[[नारदीयमनुसंहिता Source: EB]]
[
TRIVANDRUM SANSKRIT SERIES
No. XCVII.
Śri Setu LaksmîPrasâdamala
No. IX.
नारदीयमनुसंहिता
भवस्वामिकृतभाष्योपेता
THE
NÁRADĪYAMANUSAMHITÂ
WITH THE
BHÁSYA OF BHAVASVÂMIN
EDITED BY
K. SAMBAŚIVA SASTRI
Curator of the Department for the Publication
of Sanskrit Manuscripts, Trivandrum.
__________
PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OF HER HIGHNESS THE MAHARANI REGLNT OF TRAVANCORE.
________
TRIVANDRUM SANSKRIT SERIES
No. XCVII.
ŚríSetu LaksmíPrasádamála
No. IX.
THE
NÁRADĪYAMANUSAMHITA
WITHTHE
BHÁSYA OF BHAVASVAMIN
EDITED BY
K. SAMBASIVA SASTRI
Curator of the Department for the Publication
ofSanskrit Manuscripts, Trivandrum
_____
FUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OF HER HIGHNESS THE MAHARANI REGLNTOF TRAVANCORE.
_________
TRIVANDRUM:
PRINTED BY THE SUPERINTENDENT, GOVERNMENTPRESS.
1999.
All Rights Reserved.]
अनन्तशयनसंस्कृतग्रन्थावलिः ।
ग्रन्थाङ्कः ९७.
श्रीसेतुलक्ष्मीप्रसादमाला ।
ग्रन्थाङ्कः९.
नारदीयमनुसंहिता
भवस्वामिकृतभाष्योपेता
संस्कृतग्रन्थप्रकाशनकार्याध्यक्षेण
के. साम्वशिवशास्त्रिणा
संशोधिता ।
_________
सा च
अनन्तशयने
महामहिमश्रीसेतुलक्ष्मीमहाराज्ञीशासनेन
राजकीयमुद्रणयन्त्रालये तदध्यक्षेण
मुद्रयित्वा प्रकाशिता ।
__________
कोलम्बाब्दाः ११०४, क्रैस्ताब्दाः १९२९,
INTRODUCTION.
The Nāradiyamani.samhitā now published with Bhāṣya is an important work on Smṛti. The edition of the work is based on the following four manuscripts, about five centuries old.
The first two manuscripts marked क and ख respectively were obtained from Brahmasri Harisvaran Padmanabhan Namburi, Kallampalli, Ettumanur. The first is a complete manuscript while the second runs up to the end of Lekhya-prakaraṇa.
The third marked ग belongs to Brahmasri Visnutratan Sankaran Namburipad, l’azhur Manakkal, Moovattupuzha. A few leaves are missing at the close of this manuscript.
The fourth Manuscript marked घ was lent by Brahmasri Damodaran Namburi, Vaikom. It ends with the eighteen titles of law.
The source of all the four manuscripts is found to be ancient manuscript libraries belonging to Namburi Brahmins of the State of Travancore, a fact evidencing the expert knowledge these Brahmins had in judicial procedure in olden days.
The subject matter of the work is the eighteen titles of law¹as in the Vyavahārādhyāya of Yājñavalkya. At the close of the work is tacked on the chapter on ordeals, but this chapter, I think, is not by Nārada, but a summary by a different hand, of the topics dealt with byNārada1"), andit was not a part of the original work. In support of this view
______________________________________________
(1) “ऋगादानं ह्ययनिधिः संभुयोत्थानमेव च।
दत्तस्य पुनरादानमशुश्रुषाभ्युपेत्य च॥
……………………………………….
……………………………………….
वाकपारुष्यं तथैवोक्तं दण्डपारुष्यमेव च।
द्यूतं प्रकीर्णकं चैवेत्यन्यदशपदः स्मृतः॥” (p 5)
may be mentioned the fact that some verses2quoted by Mitākṣara on Yajñavalkya as Nārada’s are not traceable in the present work, while a few others3 occur with slight variations. The work begins with an introductory chapter known as Vyavahāradarśana4which deals with legal procedure and allied matters.
The closing colophon समाप्तमिदं भगवद्भवस्वामिना कृतं नारदीय मनुसंहिताया भाष्यम् shows that the name of the work is Nāradīyamauusamhitāand the Bhāşya was written by Bhavasvāmi. Commenting on the word Naradiya at the beginning of his Bhāsya, Bhavasvāini observes भगवता नारदेन शास्त्रंप्रणीतमितिसम्बन्धः which leaves no room for doubt as to the authorship of the work by Nārada. From the introductory verse,
मनुः प्रजापतिर्यस्मिन् काले राज्यमबूभुजत् ।
धर्मैकतानाः पुरुषास्त द सन् सत्यवादिनः ॥
and also from the name Nāradīyamanusamhitā, it appears that the present work is an abridgment by Nārada, of the ancient Dharmaśāstra of Manu, for a few verses5 with “) and legal
^()doctrines6 with “विद्याधनं तु यद् यस्य तत् तस्यैव धनं भवेत् । मैत्र्यमौद्वाहिकं चैव माधुपर्किकमेव च ॥”(Manu. IX-206).”) of the extantManu are found to occur similarly in the present text. As to the few discrepancies7 with “……………..तैलस्य च घृतस्य च ………………तन्मूल्याद् द्विगुणो दमः ॥ ”(Manu. VIII 328-9). “) between the two, I think, they may be explained as reflecting the changes that had come about in the social institutions current at the time of Nārada. That Narada was a highly authoritative Smrti-writer is evident from the fact that Vrddha Yājñavalkya mentions8 him as the first among the expounders of Dharma.
We shall now consider when and where the commentator Bhavasvāmi lived. The title Bhagavat prefixed to his name shows that he occupied a very high place among the commentators as well as Nibandhana writers of Dharmasāstra; and the dignified style of the Bhāṣya also is quite in keeping with his venerable position. Among the manuscripts collected by the department, there is a work called Bahvṛca Smārtaprāyscitta, and at the beginning of this work Bhavasvāmi is mentioned9 along with the ancient commentators of Kalpasūtras. A similar mention is also made of him by Vasudēva Dīksita in his commentary called Balamanorama on the Siddhāntakaumudi.10
Keśavasvāmin, the author of Bodhāyanasrautaprayogasāra also refers11 to Bhavasvāmi at the beginning of his work. If this author was the same as Kesavasvāmin ( 1300 A. D.) the author of Nānārthāravasamkṣepa (Tri. Skt. Series Nos. 23, 29 and 31 ), then our commentator may be assigned to a date earlier than the 13th century A. D. The fact that the name Bhavasvāmin is found very common among the Brahmins who officiate as sacrificial priests in Central Kerala and that all the Manuscripts of the Bhāsya were found only in the Kerala country enables us to surmise that Bhavasvāmin may be a Brahmin belonging to Kerala. From the closing colophon12 in the Kamalinikalahamsa of Rājacūḍamaṇi Dīkṣita, who is known to have lived in the first half of the 17th century A. D. it is seen that his grandfather was named Bhavasvāmin. If this Bhavasvāmin was the same as the present commentator, his date may be fixed some half a century earlier than that of Rājacūdāmaṇi Dīkṣita, i. e., in the middle of the 16th century. But as no Bhavasvāmin is known outside Kerala as having commented upon Nārada, I think there is more probability in regarding the commentator as a native of Kerala.
It is a matter of gratification for us that we have been able to publish such rare and valuable works as the Nāradīyamanusamhitā with the Bhāṣya of Bhavasvāmin, and we hope to bring the Sanskrit series to the course of its second century ere long.
Trivandrum,
12-12-1104.
