परे प्रयोगस्य भाक्तत्वात्तद्भिन्नत्वेनापि विशेषणीयमित्याहुः।दामोदरठक्कुरस्तु क्रयादि वारयितुमदृष्टार्थत्वेन विशेषणीयम् प्रीत्यादिदाने दानपदं गौणमित्यूवे।तन्न।सोमक्रयातिव्याप्त्यवारणात्।गौण्यांमानाभावाच्च।दूरस्थविप्राद्युद्देशेन त्यक्तस्यापहर्त्ता तु प्रत्यवैत्येव। तादृशापहारे शिष्टविगानेन निषेधकल्पनात्।परस्वंनाददीतेत्येवमाकारकःप्रत्यक्षस्तु निषेधो न प्रवर्त्तते।अपहारदशायां कस्याऽपि स्वत्वाभावात्।दातुः पुनरुत्पत्तौ तु मानाभावः।रक्षणे तु परकीयस्यापि प्रीत्यादिनोपपद्यते एव।अग्न्युद्देशत्यक्तपुरोडाशादा-

भगवन्तभास्करस्य

विव।अन्यथा तत्राऽपि पुनरुत्पत्तिप्रयोजकस्विष्टकृदादिविध्यभावेऽपि पुनरुत्पत्तिप्रसङ्गः। स्विष्टकृदादिविधिसत्त्व एव पुनरुत्पत्तिर्नान्यथा। त्यक्तोपादाने विगानादिति निर्णायितं तन्त्ररत्नादौ।न त्यागकाले स्वत्वापगमः, किं तु विप्रकर्त्तृकस्वीकारकाल इति तु कस्यचिद्व्याहतः प्रलाप उपेक्षणीय एव। यदि केनचित् कञ्चिद्ब्राह्मणमुद्दिश्य किञ्चिद् द्रव्यं सुवर्णरजतादि, मनसा पात्रमुद्दिश्य जलमध्ये जलं क्षिपेत् * दाता तत्फलमाप्नोति प्रतिग्राही न दोषभागित्यादिवचनप्रतिपादितेन विधिनोत्सृज्य देशाऽन्तरस्थाय तस्मै तद्द्रव्यं प्रहितम्।तच्च यदि मध्येमार्गंनष्टं चौरैर्वापहृतं तदा दातुर्न कोऽपि प्रत्यवायः।प्रमाणाभावात् दानफलं तु नैव जायते। ब्राह्मणस्वत्वापत्यवसानकस्योत्सर्गस्याजातत्वात्।नचानेन वचसा दानानुकल्पेन पात्रोद्देश्यकः सङ्कल्प एव विधीयते, न तु पात्रस्वत्वोत्पत्तिपर्यन्तताऽपि।उद्देशमात्रश्रवणाद् इति वाच्यम्। प्रजापतिव्रतान्तर्गतोद्यदादित्यानीक्षणसङ्कल्पवद् अत्रापि फलपर्यन्तताया आवश्यकत्वात्।अन्यथा तत्रापि सङ्कल्पमात्रादेव फलं स्यात्।अस्त्वितिचेन्मैवम्।तस्य व्रतमिति भावरूपव्रतोपक्रमेणाभावरूपाऽऽदित्यानीक्षणाद्युक्तिर्विरुद्धोपक्रमानुरोधात्प्रतिपालनीयस्वार्थाऽव्यभिचारिणीं भावरूपां संकल्पक्रियां लक्षयति।तत्र च परिपालितेऽनीक्षणादौ व्यभिचारात् सङ्कल्पलक्षणैवदुर्घटा स्यात।अतो न सङ्कल्पमात्रात् तत्र फलम्। किञ्चात्र वैधदेशकालावच्छेदेनपात्रहस्तप्रक्षेपासम्भवे तत्स्थाने मानसपात्रोद्देश्यको जलाधिकरणको जलप्रक्षेपो विधीयते।न तु पात्रस्वत्वापत्तिपर्यन्तताऽपि बाध्यते।यद् दातृप्रतिगृहीतृपदैस्त्यागप्रतिग्रहयोः प्रतीतेः।अतो न प्रतिगृहीतृव्यापारं विनोद्देशविशिष्टजलप्रक्षेपमात्रात् फलमिति दिक्॥

दानमयूखः।

यत्तु देवलः।अर्थानामुदिते पात्रे श्रद्धया प्रतिपादनम्। दानमित्यभिनिर्दिष्टं व्याख्यानं तस्य कथ्यत इति॥ तद् वक्ष्यमाणसात्त्विकदानोक्त्यर्थं, न दानसामान्यपरम्। इति दानस्वरूपम्॥

एतत्प्रशंसा सामवेदोपनिषदि।दानेन सर्वान् कामानवाप्नोति चिरञ्जीवत्वमिति॥व्यासः। यद्ददासि विशिष्टेभ्यो यदश्नासि दिने दिने।तत्ते वित्तमहं मन्ये शेषं कस्यापि रक्षसि।ग्रासादर्द्धमपि ग्रासमर्थिभ्यः किं न दीयते। इच्छानुरूपो विभवः कदा कस्य भविष्यतीत्यादि॥

तच्च दानं त्रेधोक्तं भगवद्गीतासु।दातव्यमिति यद्दानं दीयतेऽनुपकारिणे।देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम्॥ यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः।दीयते च परिक्लिष्टं तद्राजसमुदाहृतम्॥ अदेशकाले यद्दानगपात्रेभ्यश्च दीयते। असंस्कृतमवज्ञातं तत्तामसमुदाहृतम्॥विष्णुधर्मोत्तरे।तामसानां फलं भुङ्क्ते तिर्यक्त्वेमानवः सदा। वर्णसङ्करभावेन वार्द्धके यदि वा पुनः॥ बाल्ये वा दासभावे वा नात्र कार्या विचारणा। अतोऽन्यथा तु मानुष्ये राजसानां फलं भवेत्। सात्विकानां फलं भुङ्क्ते देवत्वे नाऽत्र संशयः॥ मात्स्ये।येषां पूर्वकृतं कर्म सात्त्विकं मनुजोत्तम।पौरुषेण विना तेषां केषाश्चिद्दृश्यते फलम्॥ कर्मणा प्राप्यते लोकान्राजसस्य तथा फलम्।कृच्छ्रेण कर्मणा विद्धि तामसस्य तथा फलम्॥ हारीतः। मुमूर्षुस्तामसं यच्चाप्रकृतो ददातीतिअप्रकृतोऽसावधानः।गारुडे, अर्हते यत् सुवर्णादिदानं तत् कायिकं मतम्। आर्त्तानामभयं दद्यादेतद्धि वाचिकं स्मृतम्॥ विद्यामादाय यज्जप्यैस्तद्दानं मानसं द्विजा इति॥

अथ दानसामान्येतिकर्त्तव्यता॥तत्र दानाऽधिकारस्तु चतुर्णामपि वर्णानां स्त्रीणां च।वर्णानामाश्रमाणां च चातुर्वर्ण्ये

युधिष्ठिर।दानधर्मं प्रवक्ष्यामि यथा व्यासेन भाषितम् इति व्यासोक्तेः॥स च निषादस्थपतिवद् वैदिकमन्त्रवत्स्वपि समन्त्रक एव स्त्रीशूद्रयोरविरुद्धः।मदनरत्नेजातूकर्ण्यः।अधिकारी भवेच्छूद्रः पूर्त्तधर्मं न वैदिके।पूर्त्तधर्मास्तत्रैव स्मृत्यन्तरे।बहिर्वेदि च यद्दानं तत्पौर्त्तिकमुदाहृतम्॥तत्रैव व्यासोऽपि।अन्तर्वेद्यां च यद्दानमिष्टं तदभिधीयते इति॥

अथ पात्रम्।याज्ञवल्क्यः।न विद्यया केवलया तपसा वाऽपि पात्रता।यत्र वृत्तिमिमे चोभे तद्धि पात्रं प्रचक्षत इति॥ व्यासः।प्रथमं तु गुरोर्द्दानं दत्वा ज्येष्ठमनुक्रमात्।ततोऽन्येषां तु विप्राणां दद्यात् पात्रानुरूपतः॥ भविष्यपुराणे। सन्निधानस्थितान् विप्रान्दौहित्रं विट्पतिं तथा। भागिनेयं विशेषेण तथा बन्धून् गृहागतान् ।नातिक्रामेन्नरस्त्वेतान् सुमूर्खानपि दीयते।अतिक्रम्य महारौद्रं रौरवं नरकं व्रजेत्॥विट्प्रतिर्जामाता।विष्णुः। मातृष्वसा स्वसा चैवतथैव च पितृष्वसा।मातामही भागिनेयी भागिनेयस्तथैव च॥ दौहित्रश्चैव जामाता तेषु दत्तमिहाक्षयम्। श्रीभ्रष्टेषु तथा दत्तं तदप्यक्षय्यमुच्यते॥मातापित्रोर्गुरौ मित्रे विनीते चोपकारिणि। दीनानाथविशिष्टेभ्यो दातव्यं भूतिमिच्छता॥विष्णुः।पितुः शतगुणं दानं सहस्रं मातुरेव च। अनन्तं दुहितुर्दानं सोदर्य्ये दत्तमक्षयम्॥एतत् प्रशंसामात्रम्। दक्षः।सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे। सहस्रगुणमाचार्ये त्वनन्तं वेदपारगे॥व्यासः।ब्रह्मबीजसमुत्पन्नो मन्त्रसंस्कारवर्जितः। जातिमात्रोपजीवी च भवेदब्राह्मणः स तु॥ गर्भाधानादिभिर्युक्तस्तथोपनयनेन च।न कर्मविन्नचाधीते स भवेद्ब्राह्मणब्रुवः॥तथा।देवार्चनपरो नित्यं वित्तार्थी वत्सरत्रयम्।असौ देवलको नाम हव्यकव्येषु गर्हितः॥ यत्तु बृहस्पतिना, शूद्रे सम-

गुणं दानं वैश्येतु द्विगुणं स्मृतम्।क्षत्रिये त्रिगुणं प्रोक्तं ब्राह्मणे षड्गुणं स्मृतमिति शूद्रादीनामपि पात्रतोक्ता, साऽन्नाच्छादनपरा। अन्नाच्छादनदानेषु पात्रं नैव विचारयेत्।अन्नस्य क्षुधितं पात्रं विवस्त्रो वसनस्य चेति विष्णुधर्मोक्तेः॥ अपात्रायाऽमन्त्रकं दानम्। मन्त्रपूर्वंतु यद्दानमपात्राय प्रदीयते।दातुर्निकृत्य हस्तंतु श्रोतुर्जिह्वां निकृन्ततीति शातातपोक्तेः॥ तथा।यस्य वेदश्च वेदी च विच्छिद्येते त्रिपूरुषम्। स वै दुर्ब्राह्मणो नाम यश्च वै वृषलीपतिरिति॥ अपात्रमित्यर्थः॥

अथ देयम्।यथाविधेन द्रव्येण यत्किञ्चित् कुरुते नरः। तथाविधमवाप्नोति स फलं प्रेत्य चेह च॥तथाविधं शुक्लेन शुद्धं शबलेन दुःखसंमिश्रं कृष्णेनासुखोदयम्।शुक्लादिस्वरूपं तु स्मृतौ। श्रुतशौर्य्यतपः कन्यायाज्यशिष्यान्वयागतम्। धनं सप्तविधं शुक्लमुदयोऽप्यस्य तद्विधः॥ कुसीदकृषिवाणिज्यशिष्यशुक्लानुवृत्तितः। कृतोपकारादाप्तं च शबलं समुदाहृतम्॥पार्श्वकद्यूतचौर्यार्त्तिप्रतिरूपकसाहसैः।व्याजेनोपार्जितं यत्तत्सर्वेषां कृष्णमुच्यते इति॥ पार्श्वकं सर्वदा समीपस्थित्या सेवा। प्रतिरूपकं वेशान्तरग्रहणम्। शिवधर्मे।तस्मात्त्रिभागं वित्तस्य जीवनाय प्रकल्पयेत्। भागद्वयं तु धर्मार्थमनित्यं जीवितं यतः॥ सर्ववित्तस्य भागपञ्चकं कृत्वा भागत्रयं जीवनार्थं, भागद्वयं धर्मार्थमिति हेमाद्रिः।भागत्रयं सर्ववित्तस्य।तत्रैको भागो जीवनाय, भागद्वयं धर्मायेत्यन्ये।कृपणाऽशक्तविषये तु भारते। एकां गां दशगुर्दद्याद्दश दद्याच्चगोशती। शतं सहस्रगुर्दद्यात् सर्वे समफलाः स्मृता इति॥ गोपदं वित्तमात्रोपलक्षणार्थम्। अन्यथा पञ्चगवादेः सहस्राधिकगवादेश्व गोदानेऽनधिकारः स्यादिति हेमाद्रिः।यमः।सुर्वर्णं रजतं ताम्रं यतिभ्यो यः प्रयच्छति।न तत्फलमवाप्नोति तत्रैव परिवर्त्तते॥

यतये काञ्चनं दत्वा दाताऽपि नरकं व्रजेत्॥अपिशब्दात् प्रतिग्रहीताऽपि॥अङ्गिराः।देवतानां गुरूणां च मातापित्रोस्तथैव च। पुण्यं देयं प्रयत्नेन नापुण्यं चोदितं क्वचित्॥ तथा।पापदः पापमाप्नोति नरो लक्षगुणं सदा।पुण्यदःपुण्यमाप्नोति शतशोऽथ सहस्रशः॥ स्कान्दे।आपत्स्वपि न देयानि नव वस्तूनि सर्वदा।अन्वये सति सर्वस्वं दाराश्च शरणागताः॥ न्यासाधी कुलवृत्तिं च निक्षेपः स्त्रीधनं सुतः।यो ददाति स मुढात्मा प्रायश्चित्तैर्विशुद्ध्यति॥अङ्गिराः। बहुभ्यो न प्रदेयानि गोगृहं शयनं स्त्रियः। विभक्तदक्षिणा ह्येता दातारं तारयन्ति हि॥ विभक्तदत्तानि पृथग्दत्तानि। गौरेकस्यैव दातव्या न बहुभ्यः कथञ्चन। सा हि विक्रयमापन्ना दहत्यासप्तमं कुलमिति॥

अग्राह्यं स्कान्दे॥अजिनं मृतशय्यां च मेषीं चोभयतोमुखीम्।कुरुक्षेत्रे च गृह्णानो न भूयः पुरुषो भवेत्॥ अग्राह्यं प्रकृत्यतत्रैव। हस्त्यश्वरथयानानि मृतशय्यासनादयः। अग्राह्या इत्यर्थः।आसनं मृतस्यैव। पद्मपुराणे, ब्रह्माण्डं भूमिदानं च ग्राह्यं नैकेन तद्भवेत्।अश्वं च मणिमातङ्गतिललोहानि वर्जयेदिति॥ वसिष्ठः। शस्त्रं विषं सुरा वाऽप्रतिग्राह्याणि ब्राह्मणस्य॥हेमाद्रौ पाद्मे। अतिदुष्टा प्रेतशय्या न ग्राह्या द्विजसत्तमैः।गृहीतायां च तस्यां तु पुनः संस्कारमर्हति। लोहं तिलाश्च महिषी तैलं लवणमेव च। तिलधेनुर्मणिश्चैव घोराः सप्त प्रतिग्रहा इति॥ मनुः। हिरण्यं भूमिमश्वं गामन्नं वासस्तिलान् घृतम्। अविद्वान् प्रतिगृह्णानो भस्मीभवति काष्ठवत्॥प्रतिग्रहसमर्थोऽपि प्रसङ्गं तत्र वर्जयेत्। प्रतिग्रहेण विप्राणां ब्राह्मं तेजो विनश्यति॥ इति देयद्रव्यम्।

अथ कालाः।वाराहे, दर्शे शतगुणं दानं तच्चतुर्घ्नंदिनक्षये। शतघ्नंतच्च संक्रान्तौ शतघ्नं विषुवेततः॥ युगादौ तच्छतगुण-

मयने तच्छताहतम्। सोमग्रहे तच्छतघ्नं तच्छतघ्नं रखेर्ग्रहे॥ तच्छतघ्नं व्यतीपाते दानं वेदविदो विदुः॥ विष्णुधर्मोत्तरे। वैशाखी कार्तिकी माघी पूर्णिमा तु महाफला॥ पौर्णमासीषु सर्वासु मासर्क्षसहितासु च॥दत्तानामिह दानानां फलं शतगुणं भवेत्॥यस्यां पूर्णेन्दुना योगं याति जीवो महाचलः। पौर्णमासी तु विज्ञेया महापूर्वा द्विजोत्तम॥ स्नानं दानं तथा जप्यमक्षय्यं वै तदा स्मृतम्॥ शङ्खः। अमावास्या तु सोमेन सप्तमी भानुना सह।चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी॥ चतस्रस्तिथयस्त्वेतास्तुल्याः स्युर्ग्रहणादिभिः।सर्वमक्षयमत्रोक्तं स्नानदानजपादिकम्॥अमावास्या व्यतीपातो ग्रहणं चन्द्रसूर्ययोः।मन्वादयो युगादिश्चसंक्रान्तिर्वैधृतिस्तथेत्यादि॥भारते।रात्रौ दानं न शंसन्ति विना त्वभयदक्षिणाम्। विद्यां कन्यां द्विजश्रेष्ठ दीपमन्नं प्रतिश्रयम्॥विनेतिपदं विद्यादिभिरपि सम्बद्ध्यते।तथा। महानिशा तु विज्ञेया मध्यस्थं प्रहरद्वयम्। स्नानं तत्र न कुर्वीत काम्यं नैमित्तिकादृते॥ नेच्छन्त्येके स्नानदानं रात्रौ मध्यमयामयोः।नैमित्तिकं तदा कुर्यान्नित्यंतु न मनागपि। उभयतोमुख्याऽऽतुरदानाभयदानान्नदानादिकं तु सर्वदा भवतीति तत्र स्पष्टम्। अर्द्धप्रसूतां गां दद्यात् कालादि न विचारयेदिति॥

अथ पुण्यदेशाः।मनुः।दृषद्वतीसरस्वत्योर्देवनद्योर्यदन्तरम्। तद्देवनिर्मितं देशं ब्रह्मावर्त्तं प्रचक्षते॥कुरुक्षेत्रं च मत्स्याश्च पञ्चालाः शूरसेनकाः। एष ब्रह्मर्षिदेशो वै ब्रह्मावर्त्तादनन्तरः॥ मत्स्यो विराटदेशः।पञ्चालाः कान्यकुब्जाहिच्छत्रादिदेशः। शरसैनिको मथुरादिदेशः। हिमवद्विन्ध्ययोर्मध्यं यत् प्राग्विनशनादपि। प्रत्यगेवप्रयागाच्च मध्यदेशश्च कीर्त्तितः। विनशनमतर्द्धानम्। भविष्यपुराणे, वाराणसीकुरुक्षेत्रप्रयागपुष्करक्षेत्रगङ्गा-

समुद्रतीरनैमिषाऽमरकण्टकश्रीपर्वतमहाकालगोकर्णदेवपर्वताऽऽदीनि पुण्यानीति॥ पाद्मे, लिङ्गं वा प्रतिमा वाऽपि दृश्यते यत्र कुत्रचित्॥तत् सर्वंपुण्यतां याति दानेषु च महाफलम्॥ भविप्योत्तरे, क्रोशमात्रं भवेत् क्षेत्रं शिवस्य परमात्मनः।प्राणिनां तत्र पञ्चत्वं शिवसायुज्यकारकम्॥ फलं दत्तहुतानां च अनन्तं परिकीर्तितम्। मनुजैः स्थापिते लिङ्गे क्षेत्रमात्रमिदं स्मृतम्॥ स्वयम्भुवि सहस्रंस्यादार्षेचैव तदर्द्धकम्॥ तथा, गृहे दशगुणं दानं गोष्ठे चैव शताधिकम्। पुण्यतीर्थेषु साहस्रमनन्तं शिवसन्निधौ॥मात्स्ये। शालग्रामसमुद्भूतः शैलचक्राङ्कमण्डितः। तिष्ठते यत्र वसुधे तत्क्षेत्रं योजनत्रयम्॥द्वारवत्याःशिला देवि मुद्रिता मम मुद्रया। यत्रापि नीयते तत् स्यात् क्षेत्रं द्वादशयोजनमित्यादि॥ काशीखण्डे, अन्यत्र यत् कृतं कर्म व्रतं दानं तपो जपः। गङ्गातटेषु तत् सर्वंकृतं कोटिगुणं भवेत्॥मात्स्ये। अग्निहोत्रगृहे चैव यदल्पमपि दीयते। तदनन्तफलं सर्वंभवतीति विनिश्चयः।इति देशाः॥

प्रतिग्रहे देशनिषेधः पाद्मे, न तीर्थे प्रतिगृह्णीयात् प्राणैः कण्ठगतैरपि॥ ब्रह्मपुराणे, प्रवाहमवधिं कृत्वा यावद्धस्तचतुष्टयम्। तत्र न प्रतिगृह्णीयात् प्राणैः कण्ठगतैरपि॥ दानधर्मे। भाद्रशुक्लचतुर्द्दश्यां यावदाक्रमते जलम्। तावद्गर्भं विजानीयात्तदूर्ध्वं तीरमुच्यते॥ मात्स्येऽपि। सार्द्धहस्तशतं यावद्गर्भतस्तीरमुच्यते। स्कान्दे। तीराद्गव्यूतिमात्रं तु परितः क्षेत्रमुच्यते इति॥ इदं च गङ्गायाम्। गर्भप्रतिग्रहनिषेधः प्रसिद्धनदीषु। प्रसिद्धतरगण्डक्यादिषु तु तीरेऽपि।गङ्गायां तु क्षेत्रेऽपीति सर्वशिष्टाचारः॥

अथ दातृकृत्यम्।मनुः।प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्त्तते।न साम्परायिकं तस्य दुर्मतेर्विद्यते फलम्॥कात्यायनः।

कुशोपरि निविष्टेन तथा यज्ञोपवीतिना।देयं प्रतिग्रहीतव्यमन्यथा विफलं भवेत्॥स्मृत्यन्तरे।दद्यात् पूर्वमुखो दानं गृह्णीयादुत्तरामुखः।आयुर्विवर्द्धते दातुर्ग्रहीतुः क्षीयते न तत्॥ हेमाद्रौ। नामगोत्रे समुच्चार्य सम्प्रदानस्य चात्मनः। सम्प्रदेयं प्रयच्छन्ति कन्यादाने तु पुंस्त्रयम्॥शाखामप्युच्चारयन्ति शिष्टाः। वस्त्राऽऽदिना विप्ररणं च कुर्वन्ति मध्यदेशे। तथा, नामगोत्रे समुच्चार्य सम्यक्श्रद्धान्वितोददेत्। सङ्कीर्त्य देशकालादि तुभ्यं सम्प्रददे इति॥ न ममेत्यपि कीर्त्तयन्ति शिष्टाः। वाराहे।सुस्नातः सम्यगाचान्तः कृतसन्ध्यादिकतक्रियः। कामक्रोधविहीनश्च पाखण्डस्पर्शवर्जितः। दद्यादितिशेषः। गौतमः। अन्तर्जानुकरं कृत्वा सकुशं सतिलोदकम्। फलान्यपि च सन्धाय प्रदद्याच्छ्रद्धयाऽन्वितः। तथा, नामगोत्रे समुच्चार्य प्राङ्मुखो देयकीर्त्तनात्। उदङ्मुखाय विप्राय दत्वा तं स्वस्ति कीर्त्तयेत्॥ सदेवताकदेयकीर्त्तनाऽनन्तरं दत्वेत्यर्थः। देवलः, प्रदाय शाकमुष्टिं वा यस्तु श्रद्धासमन्वितः। महते पात्रभूताय सर्वाभ्युदयमाप्नुयात्॥ पात्राऽसन्निधाने नारदीये।मनसा पात्रमुद्दिश्य जलं भूमौ विनिक्षिपेत्। विद्यते सागरस्यान्तस्तस्यान्तो नैव विद्यते। पात्राऽसन्निधानेऽन्यविप्रकरे दानं देयमिति धौम्यस्मृतौ। पात्राऽसन्निधाने।अप्सु देयं विनिक्षिपेदिति षट्त्रिंशन्मते। देयपात्रासंन्निधाने तत्रैव विशेष उक्तः। द्रव्यपात्रविकर्षश्चेत् परोक्षं दातुमुद्यतः। तं ध्यायाद्वैभवं पात्रंद्रव्यमादित्यदैवतम्। तथा।परोक्षे कल्पितं दानं पात्राभावे कथं भवेत्। गोत्रजेभ्यस्तदा दद्यात्तदभावेऽस्य बन्धुषु॥गोत्रजाः पात्रस्य।स्कान्दे। तस्मात् प्रणवमुच्चार्य कारयेत प्रतिग्रहम्॥ याज्ञवल्क्यः।प्रतिग्रहे सूतिचक्रिध्वजिवेश्यानराधिपाः।दुष्टा दशगुणं पूर्वात् पूर्वादेते यथाक्रमम्॥

राजा शास्त्रातिक्रमवर्ती।न राज्ञः प्रतिगृह्णीयाल्लुब्धस्योच्छास्त्रवर्त्तिन इति स्मृतेः। तदपवादः, अयाचिताहृतं ग्राह्यमपि दुष्कृतकर्मणः।अन्यत्र कुलटाषण्ढपतितेभ्यस्तथा द्विपः। तथा, चाण्डालो जायते यज्ञकरणाच्छूद्रभिक्षितात्। यज्ञार्थं लब्धमददद् भासः काकोऽपि वा भवेत्॥यज्ञोद्देशेन न याचेतेत्यर्थः। प्रकारान्तरेण लब्धेन यज्ञे कृते न दोषः। अत एवज्ञायते, वैश्पादेर्यज्ञोद्देशेनाऽपि याचनीयमिति॥

अथ प्रतिग्रहीतृकृत्यम्। ॐकारमुच्चरन् प्राज्ञो द्रविणं सकुशोदकम्।गृह्णीयाद्दक्षिणे हस्ते तदन्ते स्वस्ति कीर्त्तयेत्॥पुराणान्तरे। प्रतिग्रहीता सावित्रं सर्वत्रैवानुकीर्त्तयेत्। ततस्तु कीर्त्तयेत् सार्द्धं द्रव्येण द्रव्यदेवताम्॥ समापयेत्ततः पश्चात् कामस्तुत्याप्रतिग्रहम्। तदन्ते कीर्त्तयेत् स्वस्ति प्रतिग्रहविधिस्त्वयम्॥सावित्रो देवस्य त्वेत्यादिः। आदित्यपुराणे, प्रतिग्रहं पठेदुच्चैः प्रतिगृह्य द्विजोत्तमात्। मन्द्रं पठेत्तु राजन्यादुपांशु च तथा विशि॥ मनसा तु तथा शूद्रे स्वस्ति वाचनमेव च। सोङ्कारं ब्राह्मणे कुर्यान्निरोङ्कारं महीपतौ॥उपांशु च तथा वैश्ये मनसा शूद्रजे तथेति॥ प्रतिग्रहश्च दक्षिणहस्तमध्ये कर्त्तव्यः।हस्तमध्ये ब्रह्मतीर्थं दक्षिणाग्रहणे च तदिति स्मरणात्॥ तथा प्रतिग्रहस्प यो धर्म्यं न जानाति द्विजो विधिम्। द्रव्यस्तैन्यसमायुक्तोनरकं प्रतिपद्यते॥ विधिं तु धर्म्यं विज्ञाय ब्राह्मणस्तु प्रतिग्रहे।दात्रा सह तरत्येव महादुर्गाण्यसौ ध्रुवमिति॥ याज्ञवल्क्यः। प्रतिग्रहसमर्थोऽपि नादत्ते यः प्रतिग्रहम्। ये लोका दानशीलानां स तानाप्नोति पुष्कलानिति॥ अप्रत्याख्येयमाह स एव। कुशाः शाकं पयो मत्स्या गन्धाः पुष्पं दधि क्षितिः। मांसं शय्यासना धानाः प्रत्याख्येयं न बारि च॥ तथा, एधोदकं मूलफलं जलमभ्युद्धृतं च यत्।सर्वतः

प्रतिगृह्णीयान्मध्वथाऽभयदक्षिणामिति॥ तथा, आममांसं मधु घृतं धानाःक्षीरमथोदितम्।गुडं तक्रं च सङ्ग्राह्यं निवृत्तेनापि शूद्रतः॥खलक्षेत्रगतं धान्यं वापीकूपगतं जलम्। असाधोरपि तद्ग्राह्यं यच्च गोष्ठगतं पयः॥ इक्षुः फलानि पिण्याकं प्रतिग्राह्याणि सर्वतः॥बृहस्पतिः, विवाहोत्सवयज्ञेषु त्वन्तरा मृतसूतके। पूर्वं संकल्पितं ग्राह्यं न दोषः परिकीर्तित इति॥ अत्र विवाहोत्सवयज्ञेष्वितियजतिषु येयजामहं करोति नानुयाजेष्वितिवदुद्देश्यविशेषणमपि विवक्षितम्। अन्यथा विवाहोत्सवयज्ञेष्वितिपरिगणनं व्यर्थं स्यात्। अतोऽन्यत्र पूर्वसंकल्पितस्य सूतकादौ दोष एवेति। द्रव्यदेवतास्तैत्तिरीये। सोमाय वासः। रुद्रायगाम्। वरुणायाऽश्वम्। प्रजापतये पुरुषम्। मनवे तल्पम्। त्वष्ट्रेऽजाम्। पूष्णेऽविम्। निर्ऋत्याअश्वतरगर्द्दभौ।हिमवते हस्तिनम्।गन्धर्वाप्सरोभ्यः स्रगलंकरणे।विश्वेभ्यो देवेभ्यो धान्यम्। वाचेऽन्नम्।ब्रह्मणे ओदनम्।समुद्रायापः। उत्तानार्याऽङ्गीरसायनः।वैश्वानराय रथमिति॥ विष्णुधर्मोत्तरे।अभयं सर्वदैवत्यंभूमिर्वै विष्णुदेवता।कन्या दासस्तथा दासी प्राजापत्याःप्रकीर्त्तिताः॥ तथा चैकशफंसर्वंकथितं यमदैवतम्। महिषाश्वास्तथा याम्या उष्ट्रो वा नैर्ऋतो भवेत्॥ रौद्री धेनुर्विनिर्दिष्टा छागमाग्नेयमादिशेत् । मेषं तु वारुणं विद्याद्वराहं वैष्णवं तथा॥ आरण्याः पशवः सर्वे कथिता वायुदेवताः। जलपात्रांस्तु सर्वांस्तु वारिधानीं कमण्डलुम्॥ कुम्भं च करकं चैव वारुणानि निबोधत॥ समुद्रजानि सर्वाणि वारुणानि द्विजोत्तमाः।आग्नेयदैवतं प्रोक्तं सर्वलोहानि चाप्यथ।प्राजापत्यानि सस्यानि पक्वान्नमपि वै द्विज॥ ज्ञेयास्तु सर्वगन्धा वै गान्धर्वाश्च विचक्षणैः। बार्हस्पत्यंस्मृतं वासः सौम्या ज्ञेया रसास्तथा॥ पक्षिणश्च तथा सर्वे वायव्याः परिकीर्त्तिताः॥विद्या ब्राह्मी विनिर्दिष्टा विद्योपकरणानि च। सार-

स्वतानि देयानि पुस्तकादीनि पण्डितैः॥ सर्वेषां शिल्पिभाण्डानां विश्वकर्मा तु दैवतम्॥द्रुमाणामथ पुष्पाणां शाकैर्हरितकैः सह। फलानामपि सर्वेषां तथा ज्ञेयो वनस्पतिः॥ मत्स्यमांसे विनिर्दिष्टे प्राजापत्ये तथैव च॥छत्रं कृष्णाजिनं शय्यां रथमासनमेव च। उपानहौ च यानं च यच्चान्यत् प्राणिवर्जितम्॥ तत्तु चाङ्गिरसत्वेन प्रतिगृह्णीत मानवः॥शूरोपयोगि यत् सर्वं शस्त्रवर्मध्वजादिकम्। रणोपकरणं सर्वं विज्ञेयं सर्वदैवतम्॥गृहं तु सर्वदैवत्यं यदनुक्तं द्विजोत्तम। विज्ञेयं विष्णुदैवत्यंसर्वे वा द्विजसत्तमाः॥ हेमाद्रौ यजुःपाठानन्तरं, राजा त्वा वरुणो नयतु देवि दक्षिणे अमुकस्मै अमुकान्तेनाऽमृतत्वमश्यां मयो दात्रे मयो महामस्तु प्रतिग्रहीत्रे॥ततः कामस्तुतिः। ॐस्वस्तीति विशेषः। विष्णुधर्मोत्तरे, भूमेः प्रतिग्रहं कुर्याद् भूमिं कुर्वन् प्रदक्षिणम्। करे गृहीत्वा कन्यां च दासदास्योर्द्विजोत्तमाः॥ करं तु हृदि विन्यस्य धर्म्यं ज्ञेयः प्रतिग्रहः॥आरुह्य तु गजस्योक्तः कर्णे वाऽश्वस्य कीर्त्तितः। तथा चैकशफानां तु सर्वेषां च विशेषतः॥ तथा कर्णः, प्रतिगृह्णीततान्शृङ्गे पुच्छे कृष्णाजिनं तथा॥ तान् एकशफान्। अत्र शृङ्गिणामेकशफानां शृङ्गे इतरेषां कर्णे इति तु व्यवस्था।कर्णेजः पशवः सर्वे ग्राह्याः पुच्छे विचक्षणैः गृह्णीयान्माहिषंशृङ्गे स्वरंवै पृष्ठदेशतः॥ प्रतिग्रहमथोष्ट्रस्य यानानां चाधिरोहणात्।बीजानां मुष्टिमादाय रत्नान्यादाय सर्वतः॥ वस्त्रं दशान्तादादद्यात् परिधायाऽथवा पुनः। आरुह्योपानहौ मञ्च आरुह्यैव तु पादुके॥वर्मध्वजौ तु संस्पृश्य प्रविश्य च तथा गृहम्। अवतीर्य च सर्वाणि जलस्थानानि वै द्विजाः॥ ईषायां तु रथो ग्राह्यश्छत्रं दण्डे तथैव च।द्रुमांश्च प्रतिगृह्णीयान्मूलन्यस्तकरो द्विजः॥ आयुधानि समादाय तथाऽऽमुच्य विभूषणम्॥ परिशिष्टे तु,

प्रतिगृह्णीत गां पुच्छे कर्णे वा हस्तिनंकरे। मूर्ध्नि दासीमजं चैव पृष्ठेऽश्वतरगर्द्दभौ॥ अश्वं कर्णे सटे वाऽपि अन्नमुद्दिश्य धारयेत्॥ शय्यासनं गृहं क्षेत्रं संस्पृश्यादाय काञ्चनम्। उष्ट्रं च ककुदे स्पृष्ट्वा मृगांश्च महिषादिकान्॥गोधामश्वविधानेन पुच्छे संस्पृश्य पक्षिणः। दंष्ट्रिणो दंशिनश्चैव तथा क्षुद्रमृगाश्च ये॥ओजस्विनां च सर्वेषामेष एव विधिः स्मृतः॥ छत्रं च चामरं मूले फलं संगृह्य गौरवात्। प्रगृह्योपानहौमन्त्रं वाचयेत् प्रतिमुच्य वै॥ वासस्त्वथ समादाय कन्यां शीर्ष्ण्यथ वै करे। रतिभार्यांपरपूर्वां प्रतिगृह्णीत चाक्षताम्॥ पुत्रमुत्सङ्गमारोप्य प्रतिगृह्णीत दत्तकम्। रथं रथमुखे स्पृष्ट्वा प्रतिगृह्णीत कूवरे॥कूवरो युगाधारङ्काष्ठम्। युग्यकाञ्चनवस्त्राणामङ्गयुक्ते प्रतिग्रहः॥ इति सामान्येतिकर्त्तव्यतानिरूपणम्॥

अथ परिभाषा।वामनपुराणे, सर्वमङ्गलमङ्गल्यं वरेण्यं वरदं शुभम्।नारायणं नमस्कृत्य सर्वकर्माणि कारयेत्॥ भविष्ये, सङ्कल्पेन विना विप्रयत्किञ्चित् कुरुते नरः। फलं वाऽल्पाल्पकं तस्य धर्मस्यार्द्धक्षयो भवेत्॥ वसिष्ठः, जपहोमोपवासेषु धौतवस्त्रधरो भवेत्। अलङ्कृतः शुचिर्मौनी श्रद्धावान् विजितेन्द्रियः॥ याज्ञवल्क्यः, यदि वाग्यमलोपःस्याज्जप्यादिषु कथञ्चन। व्याहरेद्वैष्णवं मन्त्रं स्मरेद् वा विष्णुमव्ययम्॥स एव, रौद्रखिन्नासुरान् मत्रांस्तथा चैवाभिचारिकान्। व्याहृत्यालभ्य चात्मानमपः स्पृष्ट्वान्यदाचरेत्॥कात्यायनः, पित्र्यमन्त्रानुद्रवणे आत्मालम्भेऽवमोक्षणे। अधोवायुसमुत्सर्गे प्रहासेऽनृतभाषणे॥ मार्जारमृषकस्पर्शे आक्रुष्टे क्रोधसम्भवे। निमित्तेष्वेषु सर्वेषु कर्म कुर्वन्नपः स्पृशेत्॥आत्मालम्भो हृदयस्पर्शः। स च कर्मणि विहित इति केचित्। स्मृत्यर्थसारे, कर्त्रङ्गानामनुक्तौ तु दक्षिणा-

ऽङ्गं भवेत् तथा॥ छन्दोगपरिशिष्टे, यत्र दिङ्नियमो नास्ति जपादिषु कथञ्चन।तिस्रस्तत्रदिशः प्रोक्ता ऐन्द्री सौम्याऽपराजिता॥ तत्रैव, आसीन ऊर्ध्वः, प्रह्वोवा नियमो यत्र नेदृशः। तदासीनेन कर्त्तव्यं न प्रह्वेन न तिष्ठतेति॥ तथा, पञ्चाशद्भिर्भवेद् ब्रह्मा तदर्द्धेन तु विष्टरः।दक्षिणावर्त्तको ब्रह्मा वामावर्त्तस्तु विष्टरः॥तथा, अनन्तर्गर्भिणं साग्रंकौशं द्विदलमेव च। प्रादेशमात्रं विज्ञेयं पवित्रं यत्रकुत्रचित्॥ तथा, सदोपवीतिना भाव्यं सदा बद्धशिखेन च। विशिखो व्युपवीतश्च यत् करोति न तत्कृतम्॥ विष्णुधर्मोत्तरे, मन्त्रेणोङ्कारपूतेन स्वाहान्तेन विचक्षणः। स्वाहावसाने जुहुयाद्ध्यायन् वै मन्त्रदेवताम्॥ ब्राह्मे, शमीपलाशन्यग्रोधष्ठाक्षवैकङ्कतोद्भवाः। अश्वत्थौदुम्बरौ बिल्वश्चन्दनः सरलस्तथा॥ नालश्च देवदारुश्च खदिरश्चेति याज्ञिकाः॥ कर्मप्रदीपे, नाङ्गुलादधिका कार्या समित् स्थूलतया क्वचित्। न वियुक्ता त्वचा चैवन सकीटा न पाटिता॥प्रादेशान्नाधिका नोना न तथा स्याद विशाखिका। न सपर्णा समित् कार्या होमकर्मसु जानता॥ तथा, प्रागग्राः समिधो ग्राह्या अखर्वा नोष्ठपाटिताः। काम्येषु वश्यकर्मादौ विपरीता जिघांसतः॥ विशीर्णा विदला हस्वावक्रा बहुशिराः कृशाः।दीर्घाःस्थूला घुणैर्जुष्टाःकर्मसिद्धिविनाशकाः॥ वायुपुराणे, कण्डनं पेषणं चैव तथैवोल्लेखनं तथा। सकृदेव पितॄणां स्याद्देवानां तत् त्रिरुच्यते॥ भविष्यत्पुराणे, भूमौ स्थितेन पात्रेण विष्टब्धेन च पाणिना।वामेन यदुशार्दूलनान्तरिक्षे तु हूयते॥ धनायुर्द्दाररेखासु सोमतीर्थं तु मध्यमम्। लाजादिहवनं तेन कर्त्तव्यं वपनं तथा॥ वपनं निर्वापः।

कात्यायनः, पाण्याहुतिर्द्वादशपर्वपूरिका रसादिना चेत् स्रुचि पर्वपूरिका * दैवेन तीर्थेन तु हूयते हविः स्वङ्गारिणि स्वर्चिषि

तच्च पावके॥योऽनर्चिषिजुहोत्यग्नौ व्यङ्गारिणि च मानवः। मन्दाग्निरामयावीच दरिद्रश्चैव जायते॥तस्मात् समिद्वे होतव्यं नासमिद्धे कथञ्चन।आरोग्यमिच्छताऽऽयुश्च श्रियमात्यन्तिकींतथा॥ जुहुयुश्च हुते चैवपाणिशूर्पस्रुवादिभिः। न कुर्यादग्निधिमनं कुर्यात् तु व्यजनादिना॥मुखेनैव धमेदग्निंमुखाद्ध्येषोऽध्यजायत। नाग्निं मुखेनेति तु यल्लौकिके योजयन्ति तत्॥ बह्वृचपरिशिष्टे, अथाबुधः सधूमे तु जुहुयाद्यो हुताशने।यजमानो भवेदन्धः सपुत्र इति च श्रुतिः॥ इति परिभाषाप्रकरणम्॥

मात्स्ये, होमो ग्रहादिपूजायां शतमष्टोत्तरं भवेत्। अष्टाविंशतिरष्टौ वा यथाशक्ति विधीयते॥गृह्यपरिशिष्टे, बह्वल्पं वा स्वगृह्योक्तं यस्य कर्म प्रकीर्त्तितम्।तस्य तावति शास्त्रार्थे कृते सर्वं कृतं भवेत्॥प्रवृत्तमन्यथा कुर्याद्यदि होमात् कथञ्चन। यतस्तदन्यथाभूतं तत एव समापयेत्॥अन्यथाभूतं विपर्यस्तम्। छन्दोगपरिशिष्टे, यन्नाऽऽम्नातं स्वशाखायां पारक्यमविरोधि यत्। विद्वद्भिस्तदनुष्ठेयमग्निहोत्रादिकर्मवत्॥समाप्ते यदि जानीयान्मयैतदयथाकृतम्। तावदेव पुनः कुर्यान्नावृत्तिः सर्वकर्मणः॥ प्रधानस्याक्रिया यत्र साङ्गं तत्क्रियते पुनः। तदङ्गस्याक्रियायां तु नावृत्तिर्न च तत्क्रिया॥ तथा, दर्भाः कृष्णाजिनं मन्त्रा ब्राह्मणा हविरग्नयः। अयातयामान्येतानि नियोज्यानि पुनः पुनः॥ लघुहारीतः, चितौ दर्भाः पथि दर्भा ये दर्भा यज्ञभूमिषु।स्तरणासनपिण्डेषु षट् कुशान्परिवर्जयेदिति॥ ब्राह्मे, यथोक्तवस्त्वसम्पत्तौ ग्राह्यं तदनुकारि यत्। यवानामिवगोधूमा व्रीहीणामिवशालयः॥आज्यं द्रव्यमनादेशे जुहोतिषु विधीयते। मन्त्रस्य देवतायाश्च प्रजापतिरिति स्थितिः॥ अनादेशे अविधाने। प्राजापत्यमन्त्रः समस्तव्याहृतयइतिमदनः। स्मृत्यन्तरेऽपि, न व्याहृत्या

समं हुत इति॥ गारुडे, प्रणवादि नमोऽन्तं च चतुर्थ्यन्तं च सत्तम। देवतायाः स्वकं नाम मूलमन्त्रः प्रकीर्तितः॥ विष्णुधर्मोत्तरे, दध्यलाभे पयः कार्यं मध्वलाभे तथा गुडः।घृतप्रतिनिधिं कुर्यात् पयो वा दधि वा नृप॥ सर्वाभावे यवः प्रतिनिधिरिति पैठीनसिनोक्तम्। बौधायनः, पलाशाश्वत्थखदिररौहितकौदुम्बरीणामिध्मास्तदलाभे सर्ववनस्पतीनाम्॥ बौधायनः, आज्यहोमेषु सर्वेषु गव्यमेव भवेद् घृतम्।तदलाभे महिष्यास्तु आजमाविकमेवच॥ तदलाभे तु तैलं स्यात्तदलाभे तु जार्त्तिलम्। तदभावे तु कौसुम्भं तदभावेतु सार्पषम्॥याज्ञवल्क्यः, आर्षश्छन्दश्च दैवत्यं विनियोगं तथैव च। वेदितव्यं प्रयत्नेन ब्राह्मणं च विशेषतः। अविदित्वा तु यः कुर्याद्याजनाध्ययनं जपम्।होममन्तर्जलादीनि तस्य वाऽल्पं फलं भवेत्॥आदित्यपुराणे, सुवर्णं रजतं मुक्ताराजावर्त्तीं प्रवालकम्। रत्नपञ्चकमाख्यातं शेषं वस्तु ब्रवीम्यहम्॥ स्मृत्यन्तरे तु, कनकं कुलिशं नीलं पद्मरागं च मौक्तिकम्। एतानि पञ्च रत्नानि रत्नशास्त्रविदो विदुरिति॥तत्रैव, अभावे सर्वरत्नानां हेम सर्वत्र योजयेत्॥ विष्णुधर्मोत्तरे, गायत्र्याऽऽदाय गोमूत्रं गन्धद्वारेति गोमयम्।आप्यायस्वेति च क्षीरं, दधि क्राव्णेति वै दधि॥ तेजोऽसि शुक्रमित्याज्यं देवस्य त्वा कुशोदकम्। एभिस्तु पञ्चभिर्युक्तं पञ्चगव्यमिति स्मृतम्॥ मदनरत्नेकात्यायनः, आज्यं क्षीरं मधु तथा मधुरत्रयमुच्यत इति॥ ब्राह्मे, अश्वत्थोदुम्बरप्लक्षचूतन्यग्रोधपल्लवाः। पञ्चभङ्गा इति प्रोक्ताः सर्वकर्मसु शोभनाः॥ पञ्चभङ्गाः पञ्चपल्लवाः। चतुःसमं गारुडे, कस्तूरिकाया द्वौ भागौ चत्वारश्चन्दस्य च। कुङ्कुमस्य त्रयश्चैव शशिनश्च चतुःसमम्॥ शशी कर्पूरः। कर्पूरं चन्दनं दर्पं कुङ्कुमं च समांशकम्। सर्वगन्धमिति प्रोक्तंसमस्तसुरवल्लभम्॥ दर्पःकस्तूरी॥ तथा, कर्पूरमगुरुश्चैव

कस्तूरी चन्दनं तथा। कङ्कोलं च भवेदेभिः पञ्चभिर्यक्षकर्द्दमः॥ छन्दोगपरिशिष्टे, कुष्टं मांसी हरिद्रे द्वे मुरा शैलेयचन्दनम्।वचा चम्पकमुस्तं च सर्वौषध्यो दश स्मृताः॥ पाद्मे, इक्षवस्तृणराजं च निष्पावाजाजिधान्यकम्। विकारवच्च गोक्षीरं कुसुम्भं कुङ्कुमं तथा॥लवणं चाष्टमं तत्र सौभाग्याष्टकमुच्यते॥ तृणराजस्तालस्तत्पात्रम्। अजाजी जीरकम्। विष्णुधर्मोत्तरे, मुक्ताफलं हरितकं वैडूर्य्यंपद्मरागकम्। पुष्परागं च गोमेदं नीलं गारुत्मतं तथा॥ प्रवालमुक्तायुक्तानि महारत्नानि वै नव॥स्कान्दे, दधि क्षीरमथाज्यं च माक्षिकं लवणं गुडः। तथैवेक्षुरसश्चेति रसाः प्रोक्ता मनीषिभिः॥ भविष्यत्पुराणे, आपः क्षीरं कुशाग्राणि दध्यक्षततिलास्तथा। यवाः सिद्धार्थकाश्चेति ह्यर्धोऽष्टाङ्गः प्रकीर्त्तितः॥ तत्रैव, सुवर्णं रजतं ताम्रमारकूटं तथैव च। लोहं त्रपु तथा सीसं धातवः सप्त कीर्त्तिताः॥ पञ्चरात्रे, रजांसि पञ्चवर्णानि मण्डलाऽर्थं हि कारयेत्। शालितण्डुलचूर्णेन शुक्लं वा यवसम्भवम्॥ रक्तं कुसुम्भसिन्दूरगैरिकादिसमुद्भवम्। हरितालोद्भवं पीतं रजनीसम्भवं तथा॥ कृष्णं दग्धयवैः, हरितं पीतकृष्णविमिश्रितम्। रजनी हरिद्रा। भविष्यत्पुराणे, दूर्वा यवाङ्कुरश्चैवबालकं चूतपल्लवाः। हरिद्राद्वयसिद्धार्थशिखिपत्रोरगत्वचः॥ कङ्कणौषधयश्चैताः कौतुकाऽऽख्या नव स्मृताः॥ इति नव कौतुकानि॥

दशाङ्गधुपोमदनरत्ने, षड्भागकुष्टं द्विगुणो गुडश्च लाक्षात्रयं पञ्च नखस्य भागाः * हरीतकी सर्जरसः समांसीभागैकमेकं त्रिलवं शिलाजम्।घनस्य चत्वारि पुरस्य चैको धूपो दशाङ्गः कथितो मुनीन्द्रैः।शिलाजं शैलेयम्। घनो मुक्ता।पुरो गुग्गुलः॥

भविष्यत्पुराणे विशेषः, अनुक्तद्रव्यतत्सङ्ख्या देवताप्रतिमा नृप। सौवर्णी राजती ताम्री वृक्षजा मार्त्तिकी तथा॥ चित्रजा

पिष्टलेपोत्था निजवित्तानुरूपतः। आमाषात् पलपर्यन्ता कर्त्तव्या शाठ्यवर्जितैः॥ अङ्गुष्ठपर्वप्रभृतिवितस्त्यवधिका स्मृतेति॥ तत्तद्दानाऽङ्गदेवताप्रतिमालक्षणानि तव वक्षयन्ते। तुलाऽधिष्ठितदेवताप्रतिमानान्तुलक्षणानि–त्रिनेत्रो वृषभस्थस्त्रिशूलधृक्। पाशपाणिश्चन्द्रार्द्धभूषण ईशः। श्वेताश्वरथगः सोमो गदापाणिर्वरप्रदः धावद्धरिणपृष्ठस्थो ध्वजधारी समीरणः॥ रक्तवर्णास्त्रिनयना द्विभुजाश्चन्द्रमौलयः।जटिलाश्च प्रकर्त्तव्या रुद्रा बाणधनुर्द्धराः। शुभश्मश्रुः सिन्दूरारुणसप्रभः।पद्मासनः पद्मकरो भूषिताङ्गो रसनाधरः। श्मश्रुलो रसनाधरःसंदर्शपाणिर्द्विभुजस्तेजोमूर्तिधरो महान् विश्वकर्मा।पीताम्बरः पीतवपुः किरीटी चतुर्भुजो देवगुरुः प्रशान्तो दण्डकमण्डल्वक्षसूत्रधृग् गुरुः। कमण्डलुं स्रुवं चैवशक्तिं दर्भमपि * क्रमात् कलयत्यङ्गिरो नाम्नः कराग्राणि समन्ततः॥ पाणयश्चाग्निनाम्नोऽपि कलयन्ति जपस्रजम्। शक्तिं च पुस्तकं चैव क्रमादेवंकमण्डलुम्॥ यज्ञोपवीती हंसस्थ एकवस्त्रश्चतुर्भुजः। अक्षं स्रजं स्रुवं धत्ते कुण्डिकां च प्रजापतिः॥ विश्वेदेवास्तु सर्वेऽपि दक्षिणे बाणपाणयः। कर्त्तव्या वामपाणौ तु सशरासनपाणयः॥ क्रतुर्दक्षो वसुः सत्यः कालकामौ धुरिलोचनौ। पुरूरवार्द्रवश्चेति विश्वेदेवा दश स्मृताः॥ जगद्विधातृरूपं प्रजापतितुल्यम्। चतुर्मुखत्वमात्रमस्याऽऽधिक्यं ज्ञेयम्। पर्जन्यनामा विज्ञेयो गजवक्रः त्रपान्वितः * यो धत्ते सर्वजीवात्मा वरं जीवं च शोषकम्॥ कुठारं च पयोजं च चिन्तारत्नं महाशुचिम्।पाशं चक्रं किशलयं कुण्डीं च दशभिः करैः॥शम्भुरीशतुल्यः। कुशविष्टरपद्मस्थाःपितरः पिण्डपात्रिणः॥ पीताम्बरः पीतवपुः किरीटी चतुर्भुजो दण्डधरश्च हारी * चर्मासिधृक् सोमसुतः सदानः सिंहाऽधिरूढो वरदो बुधश्च॥ चतुर्वक्रश्चतुर्बाहुःसितमाल्यः सिताम्बरः। सर्वा-

ऽऽभरणवान् श्वेतो धर्मः कार्यो महावपुः॥ चतुर्दन्तगजारूढो वज्रपाणिः पुरन्दरः। शचीपतिः प्रकर्त्तव्यो नानाभरणभूषितः॥ द्विभुजौ देवभिषजौ कर्त्तव्यावश्ववाहनौ। तयोरोषधयः कार्या दिव्या दक्षिणहस्तयोः॥ वामयोः पुस्तकौ कार्यौदर्शनीयौ तथा द्विज। वरुणः पाशभृत् सौम्यः प्रतीच्यां मकराश्रयः। मित्रः कमलपाणिश्च कमलासनसंस्थितः॥ द्विभुजः श्वेतमूर्त्तिश्च सर्वभूतहिते रतः॥ वरुणस्तु पूर्ववत्॥देवा एकोनपञ्चाशद्देवेन्द्रसमतेजसः। भ्रातरः पुरुहूतस्य मरुतः सूर्यवर्चसः॥ किरीटहारकेयूरकटकादिविभूषिताः। खड्गचर्मधरा नित्यंशक्रस्यानुचराः सदा॥ ह्रस्वमापिङ्गनेत्रं च गदिनं पीतविग्रहम्। पुष्पकस्थं धनाध्यक्षं ध्यायेच्छिवसखं सदा॥ वरदो भक्तलोकानां किरीटी कुण्डली गदी। कार्यःसुरूपो गन्धर्वो वीणावाद्यरतस्तथा॥ जलेशःपूर्ववत्। प्रदक्षिणं दक्षिणाधःकरादारभ्य नित्यशः। विष्णुः कौमोदकीपद्मशङ्खचक्रैरलंकृत इति विष्णुलक्षणम्॥

ब्रह्मवैवर्त्ते, दानकालेषु देवत्वं प्रतिमानां प्रकीर्त्तितम्॥ धेनूनामपि धेनुत्वं श्रुत्युक्तं दानयोगतः। दातुर्वै दानकाले तु धेनवः परिकीर्तिताः॥ विप्रस्य व्ययकाले तु द्रव्यं तदिति निश्चय इति॥

विष्णुधर्मोत्तरे, हैमराजतताम्राश्च मृण्मया लक्षणान्विताः। पात्रोद्वाहप्रतिष्ठादौ कुम्भास्युरभिषेचने॥ पञ्चाशाङ्गुलवैपुल्या उत्सेधे षोडषाङ्गुलाः। द्वादशाङ्गुलमूलाः स्युर्मुखमष्टाङ्गुलं भवेत्॥ पञ्च च आशाश्च पञ्चाशाः। पञ्चाधिकशतमङ्गुलानि वैपुल्पमित्यर्थः। तथा, कलशस्य मुखे ब्रह्मा ग्रीवायां च महेश्वरः। मूले तु संस्थितो विष्णुर्मध्ये मातृगणाः स्मृताः॥ शेषास्तु देवताः सर्वा वेष्टयन्ति चतुर्दिशम्। पृथिव्यां यानि तीर्थानि कलशे निवसन्ति हि॥ ग्रहाः शान्तिश्च पुष्टिश्च प्रीतिश्च मतिरेव च। ऋग्वेदश्च यजुर्वेदः

सामवेदस्तथैव च॥ अथर्ववेदसहिताः सर्वे कलशसंस्थिता इति॥

षट्त्रिंशन्मते, यवगोधूमधान्यानि तिलाः कङ्गुस्तथैव च॥ श्यामाकं चीनकं चैवसप्तधान्यमुदाहृतम्॥ मार्कण्डेयपुराणे, व्रीहयश्च यवाश्चैव गोधूमाः कङ्गुकास्तिलाः।प्रियङ्गवः कोविदाराः कोरदृषाः सतीनकाः॥ माषा मुद्रा मसूराश्च निष्पावाःःसकुलत्थकाः। आढक्यश्चणकाश्चैव सणः सप्तदशः स्मृतः॥कोरदृषाःकोद्रवाः। सतीनकाः सकलापाः। स्कान्दे, यवगोधूमधान्यानि तिलाः कङ्गुकुलत्थकाः। माषामुद्गामसूराश्च निष्पावाः श्यामसर्षपाः॥ गवेधुकाश्च नीवारा आढक्योऽथ सतीनकाः। चणकाश्चीनकाश्चैव धान्यान्यष्टादशैव तु॥श्यामाःश्यामाकाः।व्यासः, सुवर्णं परमं दानं सुवर्णं दक्षिणा परा। सर्वेषामेव दानानां सुवर्णं दक्षिणेष्यते॥ परेत्युक्तेः पुरुषाहारौपयिकं तण्डुलादिकमपि दक्षिणेति हेमाद्रिः। यत्तु, अन्येषामेव दानानां सुवर्णं दक्षिणा स्मृता। सुवर्णे दीयमाने तु रजतं दक्षिणेष्यत इति॥ तन्मूलं मृग्यम्। सुवर्णं रजतं ताम्रं तण्डुला धान्यमेव वा नित्यश्राद्धं देवपूजा सर्वमेतददक्षिणमिति व्यासेन केवलसुवर्णदाने दक्षिणापर्युदासाच्च। अयं च पर्युदासः केवलसुवर्णदान एव, न तु सुवर्णब्रह्माण्डादिदान इति मदनादयः। देयद्रव्यतृतीयांशं दक्षिणां परिकल्पयेत्॥ अनुक्तदक्षिणे दाने दशांशं वाऽपि शक्तितः॥ तुलापुरुषदानादीन्यऽधिकृत्य लिङ्गपुराणे, दक्षिणां च शतं सार्द्धं तदर्धं वा प्रदापयेत्। ऋत्विजां चैव सर्वेषां दशनिष्काँश्च दापयेत्॥भविष्योत्तरे, ज्ञेयं निष्कशतं पार्थ दानेषु विधिरुत्तमः।मध्यमस्तु तदर्धेन तदर्धेनाऽधमः स्मृतः॥ मेष्यां च कालपुरुषे तथान्येषु महत्सु च। एवं वृक्षे रथेऽण्डे च धेनोः कृष्णाजिनस्य च॥ अशक्तस्यापि क्लृप्तोऽयं पञ्चसावर्णिको विधिः॥ वृक्षे कल्पपादपे। रथे हिरण्याऽश्व

रथे। हेमहस्तिरथे च। अण्डे ब्रह्माण्डे।धेनोः सुवर्णकामधेनोः। अतोऽप्यल्पेन यो दद्यान्महादानं नराधमः। प्रतिगृह्णाति वा तस्य दुःखशोकावहं भवेत्॥अन्येषु महत्सु तिलगर्भादिषु जपाभिषेकमभिधाय लिङ्गपुराणे, अष्टषष्टिपलोन्मानं दद्याद्वै दक्षिणां गुरोः।होतॄणां चैवसर्वेषां त्रिंशत्पलमुदाहृतम्।अध्येतॄणां तदर्द्धेन द्वारपानां तदर्द्धतः॥ अयं च गुर्वृत्विग्जापकद्वारपालानां अर्द्धार्द्धदक्षिणाविभागोऽनुक्तविभागविशेषेषु दानान्तरेष्वपि द्रष्टव्यः।गृह्यपरिशिष्टे दक्षिणालाभे, मूलानां फलानां भक्ष्याणां दक्षिणां ददातीति॥

अथ द्रव्यमानम्।याज्ञवल्क्यः, जालसूर्यमरीचिस्थं त्रसरेणू रजः स्मृतः।तेऽष्टौ लिक्षास्तु तास्तिस्रो राजसर्षप उच्यते॥ गौरस्तु ते त्रयः षट् ते यवोमध्यश्च ते त्रयः।कृष्णलः पञ्च ते माषस्ते सुवर्णस्तु षोडश।पलं सुवर्णाश्चत्वारः पञ्च वाऽपि प्रकीर्त्तितम्। द्वे कृष्णले रूप्यमाषोधरणं षोडशैव ते॥ शतमानं तु दशभिर्धरणैः पलमेव तु।निष्कः सुवर्णाश्चत्वार इति॥ धरणपुराणौ पर्यायौ। तथा शतमानपले, पूर्वोक्ताश्चत्वारः सुवर्णा राजतो निष्क इति। कार्षिकस्ताम्रिकःपण इति ताम्रस्योन्मानम्।पलचतुर्थांशेन कर्षेणोन्मितः कार्षिकस्ताम्रसम्बन्धी पणो भवति। कार्षापणसंज्ञश्च स्मृत्यन्तरेऽपि, षोडशपणः पुराणः पणो भवेत् काकिणी चतुष्केण पञ्चाहतैश्चतुभिर्वराटकैः काकिणी चैकेति॥ तथाच देशादिभेदेन पणादिव्यवहारो ज्ञेयः॥

अथ धान्यादिमानम्॥भविष्यत्पुराणे, पलद्वयं तु प्रसृतं द्विगुणं कुडवं मतम्। चतुर्भिः कुडवैः प्रस्थः प्रस्थाश्चत्वार आढकः॥आढकैस्तैश्चतुर्भिश्च द्रोणस्तु कथितो बुधैः। कुम्भो द्रोणद्वयं शूर्पःखारी द्रोणास्तु षोडश॥ द्रोणद्वयस्यैव शूर्पइति संज्ञा।

गोपथे। पञ्चकृष्णलको माषस्तैश्चतुःषष्टिभिः पलम्। पलैर्द्वात्रिंशद्भिः प्रस्थो मागधेषु प्रकीर्त्तितः॥ आढकैस्तैश्चतुर्भिश्च द्रोणः स्याच्चतुराढकः।विष्णुधर्मोत्तरे।पलं च कुडवः प्रस्थ आढको द्रोण एवच। धान्यमानेषु बोद्धव्याः क्रमशोऽमी चतुर्गुणाः॥ द्रोणैः षोडशभिः खारी विंशत्याकुम्भ उच्यते।कुम्भैस्तु दशभिर्बाहो धान्यसंख्या प्रकीर्त्तिता॥ विंशत्येत्यत्र द्रोणैरिति सम्बद्ध्यते।तथाच, कुम्भो द्रोणद्वयमिति पक्षाद्विशतिद्रोणमितःकुम्भ इति पक्षान्तरम्।पलसहस्रमितः कुम्भ इत्यापि पक्षान्तरं ज्ञेयम्। वाराहे। पलद्वयं तु प्रसृतं मुष्टिरेकपलं स्मृतम्। अष्टमुष्टिं भवेत्।किञ्चित् किञ्चिदष्टौ तु पुष्कलम्॥पुष्कलानि च चत्वारि आढकः परिकीर्तितः। चतुराढको भवेद्द्रोण इत्येतन्मानलक्षणम्॥ एतत्पक्षाणां शक्तिदेशकालाद्यपेक्षया व्यवस्था॥

उक्त्वा श्रीनीलकण्ठाख्यः परिभाषादिकं पुरा।
दानाद्यौपयिकं कुण्डं मण्डपादिवदत्यथ॥

तत्र भूमानम्।आदित्यपुराणे।जालान्तरगते भानौ यत् सूक्ष्मं दृश्यते रजः।प्रथमं तत् प्रमाणानां त्रसरेणुं प्रचक्षते॥ त्रसरेणुस्तु विज्ञेयो अष्टौ ये परमाणवः।त्रसरेणवस्तु ते ह्यष्टौ रथरेणुस्तु स स्मृतः॥ रथरेणवस्तु तेऽष्टौ च वालाग्रं तत् स्मृतं बुधैः। वालाग्राष्टकं लिक्षा तु यूका लिक्षाष्टकं तथा॥ अष्टौ यूका यवं प्राहुरङ्गुलं तु यत्राष्टकम्॥अन्यत्रापि। यूकाष्टकं यवं प्राहुर्यवानामुदरैस्तथा। अष्टभिश्चाऽङ्गुलं तिर्यग् यवानामुत्तमं मतम्॥ सप्तभिर्मध्यमं प्रोक्तं षड्भिःस्यादधमाङ्गुलमिति। द्वादशाङ्गुलमात्रो वै वितस्तिः परिकीर्तितः॥ अङ्गुष्ठस्य प्रदेशिन्या व्यासः प्रादेशउच्यते। तालः स्मृतो मध्यमया गोकर्णश्चाप्यनामया॥ कनिष्ठया वितस्तिस्तु द्वादशाङ्गुलमानिकः।रत्निस्त्वङ्गुलपर्वा-

णि विज्ञेयस्त्वेकविंशतिः॥चत्वारि विंशतिश्चैव हस्तः स्यादऽङ्गुलानि तु। किष्कुः स्मृतो द्विरत्निस्तु द्विचत्वारिंशदगुलः॥ षण्णवत्यङ्गुलिश्चैव धनुर्दण्डः प्रकीर्त्तितः। धनुर्दण्डयुगं नालिर्ज्ञेया ह्येते यवाङ्गुलैः॥ धनुषां त्रिशतं नल्वमाहुः संख्याविदो जनाः। धनुःसहस्रे द्वे चाऽपि गव्यूतिरपदिश्यते॥अष्टौ धनुःसहस्राणि योजनं परिकीर्तितम्॥ विष्णुधर्मोत्तरे, यदुत्पन्नमथाश्नाति नरः संवत्सरं द्विजः। एकगोचर्ममात्रं तु भुवः प्रोक्तं विचक्षणैः॥ बृहस्पतिः, दशहस्तेन दण्डेन त्रिंशद्दण्डानि वर्तनम्।दश तान्येव वर्त्तानि ब्राह्मणेभ्यो ददाति यः॥ इति भुमानम्। मार्जनखननाद्यन्यतमप्रकारेण यथोचितं भूमितं भूमिःसंशोध्या।तत्र मण्डपस्थलम्। सिद्धान्तशेखरे, स्थलादर्काङ्गुलोच्छ्रायं मण्डपस्थलमीरितमिति॥ मण्डपं प्रकृत्यकपिलपञ्चरात्रे, उच्छ्रायो हस्तमानं स्यात् सुसमे च सुशोभनमिति॥ ततो दण्डत्रयं निर्मितदीर्घत्रिकोणाकारयन्त्रेदण्डाग्राभ्यां भुविन्यस्तेयन्त्रमूलात्तिर्यग्दण्डोपरिलम्बितमधोभारवद् भूमिम् अप्राप्तं सूत्रं यथा तिर्यग्दण्डमध्यचिह्ने पतेत्तथा निम्ना भूः पूर्वोक्ता वा माननीयेत्यादिशिल्पशास्त्ररीत्यातां समीकृत्य च मण्डपाद्युपयुक्तां प्राचीं साधयेद्। एवं समायां भुवि द्वादशाङ्गुलव्यासार्द्धमेकं तन्मध्ये चापरं नवाङ्गुलं व्यासार्द्धमिति वृत्तद्वयं कृत्वा तन्मध्ये द्वादशाङ्गुलं पृथङ्मूलं सूक्ष्माग्रमृजुं शङ्कुं निधाय नवाङ्गुलवृत्तरेखायां चतस्रो दिशः प्रकल्प्य तासु चतस्र ऋज्व्यः पञ्चदशाङ्गुलाः शलाकाः शङ्क्वग्रस्पृष्टाऽग्राः स्थाप्याः शङ्कुसमतार्थम्।तादृशशङ्क्वग्रच्छाया च महद्वृत्तरेखां पूर्वाह्णे यत्र स्पृशति सा प्रत्यक्।यत्रापराह्णेसा प्राक्।सूक्ष्मप्राचीज्ञानार्थं तु परदिनेऽपि तस्मिन्नेव वृत्ते शङ्कुच्छायानिर्गमप्रवेशयोश्चिह्नं कृत्वा पूर्वापरदिनच्छायाप्रदेशनिर्गमनचिह्नयोरन्तरालमिष्ठैस्त्रिचतुराद्यैर्भा-

गैर्विभज्य पूर्वदिनच्छायाप्रवेशनिर्गमान्तरालघटीःपादच्छायाघटीर्यन्त्रादिना ज्ञात्वा ताभिर्घटिकाभिः कल्पितान्भागान् गुणयेत्। षष्टिभिश्च हरेत्। ततो लब्धांशेन प्राच्यामेव पूर्वदिनकृतापगमचिह्नादुत्तरायण उत्तरस्मिन् दक्षिणायने दक्षिणस्मिन्नङ्कयेत्। तदुपरि पूर्वच्छायाप्रवेशचिह्नोपरि च धृते सूक्ष्मा प्राची भवति। दिग्ज्ञानोपायान्तरं च शुल्वे। कृत्तिका श्रवणःपुष्यश्चित्रास्वात्योर्यदन्तरम्। एतत्प्राच्या दिशो रूपं युगमात्रोदिते सतीति॥

अत्रायं गुरूपदेशः। ऋज्वीं सूक्ष्मरन्ध्रां नलिकां काष्ठादौ बद्ध्वा तद्रन्ध्रेण युगमात्रमुपरिगतं कृत्तिकादिनक्षत्रं दृष्ट्वा नलिकां ताभ्यां प्राक्प्रत्यग्देशयोः सूक्ष्मं पाषाणद्वयमवलम्बद्वयं वा भूमौ प्रक्षिप्य तच्चिह्नयोः प्राचीसूत्रं देयमिति। एवमेव ध्रुवं दृष्ट्वोदीची साध्या।चित्रास्वत्यन्तरालज्ञानार्थं तु नलिकाद्वयेनैकेन च दण्डान्तरेण स्त्र्यकारयन्त्रं कृत्वा दण्डं च मध्येऽङ्कयेत्। नलिकाद्वयान्तौ तु तष्टालक्षणादिना परस्परं योजनीयौ।यथैकनैव प्रयत्नेन युगपदत्रद्वयमपि दृश्यते। एवं दृष्ट्वा मिलितान्नलिकान्ताद्दण्डमध्याङ्काच्च पाषाणावलम्बौ प्रक्षेप्तव्याविति॥

अथ मण्डपादिलक्षणम्। तत्र पञ्चरात्रे, कनीयान् दशहस्तः स्यान्मध्यमो द्वादशोन्मितः। तथा षोडशभिर्हस्तैर्मण्डपः स्यादिहोत्तमः॥प्रतिष्ठासारसङ्ग्रहे। मण्डपः कलाहस्तो वा सर्वलक्षणसंयुतः। दशद्वादशहस्तो वा द्विद्विवृद्ध्या ततः क्रमात्। लिङ्गपुराणे तु पुरुषदानप्रकरणे। विंशद्धस्तप्रमाणेन मण्डपं कूटमेव वा। अथाष्टादशहस्तेन कलाहस्तेन वा पुनरिति, विंशतिहस्तोऽप्युक्तः। मध्यस्तम्भवलिकोपरिगतैश्चतुर्भिरष्टभिर्वा मृदङ्गाऽऽकारकलशप्रोतैः काष्ठैर्मध्ये शिखराकारयुतः कूटः। कूटोऽस्त्री शिखरं शृङ्गमित्यऽभिधानानुसारात्।मध्यस्तम्भोपरि समतयाच्छादितो मण्डप इति

हेमाद्रिः। सम्प्रति कूट एवादरो लोकानाम्। तत्रैव च मण्डपभ्रमः। दशहस्तमण्डपस्तु एकमेखलकुण्डपक्षे एकाग्निविधानपक्षे चोपयुक्तो भवतीति मदनरत्ने पञ्चरात्रे। कुर्याद् वैष्णवयागेषु चतुर्द्वाराँश्च मण्डपान्। सारदारुमयान् स्तम्भान् दृढान् कुर्यादृजून् समान्॥ मण्डपार्द्धोच्छ्रितान् वेदसंख्याँश्चूडासमन्वितान्। वलिकामूर्ध्वतस्तेषां स्तम्भद्वादशकं पुनः॥ बाह्यपीठप्रमाणेन तत्र सूत्रविधानतः। कल्पयेद् द्विकरं द्वारं चतुरङ्गुलवृद्धितः॥ मध्यमोत्तमयोर्वेदीमण्डपस्य त्रिभागतः। चतुर्थांशोच्छ्रितिस्तस्यास्त्रिसप्तपञ्चतोऽपि वा॥ नवैकादशहीनं वा इष्टिकाभिः प्रकल्पयेदिति॥ चूडा शिखा। वलिकामिति। तेषां चतुःस्तम्भानां शिखाभिः प्रोतच्छिद्राण्युभयतश्छिद्रद्वयोपेतानि वलिकाख्यानि तिर्यक्काष्ठानि विधेयानीत्यर्थः।बाह्य इत्यादि। आदौ मध्यस्तम्भचतुष्टयं विन्यस्य तद्बाह्यपरिधौ मण्डपक्षेत्रविस्तारपर्यायपीठपरिमितसूत्रतृतीयांशेन तुल्याऽन्तरद्वादशचिह्नकरणपूर्वकं पञ्चहस्तप्रमाणा द्वादशस्तम्भा निखेया इत्यर्थः। तदेवं षोडशस्तम्भता सम्पद्यते।

तेषु चत्वारो मण्डपा यामार्द्धमितोच्छ्राया अष्टहस्ता नवहस्ता वा भवन्ति। अधममध्यमोत्तमरूपेष्वष्टहस्ता एते चत्वारः। शारदातिलके उक्तत्वादिति। तत्रापि मध्यमस्तम्भेषु चूडास्वेव तिर्यक्काष्ठनिवेशनम्। बाह्येषु तु चूडासु स्तम्भकर्णेषु वेत्यनियमः।सर्वे च, पञ्चमांऽशं न्यसेद्भूमौ सर्वसाधारणो विधिरित्युक्तत्वात्। सूत्रपञ्चमांशेन निखेयाः। सर्वेऽपि दशाङ्गुलसूत्रवेष्टनयोग्यस्थौल्या विधेयाः।

कल्पयेदित्यादि। कनिष्ठमण्डपे द्वारचतुष्टयं द्विहस्तविस्तारम्। तथा मध्यमे चतुरङ्गुलाधिकद्विहस्तविस्तारम्। एवमुत्तमेऽष्टाङ्गुलाऽधिकद्विहस्तविस्तारम्।मध्यमोत्तमयोर्वेदीत्यादि। मण्डपमध्यत्रिभागमाना वेदिः। स्वायामतृतीयचतुर्थपञ्चमसप्तमनवमैकादशा-

ऽभ्यतमेनोच्चा।तुलापुरुषे तु मात्स्ये, सप्तहस्ता भवेद्वेदी मध्ये पञ्चकराऽथवेति॥

सिद्धान्तशेखरे—चतुरस्रा चतुष्कोणा वेदी सर्वफलप्रदा। तडागादिप्रतिष्ठायां पद्मिनीपद्मसन्निभा।राज्ञां स्यात् सर्वतोभद्रा वेदी राज्याभिषेचने। विवाहे श्रीधरी वेदी विंशद्धस्तसमन्वितेति॥द्वारदेहल्या बहिर्हस्तमात्रे द्वारशाखा निखेया इति निबन्धान्तरे।व्रतखण्डे तु, हस्तद्वयं बहिस्त्यक्त्वा तोरणानि निवेशयेदित्युक्तम्। मात्स्ये, द्वारेषु कार्याणि च तोरणानि चत्वार्यपि क्षीरवनस्पतीनामिति *॥अयमर्थः। पूर्वद्वारे अश्वत्थशाखे, दक्षिणे उदुम्बरशाखे, पश्चिमे लक्षशाखे, उत्तरतो वटशाखे॥

शाखाश्च अधममध्यमोत्तममण्डपेषु क्रमात् पञ्चषट्सप्तहस्तोच्चाः। तासामुपरिकृतचूडासु तिर्यक्फलकमुभयतः सच्छिद्रं चूडान्यस्तच्छिद्रं निदध्यात् तद्विहस्तमधममण्डपे। अङ्गुलषट्काधिकं द्विहस्तं मध्ये। सार्द्धं हस्तद्वयमुत्तमे। तिर्यक्फलकोपरि मध्ये मण्डपेषु क्रमाच्चतुरङ्गुलाः सार्द्धचतुरङ्गुलाःपञ्चाङ्गुलाश्च कीला निवेश्याः। तिर्यक्फलकं कीलाश्च तत्तत्काष्ठजा एव। यद् वास्तुशास्त्रे । मस्तके द्वादशांशेन शङ्खचक्रगदाम्बुजम्। प्रागादिक्रमयोगेन न्यसेत्तेषां स्वदारुजम्॥ द्वादशांशोऽत्र फलकस्य चतुरङ्गुलादिरेवोक्तः। शङ्खचक्रगदाऽम्बुजकरणं वैष्णवयागविषयम्॥

शैवयागे तु ते कलास्त्रिशूलाः स्युः। त्रिशुलाकारत्वं चैव— मध्यकीलोनवाङ्गुलो वृत्तः सपादद्व्यङ्गुलविस्तारः। तमुभयतोऽन्यौ किञ्चिद्वक्रौ। दैर्घ्यमध्ये शूलस्य मूलाङ्गुलद्वयं विले प्रविशति इत्यऽधममण्डपे । मध्यमे त्वेकादशाङ्गुल उच्छ्रायः।पादोनत्र्यङ्गुलविस्तारः।त्र्यङ्गुलो विलप्रवेशः। उत्तमे त्रयोदशाङ्गुलमुच्छ्रायः सपादत्र्यङ्गुलो विस्तारश्चतुरङ्गुलो विलप्रवेशः॥

इदं च पिङ्गलमते।शूलेन चिह्निताः कार्या द्वारशाखास्तु मस्तके। शूलैर्नवाङ्गुलैर्दैर्घ्यं तुरीयांशेन विस्तृतिः॥ ऋजुर्वै मध्यशृङ्गः स्यात् किञ्चिद्वक्रं च पक्षयोः। प्रथमं तत् समाख्यातं द्व्यङ्गुलं रोपयेत् तथेत्यादिनोक्तम्॥ एषामलाभे एकवृक्षजानि तोरणानि।तस्याप्यभावे शमीद्रुमजानि। एतन्निवेशनमन्त्राश्चाग्निमीले, इषे त्वा, अग्न आयाहि, शन्नो देवीरित्यनुत्यन्धेयाः। मध्यस्तम्भचतुष्टयोपरि च मुरजाऽऽकृतिकाष्ठे दिग्विदिग्गतरन्ध्राष्टकप्रोताग्रकाष्ठाऽष्टके नोन्नतता कार्या।कटैःसद्भिस्तु संछाद्या विजयाद्यास्तु मण्डपाः* इत्युक्तत्वात्।द्वारवर्जं सर्वतोमण्डप आच्छाद्यः। जयविजयभद्रविश्वरूपस्वरूपध्रुवचनदधचकस्तुप्रसन्नाः। एतेऽष्टहस्तादयो द्विहस्तवृद्धितो ज्ञातव्याः॥ यदा मण्डपद्वयंक्रियते, तदा तत्रप्रथममण्डपपरिमितमन्तरमुत्सृज्य द्वितीयो मण्डपः कर्त्तव्य इति वास्तुशास्त्रे। एवं यदा धामाग्रे मण्डपः क्रियते तदा तद्धामपरिमाणमन्तरमुत्सृज्य परतो मण्डपो विधेय इति। मात्स्ये, मण्डपे पताका उक्ताः। लोकेशवर्णा परितः पताका मध्ये ध्वजः किङ्किणिकायुतः स्याद् * इति। सङ्ग्रहेऽपि, सप्तहस्ताः पताकाःस्युः सप्तमांशेन विस्तृताः। लोकपालानुवर्णेन नवमी तुहिनप्रभा॥ पीतरक्तादिवर्णाश्चपञ्चहस्ता ध्वजाः स्मृताः। द्विपञ्चहस्तैर्दण्डैश्च वंशजैः संयुतास्तथेति॥ लोकपालवर्णाः। इन्द्रःपीतो यमः श्यामो वरुणः स्फटिकप्रभः \। कुबेरस्तु सुवर्णाभो ह्यग्निश्चापि सुवर्णभः॥ तथैव निरृतिः श्यामो वायुर्धूम्रः प्रशस्यते। ईशानस्तु भवेद् रक्त एवं ध्यायेत्क्रमादिमानिति॥गारुडे तु पताकानां प्रकारान्तरमुक्तं, पञ्चहस्ता ध्वजाः कार्या वैपुल्येन द्विहस्तकाः। सप्तहस्ताः पताकाः स्युर्विंशत्यङ्गुलविस्तृताः॥दशहस्ताः पताकानां दण्डाः पञ्चांश-वेशिताः। सिन्दूराः कर्बुरा धूम्रा धूसरा मेघसन्निभाः॥

हरिताःपाण्डुवर्णाश्च शुद्धाः पूर्वादितः क्रमात्। एवंवर्णाः शुभाः कार्याः पताकाः पाकशासनेति॥अत्र समचतुरस्त्रमण्डपसाधनम्। मण्डपादिव्यासप्रमाणां रज्जुं द्विगुणीकृत्य तामेवोभयतः पाशाभ्यां सह अष्टधा विभज्य पञ्चमांशान्ते कर्षणाय षष्ठांशान्ते शङ्क्वर्थंच चिह्नद्वयं कृत्वा मण्डपादेः प्राचीसूत्रप्रान्तद्वये शङ्कुद्वयं निखाय रज्वन्तपाशौ तयोः शङ्क्वोःराज्यकर्षणचिह्नं दक्षिणत आकृष्य शङ्कुचिह्ने शङ्कुं निखाय ततः कर्षणचिह्नमुत्तरत आकृष्य शङ्कुचिह्ने शङ्कुं निखाय व्यत्यासं कृत्वा शङ्क्वोःपाशान्तावासज्ज्य पूर्ववद्दक्षिणोत्तरयोः क्रमेण कर्षणचिह्नमाकृष्य शङ्कुद्वयं निहन्यात्। तत ईशानाग्नेयादिशङ्कुषुप्रादक्षिण्येन रज्जुवेष्टनान्मण्डपादिचतुरस्रंक्षेत्रं सिद्धं भवति॥ मध्यवेदीसाधनम्। मण्डपसूत्रं प्रागायतं दक्षिणोत्तरायते च त्रेधा विभज्य तेन नवभागो मण्डपः सम्पद्यते। मध्यमे नवमेंऽशे तन्माना वेदिका यजमानहस्तोच्छ्राया च विधेया। मात्स्ये, द्वारेषु कुम्भद्वयमत्र कार्यं स्रग्गन्धधूपाम्बररत्नयुक्तमिति * मदनरत्ने, गन्धपुष्पाक्षतोपेतान्कुम्भस्तेषु निवेशयेत्। ध्रुवं धरं वाक्पतिं च विघ्नेशं तेषु पूजयेत॥मण्डपस्य तु कोणेषु कलशेषु क्रमादमी।अमृतो दुर्जयश्चैव सिद्धार्थो मङ्गलस्तथा। पूज्या द्वारस्य कुम्भेषु शक्राद्यास्तु मनुत्तमैः॥ इति मण्डपनिरूपणम्॥

अथ कुण्डानि। तत्र भविष्यपुराणे, वेदी पादान्तरं त्यक्त्वा कुण्डानि नव पञ्च वा।वेदास्त्रीण्येव तानि स्युर्वर्त्तुलान्यथवा क्वचित्॥ आम्नायरहस्ये, कुण्डानि चतुरस्राणि वृत्तनानाकृतीनि वा। नव पञ्चाथ वैकं वाकर्त्तव्यं लक्षणान्वितम्॥ नवकुण्डविधाने तु दिक्षु कुण्डाष्टके स्थिते।नवमं कारयेत् कुण्डं पूर्वेशानदिगन्तरे॥ विधाने पञ्चकुण्डानामीशाने पञ्चमं भवेत्। अत्र चतुःकुण्डीपक्षे स्नातं नास्तीत्युक्तं हेमाद्रौ। नारदीये, यत्रोपदिश्यते कुण्डं चतुष्कं

तत्र कर्मणि। वेदास्रमर्द्धचन्द्रं च वृत्तं पद्मनिभं तथा। पीठवद् वर्द्धयेत् कुण्डं सुप्रमाणेष्वगर्त्तकम्।कुर्यात् कुण्डानि चत्वारि प्राच्यादिषुविचक्षणः। कुण्डवेद्यन्तरं चैव सपादकरसंमतम्। विंशाङ्गुलं प्रकर्त्तव्यमन्तरं कुण्डपीठयोः॥ स्मृत्यन्तरे, वेदिभित्तिंपरित्यज्य त्रयोदशभिरङ्गुलैः। हस्तमात्राणि कुण्डानि चतुरस्राणि सर्वत इति॥ सर्वतोऽष्टदिक्षु।

काम्ये तु, ऐन्द्र्यां स्तम्भे चतुष्कोणमग्नेर्भागे भगाकृतिम्। चन्द्रार्द्धं मारणे याम्ये त्रिकोणं द्वेषनैर्ऋते॥वारुण्यां शान्तिकं वृत्तं षडस्युच्चाटनेऽनिले।उदीच्यां पौष्टिके पद्मं रौद्यामष्टास्त्रिमुक्तिदम्॥ शारदातिलके, विप्राणां चतुरस्रं स्याद्राज्ञां वर्त्तुलमिष्यते। वैश्यानामर्द्धचन्द्राभं शूद्राणां त्र्यस्रमीरितम्॥ चतुरस्रंच सर्वेषां केचिदिच्छन्ति तान्त्रिकाः। चतुरस्रसाधनं तु मण्डपसाधनावसर उक्तम्। तत्रैकस्मिन् हस्ते चतुर्विंशत्यङ्गुलानिव्यासः। द्वयोस्त्रयस्त्रिंशदङ्गुलानि, सप्त यवाः। चतस्रो यूकाः, द्वे लिक्षे। त्रिष्वेकचत्वारिंशदङ्गुलानि, चत्वारो यवाः, चतस्रो यूकाः, चतस्रो लिक्षाः। चतुर्ष्वष्टाचत्वारिंशदङ्गुलानि पञ्चसु त्रिपञ्चाशदङ्गुलानि, पञ्च यवाः, द्वे यूके, पञ्च लिक्षाः। षट्स्वष्टपञ्चाशदङ्गुलानि, षड् यवाः, द्वे यूके, चतस्रो लिक्षाः। सप्तसु त्रिषष्ट्यङ्गुलानि, यवत्रयं, सप्त यूकाः, सप्त लिक्षाः। अष्टसु सप्तषष्ट्यङ्गुलानि, सप्त यवाः, लिक्षाश्चतस्रः। नवसु द्वासप्तत्यङ्गुलानि, दशसु पञ्चसप्तत्यङ्गुलानि, षड् यवाः, युकाश्चतस्रः, लिक्षाश्चतस्रः। एवं षोडशहस्ते षण्णवत्यङ्गुलानि॥

अथ योनिकुण्डम्। इष्टचतुरस्रं व्यासं चतुर्विंशतिधा विभज्य सपादैः पञ्चभिर्भगैर्मध्यसूत्रं प्राच्यां विवर्ध्यचतुरस्रमध्ये प्राग्उदक्सूत्रपातनाल्पचतुरस्रयोः कोणसूत्रद्वयपातज्ञातमध्यादेतत्कोणसूत्रार्द्धमानेन इष्टचतुरस्रोदक्सूत्रदक्षिणान्तात् प्राक्सुत्रपश्चिमान्तं

यावद् भ्रामयेद् वृत्तार्द्धम्। एवमेवोत्तराल्पचतुस्रेऽपि इष्टचतुरस्रोदगन्तात् प्राक्सुत्रपश्चिमान्तं परिभ्राम्य वृत्तार्द्धद्वयदक्षिणोदक्कोटितो वर्द्धितप्राक्सूत्रान्तं यावत् सूत्रद्रयं पातयेदिति योनिकुण्डम्। अत्रोत्पत्तिः। प्राग्दिग्गतत्र्यस्रलम्बः सप्तदशाङ्गुलानि १७।एको यवः१।एका यूका १लिक्षा। पञ्चभूस्तु इष्टचतुरस्रमध्योदक्सूत्रं चतुर्विंशत्यङ्गुलमुपरितनाल्पव्यस्तेऽपिभूःसैव। आलम्बस्तु द्वादशांऽङ्गुलानि। वृत्तार्द्धव्यासार्द्धयोस्त्वङ्गुलानि अष्टौ ८, यवाश्चत्वारः ४ इति। योनिमध्यसूत्रवृद्ध्यङ्गुलानि। एकहस्ते पञ्चाऽङ्गुलानि। एको यवः। एका यूका। पञ्च लिक्षाः। द्विहस्ते सप्ताङ्गुलानि। द्वौ यवौ। द्वे यूके। एका लिक्षा। त्रिहस्तेऽष्टाङ्गुलानि८, सप्त यवः। तिस्रो यूकाः। चतुर्हस्ते दशाङ्गुलानी। चत्वारो यवाः।तिस्रो यूकाः। द्वे लिक्षे। पञ्चहस्ते एकादशाङ्गुलानि, यवचतुष्टयम्, एका यूका।षड्हस्ते द्वादशाङ्गुलानि। चत्वारो यवाः। सप्त यूकाः। तिस्रो लिक्षाः। सप्तहस्ते त्रयोदशाङ्गुलानि। पञ्च यवाः। अष्टहस्ते चतुर्दशाङ्गुलानि। यवचतुष्टयम्। यूकाश्चतस्रः। द्वे लिक्षे। नवहस्ते पञ्चदशाङ्गुलानि। यवत्रयम्। यूकाचतुष्टयम्। सप्त लिक्षाः। दशहस्ते षोडशाङ्गुलानि द्वौ यवौ। तिस्रो यूकास्तिस्रो लिक्षाः। एवं षोडशहस्ते विंशत्यङ्गुलानि, यवचतुष्टयं, षड् यूकाः। चतस्रो लिक्षाः॥
रामस्तु—इष्टचतुरस्रक्षेत्रमध्यरेखाया द्विनवत्यधिकं शतम् अंशान् कृत्वाष्टत्रिंशदंशान् मध्यसूत्रप्राच्यामेकोनविंशदंशैश्चोभयतः श्रोणिं संवर्ध्यसवृद्धिश्रोणिचतुर्थांशककर्कटेन सुत्रेण वा पश्चिमभागे वृत्तार्द्धद्वयं प्राङ्मुखं श्रोणिसूत्रलग्नं विलिख्य वृत्तार्द्धद्वयबाह्यप्रान्तयोर्वर्द्धितप्राक्सूत्रे चिह्नं यावत् सूत्रद्वयान्तं योन्याकारं कार्यमित्याह।तत्फलसंवादेऽपि विरूपत्वादयुक्तम्॥

इदं चोदगग्रं कार्यम्। तच्च मध्यरेखापञ्चमांशवृद्धावुदीच्यां कृतायां भवति। इदमुदाहृतं मदनरत्ने, योन्याख्यमुच्यतेकुण्डमाग्नेय्यामुत्तरामुखमिति॥
अथार्द्धचन्द्राभम्। कामिके, चतुरस्त्रे ग्रहैर्भक्ते त्यक्त्वाऽऽद्यन्तौ तदंशकौ। मध्ये सप्तांशमानेन कुण्डं खण्डेन्दुवद् भ्रमात्॥ अयमर्थः। इष्टप्रमाणचतुरस्रमध्यरेखां नवधा विभज्याद्यन्तिमौ भागौ परिमृज्य तत्र चिह्नद्वयं कृत्वोपरिचिह्ने तिर्यग्दक्षिणोत्तरं सूत्रं दत्वोपरिचिह्नाधश्चिह्नं यावद् वृत्तेन सूत्रेण कर्कटेन वा भ्रमाद् वृत्तार्द्धं ज्यासूत्राजातकोटिकमर्द्धचन्द्रं कुण्डं कुर्यादिति। अर्द्धेन्दौ व्यासार्द्धाङ्गुलानि। एकस्मिन्नेकोनविंशसत्यङ्गुलानि। एको यवः। एका युका। पञ्च लिक्षाः। द्वयोः सप्तविंशसत्यङ्गुलानि। पञ्च यूकाः। द्वे लिक्षे। त्रिषु त्रयस्त्रिंशदङ्गुलानि। एको यवः। द्वे यूके। षट्लिक्षाः। चतुर्षु अष्टत्रिंशदङ्गुलानि। द्वौ यवौ। तिस्रो यूकाः। द्वे लिक्षे। पञ्चसु द्विचत्वारिंशदङ्गुलानि। सप्त यवाः\। यूकाश्चतस्रः। तिस्रो लिक्षाः। षट्सु षट्चत्वारिंशदङ्गुलानि। सप्तं यवाः। द्वे यूके। सप्तसु पञ्चाशदङ्गुलानि। पञ्च यवाः। द्वे यूके। चतस्रो लिक्षाः। अष्टसु पञ्चपञ्चाशदङ्गुलानि एको यवः। द्वे यूके तिस्रो लिक्षाः। नवसु सप्तपञ्चाशदङ्गुलानि। चत्वारो यवाः। एवं षोडशसु षट्सप्तत्यङ्गुलानि। पञ्च यवाः॥ अत्र रामेण—चतुरशीत्यधिकत्रिंशत्याविभक्तस्येष्टक्षेत्रव्यासस्यैकोंशोऽधिकस्त्याज्यः, क्षेत्रफलसंवादार्थमित्युक्तम्। स चैकांश इष्टक्षेत्रव्यासश्चतुर्विंशांशस्य षोडशांशो भवति। एकहस्तचतुरस्त्रे तु सार्द्धयवमितः। एवं द्विहस्तादिष्वप्यूह्यम्। इदं चोदगग्रं कार्यम्। तदुक्तं मदनरत्ने। उदगग्रत्वं चोदङ्मध्ये रेखाया नवधा विभागेन सम्पादनीयमिति॥

यत्तु शारदातिलके, चतुरस्रीकृतं क्षेत्रं दशधाविभजेद बुधः।

एकमेकं त्यजेदंशमध ऊर्ध्वं च तन्त्रवित्॥ ज्यासूत्रं पातयेदग्रे तन्मानाद् भ्रमयेत्ततः। अर्द्धचन्द्रनिभं कुण्डं रमणीयमिदं भवेदिति॥ तत्र भूयान क्षेत्रफलविसंवादः। कामिकोक्ते त्वल्पः॥

अथ त्रिकोणम्। इष्टचतुरस्रमध्यसूत्रस्य चतुर्विंशतिरंशाः। तत्र सूत्रं प्राच्यामष्टमांशोनैकांशसहितान् सार्द्धसप्तांशान् श्रोणिं च पार्श्वयोः। प्रत्येकं सपादान् षडंशान् संवर्द्धितश्रोण्यन्तयोर्वर्द्धितप्राक्सूत्रान्तं यावत् सूत्रद्वये दत्तं समभुजं त्र्यस्रं भवति। यथोक्तं शारदातिलके। चतुर्द्धामोदिते क्षेत्रे न्यसेदुभयपार्श्वयोः। एकैकमंशतन्मानादग्रतो लाञ्छयेत्ततः॥ सुत्रद्वयं बुधः कुर्यात त्र्यस्रंकुण्डमुदाहृतमिति॥ इदं तु किश्चित् फलव्यभिचारि। अतोऽस्माभिरधिका वृद्धिरुक्ता। राममते तु मध्यसूत्रं दशभिरंशैः संवर्द्ध्यतत्रैकोंऽशः स्वाष्टमांशोनः श्रोणिसूत्रस्योभयतः पञ्चपञ्चाशवृद्धिरिति। तत्तु विषमभुजत्वादुपेक्ष्यम्। इदं च निर्ऋतौ प्रागग्रं पश्चिमयोनि त्र्यस्रभुजाः। एकस्मिन् षट्त्रिंशदङ्गुलानि चत्वारो यवाः। द्वयोरेकपञ्चाशदङ्गुलानि पञ्च यवाः॥ त्रिषु त्रिषष्ट्यङ्गुलानि। एको यवः। चतुर्षु त्रिसप्तत्यङ्गुलानि पञ्च यवाः ! षट्सु एकोननवत्यङ्गुलानि। त्रयो यवाः। सप्तसु चतुर्नवत्यङ्गुलानि चत्वारो यवाः। अष्टसु त्र्युत्तरशताङ्गुलानि। एको यवः। नवसु नवाधिकशताङ्गुलानि यवत्रयम्। दशसु पञ्चदशाधिकशताङ्गुलानि। यवद्वयम्॥

अथ वृत्तम्। इष्टचतुरस्रव्यासषोडशांशाऽधिकव्यासार्द्धमितेन कर्कटेन सूत्रेण वा कृतं मण्डलं वृत्तकुण्डप्रागग्रं पश्चिमयोनिप्रतीच्यां वृत्तव्यासार्द्धाङ्गुलानि। एकस्मिन् त्रयोदशाङ्गुलानि। यवचतुष्टयम्। द्वयोरेकोनविंशत्यङ्गुलानि। एको यवः।त्रिषु त्रयोविंशत्यङ्गुलानि। यवचतुष्टयम्। चतुर्षु सप्तविंशत्यङ्गुलानि।

एकोयवः। पञ्चसु त्रिंशदङ्गुलानि। द्वौ यवौ। षट्सु त्रयस्त्रिंशदङ्गुलानि। एको यवः। सप्तसु पञ्चत्रिंशदङ्गुलानि। सप्त यवाः। अष्टस्वष्टत्रिंशदङ्गुलानि। द्वौयवौ। नवसु चत्वारिंशदङ्गुलानि। पञ्च यवाः। दशसु द्विचत्वारिंशदङ्गुलानि। सप्त यवाः॥

अथ षडस्रम्। इष्टचतुरस्रमध्यसूत्रस्य चतुर्विंशतिरंशान् कृत्वा तत्सूत्रं त्रिभिरंशैः प्राच्यां वर्द्धयेत्। तत्रैकोंऽशः स्वाष्टमांशोनः। तावच्चप्रतीच्यां संवर्द्ध्यतदर्द्धेन वृत्तं कृत्वा तावतैव कर्कटेन उदीचीमारभ्य षट्सु स्थानेषु अङ्कयेदिति। अत्रैकहस्ते तावदेवं फलम्। मध्ये दीर्घचतुरस्रम्। तद्दीर्घभुजः। पञ्चविंशत्यङ्गुलानि। षट् यवाश्च। एवमन्योऽपि। अल्पभुजस्तु, चतुर्दशाङ्गुलानि। सप्त यवाः। सप्त यूकाश्च। तत्र फलं, पञ्चाशीत्यधिकानि शतत्रयमङ्गुलानि चतुरस्रदीर्घभुजसंलग्ने त्र्यस्रेतु भुज एव भूः। लम्बस्तु वृत्तचतुर्थांशःसप्ताऽङ्गुलानि। त्रयो यवाः। पञ्च यूकाश्चेति। तत्फलं, पञ्चनवत्यङ्गुलानि। चत्वारो यवाश्च। अपरत्र्यस्रेऽप्येवम्। फलत्रययोगे पञ्चशतषट्सप्ततिश्च॥ यत्तु विष्णुमूलप्रभृतिभिर्बहुभिः फलसंवाद्यपि त्र्यस्रद्वययोगेन बहिर्निर्गतास्रिकं षडस्रमुक्तम्। तदयुक्तम्। अन्तरवाह्यास्रयोगेन द्वादशास्रताद्वादशभुजतापत्तेः। वहिस्तना एव स्नानान्तर्गता इति चेत्। तथापि वक्रभुजतायां मानाभावः। चतुरस्रत्र्यस्रादावपि फलसंवादेन कदाचित्तथापत्तेश्च। एतेन रामाद्युक्तमष्टास्रमपि प्रत्युक्तम्। षडस्रिभुजाङ्गुलानि। एकहस्तादिक्रमेण दशहस्तपर्यन्तम्। चतुर्द्दशाऽङ्गुलानि। सप्त यवाः॥ एकविंशत्यङ्गुलानि। पञ्चविंशत्यङ्गुलानि। षड् यवाः। एकोनत्रिंशदङ्गुलानि। षट्यवाः। त्रयस्त्रिंशदङ्गुलानि। द्वौ यवौ। षट्त्रिंशदऽङ्गुलानि। यवचतुष्कम्। एकोनचत्वारिंशदङ्गुलानि। यवत्रयम्। द्विचत्वारिंशदङ्गुलानि। एको

यवः। चतुश्चत्वारिंशदङ्गुलानि पञ्च यवाः। सप्तचत्वारिंशदङ्गुलानि। एको यवः॥

अथ पद्मम्। इष्टचतुरस्रमध्यसूत्रस्य चतुर्विंशतिरंशः। तत्र द्वादशभिरंशैरेकं वृत्तं कृत्वा सार्द्धान् त्रीनंशान्सम्बर्द्ध्यापरं कृत्वा तत्र दिक्षु तदन्तरालेषु च सूत्राण्यास्फालयेत्। ततोऽन्तर्वृत्तरेखाप्राक्सूवमत्स्यात् तदेकान्तरितमत्स्याच्च सूत्रद्वयं त्रिकोणाऽऽकारेणास्फालयेत्। तदन्तरालमत्स्यसमसूत्रवहिर्वृत्तरेखागतमत्स्यं यावत्। तच्चैकसूत्रं समांशतया मध्येऽङ्कयित्वा सूत्रार्द्धमितकर्कटकोटिमेकां मध्याङ्के परां च सूत्रारम्भकमत्स्ये संस्थाप्य त्रिकोणमध्ये भ्रमणादेकमत्स्यं, बहिर्वृत्तरेखागतत्रिकोणान्तात्तस्मादेव च सूत्राऽङ्कात्त्रिकोणाद्बहिरपरं मत्स्यंकृत्वान्तर्मत्स्यात्त्रिकोणाद्बहिरपरं मत्स्यंकृत्वान्तर्मत्स्यात्त्रिकोणाद्बहिरुपरिसुत्रार्द्धज्याकमेकं वहिर्मत्स्यात्त्रिकोणान्तः अधःसूत्रार्द्धज्याकमपरमिति संलग्नकोटिकमुपर्यधोभावेन धनुर्द्वय कार्यम्। एवमपरसूत्रेऽपिकृत्वा सूत्रद्वयमार्जने वक्राऽग्रं पद्मदलवत् पत्रंभवति। एवमन्यानि पत्राणि अधः कृत्वा इष्टचतुरस्रक्षेत्रकल्पितचतुर्विंशत्यंशमध्ये त्रिभिरंशैर्व्यासार्द्धेन मध्ये तद्बहिश्च षडंशव्यासार्द्धेनेति द्वे वृत्ते कार्ये। तत्रान्तवृत्ते विस्तारे तद्वृतेनोच्चतायां तद्व्यासेन समा मृदा कर्णिका कार्या। बहिर्वृत्ते तुकेसरा इति। एतत् पद्मकुण्डम्। तथैतत्फलम्। तत्रैकस्मिन् पत्रे उपरितने महति त्र्येकहस्ते चतुर्थमहत्वृत्तव्यासार्द्धं पञ्चदशाङ्गुलानि १५। पञ्च यवाः५। तिस्रो यूकाः ३। तिस्रो लिक्षाः३। द्वे वाालाग्रे २। द्विहस्ते त्रिंशत्यङ्गुलानि २०। त्रयो यवाः ३। तिस्रो यूकाः३। एका लिक्षा १। षड् वालाग्राणि ६। त्रिहस्ते सप्तविंशत्यऽङ्गुलानि २७। एको यवः १।एका यूका१। द्वे वालाग्रे २। चतुर्हस्त एकत्रिंशदङ्गुलानि ३१। द्वौ यवौ२। षट् यूकाः ६! षड् वाला-

ऽग्राणि ६। पञ्चहस्ते पञ्चत्रिंशदङ्गुलानि ३५। तिस्त्रो यूकाः ३। षट् लिक्षाः ६। पञ्च वालाग्राणि ५। षड्ढस्ते अष्टत्रिंशदङ्गुलानि ३८\। यवद्वयम २।एका यूका १।द्वे वालाग्रे २। सप्तहस्ते एकचत्वारिंशदङ्गुलानि ४१। यवत्रयम् ३\।सप्त यूकाः ७। अष्टहस्ते चतुश्चत्वारिंशदङ्गुलानि ४४। द्वौ यवौ २। यूकात्रयम् ३। षट् लिक्षाः ६। नवहस्ते सप्तचत्वारिंशदङ्गुलानि४७। द्वे यूके२ नवलिक्षाः९। दशहस्ते एकोनपञ्चाशदङ्गुलानि ४९। चत्वारो यवाः ४। चतस्रो यूकाः४। सप्तलिक्षाः७। एकं वालाग्रम् १। पञ्च रथरेणवः५।एका त्रसरेणुः १। सप्त परमाणवः ७। इति पूर्वोक्तभूम्यर्द्धेनैतल्लम्बगणने फलम् एकविंशतिरङ्गुलानि २१। पञ्च यूकाः५। पञ्चलिक्षाः५। एकं वालाऽग्रम् १। पञ्च रथरेणवः५। षट् त्रसरेणवः ६। त्रयः परमाणवः ३। इति। त्र्यस्रद्वयफलैकीकरणे द्वासप्ततिरङ्गुलानि ७२ पत्राग्रवक्रतायां तावत्येव भूस्त्यज्यते, तावत्येव संगृह्यते इति गणितं क्षेत्रफलम् अविहितम्। अष्टानामपि पत्राणां क्षेत्रफलमेलनेऽङ्गुलानां षट्सप्तत्यधिका पञ्चशती ५७६॥

अथाऽष्टास्रम्॥ इष्टचतुरस्रव्यासश्चतुर्विंशतिभागः। तत्र द्वाभ्यां भागाभ्यामेकभागचतुर्थांशाधिकाभ्यां मध्यसूत्रं संवर्द्ध्य मध्याद्वृद्ध्यन्तधृतकर्कटेन वृत्तं कृत्वेशानपूर्वान्तरालमारभ्यैकादशभिरंशौर्मितेन सूत्रेणाऽष्टसु स्थानेष्वङ्कितेषु अष्टास्रं भवति। अत्र चैकादशांशः स्वाष्टमांशोनः कार्यः॥
अत्रैकहस्तादावुपपत्तिः। मध्ये समचतुरस्रं तद्भुजमानं तु। विंशत्यङ्गुलानि। एको यवः। यूकात्रयं च। चतुरस्रचतुर्भागेषु चत्वारि त्र्यस्राणि। तत्र भुवश्चतुरस्रभुजा। एवं पूर्वोक्ताङ्कसूत्रमितावेव च द्वौभुजौ। लम्बानां तु चत्वार्य्यङ्गुलानि। एको यवः। द्वे यूके इति। तत्र चतुरस्रफलं, चत्वारि शतानि सप्त चाङ्गुलानि।

४०७। यवाश्च सप्त प्रत्येकं त्र्यस्रफलं द्विचत्वार्यङ्गुलानि ४२। त्र्यस्रचतुष्टयफलमष्टषष्ठाधिकं शतम् १६८॥ रामोक्तं त्वष्टास्रं विषमवक्रभुजत्वात् षोडशास्रतापत्तेश्चोपेक्ष्यमिति दिक्॥

अष्टास्रिभुजाङ्गुलानि। एकस्मिन् दशाङ्गुलानि सप्त यवाः। द्वयोः पञ्चदशाङ्गुलानि। त्रयो यवाः। त्रिष्वष्टादशाङ्गुलानि। सप्त यवाः। चतुर्ष्वेकविंशत्यङ्गुलानि। सप्त यवाः। पञ्चसु चतुर्विंशत्यऽङ्गुलानि यवत्रयम्। षट्सु षड्विंशत्यङ्गुलानि षड्यवाः। सप्तस्वष्टाविंशत्यङ्गुलानि। सप्त यवाः। अष्टसु त्रिंशदङ्गुलानि। सप्त यवाः। नवसु द्वात्रिंशदङ्गुलानि। षड् यवाः। दशसु चतुस्त्रिंशदङ्गुलानि। यवचतुष्टयम्। षोडशसु त्रिचत्वारिंशदङ्गुलानि। पञ्च यवाः॥

अथ चतुर्विंशांशाः। एकस्मिन् एकाङ्गुलम्। द्वयोरेकाङ्गुलम्। त्रयो यवाः। त्रिष्वेकाङ्गुलम्। षड्यवाः। चतुर्ष्वङ्गुलद्वयम्। पञ्चस्वङ्गुलद्वयम्। षट्स्वङ्गुलद्वयम्। पञ्च यवाः। षट्सु चत्वार्यङ्गुलानि। एकहस्तादिषु चतुर्थांशाः। एकस्मिन् षडङ्गुलानि। द्वयोरष्टाङ्गुलानि चत्वारो यवाः। त्रिषु दशाङ्गुलानि। यवत्रयम्। यूकाश्चतस्रः। चतुर्षु द्वादशाङ्गुलानि। पञ्चसुत्रयोविंशाऽङ्गुलानि। त्रयमेको यवः। षोडशसु चत्वार्यङ्गुलानि। एकहस्तादिषु चतुर्थांशाः। एकस्मिन् षडङ्गुलानि। द्वयोरष्टाङ्गुलानि। चत्वारो यवाः। त्रिषु दशाङ्गुलानि। यवत्रयम्। यूकाश्चतस्रः।चतुर्षु द्वादशाङ्गुलानि। पञ्चसु त्रयोविंशाङ्गुलानि। त्रयो यवाः। यूकाश्चतस्रः। षट्सु चतुर्दशाङ्गुलानि। षट् यवाः। सप्तसु पञ्चदशाङ्गुलानि। सप्तयवाः। अष्टसु षोडशाङ्गुलानि। सप्त यवाः। चतस्रो यूकाः। नवस्वष्टादशाङ्गुलानि। दशस्वष्टादशाङ्गुलानि। सप्त यवाः। षट् यूकाः। षोडशसु चतुर्विंशत्यङ्गुलानि॥

अथाष्टमांशाः। एकस्मिन्नङ्गुलत्रयम्। द्वयोश्चत्वार्यङ्गुलानि।

द्वौ यवौ। त्रिषु पञ्चाङ्गुलानि। द्वौ यवौ। चतुर्षु षडङ्गुलानि। पञ्चसु षडङ्गुलानि षड् यवाः। षट्सु सप्ताङ्गुलानि। यवत्रयम्। सप्तस्वष्टाङ्गुलानि। अष्टस्वष्टाङ्गुलानि। यवचतुष्कम्। नवसु नवाऽङ्गुलानि। दशसु नवाङ्गुलानि। चत्वारो यवाः। षोडशसु द्वादशाङ्गुलानि॥

अथ षष्ठांशाः। एकस्मिन्नङ्गुलचतुष्टयम्। द्वयोः पञ्चाङ्गुलानि पञ्च यवाः। तिस्रोयूकाः। त्रिषु षडङ्गुलानि सप्त यवाः। चतस्रो यूकाः। चतुर्ष्वष्टाङ्गुलानि। पञ्चस्वष्टाङ्गुलानि सप्त यवाःपञ्च यूकाः। षट्सु नवाङ्गुलानि। षड् यवाः। चतस्रो यूकाः। सप्तसु दशाऽङ्गुलानि। चत्वारो यवाः। पञ्च यूकाः। अष्टस्वेकादशाङ्गुलानि। द्वौ यवौ चतस्रोयूकाः। नवसु द्वादशाङ्गुलानि। दशसु द्वादशाऽङ्गुलानि। पञ्च यवाः। षोडशसु षोडशाङ्गुलानि।

अथ द्वादशांशाः। एकस्मिन्नङ्गुलद्वयम्। द्वयोर्द्वेअङ्गुले। सप्त यवाः। त्रिष्वङ्गुलत्रयं यवचतुष्टयम्। चतुर्षु चत्वार्य्यऽङ्गुलानि। पञ्चसु चत्वार्यङ्गुलानि। चत्वारो यवाः। षट्सु चत्वार्यऽङ्गुलानि। सप्त यवाः। सप्तसु पञ्चाङ्गुलानि। द्वौ यवौ। अष्टसु पञ्चाङ्गुलानि।पञ्च यवाः। नवसु षडङ्गुलानि। दशसु षडङ्गुलानि यवत्रयम्। षोडशस्वष्टाङ्गुलानि॥ स्थापने सर्वकुण्डानां ध्वजायःसर्वसिद्धिदः * इत्युक्तत्वात् सर्वेषु चैतेषु प्रोक्तमानादर्धाङ्गुलयवादिन्यूनमतिरिक्तं वा कृत्वा ध्वजायः साधनीयः। विस्तारदैर्घ्यंगुणितैरष्टभिर्विभक्ते यद्येकः परिशिष्यते तदा ध्वजाय इति। तदुक्तम्। ध्वजो धूम्रोऽथ सिंहश्च सौरमेयः खरो गजः। ध्वाङ्क्षक्षश्चेति क्रमेणैतदायाष्टकमुदाहृतमिति॥ भविष्यपुराणे मुनिमानं शतार्द्धे तु शते चारत्निमात्रकम्। सहस्रे त्वथ होतव्ये कुर्यात कुण्डं करात्मकम्॥ द्विहस्तमयुते तच्च लक्षहोमे चतुःकरम्।

अष्टहस्तात्मकं कुण्डं कोटिहोमेषु नाधिकमिति॥ यत्तु शारदातिलके। एकहस्तमितं कुण्डमेकलक्षे विधीयते। लक्षाणां दशकं यावत्तावद्धस्तेन वर्द्धयेत्॥ दशहस्तमितं कुण्डं कोटिहोमेऽपि शस्यत इति॥ यत्तु स्कान्दे, कोटिहोमे चतुर्हस्तं चतुरस्रं समन्ततः *योनिवक्त्रद्वयोपेतं तदप्याहुस्त्रिमेखलमिति च लक्षादिहोमेष्वेकहस्तादिकुण्डविधानं, कोटिहोमे दशहस्तस्य। तद् यथोचितव्रीह्यादिचिरदाहस्थूलद्रव्यविषयम्। घृतादिक्षिप्रदाहिद्रव्यविषयं च ज्ञेयम्॥

अथ खातम्। मोहचूडोत्तरे। चतुर्विंशतिमं भागमङ्गुलं परिकल्प्य तु। चतुर्विंशाङ्गुलं हस्तं कुण्डानां परिकल्पयेत्॥ हस्तमात्रं खनेत्तिर्यगूर्ध्वमेखलया सह॥ पिङ्गलमते, खातादेकाङ्गुलं त्यक्त्वा मेखलानां स्थितिर्भवेत्॥ तथा, सर्वेषामेव कुण्डानामेका वा तिस्र एव वा॥ कुण्डलक्ष्मविवृत्तौ, कण्ठाङ्गुलाद्बहिः कार्या मेखलैका षङ्गुलेति। चतुस्त्रिव्द्यङ्गुला वाऽपि तिस्रः सर्वत्र शोभना इति॥ मेखलात्रितयं कार्यं कोणरामयमाङ्गुलैः॥ कोणाश्चत्वारः। रामास्त्रयः। यमौ द्वौ। चतुस्त्रिव्द्यङ्गुलत्वं च विस्तारे, उच्चतायां च। अत एव शारदातिलके मेखलामानं प्रकृत्य, विस्तारोत्सेधतो ज्ञेया मेखलाः सर्वतो बुधैरिति। रामेण तु तिसृणामपि त्र्यङ्गुलोच्चतैव। विस्तारस्तु चतुस्त्रिव्द्यङ्गुल इत्युक्तम्॥

अथ योनिः। तत्र स्वायम्भुवे, मेखलामध्यतो योनिः कुण्डार्द्धा त्र्यंशविस्तृता। अङ्गुष्ठमानोष्ठकण्ठा कार्याऽश्वत्थदलाकृतिः॥ कुण्डार्द्धा दीर्घा। त्र्यंशविस्तृता मूले अग्रेऽश्वत्थदलवत् कुञ्चिता। अङ्गुष्ठमानौ ओष्ठकण्ठौ यस्याः सा अङ्गुष्ठमानोष्ठकण्ठा। ओष्ठः कुण्डमध्ये प्रविष्टं योन्यग्रम्। कण्ठो योनिमेखलेत्येके। तथाच भुवि वेष्टिता योनिः कार्येत्यर्थः। मेखलात उच्चो भाग इत्यपरे। त्रैलोक्यसारे, दैर्घ्यात्सूर्याङ्गुला योनिस्त्र्यंशोना विस्तरेण तु।

एकांगुलोच्छ्रिता सा तु प्रविष्टाभ्यन्तरे तथा॥ कुम्भद्वयसमायुक्ता वाऽश्वत्थदलवन्मता। अङ्गुष्ठमेखलायुक्ता मध्ये त्वाज्यधृतिक्षमेति॥ अंशोना योनिदैर्ध्यात्। अष्टाङ्गुलेति यावत्। कुम्भद्वयेन वृत्तार्द्धद्वयाकारेण मूलदेशे समायुक्ता। शारदातिलके, स्थलादारभ्य नालं स्याद्योन्या मध्ये संरब्धकमिति॥ प्रागग्नियाम्यकुण्डानां प्रोक्ता योनिरुदङ्मुखी। पूर्वामुखाः स्मृताः शेषा यथा शोभासमन्विताः॥ त्रैलोक्यसारे, नवमस्यापि कुण्डस्य योनिर्दक्षदले स्थितेति\।\। शारदाया योनिकुण्डे योनिमज्जडतुल्यां नाभिं च वर्जपेदिति। सिद्धान्तशेखरेऽपि, योनौ योनिर्न कुर्वीतेति॥ शारदातिलके, कुण्डानां कल्पयेदन्ते नाभिमम्बुजसन्निभाम्। तत्तत्कुण्डानुरूपां च मानमस्या निगद्यते॥ मुष्ठिरत्रैकहस्तानां नाभिरुत्सेधतो मता। नेत्रवेदाङ्गुलोपेता कुण्डेष्वन्येषु वर्द्धयेत्॥ यवद्वयक्रमेणैव नाभिंपृथगुदारधीरिति॥ नेत्रवेदाङ्गुलोपेता उच्चतायां द्व्यङ्गुलविस्तारा वामयोश्चतुरङ्गुलेत्यर्थः। द्वित्रिहस्तादिकुण्डेषु द्विः द्विस्तु विस्तारा। मयोः षष्ठांशविस्तारपरा। उच्चतायां द्वादशांशपरेति रामादयः। शारदातिलके, एकमेव भवेत् कुण्डमीशान्यां वैष्णवाध्वर इति॥ विश्वकर्मा, खाताधिके भवेद्रोगी हीने धेनुधनक्षयः। वक्रकुण्डे तु सन्तापो मरणं छिन्नमेखले॥ मेखलारहिते शोकोऽभ्यधिके वित्तसङ्क्षयः। भार्याविनाशनं प्रोक्तं कुण्डे योन्या विना कृते। अपत्यध्वंसनं प्रोक्तं कुण्डं यत् कण्ठवर्जितमिति॥सिद्धान्तशेखरे, मानहीने महाव्याधिरधिके शत्रुवर्द्धनम्। योनिहीने त्वपस्मारो वाक्कुण्ठः कण्ठवर्जिते॥ तत्रैव। स्थण्डिलं वाऽपि कुर्वीत सुसिद्धैः सितकैः श्रितैः। हस्तमात्रं प्रविस्तारं सुसमे त्र्यङ्गुलोन्नतम्॥ ग्रन्थान्तरेऽपि नित्यं नैमित्तिकं होमं स्थण्डिले वा समाचरेत्। हस्तमात्रेण तत्कुर्या-

द्वालुकाभिः सुशोभनम्॥ त्र्यङ्गुलोत्सेधसंयुक्तं चतुरस्रं समन्तत इति ॥ इति श्रीशङ्करभट्टात्मजभट्टनीलकण्ठकृतेदानमयूखे कुण्डमेखलानिर्णयः॥

अथ षोडशारचक्रम्। तत्र गुरुर्वेद्यांमध्ये त्रिहस्तव्यासं चतुरस्रं प्रसाध्य प्रागपरदक्षिणोत्तरनवनवरेखाभिस्तच्चतुःषष्टिकोष्ठकं कुर्यात्। तत्र कोष्ठानि प्रत्येकं नवाङ्गुलानि संपद्यन्ते। ततो बहिरन्त्यपङ्क्तिषु चतुर्द्दिक्षु मध्यकोष्ठानि चत्वारिचत्वारि मार्जयित्वा तदुपर्युपान्त्यपङ्क्तिषु पार्श्वयोस्तत्रयं त्रयंत्यक्त्वा प्रतिदिशं मध्यकोष्ठद्वयं मार्जयेत्। तेन चतुर्द्दिक्षु षट् षट् कोष्ठानि चत्वारि द्वाराणि सिद्ध्यन्ति। ततो मध्यस्थितषोडशकोष्ठानि मार्जयेत्। ततो बाह्ये एकैकं कोणकोष्ठं विहाय कोणकोष्ठद्वारपीठान्तरालवर्तीन्यवशिष्टानि पञ्च पञ्च कोष्ठानि मार्जयेत्। तथाच मध्यचतुरस्रपीठस्य पादाः सिद्ध्यन्ति। ततो मध्याच्चत्वारि वृत्तानि कुर्यात्। तत्राद्ये चत्वार्य्यङ्गुलानि व्यासः। द्वितीयेऽष्टौ। तृतीये चतुर्विंशतिः। चतुर्थे षड्विंशतिरिति। तच्चतुरङ्गुलं वृत्तं कर्णिकारूपं पीतेन रजसा पूरयित्वा कर्णिकावधिरेखां सितेन रजसा निर्माय तद्बहिरष्टाङ्गुलात्मके वृत्ते पीतरक्तसितरजोभिः संपादितमूलमध्याऽग्राणि षोडश केशराणि संपाद्य तत्केसरावधिरेखां सितेनैव रजसाऽङ्गुलोन्नतां संपाद्य चतुर्विंशाङ्गुलात्मके तद्बहिर्वृत्ते सितरजसा अष्टदिक्ष्वष्टौ पत्राणि रक्ताग्राणि कुर्यात्।ततो दलान्तरे रेखां सितेन रजसा विधाय दलान्तराणि कृष्णेन रजसा पूरयित्वा तद्बहिरेकाङ्ऽगुलान्तरं बहिर्वृत्तरेखां सितेनैव रजसा संपाद्य तद्द्वयान्तरं परितोऽङ्गुष्ठदलान्तराणि कृष्णेन रजसा पूरयित्वा तद्बहिरेकाङ्गुलान्तरां वहिर्वृत्तरेखां सितेनैव रजसा संपाद्य तद्द्वयान्तरं परितोऽङ्गुष्ठदलाग्रतत्सन्धिचिह्नैः षोडशधा विभज्य प्रतिभागं यवाकारान्षोडश-

कीटान्श्यामपीतारुणश्वेतरजोभिः कल्पयित्वा तदन्तरा यथायोगरजोभिः पूरयित्वा तद्बहिः सितपीतारुणश्यामहरिताः पञ्चेरखा लिखेत्। तद्बहिः पीठक्षेत्रचतुरस्रं यथाशोभं रजोभिरलंकृत्यपीठाऽवधिरेखां सितेन रजसा चतुरस्रां रचयेत्। द्वारक्षेत्राणि पूर्वादितः पीतश्यामश्वेतहरितरजोभिः पूरयेत्। आग्नेयादिकोणे कोष्ठचतुष्टयं लोहितहरितश्यामधवलैः पूरयेत्। आग्नेयादिपीठपादचतुष्टयं पञ्चकोष्ठात्मकं क्रमात् सितरक्तपीतकृष्णरजोभिः पूरयेत्। ततः सितेन रजसाङ्गुलोन्नतेनं बहिश्चतुरस्ररेखां कुर्यादिति पितामहचरणाः। मदनाद्याश्च॥

ठक्कुरमते चतुर्हस्तं चतुरस्रम्। तत्र प्रत्येकं द्वादशाङ्गुलानि कोष्ठानि। वृत्तानि तु पञ्च। तत्राद्ये वृत्ते चत्वार्य्यङ्गुलानि व्यासः। द्वितीयेऽष्टौ, तृतीये विंशतिः, चतुर्थे चतुर्विंशतिः, पञ्चमे षट्त्रिंशदिति। पञ्चकोष्ठात्मकं पीठपादचतुष्टयमाग्नेयादिक्रमेण रक्तहरितश्यामसितैः पूरणीयम्। कोणकोष्ठचतुष्टयं त्वेकं त्रिभिस्त्रिभिर्वर्णैरिति विशेषः। इति षोडशारचक्रनिर्मितिः॥

इदमेव च वारुणं मण्डलम्। तथा, बज्रं प्रागुत्तमे भागे आग्नेय्यां शक्तिमुज्ज्वलाम्। आलिखेद्दक्षिणे दण्डं नैर्ऋत्यांखड्गमालिखेत्॥ पाशं तु वारुणे लेख्यं ध्वजं वै वायुगोचरे। कौबेर्य्यांतु गदां लिख्य ईशान्यां शूलमालिखेत्॥ शूलस्य वामदेशे तु चक्रं पद्मं तु दक्षिणे इति॥ ततो महावेद्युपरि पञ्चवर्णफलपुष्पोपशोभितं वितानं बध्नीयादिति। ततो महावेदीशानभागे आयामदैर्घ्योच्छ्रायैर्हस्तमिता ग्रहादिस्थापनार्था परा वेदिर्या विहिताऽस्ति, हेमाद्रिमते वितस्त्युच्छ्राया वा तस्यां सर्वतोभद्रं लिखेत्। तल्लेखनेप्रकारोऽपीत्थम्—प्रागुदीच्यां गता रेखाः कुर्यादेकोनविंशतिः। खण्डेन्दुस्त्रिपदः कोणे शृङ्खला पञ्चभिः पदैः॥ एकादश-

पदा वल्ली भद्रं तु नवभिः पदैः। चतुर्विंशत्पदा वापि परिधिविंशकैः पदैः॥ मध्ये षोडशभिः कोष्ठैः पद्ममष्टदलं स्मृतम्। श्वेतेन्दुः शृङ्खला कृष्णा वल्लीं नीलेन पूरयेत्॥ भद्रारुणा सिता वाऽपि परिधिः पीतवर्णकः। बाह्यान्तरदला श्वेता कर्णिका पीतवर्णिका॥ परिध्यावेष्टितं पद्मं मध्ये सत्वं रजस्तमः। तन्मध्ये स्थापयेद्देवान् ब्रह्माद्यांश्च सुरासुरानिति॥

अथ ग्रहपूजाप्रकारः। तत्र ग्रहा मात्स्ये, सूर्यः सोमो महीपुत्रः सोमपुत्रो बृहस्पतिः। शुक्रः शनैश्चरो राहुः केतुश्चेति ग्रहा नव॥ स्कान्दे, जन्मभूगोत्रमेतेषां वर्णस्थानमुखानि च। योऽज्ञात्वा कुरुते शान्तिं ग्रहास्तेनावमानिताः॥ स्थानमधिष्ठानम्। एतद्विज्ञाय यः कुर्यात्तत्सर्वं सफलं भवेत्*॥ वर्णजन्मनी आह वृद्ध पराशरः, रक्तः कश्यपजो भानुः शुक्लो ब्रह्मसुतः शशी। रक्तो रुद्रसुतो भौमः पीतः सोमसुतो बुधः॥ पीतो ब्राह्मः सुराचार्यः शुक्लः शुक्रो भृगूद्वहः। कृष्णः शनी रखेः पुत्रः कृष्णो राहुः प्रजापतेः॥ कृष्णः केतुः कृशानूत्थः कृष्णाः पापास्त्रयोऽप्यमी॥ भुवमाह स एव,उत्पन्नोऽर्कः कलिङ्गेषु यमुनायां च चन्द्रमाः। अङ्गारकस्त्ववन्त्यां तु मगधायां हिमांशुजः। सैन्धवेषु गुरुर्जातः शुक्रो भोजकटे तथा। शनैश्चरस्तु सौराष्ट्र राहुर्वैराटिके पुरे॥ अन्तर्वेद्यां तथा केतुरित्येता ग्रहभूमयः॥ गोत्रमाह स एव, आदित्यः काश्यपो गोत्राद् आत्रेयश्चन्द्रमा भवेत्। भारद्वाजो भवेद्भौमस्तथाऽऽत्रेयश्च सोमजः॥ शक्रपूज्योऽङ्गिरोगोत्रः शुक्रो वै भार्गवस्तथा। शनिःकाश्यप एवाथ राहुः पैठीनसिस्तथा॥ केतवो जैमिनीयाश्व ग्रहा लोकहितावहाः॥ दामोदरीये ग्रहान् प्रक्रम्य, वर्णरूपगुणैर्युक्तान् व्याहृत्यावाहयेत्तु तान्॥ तत्रैव, भानुं तु मण्डलाकारं अर्द्धचन्द्राकृतिं विधुम्। अङ्गारकं त्रिकोणं च बुधं बाणाकृतिं

विदुः॥ पद्माकारं गुरुं कुर्याच्चतुष्कोणं च भार्गवम्। दण्डाकृतिं शनिं राहुं मकराकारमेव च॥ खड्गाकाराँस्तथा केतून स्थापयेदऽनुपूर्वशः॥ ग्रहादिरूपाणि मात्स्ये, पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः। सप्ताश्वरथसंयुक्तो द्विभुजः स्यात् सदा रविः॥ श्वेतः श्वेताम्बरधरो दशाश्वः श्वेतभूषणः। गदापाणिर्द्विवाहुश्च कर्त्तव्यो वरदः शशी। रक्तमाल्याम्बरधरः शक्तिशूलगदाधरः।चतुर्भुजो मेषवाहो वरदः स्याद्धरासुतः॥ पीतमाल्याम्बरधरः कर्णिकारसमद्युतिः। खड्गचर्मगदापाणिः सिंहस्थो वरदो बुधः॥ देवदैत्यगुरू तद्वत् पीतश्वेतौ चतुर्भुजौ। दण्डिनौ वरदौ यौ हि साक्षसूत्रकमण्डलू॥ इन्द्रनीलद्युतिः शूली वरदो गृध्रवाहनः। वाणवाणाऽऽसनधरः कर्त्तव्योऽर्कसुतः सदा॥ करालवदनः खड्गचर्मशूली वरप्रदः। नीलसिंहासनस्थश्च राहुस्तत्र प्रशस्यते॥ धूम्रा द्विबाहवः सर्वे गदिनो विकृताननाः। गृध्रासनगता नित्यंकेतवः स्युर्वरप्रदाः॥ सर्वे किरीटिनःकार्या ग्रहा लोकहितावहाः॥ केतूनां बहुत्वे एकमेव देवतात्वम्। वृद्धपराशरः, मध्ये तु भास्करं विद्याच्छशिनं पूर्वदक्षिणे। दक्षिणेन धरासूनुं बुधं पूर्वोत्तरेण तु॥उत्तरेण गुरुं विद्यात् पूर्वेणैव तु भार्गवम्। शनैश्चरं पश्चिमस्यां राहुं दक्षिणपश्चिमे॥ पश्चिमोत्तरतःकेतून स्थापयेदनुपूर्वशः॥ मुखानि मात्स्ये, देवानां तत्र संस्थाप्या विंशतिर्द्वादशाधिका। आदित्याभिमुखाः सर्वे साधिप्रत्यधिदेवताः॥ शुक्रार्कीप्राङ्मुखौ ज्ञेयाविति स्कान्दाव सूर्यःप्राङ्मुखः। पूजायां संमुखतानुरोधात् प्रत्यङ्मुख इत्यन्ये। अधिदेवताःप्रत्यधिदेवताश्च, मात्स्ये—भास्करस्येश्वरं विद्यादुमां च शशिनस्तथा। स्कन्दमङ्गारकस्यापि बुधस्यापि तथा हरिम्॥ ब्रह्माणं च गुरोर्विद्याच्छुक्रस्यापि शचीप्रतिम्। शनैश्चरस्यापि यमं राहोः कालं तथैव च॥ केतूनां

चित्रगुप्तं च सर्वेषामधिदेवताः। अग्निरापः क्षितिर्विष्णुरिन्द्रश्चैन्द्री च देवता॥ प्रजापतिश्च सर्पाश्च ब्रह्मा प्रत्यधिदेवताः॥ एतेषां लक्षणानि विष्णुधर्मोत्तरे, पञ्चवक्त्रोवृषारूढः प्रतिक्त्रंत्रिलोचनः। कपालशूलखट्वाङ्गी चन्द्रमौलिः सदाशिवः॥ अक्षसूत्रं च कमलं दर्पणं च कमण्डलुम्। उमा विभर्त्तिहस्तेषु पूजिता त्रिदशैरपि॥ कुमारः षण्मुखः कार्यः शिखण्डकविभूषणः। रक्ताम्बरधरो देवो मयूरवरवाहनः॥ कुक्कुटश्च तथा घण्टा तस्य दक्षिणहस्तयोः। पताका वैजयन्ती स्याच्छक्तिः कार्याच वामयोः॥ विष्णुः कौमोदकीपद्मशङ्खचक्रधरः क्रमात्। प्रदक्षिणं दक्षिणाधःकरावारभ्य नित्यशः॥ पद्मासनस्थो जटिलो ब्रह्मा कार्यश्चतुर्मुखः। अक्षमालां स्रुवं विभ्रत् पुस्तकं च कमण्डलुम्॥ चतुर्दन्तगजारूढो वज्री कुलिशभृत्करः। शचीपतिः प्रकर्त्तव्यो नानाभरणभूषितः॥ ईषन्नीलो यमः कार्यो दण्डहस्तो विजानता। रक्तदृक्पाशहस्तश्च महामहिषवाहनः॥ कालः करालवदनो नीलाङ्गश्च विभीषणः। पाशहस्तो दण्डहस्तः कार्यो वृश्चिकरोमवान्॥ अपीच्यवेषस्वाकारं द्विभुजं सौम्यदर्शनम्। दक्षिणे लेखनीं चित्रगुप्तं वामे तु पात्रकम्॥ पिङ्गलश्मश्रुकेशाक्षः पीनाङ्गोजवरोऽरुणः। छागस्थः साक्षसूत्रोऽग्निः सप्तार्चिः शक्तिधारकः॥ चिह्नितं चमरेणास्य करमन्यं प्रकल्पयेत्॥ आपः स्त्रीरूपधारिण्यः श्वेता मकरवाहनाः। दधानाः पाशकलशौ मुक्ताभरणभूषिताः॥ शुक्लवर्णा मही कार्या दिव्याऽऽभरणभूषिता। चतुर्भुजा सौम्यवपुश्चण्डांशुसदृशाम्बरा॥ रत्नपात्रं सस्यपात्रं पात्रमोषधिसंयुतम्। पद्मं करे च कर्त्तव्यं भुवो यादवनन्दन॥ दिग्गजानां चतुर्णांसा कार्या पृष्ठगता तथा॥ विष्णोरिन्द्रस्य चोक्तम्। वामे शच्याः करे कार्या सौम्या सन्तानमञ्जरी। वरदा मण्डिता कार्या द्विभुजा च तथा सती॥ यज्ञोपवीती

हंसस्थ एकवक्रश्चतुर्भुजः। अक्षं स्रुचं स्रुवं विभ्रत् कुण्डिकां च प्रजापतिः॥ अक्षम् अक्षमालाम्। कुण्डिकां कमण्डलुम्। अक्षसूत्रधराः सर्पाःकुण्डिकापुच्छभूषणाः। एकभोगास्त्रिभोगा वा सर्वे कार्याश्च भीषणाः॥ ब्रह्मलक्षणमुक्तम्। ग्रहाणां दक्षिणे पार्श्वे न्यसेत् प्रत्याधदेवताः॥

अथ विनायकादिलक्षणानि। चतुर्भुजस्त्रिनेत्रश्च कर्त्तव्योऽत्र गजाननः। नागयज्ञोपवीतश्च शशाङ्ककृतशेखरः॥ दक्षे दन्तं करे दद्याद्द्वितीये चाक्षसूत्रकम्। तृतीये परशुं दद्याचतुर्थे मोदकं तथा॥शक्तिंबाणं तथा शूलं खड्गं चक्रं च दक्षिणे। चन्द्रबिम्बमधो वामे खेटमूर्ध्वेकपालकम्॥ सुकङ्कटं च विभ्राणा सिंहारूढा तु दिग्भुजा। एषादेवी समुद्दिष्टा दुर्गादुर्गात्तिनाशिनी॥ धावद्धरिणपृष्ठस्थो ध्वजधारी समीरणः। वरदानकरो धूम्रवर्णः कार्यो विजानता॥ नीलोत्पलाभं गगनं तद्वर्णाम्बरधारि च। चन्द्रार्कहस्तं कर्त्तव्यं द्विभुजं सौम्यखण्डवत्॥ द्विभुजौ सौम्यवरदौ कर्त्तव्यौ रूपसंयुतौ। तयोरोषधयः कार्या दिव्या दक्षिणहस्तयोः॥ वामयोः पुस्तकौ कार्यौदर्शनीयौ तथा द्विजाः॥ एकस्य दक्षिणे पार्श्वे वामे चास्य च यादव। नारीयुगं प्रकर्त्तव्यं सुरूपं चारुदर्शनम्॥ रत्नभाण्डकरे कार्ये चन्द्रशुक्लाम्बरे तथा॥

अथ लोकपालरूपाणि। तत्रेन्द्राग्नियमब्रह्मरूपाणि प्रत्यधिदेवतोक्त्योक्तानि। खड्गचर्मधरो बालो निर्ऋतिर्नरवाहनः। ऊर्ध्वकेशो विरूपाक्षः करालः कालिकाप्रियः॥ नागपाशधरो रक्तभूषणः पद्मिनीपतिः। वरुणोऽम्बुपतिः स्वर्णवर्णो मकरवाहनः॥ वायुर्विनायकादिपञ्चके उक्तः। सोमो ग्रहेषु। अनन्तः प्रत्यधिदेवतासु। विनायकादिस्थापनं ग्रहेभ्य उत्तरत इति संप्रदायः। दक्षिणपश्चिमवायव्योत्तरपूर्वेषु यथाक्रममित्यन्ये। राहुमन्दादिनेशानामु-

त्तरस्यांयथाक्रमम् * गणेशदुर्गा वायुश्च राहुकेत्वोश्च दक्षिणम्॥ आकाशमश्विनौ चेति पञ्चैतान् स्थापयेद् बुध इति वचनानुसारेणेति भट्टाः, रूपनारायणश्च॥ पूजाप्रकारमाह याज्ञवल्क्यः। यथावर्ण प्रदेयानि वासांसि कुसुमानि च। गन्धाश्च वलयश्चैव धूपो देयोऽत्र गुग्गुलुः॥ मात्स्ये, धूपामोदोऽत्र सुरभिरुपरिष्टाद्वितानकम्। शोभनं स्थापयेत् प्राज्ञः फलपुष्पसमन्वितम्॥ धूपे विशेषो हेमाऽद्रौ स्कान्दे। रवेःकुन्दुरुकं धूपं शशिनस्तु घृताक्षताः। भौमे सर्ज्जरसं चैव अगरुं च बुधे स्मृतम्॥ सिह्लकं गुरवे दद्याच्छुक्रे बिल्वा गुरु स्मृतम्। गुग्गुलं मन्दवारे तु लाक्षा राहोश्च केतवे॥ कुन्दुरुकं सल्लकीनिर्यासः। सर्जः। शालः। सिह्लकं सिह्लाइति मध्यदेशे प्रसिद्धम्। बिल्वागुरु विल्वफलनिर्याससहितमगुरु। मन्दवारे शनैश्चराय। लाक्षा राहवे केतुभ्यश्च। गन्धे विशेषमाह, दिवाकरकुजाभ्यां हि दापयेद्रक्तचन्दनम्। चन्द्रे च भार्गवे चैव सितवर्ण प्रदापयेत्॥ कुङ्कुमेन च संयुक्तं चन्दनं जीवसौम्ययोः। अगुरुं चापि कस्तूर्या राहवे त्वर्कजेषु च॥ अङ्गदेवतानां तु, पुष्णाणि सितवर्णानि चन्दनं च विलेपनम्। एतेषां गुग्गुलुर्धूपो नैवेद्यं घृतपायसम्॥ वासांसि शुक्लानीति संप्रदायः। ग्रहवलीनाह। गुडौदनं रवेर्दद्यात्सोमाय घृतपायसम्। अङ्गारकाय सँय्यावं बुधाय क्षीरवष्टके॥ दध्योदनं तु जीवाय शुक्राय च घृतौदनम्। शनैश्चराय कृशरमाजं मांसं च राहवे॥ चित्रौदनं च केतुभ्यः सर्वभक्ष्यैरथार्चयेत्॥ अत्र सर्वभक्षैरथार्चयेदित्यन्यदपि मोदकादि देयमिति दामोदरठक्कुरः। सँय्यावो गोधूमचूर्णसाधितो घाटाख्य इत्यपि स एव। तण्डुलमसूरान्नमिति रूपनारायणः। कृशरं तिलतण्डुलं दुग्धसाधितम्। चित्रौदनम्, तिलतण्डुलमिश्रं स्यादजाक्षीरं तु शोणितम् कर्णनासागृहीतं स्यादेतच्चित्रौदनं स्मृतम् इति,

दामोदरः॥ याज्ञवल्क्यः। शक्तितो वा यथालाभं संत्कृत्य विधिपूर्वकम्। पूजयन्तो ग्रहानेताल्ँलभन्ते सकलं फलम्॥

यत्तु पृथ्वीचन्द्रोदयादौ, वर्णरूपगुणैर्युक्तान् व्याहृत्यावाहयेत्तुतानितिवचनाद्ॐभूरादित्यमावाहयामि। ॐभुवःआदित्यमावाहयामि ॐस्वः आदित्यमावाहयामि। ॐ भूर्भुवःस्वरादित्यम् इति व्यस्त समस्तव्याहृतिभिरावाह्य, भगवन्नादित्य नक्षत्राधिपते काश्यपगोत्र कलिङ्गदेशेश्वर जपापुष्पोपमाङ्गद्युते द्विभुज पद्माभयहस्त सिन्दूरवर्ण माल्याम्बरानुलेपन ज्वलन्माणिक्यखचितसर्वाङ्गाभरण भास्वत्तेजोनिधे त्रिलोकप्रकाशक त्रिदेवतामयमूर्त्तेनमस्ते सन्नद्धारुणध्वजपताकोपशोभितेनसप्ताश्वरथवाहनेन मेरुंप्रदक्षिणीकुर्वन्नागच्छाऽग्निरुद्राभ्यां सहेत्यादिविशेषणैरपि युक्तान ग्रहान् आवाहयेदिति। तद् मूलं विमृश्य कार्यम्। वामनग्रन्थे, आचार्यप्रभृतिभ्यश्च ग्रहार्चनफलं ततः। समिदाज्यचरूणाम्। ब्रह्मत्वे कुम्भपूजायां चार्चनस्य फलं च यत् * लोकपालगणेशाद्यास्तत्र या अङ्गदेवताः॥ तासां जपफले तद्वद् गृह्णीयाज्जलपूर्वकम्। ततस्तेभ्यो यथाशक्ति दातव्या दक्षिणा तत इति॥ इति ग्रहपूजाविधिः॥

अथ पुण्याहवाचनम्। त्रिकाण्डमण्डनः, गर्भाधानादिसंस्कारेष्विष्टापूर्त्तक्रतुष्वपि * वृद्धिश्राद्धं पुरा कार्यं कर्मादौ स्वस्तिवाचनम्॥ व्यासः। सम्पूज्य गन्धपुष्पाद्यैर्ब्राह्मणान् स्वस्ति वाचयेत्। धर्मकर्मणि माङ्गल्ये सङ्ग्रामेऽद्भुतदर्शने इति॥ गृह्यपरिशिष्टे। स्वस्तिवाचनमृद्धिपूर्तेषु तत्कर्मणश्चान्तयोः कुर्यात्॥ आखलायनः। दैविके तान्त्रिके चादौ ततः पुण्याह इष्यत इति॥ तच्च रूपनारायणीये इत्थम्। त्रीनधिकान् ब्राह्मणान् भोजयित्वोदङ्मुखानुपवेश्य वस्त्रादिभिः परितोष्य पुण्याहं भवन्तो ब्रुवन्त्विति ब्राह्मणान् यजमानः प्राङ्मुखस्त्रिःश्रावयेत्॥ ततो ब्राह्मणाः

पुण्याहमिति त्रिर्ब्रूयुः। ततः स्वस्ति भवन्तो ब्रुवन्त्विति त्रिःश्रावयेत्। ॐ स्वस्तिरिति त्रिर्ब्रूयुः। ततः, ऋद्धि भवन्तो ब्रुवन्त्विति त्रिःश्रावयेत्। ऋद्ध्यतामिति त्रिः प्रतिवचनम्। एतच्च, ब्राह्मणान् अन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिरित्योङ्कारपूर्वं त्रिस्त्रिरेकैकामाशिषो वाचयित्वेत्यादिना बौधायनेनोक्तम्। यमः। पुण्याहवाचनं दैवे ब्राह्मणस्य विधीयते। एतदेव निरोङ्कारं कुर्यात् क्षत्रियवैश्ययोरिति ॥ वहृचगृह्यपरिशिष्टे तु, अवनिकृतजानुमण्डलः कमलमुकुलसदृशमञ्जलिं शिरस्याधाय दक्षिणेन पाणिना सुवर्णपूर्णकलशं धारयित्वा, दीर्घा नागा नद्यो गिरयस्त्रीणि विष्णुपदानि व तेनाऽऽयुःप्रमाणेन पुण्याहं दीर्घमायुरस्तु। शिवा आपः सन्तु सौमनस्यमस्तु, अक्षतं चारिष्टं चास्तु, गन्धाः पान्तु सुमङ्गल्यं चास्तु, पुष्पाणि पान्तु सुश्रियमस्तु, अक्षताः पान्तु आयुष्यमस्तु। ताम्बूलानि पान्तु ऐश्वर्यमस्तु, दक्षिणाः पान्तु आरोग्यमस्तु, दीर्घमायुः शान्तिः पुष्टिस्तुष्टिःश्रीर्यशो विद्या विनयो वित्तं बहुपुत्रं चायुष्यं चास्तु। यं कृत्वा सर्ववेदयज्ञक्रियाकरणकर्मारम्भाः शुभाः शोभनाः प्रवर्त्तन्ते तमहमोङ्कारमादिं कृत्वा ऋग्यजुः समाशीर्वचनं बहुर्षिमतं समनुज्ञातं भवद्भिरनुज्ञातः पुण्यं पुण्याहं वाचयिष्ये। वाच्यताम्। द्रविणोदा द्रविणसस्तुरस्य, सविता पश्चात्तात्, नवो नवो भवति जायमानः, उच्चा दिवि, दक्षिणावन्तो अस्थुरियेता ऋचः पुण्याहे ब्रूयात्॥ व्रतनियमतपःस्वाध्यायक्रतुदमदानविशिष्टानां सर्वेषां ब्राह्मणानां मनः समाधीयताम्। समाहितमनसः स्मः। प्रसीदन्तु भवन्तः। प्रसन्नाः स्मः। शान्तिरस्तु। पुष्टिरस्तु। तुष्टिरस्तु। वृद्धिरस्तु। अविघ्नमस्तु॥ आयुष्यमस्तु। शिवं कर्माऽस्तु। कर्मसमृद्धिरस्तु। पुत्रसमृद्धिरस्तु। धनधान्य समृद्धिरस्तु। इष्टसमृद्धिरस्तु। अरिष्टनिरसनमस्तु। यत् पापं तत् प्रतिहतमस्तु।

यच्छ्रेयस्तदस्तु। उत्तरे कर्मण्यविघ्नमस्तु। उत्तरोत्तर अहरहरभिवृद्धिरस्तु। उत्तरोत्तराः क्रियाः शुभाः शोभनाः प्रवर्त्तन्ताम्। तिथिकरणमुहूर्त्तनक्षत्रसम्पदस्तु। तिथिकरणमुहूर्त्तनक्षत्रग्रहलग्नाधिदेवताः प्रीयन्ताम्। तिथिकरणे मुहूर्त्तनक्षत्रे सग्रहे सदैवते प्रीयेताम्। अग्निपुरोगा विश्वेदेवाः प्रीयन्ताम्। इन्द्रपुरोगा मरुद्गणाः प्रीयन्ताम्। वसिष्ठपुरोगा मरुद्गणाः प्रीयन्ताम्। माहेश्वरीपुरोगा उमामातरः प्रीयन्ताम्। अरुन्धतीपुरोगा एकपत्न्यः प्रीयन्ताम्। विष्णुपुरोगाः सर्वे देवाः प्रीयन्ताम्। ब्रह्मपुरोगाः सर्वे वेदाः प्रीयन्ताम्। ब्रह्मा च ब्राह्मणाश्च प्रीयन्ताम्। श्रीसरस्वत्यौप्रीयेताम्। श्रद्धामेधे प्रीयेताम्। भगवती कात्यायनी प्रीयताम्। भगवती माहेश्वरी प्रीयताम्। भगवती ऋद्धिकरी प्रीयताम्। भगवतीपुष्टिकरी प्रीयताम्। भगवती तुष्टिकरी प्रीयताम्। भगवन्तौ विघ्नविनायकौ प्रीयेताम्। सर्वाः कुलदेवताः प्रीयन्ताम्। हता ब्रह्मद्विषः। हताः परिपन्थिनः। हताश्च विघ्नकर्त्तारः। शत्रवः पराभवं यान्तु। शाम्यन्तु घोराणि। शाम्यतु पापानि शाम्यन्त्वीतयः। शुभानि वर्द्धन्ताम्। शिवा आपः सन्तु। शिवा अग्नयः सन्तु। शिवा आहुतयः सन्तु। शिवा वनस्पतयः सन्तु। शिवा अतिथयः सन्तु। अहोरात्रे शिवे स्याताम्। निष्कामे निकामे नः पर्जन्यो वर्षतु। फलवत्योन ओषधयः पच्यन्ताम् योगक्षेमो नः कल्पताम्। शुक्राङ्गारकबुधबृहस्पतिशनिराहुकेत्तुसोमसहिता आदित्यपुरोगाःसर्वे ग्रहाःप्रीयन्ताम्। भगवान्नारायणः प्रीयताम्। भगवान् पर्जन्यः प्रीयताम्। भगवान् स्वामी महासेनः प्रीयताम्। पुण्याहकालं वाचयिष्ये। वाच्यताम्। उद्गातेव शकुने साम गायसि। याज्यं याजयति। यत्पुण्यनक्षत्रम्। तद्वषट्कुर्वतोपव्युषम्। यदा वै सूर्य उदेति। अथ नक्षणं नैति। यावती तत्र

जघन्यं पश्येत्। तावति कुर्वीत यत्कारी स्यात्। पुण्याह एव कुरुते। तानि वा एतानि यमनक्षत्राणि। यान्येव देवनक्षत्राणि। तेषु कुर्वीत यत्कारी स्यात्। पुण्याह एवकुरुते। पुण्याहं भवन्तो ब्रुवन्तु। ॐ पुण्याहं स्वस्तये वायुमुपव्रवामहै। आदित्यउदयनीया, स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः। स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधात्विति। अष्टौ देवा वसवः सोम्यासः। चतस्रो देवीरजरा श्रविष्ठाः। ते यज्ञं पान्तु रजसः परस्तात्संवत्सरीणममृतं स्वस्ति। स्वस्ति भवन्तो ब्रुवन्तु। आयुष्मते स्वस्ति। ऋध्यामस्तोमम्। सर्वामृद्धि मृद्धिमृघ्नुयामिति। ऋध्यास्म हव्यैर्नमसोपसद्यः। मित्रं देवं मित्रधेयं नो अस्तु। अनुराधान् हविषा वर्धयन्तः शतं जीवेम शरदः सवीराः। त्रीणि त्रीणि वै देवानामृद्धानि। त्रीणि छन्दांसि त्रीणि सवनानि। त्रय इमे लोकाः। ऋद्ध्यामेवतद्वीर्य एषु लोकेषु प्रतितिष्ठति। ऋद्धि भवन्तो ब्रुवन्तु। ऋद्ध्यताम्। श्रिये जातः, श्रिय एवैनं, यस्मिन् ब्रह्माभ्यजयत् सर्वमेतदमुं च लोकमिदमुं च सर्वम्। तन्नो नक्षत्रमभिजिद्विजित्यश्रियं दधात्वाहरणीयमानम्। अहे बुध्निय मन्त्रं मे गोपाय यमृषस्त्रयीविदा विदुः। ऋचः सामानि यजूँपि। सा हि श्रीरमृता सताम्। श्रीरस्त्विति भवन्तो ब्रुवन्तु। अस्तु श्रीः। पुण्याहवाचनसमृद्धिरस्तु। भगवान् प्रजापतिः प्रीयताम्॥ इति पुण्याहवाचनम्॥

ततो नीराजनमभिषेकं च यथाशाखं कारयेदिति। पुण्याहवाचनं चादिमध्यान्तेषु कार्यम्। आदावन्ते च मध्ये च कुर्याद् ब्राह्मणवाचनमिति वचनात्। ततोऽस्मिन् कर्मण्यमुकगोत्रममुकप्रवरममुकशर्माणं गुरुं त्वां वृण इत्याचार्यं कृत्वा ऋग्वेदिनौ द्वौ पूर्वौकुण्डे होमं कर्तुम् ऋत्विक्त्वेन त्वामहं वृणे। ऋग्वेदः पद्मपत्राक्षो

गायत्रः सोमदैवतः। अत्रिगोत्रस्तु विप्रेन्द्र ऋत्विक् त्वं मे मखे भवेति प्रत्येकं वृणुयात्। सर्वत्र प्रथमं ब्रह्मणस्ततो होतुरिति क्रमः। वृतोऽस्मीत्येवप्रतिवचनम्। यजुर्वेदिनौ दक्षिणे। कातराक्षो यजुर्वेदस्त्रैष्टुभो विष्णुदैवतः। काश्यपेयस्तु विप्रेन्द्र ऋत्विक् त्वं मे मखे भवेति॥ सामगौ पश्चिमे। सामवेदस्तु पिङ्गाक्षो जागतः शक्रदैवतः। भारद्वाजस्तु विप्रेन्द्र ऋत्विक् त्वं मे मखे भवेति॥

अथर्वणावुत्तरे। बृहन्नेत्रोऽथर्ववेदोऽनुष्टुभो रुद्रदैवतः। विशम्पायनगोत्रस्तु ऋत्विक् त्वं मे मखे भवेति॥ ततो जापकानाम्। ते च अष्टाविति कल्पतरौ। चत्वार इति रूपनारायणादयः। एतन्मतेऽष्टौ ऋत्विजः। चत्वारो जापकाः। गुरुश्च इति त्रयोदश। अष्टौ ऋत्विजोऽष्टौ जापकाः। गुरुश्चेति सप्तदश वा। अष्टौ ऋत्विजश्चत्वारो जापकाश्चत्वारो द्वारपालकाः, गुरुश्चेति वा सप्तदश। एवं वरणानन्तरं, तत्क्रमेणैवाचार्यादीनां तच्छाखया मधुषर्क इति हेमाद्रौ॥ संपूज्य मधुपर्केण ऋत्विजः कर्म कारयेत्। अपूज्य कारयेत् कर्म किल्विषैरेव युज्यते इति वचनात्। ततो, यदावघ्नन्निति मन्त्रेण, येन बद्धो बली राजा दानवेन्द्रो महावलः। तेन त्वामभिवध्नामि रक्षे मा चल मा चलेति॥ अनेन च पीतसूत्रं यजमानतत्पत्नीगुर्वृत्विग्द्वारपालानां हस्ते रक्षार्थं वध्नन्ति मध्येदेशे।ततो गौर्यादिषोडश ब्राह्म्यादिसप्त च मातृृःश्रीश्च लक्ष्मीधृतिर्मेधा स्वाहा प्रज्ञा सरस्वतीति वसोर्द्धारा देवताश्च संपूज्य सपिण्डमपिण्डं वा वृद्धिश्राद्धं कुर्यात्। तत्र रूपनारायणीये विशेषः। अग्नौकरणमर्ध्यंचाऽऽवाहनं चावनेजनम्। पिण्डश्राद्धे प्रकुर्वीत पिण्डहीने निवर्त्तते॥ तथा, पिण्डनिर्वापरहितं यत्र श्राद्धं विधीयते। स्वधावाचनलोपोऽस्ति विकिरस्तु न लिप्यते॥ अक्षय्यं दक्षिणा स्वस्ति सौमनस्यं यथास्थितीति॥ तत्र संक्षिप्य प्रयोगः–

सत्यवसुसंज्ञकाविश्वेदेवाः, ॐ भूर्भुवःस्वः इदं वः पाद्यम्। एवं सर्वत्र पाद्यम्। मातृपितामहीमपितामह्यःनान्दीमुख्यः, ॐभूर्भुवःस्वः इदं वः पाद्यम्। पितृपितामहमपितामहाः नान्दीमुखाः भूर्भुवः स्वः इदं वः पाद्यम्। मातामहप्रमातामहवृद्धप्रमातामहाः नान्दीमुखाः सपत्नीकाः भूर्भुवः स्वः इदं वः पाद्यम्। आचमनम्। सत्यवसुसंज्ञकानां विश्वेषां देवानां भूर्भुवः स्वः इदमासनम्। सुखासनम्। नान्दीश्राद्धे क्षणौ क्रीयेताम्। ॐ तथा, प्राप्नुतां भवन्तौ। प्राप्नवावः। मातृपितामहीप्रपितामहीनां भूर्भुवः स्वः इदमासनं सुखासनम्। नान्दीश्राद्धे क्षणौ क्रियेताम्। ॐ तथा प्राप्नुतां भवन्तौ प्राप्नवावः। मातामहप्रमातामहवृद्धप्रमातामहानां सपत्नीकानामिदमासनम्। नान्दीश्राद्धे क्षणौ क्रियेताम्। ॐ तथा, प्राप्नुतां भवन्तौ प्राप्नवावः। ततो गन्धादिदानम्। सत्यवसुसंज्ञकेभ्यो विश्वेभ्यो देवेभ्य इदं गन्धाद्यर्चनं स्वाहा संपाद्यतां वृद्धिः। मातृपितामहीप्रपितामहीभ्यो नान्दीमुखीभ्य इदं गन्धाद्यर्चनं स्वाहा संपद्यतां वृद्धिः। पितृपितामहप्रतिपितामहेभ्यो नान्दीमुखेभ्य इदं गन्धाद्यर्चनं स्वाहा। संपद्यतां वृद्धि। मातामहप्रमातामहवृद्धप्रमातामहेभ्यो नान्दीमुखेभ्यः सपत्नीसहितेभ्य इदं गन्धाद्यर्चनं स्वाहा। संपाद्यतां वृद्धिः। ततः परिवेषणं कृत्वा गायत्र्या प्रोक्ष्य, पृथिवी ते पात्रमिति पात्रमालभ्य, सत्यवसुसंज्ञकेभ्यो विश्वेभ्यो देवेभ्यो युग्मब्राह्मणभोजनपर्याप्तम् अन्नम् अमृतरूपेण स्वाहा संपद्यतां वृद्धिः। मातृपितामहीप्रपितामहीभ्यो नान्दीमुखीभ्यो युग्मब्राह्मणभोजन पर्याप्तमन्नममृतरूपेण स्वाहा संपाद्यतां वृद्धिः। पितृपितामहप्रमितामहेभ्यो नान्दी मुखेभ्यो युग्मब्राह्मणभोजनपर्याप्त यन्त्रम् अमृतरूपेण स्वाहा संपाद्यतां वृद्धिः। मातामहप्रमातामहबृद्धप्रमातामहेभ्यो नान्दीमुखेभ्यः सपत्नीकेभ्यो युग्मब्राह्मणभोजन-

पर्याप्तमन्नममृतरूपेण स्वाहा संपाद्यतां वृद्धि। स्वस्ति न इन्द्रो वृद्धश्रवा इति पाठः। अनेन नान्दीश्राद्धेन कर्माङ्गदेवताः प्रीयन्तां वृद्धिः। पुरुषसूक्तादिजपः। नान्दीश्राद्धं सुसंपन्नं सुप्रोक्षितमस्तु। शिवा आपः सन्तु। सौमनस्यमस्तु। अक्षतं चारिष्टं चास्तु। नान्दीमुख्यो मातरः प्रीयन्ताम्। नान्दीमुखाः पितरः पितामहाः प्रीयन्ताम्। नान्दीमुखा मातामहाः प्रमातामहा वृद्धप्रमातामहाः प्रीयन्ताम्। ततो गोत्रं नो वर्द्धताम्। वर्द्धतामित्युक्ते। दातारो नोऽभिवर्द्धन्तां वेदाः सन्ततिरेव च * श्रद्धा च नो मा व्यगमद् बहुदेयं च नोऽस्त्विति॥ अन्नं च नो बहु भवेदतिथींश्च लभेमहि। याचितारश्च नः सन्तु मा च याचिष्म कञ्चनेति सम्प्रार्थ्य, विप्रैः, दातारो वोऽभिवर्द्धन्तां वेदाः सन्ततिरेव च। श्रद्धा च वो मा व्यगमद् बहुदेयं च वोऽस्तु॥ अन्नं च वो बहु भवेदतिथींश्च लभध्वम्। याचितारश्च वः सन्तु मा च याचिष्व कञ्चनेति प्रत्युक्ते, द्राक्षामलकाँस्तन्निष्क्रयं वा दक्षिणां दत्वा विश्वेदेवाः प्रीयन्तामिति दैवेवाचयित्वा, वाजे वाजे इति पूर्वं विसृज्यामा वाजस्येत्यनुव्रजेदिति नान्दीश्राद्धम्॥

अथ वास्तुपूजा। मात्स्ये, यज्ञोत्सवादौ च बलिस्तवाहारो भविष्यति। वास्तुपूजामकुर्वाणस्तवाहारो भविष्यतीति। तथा, वास्तुयज्ञः समुद्दिष्टस्तदाप्रभृति शान्तय इति ज्ञानरत्नावल्याम्॥ चतुःषष्टिपदं वास्तु देवानां परमं हितम्। एकाशीति पदं वास्तु ग्रहाणान्तु प्रकीर्त्यते॥ प्रपञ्चसारे, कृत्वाऽवनिं समतलां चतुरस्रसंख्यामष्टादिकोष्ठकपदां च हि कोणसूत्राम् तस्यां चतुष्पदसमन्वितमध्यकोष्ठे ब्रह्मा तु साधकवरेण समर्चनीय इत्यादि। अत्र प्रयोगः। मण्डपनिर्ऋतिभागे हस्तमात्रां वेदिं कृत्वा तस्यां तत्स्थापिते वस्त्रे वा सुवर्णादिशलाकया नव रेखाः प्राक्पश्चिमाय-

ता, नव च दक्षिणोदगायताः कृत्वा मध्यकोष्ठचतुष्टयमेकीकृत्यप्रतिकोणं त्रिषु त्रिषु पदेषु सूत्रं दद्यात्। तथाच चतुर्विंशतिरर्द्धपदानि संपद्यन्ते। अथ कालादि सङ्कीर्त्यप्रारीप्सितस्यामुककर्मणः साङ्गतासिद्ध्यर्थं वास्तुपूजां करिष्य इति सङ्कल्प्य वास्तुमण्डलस्याग्नेयादिकोणेषु शङ्कुचतुष्टयम्। विशन्तु भुतले नागा लोकपालाश्च सर्वतः। मण्डपेऽत्रावतिष्ठन्तु आयुर्बलकराःसदेति मन्त्रेण निधाय। अग्निभ्योऽप्यथ सर्पेभ्यो ये चान्ये तान् समाश्रिताः। तेभ्यो बलिं प्रयच्छामि पुण्यमोदनसंयुतम्॥ नैर्ऋत्याधिपतिश्चैवनैर्ऋत्यांये च राक्षसाः। बलिं तेभ्यः प्रयच्छामि सर्वे गृह्णन्तु मन्त्रितम्। ॐ नमो वायुरक्षेभ्यो ये चान्ये तान् समाश्रिताः। बलिं तेभ्यः प्रयच्छामि पुण्यमोदनमुत्तमम्॥ रुद्रेभ्यश्चैव सर्पेभ्यो ये चाऽन्ये तान् समाश्रिताः। बलिं तेभ्यः प्रयच्छामि गृह्णन्तु सततोत्सुका इति मन्त्रैः शङ्कुपार्श्वे यथाक्रमं माषभक्तवलीन् दत्वा। शान्तिर्यशोवती कान्तिर्विशाला प्राणवाहिनी सती सुमना नन्दा सुभद्रा इति नव प्रागायतरेखादेवताः पूजयित्वा, हिरण्या सुप्रभा लक्ष्मीविभूतिर्विमला प्रिया जया काला विशोका इति नवदक्षिणोत्तरायतरेखादेवताश्चसंपूज्य मध्ये समस्तव्याहृतिभिर्वास्तुपुरुषम् आवाह्य, वास्तोष्पते इति मन्त्रेण संपूज्य बाले च दत्वा मध्यपदचतुष्टये वास्तोर्हृदये ब्रह्माणमावाह्य पूजयित्वा, ॐ ब्रह्मणे नमो बलिं समर्पयामीति पायसादिबलिं दद्यात्॥

ततः पूर्वपदद्वये दक्षिणस्तने अर्यम्णे नमः। दक्षिणपदद्वये जठरदक्षिणभागे विवस्वते, पश्चिमपदद्वये जठरवामभागे मित्राय, उदक्पदद्वये वामस्तने पृथ्वीधराय नम इत्युदकूपदद्वये आग्नेयकोणसूत्रद्विधाकृतपदोत्तरार्द्धेदक्षिणहस्ते सावित्राय, दक्षिणार्द्धे सवित्रे च॥ एवं नैर्ऋत्यपदपूर्वार्द्धेवृषणयोर्विबुधाधिपाय, तत्पश्चिमा-

ऽर्द्धेमेढ्रेजयन्ताय, वायव्यपदद्वयदक्षिणार्द्धे वामहस्ते राजयक्ष्मणे। उत्तरार्द्धे रुद्राय च। ईशानपदार्द्धे उरसि अद्भ्यः, दक्षिणार्द्धे मुखे आपवत्साय। ततोऽन्त्यपङ्क्तिगते ईशानपददक्षिणा शिरसि शिखिने। तदक्षिणसार्द्धपदे दक्षिणनेत्रे पर्जन्याय। तद्दक्षिणपदयोर्दक्षिणश्रोत्रे जयन्ताय। दक्षिणपदयोर्दक्षिणांसे कुलिशायुधाय। तद्दक्षिणयोर्दक्षिणवाहौ सूर्यायातद्दक्षिणयोर्दक्षिणबाहावेव सत्याय। तद्दक्षिणे सार्द्धे दक्षिणकुःकूर्पणे भृशाय। तद्दक्षिणपदार्द्धे दक्षिणप्रवाहौ आकाशाय। तत्पश्चिमार्द्धेदक्षिणप्रवाहावेव वायवे। तत्पश्चिमे सार्द्धे दक्षिणमणिबन्धे पूष्णे। तत्पश्चिमयोर्दक्षिणपार्श्वेवितथाय। पश्चिमयोर्दक्षिणपार्श्वेएव गृहक्षताय।तत्पश्चिमयोर्दक्षिणोरौ यमाय। तत्पश्चिमयोर्दक्षिणजानौ गन्धर्वाय। तत्पश्चिमे सार्द्धे पदे दक्षिणजङ्घायां भृङ्गराजाय। तत्पश्चिमे नैर्ऋत्यपदार्द्धे दक्षिणस्फिजि मृगाय। तदुत्तरार्द्धे पादयोः पितृभ्यः। तदुत्तरे सार्द्धपदे वामस्फिजि दौवारिकाय। तदुत्तरयोर्वामजङ्घायां सुग्रीवाय। तदुत्तरयोर्वामजानौ पुष्पदन्ताय। तदुत्तरयोर्वामोरौ वरुणाय। तदुत्तरयोर्वामपार्श्वे सुराय। तदुत्तरे सार्द्धपदे वामपार्श्व एवशोपाय। तदुत्तरे वायव्यार्द्धे वाममणिबन्धे पापाय। तत्प्रागर्द्धेवामप्रवाहौरोगाय। तत्प्राक्सार्द्धेवामप्रवाहावेवाहये। तत्प्रारग्द्वयेवामवाहौ भल्लाटाय। तत्प्राग्द्वये वामबाहावेव सोमाय। तत्प्राग्द्वये वामांसे सर्पाय। तत्प्राक्सार्द्धे वामश्रोत्रे अदित्यै। तत्प्रागर्द्धे वामनेत्रेदित्यै। तदुत्तरे, वास्तोष्पत इति वास्तोष्पतिम्॥ ततो मण्डलाद बाहरीशानादिषु चरक्यै, विदार्यै, पूतनायै, पापराक्षस्यै। ततः पूर्वादिषु स्कन्दाय, अर्यम्णे, जम्भकाय, पिलिपिच्छाय। पुनः पूर्वादिषु इन्द्रादीन्। ततोमण्डलादीशाने कलशं संस्थाप्य, तत्र वरुणं, तत्त्वा यामीत्यावाह्य

पूजयेत्। यथा मेरुगिरेः शृङ्गं देवानामालयः सदा * तथा ब्रह्मादिदेवानां मम यज्ञे स्थिरो भवेदिति प्रार्थयेत्। तत उदुम्बरादिसमित्तिलाज्यैः स्वतन्त्रस्थण्डिलेऽष्टाविंशतिरष्टौ वा प्रत्येकं तत्तन्नाममन्त्रैर्हुत्वा वास्तोष्पत इति चतुर्भिश्च हुत्वा, ॐ वास्तोष्पते ध्रुवास्थूणामित्यनेन च पञ्च बिल्वफलानि हुत्वा स्विष्टकृदादिपूर्णाहुत्यन्तं कुर्यात्। ततो मण्डलदेवताभ्यः पायसबलिं दत्वा कृणुष्वपाज इति सूक्तादिना मण्डपं त्रिसूत्र्या वेष्टयित्वा वास्तुकलशोदकेन यजमानमभिषिच्य पुनः सम्पूज्य यथाशक्ति दक्षिणां दत्वा ब्राह्मणान् भोजयेदिति॥ शारदातिलके तु होमो नोक्तः। तिलाज्यादिद्रव्याणां विकल्प इति ग्रन्थान्तरे॥ इति वास्तुपूजा॥ .

मात्स्ये। उपोषितास्ततः सर्वे कृत्वैवमधिवासनमिति। पाद्मे, उपवासो भवेदेवमशक्तौ नक्तमिष्यते। सद्योऽधिवासने वाऽथ कुर्याद्योविकलो नर इति॥ तत्रैवोक्तम् अधिवासनं चैवम्। शुक्लवेषः सपत्नीकः सऋत्विक्को यजमानः पूर्णकलशं गृहीत्वा, भद्रं कर्णेभिरित्यादिमन्त्रघोषेण मण्डपं प्रदक्षिणीकृत्यपश्चिमद्वारेण प्रविश्य देशकालादि स्मृत्वा करिष्यमाणैतत्कर्माङ्गतया मण्डपदेवतास्थापनादि करिष्य इति सङ्कल्प्य गणपतिं सम्पूज्य मण्डपाऽन्तः सर्वतः सर्षपान् विकिरेत्। तत्र मन्त्राः। यदत्र संस्थितं भूतं स्थानमाश्रित्य सर्वदा। स्थानं त्यक्त्वा तु तत्सर्वं यत्रस्थं तत्र गच्छतु॥ अपक्रामन्तु भूतानि पिशाचाः सर्वत्रोदिशम्। सर्वेषामविरोधेन ब्रह्मकर्म समारभ इति॥ ततः कुशैः पञ्चगव्येन सर्वत्र आपोहिष्ठेति तृचेन प्रोक्षयेत्। ततः, स्वस्ति न इति मन्त्रं पठेत्॥

अथ द्वारपूजा। पूर्वद्वारे द्वारश्रियै नमः ऊर्ध्वं देहल्यै अधः। वामदक्षिणस्तम्भयोर्गणेशाय स्कन्दाय नमः। द्वारस्थितकलशद्वये गङ्गायै यमुनायै। दक्षिणद्वारे द्वारश्रियै ऊर्ध्वं देहल्यै अधः। स्तम्भयोः

पुष्पदन्ताय। कपर्द्दिने। कलशद्वये गोदायै कृष्णायै। पश्चिमे द्वारश्रियै इत्यूर्ध्वम्। देहल्यै अधः। स्तम्भयोः नन्दिने चण्डाय। कलशद्वये रेवायै ताप्यै। उत्तरे द्वारश्रियै ऊर्ध्वम्। देहल्यै अधः। स्तम्भयोर्महाकालाय भृङ्गिणे नमः। कलशद्वये वाण्यै वेण्यै॥ इति द्वारपूजा॥

ततो बहिर्हस्तमात्रे वटतोरणमाश्वत्थं वा सुदृढनामकं सुशोभननामकं वा शङ्खाङ्कितमग्रिमील इति मन्त्रेण न्यस्य सम्पूज्य राहुबृहस्पती तत्र न्यसेत् सम्पूजयेच्च। तत्रैकः कलशः स्थाप्यः। तत्र, मही द्यौरिति भूमिप्रार्थना। ओषधयः समिति यवप्रक्षेपः। आजिघ्र कलशेष्विति कलशनिधानम्। इमं मे गङ्ग इति जलपूरणम्। गन्धद्वारामिति गन्धं प्रक्षिपेत्। या ओषधीरिति सर्वौषधीः। काण्डात् काण्डादिति दूर्वाः। अश्वत्थे व इति पञ्चपल्लवान्। स्योना पृथिवीति सप्त मृदः। याः फलिनीरिति फलम्। स हि रत्नानिइति रत्नम्। हिरण्यरूप इति हिरण्यम्। युवा सुवासा इति वस्त्रादिना वेष्टयेत्। पूर्णा दर्वीति धान्यपूर्णपात्रमुपरि निदध्यात्। तत्र ध्रुवावाहनं पूजनम्। ततो दक्षिणे औदुम्बरं प्लाक्षं वा सुभद्रं विकटं वा चक्राङ्कितं तोरणम्, इषेत्वोर्ज्जेत्वेति निधाय चन्दनादिचर्चितं कृत्वा सूर्यम् अङ्गारकं च तत्र न्यसेत्। ततः पूर्ववत् कलशं स्थापयित्वा तत्र घरामावाह्यार्चयेत्। ततः पश्चिमे प्लाक्षमौदुम्बरं वा सुकर्मसु भीमं वा गदाङ्कितं तोरणम्, अग्न आयाहीति न्यस्य चन्दनादिना चर्चितं शुक्रं बुधं च तत्र न्यसेत्। ततः पूर्ववत् कलशं स्थापयित्वा तत्र वाक्पत्यावाहनपूजनादि। तत उत्तरे नैयग्रोधमाश्वत्थं पालाशं वा सुहोत्रं सुप्रभवपद्माङ्कितं तोरणं शन्नो देवीरिति निधाय पूजितं कृत्वा सोमं केतुं शनि च तत्र न्यसेत्। ततः कलशं स्थापयित्वा तत्र विघ्नेशावाहनपूजनादि। ततः पूर्व-

द्वारे द्वारशाखाद्वये कलशद्वयं दध्यक्षतादियुक्तं पूर्ववत् स्थापयेत्। ऐरावतं कलशद्वये न्यस्यार्चयेत्। तत्र पूर्वस्मिन् ऋग्वेदिनावृत्विजौ द्वावेकं वा शान्तिसूक्तजपार्थत्वेन त्वामहं वृण इति प्रत्येकम्। ऋग्वेदः पद्मपत्राक्षो गायत्रः सोमदैवतः। अत्रिगोत्रस्तु विप्रेन्द्र शान्तिपाठं मखे कुर्विति वृत्वाऽग्निमील इत्यादिनापूजयेच्च। ततः, एह्येहि सर्वाऽमरसिद्धसाध्यैरभिष्टुतो वज्रधराऽमरेश संवीज्यमानोऽप्सरसां गणेन रक्षाऽध्वरं नो भगवन् नमस्ते॥ भो इन्द्र, इहाऽऽगच्छेह तिष्ठेतीन्द्रं साङ्गं सपरिवारं सायुधं सशक्तिकं द्वारकलशे आवाह्य, त्रातारमिन्द्रमिति पूजयित्वा, आशुः शिशान इति मन्त्रेण तां पताकां ध्वजं च समुच्छ्रयेत्। तत ऐरावतस्थं पीतवर्णंसहस्राक्षं दक्षिणवामहस्तस्थवज्रोत्पलमिन्द्रं ध्यात्वा, इन्द्रः सुरपतिः श्रेष्ठो वज्रहस्तो महाबलः शतयज्ञाऽधिपो देवस्तस्मै नित्यं नमो नमः, इति नत्वा, इन्द्राय साङ्गाय सपरिवाराय सायुधाय सशक्तिकायैतं माषभक्तबलिं समर्पयामीति बलिं दद्यात्। तत आचम्याग्नेयकोणे गत्वा पूर्ववत कलशं स्थापयित्वा तत्र पुण्डरीकममृतं च संपूज्य, एह्येहि सर्वाऽमरहव्यवाह मुनिप्रवर्य्यैरभितोऽभिजुष्टतेजोवता लोकगणेन सार्द्धं ममाध्वरं पाहि कवे नमस्ते॥ भो अग्ने इहागच्छेह तिष्ठति साङ्गादिकमग्निं कलशे आवाह्य, त्वं नो अग्ने इत्यग्निं संपूज्य, अग्निं दूतमिति रक्तां पताकां रक्तं ध्वजं चोच्छ्रयेत्। ततः, छागस्थं रक्तं दक्षिणवामकरधृतशक्तिकमण्डलुं यज्ञोपवीतिनमग्निं ध्यात्वा। आग्नेयः पुरुषो रक्तः सर्वदेवमयोऽव्ययः। धूमकेतुरजोऽध्यक्षस्तस्मै नित्यं नमो नम इति नत्वा, अग्नये साङ्गायेत्यादि एवं माषभक्तबलिं समर्पयामीति बलिं दद्यात्। ततः कृताचमनो दक्षिणे गत्वा प्रतिद्वारशाखं पूर्ववत् कलशद्वयं स्थापयित्वा वामनं दिग्गजं तत्रार्चये-

त्। ततो यजुर्वेदिनौ द्वावेकं वा दक्षिणद्वारे शान्तिसूक्तजपत्वेन त्वां वृण इत्युक्त्वा कतराक्षो यजुर्वेदस्त्रैष्टुभो विष्णुदैवतः। काश्यपेयस्तु विप्रेन्द्रः ऋत्विक् त्वं मे मखे भवेति प्रत्येकं संप्रार्थ्य, इषे त्वोर्ज्जेत्वेति पूजयेत्। ततः, एह्येति वैवस्वत धर्मराज सर्वाऽमेरैरर्चित धर्ममूर्त्तेशुभाशुभानन्दशुचामधीश शिवाय नः पाहि मखं नमस्ते। भो यमेहागच्छेह तिष्ठेति साङ्गादिं यममाबाह्य, यमाय सोममिति संपूज्य कृष्णां पताकां कृष्णं ध्वजं चायं गौरित्युच्छ्रयेत्। ततो महिषारूढं धृतदण्डपाशदक्षिणवामकरमञ्जनपर्वततुल्यरूपमग्निसमलोचनं यमं ध्यात्वा, महामहिषमारूढं दण्डहस्तं महाबलम्। आवाहयामि यज्ञेऽस्मिन् पूजेयं प्रतिगृह्यतामिति नत्वा, साङ्गाय यमायैतं मापभक्तबलिं समर्पयामीति बलिं दद्यात्। तत आचम्य नैर्ऋत्यां पूर्ववत् कलशं स्थापयित्वा कुमुदगजं दुर्जयं च सम्पूज्य, एह्येहि रक्षोगणनायकस्त्वं विशालवेतालपिशाचसङ्घैः ममाध्वरं पाहि पिशाचनाथ लोकेश्वरस्त्वं भगवन्नमस्ते॥ भो निर्ऋते इहागच्छेह तिष्ठेति साङ्गमावाह्य, असुन्वन्तमिति सम्पूज्य नीलां पताकां ध्वजं च, मोषुण इत्युच्छ्रित्य, नरारूढं खड्गहस्तं नीलवर्णं महाबलम् महाकायं बहुराक्षसयुतं निर्ऋतिं ध्यात्वा निर्ऋतिं खड्गहस्तं च सर्वलोकैकपावनम्। आवाहयामि यज्ञेऽस्मिन् पूजेयं प्रतिगृह्यतामिति नत्वा, साङ्गाय निर्ऋतये एवं माषभक्तबलिं समर्पयामीति बलिं दद्यात्। तत आचम्य पश्चिमे प्रतिद्वारशाखं कलशद्वयं निघायाञ्जनदिग्गजं न्यस्यार्चयेत्। ततः सामगावृत्विजौ ऋत्विजं वा वृत्वा, सामवेदस्तु पिङ्गाक्षो जागतः शक्रदैवतः। भारद्वाजस्तुविप्रेन्द्र शान्तिपाठं मखे कुर्विति प्रार्थयित्वा, आयाहीति प्रार्थ्य। ततः, एह्योहे यादोगणवारिधीनां गणेन पर्जन्यसहाप्सरोभिः विद्याधरेन्द्राऽमरगीयमान पाहि वमस्मान्

भगवन्नमस्ते॥ इत्युक्त्वा भो वरुण इहागच्छेह तिष्ठेति साङ्गं वरुणमावाह्य, त त्वा यामीति सम्पूज्य श्वेतां पताकां ध्वजं च, इमं मे वरुणेत्युच्छ्रित्य, मकरस्थं पाशहस्तं किरीटिनं श्वेतवर्णं वरुणं ध्यात्वा। पाशहस्तं च वरुणं यादसां पतिमीश्वरम्। आवाहयामि यज्ञेऽस्मिन् वरुणाय नमो नम इति नत्वा, साङ्गाय वरुणायैतं माषभक्तबलिं समर्पयामीति बलिं दद्यात्। तत उपस्पृश्य वायव्यां पूर्ववत् कलशं स्थापयित्वा पुष्पदन्तं सिद्धार्थं च तत्र पूजयित्वा, एह्येहि यज्ञे मम रक्षणाय मृगाधिरूढः सह सिद्धसंघैः प्राणाधिपः कालकवेः सहाय गृहाण पूजां भगवन्नमस्ते॥ भो वायो इहाऽऽगच्छेह तिष्ठेति साङ्गादिं वायुमावाह्य, तववायवृतस्य त इति सम्पूज्य, वायोः शतमिति धूम्रां पताकां ध्वजं चोच्छ्रित्य, मृगारूढं चित्राम्बरधरं युवानं वरध्वजधरवामहस्तं वायुं ध्यात्वा, वायुमाप जगतो वायवहं नमामि त इति नत्वा सङ्गाय वायवे एवं माषभक्तबलिं समर्पयामीति बलिं दद्यात्। तत आचम्योत्तरे प्रतिशाखं कलशद्वयं स्थापयित्वा सार्वभौमं दिग्गजं न्यस्य पूजयित्वा अथर्वविदौ ऋत्विजौ ऋत्विजं वा उत्तरद्वारे शान्तिसूक्तजपाऽर्थत्वेनार्हत्वेनाऽर्ह त्वां वृण इति उक्त्वा, बृहन्नेत्रोऽथर्ववेदोऽनुष्टुभो रुद्रदैवतः। वैशम्पायन विप्रेन्द्र शान्तिपाठं मखे कुर्वित्युक्त्वा प्रार्थ्य, शन्नो देवीरिति पूजयेत्। एह्येहि यज्ञेश्वर यज्ञरक्षां विधत्स्व नक्षत्रगणेन सार्द्धम् सर्वोषधीभिः पितृभिः सहैव गृहाण पूजां भगवन्नमस्ते॥ भोः सोम इहागच्छेह तिष्ठति साङ्गादिं सोममावाह्य, वयं सोमेति सम्पूज्य हरितां पताकां ध्वजं चाप्यायस्वेति न्यस्य, नरयुतपुष्पक विमानस्थं कुण्डलकेयूरहारसंशोभितं वरदगदाधरदक्षिणवामहस्तं मुकुटिनं महोदरं स्थूलकायं ह्रस्वं पिङ्गलनेत्रं पीतविग्रहं शिवसखं विमानस्थं कुबेरं ध्यात्वा, सर्वनक्षत्रमध्ये तु

सोमो राजा व्यवस्थितः। तस्मै सोमाय देवाय नक्षत्रपतये नम इति नत्वा, साङ्गाय सोमायैतं माषभक्तबलिं समर्पयामीति बलिं दद्यात्। तत ईशान्यां गत्वाऽऽचम्य पूर्ववत् कलशं संस्थाप्य सुप्रतीकनामानं दिग्गजं मङ्गलं च तत्र पूजयित्वा, एह्येहि विश्वेश्वर नस्त्रिशूलकपालखट्वाऽङ्गधरेण सार्द्धम् लोकेन यज्ञेश्वर यज्ञसिद्ध्यै गृहाण पूजां भगवन् नमस्ते॥ ईशानेहागच्छेह तिष्ठेति तमावाह्य, तमीशानमिति सम्पूज्य, श्वेतां सर्ववर्णांवा पताकां ध्वजं च, अभि त्वा देव सवितरित्युच्छ्रित्य, वृषारूढं वरदत्रिशूलयुतदक्षिणवामहस्तद्वयं त्रिनेत्रं शुद्धस्फटिकवर्णमीशानं ध्यात्वा, वृषस्कन्धसमारूढं शुलहस्तं त्रिलोचनम्। आवाहयामि यज्ञेऽस्मिन् पूजेयं प्रतिगृह्यताम्। सर्वाधिपो महादेव ईशानः शुक्ल ईश्वरः। शूलपाणिर्विरूपाक्षस्तस्मै नित्यं नमो नमो इति नत्वा साङ्गायैतं माषभक्तबलिं समर्पयामीति बलिं दद्यात्। तत आचम्येशानपूर्वयोर्मध्ये गत्वा, एह्येहि पातालघराऽमरेन्द्र नागाङ्गनाकिन्नरगीयमान यक्षोरगेन्द्रामरलोकसंघैरनन्त रक्षाध्वरमस्मदीयम्॥ भो अनन्त इहाऽऽगच्छेह तिष्ठेति साङ्गमनन्तमाबाह्य, गौरिति सम्पूज्य, मेघवर्णांश्वेतां पताकां ध्वजं चाऽयं गौरित्युच्छ्रित्य, अनन्तं शमनासीनं फणसप्तकमण्डितम् पद्मशङ्खधरोर्ध्वाधोदक्षिणकरद्वयं चक्रगदाधरोर्ध्वाधोवामकरद्वयं नीलवर्णमनन्तं ध्यात्वा योऽसावनन्तरूपेण ब्रह्माण्डं सचराचरम्। पुष्पवद्धारयेन्मूर्ध्नि तस्मै नित्यंनमो नम इति नत्वा, साङ्गायाऽनन्तायैतं माषभक्तबलिं समर्पयामीति बलिं दद्यात्॥ तत आचम्य नैर्ऋतपश्चिमयोर्मध्ये गत्वा, एह्येहि सर्वाऽधिपते सुरेन्द्रलोकेन सार्द्धं पितृदेवताभिः। सर्वस्य धातास्यऽमितप्रभावो विशाध्वरं नः सततं शिवाय॥ भो ब्रह्मन्निहागच्छेह तिष्ठेति ब्रह्माणमावाह्य, ब्रह्मजज्ञानमिति सम्पूज्य, रक्तां पताकां ध्वजं

च, ब्रह्मजज्ञानमित्युच्छ्रित्यचतुर्मुखं हंसारूढम् अक्षमालाकुशमुष्टिधरोर्ध्वाधोदक्षिणकरद्वयम् स्रुवकमण्डलुधरोर्ध्वाधोवामकरद्वयं श्मश्रुलं जटिलं लम्बोदरं रक्तवर्णं ब्रह्माणं ध्यात्वा, पद्मयोनिश्चतुर्मुर्त्तिर्वेदावासः पितामहः। यज्ञाध्यक्षश्चतुर्वक्त्रस्तस्मै नित्यं नमो नम इति नत्वा, साङ्गाय ब्रह्मणे एवं माषभक्तबलिं समर्पयामीति बलिं दद्यात्। नैर्ऋत्यपश्चिमान्तराले अनन्तबलिदानम्, ईशानपूर्वान्तराले ब्रह्मबलिदानं वेति रूपनारायणः। तत आचम्य मण्डपमध्येऽत्युच्चदण्डो दशहस्तदीर्घस्त्रिहस्तविस्तृतः पञ्चहस्तदीर्घो हस्तविस्तारो वा महाध्वजः किङ्किण्यादियुक्त, इन्द्रस्य वृष्ण इति स्थाप्यः। तत्रैव ब्रह्मपूजनं च। ततो मण्डपषोडशस्तम्भेषु सर्वेभ्यो देवेभ्यो नमः, वंशेषु किन्नरेभ्यो नमः, पृष्ठे पन्नगेभ्यो नम इत्यऽर्चयेत्। ततः पूर्वभागे उपलिप्तभूमावुपविश्य, त्रैलोक्ये यानि भूतानि स्थावराणि चराणि च * ब्रह्मविष्णुशिवैः सार्द्धं रक्षां कुर्वन्तु तानि मे॥ देवदानवगन्धर्वायक्षराक्षसपन्नगाः। ऋषयो मनवो गावो देवमातर एव च। सर्वे ममाऽध्वरं रक्षां प्रकुर्वन्तु मुदान्विताः॥ ब्रह्मा विष्णुश्च रुद्रश्च क्षेत्रपालो गणैः सह। रक्षन्तु मण्डपं सर्वे नन्तु रक्षांसि सर्वत इति पठित्वा, त्रैलोक्यस्थेभ्यः स्थावरेभ्यो भूतेभ्यो नमस्त्रैलोक्यस्थेभ्यश्चरेभ्यो भूतेभ्यो नमः। ब्रह्मणे विष्णवे शिवाय देवेभ्यो दानवेभ्यो गन्धर्वेभ्यो राक्षसेभ्यः पन्नगेभ्य ऋषिभ्यो मनुष्येभ्यो गोभ्यो देवमातृभ्यो नम इति प्रत्येकंसम्पूज्य भूमौ माषभक्तबलिं दद्यात्। ततो यजमानः सर्वैऋत्विग्भिः सह प्राग्द्वारेण मण्डपं प्रविश्य दक्षिणद्वारपश्चिमभागे उपविश्य गुर्वादयो यथाविहितं कर्म कुरुध्वमिति वदेत्। प्रतिकुण्डं एकैकःकलशः स्थाप्यो ऋत्विग्भिरिति केचित्। गुरुणा स्थाप्य इत्यन्ये॥

ततो गुरुर्यजमानान्वितो ग्रहवेद्यां सर्वतोभद्रमण्डलदेवताः स्थापयेदिति पितामहचरणाः॥ यथा, अद्येहेत्यादि, मण्डलदेवतास्थापनं करिष्य इति सङ्कल्प्य स्थापयेत्। तत्र मध्ये ब्रह्माणं, ब्रह्मजज्ञानं गौतमो वामदेवो ब्रह्मा त्रिष्टुप्। ब्रह्मस्थापने पूजने विनियोगः। एवमुत्तरत्र। ब्रह्मजज्ञानम्। तत उदीचीमारभ्य वायवीपर्य्यन्तं कुबेरादीन्वाय्वन्तान् अष्टौ लोकपालान्। तत्र, आप्यायस्व गौतमः सोमो गायत्री। ॐम् आप्यायस्व। अभि त्वाऽजीगर्त्तःशुनःशेपईशानो जगती। अभि त्वा देव सवितः। इन्द्रं वो मधुछन्दा इन्द्रो गायत्री। ॐम् इन्द्रं वो विश्वतः। अग्निं काण्वो मेधातिथिरग्निर्गायत्री। ॐम् अग्निं दूतं वृणीमहे। यमाय सोमं यमोऽनुष्टुप्। यमाय सोमम्। मोषुणो घोरः काण्वो निर्ऋर्गायत्री। ॐ मोषुणः। त त्वा यामि शुनःशेपो वरुणस्त्रिष्टुप्। त त्वा यामि। वायोः शतं गौतमो वामदेवो वायुरनुष्टुप्। वायो शतम्। वायुसोममध्येऽष्टौ वसून्। ज्मयाअत्र मैत्रावरुणो वसिष्ठो वसवस्त्रिष्टुप्। ज्मया अत्र। सोमेशानमध्ये एकादश रुद्रान्। आ रुद्रासः श्वावाश्व एकादश रुद्रा जगती। ॐम् आरुद्रासः। ईशानेन्द्रमध्ये द्वादशादित्यान्। त्यान्नु सामदो मत्स्यो द्वादशादित्या गायत्री। ॐत्यान्नु क्षत्रियान्। इन्द्राग्निमध्ये. अश्विनौ, आश्विना राहुगणो गौतमोऽश्विनावुष्णिक्। ॐम् अश्विनावर्त्तिः। अग्नियममध्ये विश्वेदेवान् सपैतृकान। ॐमासो मधुच्छन्दा विश्वेदेवा गायत्री। ॐमासः॥ यमनिर्ऋतिमध्ये सप्त यक्षान्। अभित्यंवामदेवः सप्तयक्षाः प्रकृतिः। अभित्यंदेवं सवितारमोण्योःकविक्रतुमर्चामि सत्यसवरत्नधामभिप्रियं मतिं कविम्। ऊर्ध्वा यस्यामतिर्भा आदिद्युतत् सवीमनि हिरण्यपाणिरमिमीत सुक्रतुः कृपाश्वः। निर्ऋतिवरुणमध्ये भूतनागान्। आयं गौः सार्पराज्ञी

सर्पा गायत्री। आयं गौः। वरुणवायुमध्ये गन्धर्वाप्सरसः। अप्सरसामैतश ऋष्यशृङ्गो गन्धर्वाप्सरसोऽनुष्टुप्। अप्सरसां गन्धर्वाणाम्। ब्रह्मसोममध्ये स्कन्दनन्दीश्वरशूलमहाकालान्। कुमारं कुमारः स्कन्दस्त्रिष्टुप्। अदितिर्ह्यजनिष्ट। ब्रह्मेन्द्रमध्ये दुर्गां विष्णुं च। तामग्निवर्णांसौभरिर्दुर्गा त्रिष्टुप्। उदीरताम्। सूनृताः। ब्रह्मयममध्ये मृत्युरोगान्। परं मृत्योः सङ्कुसुको मृत्युरोगास्त्रिष्टुप्। ॐ परं मृत्यो अनुपरेहि। ब्रह्मनिर्ऋतिमध्ये गणपतिम्। गणानां त्वा गृत्समदो गणपतिर्जगती। ॐ गणानां त्वा। ब्रह्मवरुणमध्ये अपः। शन्नोऽम्बरीषसिन्धुद्वीप आपो गायत्री। ॐ शन्नो देवीः। ब्रह्मवायुमध्ये मरुतः। मरुतो यस्य राहूगणो गौतमो मरुतो गायत्री। ॐ मरुतो यस्य। ब्रह्मणः पादमूले कर्णिकाधः पृथ्वीम्। स्योना मेधातिथिर्भूमिर्गायत्री। ॐ स्योना पृथिवि। तत्रैव गङ्गादिनद्यः। इमं मे सिन्धुक्षित् प्रैयमेधो गङ्गायमुनासरस्वत्यो जगती। इमं मे गङ्गे यमुने। तत्रैव सप्त सागरान्। धाम्नो धाम्नो राजन्नितो वरुण नो मुञ्च। यदापो अघ्न्या इति वरुणेति शपामहे ततो वरुण नो मुञ्च। मयि वायो मोषधीर्हिंसीरतो विश्वधा भूस्त्वेतो वरुण नो मुञ्च। तदुपरि मेरुं नाम्ना। बाह्ये सोमादिसमीपे क्रमेणायुधानि। गदां त्रिशूलं वज्रं शक्तिं दण्डं खड्गं पाशम्। अङ्कुशम्। तद्वाह्ये उत्तरादितः। गौतमं भरद्वाजं विश्वामित्रं कश्यपं जमदग्निं वसिष्ठम्। अत्रिम्। अरुन्धतीम्। तद्वाह्ये पूर्वादि ऐन्द्रीं कौमारीं ब्राह्मीं वाराहीं चामुण्डां वैष्णवीं माहेश्वरीं विनायकीम्। इत्यष्टौ शक्तयः। एताः प्रतिष्ठाप्य प्रत्येकं सह वा पूजयेत्। ततस्तस्यामेव वेद्यां वस्त्रलिखितवक्ष्यमाणमण्डलेषु आदित्यादिदेवताः स्थापयेत् पूजयेच्च। अस्मिन् कर्मणि ग्रहादिस्थापनं पूजनं च करिष्ये इति सङ्कल्प्य प्रणवस्य ब्रह्मा ऋषिः।

परमात्माऽग्निर्देवता। देवी गायत्री छन्दः। व्याहृतीनां क्रमेण जमदग्निभरद्वाजभृगव ऋषयः। अग्निवायुसूर्या देवताः। दैवी गायत्री दैवी उष्णिक दैवीवृहत्यश्छन्दांसि सूर्याद्यावाहने विनियोगः। केचित्तत्तन्मन्त्रानण्यावाहने आहुः। तत्र ग्रहपीठमध्ये वर्त्तुले प्राङ्मुखं सूर्यं रक्तपुष्पाक्षतैः आकृष्णेनहिरण्यस्तूपः सविता त्रिष्टुप्। सूर्यावाहने विनियोगः। ॐम् अकृष्णेन रजसा। ॐ भूर्भुवः स्वः कलिङ्गदेशोद्भव काश्यपगोत्र सूर्य इहागच्छेह तिष्ठेत्यावाह्य, इह तिष्ठेति स्थापयेत्। एवं सर्वत्र मन्त्रान्ते व्याहृतीरुक्त्वा, इहागच्छेह तिष्ठति स्थापयेत्। तत आग्नेये चतुरस्त्रे प्रत्यङ्मुखं सोमं श्वेतपुष्पाक्षतैः। आप्यायस्व गौतमः सोमो गायत्री। यमुनातीरोद्भव आत्रेयगोत्रसोम। ततो दक्षिणे त्रिकोणे दक्षिणामुखं भौमं रक्तपुष्पाक्षतैः। अग्निर्मूर्द्धाविरूपोऽङ्गारको गायत्री।अग्नि। अवन्तीसमुद्भवं भारद्वाजगोत्र भौम। तत ईशाने बाणाकारे बुधमुदङ्मुखं पीतपुष्पाक्षतैः, उदबुद्ध्यध्वं बुधः सौम्यो बुधस्त्रिष्टुप्। मगधदेशोद्भव आत्रेयसगोत्र बुध। तत उत्तरतोदीर्घचतुरस्रेउदङ्मुखं बृहस्पतिं पीतपुष्पाक्षतैः बृहस्पते गृत्समदो बृहस्पतिस्त्रिष्टुप्। सिन्धुदेशोद्भवं आङ्गिरसगोत्र बृहस्पते। ततः पूर्वे पञ्चकोणे प्राङ्मुखं शुक्रं शुक्लपुष्पाक्षतैः। शुक्रः पाराशरो द्विपदा विराट्। भोजकटदेशोद्भव भार्गवसगोत्र शुक्र। ततः पश्चिमे धनुषि प्रत्यङ्मुखं शनिं कृष्णपुष्पाक्षतैः शमग्निरिरिंविटिःशनिरुष्णिक्। सौराष्ट्रज काश्यपसगोत्र शनैश्चर। ततो नैर्ऋत्येशूर्पाकारे दक्षिणामुखं राहुं कृष्णपुष्पाक्षतैः। कया नो वामदेवो राहुर्गायत्री। राह्वावाहने। राठिनापुरोद्भव पैठीनसिगोत्र राहो। ततो वायव्ये ध्वजाकारे दक्षिणामुखं केतुं धूम्रपुष्पाक्षतैः केतुं मधुच्छन्दाःकेतवो गायत्री। अन्तर्वेदिसमुद्भव जैमिनिसगोत्र