}
**K. SĀMBAŚIVA ŚĀSTR**
ī
.
उपोद्धातः ।
सभाष्येयं नारदीयमनुसंहिता नाम किमप्यपूर्वंस्मृतिशास्त्ररत्नम्। अस्य च संशोधनसङ्घर्षणसमुत्तेजनान्याकरभुवश्चतस्त्रोमातृका अवलम्ब्य निरवर्त्यन्त ।तासु—
प्रथमे क-ख-संज्ञे द्वे एतुमानूर् कल्लम्पल्लिब्रह्मश्रीहरीश्वरन्पद्मनाभन्नम्पूरिस्वामिके भवतः । तयोश्च क–संज्ञा समग्रा ख-संज्ञाल्पा ।
तृतीया ग-संज्ञा—मूवात्तुपुलपालूर्मनक्कल् ब्रह्मश्रीविष्णुत्रातन् शङ्करन्नम्पूरिप्पाटुस्वामिका परिसमाप्तौ किश्चिदूना ।
तुरीया घ-संज्ञा — वैक्कं ब्रह्मश्रीदामोदरन्नम्पूरिस्वामिका, आदितः अष्टादशविवादपदावधिः ।
सर्वा अप्येता माकीं पञ्चशतवत्सरीपर्युषिताः ।
चतसृणामप्यासां मातृकाणामुपलब्धिरस्मद्वञ्चिराज्यादेव समभवदिति किमपीदमनपलपनीयम-भिनन्दनस्थानं नाम । तत्रापिच केरलीयब्राह्मणानामेव ग्रन्थशालान्यासां विश्रमवेश्मान्यवालोकिषतेति तेषामेवैषु केरलेषु व्यवहारकार्ये स्थेयता प्रागवर्ततेति शक्यमूहितुम् ।
याज्ञवल्क्यस्मृतौ व्यवहाराध्यायगतो विषयोऽस्याः संहितायाः प्रधानं प्रतिपाद्यं, तच्च
“ऋणादानं ह्युपनिधिः सम्भूयोत्थानमेव च ।
दत्तस्य पुनरादानमशुश्रूषाभ्युपेत्य च ॥”
इत्यादिभिः
“वाक्पारुष्यं तथैवोक्तं दण्डपारुष्यमेव च ।
द्यूतंप्रकीर्णकं चैवेत्यष्टादशपदः स्मृतः ॥”
(पृष्ठम्. ५)
इत्यन्ताभिश्चकारिकाभिः ऋणादानादिप्रकीर्णकान्तमष्टादशधा विभक्तं ज्ञायते । अथास्मादष्टादशात् प्रकीर्णकाद् विवादपदात् परतः किमपि दिव्यप्रकरणं सभाष्यमुपात्तमस्ति, तथापि तत्रैव
“समाप्तमिदं भगवद्भवस्वामिना कृतं
नारदीयमनुसंहिताया भाष्यम्”
इति ग्रन्थान्तिमवाक्यादवगम्यन्ते । विशिष्य चोपक्रमे नारदीयमनुसंहिताघटकनारदीयपदं व्युत्पादयितुमनसा भाष्यकारेण ‘भगवता नारदेन शास्त्रं प्रणीतमिति सम्बन्धः’इति कथयता नारदकृतत्वं स्पष्टमेवास्याः संहितायाः प्रत्याय्यते ।
“मनुः प्रजापतिर्यस्मिन् काले राज्यमबूभुजत् ।
धर्मैकतानाः पुरुषास्तदासन् सत्यवादिनः ॥”
इति प्रतिपाद्यवस्तुनिर्देशमारभमाणेन प्रकृतसंहिताप्रथमपद्येनातिपुरातनीं मानवीं धर्मसंहितां मनसिकृत्योपनिबद्धाया अस्याः स्थाने मेने नारदीयमनुसंहितानामकरणमिति द्योत्यते । मनुस्मृताविह च पर्यवलोक्यमानमर्थसाम्यं शब्दसाम्यं चेममभ्यूहं स्थिरीकरोति । तत्र
अर्थसाम्यं—
“शौर्यभार्याधने हित्वा यच्च विद्याधनं भवेत् ।
त्रीण्येतान्यविभाज्यानि प्रसादो यश्च पैतृकः ॥”
(नारदी० पृ० १५०. श्लो०६)
“विद्याधनं तु यद्यस्य तत् तस्यैव धनं भवेत् ।
मैत्र्यमौद्वाहिकं चैव माधुपर्किकमेव च ॥”
(मनु० पृ० ३७६. श्लो० २०६ )
शब्दसाम्यम् —
“अष्टापाद्यं तु शूद्रस्य स्तेये भवति किल्बिषम् ।
द्व्यष्टापाद्यं तु वैश्यस्य द्वात्रिंशत् क्षत्रियस्य तु ॥
ब्राह्मणस्य चतुष्षष्टिं मनुः स्वायम्भुवोऽब्रवीत् ।”
(नारदी० पृ० १९०. श्लो० १०९, ११०)
“अष्टापाद्यं तु शूद्रस्य स्तेये भवति किल्बिषम् ।
षोडशैव तु वैश्यस्य द्वात्रिंशत् क्षत्रियस्य तु ॥
ब्राह्मणस्य चतुष्पष्टिः”
(मनु० पृ० ३२६. श्लो० ३३७,३३८)
यत्र क्वचिदधोदर्शयिष्यमाणया दिशा प्रत्यक्षतो जाग्रद् बिसंवादस्तमिमं मनुं नारदीयमनोरन्यं वा स्पष्टमाचष्टाम्, उताहो समयभेदकृतमभिमतान्तरं वावलम्बताम् ।
विसंवादः—
“घृते त्वेकादशगुणं दण्डं दाप्योऽब्रवीन्मनुः ।”
( नारदी० पृ० १८७. श्लो० ८६ )
“………………………तैलस्य च घृतस्य च ।
………………………………………………………..॥
………………………………………………………..।
………………….तन्मूल्याद् द्विगुणो दमः ॥”
( मनु० पृ० ३२४. श्लो० ३२८, ३२९ )
सर्वथा नारदीयमनुसंहिताया असाधारणं किमपि प्रामाणिकत्वं सिद्धमेव ।
तथाच वृद्धयाज्ञवल्क्यो धर्मप्रवक्तृृन् संगृह्णानः
“नारदःपुलहो गार्ग्यःपुलस्त्यः शौनकः क्रतुः ।
बोधायनो जातुकर्णो विश्वामित्रः पितामहः ॥ "
इति प्रथमतो नारदमनुस्मरति ।
अथ भाष्यकारोऽयं भगवद्भवस्वामी कुत्र कदा वा लब्धजीवित इति विचिन्तयामः । एतन्निर्धारणायैकान्तिकं न किमपि प्रमाणमुपलभ्यते । भगवत्पदोपपदा एते भवस्वामिनः स्वतस्सिद्धमतिलौकिकं विज्ञानमाश्रित्यापरोक्षमेवाखिलमपि धर्मतत्त्वमध्यक्षितवन्त इति ततस्ततो भाष्यपङ्क्तेर्निश्चमप्रचम् । प्रामाणिकेषु प्राक्तनेषु कल्पसूत्रव्याख्यातृषु किमप्यन्यतमं स्थानमेषामासीदिति अस्मदधिकरणसंगृहीतबद्वृचस्मार्तप्रायश्चित्तग्रन्थोपक्रमे—
“बोधायनं जैमिनिं च कौषीतक्याश्वलायनौ ।
वाधूलकापस्तम्बादीन् नौमि शाखाप्रवर्तकान् ॥
तत्प्रोक्तकल्पसूत्रादिव्याख्यानक्कृतमानसान् ।
आचार्यानपि सिद्धान्तिभवस्वामिमुखान् भजे ॥”