केतो। सर्वे वा आदित्याभिमुखाः॥ अथाऽधिदेवताः।श्वेतपुष्पाक्षतैः क्रमात्सूर्यादीनां दक्षिणतः स्थाप्याः।त्र्यम्बकं वसिष्ठो रुद्रोऽनुष्टप्। विनियोगः सर्वत्र ज्ञेयः। ॐ त्र्यम्बकम्। ॐ भूर्भुवः स्वः ईश्वरः गौरीर्मिमाय दीर्घतमा उमा जगती। सोमदक्षिणे। यदक्रन्दो दीर्घतमा स्कन्दस्त्रिष्टुप्। विष्णोर्दीर्घतमा विष्णुस्त्रिष्टुप्। ब्रह्मजज्ञानं गौतमो वामदेवो ब्रह्मा त्रिष्टुप्। इन्द्रं वा मधुच्छन्दा इन्द्रो गायत्री। यमाय सोमं यमो यमोऽनुष्टुप्। मोषुणो घोरः काण्वःकालो गायत्री। उषोवाजं स्कण्वश्चित्रगुप्तो बृहती १ एवमेवशुक्लपुष्पाक्षतैर्ग्रहाणां वामतो मन्त्रान्ते व्याहृतीरुच्चार्य इहाऽऽगच्छेह तिष्ठेति चोक्त्वा प्रत्यधिदेवताः स्थापयेत्। अग्निं काण्वो मेधातिथिरग्निर्गायत्री। ॐम् अग्निं दूतम्। अध्स्रुमे मेधातिथि एषोऽनुष्टुप्। स्योना मेधातिथिर्भूमिर्गायत्री। इदं विष्णुर्मेधातिथिर्विष्णुर्गायत्री। इन्द्र श्रेष्ठानि गृत्समद इन्द्रस्त्रिष्टुप्। इन्द्राणीं वृषाकपिरिन्द्राणी पङ्क्तिः प्रजापते हिरण्यगर्भः प्रजापतिस्त्रिष्टुप्। आयं गौःसार्पराज्ञी सर्पा गायत्री। ब्रह्मजज्ञानं गौतमो वामदेवो ब्रह्मा त्रिष्टुप्। ततः शुक्लपुष्पाक्षतैर्विनायकादीन पञ्च। गणानां त्वा गृत्समदो गणपतिर्जगती। राहोरुत्तरतो विनायकम्। जातवेदसे कश्यपो दुर्गा त्रिष्टुप्। शनेरुत्तरतो दुर्गां तव वायव्यश्च आङ्गिरसो वायुर्गायत्री। रवेरुत्तरतो वायुम्। एतान् मन्त्रान् पठन्ति सांप्रदायिकाः। तत्र केषुचिन्मन्त्रेषु मूलं चिन्त्यम्। आदित्प्रत्नस्य वत्स आकाशो गायत्री। राहोर्दक्षिणे आकाशम्। एषो उषाप्रस्कण्वोऽश्विनौ गायत्री। अश्विनाविहागच्छतमिहतिष्ठतमिति केतोर्दक्षिणेऽश्विनौ। एतानि विनायकादिस्थानानि चिन्तामणौ। विनायकादीन्पञ्च उत्तरत एवेति संप्रदायः।इति द्वात्रिंशद्देवता इति रूपनारायणादयः। हेमाद्रौ तु लोकपालादीनामपि सूर्याऽभि

मुखानां दिक्षु स्थापनमुक्तम्। तद्यथा। इन्द्रं विश्वाजेता माधुच्छन्दस इन्द्रोऽनुष्टुप्। इन्द्र इहागच्छेह तिष्ठेति पूर्वे इन्द्रमेवमुत्तरत्र।अग्निं काण्वो मेधातिथिरग्निर्गायत्री। यमायसोमं यमो यमोऽनुष्टुप्। मोषुणो घोरः काण्वो निर्ऋतिर्गायत्री। त्वं नोअग्ने वामदेवो वरुणस्त्रिष्टुप्। तव वायो व्यश्वोवायुर्गायत्री।सोमो धेनुं गौतमः सोमस्त्रिष्टुप्। तमीशानं गौतम ईशानो जगती।सहस्रशीर्षा नारायणोऽनन्तोऽनुष्टुप्। ईशानपूर्वयोर्मध्येऽनन्तम्।ॐ ब्रह्मजज्ञानं गौतमो वामदेवो ब्रह्मा त्रिष्टुप्। नैर्ऋत्यपश्चिमयोर्मध्ये ब्रह्माणम्। अथ वस्वाद्येकादश देवताः। ज्मया अत्र मैत्रावरुणो वसिष्ठो वसवस्त्रिष्टुप्। इन्द्राग्निमध्ये। ध्रुवाऽध्वरसोमावनिलानलप्रत्यूषप्रभासाख्यानष्टौ वसून्। त्यान्नु सामदो मत्स्यो द्वादशादित्या गायत्री। इन्द्रेशानमध्ये। धात्रर्यममित्रवरुणांशभर्गेन्द्रविवस्वत्पू पर्ज्जन्यत्वष्ट्रजघन्याजघन्ययविष्ठाख्यान्द्वादशादित्यान्।आरुद्रासः श्यावाश्वएकादश रुद्रा जगती। अग्नियममध्ये। वीरभद्रशम्भुमहाशयायुतगिरिशाऽजैकपादहिर्बुध्न्याऽपराजितपिनाकिभुवनाधीश्वरविट्पति-कपालिस्थाभगवद्भगाख्यान्एकादश रुद्रान्। गौरीर्मिमाय दीर्घतमा गौर्यादयो जगती। गौरीपद्माशचीमेधासावित्री-विजयाजयादेवसेनास्वधास्वाहामातृलोकमातृधृतिपुष्टितुष्ट्यात्मकुलदेवताख्याः षोडशमातॄः। निर्ऋतिवरुणमध्ये गणपतिं, गणानां त्वागृत्समदो गणपतिर्जगती। मरुतोयस्यराहूगणगौतमो मरुतो गायत्री। वायुसोममध्ये, आवहप्रवहोद्वहसंवहविवहपरावहपरिवहानिलाख्यान्सप्त मरुतः। वेद्यामेव यथावकाशं ब्रह्मादीन्पञ्च स्थापयेत्। ब्रह्मजज्ञानं गौतमो वामदेवो ब्रह्मात्रिष्टुप्। इदं विष्णुर्मेधातिथिरच्युतो गायत्री। कद्रुद्राय घोरः कण्व ईशानो गायत्री। अग्निरश्मिविश्वामित्रोऽर्कस्त्रिष्टुप्। वनस्पते गर्गो वनस्पतिस्त्रिष्टुप्। एवं

प्रतिष्ठाप्य पूजयेत् षोडशोपचारैः। पूजा च तत्तद्वर्णैर्गन्धपुष्पवासोभिस्तत्तन्मन्त्रैः। एवं सूर्यादिद्वात्रिंशत् दश दिक्पालान्वस्वादीनेकादश चावाह्य संस्थाप्य पञ्चभिः षोडशभिर्वोपचारैः संपूजयेत्। तत्र वस्त्राणि ग्रहवर्णानि। रविभौमयो रक्तचन्दनम्।चन्द्रशुक्रयोः श्वेतचन्दनम्। बुधगुर्वोः कुङ्कुमयुतम्॥ शनिराहुकेतूनां कृष्णागुरुम्। पुष्पाणि तद्वर्णानि। धूपास्तु, सल्लकीनिर्यासंघृताक्तयवान् रालमगुरुम्। सिह्लकं बिल्वयुतागुरुम्। गुग्गुलुम्।लाक्षाम्। लक्षाः । क्रमाद्गायत्र्या दत्वा, उद्दीप्यस्वेति सर्वेभ्योदीपान्दत्वा गुडौदनं पायसं नीवारौदनं क्षीरयुतषष्ठिकौदनं दध्योदनं घृतौदनं तिलमाषयुतमोदनं मांसौदनं चित्रौदनं च क्रमान्निवेदयेत्। अधिदेवतादिभ्यस्तु वासोगन्धपुष्पाणि श्वेतानि गुग्गुलुर्धूपः। नैवेद्यं पायसादि यथालाभम् । सूर्यादिद्वात्रिंशतामन्येषांच सर्वेषांपूजापदार्थानुसमयेनैत्र। ततो ग्रहवेदीशान्यां कलशं संस्थाप्य।तत्र वरुणमावाह्यसंपूज्याभिमन्त्रयेत्। तद्यथा, कलशस्य मुखे विष्णुः कण्ठे रुद्रःसमाश्रितः। मुले तत्र स्थितोब्रह्मा मध्ये मातृगणाः स्मृताः॥ कुक्षौ तु सागराः सप्त सप्तद्वीपावसुन्धरा॥ ऋग्वेदोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः॥ अङ्गैश्चसहिताः सर्वे कलशं तु समाश्रिताः। अत्र गायत्री सावित्री शान्तिःपुष्टिकरी तथा॥ आयान्तु यजमानस्य दुरितक्षयकारकाः। देवदानवसंवादे मध्यमाने महोदधौ॥ उत्पन्नोऽसि तदा कुम्भ विधृतो विष्णुना स्वयम्। त्वत्तोये सर्वतीर्थानि देवाः सर्वे त्वयि स्थिताः॥ त्वयितिष्ठन्ति भूतानि त्वयि प्राणाःप्रतिष्ठिताः। शिवःस्वयं त्वमेवासि विष्णुस्त्वं च प्रजापतिः॥ आदित्या वसवो रुद्राविश्वेदेवाः सपैतृकाः । त्वयि तिष्ठन्ति सर्वेऽपि यतः कामफलप्रदाः॥ त्वत्प्रसादादिमं यज्ञं कर्तुमीहे जलोद्भव। सानिध्यं

कुरु मे देव प्रसन्नो भव सर्वदेति॥ ततः फलपुष्पमालाशोभितं वितानं बृहस्पतिदैवत्यं सूर्यादिभ्य इदं न ममेति उत्सृज्य ग्रहवद्युपरि बघ्नीयात्॥ तत एकोहोता परो ब्रह्मेति पूर्वकुण्डे द्वौ ऋत्विजौ दक्षिणादिकुण्डेषु यथाशाखं होमात् प्राक्तनं कर्म कुर्युः। तत्र षोडशमहादानादौ प्रागादिक्रमेण ऋग्वेदादिविहितं कर्मजलाशयोत्सर्गादौ पञ्चकुण्डीपक्षेऽप्येवम्। तत्राचार्यकुण्डं त्वीशानपूर्वयोर्मध्ये वृत्तं चतुरस्रंवातत्रैव नवकुण्ड्यामप्येवमेवाचार्य्यकुण्डम्। तस्मिन् विदिक्कुण्डेषु च चतुःपञ्चकुण्डीवद्धोमावृत्तिरिति केचित्। युक्तं तु चतुःकुण्डीहोम एव विभज्य कार्य इति। तदा चैको होता परो ब्रह्मेति। विदिक्कुडचतुष्टये अष्टौ अधिका ऋत्विजः। ते त्वाग्नेयादिकोणक्रमेण ऋगादिशाखीया इति केचित्।अनियता इत्यपरे। आचार्यकुण्डं तु प्रणयनयोग्याग्निस्थापनार्थमिति साम्प्रदायिकाः। होमावृत्तिर्विभज्य होमानुष्ठानं वेति परे॥

अथ ऋक्शाखीयानामन्वाधाने विशेषः। तत्र चक्षुषी आज्येनेत्यन्तमुक्त्वात्र प्रधानं सूर्यसोमभौमबुधगुरुशुक्रशनिराहुकेतून् ग्रहान् समिच्चर्वाज्यैः प्रतिद्रव्यम्। अष्टसहस्राऽष्टशताऽष्टाविंशत्यष्टान्यतमसंख्यायाः ईश्वरोमास्कन्दविष्णुब्रह्मेन्द्रयमकालचित्रगुप्ताख्या अधि देवताः। अग्न्यब्भृमिविष्ण्विन्द्रेन्द्राणीसर्पप्रजापतिब्रह्माख्याः प्रत्यधिदेवताः। विनायकदुर्गावाय्वाकाशाख्यान्पञ्चलोकपालान् इन्द्राग्नियमनिऋतिवरुणवायुसोमेशानानन्तब्रह्माख्यदशदिक्पालान् ध्रुवाध्वरसोमापानिलानलप्रत्यूषप्रभासाख्यान्अष्टौ वसून धात्रऽर्यममित्रवरुणांशभगेन्द्रविवस्वत्पूषपर्जन्यत्वष्टृविष्ण्वाख्यान् द्वादशादित्यान्, वीरभद्रशम्भुगिरिशाजैकपादहिर्बुध्न्यपिनाकि-भुवनाऽधीश्वरकपालिविशाम्पतिस्थाणुभगाख्यान्एकादशरुद्रान्, आवहप्रवहोद्वहंसवहविवहपरावहपरिवहाख्यान सप्त मरुतः, ब्रह्माच्युते-

शार्कवनस्पतीन् पञ्च चामुकसंख्यया समिच्चर्वाज्यैर्यक्ष्य इति। वसून्आदित्यान् रुद्रान् मरुत इति समुदितानामेवोल्लेखो युक्त इति बहवः। अत्र ग्रहहोमसंख्यातोऽधिदेवताहोमेन्यूनसंख्येतिसम्प्रदायः। ततो यजमानो मण्डपमध्ये दक्षिणत उपविष्ट आधाराऽऽज्यभागदेवता अन्वाधानोक्तप्रधानदेवताः स्विष्टकृदाद्युत्तराङ्गदेवताश्चतुर्थ्यन्तेनादिश्यैताभ्य एतानि समित्तिलचर्वादिद्रव्याणि होतुमुत्सृज्य इति त्यजेत्। बहुकर्तृके होमे प्रत्याहुतित्यागस्याशक्यत्वादिति प्रयोगविदः। ततो होतारः स्वस्वशाखीयैः प्रणवाद्यैः स्वाहान्तैस्तत्तन्मन्त्रैर्ऋषिदेवताछन्दःस्मरणपूर्वकं सूर्यादिभ्यः समिच्चर्वाज्यादि जुहुयुः। तत्र वस्वादित्यरुद्रमरुतां प्रत्येकं मन्त्राऽभावात् प्रणवादिना चतुर्थीस्वाहान्तेन प्रत्येकं होम इति केचित्। समुदितानामेव विधौ श्रवणात् मन्त्रानुरोधाच्चेति तूक्तम्। तत्र प्रत्येकदेवतात्वपक्षे पञ्चाशीतिर्देवताः। समुदितपक्ष एकपञ्चाशत्। होमकाले ऋग्वेदिनौ द्वारपालौ पूर्वे द्वार उदङ्मुखौ रात्रिसूक्तं रौद्रं पवमानं सुमङ्गलं शन्न इन्द्राग्नी इति सूक्तानि पठेताम्। यजुर्विदौ दक्षिणे शाक्रं रौद्रं सौम्यं कौष्माण्डम् ऋचं वाचमित्यध्यायं च पठेताम्। पश्चिमे सामविदौ सुपर्णं विराजमाग्नेयं रुद्रसंहितां ज्येष्ठ सामर बोधयेति च पठेताम्। उत्तरेऽथर्ववेदिनौ सौरं शाकुनकं पौष्टिकं सुमहाराजं, शन्नइन्द्राग्नी इति ऋक्त्रयं च पठेताम्। अथ तत्तद्दैवत्यानि सूक्तानि जप्यानि। ह्वयामीत्येकादशर्चस्य सूक्तस्य हिरण्यस्तूप ऋषिः सविता देवताऽऽद्यायाः पादत्रये- ऽग्निमित्रावरुणौ रात्रिश्च देवता त्रिष्टुप्छन्दः आद्यनवम्योर्जगती सूर्यप्रीतये जपे विनियोगः। ह्वयाम्यग्निं देवम्। ११। त्वं सोमेति त्रयोदशर्चस्य सूक्तस्य गौतम ऋषिः सोमो देवता। पञ्चम्यादिद्वादश गायत्र्यः सप्तदश्युष्णिक् शेषास्त्रिष्टुभः सोमप्रीतये जपे वि-

नियोगः। त्वं सोम गविष्टौ। समिधाग्निमिति त्रिंशर्चस्यसूक्तस्य विरूप अङ्गिरसोऽग्निर्गायत्री। भौमप्रीतये। समिधाग्निं सोतिर। उद्बुध्यध्वमिति द्वादशर्चस्य सूक्तस्य बुधो विश्वेदेवा नवमी द्वादशी च जगती पञ्चमी बृहती चतुर्थी पष्ठी च गायत्री शेषास्त्रिष्टुभो बुधप्रीतये उद्बुध्यध्वम्। यस्तस्तम्भेत्येकादशर्चस्य वामदेवो नतवानां बृहस्पतिरन्त्ययोरिन्द्राबृहस्पतीदश त्रिष्टुभ उपान्त्याजगती। बृहस्पतिप्रीतये यस्तस्तम्भ मरातीः। शुक्रं त इति चतसृणां भरद्वाजः पूषा त्रिष्टुप् द्वितीया जगती। शुक्रप्रीतये। शुक्रं ते अन्यत्ससम्बम्। आपो हिष्ठेति नवर्चस्याम्बरीषसिन्धुद्वीप आपः सप्त गायत्र्यः पञ्चमी वर्द्धमाना सप्तमी प्रतिष्ठान्त्ये द्वे अनुष्टुभौ। शनिप्रीतये। आपो हिष्ठा वर्चसा। कया न इति पञ्चदशर्चस्य वामदेव इन्द्रो गायत्री तृतीया पादनिवृत्। राहुप्रीतये। कया नश्चित्र मिवोपरि। युञ्जन्तीति दशर्चस्य मधुछन्दा आद्यानां तिसृणां चतुर्थी पष्ठ्यष्टमीनां मरुतो गायत्री। केतुप्रीतये। युञ्जन्ति ब्रध्नंरजस॥ इति नवग्रहसूक्तानि।

अथ होममन्त्राः। तत्र ऋग्वेदि अथाधिदेवतानाम्। इमा रुद्रायेत्येकादशर्चस्य कुत्सो रुद्रो जगती अन्त्येत्रिष्टुभेरुद्रप्रीतये। इमा रुद्राय तद्यौः। आपो हिष्ठेति नवर्चं पूर्ववत्। उमाप्रीतये। आपो हिष्ठावर्चसा। प्रातर्युजेत्येकविंशत्यृचसूक्तस्य मेधातिथिराद्यानां चतसृणामश्विनौ चतसृणां सविता द्वयोरग्निरेकादश्या देव्यो द्वादश्या इन्द्राणी वरुणान्याग्नेय्योर्द्वयोर्द्यावापृथिव्यौ पञ्चदश्याः पृथिवी षण्णां विष्णुर्गायत्री। स्कन्दप्रीतये। प्रातर्युजा पदम्। अतो देवा इति षण्णां मेधातिथिर्विष्णुर्गायत्री। हरिप्रीतये। अतो देवा पदम्। अग्न आयाहीति विंशत्यृचस्य सूक्तस्य भर्गोऽग्निः प्रगाथः ब्रह्मप्रीत्यर्थे।अग्न आयाह्यनिभिः स्विनः।

इन्द्रं विश्वा इत्यष्टर्चस्य जेता माधुछन्दस इन्द्रोऽनुष्टुप्। इन्द्रप्रीतये। इन्द्रं विश्वायसीः। आयं गौरिति तिसृणां सार्पराज्ञ्यात्मा गायत्री यमप्रीतये। आयं गौः पृश्रिद्युभिः। परं मृत्योरिति चतसृणां संकुशुको मृत्युस्त्रिष्टुप्। कालप्रीतये। परं मृत्यो तेन। सचित्रेत्यस्य भरद्वाजो मरुतस्त्रिष्टुप्। चित्रगुप्तमीतये। सचित्र चित्रंयुवस्व॥

अथ प्रत्यधिदेवतानाम्। अग्निं दूतमिति द्वादशर्चस्य मेधातिथिरग्निः षष्ठ्या आद्ये पादे निर्मथ्याहवनीयौ गायत्री। अग्निं दूतम्। स्वनः। कस्येति पञ्चदशर्चस्याजीगर्त्तः शुनःशेप। आद्यायाः को द्वितीयाग्निस्तिसृणां सविता दशानां वरुणस्तृतीद्यास्तिस्रो गायत्र्यः शेषास्त्रिष्टुभः। अप्प्रीतये। कस्य नूनम्। स्योना मेधातिथिः पृथिवी गायत्री। भूमिप्रीतये। स्योना पृथिविप्रथः। सहस्रशीर्षेति षोडशर्चस्य नारायणः पुरुषोऽनुष्टुबन्त्यात्रिष्टुप् विष्णुप्रीतये। सहस्रशीर्षादेवा। इन्द्राय कश्यपः पवमानसोमो गायत्री। इन्द्रप्रीतये। इन्द्रायेन्दो सदं०। इमां खनामीति षण्णाम् इन्द्राणीन्द्राण्यनुष्टुभं त्वन्त्यापञ्चपदा पङ्क्तिः। इन्द्राणीप्रीतये। इमां खनामिधावतु। प्रजापते हिरण्यगर्भः प्रजापतिस्त्रिष्टुप् प्रजापतिप्रीतये। प्रजापतेरयीणाम्। कालिको वसिष्ठः सर्पा अनुष्टुप्। सर्पप्रीतये। कालिको नाम सर्पः हं नः। ब्रह्मा देवानां दैवोदासिः प्रतर्दनो ब्रह्म त्रिष्टुप् ब्रह्मप्रीतये। ब्रह्मारेभम्॥

अथविनायकादिपञ्चानाम्। आतून इति नवानां कुसीदः काण्वो गणपतिर्गायत्री। विनायकप्रीतये। आतून इन्द्ररन्तो। जातवेदसे कश्यपो जातवेदा त्रिष्टुप्। दुर्गाप्रीतये। जातवेदसेत्यग्निः। क्रणी त्रितो वा पुरु उष्णिक वायुप्रीतये। ऋणी

शिशुद्धिता। आदिद्वत्स आकाशो गायत्री। आकाशप्रीतये। आदित्प्रत्नस्य। एषो उषा प्रस्कण्वोऽश्विनौ गायत्री। अश्विनोः प्रीतये। एषोहत्॥

अथ दशलोकपालानाम्। इन्द्रं विश्वेत्यष्टानां जेता मधुच्छन्दस इन्द्रोऽनुष्टुप्। इन्द्रप्रीतये। इन्द्रं विश्वायसी। अग्निः सप्तिमिति सप्तानां सौचीकोऽग्निर्वैश्वानरोऽग्निस्त्रिष्टुप्। अग्निप्रीतये। अग्निः सप्ति जस्व। परेयिवांसमिति पोडशर्चस्य यमः पञ्चानां यमः षष्ठ्या अङ्गिरसस्तिसृणां श्वानौ चतसृणां यमो द्वादशस्त्रिष्टुभौ पादनिवृतौ पञ्चदशी बृहती षोडशी अनुष्टुप्। यमप्रीतये। परेयिवांसंहिता। वेत्था हि विश्वमाना वै पश्चो निर्ऋतिप्रीतये। वेत्था हिमिव। मोष्विति। पञ्चानां वसिष्ठो वरुणो गायत्री। अन्त्या जगती। वरुणप्रीतये। मोषुवरुणोरीरिषः। वात इति तिसृणां वातायन उलो वायुर्गायत्री। वायुप्रीतये। वात आवातुसीवसे। त्वं सोमेति ग्रहवत्। इमा रुद्रायेति पूर्ववत्। सहस्रशीर्षेति प्राग्वत्। त्वमिद्गर्भोऽग्निर्बृहती ब्रह्मप्रीतये। त्वमित्सप्रथाधसः॥

अथ वस्वादिनवानाम्। ज्मया अत्रेति वसूनां होमवद। इमा गिर इति सप्तदशर्चस्य गार्त्समःकूर्म आदित्यस्त्रिष्टुप्। आदित्यप्रीतये। इमा गिरः वीराः। आत इति पञ्चदशर्चस्य गार्त्समदः कूर्मरुद्रस्त्रिष्टुप्। ईशानप्रीतये। आतोपितवीराः। मरुतो यस्येति दशानां गौतमो गायत्री। मरुत्प्रीतये। मरुतो यस्य। श्मसि। हिरण्यगर्भ इति दशर्चस्य हिरण्यः प्रजापतिः कस्त्रिष्टुप् ब्रह्मप्रीतये। हिरण्यगर्भः रयीणाम्। सहस्रशीर्षेत्यच्युतस्य प्राग्वत्। आतेपितरितीशस्य प्राग्वत्। चित्रमिति षण्णां कुत्सकस्त्रिष्टुप्। अर्कप्रीतये। चित्रं देवानाम् उत द्यौः। वनस्पत

इति तिसृणां गर्गो वनस्पतिस्त्रिष्टुप्। वनस्पतिप्रीतये। वनस्पते वीड्वङ्गो गृभाय। आवाहितयोरपि मातृगणपत्योर्होमसूक्तजपौ नस्तः। एवं ऋग्वेदी हुत्वा स्विष्टकृदादिप्रायश्चित्त्यन्तं पूर्णाहुतिप्राग्भावि कर्म कुर्यात्। अथ यजुर्वेदिनः कुशकण्डिकानन्तरं प्रधानहोममन्त्राः। आकृष्णेन हिरण्यस्तूपः सविता त्रिष्टुप्। सूर्यप्रीतये तिलाज्यहोमे विनियोगः। आकृष्णेन पश्यन् स्वाहा। इदं सूर्याय। एवं सर्वत्र। इमं देवा वरुणः। सोमो यजुः। इमं देवानां राजा। अग्निर्मूर्द्धाविरूपोऽङ्गारको गायत्री। उदबुध्यस्वपरमेष्ठी बुधस्त्रिष्टुप्। बृहस्पते गृत्समदो बृहस्पतिस्त्रिष्टुप्। अन्नात्प्रजापतिराश्वसरस्वतीन्द्राः शुक्रो जगती। शन्नो दध्यङ्ङाथर्वणशनिर्गायत्री। कयानो वामदेवो राहुर्गायत्री। केतुं मधुच्छन्दाः केतनो गायत्री॥

अथाधिदेवतानाम्। त्र्यम्बकं वसिष्ठो रुद्रस्त्रिष्टुप्। अत्र प्रणीतोदकं स्पृशेत्। श्रीश्चेत्युत्तरनारायण उमा त्रिष्टुप्। यदक्रन्दो भास्करजमदग्निदीर्घतमाः स्कन्दस्त्रिष्टुप्। विष्णोरराटमुतथ्यो विष्णुर्यजुः। विष्णोरराटम्। वे त्वा। आ ब्रह्मन् प्रजापतिर्ब्रह्मा यजुः। आ ब्रह्मन् कल्पताम्। सजोषा विश्वामित्र इन्द्रस्त्रिष्टुप्। सजोषा इन्द्रः। असियमो भास्करजमदग्निदीर्घतमसो यमस्त्रिष्टुप्। अत्रप्रणीतोदकं स्पृशेत्। कार्षिरसि दध्यङ्ङाथर्वणः कालोऽनुष्टुप्। अत्रापि प्रणीतोदकस्पर्शः। चित्रापि प्रणीतोदकस्पर्शः। चित्रावसोर्ऋषयश्चित्रगुप्तो जगती चित्रावसोः शीय॥

अथ प्रत्यधिदेवतानाम्। अग्निं दूतेति विरूपोऽग्निर्गायत्री। अप्स्वन्तर्बृहस्पतिः आपः पुर उष्णिक्। स्योना मेधातिथिः पृथिवी गायत्री। इदं विष्णुर्मेधातिथिर्विष्णुर्गायत्री। त्रातारं गार्ग्य इन्द्रस्त्रिष्टुप्। अदित्यै दध्यङ्ङाथर्वण इन्द्राणी यजुः। अदित्यै रास्रा

ष्णीषः। प्रजापते वरुणः प्रजापतिस्त्रिष्टुप्। नमोऽस्तु देवाः सर्पा अनुष्टुप्। ब्रह्म प्रजापतिर्ब्रह्मा त्रिष्टुप्। अथ विनायकादिपञ्चानाम्। गणानां प्रजापतिर्गणपतिर्यजुः। गणानां त्वा। मम। अम्बे प्रजापतिर्दुर्गाऽनुष्टुप्। वातो वा गन्धर्वावात उष्णिक् ऊर्ध्वा अस्य समिधोप्रजापतिराकाश उष्णिक्। अश्विनौ अश्विनौ यजुः। अश्विनोर्भौवामि॥

अथ दिक्पालानाम्। त्रातारं गार्ग्य इन्द्रस्त्रिष्टुप्। अग्निंदूतं विरूपोऽग्निर्गायत्री। असियमो भार्गवजमदग्निदीर्घतमसो यमस्त्रिष्टुप्। अत्र प्रणीतोदकस्पर्शः। एषते वरुणो निर्ऋतिर्यजुः। एष ते निर्ऋते षस्व।प्रणीतोदकस्पर्शः। इमं मे शुनःशेपोवरुणो गायत्री। इमं मे वरुण।वातो वा गन्धर्वा वात उष्णिक्। वयं वन्धुः सोमो गायत्री। तमीशानं गौतम ईशानो जगती। प्रणीतोदकस्पर्शः। नमोऽस्तु देवा अनन्तोऽनुष्टुप्। ब्रह्मप्रजापतिर्ब्रह्मा त्रिष्टुप्॥

अथ वस्वादीनाम्। स्वर्गा देवा वसवस्त्रिष्टुप्। यज्ञो देवानां कुत्स आदित्यस्त्रिष्टुप्। य एतावन्तश्च परमेष्ठी रुद्रोऽनुष्टुप्। मरुतो यस्य गौतमो मरुतो गायत्री।आब्रह्मन् प्रजापतिर्ब्रह्मा यजुः। इदं विष्णुर्मेधातिथिरच्युतो गायत्री। मानस्तोके कुत्स ईशो जगती। चित्रं देवानां कुत्सोऽर्कस्त्रिष्टुप्। अयं हि प्रजापतिर्वनस्पतिर्यजुः। अयं हि त्वारुहेम॥ इति होममन्त्राः॥

अथ जपसूक्तानि। विभ्राडितिसप्तदशर्चस्यानुवाकस्य आद्याया विभ्राट्। ततस्त्रिसृणां प्रस्काण्वः। पञ्चम्या अवत्सारःकाश्यपः षष्ठ्या वेनः सप्तम्याः कुत्सोऽष्टम्या अगस्त्यो नवम्याः शुतकक्षसुकक्षौ दशम्याः प्रस्कण्वोऽथ द्वयोर्जमदग्निः पञ्चदश्या नृमेधः। षोडश्याः कुत्सः। अन्त्याया हिरण्यरूप आङ्गिरसः। पञ्चम्याविश्वेदेवाः। षष्ठ्याः सोमोऽन्यासां सूर्य आद्यापञ्चमी

जगती, द्वितीयादितिस्रो नवमी दशमी च गायत्र्यस्त्रयोदशीपञ्चदश्यौ पथ्याबृहत्यौ। चतुर्द्दशी सतो बृहती। शेषाः सप्त त्निष्टुभः। सूर्यप्रीतये जपे विनियोगः। ॐविभ्राड्वहत् पश्यन् आषाढं पुंस्त्विति चतसृणां गौतमः सोमस्त्रिष्टुप्। सोमप्रीतये। आषाढं युत्सु विष्टौ। अग्निर्मूर्द्धा विरूपाक्षोऽग्निर्गायत्री। उद्बुद्ध्यस्व परमेष्ट्यग्निस्त्रिष्टुप्। बुधप्रीतये। बृहस्पते अतिगृत्समदो ब्रह्मा त्रिष्टुप्। बृहस्पतिप्रीतये। अन्नात्परिश्रुतः प्रजापत्याश्विसरस्वतीन्द्रा इन्द्रो जगती। शन्नो देवी दध्यङ्ङाथर्वण आपोगायत्री। केतुं कृण्वन् मधुच्छन्दा अग्निर्गायत्री। एते मन्त्रा एवसूक्तानि॥

अथाऽधिदेवतानाम्। षट्षष्टिमन्त्रात्मकरुद्राध्यायस्य परमेष्ठी ऋषिः। आद्यानां षोडशानाम् एकरुद्रस्ततो बहुरुद्र आद्यो गायत्री। तिस्रोऽनुष्टुभो द्वे जगत्यौ। नमो हिरण्यवाहव इत्यन्तस्त्रिंशद्यजूंषि द्राप इत्युपरिष्टाद् बृहती, इमा रुद्रायेति जगती, या ते रुद्रेत्यनुष्टुप्। ततो द्वे त्रिष्टुभौ। विकिरित्याद्या द्वादशानुष्टुभः। शेषाणि त्रीणि यजूंषि। रुद्रप्रीतये। नमस्ते रुद्र दध्मः। ६६। हवामह इत्यन्ताः षोडशैव रुद्रसूक्तमिति रूपनारायणीये। प्रणीतोदकस्पर्शः। श्रीश्च ते उत्तरनारायणो नारायणस्त्रिष्टुप्। उमाप्रीतये। यदक्रन्दो भार्गवजमदग्नि दीर्घतमसोऽश्व स्त्रिष्टुप्। स्कन्दप्रीतये। सहस्रशीर्षति षोडशानां नारायणः। पुरुषोऽनुष्टुवन्त्या त्रिष्टुवन्त्यास्त्रिष्टुप्। विष्णुप्रीतये। आब्रह्मन्निति प्रजापतिर्ब्रह्मा यजुः। ब्रह्मप्रीतये। आशुः शिशानमिति द्वादशानामप्रतिरथ इन्द्रस्त्रिष्टुप्। इन्द्रप्रीतये। प्रणीतोदकस्पर्शः। चित्रावसो ऋषयो रात्रिर्जगती। चित्रगुप्तप्रीतये॥

अथ प्रत्यधिदेवतानाम्। अस्या जरास इति सप्तदशर्चस्य आद्याया वत्सप्रीइन्द्रवायू त्रिष्टुप्। द्वितीया विरूप इन्द्रवायू गा-

यत्री। तृतीया गौतमो मित्रावरुणौ गायत्री। चतुर्थ्या विरूप इन्द्रवरुणौ गायत्री। पञ्चम्याः कुत्सः शुक्रस्त्रिष्टुप्। षष्ठ्या वामदेवोऽग्निर्जगती। सप्तम्या विश्वामित्र इन्द्राग्नी त्रिष्टुप्। अष्टम्या भरद्वाजोऽग्निस्त्रिष्टुप्। नवम्या भरद्वाजो विश्वेदेवा गायत्री। दशम्या मेधातिथिरग्निर्गायत्री। एकादश्याः शक्त्यः पाराशरो मरुतस्त्रिष्टुप्। द्वादश्या अत्रिदुहिता विश्वेदेवा मरुतस्त्रिष्टुप्। त्रयोदश्या भरद्वाजोऽग्निस्त्रिष्टुप्। चतुर्द्दश्या वसिष्ठ आदित्योबृहती। षोडश्यो वामदेवोऽग्निस्त्रिष्टुप्। सप्तदश्याऽनुरोधातकः सविता त्रिष्टुप्। अग्निप्रीतये। आपो हिष्ठेति तिसृणां सिन्धुद्वीप आपो गायत्री। अप्प्रीतये। स्योना पृथिवीदध्यङ्ङाथर्वण ऋषिः। पृथिवि दध्यङ्ङाथर्वणः पृथिवी गायत्री। पृथिवीप्रीत्यर्थे। सहस्रशीर्षा नारायणीयः पुरुषस्त्रिष्टुप्। विष्णुप्रीत्यर्थे। आशुः शिशानो द्वादशानामप्रतिरथम्। इन्द्रस्त्रिष्टुप्। इन्द्रप्रीयर्थम्। अदित्यै रास्ना दध्यङ्ङाथर्वण इन्द्राणी यन्तु इन्द्राणी प्राहिरण्यगर्भ इति चतुर्णां हिरण्यगर्भः प्रजापतिस्त्रिष्टुप्। प्रजापतिप्रीत्यर्थम्। नमोऽस्तु सर्पेभ्य इति तृचस्य देवाः सर्पा अनुष्टुप्। सूर्यप्रीत्यर्थे। ब्रह्मजज्ञानं प्रजापतिरादित्य स्त्रिष्टुप्। ब्रह्मप्रीतये॥

अथ विनायकादिपञ्चानाम्। गणानां त्वा प्रजापतिर्गणपतिर्यजुः। गणपतिप्रीतये। अम्बे अम्बिके प्रजापतिरत्रोऽनुष्टुप्। दुर्गाप्रीतये। त्वां वा येति षण्णामाद्याया गृत्समदो द्वितीयायाः पुरुषढाजमीढौ तिसृणां प्रजापतिः षष्ठ्याश्च आङ्गिरसो वायुर्द्वितीयाऽनुष्टुप् पञ्चमी त्रिष्टुप् शेषा गायत्र्यः। वायुप्रीतये। ऊर्ध्वा अस्य समिध इति द्वादशानां प्रजापतिरग्निरुष्णिक्। आकाशप्रीतये। या वां कश मेधातिथिरश्विनौ गायत्री। अश्विनोः प्रीतये॥

अथ दिक्पालानाम्। आशुः शिशान इति द्वादशर्चमैन्द्रं प्राग्वत्। अस्या जरास इति सप्तदशर्चमाग्नेयं प्राग्वत्। यमाय दध्यङ्ङाथर्वणो यमो यजुः। यमप्रीतये। यमाय स्वाहा। प्रणीतोदकस्पर्शः। असुन्वन्तमिति तृचस्य प्रजापतिरग्निस्त्रिष्टुप्। निर्ऋतिप्रीत्यर्थम्। प्रणीतोदकस्पर्शः। इमं मे वरुणेति द्वयोः शुनःशेपो वरुणो गायत्री त्रिष्टुभौ। वरुणप्रीतये। नियुत्वा त्वा यविति षडर्चंवायवीयं प्राग्वत्। आषाढमिति सौम्यचतुष्टयं प्राग्वत्। रुद्राध्यायः षट्षष्टिमन्त्रावसानं प्राग्वत्॥६६॥ प्रणीतोदकस्पर्शः। नमोऽस्तु सर्पेभ्य इति तृचमनन्तसूक्तं प्राग्वत्। ब्रह्मज ज्ञानं प्रजापतिरादित्य स्त्रिष्टुप्। ब्रह्मप्रीतये॥

अथ वस्वादीनां स्वमा वो देवा वसवस्त्रिष्टुप्। वसुप्रीतये। इमा गिरो गृत्समद आदित्यस्त्रिष्टुप्। आदित्यप्रीयतये। रुद्राध्यायणैन्द्रं प्राग्वत्। शुक्रज्योतिश्चेति षण्णां सप्तर्षयो मरुत आचतुर्थी वोष्णिक् पञ्चमी जगती शेषा गायत्र्यो मरुत्प्रीतये। आब्रह्मन् प्रजापतिर्ब्रह्मा यजुः। ब्रह्माप्रीतये। सहस्रशीर्षेति वैष्णवं प्राग्वत्। रुद्राध्यायो रौद्रं प्राग्वत्। विभ्राडिति सप्तदशर्चमार्कंप्राग्वत्। वनस्पते वीड्वङ्गः प्रजापतिर्वनस्पतिस्त्रिष्टुप्। वनस्पतिप्रीतये। ततो व्याहृतिहोमादिबलिहोमान्तयाजुषं पूर्णाहुतिप्राग्भावि कर्म कुर्यात्॥

अथ सामगानां कुशकण्डिकानन्तरं प्रधानहोमे मन्त्राः। उदुत्यं प्रस्कण्वः सूर्यो गायत्री। तिलाज्यहोमे विनियोगः। उदुत्यं, सूर्याय स्वाहा। सं ते पयांसि सोमः सोमो गायत्री। अग्निर्मूर्द्धा वरुणः सोमो गायत्री। अग्ने विवस्वन्मण्डो जमदग्निर्बुधो बृहती। बृहस्पते परिदीया प्रतिरथो बृहस्पतिस्त्रिष्टुप्। शुक्रं ते भरद्वाजः शुक्रस्त्रिष्टुप्। शन्नो देवीः सिन्धुद्वीपः शनिर्गायत्री।

कया नो वामदेवो राहुर्गायत्री। केतुं कृण्वन्मधुच्छन्दाः केतुगायत्री॥

अधाधिदेवतानाम्। आवो राजानं वामदेवो रुद्रस्त्रिष्टुप्। आपो हिष्ठा सिन्धुद्वीप उमा गायत्री। स्योना पृथित्री मेधातिथिःस्कन्द उष्णिक्। इदं विष्णुर्मेधातिथिर्विष्णुर्गायत्री। त्वमित्सप्रथा गौतमो ब्रह्मा बृहती। इन्द्रमिद्देवता उक्तस्तुगिन्द्रस्त्रिष्टुप्। आयं गौः सार्पराज्ञी यमो गायत्री। ब्रह्मजज्ञानं ब्रह्मा कालत्रिष्टुप्। चित्र इच्छिशोश्चित्रगुप्तश्चित्रगुप्तो जगती॥

अथ प्रत्याधिदेवतानाम्। अग्निंदूतं भरद्वाजोऽग्निर्गायत्री। उदुत्तमं गौतम आपत्रिष्टुप्। पृथिव्यन्तरिक्षं विष्णुपृथिव्युष्णिक्। सहस्रशीर्षा नारायणो विष्णुरनुष्टुप्। इन्द्रो वृषो वृधीय इन्द्रो गायत्री। एकाष्ठकी वसिष्ठ इन्द्राणी त्रिष्टुप्। प्रजापते न त्व हिरण्यगर्भः प्रजापतिस्त्रिष्टुप्। तवेदिन्द्रावमं वसिष्ठः सर्पास्त्रिष्टुप्। एष प्रत्या प्रजापतिर्ब्रह्मा द्विपदा गायत्री॥

अथ विनायकादिपञ्चानाम्। आतूनो गौरिवीतो गणपतिर्गायत्री। इमं स्तोमं कुत्सो दुर्गा जगती। राणाशिरीन्द्रो वायुरुष्णिक्। आदित्यप्रत्नस्य निधनकाम आकाशो गायत्री। एषो उषा प्रस्कण्वोऽश्विनौ गायत्री॥

अथ लोकपालानाम्। त्वामिद्धि भरद्वाज इन्द्रो बृहती। अग्निर्वृत्राणि श्रौतोऽग्निर्गायत्री। नार्कसुपर्णयमो यमस्त्रिष्टुप्। वेत्था हीत्यादिस्यो निर्ऋतिरुष्णिक्। इमं मे पुष्कभो वरुणो गायत्री। वा आवातु प्राजीने काशीतो वायुर्गायत्री। स्वादिष्टया गम्भीरः सोमो गायत्री। तद्वो गायत्री। तद्वोगाय रुद्र ईशानो गायत्री। समानो अध्वा उशना अनन्तस्त्रिष्टुप्। ब्रह्मजज्ञानं ब्रह्मा त्रिष्टुप्।

अथ वस्वादीनाम्। तमग्नि नमस्वे वामदेवो वसवो विराट्। आदित्यैरिन्द्रभरद्वाज आदित्योविराट्। आवो राजानं वामदेवो रुद्रस्त्रिष्टुप्। पवमाना असृक्षत आदा रसनधृमरुतो बृहती। ब्रह्मजज्ञानं ब्रह्मा त्रिष्टुप्। इदं विष्णुर्मेधातिथिर्विष्णुर्गायत्री। आ त्वा सोमस्य सोम ईशानो बृहती। इन्द्राय मद्वने गौरी वितको गायत्री। वनस्पते वीड्वङ्गो बाभ्रव्यो वनस्पतिस्त्रिष्टुप्। इति सामगानां होममन्त्राः। होममन्त्राश्च सामगानांजप्यानि सूक्तानि। विशेषस्तु ग्रहेषु सौम्ये प्रकीर्त्तितव्यमिति द्वादशर्चस्याद्यानां तिसृणां वाजस्त्रिष्टुप्। शेषाणामादित्यो गायत्री सोमो देवमा सोमप्रीत्यर्थे एकादशसामात्मिकायां रुद्रसंहितायाम आवोराजानमिति वामदेवास्त्रिष्टुप्। तद्वोगायेति चतुःसाम्नो वर्गस्य रुद्रो गायत्री। त्रयाणामाज्यदोहसीम्ना वैश्वानरस्त्रिष्टुप्। त्रयाणां देवव्रतसाम्नां पूर्वमोरुद्रेत्यस्य विश्वेदेवा उत्कृतिः। सर्वेषां रुद्रो देवता। रुद्रप्रीत्यर्थम्। आ ४ वो ५ राजा ५७ एकादश॥ सामात्मिकायां स्कन्दसंहितायाम् आमन्द्रैरिति त्रयाणां च प्रअनो विश्वा सुहव्यमिति त्रयाणां शक्त्यो बृहती। प्रसेनानीमिति त्रयाणां कुत्सस्त्रिष्टुप्। पवित्रं त इति द्वयोरादित्यो जगती। सर्वेषां स्कन्दो देवता। स्कन्दप्रीतये। आ ५ मं ५० द्रे ५२, ५०। नवसामात्मिकायां विष्णुसंहितायाम्। इदं विष्णुर्गायत्री। प्रत्यक्षस्य वृष्ण्यो विष्णुर्जगती। प्रकाव्यमुशने इति वराहस्य वाजिस्त्रिष्टुप्। सहस्रशीर्षा पट्टचगीतयोः पुरुषव्रतयोः पुरुषोऽनुष्टुप्। सर्वेषां विष्णुर्देवता। विष्णुप्रीत्यर्थम्। र ५६ मे ५ विष्णुः। विनायकस्य अदन्दोरिति दशसामात्मिकायां विनायकसंहितायाम्। अदर्दरिति द्वयो रुद्रद्वक्षस्त्रिष्टुप्। सुश्राणास इति द्वयोः पृथिवी। त्रिष्टुप्। आतून इति चतुःसामवर्गे आद्ययोर्गौरिवीत अन्त्ययोरपालवैणवश्चतुर्णांगायत्री। मृज्य-

माणा इति द्वयोराद्यस्योक्ष्णोराद्योर्द्वितीयस्य वर्गस्य षष्ठस्याऽग्निर्बृहती। सर्वेषां विनायको देवता। विनायकप्रीत्यर्थम् ४ द ५६ ५ रुप ५ त्४॥०॥

सोमस्य प्रकाव्यमुशनमिति प्राग्वत्। द्वादश। ईशानस्य रुद्राणामावो राजानमिति रुद्रसंहिता प्राग्वत्। अच्युतस्य वैष्णवीसंहिता प्राग्वत्। अन्येषां तु होममन्त्रा एवेति भट्टचरणाः, मदनोमापतिरूपनारायणदानसागराद्याः।येषां गीतिरस्ति ते गीतिसंहिता एवजप्या इत्यर्पितम्। एवञ्च सूक्तजपानन्तरं व्याहृतिहोमादिबर्हिजुडिकाहोमान्तं प्राग्भाविस्वशाखोक्तं सामवेदी कुर्यात्॥

अथाथर्ववेदिनः। प्रधानहोमे मन्त्राः। विषासहिमथर्वादित्यो जगती। होमे विनियोगः। एवं सर्वत्र। शकधूममथर्वा सोमोऽनुष्टुप्। त्वया मन्यो भौमस्त्रिष्टुप्। यद्राजानो विभजन्त विष्णुः बुधः पङ्क्तिः। बृहस्पतिर्नो ब्रह्मा बृहस्पतिस्त्रिष्टुप्॥ शुक्रोऽस्यथर्वा शुक्रोऽनुष्टुप्। सहस्रबाहुर्नारायणःशनिस्त्रिष्टुप्। दिव्यं वित्तं कौशिको राहुत्रिष्टुप्। यस्ते पृथुरथर्वा केतवस्त्रिष्टुप्॥ ९॥

अथाधिदेवतानाम्। मा नो विदन् ब्रह्मा ईश्वरोऽनुष्टुप्। आद्विहिष्ठा सिन्धुद्वीप उमा गायत्री। अग्निस्विमन्यो ब्रह्मा स्कन्दस्त्रिष्टुप्। मतद्विष्णुरथर्वा विष्णुर्गायत्री। ब्रह्मजज्ञानमथ ब्रह्मा त्रिष्टुप्। इन्द्रं मे ब्राह्मेन्द्रोऽनुष्टुप्। यः प्रथमो ब्रह्मा यमस्त्रिष्टुप्। रोहितः कालोऽथर्वा कालोऽनुष्टुप्। यदाज्ञातं कौशिकचित्रगुप्तोऽनुष्टुप्॥

अथ प्रत्यधिदेवतानाम्। सामस्त्वाने ब्रह्मा त्रिष्टुप्। शन्नो देवी ब्रह्मा आपो गायत्री। भूमेर्मातर्ब्रह्मा भूमिरनुष्टुप्। इदं विष्णुरथर्वा विष्णुर्गायत्री। इन्द्रा जुषस्व ब्रह्मेन्द्रोऽनुष्टुप्॥ प्रेतपादावथर्वेन्द्राण्यनुष्टुप्। नक्तं जातास्यथर्वा प्रजापतिरनुष्टुप्। स

र्पानुसर्पाथर्वा सर्पाः पङ्क्तिः। ये दिशामथर्वा ब्रह्मा त्रिष्टुप्॥

अथ विनायकादिपञ्चानाम्। निर्लक्ष्म द्रविणोदा विनायकोऽनुष्टुप्। पृतनाजितमथर्वा दुर्गा त्रिष्टुप्। अन्तरिक्षे वायवे ब्रह्मा वायुरनुष्टुप्। शाम्यन्ताथर्वा आकाशस्त्रिष्टुप्। संवेत्रपथ्योङ्गिरा अश्विनावनुष्टुप् ॥

अथ दिक्पालानाम्। इन्द्रब्रह्मेन्द्र त्रिष्टुप्। अग्नेर्मन्वेति ब्रह्माग्निस्त्रिष्टुप्। परो मृत्युक्तब्रह्मा यमस्त्रिष्टुप्। अमितं तिर्चातिरथर्वा निर्ऋतित्रिष्टुप्। ये पश्चाज्जुह्वयथर्वा वरणस्त्रिष्टुप्। वायोःसवितुरथर्वा वायुस्त्रिष्टुप्। य उत्तरतो ब्रह्मा सोमस्त्रिष्टुप्। धाता ददालङ्गिरा ईशानो गायत्री। य अनन्तं वितमथर्वा अनन्तः पङ्क्तिः। ब्रह्मा परं युज्यताम्। अथर्वा ब्रह्मा त्रिष्टुप्॥

अथवस्वादीनाम्। यानबहवस्त ब्रह्मा वसवस्त्रिष्टुप्। आदित्यो ब्रह्मा आदित्यस्त्रिष्टुप्। रुद्रं जलाप ब्रह्मा रुद्रस्त्रिष्टुप्। मरुतामत्वेर्वा मरुतस्त्रिष्टुप्। इमा ब्रह्म ब्रह्मा ब्रह्मास्त्रिष्टुप्। तद्विष्णोर्ब्रह्मा गायत्री। रुद्रजाश्वब्रह्मेशस्त्रिष्टुप्। वत्सो विराजो ब्रह्माकास्त्रिष्टुप्। वनस्पते वीड्वङ्गोऽथर्वा वनस्पतिस्त्रिष्टुप्। इत्यथर्वविदो होममन्त्राः॥

अथ सूक्तानि। विपासर्हिसाहमा इति षण्णाम्। अथर्वा सूर्यो जगती। सूर्यप्रीतये जपे विनियोगः। एवमग्रेऽपि। शकधूममिति चतुर्णामथर्वा सोमोऽनुष्टुप्। त्वया मन्यो इति सप्तानां ब्रह्मा भौमस्त्रिष्टुप्। सोमस्याशो इति चतुर्णामथर्वाबुधोऽनुष्टुप्। भद्रादधिश्रेय इत्यस्य ब्रह्मा बृहस्पतिस्त्रिष्टुप्। १ शुक्रोऽसीत्यथर्वा शुक्रोऽनुष्टुप्। प्राणाय नम इति तिसृणां ब्रह्मा शनिस्त्रिष्टुप्। राहुराजानं ब्रह्मा राहुस्त्रिष्टुप्। यस्तै पृथुरिति तृचस्याथर्वा केतवः। आद्ययोरन्त्याऽनुष्टुप्॥

अथाधिदेवतानाम्। मा नो विदन्निति चतसृणां ब्रह्मा रुद्रस्त्रिष्टुप्। अग्निरिव मन्यो ब्रह्मास्कन्दस्त्रिष्टुप्। यत इन्द्रा इति पञ्चानामथर्वा विष्णु त्रिष्टुप्। अन्त्या गायत्री। विष्णुनीतये। ब्रह्मजज्ञानमिति सप्तानामथर्वा ब्रह्मा त्रिष्टुप्। इन्द्रो जयतीति तृचस्य ब्रह्मेन्द्रविष्णु त्रिष्टुप्। इन्द्रप्रीतये। यमो मृत्युरिति तृचस्य ब्रह्मा यमस्त्रिष्टुप्। यमप्रीतये। आर्हितः काल इति द्वयोरथर्वा कालोऽनुष्टुप्। अथर्वाङपरस्तादिति चतसृणाम्। अथर्वा चित्रगुप्तस्त्रिष्टुप्॥

अथ प्रत्यधिदेवतानाम्। अग्नेर्मघ इति तृचस्य ब्रह्माग्निस्त्रिष्टुप्। शन्नो देवतीति चतसृणां ब्रह्माऽऽपो गायत्री। सत्यं बृहदृतामिति ब्रह्मा क्षितित्रिष्टुप्। यन्न इन्द्र इति पञ्चर्चंवैष्णवं प्राग्वत्॥ इन्द्रा जुषस्वेत्येकस्य ब्रह्मेन्द्रोऽनुष्टुप्। प्रेत पादावित्यस्य अथर्वेन्द्राण्यनुष्टुप्। प्रजापते न त्वदिति द्वयोर्ब्रह्मा प्रजापतिस्त्रिष्टुप्। शेरभकेत्यष्टानाम् अथर्वा सर्पा पङ्क्तिः। ब्रह्मजज्ञानमिति सप्तचें ब्राह्मं प्राग्वत॥

अथ विनायकादिपञ्चानाम्। निर्लक्ष्ममिति चतसृणां द्रविणो दा विनायकोऽनुष्टुप्। वायोः सवितुरिति द्वयोरथर्वा वायुस्त्रिष्टुप्। पुरं यो ब्रह्मण इति चतसृणां ब्रह्माकाशोऽनुष्टुप्। अश्विना ब्रह्मणेत्यस्य ब्रह्माऽश्विनौ त्रिष्टुप्॥

अथ लोकपालानाम्। तत्रेन्द्राग्नियमानां त्रयस्तृचाःप्रागुक्ता एव। यस्यासो आसनीति तिसृणां ब्रह्मा निर्ऋतिस्त्रिष्टुप्। उदुत्तमं ब्रह्मा वरुणस्त्रिष्टुप्। वायोः सवितुरिति वायवीयो ऋचः प्राग्वत्। शकं धूममिति चतस्रः। सोमस्य मानो विदन्निति चतस्त्र ईशस्य शेजम्भकेत्यष्टानां, तस्य, ब्रह्मजज्ञानमिति ब्रह्मणः सप्त। एतानि पूर्ववत्। वस्वादित्यरुद्रमरुतां होममन्त्रा एव। ब्रह्म-

जज्ञानमिति सप्तब्रह्मणः। यन्न इन्द्र इति पञ्चाच्युतस्य मानोऽविदन्निति चतस्त्र ईशस्य विषासहिमिति षडर्चस्य। एतानि पूर्ववत्। वनस्पतेर्होममन्त्रा एव। ततः स्वस्वशाखीयं स्विष्टकृदभ्यातानहोमादि पूर्णाहुतिप्राग्भावि शेषं कर्म कुर्युः। ततो यजमानो मण्डपप्राग्द्वारकलशसमीपे त्रातारमिन्द्र इन्द्रस्त्रिष्टुप्। इन्द्रप्रीत्यर्थं बलिदाने विनियोगः। त्रातारमिन्द्रम्। इन्द्राय साङ्गाय सपरिवाराय सायुधाय सशक्तिकायामुं सदीपं माषभक्तबलिं समर्पयामि, न मम इति माषभक्तबलिं दत्वा, भो इन्द्र दिशं रक्ष, बलिं भक्ष, मम सकुटुम्बस्य आयुःकर्त्ता क्षेमकर्त्ता शुभकर्त्ता शान्तिकर्त्ता पुष्टिकर्त्ता तुष्टिकर्त्ता भवेति प्रार्थयेत्। एवमाग्नेय्यादिषु होमोक्तैरग्न्यादिमन्त्रैर्बलिदानं प्रार्थनं च। एवमधिदेवताप्रत्यधिदेवतासहितभ्यः सूर्यादिग्रहेभ्योऽपि होमोक्तैस्तत्तन्मन्त्रैर्विनायकदुर्गावाय्वाकाशवास्तोष्पतिक्षेत्राधिपतिभ्यस्तत्तन्मन्त्रैर्होमोक्तैरेव। तत आचार्यो यजमानान्वारब्धः शुचिस्रुवेण द्विवारं चतुर्वारं वा नालिकेरादिफलयुक्तमाज्यं गृहीत्वा पूर्णाहुतिं जुहुयात् ॥ तत्र मन्त्राः। समुद्रा दुर्मिरिति तृचस्य गौतमो वामदेवोऽग्निस्त्रिष्टुप्। पूर्णाहुतौ विनियोगः। एवमग्रेऽपि विनियोगः। मूर्द्धानं दिवो भरद्वाजो वैश्वानरस्त्रिष्टुप्। पुनरग्निवसुरुद्रादित्यास्त्रिष्टुप्। पूर्णा दर्विविश्वेदेवाः शतक्रतुरनुष्टुप्। सप्त ते अग्ने सप्तवानग्निर्जगती। धामं ते वामदेव आपो जगती। धामं ते स्वाहेति। यजमानस्तु इदमग्नये वैश्वानराय वसुरुद्रादित्येभ्यःशतक्रतवे सप्तवते अग्नयेऽद्भ्यश्च, न ममेति त्यजेत्। कातीयानां तु, मूर्द्धानं दिव इत्येवपूर्णाहुतिमन्त्रः। अग्नय इदं न ममेति त्यागः। सामगानां तु प्रजापतिऋषिर्गायत्रीछन्द इन्द्रो देवता। यशस्कामस्य यजनीयप्रयोगे विनियोगः। पूर्णहोमं यशसा जुहोमि योऽस्मै जुहोति वरमस्मै

ददाति। वरं वृणो यशसा भामि लोके स्वाहेत्यनेन स्रुवेणैव होमः। इन्द्राय इदं न ममेति त्यागः। ततो वसोर्धारया होष्यामीति सङ्कल्प्य यजमानो वसोर्द्धारां जुहुयात्। मन्त्रास्तु, अग्निमील इति नवानां मधुच्छन्दा अग्निर्गायत्री। वसोर्द्धारायां विनियोगः।विष्णोर्नु कमिति षण्णां दीर्घतमा विष्णुस्त्रिष्टुप्। आ ते पितरिति पञ्चदशानां गृत्समदो रुद्रस्त्रिष्टुप्। स्वादिष्ठयेति नवानां मधुच्छन्दः पवमानसोमो गायत्री। महीवैश्वानरसाम्नोवैश्वानर ऋषिर्वैश्वानरो देवता पथ्या बृहतीछन्दः। ज्येष्ठसाम्नोभरद्वाजऋषिर्वैश्वानरो देवता त्रिष्टुप्छन्दः। वसोर्धारायां विनियोगः। वसोर्धारा जुहोतीत्यनुवाकमपि पठन्ति शिष्टाः। वसोर्द्धाराहोमस्तु महावानजलाशयोत्सर्गादौ नास्तीति बहवः। ततः पूर्णपात्रविमोकादि च यथाशाखं समाप्य आचार्यसहिता ऋत्विजः सर्वौषधीभिरनुलिप्ताङ्गपत्नीपुत्रादिसहितं यजमानं स्वस्वशाखीयैर्मन्त्रैर्नवग्रहपीठसमीपस्थकुशोदकेन सम्पातकलशोदकेन च अभिषिञ्चेयुः पौराणैश्च।ते च सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः। वासुदेवो जगन्नाथस्तथा सङ्कर्षणो विभुः॥ प्रद्युम्नश्चाऽनिरुद्धश्च भवन्तु विजयाय ते। आखण्डलोऽग्निर्भगवान् यमो वै निर्ऋतिस्तथा॥ वरुणः पवनश्चैवधनाध्यक्षस्तथा शिवः। ब्रह्मणा सहिताः सर्वे दिक्पालाः पान्तु ते सदा॥ कीर्त्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया मतिः। बुद्धिर्लज्जा वपुः शान्तिस्तुष्टिः कान्तिश्च मातरः॥ एतास्त्वामभिषिञ्चन्तु देवपत्न्यःसमागताः॥ आदित्यश्चन्द्रमा भौमो बुधजीवसितार्कजाः। ग्रहास्त्वामभिषिञ्चन्तु राहुःकेतुश्च तर्पिताः॥ देवदानवगन्धर्वा यक्षराक्षसपन्नगाः। ऋषयो मनवो गावो देवमातर एव च॥ देवपत्न्योद्रुमानागा दैत्याश्चाप्सरसां गणाः। अस्त्राणि सर्वशस्त्राणि राजानो

वाहनानि च॥ औषधानि समस्तानि कालस्यावयवाश्च ये। सरितः सागराः शैलास्तीर्थानि जलदा नदाः॥ एते त्वामभिषिञ्चन्तु सर्वकामार्थसिद्धये॥ तच्छंयोरावृणीमह इति॥

ततो यजमानः स्नात्वा शुक्लमाल्यगन्धाम्बरधर आचार्यादीन् सम्पूज्य तेभ्यो दक्षिणां दद्यात्। तत्राचार्याय धेनुः। ब्रह्मणे कृष्णोऽनड्वान्। एवं सदस्यर्त्विग्द्वारपालादिभ्यो यथाशक्ति। तथा, घेनुः शङ्खस्तथाऽनड्वान् हेम वासो हयः क्रमात् कृष्णा गौरायसं छाग एता वै दक्षिणाः क्रमात्॥ ग्रहानुद्दिश्य देयाः। ततः शक्त्या ब्राह्मणान् भोजयेत्। सङ्कल्पयेद्वाऽशक्तौ। ततो दीनाऽनाथेभ्यो भूयसीं दक्षिणां दद्यात्। मण्डलदेवतानां ग्रहपीठदेवतानां चोत्तरपूजां कृत्वा, यान्तु देवगणाः, अभ्यारमित इयो, उत्तिष्ठ ब्रह्मणस्पते इति उत्थाप्य विसृज्य मण्डपादीन् प्रतिमादींश्च सर्वान् सम्भारान् आचार्याय प्रतिपाद्य, यस्य स्मृत्या, प्रमादात्कुर्वतां कर्मेति पठित्वा कर्मेश्वरार्पणं कृत्वा विप्राशिषो गृहीत्वांतान्नमस्कृत्यसुहृद्युतो भुञ्जीतेति सर्वं शिवम्॥ इति श्रीभट्टशङ्करात्मजनीलकण्ठकृते दानमयूखे दानपरिभाषाप्रयोगः।

अथ दानानि॥ मात्स्ये– अथातः सम्प्रवक्ष्यामीत्यादिना षोडशमहादानानि उक्तानि। यथा। आद्यं तु सर्वदानानां तुलापुरुषसंज्ञितम्। हिरण्यगर्भदानं च ब्रह्माण्डं तदनन्तरम्॥ कल्पपादपदानं च गोसहस्रं च पञ्चमम्। हिरण्यकामधेनुश्च हिरण्याश्व स्तथैव च॥ हिरण्याश्वरथस्तद्वद्धेमहस्तिरथस्तथा। पञ्चलाङ्गलकं तद्वद्धरादानं तथैवच॥ द्वादशं विश्वचक्रं च ततः कल्पलतात्मकम्। सप्तसागरदानं च रत्नधेनुस्तथैव च॥ महाभूतघटस्तद्वत् षोडशः परिकीर्तितः॥ तस्मादाराध्य गोविंन्दमुमापतिविनायकौ। महादानमखं कुर्याद्विप्रैश्चैवानुमोदित इति॥ तथा, षोडशारत्निमात्रं तु

दश द्वादशवा करान्। मण्डपं कारयेद्विद्वान् चतुर्भद्रासनं बुधः॥ भद्रासनानि द्वाराणीति केचित्। कुण्डसमीपान्यासनानीति परे। तथा, सप्तहस्ता भवेद्वेदी मध्ये पञ्चकराऽथवा। तन्मध्ये तोरणं कुर्यात् सारदारुमयं दृढम्। षोडशहस्तपक्षे सप्तहस्तदशद्वादशहस्तयोः पञ्चहस्तेति। सा च पूर्वैव निर्णीता। तस्यां मध्यगतप्राक्सूत्रे पूर्वपश्चिमयोः शाकेङ्गुदीदेवदारुश्रीपर्णी बिल्वकदम्बकाञ्चनादीनामन्यतमनिर्मितसप्तहस्तं चतुरस्रं स्तम्भद्वयम्। हस्तद्वयं भूमौ स्तम्भयोरन्तरालं तु हस्तचतुष्टयम्। तयोरुपरि हस्तमिता चूडा। हस्तमितं त्यक्त्वाऽच्छिद्रं वा कार्यम्। एवमुत्तरङ्गोऽपि स्तम्भसजातीयकाष्ठघटितः पञ्चहस्तः। तयोर्वितस्तिमात्रं त्यक्त्वा कृतबिलस्तम्भचूडयोर्वितस्तिमात्रः, स्वकराभ्यां वा स्तम्भबिलयोर्निवेश्यः। तदेतत्तोरणम्। उत्तरङ्गमध्येऽधोभागे लौहकटकमङ्कुशं वा कीलेन निवेश्य तदुत्तरकाष्ठात् षडङ्गुलावलम्बितुलावलम्बनाय। तुला तु पूर्वोक्ता काष्ठमयी दशाङ्गुलसूत्रवेष्टनस्थूला चतुर्भिः सार्द्धैर्वाचतुर्भिर्हस्तैर्दीर्घा वर्त्तुला प्रान्तयोर्मध्ये च षडङ्गुलोन्मिता चतुरस्रा कार्या। तस्यां च तुलावदीर्घं पदद्वयं चतुष्टयं वा निवेश्य तयोर्मध्ये च पदत्रयं षडङ्गुलं निवेश्य मध्ये चान्ये चतुर्विंशतिर्वन्धा निवेश्याः सौवर्णाढ्याः। तस्याः षडङ्गुलयोरन्तरयोरधोभागे वडिशाकृतिकटद्वयं निवेश्य तन्मध्ये चोर्ध्वभाग एकम्। ततस्ताम्रपलानां दशाष्टषट्शतैः क्रमात् पञ्चचतुःसार्द्धत्रिप्रादेशव्यासवर्त्तुले पञ्चचतुस्त्र्यङ्गुलोच्छ्रितान्विते ताम्रचतुर्बलयान्विते फलके लौहाभिस्त्रिहस्ताभिश्चतसृभिः शृङ्खलाभीरज्जुभिर्वर्त्तुलान्तयोरवलम्बयेत्। यथा फलकयोर्भूमेश्च वितस्तिमन्तरं भवति। हेमाद्रिरूपनारायणादिभिश्च काष्ठमये फलके उक्ते। तथा, कुर्यात् कुण्डानि चत्वारि चतुर्द्दिक्षुविचक्षणः॥ सुमेखलायोनियुतानि तानि सम्पूर्णकुम्भानि

सहासनानिसुताम्रपात्रद्वयसंयुतानि सयज्ञपात्राणि सविष्टराणि॥ हस्तप्रमाणानि तिलाज्यपुष्पधूपोपहाराणि सुशोभनानि। पूर्वोत्तरेहस्तमिताऽथ वेदी ग्रहादिदेवेश्वरपूजनाय॥ विस्तारायामोच्छ्रायैर्हस्तमितेति केचित्। वितस्त्युच्छ्रायेति हेमाद्रिः। तदुक्तं, गर्त्तस्योत्तरपूर्वेण वितस्तिद्वयविस्तृताम्।वप्रद्वययुतां वेदीं वितस्त्युच्छ्रायसंयुताम्॥ मात्स्ये, द्विरङ्गुलोच्छ्रितो वप्रःप्रथमः समुदाहृतः। अङ्गुलोच्छ्रायसंयुक्तं वप्रद्वयमथोपरि॥ व्द्यङ्गुलस्तत्र विस्तारः सर्वेषां कथितो बुधैरिति॥ तथा, अनेन विधिनायस्तु तुलापुरुषमाचरेत्। प्रतिलोकाधिपस्थाने प्रतिमन्वन्तरं वसेत्॥ विमानेनार्कवर्णेन किङ्किणीजालमालिना।पूज्यमानोऽप्सरोभिश्च ततो विष्णुपुरं व्रजेत्॥ कल्पकोटिशतं यावत्तस्मिल्ँलोके महीयते॥ कर्मक्षयादिह पुनर्भुवि राजराजो भूपालमौलिमणिरञ्जितपादपीठःश्रद्धान्वितो भवति यज्ञसहस्रयाजी दीप्तप्रतापजितसर्वमहीपलोकः॥ योदीयमानमपि पश्यति भक्तियुक्तः कालान्तरे स्मरति वाचयतीह लोके। यो वा शृणोति पठतीन्द्रसमानलोकं प्राप्नोति धाम स पुरन्दरदेवजुष्टमिति॥

अथ तुलापुरुषदानप्रयोगः। अधिवासनात् पूर्वदिने कृतैकभक्तादिरधिवासनदिने यजमानो देशकालौ सङ्कीर्त्य ब्रह्महत्यादिसर्वपापनाशपूर्वकसर्वमन्वन्तरकालाऽवच्छिन्नसर्वलोकपालस्थानाऽधिकरणकवासोत्तरकालाऽप्सरोगणाऽधिष्ठितकालरणत्किङ्किणीगणमण्डितार्कवर्णविमानकरणवैकुण्ठभुवनगमनानन्तकल्पकोटिशतावधिपूजायुक्तविष्णुपुरवासोत्तराखिलभूपालमौलिमणिमाणिक्यमालोपराञ्जितचरणपीठत्वविशेषितराजराजत्वश्रद्धानुविद्धयज्ञसहस्रयाजित्वप्रदीतप्रतापाशेषमहीपालविजय-कामो विष्णुप्रीतिकामो वा श्वः तुलापुरुषदानमहं प्रतिपादयिष्य इति सङ्कल्प्य, एकस्यां

प्रतिमायां गोविन्दं, परायामुमापतिविनायकौ च गोविन्दाय नम उमापतिविनायकाभ्यां नम इति सम्पूज्य, विप्रत्रयं च सम्पूज्य, विप्राज्ञां गृहीत्वा, षोडशमातृृःसप्तवसोर्धाराश्च संपूज्य, नान्दीश्राद्धपुण्याहवाचनगुर्वृत्विग्द्वारपालवरणतदीयमधुपर्कपूजनानि पूर्बाह्णेकृत्वाऽपराह्णेगुरुसहितो मण्डपपूजां कुर्यात्। तत ऋत्विजः प्रतिकुण्डमेकैकं कलशमपि पूर्वोक्तैर्मन्त्रैः स्थापयेयुः। कलशस्थापनं गुरुः कुर्यादिति परे। तत ऋत्विजः स्वस्वकुण्डेऽग्निं स्थापयेयुः। गुरुस्तु महावेद्यां षोडशारग्रहवेद्यां च सर्वतोभद्रं विलिख्य तद्देवतास्तस्यामेव वेद्यां प्रतिमासु वा सूर्यादिवनस्पत्यन्तैकपञ्चाशद्देवताश्च सम्पूज्य नवग्रहवेदिकलश स्थापनतदभिमन्त्रणानि प्राग्वत् कृत्वा सर्वकर्माध्यक्षतया तिष्ठेत्। ऋत्विजस्तु ग्रहादिहोमसूक्तजपद्वारा सूक्तपाठान् प्राग्वत् कृत्वा स्विष्टकृदादिपूर्णाहुतिप्राक्तनं कर्म कुर्युः। भूमिर्भूमिमगान्माता भूमिर्मातरमप्यगात्। भूयाम पुत्रैः पशुभिर्योऽस्मान् द्वेष्टि स भिद्यतामिति भूमिं स्पृशेत्। ततस्तोरणस्पर्शः। तुलायज्ञस्य पूर्वस्यां सुप्रभं नाम तोरणम्। महावीर्यं महाकायं सुवर्णसदृशप्रभम्॥ अत्र द्वारे स्थितः शैलो माल्यवांश्च महाद्युतिः। एह्येहि सुप्रभ तोरण तुलायज्ञं रक्ष, विघ्नं नाशय। अग्निमील इत्याह्वानम्। दक्षिणाशां गतं यस्य भौमाख्यं नाम तोरणम्। महावीर्यंमहाकायं भिन्नाञ्जनसमप्रभम्॥ अत्र द्वारे स्थितः शैलो विन्ध्यो नाम महाचलः। एह्येहि भीमतोरणेत्यादि पूर्ववत्। इषे त्वेत्यावाहनम्। पश्चिमां दिशमाश्रित्य सुदंष्ट्रं नाम तोरणम्। द्वारि तत्र स्थितः शैलो गन्धमादनसंज्ञकः॥ एह्येहि सुदंष्ट्रतोरणेत्यादि। अग्न आयाहीत्यावाहनम्। उत्तरस्यां दिशि तथा विकटं नाम तोरणम्। महावीर्यं महाकायं शुद्धस्फटिकसन्निभम्॥ तंत्र द्वारि स्थितः शैलो हिमवांश्च महाद्युतिः॥ ए

ह्येहिविकटतोरणेत्यादि, शन्नो देवीरित्याह्वानम्। पूर्वादिद्वारनामानि—पूर्वद्वारं वितानं स्याद्दक्षिणं पुष्पकं भवेत्। पश्चिमं तु घनं नाम कामदं चोत्तरं स्मृतमिति॥ तत, एह्येहि वितानद्वारेति तन्नामभिश्चतुर्द्वारावाहनं कार्यम्। अथ कुङ्कुमपुष्पधूपदीपनैवेद्यबलीनादाय पूर्वभागे सुभद्राय ऋग्वेदमूर्त्तये इन्द्रदेवत्याय माल्यवत्पर्वतसहिताय वितानाख्यपूर्वद्वाराश्रिताय द्वारपालसहिताय सुप्रभनाम्नेऽश्वत्थतोरणाय नम इति पूजयेद्बलिं च दद्यात्। दक्षिणे शोभनाय यजुर्वेदमूर्त्तये यमदैवत्याय विन्ध्यपर्वतयुताय पुष्पकाऽऽख्यदक्षिणद्वारमाश्रिताय द्वारपालसहिताय भीमनाम्ने औदुम्बरतोरणाय नम इति। पश्चिमे सुधर्माय सामवेदमूर्त्तये वरुणदैवत्याय गन्धमादनसहिताय घननामपश्चिमद्वाराश्रिताय सुदंष्ट्रप्लक्षतोरणाय नम इति पूजयेत्। अथर्ववेदमूर्त्तये सोमदैवत्याय हिमवत्पर्वतसहिताय कामदद्वारमाश्रिताय द्वारपालसहिताय विकटाऽऽख्यवटतोरणाय नम इति उत्तरे पूजयेत्। मण्डपस्तम्भेषु सर्वेभ्यो देवेभ्यो नम इति पूजयेत्। वंशेषु किन्नरेभ्यो नमः। पृष्ठे पन्नगेभ्यो नमः। ततः क्षेत्रपालाय मण्डपाधः पूजयेद् बलिं दद्यात्।कुमुदः कुमुदाक्षश्च पुण्डरीकोऽथ वामनः। शङ्कुकर्णः सर्वनेत्रः मुमुखः सुप्रतिष्ठितः॥ ब्रह्मा नागश्च पूर्वादिशैले ध्वजनायकाः॥ कुमुदसहिताय पूर्वध्वजाय नम इति गन्धादि दद्यात्। एवं कुमुदाक्षसहितायेत्यादिदशध्वजान् सदेवान् पूजयेत्। गुरुर्यजमानसहितः पुष्पधूपौ माषभक्तबलिं चादाय तूर्यनादं कारयेन्मण्डपपूर्वद्वारदेशे। एह्येहि सर्वामरसिद्धसाध्यैरभिष्टुतो वज्रधराऽमरेश। संवीज्यमानोऽप्सरसां गणेन रक्षाध्वरं नो भगवन्नमस्ते॥ इतीन्द्रमाबाह्य। इन्द्राय नम इति सम्पूज्य, इन्द्राय साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय एष पुष्पादिसहितो माषभक्त-

बलिर्न ममेतिबलिं दद्यात्। एवमाग्नेय्यादिष्यग्न्यादिभ्यः। मन्त्रास्तु**—**ॐम् एह्येहि सर्वाऽमरहव्यवाह मुनिप्रवीरैरभितोऽभिजुष्ट। तेजोवता लोकगणेन सार्द्धं ममाध्वरं रक्ष कवे नमस्ते॥ एह्येहि वैवस्वत धर्मराज सर्वामरैरर्चित दिव्यमूर्त्ते। शुभाशुभानन्दशुचामधीश शिवाय नः पाहि मखं नमस्ते॥ एह्येहि रक्षोगणनायकस्त्वं विशालवेतालपिशाचसंघैः। ममाध्वरं पाहि शुभाऽधिनाथ लोकेश्वरस्त्वं भगवन्नमस्ते॥ एह्येहि यज्ञे मम रक्षणाय मृगाऽधिरूढः सह सिद्धसंघैः। प्राणाधिपः कालकवेः सहाय गृहाण पूजां भगवन् नमस्ते॥ एह्येहि यज्ञेश्वर यज्ञरक्षां विधत्स्व नक्षत्रगणेन सार्द्धम्। सर्वौषधीभिः पितृभिः सहैव गृहाण पूजां भगवन्नमस्ते॥ एह्येहि पातालधरामरेन्द्र नागाङ्गनाकिन्नरगीयमान्।यक्षोरगेन्द्राऽमरलोकसार्द्धमनन्त रक्षाध्वरमस्मदीयम्॥ एह्येहि विश्वाऽधिपते मुनीन्द्रलोकेन सार्द्धं पितृदेवताभिः। सर्वस्य धातास्यऽमितप्रभावो विशाध्वरं नः सततं शिवाय॥ ततः पूर्वस्यां दिशि किञ्चिद्भूमिमुपलिप्य। त्रैलोक्ये यानि भूतानि स्थावराणि चराणि च। ब्रह्मविष्णुशिवैः सार्द्धं रक्षां कुर्वन्तु तानि मे॥ देवदानवगन्धर्वायक्षराक्षसपन्नगाः। ऋषयो मनवो गावो देवमातर एव च॥ एते ममाध्वरे रक्षां प्रकुर्वन्तु मुदान्विताः॥ ब्रह्मा विष्णुश्च रुद्रश्च क्षेत्रपालो गणैः सह। रक्षन्तु मण्डपं सर्वे घ्नन्तु रक्षांसि सर्वतः॥ ॐ त्रैलोक्यस्थेभ्यः स्थावरेभ्यो भूतेभ्यो नमस्त्रैलोक्यस्थेभ्यश्चरेभ्यो भूतेभ्यो नमः। दानवेभ्यः, गन्धर्वेभ्यः, यक्षेभ्यः, राक्षसेभ्यः, पन्नगेभ्यः, ऋषिभ्यः, मनुष्येभ्यः, गोभ्यः, देवताभ्यः, ब्रह्मणे, विष्णवे, रुद्राय, क्षेत्रपालाय, गणेभ्यो नम इति संपूज्य माषभक्तबलिं दद्यात्। ततः साचार्यऋत्विक्कोयजमानश्चरणौ प्रक्षाल्य वेद्यामुपविश्य षोडशारे तुलां संस्थाप्य तस्यां दक्षिणप्रा-

न्तादारभ्य सुवर्णादिधातुबन्धेषु सूत्रबन्धेषु वा चतुर्विंशतिदेवता आवाह्य पूजयेत्। ताश्च —ईशः, शशी, मारुतः, रुद्रः, सूर्यः, विश्वकर्मा, गुरुः, अङ्गिरोऽग्निः, प्रजापतिः, विश्वेदेवाः, जगद्विधाता, पर्जन्यशम्भू, पितृदेवताः, सौम्यः, धर्मः, अमरराजः, अश्विनौ, तुलेशः, मित्रावरुणौ, मरुद्गणः, धनेशः, गन्धर्वः, जलेशः, विष्णुरिति। ततस्तिसृषु प्रतिमासु गोविन्दसूर्यधर्मराजानावाह्य सम्यूज्य गोविन्दप्रतिमां द्वादशाङ्गुलमुक्तादाम्ना सुवर्णशृङ्खलया वा तुलामध्ये च लम्बयेत्। सूर्यधर्मराजौ तुलासमीप एवस्थाप्यौ। ततः सर्वे ऋत्विजः शान्तिं पठेयुः। ततो यजमानकृतस्याधिवासनसाङ्गतासिद्धये गुर्वृत्विग्जापकेभ्य इमां दक्षिणां सम्प्रदद इति शक्त्या दक्षिणां कुण्डलोपवीतकण्ठकाङ्गुलीयवासांसि च दद्यात्। द्विगुणां गुरवे। तद्दिने यजमानगुर्वृत्विद्वारपालान्। उपवासाशक्तो नक्तम्। जागरश्च नृत्यगीतादिना। एवं पूर्वेद्युरशक्तौ सद्योवाऽधिवासनं कृत्वा परेद्युः कृतनित्यकर्मा यजमानः स्वस्ति वाचयेत्। ऋत्विजः पूर्ववत् स्वस्वकुण्डे पूर्णाहुतिं स्वशाखया जुहुयुः। कर्मशेषं समापयेयुश्च। अत्र ब्रह्मदक्षिणा पूर्णपात्ररूपा नास्ति। अधिवासनतुलाद्रव्यदानेनान्यत्सिद्धेरिति पितामहचरणानामाशयः। ततो ऋत्विजः पुत्रपत्नीयुतं यजमानं प्राङ्मुखमुखमुदङ्मुखं वा कुण्डद्वारग्रहसमीपस्थकलशोदकैरभिषिञ्चेयुः स्वस्वशाखीयैर्मन्त्रैः पौराणैश्च। ते तु प्रदर्शिताः, सुरास्त्वामित्यादयः। यजमानस्तु सर्वौषध्यनुलिप्तः स्नात्वा शुक्लमाल्याम्बरः पुष्पाञ्जलिं गृहीत्वा सफलकां तोरणाऽवलम्बितां तुलां त्रिः प्रदक्षिणीकृत्यअनुमन्त्रयेत्। ॐ नमस्ते सर्वदेवानां शक्तिस्त्वं सत्यमाश्रिता॥ साक्षिभूता जगद्धात्री निर्मिता विश्वयोनिना॥ एकतः सर्वसत्यानि तथाऽनृतशतानि च। धर्माधर्मकृतां मध्ये स्थापिताऽसि जगद्धिते॥ त्वं तुले सर्वभूता-

नां प्रमाणमिह कीर्त्तिता। मां तोलयन्ती संसारादुद्धरस्वनमोऽस्तु ते॥ योऽसौ तत्त्वाधिपो देवः पुरुषः पञ्चविंशकः। स एषाऽधिष्ठितो देवि त्वयि तस्मान्नमोनमः॥ ततः, नमो नमस्ते गोविन्द तुलापुरुषसंज्ञकात्वं हरे तारयत्वस्मानस्मात् संसारसागरादिति॥ तत्प्रतिमामनुमन्त्र्य सतुलं गोविन्दं संपूज्य पुनस्तं प्रदक्षिणीकृत्यसखङ्गचर्मकवचालंकृतो हैमो धर्मराजसूर्यस्तयोर्वामदक्षिणकराभ्यामादाय तुलामध्यावलम्बितं गोविन्दं पश्येत्॥ तुलोत्तरशिक्य आरुह्योपविशेद तत्र प्राङ्मुखः। मात्स्ये, ततोऽपरे तुलाभागे न्यसेयुर्द्विजपुङ्गवाः। समादभ्यधिकं यावत् काञ्चनं चातिनिर्मलम्॥ पुष्टिकामस्तु कुर्वीत भूमिसंस्थं नराधिप॥ यत्तु, पूर्वं द्रव्यन्यासः पश्चात्तदारोहणमिति गोपथे॥ तन्नानापुराणवचनविरोधादथर्वशाखीयविषयमिति दानसौख्यादौ। गोदोहं यावत्स्थित्वैतदुदीरयेत्। नमस्ते सर्वभूतानां साक्षिभूते सनातनि। पितामहेन देवि त्वं निर्मिता परमेष्ठिना॥ त्वया धृतं जगत् सर्वंसह स्थावरजङ्गमम्॥ सर्वभूतात्मभूतेशे नमस्ते सर्वधारिणीति॥ वह्निपुराणे तु मुहूर्त्तमात्रावस्थानमुक्त्वाजपेन्मन्त्रांस्तु पौराणान् पुनन्तु नेति च तृचम्॥ यथा पवित्रमतुलमपत्यंजातवेदसः। तथा स्वेन पवित्रेण सुवर्णं तु पुनातु माम्॥ रुद्रस्य सुमहत्तेजः कात्तिकेयस्य सम्भवः। यथाग्निर्देवताः सर्वाः सुवर्णं च तदात्मकम्॥ तथा, यत्कृतं मे स्वकायेन मनसा वचसा तथा। दुष्कृतं यत् सुवर्णस्थं यातु मुक्तिं परां शुभामिति॥ मात्स्ये, ततोऽवतीर्य गुरवे पूर्वमर्द्धं निवेदयेत्। ऋत्विग्म्योऽपरमर्द्धं च दद्यादुदकपूर्वकम्॥ गुरुवे ग्रामरत्नानि ऋत्विग्म्योश्च निवेदयेत्॥ अत्रेत्थं प्रयोगः॥ वेदिपश्चिमत उपविश्य सुवर्णादिकुशोदकेन प्रोक्ष्य जलाक्षतकुशानादाय सासपक्षतिथ्याद्युल्लिख्यएकैकमन्वन्तरकालेत्यादि राजराजत्वकामोऽहमित्यन्तं

प्रागुक्तं महाप्रयोगमुक्त्वा पापक्षयकामो वा विष्णुप्रीतिकामो वेत्याद्युल्लिख्यामुकगोत्रायामुकशर्मणे गुरवेऽमुकशर्मा इदं तुलापुरुषसुवर्णार्द्धमग्निदैवतं संप्रददे, न ममेति गुरुवेऽर्द्धं सुवर्णं दद्यात्॥ एवमपरार्द्धमृत्विग्भ्यः। दानसागरादिमते तु वरणक्रमेणाचार्यकराऽधः स्थितोत्तानकरेभ्यः सर्वेभ्यो युगपदेव गोत्राद्युच्चारपूर्वकमुत्सृज्य आचार्यादिभ्यो यथाविभागं प्रतिपादयेत्। अदक्षिणं तु यद्दानं तत्सर्वंनिष्फलं भवेदित्युक्तत्वादत्र दक्षिणापेक्षया गुरवे ग्रामरत्नादीति श्रुतं दक्षिणात्वेनान्वेति। ग्रामरत्नदक्षिणाऽपि क्षत्रियकर्त्तृके दाने। अन्यकर्त्तके तु सुवर्णदक्षिणेति हेमाद्रिः। ततः पुनर्मसाद्युल्लिख्यकृतैत्तुलारुषमहादानप्रतिष्ठासिद्ध्यर्थं शतं सुवर्णदक्षिणाग्रामरत्नानि गुर्वृत्विग्भ्योऽहं सम्प्रदद इति तद्धस्ते जलं क्षिपेत्। पश्चादाचार्यादिभ्यो भागशः प्रतिपादयेत्॥

रूपनारायणादयस्तु, गुरवेऽर्द्धदानानन्तरं सुवर्णमात्रं दक्षिणां दत्वा। पुनस्तेभ्योऽष्टऋत्विग्भ्योऽर्द्धदानानन्तरम् एकैकं सुवर्णं दक्षिणां दद्यादित्याहुः॥

अन्ये तु, अन्येषामपि तुलाद्रव्यदानानुज्ञार्थं ग्रामरत्नानि निवेदयेत्। दक्षिणा तु, सर्वेषामेव दानानामिति सामान्यन्यायेन सुवर्णम्। तत्रापि संख्याकाङ्क्षायां, गोपथोक्तसहस्रसंख्यान्वयः। सोऽपि कृष्णलादिभिनिर्वाह्य इत्याहुः॥

अत्र दानसारे त्रयः पक्षाः। आद्येऽर्द्धेगुरवेऽर्द्धमृत्विाग्भ्यइति। अत्र अदक्षिणं तु यद्दानं तत्सर्वं निष्फलं भवेदिति वचनादक्षिणापेक्षायां गुरवे ग्रामरत्नादीत्युक्तम्। जापकेभ्यः पुनरन्यद्द्रव्यं देयम्। तेषु ऋत्विक्त्वाभावात्। द्वितीयस्तु, प्राप्य तेषामनुज्ञातं तथाऽन्येभ्योऽपि दापयेदिति। तत्र गुरवे तुलाद्रव्यस्याऽर्द्धश्चतुर्थो वांशः। तुलाविकृतिभूते घरादाने धरार्द्धं चतुर्भागं गुरवे

तु निवेदयेदिति श्रुतमत्रापि परिमाणापेक्षयाऽन्वेति। सत्रोक्तेर्वाद्विपादिव्यवस्था ज्योतिष्टोमे, येन वा तुष्यते गुरुरिति सामान्योक्तं वा। दीनानाथविशिष्टादीम् पूजयेद् ब्राह्मणैः सहेत्यनेन तृतीयः पक्षः। तत्रापि गुरवेदाने द्वितीयपक्षोत्त्कैवव्यवस्थेति विशिष्टा ब्राह्मणा अपि। अनयोः पक्षयोर्जापकादिभ्योऽप्येतन्मध्यस्थसुवर्णदाने न क्षतिरिति। अत्र पक्षत्रयेऽपि, गुरवे ग्रामरत्नादि। सर्वेषामेवदानानां सुवर्णं दक्षिणेष्यत इत्यादिनोक्तं सुवर्णमेवप्रत्येकं समुदायेन वा देयमिति॥

मदनरत्ने गुर्वृत्विगनुज्ञयाऽन्येभ्योऽपि देयमिति द्वितीयपक्षे तुलाद्रव्यं त्रेधा विभज्यैकोंऽशो गुरवे देयोऽन्य ऋत्विग्भ्यः, परो द्वारपालेभ्यो दीनानाथेभ्यश्च। तृतीयपक्षे तु एतत्तुलितसुवर्णं गुरवे ऋत्विग्भ्योद्वारजापकेभ्योऽन्येभ्यश्च दीनानाथेभ्यो ब्राह्मणेभ्यश्च दातुमहमुत्सृज्य इत्युत्सृज्य दद्यात्। सर्वपक्षे दक्षिणा गुर्वृत्विग्भ्यएव, नान्येभ्य इत्युक्तम्। अत्र प्रतिग्रहे ब्राह्मणे यजमाने सप्रणवं स्वस्तीति शब्दमुच्चैः पठेयुः। क्षत्रिये निरोङ्कारं मन्द्रम्। वैश्ये उपांशु। शुद्रे मनसा॥ ततो द्रव्यं स्पृष्ट्वा स्वशाखोक्तां कामस्तुतिं पठेदिति रूपनारायणीये। अथर्वणानां तु, क इदं कस्मा अदात् कामः कामायादात् कामो दाता कामः प्रतिग्रहीता। कामः समुद्रमाविशद कामेन त्वा प्रतिगृह्णामि कामैतत्ते भूमिस्त्वा प्रतिगृह्णात्वन्तरिक्षमिदं महत्। माऽहं प्राणेन मात्मना प्रजया प्रतिगृह्य विराधिषीयेति। ततः सहस्रं विप्रान् भोजयेत् सङ्कल्पयेद् वा। ततः पुण्याहवाचनं कृत्वा स्थापितदेवतापूजनं कुर्याद् यजमानः। गुरुस्तु, यान्तु देवगणाः सर्वे पूजामादाय पार्थिवीम्। इष्टकामप्रसिद्ध्यर्थं पुनरागमनाय चेत्याद्युक्त्वा पीठादिदेवता विसर्जयेत्। ततो मण्डपादिसामग्रीम्। आचार्याय

प्रतिपादयामीत्युक्त्वा गुरुसात्कुर्यात्। मात्स्ये, न चिरं धारयेद् गेहे सुवर्णं प्रोक्षितं बुधः। तिष्ठद्भयावहं यस्माच्छोकव्याधिकरं नृणाम्॥ शीघ्रं परस्वीकरणाच्छ्रेयः प्राप्नोति पुष्कलमिति॥ इति तुलापुरुषदानविधिः॥

अथ रजतादितुलाविधिः। भविष्योत्तरे, अनेनैव विधानेनं केचिद्रूप्यमयं पुनः। कर्पूरेण तथेच्छन्ति केचिद् ब्राह्मणपुङ्गवाः॥ अनेनेति मुख्यतुलापुरुषदानकथितेनेत्यर्थः। रजतादितुलापुरुषफलं च, यत्पापं स्वकुले जातं त्रिसप्तपुरुषैःकृतम्। तत् सर्वंनश्यतिक्षिप्रमग्नौ तूलं यथा तथेत्यादिना गोपथब्राह्मणादौ पापविशेषक्षयसूर्यलोकावाप्त्यादिरूपमुक्तम्। तथा सिततृतीयायां नार्यः सौभाग्यदास्तुलाम्। कुङ्कुमेन प्रयच्छन्ति लवणेन गुडेन वा॥ न तत्र मन्त्रा होमो वा एवमेव प्रदापयेत्॥ विश्वामित्रः, आदित्ये राहुणा ग्रस्ते सुवर्णैस्तोलयेत्तनुम्। सोमग्रहे तु रौप्येण यथा दानं तथा शृणु॥ प्रवर्ग्यस्य मुखे युक्त उत्पन्नः पक्षिदेहतः। सर्वपापहरायैतद्ददामि प्रीयतां विधुः॥ इत्युच्चार्य जलं त्वप्सु निक्षिपेद्द्विजसत्तमः। प्रीयतां पितरः कांस्ये ताम्रे चैव पितामहः॥ लवणे सिन्धुजे लक्ष्मीः प्रीयतां पार्वती गुडे। गन्धैर्गुडैर्वा वासोभिः सौभाग्यं लवणे परम्। प्रीयतां विश्वधात्रीति दानमन्त्रोऽभिधीयताम्॥ तुलापुरुषतो राजन् याति तत्परमं पदम्। सर्वपापविशुद्धात्मा मुक्तिं यात्यपुनर्भवाम्॥ अत्रसर्वपापहरायैतदभिप्रीयतां विधुरिति रूप्ये। पितरः प्रीयन्तामिति कांस्ये। गन्धगुडवासस्तुलायां पार्वती। लवणे विश्वधात्री। आत्मतुल्यं सुवर्णं वा रजतं रत्नमेव वा यो ददाति द्विजाग्येम्यस्तस्याप्येतत्फलं भवेदित्युक्तत्वात् रत्नतुलायामापे सुवर्णतुलाफलमेव। इतिकर्त्तव्यताऽपि सैवेति केचित्॥ इति रूप्पादितुलापुरुषः॥

अथ नानारोगघ्नादिस्तुलाविधिः। गारुडे, तुलापुरुषदानस्य शृणु मृत्युञ्जयोदकम्। अथ लोहं प्रदातव्यं सर्वरोगोपशान्तये॥ कास्यं च यक्ष्मके देयं त्रपुं चार्शोविकारके। अपस्मारे च सीसं स्यात्ताम्रं कुष्ठे सुदारुणे॥ पित्तलं रक्तपित्ते च रूप्यं प्रदरमेहयोः। सौवर्णंसर्वरोगेषु प्रदद्यान्मृत्युनोदनम्॥ फलोद्भवं तथा देयं ग्रहणीदारुणे रुजि। गौडं भस्मकरोगे च पौगं तु गण्डमालके॥ जाङ्गलं चाग्निमान्द्ये च रोमोत्पाते तु पौष्यकम्। जाङ्गलं काष्ठजम्। मधूद्भवं तथा देयं कासश्वासजलोदरे॥ घृतोद्भवं तथा देयं छर्द्दिरोगोपशान्तये। क्षीरम्पित्तविनाशाय दाधिकम्भगवारणे॥ लावणं वेपनाशाय पैष्टं दद्रुविनाशने। अन्नं च सर्वरोगस्य नाशने स्मृतमेव च॥ अत्र तत्तत्तुलादाने मासाधिदेवताः पूज्याः। ताश्च गारुडे —लोहे महाभैरवः। कांस्येऽश्विनौ पूषा च। सीसके वायुः। ताम्रे सूर्यः। पैत्तले कुजः। रौप्ये पितरः। सुवर्णे देवताः। फले सोमः। गुडे आपः। ताम्बूले विनायकः। कुसुमे गन्धर्वाः। जाङ्गलेऽग्निः। मधुनि यक्षः। घृते मृत्युञ्जयः। क्षीरे तारागणाः। दघ्निसर्पाः। पिष्टे प्रजापतिः। अन्ने सर्वदेवता इति॥

अथ घृतादितुलाविधिः। विष्णुधर्मोत्तरे, पुण्यं दिनमथासाद्यतृतीयायां विशेषतः। गोमयेनानुलिप्तायां भूमौ कुर्याद्धटं शुभम्॥ दारवं शुभवृक्षस्य चतुर्हस्तप्रमाणतः। सुवर्णं तत्रबघ्नीयात् स्वशक्त्या घटितं घटे॥ सौवर्णं स्थापयेत्तत्र वासुदेवं चतुर्भुजम्। शिक्यत्रयं तु वघ्नीयात् स्थापयेत् पिटके ततः॥ तत्रारुहेत्सवस्त्रास्त्रः पुष्पालङ्कारभूषितः। अभीष्टां देवतां गृह्य स्नापयित्वा घृतादिभिः॥ तुलादानस्य सर्वस्य विधिरेष प्रकीर्तितः। प्रथमा तु घृतस्योक्ता तेजोवृद्धिकरी तुला॥ माक्षिकेणतु सौभाग्यं तैलेन बहुलाः प्रजाः। वस्त्रस्य दिव्यवस्त्राणां प्राप्नोति तुलया ध्रुवम्॥ लवणस्य तु

लावण्यमरोगित्वं गुडस्य तु। असापत्न्यं शर्करया सुरूपं चन्दनेन च॥ अवियुक्ता भवेद्भर्त्रा तुलया कुङ्कुमस्य च। न संतापो हृदि भवेत् क्षीरस्य तुलया सदा॥ सर्वकामप्रदाः सर्वाः सर्वपापक्षयङ्कराः। यो ददाति तुलाः सर्वाः स गौर्यालयमाप्नुयात्॥ मन्त्रेण दद्यादभिमन्त्रितां तु सकृत् तुलामेकतमां द्विजेभ्यः स याति गौर्याःसदनं सुपुण्यं न शोकदौर्गत्यमुपाश्नुते पुमान्॥ त्वं तुले सर्वभूतानां प्रमाणं परिकीर्त्तिता। मां तोलयन्ती संसारादुद्धरस्व नमोऽस्तु ते॥ इत्यारुह्य क्षणं स्थित्वा चिन्तयित्वा हरिप्रियाम्। अवरुह्य ततो दद्यादर्घ्यपाद्यमथापि वा॥ गुरुं सम्पूज्य विधिवत् सर्वालङ्कारभूषणैः। विसर्जयेन्नमस्कृत्यभोजयित्वा विधानतः॥ शेषं द्विजेभ्यो दातव्यं स्त्रीभ्योऽन्येभ्यस्तथैव च। इष्टबन्धुविशिष्टानामाश्रितानां कुटुम्बिनाम्॥ कदलीदलसंस्थां तु पञ्चपिण्डां हिमाद्रिजाम्। कर्पूरस्य तुलां पूज्य कुङ्कुमेन लभेत्तु ताम्॥ गुडं वा यदि वा खण्डं लवणं वाऽपि तोलितम्। यो दद्यादात्मना तुल्या नारी वा पुरुषोऽपि वा। पुमान् प्रद्युम्नवत् स स्यान्नारी स्यात् पार्वतीसमेति॥ तुलादानस्य सर्वस्य विधिरेष उदाहृतः॥ इति रूप्यादितुलादानविधिः॥

अथ रूप्यादितुलादानप्रयोगः। तत्र रूप्यकर्पूरतुलयोः सुवर्णतुलाफलमेव, इतिकर्त्तव्यताऽपि पक्षे सैव। रत्नतुलायामपि तदेव फलम्। फलेषु रोगेषु च विशेष इति केचित्। तत्र वस्त्रे गन्धे कुङ्कुमे लवणे गुडे मधुनि च सौभाग्यम्। वस्त्रेषु वस्त्रप्राप्तिश्च। लवणे लावण्यं च। कुङ्कुमे भर्त्रऽवियोगश्च। तैले बहुलाः प्रजाः॥ सर्वरोगेषु लोहम्। यक्ष्मणि कांस्यम्। अर्शसु त्रपुः। अपस्मारे सीसम्। कुष्ठे ताम्रम्। रक्तपित्ते पित्तलम्। प्रदरमेहयोः रूप्यम्। सर्वरोगेषु मृत्युनिवारणार्थं च सुवर्णम्। ग्रहण्यां फल-

म्। भस्मके सर्वरोगेषु च गुडः। गण्डमालासु पूगफलम्। अग्निमान्द्ये काष्टम्। वायुजे रोमनाशे पुष्पम्। कासश्वाजलोदरेषु मधु। छर्दौघृतम्। तेजोवृद्ध्यर्थम्। पित्ते क्षीरं सन्तापनिवृत्त्यर्थं च। भगन्दरे दधि। कम्पे लवणम्। दद्रुणि पिष्टम्। सर्वरोगेषु अन्नं शर्करया सापत्न्यम्। चन्दने सौन्दर्यम्। सर्वासु वा तुलासु सर्वाणि फलानि। अत्र तत्तत्फलकामस्य तत्तद्रोगनिवृत्तिकामस्य वा तत्तद्द्रव्यतुला ज्ञेया॥ अथ तत्तद्द्रव्येषु देवताः। लोहे महाभैरवः। कांस्ये पूषाऽश्विनौ च। सीसे वायुः। ताम्रे सूर्यः। पित्तले कुजः। रूप्ये पितरः। सुवर्णे सर्वदेवताः। फले सोमः। गुडे आपः। ताम्बूले विनायकः। पुष्पे गन्धर्वाः। काग्निः। मधुनि यक्षः। घृते मृत्युञ्जयः। क्षीरे तारागणः। दध्नि सर्पाः। पिष्टे प्रजापतिः। अन्ने सर्वदेवताः॥

तुला तु शाकेङ्गुदीदेवदारुश्रीपर्णीबिल्वकदम्बकाञ्चनादिकाष्ठमयी सार्द्धचतुरस्रहस्ता दशाङ्गुलसूत्रवेष्टनस्थूला वर्त्तुला प्रान्तयोर्मध्ये च षडङ्गुलमिता चतुरस्रा कार्या। तस्याः षडङ्गुलयोरन्तरयोरधोभागे बडिशाकृतिकटकद्वयं निवेश्यम्। मध्ये चोर्ध्वभागे एकं तस्याः समान्तराश्चतुर्विंशतिबन्धा धातुमया निवेश्याः। एकं फलकद्वयमपि पञ्चचतुःसार्द्धत्रिप्रादेशमितं व्यासवृत्तं चतुरस्रं वा पञ्चचतुस्र्यङ्गुलोच्छ्रितप्रान्तबन्धनार्थं त्रिभिश्चतुर्भिर्वा कटकैर्युतं कार्यम्॥

अथ साम्प्रदायिकः प्रयोगः। कर्त्ता मासपक्षाद्युल्लिख्याऽमुककामोऽमुकरोगनिवृत्तिकामः सर्वत्र गौरीसदनसुपुण्य-प्राप्तिशोकदुर्गतिनिवृत्तिकाम ईश्वरप्राप्तिकामो वाऽमुकतुलादानं करिष्य इति सङ्कल्प्य गणेशपूजाचार्यवरणतत्पूजनानि कुर्यात्। स्वस्तिवाचनमातृकापूजनाभ्युदयिकश्राद्धान्यपीति केचित्।तत आचार्यो

पत्रसंस्थितसर्षपान्विकीर्य, शुची वो हव्येति तृचेन, एतोन्विन्द्रमिति तृचेन, आपो हिष्ठेत्यादिभिः कर्मभुवं सम्प्रोक्ष्य, स्वस्त्ययनतार्क्ष्यमिति मन्त्रद्वयं जप्त्वा पूर्वोक्तां महाभैरववेदिकां तत्तद्द्रव्यदेवतां गोविन्दं सूर्यं धर्मराजं च प्रतिमाचतुष्टयं सम्पूज्य तुलां गन्धादिभिरलङ्कृत्य तस्यां धातुमयेषु सूत्रमयेषु वा चतुर्विंशतिबन्धेषु देवतास्तत्तन्नामभिश्चतुर्थ्यन्तनमोऽन्तैरावाह्य पूजयेत्। ताश्च ईशः१ शशी २ मारुतः ३ रुद्रः ४ सूर्यः५ विश्वकर्मा ६ गुरुः ७ अङ्गिरोऽग्नी८ प्रजापतिः९ विश्वेदेवाः १० जगद्विधाता ११ पर्जन्यशम्भू १२ पितृदेवताः१३ सौम्यः१४ धर्मः१५ अमरराजः १६ अश्विनौ १७ तुलेशः१८ मित्रावरुणौ १९ मरुद्गणाः२० धनेशः२१ गन्धर्वः२२ जलेशः२३ विष्णुः २४ इति। ततस्तुलामुत्तरङ्गादिषु बद्ध्वा फलकद्वयं तथाऽवलम्बयेद्यथा भूमेर्वितस्तित्पात्रमुच्चं भवेत्। गोविन्दप्रतिमा च हेमशृङ्खलया मुक्तादाम्ना सूत्रान्तरेण वा द्वादशाङ्गुलेन तुलामध्येऽवलम्बनीया। ततो यजमानः पुष्पाञ्जलिं गृहीत्वा तुलां त्रिःप्रदक्षिणीकृत्यानुमन्त्रयेत्। ॐ नमस्ते सर्वदेवानां शक्तिस्त्वं सत्यमाश्रिता। साक्षिभूता जगद्धात्री निर्मिता विश्वयोनिना॥ एकतः सर्वसत्यानि तथाऽनृतशतानि च। धर्माधर्मकृतां मध्ये स्थापिताऽसि जगद्धिते॥ त्वं तुले सर्वभूतानां प्रमाणमिह कीर्त्तिता। मां तोलयन्ती संसारादुद्धरस्वनमोऽस्तु ते॥ योऽसौ तत्त्वाधिपो देवः पुरुषः पञ्चविंशतिः। स एषोऽधिष्ठितो देवि त्वयि तस्मान्नमो नम इति॥ नमो नमस्ते गोविन्द तुलापुरुषसंज्ञक। त्वं हरे तारयत्वस्मानस्मात् संसारसागरादिति गोविन्दमनुमन्त्र्य, पुनस्तुलां गोविन्दं च सम्पूज्य पुनः प्रदक्षिणीकृत्यसूर्यं दक्षिणे करे धर्मराजं च वामे आदाय तुलावलम्बितं गोविन्दं पश्यन्नु-

त्तरशिक्ये प्राङ्मुख उपविशेद। ततोऽपरे शिक्ये आचार्यादयो द्रव्यं न्यसेयुः। ततो मुहूर्त्तं गोदोहनमात्रं वा स्थित्वा पठेत्। ॐ नमस्ते सर्वभूतानां साक्षिभूते सनातानि। पितामहेन देवि त्वं निर्मिता परमेष्ठिना॥ त्वया धृतं जगत् सर्वं सह स्थावरजङ्गमम्। सर्वभूतात्मभूतेशे नमस्ते सर्वधारिणीति॥ ततोऽवतीर्य देशकालौ स्मृत्वा अमुकफलकामोऽमुकरोगनिवृत्तिकामः सर्वत्र गौरीसदनपुण्यप्राप्तिशोकदुर्गतिनिवृत्तिकामईश्वरप्रीतिकामो वा इदमात्मसमतोलितममुकद्रव्यममुकदैवतमाचार्यादिविप्रेभ्यो नानानामगोत्रेभ्यो दातुमहमुत्सृजे, न ममेति जलं क्षिपेत्। तत्र कांस्ये पितरः प्रीयन्तामिति वदेत्। ताम्रे पितामहः प्री। लवणे लक्ष्मीः प्री। गन्धगुडवस्त्रेषु विश्वधात्री। गुडे पार्वती प्री। तत आचार्याय शक्त्या दक्षिणां दद्यात्। आचार्यस्तु तत्तद्देवतां गोविन्दं सूर्यंधर्मराजमीशादींश्च सम्पूज्य, उत्तिष्ठ ब्रह्मणस्पत इत्युत्थाप्य, यान्तु देवगणा इति विसृजेत्। ततो यजमानः प्रतिमादिमाचार्यकरे प्रतिपाद्य त्रीन्विप्रान् सम्भोज्य भूयसीं दक्षिणां दद्यात्॥ इति श्रीमीमांसकशङ्करमहात्मजनीलकण्ठकृते दानमयूखे रूप्यादितुलादानप्रयोगः॥

अथ हिरण्यगर्भदानम्। मात्स्ये, अथातः संप्रवक्ष्यामि हेमदानमनुत्तमम्। नाम्ना हिरण्यगर्भाख्यं महापातकनाशनम्॥ पुण्यं दिनमथासाद्य तुलापुरुषदानवत्। ऋत्विङ्मण्डपसम्भारभूषणाच्छादनादिकम्॥ कुर्यादुपोषितस्तद्वच्छ्रलोकेनावाहनं ततः॥ उपोषितउपक्रान्तोपवासः। पुण्याहवाचनं कृत्वा तद्वत्कृत्वाऽधिवासनम्। ब्राह्मणैरुन्नयेत् कुण्डं तपनीयमयं शुभम्॥ द्वासप्तत्यऽङ्गुलोच्छ्रायं हेमपङ्कजगर्भवत्। त्रिभागहीनविस्तारं प्रशस्तं मुरजाऽऽकृति॥ ब्राह्मणैर्गुत्विग्भिः सह यजमान इति रूपनारायणः।

ठक्कुरश्च। तैरेवानयेदिति मदनरत्नादौ। कुण्डं हिरण्यगर्भहेमपङ्कजेति। अधोभागमध्यस्थिताऽष्टदलहेमकमलयुतम्। त्रिभागेति। अष्टाचत्वारिंशदङ्गुलविस्तारम्। मुरजो मृदङ्गः। तदाकृति मध्ये किञ्चित्स्थूलमिति ठक्कुरः। मूलमध्याग्रेषु सममिति वाचस्पतिमिश्राः। दानसागरे तु विस्तारमित्यस्याग्रे आज्यक्षीराभिपूरितसमिति पाठः। तत्र तुल्याभ्यामाज्यक्षीराभ्यामेकदेशे पूरितमित्यऽर्थः। अभिरभाग इत्यभेरेकदेशवाचित्वात्। दशान्त्राणि सरत्नानि दात्रं सूचीं तथैव च। हेमनालं सपिटकं बहिरादित्यसंयुते॥ तथैवावरणं नाभेरुपवीतं च काञ्चनम्॥पार्श्वतः स्थापयेत्तद्वद्धैमं दण्डं कमण्डलुम्। आन्त्राणि दशाखण्डानि। अभ्राणीति वा पाठः। तत्र अभ्राकाराणि सुवर्णखण्डानीति हेमाद्रिः। अस्त्राणीति दामोदरः। तानि च तत्रैव। खड्गश्चक्रं दण्डः पाशः ध्वजः। गदा शूलं परशुकुलिशाख्यानि दश। रत्नानि पञ्च प्रसिद्धानि। पिटकं मञ्जूषेति हेमाद्रिः। स्थलाकार उपेवशनपट्टइति दामोदरः। दात्रं नालच्छेदनार्थम्। सूची कर्णवेधार्था। नाभेरावरणं वस्त्राकारम्। उपवीतमुपनयनार्थम्। दण्डकमण्डलू समावर्त्तनार्थौ। एतानि दशाखण्डादीनि हैमानीति हेमाद्रिः। नालोपवीतदण्डा एव हैमाः। अन्यत्तु प्रकृतमेव ग्राह्यमिति तु युक्तम्। रत्नेषु सर्वैरथहैमत्वाङ्गीकारात्। अत्रास्त्राणीत्यनेन रत्नादिदशकमेवोच्यत इति दानसागरः। दशाश्वास्त्राणि चेति रूपनारायणः। दशान्तानीति भूपालः। दशार्द्धनीति पाठे रत्नविशेषणं चेदम्। पञ्चरत्नानीत्यर्थ इति विद्याधरः। आदित्यसंयुतम् आदित्यप्रतिमायुतम्। तथा, पद्माकारं पिधानं स्यात् समन्तादङ्गुलाधिकम्। मुक्तावलीसमोपेतं पद्मरागदलान्वितम्॥ तिलद्रोणोपरिगतं वेदीमध्ये ततोऽर्चयेत्॥ पात्रमुखादेकाङ्गुलेन समन्तादधिकमष्टदलकमलाकारं पिधानं स्यात्।

द्रोणः परिभाषायां ज्ञेयः। कुण्डहेममानं तु यावता तदुक्तप्रमाणं पद्ये तावद्ग्राह्यम्। लैङ्गे तु। कुर्यात् सहस्रकर्षेण अधःपात्रं हिरण्यतः।तदर्द्धेनार्द्धपात्रं तु सहस्रेण द्वयं तु वा॥ त्रिपादं वार्द्धपादं वा सपादं सार्द्धमेव वा। द्विगुणं वा प्रकर्त्तव्यं यथालाभं तु वा भवेत्॥सद्वक्षजं वा तत् कृत्वा स्वर्णपादैस्तु वेष्टयेदिति हेममानमुक्तम्। ततोमङ्गलशब्देन ब्रह्मघोषरवेण च। सर्वौपध्युदकेनैव स्नापितो वेदपुङ्गवैः॥ शुक्लमाल्याम्बरधरः सर्वाभरणभूषितः। इममुच्चारयेन्मन्त्रंगृहीतकुसुमाञ्जलिः। उच्चार्यामन्त्रणमन्त्राः प्रयोगे ज्ञेयाः। एवमामन्त्र्य तन्मध्ये आविश्यास्त उदङ्मुखः। मुष्टिभ्यां संपरिगृह्यधर्मराजचतुर्मुखौ। जानुमध्ये शिरः कृत्वा तिष्ठेदुच्छ्वासपञ्चकम्॥ तथा, गर्भाधानं पुसवनं सीमन्तोन्नयनं तथा। कुर्युर्हिरण्यगर्भस्यततस्ते द्विजपुङ्गवाः॥ गर्भाधानादिग्रहणमनवलोभस्योपलक्षणम्।प्रजावज्जीवपुत्राभ्यां सेवनं तत्र आचरेत्। दुर्वारसेन कर्त्तव्य व्याहृत्या च घृताहुतिरिति हेमाद्रौवातुलोक्तेः। गीतमङ्गलशब्देन गुरुरुत्थापयेत्ततः।जातकर्मादिकाः कुर्यात् क्रियाःपोडश चापराः॥ जातकर्मादिका अपराश्च क्रियाः कुर्यात्। तेन षोडश सम्पद्यन्ते इत्यर्थः। एवमेव हेमाद्रिरूपनारायणादीनाम् आशयः। तेन गर्भाधानपुंसवनसीमन्तोन्नयनानवलोभनानि गुर्वाद्यन्यतमः कुर्यात्। ततो गुरुर्यजमानमुत्थापयेत्। ततो जातकर्मनामकरणनिष्क्रमणान्नप्राशनचूडोपनयनवेदव्रतचतुष्टयसमावर्त्तनोद्वाहाः कार्याः। हेमाद्रौ तु जातकर्मादिषुप्राजापत्यैन्द्राग्नेयसौम्यव्रतचतुष्टयगोदानसाहित्येनोद्वाहत्यागेनद्वादशत्वमुक्तम्। जातकर्मादिषु विवाहपितृयज्ञप्रवेशनं च षोडश चापराइति यथाश्रुतमेव योज्यमिति मदनदामोदरौ ॥

एते च जातकर्माद्याः संस्कारा यजमानशाखयेति तयोराद्योगुरोः कर्त्तव्यत्वात्तच्छाखयेति परः। युक्तं तु। समावर्त्तनोद्वाह-

पञ्चयज्ञा यजमानेनैव स्वशाखया कार्याः। इतरे तु गुरुणा यजमानशाखयैवेति। फलिशाखेतिकर्त्तव्यतयैव तेषां फलजनकत्वस्य क्लृप्तत्वात्। कर्मान्तरत्वे तु जातकर्मादीनां मानाभावः। सर्वेभ्यःकर्मभ्यो दर्शपूर्णमासावित्यत्र वाऽऽख्याताभावेन प्रकरणान्तरायोगात्। त्रैघातवीया दीक्षणीयेतिवत्तु तान्येव जातकर्मादीनि दानाङ्गतयाविनियुज्यन्ते। कर्मान्तरत्वेऽपि चैतेषां जातकर्मादिविकृतित्वेनफलिशाखीयैव इतिकर्त्तव्यता प्राप्नोति, न गुरुशाखीया। तेनगुरुरेव यजमानशाखीयो भवत्यस्मिन् दाने। अध्ययनसिद्धज्ञानवत्वात्। अवैगुण्याय। सत्र इव समानकल्पा यजमानाः। ते चसंस्कारास्तत्कर्मानुध्यानपूर्वंतत्तत्प्रधानमन्त्रपाठमात्रेण कार्याः।स्त्रीशूद्रकर्त्तृके मन्त्रवत्तदनुध्यानमात्रम्। तत्र स्त्रिया जातकर्मनामकरणनिष्क्रमणान्नप्राशनचूडाकर्मविवाहाख्यसंस्कारषट्कम्। तत्राऽपि विवाहः समन्त्रकः। शूद्राणां तु एते षट्पञ्च महायज्ञाश्चेत्येकादशानुध्यानरूपा एवेति सर्वे निवन्धकृतः। शिष्टास्तु त्रैवर्णिककर्त्तृकेऽप्यमन्त्रकानुध्यानमेवाचरन्ति। युक्तमिवचेदम्। सर्वपदार्थत्यागे मन्त्रमात्रपाठे मानाभावात्। आप्यं तु स्वरूपत एवाऽनुष्ठानं सर्वेषाम्। यत्तु दामोदरो गर्भाधानादीनां कुण्डे विवाहस्यचातत्कालेऽसम्भवात् समन्त्रकानुध्यानमेव कार्यमिति। तन्न।दुर्वारसेन कर्त्तव्यं सेचनं दक्षिणे पुटे। औदुम्बरफलैः सार्द्धमेकविंशत्कुशान् सदा ॥ शक्ताय तावदेवात्र कुर्यात् सीमन्तकर्मणि।अन्नप्राशनके विद्वान् भोजयेत् पायसादिभिः। एवं विज्ञजिदन्ताश्च गर्भाधानादिकाः क्रियाः। शक्तिवीजेन कर्त्तव्या ब्राह्मणैर्वेदपारगैरिति लिङ्गपुराणात्। दक्षिणपुटेअधःपात्रगतरन्ध्रयोर्मध्ये दक्षिणरन्ध्रे। यत्तु हेमाद्रौ टोडरानन्दे च, उपरिपात्रगतरन्ध्रयोरिति। तन्न। अधःपात्रे स्मरेद्दिव्यां गुणत्रयसमन्विताम्

चतुर्विंशतिकां देवीं ब्रह्मविष्ण्वतिरूपिणीम्॥ ऊर्ध्वपात्रेगुणातीतं षट्त्रिंशाख्यमुमापतिम्। आत्मानं पुरुषं ध्यायेत् पञ्चविंशकमन्त्रजमिति॥ लैङ्गे अधःपात्रस्यैव स्त्रीरूपतोक्तेः। तावदेवेत्येवकारेण अङ्गान्तरपरिसंख्या। अत्र ह्येवावपन्तीतिवत्। तेन गृह्याग्नेरपि निवृत्तिः। उद्वहेत्कन्यकां कृत्वा त्रिंशन्निष्केण शोभनाम् अलंकृत्य तथा हृत्वा शिवाय विनिवेदयेत्॥ अत्र चतुःसौवर्णिको निष्क इति केचित्। षट्पञ्चाशदधिकद्विशतपणमित इति भास्कराचार्याः। दीनारोऽपि च सुवर्णनिष्क इत्यमरः। सुवर्णपर्याय इत्यन्ये। तेषां शक्त्या व्यवस्था॥ दूर्वारसासेको यजमानस्य पितरौ तत्स्थानीयं वा मिथुनमानीय तयोरन्यतरेण कारयेद्गुरुः। कर्त्तारं भार्यया युक्तं सर्वालङ्कारशोभितम्।आनीय कुर्यात्तत्स्थस्य गर्भाधानादिकाः क्रियाः॥ भार्यादक्षपुटेदूर्वारससेचनमाचरेत्। एकविंशतिसंख्यातानुदुम्बरफलान्वितान्॥ कुशानानीय शक्त्त्याऽथ कुर्यात् सीमन्तकर्म चेति कामिकोक्तेः॥ प्रजावज्जीवपुत्राभ्यां सेचनं तत आचरेत्। दूर्वारसेन कर्त्तव्यं व्याहृत्या च घृताहुतिरिति हेमाद्रौ वातुलोक्तेश्च। प्रजावत्—आ ते गर्भ इत्यादि। जीवपुत्रम्—अग्निरैतु प्रथम इत्यादि। सत्यपि वा केषाञ्चिदऽसम्भवेन सर्वेषामनुध्यानमात्रं युक्तम्। यत्तु अन्नप्राशने भुक्तवतः कर्मानुष्ठानविरोध इति। सोऽपि हविःशेषभोजनवद्विहितत्वादपास्तः। किञ्च सर्वैरपि प्रयोगे न सर्वे संस्कारमन्त्रा उक्ताः। चौलादौ होममन्त्रा उक्ताः। अथ प्रधानकरणीभूता एवमन्त्रा अभिप्रेतास्ततो गर्भाधानेऽपनः शोशुचदघमिति मूर्द्धाभिमर्शनार्थसूक्ताद्यङ्गमन्त्रस्य समावर्त्तने होमसाधनस्य ममाग्ने वर्च इति सूक्तस्य तत्रैव, स्मृतं च म इत्यादेर्लिखनं विवाहादौ च भार्यात्वोत्पादकप्रधानभूतहोमसप्तपदीमन्त्राणामलिखनमिति कथमिदं पूर्वापरविरुद्धं प्रमाणशून्यमेतेषां

लिखनमादर्त्तव्यम्। अतः स्वरूपत एवकार्याः सर्वे। तत्र पूर्वादिकुण्डेष्वेवक्रमाद् ऋगादिशाखीययजमानसंस्कारप्रधानहोमाः कार्याः। उल्लेखनोपलेपनेष्वाऽऽधानाघाराज्यभागाः स्विष्टकृदाद्युत्तराङ्गानि च न कार्याणि। तदुपकाराणां सिद्धत्वात्। पशुतन्त्राऽन्तःपातिपुरोडाशे प्रयाजानुयाजनानुष्ठानवत्। पाशुकैरेव तैरुपकारसिद्धेः। अत्र गर्भाधानादित्रयनिष्क्रमणश्राद्धसहितषोडससंस्कारपक्षे निष्क्रमणश्राद्धत्यागेन पञ्चयज्ञसाहित्येनोनविंशतिपक्षे वा गर्भाधानसीमन्ते तावत्कर्मान्तरे यावदुक्ते। कामिकलैङ्गादिष्वनेकगुणश्रुतेः। प्रधानबाधाच्च। पुंसवनं तु ध्यानमात्रेण कार्यम्। स्वरूपानुष्ठानवाधान्मन्त्रपाठे मानाभावाच्च। तथा ऋक्शाखीयैश्चौल एवाग्नआयूँषीत्याद्याहुतिचतुष्टयं कार्यं, नोपनयनव्रतचतुष्टयसमावर्त्तनविवाहेषु। चौलीयैरेवादृष्टैरुपकारसिद्धेः। उपनयने विशेषमाहाश्वलायनः। अथोपेतपूर्वस्य कृताकृतं केशवपनं मेधाजननं वा निरुक्तम्। परिदानकालश्च तत्सवितुर्वृणीमह इति सावित्रीं पूर्वमुपेत उपेतपूर्वस्तस्य पुनरुपनीयमानस्येति यावत्। कृताऽकृतं वैकल्पिकम्। अनिरुक्तं वर्जितम्। परिदानकालावप्यनिरुक्तौ। परिदानमादित्याय व्रतपतये बटुं ते ददामीति। गायत्र्याः स्थाने तत्सवितुर्वृणीमह इति ऋच उपदेशः। मनुश्च। अजिनं मेखला दण्डो भैक्ष्यचर्या व्रतानि च। निवर्त्तन्ते द्विजातीनां पुनः संस्कारकर्मणि इति॥ अन्यत् कार्यम्। विवाहे सप्तपदीक्रमणपरिणयनयोर्निवृत्तिः प्रतिमाया असम्भवात्। अन्येष्वपि संस्कारेषु बाधितं लुप्यत इति दिक्॥ षोडशक्रियाभावात् स्त्रीशूद्रयोर्हिरण्यगर्भदाने अनधिकार इति केचित्। तन्न। नरो वा यदि वा नारी एवं ब्रह्मात्मसम्भवम्। यः करोति महापुण्यं तस्यापि श्रृणु यत्फलमिति हेमाद्रौ हिरण्यगर्भप्रकरणे विष्णुधर्मोक्तेः स्त्रीणा-

मधिकारावगमात। आत्मसम्भवं हिरण्यगर्भम्। स्त्रीशूद्रास्तु सधर्माण इति वाक्याच्च शूद्रस्येति। तथा, सूच्यादिकं च गुरवे दत्वा मन्त्रमिमं जपेत्। मन्त्रः प्रयोगे ज्ञेयः। चतुर्भिः कलशैर्भूयस्ततस्ते द्विजपुङ्गवाः। स्नानं कुर्युः प्रसन्नाङ्गा दिव्याभरणभूषिताः॥ देवस्य त्वेति मन्त्रेण स्थितस्य कनकासने॥ चतुर्भिः कुण्डसमीपस्थैः कुर्युः कारयेयुः। मन्त्रः प्रयोगे। ततो हिरण्यगर्भं च तेभ्यो दद्याद्विचक्षणः। अत्रापि सर्त्विगाचार्याणां दानद्रव्यविभागस्तुलापुरुषवदवगन्तव्यः। ते पूज्याः सर्वभावेन बहवो वा तदाज्ञया। तत्रोपकरणं सर्वं गुरवे विनिवेदयेत्॥ पादुकोपानहच्छत्रचामरासनभाजनम्। ग्रामं वा विषयं वापि यच्चान्यदपि सम्भवेत्॥ विषयो ग्रामसमूहः। अन्यद्रत्नादि। ग्रामादिकं च तुलापुरुषवद् अत्रापि दक्षिणात्वेनान्वेति। अत्राप्यात्माऽलङ्कारं गुरवे दद्यात्। इति हिरण्यगर्भदानविधिः॥

अथैतत्प्रयोगः। देशकालौ सङ्कीर्त्यसकलकलिकलुषनिवृत्तिसम्भावितनरकनिमग्नपित्राऽऽदिपुरुषशतविविधवन्धु-पुत्रपौत्राऽऽदिसमुद्धरणपूर्वकसिद्धसंघसेवितत्वाऽप्सरोगणकरकलितचामरमालावीज्यमानत्वैकैकमन्वन्तरसमयावच्छिन्नसर्वलो-कपालपुरनिवासोत्तरकल्पकोटिशतावच्छिन्नब्रह्मलोकमहितत्वकामोऽहं श्वो हिरण्यगर्भदानं प्रतिपादयिष्ये इति प्रतिज्ञाय तुलापुरुषवद् गोविन्दोमापति विनायकपूजाविप्राज्ञाग्रहणमातृपूजाभ्युदयिकश्राद्ध-पुण्याहवाचनगुर्वादिवरणमधुपर्कदान-मण्डपपूजागुर्वादिविनियोगान्तं कुर्यात्। अत्र गुरुर्यजमानशाखीय एव। ततो गुरुर्वेद्यां षोडशोपरि स्थापिततिलद्रोणोपरि प्रागुक्तहिरण्यगर्भपात्रम् ऋत्विग्भिः सहानीय स्थापयेत्। ततः कुण्डमध्ये हैमं पद्मं निधाय कुण्डैकदेशं घृतक्षीराभ्यां पूरयित्वा कुण्डस्य वहिःपार्श्वयोर्दशाखण्डानि छुरिकां सूचीं हेम-

नालम् उपवेशनपट्टम आदित्यप्रतिमां नाभेरावरणवस्त्रं हैमोपवीतं दण्डं कमण्डलुमिति स्थापयेत्। ततः, ॐ हिरण्यगर्भायेति सपिधानं हिरण्यगर्भं पूजयेत्। कुण्डसमीपस्थं कुम्भस्थापनग्रहस्थापनादिपूर्णाहुत्यऽभिषेकान्तं तुलापुरुषत्। एवमभिषिक्तो यजमानः स्नातः शुक्लवस्त्रालङ्कारादियुक्तो गृहीतकुसुमाञ्जलिः प्राङ्मुखः पात्रमामन्त्रयेत्। नमो हिरण्यगर्भाय हिरण्यकवचाय च। सप्तलोकसुराध्यक्ष जगद्धात्रे नमो नमः॥ भूर्लोकप्रमुखालोकास्तव गर्भेव्यवस्थिताः। ब्रह्मादयस्तथा देवा नमस्ते विश्वधारिणे॥ नमस्ते भुवनाधार नमस्ते भुवनाश्रय नमो हिरण्यगर्भाय गर्भेयस्य पितामहः। यतस्त्वं भवभूतात्मा भूते भव्ये व्यवस्थितः। तस्मान्मामुद्धराशेषदुःखसंसारसागरात्॥ततः पात्रे पुष्पाञ्जलिं प्रक्षिप्य समङ्गलघोषं तत्र प्रविशेत्।गुर्वृत्विजस्तु पात्रं पिधानेनाच्छादयेयुः। यजमानस्तुतत्रोदङ्मुखो दक्षिणवाममुष्ट्योः क्रमाद्धर्मराजचतुर्मुखौ गृहीत्वा जान्वोःः शिरः कृत्वोच्छ्वासपञ्चकावच्छिन्नसमयमासीत्। ततो गुर्वादिर्यजमानस्य पितरौ तत्स्थानीयमन्यद्वा मिथुनमानीय तद्द्वाराऽधःपात्रगतरन्ध्रयोर्मध्ये दक्षिणरन्ध्रे शक्तिबीजेन दूर्वारसं सेचयेदिति गर्भाधानम्। पुंसवनस्य ध्यानमात्रम्। सीमन्ते गुर्वाद्यन्यतमः सोदुम्बरफलैरेकविंशतिकुशैरधःपात्रे काल्पनिकं सीमन्तं शक्तिबीजेनोन्नीय, ॐम् आ ते गर्भो योनिमिति प्रजावता सूक्तेन, अग्निरैत्विति जीवपुत्रेण च दूर्वारसं पूर्वोक्ते रन्ध्रआसिच्य ऋक्शाखीयादियजमानक्रमेण प्रागादिकुण्डे समस्तव्याहृतिभिरेकामाज्याहुतिं जुहुयादिति। इदमेवानवलोभनम्। सीमन्तोत्तरं व्यत्यनमुक्तम्। एवमुत्तरसंस्कारेष्वपि तत्र कुण्डेषु होमः। ततो गुरुः शुभलग्ने यजमानमुत्थाप्याश्वलायनयजमानस्य जातकर्मनामकरणाऽन्नप्राशनचौलोपनयनव्रतचतुष्टयानि कुर्यात्।

तत्रान्नप्राशने पायसभोजनम्॥ चौले मातुरुत्सङ्गोपवेशनाभाव इति नारायणः। उपनयने, अग्ने आयूँषीत्याद्याहुतिचतुष्टयवपनमेधाजननाऽऽदित्याय व्रतपतये बटुं ते परिददामीतिपरिदानाजिनमेखला-दण्डभैक्षचर्याव्रताचरणाभावः। एवं महानाम्न्यादिव्रतसमावर्त्तनविवाहेष्वाहुतिचतुष्टयाभावः। गायत्र्याः स्थाने तत्सवितुर्वृणीमहे वयं देवस्य भोजनम्। श्रेष्ठं सर्वस्वधातमं तुरं भगस्य धीमहीति ऋच उपदेशः। अन्यत्तुल्यम्। समावर्त्तनविवाहौ स्वयं यजमानः कुर्यात्। विवाहस्तु त्रिंशन्निष्कमूल्यसुवर्णघटितप्रतिमया सह। तत्राग्निपरिणयनसप्तपदीक्रमणध्रुवारुन्धतीदर्शनानि निवर्त्तन्ते। लाजाहोमस्तु स्रुचैव। अन्यत्तुल्यम्। श्राद्धं तु यजमान एव कुर्यात्। मदनदामोदरादयस्तु—पञ्चमहायज्ञाः कार्याः, न श्राद्धानवलोभनमित्याहुः। यजुःशाखीयानां तु जातकर्मादिषु प्राजापत्यमैन्द्रमाग्नेयं सौम्यं चत्वारि वेदव्रतानि निष्क्रमणं चोक्तम्। नामकरणं नोक्तमिति विशेषः। छन्दोगानां तु नामकरणमस्ति। अन्नप्राशनं नास्ति। गोदानव्रतं केशान्तव्रतम्। चत्वारि वेदव्रतानि चेति। अथर्ववेदे जातकर्मनिष्क्रमान्नप्राशनगोदानोपनयनसावित्रव्रतमेव सावित्रीव्रतम्। विसर्गसमावर्त्तनविवाहपञ्चयज्ञा उक्ताः। एतेषामनुष्ठानप्रकारस्तत्तच्छाखया बोध्यः। शिष्टास्तु सर्वेषां संस्काराणामनुध्यानमात्रं कुर्वन्ति। ततो यजमानो दशाखण्डादि गुरवेऽर्पयेत्। नमो हिरण्यगर्भायेत्यादिप्रागुक्तमन्त्रद्वयेन नमस्कुर्यात्। ततः कुण्डसमीपस्थकलशजलैर्देवस्य त्वेत्यादिना अद्यजातस्य तेऽङ्गानि अभिषेच्यामहे वयम्। दिव्येनानेन वपुषा चिरञ्जीव सुखी भवेति च मन्त्रेण कनकासनस्थं यजमानमभिषिञ्चेयुः। ततो देशकालौ सङ्कीर्त्य सकलेत्यादिमहितत्वकाम इत्यन्तमुक्त्त्वातिलद्रोणोपरिस्थमिदं हिरण्यगर्भपात्रं सवितानकं विष्णुदैवतं युष्मभ्यं

यथोक्तभागव्यवस्थया संप्रददे, न ममेत्युक्त्त्वा, पुनस्तथैव देशकालाद्युक्त्त्वैद्दानप्रतिष्ठासिद्ध्यर्थमिदं सुवर्णादिदक्षिणां गुर्वादिभ्यः संप्रदद इत्युक्त्त्वादीनानाथेभ्योऽपि यथाशक्ति दत्वा पुण्याहवाचनग्रहपूजाविसर्जनान्तं तुलापुरुषवत् सर्वं कृत्वाऽऽत्मालङ्कारादि गुरवे दद्यात्। इति हिरण्यगर्भप्रयोगः॥

अथ ब्रह्माण्डम्। मात्स्ये, अथातः संप्रवक्ष्यामि ब्रह्माण्डं विधिपूर्वकम्। यच्छ्रेष्ठं सर्वदानानां महापातकनाशनम्॥ पुण्यं दिनमथासाद्य तुलापुरुषदानवत्। ऋत्विङ्मण्डपसम्भारभूषणाच्छादनादिकम्॥ लोकेशाऽऽवाहनं तद्वदधिवासनकं तथा। कुर्यार्द्विशत्पलादूर्ध्वमासहस्राच्च शक्तितः॥ शकलद्वयसंयुक्तं ब्रह्माण्डं काञ्चनं बुधः। शकलः खण्डः। उक्तं च ब्रह्माण्डे, कुम्भच्छायो भवेद्यादृक् प्रतीच्यां दिशि चन्द्रमाः। उदितः शुक्लपक्षादौ वपुरण्डस्य तादृशम्॥ कुम्भच्छायो नाम ग्रीवाहीनकुम्भाभ इत्यर्थः। दिग्गजाष्टकसंयुक्तं षड्वेदाङ्गसमन्वितम्। लोकपालाष्टकोपेतं मध्यस्थितचतुर्भुजम्॥ शिवाच्युतार्कशिखरमुमालक्ष्मीसमन्वितम्। वस्वाऽऽदित्यमरुद्गर्भ महारत्नसमन्वितम्॥ वितस्तेरङ्गुलशतं यावदायामविस्तरम्। कौशेयवस्त्रसंवीतं तिलद्रोणोपरि न्यसेत्। तथाष्टादशधान्यानि समन्तात् परिकल्पयेत्॥ दिग्गजा ऐरावतपुण्डरीकवामनकुमुदाऽञ्जनपुष्पदन्तसार्वभौमसुप्रतीकाः। तल्लक्षणमादित्यपुराणे, सुश्रीभश्च चतुर्दन्तः श्रीमानैरावतो मतः। पुष्पदन्तो बृहत्सामा षड्दन्तः पुष्पदन्तवात्। सामान्यगजरूपेण शेषा दिककरिणः स्मृताः॥ षडङ्गानि, शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति। तल्लक्षणं, सूक्तानि ब्रह्मणो लोके साक्षसूत्राणि तानि तु। द्विभुजानि शुभास्यानि वामे दधति कुण्डिकाः॥ कुण्डिकाःकमण्डलून्। अर्थादक्षत्राणि दक्षिणकरे। तानि च

पश्चिमे। चतुरो वेदा इति वाक्यात्। अङ्गानि च वेदस्थाने, प्रधानं नीयमानं हि तत्राङ्गान्यपकर्षतीति न्यायात्स्थाप्यानि। लोकपालरूपाण्याह विश्वकर्मा— चतुर्दन्तगजारूढो वज्रपाणिः पुरन्दरः। शचीपतिः प्रकर्त्तव्यो नानाभरणभूषितः॥ पिङ्गभ्रूश्मश्रुकेशाक्षः पिङ्गाक्षो जठरोऽरुणः। छागस्थः साक्षसूत्रश्च सप्तार्चिः शक्तिधारकः॥ ईषत्पीतो यमः कार्यो दण्डहस्तो विजानता। रक्तदृक् पाशभृत् क्रुद्धो निर्ऋतिर्विकृताननः॥ पुंस्थितः खड्गहस्तश्च भूतवान् राक्षसैर्वृतः। वरुणः पाशधृक् सौम्यः प्रतीच्यां मकराश्रयः॥ धावद्धरिणपृष्ठस्थो ध्वजधारी समीरणः। दशाश्वरथगः सोमो गदापाणिर्वरप्रदः॥ पूर्वोत्तरे त्रिनेत्रश्च वृषभस्थस्त्रिशूलधृक्। कपालपाणिश्चन्द्रार्कभूषणः परमेश्वरः॥ उमारूपं देवीपुराणे, चतुर्भुजा द्विबाहुर्वाद्विनेत्रा वा त्रिलोचना। कुण्डलालङ्कृतार्द्धेन्दुशेखराऽऽभरणान्विता॥ गोरोचनानिभा गौरी स्वस्तिका नवयौवना॥ स्वस्तिका बाहुभ्यां कुचौ पिहितुं कृतस्वस्तिकाकारेत्यर्थः। गौरी च शिववामभागे। रूपनारायणीये तु अक्षसूत्रकमण्डलुधराऽभयहस्तेत्युक्तम्। लक्ष्मीरूपं, पाशाक्षमालिकाऽम्भोजसृणिभिर्याम्यसौम्ययोः। पद्मासनस्थां कुर्वीत श्रियं त्रैलोक्यमातरम्॥ गौरवर्णांसुरूपां च सर्वालङ्कारभूषिताम्। रौक्मपद्मकरब्यग्रां वरदां दक्षिणेन तु॥ ऊर्ध्वदक्षिणकरे पाशाक्षमाले। ऊर्ध्ववामे पद्माङ्कुशौ॥ अधोवामदक्षिणयोर्हैमपद्मवरमुद्रां दधतीति चतुर्हस्तैवेति दामोदरः। वसुरूपं, प्रसन्नवदनाः सौम्या वरदाः शक्तिपाणयः। पद्मासनस्था द्विभुजाः कर्त्तव्या वरदाः सदा॥ दामोदरीये निगमे, आयो ध्रुवश्च सौम्यश्च चरश्चैवानिलो नलः। प्रत्यूषश्च प्रभासश्च वसवो नामभिः स्मृता इति॥ पद्मासनस्था द्विभुजाः पद्मगर्भाभकान्तयः॥ करादिस्कन्धपर्यन्तं नील-

पङ्कजधारिणः॥ अधःसंस्थितमेषादिराशयः प्रावृताङ्घ्रिकाः॥ मेषादिराशिरूपं दामोदरीये, मेषवृषकर्कटसिंहवृश्चिकमीनाः स्वनामानुरूपाः। बाणाधरौ दम्पती मिथुनम्। करद्वयधृतसस्यमञ्जरी कुमारी कन्या। तुलाहस्तो नरस्तुला। मृगास्योऽश्वजघनो मकरः। घटशिरा नरः कुम्भः। प्रावृताङ्घ्रिकामोजाद्यच्छिन्नचरणा इति दामोदरः। इन्द्राद्या द्वादशादित्यास्तेजोमण्डलमध्यगाः। इन्द्रादिनामानि हरिवंशे। इन्द्रो विष्णुर्भगस्त्वष्टा वरुणोंऽशोऽर्यमा रविः॥ पूषा मित्रो यमश्चैवपर्जन्यो द्वादश स्मृता इति॥ मरुतस्तु धावत्कृष्णमृगारूढा वरदा ध्वजधारिणः॥ ऊनपञ्चाशत् शिवादिप्रतिमाः प्रागुक्ताः। अष्टादशधान्यानि प्रत्येकं द्रोणपरिमितानीति केचित्। पूर्वेणानन्तशयनं प्रद्युम्नं पूर्वदक्षिणे प्रकृतिं दक्षिणे देशे सङ्कर्षणमतः परम्॥ पश्चिमे चतुरो वेदाननिरुद्धमतः परम्। अग्निमुत्तरतो हैमं वासुदेवमतः परम्॥ समन्ताद् गुडपीठस्थानर्चयेत् काञ्चनान् बुधः। स्थापयेद्वस्त्रसंवीतान् पूर्णकुम्भान् दशैवतु॥ अनन्तशयनस्वरूपं विष्णुधर्मोत्तरे, देवदेवस्तु कर्त्तव्यः शेषसुप्तश्चतुर्भुजः। एकः पादोऽस्य कर्त्तव्यो लक्ष्म्युत्सङ्गगतः प्रभो॥ तथा करश्च कर्त्तव्यः शेषभोगाङ्कसंस्थितः। एकः करोऽस्य कर्त्तव्यस्तत्र जानौ प्रसारितः॥ कर्त्तव्यो नाभिदेशस्थस्तथा तस्यापरः करः। नाभिसम्भूतकमले सुखासीनः पितामहः॥ नाललग्नौ तु कर्त्तव्यौ पद्मस्य मधुकैटभौ। शङ्खचक्रगदादीनि मूर्त्तानि परितो न्यसेत्॥ प्रद्युम्नलक्षणं पञ्चरात्रादिषु, दक्षिणोर्ध्वकरे पद्मं दद्याच्छङ्खमधःकरे। चक्रमूर्ध्वेतथा वामे गदां दद्यात्तथा बुधः॥ चापेषुधृग्वा प्रद्युम्नो रूपवान् विश्वमोहक इति। प्रकृतिर्यद्यप्यव्यक्तरूपिणी, तथापि तत्स्थाने लक्ष्मीप्रतिमा निवेश्या। तदुक्तं मार्कण्डेयपुराणे, सर्वस्याद्या महालक्ष्मीस्त्रिगुणा परमेश्वरी।

मातुलिङ्गं गदां खेटं पानपात्रं च बिभ्रती। नाग लिङ्गं च योनिंच बिभ्रती नृप मूर्द्धनि॥ सङ्कर्षणरूपं विष्णुधर्मोत्तरे, वासुदेवस्य रूपेण कार्यःसङ्कर्षणः प्रभुः। स तु शुक्लवपुः कार्योनीलवासा यदूत्तमः॥ गदास्थाने च मुशलं चक्रस्थाने च लाङ्गलम्॥ वेदलक्षणं महाभूतघटे वक्ष्यते। तथा, कृष्णं चतुर्भुजं दक्षे शरखड्गौ तथोत्तरे॥ धनुःखेटधरं वीरमनिरुद्धं प्रचक्षत इति नारदीये॥अग्निप्रतिमा प्रागुक्ता। वासुदेवप्रतिमाऽपि नारदीये। वासुदेवः शिवः शान्तःसिताब्जस्थश्चतुर्भुजः। योगमूर्द्धार्द्धशङ्खश्च हृद्देशाऽर्पितहस्तकः॥ धारयेदुत्तरे चक्रं करे वै दक्षिणे गदामिति। एताश्च प्रतिमाः प्रकृतदानपरिमाणात् पृथक्कार्याः। एतान् गुडपीठस्थानर्चयेत्। पूर्णकुम्भान् स्थापयेदित्यत्र समन्तादित्यनुषञ्जनीयम्। तथा, दशैव धेनवो देयाः सहेमाम्बरदोहनाः। पादुकोपानहच्छत्रचामरासनदर्पणैः॥ भक्ष्यभोज्यान्नदीपेक्षुफलमाल्यानुलेपनैः। होमाधिवासनान्ते च स्नापितोवेदपुङ्गवैः। इममुच्चारयेन्मन्त्रं त्रिः कृत्वाऽथ प्रदक्षिणम्॥ सहेमाम्बरेति। हेमशृङ्ग्यः सवस्त्राः कांस्पदोहनाः। एताश्च दक्षिणार्थमुपकल्प्याः। भविष्ये तु, सुवर्णमेव दक्षिणार्थमुपकल्प्यमित्युक्तम्। इममुच्चारयेदिति। ब्रह्माण्डं त्रिः प्रदक्षिणीकृत्य मन्त्रं पठेत्। तत्र मन्त्रः प्रयोगे ज्ञेयः। एवं प्रणम्याऽमरविश्वगर्भं दद्याद्विजेभ्यो दशधा विभज्यभागद्वयं तत्र गुरोः प्रकल्प्यं समं भजेच्छेषमनुक्रमेण॥ समं भजेच्छेषमिति। गुरोर्भागद्वयं प्रकल्प्यावशिष्टभागाना मेकैकं भागं त्रेधा विभज्य चतुर्विंशतिसंख्येभ्य ऋत्विगादिभ्यः समे दद्यात्। दानवाक्यं तुलावदेव ज्ञेयम्। तथा, स्वल्पे च होमं गुरुरेक एवकुर्यादथैकाग्निविधानयुक्त्या स एव संपूज्यतमोऽल्पवित्तैर्यथोक्तवस्त्राभरणादिकेन॥ अत्र सहस्रपलपक्ष उत्तमस्तदर्द्धेन

मध्यमस्तदरर्द्धेनाधमपक्षे स्वल्पत्वं ज्ञेयम्। विंशतिपलनिर्मिते स्वल्पत्वमित्येके। एकाग्निविधाने प्रतीच्यां वृत्तं कुण्डमिति परिभाषायामुक्तम्। एक एव ऋत्विगष्टकं विनेत्यर्थः। इत्थं य एतदखिलं पुरुषोऽत्र कुर्याद्ब्रह्माण्डदानमधिगम्य महद्विमानमम् निर्धूतकल्मष विशुद्धतनुर्मुरारेरानन्दकृत्यदमुपैति सहाप्सरोभिः॥ सन्तारयेत् पितृपितामहपुत्रपौत्रबन्धुप्रियातिथिकलत्रशताष्टकं यः। ब्रह्माण्डदानशकलीकृतपातकोऽयमानन्दयेच्च जननीकुलमप्यशेषम्॥ इति ब्रह्माण्डदानम्॥

अथ प्रयोगः। यजमानो देशकालौ सङ्कीर्त्य सकलपातकक्षयपितृपितामहपुत्रपौत्रबन्धुप्रियातिथिकलत्रपुरुषशताष्टकतारण-विलीनसकलपातकाशेषमातृकुलपातकौगघशकलीकरणसन्तारणानन्दपूर्वकाऽप्सरः सङ्घसहितविमानकरणकमुरारिपद-प्राप्तिकामोऽहं श्वोब्रह्माण्डमहादानं प्रतिपादयिष्य इति सङ्कल्प तुलापुरुषदानवत् प्रारब्धोपवासो गोविन्दादिपूजादिमण्डपपूजाचार्यादिविनियोगान्तं विदध्यात्। तत आचार्योवेदिरचितषोडशारचक्रोपरिस्थतिलद्रोणोपरि ब्रह्माण्डं स्थापयेत्। एतत् प्रागादिदिक्षु दिग्गजाष्टकलोकपालाष्टकप्रतिमाः स्थापयित्वा पश्चिमायां वेदचतुष्टयतदङ्गषट्कप्रतिमाः स्थापयेत्। ब्रह्माण्डोपरिशिवोमाऽच्युतलक्ष्मीसूर्यप्रतिमां मध्ये चतुर्मुखप्रतिमां मध्यएवसमन्तादष्टत्रसुद्वादशादित्य मरुद्गणप्रतिमा नवरत्नानि चेति स्थापयित्वाकोशेयवस्त्रेण ब्रह्माण्डं वेष्टयित्वा प्रत्येकं द्रोणपरिमितान्यष्टादशधाभ्यानि परितो निधाय प्राच्यादिदिक्षु गुडपीठेष्वनन्तशयनप्रद्युम्नप्रकृतिसङ्कर्षणवेदचतुष्टयानिरुद्धाऽग्निवासुदेवप्रतिमाष्टकं च निधाय स्थापितब्रह्माण्डादिप्रतिमाः क्रमेण नाममन्त्रैरावाह्यार्चयित्वा परितो दशपूर्णकुम्भान् सवस्त्रान् स्थापयेत्। ततः पादुकोपानहच्छत्रचामरासनदर्पणभक्ष्यभोज्यफल-

माल्यदीपानुलेपनमन्त्रैः सह कांस्यदोहनादियुक्ता दशधेनूरुपकल्प्य ब्रह्माण्डोपरि वितानं बध्नीयात्। ततः कुण्डसमीपस्थं कुम्भस्थापननवग्रहस्थापनादिपूर्णाहुत्यभिषेकान्तं तुला पुरुषवत्। एवमऽभिषिक्तो यजमानः शुक्लवषोऽञ्जलिं बद्ध्वा ब्रह्माण्डंत्रिःप्रदक्षिणीकृत्य, नमोऽस्तु विश्वेशर विश्वधाम जगत्सवित्रे भगवन्नमस्ते। सप्तर्षिलोकाऽमभूतलेश गर्भेण सार्द्धं वितराभिरक्षाम् ॥ ये दुःखितास्ते सुखिनो भवन्तु प्रयान्तु पापानि चराचराणाम्। त्वद्दानशस्त्राहतपातकानां ब्रह्माण्डदोषाः प्रलयं व्रजन्त्विति पठेत्। ततो यजमानः पश्चिमत उपविश्य गोदशकेन सह ब्रह्माण्डं दशधाविभज्याचार्याय भागद्वयं भागाष्टकम् ऋत्विग्भ्यो दद्यात्। अद्याऽमुककाले सकलपातकक्षयकामइत्यन्तं सङ्कल्पवाक्यमुक्त्वा ब्रह्माण्डमेतावत्पलमितसुवर्णरचितं तिलद्रोणोपरि स्थापितमेतत्सर्वोपस्करयुतं युष्मभ्यं गुर्वृत्विग्भ्यःसंप्रदद इति गुर्वादिहस्तेषु जलं निक्षिपेत्। ब्राह्मणाश्च ब्रह्माण्डं स्पृष्ट्वा प्रतिगृह्णीयुः। ततः कृतैतद्ब्रह्माण्डदानप्रतिष्ठार्थमिदं हिरण्यमाग्नेयं ग्रामादि च गुरवे संप्रदद इति दद्यात्। ऋत्विगादिभ्योऽपि यथाशक्ति हिरण्यं दद्यात्। अल्पदेयद्रव्यत्वेगुरुरेव स्वशाखया पश्चिमायां वृत्तकुण्डे हवनादि कुर्यात्। ब्रह्मजापकादयोऽपि प्रयोगान्तरवत् कार्यान् ऋत्विजः। ततो ग्रहवेद्यां ग्रहादिपूजनादिविसर्जनान्तं गुरुः कुर्यात्। इत्येकाऽध्वर्युपक्षः। इति ब्रह्माण्डदानप्रयोगः॥

अथ कल्पतरुदानम्। मात्स्ये, कल्पपादपदानाख्यमतः परमनुत्तमम्। महादानं प्रवक्ष्यामि सर्वपातकनाशनम्॥ पुण्यंदिनमथासाद्य तुलापुरुषदानवत्। पुण्याहवाचनं कुर्याल्लोकेशाऽऽवाहनं तथा॥ ऋत्विङ्मडपसम्भारभूषणाच्छादनादिकम्। काञ्चनान्कारयेद्वृक्षान्नानाफलसमन्वितान्॥ नानाविहङ्ग-

वस्त्राणि भूषणानि च कारयेत्॥ नानाफलानि स्त्रीपुरुषगोगजवाजिमणिकनकरजतभक्ष्यफलादीनीति कोचत्। फलान्येवेत्यन्ये। शक्तितस्त्रिपलादूर्ध्वमासहस्रात्प्रकल्पयेत्। अर्द्धं क्लृप्तसुवर्णस्य कारयेत कल्पपादपम्॥ कल्पपादपदानार्थमुपक्लृप्तसुवर्णस्यार्द्धेन ब्रह्मादिप्रतिमासहितं कल्पपादपं कुर्यात्। द्वितीयार्द्धेतु चतुर्द्धा विभज्यैकैकभागेन स्वस्वदेवताप्रतिमासहितान् सन्तानादीन्कुर्यात्। गुडप्रस्थोपरिष्टाच्च सितवस्त्रयुगावृतम्। ब्रह्मविष्णुशिवोपेतं पञ्चशाखं सभास्करम्॥ प्रस्थो द्वात्रिंशत्पलः परिभाषायां दर्शितः। षोडशपलो वा। १० ब्रह्मादिप्रतिमाः प्राग्दर्शिताः। कामदेवमधस्ताच्च सकलत्रं प्रकल्पयेत्॥ विष्णुधर्मोत्तरे, कामदेवस्तु कर्त्तव्यो रूपेणाऽप्रतिमो भुवि॥ अष्टबाहुः प्रकर्त्तव्यः शङ्खपद्मविभूषितः॥ चापबाणकरश्चैवमदोदञ्चितलोचनः॥ रतिः प्रीतिस्तथा शक्तिर्भेदशक्तिस्तथोज्ज्वला। चतस्रस्तस्य कर्त्तव्याः पत्न्यो रूपमनोहराः॥ चत्वारश्च करास्तस्य कार्या भार्यास्तनोपगाः। केतौ च मकरः कार्यः पञ्चबाणमुखो महान् इति॥ दामोदरीये तु—चापेषुधृक्कामदेवो रूपवान् विश्वमोहक इत्युक्तम्। अधस्तादिति ब्रह्मादिभिरप्यन्वेति। सन्तानं पूर्वतस्तद्वत्तुरीयांशेन कल्पयेत्। तुरीयोंऽशोऽपरार्द्धस्य वर्त्तिना गुडप्रस्थोपरिगतत्वं सितवस्त्रयुग्मशाखापञ्चकफलान्वितत्वंचोक्तम्। मन्दारादिष्वापे वस्त्रयुग्माद्यन्बेति। मन्दारं दक्षिणे पार्श्वे श्रिया सार्द्धं घृतोपरि। पश्चिमे पारिजातं तु सावित्र्या सहजीरके॥ सुरभीसंयुतं तद्वत्तिलेषु हरिचन्दनम्। तुरीयांशेन कुर्वीत सौम्येन फलसंयुतम्॥ तुरीयांशेनेति मन्दारपारिजाताभ्यामप्यन्वेति। पञ्चाप्येते वृक्षाः। क्रमादश्वत्थनिम्बार्कपारिभद्रविल्वतरुतुल्याकाराः शिष्टाचाराद इति दामोदरः। श्रीप्रतिमोक्ताहिरण्यगर्भदाने। सावित्री तु ब्रह्माण्डे।

पद्मासना च सावित्री साक्षसूत्रकमण्डलुरिति उक्त्वा, सवत्सा सुरभी धेनुरागता प्रस्तुतस्तनीति सुरभीलक्षणम्। घृतादिकमपि प्रस्थपरिमितं ग्राह्यम्। कौशेयवस्त्रसंवीतानिक्षुमाल्यफलाऽन्वितान्। तथाष्टौ पूर्णकलशान् पादुकासनभाजनम्॥ दीपिकोपानहच्छत्रचामरासनसंयुतम्। फलमाल्ययुतं तद्वदुपरिष्टाद्वितानकम्॥ तथाष्टादशधान्यानि समन्तादुपकल्पयेत्॥ अशनभाजनं भोज्य पूरितभाजनम्। धान्यानि प्रत्येकं द्रोणपरिमितानि। होमाऽधिवासनान्ते च स्नापितो वेदपुङ्गवैः। त्रिः प्रदक्षिणमावृत्य मन्त्रमेतमुदीरयेत्। अधिवासनान्ते प्रातः पूर्णाहुत्यादि कर्मोत्तरं पुण्याहवाचने कृते कुण्डाभ्यासे कलशैः स्नापित इत्यर्थः। मन्त्रः प्रयोगे ज्ञेयः। एवमामन्त्र्य तं दद्याद् गुरवे कल्पपादपम्। चतुर्भ्यश्चापि ऋत्विग्भ्यः सन्तानादीन्प्रकल्पयेत्॥ कुण्डचतुष्टयसम्बन्धिभ्योऽष्टभ्य ऋत्विग्भ्यः सन्तानादींश्चतुरो दद्यादिति मदनः। चतुर्णामेवऋत्विजां मन्त्रवरणमिति हेमाद्यादयः। जापकादिभ्योऽन्यैवदक्षिणा देया। स्वल्पे त्वेकाग्निवत्कुर्याद् गुरोरेवाभिपूजनम्। न वित्तशाठ्यं कुर्वीत न च विस्मयवान् भवेत्॥ अनेन विधिना यस्तु महादानं निवेदयेत्। सर्वपापविनिर्मुक्तः सोऽश्वमेघफलं लभेत्॥ अप्सरोभिः परिवृतः सिद्धचारणकिन्नरैः। भुतान् भव्यांश्च मनुजान्तारयेद्रोमसंमितान्॥ स्तूयमानो दिवःपृष्ठे पुत्रपौत्रप्रपत्रवान्। विमानेनार्कवर्णेन विष्णुलोकं स गच्छति॥ दिवि कल्पशतं तिष्ठेद्राजराजो भवेत् ततः॥ नारायणबलोपेतो नारायणपरायणः। नारायणकथासक्तो नारायणपुरं व्रजेदिति॥ इतिकल्पपादपदानविधिः॥

अथप्रयोगः। यजमानो देशकालोच्चारणान्ते सर्वपापक्षयपूर्वकाऽश्वमेधफलप्राप्तिपितृपुत्रादिस्वरोमसंमितभूतभव्यस्वकीयपुरुष-

सन्तारणाप्सरःसिद्धचारणकिन्नरसेवितत्वसर्वस्तूयमानत्वविशिष्टार्कवर्णविमानकरणकविष्णुपुरगमनपूर्वककल्पशतावच्छिन्नका-लवैष्णवस्वर्गलोकनिवासपूर्वक—नारायणपरायणत्व—नारायणतुल्यबलत्व—नारायणकथासक्तत्वविशिष्ट—भूलोकराजत्वा-ऽनन्तर—नारायणपुरप्राप्तिकामः श्वःकल्पपादपमहादानं प्रतिपादयिष्य इति सङ्कल्प्य प्रारब्धोपवासो गोविन्दादिमण्डपपूजाचार्यादिविनियोगान्तं कुर्यात्। ततो गुरुः षोडशारयुतबद्धोपरिगुडप्रस्थं निधाय तदुपरि ब्रह्मविष्णुशिवभास्करप्रतिमाभिः सह पञ्चशाखं सितवस्त्रयुगाऽन्वितं कल्पवृक्षं मध्ये स्थापयित्वा गुडप्रस्थे सदारकामप्रतिमया सह निर्मितं सितवस्त्रयुगान्वितं सन्तानं पूर्ववत् स्थापयित्वा तथैव घृतप्रस्थोपरि श्रीप्रतिमान्वितं मन्दारं दक्षिणतः स्थापयित्वा पश्चिमे जीरकप्रस्थोपरि सावित्रीप्रतिमान्वितंपूर्णवत्पारिजातं स्थापयित्वोत्तरेतिलप्रस्योपरि सुरभीप्रतिमान्वितं हरिचन्दनं स्थापयित्वासर्वेषु माल्पफलादि स्थापेयत्। तथा प्राच्याद्यष्टदिक्षु कौशेयवस्त्रादियुक्तान्पूर्णकलशान्स्थापयित्वा पादुकोपानच्छत्रादिकं स्थापयित्वा प्रत्येकं द्रोणमितधान्यान्यपि निधाय वेद्यां वितानं च बद्ध्वा मन्त्रेण पञ्च पादपान् क्रमेण प्रतिष्ठाप्य ब्रह्मविष्णुशिवाऽर्कसहिताय कल्पपादपाय नमः। सदारकामसहिताय संतानाय, श्रीसहिताय मन्दाराय, सावित्रीसहिताय पारिजाताय, सुरभीसहिताय हरिचन्दनायेत्येवम्प्रकारेण यथासम्भवमावाहनाद्युपचारैः सम्पूज्य वितानं बध्नीयात्। ततः कुण्डसमीपकुम्भस्थापनग्रहादिस्थापनप्रभृतिपूर्णाहुत्यभिषेकान्तं तुलापुरुषवत्। एवमभिषिक्तो यजमानः शुक्लवेषो घृतपुष्पाञ्जलिः कल्पपादपं त्रिःप्रदक्षिणीकृत्य तत्पश्चिमत उपविश्य, नमस्ते कल्पवृक्षाय चिन्तितार्थप्रदायिने। विश्वम्भराय देवाय नमस्ते विश्वमूर्त्तये॥ यस्मात्त्वमेव विश्वात्मा

ब्रह्मा स्थाणुर्दिवाकरः। मूर्तामूर्तं परं बीजमतः पाहि सनातन॥ त्वमेवाऽमृतसर्वस्वमनन्तः पुरुषोऽव्ययः। सन्तानाद्यैरुपेतः सन् पाहि संसारसागरादित्युक्त्वा पुष्पाञ्जलिं क्षिप्त्वा नत्वा वेदिपश्चिमतः प्राङ्मुखोऽद्येत्याद्युक्त्वा सर्वपातकक्षयेत्यादिनारायणपुरप्राप्तिकाम इत्यन्त उच्चरिते, अमुकगोत्रायेत्यादिविशेषणविशिष्टमुच्चार्य, तुभ्यं गुरव इमं कल्पपादपं मूलदेशस्थापितब्रह्मविष्णुशिवभास्करप्रतिमं गुडप्रस्थोपरिस्थितं सितवस्त्रयुगान्वितं कोशेयसंवीतं कलशाष्टकेक्षुमाल्यफलपादुकासनभाजनदीपिकोपानच्छत्रादिसहितं सवितानं सम्प्रददे इति गुरुहस्ते जलं क्षिपेत्। गुरुश्च स्वस्तिशब्दपूर्वकं, देवस्य त्वेति प्रतिगृह्य कामस्तुतिं पठेत्। तत एतत्प्रतिष्ठार्थमिदं हिरण्यं ग्रामरत्नादिकं च दक्षिणां तुभ्यं गुरवे सम्प्रदद इति तानि दद्यात्। एवं पूर्वतो गुडप्रस्थोपरिस्थितं सदारकामप्रतिमान्वितमिक्षुमाल्यफलाद्युपकरणान्वितं सन्तानं तुभ्यं बह्वृवायर्त्विजंसम्प्रदद इति। ततो दक्षिणतो घृतप्रस्थोपरिस्थं मन्दारं श्रीयुतं यजुर्विहत्विजे पश्चिमायां जीरकस्थं सावित्रीप्रतिमाडन्वितं पारिजातं सामशाखिने। उत्तरतस्तिलमस्थोपरिस्थितं मूले सुरभीप्रतिमान्वितं हरिचन्दनमथर्वविदे दत्वा चतुर्भ्योऽपिसुवर्णग्रामरत्नादि शक्त्या दक्षिणां दद्यात्। जीपकादिभ्यः पृथग् दद्यात्। यद्वागुर्वादीन्सन्तोष्य तदनुज्ञयाऽन्येभ्योऽपि दद्यात्। तत आचार्यःपुण्याहवाचनान्ते पुनर्ग्रहादिपूजाङ्कारयित्वा पीठादिदेवताविसर्गं कुर्यात्॥ इति कल्पपादपदानविधिः॥

अथ गोसहस्रम्॥ मात्स्ये, अथातः सम्प्रवक्ष्यामि महादानमनुत्तमम्। गोसहस्रप्रदानाख्यं सर्वपापहरं शुभम्॥ पुण्यां तिथिमथासाद्य युगमन्वन्तरादिकम्। पयोव्रतं त्रिरात्रं स्यादेकरात्रमथाऽपि वा॥ लोकेशाऽऽवाहनं कुर्यात्तुलापुरुषदानवत्।पुण्याह-

वाचनं कुर्याद्धोमः कार्यस्तथैव च॥ ऋत्विङ्मण्डपसम्भारभूषणाऽऽच्छादनादिकम्। वृषं लक्षणसंयुक्तं वेदिमध्येऽधिवासयेत्॥ गोसहस्राद्विनिष्क्रम्य गवां दशकमेव वेत्यादि॥ पयोव्रतं दानात् पूर्वम्। वृषश्च पुष्टः सुरूपो नीरुग् ग्राह्यः। यत्तु कैश्चिद्, उन्नतस्कन्धककुदमुज्ज्वलायतकम्बलमित्यादीनि वृषोत्सर्गप्रकरणे मात्स्ये उक्तानि लक्षणानीत्युक्तम्। तत्र मूलं मृग्यम्। गोसहस्राद्विनिष्क्रम्येति दशोत्तरगोसहस्रादित्यर्थः। तथाच दशाधिकं गोसहस्रादित्यर्थः। तथाच दशाधिकं गोसहस्रं ज्ञेयम्। तत्राप्यधिवासनीयं गोदशकम्। सहस्रगोषु तु नावश्यं धेनुत्वादर इति विवेक इति केचित्। गोसहस्रं बहिःकुर्याद्वस्त्रमाल्यविभूषितम्। सुवर्णशृङ्गाभरणं रौप्यपादसमन्वितम्॥ बहिः कुर्यान्मण्डपाद्बहिरासादयेत्। अन्तःप्रवेश्य दशकं वस्त्रमाल्यैः प्रपूजयेत्। सुवर्णघण्टिकायुक्तं ताम्रदोहनिकान्वितम्॥ सुवर्णतिलकोपेतं हेमपट्टैरलङ्कृतम्। कौशेयवस्त्रसंवीतं माल्यगन्धविभूषितम्॥ हेमरत्नयुतैः शृङ्गैश्चामरैश्चापिशोभितम्। पादुकोपानहच्छत्रचामरासनसंयुतम्॥ सुवर्णघटिकेत्यत्र सुवर्णशब्दोऽशीतिगुञ्जापरिमितहेमपरः। सकृत् प्रयुक्तसुवर्णशब्दस्य तथैव प्रसिद्धेः॥ अत्रशृङ्गे दशसौवर्णिके। खुराः पञ्चपलाः। पञ्चाशत्पलं दोहनपात्रमित्यन्यत्रोक्तं ग्राह्यमिति केचित्। यथाशक्तीति परे। पादुकोपानहादिपञ्चकं प्रत्येकं गोदशकसमीपे स्थाप्यम्। गवां दशकमध्ये स्पात्काञ्चनो नन्दिकेश्वरः। कौशेयवस्त्रसंवीतो नानाभरणभूषितः॥ लवणद्रोणशिखरे माल्येक्षुफलसंयुतः। ऊर्ध्वस्त्रिनेत्रो द्विभुजः सौम्यास्योनन्दिकेश्वरः॥ वामे त्रिशूलभृद्दक्षे चाक्षमालासमन्वितः॥ उर्ध्व इति स्थित इत्यर्थः। कुर्यात् पलशतादूर्ध्वं सर्वमेतदशेषतः। शक्तितः पलसाहस्रत्रितयं यावदेव तु॥ साभरणनन्दिकेश्वरनिर्माणा

ऽर्थमेतद्धेमात्ममिति हेमाद्रौ। गोभूषणाद्यप्येतन्मध्य इति दानसागरादौ। गोशते वै दशांशेन सर्वमेतत् प्रकल्पयेत्। गोशताख्यं महादानं सप्तदशमिति दानसौख्ये॥ पुण्यं दिनमथासाद्य गीतमङ्गलनिस्वनैः। सर्वौषध्युदकस्नानस्नापितो वेदपुङ्गवैः॥ इममुच्चारयेन्मन्त्रं गृहीतकुसुमाञ्जलिः॥ मन्त्रः प्रयोगे ज्ञेयः। इत्यामन्त्र्य ततो दद्याद् गुरवेनन्दिकेश्वरम्। सर्वोपकरणोपेतं गोयुगं च विचक्षणः॥ ऋत्विग्भ्यो धेनुमेकैकां दशकाद्विनिवेदयेत्। गवां शतमथैकैकां तदर्द्धं वाऽथ विंतिशम्॥ दश पञ्चाऽथवा दद्यादन्येभ्यस्तदनुज्ञया। अन्ये ऋत्विज उदासीनाश्च विप्राः। सर्वपक्षेषु द्विगुणा गुरवेदेयाः। नैका बहुभ्यो दातव्या यतो दोषकरी भवेत्। बह्व्यस्त्वेकस्य दातव्याः श्रीमदारोग्यवृद्धये॥ श्रावयेच्छृणुयाद्वाऽपि महादानानुकीर्त्तनम्। तद्दिने ब्रह्मचारी स्याद् यदीच्छेद्विपुलां श्रियम्। अनेन विधिना यस्तु गोसहस्रप्रदो भवेत्। सर्वपापविनिर्मुक्तः सिद्धचारणसेवितः। विमानेनार्कवर्णेन किङ्किणीजालमालिना। सर्वेषां लोकपालानां लोके सम्पूज्यते नरैः। प्रतिमन्वन्तरं तिष्ठेत् पुत्रपौत्रसमन्वितः। सप्तलोकानतिक्रम्य ततः शिवपुरं व्रजेत्। शतमेकोत्तरं तद्वत् पितॄणां तारयेद्बुधः। मातामहानां तद्वच्च पुत्रपौत्रसमन्वितः॥ यावत्कल्पशतं तिष्ठेद्राजराजो भवेत्ततः। अश्वमेधशतं कुर्याच्छिवध्यानपरायणः॥ वैष्णवं योगमास्थाय ततो मुच्येत बन्धनादिति॥ इति गोसहस्रदानविधिः॥

अथ प्रयोगः। यजमानोऽधिवासनदिनात् पूर्वं त्र्यहमेकाहं दुग्धमात्राहारोऽधिवासनदिनेऽद्येत्यायुक्त्वा सकलपापक्षयानन्तर-सिद्धचारणसेवितत्वार्कवर्णसुवर्णकिङ्किणीजालमालिविमानारोहणोत्तरैकैकमन्वन्तराऽवच्छिन्नेन्द्रादिसकललोकपाललोकाऽधिकरणपुत्रपौत्रसमन्वितनिवासाऽमरकर्तृकपूजापूर्वकसप्तलोकातिक्रमणोत्तरपुत्र-

पौत्रसमन्वितशिवाऽऽलयगमनैकोत्तरशतपितृपितामहकुलतारणकल्पशतावच्छिन्नशिवपुरनेवासानन्तरराजराजभवनाऽश्वमेधशतकर्त्तृत्वशिवध्यानपरस्वविष्णुसादृश्यापन्नयोगस्थानहेतुकसंसारमोचनकामोऽहं गोसहस्रदानं श्वः प्रतिपादयिष्य इति संकल्प्य उपवासगोविन्दादिपूजादिमण्डपपूजाचार्यादिविनियोगान्तं कुर्यात्। ततो गुरुर्वेदिमध्ये षोडशारं विलिख्यपुष्पैरवकीर्य पूर्वोक्तं वृषं धेनुदशकं च वस्त्रमाल्यसुवर्णघण्टासुवर्णतिलकसुवर्णशृङ्गरौप्यखुरदोहनपात्रकौशेयवस्त्रपादुकोपानहच्छत्रचामरा-द्युपशोभितं वेद्याः परितः स्थापयेत्। मण्डपाद्बहिर्गोसहस्रं सुवर्णशृङ्गादिप्तहितं वा अधिवासयेत्। ततः सवृषगोदशकमध्ये षोडशारस्थललवणद्रोणोपरि कौशेयवस्त्रसंवीतं माल्येक्षुफलादिसंयुतं प्रागुक्तं नन्दिकेश्वरं स्थापयेत्। पूजयेत्। उपरि वितानं बध्नीयाच्च। ततः कुण्डसमीपस्थकुम्भस्थापनग्रहस्थापनपूर्णाहुत्यभिषकान्तं तुलापुरुषवत्। ततो यजमानः पश्चारिस्थत्वा पुष्पाण्यादाय सवृषं गोदशकं, नमो वो विश्वमूर्तिभ्यो विश्वमातृभ्य एव चलोकाधिवासिनीभ्यश्च रोहिणीभ्यो नमो नमः॥ गवामङ्गेषु तिष्ठन्ति भुवनान्येकविंशतिः। ब्रह्मादयस्तथा देवा रोहिण्यः पान्तु मातरः॥ गावो मे अग्रतः सन्तु गावो मे सन्तु पृष्ठतः। गावो मे हृदये नित्यंगवां मध्ये वसाम्यहम्॥ यस्मात्त्वंवृषरूपेण धर्म एवं सनातनः। अष्टमुर्तेरधिष्ठानमतः पाहि सनातन इत्यावाहयेत्। ततो वेदिपश्चिमभागे उपविश्य कुशतिलजलान्यादाय देशकालोच्चारणान्ते सकलपापक्षयानन्तरेत्यादिसंसारमोचनकाम इत्यन्ते संकल्पे उच्चारिते, एताः सुवर्णशृङ्गाद्यलङ्कृताः सवृषलवणद्रोणोपरिस्थितनन्दिकेश्वरसहिताः पादुकोपानहच्छत्रचामरासनसंयुताः सवत्ससुवर्णालङ्कृतधेनुदशकसहिताः सहस्रं गाः वितानाद्युपस्कारसहिताः अमुकामुकशर्मभ्यो गुर्वृत्विग्भ्योऽहं सं-

प्रदद इति दद्यात्। तेऽपि स्वस्तीत्युक्त्वा पुच्छेषु प्रतिगृह्य रुद्राय गामित्याद्युक्त्वा स्वकामस्तुतिं पठेयुः। दाता दानप्रतिष्ठार्थं तेषु दक्षिणां दद्यात्। सोपकरणनन्दिकेश्वरं प्रत्यक्षऋषभं धेनुदशकात् सोपकरणधेनुद्वयं गोसहस्राच्च शतद्वयं गुरवेदद्यात्। ऋत्विग्भ्यश्च दशकान्तर्गतानामेकामेकां गां गोसहस्राच्च प्रत्येकं शतमित्येकः पक्षः। जापकादीनामन्यैव दक्षिणा देया। ग्रामादिना सन्तोष्य यथेच्छं विभाग इति प्रागुक्तम्। ततः पुण्याहवाचनान्ते ग्रहपूजनतद्विसर्जनादि सर्वं प्रकृतिवद्भवेत्। श्रीकामस्तस्मिन् दिने दुग्धमात्राहारी ब्रह्मचारी च भवेत्। कर्मसागुण्यार्थं च यथाशक्ति ब्राह्मणान् भोजयेत्॥ इति श्रीमीमांसकभदृशङ्करात्मजभट्टनीलकण्ठकृते दानमयूखे गोसहस्रदानविधिः॥

अथ हिरण्यकामधेनुः। मात्स्ये, अथातः संप्रवक्ष्यामि कामधेनुविधिं परम्। सर्वकामप्रदं नॄणां सर्वपातकनाशनम्॥ लोकेशाऽऽवाहनं तद्वद्धोमः कार्योऽधिवासनम्। तुलापुरुषवत् कुर्यात् कुण्डमण्डपवेदिकाः॥ स्वल्पेष्वेकाग्निवत्कुर्याद्गुरुरेव समाहितः॥ कुण्डमण्डपेति गोविन्दपूजादिब्राह्मणभोजनान्तधर्माणामुपलक्षणम्। गुरुरेवेत्यृत्विङ्निषेधो, न जापकानाम्। काञ्चनस्यातिशुद्धस्य धेनुं वत्सं च कारयेत्। उत्तमा पलसाहस्रैस्तदर्द्धेन तु मध्यमा॥ कनीयसी तदर्द्धेन कामधेनुः प्रकीर्त्तिता॥ यद्यपि यौवनादिवत् सहस्राणां गणः साहस्रम्। बहुवचनेन च तद्वहुत्वे उक्ते नवसहस्रंपलानीति भाति, तथापि कल्पतर्वाद्यपकर्षवदुत्कर्षोऽपि तुल्य एवोचितः। उपनायनमितिवत् तु साहस्रमिति वृत्तानुरोधेन दैर्घ्यम्। पलपदस्यापि पूर्वनिपातेन पलसहस्रेणेत्यर्थः। रूपनारायणदामोदरादयोऽप्येवम्। पलसहस्राणीति क्वाचित्कः पाठोऽप्यमुमेवार्थं संवदति। शक्तितस्त्रिपलादूर्ध्वमशक्तोऽपि हि कारयेत्। गुडधेन्वा-

दिषु चतुर्थांशेन वत्सः स्यादित्यभिधानात्। अत्रापि सप्तसुवर्णचतुर्थांशेन वत्सः कार्य इति निबन्धकृतः। वेद्यां कृष्णाजिनं न्यस्यगुडप्रस्थसमन्वितम्। न्यसेदुपार तां धेनुं महारत्नैरलङ्कृताम्॥ कुम्भाष्टकसमोपैतां नानाफलसमन्विताम्॥ तथाष्टादशधान्यानि समन्तात्परिकल्पयेत्॥ इक्षुदण्डाष्टकं तद्वन्नानाफलसमन्वितम्। भाजनं चासनं तद्वत्ताम्रदोहनकं तथा॥ भाजनं भोजनपात्रम्। कौशेयवस्त्रद्वयसंवृताङ्गीं दीपातपत्राभरणाभिरामाम् सचामरां कुण्डलिनीं सघण्टां गणित्रिकापादुकरौप्यपादाम्॥ रसैश्च सर्वैः पुरतोऽभिजुष्टां हरिद्रया पुष्पफलैरनेकैः॥ कुण्डलिनीं कर्णयोः कुण्डलयुताम्। अजाजिकुस्तुम्बुरुशर्कराभिर्वितानकञ्चोपरि पञ्चवर्णम्। गणित्रिका अक्षमाला। दामोदरीये तु गोलात्रिकेति पाठः। पादकिङ्किणीति तदर्थः पादुकेति पादुकाःकाष्ठमय्यः। रौप्यं रौप्यालङ्कारः। तद्द्वयमपि पादेषु यस्याः सा। अजाजी जीरकम्। कुस्तुम्बुरुर्धान्याकम्। रसैर्मधुराम्लतिक्तकषायकटुलवणरसयुतैर्द्रव्यैः। स्नातस्ततो मङ्गलवेदघोषैः प्रदक्षिणीकृत्य सपुष्पहस्तः आवाहयेत्तां गुडधेनुमन्त्रैर्द्विजाय दद्यादथ दर्भपाणिः॥ आमन्त्र्य शीलकुलरूपगुणान्विताय विप्राय यः कनकधेनुमिमां मदद्यात्। प्राप्नोति धाम स पुरन्दरदेवजुष्टं कन्यागणैः परिवृतः पदमिन्दुमौलेः॥ विप्रायेत्येकवचनमेकाग्निपक्षे। जापकादिभ्योऽन्यैव दक्षिणा। अनेकाग्निपक्षे तुलापुरुषवत् पक्षत्रयमिति केचित्। पक्षद्वयेऽप्येकस्मै एवविप्रायेति तु युक्तम्। आमन्त्रणमन्त्रास्तु प्रयोगे ज्ञेया इति॥ हिरण्यकामधेनुदानविधिः॥

अथ प्रयोगः। तत्र यजमानोऽद्येत्याद्युक्त्वा सर्वपापक्षयपूर्वकरुद्रकन्यागणेन्द्रादिसेवितशिवपदप्राप्तिकामः श्वोहिरण्य-गर्भकामधेनुमहादानमहं प्रतिपादयिष्य इति संकल्प्य गोविन्दादिपूजादि-

गुर्वादिनियोगान्तं तुलादानवत् कुर्यात्। गुरुर्वेद्यांषोडशारं विरच्य तदुपरि कृष्णाजिनं प्राग्ग्रीवमुत्तरलोमकं न्यस्य तदुपरि गुडप्रस्थं च न्यस्य तदुपरि तुलत्रयाधिकयथाशक्तिहैमींकामधेनुं साऽलङ्कारां निर्माय तत्तुरीयभागनिर्मितं वत्सं स्तनाभिमुखदक्षिणादिगवस्थितं विधाय पञ्चरत्नालङ्कृतां कौशेयद्रव्यसंवीतां सौवर्णनूपुरद्वयग्रैवेयकसौवर्णकुण्डलद्वयघण्टापादकिङ्किणीकाष्ठपादुकाद्वयरौप्यपादचतुष्टयाभरणयुतां ताम्रदोहनान्वितां सचामरां धेनुं स्थापयित्वा तत्समन्ताद्वारिपूर्णकुम्भाष्टकं नानाफलानि अष्टादशधान्यानि इक्षुदण्डाष्टकं भोजनभाजनपीठदीपच्छ्त्रषड्रसद्रव्याणि हरिद्रां पुष्पाणि जीरकं धान्याकं शर्करादि स्थापयेत्। ततो वितानं बद्ध्वा प्रतिष्ठापूर्वकं नाममन्त्रेण यथाशक्त्युपचारैः पूजयेत्। उपरि वितानं च बघ्नीयात्। ततः कुण्डसमीपस्थकुम्भस्थापनपूर्णाहुत्यन्तम् अभिषेकान्तं तुलापुरुषवत्। एवमभिषिक्तो यजमानो गृहीतकुसुमाञ्जलिस्तां प्रदक्षिणीकृत्यउपविश्य, ॐ या लक्ष्मीः सर्वलोकानां या च देवेष्ववस्थिता। धेनुरूपेण सा देवी मम शान्तिं प्रयच्छतु॥ देहस्था या च रुद्राणी शङ्करस्य सदा प्रिया। धेनुरूपेण सा देवी ममपापं व्यपोहतु॥ विष्णोर्वक्षसि या लक्ष्मीः स्वाहा या च विभावसोः। चन्द्रार्कशक्रशक्तिर्या धेनुरूपाऽस्तु सा श्रिये॥ चतुर्मुखस्य या लक्ष्मीर्या लक्ष्मीर्धनदस्य च। लक्ष्मीर्या लोकपालानां सा धेनुर्वरदाऽस्तु मे॥ स्वधा या पितृमुख्यानां स्वाहा यज्ञभुजाञ्चया। सर्वपापहरा धेनुस्तस्माच्छान्तिं प्रयच्छतु, इति गुडधेनुमन्त्रैराबाह्य, ॐ त्वं सर्वदेवगणमन्दिरमङ्गभूता विश्वेश्वरि त्रिपथगोदधिपर्वतानाम् त्वद्दानशस्त्रशकलीकृतपातकौघः प्राप्तोऽस्मि निर्वृतिमतीव परां नमामि॥ लोके यथेप्सितफलानुविधायिनीं त्वामासाद्यको हि भवदुःखमुपैति मर्त्यः। संसारदुःखशमनाय

यतस्त्वकामं त्वां कामधेनुरिति देवगणा वदन्ति, इत्यामन्त्र्याद्येत्यादिकीर्त्तनान्ते सर्वपापक्षयपूर्वकरुद्रकन्यागणेन्द्रादिसेवितशिवपदप्राप्तिकामः स्वर्गकाम ईश्वरप्राप्तिकामो वा गुरवे पूर्वोक्तवत्सयवरत्नालङ्काराद्युपेतामिमां कामधेनुं तुभ्यं सम्प्रदद इति दद्यात्। ततः कृतैतद्दानप्रतिष्ठार्थंग्रामरत्नादि हिरण्यं वा सम्प्रददे, न ममेति वदेत्। ततः पुण्याहवाचनानन्तरं यजमानो ग्रहादि सम्पूज्य, यान्त्वित्यादिना विसर्जयेत्। मण्डपाद्युपकरणं गुरवे निवेदयेत्। कर्मसाङ्गतासिद्ध्यर्थं ब्राह्मणान् भोजयेत्॥ इति हिरण्यकामधेनुप्रयोगः॥

अथ हिरण्याश्वदानम्। मात्स्ये, अथाऽतः सम्प्रवक्ष्यामि हिरण्याऽश्वविधिं परम्। यस्य प्रसादाद्भुवनमनन्तं फलमश्नुते॥ पुण्यां तिथिमथासाद्य कृत्वा ब्राह्मणवाचनम्। लोकेशाऽऽवाहनं कुर्यात्तुलापुरुषदानवत्॥ ऋत्विङ्मण्डपसम्भारभूषणाच्छादनाऽऽदिकम्। स्वल्पेष्वेकाग्निवत् कुर्याद्धेमवाजिमखं ततः॥ स्थापयेद्वेदिमध्ये तु कृष्णाजिनतिलोपरि। कौशेयवस्त्रसंवीतं कारयेद्धेमवाजिनम्॥ शक्तितस्त्रिपलादूर्ध्वमासहस्रपलाद्बुधः। पादुकोपानहच्छत्रचामरासनभाजनम्॥ पूर्णकुम्भाष्टकोपेतं माल्येक्षुफलसंयुतम्। शय्यां सोपस्करां तद्वद्धेममार्त्तण्डसंयुताम्॥ मार्त्तण्डसंयुतामिति दीर्घपाठः, शय्याया विशेषणं चेति दामोदराद्याः। ह्रस्वपाठेन अश्वस्येति हेमाद्रिमदनौ। ततः सर्वौषधिस्नानस्नापितो वेदपुङ्गवैः इममुच्चारयेन्मन्त्रं गृहीतकुसुमाञ्जलिः॥ मन्त्रः प्रयोगे ज्ञेयः। एवमुच्चार्य गुरवे तमश्वं विनिवेदयेत्। गुरव इति ऋत्विजामप्युपलक्षणमिति रत्नाकरपारिजातयोः। गुरव एवेति वाचस्पतिमिश्राः। युक्तं चेदम्। उपलक्षणे मानाभावात्। दत्वा पापक्षयाद्भानोर्लोकमभ्येति शाश्वतम्। गोभिर्विभवतः सार्द्धम्

ऋत्विजः परिपूजयेत्॥ सर्वधान्योपकरणं गुरवे विनिवेदयेत्॥ इमं हिरण्याश्वविधिं करोति संवीज्यमानो दिविदेवतेन्द्रैः। विमुक्तपापः स पुरं मुरारेःप्राप्नोति सिद्धैरभिपूजितः सन्निति॥ इति हिरण्याश्वदानविधिः॥

अथ प्रयोगः। यजमानः, अद्येत्याद्युक्त्वा सकलदुरितनिवृत्तिसमनन्तर—शाश्वतसूर्यलोकप्राप्तिपूर्वक— देवतेन्द्रपूज्यमानताविशिष्टस्वर्लोकगमनोत्तरसिद्धपूजितत्वविशिष्टविष्णुलोकप्राप्तिकामः श्वो हिरण्याश्वमहं प्रतिपादयिष्य इति सङ्कल्प्य गोविन्दादिपूजनादिमण्डपपूजादिगुर्वृत्विगादिविनियोगान्तं सर्वे प्रकृतिवत् कुर्यात्। ततो गुरुः षोडशारचक्रं वेद्यां विलिख्य तदुपरि त्रिपलाधिकसहस्रपलपर्यन्तशक्त्यनुसारसुवर्णघटितं भास्करप्रतिमायुतं हेमवाजिनं कौशेयवस्त्रसंवीतं प्राङ्मुखं स्थापयित्वा समन्ताच्च पूर्णकुम्भाष्टकं पादुकोपानहच्छत्रचामरासनभोजनभाजनमाल्येक्षुफलान्यऽष्टादशधान्यानि च स्थापयित्वा सोपकरणां शय्यां च सन्निधापयेत्। शय्योपकरणानि च तूलिकोपधानप्रच्छादपटफलपुष्पकुङ्कुमकर्पूरागरुचन्दनताम्बूलदर्पणकङ्कतिकाचामरव्यजनासनासिपुत्रिकादीपिकोपानत्ताम्रघण्टिकाजलपात्रवितानाद्यानि। ततो भास्कराऽधिष्ठिताय हिरण्याश्वाय नम इति प्रतिष्ठापूर्वकं यथासम्भवोपचारैरभ्यर्थ्योपरि वितानं बध्नीयात्। ततः कुण्डसमीपस्थकुम्भस्थापनपूर्णाहुत्यभिषेकान्तं प्रकृतिवदेवमभिषिक्तो यजमानो गृहीतकुसुमाञ्जलिर्हिरण्याश्वं त्रिः परिक्रम्योपविश्य, नमस्ते सर्वदेवेश वेदाहरणलम्पट। वाजिरूपेण मामस्मात् पाहि संसारसागरात्॥ त्वमेव सप्तधा भूला छन्दोरूपेण भास्कर। यस्माद् भावयसे लोकानतः पाहि सनातनेत्यामन्त्र्य नमस्कृत्य अद्येति सकलेत्यादिप्रागुक्तसङ्कल्पान्ते इमं हिरण्या श्वं कृष्णाजिनोपरिन्यस्ततिलद्रोणोप-
.