इति, ब्रह्मश्रीवासुदेवदीक्षितेन विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां स्त्रीप्रत्यये वर्णादनुदात्तात्– ’ (४.१३९) इति सूत्रे एतेति प्रतीकमुपादाय एतशब्दःश्वेतपर्याय इति कल्पसूत्रव्याख्यातारो धूर्तस्वामि-भव-
स्वामि रुद्रदत्तप्रभृतयो याशिकाः’, इति च भागाभ्यां सिध्यति । सोऽयं भवस्वामी बौधायनश्रौतप्रयोगसारग्रन्थ उपक्रमे तत्कर्तृभिः श्रीकेशवस्वामिभिः—
“नारायणादिभिः प्रयोगकारैरेकैकं पक्षमाश्रित्य दर्शपूर्णमासादीनां प्रयोग उक्तः । आचार्यपादैर्द्वेधैव पक्षान्तराण्युक्तानि । भवस्वामिमतानुसारिणा ममा तूभयमञ्जीकृत्य प्रयोगसारः क्रियते” इत्यत्रानुस्मर्यमाणः, केशवस्वामिनामेषामस्मदधिकरणप्रकाशितनानार्थार्णवसंक्षेपकर्तृत्वसम्भावनायां ❋13क्रिस्त्वब्दीयत्रयोदशशतकात् प्राचीनः शक्यमवगन्तुम् ।
अधुनापि भवस्वामिसंज्ञितानां बहूनां याज्ञिकोपाध्यायकुलानां मध्यमकेरलेषु प्रसिद्धेः प्रकृतभाष्यमातृकाणां भूयसीनां केरलान्तर्गतश्रीवञ्चिराज्यभागेभ्य उपलब्धेश्च यावत्प्रमाणान्तरोपमर्दं शक्यसम्भावनोऽयं कश्चित् केरलीयविप्रोत्तमाभिजनः इति ।
यद्येष भबस्वामी महाकवेः क्रिस्त्वब्दीयसप्तदशशतकपूर्वार्धजीविनः श्रीराजचूडामणिदीक्षितस्य कृतौ कमलिनीकलहंसे—
" इति दन्तिद्योतिदिवाप्रदीपाकविश्वामित्रवंशमुक्ताफलसर्वतन्त्रस्वतन्त्रश्रीकृष्णभट्टपौत्रलक्ष्मीभबस्वामिभट्टतनूभवविश्वजिदतिरात्रयाजिश्रीसत्यमङ्गलरत्नखेटश्रीनिवासदीक्षिततनयस्य कामाक्षीगर्भसम्भवस्य श्रीमदर्धनारीश्वरदीक्षितगुरुचरणसहजतालब्धविद्यावैशद्यस्य श्रीराजचूडामणिदीक्षितस्य कृतिषु कमलिनीकलहंसनाटिका समाप्ता ।”
इत्यत्र स्मर्यमाणः भवस्वाम्येव सम्भवेत्, तदा राजचूडामणिदीक्षितात् प्राक्तनतावश्यम्भावेनावरतः किस्त्वब्दीयषोडशशतकपूर्वार्धसन्निहितः समयोऽस्य जीविताधार इति फलति । एवमपि प्रकृतनारदीयमनुसंहिताभाष्यस्य, तत्कर्तुः भवस्वामिनो वृत्तान्तस्य वा विना केरलान् अन्यत्रानुपलब्धेः भाष्यकर्तायं केरलीयः कश्चिदन्य एव भवस्वामी पूर्वोक्तप्रकारेण न नसम्भाव्यः ।
इदमादीनि तानि तानि ग्रन्थरत्नानि प्रकाश्य श्रीसेतुलक्ष्मीप्रसादमालामभिवर्धयितुमुद्युञ्जानोऽहमिमां सभाष्यां नारदीयमनुसंहितां सज्जनसमक्षमवतारयन् मन्ये धन्यः ।
अनन्तशयनम्,
१२-१२-१०४.** **
}
के. साम्बशिवशास्त्री.
<MISSING_FIG href=”../books_images/U-IMG-1695482105S.PNG"/>
विषयानुक्रमणी
______
व्यवहारदर्शनविधिः ।
| विषयः |
| शास्त्रप्रणयनस्य प्रयोजनम् |
| व्यवहारप्रकल्पने हेतुः |
| व्यवहारदर्शने राज्ञः स्थापनम् |
| व्यवहारस्य परिच्छेदकौविधी, तयोः फलं च |
| सोत्तरत्वनिरुत्तरत्वभेदेन व्यवहारस्य द्वैविध्यं, तस्य स्वरूपनिर्वचनं च |
| सोत्तरे विशेषः |
| वादिनो जयापजयसाधनम् |
| व्यवहाराणां द्रष्टारः |
| व्यवहारस्य स्वभावप्रदर्शनपराणां चतुष्पास्वादीनां विवरणम् |
| सम्यग्व्यवहारदर्शनाद् राज्ञः सम्भवन्तः सप्त गुणाः |
| राज्ञो व्यवहारदर्शनप्रकारः |
| चतुष्प्रकारं व्यवहारदर्शनम् |
| व्यवहारनयनरीतिः |
| धर्मशास्त्रार्थशास्त्रयोर्विप्रतिपत्तौ कर्तव्यम् |
| धर्मशास्त्रयोरेव परस्परविरोधे कर्तव्यम् |
| धर्मस्य दुर्ज्ञेयत्वात् लोप्त्रादिना व्यवहारगतिनयनम् |
| परीक्ष्य व्यवहारनयने कारणम् |
| संव्यवहारे निषिद्धा देशकालादिविशेषाः |
| कालहरणक्षमा विवादाः |
| सद्यो विवदनीया व्यवहाराः |
| राज्ञेऽनिवेद्य सन्दिग्धार्थप्रवर्तने दण्डः |
| आसेधनीयः प्रत्यार्थविशेषः, तदासेधनकालावधिश्च |
| चतुष्प्रकारा आसेधाः, तदुक्रमणनिषेधश्च |
| आसेधोत्क्रमणार्हाविषयविशेषाः |
| आसेध्यासेदूध्रोर्दण्डकल्पनाविषयः |
| अनासेध्याः पुरुषाः |
| अभियोगनियमाः |
| व्यवहारहानिप्रयोजिकाः प्रवृत्तयः |
| लिखितसन्निधापनस्य कालः |
| व्यवहारनिर्णये जाते लिखितं निष्फलमित्यत्र दृष्टान्तः |
| यथाकालं वक्तव्याशवचनस्यावश्यकता |
| पुनर्व्यवहारोद्धारस्य विषयः |
| दुर्दृष्टे व्यवहारे सभ्यानां दण्डः |
| सभ्याः, लिखितं, साक्षिणश्चेति त्रयंराज्ञा सम्यक् परीक्ष्यमिति निरूपणम् |
| सभ्यानामुपदेशः |
| तेषां लक्षणम् |
| विशिष्टानां सभ्यानां नियोजने कारणम् |
| सभ्या धर्ममेव वदेयुरिक्त स्थापनम् |
| प्राड्विवाकस्योपदेशः |
| **अथ ऋणादानं प्रथमं विवादपदम् |
| ऋणादानस्वरूपोपन्यासः |
| पित्रा कृतस्य ॠणस्य प्रत्यपयितारः |
| अविभक्तेन पितृव्यादिना कृतस्य प्रत्यर्पयितारः |
| त्रिपुरुषमविसंवादितस्य ऋणस्य दातारः |
| पितुर्ऋणमवश्यं पुत्रैदातव्यमिति प्रतिपादनम् |
| यादृशस्यापि पुत्रकृतस्य ऋणस्य दाने पितुः, पित्रापि कामक्रोधादिना कृतस्य दाने पुत्रस्य च नावकाशः |