रि स्थितं कौशेयवस्त्रसंवीतमुपर्यारूढमार्त्तण्डप्रतिमंशय्यामाल्येक्षुफलादिपूर्णकुम्भाष्टकसर्वोपस्करयुतममुकगोत्राय गुरवे सम्प्रदद इति तद्धस्ते जलं क्षिपेत्। दानप्रतिष्ठार्थं सुवर्णदक्षिणां सम्प्रदद इति दक्षिणां दत्वा ऋत्विगादिभ्यो गाः शय्याद्युपकरणं च गुरवे दत्वा पुण्याहवाचनादिग्रहविसर्जनाद्यन्तं कृत्वा ब्राह्मणान् भोजयेत्॥ इति हिरण्याश्वप्रयोगः॥

अथ हिरण्याश्वरथदानम्। मात्स्ये, अथातः सम्प्रवक्ष्यामि महादानमनुत्तमम्। पुण्यमश्वरथं नाम महापातकनाशनम्॥ पुण्यं दिनमथासाद्य कृत्वा ब्राह्मणवाचनम्। लोकेशाऽऽवाहनं तद्वत् तुलापुरुषदानवत्॥ ऋत्विङ्मण्डपसम्भारभूषणाच्छादनादिकम्। कृष्णाजिने तिलान् कृत्वा काञ्चनं कारयेद्रथम्॥ अष्टाश्वंचतुरश्वंवा चतुश्चक्रं सकूवरम्। ऐन्द्रनीलेन कुम्भेन ध्वजरूपेण संयुतम्॥ लोकपालाष्टकोपेतं पद्मरागदलाऽन्वितम्। तिला द्रोणमिताः। आभारात्रिपलादुर्ध्वं शक्तितः कारयेद् बुधः॥ भारः पलसहस्रद्वयम्। स्त्रियां तुला पलशतं भारः स्याद्विंशतिस्तुला इत्यभिधानात्। एतच्च सुर्वणमानकूबरध्वजपुरुषलोकपालाश्वचक्ररक्षकसहितस्येति निबन्धकृतः। कूवरो युगाधारकाष्ठम्। लोकपाललक्षणं ब्रह्माण्डे उक्तम्। चत्वारः पूर्णकलशा धान्यान्यष्टादशैव तु। कौशेयवस्त्रसंवीतमुपरिष्टाद्वितानकम्॥ माल्येक्षुफलसंयुक्तं पुरुषेण समन्वितम् पुरुषेणेष्टदेवताप्रतिमया समन्वितमघिष्ठितम्। छत्रचामरकौशेयवस्त्रोपानहपादुकाः। गोभिर्विभवतः सार्द्धं दद्याच्चशयनादिकम्॥ अश्वाष्टकेन संयुक्तं चतुर्भिरथवाजिभिः। द्वाभ्यामथ युतं दद्याद्धेमसिंहध्वजान्वितम्॥ अष्टाऽश्वं चतुरश्वंवेति काञ्चनाश्वपरम्। अष्टाश्वकेनेत्यादि तु प्रत्यक्षाश्वपरमिति भेदः। तत्राश्वद्वपक्षे हेममयसिंहाङ्कितध्वजयुक्तरथ इति

अवशिष्टपक्षद्वये काञ्चनाश्वोक्तेन्द्रनीलकुम्भाङ्कितध्वजयुक्तरथ इति व्यवस्था।यत्तु हेमाद्रौ। सप्ताश्वकेन संयुक्तमिति क्वचित् पाठः। सर्वपुस्तकविसंवादादुपेक्ष्यः। एतेन यत् केनचिदेतत्त्यागलम्बनेनोक्तम् अष्टाश्वमित्यनेन पौनरुक्त्याभावादुभयत्रापि हैमा एवाश्वा ग्राह्या, न क्वचिदपि स्वाभाविका इति। तदप्यपास्तम्।चतुर्भिरथवाजिभिरित्यस्य, चतुरश्वंवेत्यनेन पौरुक्त्यस्यापरिहाराच्च। चक्ररक्षावुभौ तस्य तुरगस्थावथाश्विनौ। चक्ररक्षौ चक्रसमीपस्थावश्विनौ कार्यौ। तल्लक्षणमुक्तं तुलायाम्। पुण्यकालं ततः प्राप्य पूर्ववत् स्नापितो द्विजैः। त्रिः प्रदक्षिणमावृत्त्य गृहीतकुसुमाञ्जलिः॥ शुक्लमाल्याम्बरो दद्यादिमं मन्त्रमुदीरयेत्॥ मन्त्रः प्रयोगे ज्ञेयः। इति तुरगरथदानमेतद्भवभयसूदनकारि यः करोति। स कलुषपटलैर्विमुक्तदेहः परममुपैति पदं पिनाकपाणेः॥ देदीप्यमानवपुषां विजितप्रभावमाक्रम्य मण्डलमखण्डलचण्डरश्मेः। सिद्धाङ्गनानयनषट्पदपीयमानवक्त्राम्बुजोऽम्बुजभवेन चिरं सहास्ते॥ इति हिरण्याऽश्वरथदानम्॥

अथ प्रयोगः। यजमानोऽद्येत्याद्युक्त्वा सकलकलुषपटलविमुक्तिभवभव्याभावपूर्वकपिनाकपाणिपरमपदप्राप्तिकामो देदीप्यमानस्ववपुःप्रभाविजितचन्द्रमण्डलाक्रमणसिद्धाऽङ्गनानयनषट्पद—पेपीयमानवदनाम्बुजत्वपूर्वकचिरकालब्रह्मसहवा- सकामो वा श्वोहिरण्याश्वरथमहादानमहं प्रतिपादयिष्य इति सङ्कल्प्य गोविन्दादिपूजागुर्वादिविनियोगान्तं प्रकृतिवत् कुर्यात्। ततो गुरुर्वेद्यांषोडशारचक्रादि विरच्य तत्र न्यस्तकृष्णाजिने द्रोणपरिमितान्तिलान् स्थापयित्वा तदुपरि प्रागुक्तकूवरध्वजपुरुषादिभिरष्टभिश्चतुर्भिर्वाऽश्वैः सह यथा सुवर्णघटितं चतुश्चक्रमिन्द्रनीलमयहेमध्वजयुतं, प्रत्यक्षाद्वयपक्षे, हेमसिंहाङ्कितध्वजसंयुतं प्रागादिदिगष्टकस्थितलोक-

पालाऽष्टकप्रतिमायुतं पद्मरागदलं सौवर्णस्वेष्टदेवताप्रतिमाऽधिष्ठितं चक्रसमीपस्थाश्वारूढचक्ररक्षकाश्विनीकुमारप्रतिमाद्वययुतं प्रागुक्तकुम्भधान्याद्युपेतं सवितानकं यथाशक्ति क्लृप्तगवीभिर्युतं प्रत्यक्षैरष्टाभिश्चतुर्भिर्वाश्वैर्द्वाभ्यां वा प्रत्यक्षाश्वाभ्यां युतं रथं स्थापयेत्। ततो हिरण्याश्वरथाय नम इति सम्पूज्योपरि वितानं वघ्नीयात्। ततः कुण्डसमीपस्थकुम्भस्थापनपूर्णाहुत्यभिषेकान्तं प्रकृतिवत्। एवमभिषिक्तो यजमानो गृहीतकुसुमाञ्जलिस्तं त्रिःप्रदक्षिणीकृत्य, नमो नमः पापविनाशनाय विश्वात्मने वेदतुरङ्गमायधाम्नामधीशायभवाय जेत्रे पापौघदावानल देहि शान्तिम्॥ वस्वष्टकाऽऽदित्यमरुद्गणानां त्वमेव धाता परमं निधानम्। यतस्ततो मे हृदयं प्रयातुधर्मैकतानत्वमघौघनाशाद्, इति मन्त्रमुक्त्वापुष्पाञ्जलिं प्रक्षिप्य नमस्कृत्य उपविश्याद्येत्याद्युक्त्वा सकलकलुषेत्यादिसङ्कल्पान्ते गुर्वृत्विग्भ्यो ब्राह्मणेभ्य इमं हिरण्याश्वरथं हैमाष्टाश्वं हैमचतुरश्वं वा सर्वोपस्करमहितमहं सम्प्रददे न ममेति तद्धस्ते पुनर्जलं क्षिपेत्। कृतैतद्दानप्रतिष्ठार्थंमतान् सुवर्णान् युष्मभ्यमहं सम्प्रदद इति वदेत्। अत्राप्यल्पद्रव्यत्वेएकाग्निविधानादिकं ज्ञेयम्। ततः पुण्याहवाचनदेवताविसर्जनान्तं कृत्वा प्रकृतिवद् ब्राह्मणान् भोजयेत्॥ इति हिरण्याश्वरथदानम्॥

अथ हेमहस्तिरथदानम्॥ मात्स्ये, अथातः सम्प्रवक्ष्यामि हेमहस्तिरथं शुभम्। यस्य प्रसादाद्भवनं वैष्णवं याति मानवः॥ पुण्यां तिथिमथासाद्य तुलापुरुषदानवत्। विप्रवाचनिकं कुर्याल्लोकेशाऽऽवाहनं बुधः॥ ऋत्विङ्मण्डपसम्भारभूषणाच्छादनादिकम्। अत्राप्युपोषितस्तद्वद्ब्राह्मणैः सह भोजनम्॥ कुर्यात् पुष्यरथाकारं काञ्चनं मणिमण्डलम्॥ वलभीभिर्विरच्य इति सङ्कल्प्य गोविन्दादिपुजादि मण्डपपूजादि गुर्वादिविनियोगान्तं तुलादान-

वत कुर्यात्। गुरुर्वेद्यांषोडशारं त्रिभिश्चक्रसमन्वितम् लोकपालाष्टकोपेतं शिवार्कब्रह्मसंयुतम्॥ मध्ये नारायणोपेतं लक्ष्मीपुष्टिसमन्वितम्। कृष्णाजिने तिलद्रोणं कृत्वा संस्थापयेद्रथम्॥ तथाऽष्टादश धान्यानि भाजनासनचन्दनैः। दीपिकोपानहच्छत्रदर्पणं पादुकान्वितम्॥ ध्वजे तु गरुडं कुर्यात् कूबराग्रे विनायकम्। नानाफलसमायुक्तमुपरिष्टाद् वितानकम्॥ कौशेयं पञ्चवर्णं च अम्लानकुसुमान्वितम्। चतुर्भिः कलशैः सार्द्धं गोभिरष्टाभिरन्वितम्॥ चतुर्भिर्हेममातङ्गैर्मुक्तादामविभूषितैः। स्वरूपतः करिभ्यां च युक्तं कृत्वा निवेदयेत्॥ कुर्यात् पञ्चपलादूर्ध्वमाभारादपि शक्तितः। तथा मङ्गलशब्देन स्नापितो वेदपुङ्गवैः॥ त्रिः प्रदक्षिणमावृत्यगृहीतकुसुमाञ्जलिः। इममुच्चारयेन्मन्त्रं ब्राह्मणेभ्यो निवेदयेत्॥ मन्त्रः प्रयोगे ज्ञेयः। इत्थं प्रणम्य कनकेन रथप्रधानं यः कारयेत् सकलपापविमुक्तदेहः विद्याधराऽमरमुनीन्द्रगणाऽभिजुष्टं प्राप्नोत्यसौ पदमतीन्द्रियमिन्दुमौलेरिति। पुष्परथः क्रीडारथः। स चोपर्याच्छादितो भवति। वलभ्यां लोकपालाश्रयाः। उपरितनलघुगृहाणीति दामोदरः। लोकपालशिवार्कब्रह्मलक्षणानि प्रागुक्तानि। नारायणप्रतिमा नारदपञ्चरात्रे। नारायणं चतुर्बाहुं शङ्खचक्रे तथोत्तरे। दक्षिणे तु गदापद्मं नीलजीमृतसन्निभम्। वामे श्रीवल्लकीहस्ता पुष्टिःपद्मकरा परे॥ उत्तरे शङ्खमधः। उपरि चक्रम्। दक्षिणे उपरि गदा, पद्ममध इति। वामे वामभागे। अपरे दक्षिणे भागे। गरुडस्तु। उपेन्द्रस्याग्रतः पक्षी गुडाकेशः कृताञ्जलिः। सव्यजानुगतो भूमौ मूर्द्धा च फणमण्डितः॥ पक्षिजङ्घोनरग्रीवस्तुङ्गनासो नराङ्गकः। द्विबाहुपक्षपुच्छश्च कर्त्तव्यो विनतासुत इति॥ विनायकोऽपि, चतुर्भुजस्त्रिनेत्रश्च कर्त्तव्योऽत्रगजाननः। नागयज्ञोपवीतश्च शशाङ्ककृतशेखरः॥

दन्तं दक्षकरे दद्याद्द्वितीये चाक्षसूत्रकम्। तृतीये परशुं दद्याच्चतुर्थे मोदकं तथेत्युक्त इत्यर्थः॥ पञ्चपलादिसुवर्णपरिमाणं ध्वजगरुडविनायकादिप्रतिमासहितस्य रथस्य। अत्राऽधिवासनं हेमहस्तिसहितरथस्यैव। स्वरूपहस्तिनोस्तु बहिरेव स्थापनम्॥ अथ प्रयोगः॥ यजमानो देशकालौ सङ्कीर्त्य सर्वपापक्षयानन्तरसम्भावितनरकनिवासयातनाऽभितप्तत्रासादि-सकलबन्धूद्धरणपूर्वकविष्णुशयनसमनन्तरस्वविष्णुपदप्राप्तिपूर्वकविद्याधराऽमेरन्द्रादिसेवितेन्दुमौलिपदप्राप्तिकामः श्वो हेम-हस्तिमहादानमहं प्रतिपादयिष्य इति संकल्प्य प्रकृतिवद् गोविन्दादिपूजामण्डपपूजागुर्वादिविनियोगान्तं सर्वंकुर्यात्। ततो गुरुवैद्यां षोडशारं विरच्य तदास्तीर्णकृष्णाऽजिनन्यस्ततिलद्रोणोपरिपलपञ्चकादाभारान्तं यथाशक्ति सुवर्णेन गजध्वजलोकपालशिवार्कब्रह्मनारायणादिप्रतिमाभिः सह निर्मितं हेमहस्तिचतुष्टययुतं गरुडाऽधिष्ठितध्वजा-ग्रन्थिविनायकाधिष्ठितकूवरं परितःस्थापितधान्याद्युपस्करं प्रत्यक्षगजद्वयोपेतं सवितानकं रथं स्थापयित्वा। ॐ हेमहस्तिरथाय नम इति सम्पूज्योपरि वितानं बध्नीयात्। ततः कुण्डसमीपस्थकुम्भस्थापनादिपूर्णाहुत्यऽभिषेकान्तं प्रकृतिवत्।एवमभिषिक्तो यजमानः सपुष्पाञ्जलिस्त्रिः प्रदक्षिणं प्रक्रम्य, नमो नमः शङ्करपद्मजार्कलोकेश—विद्याधरवासुदेवैः त्वं सेव्यसे वेदपुराणयज्ञतेजोमय स्यन्दन पाहि तस्मात्॥ यत्तत्पदं परमगुह्यतमं मुरारेरानन्दहेतुगुणरूपविमुक्तमन्तः। योगैकमानसदृशो मुनयः समाधौ पश्यन्ति तत्त्वमसि नाथ रथेन रूढः॥ यस्मात्त्वमेव भवसागरसम्प्लुतानामानन्दभाण्डभृतमध्वरपारमात्रम्। तस्मादधौधशमनेन कुरु प्रसादं चामीकरेभरथमाधवसम्प्रदानाद् इति मन्त्रैराबाह्य पुष्पाणि प्रक्षिप्य नमस्कृत्यवेदिपश्चिमभागे उपविश्य प्रागुक्तदानसङ्कल्पमुच्चार्य गुर्वृत्विग्भ्य इमं हस्तिरथं प्रागुक्त-

सकलोपस्करसहितं प्रत्यक्षगजद्वययुक्तं युष्मभ्यमहं सम्प्रदद इति गुर्वादिभ्यो दत्वा सुवर्णं दक्षिणां दद्यात्। विभागः प्राक्कृतः। स्वस्त्यादिवाचनादिविप्रभोजनान्तं प्राक्कृतम्। द्रव्याल्पत्वेन एकाग्निविधानमिति केचित्। इति हेमहस्तिरथदानम्॥

अथ पञ्चलाङ्गलदानम्। मात्स्ये, अथातः संप्रवक्ष्यामि महादानमनुत्तमम्। पञ्चलाङ्गलकं नाम महापातकनाशनम्॥ पुण्यां तिथिमथासाद्य युगादिग्रहणादिकीम्। भूमिदानं नरो दद्यात् पञ्चलाङ्गलकान्वितम्॥ खर्वटं खेटकं वापि ग्रामं वा सस्यशालिनम्। निवर्त्तनशतं वाऽपि तदर्द्धं वाऽपि शक्तितः॥ सारदारूमयान्कृत्वा हलान् पञ्च विचक्षणः। सर्वोपकरणैर्युक्ताँस्तथान्यान् पञ्च काननान्॥ कुर्यात् पञ्चपलादूर्ध्वमासहस्रपलावधि। वृषान्लक्षणयुक्तांश्चदशैव च धुरन्धरान्॥ सुवर्णशृङ्गाभरणान् मुक्तालाङ्गलभूषितान्। रौप्यपादाग्रतिलकान् रक्तकौशेयभूषणान्॥ स्रग्दामचन्दनयुतान् शालायामधिवासयेत्। पर्जन्यादित्यरुद्रेभ्यः पायसं निर्वपेच्चरुम्॥ एकस्मिन्नेवकुण्डे तु गुरुर्यस्मै निवेदयेत्॥ पालाशममिधस्तद्वदाज्यं कृष्णतिलाँस्तथा। तुलापुरुषवत् कुर्याल्लोकेशाऽऽवाहनं ततः॥ ततो मङ्गलशब्देन शुक्लमाल्याम्बरो बुधः। आहूय द्विजदाम्पत्यंहेमसूत्राङ्गुलीयकैः॥ कौशेयवस्त्रकटकैर्मणिभिश्चापि पूजयेत्। ततः प्रदक्षिणं कुर्याद्गृहीतकुसुमाञ्जलिः॥ इममुच्चारयेन्मन्त्रमथ सर्वंनिवेदयेत्॥ मन्त्रः प्रयोगे ज्ञेयः। सप्तहस्तेन दण्डेन त्रिंशद्दण्डानि वर्त्तनम्। त्रिभागहीनं गोचर्म मानमाह प्रजापतिः॥ मानेनानेन यो दद्यान्निवर्त्तनशतं बुधः। विधिनाऽनेन तस्याशु क्षीयते पापसंहतिः॥ तदर्द्धमपि यो दद्यादपि गोचर्ममात्रकम्। भवनस्थानमात्रं वा सोऽपि पापैः प्रमुच्यते॥ खर्वटादिलक्षणं मार्कण्डेये। सोत्सेधवप्रप्राकारं प्राकारं खातकावृतम्।

योजनार्द्धार्द्धविष्कम्भमष्टभागायतं पुरम्॥ तदर्द्धेन तथा खेटं तत्पादोनं च खर्वटम्॥ तथा शूद्रजनप्रापं सुसमृद्धकृषीवलम्। क्षेत्रोपभोगभूमध्ये वसतिग्रामसंज्ञिता॥ यावन्ति लाङ्गलविभागमुखानि भूमेर्भासांपतेर्दुहितरं गजरोमकाणि। तावन्ति शङ्करपुरे स समा हि तिष्ठेद् भूमिप्रदानमिह यः कुरुते मनुष्य इति॥

अथप्रयोगः। यजमानोऽद्येत्यादि सकलपातकक्षयानन्तरम् धर्वकिन्नरसुरासुरसिद्धशङ्घसेवितावधूतचामरविमानाधिष्ठान-पूर्वकस्वीयामरनायकत्वपूर्वकपितृपितामहादिबन्धुसहितशम्भुपुरगमनानन्तरैतद्देयभूलाङ्गमुखोत्कीर्णरजःसहितहलसम्बद्धवृषरोमसंख्यवर्षाऽवच्छिन्नशम्भुपुरनिवासकामःश्वःपञ्चलाङ्गलमहादानंप्रतिपादयिष्य इति कृतसंकल्पः प्रकृतिवद् गोविन्दादिपूजादिमण्डपपूजादिगुर्वादिविनियोगान्तं सर्वंकुर्यात्। ततो गुरुः षोडशारे सारदारुमयानि पञ्चहलानि युगपोत्ररज्जुफालतोदाद्युपाकरणयुतानि काञ्चनोपकरणसहितानि काञ्चननिर्मितानि पञ्चहलानि तूलीताम्बूलाद्युपकरणसहितां शय्यां गामेकां दोग्ध्रींपरितोऽष्टादशधान्यानि मण्डपार्द्धगोसहस्रोक्तलक्षणान् वृषान् सालङ्कारान् सोपस्करान्अधिवास्य वेद्युपरि वितानं बद्ध्वा, हलेभ्यो नम इति मन्त्रेण संपूज्य कुण्डाभ्यासे कलशस्थापनादिवनस्पतिपर्यन्तप्रधानहोमान्तं संपादयेत्। ततो गुर्वाज्ञया चतुर्णामन्यतम ऋत्विक् स्वकीये कुण्डे पर्ज्जन्यायाऽऽदित्यभ्यो रुद्राय जुष्टं निर्वपामीति तत्तद्देवतायै प्रत्येकं चरुं निरूप्य पयसि श्रपयित्वा तेन पालाशसमिद्भिः प्रणवाज्येन्श्यामतिलैश्च पर्जन्यादित्यरुद्रेभ्यस्तल्लिङ्गकैर्मन्त्रैः प्रत्येकमष्टाविंशतिर्जुहुयात्। तत्र ऋग्वेदिनाम् अत्था वदेति पर्जन्यमन्त्रः। एवं यजुर्वेदिनां शन्नो वातः पवताम्। सामगानां पर्जन्यः पिता महिषस्येति। आथर्वणानामभिक्रन्दत्प्रनगाद्रथोदधीति। आदित्य-

रुद्रयोस्तु मन्त्रास्तत्तच्छाखीयाःसामान्यप्रयोगे पूर्वमुक्ताः। ततः स्विष्टकृदाद्यभिषेकान्तम्। ततो यजमानः सपुष्पलाङ्गलानि त्रिः प्रदक्षिणीकृत्य, यस्माद्देवगणाः सर्वे स्थावराणि चराणि च। धुरन्धराङ्गेति मम तस्माद्भक्तिः शिवाऽस्तु मे॥ यस्मात्त्वद्भूमिदानस्य कलां नार्हन्ति षोडशीम्। दानान्यन्यानि मे भक्तिर्धर्म एव दृढा भवेदित्युक्त्वा पुष्पाणि हलेषु क्षिप्त्वा च वेदिपश्चिम उपविश्य सपत्नीकं गुरुमुपवेश्याद्येत्यादि प्रधानसंकल्पकीर्त्तनान्तेऽमुकगुरवे तुभ्यं भूमिसहितानि धुरन्धरवृषशय्यादिसर्वोपस्करसहितानि सुवर्णसारदारूमयान्युभयविधानि हलानि सम्प्रदद इति दद्यात्। दक्षिणां च। ऋत्विग्भ्योऽन्या दक्षिणा। स्वल्पेष्वेकाग्निविधानमिति केचित्। पुनः पुण्याहवाचनानन्तरपूजादेवताविसर्जनविप्रभोजनानि॥ इति पञ्चलाङ्गुलदानप्रयोगः॥

अथ धरादानं मात्स्ये। अथातः सम्प्रवक्ष्यामि महादानमनुत्तमम्। पापक्षयकरं नृृणाममङ्गल्यविनाशनम्॥ कारयेत् पृथिवीं हैमीं जम्बूद्वीपानुकारिणीम्। मर्यादापर्वतवतीं मध्ये मेरुसमन्विताम्॥ लोकपालाष्टकोपेतां नववर्षसमन्विताम्। नदीनदसमोपेतामन्ते सागरवेष्टिताम्॥ महारत्नसमाकीर्णां बसुरुद्रार्कसंयुताम्॥ हेम्नःपलसहस्रेण तदर्द्धेनाथ शक्तितः। शतत्रयेण वा कुर्याद् द्विशतेन शतेन वा॥ कुर्यात् पञ्चपलादूर्ध्वमशक्तोऽपि विचक्षणः॥ पलसहस्रादिमानं प्रतिमादिसहितायाः पृथिव्याः। तुलापुरुषवत् कुर्याल्लोकेशाऽऽवाहनं ततः। ऋत्विङ्मण्डपसम्भारभूषणाच्छादानादिकम्। वेद्यां कृष्णाजिनं कृत्वा तिलानामुपरि न्यसेत्॥ तथाष्टादश धान्यानि रसाँश्च लवणादिकान्। तथाष्टौ पूर्णकलशान् समन्ताव परिकल्पयेत्॥ वितानकं च कौशेयं फुलानि विविधानि च। इत्येवं रचयित्वा तामधिवासनपूर्वकम्॥

पुण्यं कालमथासाद्य॥ मन्त्राः प्रयोगे ज्ञेयाः। एवमुच्चार्यतां देवीं ब्राह्मणेभ्यो निवेदयेत्। धरार्द्धंवा चतुर्भागं गुरवे विनिवेदयेत्॥ शेषं चैवाथ ऋत्विग्भ्यः प्रणिपत्य विसर्जयेदिति॥ एकहस्तेन कर्त्तव्या चतुरस्रा सुशोभनेति हेमाद्रिरूपनारायणादिभिश्चतुरस्रोक्ता। त्रिकोणा दानसौख्ये दामोदरीये च। परिमण्डलेत्यन्ये। अनेन विधिना यस्तु दद्याद्धेमधरां शुभाम्। पुण्यकाले तु संप्राप्ते स पदं याति वैष्णवम्॥ विमानेनार्कवर्णेन किङ्किणीजालमालिना। नारायणपुरं गत्वा कल्पत्रयमसौ रमेत्॥ पुत्रपौत्रप्रपौत्राँश्च तारयेदेकविंशतिमिति। पृथिवीं हैमीं कुर्यादित्युक्ते सप्तद्वीपवत्याःकरणप्रसङ्गे, जम्बूद्वीपानुकारिणीमिति विशेषणम्। जम्बूद्वीपानुसादृश्येऽपि नानापर्वतसरोवराद्यन्वितानुकारित्वप्रसङ्गे मर्यादापर्वतवतीमित्युक्तम्। तावता मेरोरकरणप्रसङ्गे मध्ये मेरुसमन्वितामित्युक्तम्। जम्बूद्वीपलक्षणं विष्णुपुराणे। नववर्षं तु मैत्रेय जम्बूद्वीपमिदं मया। लक्षयोजनविस्तारं सङ्क्षेपात् कथितं तव॥ जम्बूद्विपं समावृत्यलक्षयोजनविस्तरः। मैत्रेय वलयाकारः स्थितः क्षीरोदधिर्वहिः॥ जम्बूद्वीपं समस्तानां द्वीपानां मध्यतः स्थितम्। तस्यापि मेरुर्मैत्रेय मध्ये कनकनिर्मितः॥ चतुराशीतिसाहस्रैयोजनैरस्य चोच्छ्रयः। प्रविष्टः षोडशाधस्ताद्द्वात्रिंशन्मूर्ध्नि विस्तृतः॥ मूले षोडशसाहस्रोविस्तारस्तस्य सर्वतः॥ तथा, मेरोश्चतुर्दिशं तत्र नवसाहस्रविस्तृतः। इलावृतं महाभाग चत्वारश्चात्र पर्वताः॥ विष्कम्भा रचिता मेरोर्योजनायतविस्तृताः॥ पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः। वैभ्राजः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्मृतः॥ मर्यादापर्वतास्तु ब्रह्माण्डे। जाठरो देवकूटश्च पूर्वस्यां दिशि पर्वतौ। तौ दक्षिणोत्तरायामावानीलनिषधायतौ॥ कैलासो हिमवांश्चैव दक्षिणे वर्षपर्वतौ। पूर्वपश्चायतावेतावर्णवा-

न्तर्व्यवस्थितौ॥ त्रिशृङ्गो जारधिश्चैव उत्तरे वर्षपर्वतौ। पूर्वपश्चायतावेतावर्णवान्तर्व्यवस्थितौ॥ निषधः पारिजातश्च पश्चिमे वर्षपर्वतौ। तौ दक्षिणोत्तरायामावानीलनिषधायतौ॥ इलावृतस्योभयपार्श्ववर्त्तिनौ नीलनिषधौ द्वौ पर्वतौ दैर्घ्येण लक्षयोजनौ। वर्षाण्यप्युक्तानि ब्रह्माण्डे। उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणे। एतद्वै भारतं नाम भारती यत्र सन्ततिः॥ भारतं प्रथमं वर्षं ततः किम्पुरुषं स्मृतम्। हरिवर्षं तथैवान्यंमेरोदक्षिणतो द्विज॥ रम्यकं चोत्तरे वर्षं तस्य चानु हिरण्मयम्। उत्तराः कुरवश्चैव यथा वै भारतं तथा॥ मेरोःपूर्वेण भद्राश्वं केतुमालं तु पश्चिमे। वर्षे द्वे तु समाख्याते तयोर्मध्यामिलावृतम्॥ नवसाहस्रमेतेषामेकैकं द्विजसत्तम॥

अथ प्रयोगः। कर्त्ताऽद्येत्याद्युक्त्वा सर्वपापाऽमङ्गलनिवृत्तिपितृपुत्राद्येकविंशतिस्वपुरुषोद्धारणपूर्वक—किङ्किणीजालमालि-सौवर्णविमानकरणक—नारायणपुरगमनानन्तरकल्पत्रयाऽवच्छिन्ननारायणपुरनिवासकामः श्वो धरामहादानमहं प्रतिपादयिष्य इति प्रधानसङ्कल्पादिषोडशारलिखनान्तं प्रकृतिवत्। तदुपरि कृष्णाऽजिनमास्तीर्य तत्र द्रोणमिताँस्तिलानासाद्य तदुपरि प्रागुक्तलक्षणां मेरोरुपरि पूर्वादिक्रमेण लोकपालाष्टकोपेतां महारत्नयुतां वसुरुद्रादित्यप्रतिमोपेतां धरां स्थापयेत्। तस्याश्च परितः प्रागुक्तधान्यकुम्भाष्टकोपेतनानाविधफलवासःप्रभृतीन् स्थापयेत्। धरायै नम इति पूजयेदुपरि वितानं बध्नीयाच्च॥ ततः कुण्डसमीपस्थ कुम्भस्थापनादिपूर्णाहुत्यभिषेकान्तं प्रकृतिवत्। एवमभिषिक्तो यजमानस्तां त्रिः प्रदक्षिणीकृत्य पुष्पाण्यादाय। ततः कुण्डसमीपस्थकुम्भस्थापनादिपूर्णाहुत्यभिषेकान्तं प्रकृतिवत्। नमस्ते सर्वभूतानां त्वमेव भवनं यतः। धात्री च सर्वभूतानामतः पाहि वसुन्धरे॥

वसु धारयसे यस्माद्वसु चातीव निर्मलम्। वरुन्धरा ततो जाता तस्मात् पाहि भयादलम्॥ चतुर्मुखोऽपि नो गच्छेद्यस्मादन्तं तवाऽचले। अनन्तायै नमस्तस्मात् पाहि संसारकर्द्दमात्॥ त्वमेव लक्ष्मीर्गोविन्दे शिवे गौरीति संस्थिता। गायत्री ब्रह्मणः पार्श्वे ज्योत्स्ना चेन्दौ रवौ प्रभा॥ बुद्धिर्बृहस्पतौ ख्याता मेधा मुनिषु संस्थिता। विश्वं प्राप्य स्थितायस्मात्ततोविश्वम्भरा स्मृता॥धृतिः स्थितिः क्षमा क्षोणी पृथ्वी वसुमती रसा। एताभिर्मूर्तिभिः पाहि देवि संसारसागरादित्यभिमन्त्र्य पुष्पाणि प्रक्षिप्य नत्वोदङ्मुखान् ब्राह्मणान् उपवेश्याऽद्येत्याद्युक्त्वासर्वपापेत्यादि नारायणपुरनिवासकाम इत्यन्तं प्रतिज्ञावद् उच्चार्य इमां कृष्णाजिनन्यस्ततिलोपरिविन्यस्तां पञ्चपलाऽधिकयथाशक्तिहेमसपरिकरनिर्मितां जम्बूद्वीपाऽनुकारिणीं मर्यादापर्वतमध्यमेरुनववर्षलोकपालाष्टकनदीनदशतयुतां सप्तसागरवेष्टितां फलधान्यवस्वादिप्रतिमाद्युपेतांधरां विष्णुदैवतां युष्मभ्यमहं सम्प्रदद इति दद्यात्। अर्द्धंतुरीयांशं वाऽऽचार्याय शिष्टम् ऋत्विग्भ्यः। प्रकृतिवद्विभाग इति केचित्। नृपकर्त्तृके दाने ग्रामादिदक्षिणा। अन्यकर्त्तृके तु यथाशक्ति सुवर्णम् स्वल्पे त्वेकाग्निविधानमिति केचित्। ब्राह्मणवाचनदेवतापूजनविसर्जनविप्रभोजनानि प्रकृतिवत्॥ इति धरादानप्रयोगः॥

अथ विश्वचक्रदानम्। मात्स्ये। अथातः सम्प्रवक्ष्यामि महादानमनुत्तमम्। विश्वचक्रमिति ख्यातं सर्वपापप्रणाशनम्॥ तपनीयस्य शुद्धस्य विषुवादिषु कारयेत्। श्रेष्ठं पलसहस्रेण तदर्द्धेन तु मध्यमम्॥ तस्यार्द्धेन कनिष्ठं स्याद्विश्वचक्रमुदाहृतम्। अन्यद्विंशपलादूर्ध्वमशक्तोऽपि निवेदयेत्॥ वक्ष्यमाणविश्वादिप्रतिमासहितस्य विश्वचक्रस्येदं मानम्॥ षोडशारं ततश्चक्रं भ्रमन्नेम्यष्टकाऽऽवृतम्॥ अरा नाभिस्पृष्टमूला नेमिस्पृष्टाग्राः शलाकाः। भ्रम-

न्तीनां वलयाकाराणां नेमीनां चक्रावयवानामष्टकेनावृतं वेष्टितमित्यर्थः। नाभिपद्मे स्थितं विष्णुं योगारूढं चतुर्भुजम्। नाभिपद्मे नाभिरूपाष्टदलपद्मकर्णिकायामित्यर्थः। अष्टसु दलेषु आवरणरूपदेवताष्टकस्य सन्निवेशात्। शङ्खचक्रेऽस्य पार्श्वे तु देव्यष्टकसमायुतम्। योगारूढं हृत्प्रदेशावस्थितसम्पुटाकारहस्तद्वयम्। अष्टौ देव्योऽपि पञ्चरात्रे। विमलोत्कर्षणी ज्ञाना क्रिया योगा तथैव च। प्रह्वीसत्यातथेशाना अष्टौ च परितो हरेः॥ वरदा दक्षहस्तेन वामहस्तधृतायुधाः। प्रशस्ततरुणीरूपा अष्टौ देव्यः प्रकीर्त्तिताः॥ दक्षो दक्षिण आयुधं चक्रमिति दामोदरः। द्वितीयावरणे तद्वत् पूर्वतो जलशायिनम् अत्रिर्भृगुर्वसिष्ठश्च ब्रह्मा कश्यप एव च॥ मत्स्यःकूर्मो वराहश्च नरसिंहोऽथ वामनः। रामो रामश्च कृष्णश्च बुद्धः कल्की च ते क्रमात्॥तृतीयावरणे गौरी मातृभिर्वसुभिर्युता। चतुर्थे द्वादशादित्या वेदाश्चत्वार एव च॥ पञ्चमे पञ्च भूतानि रुद्राश्चैकादशैव तु। लोकपालाष्टकं षष्ठे दिङ्मातङ्गास्तथैव च॥ सप्तमेऽस्त्राणि सर्वाणि माङ्गलानि च कारयेत्। अन्तरान्तरतो देवान् विन्यसेदष्टमे पुनः॥ तुलापुरुषवच्छेषं समन्तात् परिकल्पयेत्। कृष्णाजिने तिलादीनि धान्यवासःफलानि च॥ होमाधिवासनान्ते तु गृहीतकुसुमाञ्जलिः॥ होम इत्यादि। चक्राधिष्ठितविष्ण्वादिदैवत्यहोमविधानार्थः।

स च होमस्तत्तन्मन्त्रैर्नाममन्त्रैर्वा प्राकृतग्रहादिहोमोत्तरं कार्यः। आगन्तूनामन्ते निवेश इति केचित्। तन्न। एतस्य प्राकृतहोमाऽनुवादकतयाऽधिष्ठापकत्वाभावात्। इममुच्चारयेन्मन्त्रं त्रिः कृत्वाऽथ प्रदक्षिणम्। मन्त्रः प्रयोगे ज्ञेयः। इत्यामन्त्र्य तु यो दद्याद् विश्वचक्रं विमत्सरम्। विमुक्तः सर्वपापेभ्यो विष्णुलोके महीयते॥ वैकुण्ठलोकमासाद्य चतुर्बाहुः सनातनः। सेव्यतेऽप्सरसां सङ्घै-

स्तिष्ठेत् कल्पशतत्रयम्॥ प्रणमेद्वास्वयं कृत्वा विश्वचक्रं दिने दिने। तस्यायुर्वर्द्धते नित्यं लक्ष्मीश्च विपुला भवेत्॥इति सकलसुरासुराधिवासं वितरति यस्तपनीयषोडशारम् हरिभवनमुपागतः स सिद्धैश्चरमधिगम्य नमस्यते शिरोभिरिति॥ जलशायी ब्रह्माण्डदाने उक्तः। ऋषिरूपं पञ्चरात्रे। जटिलाः श्मश्रुलाः शान्ताः कृशा धमनिसन्तताः। कुण्डिकाक्षधराः कार्या ऋषयो द्विभुजाः सदा॥ धमनिः शिरा। कुण्डिका कमण्डलुः। अक्षोऽक्षमाला। मत्स्यादयः पञ्चरात्रे। वामे शङ्खं गदां दक्षे द्विभुजो मत्स्यरूपधृक्। नराङ्घिर्मत्स्यरूपोऽधो मत्स्यरूपी जनार्द्दनः॥ अघोऽङ्घ्रौ मत्स्यरूपं वेति विकल्पः। दामोदरस्तु उक्तायुधकर चरणादियुतपुरुषाकारेण केवलमत्स्याकारेण च विकल्पमाह। कूर्मस्तु कच्छपाकारान्मत्स्यरूपोक्तरूपवान्॥ मधुपिङ्गलवर्णं च चतुर्बाह्वायुधैर्वृतम्॥ नराङ्गं शुकरास्यं च मनाक्षीनं सुभीषणम्। श्रीर्वामकूर्परस्था तु धरानन्तौ पदानुगौ॥ एतद्रूपधरं देवं वराहं भुक्तिमुक्तिदम्॥ कूर्परं दंष्ट्राग्रमिति दामोदरः। ज्वलदग्निसमाकारं सिंहवक्त्रं नराङ्गकम्। दंष्ट्राकरालवदनं ललज्जिह्वं सुभीषणम्॥ वृत्तास्यं जटिलं क्रुद्धमालीढं पीनवक्षसम्। अभेद्यतीक्ष्णनखरमात्मसंहतदानवम्॥ तद्वक्षोदारयन्तं चकराभ्यां नखरैर्भृशम्। गदाचक्रधरं द्वाभ्यां नरसिंहं जगत्प्रभुम्॥ कुण्डीछत्रधरो द्विर्दोर्वामनः परिकीर्त्तितः। क्षत्रान्तकरणं घोरमुद्वहन् परशुं करे॥ जामदग्न्यश्च कर्त्तव्यो रामो रोषारुणेक्षणः॥ युवा प्रसन्नवदनः सिंहस्कन्धो महाबलः। आजानुबाहुः कर्त्तव्यो रामो बाणधनुर्द्धरः॥मद्यपात्रं च सीरं च वामदक्षिणयोः क्रमात्। गदामुसलवज्रं च हली रामः प्रकीर्त्तितः॥ मुसलरूपं वज्रमित्यर्थः। दक्षिणोर्ध्वाधःकरयोर्मद्यपात्रसीरे। वामयोर्गदामुसले इति चतुर्बाहू रामः। शङ्खचक्रधरः

श्यामो द्विभुजः कृष्णसंज्ञकः॥ काषायवस्त्रसंवीतः स्कन्धसंसक्तचीवरः। पद्मासनस्थो द्विभुजो ध्यायी बुद्धःप्रकीर्त्तितः॥ खड्गोद्यतकरः क्रुद्धो हयाऽऽरूढो महाबलः। म्लेच्छोच्छेदकरः कल्की द्विभुजः परिकीर्तितः॥

अथ विश्वचक्रप्रयोगः। अधिवासनदिने यजमान उपविश्याऽद्येत्यादिकीर्त्तनान्ते सकलपापक्षयानन्तरविष्णुलोकमहीयमानत्वविशिष्टवैकुण्ठलोकासादनपूर्वकचतुर्बाहुत्वसनातनत्वाप्सरःसङ्घसेव्यमानताविशिष्टकल्पत्रयाऽवधिकतदधिकरणकस्थितिकामोऽहं श्वोविश्वचक्रमहादानं प्रतिपादयिष्य इतिकृतसङ्कल्पः प्रकृतिवद्गोविन्दादिपूजादिमण्डपपूजादिगुर्वादिविनियोगान्तं सर्वं कुर्यात्। ततो गुरुर्वेद्यांषोडशारचक्रन्यस्तकृष्णाजिने स्थापितद्रोणमिततिलोपरि विश्वचक्रं संस्थाप्य तस्याष्टदलकर्णिकायां विष्णुपूर्वादिदलेषु विमला उत्कर्षणी ज्ञाना क्रिया योगा प्रह्वीसत्याईशाना इत्यष्टौ। द्वितीयावरणे षोडशकोष्ठेषु जलशाय्यत्रिभृगुवसिष्ठब्रह्मकश्यपमत्स्याद्यवतारदशकमिति प्रतिमाषोडशकम्। तृतीयाऽऽवरणे, गौरी ब्रह्माणी रौद्री कौमारी वैष्णवी वाराहीन्द्राणी कौशिकीत्यष्टौ, ध्रुवाध्वरसोमाऽऽप्यानिलनलप्रत्यूषप्रभासाख्यानष्टौ वसून्। चतुर्थावरणे धात्रर्यममित्रवरुणांशभगेन्द्रविवस्वत्पूषपर्जन्यत्वष्टृविष्ण्वाख्यद्वादशादित्यान्वेदचतुष्टयं च। पञ्चमे पञ्चभूतानि पृथिवीवरुणवह्निवायुविनायकाऽऽत्मकानि,वीरभद्रशम्भुगिरिशाऽजैकपादहिर्बुध्न्यपिनाकिभुवनाऽधीश्वरकपालिविशाम्पतिस्थाणुभगाख्यान एकादश रुद्राँश्च। षष्ठे यथाक्रमतो लोकपालाष्टकम्ऐरावत पुण्डरीकवामनकुमुदाऽञ्जनपुष्पदन्तसार्वभौमसुप्रतीक इति दिग्गजाष्टकम्। सप्तमे खड्गचक्रशक्तिपाशध्वजगदाशूलशङ्ख कौस्तुभचामरच्छत्रपूर्णकुम्भदीपवृषभरूपाणि स्वर्णखण्डानि।अष्टमे विष्णु-

देव्यऽष्टकजलशाय्यऽत्रिभृगुवसिष्ठब्रह्मकश्यपमत्स्यप्रतिमाषोडशकं स्थापयेत्। चक्रस्य समन्ताद् धान्यरसद्रव्यपूर्णकुम्भाष्टकवस्त्रमाल्येक्षुफलरत्नादीनि वितानकं च वध्नीयात्। ततो विश्वचक्राय नम इति पूजयेत्। ततः कुण्डसमीपे कलशस्थापनादिपूर्णाहुत्यभिषेकान्तं प्रकृतिवत्। प्राकृतग्रहादिहोमोत्तरं चक्राधिष्ठितविष्ण्वादिभ्यस्तत्तन्मन्त्रैर्नाममन्त्रैर्वाऽष्टाविंशत्यादिसंख्यया होमः कार्य इति केचित्। ततोऽभिषिक्तो यजमानो विश्वचक्रं त्रिःप्रदक्षिणीकृत्य, नमो विश्वमयायेति विश्वचक्रात्मने नमः। परमानन्दरूपा त्वं पाहि नः पापकर्द्दमात्॥ तेजोमयमिदं यस्मात् सदा पश्यन्ति योगिनः। हृदि तत्त्वं गुणातीतं विश्वचक्रं नमाम्यहम्॥ वासुदेवं स्थितं चक्रं चक्रमध्ये तु माधवः। अन्योन्याधाररूपेण प्रणमामि स्थिताविह॥ विश्वचक्रमिदं यस्मात् सर्वपापहरं परम्। आयुधं चाधिवासश्च भवादुद्धर मामत इति मन्त्रैरामन्त्र्य पुष्पाणि प्रक्षिप्य नमस्कृत्यवेदिपश्चिमत उपविश्य पूर्वोक्तं सकलेत्यादिमहासङ्कल्पमुक्त्वा इमं विश्वचक्रं विष्ण्वादिदेवताऽधिष्ठितं विष्णुदैवत्यं युष्मभ्यमहं संप्रदद इति दद्यात्। दानप्रतिष्ठार्थं सुवर्णम्दक्षिणाविभागः प्राक्कृतः। स्वल्पेष्वेकाग्निविधानमिति केचित्। पुण्याहवाचनदेवताविसर्जनब्राह्मणभोजनानि कुर्यात्॥ इति विश्वचक्रदानम्॥

अथ महाकल्पलतादानम्। मात्स्ये। अथातः संप्रवक्ष्यामि महादानमनुत्तमम्। महाकल्पलता नाम महापातकनाशनम्॥ पुण्यां तिथिमथाऽऽसाद्य कृत्वा ब्राह्मणवाचनम्। ऋत्विङ्मण्डप सम्भारभूषणाच्छादनादिकम्॥ तुलापुरुषवत् कुर्याल्लोकेशाऽऽवाहनादिकम्। चामीकरमयीः कुर्याद्दशकल्पलताः शुभाः॥ चामीकरं हेम। नानापुष्पफलोपेता नानांशुकविभूषिताः॥ पुष्पफलां-

शुकानि स्वरूपत इति केचित्। हैमानीत्यपरे। हैमलतायां स्वरूपतः पुष्पफलानां योगासम्भवात्तानि हैमानि। अंशुकानि तु कार्पासादीन्येव। हैमोपादाने तत्पदे लक्षणापत्तेरितितु युक्तं प्रतीमः। अत्र फलान्याऽऽम्राकाराणीति रूपनारायणः। कामनया पशुपुत्रादिरूपाणीति दामोदररत्नाकराऽऽदयः। विद्याधरसुवर्णानां मिथुनैरुपशोभिताः * हारानादित्सुभिः सिद्धैः फलानि च विहङ्गमैः॥ सिद्धाः पक्षिमुखाः किन्नराः। विहङ्गमाः पक्षिणो वेति दामोदरः। लोकपालानुसारिण्यः कर्त्तव्यास्तासु देवताः। ब्राह्मीमनन्तशक्तिं च लवणस्योपरि न्यसेत्॥ अधस्ताल्लतयोर्मध्ये पद्मशङ्खधरे उभे। इभासनस्था तु गुडे पूर्वतः कुलिशाऽऽयुधा॥ रजन्यजस्थिताग्नेयी स्रुवपाणिरथानले। याम्ये च महिषारूढा गदिनी तन्दुलोपरि॥ घृते च नैर्ऋती स्थाप्या खड्गा च दक्षिणाऽपरे। वारुणी वारुणीक्षीरे वृषस्था नागपाशिनी॥ पताकिनी च वायव्ये मृगस्था शर्करोपरि। सौम्या तिलेषु संस्थाप्या शङ्गिनी निधिसंस्थिता॥ माहेश्वरी वृषारूढा नवमी च त्रिशूलिनी। मौलिन्यो वरदास्तद्वत्कर्त्तव्या वालकान्विताः॥ मध्ये द्वे लते। अष्टदिक्ष्वष्टौ। मध्ययोरधो ब्राह्म्यनन्तशक्ती। अन्यासामधो लोकपालशक्तयः। इम ऐरावतः। रजन्यजो हरिद्राछागः। निधिः कलशाकारः। बालकान्विताः क्रोडस्थवालाः। शक्त्या पञ्चपलादूर्ध्वमासहस्रात्प्रकल्पयेत्। सप्रतिमादीनामेतन्मानम्। सर्वासामुपरिष्टाच्च पञ्चवर्णवितानकम्। धेनवो दशकुम्भाश्च वस्त्रयुग्मानि चैव हि॥ मध्यमे द्वे तु गुरखे ऋत्विग्भ्योऽन्यास्तथैव च॥ ततो मङ्गलशब्देन स्नातः शुक्लाम्बरावृतः। त्रिः प्रदक्षिणमावृत्यमन्त्रानेतानुदीरयेत्। मन्त्रः प्रयोगे ज्ञेयः। इति सकलदिगङ्गनाप्रदानं भवभयसूदनकारि यः करोतिअभिमत-

फलदेशनागलोके वसति पितामहवत्सराणि त्रिंशत्॥ पितृशतमथ तारयेद्भवाब्धेर्भवदुरितौघविनाशशुद्धदेहः। सुरपतिवनितासहस्रसंख्यैः परिवृतमम्बुजसंसदाभिवन्द्य इति॥

अथ प्रयोगः। अद्येत्यादि सकलपापक्षयविशुद्धदेहत्वपूर्वकदेवगणसहस्रपरिवृतब्रह्माभिनन्द्यपितृशतभवाब्धि-सन्तारणाऽनन्तरब्रह्मत्रिंशद्वत्सराऽवधिकामितफलदनागलोकनिवासकामः श्वः कल्पलतामहादानं प्रतिपादयिष्य इति सङ्कल्प्य प्रकृतिवद्गोविन्दादिपूजामण्डपपूजागुर्वादिविनियोगान्तं सर्वं कुर्यात्। ततो वेदिलिखितचक्रन्यस्तलवणकूटोपरि एकां लतां स्थापयित्वा तन्मूले ब्राह्मीं न्यसेत्। लवणकूट एवाऽपरां लतां स्थापयित्वा तन्मूलदेशे आनन्तीं शक्तिं पूर्वादिक्रमात्गुडहरिद्राछागतन्दुलघृतक्षीरशर्करातिलनवनीतस्थाऽष्टलतामूलेषु ऐन्द्य्रादिशक्तीःसंस्थाप्य परितो दश पूर्णकुम्भान्दश धेनूर्देश वस्त्रयुगानि फलमाल्यधान्यादीनि च विन्यस्य लतासहिताः शक्तीःप्रतिष्ठापूर्वकं पूजयित्वा ततः कुण्डसमीपस्थकलशस्थापनादिपूर्णाहुत्यभिषेकान्तं प्रकृतिवत्। एवमभिषिक्तो यजमानः कल्पलतास्त्रिः प्रदक्षिणमावृत्य, नमो नमः पापविनाशिनीभ्यो ब्रह्माऽण्डलोकेश्वरमालिनीभ्यः * आशंसिताधिक्यफलप्रदाभ्यो दिग्भ्यस्तथा कल्पलतावधूभ्यः॥ इमं मन्त्रमुच्चार्य पुष्पाणि प्रक्षिप्य नमस्कृत्य वेदिपश्चिमत उपविश्य महासङ्कल्पमुक्त्वा यथासम्भवं विशेषणवैशिष्ट्यमुच्चार्य दद्यात्। स्वल्पद्रव्यत्वपक्षे एकाग्निविधानमिति केचित्। पुण्याहवाचनदेवतापूजनविसर्जनमण्डपादिप्रतिपादनब्राह्मणभोजनादीनि। इति कल्पलतादानम्॥

अथ सप्तसागरदानविधिः। मात्स्ये। अथातः सम्प्रवक्ष्यामि महादानमनुत्तमम्। सप्तसागरकं नाम सर्वपातकनाशनम्॥ कारयेत् सप्तकुण्डानि काञ्चनानि विचक्षणः। प्रादेशमात्राणि तथा

रविमात्राणि वा पुनः॥ कुर्यात् सप्तपलादूर्ध्वमासहस्राच्च शक्तितः। संस्थाप्यानि च सर्वाणि कृष्णाजिनतिलोपरि॥ प्रथमं पूरयेत् कुण्डं लवणेन विचक्षणः। द्वितीयं पयसा तद्वत्तृतीयं सर्पिषा पुनः॥ चतुर्थं तु गुडेनैव दध्नापञ्चममेव च। षष्ठं शर्करया तद्वत्सप्तमं तीर्थवारिणा॥ स्थापयेल्लवणस्यान्तर्ब्रह्माणं काञ्चनं शुभम्। केशवं क्षीरमध्ये च घृतमध्ये महेश्वरम्॥ भास्करं गुडमध्ये च दधिमध्ये सुराधिपम्। शर्करायांन्यसेल्लक्ष्मीं जलमध्ये च पार्वतीम्॥ सर्वेषु सर्वरत्नानि धान्यानि च समन्ततः। तुलापुरुषवच्छेषमत्रापि परिकल्पयेत्॥ ततो वारुणहोमान्ते स्नापितो वेदपुङ्गवैः। त्रिः प्रदक्षिणमावृत्यमन्त्रानेतानुदीरयेत्॥ मन्त्राः प्रयोगे ज्ञेयाः॥ इति ददाति रसाऽमृतसंयुतान् शुचिरऽविस्मयवानिह सागरान्अमलकाञ्चनवर्णमयानसौ पदमुपैति हरेरमरार्चितः॥सकलपापविधौतविराजितः पितृपितामहपुत्रकलत्रकम्। पुत्रशतत्रयमिति वाचस्पतिमिश्रःपपाठ।पुत्रकलत्रकमिति रत्नाकरदामोदरादयः। नरकलोकसमाकुलमप्ययं झटिति सोऽपि नयेच्छिवमन्दिरम् इत्यादि। प्रादेशान्तिकमात्राणीति तिर्यगूर्ध्वम्॥ रत्निरङ्गुष्ठपर्वाणि प्रादेशः परिकीर्तितः। सार्द्धदशाङ्गुलःप्रादेश इति कल्पतरुः। ब्रह्मादिप्रतिमा ब्रह्माण्डदानादौ दर्शिताः॥

अथ प्रयोगः। यजमानोऽद्येत्यादि कलुषक्षयसम्भावितनरकनिवासपितृपितामहपुत्रकलत्रशिवमन्दिरनयनपूर्वकाऽमराऽमृत-त्वविशिष्टस्वीयहरिपदप्राप्तिकामः श्वःसप्तसागरमहादानमहं प्रतिपादयिष्य इति सङ्कल्प्य गोविन्दादिपूजादिमण्डपपूजागुर्वादिविनियोगान्तं प्रकृतिवत्। ततश्चक्रासादितकृष्णाजिनन्यस्ततिलद्रोणेहैमानि सप्तकुण्डानि संस्थाप्यक्रमेण लवणदुग्धघृतगुडदधिशर्करा-

तीर्थवारिभिः पूरयित्वा तेषु ब्रह्मकेशवमहेश्वरभास्करसुराधिपलक्ष्मीपार्वतीप्रतिमाः स्थापयेत्। परितोऽष्टादश धान्यानि वितानकं चोपरि सब्रह्मादीन्सागरान् पूजयेच्च। ततः कुण्डसमीपस्थकलशस्थापनादिवनस्पतिहोमान्तं प्रतिकुण्डमष्टाविंशत्यष्टोत्तरशताष्टोत्तरसहस्रान्यतमसंख्यया स्वस्वशाखीयैर्वारुणैर्मन्त्त्रैस्तिलान् हुत्वा स्विष्टकृदादिपूर्णाहुत्यभिषेकान्तं प्राकृतं कुर्युः। एवमभिषिक्तो यजमानः सागरान् त्रिःप्रदक्षिणीकृत्य, नमो वः सर्वसिन्धूनामाधारेभ्यः सनातनाः। जन्तूनां प्राणदेभ्यश्च समुद्रेभ्यो नमो नमः॥ क्षीरोदकाऽऽज्यदधिमाधुरलावणेक्षुरसाऽमृतेन भुवनत्रयजीवसंघान् आनन्दयन्ति वसुभिश्च यतो भवन्तस्तस्मान्ममाऽघविघातमलं विधध्वम्॥ यस्मात् समस्तभुवनेषु भवन्त एव तीर्थाऽमरासुरसुबद्धमणिप्रदानम्। पापक्षयोऽमृतविलेपनभूषणाय लोकस्य विभ्रति तदस्तु ममापि लक्ष्मीरिति मन्त्रैरनुमन्त्र्य पुष्पाणि प्रक्षिप्य नमस्कृत्य वेदिपश्चिमत उपविश्य देशकालकीर्त्तनान्ते सकलकलुषक्षयेत्यादिमहासङ्कल्पमुक्त्वा सप्तसागरान् ब्रह्मादिप्रतिमासहितान् सोपस्करान् विष्णुदैवतान् तुलापुरुषमत्स्यपुराणीयभागव्यवस्थया युष्मभ्यमहं संप्रददे न ममेति सुवर्णदक्षिणां दद्यात्। स्वल्पे त्वेकाग्निरिति केचित्। ततः पुण्याहवाचनग्रहादिपूजाविसर्जनब्राह्मणभोजनानि कुर्यात्। इति सप्तसागरदानविधिः॥

अथ रत्नधेनुदानविधिः॥ मात्स्ये, अथातः सम्प्रवक्ष्यामि महादानमनुत्तमम्। रत्नधेनुरिति ख्यातं गोलोकफलदं नृणाम्॥ पुण्यां तिथिमथासाद्य तुलापुरुषदानवत्। लोकेशाऽऽवाहनं तद्वत्ततो धेनुं प्रकल्पयेत्॥ भूमौ कृष्णाजिनं कृत्वा लवणद्रोणसंयुतम्। धेनुं रत्नमयीं कृत्वा सङ्कल्पविधिपूर्वकम्॥ स्थापयेत् पद्मगगाणामेकाशीतिमुखे विधिः। पुष्परागशतं तद्वद् घोणायां परि-

कल्पयेत्॥ ललाटे हेमतिलकं मुक्ताफलशतं दृशोः॥ भ्रूयुगे विद्रुमशतं शुक्ती कर्णद्वयोः स्थिते॥ काञ्चनानि च शृङ्गाणि शिरो वज्रशतात्मकम्। ग्रीवायां नेत्रपटकं गोमेदकशतात्मकम्॥ इन्द्रनीलशतं पृष्ठे वैडूर्यशनपार्श्वके। स्फाटिकैरुदरं तद्वत्सौगन्धिकशतात्कटिः। सौगन्धिकं पद्मरागः। सौगन्धिकं तु कह्लारे पद्मरागे च कत्तृण इति वैजयन्तीकोशात्॥ खुरा हेममयाः कार्याः पुच्छं मुक्तावलीमयमसूर्यकान्तेन्दुकान्तौ च घ्राणे कर्पूरचन्दनम्॥ कुङ्कुमानि च रोमाणि रौप्यां नाभिं च कारयेत्। गरुत्मतशतं तद्वदपाने परिकल्पयेत्॥ अथान्यानि च रत्नानि स्थापयेत् सर्वसन्धिषु। कुर्याच्छर्करया जिह्वां गोमयं च गुडात्मकम्॥ गोमूत्रमाज्येन तथा दधिदुग्धं स्वरूपतः। पुच्छाग्रे चामरं दद्यात् समीपे ताम्रदोहनम्॥ कुण्डलानि च हैमानि भूषणानि च शक्तितः। कारयेदेवमेवं तु चतुर्थांशेन वत्सकम्॥ तथा सर्वाणि धान्यानि पादाश्चेक्षुमयाः स्मृताः। नानाफलानि सर्वाणि पञ्चवर्णं वितानकम्॥ एवं विरचनं कृत्वा तद्वद्धोमाधिवासनम्। ऋत्विग्भ्यो दक्षिणां दद्याद्धेनुमामन्त्रयेद्बुधः॥ गुडधेनुवदामन्त्र्य इदं चोदाहरेत्ततः॥ मन्त्रः प्रयोगे ज्ञेयः। आमन्त्र्य चेत्थमभितः परिवृत्यभक्तो दद्याद् द्विजाय गुरवेजलपूर्वकां तासुयः पुण्यमाप्य दिनमत्र कृतोपवासः पापैर्विमुक्ततनुरेति पदं मुरारेः॥ इति सकलविधिज्ञो रत्नधेनुप्रदानं वितरति स विमानं प्राप्य देदीप्यमानम्। सकलकलुषमुक्तो बन्धुभिः पुत्रपौत्रैः सह मदनसरूपः स्थानमभ्येति शम्भोरिति॥

अथ प्रयोगः। अद्येत्यादि सकलकलुषक्षयमदनस्वरूपत्वपूर्वकबन्धुवर्गपुत्रपौत्रादिसहितवरविमानारोहणपूर्व कगोलोकप्राप्तिकामस्तद्वच्छम्भुपदप्राप्तिकामस्तद्वद्धारिपदप्राप्तिकामो वा श्वोरत्नधेनुमहादानमहं प्रतिपादयिष्य इति संकल्प्य प्रकृतिवद्गोविन्दादिपूजा-

मण्डपपूजागुर्वादिवियोगान्तं कृत्वा गुरुः षोडशारे कृष्णाजिनं प्रसार्य तदुपरि लवणं द्रोणमितं प्रसार्य तदुपरि रेखामयां प्राङ्मुखीं गामुदक्पादामालिख्य रत्नैरङ्गानि कुर्यात्। तत्र एकाऽशीतिपद्मरागैर्मुखम्। पुष्परागशतेन नासाग्रम्। ललाटं हेमतिलकम्। पञ्चाशन्मुक्ताफलैः प्रत्येकं दृशौ। विद्रुमशतेन विभज्य भ्रूयुगम्। शुक्तिभ्यां कर्णौ। काञ्चने शृङ्गे हीरकशतेन शिरः। गोमेदकशतान्वितेन नेत्रनामकपटेन ग्रीवाम्। वैडूर्यशतेन पार्श्वे। स्फटिकशतेनोदरम्। पद्मरागशतेन कटिम्। शक्तितो हेम्ना खुरान्। सूर्यकान्तकर्पूराभ्यां दक्षिणघ्राणपुटम्। चन्द्रकान्तचन्दनाभ्यां वामघ्राणपुटम्। कुङ्कुमेन रोमाणि। रूप्येण नाभिम्। गारुत्मतशतेनाऽपानम्। रत्नान्तरैः सर्वसन्धीन्। शर्करया जिह्वाम्। गुडो गोमये। आज्यं सूत्रे। चामरं पुच्छाग्रे। स्वरूपतो दधिदुग्धे सन्निधौ ताम्रप्रदोहनं सौवर्णकुण्डलग्रैवेयकादीनि स्थाप्यानि। एवं धेनुसाधनद्रव्यचतुर्थांशेन धेनोरुत्तरतः प्राङ्मुखमुदक्पादं वत्सं वरयेत्। दधिदुग्धदोहनानि च वत्से न सम्भवन्ति। समन्तादष्टादश धान्यानि फलपुष्पवस्त्रादीनि चासाद्य रत्नधेनवे सवत्सायै नम इति पूजयित्वा वितानं बध्नीयात्। ततः कुण्डसमीपस्थकलशस्थापनादिप्रकृतिवत्। एवमभिषिक्तो यजमानो रत्नधेनुं त्रिः प्रदक्षिणमावृत्योपतिष्ठेत्। मन्त्रास्तु। या लक्ष्मीः सर्वभूतानां या च देवे व्यवस्थिता। धेनुरूपेण सा देवी मम शान्तिं प्रयच्छतु॥ देहस्था या रुद्राणी शङ्करस्य च या प्रिया। धेनुरूपेण सा देवी मम पापं व्यपोहतु। विष्णोर्वक्षसि या लक्ष्मीः स्वाहा या च विभासौ। चन्द्रार्कशक्रशक्तिर्या धेनुरूपा च सा श्रिये॥ चतुर्मुखस्य या लक्ष्मीर्या लक्ष्मीर्धनदस्य च। लक्ष्मीर्या लोकपालानां सा धेनुर्वरदाऽस्तु मे॥ स्वधा या पितृमुख्यानां स्वाहा यज्ञभुजां

च या। सर्वपापहरा धेनुस्तस्माच्छान्तिं प्रयच्छ मे॥ त्वां सर्वदेवगणधाम यतः पठन्ति रुद्रेन्द्रचन्द्रकमलासनवासुदेवाः। तस्मात्समस्तभुवनत्रयदेवयुक्ते मां पाहि देवि भवसागरपीड्यमानमिति॥ ततः पुष्पाणि प्रक्षिप्यनमस्कृत्यवेदिपश्चिमत उपविश्याद्येत्यादिमहासंकल्पमुक्त्वाइमां रत्नधेनुं पद्मरागमुखां पुष्परागघोणां सुवर्णतिलकालङ्कृतां मुक्ताफलादिरचितनयनाऽऽद्यवयवोपेतां धेनुसाधनपद्मरागादिद्रव्यचतुर्थांशेन रचितवत्ससहितां परितः स्थापितधान्य पुष्पफलादिमतींविष्णुदैवतां गुरवेऽहं संप्रदद इति। एवं दद्यादिति भूपालरत्नाकरादयः। हेमाद्र्यादयस्तु एकाग्निविधान एकस्मै, अनेकाग्निपक्षे तु तुलापुरुषवद्विभाग इत्याहुः। सुवर्णं दक्षिणां दद्यात्। ततः स्वस्त्यादिवाचनग्रहादिपूजनविसर्जनब्राह्मणभोजनादि पूर्ववत्॥ इति रत्नधेनुदानप्रयोगः॥

अथ महाभूतघटदानविधिः। मात्स्ये। अथातः संप्रवक्ष्यामि महादानमनुत्तमम्। महाभूतघटं नाम महापातकनाशनम्॥ पुण्यं दिनमथासाद्य कृत्वा ब्राह्मणवाचनम्। ऋत्विङ्मण्डपसम्भारभूषणाच्छादनादिकम्॥ तुलापुरुषवत् कुर्याल्लोकेशाऽऽवाहनं तथा। कारयेत् काञ्चनं कुम्भं महारत्नचितं बुधः॥ महारत्नानि ब्रह्मोक्तानि। प्रादेशादङ्गुलशतं यावत्कुर्यात्प्रमाणतः। क्षीराज्यपूजितं तद्वत्कल्पवृक्षसमन्वितम्॥ पद्मासनगतांस्तत्रब्रह्मविष्णुमहेश्वरान्। लोकपालान सहेन्द्रांश्च स्ववाहनसमन्वितान्॥ वराहेण धृतां तद्वत् कृत्वा पृथ्वीं सपङ्कजाम्। वरुणं चासनगतं काञ्चनं मकरोपरि॥ हुताशनं मेषगतं वायुं कृतमृगासनम्। ऋग्वेदस्याक्षसूत्रं स्याद् यजुर्वेदस्य पङ्कञ्जम्॥ सामवेदस्य वीणा स्याद्धेनुं दक्षिणतोन्यसेत्। अथर्ववेदस्य पुनः स्रुक्स्रुवौ दक्षिणे करे। पुराणवेदो वरदः साक्षसूत्रकमण्डलुः॥ अत्र कल्पवृक्षप्रतिमाप्रादेशादिपरिमाणस-

हितघटसंपादकसुवर्णमानमार्थिकम्। परितः सर्वधान्यानि चामराऽऽसनदर्पणम्। पादुकोपानहच्छत्रभूषणाच्छादनादिकम्॥ शय्यां च जलकुम्भाँश्च पञ्चवर्णं वितानकम्॥ जलकुम्भाः षोडश। स्नात्वाऽधिवासनान्ते तु मन्त्रमेतमुदीरयेत्॥ मन्त्रः प्रयोगे ज्ञेयः। इत्युच्चार्य महाभूतघटं यो विनिवेदयेत्। सर्वपापविनिर्मुक्तः स याति परमां गतिम्॥ विमानेनार्कवर्णेन पितृबन्धुसमन्वितः। स्तूयमानो वरस्त्रीभिः पदं प्राप्नोति वैष्णवम्॥ पोडशैतानि यः कुर्यान्महादानानि मानवः। न तस्य पुनरावृत्तिरिह लोकेऽभिजायत इति॥

अथ प्रयोगः।अद्येत्यादि सकलपापक्षयपूर्वकपित्रादिसकलबन्धुजनसहिताऽमरस्त्रीसेव्यमानाऽर्कवर्णविमानकरणक—विष्णुपदप्राप्तिकामःश्वोमहाभूतघटमहादानमहं प्रतिपादयिष्य इति सङ्कल्प्य प्रकृतिबद्गोविन्दादिपूजामण्डपपूजागुर्वादिविनियोगान्तं कुर्यात्। गुरुः षोडशारे वज्रमौक्तिकमाणिक्यनीलमरकताख्यमहारत्नान्वितं तुल्याभ्यां गव्यदुग्धघृताभ्यां पूर्णं मध्यस्थापितकल्पवृक्षं घटाकारं महाभूतघटं स्थापयेत्। घटमध्ये ब्रह्मादिप्रतिमाः स्थापयित्वा चतुर्दिक्षु अष्टादश धान्यानि छत्रचामरभूषणशय्यादीनि षोडशजलकुम्भाँश्च सन्निधापयेत्। ततो, महाभूतघटाय नम इति सम्पूज्य वितानं बघ्नीयात्। ततः कुण्डसमीपस्थकुम्भस्थापनादिपूर्णाहुत्यभिषेकान्तं प्रकृतिवत्। एवमभिषिक्तो यजमानो महाभूतघटं त्रिः प्रदक्षिणमावृत्य, नमो वः सर्वदेवानामाधारेभ्यश्चराचरे। महाभूताधिदेवेभ्यः शान्तिरस्तु शिवं मम॥ यस्मान्न किञ्चिदप्यस्ति महाभूतैर्विना कृतम्। ब्रह्माण्डे सर्वभूतेषु तस्माच्छ्रीरक्षयाऽस्तु मे इत्युपस्थाय पुष्पाणि प्रक्षिप्य नमस्कृत्यवेदिपश्चिमत उपविश्याद्येत्याद्युक्त्वा महासङ्कल्पमुच्चार्य इमं महाभूतघटंमहारत्नचितमन्तःस्थितसौवर्णकल्पवृक्षादिपुराणवेदान्तप्रतिमासहितं परितः स्थापिताऽष्टादशधान्यछत्रचामरासन-

शय्यापूर्णकुम्भादिसहितं विष्णुदेवतं तुलापुरुषवत् त्रेधा। ततः पुण्याहवाचनग्रहादिपूजन—विसर्जनमण्डपादिप्रतिपादन —ब्राह्मणभोजनाशीर्वादग्रहणमङ्गलाचारादीनि॥इति महाभूतघटमहादानम्॥ इति श्रीमीमांसकभट्टशङ्करात्मजभट्टनीलकण्ठकृते दानमयूखे षोडशमहादानानि॥

अथ दश महादानानि। कौर्मे, कनकाऽश्वतिला नागादासी रथमहीगृहाः। कन्या च कपिला धेनुर्महादानानि वै दश॥ वह्निपुराणे। राम उवाच। क्रोधादिकं मया कर्म कृतं मुनिवरोत्तमाः। कथं तस्माद्विमुच्येऽहं पापात् प्राणिवधादिकात्॥ इत्युक्त्वा धर्मतत्त्वज्ञाः पापानां पावनं परम्॥ दानं चेह सुवर्णस्य ते तमूचुर्महर्षयः॥ व्यासः। सर्वान् कामान् प्रयच्छन्ति ये प्रयच्छन्ति काञ्चनम्। एतद्धि भगवानत्रिःपितामहसुतोऽब्रवीत्॥ नन्दिपुराणे। तस्मात् स्वशक्त्या दातव्यं काञ्चनं मानवैर्भुवि। नातः परतरं लोके सद्यः पापविमोचनम्॥ सुवर्णस्य सुवर्णस्य सुवर्णं यः प्रयच्छति। सर्वपापविनिर्मुक्तःस्वर्गलोके महीयते॥ आद्यसुवर्णशब्देन हिरण्यमुक्तम्। द्वितीयेन च शोभनवर्णत्वम्। तृतीयेन परिमाणविशेषः। सुवर्णद्वितयं दत्वा अक्षयां गतिमाप्नुयात्। दत्वा सुवर्णस्य शतं द्विजेभ्यः श्रद्धयाऽन्वितः। ब्रह्मलोकमनुप्राप्य ब्रह्मणा सह मोदते॥ सकृदुच्चरितसुवर्णशब्दस्य षोडशमाषविशिष्टहेमवाचितेति प्रागुक्तम्। सुवर्णदाने देयसुवर्णस्य तृतीयश्चतुर्थोवांशो दक्षिणेति पूर्वं परिभाषायामुक्तम्। रजतमिति केचित्। दानमन्त्रः। हिरण्यगर्भगर्भस्त्वं हेमवीजं विभावसोः। अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे॥ कौर्मे। पलैकं द्विगुणं वाऽपि त्रिगुणं शक्त्यनुक्रमात्। कनकं स्यात् सुवर्णेन द्वाभ्यां त्रिभिः सदक्षिणम्॥ यत्नादधो वा तत् कुर्याद्दक्षिणा स्याद्

यथारुचि॥ इति सुवर्णदानम्॥

आदित्यपुराणे। आदित्योदयसम्प्राप्तौ विधिमन्त्रपुरस्कृतम्। ददाति काञ्चनं यो वै दुःस्वप्नंप्रतिहन्ति सः॥ ददात्युदितमात्रे यस्तस्य पाप्मा विलीयते॥ वायुपुराणे। गुञ्जागुञ्जार्द्धमात्रं वा नियतः प्रतिवासरम्। कनकं न्यस्य लिङ्गं तु व्रजेत्तत्पदमुत्तमम्॥

ब्रह्माण्डे। शृणुष्वावहितो दानं ब्रवीमि तब नारद। शतमानमिति प्रोक्तं सर्वपापप्रणाशनम्॥ आयुष्यं श्रीकरं पुण्यम्आरोग्यं सन्ततिप्रदम्। भुक्तिमुक्तिप्रदं स्वर्ग्यं सर्वमङ्गलकारणम्॥ पुण्यकालेषु सर्वेषु चन्द्रसूर्यग्रहादिषु। नित्यं वा कारयेद् दानं जन्मर्क्षेषु विशेषतः॥ पुण्यदेशेषु सर्वेषु गृहे देवालयेषु च। यत्र साधनसम्पत्तिस्तत्र दानं समाचरेत्। तथा, गव्येन भूमिंशकृताजलेन आलिख्य मध्ये सिततन्दुलैश्च सरोरुहं सुन्दरकेसराढ्यं सकर्णिकं चाष्टदलं विलिख्य॥ तस्मिन् हिरण्यं शतमानपात्रं निधाय तस्योपरि तं विचिन्त्य। ब्रह्माणमीशं कमलासनस्थमाराध्यगन्धादिभिरादरेण॥ विप्रंतथा वेदविदांवरिष्ठं विचिन्त्यबुद्ध्या तु समर्चयित्वा। दद्यात् सुवर्णं शतमानमस्मै सम्प्रीयतामात्मभूरित्युदीर्य्य। शतमानं शतकृष्णलमाषाद्युन्मितम्॥ इति शतमानदानम्॥

अथ रजतदानम्॥ स्कान्दे। यः प्रयच्छति विप्राय रजतं चाऽपि निर्मलम्। स विधूयाऽऽशु पापानि स्वर्गलोके महीयते॥ रूपवान् सुभगःश्रीमानिह लोकेषु जायत, इति रजतदानम्॥

अथाश्वदानं स्कान्दे। अश्वं यस्तु प्रयच्छेद्वै हेमचित्रं सुलक्षणम्। स तेन कर्मणा देवि गान्धर्वंलोकमश्नुते॥ भारते। सर्वोपकरणोपेतं युवानं दोषोवर्जितम्। योऽश्वं ददाति विप्राय स्वर्गलोके महीपते॥ तथा, यावन्ति रोमाणि हये भवन्ति हि नरेश्वर। तावतो वाजिदा लोकान् प्राप्नुवन्तीह पुष्कलान्॥ कालिका-

पुराणे। अश्वं वा यदि वा युग्यं शोभने चाऽथ पादुके। ददाति यः प्रधानं वै ब्राह्मणेभ्यः सुसंयतः। तस्य दिव्यानि यानानि स्थाध्वजपताकिनः। दुष्टः पन्था नचैवेह भविष्यात कदाचन॥ अत्र दिव्ययानस्य दुष्टपथावरहसम्पत्तिर्यथाक्रमं प्रत्येकं फलं ज्ञेयम्। कौर्मे। अश्वंतन्मूल्यमथवा कनीयो मध्यमोत्तमम्। दद्याद् वित्तानुसारेण तारागणपरिच्छदम्॥ शफैः पञ्चपलै रौप्यैः सुवर्णालङ्कृतं क्रमात्। सदक्षिणं सवस्त्रं च ब्राह्मणायाग्निहोत्रिणे॥ तारागणस्तारानुकार्यलङ्कारः। दानमन्त्रः—उच्चैःश्रवास्त्वमश्वानां राज्ञां विजयकारकः। सूर्यवाह नमस्तुभ्यमतः शान्तिं प्रयच्छ मे॥

अथ श्वेताश्वदानम्॥ गारुडे। अश्वमेधमखं यस्तु कलौ कर्तुमनीश्वरः। अश्वदानं तु तेनेह कर्त्तव्यं विधिपूर्वकम्॥ विधि तस्य प्रवक्ष्यामि ब्रह्मणा निर्मितं पुरा॥ श्वेतमश्वं शुभं तात हेमपर्याणभूषितम्। रूप्यैस्तु कटकैः शुद्धैः करिदन्तोपशोभितम्। वज्रनेत्रं खुरैस्ताम्रैः क्षौमपुच्छं सुवाससम्। शुभ्रेण पटकेनैव संवृतं स्वायुधान्वितम्॥ धान्यरत्नोपरिस्थं तु वद्धकक्षं सुपट्टकम्। एवं सुतेजसं चाश्वं ब्राह्मणाय निवेदयेत्॥ मन्वादियुगाद्ययनविषुवोपरागादिषु दानम्॥

अथ पूजामन्त्रः। मार्त्तण्डाय सुवेगाय काश्यपाय त्रिमूर्त्तये। जगद्वाहाय सूर्याय त्रिवेदाय नमोऽस्तु ते॥ एवं समुच्चरेन्मन्त्रं कर्णे दद्यात्तिलोदकम्॥ दानवाक्यम्, ॐम्अद्येत्यादिअमुकगोत्रायाऽमुकशर्मणे ब्राह्मणायेममश्वं सुवर्णतिलकालङ्कारयुक्तललाटं ग्रैवेयकसुपर्याणान्वितं रौप्यकटकरत्नोपशोभितं वज्रनेत्रं ताम्रखुरं क्षौमपुच्छं सुवाससं शुभ्रपटकसंवृतं स्वायुधान्वितं धान्यरत्नोपरिस्थित बद्धकक्षं सुपट्टगन्धपुष्पाद्यर्चितं सकलब्रह्महत्यादिपापनाशकामः

तुभ्यमहं सम्प्रददे न ममेति स्वावधिकत्रिंशत्पूर्वत्रिंशत्परावरपित्रुद्धरणकाम इति वा सूर्यलोकब्रजनकाम इति वा यथाकाममूह्यम्। महार्णवे समुत्पन्न उच्चैःश्रवसपुत्रक। मया त्वं विप्रमुख्याय दत्तो हय सुखी भव॥ इमं विप्र नमस्तुभ्यमश्वं ते प्रतिपादितम्। प्रतिगृह्णीष्वविप्रेन्द्र मया दत्तं तु शोभनमिति दानमन्त्रमुच्चार्य, कर्णे समर्पणं कृत्वा विप्रहस्ते जलं क्षिपेत्। ततः सुवर्णं दद्यात्। पश्चादश्वपुरो गच्छेत् पादानां सप्तसप्ततिम्। भास्करं मनसि ध्यात्वा आलोक्य स्वगृहं व्रजेत्॥ श्वेतमश्वंतु यो दद्यात् फलं दशगुणं भवेत्। वडवां च तथा दत्वा तुल्यमेव फलं लभेत्॥ एवं कृते नरव्याघ्र सूर्यलोकं व्रजेन्नरः॥ इति श्वेताश्वदानम्॥

वैशाख्यां पौर्णमास्यां वा तिलान् क्षौद्रेण संयुतान् यः प्रयच्छेद्द्विजाग्न्येभ्यः सर्वपापैः प्रमुच्यते॥ ज्येष्ठे मासि तिलान् दत्वा पौर्णमास्यां विशेषतः। अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः॥ माघे मासि तिलान् यस्तु ब्राह्मणेभ्यः प्रयच्छति। सर्वसत्त्वसमाकीर्णं नरकं नं स पश्यति॥ वसिष्ठः। नित्यदाता तिलानां यो नरः स्वर्गे महीयते॥ महाभारते। ददतो जुह्वश्चैव हरतः प्रतिगृह्णतः। तिले तिले तिले द्रोणः सौवर्णानां युधिष्ठिर॥ तथा, सर्वेषामेव दानानां तिलदानं परं स्मृतम्। सर्वपापहरं तद्धि पवित्रं स्वर्ग्यमेव च॥ विष्णुधर्मोत्तरे। तिला गावो हिरण्यं च अन्नं कन्या वसुन्धरा। दत्तान्येतानि विधिवत्तारयन्ति महाभयात्॥ तथा, तिलोद्वर्ती तिलस्नायी तिलहोमी तिलोदकी। तिलदाता च भोक्ता च षट्तिलाःपापनाशनाः॥ असकृत् षट्तिली भूत्वा सर्वपापविवर्जितः। त्रिंशद्वर्षसहस्राणि स्वर्गलोके महीयते॥ कौर्मे, कृष्णाजिने तिलान् कृत्वा सुवर्णं मधुमर्पिषी। द्रोणैकं वाससाऽऽच्छन्नं त्रिधा तद्वत् सदक्षिणम्॥ आहिताऽग्नौद्विजे दत्वा सर्वं

तरति दुष्कृतम्॥ त्रिधेति हीनमध्यमोत्तमभेदतः। द्रोणैकं द्रोणद्वयं, द्रोणत्रितयं चेति। तद्वत् सदक्षिणं क्रमादेकद्वित्रिसुवर्णसहितम्॥ अत्रेत्थं दानवाक्यम् —अद्येत्यादि अमुकसगोत्राय ब्राह्मणाय एवं कृष्णाजिनस्थं सुवर्णमधुसर्पिर्युतं वस्त्रछन्नं तिलद्रोणं सर्वपापक्षयकामस्तुभ्यमहं सम्प्रददे न मम॥ कृतैतत्तिलदानप्रतिष्ठासिद्ध्यर्थम् इदं सुवर्णं दक्षिणां तुभ्यमहंसम्प्रददे न मम॥ इति तिलदानम्॥ यमः। तिलपात्रं तु यो दद्यात् प्रत्यहं वाऽथ पर्वणि। सदक्षिणं सत्त्वभावाद्वह्निंकृत्वा जनार्द्दनम्। नाशयेत्रिविधं पापं धर्मस्य वचनं यथा॥ स्कान्दे त्वऽमायां दत्तं तत्पितृतारकमित्युक्तम्। ब्राह्मे, ताम्रपात्रं तिलैः पूर्णं प्रस्थमात्रैर्द्विजाय तु। सहिरण्यं च यो दद्याच्छ्रद्धावित्तानुसारतः॥ सर्वपापविशुद्धात्मा लभते परमां गतिम्॥

दानवाक्यन्तु —अद्येत्यादि इदं ताम्रपात्रं तिलपूर्णं ससुवर्णमशेषपापक्षयकामस्तुभ्यमहं सम्प्रददे न मम। सुवर्णं दक्षिणां च दद्यात्॥

अथ महातिलपात्रम्। ताम्रपात्रे तिलान् कृत्वा पलषोडशकल्पितम्। सहिरण्यं स्वशक्त्या वा विप्राय प्रतिपादयेत्॥ नाशयेत्त्रिविधं पापं वाङ्मनःकायसम्भवम्॥ कौर्मे, तिलपूर्णं ताम्रपात्रं सहिरण्यं द्विजातये। प्रातर्दत्वा तु विधिवद् दुःस्वप्नं विनिहन्ति सः॥ तिलपात्रं त्रिधा प्रोक्तं कनिष्ठोत्तममध्यम्। ताम्रपात्रं दशपलं जघन्यं परिकीर्तितम्॥ द्विगुणं मध्यमं प्रोक्तं त्रिगुणं चोत्तमं स्मृतम्। स्वर्णमेकं जघन्ये तु द्विगुणं मध्यमे क्षिपेत्॥ त्रिगुणं चोत्तमं तद्वत् सुवर्णं परिकीर्तितम्। सुवर्णं दक्षिणां कर्त्तुं यदि शक्तिर्न विद्यते॥ महासरस्तथा वापीं कूपं कर्त्तुं च दीर्घिकाम्। एवं कृते मातृऋणान्मुक्तो भवति मानवः॥ सदक्षिणं कांस्यपात्रमथ दत्वा प्रमुच्यते शुद्धकांस्यस्य पात्रस्य प्रमाणं पञ्चविंशतिः॥ पलानामत्रनिर्द्दिष्टं

तिलानां प्रस्थसप्तकम्॥ सुवर्णमापषांश्चतुरः पात्रोपरि विधारयेत्। वस्त्रेण वेष्टयेत् पात्रं प्रधानेन सुभक्तितः॥ स्नानं कृत्वा निम्नगादौ पितॄन्देवांश्च तर्पयेत्। ततोऽभिपूजयेच्छम्भुं शङ्करं हरिमेव वा॥ गोमयेनाथ संलिप्य गृहमध्यं च सर्वतः। लिखेत्पद्मं द्वादशारं कुङ्कुमेनाथ चन्दनैः॥ ततो वह्निं स्थापयित्वा होमं कुर्याद्यवैस्तिलैः। तत्र पात्रं प्रतिष्ठाप्य पूजयेद्भक्तिभावतः॥ ततो ब्राह्मणमाहूय बहुभृत्यंसुसंयतम्। पादौ प्रक्षाल्य विधिवन्मातृश्राद्धं समाचरेत्॥ अलङ्कृत्य यथाशक्त्या माघ्यांवा मृतवासरे। ग्रहणे रविसोमाभ्यां संक्रान्तिषु युगादिषु॥ तथाऽन्यदपि यद्दत्तं माघ्यामुद्दिश्य मातरम्। तदक्षयफलं सर्वं पुरा प्राह महेश्वरः॥ जीवन्तीं भूषयेद्वस्त्रैर्माल्यैरपि विभूषणैः॥ दत्वा विप्रस्य पात्रं तु होमं कुर्यात् प्रयत्नतः। सोपस्करं सताम्बूलं क्षमाप्य विप्रंविसर्जयेत्॥ अन्येषामपि विप्राणां भोजनानि प्रदापयेदित्यादि॥

अथास्य प्रयोगः। मातृमृतवासरे नद्यादौ वाप्यादौ वा यजमानो कृतस्नानो गृहमध्ये उपलिप्तदेशे कुङ्कुमचन्दनाभ्यां द्वादशदलं पद्मं विरचय्य तत्र पञ्चविंशतिपलमितं कांस्यपात्रं तिलप्रस्थसप्तकपूरितमुपस्थापितस्वर्णमाषचतुष्टयं च वरवस्त्रवेष्टितं स्थापयित्वा तत्समीपे हरिं शङ्करं चाऽऽवाहनाद्युपचारैरभ्यर्च्य पुरतोऽग्निं स्थापयित्वा स्वसूत्रविधिना घृताक्तैस्तिलैयवैश्च विष्णुमन्त्रेण शिवमन्त्रेण वाऽष्टोत्तरशताहुतीर्हुत्वा मातृक्षयाहश्चेन्मातृश्राद्धं कृत्वा जीवन्त्यांमातरि तां वस्त्रादिभिः सत्कृत्यदानपात्रं तथैवाभ्यर्च्योदङ्मुखमुपवेश्याद्येत्यादि उक्त्वाऽमुकगोत्राय ब्राह्मणायेदं पलपञ्चविंशतिमितं कांस्यपात्रं प्रस्थसप्तकमिततिलपूरितं सुवर्णवरवस्त्रवेष्टितं समन्तात् स्थापितसप्तधान्यफलादिसहितं मातुरानृण्यकामः तुभ्यमहं संप्रददे न ममेति दद्यात्। मन्त्रास्तु, कास्यपात्रं मया दत्तं

मातुरानृण्यकाङ्क्षया। भगवन् वचनात्तुभ्यं यथा शक्तिस्तथा वद॥ दशमासांश्च उदरे जनन्या संस्थितस्य मे। क्लेशिता बालभावेन स्तनपानाद् द्विजोत्तम॥ पूयमूत्रादिमल्लेपलिप्ता या च कृता मया। भवतो वचनादद्य मम मुक्तिर्भवेद् ऋणात्॥ कांस्यपात्रं सुवर्णंच तिलान् वस्त्रादिदक्षिणाम्। सप्तधान्यं मया दत्तम् ऋणान्मुक्तिर्भवेन्मम॥ कांस्यपात्रप्रदानेन तत्त्वज्ञानं शरीरकम्। तथा हेमप्रदानेन परमात्मानमव्ययम्॥ आच्छादनं तु ब्रह्माण्डं गुह्यमेतत् सदक्षिणम्। विप्राच्छादनदानेन परमात्मा सुपूजितः॥ तिलसंख्याकृतं दुःखं जनन्या मम सेवितम्। तिलपात्रप्रदानेन कृतमुक्तो भवाम्यहमिति॥ ततः शक्त्या हिरण्यं दक्षिणां दद्यात्। पात्रदानेन जननीसम्भवादृणात् त्वं मुक्त इति विप्रो ब्रूयात्। पुनर्व्याहृतिभिर्होमं कृत्वा विप्रंविसृज्य यथाशक्ति ब्राह्मणान् भोजयेत्॥ इति कांस्यपात्रप्रयोगः॥

अथ तिलकुम्भदानम्। वायवीये। तिलकुम्भमथो वक्ष्ये कुम्भे पूर्ववदास्थिते। वारुणे मण्डले देवं वरुणाकारमर्चयेत्॥ श्वेतैः पुष्पैः फलैर्गन्धैः कर्पूरेण तु पूजयेत्॥ वरुणलक्षणं ब्रह्माण्डदाने। वारुणं मण्डलं स्थाप्यं, तच्चार्द्धचन्द्राकारं कार्यम्। षड्रसान् परितो न्यस्य ततो मन्त्रमिमं जपेत्॥ नमो वरुणरूपाय रसाम्बुपतये नमः। रसवारिनिमित्तानि यान्तु नाशमघानि मे॥ तिलकुम्भप्रदानेन प्रसीद परमेश्वर। इति दत्ते विनश्यन्ति पापानि जलचारिणाम्॥ हिंसोद्भवानि स्नानेषु पानके वाऽवगाहने। रसो यदा न भक्ष्याणामपेयानां च वाञ्छया॥ औषधं वाऽपि देवेश सर्वंमेध्यं भविष्यति॥ शिवलोके वसेत्कल्पान्शतपञ्चदशावरान्॥इति तिलकुम्भदानम्॥

अथ तिलकरकदानम्॥ वायवीये, करकं तिलसम्पूर्णं

मण्डले वह्निदैवतम्। शिवं वह्निवदाराध्य पूजयेत् करवीरकैः। रक्तचन्दनगन्धेन निर्यासेन च धूपयेत्॥ वह्निदैवतं त्रिकोणं मण्डलमित्यर्थः। शिवं वह्निनदिति वह्निस्वरूपं शिवमित्यर्थः। तच्चोक्तं ब्रह्माण्डदाने। निर्यासः सर्जरसः। आदर्शं च ततो दद्याद्दीपानां च चतुष्टयम्। वह्निरूपपतिः शम्भुह्निरूपी तिलाश्रयः॥ तेजोरूपकृतं पापं चाक्षुषं च व्यपोहतु॥इति दत्तेऽस्य नश्यन्ति पापान्यग्निकृतानि च। पाकहोमेषु काष्ठेषु हिंस्यन्ते यानि वह्निना॥ अगारवनदाहादिसंभवानि चयानि वै। विरुद्धकरणोत्थानिरूपयोगोद्भवानि च परदारपरद्रव्यपुत्रदर्शनजानि च। शवादिदर्शनोत्थानि नेत्रदोषकृतानि च॥ य एवं कुरुते दानं शिवभक्त्या यतव्रतः। शिवलोके वसेद् भूयः कल्पत्रयमशङ्कितः॥ इति तिलकरकदानम्॥

अथ गजदानम्। कौर्म। दद्याद् गजं पुराणोक्तं मूल्यं पञ्चशतानि च। वित्तानुसारात्तत्रापि कनिष्ठोत्तममध्यमम्। स्वरूपतो गजदानमुत्तमः पक्षः। तन्मूल्यं हेममाषशतपञ्चकं मध्यमः। शतद्वयमधम इति केचित्। पञ्चशतमाषास्तदर्द्धं तदर्द्धमित्यन्ये। तादृशाः सुवर्णा इत्यपरे। रूप्यस्थूणालङ्करणं स्वर्णताराविभूषणम् सदक्षिणं वित्तशक्त्या दत्वा शिवपुरं व्रजेत्॥ स्थूणारज्जुः। तारागणो मौक्तिकजालात्मको गजालङ्कारविशेषः। तथा, यथालाभोपपन्नं वा यः प्रयच्छति दन्तिनम्। ब्राह्मणाय दरिद्राय स्वर्गलोके महीयते॥ कर्मक्षयादिहागत्यमहाराजो गजाधिपः। सर्वपापविनिर्मुक्तो जायते नात्र संशयः॥ हस्त्यश्वशकटादिदानफलंभारते। षष्टिवर्षसहस्राणि पष्टिवर्षशतानि च। भोगान् भुक्त्वाऽमरपुरे राजा कालक्षयादिहेति। अत्र दानवाक्यम्। अद्येत्याद्युक्त्वा षट्षष्टिवर्षसहस्राऽवधिकाऽमरपुरभोगोत्तरमहाराजत्वकामोऽहममुकगोत्राय ब्राह्मणायेमं हस्तिनं कक्षारज्जुस्थिरासनसहितं

काञ्चनमालादिकीर्णं चामरगन्धपुष्पालङ्कृतं प्रजापतिदैवतं तुभ्यमहं सम्प्रददे न ममेति करं धृत्वा दद्यात्। सुवर्णं दक्षिणां तुभ्यमहं सम्प्रददे न ममेति॥ इति हस्तिदानम्॥

निवेदयति मातङ्गं भक्त्या स्वर्णाद्यलङ्कृतम्। शिवाय पर्वदिवसे तस्य पुण्यफलं शृण्वित्यादिना शिवधर्मादौ शिवाय गजदानमुक्तम्॥

अथ दासीदानम्॥ वह्निपुराणे, स्थिरनक्षत्रसंयुक्ते सौम्ये सौम्यग्रहान्विते। दानकालं प्रशंसन्ति सन्तः पर्वणि वा पुनः॥ अलंकृत्ययथाशक्त्या वासोभिर्भूषणैस्तथा। ब्राह्मणाय प्रदातव्या मन्त्रेणानेन शक्तितः॥ इयं दासी मया तुभ्यं श्रीवत्स प्रतिपादिता। सर्वकामकरी भोग्या यथेष्टं भद्रमस्तु ते॥ पञ्चवर्षाधिका सा तु चत्वारिंशत्समावधि। दासी द्विजाय दातव्या दासदानेऽप्ययं विधिरित्यादि। अत्र दानवाक्यम्—अमुकसगोत्रायेमां दासीं सुवर्णलङ्कारवर्ती पुष्पाद्यर्चितामक्षय्यसुखप्राप्तिकामस्तुभ्यमहं सम्प्रददे न ममेति शिरसि धृत्वा दद्यात् सुवर्णं दक्षिणां च दत्वा क्षमापयेत् पश्चाद् ब्राह्मणं वस्त्रकाञ्चनैः। अनु गत्वा सीमायां द्विजं विसर्जयेत्तत इत्यादि॥

अश्वमेधफलशतगुणफलकामः शिवाय दासीं विनिवेदयदिति शिवाय दासीदानमप्युक्तम्॥ इति दासीदानम्॥

अथ रथदानम्। कौर्मे, रथं चतुर्वलीवर्द्दरूढ धान्यावृतं तथा। वित्तानुसारात् सर्वैश्च रथोपकरणैर्युतम्॥ सदक्षिणं च विप्राय दत्वा शिवपुरं व्रजेत्। धान्यावृतमष्टादशचान्यावृतम्॥ रथोपकरणानि युगयोक्त्रतोत्रवस्त्रादीनि। धान्यावृतं त्रिधेति वा पाठः। त्रिद्व्येकसुवर्णदक्षिणा च शत उत्तममध्यमकनिष्ठभेदतश्च त्रैविध्यमिति हेमाद्रिः। दानवाक्यम्। अमुकसगोत्राय ब्राह्मणाय चतु-

र्बलीवर्द्दयुक्तमष्टादशधान्यपरिवृतं सर्वोपकरणयुतमेतं रथं विश्वकर्मदैवतम्। अक्षय्यस्वर्गादिसुखकामस्तुभ्यमहं सम्प्रददे न ममेति। मन्त्रस्तु, रथाय रथनाथाय नमस्ते विश्वकर्मणे। विश्वरूपाय नाथाय अरुणाऽय नमो नम इति सुवर्णं दक्षिणां च दद्यात्। गारुडे, मन्त्रीं तुरङ्गसंयुक्तां यो ददाति द्विजातये। सर्वकामसमृद्धात्मा स राजा जायते भुवीति। मन्त्री स्थविशेषः। सा च चतुर्भिरश्वैर्वृषैर्गजैर्वोपेता द्वाभ्यां वोपेता। मन्त्रीमिमां प्रयच्छामि विश्वकर्माधिदैवताम्। दानेनानेन भगवान् प्रीयतां मे परः पुमानिति मन्त्रीदाने मन्त्रः॥ इति रथदानम्॥

मार्गशुक्लैकादश्यां माघफाल्गुनयोर्वा वैशाखे वा हिरण्मयं हरिमभ्यर्च्य जागरं च कृत्वा प्रातः शिविकां ब्राह्मणाय दत्वा तस्य वर्षाशनं शिविकावाहकानां च वर्षार्हमन्नं कल्पयित्वाऽतिविपुलभोगानन्तरं विष्णुसायुज्यभाग्भवति। एतन्मुलं हेमाद्रौ वह्निपुराणे॥

अथ महीदानम्। कौर्मे, गोचर्ममात्रं भूखण्डमधिकं वा स्वशक्तितः। त्रिधा सदक्षिणां कृत्वा दत्वा शिवपुरं व्रजेत्॥ त्रिद्व्येकसुवर्णरूपा दक्षिणा त्रिधेत्यर्थः। बृहस्पतिः। अपि गोचर्ममात्रेण सम्यग्दत्तेन मानवः। धौतपापो विशुद्धात्मा स्वर्गलोके महीयते॥ दशहस्तेन दण्डेन त्रिंशद्दण्डा निवर्त्तनम्। त्रिभागहीनं गोचर्ममानमाह प्रजापतिः॥ मानेनानेन यो दद्यान्निवर्त्तनशतं बुध इति॥ तथा, गवां शतं वृषश्चैको यत्र तिष्ठेदयन्त्रितः। तद्धि गोचर्ममात्रं तु प्राहुर्वेदविदो जनाः॥ अत्र नानागोचर्मप्रकारेषु उत्तममध्यमाधमभावेन व्यवस्था ज्ञेया। तथा। षष्टिवर्षसहस्राणि स्वर्गे वसति भूमिदः। अच्छिन्ना चानुमन्ता च तावन्ति नरकं वसेत्॥ तत्रपुराणभेदान्नानाफलश्रवणेऽपि स्वकामितमेव फलमुल्लेखम्। मन्त्रोऽपि —यथा भूमिप्रदानस्य कलां नाऽर्हन्ति

षोडशीम्। दानान्यन्यानि मे शान्तिर्भूमिदानाद्भवत्विह॥ अमुकब्राह्मणायामुककामःषट्षष्टिसहस्रवर्षमितस्वर्गवासकामः, शिवपुरप्राप्तिकामो वा सर्वपापक्षयकामो वा, भुमिं तुभ्यमहं सम्प्रददे न ममेति सपुष्पंकुशतिलोदकं ब्राह्मणहस्ते निक्षिपेत्। ब्राह्मणः समीपस्थां भूमिं प्रदक्षिणीकृत्यप्रतिगृह्णीयात्। विप्रकृष्टां तु मनसा प्रदक्षिणीकृत्य। न हि भूमेः परं वस्तु गोःसुवर्णाच्च किञ्चन अतो भूमिगवि प्राज्ञैः सुवर्णं दक्षिणा मतेति माण्डव्यवचनादत्र सुवर्णमेव दक्षिणा। विश्वामित्रः, ग्रामं वा नगरं वाऽपि विप्रेभ्यो यः प्रयच्छति। क्षेत्रं वा सस्यसम्पन्नं सर्वपापैः प्रमुच्यते॥ स्वदत्तां परदत्तां वा यो हरेच्च वसुन्धराम्। स विष्ठायां क्रिमिर्भूत्वा पितृभिः सह मज्जति॥ तथा, अपि पापकृतां राज्ञां प्रतिगृह्णन्ति साधवः। पृथिवीं नान्यदिच्छन्ति पावनं ह्येतदुत्तमम्॥ येऽपि सङ्कीर्णकर्माणो राजानो रौद्रकर्मिणः। तेभ्यः पवित्रमाख्येयं भूमिदानमनुत्तमम्॥ किमत्र चित्रं दातारं यत् समुद्धरते धरा। प्रतिग्रहग्रहीतारमपि तारयते द्विजमित्यपि हेमाद्रौ॥ शिवधर्मे शिवाय भूमिदानमुक्तम्॥ इति महीदानविधिः॥

अथ गृहदानम्॥ कौर्मे— शक्तितःसर्ववित्तेन पूर्णं गृहमपि त्रिधा। सदक्षिणं द्विजं दत्वा ब्रह्मलोकं व्रजेन्नरः॥ सर्ववित्तेन दासीदासगोवलीवर्द्दकांस्यताम्रपात्रादिसोपस्करशय्यासर्वधान्यघृतगुडशर्करादिरूपेण। गारुडे, ऐष्टकं दारवं वापि मृन्मयं वास्वशक्तितः। सर्वोपकरणोपेतं यो दद्याद्विपुलं गृहम्॥ ब्राह्मणाय दरिद्राय विदुषे च कुटुम्बिने। क्रीडित्वा सुचिरं कालं मानुष्यं लोकमागतः॥ भवत्यप्यहतैश्वर्य्यः सर्वकामसमन्वितः॥ ब्रह्मवैवर्त्ते, न गार्हस्थ्यात् परो धर्मो नैव दानं गृहात् परम्। नानृतादधिकं पापं न पूज्यो ब्राह्मणात् परः॥ तथा, कारयित्वा गृहान्रम्यान्

ऋतुवत् स्वर्गसंख्यया। भुवनाष्टादश तथा तत्त्वनक्षत्रसंख्यया॥ शक्त्या तद्द्विगुणान्येव शतं यावत्सहस्रकम्। कुड्यस्तम्भगवाक्षाद्यान् विचित्रबहुभूमिकान् इति॥ मात्स्ये, देवतापञ्चकं तत्र चत्वारिंशत्समावृतम्। पूजयित्वा यथान्यायं ततो दद्याद् गृहं गृही॥ एकाशीतिपदं कृत्वा रेणुभिः कनकेन वा। पश्चात् पिण्डेनानुलिम्पेत् सूत्रेणाद्यन्तु सर्वतः॥ दश पूर्वापरा लेखा दश चैवोत्तरायताः। सर्वं वास्तुविभागेन विज्ञेया नवकी नव॥ एकाशीतिपदं कृत्वा वास्तुवित्सर्ववास्तुषु। पदस्थान् पूजयेद्देवान् त्रिंशत्पञ्चदशैव तु॥ द्वात्रिंशद्बाह्यतः पूज्याः पूज्याश्चान्तस्त्रयोदश। मध्ये नवपदस्त्वेकश्चत्वारस्त्रिपदाः स्मृताः॥ विंशतिस्त्वेकपदिकास्तावन्तो द्विपदाः स्मृताः। एवं प्रतिष्ठिता देवाश्चत्वारिंशच्चपञ्च च॥ नामतस्तान्प्रवक्ष्यामि स्थानानि च निबोधत। ईशकोणादिषु सुरान् पूजयेत्क्रमशो नव॥ ईशानादौ, शिखी चैव तु पर्जन्यो जयन्तः कुलिशायुधः। सूर्यः सत्योभृशश्चैव आकाशो वायुरेव च॥ पूषा च वितथश्चैव गृहक्षतयमावुभौ। गन्धर्वो भृङ्गराजश्च मृगः पितृगणास्तथा॥ दौवारिकोऽथ सुग्रीवः पुष्पदन्तो जलाधिपः। असुरः शोकपापौ च रोगोऽहिर्मुख्य एव च॥ भल्लाटः सोमसर्पौच अदितिश्च दितिश्च वै। बहिर्द्वात्रिंशदेते तु तदन्तश्चतुरः शृणु॥ आपश्चैवाथ सावित्रो जयो रुद्रस्तथैव च। अर्यमा सविता चैव विवस्वान् विबुधाधिपः॥ मित्रोऽथ राजयक्ष्मा च तथा पृथ्वीधरः क्रमात्। अष्टमस्त्वापवत्सस्तु परितो ब्रह्मणः स्मृताः॥ आपश्चैवापवत्सश्च पर्जन्योऽग्निदितिस्तथा। पदिकानां तु वर्गोऽयमेवं कोणेष्वशेषतः॥ तन्मध्ये तु बहिर्विंशद्विपदास्ते तु सर्वतः। एतत्पूर्वं गृहारम्भं कुर्याद्वास्तुविचक्षणः॥ वास्तौ परीक्षिते तस्मिन्वास्तुदेहे विचक्षणः। वास्तृपशमनं कुर्यात् समिद्भिर्बलिकर्म च॥

जीर्णोद्धारे तथोद्याने तथा च नववेश्मनि। नवप्रासादभवने प्रासादपरिवर्त्तने॥ द्वाराभिवर्त्तने तद्वत् प्रासादेषु गृहेषु च। वास्तूपशमनं कुर्यात् पूर्वमेव विचक्षणः॥ एकं शान्तिपदं लिख्य वास्तुमध्ये तु पिष्टकैः। होमस्त्रिमेखले कार्यःकुण्डे हस्तप्रमाणके॥ यवैः कृष्णतिलैश्चैव समिद्भिः क्षीरवृक्षजैः। पालाशैः खादिरैश्चाऽपामार्गोदुम्बरसम्भवैः॥ कुशदुर्वादलैर्वाऽपि मधुसर्पिःसमन्वितैः। कार्यस्तु पञ्चभिर्बिल्वैर्बिल्वबीजैरथापि च॥ होमान्ते भक्ष्यभोज्यैश्चवास्तुदेहे बलिं हरेत्। तद्वद्विशेषनैवैद्यमिदं दद्यात्क्रमेण तु॥ एवं सम्पूजिता देवाः शान्तिं कुर्वन्ति ते सदा। सर्वेषां काञ्चनं दद्याद्ब्रह्मणे गां पयस्विनीमिति॥

अथ गृहवास्तुशान्तिप्रयोगः॥ यजमानो मासपक्षाद्युल्लिख्याऽस्य वास्तोःशुभतासिद्ध्यर्थं वास्तुशातिं करिष्य इति सङ्कल्प्य गणेशपूजास्वस्तिवाचनमातृपूजाभ्युदयिकश्राद्धाऽऽचार्यब्रह्मर्त्विग्वरणानि कुर्यात्॥ तत आचार्यो, यदत्र संस्थितम्, अपक्रामन्त्वित्येताभ्यां, भूतप्रेतपिशाचाद्या अपक्रामन्तु राक्षसाः। स्थानादस्माद् ब्रजन्त्वन्यत् स्वीकरोमि भुवं त्विमामित्यनेन च सर्षपान् विकीर्य्य पञ्चगव्येन, शुची वो हव्या इति तृचेन, एतोन्विन्द्रमिति च तृचेन गृहं सम्प्रोक्ष्य गृहे प्राच्यामीशान्यां वा चतुरङ्गुलोच्चं हस्तमितं स्थण्डिलं कृत्वा तस्य ईशानादिकोणचतुष्टये चतुरो लोहकीलान्, विशन्तु भूतले नागा लोकपालाश्च सर्वशः अस्मिन् गृहे च तिष्ठन्तु आयुर्बलकराः सदेति मन्त्रेण निखनेत्। प्रतिकीलं मन्त्रावृत्तिः। तत ईशानादिक्रमेणैव चतुर्षु कोणेषु अग्निभ्योऽप्यथ सर्पेभ्यो ये त्वन्ये तत्समाश्रिताः। तेभ्यो बलिं प्रयच्छामि पुण्यमोदनमुत्तममिति मन्त्रेण माषभक्तादिबलीन्दत्वा स्थण्डिलोपरि, ॐ शान्तायै नमः, यशोवत्यै, कान्तायै, विशालायै, प्राणवाहिन्यै सैत्य,

सुमत्यै, नन्दायै, सुभद्रायै, सुरथायै इति प्रणवाद्यैर्नमोऽन्तैर्दशभिर्मन्त्रैः कुङ्कुमादिना हेमरूप्यादिशलाकया प्राक्पश्चादायताः प्रागन्ता उदकस्था व्द्यङ्गुलान्तरा दशरेखाः कृत्वा, हिरण्यायै, सुव्रतायै, लक्ष्म्यै, विभूत्यै, विमलायै, प्रियायै, विजयायै, बालायै, विशोकायै, इडायै इति दक्षिणोत्तरायता उदक्संस्था दशरेखाः कुर्यात्। एवमेकाशीतिपदं मण्डलं सम्पद्यते। तत्र मध्यस्थनवकोष्ठरेखामार्जनेनैकीकुर्यात्। एतन्नवपदं ब्रह्मस्थानन्तस्य चतुर्द्दिक्षु चत्वारि त्रिपदानि। विदिक्षु शृङ्खलाऽऽकाराणि द्वादशकोणवाद्यैश्चतुर्थ्यन्तैर्नमोऽन्तैर्वक्ष्यमाणनामभिर्देवता आवाह्य स्थापयेत्। तत्र ईशानकोणपदे वास्तोः शिरसि शिखिने नम इति शिखिनम्। तदक्षिणैकपदे दक्षिणे नेत्रे पर्जन्ये तद्दक्षिणे ततोऽपि पश्चिम इति द्विपदे दक्षिणश्रोत्रे जयन्तम्। तद्दक्षिणद्विपदे तद्दक्षिणांशे कुलिशायुधाय। तद्दक्षिणद्विपदे दक्षिणबाहौ सूर्याय। तदक्षिणद्विपदे दक्षिणबाहावेव सत्याय। तद्दक्षिणद्विपदे दक्षिणकूर्परे भृशाय। तद्दक्षिणेऽन्त्यपङ्क्तिगतैकपदे दक्षिणबाहौआकाशाय। आग्नेयकोणपदे दक्षिणप्रवाहावेव वायवे। तत्पश्चिमैकपदे दक्षिणमणिबन्धे पूष्णे। तत्पश्चिमे ततोऽप्युत्तर इति द्विपदे दक्षिणपार्श्वे वितथाय। तत्पश्चिमद्विपदे दक्षिणपार्श्व एव गृहक्षताय। तत्पश्चिमे द्विपदे दक्षिणोरौ यमाय। तत्पश्चिमे द्विपदे दक्षिणजानौ गन्धर्वाय। तत्पश्चिमे द्विपदे दक्षिणजानौ भृङ्गराजाय। तत्पश्चिमे बाह्ये दक्षिणगतैकपदे दक्षिणस्फिचि मृगाय। नैर्ऋत्यकोणपदे पादयोः पितृभ्यः। तदुत्तरैकपदे वामस्फिचि द्वौवारिकाय। तदुत्तरे ततोऽपि प्राचि चेति द्विपदे वामजङ्घायां सुग्रीवाय। तदुत्तरे द्विपदे वामजानौ पुष्पदन्ताय। तदुत्तरे द्विपदे बामोरौ जलाधिपाय। तदुत्तरे द्विपदे वामपार्श्वे असुराय। तदु-

त्तरे द्विपदे वामपार्श्व एवशोषाय। तदुत्तरे बाह्यपङ्किगतैकपदे वाममणिबन्धे पापाय। वायव्यां कोणपदे वामप्रवाहौ रोगाय। तत्प्राच्येकपदे वामपार्श्व एव अहये। तत्प्राचि ततो दक्षिणे चेति द्विपदे वामकूर्परे मुख्याय। तत्प्राचि द्विपदे वामबाहौ भल्लाटाय। तत्प्राचि द्विपदे वामबाहावेव सोमाय। तत्प्राचि द्विपदे वामांसे सर्पाय। तत्प्राचि द्विपदे वामश्रोत्रे अदितये। तत्प्राचि बाह्यपङ्क्तिगतैकपदे वामनेत्रे दितये। तद्दक्षिणे ईशानकोणपदाधःपदे मुखे आपाय नमः। आग्नेयकोणपदाधःकोणपदे दक्षिणहस्ते सावित्राय। नैर्ऋत्यकोणपदाधः कोणपदे मेढ्रेजयाय। वायव्यकोणपदाधःकोणपदे वामहस्ते रुद्राय। मध्यमप्राग्गते कोष्ठकब्रह्मपदसंलग्ने प्राग्गते त्रिपदे दक्षिणस्तने अर्यम्णे। तद्दक्षिणैपदे दक्षिणहस्ते सवित्रे। तत्पश्चिमे ब्रह्मपदसंलग्ने त्रिपदे जठरदक्षिणभागे विवस्वते। तत्पश्चिमैकपदे वृषणयोर्विबुधाऽधिपाय। तदुत्तरे ब्रह्मदपसंलग्नत्रिपदे जठरवामभागे मित्राय। तदुत्तरैकपदे वामहस्ते राजयक्ष्मणे। तत्प्राचि त्रिपदे वामस्तने पृथ्वीधराय। तत्प्रागेकपदे उरसि आपवत्साय। मध्ये नवपदे हन्नाभ्यो ब्रह्मणे तदुत्तरे वास्तोष्पते प्रतिजानीहीति वृषवास्तुं सुवर्णादिप्रतिमायां मण्डलाद्बहिरीशानादिकोणेषु चरकीं १ विदारीं २ पूतनां ३ पापराक्षसीं, पूर्वादिषु स्कन्दम् १ अर्यमणं २ जम्भकं ३ पिलिपिच्छम् ४प्राच्याष्टदिक्षु इन्द्रादीनावाह्य सर्वान् सम्पूज्य मण्डलादीशान्यां कलशं संत्स्थाप्य तत्र वरुणं संपूज्य कुण्डेस्थण्डिले वा अग्निं संस्थाप्य तदीशान्यां ग्रहानाबाह्य सम्पूज्य तदीशान्यां ग्रहकलशं संस्थाप्य तत्र वरुणं सम्पूज्याऽन्वाधाने चक्षुषीआज्येनेत्युक्त्वा ग्रहादीनमुकसंख्यया समिच्चर्वाज्यैः, शिखीपर्जन्यजयन्तकुलिशायुधसूर्यसत्यमृगाकाशवायुपूषवितथगृहक्षतयम-

गन्धर्वभृङ्गराजमृगपितृदौवारिक—सुग्रीवपुष्पदन्त— जलाऽधिपासुरशोषपापरोगाहिमुख्यभल्लाटसोमसर्पादितिदित्यायसावित्र-जयरुद्राऽर्यमसवित्रविवस्वद्विबुधाधिपमित्रराजयक्ष्मपृ-थ्वीधरापवत्सप्राप्ताणो यवतिलसमिदाज्यपायसैरमुकसंख्यया, वास्तोष्पतिमतैरेव द्रव्यैरमुकसंख्यया पञ्चबिल्यैस्तद्वीजैर्वा चरकीविदारीपूतनापापराक्षसीस्कन्दार्यमजम्भकपिलिपिच्छान् इन्द्रादींश्च तैरेव द्रव्यैरमुकसंख्यया यक्ष्य इत्युक्त्वाऽशेषेणेत्यादि आज्यभागान्ते ग्रहहोमं कृत्वा यवतिलसमिदाज्यपायसैः शिख्यादिदेवताभ्यो नाममन्त्रैः प्रत्येकमष्टावष्टाविंशतिमष्टोत्तरशतं वा हुत्वा, वास्तोष्पतये एतान्येव द्रव्याणि अष्टोत्तरशतमेतैश्चतुर्भिर्वास्तोष्पते ध्रुवा स्थूणानि च पञ्चविंशतिः पञ्च वा विल्वफलानि तद्बीजानि वा जुहुयुः। तत्राचार्यः स्विष्टकृदादिहोमशेषं समापयेत्। यजमानस्तु लोकपालेभ्यो ग्रहपीठदेवताभ्यश्च बलिं दत्वा पूर्णाहुतिं हुत्वा शिष्यादिपञ्चचत्वारिंशद्देवताभ्यः पायसादिना बलिं दत्वा ईशानादिक्रमेण चरकीविदारीपूतनापापराक्षसीभ्यो लोकपालेभ्यश्च बलिं दत्वा शिष्यादिप्रीतये काञ्चनं द्विजेभ्यो ब्रह्मप्रीतये धेनुं च दद्यात्। ततः शान्तिकलशोदकेन ऋत्विग्भिरभिषिक्तो यजमान ऋत्विग्भ्यो दक्षिणां दत्वा वाय्वादिपूर्वकं रक्षोघ्नपावमानमन्त्रैर्गृहं सूत्रेण प्रदक्षिणं वेष्टयित्वा समन्ताज्जलधारां क्षीरधारां च दत्वा मध्यनवपदे सुरूपां पृथ्वीं ध्यात्वा पृथव्यै नम इति सम्पूज्य सर्वदेवमयं वास्तु सर्वदेवमयं परमिति पठित्वा गृहस्याग्नेयं आकाशपदे जानुमात्रं गर्त्तं खात्वा गोमयेनानुलिप्य शुभ्रचन्दनपुष्पाक्षतैरलङ्कृत्यसप्तबीजानि दध्योदनं च क्षिप्त्वानवं जलपूर्णकलशं शुक्लैकपुष्पयुतं गन्धाद्यर्चितमादाय जानुभ्यां भुवं गत्वा तज्जलं गर्त्तेक्षिपेत्, ॐ नमो बरुणायेति मन्त्रेण। जले प्रदक्षिणावर्ते पुष्पे चोर्ध्वमुखे शुभम्।

ततोऽपक्वमृत्पेटिकायां सप्तवीजं दध्योदने शैवालफलपुष्पाणि क्षिप्त्वा सतूर्यघोषंपूर्वस्थापितां वृषवास्तुप्रतिमामानीय पेटिकायां संस्थाप्य पेटिकां पिधाय पठेत्। पूजितोऽसि मया वास्तो होमाद्यैरर्चनैः शुभैः। प्रसीद पाहि विश्वेश देहि मे गृहजं सुखम्॥ वास्तुपुरुष नमस्तेऽस्तु भूशय्याभिरत प्रभो। मद्गृहं धनधान्यादिसमृद्धं कुरु सर्वदेति॥ ततो मृत्पेटिकागतं संस्थाप्य, सशैलसागरां पृथिवीं यथा वहसि मूर्द्धनि। तथा मां वह कल्याण सम्पत्सन्ततिभिः सहति सम्प्रार्थ्य, तयैव मृदा गर्त्तंपूरयेत्। मृद आधिक्येऽधिकफलम्। साम्ये समम्। न्यूनत्वे न्यूनम्। गर्त्तोपरि गोमयेनालिष्य गन्धपुष्पाक्षतादि क्षिप्त्वा आचार्य ब्रह्मर्त्विजः संपूज्य तेभ्यो दक्षिणां च दत्वा ग्रहपीठवास्तुपीठदेवताः सम्पूज्य उत्तिष्ठ ब्रह्मणस्पते, यान्तु देवगणा इति विसृज्याचार्याय दत्वा ब्रह्मशिख्याद्युद्देशेन विप्रान् सम्भोज्य भूयसीं दक्षिणां दत्वा सुहृद्युतो भुञ्जीत। इति गृहवास्तुशान्तिमयोगः॥

अथ गृहदानप्रयोगः। गृहमध्ये दक्षिणभागे पद्मं विलिख्य तदुपरि प्रस्थमात्रान्तिलान् तदुपरि शय्यां स्थापयित्वा शय्योपरि सौवर्णशय्योपरि सौवर्णलक्ष्मीनारायणप्रतिमां सम्पूज्य प्रतिग्रहीतारं सपत्नीकं प्रतिग्रहार्थं कृत्वा तं करे गृहीत्वा समङ्गलघोषं वक्ष्यमाणमन्त्रैर्गृहं प्रवेशयेत्। ते च मन्त्राः—एह्येहि नारायण दिव्यरूप सर्वाऽमरैर्वन्दितपादपद्म शुभाशुभानन्दशुचामधीश लक्ष्मीयुतस्त्वं च गृहं गृहाण। नमः कौस्तुभनाथाय हिरण्यकवचाय च क्षीरोदार्णवसुप्ताय जगद्धात्रे नमो नमः॥ नमो हिरण्यगर्भाय विश्वगर्भाय वै नमः। चराचरस्य जगतो गृहभूताय वै नमः॥ भूर्लोकप्रमुखा लोकास्तवदेहे व्यवस्थिताः। नन्दन्तिं यावत्कल्पान्तं तथाऽस्मिन् भवने गृही॥ त्वत्प्रसादेन देवेश पुत्रपौत्रैर्युतो गृहे।

पञ्चयज्ञक्रियायुक्तो वसेदाचन्द्रतारकम्॥ ततस्तं पूर्वस्थापितशय्योपर्य्युदङ्मुखमुपवेश्य स्वयमासने प्राङ्मुख उपविश्य देशकालकीर्त्तनोत्तरममुकगोत्रायाऽमुकशर्मणे ब्राह्मणायेदं गृहं पक्वेष्टकादिरचितं यथोपपत्तिसम्पादितं कांस्यताम्रादिभाजनसर्वधान्यलवणघृतगुडशर्करागोबलीवर्द्ददासमञ्चतूलिकावितानादिसर्वोपकरणयुतं सदीपप्रभोद्योतं सर्वदैवतं गृहं सर्वपापक्षयपूर्वककल्पकोटिशताऽवधिनारायणसमीपे क्षीरार्णवनिवासकाम इति। मृन्मयगृहे दान एकैकमन्वन्तरावच्छिन्नप्रतिलोकपालपुरनिवासकाम इति। यद्वा सर्वत्र विष्णुप्रीतिकामः। ततः प्रार्थना। इदं गृहं गृहाण त्वं सर्वोपस्करसंयुतम्। तव विप्रप्रसादेन ममास्त्वतिनवं गृहम्॥ गृहं मम विभूत्यर्थं गृहाण त्वं द्विजोत्तम। प्रीयतां मे जगद्योनिर्वास्तुरूपी जनार्द्दन इति॥ ततः प्रतिग्रहीता देवस्य त्वेति यजुषा प्रतिगृह्य ॐ स्वस्तीत्युक्त्त्वाकामस्तुतिं पठेत्। दक्षिणा तु स्वर्णसहस्रमारभ्यैकसुवर्णपर्यन्तशक्त्या दर्शिता। ततः पादुकोपानहच्छत्रचामरादिकं पुनर्दत्वा सम्पन्नं वाप्यसम्पन्नं गृहोपस्करभूषणम्। सर्वंसम्पूर्णमेवाऽस्तु त्वत्प्रसादाद्द्विजोत्तमेति प्रार्थयेत्। एतत्फलमपि मात्स्ये, य एवं सर्वसम्पन्नं पक्वेष्टं विनिवेदयेत्। कल्पकोटिशतं यावद्ब्रह्मलोके महीयते॥ शैलजं दारुजं वाऽपि यो दद्याद्विधिपूर्वकम्। वसेत्क्षीरार्णवे रम्ये नारायणसमीपतः॥ मृण्मयं चाऽपि यो दद्याद् गृहं चोपस्करान्वितम्। पुरेषु लोकपालानां प्रतिमन्वन्तरं वसेदिति॥ एतच्च वास्तुपूजनन्। अनेन विधिना यस्तु प्रतिसंवत्सरं बुधः। गृहे चायतने कुर्यान्न स दुःखमवाप्नुयादित्युत्त्क्वाप्रतिसंवत्सरं कर्त्तव्यम्। अत्रवास्तुदेवतानां विशेषनैवेद्यादीनि। शिखिने घृतान्नम्। पर्जन्याय सोत्पलं घृतौदनम्। जयन्ताय पीतध्वजं पिष्टमयं कूर्चं च। कुलिशायुधाय पञ्चरत्नानि।

पैष्टं कुलिशं च। सूर्याय वितानकं धूपं सक्तुं च। सत्याय घृतगोधूमम्। भृशाय मत्स्यान्। अन्तरिक्षाय शकुलीः। वायवेसक्तून्। पूष्णे लाजाः। वितथाय चणकोदनम्। घृतक्षताय मध्वऽन्नम्। यमाय पिशितोदनम्। गन्धर्वाय गन्धौदनम्। भृङ्गराजाय मेषजिहिकाम्। मृगाय यावकम्। पितृभ्यः कृसरम्। दौवारिकाय दन्तकाष्ठं, पैष्टं कृष्णवलिं च। सुग्रीवायाऽपूपम्। पुष्पदन्ताय पायसम्। वरुणाय कुशस्तम्बसहितं पद्मम्। असुराय पैष्टं हिरण्मयं सुरा च। शोषाय घृतोदनम्। पापाय गोधाम्। रोगाय घृतलड्डुकान्। अहये फलान्वितं पुष्पम्। मुख्याय सर्पिः। भल्लाटाय गुडौदनम् सोमाय मधुपायसम्। सर्पेभ्यः शालिपिष्टम्। अदितये पोलिकाम्। दितये पूरिकाम्। आपाय क्षीरम्। आपवत्साय दधि। सावित्राय लड्डुकान। समरीचं कुशोदकम्। सवित्रे गुडापूपम्। जयाय घृतचन्दनम्। विवस्वते रक्तचन्दनं पायसम्। राजयक्ष्मणे आमं पक्कं च मांसम्। इन्द्राय हरितालोदनं घृतसंयुतम्। गुडोदनं तु मित्राय रुद्राय घृतपायसम्। पृथ्वीधराय मांसानि कूष्माण्डानि च। अर्यम्णे शर्करापायसम्पञ्चगव्यं यवांश्चैवतिलक्षतहविश्चरून् भक्ष्यं भोज्यं च विविधं ब्रह्मणे विनिवेदयेदिति॥ राक्षसीनां तु, चरक्यै मांसोदनं घृतं पद्मकेसरं हविषान्वितम्। आग्नेये विदार्यै सरुधिरमसौदनं हरिद्रौदनं च। नैर्ऋते पूतनायै सरुधिरं दध्योदनं मत्स्यखण्डैश्च संयुतम्। पीतरक्तं च बलिं वायव्ये पापराक्षस्यै मत्स्यमांसं सुरासवम्। सर्वत्र पायसं वा दद्यात्। इति गृहदानप्रयोगः॥

कृत्वा मञ्चं प्रयत्नेन शयनासनसंयुतम् पुण्यकाले द्विजेभ्योऽथ यतिभ्यो वा निवेदयेत्॥ सर्वान् कामानवाप्नोति निष्कामो मोक्षमाप्नुयादिति स्कान्दोक्तम्॥

पञ्चयज्ञक्रियायुक्तो वसेदाचन्द्रतारकम्॥ ततस्तं पूर्वस्थापितशय्योपर्य्युदङ्मुखमुपवेश्य स्वयमासने प्राङ्मुख उपविश्य देशकालकीर्त्तनोत्तरममुकगोत्रायाऽमुकशर्मणे ब्राह्मणायेदं गृहं पक्वेष्टकादिरचितं यथोपपत्तिसम्पादितं कांस्यताम्रादिभाजनसर्वधान्यलवणघृतगुडशर्करागोबलीवर्द्ददासमञ्चतूलिकावितानादिसर्वोपकरणयुतं सदीपप्रभोद्द्योतं सर्वदैवतं गृहं सर्वपापक्षयपूर्वककल्पकोटिशताऽवधिनारायणसमीपे क्षीरार्णवनिवासकाम इति। मृन्मयगृहे दान एकैकमन्वन्तरावच्छिन्नप्रतिलोकपालपुरानेवासकाम इति। यद्वासर्वत्र विष्णुप्रीतिकामः। ततः प्रार्थना। इदं गृहं गृहाण त्वं सर्वोपस्करसंयुतम्। तव विप्रप्रसादेन ममास्त्वतिनवं गृहम्॥ गृहं मम विभूत्यर्थंगृहाण त्वं द्विजोत्तम। प्रीयतां मे जगद्योनिर्वास्तुरूपी जनार्द्दन इति॥ ततः प्रतिग्रहीता देवस्य त्वेति यजुषा प्रतिगृह्य ॐ स्वस्तीत्युक्त्वा कामस्तुतिं पठेत्। दक्षिणा तु स्वर्णसहस्रमारभ्यैकसुवर्णपर्यन्तशक्त्या दर्शिता। ततः पादुकोपानहच्छत्रचामरादिकं पुनर्दत्वासम्पन्नं वाप्यसम्पन्नं गृहोपस्करभूषणम्। सर्वे सम्पूर्णमेवाऽस्तु त्वत्प्रसादाद्द्विजोत्तमेति प्रार्थयेत्। एतत्फलमपि मात्स्ये, यएवं सर्वसम्पन्नं पक्वेष्टं विनिवेदयेत्। कल्पकोटिशतं यावद्ब्रह्मलोके महीयते॥ शैलजं दारुजं वाऽपि यो दद्याद्विधिपूर्वकम्। वसेत्क्षीरार्णवे रम्ये नारायणसमीपतः॥ मृण्मयं चाऽपि यो दद्याद् गृहं चोपस्करान्वितम्। पुरेषु लोकपालानां प्रतिमन्वन्तरं वसेदिति॥ एतच्च वास्तुपूजनन्। अनेन विधिना यस्तु प्रतिसंवत्सरं बुधः। गृहे चायतने कुर्यान्न स दुःखमबाप्नुयादित्युत्त्क्वाप्रतिसंवत्सरं कर्त्तव्यम्। अत्रवास्तुदेवतानां विशेषनैवेद्यादीनि। शिखिने घृतान्नम्। पर्जन्याय सोत्पलं घृतौदनम्। जयन्ताय पीतध्वजं पिष्टमयं कूर्चंच। कुलिशायुधाय पञ्चरत्नानि।

पैष्टं कुलिशं च। सूर्याय वितानकं धूपं सक्तुं च। सत्याय घृतगोधूमम्। भृशाय मत्स्यान्। अन्तरिक्षाय श‍ष्कुलीः। वायवेसक्तून्। पूष्णे लाजाः। वितथाय चणकोदनम्। घृतक्षताय मध्वऽन्नम्। यमाय पिशितोदनम्। गन्धर्वाय गन्धौदनम्। भृङ्गराजाय मेषजिह्विकाम्। मृगाय यावकम्। पितृभ्यः कृसरम्। दौवारिकाय दन्तकाष्ठं, पैष्टं कृष्णवलिं च। सुग्रीवायाऽपूपम्। पुष्पदन्ताय पायसम्। वरुणाय कुशस्तम्बसहितं पद्मम्। असुराय पैष्टं हिरण्मयं सुरा च। शोषाय घृतोदनम्। पापाय गोधाम्। रोगाय घृतलड्डुकान्। अहये फलान्वितं पुष्पम्। मुख्याय सर्पिः। भल्लाटाय गुडौदनम् सोमाय मधुपायसम्। सर्पेभ्यः शालिपिष्टम्। अदितये पोलिकाम्। दितये पूरिकाम्। आपाय क्षीरम्। आपवत्साय दधि। सावित्राय लड्डुकान। समरीचं कुशोदकम्। सवित्रे गुडापूपम्। जयाय घृतचन्दनम्। विवस्वते रक्तचन्दनं पायसम्। राजयक्ष्मणे आम पक्वंच मांसम्। इन्द्राय हरितालोदनं घृतसंयुतम्। गुडोदनं तु मित्राय रुद्राय घृतपायसम्। पृथ्वीधराय मांसानि कूष्माण्डानि च। अर्यम्णे शर्करापायसम्। पञ्चगव्यं यवांश्चैव तिलक्षतहविश्वरून् भक्ष्यं भोज्यं च विविधं ब्रह्मणे विनिवेदयेदिति॥ राक्षसीनां तु, चरक्यै मांसोदनं घृतं पद्मकेसरं हविषान्वितम्। आग्नेये विदार्यै सरुधिरमांसौदनं हरिद्रौदनं च। नैर्ऋते पूतनायै सरुधिरं दध्योदनं मत्स्यखण्डैश्च संयुतम्। पीतरक्तं च बलिं वायव्ये पापराक्षस्यै मत्स्यमांसं सुरासवम्। सर्वत्र पायसं वा दद्यात्। इति गृहदानप्रयोगः॥

कृत्वा मञ्चं प्रयत्नेन शयनासनसंयुतम् पुण्यकाले द्विजेभ्योऽथ यतिभ्यो वा निवेदयेत्॥ सर्वान् कामानवाप्नोति निष्कामो मोक्षमाप्नुयादिति स्कान्दोक्तम्॥

मठदानं कार्यं, मार्कण्डेये—कुर्यात्प्रतिश्रयगृहं पथिकानां हिताऽऽवहम्। निजगेहैकदेशं वा साधूनां यो निवेदयेत्॥ अक्षयं पुण्यमुद्दिष्टं तस्य स्वर्गापवर्गदम्। सर्वकामसमृद्धोऽसौ देववद्दिवि मोदते॥ भविष्यत्पुराणेऽपि, प्रतिश्रये सुविस्तीर्णे कारिते सजलेन्धने। दीनानाथजनार्थाय वद किं न कृतं भवेत्॥ प्रतिश्रयो धर्मशाला॥ इति प्रतिश्रयदानम्॥

अथ कन्यादानम्॥ बृहस्पतिः। सहस्रमेव धेनूनां शतं वाऽनडुहां समम्। दशानडुत्समं यानं दशयानसमो हयः॥ दशवाजिसमा कन्या भूमिदानं ततः परम्। ददन्तिं सर्वपापेभ्यो ब्रह्मलोकं व्रजन्ति त इति॥ देवलः। तिस्रः कन्या यथान्यायं पालायेत्वा निवेद्य च। न पिता नरकं याति नारी वा स्त्रीप्रसूयिनी॥ वसिष्ठः। हाटकक्षितिगौरीणां सप्तजन्मानुगं फलम्। धर्मेण विधिना दातुमसगोत्रोऽपि युज्यते॥ स्कान्दे, आत्मीकृत्यसुवर्णेन परकीयां तु कन्यकाम्॥ ऋष्यशृङ्गः। वरगोत्रं समुच्चार्य प्रपितामह पूर्वकम्। नाम सङ्कीर्तयेद्विद्वान् कन्यायाश्चैवमेव हि॥ तिष्ठेत् पूर्वमुखो दाता वरः प्रत्यङ्मुखो भवेत्। मधुपर्कान्वितायैतां तस्मै दद्यात् सदक्षिणाम्॥ उदपात्रं ततो गृह्य मन्त्रेणानेन दापयेत्। गौरीं कन्यामिमां विप्र यथाशक्ति विभूषिताम्। गोत्राय शर्मणे तुभ्यं दत्तां विप्रसमाश्रय॥ भूमिं गावश्च दासीश्च वासांसि च स्वशक्तितः। महिष्यो वाजिनश्चैव दद्यात् स्वर्णमणीनपि॥ ततः स्वगृह्यविधिना होमाद्यं कर्म कारयेत्। यथाचारं विधेयानि माङ्गल्यकुतुकानि च॥ कन्यादाता प्राङ्मुखो वरः प्रत्यङ्मुखः। दातोदङ्मुखो वरः प्रत्यङ्मुख इति भट्टचरणाः। आवरश्च॥

अत्रायं प्रयोगः। वरं मधुपर्केण सम्पूज्य मासपक्षाद्युक्त्वामम समस्तपितॄणां निरतिशयसानन्दब्रह्मलोकावाप्त्यादिकन्यादान-

कल्पोक्तफलावाप्तयेऽनेन वरेणास्यां कन्यायामुत्पत्स्यमानसन्तत्या द्वादशावरान् द्वादश परान्पुरुषान् पत्रित्रीकर्तुम् आत्मनश्च श्रीलक्ष्मीनारायणप्रीतये ब्राह्मविवाहविधिना कन्यादानमहं करिष्य इति सङ्कल्प्य, कन्यां कनकसम्पन्नां कनकाभरणैर्युताम् दास्यामि विष्णवे तुभ्यं ब्रह्मलोकजिगीषया इति दद्यात्। वरस्तु, देवस्य त्वेति प्रतिगृह्य स्वस्तीत्युत्त्क्तास्वशाखीयां कामस्तुतिं पठेत्। एवं, न ममेत्यादिना सम्प्रदद इत्यन्तेन वाक्येन त्रिर्दद्यात्। कन्यादानप्रतिष्ठार्थं सुवर्णं दक्षिणां भूमिदास्यादिकं यथाशक्ति दद्यात्। विश्वम्भरः सर्वभूताः साक्षिण्यः सर्वदेवताः इमां कन्यां प्रदास्यामि पितॄणां तारणाय चेति मन्त्रं पुनर्न ममेत्यादि प्रीतय इत्यन्तमुक्त्वाऽमुकप्रवरायामुकगोवायामुकशर्मणः प्रपौत्रायामुकशर्मणः पौत्रायामुकशर्मणः पुत्रायामुकशर्मणे वराय श्रीधररूपिणेऽमुकप्रवराममुकगोत्रोत्पन्नाममुकशर्मणः प्रपौत्रीममुकशर्मणः पौत्रीममुकशर्मणः पुत्रीममुकनाम्नीमिमां कन्यां श्रीरूपिणीं तुभ्यमहं सम्प्रदद इति वरहस्ते। विस्तरस्तु प्रयोगरत्ने भट्टचरणैरुक्तः॥ इति कन्यादानम्॥

स्कान्दे, वैवाहिकप्रदानं हि यो ददाति दयापरः। विमानेनाऽकवर्णेन किङ्किणीजालमालिना॥ महेन्द्रभवनं याति सेव्यमानोऽप्सरोगणैरिति॥ वैवाहिकं विवाहोपयोगिद्रव्यवस्त्रालङ्कारादीनि वैवाहिकदानम्॥

अथ कपिलादानम्। आदित्यपुराणे, सहस्रं यो गवां दद्यात् कपिलां चापि सुव्रत। सममेव पुरा प्राह ब्रह्मा यत्नविदां वरः। रुक्मशृङ्गीं रौप्यखुरां सवस्त्रां कांस्यदोहनाम्।सवत्सां कपिलां दत्वा वंशान् सप्त समुद्धरेत्॥ यावन्ति चास्या रोमाणि सवत्साया भवन्ति हि। सुरभीलोकमासाद्य रमते तावतीः समाः॥

अद्येत्यादि गोसहस्रफलावाप्त्यनन्तरसवत्सकपिलारोममितवर्षपर्यन्तं कामधेनुलोककाम इमां कपिलां सुवर्णश्रुङ्गाद्युपस्करयुताममुकगोत्रायामुकशर्मणे विप्राय तुभ्यमहं सम्प्रददे न ममेति दद्यात्। मन्त्रो मात्स्ये। कपिले सर्वभूतानां पूजनीयासि रोहिणी। तीर्थदेवमयी यस्मादतः शान्तिं प्रयच्छ मे॥ तत्रैव। वस्त्रं तु त्रिगुणं धेन्वा दक्षिणां च चतुर्गुणाम्। एतैरलङ्कृतां धेनु घण्टाभरणभूषिताम्॥ कपिलां विप्रमुख्याय दत्वा मोक्षमवाप्नुयात्॥ मुमुक्षुर्वस्त्रत्रयोपेतां दत्वा चतुरः सुवर्णान् दक्षिणां दद्यात्। द्विगुणोपस्करोपेता महती कपिला स्मृता॥उपस्कराः सुवर्णशृङ्गवस्त्रदोहनपात्राद्याः सामान्यगोदाने वक्ष्यमाणाः। दत्ता सा विप्रमुख्याय स्वर्गमोक्षफलप्रदा। सप्तजन्मकृतात्पापान्मुच्यते दशसंयुतः॥यान्यान्प्रार्थयते कामान् तांस्तान्प्राप्नोति मानवः॥ अद्येत्यादि सप्तजन्मकृतपापनाशपूर्वक —स्वर्गकामो मोक्षकामः पुत्रकामः शुभकाम ईश्वरप्रीतिकाम इत्यादि यथाकामं फलमुल्लिख्य द्विगुणोपस्करयुतां दद्यादिति॥ महाकपिलादानम्॥ इति दश महादानानि॥

दशधेनवो मात्स्ये। यास्तु पापविनाशिन्यः कथिता दश धेनवः। तासां स्वरूपं वक्ष्यामि नामानि च नराधिप॥ प्रथमा गुडधेनुः स्याद् घृतधेनुस्तथाऽपरा। तिलनुस्तृतीया तु चतुर्थी जलसंज्ञिता॥ क्षीरधेनुस्तु विख्याता मधुधेनुस्तथा परा। सप्तमी शर्कराधेनुः कार्पासस्याष्टमी तथा॥ रसधेनुस्तु नवमी दशमी स्यात्स्वरूपतः। कुन्ती घृतादिधेनुनामितरासां तु राशयः॥ सुवर्णधेनुमप्यत्र केचिदिच्छन्ति मानवाः। नवमीं तिलतैलेन तथान्येऽपि महर्षयः॥ रसधेनुस्थाने सुवर्णधेनुस्तिलतैलधेनुश्च। एतद्विधानमपि मात्स्य एव, कृष्णाजिनं चतुर्हस्तं प्राग्ग्रीवं विन्यसेद् भुवि। गोमयेनोपलिप्तायां दर्भानास्तीर्य सर्वतः॥ लध्वैणं चाजिनं तद्वद्वद्वत्सस्य

परिकल्पयेत्॥ लध्वैणं चाजिनं लघुकृष्णाजिनम्। प्राङ्मुखीं कल्पयेद्धेनुमुदक्पादां सवत्सकाम्। प्राङ्मुखींप्राक्शिरसम्। सवत्साम्॥ उत्तरभागस्थितवत्ससहिताम्॥ उत्तमा गुडधेनुः स्यात्यदा भारचतुष्टयम्। वत्सं भारेण कुर्वीत भाराभ्यां मध्यमा स्मृता॥ अर्द्धभारेण वत्सः स्यात् कनिष्ठा भारकेण तु। चतुर्थांशेन वत्सः स्याद्गृहवित्तानुसारतः॥ भारः पलसहस्रद्वयमिति परिभाषायामुक्तम्। धेनुवत्सौ घृतस्यैतौ सितसूक्ष्माऽम्बराहतौ। शुक्तिकर्णाविक्षुपादौ शुचिमुक्ताफलेक्षणौ॥ सितसूत्रशिरालौ तौ सितकम्बलकम्बलौ। ताम्रगण्डुकपृष्ठौ तौ सितचामररोमकौ॥ गण्डुकं ककुत्प्रदेशे।विद्रुमभ्रुगोपेतौ नवनीतस्तनान्वितौ क्षौमपुच्छौ कांस्यदोहौ इन्द्रनीलकतारकौ॥ सुवर्णशृङ्गाभरणौ राजतक्षुरसंयुतौ। नानाफलमयैर्दन्तैर्घ्राणगन्धकरण्डकौ॥ गन्धकरण्डकः कर्पूरादियुतः पात्रविशेषः। इत्येवं रचयित्वातौ धूपदीपैरथार्चयेत्। वस्त्रमुक्तादीनां सारतो मानतश्चाधिक्ये फलाधिक्यम्॥

अथ प्रयोगः॥ अद्येत्यादि सर्वपापक्षयपूर्वकाशेषयज्ञफलप्राप्तिसहितभुक्तिमुक्तिकामो गुडधेन्वादिदानं करिष्य इति सङ्कल्प्य विप्रंवृत्वा सम्पूज्य सवत्सगुडधेनवे नम इत्यावाहनप्रतिष्ठापनपूजनानि कृत्वा तां प्रदक्षिणीकृत्य वक्ष्यमाणमन्त्रैरामन्त्र्याद्येत्यादि सर्वपापक्षयपूर्वकाशेषयज्ञफलप्राप्तिसहितभुक्तिकाम इमांधेनुममुकप्रवरायाऽमुकगोत्रायामुकशर्मणे विप्राय तुभ्यमहं सम्प्रददे न ममेति दद्यात्। विप्रस्तु पुच्छे प्रतिगृह्य स्वस्तीत्युक्त्वा कामस्तुतिं पठेत्। दाता तु सुवर्णदक्षिणादानविप्रभोजनभूयसीदानादि कर्मशेषं समापयेत्॥

अथामन्त्रणमन्त्राः॥ या लक्ष्मीः सर्वभूतानां या च देवे व्यवस्थिता। धेनुरूपेण सा देवी मम शान्तिं प्रयच्छतु॥ देहस्था

या च कल्याणी शङ्करस्य सदा प्रिया। धेनुरूपेण सा देवी मम पापं व्यपोहतु॥ विष्णोर्वक्षसि या लक्ष्मीः स्वाहा या च विभावसोः। चन्द्रार्कशक्रशक्तिर्या धेनुरूपाऽस्तु सा श्रिये॥ चतुर्मुखस्य या लक्ष्मीर्या लक्ष्मीर्धनदस्य। लक्ष्मीर्या लोकपालानां सा धेर्नुवरदाऽस्तु मे॥ स्वधा त्वं पितृमुख्यानां स्वाहा यज्ञभुजां तथा। सर्वपापहरा धेनुस्तस्माच्छान्तिं प्रयच्छ मे इति॥ एवमामन्त्र्य तां धेनुं ब्राह्मणाय निवेदयेत्। विधानमेतद्धेनूनां सर्वासामिह पठ्यते॥ सर्वासां प्रत्यक्षधेनुव्यतिरिक्तानामित्यर्थः। उक्तरचनस्य तत्रानुपयोगात्। एतदेव विधानं स्यात्त एवोपस्कराः स्मृताः मन्त्रावाहनसंयुक्ताः सदा पर्वणि पर्वणि॥ यथाश्रद्धं प्रदातव्या भुक्तिमुक्तिफलप्रदाः। अशेषयज्ञफलदाः सर्वपापहराः शुभाः॥ अपने विषुवेपुण्ये व्यतीपाते तथा पुनः। गुडधेन्वादयो देया उप रागादिपर्वसु॥ अत्र, पापविनाशिन्य इत्युपक्रमात्सर्वपापहरा इत्युपसंहाराच्च पापनाश एव फलं न भुक्तिमुक्त्यादीति दानसौख्ये। तत्र पुत्रेष्टाविवार्थवादोक्तानां भुक्तिमुक्त्यादीनां त्यागे मानाभावात्। उपक्रमोपसंहारौ त्वप्रयोजकौ। यत्तु पद्मपुराणादावेकेनैव घटेन घृतादिधेनुः, द्रोणमात्रेण च तिलेन धेनुरुक्ता, तत् प्रकारान्तरमिति कल्पतरौ। दानविवेके तु पलसहस्रप्रमाणःकुम्भ इति। द्वादशपलाधिकानि पञ्चपलशतानि कुम्भ इत्यन्ये। ततश्च यथाधिकारं व्यवस्था ज्ञेया। यद्यपि गुडधेन्वनन्तरं घृतधेनुरुद्दिष्टा, तथाऽपि तिलाभावे तथा दद्यात्। घृतधेनुमित्युक्त्वा तिलानां प्राधान्यात्तद्धेनुरादाबुच्यते॥

अथ तिलधेनुः॥ तत्र किञ्चित् प्रकारान्तरं विष्णुधर्मोत्तरेअनुलिप्ते महीपृष्ठे वस्त्राजिनकुशावृते। धेनुं तिलमयीं कृत्वा सर्वरत्नैरलंकृताम्॥ धेनुं द्रोणेन कुर्वीत आढकेन तु वत्सकम्।

सुवर्णशृङ्गीं रौप्यखुरां गन्धघ्राणवतीं तथा॥ कुर्याच्च शर्कराजिह्वां गुडास्यामक्षिकम्बलाम्। इक्षुपादां ताम्रपृष्ठां शुचिमुक्ताफलेक्षणाम्। प्रशस्तपत्रश्रवणां फलदन्तवतींशुभाम्। स्रग्दामपुच्छांकुर्वीतनवनीतस्तनान्विताम्॥ सितसूत्रशिरालां च सितसर्षपरोमिकाम्। फलैर्मनोहरैर्भक्ष्यैर्मणिमुक्ताफलान्विताम्॥ सितवस्त्रयुगच्छन्नां घण्टाभरणभूषणाम्॥ ईदृक्संस्थानसम्पन्नां कृत्वा श्रद्धासमन्वितः। कांस्योपदोहनां दद्यात् केशवः प्रीयतामिति॥ फलेतिकर्त्तव्यतामन्त्रा गुडधेनूक्ता एव। वह्निपुराणे तु, तिलाश्च पितृदैवत्यानिर्मिताश्चेह गोसवे। ब्रह्मणा तन्मयी धेनुर्दत्ता प्रीणातु केशवमिति मन्त्रान्तरमुक्तम्॥

अथ घृतधेनुः॥ विष्णुधर्मोत्तरे, तिलाभावे तथा दद्याद्घृतधेनुं प्रयत्नतः। वासुदेवञ्जगन्नाथं घृतक्षीरान्निषेचनात्॥ संपूज्य पूर्ववत् पुष्पैर्गन्धधूपादिभिर्नरः। अहोरात्रोषितो नाम्ना अभिषूयघृताऽर्चिषम्॥ अभिषूय प्रज्ज्वाल्य। घृतार्चिषमग्निम्। गव्यस्य सर्पिषः कुम्भं पुष्पमालादिभूषितम्। कांस्यापिधानसंयुक्तं सितवस्त्रयुगेन च॥ हिरण्यगर्भसहितं मणिविद्रुममौक्तिकैः॥ अत्र पलसहस्रपरिमाणः कुम्भः। द्वादशपलाधिकानि पञ्चपलशतानीति वा॥ इक्षुयष्टिमयान् पादान् खुरान् रौप्यमयाँस्तथा। सौवर्णे चाक्षिणी कुर्याच्छृङ्गे चागरुकाष्ठजे॥ सप्तधान्यमये पार्श्वे पत्रोर्णेन च कम्बलम्। कुर्यात्तुरुष्ककर्पूरैर्घ्राणं फलमयान्स्तनान्॥ तद्रच्छर्करया जिह्वां गुडक्षीरमयं मुखम्॥ पत्रोर्णं धौतकौशेयम्। तुरुष्कः सिह्लकम्। सिह्लाररस इति यावत्। पुच्छं क्षौममयं कार्यं रोमाणि सितसर्षपैःताम्रपृष्ठं विचित्रं तु ईदृग्रूपां मनोरमाम्॥ विधिना कृतवत्सां च कुर्यालक्षणलक्षिताम्। एतैः कृत्वा तथा नत्वा पूजयित्वा विधानतः॥ तद्भक्ताय प्रदा-

तव्या मङ्गलाशीःस्वपारगे। एतां ममोपकाराय गृह्णीष्व त्वं द्विजोत्तम। प्रीयतां मम देवेशो घृतार्चिः पुरुषोत्तमः। इत्युदाहृत्य विप्राय दद्याद्धेनुं नराधिप॥ स्कान्दे त्वयं मन्त्रः। घृतं गावः प्रसूयन्ते घृतं भूम्यां प्रतिष्ठितम्। घृतमग्निश्च देवाश्च घृतं मे सम्प्रदीयतामिति॥ फलं च, घृतक्षीरवहा नद्यो यत्र पायसकर्द्दमाः। तेषु लोकेषु सर्वेषु सुपुण्येषूपजायते॥ सकामानामियं व्युष्टिः कथिता नृपसत्तम॥ व्युष्टिः फलम्। विष्णुलोकं नरा यान्ति निष्पापा धेनुदानत इत्यादि। दक्षिणात्रैकसुवर्णप्रभृति यथाशक्तीति मदनरत्ने। यथाशक्ति हिरण्यमिति हेमाद्रौ॥

अथ जलधेनुः॥ तत्रैव जलधेनुं प्रक्रम्य, जलकुम्भं नरव्याघ्र सुवर्णरजतान्वितम्॥ सुवर्णरजतशृङ्गखुरान्वितमिति साम्प्रदायिकाः। रत्नगर्भमशेषैस्तु ग्राम्यैर्धान्यैः समन्वितम्॥ सितवस्त्रयुगच्छन्नं दूर्वापल्लवशोभितम्। कुष्ठमांसीमुरोशीरबालकामलकैर्वृतम्॥ प्रियङ्गुपत्रसहितं सितवस्त्रोपवीतिनम्। सच्छत्रं सउपानत्कंदर्भविष्टरसंस्थितम्॥ चतुर्भिः सम्भृतं भूप तिलपात्रैश्चतुर्द्दिशम्। स्थगितं दधिपात्रेण घृतक्षौद्रवता मुखे॥ तिलपात्राणि ताम्रस्य दधिपात्रं कांस्यस्येति दानविवेके। उपोषितः समभ्यर्च्य वासुदेवं जलेशयम्। पुष्पधूपोपहारैश्च यथाविभवमादृतः॥ सङ्कल्प्य जलधेनुं च कुम्भं तमभिपूज्य च। पूजयेद्वत्सकं तद्वत् कृतं जलमयं बुधः॥ एवं सम्पूज्य गोविन्दं जलधेनुं सवत्सकाम्। सितवस्त्रधरः शान्तो वीतरागो विगत्सरः। दद्याद् द्विजाय राजेन्द्र प्रीत्यर्थं जलशायिनः॥ जलशायी जगद्योनिः प्रीयतां मम केशवः। इति चोच्चार्य भुनाथ विप्राय प्रतिपाद्यताम्। अपक्कान्नाशिना स्थेयमहोरात्रमतः परम्। तथा, धान्यानि पार्श्वद्वये, कुष्ठादीनि घ्राणदेशे, प्रियङ्गुपत्रं श्रवणे, यज्ञोपवीतं मूर्ध्निस्थापयेत्। वत्सश्चतुर्थी शेनैव।

दक्षिणा शक्तितःसुवर्णम्। अनेन विधिना दत्वा जलधेनुं नराधिपसर्वान् कामानवाप्नोति ये दिव्या ये च मानुषा इति॥

अथ क्षीरधेनुः॥ स्कान्दे, क्षीरधेनुं प्रवक्ष्यामि तां निबोध नराधिप। अनुलिप्ते महीपृष्ठे गोमयेन नराधिप। गोचर्ममात्रमानेन कुशानास्तीर्य सर्वतः॥तत्रोपरि महाराज न्यसेत् कृष्णाजिनं ततः॥ तत्रोपरि कुण्डलिकां गोमयेन कृतामपि॥ क्षीरकुम्भं ततः स्थाप्य चतुर्थांशेन वत्सकम्। सुवर्णमुखशृङ्गाणि चन्दनागरुकाणि च॥ प्रशस्तपत्रश्रवणं तिलपात्रोपरि न्यसेत्। मुखं गुडमयं तस्या जिह्वा शर्करया तथा॥ मूलप्रशस्तदन्ता च मुक्तामयफलेक्षणा। इक्षुपादा दर्भरोमा सितकम्बलकम्वला॥ ताम्रपृष्ठा कांस्यदोहा पट्टसूत्रमयं तथा। पुच्छं च नृपशार्दूल नवनीतमयस्तनी॥ स्वर्णशृङ्गी रौप्यखुरा पञ्चरत्नमयी भुवि। चत्वारि तिलपात्राणि चतुर्दिक्ष्वपि स्थापयेत्॥ सप्त व्रीहीन् समायुक्तो दिक्षु सर्वासु प्रक्षिपेत्। एवं लक्षणसंयुक्तां क्षीरधेनुं प्रकल्पयेत्॥ आच्छाद्य वस्त्रयुग्मेन गन्धपुष्पैः समर्चयेत्। धूपदीपादिकं कृत्वा ब्राह्मणाय निवेदयेत्॥ अनेनैव तु मन्त्रेण क्षीरधेनुं प्रकल्पयेत्॥ अनेन गुडधेनूक्तेन। प्रकल्पयेदनुमन्त्रयेत्। आप्यायस्वेति मन्त्रेण क्षीरधेनुं प्रसादयेत्। गृह्णामि त्वां विप्रभक्त्या ग्राहको मन्त्रमुच्चरेत्॥ एवं धेनुं प्रदत्वा च क्षीराहारो दिनच्चरेत्। त्रिरात्रं तु पयोभक्षो ब्राह्मणो राजसत्तम॥ मन्त्रस्तु, गृह्णामि त्वां देवि भक्त्या कुटुम्बार्थे विशेषतः॥ भरस्वकामैर्मांसर्वैः क्षीरनो नमोऽस्तु त इति॥ एतां हेमसहस्रेण शतेनाथ स्वशक्तितः। शतार्द्धमथवाऽप्यर्द्धं तत्रैवार्द्ध स्वशक्तितः॥ दद्याद्धेनुं महाराज शृणु तस्यापि यत् फलम्। दिव्यं वर्षसहस्रं तु रुद्रलोके महीयते॥ दिव्यवर्षसहस्राऽवधि रुद्रलोककाम इति फलोल्लेखः सङ्कल्पवाक्ये। अन्यद्गुडधेनुवत्॥

अथ दधिधेनुः। तत्रैव भुलेपनकुशकृष्णाजिनान्युक्त्वा, दधिकुम्भं च संस्थाप्य सप्तधान्यस्य चोपरि। चतुर्थांशेन वत्सं तु सौवर्णमुखसंयुतम्॥ प्रशस्तपत्रश्रवणा मुक्ताफलमयेक्षणा। चन्दनागरुशृङ्गा च मुखं वै गन्धमालिका॥ गन्धमालिका गन्धद्रव्यविशेष इति केचित्। सुगन्धपुष्पस्रगित्यन्ये। कर्पूरादिसुगन्धद्रव्यसमूह इति बहवः। जिह्वां शर्करया राजन्घ्राणं श्रीखण्डकं तथा। फलं मूलमया दन्ताः सितसूत्रस्य कम्बलः॥ ताम्रपृष्ठा दर्भरोमा पुच्छे सूत्रमयं तथा। सुवर्णशृङ्गीं रौप्यखुरां नवनीतमयस्तनीम्॥ इक्षुपादां सुसंस्कृत्यसर्वाभरणभूषिताम्। आच्छाद्य वस्त्रयुग्मेन पुष्पगन्धैः सुपूजिताम्॥ ब्राह्मणाय कुलीनाय साधुवृत्ताय धीमते। पुच्छदेशोपविष्टाय मुद्रिकाकर्णमात्रकैः॥ पादुकोपानहौ छत्रं दत्वा मन्त्रमनुस्मरेत्॥ मन्त्रो गुडधेनूक्तः। दधिक्राव्णेति मन्त्रेण दधिधेनुं प्रदापयेत्॥ एवं दधिमयीं धेनुंदत्वा राजर्षिसत्तम। एकाहारो दिनं तिष्ठेद्दध्नाच नृपनन्दन॥ यजमानो वसेद्राजन त्रिदिनं च द्विजोत्तमः॥ यत्र मधुवहा नद्यो यत्र पायसकर्द्दमाः। मुनयो ऋषयः सिद्धास्तत्र गच्छन्ति धेनुदाः॥ दातारो दायकाश्चैव तेऽपि यान्ति परां गतिम्॥ मधुनदीकबहुपायसऋषिसिद्धलोककाम इति शेषफलोल्लेखः॥

अथ मधुधेनुः॥ स्कान्दे, मधुधेनुं प्रवक्ष्यामि सर्वपापप्रणाशिनीम्। अनुलिप्ते महीपृष्ठे कृष्णाजिनकुशोत्तरे। धेनुं मधुमयीं कृत्वा सम्पूर्णघटपूरिताम्॥ तद्वच्चतुर्थभागेन वत्सकं परिकल्पयेत्॥ सौवर्णं तु मुखं कृत्वा शृङ्गाण्यगुरुचन्दनम्। पृष्ठं ताम्रमयं तस्याः पुच्छं सूत्रमयं तथा॥ पादास्त्विक्षुमयाःकार्याः सितकम्बलकम्बलम्॥ मुखं गुडमयं कृत्वा जिह्वा शर्करयाऽन्विता। मौक्तिकं नयने तस्या दन्ताः फलमयाः स्मृताः॥ दर्भरोम-

धरादेवी रौप्यखुरविभूषिता। प्रशस्तपत्रश्रवणा नवनीतमयस्तनी॥ सर्वलक्षणसंयुक्ता सप्तधान्यानि दापयेत्। चत्वारि तिलपात्राणि चतुर्दिक्षु च भूषिता॥ आच्छाद्य वस्त्रयुग्मेन घण्टाभरणभूषिताम्। कांस्योपदोहनीं कृत्वा गन्धपुष्पैस्तु पूजिताम्॥ पुच्छदेशोपविष्टाय ब्राह्मणाय प्रतिपादयेत्। उदपूर्वं तु कर्त्तव्यं पश्चाद्दानं समाचरेत्॥ रसज्ञा सर्वदेवानां सर्वभूतहिते रता। प्रीयन्तांपितरो देवा मधुधेनो नमोऽस्तु ते॥ एवमुच्चार्यं तां धेनुं ब्राह्मणायनिवेदयेत्॥ अहं गृह्णामि त्वां देवि कुटुम्बार्थे विशेषतः। कामान् कामदुधे धुङ्क्ष्वमधुधेनो नमोऽस्तु ते॥ मधु वातेति मन्त्रेण प्रदाप्यायतचेतसा। धेनुं दत्वा च मधुपायसाभ्यां दिनं नयेत्॥ब्राह्मणोऽपि तथैव त्रिरात्रं नयेत्। फलश्रुतिरपि। यत्र मधुवहानद्यो यत्र पायसकर्दमाः। ऋषयो मुनयः सिद्धास्तत्र गच्छन्तिधेनुदाः॥ तत्र भोगान्वरान्भुङ्क्ते ब्रह्मलोके स तिष्ठति॥मधुनदीकबहुपायसकर्द्दममुनिसिद्धलोकोत्तमभोगोत्तरब्रह्मलोककामइति विशेषफलोल्लेखः॥

अथ रसधेनुः॥ स्कान्दे, रसधेनुं महाराज कथयामि समासतः। अनुलिप्ते महीपृष्ठे कृष्णाजिनकुशोत्तरे॥ रसस्य तु घटंराजन् सम्पूर्णमैक्षवस्य तु। तद्वत्सङ्कल्पयेत् प्राज्ञश्चतुर्थांशेन वत्सकम्॥ इक्षुदण्डमयाः पादा राजतखुरसंयुताः॥ सुवर्णशृङ्गाभरणावस्त्रपुच्छा घृतस्तनी। पुष्पकम्बलसंयुक्ता शर्करामुखजिद्दिका॥दन्ताः फलमयास्तस्याः पृष्ठं ताम्रमयं शुभम्। पुष्परोमा तुराजेन्द्र मुक्ताफलकृतेक्षणा॥ सप्तव्रीहिसमायुक्ता चतुर्द्दिक्षु सदीपिका।सर्वोपस्करसंयुक्ता सर्वगन्धविभूषिता॥ चत्वारि तिलपात्राणिचतुर्दिक्षु निवेशयेत्। धेनुं तु पूजयित्वाऽग्रे पुष्पगन्धस्रगादिभिः॥ पूर्वोक्ता य च मन्त्राश्च तानेव प्रयतः स्मरेत्॥ मन्त्रा

गुडधेनूक्ताः। एवमुच्चारयित्वा तु दीयते वै द्विजोत्तमे। दश पूर्वान् परांश्चैव आत्मानं चैकविंशकम्। नयेत्तु परमं स्थानंयस्मान्न निवर्त्तते पुनः॥ दाता वा ग्राहको वाऽपि एकाहं रसभोजकौ। सोमपानं भवेत्तस्य सर्वक्रतुफलं लभेदित्यादि। स्वाधिकदशपूर्वदशपरपुरुषाणां निवृत्तिरहितपरपदप्राप्तये आत्मनश्च सोमपानसर्वक्रतुफलप्राप्तिकाम इति विशेषफलोल्लेखः॥

अथ शर्कराधेनुः स्कान्दे। तद्वच्च शर्कराधेनुं शृणु राजन्यथाऽर्थतः। अनुलिप्ते महीपृष्ठे कृष्णाजिनकुशोत्तरे॥ धेनुःशर्करया राजन् सदाभारचतुष्टयम्। उत्तमा कथ्यते सद्भिश्चतुर्थांशेन वत्सकः॥ तदर्द्धं मध्यमा प्रोक्ता चतुर्थांशेन कनीयसी॥तद्वद्वत्संप्रकुर्वीत शतुर्थांशेन मानवः। अथ कुर्यादष्टांशतश्चतुर्थांशेन वत्सकम्॥ अष्टांशत इति। भारचतुष्टयस्याष्टमांशेन अर्द्धभारेणेत्यर्थः। स्वशक्त्या कारयेद्धेनुमात्मपीडां न कारयेत्।सर्ववीजानि संस्थाप्य चतुर्दिक्षु समन्ततः॥ सौवर्णमुखशृङ्गाणिमौक्तिकैर्नयनानि च। गुडेन च मुखं कार्यं जिह्वा पिष्टमयीतथा॥ कम्बलं पट्टसूत्रेण कण्ठाभरणभूषिता। इक्षुपादा रौप्यखुरानवनीतमयस्तनी॥ प्रशस्तपत्रश्रवणा सितचामरभूषिता। पञ्चरत्नसमायुक्ता दर्भरोमसमन्विता॥ कांस्योपदोहना सम्यग् गन्धपुष्पैः समन्विता। ईदृग्विधानसंयुक्ता वस्त्रैराच्छादितोपरि। गन्धपुष्पैरलङ्कृत्य ब्राह्मणाय निवेदयेत्॥ पूर्वामुखः सदा दाताअथ वा स्यादुदङ्मुखः। धेनुं पूर्वमुखीं कृत्वा वत्समुत्तरतोन्यसेत्॥ दानकाले तु ये मन्त्रास्तान् पठित्वा समर्चयेत्॥ गुडधेनूक्ताः। आच्छाद्य चैव तं विषं मुद्रिकाकर्णवेष्टनैः।स्वशक्त्यादक्षिणां दद्याद्गन्धपुष्पं सचन्दनम्॥ धेनुं समर्चयेत्तस्य मुखं चन विलोकयेत्। एकाऽहं शर्कराऽऽहारो ब्राह्मणस्त्रिदिनं वसेत्॥

सर्वपापहरा धेनुः सर्वकामप्रदायिनी। सर्वकामसमृद्धश्च जायते नात्र संशयं इति॥

अथ कार्पासधेनुः॥ वाराहे, अतः परं प्रवक्ष्यामि धेनुं कार्पासकीं शुभाम्। एवं विश्वस्य गुप्त्यर्थं ब्रह्मणा चांशुकं कृतम्॥कार्पासमूलं तच्चापि तेनासावुत्तमः स्मृतः। सा च कार्पासभारेणधेनुःश्रेष्ठा प्रकीर्तिता। मध्यमा च तदर्द्धेन तदर्द्धेन तु कन्यसी॥पूर्ववद्वस्त्रधान्यं च हिरण्यं च तथैव च। वत्सकं तु चतुर्थांशाद्दानमन्त्रो विधीयते॥ कुर्वीत पूर्ववद्वत्सं वस्त्रधान्याद्युपस्कृतम्॥ पूर्ववद्वराहोक्ततिलधेनुदानवत्। हेमकुन्देन्दुसदृशे क्षीरार्णवसमुद्भवे।सोमप्रिये सुधेन्वाख्येसौरभेयिनमोऽस्तु ते॥ दत्तेयमिन्दुनाथाय शशाङ्कायाऽमृताय च। अत्रिनेत्रप्रजाताय सोमराजाय वैनमः॥ यस्त्वेवं परया भक्त्या ब्राह्मणाय प्रयच्छति। स याति चन्द्रलोकं तु सोमेन सह मोदत इति॥ चन्द्रलोकगमनानन्तरचन्द्रसहवाससुखकाम इति विशेषफलोल्लेखः॥

अथ भविष्यत्पुराणे लवणधेनुः॥ तत्र युधिष्ठिरं प्रतिकृष्णः। शृणु राजन्प्रवक्ष्यामि लवणस्येह कल्पितम्। गोमयेनाऽनुलिप्ते तु दर्भसंस्तरसंस्थितम्॥ आविकं चर्म विन्यस्य पूर्वाशाऽभिमुखं स्थितम्। वस्त्रेण छादितं कृत्वा धेनुं कुर्वीत बुद्धिमान्॥हाटकेनैव कुर्वीत बहुवित्तोऽल्पवानपि॥ स्वर्णशृङ्गी रौप्यखुराभिक्षुपादां फलस्तनीम्। कार्या शर्करया जिह्वा गन्धघ्राणवतीतथा॥ समुद्रोदरजां शुक्तिं कर्णौ च परिकल्पयेत्। शृङ्गे चन्दनकाष्ठाभ्यां मौक्तिके चाक्षिणी उभे॥ कपोलौ सक्तुपिण्डाभ्यांयवानास्ये प्रदापयेत्। कम्बलं पट्टसूत्रेण ग्रीवायां छत्रिकां तथा॥पृष्ठे वै ताम्रपात्रं तु अपाने गुडपिण्डिकाम्। लाङ्गुले कम्बलंदद्याद्रसान् क्षीरप्रदेशतः॥ योनिप्रदेशे तु मधु सर्वतस्तु फला-

ऽन्विता॥ एवं सम्यक् परिस्थाप्य लवणस्य कृतां तु गाम्। स्थापयेद्वत्सकं चाऽपि चतुर्भागेन मानवः॥ एवं धेनुं समभ्यर्च्य माल्यवस्त्रविभूषणैः। स्नात्वा देवार्चनं कुर्याद्ब्राह्मणानभिपूज्य च॥ कृतां प्रदक्षिणं गां तु पुत्रभार्यासमन्वितः॥ दानमन्त्रः —लवणे वै रसाः सर्वे लवणे सर्वदेवताः। सर्वदेवमये देवि लवणाख्ये नमोऽस्तु ते॥ प्रदक्षिणा मही तेन कृता भवति भारत। सर्वदानानि दत्तानि सर्वर्त्तुकफलानि तु॥ सर्वे रसाः सर्वमन्त्राः सर्वमेतच्चराऽचरम्॥ सौभाग्यं च परा वृद्धिः शरीरारोग्यसम्पदः। नृणां भवन्ति दत्वा तु रसधेनुं न संशयः॥ सौभाग्यपरमवृद्ध्याऽऽरोग्यकाम इति विशेषफलोल्लेखः। पुराणान्तरे, गां लवणमयीं कृत्वा षोडशप्रस्थसंयुताम्॥ चतुर्भिर्वत्सं राजेन्द्रेत्यादिना लवणपरिमाणान्तरमुक्तम्॥

अथ सुवर्णधेनुः। विष्णुधर्मे, भगवानुवाच। यद् ब्रह्मणोऽपि राजेन्द्र ऊहितं विष्णुना पुरा। तत्ते विस्तरतो राजन् कथयाम्यऽनुपूर्वशः॥ सुवर्णस्य सुवर्णस्य शुद्धस्य परिकल्पितम्॥ एकं सुवर्णपदं शोभनं रूपमाह, अपरं मानम्। रौप्यवत्सकसंयुक्तां मुक्ताफलविभूषिताम्। प्रवालशृङ्गोपयुतां पद्मरागादिशालिनीम्॥ घृतपात्रस्तनवतीं कर्पूरागरुनासिकाम्। शर्करारसनोपेतां मिष्टान्नरसवासिताम्॥ शङ्खशृङ्गान्तरां शुक्तिं ललाटस्थानकल्पिताम्। फलदन्तां वस्त्रयुग्मपार्श्वांक्षौमसुकम्बलाम्॥ इक्षुपादां नालिकेरश्रवणां गुडजानुकाम्। पञ्चगव्याऽपानवतीं कांस्यपृष्ठ समन्विताम्॥ सुपट्टसूत्रलाङ्गूलां सप्तधान्यसमन्विताम्। फलपुष्पसमोपेतां छत्रोपानत्समन्विताम्॥ सुवर्णधेनुं विप्राय प्रतिपाद्येदृशीं नरः॥ हिरण्यरेताः पुरुषः पुराणःकृष्णपिङ्गलः। तप्तहेमच्छविः स्रष्टा विश्वात्मा प्रीयतामिति॥ अनेनैव तु मन्त्रेण धेनोर्दानं प्रकीर्त्ति-

तम्। अश्वमेधसहस्रस्य फलमाप्नोत्यसंशयम्॥ कुलानां तु सहस्रं च स्वर्गं नयतिं तद्बुध इति॥ अश्वमेधसहस्रतुल्यफलप्राप्तिकुलसहस्त्रस्वर्गनयनकाम इति कामफलोल्लेखः। वह्निपुराणे तु, सुवर्णधेनुश्चाप्यत्र सुवर्णाश्च चतुर्द्दश॥ सुनिर्णिक्तसुवर्णैश्च सप्तभिर्मध्यमा मता। चतुर्भिः कन्यसी प्रोक्ता चतुर्थांशेन वत्सकः॥ गुडधेनुविधानेन दत्ता सर्वफलमदेत्यादिना सर्वंगुडधेनुवदुक्तम्॥

अथ वायुपुराणोक्तं वन्ध्यात्वहरं सुवर्णधेनुदानम्। चतुर्विधा तु या वन्ध्या भवेद्वत्सवियोजनात्॥ चतुर्विधा। वन्ध्या च काकवन्ध्या च स्त्रीप्रसूश्च मृतप्रजेति॥ वन्ध्या अपत्यसामान्याभाववती। काकवन्ध्या काकवदेकापत्या। वक्ष्ये तस्याःप्रतीकारं तत्स्वरूपं निबोधमे हिरण्येन यथाशक्त्या सवत्सां कारयेद् दृढाम्। धेनुं पलेन वत्सं च पादेन गुरुरब्रवीत्॥ धेनुं रौप्यखुरां रत्नं तस्याः पुच्छे नियोजयेत्। घण्टां गले च बध्नीयात्तिलकं चोभयोरपि॥ अर्चयेद्विधिना तां तु नैवेद्यं पायसं भवेत्। मोदकांश्च तथाऽपूपान्गुडं लवणमेव च॥ जीरकं च सुविस्तीर्णेशूर्पे वेणुमये दृढम्॥ धेनोरेकं प्रदातव्यं ब्राह्मणस्त्रीषु चैवहि। षडष्टौ दश वा दद्यात्तदनन्तरमेव च॥ ब्राह्मणं सर्वशास्त्रार्थकुशलं धर्मवेदिनम्। विद्याविनयसम्पन्नं शान्तं दान्तं जितेन्द्रियम्॥ अलोलुपं सर्वजनप्रियं कल्मषवर्जितम्। आहूय भक्त्या सम्पूज्य वस्त्राद्यैर्गन्धपुष्पकैः॥ तेनैव कारयेत् पूजामादृतो धेनुवत्सयोः। होमं च कारयेत्तत्र समिदाज्यचरूत्कटम्॥ सोमो धेनुमिममन्त्रं समुच्चार्य ततः पुनः। प्राङ्मुखायोपविष्टाय प्रदद्यात्तामुदङ्मुखः॥ मन्त्रेणानेन विधिवत् पुच्छे हस्तं निधाय च॥ धेनुर्याऽङ्गिरसः सत्रे वसिष्ठे सुरभी च या। दुहिता च तथा मानोरनेश्च वरुणस्य च॥ याश्च गावः प्रवर्त्तन्ते वनेषूपवनेषु च॥ प्रीणन्तु ता मम सदा पुत्रपौत्र-

प्रवर्द्धनाः। प्रयच्छन्तु दिवारात्रम् अविच्छेदं च सन्ततेः। वन्ध्यात्वं काकवन्ध्यात्वं कन्याप्रसव एव च। तथैव मृतवत्सात्वं दोषं मम चतुर्विधम्॥ दानेनानेन हरतु या सा कामदुघाऽनघेति॥

अथ स्वरूपतो गोदानम्। तत्र याज्ञवल्क्यः। यथाकथञ्चिद्दत्वा गां धेनुं वाऽधेनुमेव वा। अरोगामपरिक्लिष्टां दाता स्वर्गे महीयते॥ जाबालः। होमार्थमग्निहोत्रस्य यो गां दद्याद्दयान्वितः। त्रिर्वित्तपूर्णा पृथिवी तेन दत्ता न संशयः॥ अङ्गिराः। गौरेकस्यैव दातव्या श्रोत्रियस्य विशेषतः। सा हि तारयते पूर्वान् सप्त सप्त च सप्त च॥ आत्रेयः। सीदते वहुभृत्याय श्रोत्रियायाऽऽहिताग्नये। अतिथिप्रियाय दान्ताय देया धेनुर्गुणान्विता॥ देवलः सुशीलां लक्षणवतीं युवतीं वत्ससंयुताम्। बहुदुग्धवतीं स्निग्धां धेनुं दद्याद्विचक्षणः॥ व्यासः। संग्रामेष्वर्जयित्वा तु यो वै गाः सम्प्रयच्छति। यादृशीःस्पर्शयेद् गावः स तावत् फलमश्नुते॥ तावत् तद्गोरोममितवत्सरं स्वर्गफलम्॥ यो वै द्यूतेधनं जित्वा गाः क्रीत्वासम्प्रयच्छति। स दिव्यमयुतं शक्र वर्षाणां फलमश्नुते॥ भारते। न गोदानात् परं दानं किञ्चिदस्तीति मे मतिः। सा गौर्न्यायार्जिता दत्ता कृत्स्नं तारयते कुलम्॥ तथा, अकुलीनाय मूर्खाय लुब्धाय पिशुनाय च। हव्यकव्यव्यपेताय गौर्न देया कथञ्चन॥ तृणानि खादन्ति वसन्त्यरण्ये पिवन्ति तोयान्यऽपरिग्रहाय। दुह्यन्ति वाह्यन्ति पुनन्ति पापं गवां रसैर्जीवति जीवलोक इति प्रशंसा॥

अथ विधिः। याज्ञवल्क्यः। हेमशृङ्गी शफै रौप्यैः सुशीला वस्त्रसंयुता। सकांस्यपात्रा दातव्या क्षीरिणी गौः सदक्षिणा॥ विश्वामित्रः॥ प्राङ्मुखीं गामवस्थाप्य सवत्सां गां सुपूजिताम्। पुच्छदेशे तु दाता वै ततो बद्धशिखो भवेत्॥ उदङ्मुखस्तु विप्रः

स्यात् पात्रलक्षणलक्षितः। आज्यपात्रं करे कृत्वा कनकेन समन्वितम्॥ निक्षिप्य पुच्छं तस्मिंस्तु घृतदिग्धं प्रगृह्य च। सतिलं विप्रपाणिं च प्रागग्रं तु निधापयेत्॥ सतिलं सकुशं चापि गृहीत्वा दानमाचरेत्। अनेनैव तु मन्त्रेण पात्रहस्ते जलं क्षिपेत्॥ मन्त्रो वक्ष्यते। अनुव्रज्य च तां धेनुं ब्राह्मणेन समन्विताम्। गौतमीं तु ततो विद्यां जपेत प्रयतः शुचिः॥ उद्दिश्य वासुदेवं च प्रीयतामिति चानघ। पात्रं मनसि सञ्चिन्त्यतोयमप्सु विनिक्षिपेत्॥

अथ प्रयोगः। अद्येत्यादि गोमात्रदानफलतुल्यफलकामः स्वर्गकामः सर्वत्रापि कृत्स्नकुलतारणकामः सर्वपापक्षयकाम ईश्वरप्रीतिकामो वा गोदानं करिष्य इति सङ्कल्प्य प्राङ्मुखीं सवत्सां गां विप्रंच सम्पूज्य ससुवर्णमाज्यपात्रंहस्ते गृहीत्वा तत्र पुच्छं घृताक्तं कृत्वा विप्रहस्ते कुशतिलजलान्यादाय उक्तफलेष्वभिलषितं फलमुक्त्वा, यज्ञसाधनभूता या विश्वस्याघप्रणाशिनी। विश्वरूपधरो देवः प्रीयतामनया गवेति मन्त्रं, घृतक्षीरप्रदा गावो घृतयोन्यो घृतोद्भवाः। घृतनद्यो घृतावर्त्तास्ता मे सन्तु सदा गृहे॥ घृतं मे हृदये नित्यं घृतं नाभ्यां प्रतिष्ठितम्। घृतं मे सर्वतश्चैव गवां मध्ये वसाम्यहमिति पौराणमन्त्रं च पठित्वा जलमुत्सृजेत्। दानप्रतिष्ठार्थं दक्षिणां दत्वा ब्राह्मणधेनू अनुव्रज्य, गावः सुरभयो नित्यंगावो गुग्गुलगन्धिकाः गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनं महत्॥ अन्नमेव परं गावो देवानां हविरुत्तमम्। पावनं सर्वभूतानां क्षरन्ति च वहन्ति च॥ हविषा मन्त्रपूतेन तर्पयन्त्यमरान्दिवि। ऋषीणामपि होतॄणां गात्रो होमे प्रतिष्ठिताः॥ सर्वेषामेव भूतानां गावः शरणमुत्तमम्। गावः पवित्रं परमं गावो मङ्गलमुत्तमम्। गावः सर्वस्य लोकस्य गावो धन्याः सवाहनाः॥ नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव च। नमोब्रह्मसुताभ्यश्च

पवित्राभ्यो नमो नमः। ब्राह्मणाश्चैवगावश्च कुलमेकं द्विधा कृतम्। एकत्र मन्त्रास्तिष्ठन्ति हविरेकत्र तिष्ठतीति यमोक्तांगोमती विद्यां जपेत्॥ महाभारतेऽपि गोमती। गावो मामुपतिष्ठन्तु हेमशृङ्ग्यः पयोमुचः। सुरभ्यः सौरभेय्यश्च सरितः सागरं यथा॥ गा वै पश्याम्यहं नित्यंगावःपश्यन्तु मां सदा। गावोऽस्माकं वयं तासां यतो गावस्ततो वयमिति॥ गावो ममाग्रतः सन्तु गावोमे सन्तु पृष्ठतः। गावो मे हृदये सन्तु गवां मध्ये वसाम्यहमिति पठित्वा धेनुं द्विजं च प्रदक्षिणीकृत्यदद्यादित्यपि वदन्ति। दक्षिणामाह वसिष्ठो गोदानप्रकरणे। सुवर्णं परमं दानं सुवर्णं दक्षिणा परा। सुवर्णंपावनं प्राहुः परिमाणं परं तथेति॥ यजमानस्ततो दद्याद्यथाशक्त्या तु दक्षिणामिति। तदशक्तपरमिति मदनः॥

अथ मात्स्ये हेमशृङ्गी। दश सौवर्णिके शृङ्गे खुराः पञ्चपलान्विताः। पञ्चाशत्पलिकं कांस्यं ताम्रं चापि तथैव च॥ दाताऽस्याः सर्वमाप्नोति यावदाभूतसंप्लवम्॥ सुवर्णमत्र दक्षिणा। इति हेमशृङ्गीदानम्॥

शिवाय विष्णवे वापि यस्तु दद्यात् पयस्विनीम्। धेनुं स्नानोपहारार्थेस परं ब्रह्म गच्छनीति, स्कान्दे देवताभ्यो गोदानम्। सवृषंगोशतं दद्याच्छिवायातीव शोभनम्। त्रिः सप्तकुलजैः सार्द्धं शृणु तत्पदमाप्नुयादित्यादिना शिवधर्मोक्तं शिवाय वृषाऽधिकगोशतदानम्। देवताभ्यो दाने देवतैव संप्रदानं, न ब्राह्मणः। दत्तं च तत्तद्देवतायतने दक्षिणभागे स्थाप्यमिति दानसौख्ये॥

अथोभयतोमुखी॥ तद्दानकालःस्कान्दे। अर्द्धप्रसूतां गां दद्यात् कालादि न विचारयेत्। कालः स एव ग्रहणे यदा सा द्विमुखी तु गौः॥ मात्स्ये। रुक्मशृङ्गीं रौप्यखुरां मुक्तालाङ्गूलभूषिताम्। कांस्योपदोहनां राजन् सवत्सां द्विजपुङ्गवे॥ प्रसूय-

मानां यो दद्याद्धेनुं द्रविणसंयुताम्॥ यावद्वत्सो योनिगतो यावद्गर्भं न मुञ्चति। तावद्गौः पृथिवी ज्ञेया सशैलवनकानना॥ देवलः। अलङ्कृत्योक्तविधिना सुवर्णात्रिपलान्विता। दातव्या द्विपला मध्यैकपला कन्यसी मता॥ वाराहे। यश्चोभयमुखीं दद्यात् प्रभूतकनकान्विताम्। तद्दिनं पायसाहारः पयसा वाऽतिवाहयेत्॥ सुवर्णस्य सहस्रेण तदर्द्धेनापि वा पुनः। तस्याप्यर्द्धशतं वाऽथ पञ्चाशच्च तथार्द्धकम्॥ यथाशक्त्याऽपि दातव्यं वित्तशाठ्यविवर्जितम्॥ योगी। सवत्सा रोमतुल्यानि युगान्युभयतोमुखी। दाताऽस्याः स्वर्गमाप्नोति पूर्वेण विधिना ददत्॥ मात्स्ये। गोलोकः सुलभस्तस्य ब्रह्मलोकश्च पार्थिव॥ स्त्रियश्च तं चन्द्रसमानवक्त्राः प्रतप्तजाम्बूनदतुल्यवर्णाः महानितम्बस्तनमध्यवृत्ता भजन्त्यजस्रं नलिनाभनेत्राः॥

अथ प्रयोगः। अद्येत्यादि गृहसमुद्रशैलवनोपेतपृथिवीदानसमफलैतद्धेनुवत्सरोमसंख्ययुगदेवलोकमहितत्वपितृपितामह-प्रपितामहनरकोद्धरण—घृतक्षीरवहबहुकुल्याक—दधिपायसकर्द्दमक—देशाऽधिकरणकेप्सितकामगत्यात्मलोकसुलभत्वब्रह्म-लोकसुलभत्वाजस्रचन्द्रसमानवक्त्र—सुतप्तजाम्बूनदतुल्यवर्ण–महानितम्बस्तनवृत्तमध्यनलिनाभनेत्राऽनेकस्त्रीसेव्यमानत्वकाम उभयतोमुखीं दास्य इति सङ्कल्प्य, ॐ त्वं महीमवनिविश्वधनोर्वीतये वप्यापक्षरन्ती। अरमयो नमसैतदणस्सुतरणानि कृणोरिन्द्र- सिन्धूनिति गामनुमन्त्र्य विप्रंवस्त्रादिभिर्गांच सुवर्णशृङ्गरूप्यखुरादिभिरलङ्कृत्य गन्धादिनाऽभ्यर्च्य सगृहेत्यादि काम इत्यन्तं प्रयोगान्ते इमां सोपस्करामुभयतोमुखीं गां रुद्रदैवताम्। अमुकगोत्रायाऽमुकशर्मणे ब्राह्मणाय तुभ्यमहं सम्प्रददे न ममेति ब्राह्मणकरे दद्यात्। विप्रस्तु विधिवत्प्रतिगृह्य, ॐ स्वस्तीत्युक्त्ता गोपुच्छं स्पृष्ट्वा दत्तां दक्षिणां च प्रति-

गृह्य स्पृष्ट्वा इरावती धेनुमती, स्योना पृथिवि नो भवेति मन्त्रद्वयं जप्त्वा, प्रतिगृह्णामि त्वां धेनुं कुटुम्बार्थे विशेषतः। स्वस्तिर्भवतु मे नित्यंरुद्रमातर्नमो नम इति मन्त्रेण गृहीताया दक्षिणपाणिना गर्भेऽनुसन्तत्वेषामे वेदमहं देवानां जनिमानि विश्वा शतमायुरआयसीररक्षं नधस्येनो जयत्सानि दीयमिति। मन्त्रेणानेन गर्भमाकृष्येत्। अनन्तरकृत्यमाह च्यवनः। निष्क्रान्तेऽग्निमुपसमाधाय देवान् पितॄन्नदीःपर्वतान् वनस्पतीनुदधीन्नागान् ओषधीस्तर्पयेत्। तत्र क्रमेण मन्त्राः। ये देवासः, उशन्तस्त्वा, इमं मे गङ्गे, अद्रिभिः सुतो मतिभिः श्वनोहितः, वनस्पते, समुद्रज्येष्ठाः, अहिरिवभोगैः, मधु वाता इति। तदनु पृथिवीं तर्पयेत्। मन्त्रास्तु। इलेद्यावा मही द्यौः, उर्वी पृथिवी, गौरीर्मिमाय। ततः समस्तव्याहृतिभिश्चतुरशीत्याऽऽजयाहुतीर्हुत्वा ब्राह्मणान् भोजयित्वा स्वस्त्ययनं वाचयित्वा गामनुव्रज्य प्रागुक्तां गोमतीं विद्यां जप्त्वा पायसमात्रं भुञ्जीत॥ इत्युभयतोमुखीगोदानविधिः॥

भारते। इतिकण्ठमनड्वाहं सर्वरत्नैरलङ्कृतम्। दत्वा प्रजापतेर्लोकान् विशोकः प्रतिपद्यत इत्यादिसुवर्णशृङ्ग-रौप्यलाङ्गूलादिकमपि भारतोक्तं बोध्यम्॥ इतिकण्ठं प्रबलगलकम्बलम्॥

अथ वैतरणी ब्रह्मवैवर्त्ते। या सा वैतरणी नाम यमद्वारे महानदी। शतयोजनविस्तीर्णा पृथुत्वे सा महासरित्॥ अगाधाऽनन्तरूपा च दृष्टमात्रा भयावहा॥ तथा, पतन्ति तत्र वै मर्त्याः क्रन्दमानाःसुदारुणम्। तच्छृणुष्व नरव्याघ्र कथ्यमानं युधिष्ठिर॥ अयने विषुवेपुण्ये व्यतीपाते दिनक्षये। पाटलामथवा कृष्णां कुर्याद् वैतरणीं शुभाम्॥ स्वर्णशृङ्गीं रौप्यखुरां कांस्यपात्रसदोहनाम्। कृष्णवस्त्रयुगच्छन्नां सप्तधान्यसमन्विताम्। कार्पासद्रोणशिखर आसीनं ताम्रभाजने। यमं हैमं प्रकुर्याद्वै लोहदण्डसमन्वितम॥

महामहिषमारूढमूढपाशं करे परे। इक्षुदण्डमयं बद्ध्वा उडुपं पट्टबन्धनैः॥ उडुपोपरि तां धेनुं सूर्यदेहसमुद्भवाम्। कृत्वा प्रकाशयेद्विद्वान् छत्रोपानहसंयुताम्॥ इममुच्चारयेन्मन्त्रं संगृह्योदकमण्डलुम्॥

अथ प्रयोगः॥ पूर्वोक्तायनादिकाले मृत्युकाले वा पाटलां कृष्णां वा हेमशृङ्गाद्युपेतां कृष्णवस्त्रयुगच्छन्नां सप्तधान्यसंयुक्तां छत्रोपानद्युगलसंयुतां गां संनिधाप्य द्रोणमितकार्पासशिखरे ताम्रपात्रं तत्र च महिषारूढं दक्षिणवामहस्तधृतलोहदण्डपाशं हैमं यमं स्थापयित्वा तदग्रे पदबद्धेक्षुदण्डनिर्मितप्लवोपरि तां धेनुं स्थापयित्वा उदङ्मुखं प्रतिग्रहीतारमुपवेश्य स्वयं प्राङ्मुखः। यमद्वारे महाघोरा या सा वैतरणी नदी। तर्त्तुकामो ददाम्येनां तुभ्यं वैतरणीं च गामिति मन्त्रेण गामधिवासयेत्॥ ततः तिथ्यादि सङ्कीर्त्यवैतरणीं तर्त्तुं गां दास्य इति संकल्प्य प्रतिमायामक्षतपुञ्जे वा विष्णुं गां विप्रंच संपूज्य। अद्येत्यादि। अमुकगोत्रायामुकशर्मणे ब्राह्मणायाहं यमद्वारे स्थिताया नद्याः सुखेनोत्तरणार्थमिमां वैतरणीं गां सवत्सां सोपस्करां हैमयममूर्तिसहितां विष्णुदैवतां संप्रददे। दानमन्त्रः। विष्णुरूप द्विजश्रेष्ठ भूदेव पङ्क्तिपावन। सदक्षिणामया तुभ्यं दत्ता वैतरणी च गौरिति॥ ततः सुवर्णं दक्षिणां दत्वा तद्धेनोः पुच्छं प्रगृह्यानुव्रजेत्। तत्र मन्त्रः। धेनुके त्वं प्रतीक्षस्वयमद्वारे महाभये। उत्तितीर्षुरहं देवि वैतरण्यै नमो नमः॥ इति वैतरणीदानम्॥

अथ महिष्याः। भविष्योत्तरे। महिषीदानमाहात्म्यं कथयामि युधिष्ठिर। पुण्यं पवित्रमायुष्यं सर्वकामप्रदं सुखम्॥ चन्द्रसूर्यग्रहे पुण्ये कार्त्तिक्यामयने तथा। शुक्लपक्षे चतुर्दश्यां सूर्यसंक्रान्तिवासरे॥ यदा वा जायते वित्तं चित्तं च कुरुनन्दन। तदैव देया महिषीसंसारभयभीरुणा॥ प्रथमप्रसूता तरुणी सुशीला

दोषवर्जिता। सुवर्णशृङ्गतिलका घण्टाभरणभूषिता॥ रक्तवस्त्रवृता रम्या ताम्रदोहनिकान्विता। पिण्याकपिटकोपेता सहिरण्या च शक्तितः॥ पिण्याकपिटकं वलिपूर्णवंशादिपात्रम्। सप्तधान्ययुता देया ब्रह्मणे तां पयस्विनीम्। प्रतिग्रहः स्मृतस्तस्याः पृष्ठदेशे स्वयम्भुवा॥ दानवाक्यं तु, ॐ अद्येत्यादि। इन्द्रादिलोकपालानां या राज्यमहिषी शुभा। महिषी दानमाहात्म्यात् साऽस्तु मे कामदा सदा॥ धर्मराजस्य माहात्म्ये यस्याः पुत्रः प्रतिष्ठितः। महिषासुरस्य जननी या साऽस्तु वरदा ममेति मन्त्रमुक्त्वाऽमुकगोत्रायामुकशर्मणे ब्राह्मणाय इमां महिषीं सुवर्णशृङ्गतिलकाभरणां घण्टाताम्रदोहनिकां पिण्याकपिटकसप्तधान्यपादुकोपेतां यमदैवताम् आयुष्यसुखमहाराज्यकामस्तुभ्यमहं सम्प्रददे इति। स्त्री तु राजमहिषीत्वकामेति। जयकाम इति क्षत्रियः। धनधान्यकाम इति वैश्र्यः। एवं शूद्रेणाऽपि स्वाभिलषितं फलमुल्लेख्यम्। ईश्वरप्रीतिकाम इति वा सर्वैः। ततो दक्षिणां दद्यादिति। अनेन विधिना दत्वा महिषींद्विजपुङ्गवे। सर्वान् कामानवाप्नोति इह लोके परत्र च॥ या स्त्री ददाति महिषीं सा राजमहिषी भवेत्। महाराजः पुमान् राजन् व्यासस्य वचनं यथा॥ यज्ञयाजी भवेद्विप्रःक्षत्रियो विजयी भवेत्। वैश्यस्तु धान्यधनवान् शूद्रः सर्वाऽर्थसंयुक्त इत्यादिफलश्रुतिरिति तत्रैवोक्ता॥ इति महिषीदानम्॥

अथ मेष्याः। भविष्योत्तरे। शृणु पार्थ परं दानं सर्वकिल्विषनाशनम्। यद्दत्तं विविधं पापं सद्यो विलयमृच्छति॥ सुवर्णरोमां सौवणीं प्रत्यक्षां वा सुशोभनम्। सुवर्णतिलकोपेतां सर्वालङ्कारभूषिताम्॥ कौशेयपरिधानां च दिव्यचन्दनभूषिताम्। दिव्यपुष्पोपहारां च सर्वधातुरसैर्युताम्॥ सप्तधातुसमायुक्तां फलपुष्पवतीं तथा। शतेन कारयेत्तां तु सुवर्णस्य प्रयत्नतः॥

यथाशक्त्याऽथवा कुर्याद्वित्तशाठ्यं न कारयेत्॥ अयने विषुवे पुण्ये ग्रहणे शशिसूर्ययोः। दुःस्वप्नदर्शने चैव जन्मर्क्षे तिथिसङ्क्षये॥ यदा वा जायते वित्तं चित्तं श्रद्धासमन्वितम्। तदैव दानकालः स्याद्यतोऽनित्यं हि जीवितम्॥ नद्यां तीर्थेगृहे वाऽपि यत्र वा रमते मनः। तत्र संस्थाप्य देवेशमुमया सह शङ्करम्॥ ब्रह्माणं सह गायत्र्या सश्रीकं श्रीधरं तथा। रत्या सह तथाऽनङ्गं लोकपालान् ग्रहानपि॥ तांस्तु पूज्य विधानेन गन्धपुष्पनिवेदनैः॥ उमाशङ्कररूपम्। चर्माम्बरश्चतुर्बाहुः शूलखट्वाङ्गपाशभृत्। वृषाङ्कः शङ्करो गौरी वामोत्सङ्गे स्थिता भवेदिति॥ ब्रह्मगायत्र्यादिरूपाणि तु प्रागुक्तानि। तानि च यथाशक्ति सौवर्णानि कार्याणि। तदग्रे कारयेद्धोमं तिलाज्येन महीतले। अलङ्कृत्य द्विजं शान्तं वासोभिः परिपूज्य च॥ तल्लिङ्गमन्त्रैर्होमश्च कर्त्तव्यो ज्वलितेऽनले॥ ततस्तां तिलकुम्भस्थां लवणाभिमुखां स्थिताम्। पूजयित्वा विधानेन मन्त्रमेतमुदीरयेत्॥ मन्त्रः प्रयोगे ज्ञेयः। एवमुच्चार्य तां दद्याद्ब्राह्मणाय कुटुम्बिने। नाभिभाषेत्ततो दत्वा न मुखं वाऽवलोकयेत्। दुष्टप्रतिग्रहणतो विप्रो भवतिपातकी॥ अपुत्रो लभते पुत्रमधनो लभते धनम्। दत्वा दानं शुभां कान्तिं कीर्तिं च विपुलां तथेति॥

अथ प्रयोगः॥ उक्तायनादिकाले गृहे तीर्थे वा दाताऽद्येत्यादि सर्वपापक्षयपूर्वक–पुत्रधनकान्तिकीर्त्तिप्राप्तिकामो मेषीदानं करिष्य इति सङ्कल्पयेत्। दुःस्वप्ने तु तत्सूचितानिष्टनिवृत्तिकाम इति विशेषः। प्रतिमासु तण्डुलपुञ्जेषु वा उमासहितं शङ्करं गायत्रीसहितं ब्रह्माणं श्रीसहितं श्रीधरं रतिसहितमनङ्गं लोकपालान् ग्रहांश्च सम्पूज्यैतत्प्रकाशकैर्मन्त्रैराज्याक्ततिलैरष्टाष्टाविंशत्यादिसंख्यया हुत्वा सुवर्णतिलकाद्यलङ्कारकौशेयचन्दनपुष्पसुवर्णरूप्याऽऽदिसप्त-

धातुसप्तरससकलपुष्पयुतां मध्यस्थापिततिलकुम्भां संमुखस्थापितलवणां मेषीं च सम्पूज्य, रोमत्वङ्मांसमज्जाद्यैः सर्वोपकरणैः सदा। जगतः सम्प्रवृत्ताऽसि त्वामतः प्रार्थयेप्सितम्॥ वाङ्मनःकायजनितं यत्किञ्चिन्मम दुष्कृतम्। तत् सर्वंविलयं यातु त्वद्दानानुपसेवितमिति मन्त्रमुक्त्वा तिथ्यादि सङ्कीर्त्य सर्वपापक्षयपूर्वकपुत्रधनकान्तिकीर्त्तिप्राप्तिकामो दुःस्वप्नसूचिताऽनिष्टनिवृत्तिकामो वेमां मेषीं सर्वोपस्करयुताममुकगोत्रायामुकशर्मणे विप्रायाहं सम्प्रददे न ममेति दत्वा विप्रेण यथाविधि प्रतिग्रहे कृते दक्षिणां दद्यात्। एवमेव सुवर्णमेषीदेया। प्रतिग्रहीतृविप्रसम्भाषणमुखाऽवलोकने वर्जयेत्॥ इति मेषीदानम्।

अथाजादानम्॥ सुमन्तुः। अजापालो महीपालो ह्यजादानैर्दिवं गतः। अयने विषुवेचैव युगादौ ग्रहणेषु च॥ अमावास्यामजादानं पौर्णमास्यां च शस्यते। विधिं तस्य प्रवक्ष्यामि विश्वामित्रेण निर्मितम्॥ सर्वरत्नोपसम्पन्नां सप्तधान्योपरिस्थिताम्। वस्त्रमाल्योपमालां तु भूषितां पशुजानकीम्॥ वज्रनेत्रांहेमशृङ्गां ताम्रपृष्ठां सदोहनाम्। ससुतां रौप्यपादां च कुक्षौ दद्यात्तिलोदकम्॥ गोदानवत् प्रयुञ्जीत मन्त्रेणानेन संयुतः॥ मन्त्रवासो अजे श्लक्ष्णे यज्ञसम्पत्करे शुभे। सृष्टा तं दह मे पापं जन्मान्तरशतैः कृतमिति॥ एवं समुच्चरेद्भक्त्या विप्रहस्ते जलं क्षिपेत्। प्रीयतां यज्ञनाथाय वासुदेवाय वै नमः। एवं प्रदक्षिणीकृत्य सूर्यं समवलोकयेत्। ततश्च गच्छेत् स्वगृहं हरिं संस्मृत्यमानवः॥ ये बालत्वे कृताः पापाः कामतो वाऽध्यकामतः। यौवने वार्द्धकोन्मादे प्रसङ्गेनापि पातकम्॥ अजादानस्य माहात्म्यान्निष्पापो जायते नरः। पुत्रपौत्रसमायुक्तः सदाचारमतिश्चिरम्॥ विष्णुधर्मोत्तरे। उष्ट्रं वा गर्द्दभं वाऽपि यः प्रयच्छति सुद्विजे। अजा-

मुरभ्रं तुरगं यथाशक्त्या सदक्षिणम्॥ अलकां स समासाद्य यक्षेन्द्रैः सह मोदते। सर्वकामसमृद्धात्मा सर्वयज्ञफलं लभेत॥ तस्मादजां प्रयच्छस्वततः सर्वमवाप्स्यसि। मन्त्रेणानेन विधिवदऽलङ्कृत्यस्वशक्तितः॥ त्वं पूर्वं ब्रह्मणा सृष्टा पवित्रं भवती परम् \। त्वत्प्रसूतौ स्थिता यज्ञास्तस्माच्छान्तिकरी भव॥ प्रतिगृह्णीत तां चैव पृष्ठदेशे द्विजोत्तम॥ दानवाक्यं तु महिषीदानवज्ज्ञेयम्। अजाविकं च महिषं दत्वा विप्राय शक्तितः। घृतक्षीरवहा नद्यो यत्र तत्र समेधते॥ इत्यजादानम्॥

अथ मेषदानम्॥ बौधायनः। अग्नेर्मान्द्यं भवेत्तस्य यस्त्रेताऽग्निविनाशनः। वक्ष्यामि तत्प्रतीकारं यथोक्तं ब्रह्मणा पुरा॥ पलार्द्धेन तदर्द्धेन तदर्द्धेनाऽथवा पुनः। राजतं कारयेत्सौम्यमग्नेर्वाहनमुत्तमम्॥ सौवर्णाश्च खुराः कार्याः श्वेतवस्त्रेण वेष्टयेत्। श्वेतमाल्यैः श्वेतगन्धैर्धूपं दद्यान्मधूत्कटे॥ तण्डुलोपरिसंस्थाप्य पुनस्तं पूजयेत् सुधीः। तन्दुलानां परिमाणं द्रोणद्वयमुदाहृतम्॥ आग्नेय्यां दिशि होमश्च समिदाज्यतिलैरपि। आचार्येण विनीतेन सर्वशास्त्रार्थवेदिना॥ बह्वृचेन च कर्त्तव्यस्तत्र मन्त्रानिमान्शृणु \। अग्निर्मूर्द्धेति मन्त्रेण समिद्धोमः प्रशस्यते॥ अग्ने नयेत्याऽऽज्यहोमोऽप्यग्निनाऽग्निस्तिलाक्षतैः। मन्त्राध्यायोक्तमार्गेण चाग्निसंस्थापनं भवेत्॥ अग्नेः प्रागुत्तरे देशे शुभं कुम्भं च विन्यसेत्। प्रणीतामोक्षपर्यन्ते कृते स्नानं विधीयते॥ आपो हिष्ठेत्यपि तृचं हिरण्येति चतुर्ऋचम्। पवमानानुवाकेन मार्जयेद्रोगिणं ततः॥ शन्नो वातानुवाकेन शान्तिं चाऽपि प्रकल्पयेत्॥ तस्यै हुतवते रोगी प्राङ्मुखाय ह्युदङ्मुखः। पूजिताय यथाशक्त्या दद्यात्तं तु सदक्षिणम्॥ देवानां यो मुखंहव्यवाहनः सर्वपूजितः। तस्य त्वं वाहनं पूज्यं देवैः सेन्द्रैर्महर्षिभिः॥ अग्निमान्द्यं पूर्वकर्मविपा-

कोत्थं तु यन्मम। तत्सर्वंनाशय क्षिप्रंजाठराग्निं प्रवर्द्धयेतिदानमन्त्रः। एवं विप्राय यो दद्यादग्नेर्वाहनमुत्तमम्। बलवानग्निवान्मर्त्योजीवेद्वर्षशतं पुनः॥ ततः स्वबन्धुभिर्विप्रैःस्नात्वा भुञ्जीतमानवः॥ इति मेषदानम्॥

अथ पर्वतदानानि॥ मात्स्ये, प्रथमो धान्यशैलः स्याद् द्वितीयोलवणाचलः। गुडाचलस्तृतीयःस्याच्चतुर्थो हेमपर्वतः। पञ्चमस्तिलशैलःस्यात् षष्ठः कार्पासपर्वतः। सप्तमो घृतशैलः स्याद्रत्नशैलस्तथाऽष्टमः॥ राजतो नवमस्तद्वद्दशमः शर्कराऽचलः। वक्ष्येविधानमेतेषां यथावदनुपूर्वशः॥ अयने विपुत्रे चैव व्यतीपातेदिनक्षये। शुक्लपक्षे तृतीयायामुपरागे शशिक्षये॥ विवाहोत्सवयज्ञेषु द्वादश्यामथवा पुनः। शुक्लायां पञ्चदश्यां वा पुण्यर्क्षेवाविधानतः॥ धान्यशैलादयो देया यथाश्रद्धं विधानतः॥ तीर्थेवाऽऽयतने वाऽपि गोष्ठे वाऽथ नवाङ्गणे। मण्डपं कारयेद्भक्त्याचतुरस्रमुदङ्मुखम् ॥ प्रागुदक्प्रवणं तद्वत् प्राङ्मुखं वा विधानतः॥ प्राच्यामुदीच्यां चैकमेवद्वारम्। न चत्वारि द्वाराणीत्यर्थः।द्वारैक्याच्च तोरणमप्येकमेव। द्वारपरिष्कारणमप्येकमेव। द्वारपरिष्कारणत्वात्तस्य। मण्डपोऽष्टादशहस्तोऽन्यथा द्रोणसहस्रमादिमितपर्वतनिवेशायोगात्। गोमयेनोपलिप्तायां भूमावास्तीर्य वै कुशान् *।तन्मध्ये पर्वतं कुर्याद्विष्कम्भैः पर्वतैर्युतम्॥ धान्यद्रोणसहस्रेणभवेद् गिरिरिहोत्तमः। मध्यमः पञ्चशतिकः कनिष्ठः स्यात् त्रिभिःशतैः॥ मेरुर्महान् व्रीहिमयस्तु मध्ये सुवर्णवृक्षत्रयसंयुतः स्यात्।वृक्षत्रयं मन्दारपारिजातकल्पवृक्षरूपम्। मध्ये कल्पतरुर्दक्षिणोत्तरयोर्मन्दारपारिजातौ। शक्तौ हरिचन्दनसन्तानावपि पूर्वपश्चिमयोः स्थाप्यौ। निवेश्यौ सर्वशैलेषु विशेषाच्छर्कराऽचल * इतिवक्ष्यमाणवाक्यत्वात्। शर्कराचलदानं त्वावश्यकम्। पूर्वेण मुक्ता-