| तस्यापवादः |
| कुटुम्बिना दातव्यमृणम् |
| पित्रादिषुप्रोषितेषु सुतस्य तत्कृतऋणप्रत्यर्पणकालः |
| तत्र विशेषः |
| स्त्रिया ऋणदानप्रतिषेधस्तदपवादश्च |
| रिक्थिसम्बद्धमृणम् |
| भार्याकृतस्य ऋणस्य दाने पत्युर्निषेधस्तदपवादश्च |
| स्त्रिया ऋणदानप्रातिषेधे न्यायः |
| पत्यौ मृते तस्कृतस्य ऋणस्य प्रत्यर्पणे सम्बद्धाः |
| गृहक्षेत्रयोर्दानादिषु स्त्रीणामधिकाराभावः, तदपवादश्च |
| अस्वतन्त्रत्वात् पुत्रेण दासेन च कृतस्य दानादेरप्रामाण्यम् |
| स्वतन्त्रस्याप्यप्राप्तव्यवहारस्य पुत्रस्य पितृकृतऋणादाने न दोषः |
| स्वतन्त्राःपुरुषाः |
| अस्वतन्त्राः |
| सहेतुकं पित्रादिषु स्वातन्त्र्यस्थापनम् |
| स्वतन्त्रेणापि प्रकृतिस्थेनैव कृतं प्रमाणम् |
| अप्रकृतिस्था नराः |
| क्रयविक्रयादिषु प्रमाणभूताः |
| धनस्य वधनादिरूपा त्रिविधा गतिः |
| धनस्य शुद्धत्वादिरूपं गुणत्रैविश्यम् |
| त्रिविधस्याप्यस्य पुनः प्रत्येकं सतविक्त्व तदविवरणं च |
| तत्तद्धनानुरूपस्य कर्मणः फलम् |
| धर्म्यस्य धनस्य द्वादशविधत्वम् |
| तत्र सर्ववर्णसाधारणं धनत्रयम् |
| ब्राह्मणक्षत्रियवश्यानां प्रतिनियतं धनमयम् |
| शुद्रस्य धनम् |
| धर्म्याधर्म्यधनयोरुपसंहारः |
| आपद्धर्माः |
| आपद्यपि ब्राह्मणस्य वार्षलधर्मपरिहे, वृषलभ्य ब्राह्मणधर्मपरिग्रहे चोभयोः पतनीयत्वम् |
| क्वचिद् वर्णान्तरविहितस्यापि धर्मविशेषस्य परिग्रहेऽभ्यनुज्ञा |
| ब्राह्मणःक्षत्रवृत्त्या आपदं तीर्त्वा पुनस्तामुत्सृज्य प्रायश्चित्तमाचरेद्अन्यथा अपाङ्केयस्यात् |
| अवस्थाविशेषे ब्राह्मणस्य वैश्यवृत्त्यङ्गीकारेऽपि तेनविकेयाण वस्तूनि |
| विक्रेयाणि वस्तूनि |
| प्रतिषिद्धानां वस्तूनां विशिष्ट विषये प्रतिप्रसवः |
| अविक्रयाणि विक्रीणानी ब्राह्मणो राज्ञा मार्गे स्थाप्यः |
| धनस्वीकरणे प्रमाणं लिखितादिकं यत्नात् संरक्ष्यम् |
| लिखितदिषुत्रिषु प्रमाणेषु कस्य बलीयस्त्वमिति विचारः |
| भुक्तिरूपस्य प्रमाणस्य गरीयस्त्वेकारणम् |
| सन्निहितएवसन्नन्येन दश वर्षाणि भज्यमानस्य प्रतीकारकर्वन्तन्न लभते, तत्सम्बद्धो व्यवहारश्च न |
| तत्र विशेषः |
| आध्यादीन्युपभोगेन न जीर्यान्त |
| अस्यापवादः |
| क्वचिदागमस्य प्रामाण्यम् |
| पित्रादिनाविसंवादेन भुक्तं पुनस्तस्मिन् मृते तद्वेश्यभोग्यताभियत् |
| जीवति तु तस्मिन् तदुद्धारक्रमः |
| अन्वाहितादिषु भोगोऽप्रमाणम् |
| आरूढव्यवहारे पितरि मृते पुत्रेण तद्व्यवहारविषगोऽर्थः शोध्यः |
| क्रमात् त्रिपुरुषागतस्य प्रामाण्यम् |
| वचनमात्रेण साक्षिणां मृते धनिन्यप्रामाण्यं तदपवादश्च |
| धनिनोऽभावे साक्षिमतः पत्रस्य प्रामाण्यम् |
| मुमूर्षुणा श्रावितस्य साक्षिणः प्रामाण्ये विषयविशेषप्रदर्शनम् |
| पत्रसाक्षिभोगेषु क्वचित् पूर्वपूर्वस्य, क्वचिदुत्तरोत्तरस्य प्राबल्यम् |
| कुसीदस्वरूपनिर्देशः |
| कायिकादिभेदेन वृद्धेश्चातुर्विध्यं तद्विवरणं च |
| देशाद्यपेक्षया दृश्यमाना वृद्धिभेदाः |
| हिरण्यधान्यादीनां वृद्धिक्रमः |
| अपरिभाषिताया वृद्धेर्विधिः |
| वार्धुष्यस्वरूपप्रदर्शनम् |
| वैश्वस्य वार्धुषकर्मणा जीवनमापद्येव, कष्टास्वयपत्सु ब्राह्मणस्य तेन जीवनं प्रतिषिद्धम् |
| ब्राह्मणाद् गृहीतमृणं तस्यैव निर्वपेत् तदभाव तदन्वयस्य |
| तदन्वयभावे कर्तव्यस्योपदेशः |
| तत्तत्काल गृहीतमुदयं प्रति लेख्यदानाय याचितस्योत्तमर्णस्यनददाने मूलधनस्यापि हानिः |
| धनि कर्णिकयोर्विशुद्ध्यौपायिकं कर्म |
| मत्तस्य पुनरादानाद्यर्थौद्वौविस्रम्भहेतु |
| तत्र प्रतिभुवस्त्रैविध्यम् |
| अधमर्णेषु ऋणमददत्सु प्रतिभुवः कृत्यम् |
| बहुषुप्रतिभूषु सत्सु ऋणप्रत्यर्पणविधिः |
| प्रतिभुवा दत्ते ऋणे ऋणिकस्य कर्तव्यम् |
| आधिशब्दनिर्वचनम्, आधेर्द्वैविध्यंच |
| द्विविधस्यापि नस्य पुनः प्रत्येकं द्वैविध्यं तत्स्वरूपप्रदर्शनं च |
| धनिनःप्रमादाद् आधावन्यथाभूते विनष्टे वा विधिस्तद्पवादश्च |
| रक्ष्यमाणस्याप्याधेःकालवशात् क्षये जाते ऋणिकस्य कृत्यम् |
| दौरात्म्याद् ऋणिके ऋणमददति दण्डः |
| कालविपर्ययाद् ऋणं प्रत्यर्पयितुमशक्तस्य ऋणिकस्य तदर्पणप्रकारः |
| आधिद्रव्यस्य मूल्यपरिमाणाविसंवादाय पत्रं मूल्यपरिच्छेदः कर्तव्यः |
| लेख्यस्य द्वैविध्यम् |
| द्विविधस्यापि तस्य पुनः प्रत्येकं द्वैविध्यम् |
| प्रमाणत्वेन निर्दिष्टस्य लेख्यस्य लक्षणम् |
| मत्तादिभिरुपकल्पितं लेख्यमप्रमाणम् |
| अस्थिराध्याश्रयस्य च तस्य क्वचिदप्रामाण्यम् |