फलवज्रयुक्तो याम्येन गोमेदकपुष्परागैः * पश्चाच्च गारुत्मतनीलरत्नैः सौम्येन वैडूर्यसरोजरागैः॥ सरोजरागः पद्मरागः। मुक्ताफलादीनि पूर्वादिदिगवस्थितराजतशृङ्गेषु निवेश्यानि। मन्दरः,श्रीखण्डखण्डैरभितः प्रवाललतान्वितः शुक्तिशिलातलःस्यात्।ब्रह्मा च विष्णुर्भगवान् पुरारिर्दिवाकरो यत्र हिरण्मयः स्यात्।\।मूर्द्धव्यवस्थागतमत्सरेण कार्यास्त्वनेके च तथा द्विजौघाः। ब्रह्मादिप्रतिमा ब्रह्माण्डदाने। द्विजाः पक्षिणो मुनयश्च हैमाः॥ अनेकपदस्वरसादिति मदनः। चत्वारि शृङ्गाणि च राजतानि नितम्बभागेऽपि च राजतः स्यात्॥ आर्द्रेक्षुवंशावृतकन्दरस्तु घृतोदकप्रस्रवणश्च दिक्षु। शुक्लाम्बराण्यम्बुधरावली स्यात् पूर्वेण पीतानिच दक्षिणे स्यात्॥ वासांसि पश्चादथ कर्बुराणि रक्तानिचैवोत्तरतो घनाली॥ आर्द्रेक्षवएव वंशाः। घृतमेवोदकम्। शुक्लाण्यम्बराण्येव मेघावली। रौप्यान्महेन्द्रप्रमुखानथाष्टौ संस्थाप्य लोकाधिपतीन्क्रमेण *॥ महेन्द्रादिलक्षणं तुलादाने। नानाफलाली च समन्ततः स्यान्मनोरमं माल्यविलेपनं च वितानकंचोपरि पञ्चवर्णमम्लानपुष्पाभरणं सितं च॥इत्थं निवेश्याऽमरशैलमग्र्यंमेरोस्तु विष्कम्भगिरीन् क्रमेण। तुरीयभागेन चतुर्द्दिशंतु संस्थापयेत् पुष्पविलेपनाढ्यान्॥ प्रतिविष्कम्भपर्वतम्। तुरीयांशेन चतुर्थांशेन विष्कम्भपर्वतान् कारयेत्। पृथगिति लवणाचले वक्ष्यमाणत्वादिति मदनः। वास्तवं तु एकेनैवचतुर्थांशेन चत्वारोऽपि विष्कम्भपर्वताः कार्या इति तत्रैव वक्ष्यते।पूर्वेण मन्दरमनेकफलैश्च युक्तं युक्तं गणैः कनकभद्रकदम्बचिह्नम्।कामेन काञ्चनमयेन विराजमानमाकारयेत् कुसुमवस्त्रविलेपनाढ्यम्॥ क्षीरारुणोदसरसी च वनेन चैत्र रौप्येण शक्तिघटितेन विराजमानम्॥ कामरूपमाह विश्वकर्मा। चापबाणधरः कामो

रतिप्रेयान् सुमध्यमः। आलापी नन्दने रागी रूपवान् विश्वमोहक इति॥ व्रैहमेरुसन्निधानाद्धान्यान्तरानुपदेशाच्च मन्दरोऽपि व्रीहिमय एवेति मदनः। तत्र, विष्कम्भपर्वतं चैव यवैः कुर्यात्तु पूर्वत इति ब्रह्माण्डोक्तेः॥ गणैरिति नराकृतिभिस्त्रिभिर्गणैर्युक्तम्। कपिञ्जलवत्। कनकेति कनक निर्मितो भद्रकन्दरः। तद्रूपं प्रयोगे ज्ञेयम्। क्षीरेति। क्षीरचूर्णेन रौप्येणारुणोदाख्येन सरसा रौप्येण वनेन च विराजमानम्। यामेन गन्धमदनश्च निवेशनीयो गोधूमसञ्चयमयः कलधौतजम्ब्वा *हैमेन यक्षपतिना घृतमानसेन वस्त्रैश्च राजतवनेन च संयुतः स्यात्॥ कलधौतजम्ब्वा हैमजम्बूवृक्षेण। यक्षपतिरूपं हेमाद्रौ श्रीप्रश्ने। ह्रस्वमापिङ्गनेत्रं च गदिनं पीतविग्रहम्। पुष्पकस्थं धनाध्यक्षं ध्यायेच्छिवसखं सदेति॥ सघृतेन राजतेन मानससरसा। पश्चात्तिलाचलमनेकसुवर्णपुष्पसौवर्णपिप्पलहिरण्मयहंसयुक्तम्। आकारयेद्रजतपुष्पमयेन तद्वद्वस्त्रान्वितं दधिसितोदसरस्तथाग्रे॥ आकारयेत् कुर्यात्। दधीति सदधिराजतं पात्रं सितोदाख्यं सरः। संस्थाप्य तं विपुलशैलमथोत्तरेण शैलं सुपार्श्वमपि माषमयं सवस्त्रम्। पुष्पैश्च हेमवरपादपशेखरं तमारकारयेत्कनकधेनुविराजमानम्॥ माक्षीकभद्रसरसा च वनेन तद्वद्रौप्येण भास्करवता च युतं विधाय॥संस्थाप्येति शैलान्तं पूर्वोक्ततिलाचलाऽनुवादकम्। अथेत्यादिः पुनः पार्श्वविधिः। माक्षीकेति। समधुरूपभद्राख्यसरसेत्यर्थः। होमश्चतुर्भिरथ वेदपुराणविद्भिर्दानैरनिन्द्यचरितः कृतिभिर्द्विजेन्द्रैः। पूर्वेण हस्तमितमत्र विधाय कुण्डं कार्यं तिलैर्यवघृतेन समित्कुशैश्च॥ ब्रह्माण्डे, इन्द्राद्या लोकपालाश्च तेषां होमो विधीयते। तल्लिङ्गैश्चैव मन्त्रैश्च समिद्भिरथवा तिलैः॥ पौरुषेण तु सूक्तेन ब्रह्मादीनां विधीयते। तथा व्याहृतिभिर्होमस्तिलैराज्येन चैव हि॥ अष्टशतं तु होतव्यं सर्वकाम-

समृद्धय इति॥ वसुरुद्रादित्यसमुच्चायको लोकपालाश्चेति चकारः। ग्रहादिकामधेन्वन्तानामशीतिदेवतानां तिलयवघृतौदुम्बरसमित्कुशैः पञ्चभिर्द्रव्यैः पृथक्त्रयोदशसंख्यया होम इति त्रिपञ्चाशदधिकं सहस्रं सर्वा आहुतय इति दानविवेके। तन्न। तिलैर्यवघृतेन समित्कुशैरिति पृथक् समस्तया च तृतीयया साधनवैषम्यात्॥ समित्कुशैरिति द्वन्द्वापेक्षया कर्मधारयस्य लघुत्वात्। ब्रह्माण्डवचोविरोधात्त्रिपञ्चाशदधिकसहस्रसंख्यया प्रचयशिष्टायाः कथमप्यसङ्गतेश्च। समिधश्च कुशा इति कर्मधारयः। तेन तिलानां पृथक्साधनता यवघृतयोर्व्यासक्ता। समस्तयोस्तृतीयाश्रुतेः। कुशानां तु पृथगिति त्रीण्येव होमसाधनानि। तैः प्रत्येकमष्टसंख्यया ग्रहादिद्वात्रिंशद्देवता हुत्वेन्द्रादिदशलोकपालेभ्योऽष्टवसुभ्य एकादशरुद्रेभ्यो द्वादशादित्येभ्यश्च तिलैः समिद्भिर्वा प्रत्येकमष्टसंख्यया हुत्वा सूर्यकामदेवधनदहंसकामधेनुभ्यः समस्तव्याहृतिभिस्तिलैरराज्येन च जुहुयात्। अष्टोत्तरशतं तत्र चतुःपञ्चाशत्तिलैश्चतुःपञ्चाशदाज्येन। रात्रौ च जागरमनुद्धतगीततूर्य्यैरावाहनं च कथयामि शिलोच्चयानाम्। मन्त्रा वक्ष्यन्ते। एवमभ्यर्च्य तं मेरुं मन्दरं चाऽभिपूजयेत्॥ एवमामन्त्र्य तान् सर्वान् प्रभाते विमले पुनः। स्नात्वाऽथगुरवे दद्यान्मध्यमं पर्वतोत्तमम्॥ विष्कम्भपर्वतान् दद्यादृत्विग्भ्यः क्रमशो बुधः। गाश्च दद्याच्चतुर्विंशदथवा दश पार्थिवः॥ शक्तितः सप्त वाऽष्टौ वा पञ्च दद्यादशक्तिमान्। एकां वा गुरवे दद्यात्कपिलां च पयस्विनीम्॥ ऋत्विग्भ्यो दक्षिणा देया यथासम्भवकाञ्चनम्। पर्वतानामशेषाणामेष एव विधिः स्मृतः॥ त एव पूजने मन्त्रास्त एवोपस्कराः स्मृताः॥ ग्रहाणां लोकपालानां ब्रह्मादीनां च सर्वशः। स्वमन्त्रेणैव सर्वेषु होमः शैलेषु पठ्यते॥ उपवासी भवेन्नित्यमशक्तौ

नक्तमिष्यते। विधानं सर्वशैलानां क्रमशः शृणु पार्थिव॥दानकालेषु ये मन्त्राः पर्वतेषु च यत्फलम्॥ मन्त्राः प्रयोगे ज्ञेयाः। अन्नमेव यतो लक्ष्मीरन्नमेव जनार्दनः। धान्यपर्वतरूपेण पाहि तस्मान्नगोत्तम॥अनेन विधिना यस्तु दद्याद्धान्यमयं गिरिम्। मन्वन्तरशतं सायं ब्रह्मलोके महीयते।\। अप्सरोगणगन्धर्वैराकीर्णेन विराजितः। विमानेन दिवः पृष्ठमायाति सुरसेवितः॥ कर्मक्षयाद् राजराज्यं प्राप्नोतीह न संशयः॥ इति धान्यादिशैलदानम्।

अथ साधारणः प्रयोगः। यजमानः पूर्वोक्तदेशेऽष्टादशहस्तं मण्डपं कुण्डं च पूर्ववत् कुर्यात्। तस्य च प्राच्यामुदीच्यां वैकमेव द्वारं तोरणं च, न चत्वारि। कुण्डं चैकमेव। प्राच्यां हस्तमात्रा ग्रहवेदी॥

अथ शैलनिर्माणम्। मध्ये कुशानास्तीर्य सहस्रद्रोणमितराजशालिनामकमहाव्रीहिभिरुत्तमं, तदर्द्धेन मध्यमं, द्रोणशतत्रयेणाऽधममिति मेरुं शक्त्या कल्पयेत्। द्रोणं परिभाषायामुक्तम्। मेरोरुपरि मध्ये कल्पवृक्षम्। प्रागादिदिक्षु हरिचन्दनमन्दारसन्तानपारिजातान्। अशक्तौ मन्दारकल्पवृक्षपारिजाततरवः स्थाप्याः। शर्कराचले तु सन्तानहरिचन्दनावावश्यकौ। पूर्वादिदिक्षु ब्रह्मविष्णुरुद्रसूर्यप्रतिमाः पक्षिसंघान् मुनिसंघांश्च। तथा प्रागादिदिक्चतुष्टये क्रमेण मुक्ताफलहरीकैर्गोमेदपुष्परागैर्मारकतनीलरत्नैर्वैडुर्य्यपद्मरागैः समसंख्याकैर्भूषितं शृङ्गचतुष्कं, तद्बहिर्दिगष्टके रौप्यमिन्द्रादिलोकपालप्रतिमाष्टकं समन्तात् श्रीखण्डैर्लतानां स्थाने प्रवालानि शिलानां शुक्तीः प्रागादिषु मेघानां श्वेतपीतकर्बुररक्तवस्त्राणि, वंशानाम् इक्षून् जलस्य घृतं, गन्धपुष्पनानाफलानि च परितः संस्थाप्य पञ्चवर्णवितानकं तथैव याम्ये चोपरि बघ्नीयात्। ततो यवैर्मेरोश्च षोडशां-

शेन प्राच्यां मन्दरम्। तदुपरि नररूपं गणत्रयं कदम्बं च सौवर्णकदम्बमूले हैमः कामदेवः। अरुणोदसरःस्थाने दुग्धपूर्णरौप्यपात्रम्। रौप्यं चैत्ररथाख्यं वनं गन्धपुष्पफलवस्त्राणि च स्थापयेत्। याम्ये मेरुषोडशांशगोधूममयं गन्धमादनं तदुपरि सौवर्णजम्बूवृक्षं तन्मूले सौवर्णमुदङ्मुखं धनदं मानससरःस्थाने सघृतं रौप्यपात्रं रूप्यं गन्धर्वाख्यं वनं नानाफलवस्त्रमाल्यानि च स्थापयेत्॥ पश्चिमे मेरुं षोडशांशतिलमयं विपुलपर्वतं तदुपरि सौवर्णं पिप्पलं तन्मूले प्राङ्मुखसौवर्णहंसप्रतिमां सितोदसरःस्थाने पयोदधिपूर्णरौप्यपात्रं रौप्यं वैभ्राजवनं वस्त्रफलमाल्यानि च स्थापयेत्। उत्तरे मेरुं षोडशांशमितमाषैःसुपार्श्वपर्वतं तदुपरि सौवर्णवटं तन्मूले दक्षिणाभिमुखीं सवत्सां सुवर्णधेनुं भद्रसरः स्थाने मधुपूर्णरौप्यपात्रं रूप्यं सावित्रवनं वस्त्रफलादि च स्थापयेत्। एवं वक्ष्यमाणपर्वतेष्वपि मेरुद्रव्यचतुर्थांशेन लवणादिद्रव्येण प्रागादिषु विष्कम्भादिपर्वता ज्ञेयाः॥

अथ यजमानोऽद्येत्याद्युत्त्क्वाऽप्सरोगन्धर्वयुतविमानकरणकस्वर्लोकगमनसाग्रमन्वन्तरकालदेवलोकवासोत्तरभू-र्लोकराजत्वकामईश्वरप्रीतिकामो वा श्वोधान्यपर्वतदानमहं करिष्ये इति सङ्कल्प्य गणेशपूजा—स्वस्तिवाचन—मातृपूजा—नान्दीश्राद्धाचार्यर्त्विग्वरणतन्मधुपर्कमण्डपपूजनाचार्यविनियोगान्तं सामान्यप्रयोगोक्तं कुर्यात्। आचार्योऽपि ग्रहादिस्थापनादिकुण्डसमीपस्थितकलशस्थापनान्तं कुर्यात्। अत्रर्त्विजः प्राक्कुण्डे ग्रहादिद्वात्रिंशद्देवताभ्यस्तन्मन्त्रैस्तिलैः पृथग्यवघृताक्तान्मन्त्रैस्तिलैः पृथग्यवघृताभ्यां मिलिताभ्यां कुशैश्चेति त्रिभिः साधनैः प्रत्येकमष्टवारं हुत्वा दशलोकपालेभ्योऽष्टवसुभ्य एकादशरुद्रेभ्यो द्वादशादित्येभ्यश्च प्रत्येकमष्टसंख्यया समिद्भिस्तिलैर्वा जुहुयुः। मन्त्रास्तु सामान्यप्रयोगे

उक्ताः। ततः पुरुषसूक्तेन ब्रह्मविष्णुशिवेभ्यः समिद्भिस्तिलैर्वा सूर्यकामदेवधनदहंसकामधेनुभ्यस्तिलैर्घृतेन चाष्टोत्तरशतं जुहुयुः। तत्र चतुःपञ्चाशत्तिलैश्चतुःपञ्चाशद्घृतेनेति। ततो यजमानो मेरुमावाह्य पूजयेत्। तत्र मन्त्राः —

त्वं सर्वदेवगणधामनिधिर्विरुद्धमस्मद्गृहेऽप्यमरपर्वतनाशयाशु। क्षेमं विधत्स्व कुरु शान्तिमनुत्तमां नः संपूजितः परमभक्तिमता मयाऽद्य॥ त्वमेव भगवान् ईशो ब्रह्मा विष्णुर्दिवाकरः। मूर्तामूर्तं परं बीजमतः पाहि सनातन॥ यस्मात्त्वं लोकपालानां पाहि त्वं विश्वमन्दिरम्। रुद्रादित्यवसूनां च ततः शान्तिं प्रयच्छ मे॥ यस्मादशून्यममरैर्नारीभिश्च शिरस्तव। तस्मान्मामुद्धराशेषदुःखसंसारसांगरात्॥

अथ मन्दरस्य। यस्माच्चैत्ररथेन त्वं भद्राऽश्वप्रमुखेन च। शोभसे मन्दर क्षिप्रमलं तुष्टिकरो भव॥

अथ गन्धमादनस्य। यस्माच्चूडामणिजम्बूद्वीपे त्वं गन्धमादन। गन्धर्ववनशोभावाँस्ततः कीर्त्तिर्दृढाऽस्तु मे॥

अथ विपुलस्य। यस्मात्त्वं केतुमालेन वैभ्राजेन वनेन च। हिरण्मयाश्वत्यशिरास्तस्मात् पुष्टिर्दृढाऽस्तु मे॥

अथ सुपार्श्वस्य। उत्तरैः कुरुभिर्यस्मात् सावित्रेण वनेन च। सुपार्श्व शोभसे नियमतः श्रीरक्षपास्तु मे॥ ततः सर्वैर्जागरणे कृते स्नानादि कृत्वा कुण्ड समीपस्थकलशजलैर्यजमानमभिषिञ्चेयुः। ततः कर्त्ता गृहीतकुसुमो मेरुं प्रदक्षिणीकृत्यउपतिष्ठेत्। मन्त्रास्तु, अन्नं ब्रह्म यतः प्रोक्तमन्ने प्राणाः प्रतिष्ठिताः। अन्नाद्भवन्ति भूतानि जगदन्नेन वर्त्तते॥ अन्नमेव यतो लक्ष्मीरन्नमेव जनार्द्दनः। धान्यपर्वतरूपेण पाहि तस्मान्नमो नमः॥ इत्युपस्थाय पुष्पाऽञ्जलिं प्रक्षिप्य नमस्कृत्यप्राङ्मुख उपविश्योदङ्मुखेभ्यो गुर्वा-

दिभ्यः क्रमेण गिरीन् दद्यात्। प्रयोगस्तु, अद्येत्यादि देशकालकीर्त्तनान्ते अमुगोत्रायाऽमुकवेदायाऽमुकशाखाध्यायिनेऽमुकशर्मणेगुरवेऽप्सरोगन्धर्वगणयुतविमानकरणकस्वर्लोकगमनानन्तरसाग्रमन्वन्तरशताऽवधिसमयदेवलोकनिवासोत्तरभूलोकराजत्वप्राप्तिकामः, इमं धान्यमेरुं सौवर्णमन्दराद्रिं वृक्षपञ्चकसौवर्णब्रह्मविष्णुरुद्रार्कप्रतिमायुक्तमुक्ताहीरकादिभूषितरौप्यमयशृङ्गचतुष्कशोभितं रूप्यमयेन्द्रादिलोकपालप्रतिमं रौप्यमयनितम्बान्वितमिक्षुवंशावृतकन्दरं दिक्चतुष्टयस्थापितरौप्यपात्रस्थितघृतोदकप्रस्रवणं दिक्चतुष्टयस्थापितशुक्लपीतकर्बुररक्तवस्त्राम्बुदधरं नानाफलमाल्यवितानाद्युपकरणसहितं तुभ्यं संप्रददे न ममेति तद्धस्ते दद्यात्। स च, ॐ स्वस्तीति प्रतिगृह्य स्वशाखीयां कामस्तुतिं पठेत्। ततः कृतैतद्दानप्रतिष्ठार्थम् इमा गास्तुभ्यं दक्षिणात्वेन संप्रददे न ममेति दद्यात्। तत्र चतुर्विंशतिपक्षे अष्टौ गा गुरवे, चतस्रश्चतस्रश्च ऋत्विग्भ्यः। दशपक्षे षड् गुरवे, एकैकाम्ऋत्विग्भ्यः। अष्टसप्तपक्षयोश्चतस्रास्तिस्रो वा गुरवे, एकैकाम्। ऋत्विग्भ्यः। पञ्चपक्षे सर्वेभ्य एकैकाम्। एकपक्षे गुरव एव तां कपिलाम्, ऋत्विग्भ्यः सुवर्णमिति मदनादयः। एवं पूर्वस्थितं मन्दराख्यविष्कम्भगिरियवमयंसौवर्णंनानाफलभद्रकदम्बतन्मूलस्थसौवर्णकामदेवप्रतिममरुणोदसरः स्थानीयक्षीरपूरितरौप्यपात्ररौप्यघटितचैत्ररथवनवस्त्रनानाफलादियुतं तुभ्यम् ऋत्विजे संप्रददे न ममेति दद्यात्। इमं दक्षिणस्थितगोधूममयं गन्धमादनं विष्कम्भपर्वतं सौवर्णजम्बूवृक्षमूलस्थितसौवर्णकुवेरप्रतिमाऽन्वितं मानससरःस्थानीयघृतपूरितरौप्यपात्रं रूप्यघटितगन्धर्ववनवस्त्रनानाफलमाल्यवितानादियुतं तुभ्यमिति दद्यात्। इमं पश्चिमस्थितं तिलमयं विपुलाख्यं विष्कम्भपर्वतं सौवर्णपिप्पलतमूलस्थितसौवर्णहंस-

प्रतिमान्वितं सितोदसरःस्थानीयदधिपूरितरजतपात्रं रजतघटितवैभ्राजवनवस्त्रफलादियुतं तुभ्यमिति दद्यात्। इमम् उत्तरस्थितं माषमयं सुपार्श्वाख्यं विष्कम्भपर्वतंहैमवटतन्मूलस्थितहैमधेनुप्रतिमायुतं भद्रसरः स्थानीयमधुपूरितरौप्यपात्रं रौप्यघटितसावित्रवनवस्त्रफलादियुतं तुभ्यमिति दद्यात्। लवणादिदानपक्षे प्रयोगे धान्यपदस्थाने लवणादिपदं प्रक्षेप्यम्। तत्तत्फलानि तत्र तत्र वक्ष्यामः। आचार्याद्यनुज्ञयाऽन्येभ्योऽपि दानपक्षे युष्मभ्यमन्येभ्यश्च ब्राह्मणेभ्यः सम्प्रदद इति दद्यात्। ततो ग्रहवेद्यां यजमानो देवताः सम्पूज्य नमस्कुर्यात्। गुरुस्तान्विसर्जयेत्।यजमानस्तु मण्डपादिग्रहप्रतिमादि गुरवे प्रतिपाद्य ब्राह्मणान् सम्भोज्य भूयसींदक्षिणां दत्वा, यस्य स्मृत्येतिप्रमादात् कुर्वतामिति चोक्त्वा विष्णुं स्मृत्वा कर्मेश्वरे समर्प्यविप्राशिषो गृहीत्वा सुहृन्मित्रादियुतो भुञ्जीतेति॥ इति धान्यादिमेरुसाधारणप्रयोगः॥

अथ लवणाचलः पाद्मे। उत्तमः षोडशद्रोणः कर्त्तव्यो लवणाऽचलः। मध्यमः स्यात्तदर्द्धेन चतुर्भिरधमः स्मृतः॥ वितहीनो यथाशक्त्या द्रोणादूर्ध्वं तु कारयेत्। चतुर्थांशेन विष्कम्भपर्वतान्कारयेत् पृथक्॥ अत्र पृथगित्युक्ते प्रत्येकं मेरुद्रव्यचतुर्थांशपरिमितेन लवणेन विष्कम्भपर्वतचतुष्कम्। अयं च न्यायः सर्वविष्कम्भगिरिषु इति मदनः। युक्तं तु चतुर्थांशेनेति। विधेयचतुर्थांशगतैकत्वविवक्षयैकस्यैव चतुर्थांशेन चत्वारोऽपि विष्कम्भाचलाःकार्याः। पृथक्ता तु गिरिगताऽनूद्यते, न चतुर्थांशगता विधीयते इति। विधानं पूर्ववत् कुर्याद् ब्रह्मादीनां च सर्वदा तद्वद्धेमतरून् सर्वाल्ँलोकपालान्निवेशयेत्॥ सरांसि कामदेवादींस्तद्वच्चात्र निवेशयेत्॥ पूर्ववद् धान्याचलवत्॥ सौभाग्यरससम्भूतो यतोऽयं लवणो रसः। तदात्मकत्वेन च मां पाहि पापान्नमो नमः॥ यस्मा-

दत्र रसाः सर्वे नोत्कटा लवणं विना। प्रियं च शिवयोर्नित्यं तस्माच्छान्तिं प्रयच्छ मे॥ विष्णुदेहसमुद्भूतं यस्मादारोग्यवर्द्धनम्। तस्मात् पर्वतरूपेण पाहि संसारसागरात्\।\। अनेन विधिना यस्तु दद्याल्लवणपर्वतम्। उमालोके वसेत् कल्पं ततो याति परां गतिम्॥ कल्पपर्यन्तमुमालोकप्राप्तिपूर्वकं कल्पावधिउमालोकनिवाससमनन्तरपरमगतिकाम इति मदनः। तन्मूलं तु चिन्त्यम्॥

अथ गुडपर्वतः॥ पाद्मे, अथातः सम्प्रवक्ष्यामि गुडपर्वतमुत्तमम्। यत्प्रदानान्नरः स्वर्गं प्राप्नोति सुरपूजितम्॥ उत्तमो दशभिर्भारैर्मध्यमः पञ्चभिर्मतः। विभिर्भारैः कनिष्ठः स्यात्तदर्जेनाल्पवित्तवान्॥ भारः पलसहस्रद्वयम्। तुला स्त्रियां पलशतं भारः स्याद्विंशतिस्तुलेत्यमरः। तद्वदामन्त्रणं पूजां हेमवृक्षसुरार्चनम्। विष्कम्भपर्वताँस्तद्वत्सरांसि वनदेवताः॥ होमं जागरणं तद्वल्लोकपालाधिवासनम्। धान्यपर्वतवत् कुर्यादिमं मन्त्रमुदीरयेत्॥ यथा देवेषु विश्वात्मा प्रवरश्च जनार्द्दनः। सामवेदस्तु वेदानां महादेवस्तु योगिनाम्॥ प्रणवः सर्वमन्त्राणां नारीणां पार्वती यथा। तथा रसानां प्रवरः सदैवेक्षुरसो मतः॥ मम तस्मात् परां लक्ष्मीं ददस्व गुडपर्वत। यस्मात् सौभाग्यदायिन्या भ्राता त्वं गुडपर्वत। निवासश्चापि पार्वत्यास्तस्मान्मां पाहि सर्वदा॥ अनेन विधिना यस्तु दद्याद् गुडमयं गिरिम्। पूज्यमानः स गन्धर्वैर्गौरीलोके महीयते॥ पुनः कल्पशतान्ते तु सप्तद्वीपाधिपो भवेत्। आयुरारोग्यसम्पन्नः शत्रुभिश्चाऽपराजितः॥

अत्र सकलपापक्षयोत्तरंगन्धर्वपूज्यमानत्वपूर्वककल्पशताऽवधिगौरीलोकप्राप्त्यनन्तरं सम्पन्नापराजितायुरारोग्यपूर्वकसप्तद्वीपाधिपतित्वकाम ईश्वरप्रीतिकामो वेति सङ्कल्पे विशेषोऽन्यत् सर्वंपूर्ववत्॥

अथ सुवर्णाचलः॥ पाद्मे, अथ पापहरं वक्ष्ये सुवर्णाचलमु-

त्तमम्। यस्य प्रसादाद्भवनं वैरिञ्चंयाति मानवः। उत्तमः पलसाहस्रो मध्यमः पञ्चभिः शतैः। तदर्द्धेनाधमस्तद्वदल्पवित्तोऽपि शक्तितः॥ दद्यादेकपलादूर्ध्वं यथाशक्त्या विमत्सरः। धान्यपर्वतवत् सर्वं विदध्याद् राजसत्तम। विष्कम्भशैलाँस्तद्वच्च ऋत्विग्भ्यः प्रतिपादयेत्॥ नमस्ते ब्रह्मगर्भाय ब्रह्मवीजाय वै नमः। यस्मादनन्त फलदस्तस्मात् पाहि शिलोच्चय॥ यस्मादग्नेरपत्यंत्वं यस्मात्तेजो जगत्पतेः। हेमपर्वतरूपेण तस्मात् पाहि नगोत्तम॥ अनेन विधिना यस्तु दद्यात् कनकपर्वतम्। स याति परमं ब्रह्म लोकमानन्दकारकम्॥ तत्र कल्पशतं तिष्ठेत्ततो याति परां गतिम्॥ अत्र गुर्वादिभ्यो मेर्वादिदानमल्पद्रव्यविषयम्। बहुद्रव्ये तु तुलापुरुषवदर्द्धं चतुर्थं वांशं गुरवेऽन्यत्तु तदाज्ञयाऽन्येभ्योऽपि विशिष्टेभ्यो देयमिति हेमाद्रिः। अत्र सकलपापक्षयोत्तरशतकल्पाऽवधि आनन्दकारकब्रह्मलोकभोगानन्तरपरमगतिकाम इति दानवाक्यम्॥

अथ तिलाचलः॥ पाद्मे, उत्तमो दशभिर्द्रोणैः पञ्चभिर्मध्यमो मतः। त्रिभिः कनिष्ठो राजेन्द्र तिलशैलः प्रकीर्त्तितः॥ पूर्ववच्चापरं सर्वं वृक्षविष्कम्भकादिकम्। दानमन्त्रान् प्रवक्ष्यामि यथा च मुनिपुङ्गव॥ यस्मान्मधुवने विष्णोर्देहस्वेदसमुद्भवाः। तिलाःकुशाश्च माषाश्च तस्माच्छं नो भवत्विह॥ हव्यकव्येषु यस्माच्च तिलैरेवाभिभक्षणम्। भवादुद्धरशैलेन्द्र तिलाचल नमोऽस्तु ते॥ इत्यामन्त्र्य च यो दद्यात्तिलाचलमनुत्तमम्। स वैष्णवं पदं याति पुनरावृत्तिदुर्लभम्॥ दीर्घायुष्यमवाप्नोति पुत्रं पौत्रं च मानवः। पितृभिर्देवगन्धर्वैः पूज्यमानो दिवं व्रजेत्॥सकलपापक्षयदीर्घाऽऽयुष्यपुत्रपौत्रसमन्वितानन्तरपितृदेवगन्धर्वपूर्वकपूज्यमानत्वपूर्वकद्युलोकगमनसमनन्तराऽक्षयवैष्णवपदप्राप्तिकाम इति दानवाक्यम्॥

अथार्द्धोदयव्रतं तिलपर्वतदानम्॥ स्कान्दे, पूर्वाह्णेसङ्गमे स्नात्वा शुचिर्भूत्वा समाहितः। सर्वपापविशुद्ध्यर्थं नियमस्थो भवेन्नरः॥ नियममन्त्रस्तु। त्रिदेवत्यव्रतं देवाः करिष्ये भुक्तिमुक्तिदाः। भवन्तु सन्निधौ मेऽद्य त्रयो देवास्त्रयोऽग्नय इति॥ ब्रह्मविष्णुमहेशानां सौवर्णपलसंख्यया। प्रतिमास्तु प्रकर्त्तव्यास्तदर्द्धेनद्विजोत्तमाः॥ साग्रंशतत्रयं शम्भोर्द्रोणानां तिलपर्वतः।ब्रह्मविष्णुशिवप्रीत्यै दातव्यं तु गवां त्रयम्॥ हिरण्यभूमिधान्यादिदानं विभवसारतः॥ मध्याह्नेतु नरः स्नात्वा शुचिर्भूत्वा समाहितः। तिलपर्वतमध्यस्थं पूजयेद्देवतात्रयम्॥ आदौ ब्रह्मपूजा। नमो विश्वसृजे तुभ्यं सत्याय परमात्मने। देवाय देवपतये यज्ञानां पतये नमः॥ ॐब्रह्मणे नमः पादौ, हिरण्यगर्भाय ऊरुभ्याम्। जङ्घाभ्यां परमात्मने। वेधसे इति गुह्ये। पद्मोद्भवाय वस्तौ। हंसवाहनाय कटिदेशे। शतानन्दाय वक्षसि। सावित्रपतये बाहुषु। ऋग्वेदाय नमः पूर्वे वक्रे। यजुर्वेदाय दक्षिणे। सामवेदाय पश्चिमे। अथर्ववेदाय उत्तरे। चतुर्वक्राय शिरसि। हंसाय नमः। कपालाय नमः। ततो लोकपालादिपूजनं स्वमन्त्रैः। हिरण्यगर्भ पुरुष प्रधानव्यक्तरूप यः * प्रसादसुमुखो भूत्वा पूजां गृह्ण नमोऽस्तु ते॥ अनन्ताय नमः पादौ। विश्वरूपाय ऊरुभ्याम्। मुकुन्दाय जानुभ्याम्। गोविन्दाय जङ्घाभ्याम्। गुह्ये प्रद्युम्नदेवाय। पद्मनाभाय नाभौ। लम्बोदराय उदरे। वक्षसि कौस्तुभवक्षसे। चतुर्भुजाय बाहुषु। वदने विश्वतोमुखाय। शतसहस्रशिरसे मौलौ। आदित्यचन्द्रनयन दिग्वाहो दैत्यसूदन* पूजां दत्तां मया भक्त्या गृहाण करुणापर, इति विष्णुप्रार्थनम्। महेश्वर महेशान नमस्ते त्रिपुरान्तक। जीमूतकेशाय नमो नमस्ते वृषभध्वज॥ ईशानाय नमः पादौ जङ्घाभ्यां चन्द्रशेखरम्। जानु-

भ्यां पशुपतिर्देवश्चोरुभ्यां शङ्करः स्मृतः॥ उमाकान्ताय गुह्ये तु नाभौ वै नीललोहितः। उदरे कृत्तिवासाश्च वस्त्रे नागोपवीतिने॥ अन्धकारे प्रसन्नात्मा नमो लोकान्तकाय च। पूजां दत्तां मया भक्त्या गृहाण वृषभध्वजेति, महेशप्रार्थना। इति पूजाक्रमः प्रोक्तो मन्त्रैरेतैः प्रयत्नतः *आचार्यं पूजयेद्भत्त्क्यापूजालङ्कारभूषणैः॥ हस्तमात्रा कर्णमात्रा पीठं छत्रं कमण्डलुः। श्वेतवस्त्रयुगं देयं ब्रह्मणे सर्वमूर्त्तये॥ पीतवस्त्रयुगं विष्णोर्लोहितं शङ्करस्य तु। पञ्चामृतेन स्नपनं पूजनं कुसुमैः स्वकैः॥ कमलैस्तुलसीपत्रैर्बिल्वपत्रैरखण्डितैः। तत्कालसम्भवैर्दिव्यैः पूज्या देवा यथाक्रमम्॥ यथाशक्त्या प्रकर्त्तव्यं व्रतमेतत् सुदुर्लभम्। जीवितं प्राणिनामेतदनित्यं निश्चितं यतः॥ अथ व्रतस्य करणविधानं शृणु तत्त्वतः। देवतात्रयमुद्दिश्य शास्त्रदृष्टेन कर्मणा। प्रजापतये विश्वकर्मणे रुद्राय नमो नमः। इत्यनेनैव मन्त्रेण वह्निं संस्थाप्य भक्तितः। ततो ब्रह्मविष्णुशिवानां नाममन्त्रेणाष्टोत्तरसहस्रमष्टोत्तरशतं वा तिलहोमः। अथ होमावसाने तु गां च दद्यात्पयस्विनीम्। हेमशृङ्गीं रूप्यखुरां घण्टाभरणभूषिताम्॥ ताम्रपृष्ठां रूप्यखुरां सर्वोपस्करसंयुताम्। सदक्षिणां शुभां पुण्यांब्राह्मणाय निवेदयेत्॥ तेन दत्तं हुतं जप्तमिष्टं यज्ञे सहस्रधा। कृतकृत्यो भवेद्विप्रोव्रतस्यास्य प्रभावत इत्यर्द्धोदयेतिलाचलदानम्॥

अथ कार्पासाचलः॥ पाद्मे, कार्पासपर्वतस्तद्वद्विंशद्भारैरिहोदितः। दशभिर्मध्यमः प्रोक्तः कनिष्ठः पञ्चभिः स्मृतः॥ भारेणाऽल्पधनो दद्याद्वित्तशाठ्यविवर्जितः। धान्यपर्वतवत् सर्वमासाद्य मुनिसत्तम॥ प्रभातायां तु शर्वय्यांदद्यादिदमुदीरयन्॥ त्वमेवावरणं यस्माल्लोकानामिह सर्वदा। कार्पासाचल तस्मात्त्वम् अघौघध्वंसनो भव॥ एवं कार्पासशैलेन्द्रं यो दद्यात् पर्वसन्निधौ।

रुद्रलोके वसेत् कल्पं ततो राजा भवेदिह। सकलपापक्षयपूर्वककल्पाऽवधिरुद्रलोकनिवासानन्तरभूलोकराजत्वकाम इति दानवाक्यम्॥

अथ घृताचलः॥ पाद्मे, अथातः संप्रवक्ष्यामि घृताचलमनुत्तमम्। तेजोमयमिदं दिव्यं महापातकनाशनम्। विंशत्याघृतकुम्भानामुत्तमः स्याद् घृताचलः। मध्यमस्तु तदर्द्धेन तदर्द्धेनाधमः स्मृतः॥ अल्पवित्तः प्रकुर्वीत द्वाभ्यामिह विधानतः॥ कुम्भः पलसहस्रात्मकः परिमाणविशेषः। विष्कम्भपर्वतांस्तद्वच्चतुर्भागेन कल्पयेत्। शालितन्दुलपात्राणि कुम्भोपरि निवेशयेत्॥ अत्र तु कुम्भः पात्ररूप एव। स च प्रायो घृतस्य द्रवत्वेन तद्धारणयोग्यपरिमाणः। तदुपरि च तन्दुलपात्रम्। एवं विष्कम्भाचलेष्वपि। एतदभिप्रायेणैव पात्राणीति बहुवचनम्। कारयेत् संहतान् सर्वान्यथाशोभं विधानतः * वेष्टयेच्छुक्लवासोभिरिक्षुदण्डफलादिकैः॥ धान्यपर्वतवच्छेषं विधानमिह पठ्यते। अधिवासं च कुर्वीत तद्वद्धोमं सुरार्चनम्॥ प्रभातायां तु शर्वर्यां गुरवे विनिवेदयेत्॥ घृताऽचलमिति शेषः। विष्कम्भपर्वताँस्तद्वदृत्विग्भ्यः शान्तमानसः॥ प्रयोगाद् घृतमुत्पन्नं यस्माद् अमृततेजसः। तस्माद्घृतार्चिर्विश्वात्मा प्रीयतामत्र शङ्करः॥ यच्च तेजोमयं ब्रह्म घृते तच्च व्यवस्थितम्। घृतपर्वतरूपेण तस्मान्नः पाहि भूधर॥ अनेन विधिना दद्याद् घृताऽचलमनुत्तमम्। महापातकयुक्तोऽपि लोकमायाति शङ्करम्॥ हंससारसयुक्तेन किङ्किणीजालमालिना। विमानेनार्कवर्णेन सिद्धविद्याधरार्चितः। विचरेत् पितृभिः सार्द्धं यावदाभूतसंप्लवम्॥ अत्र सकलपातकनाशनपूर्वकहंससारसयुक्तकिङ्किणीजालमाल्यर्कवर्णविमानकरणकशङ्करलोकागमनपूर्वक–सिद्धविद्याधरार्चितत्वविशिष्टपितृसहितभूतसंहाराऽवधिकविचरणकाम इति दानवाक्यम्॥

अथ रत्नाचलः॥ पाद्मे, अथातः संप्रवक्ष्यामि रत्नाचलमनुत्तमम्। मुक्ताफलसहस्रेण पर्वतः स्यादिहोत्तमः। मध्यमः पञ्चशतिकस्त्रिंशता चाधमः स्मृतः। चतुर्थांशेन विष्कम्भर्पवताः स्युः समन्ततः॥ पूर्वेण वज्रगोमेदैर्दक्षिणेनेन्द्रनीलकैः॥ वज्रगोमेदैरित्यनन्तरं मन्दर इति शेषः। पद्मरागयुतैः कार्यो विद्वद्भिर्गन्धमादनः। वैडूर्यविद्रुमैः पश्चात् संमिश्रो विपुलाचलः॥ पद्मरागैः ससौपर्णैरुत्तरेण तु विन्यसेत्॥ सुपार्श्वमिति शेषः। वज्रगोमेदैः समसंख्यः। समं स्यादश्रुतित्वादिति न्यायात्। एवमुत्तरत्रापि ज्ञेयम्। धान्यपर्वतवच्छेषमत्रापि परिकल्पते। तद्वदावाहनं कुर्याद्ग्रहदेवाँश्च काञ्चनान्॥ पूजयेत् पुष्पपानीयैः प्रभाते च विसर्जनम्॥ दानानन्तरमिति शेषः। पूर्ववद्गुरुऋत्विग्भ्य इमान्मन्त्रानुदीरयेत्॥ गुरुऋत्विग्भ्यो दानायेति शेषः। यथा देवगणाः सर्वे रत्नेष्वेव व्यवस्थिताः। त्वं च रत्नमयो नित्यमतः पाहि महाचल। यस्माद्रत्नप्रसादेन वृष्टिं प्रकुरुते हरिः। महारत्नप्रसादेन तस्मान्नः पाहि सर्वतः॥ अत्राप्युपक्रमादारभ्य विसर्ज्जनादीनां व्युत्क्रमोक्तावपि चान्यपर्वतवदातिदेशिकः क्रमो ज्ञेयः। अनेन विधिना यस्तु दद्याद्रत्नमहागिरिम्। स याति वैष्णवं लोकममरेश्वरपूजितः॥ यावत्कल्पशतं साग्रंवसेदिह नराधिप। रूपारोग्यगुणोपेतः सप्तद्वीपाऽधिपो भवेत्॥ ब्रह्महत्यादिकं यत् स्यादिहात्रामुत्र वा कृतम्। तत्सर्वं नाशमायाति गिरिर्वज्रहतो यथा॥ अत्रानेकजन्मकृतब्रह्महत्यादिपापक्षयोत्तरममरेश्वरपूजितत्वपूर्वकसाग्रकल्पशताऽवच्छिन्नविष्णुलोकनिवासान-न्तररूपारोग्यगुणोपेतसप्तद्वीपाधिपत्यकाम इति दानवाक्यम्॥

अथ रौप्याचलः॥ पाद्मे। दशभिः पलसाहस्रैरुत्तमो राजताऽचलः। पञ्चभिर्मध्यमः प्रोक्तस्तदर्द्धेनाधमः स्मृतः॥ अशक्तौ

विंशतेरूर्ध्वं कारयेच्छक्तितः सदा। विष्कम्भपर्वतांस्तद्वत्तुरीयांशेन कल्पयेत्॥ पूर्ववद्राजतान् कुर्यान्मन्दरादीन्विधानतः। कलधौतमयांस्तद्वल्लोकेशानर्चयेद् बुधः॥ कलधौतं काञ्चनम्। ब्रह्मविष्णुशिवान् कुर्यान्नितम्बोऽत्र हिरण्मयः। राजतं स्याद्यदन्येषां काञ्चनं स्यात्तदत्र वै॥ शेषं च पूर्ववत् कुर्याद्धोमजागरणादिकम्। दद्यात्तद्वत्प्रभाते तु गुरवे रौप्यपर्वतम्॥ विष्कम्भशैलान् ऋत्विग्भ्यः पूज्य वस्त्रविभूषणैः। इमं मन्त्रं पठन् दद्याद्दर्भपाणिंविमत्सरः॥ पितॄणां वल्लभं यस्माद्धर्मेन्दोः शङ्करस्य च। रजतं पाहि तस्मान्नः शोकसंसारसागरात्॥ इत्थं निवेद्य यो दद्याद्रजताचलमुत्तमम्। गवां दशसहस्रस्य फलं प्राप्नोति मानवः॥ सोमलोके स गन्धर्वैः किन्नराप्सरसाङ्गणैः। पूज्यमानो वसेद्धीमान् यावदाभूतसम्प्लवम्॥ अत्र सकलपापक्षयदशसहस्रगोदानफलावाप्तिपूर्वकगन्धर्वकिन्नराऽप्सरोगणपूज्यमानत्वावशिष्ट–यावदाभूतसम्प्लवसोमलोकनिवासकाम इति दानवाक्यम्॥

अथ शर्कराचलः॥ पाद्मे। अथातः सम्प्रवक्ष्यामि शर्कराचलमुत्तमम्॥ यस्य प्रसादाद्विष्ण्वर्करुद्रास्तुष्यन्ति सर्वदा॥ अष्टभिः शर्कराभारैरुत्तमः स्यान्महाचलः। चतुर्भिर्मध्यमस्तद्वद्भाराभ्यामधमः स्मृतः॥ भारेण वार्द्धभारेण कुर्याद्यः स्वल्पवित्तवान्। विष्कम्भपर्वतान् कुर्यात्तुरीयांशेन मानवः॥ धान्यपर्वतवत् सर्वमासाद्याऽमरसंयुतम्। मेरोरुपरि तद्वच्च स्थाप्य हेमतरुत्रयम्॥ मन्दारःपारिजातश्च तृतीयः कल्पपादपः। एतद्वृक्षत्रयं मुर्ध्नि सर्वेष्वपि निवेशयेत्॥ हरिचन्दनसन्तानौ पूर्वपश्चिमभागयोः। निवेश्यौ सर्वशैलेषु विशेषाच्छर्कराचले॥ मन्दरे कामदेवस्तु प्रत्यग्वक्त्रःसदा भवेत्। गन्धमादनशृङ्गे च धनदः स्यादुदङ्मुखः॥ प्राङ्मुखो वेदमूर्त्तिश्च हंसः स्याद्विपुलाचले। हैमी सुपार्श्वे सुरभि-

र्दक्षिणाभिमुखी भवेत्॥ धान्यपर्वतवत् सर्वमावाहनमखादिकम्। कृत्वाऽथ गुरवे दद्यान्मध्यस्थं पर्वतोत्तमम्॥ ऋत्विग्भ्यश्चतुरः शैलानिमान्मन्त्रानुदीरयेत्॥ सौभाग्याऽमृतसारोऽयं परमः शर्क्कराचलः। तत्समानन्दकारी त्वं भव शैलेन्द्र सर्वदा॥ अमृतं पिबतां ये तु निपेतुर्भुवि शीकराः। देवानां तत्समुदयं पाहि नः शर्कराचल। मनोभवधनुर्मध्यादुद्भूता शर्करा यतः। तन्मयोऽसि महाशैल पाहि संसारसागरात्॥ यो दद्याच्छर्कराशैलमनेन विधिना नरः। सर्वपापविनिर्मुक्तःप्रयाति शिवमन्दिरम्॥ चन्द्राऽऽदित्यप्रतीकाशमधिरुह्यानुजीविभिः। सहेमयानमातिष्ठेत्ततो विष्णुपुरं व्रजेत्॥ ततः कल्पशतान्ते तु सप्तद्वीपाऽधिपो भवेत्। आयुरारोग्यसम्पन्नो यावज्जन्मायुतत्रयम्। भोजनं शक्तितः कुर्यात्सर्वशैलेष्वमत्सरः। सर्वत्राक्षीरलवणमश्नीयात्तदनुज्ञया॥ भोजनं ब्राह्मणानाम्। सर्वत्र सर्वशैलेषु। दानात्पूर्वेद्युः कृतोपवासो दानानन्तरं गुर्वाद्यनुज्ञया क्षीरलवणमश्नीयादित्यर्थः। सर्वत्रोपस्करान् सर्वान् प्रापयेद् ब्राह्मणालयम्॥ पश्येदिमानल्पधनोऽपि भक्त्या स्मरेन्मनुष्यैरपि दीयमानम् शृणोति भक्त्याऽथ मतिं करोति निष्कल्मषः सोऽपि दिवं प्रयाति॥ दुःस्वप्नं शमनमुपैति पठ्यमाने शैलेन्द्रे भवभयभेदने मनुष्यः। यः कुर्यात् किमु मुनिपुङ्गवेह सम्यक्सन्नात्मा सकलगिरीन्द्रसम्प्रदानम्॥ सन्नात्मा प्रसन्नचित्तः। अत्र सकलदुरितक्षयानन्तरंकल्पशतावधिकविष्णुलोकनिवासानन्तरसप्तद्वीपाधिपत्योत्तरजन्मायुतत्रयाऽवच्छिन्नायु-रारोग्यकाम इति दानवाक्यम्॥

अथ शिखरदानम्॥ विष्णुधर्मोत्तरे, शृणु राजन् प्रवक्ष्यामि शिखराणां यथाक्रमम्। दानं देयं यथा येन तच्छृणुष्व सनातनम्॥ माघशुक्लतृतीयायां मार्गशीर्षस्य वा पुनः। तृतीया वाथ

वैशाखे शुक्ला या रोहिणीयुता॥ प्रौष्ठपद्यां तृतीयायां विशेषेण तु भार्गव। गुडेक्षुवस्त्रलवणधान्यकाजाजिशर्कराः॥ खर्जूरतन्दुलद्राक्षाक्षौद्रैर्मलयजेन च। फलैर्मनोहरै रम्यैः शिखराणि प्रदापयेत्॥ तेषामन्यतमं दद्याद्यथाश्रद्धं विधानतः। आत्मप्रमाणं कुर्वीत प्रादेशाऽभ्यधिकं शुभम्॥ भुवि गोमयलिप्तायामिक्षुपत्राणि संस्तरेत्। ततः कुर्वीत शिखरे गौरीस्थानमनुत्तमम्॥ द्विहस्तमूलं कर्त्तव्यं हस्तमात्रं शिरस्तथा॥ भित्तिरिक्षुदलैः कार्या वेष्टयेद्रक्तवाससा। दानद्रव्येण तन्मध्यं पूरयेद् भृगुनन्दन॥ इक्षुपत्रकटे गौरीं तस्योपरि निवेशयेत्। चतुर्भुजां हेममयीं पूजयेत् कुङ्कुमेन तु॥ गौरीलक्षणमुक्तं देवीपुराणे, गौरी शङ्खेन्दुवर्णाभां शर्वरीश—निषेविताम्। वृत्तपद्मासनां रम्यां साक्षसूत्रकमण्डलुम्॥ वरदोद्यतरूपाढ्यां सर्वमाल्यफलप्रियाम्॥ वरदोद्यतेति वरदाभयकरामित्यर्थः। वेष्टयेत् सूक्ष्मवस्त्रेण देवीं शिखरमेव च। अष्टाङ्गं पूजयेद्गौरीं मन्त्रैरेतैस्तु भक्तितः॥ नमो भवान्यै पादौ तु कामिन्यै जानुनी नमः। वामदेव्यै तथा चोरू नाभिं चैव जगत्प्रिये॥ आनन्दायै तु हृदयं नन्दायै पूजयेत् स्तनौ। सुभद्रायै मुखं पूज्यं ललितायै नमः शिरः॥ एवं पूज्य महादेवीं शिखरानभिमन्त्रयेत्॥ यस्मान्निवासःपार्वत्याः शिखरं त्वं सुरैर्वृतः। तथा निवासः सर्वेषां तस्मान्मां त्राहि भक्तितः॥ तस्मान्मां पाहि भगँवस्त्वं गौरीशिखरः सदा। एवमामन्त्र्य शिखरं तृतीयायां तदग्रतः। ततः स्नात्वा प्रभाते तु दद्यान्मन्त्रेण भक्तितः॥ यस्मात्त्वंसर्वभूतानामुपरिष्टादवस्थितः। तस्मान्मां पाहि भगवन् त्वं गौरीशिखरः सदा॥ एवमामन्त्र्य शिखरं तृतीयायां तदग्रतः। तस्माच्छिवः प्रीयतां मे तवदानेन सर्वदा॥ अर्द्धभागं चतुर्थं वा पञ्चमं चाऽपि वै गुरोः। दद्याच्छेषं तु बन्धूनां शिष्टानां स्वजनस्य च॥ अनुजीविनां च भूतानां

दुर्गतानां च धर्मतः॥ एवं दत्वा तु शिखरं गौर्या भुञ्जीतवाग्यतः। संमुक्तकेशःसम्प्राप्य क्षीरं घृतमथाऽपि॥ विधिनाऽनेन यो दद्याद गौर्याःशिखरमुत्तमम्। स वसेद्भवने देव्याः कल्पकोटिशतत्रयम्॥ पुण्यक्षयादिहायातो जायते पृथिवीपतिः। अनेन विधिना देयं विधिहीनं न कारयेत्॥ विधिहीनं कृतं सर्वंतत्र दातुः फलं भवेत्॥

अथ प्रयोगः। यजमानो माघशुक्लतृतीयाद्युक्तकाले पूर्वाह्णे गणेशपूजा—स्वस्तिवाचन—मातृकावसोर्द्धारापूजा—नान्दीश्राद्धानि करिष्यमाणशिखरदानाङ्गतया करिष्य इति सङ्कल्प्य तानि कृत्वा मासपक्षाद्युक्त्वा दौर्भाग्यदौर्गत्याभावपूर्वककल्पकोटिशतावच्छिन्नगौरीभवननिवासानन्तरपृथिवीपतित्वकामः श्वोगुडशिखरदानमहं करिष्य इति सङ्कल्प्य तत्र पूर्वोक्तप्रकारेण सऋत्विजमाचार्यं वृत्वा सम्पूज्य लिप्तायां भूमाविक्षुपत्राणि संस्तीर्य मूले द्विहस्तविस्तारमुपरिहस्तमात्रविस्तारं चतुरस्रं स्वशरीरार्द्धप्रमाणतः प्रादेशाधिकमुच्चमिक्षुदलमयं कुसूलं कृत्वा तदभ्यन्तरे रक्तवस्त्रेण संवेष्ट्य गुडादिदेयद्रव्येणापूर्य्योपरीक्षुपत्रकटमास्तीर्य्यतत्र क्षौमादिवस्त्रोपरि खण्डेन्दुवर्णाभां चन्द्रमौलिं पद्मासनाम् अक्षसूत्रकमण्डलुधरवराभयकरां गौरीं हैमीं सशिखरां सूक्ष्मवस्त्रेणावेष्ट्य कुङ्कुमादिना सम्पूज्य। भवान्यै नमः पादौ। कामिन्यै जानुनी। कामदेव्यै ऊरू। जगच्छ्रियै नमो नाभिम्। आनन्दायै हृदयम्। नन्दायै स्तनौ। सुभद्रायै मुखम्। ललितायै शिरः सम्पूज्य पुष्पाञ्जलिमादाय शिखरं त्रिःप्रदक्षिणं कृत्वा। यस्मान्निवासःपार्वत्याः शिखर त्वं सुरैर्वृतः। तस्मान्मां पाहि भगवन् त्वं गौरीशिखरः सदेत्यनुमन्त्र्य पुष्पाञ्जलिं प्रक्षिप्य नमस्कृत्यजागरणं कुर्यात्। ततः प्रभाते कृतनित्यक्रियः शिखरपश्चिमभागम् उपविश्य मास-

पक्षाद्युक्त्वाऽमुकगोत्रायामुकवेदायामुकशाखाध्यायिनेऽमुकशर्मणे ब्राह्मणाय दौर्भाग्यदौर्गत्याभावपूर्वककल्पकोटिशतत्रयाऽवच्छिन्नगौरीभवननिवासाऽनन्तरपृथिवीपतित्वकामोऽहं तुभ्यमन्येभ्यश्च विप्रेभ्य इदं शिखरं गौरीप्रतिमायुतं सम्प्रददे न ममेति दत्वा सुवर्णं च दत्वा विप्रान् सम्भक्तकेशः प्राश्नीयात्। इक्षुवस्त्रादिशिखरदाने तु तत्तद्रव्येण कुसूलपूरणसङ्कल्पवाक्यादौ च तत्तत्प्रयोग इति विशेषः। अन्यत् तुल्यम्॥ इति गुडादिशिखरदानप्रयोगः॥

अथ भद्रनिधिदानम्॥ वह्निपुराणे, पुण्यां तिथिं प्राप्य तु पौर्णमासीं तथोपरागे शशिसूर्ययोर्वा। चतुर्युगादिष्वयनद्वये वा प्रबोधने प्रस्वपनेऽथ विष्णोः। कुर्यादथौदुम्बरमेककुम्भं हिरण्यमानेन यथास्वशक्त्या॥ हिरण्यमानेनान्तः प्रक्षेप्तव्यभारादिमितसुवर्णरत्नादिना यथा कुम्भः पूर्णः स्यादित्यर्थः। तथाऽपिधानं च सुराजतं स्याद्धिरण्यभारेण तु पुरयेत्तत्*तदर्द्धतोऽर्द्धेन तदर्धतो वा स्वशक्तितः स्वर्णपलैः शतेन॥ तदर्द्धमर्द्धेन तु वित्तशक्त्या पलत्रयादुर्ध्वमपि प्रकुर्यात्। तत्ताम्रभाण्डे कनकं निधाय सवज्रनीलोत्पलपद्मरागम्॥ समुक्तवैडूर्य्यसविद्रुमं च तद्राजतं पात्रमधोमुखं स्यात्॥ तद्राजतं पूर्वोक्तं पिधानपात्रम्। एवं तु तं भद्रनिधिं स विद्वान् कृत्वासने प्रावरणोपयुक्ते*प्रावरणमुत्तरच्छदस्तेनोपयुक्ते सहिते। कुशोत्तरे दर्पणचामराढ्यं सपादुकोपानहच्छत्रयुक्तम् तत्क्षौमवस्त्रोत्तमयुग्मयुक्तं सम्पूजयेन्मन्त्रवरैरपेतैः॥ आदौ तु पञ्चामृतमाप्य विष्णुं संस्नाप्य संसारहरं समर्च्य। तथेश्वरं पावकमेवहुत्वा आमन्त्रयेद्भद्रनिधिं ततस्तम्॥ श्रीखण्डकर्पूरसकुङ्कुमेन पञ्चाक्षरं नाम श्रियः प्रलिख्य। नमस्तथोङ्कारयुतं च पात्रे तद्राजतेऽध्येवमथार्चयेत्तम्॥ मन्त्रः प्रयोगे वक्ष्यते। एवं पूज्य विधानेन ततो विप्रमथार्चयेत्। किरीटाङ्गदनिष्काङ्गकुण्डलाङ्गुलि -

भूषणैः॥ अलङ्कृत्यहरिं यद्वा पीताम्बरधरं ततः। पूजयेदच्युतं ध्यात्वा मन्त्रेणानेन भक्तिमान्॥ मन्त्रः प्रयोगे वक्ष्यते। एवं पूज्य हरिं ध्यात्वा तं द्विजं विष्णुरूपिणम्। ततो भद्रनिधिं दद्यान्मन्त्रेणानेन मानवः॥ स्वगोत्रोच्चारणेनादौ विष्णोर्नाम महात्मनः। यवदर्भतिलैः सार्द्धमुदकं सम्परित्यजेत्॥ पितृसन्तारणार्थाय नित्यानन्दविवृद्धये। सर्वाघौघविनाशाय विष्णोर्दानं मया कृतम्। तदन्नेन सरत्नेन धातुत्रययुतेन च। सक्षौमाम्बरयुक्तेन सादर्शपादुकेन च॥ सासनेन सच्छत्रेण चामरोपानहेन च। सदानन्दविधानेन प्रीयतां विष्णुरीश्वरः॥ एवमुच्चार्य तं दद्याद् द्विजाय हरिरूपिणे। गोदानविधिना दद्याद्धेमसंख्यां न कीर्त्तयेत्॥ प्रकीर्त्तितं कोटियुगायुतं फलं प्रगोपितं कल्पगणैर्न संशयः। इतीदमाख्याय न कीर्त्तयेत् सुधीनिधानमध्ये निहितं च यद्भवेत्॥ एवं कृते स्यान्मनुजः कृतात्मा भवेन्न च स्यान्मरणं कदाचित्। प्रयाति विष्णोः पदमव्ययं तत् शिवात्मकानन्दमयं स साक्षात्॥ इति भद्रनिधिदानम्॥

अथ प्रयोगः। पूर्वोक्ते काले यजमानस्तिथ्याद्युल्लिख्य सकलपापक्षयसर्वपितृतारणानन्दविवृद्धिशिवात्मकानन्दमयपादुकोपानहच्छत्राणि चासाद्य पुरतो हरिहरौ स्थापयित्वा सम्पूज्य प्रागुत्तरे देशे स्वगृह्यानुसारेण अग्निस्थापनादि कर्म कृत्वा घृताक्ततिलैरष्टोत्तरशतादिसंख्यया हुत्वा, श्रीखण्डकुङ्कुमकर्पूरैः प्रणवादि श्रियै नम इति पञ्चाक्षरमन्त्रं निधिकुम्भे पिधाने च लिखित्वा तेनैव भद्रनिधिमुपचारैः सम्पूज्य गृहीतकुसुमाऽञ्जलिर्भद्रनिधिं प्रदक्षिणीकृत्य, त्वया समस्ताऽमरसिद्धयक्षविद्याधरेन्द्रोरगकिन्नरैश्च * गन्धर्वविद्याधरदानवेन्द्रैर्युतं वृतं विश्वमिदं नमस्ते॥ समग्रसंसारकरी त्वमेव विभोः सदानन्दमयी च माया। समस्तकल्याणवयः-

समाधिहरिप्रिये भद्रनिधे नमस्ते इत्युपस्थाय पुष्पाञ्जलिं प्रक्षिप्य नमस्कृत्वोदङ्मुखमाचार्यं किरीटाङ्गदनिष्काज्यकुण्डलाऽङ्गुलिभूषणपीतवासश्चन्दनादिभिः सम्पूज्य, तं विष्णुरूपिणं ध्यात्वा कुसुमपाणिः, भूदेवोऽसि विभो नित्यं नित्यानन्दमयो हरे। हर मे दुष्कृतं कर्म कृपाकर नमोऽस्तु ते॥ भूदेव भगवद्गम्य भवभङ्गकरेश्वर। भवभूतिकरो जिष्णोः प्रभविष्णो नमोऽस्तु त इति। पुष्पाञ्जलिनाऽभ्यर्च्य कुशयवतिलजलान्यादाय अमुकशर्माहं सकलपापक्षयसकलपितृसन्तारणनित्यानन्दविवृद्धिशिवात्मकानन्दमयाऽव्ययविष्णुपदप्राप्तिकामोऽमुकगोत्रा-यामुकशर्मणेऽमुकशाखाध्यायिने इमं भद्रनिधिं सरत्नपात्रत्रयात्मकं सक्षौमाम्बरयुग्मम् आदर्शपादुकोपानहच्छत्रासनोपकरणसहितं विष्णुरूपिणे तुभ्यमहं संप्रददे इति दद्यात्। ततः सुवर्णं दक्षिणां दत्वा विप्रान् सम्भोज्य भूयसीं दक्षिणां दत्वा, यस्य स्मृत्या, प्रमादात् कुर्वतां कर्मेत्युक्त्वा कर्मेश्वरार्पणं कुर्यादिति भद्रनिधिप्रयोगः॥

अथानन्दनिधिदानम्॥ वह्निपुराणे भगवद्वचो गरुडं प्रति। तस्मान्निधानं शृणु सर्वदा ततः प्रभावदं नित्यफलप्रदं च। ऐश्वर्यदं मोक्षदमक्षयं यद्धातुत्रयोद्भूतमनेकरत्नम्॥ कारयेत्कार्त्तिकान्ते वा माघ्यांवा माधवेऽपि वा। अयने विषुवे वाऽपि मन्वादिषु युगादिषु॥ चन्द्रसूर्योपरागे च स्वशक्त्यौदुम्बरं घटम्॥ औदुम्बरं ताम्रमयम्। पिधानं राजतं तद्वन्मध्ये सौवर्णमुत्सृजेत्॥ सुवर्णमेव सौवर्णम्। नानारत्नवरैः पूर्णं नानानामभिरावृतम्। हैमराजतताम्रोत्थैः सरिक्तैरपि पूरितम्॥ रिक्तं रीतिः। नानानामशतादूर्ध्वमयुतादपि शक्तितः। एकं नानापदं बहु प्रकारवाचि। परं महाराष्ट्रप्रसिद्धनाणकवाचि। शक्त्या पलसहस्रेण शतेनार्द्धशतेन वा। तदर्द्धाऽर्द्धेनवा राजन् पलादीनं न कारयेत्॥ कार्यं तद्धि युतं हेम्ना

वित्तशाठ्यमकुर्वता॥ उक्तनाणकातिरिक्तं पलादूर्ध्वं पलसहस्राऽवधिशक्त्या हेमापि क्षिपेदिति मदनः। राजतेनाऽथ ताम्रेण रत्नैर्वा वस्त्रसंवृतम्। राजतेन पिधानेन ताम्रेणाऽपि घटेन च॥ नानाधान्योपरि स्थाप्य कल्पोक्तैरर्चयेत् पदैः। नानाधान्यान्यष्टादशधान्यानि। पदानि मन्त्राः। पौराणिकं पुरस्कृत्यस्वयं वा तदऽनुज्ञया॥ पौराणिको गुरुः। कृतक्रियोऽग्निसान्निध्ये विष्णोरीशस्य चान्द्रज। इमंसमुच्चरेन्मन्त्रं कुशपाणिः प्रसन्नधीः॥ मन्त्रः प्रयोगे ज्ञेयः। एवं पूज्य विधानेन नित्यानन्दनिधिं सुधीः। ससिद्धार्थकदूर्वाभिः सकुशाक्षतचन्दनैः॥ सिद्धार्थकादिभिरानन्दनैः सिद्धार्थकादिभिरानन्दमेवं संपूज्येति योजना। तिललाजासुसंपूर्णं भूमावुदकमुत्सृजेत्। मन्त्रेणानेन विधिवत् कल्पोक्तेन खगोत्तम॥ मन्त्रः प्रयोगे ज्ञेयः। यशःश्रेयोऽभिवृद्ध्यर्थं मातापित्रोस्तथात्मनः। पुराणन्यायमीमांसावेदवादिभ्य एव च॥ एवमुत्सृज्य उदकं विप्रेभ्यः प्रतिपादयेत्। संविभज्य यथाशास्त्रं न कञ्चिदपमानयेत्॥ महादानमिदं यस्मात्तस्मादेकोऽपि नार्हति। अथान्ये केचिदिच्छन्ति समस्तविधिपारगाः॥ यज्ञदानव्रतानां च सोऽप्येकोऽर्हति तद्गृहे॥ एवं यः कुरुते दानं नित्यानन्दानिधेः परम्। परं पदमवाप्नोति संसारेऽस्मिन्निरन्तरम्॥ दानानामप्यशेषाणामनन्तं फलमश्नुते। नित्यानन्दविधानस्य प्रदानादपवर्गभाक्॥ इत्यानन्दनिधिदानम्।

अथ प्रयोगः॥ तत्र यजमानः पूर्वोक्ते काले कुशतिलयवजललाजा आदाय सकृद्दानपक्षे देशकालकीर्त्तनान्ते वेधःपदाधिकरणाऽसकृद्राज्यकरणोत्तर–स्वकर्मशेषसञ्चितत्रेतायुगकालीननिजाऽनुजीविसहिताऽखिलमहीराज्यावाप्तिपूर्वकनित्येशानपदप्राप्त्यनन्तर-कल्पावधिकानल्पश्रीकवैद्याधरपदराज्यलाभोत्तराऽव्ययवैष्णवपद-

प्रीतिदीर्घपुष्ट्यविच्छिन्नसन्तानकामआनन्दनिधिमहादानमहं करिष्य इति कृतसङ्कल्पः स्वस्तिवाचनमातृपूजनवृद्धिश्राद्धाचार्यवरणानि कुर्यात्। अत्रानन्दनिध्यासादनपूजादि गुरुः कुर्याद्यजमानो वा। तद्यथा। राजतपिधानं ताम्रघटरूपम् आनन्दनिधिं नानारत्नहैमरूप्यताम्रमुद्रापलाधिकहेमयुतं सूक्ष्मवस्त्रवेष्टितम् अष्टादशधान्योपरि विष्ण्वादिदेवतासंन्निधौ स्थापयित्वा प्रतिष्ठापूर्वकम् ॐनित्यानन्दनिधये नम इति मन्त्रेणाभ्यर्च्य सिद्धार्थदूर्वाब्जकुशचन्दनाक्षतानादायानन्दनिधिं प्रदक्षिणीकृत्य, ॐनमः सर्वदानन्दसर्वसंपद्विवर्द्धन। वर्द्धयास्मान् समृद्ध्येह आयुषा यशसा श्रिया। नमस्ते नन्दसन्तान सदानन्द सदोदय। त्वं सुखं वै कुरुष्वेह सन्तत्या मां धनायुषा। नमो नमः पद्मनिधे धनेश शतक्रतो शङ्कर नैर्ऋतेश। शमं नयाऽस्मद्दुरितं हर प्रभो नमो नमस्ते हर शङ्करेश॥ नमो नमः पाशधराप्रमेय नमोऽस्तु वामायमनामधेय॥ नमः समीराय हुताशनाय नमोऽस्त्वनन्ताय कनाशनाय॥ नमः सुरश्रेष्ठहरीश्वराय नमोऽस्तु सावित्रि शिवे श्रियेति। सरस्वती प्रीतिरतिः क्रियेति पुष्टिश्च तुष्टिस्मृतिशान्तिकीर्त्यै॥ सर्वामराणां निधिरप्रमेयस्त्वमेव मन्त्रर्षिमुनीश्वराणाम्। आधारभूतोऽसि चराचरस्य विश्वस्य यस्मात्प्रणतोऽस्म्यतस्त्वाम्॥ नमोऽस्तु सौन्दर्यनिधे सुरेश नमोऽस्तु गाम्भीर्यनिधे समुद्र। नमो नमः कान्तिनिधान इन्दो तेजोनिधे त्वां प्रणतोऽस्मि भानो॥ नमः पद्माय भद्राय नमस्ते स्वस्तिकाय च। नमः शङ्खाय मणये मणिभद्राय ते नमः। नमो नन्दविवर्त्ताय नन्दावर्त्ताय ते नमः। नमः कण्टककर्णाग कण्ठावर्त्ताय ते नमः॥ नमो नन्दप्रतिष्ठाय नमो हेमप्रियाय च। नमो हिरण्यगर्भाय नित्याऽऽनन्दाय ते नम इत्युपस्थाय पूजयित्वा कुशतिललाजयवाक्षतजलान्यादाय अद्येत्याद्युक्त्वा, अद्येह पुण्यकालेऽस्मिन् द्विजदेवा-

ऽग्निसन्निधौ। यशःश्रेयोऽभिवृद्ध्यर्थं मातापित्त्रोस्तथाऽऽत्मनः॥ पुराणन्यायमीमांसावेदवादिभ्य एव च। नमो विद्याविधायिभ्यो नानागोत्रेभ्य एव च॥ विप्रेभ्योऽनेकशर्मभ्यो नित्यानन्दनिधिं परम्॥ अहं संप्रददे तेभ्यो नानानानावृतेन च॥ सस्वर्णरौप्यताम्रेण सरत्नेन सवाससा। सोपस्करेण पुरुषो ब्रह्मविष्णुशिवाऽऽत्मकः॥प्रीयतां निधिदानेन श्री यज्ञपुरुषोऽच्युतः॥ इति मन्त्रैरुदकं भूमौ क्षिप्त्वा विप्रेभ्योऽमुकामुकगोत्रेभ्योऽमुकामुकनामभ्योऽमुमौदुम्बरं रौप्यपिधानसुवर्णवस्त्राष्टादशधान्यादियुतमानन्दनिधिं, निरन्तरेत्यादि प्राप्तिकाम इति सकृद्दानपक्षे फलमुल्लिख्यासकृद्दानपक्षे तु वेधःपदेत्यादि सन्तानकाम इत्युक्त्वा युष्मभ्यमहं संप्रददे इति दद्यात्। एकस्मै वा दद्यात्। ततः सुवर्णं दक्षिणां दत्वा विप्रान् सम्भोज्य भूयसीं दक्षिणां दत्वा, यस्य स्मृत्येतिप्रमादादिति चोक्त्वा विष्णुं स्मरेत्। इत्यानन्दनिधिदानप्रयोगः॥

अथ देवतादानानि॥ तत्र तावद्दशावतारदानम्। विश्वामित्रः। दानानामुत्तमं दानं हैमं विष्णोःस्वरूपकम्। तस्मात्पुण्यार्थिना देया हैमा विष्णोः स्वरूपकाः॥ ते च, मत्स्यः कूर्मोऽथ वाराहो नारसिंहोऽथ वामनः। रामो रामश्च कृष्णश्च बौद्धः कल्की च ते दशेति॥ मत्स्यादिस्वरूपाणि विश्वचक्रदाने दर्शितानि। यथाशक्त्या प्रकुर्वीत सुवर्णेन विजानता। समेन षोडशेनैव समान्येतानि कारयेत्॥ षोडशेनैव समानीति। महाभूतघटाख्ये षोडशदाने, प्रादेशादङ्गुलशतं यावत् कुर्यात् प्रमाणत इति यत्प्रमाणमुक्तं तत्प्रमाणकानि मत्स्यादिरूपकाणि भवन्तीत्यर्थः। वित्तानुरूपतो राजन् तुल्यमाढ्यदरिद्रयोः। संपूज्य नामभिस्तैस्तु पुष्पधूपनिवेदनैः॥ भक्तिनम्रः प्रणामान्ते निवेद्य श्रद्धया ततः। आहूय ब्राह्मणान् राजन्पादौ प्रक्षाल्य यत्नतः॥ उपवेश्यासने

सर्वांश्चन्दनेनानुलेपयेत्। सुगन्धैः कुसुमैश्चैव धूपैर्दीपैस्तथैव च॥ आच्छाद्य वस्त्रयुग्मेन ग्रहणे चन्द्रसूर्ययोः। अयने विषुवे चापि द्वादश्यां तु विशेषतः॥ उपोष्यैकादशीं कार्यं धर्मकार्यं च सर्वशः। अन्यथा नरकं यातीत्येवमाह पितामहः॥ ग्राहकान् विष्णुरूपांश्च अर्हयेत विमत्सरः। एकैकं देवरूपं तमेकैकस्य समर्पयेत्॥ अथवा विदुषः सर्वान् दद्यात् सम्पूज्य मानवः। नानृतेन कदाचिन्नदद्यात् पाषण्डिने तथा॥ एतदुच्चार्य विप्रस्य हस्ते तोयं क्षिपेत्स्वयम्। दशावतारतो राजन् विष्णोरैक्यं स गच्छति॥ महापातकसंसर्गान्मुच्यते तत्क्षणादपीति॥ अद्येत्यादि महापापसंसर्गजदोषनिवृत्त्यर्थं विष्णोर्दशावतारान् दास्य इति सङ्कल्प्यावतारान्विप्रान् सम्पूज्य, देवरूपं मया विप्रकारितं काञ्चनं शुभम्। तद् गृहाण प्रदानेन प्रीयतां विश्वरूपधृगिति मन्त्रमुक्त्वा देशकालाद्युक्त्वाऽमुकगोत्रायामुकशर्मणेऽमुकरूपं महापापसंसर्गजदोषनिवृत्तिकामस्तुभ्यमहं सम्प्रददे न ममेति एकैकमेकैकस्मै दद्यात्। एकस्मै वा सर्वाणि। दानप्रतिष्ठार्थंसुवर्णं दक्षिणां चेति दशावतारदानप्रयोगः॥

अथ ब्रह्मविष्णुरुद्रदानम्॥ ब्रह्माण्डपुराणे शौनकादिभिः पृष्टेन रोमहर्षणेन, शृण्वन्तु मुनयः सर्व इत्याद्युपक्रम्योक्तम्— त्रिमूर्त्तिदानं दानानामुत्तमोत्तममुच्यते। विषुवे अयने वापि चन्द्रसूर्यग्रहेषु च॥ नित्यं च पञ्चदश्यां च जन्मर्क्षेषु समारभेत्॥ देवालये नदीतिरे पुण्येष्वाऽऽयतनेषु च। गृहे वा कारयेद्दानं यत्र भूमिः शुचिर्भवेत्॥ चतुरस्रां समां भूमिं गोमयेनोपलेपयेत्। तत्राक्षताभिर्विकिरेत्पुष्पाञ्जलि समन्ततः॥ एकहस्ता द्विहस्ता वा त्रिगुणा दैर्घ्यतः स्मृता। त्रिवेदिका भवेत्तिर्यक् श्वेततन्दुलमिश्रिता॥ ब्रह्मा च विष्णुर्भगवान् पुरारिर्हिरण्मयास्तत्र निवेशनीयाः।

चतुर्भुजाः सायुधभूषणाढ्याः किरीटिनश्चापि यथाक्रमेण॥ एतत्प्रतिमालक्षणमुक्तं ब्रह्माण्डदाने। स्नानार्घपाद्याचमनीयवस्त्रैर्गन्धादिभिस्तानभिपूज्य भक्त्या। प्रदक्षिणीकृत्यसपुष्पहस्तः प्रणम्यचोद्वास्य ततः प्रदद्यात्॥प्रत्येकमेवं बहुमानपूर्वंसम्पूज्य दातव्यमनुक्रमेण। तथा जगत्सृष्टिकरस्त्वमेव त्वमेव सर्वस्य पितामहोऽसि॥ त्वमेव कर्त्ता जगतां विहर्त्ता त्वमेव धाता जगतां विधाता॥त्वत्सम्प्रदानादनघो यथाहं त्वया च सायुज्यमुपैमि देव। तथा कुरु त्वं शरणं प्रपन्ने मयिप्रभो देववर प्रसीद॥ त्वया जगद् व्याप्तमिदं समस्तं त्वां विष्णुमेव प्रवदन्ति सन्तः। त्वत्स्थानि सर्वाणि वदन्ति देव त्वया धृतं विश्वमनन्तमूर्ते॥ त्वत्सम्प्रदानादनघो भवामि यथा जगत्कारणकारणेश। तथा कुरु त्वं शरणं प्रपन्ने मयिप्रभो देववर प्रसीद॥ त्वया सुराणाममृतं विहाय हालाहलं संहृतमेव यस्मात्। तथाऽसुराणां त्रिपुरञ्च दग्धमेकेषुणा लोकहितार्थमीश॥ त्वद्रूपदानादहमप्यशेषैर्दोषैर्विमुक्तो हि यथा भवेयम्। तथा कुरु त्वां शरणं प्रपन्ने मयि प्रभो देववर प्रसीद॥ इत्येवमुक्त्वाविधिवद् ददाति स याति सायुज्यमथ त्रिमूर्त्तेः। यः कारयेद्विप्रवराय तस्मै सुवर्णसंख्यागणितं हिरण्यम्॥ दद्याच्च वासोयुगमादरेण तथा कृते तल्लभते फलं तत्॥ इति त्रिमूर्त्तिदानम्॥

अथ द्वादशादित्यदानम्॥ ब्रह्माण्डपुराणे, शृणु नारद भद्रं ते दानमादित्यसंज्ञितम्। यथोक्तं लोकगुरुणा विष्णुना प्रभविष्णुना॥ कर्त्तुःपापहरं पुण्यमायुष्यं श्रीकरं शुभम्। आरोग्यं सर्वमङ्गल्यं दुःस्वप्नाद्भुतनाशनम्॥ सर्वशान्तिकरं ह्येतत् सर्वसिद्धिफलप्रदम्। चक्षुष्यं सर्वरोगघ्नं भुक्तिमुक्तिफलप्रदम्॥ विषुवत्ययने राहुग्रहणे चन्द्रसूर्ययोः। जन्मर्क्षे सौरमासे वा पञ्चदश्याऽर्कसंक्रमे॥ सौरवारे सूर्यसंबन्धिनि वारे॥ सप्तम्यां वाथ नक्षत्रे

सावित्रेऽद्भुतदर्शने। दुःस्वप्नदर्शने कुर्याद् दानमादित्यसंज्ञितम्। देवालये नदीतीरे तडागे वरुणालये। अन्येषु पुण्यदेशेषु देवदानं समाचरेत्। आलिप्य वै द्वादशहस्तदैर्घ्यांक्षितिं यथा गोमयसंयुताभिः। तस्मिन् सितैस्तन्दुलपुञ्जकैश्च विस्तारयेद्द्वादश पङ्कजानि॥ प्रादेशमात्राणि शुभानि तानि सकर्णिकान्यष्टदलेषु तेषु। हिरण्यरूपाणि रवेर्विधाय यथाक्रमादुत्तरयोऽपवर्गः॥ प्रत्यङ्मुखान् प्राङ्मुख एव देवांस्तद्वर्णगन्धादिभिरादरेण। सम्प्रीयतामित्यथ च क्रमेण प्रत्येकमुच्चार्य तदीयनाम। धाता च मित्रश्च ततः क्रमेण मार्त्तण्डनामा च तथार्यनाम। शक्रश्च देवो वरुणस्तथाऽसौ भगो विवस्वान्नमस्तथैषाम्॥ विष्णुस्तथा द्वादशमः स्वमन्त्रैराराधयेद् देववरान् द्विजांश्च॥ पुरा देवऋषेर्दानं प्रोक्तं कमलयोनिना। तथा मयाऽपि युष्माकं प्रोक्तं मुनिवरोत्तमाः। द्वादशादित्यप्रतिमालक्षणं प्रागुक्तं वेदितव्यम्॥ इति द्वादशादित्यदानम्॥

अथ चन्द्रादित्यदानम्॥ विष्णुधर्मोत्तरे। भगवानुवाच। अतः परं प्रवक्ष्यामि दानराजं नराधिप। यद्दत्वा तु बली राजा शक्रराज्यमवाप ह॥ शक्रश्च बलिराज्यं तु दत्वा पुनरवापह॥ चन्द्रसूर्योपरागेषु अयने विषुवेतथा। चन्द्रक्षये च द्वादश्यां वैशाख्यां पुत्रजन्मनि॥ कार्तिक्यां च महामाघ्यांसप्तम्यां च यथा तथा। चन्द्रादित्यौ तु दातव्यौ सूर्यःसौवर्ण उच्यते॥ शुद्धस्य रजतस्यैव मण्डलं हिमरोचिषः। द्वादशाङ्गुलवृत्तं तु उभयोरपि मण्डलम्॥ वृत्तौ पद्मसमाकारौ मध्ये चैव तु कर्णिका। भानुं ताम्रमये पात्रे घृतपूर्णे तु निक्षिपेत्॥ सोमं शङ्खे क्षीरपूर्णेउपरि स्थापयेद् बुधः। सूर्यंतु रक्तकुसुमैः सोमं शुक्लैस्तथैव च॥ आदित्याय सुगन्धं च धूपं चैव प्रदापयेत्। सोमस्य गुग्गुलुर्देयो गन्धः शुक्लस्तथैव च॥ कुङ्कुमं तु पतङ्गाय दीपं चैव घृतेन तु। एवं

सम्पूज्य यत्नेन चन्द्रादित्यौपृथक् पृथक्॥ अमृतमूर्त्तये सोमं नमोऽन्तेनैव पूजयेत्। खखोल्कायेति वै सूर्यं नमोऽन्तेन पुनः पुनः॥ आहूय ब्राह्मणं भक्त्या वेदवेदाङ्गपारगम्। कुटुम्बिनं दरिद्रं च आहिताग्निं तथैव च॥ रक्तेन वाससाच्छाद्य कुङ्कुमेनानुलेपयेत्। सम्पूज्य पुष्पधूपैश्च द्विजं सूर्यमिवापरम्॥ रविं च चन्द्रबिम्बंच घृतस्थं तु निरीक्ष्य वै॥ समर्पयेद् ब्राह्मणाय मन्त्रेणानेन भूमिपः। रुक्मं च पुष्करं चैव वर्णं पुष्करमेव च॥ त्रयी विद्या च साङ्गा तु यस्याङ्गं विष्णुरूपिणः। स वै दिवाकरो देवः प्रीयतां विप्रमाचिरम्॥ एवमुच्चार्य भानुं तु द्विजराजं तथैव च। अमृतमूर्त्तंशीतांशुं ददामि ते द्विजोत्तम। गायत्र्या चैव सूर्यस्य अर्हणं जायते विभोः॥ सोमं तरत्समं दीपं शुचिः शुद्धेन तेजसा। एवं चन्द्रं रविं दत्वा बली राज्यमवापह॥ सर्वंतेन तु दत्तं स्याद्यो दद्याच्चन्द्रभास्करौ। सर्वंतेन कृतं राजन् सर्वंतेन च संस्तुतम्॥ सर्वं दक्षिणया चेष्टं संसारे तु नरोत्तमैः। पूज्यते सिद्धगन्धर्वैर्ऋषिभिर्देवदानवैः॥ इति चन्द्रादित्यदानम्॥

अथ लोकपालाष्टकदानम्॥ ब्रह्माण्डपुराणे। शृणु नारद भद्रं ते दानं सर्वाघनाशनम्। सर्वमङ्गलमायुष्यमारोग्यं शङ्करं शुभम्॥ दानानामुत्तमं दानं सर्वसिद्धिकरं परम्। करोति दानं नारी वा सायुज्यं ब्रह्मणो व्रजेत्। विषुवत्ययने राहुग्रहणे चन्द्रसूर्ययोः। अन्येषु पुण्यकालेषु जन्मर्क्षेषु विशेषतः॥ देवालये नदीतीरे गृहे वा दानमाचरेत्। पुण्यदेशेषु सर्वेषु पुराणोक्तेषु नारद॥ चतुरस्रां समां भूमिं लिप्तां गोमयवारिणा। षट्करं चाष्टहस्तं वा दश द्वादश वा करान्॥ प्राच्योदीच्यश्च कर्त्तव्या रेखाश्चतस्रकाः स्मृताः॥ नवकाष्ठानि तत्र स्युः श्वेततन्दुलपुञ्जकैः। सितैरष्टदलैर्युक्तान्कमलान् विन्यसेच्छुभान्॥ राजतरूपमयं देवं

जगत्कर्त्तारमव्यम्। तेषां मध्यमकोष्ठेषु कमलस्थं निवेशयेत्॥ इन्द्रमग्निं यमं चैव निर्ऋतिं वरुणं तथा। वायुं सोमं तथेशानं प्रागादिषु यथाक्रमम्॥ जातरूपमयान् देवान् अष्टौ स्वायुधसंयुतान्। त्रिपलार्वाक्सुवर्णात्तु यथाशक्ति विनिर्मितान्॥ ब्रह्मणोऽभिमुखान् सर्वान् सर्वेषु विनिवेशयेत्॥ जातरूपमयान् देवानष्टौ स्वायुधसंयुतान्॥ स्वर्णमयं कमलस्थं ब्रह्माणम्। ब्रह्मलोकप्रतिमालक्षणं ब्रह्माण्डदाने द्रष्टव्यम्। प्रत्येकं वा समावेष्ट्यसम्प्रोक्ष्य कुशवारिणा। योऽसौ कारयिता विप्रस्त्वेवमेतत् समाचरेत्॥ दानकाले तु सम्प्राप्ते दाता स्नात्वा कुशोदकैः। प्रसन्नचित्तवदनः परमेष्टिपुरोगमान्॥ स्वानाममन्त्रैरभितो नमोऽन्तैराराध्य गन्धादिभिरादरेण। विप्रांस्तथाभ्यर्च्य यथाक्रमेण सम्प्रीयतामयमिवेत्युक्त्वा, यो सौ कारयिता विप्रस्तस्मै दद्याच्च दक्षिणाम्। सुवर्णसंख्यागणितं हिरण्यं चैव वाससी॥ प्रोक्तं देवऋषे दानं लोकपालाह्वयं मया। किमन्यच्छ्रोतुमिच्छा ते तदिदं वद साम्प्रतम्॥ इति लोकपालाष्टकदानम्॥

अथ नवग्रहदानम्॥ ब्रह्माण्डपुराणे॥ ब्रह्मोवाच। ग्रहदानक्रमं वक्ष्ये सर्वसिद्धिकरं परम्। सर्वशान्तिकरं नृणां सर्वपापप्रणाशनम्॥ विषुवत्ययने राहुग्रहणे शशिसूर्ययोः। जन्मर्क्षेसौरवारे वा पञ्चदश्यां तथैव च॥ पुण्यकालेषु सर्वेषु पुण्यदेशे विशेषतः। ग्रहदानं तु कर्त्तव्यं नित्यं श्रेयोऽभिकाङ्क्षिणा।हस्तमात्रं द्विहस्तं वा त्रिहस्तं वाऽथ नारद। चतुरस्रां समां भूमिं गोमयेनोपलेपयेत्॥ रेखाः प्राच्य उदीच्यश्च चतस्रस्तास्तथा समाः। नवकोष्ठेषु पद्मानि विन्यसेच्छ्वेततण्डुलैः॥ आदित्यश्चन्द्रमा भौमो बुधजीवसितार्कजाः। राहुःकेतुरितिप्रोक्ता ग्रहा लोकसुखावहाः॥ एषां हिरण्यरूपाणि कारयित्वा यथाविधि। त्रिनिष्केणाथवा

कुर्याद्यथाशक्त्या पृथक् पृथक्॥ हिरण्यरूपाणि हिरण्यप्रतिमाः। तल्लक्षणान्यत्रैव वक्ष्यन्ते। आदित्यं मध्यमे कोष्ठे दक्षिणेऽङ्गारकं न्यसेत्। उत्तरे तु गुरुं विद्याद् बुधमुत्तरपूर्वके॥ भार्गवं पूर्वतो न्यस्य सोमं दक्षिणपूर्वके। पश्चिमेऽर्कसुतं न्यस्य राहुं दक्षिणपश्चिमे॥ पश्चिमोत्तरतः केतुः सन्निवेश्यो यथाविधि। तद्वर्णपुष्पगन्धाद्यैरर्चयेत् स्वस्वमन्त्रकैः दानं शूद्रोऽथवा कुर्यात् स्त्री वा तत्र तु नारद। भूलेपनादि यत् कार्यम् सर्वंविप्रेण कारयेत्॥ स्नानकाले तु सम्प्राप्ते स्नात्वा कुशतिलोदकैः। प्रयतो यजमानस्तु धौतवस्त्रः प्रसन्नधीः अर्चयित्वा ह्यपं दद्यादहस्करमुखान्ग्रहान्। प्रत्येकमेकं विप्रोऽसौ स्वस्वमन्त्रमुदीरयेत्॥ पद्मासनः पद्मकरो द्विबाहुःपद्मद्युतिः सप्ततुरङ्गवाहः। दिवाकरो लोकगुरुः किरीटी मयिप्रसादं विदधातु देवः॥ श्वेताऽम्बरः श्वेतविभूषणश्च श्वेतद्युतिर्दण्डकरो द्विबाहुः। चन्द्रोऽमृतात्मा वरदः किरीटी श्रेयांसि मह्यं प्रददातु देवः॥ रक्ताऽम्बरो रक्तवपुः किरीटी चतुर्भुजो मेषगमो गदाभृत्। धरासुतः शक्तिधरश्च शूली सदा मम स्याद्वरदः प्रशान्तः॥ प्रियङ्गुकलिकाश्यामो रूपेणाप्रतिमो भुवि। सौम्यः सौम्यगुणोपेतः सदाऽस्तु वरदो मम॥ सुराणां च मुनीनां च गुरुः कनकसन्निभः। बुद्धिदाता त्रिलोकस्य स मां रक्षतु वाक्पतिः॥ हेमकुन्दमृणालाभो दैत्यानां परमो गुरुः। सर्वशास्त्रास्त्रवक्ता च भार्गवो वरदोऽस्तु सः॥ नीलद्युतिः शूलधरः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान्। चतुर्भुजः सूर्यसुतः प्रशान्तः स चाऽस्तु मह्यं वरमन्दगामी॥ नीलाऽम्बरो नीलवपुः किरीटी करालवक्रःकरवालशूली। चतुर्भुजश्चर्मधरश्चराहुः सिंहासनस्थो वरदोऽस्तु मह्यम्॥ धूम्रो द्विबाहुर्वरदो गदाभृद् गृध्रासनस्थो विकृताननश्च। किरीटकेयूरविभूषि-

ताङ्गः सदाऽस्तु मे केतुगणः प्रशान्तः॥ इत्युक्त्वा दापयेत् सर्वान्आदित्यादीन्नव ग्रहान्। पुरुषो वाऽथ नारी वा यथोक्तं फलमाप्नुयात्॥ मध्यमं गुरवे दद्यादन्यस्मै वा प्रदापयेत्॥ गुरुरत्र पूजादिकर्त्ता। अथवा दक्षिणा देया सुवर्णं वाससी शुभे। इत्याह भगवान् ब्रह्मा नारदाय महात्मने॥ तथाहमब्रुवं दानं युष्माकं मुनिसत्तमाः॥ इति ग्रहदानम्॥

अथ वारदानानि॥ स्कान्दे। आदित्यादिषु वारेषु सहिरण्यः सदैव तु। यः प्रयच्छति तन्मूर्तीस्तस्य तुष्यन्ति वै ग्रहाः॥ दद्यादादित्यमादित्ये सोमं सोमे कुजं कुजे। एवं बुधादीन्मन्दे तु राहुकेतुशनैश्चरान्॥ इति वारदानानि॥

अथ शूलदानम्॥ वायुपुराणे। या निष्कृतिस्तु पापानां कृतानां प्रज्ञया विना। यत्पाशुपतमाख्यातमस्त्रं देवस्य शूलिनः॥ तस्य प्रदानात् सकलं तत्पापं सम्प्रणश्यति॥ कृष्णपक्षे चतुर्द्दश्यामष्टम्यां वासितेतरे। कुर्याद् द्वादशनिष्केण त्रिशूलं लक्षणान्वितम्॥ निष्कचतुष्कः सौवर्णिकः, सौवर्णमात्रं षट्पञ्चाशदधिकशतद्वयपणमूल्यो वेति पक्षत्रयं शक्त्या ज्ञेयम्। युगान्तकरणं घोरमघविध्वंसनं परम्। नानारजोविरचिते चक्रे षोडशारविभूषिते॥ चक्रं षोडशारं परिभाषायामुक्तम्। नाभौ निधाय सम्पूर्णं तिलानां ताम्रनिर्मितम्। पात्रमाढकसंमानं तत्र शूलं न्यसेत् पुनः॥ कुर्यात्तेनैव मन्त्रेण तस्मात् पूजामनुक्रमात्। तेनैव, शूलाय नम इति मन्त्रेण। विरूपाक्षं च तत्पार्श्वेकमलोपरि पूजितम्। अघोरेभ्योऽपि मन्त्रेण पूजान्ते प्रणिपत्य च॥ अघोरमन्त्रस्तु लैङ्गे— अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः। सर्वेभ्यः सर्वशर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः॥ विप्रंच ज्ञानिनं तद्वत् सम्पूज्य मुनिपुङ्गवाः। प्रदक्षिणं ततो गत्वा इमं मन्त्रमुदीरयेत्॥ भगवन्

भगनेत्रघ्नदक्षयज्ञप्रमर्द्दन। तवायुधप्रदानेन पापं नश्यतु शङ्कर॥ युगान्ते येन लोकानां त्वमन्तकविनाशनः। विदग्धं तत्स्वपापेन तेन पापं व्यपोहय॥ येन दग्धं क्षणार्द्धेन त्रिपुरं सुरदुर्जयम्। तेन पाशुपतास्त्रेण मम पापं विनाशय॥ यदबुद्धिकृतं पापं मम वाक्स्थं च मानसम्। तत् सर्वंक्षयमभ्येतु तव शूलप्रदानतः॥ इत्यामन्त्र्य ततो दद्याच्छूलं तस्मै द्विजन्मने॥ अवश्यं कुरुते पापमज्ञानान्मानवो यतः। वर्षे वर्षे ततो दद्यात्तस्य तस्यापनुत्तये॥ इति शूलदानम्॥

अथात्मप्रतिकृतिदानम्॥ भविष्योत्तरे। दानकालः सदा तस्येत्युक्त्वा, हैमीं प्रतिकृतिं भव्यां कारयित्वात्मनो नृप। अभीष्टवाहनगतामिष्टालङ्कारभूषिताम्॥ अभीष्टलोकसहितां सर्वोपस्करसंयुताम्॥ अभीष्टलोकःप्रियजनः। नेत्रपट्टपटीवस्त्रैश्छादितां स्रग्विभूषिताम्। कुङ्कुमेनानुलिप्ताङ्गीं कर्पूरागुरुवासिताम्॥ स्त्री वा दद्यात्तु शयने शयितां कारयेत् स्वयम्। यद्यदिष्टतमं किञ्चित्तत्सर्वं पार्श्वतो न्यसेत्॥ उपकारकरं स्त्रीणां पुरुषाणां च यद्भवेत्। तत्सर्वंस्थापयेत् पार्श्वेस्वयं संचिन्त्यचेतसि॥ एतत्सर्वंमेलयित्वा स्वे स्वे स्थाने नियोजयेत्॥ ॐम् अद्येयादि साग्रशतवर्षपर्यन्तं सुरसाहित्येन स्वर्गादीष्टभोगोत्तरजन्मनीष्टबन्धुजनाऽवियोगकाम आत्मप्रतिकृतिदानं करिष्य इति सङ्कल्प्य, पूजयित्वा लोकपालान् ग्रहान् देवीं विनायकम्। देवी दुर्गा। ततः शुक्लाम्बरः स्नात्वा गृहीतकुसुमाञ्जलिः। इममुच्चारयेन्मन्त्रं विप्रस्य पुरतः स्थितः॥ आत्मनः प्रतिमा चेयं सर्वोपकरणैर्युता। सर्वरत्नसमायुक्ता तत्र विप्रनिवेदिता॥ आत्मा शम्भुः शिवः शौरिः शक्रः सुरगणैर्युतः। तस्मादात्मप्रदानेन मम चात्मा प्रसीदतु॥ इत्युक्त्वा मासपक्षादि चोल्लिख्य पूर्वोक्तं साग्रेत्यादिकानां सङ्कल्पवाक्यमुक्त्वा इमामात्मप्रतिमां सोपस्कराममुकशर्मणेऽमुकगोत्राय तुभ्यमहं

सम्प्रददे, इत्युच्चार्य ततो दद्याद् ब्राह्मणाय युधिष्ठिर * ब्राह्मणश्चाथ गृह्णाति, कोऽदादिति च कीर्त्तयेत्॥ ततः प्रदक्षिणीकृत्य प्रणिपत्यविसर्जयेत्॥ विधिनानेन राजेन्द्र दानमेतत् प्रयच्छति। यः पुमानथ वा नारी शृणु तत्फलप्राप्नुयात्॥ साग्रंवर्षशतं भव्यं सर्वलोकैः सुरैर्वृतः। अभीष्टफलदानेन चाभीष्टफलभाग्भवेत्॥ यत्रैवोत्पद्यते जन्तुः प्राप्तः कर्मक्षयं क्षणम्। तत्रैव सर्वकामानां फलभाग् जायते नृप॥ इष्टबन्धुजनैः सार्द्धं न वियोगं कदाचन॥ प्राप्नोति पुरुषो राजन् स्वर्गमानन्त्यमश्नुत इति॥ इत्यात्मप्रतिमादानम्॥

अथ घनदमूर्त्तिदानम्॥ वायवीये, दरिद्रो जायते मर्त्योदानविघ्नं करोति यः। ऐश्वर्यंजायते येन कर्मणा तच्छृणुष्व मे॥ पलार्द्धेन तदर्द्धेन तदर्द्धेनाथवा पुनः॥ पलेन वा तदर्द्धेन तदर्द्धार्द्धेन वेति क्वचित् पाठः। तदर्द्धेनाथवा पुनरिति च क्वचित्। धनदस्य प्रतिकृतिं कुर्यात् स्वर्णमयीं शुभाम्। द्विभुजां वाहनोपेतां नयनानन्दकारिणीम्॥ धनदरूपं तु। ह्रस्वमापिङ्गनेत्रं च गदिनं पीतविग्रहम्। पुष्पकस्थं धनाध्यक्षं ध्यायेच्छिवसखं सदेत्यादिनोक्तम्॥ शङ्खपद्मनिधिभ्यां च युक्तं तत्पार्श्वयोर्द्वयोः। श्वेतवस्त्रेण संवेष्ट्य तन्दुलोपरि विन्यसेत्॥ तन्दुलानां परीमाणं भवेद् द्रोणचतुष्टयम्। तदर्द्धं वा तदर्द्धं वा वित्तशाठ्यं न कारयेत्॥ श्वेतमाल्यैस्तथागन्धैरनुलिप्य प्रपूजयेत्। आग्नेय्यां दिशि होमश्च समिदाज्यतिलैर्भवेत्॥ मन्त्रो राजाधिराजायेत्येष योज्यः स्वलिङ्गकैः। व्याहृत्यातिलहोमश्च कर्त्तव्यो धनकाङ्क्षिभिः॥ आचार्यः सर्वशास्त्रज्ञो विनीतः सर्वसंमतः। महाकुलप्रसूतश्च धर्मज्ञः सत्यवाक्शुचिः॥ कारयेदर्चनं तेन धनदस्यातिभक्तितः। तद्देवत्येन मन्त्रेण स च कामश्चरो भवेत्॥ तस्मै होमं कृतवते प्रदद्यात्प्रतिमां तु

ताम्। मन्त्रेणानेन विधिवत् प्राङ्मुखस्तु उदङ्मुखः॥ मन्त्रः प्रयोगे ज्ञेयः। एवं कुबेरदानं यः करोति विधिपूर्वकम्। धनदेन समो मर्त्यस्तत्क्षणादेव जायते॥

अथ प्रयोगः। सार्द्धमाषद्वयाधिकां पञ्चाशन्माषावधिकुवेरमूर्तिं पुष्पकविमानस्थां पार्श्वयोः पद्मशङ्खाकारयुतां कृत्वाऽद्येत्यादि यथेष्टधनकामोऽहं धनदमूर्त्तिदानं करिष्य इति सङ्कल्प्य श्वेतवस्त्रां मूर्तिं यथाशक्ति एकद्विचतुर्द्रोणतन्दुलराशौ निधाय सम्पूज्य तदाग्नेय्यामग्निं संस्थाप्य समिदाज्यचरुभिः प्रत्येकमष्टाष्टाविंशेत्यादिसंख्यया, राजाधिराजायेति मन्त्रेण व्याहृतिभिश्च तिलैर्हुत्वा आचार्येण धनदपूजां कारयित्वा,

उत्तराशापते देव कुबेर नरवाहन।
पद्मशङ्खनिधीनां त्वं पतिः श्रीकण्ठवल्लभः॥
दानाद्येन यथा प्राप्तं दारिद्र्यंममः दुःखदम्।

तत् सर्वमात्मदानेन पापमाशु विनाशयेति मन्त्रमुक्त्वाऽद्येत्यादि इमां धनदमूर्तिं दारिद्र्यंनाशकामोऽमुकगोत्रायाऽमुकशर्मणे तुभ्यमहं सम्प्रददे, न ममेति दत्वा, देयद्रव्यतृतीयं चतुर्थं वांशं सुवर्णं दक्षिणां दद्यात्॥ इति धनदमूर्त्तिदानम्॥

अथ शालग्रामदानम्॥ शालग्रामशिलाचक्रं यो दद्याद्दानमुत्तमम्। भूचक्रं तेन दत्तं स्यात् सशैलवनकाननमिति पाद्मे शालग्रामदानम्॥ सशैलवनभूचक्रदानफलकाम इति दानवाक्यम्। मन्त्रस्तु। महाकाशनिवासेन चक्राद्यैरुपशोभितम्। अस्य देवस्य दानेन मम सन्तु मनोरथा इति॥

अथ कालपुरुषदानम्॥ भविष्योत्तरे। काम्यो दानविधिः पार्थ क्रियमाणो यथातथम्। फलाय मुनिभिः प्रोक्तो विपरीतो भयाय च॥ देयं निष्कशतं पार्थ दानेषु विधिरुत्तमः। मध्यमस्तु

तदर्द्धेन तदर्द्धेनावरः स्मृतः॥ एवं वृक्षे रथेऽण्डे च धेनोः कृष्णाऽजिनस्य च। अशक्तस्यापि क्लृप्तोऽयं पञ्चसौवर्णिको विधिः॥ अतोऽप्यल्पेन यो दद्यान्महादानं नराधिप। प्रतिगृह्णाति वा तस्य दुःखशोकावहं भवेत्॥ वृक्षो महादानेषु कल्पवृक्षः। रथो हिरण्याऽश्वरथः। अण्डं ब्रह्माण्डम्। धेनुः कामधेनुः। पुण्यं दिनमथासाद्य भूमिभागे समे शुभे। चतुर्द्दश्यां चतुर्थ्यां वा विष्ट्यां वा पाण्डुनन्दन॥ पुमान् क्लष्णाजिने कार्यो रौप्यदन्तः सुवर्णदृक्। खड्गोद्यतकरो दीर्घो जपाकुसुमकुण्डलः॥ रक्ताम्बरधरः स्रग्वी शङ्खमालाविभूषितः। तीक्ष्णासिपुत्रीबन्धेन विस्फारितकटीतटः॥ असिपुत्री छुरिका। उपानद्युगयुक्ताङ्घ्रिः कृष्णकम्बलपार्श्वगः। गृहीतमांसपिण्डश्च वामे करतले तथा॥ एवंविधं पुमान् कृत्वा गृहीतकुसुमाञ्जलिः। यजमानः प्रसन्नात्मा इमं मन्त्रमुदीरयेत्॥ सम्पूज्य गन्धकुसुमैर्नैवेद्यं विनिवेद्य च॥ सर्वंकलयसे यस्मात्काल त्वं तेन चोच्यसे। ब्रह्मविष्णुशिवादीनां त्वमसाध्यो हि सुव्रत॥ पूजितस्त्वं मया भक्त्या पार्थिवश्च तथा सुखम्। तद्बुद्ध्यते तवविभो तत्कुरुष्व नमो नमः॥ एवं सम्पूजयित्वा तं ब्राह्मणाय निवेदयेत्। ब्राह्मणं प्रथमं पूज्य वासोभिर्भूषणैस्तथा॥ दक्षिणां शक्तितो दद्यात् प्रणिपत्य विसर्जयेत्॥ दक्षिणां प्रागुक्तां निष्कशतादिरूपाम्। अनेन विधिना यस्तु दानमेतत् प्रयच्छति। नाऽपमृत्युभयं तस्य न च व्याधिकृतं भवेत्॥ भवत्यव्याहतैश्वर्य्यः सर्वबाधाविवर्जितः। देहान्ते सूर्यभवनं भित्वा याति परं पदमिति॥ पुण्यक्षयादिहाभ्येत्यराजा भवति धार्मिकः। सत्रयाजी श्रिया युक्तः पुत्रपौत्रसमन्वितः॥सम्पूज्य कालपुरुषं विधिवद् द्विजाय दत्वा शुभाशुभफलोदयहेतुभूतम्।रोगातुरे सकलदोषमये च देहे देही न मोहमुपगच्छति तत्प्रभावात्॥

अथ प्रयोगः॥ चतुर्थ्यां च चतुर्द्दश्यां भद्राकरणे वा रौप्यदशनं सुवर्णनेत्रं खड्गोद्यतदक्षिणकरं मांसपिण्डयुतवामकरं जपाकुसुमकुण्डलं रक्तस्रग्विणं शङ्खमालाधरं छुरिकया युतकटिदेशमतिदीर्घं कृष्णाजिने कालपुरुषं निर्मायाद्येत्यादि अपमृत्युव्याधिसर्वबाधानिवारणाव्याहतैश्वार्य्यप्राप्तिमरणोत्तरपरपदतदुत्तरधर्मश्रीपुत्रपौत्रादिकर्त्तृत्वराज्यकमः कालपुरुषदानं करिष्य इति सङ्कल्प्य कालरूपं विप्रंच सम्पूज्य पुष्पाञ्जलिं गृहीत्वा। सर्वंकालयसे यस्मात् कालस्त्वं तेन चोच्यसे। ब्रह्मविष्णुशिवादीनां त्वमसाध्योऽसि सुव्रत॥ पूजितस्त्वं मया भक्त्या पार्थिवश्च यथासुखम्। यद्बुध्यते तव विभो तत्कुरुष्व नमो नम इति मन्त्रमुक्त्वाऽद्येत्यादि अपमृत्युव्याधिसर्वबाधानिवारणेत्यादि कामान्तं पूर्वोक्तं सङ्कल्पवाक्यं चोक्त्वेमं कालपुरुषं सोपस्करम् अमुकगोत्रायामुकशर्मणे विप्राय तुभ्यमहं सम्प्रददे न ममेति दत्वा पञ्चसुवर्णादूर्ध्वमानिष्कशतं दक्षिणां दत्वा भूयसीदानविप्रभोजनानि कुर्यात्॥ इति कालपुरुदानविधिः॥

अथ कालचक्रदानम्। मृत्युञ्जये। चक्रं रूप्यमयं कृत्वा मुक्तारश्मिमयात्मकम्। कृत्वा मूर्ध्निशरच्चन्द्रं रश्मिमध्यान्तरस्थितम्॥ तमः शतैकरूपाणि गात्रेषु च समन्ततः। एवं ध्यानवतस्तस्य स चन्द्रः कृष्णतां व्रजेत्॥ ततोऽप्यनन्तरं पश्चात् स्थित्वा विप्रप्रदक्षिणाम्। तं गृहीत्वा व्रजेद् दूरमदृष्टत्वमपि व्रजेत्॥ स्वयं वाऽमृतसङ्घातपूर्णकायस्थितस्थितिः। कालचक्रमिदं नाम्ना दानं मृत्युविनाशनम्॥ इमं ते राजतं चन्द्रं रश्मिजालसमाकुलम्। अपमृत्युविनाशाय ददामीति समुच्चरन्॥ सुवर्णदक्षिणायुक्तं ब्राह्मणाय निवेदयेत्। एवं कृते विनश्येत अपमृत्युं विनाशय। तस्मादेतत्समादेयमपमृत्युभयान्वितैः। ज्वरादिरोगग्रस्तैर्वा महा-

पत्पतितैरपि॥ ततो गृह्योक्तविधिना स्थापयेज्जातवेदसम्। जुहुयात् कालनाम्ना तु शतमष्टोत्तरं शतम्॥ ततस्तु भोजयेद्भक्त्या विप्रान् द्वादशसङ्ख्यया। स्वयमक्षारलवणं भुञ्जीत सकृदेव तु॥ एवं कृते नरो नूनं चिरं जीवेन्न संशयः॥ अद्येत्यादि अपमृत्युनिवारणकामः कालचक्रदानं करिष्य इति सङ्कल्प्य शक्तितो रूप्यकृतं चन्द्राकारमनेकमुक्तामालात्मकराशियुतकालचक्रं विप्रंच सम्पूज्य, इमं ते राजतं चन्द्रं रश्मिजालसमाकुलम्। अपमृत्युविनाशाय ददामीति समुच्चरन्॥ इदं कालचक्रं मुक्तादामयुतम् अपमृत्युनिवारणकामोऽमुकगोत्रायाऽमुकशर्मणे विप्राय तुभ्यमहं संप्रददे न ममेति दत्वा सुवर्णं दक्षिणां दत्वाऽग्निं संस्थाप्य कालचक्राय स्वाहेत्यष्टोत्तरशतं तिलैर्हुत्वा द्वादश विप्रान् भोजयित्वा स्वयमक्षारमलवणं सकृद्भुञ्जीत॥ इति कालचक्रदानविधिः॥

अथ यमदानम्॥ मृत्युञ्जये। लोहपात्रे स्थितं कांस्यं तत्र पद्मं तु राजतम्। तस्मिन् कालेश्वरः स्वर्णैः पुरुषाकारताङ्गतः॥ यमरूपं तु। ईषत्पीतो यमः कार्यो दण्डहस्तो विजानता। रक्तदृक् पाशभृत् क्रुद्ध इति॥ वस्त्रालङ्कारसंयुक्तो भयदास्त्राणि सर्वतः। त्रिलोहाकारपुरुषैः कालदूतैश्च पार्श्वतः॥ भयदास्त्राणि खड्गादीनि। त्रिलोहं कांस्यताम्रपित्तलाख्यम्। कालदूतैर्दण्डहस्तैस्त्रिभिः पुरुषाकारैः। कृत्वा च माहिषे पृष्ठे तं दद्याद्यममालपन्॥ आलपन् यमं ददामीत्युच्चरन्। अष्टम्यां च चतुर्द्दश्यां करोति विधिवत्तु यः। स मुच्यते ध्रुवं नाशाद् दत्वा घृतघटोत्तरम्॥ नाशो मृत्युः। घृतघट उत्तरो दक्षिणास्थाने यस्येति दानविवेके। अपरे तु दक्षिणा सुत्रर्णमिति। लोहपात्रं कांस्यपात्रं तस्मिन् रौप्यपद्मं तस्मिन् सौवर्णमहिषस्थं दण्डपाशकरं यममलङ्कृतं तत्समीपे हैमानि खड्गाद्यस्त्राणि त्रिलोहघटितान् दण्डकरान्कालदूताँश्च

संस्थाप्य तिथ्यादि स्मृत्वाऽपमृत्यु निवारणकामो यमदानं करिष्य इति संकल्प्य सवाहनदूतास्त्रं यमं विप्रंच संपूज्याद्येत्यादि अपमृत्युनिवारणकाम इमां पूर्वोपस्करयुताममुकशर्मणेऽमुकगोत्राय विप्रायाहं संप्रददे न ममेति दत्वा दक्षिणां सुवर्णं दद्यात्॥ इति यमदानम्॥

अथायुष्करदानम्॥ ब्रह्माण्डे। भूमौ गोमयलिप्तायां दक्षिणोत्तरतः शुभाम्। निधाय तत्र पाणिभ्यां पूर्णानि सिततन्दुलैः॥ चत्वारि तेषु हैमानि मण्डलानि निवेशयेत्॥ मण्डलानि स्थलाकाराणि, कुम्भानित्यन्ये। सौवर्णाश्च ततो देवान् अर्चयेच्च यथाक्रमम्। पूर्वमात्मभुवं तत्र विष्टरश्रवसं ततः॥ कृत्तिवाससमीशानं वज्रपाणिं शतक्रतुम्। गन्धादिभिरथाभ्यर्च्य दक्षिणोत्तरतः क्रमात्॥ प्रत्येकमेकं विप्रेभ्यो दद्यादारभ्य भक्तितः। तं तं देवमिह ध्यात्वा मन्त्रानेतानुदीरयेत्॥ संप्रीयतां मे भगवानात्मभूरित्युदीरयन्। संप्रीयतां जगद्व्यापी भगवान् विष्टरश्रवाः। संप्रीयतां मे भगवान्कृत्तिवासा इति ध्रुवम्॥ संप्रीयतां मे भगवान् वज्रपाणिः शतक्रतुः। एवमाह पुरा ब्रह्मा नारदाय सुरर्षये। प्रोक्तं मयाऽपि तत् सर्वं युष्माकं मुनिपुङ्गवाः॥ अत्रब्रह्मविष्णुशिवेन्द्रा यथाशक्ति सुवर्णमयाःकार्याः। आयुष्कामो ब्रह्मविष्णुशिवेन्द्रप्रतिमादानमहं करिष्य इति संकल्प्य। इति आयुष्करदानम्॥

अथ सम्पत्करम्॥ब्रह्माण्डे, सम्पत्करं दानमतीवपुण्यं यस्मिन्कृते सम्पदोऽभ्येति जन्तुः॥ तथा, आयुष्करं रोगहरं तु पापविनाशनं नाशकरं त्वघानाम्। स्वर्गापवर्गो कुलपुत्रवृद्धिं श्रियं तथाच प्रददातीष्टसिद्धिम्॥ तथा, कालेषु सूर्यग्रहणादिकेषु तारेषु जन्मत्रितयेषु कार्यम्। देशेषु देवायतनादिकेषु गृहेषु वा यत्र मनः प्रसन्नम्॥ स्नात्वा प्रातस्तिलमिश्रैः कुशोदैः शुचिर्भूत्वा धौत-

वासाः प्रयत्नात्।सङ्कल्प्य विप्रंविदुषं गुरुं च कार्यं च तस्यानुमतेन सर्वम्॥ गुरुं वृत्वेति शेषः। गव्येन भूमिं शकृता जलेन विलेपयेद्विंशकमात्रहस्ताम्। तत्रैव लेख्याश्चतुरः समाः स्युः प्राच्यश्च तिर्यक् च यथोपदिष्टम्॥ नवकोष्ठानितत्र स्युस्तेषु पूर्णानि तण्डुलैः। निधातव्यानि पात्राणि वासोभिरभिवेष्ट्य च॥ पात्राणि कुम्भान्। पलस्यार्वाक् त्रिनिष्कार्द्धंयथाशक्ति विनिर्मितान्॥ निष्कोऽत्र सुवर्णम्। दक्षिणोत्तरतो देवान्जातरूपमयान् न्यसेत्॥ पार्श्वान्त्यकोष्ठत्रितये तु मित्रं तथा च देवं वरुणं च सोमम्। चतुर्भुजं मध्यमकोष्ठकेषु जगत्पतिं विष्णुमुमापतिं च॥ दिवाकरं वृत्रहणं च वह्निं संपूज्य सर्वान् विधिवत् क्रमेण॥ मित्रलक्षणं तु, पद्मगर्भसमः कार्यो मित्रः कमलसंस्थितः। आजानुलम्बिनालान्तर्विकचाऽम्भोजदृक् प्रभुः॥ वरुणादिरूपमुक्तं ब्रह्माण्डदाने। अभ्यर्च्य विप्रानपि गन्धवस्त्रैः पृथक् च दातव्यमनुक्रमेण। संप्रीयतां मे यममित्येवमुक्त्वा ततो हि दद्यात् सोदकं पूर्वमत्र॥ एकस्य चैकं च हिरण्यरूपं प्रमाणपूर्वं परिणीय सर्वान्। पात्राणि वासः परिधाय चैव सतन्दुलं सहिरण्यं च दत्वा॥ अभीष्टसिद्धिं लभते च सर्वामायुष्यमारोग्यमुपैति चाज्यम्। अथोपदेष्ट्रेगुरवे सुवर्णं वासोयुगं दानसमं च दद्यात्॥ विप्रैस्तथा वाचयेत् स्वस्तिवाच्यं ततो दद्याद्दक्षिणां वाचकेभ्यः।

अथ प्रयोगः॥ प्रातस्तिलकुशमिश्रोदकेन स्नात्वाऽद्येत्यादि संपदायुरारोग्य—पापनाश—पुत्रादिकुलवृद्धि—श्रीस्वर्गमोक्षेष्टसिद्धिकामो मित्रादिप्रतिमादानं करिष्य इति संकल्प्य गुरुं वृत्वा तेनाज्ञप्तो विंशद्धस्तां चतुरस्रां भुवं गोयेनालिप्य तत्र प्रागायताश्चतस्रउदगायताश्चतस्रो लेखा लिखित्वा तत्र जातेषु नवकोष्ठेषु तण्डुलान्निक्षिप्य तेषु नवकुम्भान् सवस्त्रान् विधिना संस्थाप्य

तेषु सुवर्णत्रयादूर्ध्वं पलाऽवधिहेम्ना कृताः प्रतिमाः स्थापयेत् पूजयेच्च। तत्र पश्चिमपङ्क्तौउदक्संस्थान्। मित्रं वरुणं सोमं च। मध्यमपङ्क्तौचतुर्भुजं विष्णुमुमापतिं च। अन्त्यपङ्क्तौदिवाकरं वृत्रहणं वह्निं च। ततो नव विप्रान् संपूज्यैकैकस्मै विप्राय मित्रः प्रीयतामद्येत्यादि, संपदादिकामान्तं पूर्वोक्तं फलमुक्त्वाऽमुकशर्मणे अमुकगोत्राय विप्रायेमां प्रतिमां संप्रददे इति दद्यात्। एवञ्च वरुणः प्रीयतामिति वरुणादिप्रतिमां गुरवे च देयद्रव्यसमं सुवर्णं वस्त्रयुगं च दद्यात्॥ इति संपत्करदानम्॥

अथ कृष्णाजिनम्॥ सौरे। कृष्णाजिनं च महिषीं मेषीं च दशधेनवः। ब्रह्मलोकप्रदायीति तुलापुरुष एव च॥ यमः। गोभूहिरण्यसंयुक्तं मार्गमेकं ददाति यः। सर्वदुष्कृतकर्माऽपि सायुज्यं ब्रह्मणो व्रजेत्॥ मरीचिः। कृष्णाजिनोभयमुखीं यो दद्यादाहिताग्नये। सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति॥ कृष्णाजिनसमं दानं न चास्ति भुवनत्रये। प्रतिग्रहोऽपि पापीयानिति वेदविदो विदुः॥ मात्स्ये। वैशाखी पौर्णमासी च ग्रहणं शशिसूर्ययोः। पौर्णमासी तु या माघे आषाढी कार्त्तिकी तथा॥ उत्तरायणं द्वादशी वा तस्यां दत्तं महाफलम्॥ आहिताग्निर्द्विजो यश्च तद्देयं तस्य पार्थिव। यथा येन विधानेन तन्मे निगदतः श्रृणु॥ गोमयेनोपलिप्ते तु शुचौ देशे नराधिप। आदावेव समास्तीर्य शोभनं वस्त्रमाविकम्॥ ततः सशृङ्गं सखुरमास्तरेत्कृष्णमार्गणम्। कर्त्तव्यं रुक्मशृङ्गं च रूप्यदन्तं तथैव च। लाडगूलमौक्तिकैर्युक्तं तिलच्छन्नं तथैव च। तिलैरात्मसमं कृत्वा वाससाऽऽच्छादयेद् बुधः॥ सुवर्णनाभं तत् कुर्यादलङ्कुर्याद् विचक्षणः। रत्नैर्गन्धैर्यथाशक्त्या तस्य दिक्षु च विन्यसेत्। कांस्यपात्राणि चत्वारि दिक्षु दद्याद्यथाक्रमम्। मृन्मयेषु च पात्रेषु पूर्वादिषु

क्रमेण तु। घृतं क्षीरं दाघे क्षौद्रमेवं दद्याद्यथाविधि॥ सरत्नानि कांस्यपात्राणि चतुर्दिक्षु स्थापयेत्। मृन्मयानि पात्राणि च घृतक्षीरदधिमधुपूर्णानि पूर्वादिदिक्षु स्थाप्यानि। चम्पकस्य तथा शाखाःसव्रणं कुम्भमेव च। बाह्योपस्थानकं कृत्वा शुभचित्तो निवेशयेत्॥ दानदेशाद् बाह्ये उप समीपे स्थानं यस्येति कुम्भविशेषणम्। जीर्णवस्त्रेण पीतेन सर्वाङ्गानि च मार्जयेत्। धातुमयानि पात्राणि पादेष्वस्य तु दापयेत्॥ धातुविशेषाः पात्रमध्यस्थानि च द्रव्याणि च मन्त्रतः प्रयोगे बोध्यानि। तिलपूर्णं ततः कृत्वा वामपादे निवेशयेत्। मधुपूर्णं तु तत्कृत्वा पादेवै दक्षिणे न्यसेत्॥ एतत्पात्रद्वयं पश्चिमपादयोः स्थाप्यम्। ऊर्ध्वपादे त्विमे कार्ये ताम्रस्य रजतस्य च॥ ऊर्ध्वपादे अग्रपादयोः। एकवचनमविवक्षितम्। ताम्रपात्रं तिलपूर्णं दक्षिणपादे। रजतपात्रं मधुपूर्णं सपाद इति व्यवस्था। प्रयोगे वक्ष्यमाणमन्त्रात्। सुवर्णपात्रमक्षतपूर्णं मध्ये स्थापयेदिति हेमाद्रिः। हेममुक्ताविद्रुमं चदाडिमं बीजपूरकम्। प्रशस्तपत्रे श्रवणे खुरे शृङ्गाटकानि च॥ एवं कृत्वा यथोक्तेन सर्वशाकफलानि च। तत्प्रतिग्रहविद्विद्वान्आहिताग्निर्द्विजोत्तमः॥ स्नातो वस्त्रयुगच्छन्नः स्वशक्त्या चाऽप्यऽलङ्कृतः। प्रतिग्रहश्च तस्योक्तः पुच्छदेशे महीपते॥ सुवर्णनाभिकं दद्यात् प्रीयतां वृषभध्वजः॥

अथ प्रयोगः॥ पूर्वोक्तकाले गोमयेनोपलिप्ते देशे अविलोमनिर्मितं कम्बलं तदुपरि सशृङ्गं खुरं बहिर्लोमप्राग्ग्रीवं कृष्णाजिनमास्तीर्य्यसुवर्णशृङ्गं रूप्यदन्तं मौक्तिकपुच्छं सुवर्णनाभं च तत्कृत्वा तदुपर्यात्मप्रमाणाँस्तिलान् संस्थाप्य वाससा सञ्छाद्य सगन्धरत्नानि चत्वारि कांस्यघृतदुग्धदधिमधुयुतानि चत्वारि मृदश्च प्रागादिदिक्षु दानदेशाद् बहिश्चम्पकशाखां सव्रणकुम्भं च सं-

स्थाप्य देशकालादि स्मृत्वा ब्रह्मलोकप्राप्तिकामः सप्तजन्मोपात्तपापनाशकामः पितृपुत्रमृत्युपरिहारभार्याधनदेशाद्यऽवियोगकामः प्रलयाऽवधिस्वर्गप्राप्तिसर्वभूदानफलसर्वलोकगतिकामो, मोक्षकाम, ईश्वरप्रीतिकामो वा कृष्णाजिनदानं करिष्य इति सङ्कल्प्य जीर्णपीतवाससा स्वाङ्गानि संमृज्य, यानि पापानि काम्यानि मया लोभात्कृतानि वै। लोहपात्रप्रदानेन प्रणश्यन्तु ममाशु वै इति मन्त्रेण सतिलं लोहपात्रं कृष्णाजिनस्य वामे पादे। यानि काम्यानि पापानि कर्मोत्थानि कृतानि वै। कांस्यपात्रप्रदानेन तानि नश्यन्तु मे सदेति समधुकांस्यं दक्षिणे। परापवादपैशून्याद् वृथा मांसस्य भक्षणात्तत्रोत्थितं च मे पापं ताम्रपात्रात् प्रणश्यतु, इति सतिलं ताम्रपात्रंवामहस्ते। कन्यानृतं गवां चैव परदारप्रधर्षणम्। रौप्यपात्रप्रदानेन क्षिप्रं नाशं प्रयातुम इति समधुरौप्यपात्रं दक्षिणहस्ते। जन्मजन्मसहस्रेषु कृतं पापं कुबुद्धिना। सुवर्णपात्रदानात्तन्नाशयाशु जनार्द्दनेति साक्षतहेमपात्रं मध्ये हेममुक्ताविद्रुमदाडिममातुलिङ्गानि सन्निधावाम्रादिप्रशस्तपत्रे कर्णयोः शृङ्गाटकानि च खुरेषु संस्थाप्य वस्त्रयुग्मादिनाऽऽहिताग्निविप्रदेयद्रव्यं च सम्पूज्य प्रीयतां वृषभध्वज इत्युक्त्वा देशकालौ सङ्कीर्त्याऽमुकसगोत्रायाऽमुकशर्मणे ब्राह्मणाय तुभ्यमिदं कृष्णाजिनं कुशोपरि गतं कम्बलोपरि स्थितं वस्त्राच्छादिततिलराशिसुवर्णशृङ्गरौप्यखुररुप्यदन्तं मुक्तालङ्गुलसुवर्णानां पञ्चरत्नालङ्कृतं चतुर्दिगवस्थितघृतक्षीरदधिमधुपूर्णपात्रचतुष्टयं सकांस्यपात्रं तिलमध्वक्षतपूर्णलौहकांस्यताम्ररौप्यहैमपात्रहेम—मुक्ताविद्रुमदाडिमबीजपूरपत्रशृङ्गाटकयुतं शिवदैवतममुकसगोत्रोऽमुकशर्मामुककामोऽहं सम्प्रददे न ममेति। एतद्दक्षिणा तु गारुडे। शतनिष्कसमोपेतं तदर्द्धार्द्धमथाऽपि वा। अतो न्यूनं न दातव्यमधिके फलमूर्जितम्॥ तत्रैव,

अस्पृश्यः स द्विजो राजन् चितियूपसमो हि यः। दाने च श्राद्धकाले च दूरतः परिवर्जयेत्॥ स्वगृहात् प्रेष्य तं विप्रंमण्डले स्नानमाचरेत्। तद्वस्त्रं कुम्भसहितं नीत्वा क्षेप्यं चतुष्पथे॥ स्वपितृपुत्रमरणं वियोगं भार्यया सह। धनदेशपरित्यागं न चैवेहाप्नुयात् क्वचित्॥ समग्रभूमिदानस्य फलं प्राप्नोति मानवः। सर्वाल्ँलोकाँश्च चरति कामचारी विहङ्गमः। आभूतसम्प्लवं यावत्स्वर्गमाप्नोत्यसंशयमिति कृष्णाजिनदानं, तत्प्रयोगश्च॥

अथ शय्यादानम्॥ महाभारते, शय्यामास्तरणोपेतां सुप्रच्छादनसंस्कृताम्। प्रदद्याद्यस्तु विप्राय शृणु तस्यापि यत् फलम्॥ सुरूपः सुभगः श्रीमान् स्त्रीसहस्रैस्तु संवृतः। दशवर्षसहस्राणि स्वर्गलोके महीयते॥ विष्णुसंहितायाम्। दर्पणैः पादत्राणैश्च नानाद्रव्यैर्विभूषणैः। चतुष्कोणेषु संस्थाप्य यथाशक्त्या युधिष्ठिर॥ घृतकुङ्कुमगोधूमपूर्णपात्रं जलस्य च। शय्यां सम्पूजयित्वा तु मद्भक्तो मत्परायणः॥ कृताञ्जलिपुटो भूत्वा कुर्याच्छय्यां प्रदक्षिणाम्। नमः प्रमाण्यै देव्यै ति प्रणम्य च चतुर्दिशम्॥ ब्राह्मणाय दरिद्राय श्रुताध्ययनशीलिने। तथात्मज्ञानविदुषे शय्यां दद्याद्विचक्षणः।फलं च, तस्मादिन्द्रपुरं गच्छेत् सेव्यमानोऽप्सरोगणैः। षष्टिवर्षसहस्राणि क्रीडित्वा च यथासुखम्। इन्द्रलोकात्परिभ्रष्ट इह लोके नृपो भवेत्॥ षष्टियोजनविस्तीर्णे स्वामी भवति मण्डले। भविष्योत्तरे, तस्माच्छय्यां समासाद्य सारदारूमयीं दृढाम्। दन्तपत्रचितां रम्यां हेमपट्टैरलङ्कृताम्॥ हंसतूलीप्रतिच्छन्नां शुभगण्डोपधानकाम्। प्रच्छादनपटीयुक्तां धूपगन्धादिवासिताम्॥ तस्यां संस्थापयेद्धैमं हरिं लक्ष्मीसमन्वितम्। उच्छीर्षके घृतभृतं कलशं परिकल्पयेत्॥ विज्ञेयः पाण्डवश्रेष्ठ स निद्राकलशो बुधैः। ताम्बूलकुङ्कुमक्षौद्रकर्पूरागुरुचन्दनम्। दीपिको-

पानहच्छत्रं चामरासनभोजनम्॥ पार्श्वेषु स्थापयेद्भक्त्या सप्तधान्यानि चैव हि। शयनस्थं च भवति यदन्यदुपकारकम्। भृङ्गारकरकाद्यं च पञ्चवर्णंवितानकम्॥ शय्यामेवंविधां कृत्वा ब्राह्मणायोपपादयेत्। सपत्नीकाय सम्पूज्य पुण्येऽह्नि विधिपूर्वकम्॥ यथा न कृष्णशयनं शून्यं सागरजातया। शय्या ममाप्यशून्यास्तु तथा जन्मनि जन्मनीति॥

अथ प्रयोगः॥ अष्टदले तिलप्रस्थं तस्मिन् स्वास्तीर्णां शय्यां तस्याः समन्तात् सङ्कल्पवाक्ये वक्ष्यमाणानि कुम्भादीनि संस्थाप्य, ॐम् अग्रेत्यादि सर्वपापक्षयपूर्वकाऽप्सरोगणसेव्ययुतविमानकरणकेन्द्रपुरगमनोत्तर–षष्टिसहस्रवर्षतदधिकरणकक्रीडनस्त्रीसहस्रसंवरणसहितस्वर्लोकसहितत्वतदुत्तरषष्टियोजनमण्डलराज्य–ऽनन्तरशिवैक्यकामः शय्यां दास्य इति सङ्कल्प्य सपत्नीकं विप्रंशय्यां तदुपरि प्रतिमायां लक्ष्मीयुतं नारायणं च सम्पूज्य प्रदक्षिणीकृत्य नमः प्रमाण्यै देव्यै ति चतुर्दिक्षु प्रणम्य तिथ्याद्युल्लेखनान्ते सर्वपापक्षयेत्यादि कामान्तं पूर्वोक्तं सङ्कल्पवाक्यममुकसगोत्रायामुकशर्मणे ब्राह्मणायेमां शय्याम् ईशानादिकोणचतुष्टयस्थापितघृतकुम्भगोधूमजलपूर्णपात्राम् उच्छीर्षकप्रदेशस्थापितघृतपूर्णकलशां हंसतूलीप्रच्छन्नां शुभगण्डोपधानकां प्रच्छादनपटीसप्तधान्यताम्बूलाऽऽदर्शकुङ्कुमक्षोद–कर्पूरागरुचन्दन–दीपिकोपानहच्छत्रचामरासनभोजनजलपात्रपञ्चवर्णवितानलक्ष्मीनारायणप्रतिमायुताम्। अङ्गिरोदैवताम्। अमुकसगोत्रोऽमुकशर्माऽहं सम्प्रददे न ममेति। शय्योपवेशितविप्रहस्ते कुशोदकं क्षिपेत्॥ मन्त्रः, यथा न कृष्णशयनं शून्यं सागरजातया। शय्या ममाप्यऽशून्याऽस्तु तथा जन्मनि जन्मनीति॥ हिरण्यं दक्षिणेति शय्यादानप्रयोगः॥

हंसतुलीसमायुक्ताम् ऋद्धां खट्वा मलङ्कृताम्। सर्वोपकरणो-

पेतां शिवेशय्यां निवेदयेत्॥शिवं देवीसमायुक्तं पैष्टं कृत्वा निवेदयेद्, इति॥शिवधर्मे शिवशय्यादानम्॥

अथ वस्त्रदानम्॥नन्दिपुराणे, वस्त्रं यश्चार्थिने दद्याच्छुभं चाऽपि यदृच्छया।स भवेद्धनवान् श्रीमान् बृहस्पतिपुरे वसेत्॥ विष्णुधर्मोत्तरे, वासो हि सर्वदैवत्यं सर्वप्रायोज्यमुच्यते।वस्त्रदानात्सुवेषः स्याद्रूपद्रविणसंयुतः।युक्तो लावण्यसौभाग्यैर्विरोगश्च तथा द्विजः॥ तथा, दत्वा कार्पासिकं वस्त्रं स्वर्गलोके महीयते। दत्वा सरोमं तत्रापि फलं दशगुणं भवेत्॥आविकं वसनं दत्वा भूदानां लोकमाप्नुयात्।छागं दत्वा चाऽऽङ्गिरसं क्षौमं दत्वा बृहस्पतेः॥वसूनां लोकमाप्नोति कुशकौशेयवाससा।कृमिजं च तथा दत्वा सोमलोके महीयते॥ अग्निष्टोममवाप्नोति दत्वैव मृगलोमिकाम्॥ तथा, सर्वदो वस्त्रदः प्रोक्तो यतः सर्वत्र वस्त्रवान्। अवाप्नोति च धर्मज्ञस्तद्धि तस्माद् विशिष्यते॥ भविष्यपुराणे—वासांसि तु विचित्राणि सारवन्ति बृहन्ति च। स्नापितानि शिवे दद्यात्सकोशानि नवानि च॥ यावत् तद्वस्त्रतन्तूनां परिमाणं विधीयते। तावद्वर्षसहस्राणि स्वर्गलोके महीयते॥स्नापितानि प्रक्षालितानि।वाराहपुराणे, क्षौमाम्बराणि यो दद्यात् पत्रोर्णानि च चक्रिणे। कार्पासजानि वा दद्याद्भक्तो वित्तानुसारतः तव वासांसि यावन्तस्तन्तूनां परमाणवः।तावद्वर्षसहस्राणि विष्णुलोके महीयते॥देवीपुराणे, अण्डजैर्वाण्डजैर्वाऽपि वस्त्रैरभ्यर्च्य शैलजाम्। सम्भूष्याभरणैः शक्रचक्रवर्त्तित्वमाप्नुयात्॥ नन्दिपुराणे, उष्णीषदायिनो मर्त्याजायन्ते कुक्कुटोज्ज्वलाः। विस्तीर्णराजवंशेषु सितच्छत्राज्यलक्षणाः॥ नारदीये, निष्किञ्चनेभ्यो दीनेभ्यः शीतवातमहातपैः॥अर्द्दितेभ्यः करुणया वस्त्रमूर्णं ददाति यः।न तस्य सुकृतं वक्तुं त्रिदशैरपि शक्यते॥

आधिव्याधिविनिर्मुक्तः सोऽक्षयं सुखमश्नुते॥

अथासनदानम्॥आसनं यः प्रयच्छेत्तु सुपात्राय च भक्तितः।स दिव्यान् भोगसम्भोगानरोगः सर्वदाश्रुतिः॥ महाभारते, चन्द्रोदयं तु यो दद्याद्भक्त्या यच्छति पुण्यधीः।न तस्य श्रेयसामन्तः कदाचिदपि जायते॥चन्द्रोदयो वितानम्। स्कन्दपुराणे।भाजनं यः प्रयच्छेत्तु हैमं रत्नविभूषितम्।सोऽप्सरः- शतसङ्कीर्णो विमाने दिवि मोदते॥ राजतं यः प्रयच्छेत्तु विप्रेभ्यो भाजनं शुभम्।स गन्धर्वपदं प्राप्य उर्वश्या सह मोदते॥ ताम्रं यो भाजनं दद्याद् ब्राह्मणाय विशेषतः। स भवेद्यक्षराजस्य प्रभुर्बलसमन्वितः॥ब्रह्मपुराणे।औदुम्बराणि भाण्डानि यो दद्यादायसानि च॥ औदुम्बराणि ताम्रमयानि। महतां वृद्धिमाप्नोति दुर्लभां त्रिदशैरपि॥मदनरत्ने, उत्तमं पलषष्टिश्च चत्वारिंशत्तु मध्यमम्।द्वादशाधमपात्रं तु ताम्रमत्रायसं स्मृतम्॥अत्राऽऽयसशब्दो धातुमात्रपरः। वासांसि वरणे दद्यादुपवीतं समाल्पकम्। चन्दनं चैवताम्बूलं विप्रंसंपूजयेत्ततः॥ घृतादिद्रव्यसंपूर्णंहेमगर्भंसवस्त्रकम्।प्रतिष्ठाप्य तु तत्पात्रं ब्राह्मणाय निवेदयेत्॥ ततस्तूर्णं सुवर्णं तु प्रतिष्ठार्थं द्विजाय तु॥ दद्यादिति शेषः।चन्द्रलोके वसेत् तावद्यावदिन्द्राश्चतुर्दशेति॥घृतादीनि चात्र चतुर्दश।तत्रैव। घृतं च नवनीतं च दधि दुग्धं तथैव च। शर्करागुडतैलानि तिला मधु जलं तथा॥ लवणं च फलं सर्वंयावद्रत्नसमन्वितम्।एवं चतुर्दशयुतं दातव्यं विधिना नृपेति॥ पाद्मे, सर्वेषामेव दानानामुत्तमं पात्रमिष्यते। यथाविधि प्रदातव्यं वित्तशाठ्यविवर्जितम्॥अत्यन्त्यनिर्द्धनो योऽपि सोऽपिदद्याद्यथाविधि। चतुर्दशार्द्धमर्द्धंवा दद्यादन्नफलेप्सयेति॥ वाराहे, अथातः संप्रवक्ष्यामि पात्रदानमनुत्तमम्।कृत्वा ताम्रमयं पात्रं यथाविभवविस्तर-

म्।उभया सहितं शम्भुं हरिं सश्रीकमेव च॥ कृत्वा तु काञ्चनीं दिव्यां सम्पूज्यावाहनादिभिः।प्रतिमां ब्राह्मणे दद्यात् पात्रभूते विचक्षणे॥अत्रैव पूर्वोक्तघृतादिचतुर्दशद्रव्याऽधिकाऽन्नकार्पासोपादानेन तद्द्रव्यपूर्णषोडशपात्रदानं प्रागुक्तम्॥

अथ स्थालीदानम्॥ भविष्योत्तरे, दत्वा ताम्रमयीं स्थालीं पलानां पञ्चभिः शतैः।अशक्तस्तु तदर्द्धेन चतुर्थांशेन वा पुनः। सर्वशक्तिविहीनस्तु मृन्मयीमपि कारयेत्॥सुगभीरोदरदरीं दृढदण्डकडच्छकम्॥ कडच्छकशब्देन तदर्चिरभिधीयते। मृदुतन्दुलनिष्पन्नस्विन्नक्षीरेण पूरिताम्।उपदेशोदकयुतां घृतपात्रसमन्विताम्॥कृतपार्श्वां धौतवर्णांचर्चितां चन्दनेन च।स्थाप्यमण्डलके वस्त्रैः पुष्पधूपैरथार्चयेत्॥ आदित्येऽहनिसंक्रान्तौ चतुर्दश्यष्टमीषु च।एकादश्यां तृतीयायां विप्राय प्रतिपादयेत्॥ ज्वलज्ज्वलनपार्श्वस्थैस्तण्डुलैः सजलैरपि।न भवेद्भोज्यसंसिद्धिर्भूतानां पिठरं विना॥त्वं सिद्धिः सिद्धिकामानां त्वं पुष्टिः पुष्टिमिच्छताम्।अतस्त्वां प्रणतो याचे सत्यंकुरु वचो मम॥ ज्ञातिबन्धुसुहृद्वर्गविप्रेषु स्वजने तथा।अभुक्तवत्सु नाश्नीयात्तथा भव वरप्रद।इत्युच्चार्य प्रदातव्या हण्डिका द्विजपुङ्गवे॥पुष्टितुष्टिप्रदा पुंसां सर्वान् कामानभीप्सितान्॥इति स्थालीदानम्॥

अथ पाकदानम्॥ तत्त्वशुभावतीं प्रतिपिप्पलादः।यद् येन पूर्वविहितं तदसौ प्राप्नुते फलम्।कर्मभूमिरियं राज्ञि माऽतः शोचितुमर्हसि॥तस्माद्भवद्भिर्यद्दत्तं प्राप्तं तद्राज्यमुत्तमम्।भृत्यमित्रादिसंबन्धो न दत्तः प्राप्यते कुत इत्यादिना हेमरूप्यताम्रनिर्मितनानाविधभाण्डानां सर्वसंपत्करम् आपाकदानमुक्तवानित्यापाकदानम्॥

अथ विद्यादानाख्यमतिदानम्॥ तत्र पुराणदानं तावत्।

वाराहे।तत्संख्या।ब्राह्मं पाद्मंवैष्णवं च शैवं भागवतं तथा। तथाऽन्यन्नारदीयं च मार्कण्डेयं च सप्तमम्॥ आग्नेयमष्टमं प्रोक्तं भविष्यं नवमं तथा। दशमं ब्रह्मवैवर्त्तं लैङ्गमेकादशं तथा॥ वाराहं द्वादशं प्रोक्तं स्कान्दं चैव त्रयोदशम्।चतुर्द्दशं वामनं च कौर्मंपञ्चदशं तथा॥ मात्स्यं च गारुडं चैवब्रह्माण्डमन्तिमं तथा॥ अन्यान्युपपुराणानि सहिरण्यानि पर्वणि। लिखित्वा यः प्रयच्छेतु स विद्यापारगो भवेदिति॥ क्रमेण कालविशेषः । ब्राह्म जलधेनुयुतं वैशाख्यां देवफलं ब्रह्मलोकः। पाद्मं हेमपद्मयुतं ज्येष्ठायां, फलमश्वमेधस्य।वैष्णवमाषाढ्यां स्वर्णधेनुसहितं, फलं वरुणलोकः।शैवं गुडधेनुसहितं श्रावण्यां फलं शिवलोकः। भागवतं हेमसिंहयुतं प्रौष्ठपद्यां परमपदं फलम्।नारदीयमाश्विन्यां हेमयुतं परासिद्धिः फलम्। मार्कण्डेयं हेमहस्तियुतं कार्त्तिक्यां, फलं पौण्डरीकस्य।आग्नेयंहेमपद्मतिलधेनुयुतं मार्गशीर्ष्यां, सर्वक्रतुफलम्।भविष्यं गुडप्रस्थयुतं पौष्यां, फलं विष्णुलोकः ब्रह्मवैवर्त्तं चमरयुतं माघ्यांफलं ब्रह्मलोकः।लैङ्गं तिलधेनुयुतं फाल्गुन्यां फलं शिवसाम्यम्।वाराहं गुडयुतं चैत्र्यां फलं विष्णुपदम्।स्कान्दं हेमशूलयुतं मकरसंक्रान्तौ, फलं शिवपदम्। वामनं हेमवामनयुतं मेषे, विष्णुपदं फलम्। कौर्मं हेमकूर्मयुतं कर्के, गोसहस्रफलम्।मात्स्थं हेममत्स्ययुतं तुलायां पृथ्वीदानफलम्। गारुडं हेमहंसयुतं विषुवेसिद्धिः फलम्।ब्रह्माण्डं कौशेयसुवर्णधेनुयुतं व्यतीपाते, राजसूयफलम् एतन्मूलं मात्स्ये। क्वचिच्छैवस्थाने वायवीयग्रहणम्।एतदन्यान्युपपुराणानि।तद्दाने फलं विद्या विष्णुलोकः।सर्वत्र विष्णुप्रीतिर्वा।अत्र दानवाक्यमपि, देशकालौ सङ्कीर्त्यतत्फलमुल्लिख्य।देयदक्षिणा न पृथगिति केचित्।युक्तं तत्तद्दाने युक्तधेन्वादिकैव दक्षिणा।रामायणं

भारतं च दत्वा स्वर्गे महीयते * पुराणं तर्कशास्त्रं च छन्दोलक्षणमेवच॥वेदं मीमांसकं दत्वा शिवधर्मं च वै नृप। सप्तद्वीपपृथिव्यां च राजराजो भवेद्धि सः॥ तथा, धर्मशास्त्रं नरो दत्वा स्वर्गलोके महीयते॥

अथ वेददानम्॥ गारुडे, आम्नायरूपाणि विधाय सम्यग् हैमानि पूर्वोदितलक्षणानि। विशुद्धनानामणिभूषितानि ऋगादि बेदक्रमतो निवेश्य॥ वेदरूपं महाभूतघटे उक्तम्।वासांसि देयानि यथाक्रमेण पीतानि शुक्लान्यथ लोहितानि।नीलानि चैवं कुसुमानि दत्वा सम्पूज्य गन्धाक्षतधूपदीपैः॥ आमोदिमोदकयुतं घृतपायसं च सक्षौद्रमन्नमथ पूपघृतं क्रमेण। तेभ्यो निवेद्य विधिवत् प्रयतः प्रणम्य सम्यक् प्रदक्षिणविधिं विदधीत विद्वान्॥ तेषां पूजाविधिः कार्यो गायत्र्या धीमतां वर। व्याहृत्य व्याहृतीःकुर्यादावाहनविसर्जने।मन्त्रैरेतैस्ततः कुर्यात्तदमीषामनुमन्त्रणम्॥ ऋग्वेद पत्रपद्माक्ष मां त्वं रक्ष क्षिपाऽशुभम्।शरणं त्वां प्रपन्नोऽस्मि धेहि मे हितमद्भुतम्॥ यजुर्वेद नमस्तेऽस्तु लोकत्राणपरायण। त्वत्प्रसादेन मे कामा निखिलाः सन्तु सन्ततम्॥ सामवेद महाबाहो त्वं हिं साक्षादधोक्षजः।प्रसादसुमुखो भूत्वा कृपयाऽनुगृहाण माम्॥ अथर्वन् सर्वभूतानां त्वदायत्ते हिताहिते। शातिं कुरुष्व देवेश पुष्टिमिष्टां प्रगच्छ नः॥ इति सम्प्रार्थ्य देवेशान् विप्रेभ्यः प्रतिपादयेत् प्रदद्यादेकमेकस्मै सुवर्णं त्रिपलान्वितम् दद्यादेकपलोपेतमेकैकमिह दुर्बलः।अथ स्वशक्तितो वाऽपि दानमेषां विधीयते॥ एतदेव प्रमाणं स्यादेतेषां मूर्त्तिनिर्मितम्॥ अनधीतवतो वेदान् वेददानविधिस्त्वयम्। सदाध्ययनयुक्तस्य वेदाध्ययनमेव हि॥ याज्ञवल्क्यः। सर्वधर्ममयं ब्रह्म प्रदानेभ्योऽधिकं यतः।तद्ददत्समवाप्नोति ब्रह्मलोकमविच्युतमिति॥

इति वेददानविधिः॥

अथ पुस्तकदानम्॥ भविष्ये, शास्त्रसद्भावविदुषे वाचके च प्रियंवदे।वस्त्रयुग्मेन संवीतं पुस्तकं प्रतिपादयेदिति॥ तथा, कपिलादानसहस्रेण सम्यग् दत्तेन यत् फलम्।तत् फलं समवाप्नोति पुस्तकैकप्रदानतः॥ पुराणं भारतं वापि रामायणमथाऽपि वा।दत्वा यत्फलमाप्नोति पार्थ तत् केन वर्ण्यत इति॥ तच्चहेमरूप्यगजदन्तकाष्ठादिकृतेऽन्योन्यसंश्लिष्टे यन्त्रे न्यस्य सम्पूज्य देयमिति पुराणान्तरे॥इति पुस्तकदानम्॥

एवं त्रिविधं विद्यादानं—पुस्तकदानं, प्रतिमादानमध्यापनं चेति ॥

अथ छत्रोपानहदानम्॥पाद्मे, असिपत्रवने मार्गे क्षुरधारासमन्विते।तीक्ष्णातपं च तरति छत्रोपानत्प्रदो नरः, इति छत्रोपानद्दानम्॥

अथान्नदानम्॥स्कान्दे, अन्नदः प्राणदः प्रोक्तः प्राणदश्चाऽपि सर्वदः।तस्मादन्नप्रदानेन सर्वदानफलं लभेदित्यन्नदानम्॥

महार्णवे ब्रह्मगीतायाम्।वर्षाशनं श्रोत्रियाय ह्यर्थिने च विशेषतः।असाध्यव्याधिना ग्रस्तो धनं दद्याद्द्विजातय इति वर्षाऽशनदानम्॥

अथ ताम्बूलदानम्॥ भविष्यपुराणे, ताम्बूलं यो नरो दद्यात् प्रत्यहंनियमान्वितः।देवेभ्योऽथ द्विजातिभ्यः स महाभाग्यमश्नुते॥इति ताम्बूलदानम्॥

अथ गन्धद्रव्यदानम्॥स्कान्दे।नरः सुवर्णदेहत्वं गन्धदानादवाप्नुयात्।भोगवाञ्जायते नित्यंशरीरं नास्य तप्यति॥ विष्णुधर्मोत्तरे, सौभाग्यकारकं दानं प्रोक्तं वै कुङ्कुमस्य तु। तथा कर्पूरदानेन सर्वकामानवाप्नुयात्॥मृगदर्पप्रदानेन स प्राज्यं

राज्यमश्नुत इति॥गन्धद्रव्यदानं लैङ्गे, तुष्टिर्भवेत् सदाकालं प्रदानाद्गन्धमाल्ययोरिति॥नन्दिपुराणे, धूपदः सुरभिर्नित्यंपुष्पदः सुभगस्तथेति॥

अथ रत्नदानानि॥जावालिः।रत्नानि यो द्विजे दद्याद् बहुमूल्यानि मानवः। अलङ्कारनिमित्तं वा देवताभ्योऽतियत्नतः सन्तापपापनिर्मुक्तो मुक्तिमेव समश्नुते॥ स्कान्दे, विद्रुमाणां प्रदानेन रुद्रलोकं व्रजेन्नरः। सर्वपापविनिर्मुक्तो मुक्तादानेन जायते॥ लोकमाप्नोति दानेन नरो वज्रस्य वज्रिणः।तथा प्रमत्तैर्गोमेदैर्मोदते नन्दने वने॥ सर्वे ग्रहाःप्रतुष्यन्ति पुष्परागप्रदानतः। गारुत्मतैर्गरुत्मन्तं नियतं जयति श्रियः।वैडूर्यैःसूर्यलोकं च पद्मरागैररोगताम्॥ प्रदानादिन्द्रलोकानां नीलानां भाजनं भवेत्। सुखी शङ्खप्रदानेन शक्तिः शुक्तिप्रदानत इति रत्नदानम्॥

अथ गलन्तिकादानम्॥भविष्योत्तरे।वसन्तसमयं ज्ञात्वा गत्वा देवालयं परम्।शिवस्य विष्णो सम्प्राप्ते देवं पञ्चाऽमृतेन तु।संस्नाप्य पूजयेद्गन्धैर्नैवेद्यैश्च मनोरमैः। प्रणिपत्यमहेशानं मन्त्रमेतमुदीरयेत्॥ॐ नमः शङ्करः शम्भुर्भवो धाता शिवो हरः। प्रीयतां मे महादेवो जलकुम्भप्रदानतः॥ एवं सङ्कल्प्य दाता तु पश्चादागत्यवेश्मनि। स्वशक्त्या शिवभक्तांश्च विप्रमुख्यांश्च भोजयेत्॥ एवं यः कुरुते ग्रीष्मे जलदानक्रियां हरे। यावद्बिन्दूनि लिङ्गस्य पतितानि न संशयः॥ स वसेच्छाङ्करे लोके तावत्कोट्यो नरेश्वर, इति गलन्तिकादानम्॥

अथ प्रपादानम्॥भविष्योत्तरे, अतीते फाल्गुने मासि प्राप्ते चैत्रमहोत्सवे।पुण्येऽह्नि विप्रकथिते मण्डपं कारयेत्ततः॥ पुरस्य मध्ये पथिवा चैत्यवृक्षतलेऽथवा।सुशीतलतरं रम्यं विचित्राऽऽसनसंयुतम्॥तन्मध्ये स्थापयेद्रम्यान्मणिकुम्भांश्च शोभनान्॥

ब्राह्मणः शीलसम्पन्नो भृतिं दत्वा यथोचिताम्।प्रपापालः प्रकर्त्तव्यो बहुपुत्रपरिच्छदः॥ एवंविधां प्रपां कृत्वा शुभेऽह्नि विधिपूर्वकम्। यथाशक्त्या नरश्रेष्ठ प्रारम्भे योजयेद् द्विजान्॥ततश्चोत्सर्जयेद्विप्रंमन्त्रेणानेन मानवः॥ प्रपेयं सर्वसामान्यभूतेभ्यः प्रतिपादिता।अस्याः प्रदानात् पितरस्तृप्यन्तु प्रपितामहाः॥ अनिवारितं ततो देयं जलं मासचतुष्टयम्। त्रिपक्षं च महाराज जीवानां जीवनं परम्॥प्रत्यहं कारयेत्तस्यां भोजनं शक्तितो द्विजान्॥ अनेन विधिना यस्तु ग्रीष्मे तापप्रणाशनम्।पानीयमुत्तमं दद्यात्तस्यपुण्यफलं शृणु।कपिलाशतदानस्य सम्यग्दत्तस्य यत् फलम्। तत्पुण्यफलमाप्नोति सर्वदेवैःसुपूजितः॥ पूर्णचन्द्रप्रतीकाशं विमानमधिरुह्य सः। याति देवेन्द्रनगरं पूज्यमानोऽप्सरोगणैः॥ त्रिंशत्कोट्यो हि वर्षाणां यक्षगन्धर्वसेवितम्।पुण्यक्षयादिहागत्य चतुर्वेदो द्विजो भवेत्॥ ततः परं पदं याति पुनरावृत्तिदुर्लभमिति प्रपादानम्॥

अथोदकदानम्॥स्कन्दपुराणे, त्रयाणामपि लोकानामुदकं जीवनं स्मृतम्।पवित्रममृतं यस्मात्तद्देयं पुण्यमिच्छता॥ भविष्यपुराणे, ग्रीष्मे चैव वसन्ते च पानीयं यः प्रयच्छति।वक्तुं जिह्वासहस्रेण तस्य पुण्यं न शक्यते॥ नन्दिपुराणे, योऽपि कश्चित्तृषार्ताय जलपानं प्रयच्छति।स नित्यतृप्तो भवति स्वर्गे युगशतं नरः॥ गरुडपुराणे, मूल्येन क्रीत्वा घर्मान्ते जलदानं प्रयच्छति।स याति चन्द्रसालोक्यं शुभमालां शुकावृतः॥ क्षीरकुल्यास्तमायान्ति तथाऽऽयान्ति मधुस्रवाः। घृतदध्युदकास्तस्य समुद्रा वशवर्त्तिनः॥ देवलः, सतोयां पथिके विप्रे प्रदद्यात् करयन्त्रिकाम्।फलं स कूपखातस्य नूनमाप्नोति मानवः॥महाभारते पिपासया न म्रियते सोपछन्दश्च जायते।नैवाप्नुयाच्च व्यसनं

करकान्यः प्रयच्छति॥आदित्यपुराणे, यो ददाति घटीमात्रं कुण्डिकाः करकाँस्तथा।तृषार्त्तस्य तथा घर्मे लभते शीतलं जलम्॥

अथ धर्मघटदानम्॥विष्णुः, शीतलेन सुगन्धेन वारिणा पूरितं घटम्।शुक्लचन्दनदिग्धाङ्गं पुष्पदामोपशोभितम्॥ दध्योदनभृतं कुर्याच्छरावं तस्य चोपरि।उपानच्छत्रसंयुक्तं धर्माख्यं कल्पयेद्धटम्॥ पुष्पाक्षतं गृहीत्वा तु इमं मन्त्रमुदीरयेत्॥ॐ नमो विष्णुरूपाय नमः सागरसम्भव।अपाम्पूर्णोद्धरास्माँस्त्वं दुःखसंसारसागरात्॥ उदकुम्भो मया दत्तो ग्रीष्मकाले दिने दिने।उदकुम्भप्रदानेन प्रीयतां मधुसूदनः॥ भविष्योत्तरे, प्रत्यहं धर्मघटको वस्त्रसंवेष्टितो नवः। ब्राह्मणस्य गृहे देयः शीताऽमलजलः शुचिः॥ वसन्तग्रीष्मयोर्मध्ये यः पानीयं प्रयच्छति।पले पले सुवर्णस्य फलमाप्नोति मानवः॥मार्गशीर्षात् समारभ्य उदकुम्भं तु यः क्षिपेत्।दिने दिने सहस्रस्य गवां पुण्यफलं लभेत्॥ तस्यैवोद्यापनं कार्यं मासि मासि नरोत्तम। मण्डकावेष्टकाभिश्च पक्वान्नैः सार्वकामिकैः॥उद्देिश्य शङ्करं विष्णुं ब्रह्माणमथवा पितॄन्। सतिलं प्रोक्षयित्वा तु मन्त्रेणानेन मानवः॥एषधर्मघटो दत्तो ब्रह्मविष्णुशिवात्मकः।अस्य प्रदानात् सततंमम सन्तु मनोरथाः॥ अनेन विधिना यस्तु धर्मकुम्भं प्रयच्छति।वसन्तग्रीष्मसमये गोप्रदानफलं लभेत्॥इति धर्मघटदानम्॥

बौधायनः।यज्ञोपवीतदानेन जायते ब्रह्मवर्च्चसी।तस्मात्तानि प्रदेयानि ब्राह्मणेभ्यो विपश्चिता॥अत्रिः।क्षौमजं वाऽपि कार्पासं पट्टसूत्रमथाऽपि वा।यज्ञोपवीतं यो दद्याच्छ्वेतवर्णं सुशोभनम्॥ यथाशक्त्या विधानेन अग्निष्टोमफलं लभेत्॥ नन्दिपुराणे, यज्ञोपवीतदानेन सुरेभ्यो ब्राह्मणाय वा।भवेद्विप्रश्चतुर्वेदः शुद्धधीर्नात्र संशयः॥ विष्णुसूक्ते, उपाकर्मणि विप्रेभ्यो

दद्याद्यज्ञोपवीतकम्।आयुष्मान् जायते तेन कर्मणा मानवो भुवि॥

अथ यष्टिदानम्॥यष्टिं ये च प्रयच्छन्ति नेत्रहीनेऽथ दुर्बले। तेषां सुविपुलः पन्थाः फलमूलोपशोभितः॥ ब्रह्मवैवर्त्ते, ये पङ्गुभ्यश्च पाथेभ्यो दीनेभ्योऽपि दयालवः।यष्टिदानं प्रकुर्वन्ति निरोगास्ते न संशयः॥ पङ्गोश्चरणकार्याणि यष्टिः प्रकुरुते सदा। गोसर्पादिनिवृत्तिश्च जायते यष्टिधारणात्॥भीतानां शरणं यष्टिर्गच्छतां निशि वा वने।शङ्कां पङ्काहिवातोत्थां नियमेन निरस्यति॥स्कन्दपुराणे।यतिभ्यो वैणवं दण्डं द्विजेभ्योऽपि खनित्रकम्।प्रदाय परलोके स यमदण्डं न गच्छति॥प्रददाति यथावर्णं यो दण्डं ब्रह्मचारिणे।स महापुरुषोलोके ब्रह्मवर्चसमश्नुते॥

अथेन्धनदानम्॥वह्निपुराणे—य इन्धनानि काष्ठानि ब्राह्मणेभ्यः प्रयच्छति।सर्वार्थास्तस्य सिद्ध्यन्ति तेजस्वी चाऽपि जायते।हेमन्ते शिशिरे चैव पुण्योऽग्निं यः प्रयच्छति।सर्वलोकप्रतापार्थं पुण्यां गतिमवाप्नुयात्॥यमः। इन्धनानां प्रदानेन दीप्ताग्निर्भुवि जायते।महाभारते॥यश्चेन्धनार्थंकाष्ठानि ब्राह्मणेभ्यः प्रयच्छति।प्रतापनार्थं राजेन्द्र प्रवृत्ते शिशिरे नरः॥ सिद्ध्यन्त्यर्थाः सदा तस्य कार्याणि त्रिविधानि च।उपर्युपरि शत्रूणां वपुषा दीप्यते नरः॥भगवाँश्चास्य सुप्रीतो वह्निर्भवति नित्यशः॥न तं त्यजन्ति पशवः संग्रामेषु जयत्यपि॥

अथाग्नीष्टिकादानम्॥भविष्योत्तरे।कृष्ण उवाच।आदौ मार्गशिरे मासि शोभने दिवसे शुभे।अग्नीष्टिकां कारयित्वा सुखासनवतींदृढाम्॥देवाङ्गणे मठे हट्टे विस्तीर्णे चत्वरे तथा॥ उभयोः सन्ध्ययोः कृत्वा सुशुद्धकाष्ठसञ्चयम्॥ततः प्रज्वालयेदग्निं हुत्वा व्याहृतिभिः क्रमात्।ब्राह्मणान् भोजयेद्भक्त्या तेभ्यो दद्याच्च दक्षिणाम्॥अनेन विधिना कृत्वा प्रत्यहं ज्वाल-

येत्ततः।यदि कश्चित् क्षुधार्त्तः स्याद्भोजनं तस्य कल्पयेत्॥ ॐम् अद्येत्यादि हेमन्तशिशिराख्यम् ऋतुद्वयं यावत् प्रत्यहं शीतार्त्तप्राणितापनार्थम् इमामग्नीष्टिकां विष्णुदैवतां पष्टिसहस्रषष्टिशतावच्छिन्नब्रह्मलोकमहितत्वानन्तरसर्वार्थसम्पन्नचतुर्वेदित्वप्राप्तिकामोऽहमुत्सृजे।अस्य दानस्य फलमपि तत्रैव।विमाने चार्कसङ्काशे समारूढो महामते।षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च॥ अर्चितोऽत्यन्तसन्तुष्टो ब्रह्मलोके महीयते।इह लोकेऽवतीर्णश्च चतुर्वेदो द्विजो भवेत्॥नीरुजः सत्यवादी च अग्नितेजाः प्रभावतः॥चैत्ये सुरालयसभावसथेषु भव्यां येऽग्नीष्टिकां प्रचुरकाष्ठवतीं प्रदद्युः।हेमन्तशैशिरऋतौ सुखदां जनानां कार्याग्निदीप्तममलं वपुरावहन्ति॥

अथ दीपदानम्॥संवर्त्तः। देवागारे द्विजानां वा दीपं दत्वा चतुष्पथे।मेधावी ज्ञानसम्पन्नश्चक्षुष्माँश्च सदा भवेत्॥ गरुडपुराणे, नीलकण्ठस्य मोक्षेण गयायां च तिलोदकैः।वर्षासु दीपदानेन पितॄणामनृणो भवेत्॥ नीलकण्ठस्य मोक्षो नीलकण्ठवृषोत्सर्गः।यस्तु ब्राह्मणगेहेषु दीपमालां प्रयच्छति।स निर्जित्य तमो घोरं ज्योतिषां लोकमाप्नुयात्॥ महाभारते, दीपप्रदानं वक्ष्यामि फलयोगमनुत्तमम्।यथा येन यदा चैव प्रदेया यादृशाश्च ते॥ज्योतिस्तेजाः प्रकाशं वाऽप्यूर्ध्वगयाऽपि चार्णवे।प्रदानं तेजसां तस्मात्तेजो वर्द्धयते नृणाम्॥ अन्धन्तमस्तमिस्रं च दक्षिणायनमेव च। उत्तरायणमेतस्माद्दीपदानं प्रशस्यते॥यस्मादूर्ध्वगतो यस्तत्तमसश्चैव भेषजम्।तस्मादूर्ध्वगतिर्दाता भवेत्तत्रेति निश्चयः॥ विष्णुधर्मोत्तरे, महावर्त्तिः सदा देया भूमिपाल महाफला। कृष्णपक्षे विशेषेण तत्रापि च विशेषतः॥अमावास्या विनिर्दिष्टा द्वादशी च महाफला॥ अश्वयुज्यामतीतायां कृष्णपक्षस्य या भवेत्।अमा-

वास्या तदा पुण्या द्वादशी च विशेषतः॥ देवस्य दक्षिणे पार्श्वेदेया तैलतुला नृप। फलाष्टकयुता राजन् वर्त्तितत्रैव दापयेत्॥ वाससा तु समग्रेण सोपवासो जितेन्द्रियः। महावर्त्तिद्वयमिदंसकृद्दत्वा महीयते॥ गिरिशृङ्गेषु दातव्यं नदीनां पुलिनेषु च। चतुष्पथेषु रथ्यासु ब्राह्मणानां च वेश्मसु॥ वृक्षमूलेषु गोष्ठेषु कान्तारगहनेषु च। दीपदानेन सर्वत्र महत् फलमुपाश्नुते॥ यावन्त्यक्षिनिमेषाणि दीपः प्रज्वलते नृप। तावन्त्येव स राजेन्द्रवर्षाणि दिवि मोदते॥ दीपदानेन राजेन्द्र चक्षुष्मानिह जायते।रूपसौभाग्ययुक्तस्तु धनधान्यसमन्वितः॥

अथाऽभयदानम्॥ संवर्त्तः। भूताऽभयप्रदानेन सर्वान् कामानऽवाप्नुयात्। दीर्घमायुश्च लभते सदा च सुखितो भवेत्॥ रामायणे, बद्धाञ्जलिपुटं दीनं याचन्तमपराधिनम्। न हन्याच्छरणंप्राप्तंसतांधर्ममनुस्मरन्॥ महाभारते, लोभाद्वेषाद्भयाद्वापि यस्त्यजेच्छरणागतम्। ब्रह्महत्यासमं तस्य पापमाहुर्मनीषिणः॥

अथ मासेषु दानानि॥ विष्णुधर्मोत्तरे, तिलप्रदानान्माघे तुयाम्यं लोकं न गच्छति। प्रियङ्गुं फाल्गुने दत्वा प्रियो भवतिभूतले॥ चैत्रे चित्राणि वस्त्राणि दत्वा सौभाग्यमश्नुते। अपूपानांप्रदानेन वैशाखे स्वर्गमश्नुते॥ छत्रदानं तथा ज्येष्ठे सर्वान् कामानू समश्नुते। आषाढे चन्दनं देयं सकर्पूरं महाफलम्॥ श्रावणेवस्त्रदानस्य कीर्तितं सुमहत्फलम्। प्रौष्ठपादे तथा मासे प्रदानात्फाणितस्य च। आश्विने घृतदानेन रूपवानभिजायते॥ कार्त्तिकेदीपदानेन सर्वथोज्ज्वलमाप्नुयात्। लवणं मार्गशीर्षे तु दत्वा सौभाग्यमश्नुते॥ पौषे काञ्चनदानेन परां तुष्टिं तथैव च। पुष्पाणां च सिते पक्षे दानं लक्ष्मीकरं मतम्॥ फलानां च तथा दानंकृष्णपक्षे महाफलम्॥

अश्वत्थसेचनम्॥भविष्योत्तरे, उदकुम्भप्रदानेऽपि ह्यशक्तो यः पुमान् भवेत्।तेनाश्वत्थतरोर्मूलं सेव्यं नित्यंजिताऽऽत्मना॥ सर्वपापप्रशमनं सर्वदुःस्वप्ननाशनम्। सर्वरोगप्रशमनंनित्यं सन्ततिवर्द्धनम्॥ अश्वत्थरूपी भगवान् प्रीयतां मे जनार्द्दनः। इत्युच्चार्य नमस्कृत्य प्रत्यहं पापनाशनम्॥ यः करोति तरोर्मूलेसेकं मासचतुष्टयम्। सोऽपि तत्फलमाप्नोति श्रुतिरेषासनातनी॥इत्यश्वत्थसेचनम्॥

अथ पान्थोपचारः॥ गरुडपुराणे, पान्थं परिचरेद् यस्तुशयनासनभोजनैः। स स्वल्पेन प्रयासेन जयति क्रतुयाजिनम्॥ दत्वा वासो विवस्त्राय रोगिणे रुक्प्रतिक्रियाम्। तृषार्त्ताय जलंदत्वा मृष्टमन्नं बुभुक्षवे॥ पथिकाय यथावित्तं सर्वे तरति दुष्कृतम्॥ अध्वन्यमनुमान्यापि शाकमूलफलैर्जलैः। सकृत् सकृत्य वाचाऽपि श्रेयसो भाजनं भवेत्॥ तथा, अभावे तृणभूम्यम्बुपत्रेन्धनफलानि च। दत्वा गताघनिर्विण्णः स्वर्गे याति प्रियेण वा॥विष्णुधर्मोत्तरे, उपानद्भ्यां च छत्रेण श्रान्तं संयोज्य मानवः। संस्थाप्य शुभदेशे तु क्षणाद्बहुफलं लभेत्॥ तथा, मूल्येन वासयित्वापि परभारं विचक्षणः। अश्वमेधस्य यज्ञस्य फलं दशगुणं भवेत्॥ तथा, चौरेभ्यो रक्षणं कृत्वा शक्रलोके महीयते॥ स्कान्देयस्तु मार्गपरिश्रान्तं द्विजातिं यामकर्षितम्। तैलेनाभ्यञ्जयेत् प्राज्ञःस सुखी मोदते चिरम्।सर्पिषाकपिलाधेनोरथवाऽन्येन सर्पिषा।उत्तरायणमासाद्य योऽभ्यञ्जयति धूर्जटिम्। महापूजा घृतेनैव तस्मिन्नेव दिने शिवे।कृत्वा मनुष्यो लभते राज्यं निहतकण्टकम्॥ सर्पिः पलसहस्रेण गोविन्दस्य शिवस्य च। महास्नानंनरः कृत्वा ब्रह्महत्यां तरिष्यति॥ नन्दिपुराणे, पादाभ्यङ्गन्तु योदद्यात्पान्थाय परिखेदिने। स शुभाभरणैः पादैर्वन्दिभिर्नित्य-

वन्दितः॥ भवेन्नृपो महाभागो मण्डले दशयोजने॥ संवाह्याध्वपरिश्रान्तं पादाभ्यङ्गादिना नरः।धर्मस्य पुरमाप्नोति सर्वकामगुणोज्ज्वलः॥दत्वा वारि सुसंस्पर्शं पादाभ्यां च द्विजातये। उच्छिष्टमार्जनाच्चाऽपि गोदानफलमश्नुते॥भविष्यपुराणे, ब्राह्मणस्यतु यो भक्त्या पादौ प्रक्षाल्य शक्तितः।घृतेनाभ्यज्य पादौ तुविष्णुलोके महीयते॥इति पान्थोपचारः ॥

अथ गोपरिचर्या॥विष्णुः, गवां कण्डूयनं चैव सर्वकल्मषनाशनम्॥गवां ग्रासप्रदानेन स्वर्गलोके महीयते॥ आदित्यपुराणे, लवणं च यथाशक्त्या गवां यो वै ददाति च।तेषां पुण्यकृतां लोका गवां लोकं व्रजन्ति ते॥ महाभारते, कृत्वा गवार्थेशरणं शीतवातक्षमं महत्।आसप्तमं तारयति कुलं भरतसत्तम॥हारीतः, द्वौ मासौ पाययेद्वत्सं तृतीये द्विस्तनं दुहेत्।चतुर्थे त्रिस्तनंचैव यथान्यायं यथाबलम्।ब्रह्मपुराणे, आदौ विचार्य वयसःपरिमाणं बलं रुचिम्। आकस्मिकं तु दातव्यं पुण्यार्थं तु गवाह्निकम्॥विष्णुधर्मोत्तरे, गवांकण्डूयनं चैव सर्वकल्मषनाशनम्।तासां शृङ्गोदकं नाम जाह्नवीजलसन्निभम्॥तथा, दत्वापरगवे ग्रामं पुण्यं स महदाप्नुयात्।शिशिरं सकलं कालं ग्रासंपरगवे तथा॥ दत्वा स्वर्गमवाप्नोति संवत्सरशतानि षट्। अग्रभक्तंनरो दद्यान्नित्यमेव तथा गवाम्॥मासाष्टकेन लभते नाकलोकंसमाऽयुतम्॥सायं प्रातर्मनुष्याणामशनं स्मृतिनिर्मितम्।तत्रैकमशनंदत्वा गवां नित्यमतन्द्रितः॥ द्वितीयं यः समश्नाति तेन संवत्सरंनरः। गवां लोकमवाप्नोति यावन्मन्वन्तरं द्विजः॥शीतत्राणंगवां कृत्वा गृहे पुरुषसत्तम।वारुणं लोकमाप्नोति क्रीडत्यब्दगणाऽयुतम्॥तथा, सिंहव्याघ्रभयत्रस्तां पङ्कलग्नां जले गताम्।गामुद्धृत्यनरः स्वर्गे कल्पभोगानुपाश्नुते॥तासां संस्पर्शनं धन्यं

सर्वकल्मषनाशनम्।दानेन च तथा तासां कुलान्यपि समुद्धरेत्॥ उदक्यासूतिकादोषो नैव तत्र गृहे भवेत्॥इति गोपरिचर्या॥

अथ सहस्रादिविप्रभोजनविधिः॥भारते, ब्राह्मणानां सहस्रं तु सम्भोज्य भरतर्षभ।नरः पापात्प्रमुच्येत पापेष्वभिरतोऽपि यः॥भोजयित्वा दशशतं नरो वेदविदां नृप।न्यायविद्धर्मविदुषां स्मृतिभाष्यविदां तथा॥न याति नरकं घोरं संसाराँश्च न सेवते।सर्वकामसमायुक्तः प्रेत्य चाप्यश्नुते सुखमिति॥लक्षभोजनादौ तु न विधेः क्वाप्युपलम्भः।यस्तु मैथिलग्रन्थे क्वचिदलेखि सोऽप्यनाकरः॥

अथैतस्य प्रयोगः॥देशकालौ सङ्कीर्त्य पूर्वोक्तफलकामः सहस्रब्राह्मणान्भोज्यादिनाऽऽतृप्ति तर्पयिष्ये इति सङ्कल्प्य पुण्याहं वाचयित्वाऽऽदिकालाष्टकं सम्पूज्य ब्राह्मणान् धूपदीपवस्त्रालङ्कारैः सम्पूज्य सघृताक्तेनाऽऽतृप्ति भोजयेत्ततोऽग्निस्थापनाऽग्निमुखान्तं कृत्वा केशवादिभिर्द्वादशनामभिः स्वाहान्तैर्घृतेन हुत्वा दध्यन्नं ब्राह्मणेभ्यो निवेद्य स्विष्टकृदादि कृत्वा ब्राह्मणेभ्यश्छत्रोपानहौ प्रत्येकं दत्वा स्वस्ति-वाच्य तान्क्षमापयित्वा आशिषो गृहीत्वा विसर्जयेत्।ततो भुक्तशेषं बन्धुसहितौ दम्पती हृष्टमनस्कौ भुञ्जीयातामिति॥अनेन चैकस्मिन्नेवदिने सहस्रादिभोजनं कार्यमिति प्रतीयते।शिष्टास्त्वनेकदिनैरपि संमापयन्ति। तत्र मूलं विचारणीयम्॥

अथ नानाद्रव्यदानमन्त्राः॥हेमाद्रौ व्रतखण्डे।धन्यं करोति दातारमिह लोके परत्र च।तस्मात् प्रदीयते धान्यमतः शान्तिं प्रयच्छ मे, धान्यस्य॥अन्नेन जायते विश्वं प्राणिनां प्राणरक्षणम्॥तण्डुला वैश्वदेवत्याःपाकेनान्नं भवन्ति येपावनाः सर्वयज्ञेषु प्रशस्ता होमकर्मणि।तस्मात्तन्दुलदानेन प्रीयतां विश्वदेव-

ताः, तन्दुलानाम्॥यस्मादन्नमयो जम्बूद्वीपे गोधूमसम्भवः। गन्धर्वसौख्यधनद अतः शान्तिं प्रयच्छ मे, गोधूमानाम्॥ धान्यराजाश्च माङ्गल्या द्विजप्रीतिकरा यवाः।तस्मादेषां प्रदानेन ममास्त्वभिमतं फलम्, यवानाम्मुद्गबीजानि वै यस्मात् प्रियाणि परमेष्ठिनः।तस्मादेषां प्रदानेन प्रीतिः सिद्धा तु मे सदा, मुद्गानाम्॥ यस्मान्मधुवधे काले विष्णुदेहसमुद्भवाः। पितृप्रीतिकरा माषा अतः शान्तिं प्रयच्छ मे, माषाणाम्॥पुरा गोवर्द्धनोद्धारसमये हरिभक्षिताः। चणकाः सर्वपापघ्ना अतः शान्तिं प्रयच्छ मे, चणकानाम्॥अग्निवर्णोद्भवा नाम बलकीर्त्तिभवर्द्धनाः।कुलत्थाः सर्वपापघ्नाअतः शान्तिं प्रयच्छ मे, कुलत्थानाम्॥तिलाः पापहरा नित्यं विष्णुदेहसमुद्भवाः।तिलदानेन सर्वंमे पापं नाशय केशव, तिलानाम्॥तिलाः स्वर्णमया युक्ता दुरितक्षयकारकाः।विष्णुप्रीतिकरा नित्यमतः शान्तिं प्रयच्छ मे, स्वर्णतिलानाम्॥तिलाः पुण्याः पवित्राश्च सर्वकामकराःशुभाः।शुक्लाश्चैव तथा कृष्णा विष्णुगात्रसमुद्भवाः॥ यानि कानि च पापानि ब्रह्महत्यासमानि च।तिलपात्रप्रदानेन तानि नश्यन्तु मे सदा, सहिरण्यतिलपात्रस्य।अन्नमेव यतो लक्ष्मीरन्नमेव जनार्द्दनः।अन्नं ब्रह्माखिलत्राणमस्तु मे जन्मजन्मनि, अन्नस्य।चन्द्रमण्डलमध्यस्थं चन्द्राम्बुजसमप्रभम्।दध्यन्नंतस्य दानेन प्रीयतां वामनो मम॥दध्यन्नं सोपदंशं च ब्रह्मविष्णुशिवात्मकम्।प्रीयतां धर्मराजो हि तद्दानान्मम सर्वदा, सोपदंशदध्यन्नस्य॥पानीयसहितं चैव सदध्योदनपात्रकम्।समर्चितं च सफलं सदक्षिणं गृहाण मे, सपानीयदध्यन्नस्यसर्वदैवतयोग्यं च श्रेयःपुष्टिं प्रयच्छतु, पायसान्नस्य॥ केशवप्रीतिदा भक्ष्याः शम्भुब्रह्मार्कतुष्टिदाःपृथग्विधापूपकाद्या यछन्तु बलमौरसम्।

भक्ष्याणाम्॥आदित्यतेजसोत्पन्नाः सर्वमङ्गलकारकाः।मण्डकाः सर्वपापघ्ना अतः शान्तिं प्रयच्छ मे, मण्डकानाम्॥

आदित्यतेजसाऽभ्यक्तं ज्ञातिश्रैष्ठ्यकरं परम्॥ दत्तं ते मम विप्रत्वं प्रतीच्छाऽपूपमुत्तमम्, अपूपान्नस्य॥ प्राजापत्या यतः प्रोक्ताः सक्तवो यज्ञकर्मणि।तस्मात् सक्तून्प्रयच्छामि प्रीयतां मे प्रजापतिः, सक्तूनाम्॥ अलक्ष्मीहरणं नित्यं नित्यं सौभाग्यवर्द्धनम्। क्षीरं मङ्गलमायुष्यमतः शान्तिं प्रयच्छ मे, दुग्धस्य॥कामधेनोः समुद्भुतं विष्णोः प्रीतिकरं परम्। नवनीतं प्रदास्यामि बलंपुष्टिं च देहि मे, नवनीतस्य॥कामधेनोः समुद्भूतं देवानामुत्तमं हविः। आयुर्विवर्द्धनं दातुराज्यं पातु सदैव माम्, आज्यस्य॥ याऽलक्ष्मीर्यच्च मे दौःस्थ्यं सर्वगात्रे व्यवस्थितम्।तत्सर्वंशमयाऽऽज्य त्वं लक्ष्मीं पुष्टिं च वर्द्धय, यज्ञार्थाऽऽज्यस्य॥ आज्यं तेजः समुद्दिष्टमाज्यं पापहरं स्मृतम्।आज्यं सुराणामाहारमाज्ये देवाः प्रतिष्ठिताः, पापक्षयार्थाज्यस्य॥तैलं पुष्टिकरं नित्यमायुष्यं पापनाशनम्। अमङ्गल्यहरं पुण्यमतः शान्तिं प्रयच्छ मे, तैलस्यअमृतस्य कुलोत्पन्ना इक्षुधारातिशर्करा। सूर्यप्रीतिकरा नित्यमतः शान्तिं प्रयच्छ मे, शर्करायाः॥ मनोभवधनुर्मध्यादुद्भूता शर्करा यतः।तस्मादस्याः प्रदानेन मम सन्तु मनोरथाः, खण्डस्य॥प्रणवः सर्वमन्त्राणां नारीणां पार्वती यथा।तथा रसानां प्रवरः सदैवेक्षुरसो मतः॥मम तस्मात् परां शान्तिं ददस्व गुड सर्वदा, गुडस्य॥इक्षुदण्डं महापुण्यं रसालं सर्वकामदम्।तुभ्यं दास्यामि तेनाऽऽशु प्रीयतां परमेश्वरः, इक्षोः॥ यस्मात् पितॄणां श्राद्धे त्वं पीतं मध्वऽमृतोद्भवम्।तस्मात्तव प्रदानेन रक्ष मां दुःखसागरात्, मधुनः॥वारिपूर्णघटोपेतं देवत्रयमयं यतः।प्रीयतां धर्मराजस्तु दानेनानेन पुण्यदः, उदकुम्भस्य॥

यमामनन्ति विश्वेशं विश्वनाथमुमासुतम्।विघ्नेश्वर क्षिप्रचर तुभ्यं दास्याम्यभीष्टदम्, गणेशप्रतिमायाः॥ददामि भानुं भवते सर्वोपस्कारसंयुतम्।मनोऽभिलषितावाप्तिं करोतु मम भास्करः, सूर्यमूर्तेः॥त्वया सुराणाममृतं विहाय हालाहलं संहृतमेव यस्मात्।तथाऽसुराणां त्रिपुरं च दग्धमेकेषुणा लोकहितार्थमीश॥ त्वद्रूपदानादहमप्यदोषो दोषैर्विमुक्तस्तु गुणान् प्रपद्ये। तथा कुरु त्वं शरणं प्रपद्ये मयिप्रभो देववरप्रसादम्, शिवमूर्त्तेः॥प्रसीदतु भवो नित्यंकृत्तिवासा महेश्वरः। पार्वत्यासहितो देवो जगदुत्पत्तिकारकः, उमामहेश्वरयोः॥शिवशक्त्यात्मकं यस्माज्जगदेतच्चराचरम्यस्मादनेन सर्वंमे करोतु भगवान् शिवम्॥ कैलासवासी गौरीशो भगवान् भगनेत्रवित्। चराचरात्मको लिङ्गरूपी दिशतु वाच्छितम्, लिङ्गस्य॥इदं मारकतं लिङ्गं रौप्यपीठसमन्वितम्। धान्यैर्द्वादशभिर्युक्तमेकादशफलान्वितम्॥सम्प्रदद्यां विधानेन यथोक्तं फलमस्तु मे, मरकतलिङ्गस्य॥काश्मीरलिङ्गपक्षे तु, इदं काश्मीरजमिति वदेत्।महाकोशनिवासेन चक्राद्यैरुपशोभितम्।अस्य देव प्रदानात्तु मम सन्तु मनोरथाः, शालग्रामस्य॥ महाकोशनिवास त्वं महादेवो महेश्वरः। प्रीयतां तव दानेन ततः शान्तिं प्रयच्छ मे, शिवनाभस्य॥शङ्कुकर्णप्रलम्बोष्ठ लम्बभ्रूदीर्घनासिक। अष्टनेत्र चतुर्वक्रविस्तीर्णशतयोजन॥व्यतीपात नमस्तेऽस्तु सोमसूर्यसुत प्रभो । यद्दानादिकृतं सर्वं तदऽक्षय्यमिहाऽस्तु मे व्यतीपातस्य।विधुन्तुद नमस्तेऽस्तु सिंहिकानन्दनाऽव्यय। दानेनानेन नागस्य रक्ष मां वेधजाद्भयात्, स्वर्णनागस्य॥ जन्मान्तरसहस्रेषु यत् कृतं दुरितं मया।स्वर्णपात्रप्रदानेन शान्तिरस्तु सदा मम, स्वर्णपात्रस्य॥त्वदुद्भवो जगत्स्रष्टुर्वेधसो हेमपङ्कज। पद्मावास हरेर्नाभिजात मां पाहि सर्वदा, स्वर्णपद्मस्य॥ कान्तार-

वनदुर्गेषु चौरव्यालाकुले पथ।हिंसकाश्च न हिंसन्तु सिंहदानप्रभावतः, स्वर्णसिंहस्य॥हिरण्यगर्भसंभूतं सौवर्णं चाङ्गुलीयकम्। धर्मपादं प्रयच्छामि प्रीयतां कमलापतिः, अङ्गुलीयस्य॥काञ्चनं हस्तवलयं रूपकान्तिसुखप्रदम्। विभूषणं प्रदास्यामि विभूषयतु मां सदा, वलयस्य॥क्षीरोदमथनोद्भूतमुद्धतं कुण्डलद्वयम्। श्रिया सह समुद्भूतं ददे श्रीःप्रीयतां मम, कुण्डलस्य॥अगम्यागमनं चैव परदाभिमर्शनम्। रौप्यपात्रप्रदानेन तानि नश्यन्तु मे सदा, रौप्यपात्रस्य॥असुरेषु समुद्भूतं रजतं पितृवल्लभम्॥ तस्मादस्य प्रदानेन रुद्रः संप्रीयतां मम, रजतस्य॥ परापवादपैशून्यादभक्ष्यस्य च भक्षणात्।तत्प्रजातं च यत्पापं ताम्रपात्रात् प्रणश्यतु, ताम्रपात्रस्य॥यानि पापानि काम्यानि कर्मोत्थानि कृतानि वै।कांस्यपात्रप्रदानेन तानि नश्यन्तु मे सदा, कांस्यपात्रस्य॥यानि पापान्यनेकानि मया यानि कृतानि च।लोहपात्रप्रदानेन तानि नश्यन्तु सर्वदा, लोहपात्रस्य॥यथा रत्नेषु सर्वेषु सर्वदेवा व्यवस्थिताः।तथा शान्तिं प्रयच्छन्तु रत्नदानेन ये सुराः, रत्नमन्त्रः॥ताम्रपर्ण्यर्णवोत्पन्ना वर्णाद्याः कल्पवर्णिताः।मुक्ताः शुक्त्युद्भवाः सन्तु भुक्तिमुक्तिप्रदा मम, मुक्तामन्त्रः॥यथा भूमिप्रदानस्य कलां नार्हन्ति षोडशीम्। दानान्यन्यानि मे शान्तिर्भूमिदानाद्भवत्विह, भुवःसर्वभूताश्रया भूमिर्वराहेण समुद्धृता। अनन्तसस्यफलदा अतः शान्तिं प्रयच्छ मे, सस्यभूमेः॥सदा रोहन्ति बीजानि फालकृष्टे महीतले।तवप्रदानात् सकला मम सन्तु मनोरथाः, कृष्टक्षेत्रस्य॥ इदं गृहं गृहाण त्वं सर्वोपस्करसंयुतम्। तव दानप्रसादेन ममाऽस्त्वभिमतं फलम्, गृहस्य॥समाश्रयं प्रयच्छामि प्रीयतां मे जगन्निधिः, आश्रयस्य।गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्द्दश।यस्मा-

तस्माच्छिवं मे स्यादिह लोके परत्र च, गोः॥यमद्वारे महाघोरा या सा वैतरणी नदी।तां तर्त्तुकामो यच्छामि उत्तारय सुखेन माम्, वैतरण्याः॥यस्मात्त्वं पृथिवी सर्वा धेनुर्वै कृष्णसन्निभा।सर्वपापहरा नित्यमतः शान्तिं प्रयच्छ मे, कृष्णधेनोः॥ मृत्यूत्क्रान्तिप्रवृत्तस्य सुखोत्क्रान्तिविवृद्धये।तुभ्यं सम्प्रददे नाम्ना गां समुत्क्रान्तिसंज्ञिताम्, उत्क्रान्तिधेनोः॥ इन्द्रादिलोकपालानां या राजमहिषी शुभा। महिषीदानमाहात्म्यात्साऽस्तु मे सर्वकामदा॥ धर्मराजस्य साहाय्यं यस्याः पुत्रः प्रतिष्ठितः। महिषासुरस्य जननी साऽस्तु मे सर्वकामदा, महिष्याः॥महिषीं वत्ससंयुक्तां सुशीलां च पयस्विनीम्।रक्तवस्त्रेण पुष्पेण दत्वा मृत्युं जयेन्नरः, मृत्युमहिष्याः॥वाङ्मनः कायजनितं यत्किचिन्मम दुष्कृतम्। तत्सर्वं विलयं यातु त्वद्दानेनोपसेवितम्॥रोमत्वङ्मासमज्जाद्यैः सर्वोपकरणैः सदा।जगतः सम्प्रवृत्तोऽसि त्वामतः प्रार्थये शिवम्॥ देवानां यो मुखं हव्यवाहनःसर्वपूजितः।तस्य त्वं वाहनं पूज्यं देवैः सेन्द्रैर्महर्षिभिः॥अग्निमान्द्यं पूर्वकर्मविपाकोत्थं तु यन्मम।तत्सर्वं नाशय क्षिप्रं जठराग्निं विवर्द्धय, मेषस्य।त्वं पूर्वं ब्रह्मणा सृष्टा पवित्रं भवती परा।त्वत्प्रसूतौ स्थिता यज्ञास्तस्माच्छान्तिकरी भव, अजायाः।गौरीं कन्यामिमां विप्र यथाशक्तिविभूषिताम्। गोत्राय शर्मणे दत्तां त्वं हि विप्रसमाश्रय, कन्यायाः।इयं दासी मया तुभ्यं श्रीवत्स प्रतिपादिता।तव कर्मकरी भोग्या यथेष्टं भद्रमस्तु मे, दास्याः। यस्मादशून्यं शयनं केशवस्य शिवस्य च।शय्या ममाप्यशून्याऽस्तु तस्माज्जन्मनि जन्मनि, शय्यायाः॥देवदेव जगन्नाथ विश्वात्मन् दत्तयाऽनया। प्रभो शिविकया देव प्रीतो भवजनार्द्दन, शिविकायाः॥रथाय रथनाथाय नमस्ते विश्वकर्मणे।विश्वभूताय नाथाय अरुणाय

नमो नमः, रथस्य॥कण्टकोच्छिष्टपाषाणवृश्चिकादिनिवारणे। पादुके सम्प्रदास्यामि विप्रप्रीत्या प्रगृह्यताम, पादुकयोः॥ उपानहौप्रदास्यामि कण्टकादिनिवारणे।सर्वस्थानेषु सुखदावतः शान्तिं प्रयच्छ मे, उपानहोः॥इहामुत्रातपत्राणं कुरु केशव मे प्रभो।छत्रं त्वत्प्रीतये दत्तं ब्राह्मणाय मया शुभम्, छत्रस्य॥ कमण्डलुर्जलैः पूर्णः स्वर्णगर्भः सुलक्षणः।अर्पितस्ते महासेन प्रसन्नस्तेन मे भव, कमण्डलुनः॥शशाङ्ककरसङ्काश हिमडिण्डीरपाण्डुर।प्रोत्सारयाशु दुरितं चामराऽमरवल्लभ, चामरस्य॥ पत्रिका सर्वजन्तूनां शैत्यानन्दकरी शुभा।पितॄणां तृप्तिदा नित्यमतः शान्तिं प्रयच्छ मे, व्यजनस्य॥दर्शनेन त्वमादर्श नृणां मङ्गलदायकः।शौर्यसौभाग्यसत्कीर्त्तिनिर्मलज्ञानदो भव, दर्पणस्य॥ भगवन् शूलहस्तेश दक्षाध्वरविनाशन।तवायुधप्रदानेन शूलं नश्यतु मे सदा, शूलस्य॥सर्वग्रहर्क्षतारेश सर्वेशस्त्वं हि भास्कर। संक्रान्तिशूलदोषं मे निवारय दिवाकर, संक्रान्तिशूलस्य॥त्वं देवानां मनुष्याणां रक्षसामायुधावसि।तस्मादेषां प्रदानेन शान्तिर्भवतु सर्वदा, आयुधस्य॥ सोमोद्भवानि दारूणि जातवेदः- प्रियाणि च।तस्मादेषां प्रदानेन श्रियं देहि विभावसो, काष्ठानाम्॥शरण्यं सर्वलोकानां लज्जाया रक्षणं परम्। सुवेषधारि त्वं यस्माद्वासः शान्तिं प्रयच्छ मे, वस्त्रस्यरक्तवस्त्रयुगं यस्मादादित्यस्य प्रियंसदा।प्रदानादस्य मे सूर्य अतः शान्तिं प्रयच्छ मे, रक्तवस्त्रयुग्मस्य॥धर्मराजेन विधृतं कृष्णवस्त्रं सुशोभनम्। सर्वक्लेशविनाशाय कृष्णवस्त्रं ददाम्यहम्, कृष्णवस्त्रस्य।और्ण- पट्टमनुध्येयं स्वर्णबीजं तव प्रभो। दत्तं गृहाण देवेश पापं संहर सत्वरम्, और्णंपट्टस्य॥और्णमेषसमुत्पन्ना शीतवातभयाऽपहा।यस्मात्तुषारहारी स्यादतः शान्तिं प्रयच्छ मे, ऊर्णायाः॥ब्रह्म-

सूत्रं महादिव्यं मया यत्नेन निर्मितम्।ब्राह्मं तन्मेऽस्तु मे देव ब्रह्मसूत्रप्रदानतः, उपवीतस्य।अष्टाविंशतिसंख्याकै रुद्राक्षैर्योजिता मया।अर्पिता तव हस्ते च गृहाण सुरसैन्यप, अक्षमालायाः॥ सर्वविद्याश्रयं ज्ञानकरणं ललिताक्षरम्।पुस्तकं सम्प्रयच्छामि प्रिया भवति भारती, पुस्तकस्य॥कर्पूरः कदलीभूतो देवदेवप्रियः सदा।भाग्योत्तमो नृपाणां च तद्दानात् सुखमस्तु मे, कर्पूरस्य॥जटामांस्युद्भवां देवीमेणनाभिसमुद्भवाम्।भक्त्याहं सम्प्रदास्यामि मम सन्तु मनोरथाः, गन्धद्रव्यस्य॥नन्दनावास मन्दारसखे वृन्दारकार्चित।चन्दन त्वत्प्रसादान्मे सान्द्रानन्दप्रदो भव, चन्दनस्यश्रीखण्डागरुकर्पूरकस्तूरीकुङ्कुमान्वितम्॥विलेपनं प्रयच्छामि सौख्यमस्तु सदा मम, चन्दनाद्यनुलेपनस्य॥समस्तेभ्योऽपि वस्तुभ्यः संस्तुताऽसि सुरासुरैः।विन्यस्त्राङ्गेषु कस्तूरी सुखदाऽस्तु सदा मम, कस्तूर्याः ॥ कन्दर्पदर्पदं यस्मात् कर्पूरं माणतर्पणम्॥अहर्पतिभवस्तापस्त्वद्दानादपसर्पतु, कर्पूरस्य॥यदभुदङ्गसंलग्नं कुङ्कुमादिविलेपनम्।जलक्रीडासु गोपीनां द्वारवत्यां जलार्पितम्॥गोपीचन्दनमित्युक्तं मुनीन्द्रैः कल्मषापहम्। तस्मादस्य प्रदानेन विष्णुर्दिशतु वाञ्छितम्॥गोपीचन्दनस्य॥मणिकाञ्चनपुष्पाणि मणिमुक्तामयानि चतुलसीपत्रदानस्य कलां नार्हन्ति षोडशीम्॥तुलसीपत्रदानाद्वा ब्रह्मणः कायसम्भवम्। पापं प्रशममायातु सर्वे सन्तु मरोरथाः, तुलस्याः॥ह्लादयन्ति मनो यस्मात्तस्मात् सुमनसः स्मृताः।दत्ता ददत मे नित्यमत्याह्लादं सतीं श्रियम्, पुष्पस्य॥इदं फलं मया विप्र प्रभूतं पुरतस्तव।तेन मे सफलाऽवाप्तिर्भवेज्जन्मनिजन्मनि, फलस्य॥ ब्रह्महत्यादिपापघ्नं ब्रह्मणा निर्मितं पुरा।कूष्माण्डं बहुबीजाढ्यमतः शान्तिं प्रयच्छ मे, कूष्माण्डस्य॥ताम्बूलं श्रीकरं भद्रं ब्रह्मविष्णु-

शिवात्मकम्।अस्य प्रदानाद् ब्रह्माद्याः शिवं ददतु पुष्कलम्। ताम्बूलस्य॥ पूरितं पूगपूगेन नागवल्लीदलान्वितम्। चूर्णेन चूर्णपात्रेण कर्पूरपिटकेन च॥सपूगखण्डनं दिव्यं गन्धर्वाप्सरसां प्रियम्।करक त्वं निरातङ्कं त्वत्प्रसादात्कुरुष्व माम्,ताम्बूलकरण्डस्य॥लक्ष्मीप्रिया च लक्ष्मीदा लक्ष्मी च वसनप्रिया।सौभाग्यकृद्वरस्त्रीणां हरिद्रा श्रीप्रदाऽस्तु मे, हरिद्रायाः॥जरा नो जायते यस्मान्मण्डनं शुभकर्मसु।तस्माज्जीरकदानेन प्रीयतां गिरिजा मम, जीरकस्यकञ्चुकीवस्त्रयुग्मैश्च तथा कर्णावतंसकैः।कण्ठसूत्रैश्च भूषाभिः मीयतां निमिनन्दिनी, सौभाग्यद्रव्ययुक्तशूर्पस्य॥ रामपत्नि महाभागे पुण्यमूर्ति निरामये।गृहाणेमानि सूर्पाणि मया दत्तानि जानकि, शूर्पस्य॥नवग्रहदक्षिणादानमन्त्रा मात्स्ये। कपिले सर्वभूतानां पूजनीयाऽसि रोहिणि।सर्वतीर्थमयी यस्मादतः शान्तिंप्रयच्छ मे इति॥

इति श्रीजगद्गुरुभट्टनारायणसूरिसूनुपण्डितशिरोरत्न-

मीमांसकशङ्करभट्टात्मजभट्टनीलकण्ठ कृते

भगवन्तभास्करे दानमयूखः

षष्ठः ६ संपूर्णः ॥

शुभमस्तु ॥

]