| विना पत्रेण स्थावरस्य जङ्गमस्याप्याधेर्भोगेनैव सिद्धिः |
| धनिकादिषु मृतेष्वपि प्रमाणभूतं लेक्ष्यम् |
| तेषु जीवत्स्वप्यप्रमाणं लेख्यम् |
| देशान्तरन्यस्तादिषु लेख्येषु कर्तव्यम् |
| दृश्यमाने लेख्येसंशने जाते तदुद्धारकमः |
| पितृभ्रात्रादिभयेन श्वशुगदिनाम्नाङ्किते लेख्ये श्वशुरादिभिर्गमैवेदमिति विसंवादिते तत्परीक्षणरीतिः |
| लिखितादिव्यवहारस्य समापनविधिः |
| पत्रसाक्षिणोः पत्रमेव प्रमाणम् |
| लिखितेषु च्छिन्नाद्यवस्थापन्त्रेषु कर्तव्यम् |
| संशयितेषु व्यवहारेषु साक्षिभ्यस्तत्त्वबोधनम् |
| साक्षिशब्दनिर्वचनादि |
| कृताकृतभेदेन द्विप्रकारस्य साक्षिणः प्रभेदाः |
| तत्र पञ्चविधः कृतसाक्षी |
| षड्विधोऽकृतसाक्षी |
| साक्षिणां लक्षणम् |
| ब्राह्मणादिषु साक्षिणः |
| श्रेण्यादिषु साक्षिणोऽसाक्षिणश्च |
| पञ्चप्रकारा असाक्षिणः |
| श्रोत्रियादीनामसाक्षित्वे हेतुः |
| श्रोत्रियादेः, असाक्षित्वहेतोश्च विवरणम् |
| कलहादौपूर्वपक्षस्य साक्षीत्युक्तिःतदपवादश्च |
| परसाक्षिणा सह रहसि सम्भाषणादिके कृतं पराजयः |
| उद्दिष्टस्य साक्षिणोमरणादिषु तत्कृत्यनिर्वहणप्रकारः |
| लिखितस्य साक्षिणःपत्रारोपणविधिः |
| स्मारितादीनां चतुर्णांसाक्षिणां प्रामाण्यकालः |
| स्मृत्यपेक्षं साक्षित्वमिति स्थ. ‘नम् |
| असाक्षिप्रत्ययाः षड् विवादाः |
| पारुष्येतुपरीक्षणं कर्तव्यम् |
| सोपपत्तिकं तद्विवरणम् |
| अर्थसम्बन्धादिना प्रतिदूषिताः साक्षिणः |
| साक्षित्वानर्हादासादयः |
| क्वचित् कार्यगौरवात् तेषामपि साक्षित्वम् |
| यदृच्छासाक्षिणां विषयाः |
| तत्रापि बालादीनामसाक्षित्वे कारणम् |
| एकस्याप्युभयानुमतस्य साक्षिणःप्रामाण्यम् |
| कूटसाक्षिपरिज्ञानोपायाः |
| पूर्वमभ्युपगम्य पश्चाद् निहूनुवानस्य दण्डः |
| साक्षिणःशपथैर्नियम्य पृच्छेत् |
| यत्र वर्णक्रमेण शापनप्रकारः |
| साक्षिश्रावणवचनानि |
| साक्षिणां विप्रतिपत्तौ कर्तव्यम् |
| साक्षी प्रश्नकाले अक्षरानुरूपं भाषयितव्यः |
| लिखितैर्देशकालादिभिः साक्षिवचनस्य वैरूप्ये पराजयः |
| लिखिताद् ऊनस्याधिकस्य वार्थस्यावचन |
| लेख्यसाक्ष्यभावे, ग्राहकस्य तदर्थनिह्नवे च त्रिविधो निर्णयप्रकारः |
| चादनाया अप्रतिघाते सर्वमर्थं दद्यात् |
| प्रनिहतायां तु चोदनायां युक्तिलेशैस्तत्त्वोद्धारक्रमः |
| युक्तिष्वसमर्थासु शपथैस्तन्निर्णयप्रकारः |
| सर्वार्थापह्नवे विहितस्य विधेरन्यत्रातिदेशः |
| शपथस्व शुद्ध्युपायत्वेन स्वीकरणे शिष्टाचारः प्रमाणम् |
| चौर्यादिषु स्वयं प्रतिपत्तौ विहितादर्धेदण्डः |
| पापं कृत्वा गृहमानस्य सम्भवन्तो दोषाः |
| **अथ औषानधिकं द्वितीयं विवादपदम् |
| निक्षेपद्रव्यसामान्यलक्षणम् |
| उपनिधिद्रव्यलक्षणम् |
| निक्षेपस्य द्वैविध्यं, तत्प्रत्यर्पणप्रकारश्च |
| निक्षेपस्यादानादौ दण्डः |
| तस्यापवादः |
| निक्षेपविधेर्याचितान्वाहितादिष्वतिदेशः |
| **अथ सम्भूयसमुत्थानं तृतीयं विवादपदम् |
| सम्भूयसमुथाननिर्वचनम् |
| सम्भूयसमुत्थायिनां लाभविभागः |
| तेषां क्षयव्ययप्रत्यवेक्षणम् |
| सम्भूयकारिणां सर्वेषां सम्मतिपूर्वकमेव कृत्यजातं निर्वर्तनीयम् |
| देवादिकृते व्यसने तद्धनं स्वशक्त्या रक्षतोऽशाधिक्यम् |
| सम्भूयकारिष्वेकस्य मरणादिषु विधिः |
| अस्य ऋत्विग्विषयेऽतिदेशः |
| ऋत्विग्याज्ययोर्निष्कारणं परस्परत्यागे दण्डः |
| ऋत्विजस्त्रैविध्यम् |
| यदृच्छोपनतस्य ऋत्विजस्त्यांग दण्डाभावः |
| वणिक्शुल्कमदत्त्वा शुल्कस्थानं न लङ्घयेत् |
| शुल्कादाने पण्यपरिमाणनिह्नवे च दण्डः |
| विदेशीयस्य सभाण्डस्य वणिजो मरणे तद्धनस्य विनियोगः |
| अथ दत्ताप्रदानिकं चतुर्थं विवादपदम् |
| दत्ताप्रदानिकस्य स्वरूपनिर्देशः |
| देयादिभेदेन चतुर्विधो दानमार्गः |
| देयादेयादीनां विभागः |
| तत्राष्टावदेयानि |
| एकविधं देयम् |
| सप्तविधानि दत्तानि |
| षोडशविधान्यदत्तानि |
| अदेयादत्तयोर्दाता प्रतिग्रहीता च दण्ड्यः |
| **अथ अभ्युपेत्याशुश्रूषा पञ्चमं विवादपदम् |
| अभ्युपेत्याशुश्रूषास्वरूपप्रदर्शनम् |
| शुश्रूषकस्य पञ्चविधत्वम् |
| तत्र चतुष्प्रकाराःकर्मकराः |
| द्विविधं कर्म, तदधिकारिणश्च |
| तत्राशुभानि कर्माणि |
| तेषु शुभकर्माधिकारिणः शिष्यस्य चर्या |
| गुरोरनुशासनम् |
| शिष्यवृत्युपसंहारः |
| अथान्तेवासिधर्माः |
| अन्तेवामिष्वाचार्यस्य वृत्तिः |
| आकरणमाचार्यं परित्यजतोऽन्तेवासिनो दण्डः |
| शिक्षाकालेष्वन्तेवासिना लब्धं स्वशिल्पनिमित्तंधनमाचार्यस्यैव |
| अन्तेवासिकृत्योपसंहारः |
| उत्तमादिभेदेन भृतकस्य त्रैविध्यम् |
| उत्तमादयो भृतकाः |
| अथ कर्मकरभेदस्याधिकर्मकृतो लक्षणम् |
| शुश्रूषकभेदस्य दासस्य लक्षणं तद्भेदाश्च |
| गृहजातादीनां चतुर्णां दासविशेषाणां मोक्षणाभावः तदपवादश्च |
| अशनादिभृतस्य आधतस्य न मोक्षणविधिः |
| ऋणान्मोचितस्यान्येषां च युद्धप्राप्तादीनां मोक्षणविधिः |
| तत्र प्रव्रज्रापसृतस्य, आत्मविक्रेतुश्चमोक्षणाभावः |
| चारैरपहत्यविक्रीतानां बलाद् दासीकृतानां च दासत्वाभावः |
| वर्णानां प्रातिलोम्येन दासत्वस्य निषेधः, तदपवादश्च |
| अस्वातन्त्र्येण तवाम्मीत्यागतस्य दासत्वेनिर्णयः |
| भार्यादाससुतानां धनं स्वामिन एव |
| स्वदासस्यादासीकरणेऽनुष्ठातव्य पूर्वाचारः |
| अथ वेतनस्यानपाकर्म षष्ठं विवादपदम् |
| वेतनस्यानपाकर्मणःस्वरूपम् |
| भृतिदानप्रकारः |
| वणिग्गोपादिविषये विशेषः |
| वणिगादिभिःकर्मोपकरणं तुलारज्ज्वादि रक्षणीयम् |
| प्रतिश्रुत्य गृहीत्वा वा भृतिं कर्माकुर्वतां दण्डः |
| एतावद् ददामाीति प्रतिवृत्य भाण्डादिकमयतः अर्धपथे भृत्यंत्यजतश्च स्वामिनो दण्डः |
| परिभाषिते काले अपूर्णे स्वेच्छया कर्म त्यजतो भृत्यस्य दण्डः |
| स्वामिदोषादपक्रमणे दातव्या भृतिः |
| विशिष्टाध्ववाहनाय भृतौ कल्पितायां मध्येपथं युग्यादीनि त्यजतो भृत्यस्य, कर्म कारयित्वा भूतिमददतः स्वामिनश्चदण्डः |
| वाहनानयनादौवाहकस्य दण्डः |
| वाहकप्रमादाद् भाण्डस्यनाशादौदण्डः |
| गोपविषये वेतनकल्पना |
| गोसंरक्षणप्रकारः |
| गवां चोरणादौप्रतीकारमकुर्वतः स्वामिने वृत्तनिवेदयतश्च दण्डः |
| गोपस्य प्रमादाद् गवां नाशे दण्डः |
| अवरुद्धमजाविकं वृकादीनां प्रसह्यहरणादरक्षतोगोपस्य दण्डः |
| दण्डकल्पनापेता विषयावशेषाः |
| अजापालविधेर्गोमहिषादिपालेष्वति देशः |
| अजादीनां मरणे गोपालस्य शुद्धिसाधनम् |
| शुल्कं गृहीत्वा पुरुषमनिच्छन्त्याः पण्यस्त्रियाः, तामनुभूय शुल्कमददतःपुरुषस्य च दण्डः |
| अनिच्छन्त्यामयोनौक्रममाणस्य, बहुभिस्तांवासयतत्रदण्डः |
| समयपूर्वकं परगृहाङ्कणेगृहं निर्माय बसतो विधिः |
| नान्तरोयकतया विक्रीतैः सह दत्तेषु शकटघटादिषु विधिः |
| अथ अस्वामिविक्रयः सप्तमं विवादपदम् |
| अस्वामिविक्रयस्य स्वरूपनिरूपणम् |
| अस्वामिना विक्रीतस्य गवादेः पुनः स्वामिना ममेति विशोध्य स्वीकरणम् |
| अस्वामिनः सकाशात् प्रकाशं क्रयाद् मूल्यस्य नाशः, रहः क्रयाच्चौर्यम् |
| स्वाम्यननुज्ञाताद् दासांदितो रहस्यल्पेन मूल्येनावेलायां क्रयस्य निषेधः |
| प्रकाशक्रये विक्रतुः प्रच्छादनात्चोरदण्डः |
| अस्वामिविक्रये विक्रेतुर्दण्डः |
| निधी राजग्राह्यइत्यत्र हेतुः |
| विप्रो लब्धं निधि राज्ञे निवेद्यभुञ्जीत, अन्यथा तत् चौर्यम् |
| नष्टमित्यवघोषितमात्मीयं द्रव्यं पुनर्लब्ध्वा राज्ञे निवेदयेत् अनिवेदनेऽशुद्ध इत्युक्तिः |
| **अथ विक्रीयासम्प्रदानमष्टमं विवादपदम् |
| विक्रीयासम्प्रदानस्य स्वरूपम् |
| स्थावरजङ्गमात्मकस्य पण्यद्रव्यस्य षट्प्रकारत्वम् |
| विक्रीयासंप्रयच्छतो दण्डः |
| असंप्रदानेन कालान्तरेऽर्धहान्यादौ दण्डः |
| निर्दोषं पण्यं दर्शयित्वा सदोषं प्रयच्छतो दण्डः |
| ददामीत्यन्यस्मान्मूल्यं गृहीत्वा अन्यत्र विक्रये दण्डः, तदपवादश्च |
| अदत्तमूल्यविषये निर्णयः |
| वणिग् देशकालानुरूपमर्धंप्रकल्पयेदिति प्रतिपादनम् |
| अथ क्रीत्वानुशयो नवमं विवादपदम् |
| क्रीत्वानुशयस्य स्वरूपप्रदर्शनम् |
| प्रत्यर्पणकालनियमः |
| द्वितीयादिदिने प्रत्यर्पणव्यवस्था |
| क्रयात् पूर्वमेव पण्यपरीक्षणे प्रत्यर्पणाभावः |
| दोह्यादीनां परीक्षाकालः |
| ज्ञात्वा क्रीतानां परिभुक्तादिवाससां प्रत्यर्पणाभावः |
| सकृद्धौतादिषु मूल्यांशस्य ह्रासः |
| अग्निसङ्गमात् संस्क्रियमाणानां रजतादीनां क्षयः |
| प्रताप्यमानेऽपि सुवर्णे क्षयाभावः |
| वस्त्रकम्बलादीनां संस्कारे वृद्धिक्रमः |
| कौशेयानां वल्कलानां च वृद्धिह्रासाभावः |
| पण्यवस्तुक्रयेवणिज उपदेशः |
| अथ समग्रस्वानपाकर्म दशमं विवादपदम् |
| समयस्यानपाकर्मणःस्वरूपम् |
| पाषण्डादीनां समुदायधर्मो राज्ञा परिपाल्यस्तदपवादश्च |
| राज्ञा निगृह्य निवारणीया विषयविशेषाः |
| तेषामनुपेक्षणे हेतुः |
| अथ क्षेत्रविवाद एकादशं विवादपदम् |
| क्षेत्रविवादस्वरूपप्रदर्शनम् |
| क्षेत्रसीमाविवादे व्यवस्थापकाः |
| ग्रासीमाविवादे सीमादर्शकाः |
| सीमानिर्णयोपायाः |
| अनृतवादिनां सामन्तादीनां दण्डः |
| सीमानिर्णयो वहुभिः कर्तव्य इति प्रतिपादनम् |
| अगत्या एकस्य सीमोन्नयने विधिः |
| ज्ञातॄणां चिह्नस्य चाभावे सीमोद्धरणप्रकारः |
| सीमानिर्णयविधेरारामादिष्वति देशः |
| अवस्करादिभिश्चतुष्पथादिदूषणस्य निषेधः |
| भाविनं महान्तं गुणमुद्दिश्य परक्षेत्रमध्येऽपि सेतुकरणस्याभ्यनुज्ञा |
| सेतोद्वैविध्यं, तत्स्वरूपप्रदर्शनादि च |
| स्वामिनमननुज्ञाप्य उत्सन्नं सेतुं संस्कुर्वतः तत्फलभोगाभावः |
| स्वामिनि तद्वंश्ये वा मृते कर्तव्यम् |
| क्षेत्रिकेष्वशक्तताद्यवस्थामापन्नेषु तत्क्षेत्रं कृषतः फलोपभोगः |
| विकृष्यमाणे क्षेत्रे स्वामिन आगमने कर्तव्यम् |
| अष्टभागोपचयादिषु विधिः |
| अर्धखिलादीनां स्वरूपप्रदर्शनं, पञ्चवर्षोत्सृष्टस्य क्षेत्रस्य स्वायत्तीकरणप्रकारश्च |
| अविच्छेदेन त्रिपुरुषं भुज्यमानस्य क्षेत्रादेर्भोगःपरस्य न दातव्यः,तदपवादश्व |
| वृतिमुत्क्रम्य गवादिभिः सस्यधाते कृते शक्तौ सत्यामप्यनिवारयन्पालो दण्ड्यः |
| समूलसस्यनाशे गोस्वामिनः पालस्य च दण्डः, तदपवादश्च |
| सस्यघातप्रयुक्तस्य दण्डस्य प्रदर्शनम् |
| अदण्डया हस्त्यादयः |
| द्विगुणादिदण्डप्रकल्पनाविषयाः |
| क्वचित् पालस्यादण्ड्यत्वम् |
| गोभिर्भक्षिते धान्ये क्षेत्रस्वामिने देयस्य धान्यस्य परिच्छेदः, तुषबुसादीनां विनियोगश्च |
| ग्रामोपान्तादौ स्थितेषु क्षेत्रेषु वृतावकृतायां गवादिभिःसस्यघातेपालस्य गोमिनश्च दण्डाभावः |
| पथिक्षेत्रे कार्याया वृतेः प्रमाणम् |
| कर्षकक्षेत्रिकयोरुपदेशः |
| अथ स्त्रीपुंसयोगो द्वादशं विवादपदम् |
| स्त्रीपुंसयोगस्य स्वरूपविवरणम् |
| द्विलक्षणःकन्यासंस्कारः |
| तत्र पाणिग्रहणस्य प्राधान्यम् |
| त्रैवर्णिकानां दारपरिग्रहे स्त्रीपुंसयोः समानजातीयत्वं श्रेयः |
| चतुर्वर्णानामनुलोमप्रतिलोमक्रमेण कति दाराः पतयश्चेति चिन्तनम् |
| अविवाह्या बान्धवाः |
| कन्यालब्धावर्हस्य पुंसो लक्षणम् |
| चतुर्दशविधानां षण्डानां विवरणम् |
| तेषां हानोपादानप्रयुक्ता चिन्ता |
| परीक्ष्य पुरुषाय कन्या देयेति प्रतिपादनम् |
| कन्यादानेऽधिकारिणः |
| स्वयंवरणे निर्दिष्टावस्था |
| पतिवराया उपदेशः |
| अनिर्वृत्तपाणिग्रहणे वरे देशान्तरं गते कन्यायाः कर्तव्यम् |
| ऋतुमुपेक्षमाणानां बान्धवानां निन्दा |
| रजस्यप्रवृत्त एवं कन्यामनुरूपाय वराय दद्यादिति स्थापनम् |
| सकृत्कियार्हस्त्रिविधो विषयविशेषः |
| सकृत् कन्यादानं ब्राह्मादिषु पञ्चस्वेव, अन्यत्र गुणापेक्षम् |
| शुल्कग्रहणकाले प्रशस्यतरस्य वरान्तरस्यागमने पूर्वस्य परित्यागाय |
| धर्मादियुक्तस्यानृतवचनस्याभ्यनुज्ञा |
| कन्यावरयोरन्योन्यमकारणत्यागस्य निषेधः |
| शुल्कग्रहणादिना दानमभ्युपेत्य पुनस्तस्मै कन्यामददतो दण्डः |
| कन्यादोषमनाख्याय प्रयच्छतो दण्डः |
| कन्यायाः अकन्यात्वख्यापने दण्डः |
| कन्यां प्रतिगृह्यानिमित्तमुत्सृजतो दण्डः |
| सर्वथा वर्ज्याः कन्यादोषाः |
| तादृशा वरदोषाः |
| ब्राह्मादयोऽष्टौ विवाहास्तल्लक्षणं च |
| तेषु धर्म्याणामधर्म्याणां न प्रदर्शनम् |
| त्रिविधाः पुनर्भ्वः |
| चतुर्विधाःस्वैरिण्यः |
| तासामापेक्षिकमुत्तमाधमत्वम् |
| शुल्कोपनतायाः अपत्यमुत्पादयितुरेव |
| अशुल्कोपनतायास्तु क्षेत्रिण इत्यत्र त्रयो दृष्टान्ताः |
| पत्यनुमत्योत्पादितमपत्यं बीजिनः क्षेत्रिकस्यापि भवतीति स्थापनम् |
| स्त्रीसङ्ग्रहणस्य स्वरूपप्रदर्शनम् |
| साहसदोषानहर्हो विषयः |
| त्रयः सङ्ग्रहणक्रमाः |
| सप्त सङ्ग्रहणलिङ्गानि |
| स्वजात्यतिक्रमादिषु दण्डः |
| कन्यायां सवर्णे सकामायां विधिः |
| गुरुतल्पास्तद्गमने दण्डश्च |
| गवादियोन्यामतिक्रमेदण्डः |
| अगम्यागामिषु दण्डपातस्यावश्यकता |
| आनुलोम्येन गम्याः स्त्रियः |
| अवस्थाविशेषे गम्यानामप्यगम्यत्वम् |
| नियोगविधिः |
| अनियोगेन पुत्रोत्पादने दोषः |
| कुलरक्षणार्थो नियोगविशेषस्तन्नियमास्तदुल्लङ्घने दण्ड्यता च |
| दम्पत्योरन्योन्यमीर्ष्यादिप्रयुक्तस्य विवादस्य दर्शने अन्येषामनधिकारित्वम् |
| अन्योन्यविरुद्धयोः परस्परत्यागे दण्डाभावः, तदपवादक्श्च |
| जातव्यभिचारायाः स्त्रिया वेषवृत्त्यादिकम् |
| निर्वासनीयाः स्त्रियः |
| अनिच्छतोवन्ध्यादिस्त्राभिरगणे दण्डाभावः |
| अनुरूपादिकां त्यजतस्तस्यामेव व्यवस्थापनम् |
| रोषात् पतिगृहान्निर्गतायाः प्रतिसन्धानम् |
| पत्युः प्रव्रजनादिष्वपि अक्षतयोनेः पतिलोकेच्छायां पत्यन्तरानाश्रयणम् |
| प्रतिविधानमकृत्वा प्रोषितस्य पत्युर्वर्णक्रमेण प्रतीक्षणकालः |
| अत्र जीवतीति श्रूयमाणे पत्यौ तत्प्रतीक्षणकालः |
| पत्यावनागतेऽन्याश्रयणं न दोषः, किन्तु नायं धर्म इत्युपदेशः |
| वर्णसङ्करस्योद्भवः |
| अनुलोमप्रतिलोमजातानां प्रदर्शनम् |
| अथ दायविभागस्त्रयोदशं विवादपदम् |
| दायविभागस्वरूपम् |
| मातापित्रोर्धनस्य विभागस्तत्कालश्च |
| पितुरिच्छया विभागः |
| पितर्युपरते कुटुम्बभारवाही |
| अविभाज्यानि धनानि |
| षड्विधं स्त्रीधनम् |
| विवाहभेदेन स्त्रीधनस्य विभागः |
| ‘अविभाज्यं विद्याधनमि’त्युक्तस्यापवादः |
| स्वेच्छया विभागे पितुर्द्विगुणांशित्वम् |
| पितुरूर्ध्वे विभागे मातुः स्वपुत्रसमांशित्वम् |
| ज्येष्ठपुत्रविषये उद्वारविभागः |
| अप्रत्ताया भगिन्या अपि समांशभाक्त्वम् |
| क्षेत्रजातेष्वंशविभागः |
| समहीनाधिकांशविभागे पितुरिच्छैव नियामिका |
| वोढुर्दायहराः पुत्राः |
| अज्ञातपितृकस्य मातामहधनभाक्त्वम् |
| अनियुक्तायामुत्पन्नस्य बीजिधनभाक्त्वम् |
| तस्यामेवाशुल्कोपनतायां विशेषः |
| औरसानामप्यवस्थाविशेषेंऽशभाक्त्वाभावः |
| क्षयादिदीर्घरोगग्रस्तानां जडादीनां चाशनमात्रं, तत्पुत्राणां त्वंशभाक्त्वम् |
| यामुष्यायणविषये धनविभागः |
| संसृष्टिनां धनस्य विभागः |
| विभक्तेष्वसंसृष्टेषु अनपत्यस्य दायहराः |
| भर्तृशय्यां रक्षन्तीनां तस्य भार्याणामाजीवनाद्दायादैर्मरणीयत्वम् |
| दुहितृविषयकं भरणम् |
| पत्यौ मृतेऽपुत्रायाः पतिष्पर्धानत्वम् |
| तस्याः पितृपक्षाधीनत्वस्य निर्दिष्टोऽवस्थाविशेषः |
| उभयपक्षाभावे तस्या भरणेऽधिकारी |
| स्त्रीणां स्वातन्त्र्यनिषेधः |
| पैतृके ऋणे सति दायविभागप्रकारः |
| अकृतसंस्काराणां भ्रातृणां संस्करणविषयको नियमः |
| कुटुम्बकार्यैकव्यापृतभितरे पोषयेयुः |
| असन्देहार्थं स्वजनैर्भागलेख्यं कार्यम् |
| विभक्तैर्वैश्वदेवादिकं पृथक् कर्तव्यम् |
| तेषां लाभव्ययदानग्रहणादिकं च पृथक् |
| विभक्तानामेव परस्परं साक्षित्वादिकं प्रमाणम् |
| पृथक्पाकादिकं विभक्तानवगमयति |
| विभक्ताश्चौर्याद्यकार्येषु एकत्वेन न सम्मताः |
| ते यथेच्छं स्वधनं क्रयविक्रयादिषूपयुञ्जीरन् |
| औरसादयो द्वादशविधाः पुत्राः |
| तेषु दायादादायादानां विभागः, भरणौपयिकं तेषामुत्तमाधमप्रदर्शनं च |
| तेषु सर्वेषु सत्सु दायभागक्रमः |
| तेषां सर्वेषामभावे दुहितुर्दायभाक्त्वम् |
| दुहितॄणामप्यभावे दायहराः |
| ब्राह्मणस्वं राजा न हरेत्, हरंस्तु तत्स्त्रीणां जीवनं दद्यात् |
| अथ साहसं चतुर्दशं विवादपदम् |
| साहसलक्षणम् |
| प्रथमादिभेदेन साहसस्य त्रैविध्यम् |
| तत्र प्रथमं साहसम् |
| मध्यमं साहसम् |
| उत्तमं साहसम् |
| प्रथमादिसाहसानां दण्डविशेषाः |
| ब्राह्मणस्य दण्डः |
| आद्ययोः साहसयोः कर्तारौ कृतप्रायश्चित्तौ संव्यवहार्यौ, उत्तमसाहसस्यकर्ता सर्वथा असंव्यवहार्यः |
| स्तैयसाहसयोर्भेदः |
| प्रथमादिभेदन स्तेयस्य त्रैविध्यम् |
| तत्र प्रथमं स्तेयम् |
| मध्यमं स्तेयम् |
| उत्तमं स्तेयम् |
| स्तेयलक्षणम् |
| स्तेयसम्भावनाप्रकारः |
| स्तेनानां भक्तादिदानात् तत्तुल्यदोषत्वम् |
| साहसोक्तस्य दण्डस्य स्तेयेऽतिदेशः |
| गवादिषु प्रनष्टेषु तदन्वेषणप्रकारः |
| पदं यत्र ग्रामादौ प्रविष्टं, तेन चोरदोषोऽनुभवितव्यः |
| ग्रामाद् वहिःपदस्य प्रमूढत्वादौ सन्निहिते ग्रामादौ चोरदोषः पातयितव्यः |
| तुल्याध्वनोर्द्वयोर्ग्रामयोः सन्निहितियोः यत्र द्यूतकरशौण्डिकाद्यसज्जनबाहुल्यंतत्र स दोषः पातयितव्यः |
| ग्रामेषु बहिश्च चोरान्वेषणकारिणः |
| स्तेनेष्वलभमानेषु राजैव तद्धनं दद्यात् |
| अथ वाक्पारुष्यं पञ्चदशं षोडशं च विवादपदम् |
| वाक्पारुष्यलक्षणम् |
| त्रिविधं वाक्पारुष्यं तद्विवरणं च |
| दण्डपारुष्यलक्षणम् |
| मृद्वादिभेदन त्रिविधस्य दण्डपारुण्यस्य विवरणम् |
| साहसदण्डपारुष्ययोः साम्यम् |
| पञ्च पारुष्यविधयः |
| चण्डालादिषु धनदण्डाभावे कारणम् |
| ब्राह्मणमाक्रोशतः क्षत्रियादेर्दण्डः |
| क्षत्रियादीनाक्रोशतो ब्राह्मणस्य दण्डः |
| समवर्णाक्रोशे दण्डः |
| काणादीनुद्दिश्य काणेत्यादि ब्रुवतां दण्डः |
| कृतप्रायश्चित्तं राज्ञा दण्डितं च दूषयितुर्दण्ड्यत्वं, तत्र हेतुश्च |
| उक्ते विषये दण्डप्रकारः |
| रोषेण नामजातिमहणे दण्डः |
| दर्पाद् ब्राह्मणस्य धर्मोपदेशं कुर्वतः शूद्रस्य दण्डः |
| येनाङ्गेन ब्राह्मणमितरो वर्णःप्रहरेत् तस्य छेदेन शुद्धिः |
| उत्कृष्टेनावरवर्णस्य सहासनेच्छायां दण्डः |
| दर्पादवनिष्ठीवतोऽवमूत्रयतश्च दण्डः |
| केशादिषु गृढतो दण्डः |
| न्याय्ये पथि व्यवस्थितं राजानमुपकोशतो दण्डः |
| कृतागसमपि राजानं प्रहरतो दण्डः |
| पुत्रादीनामपराधे पित्रादेर्दण्डा भावस्तदपवादश्च |
| **अथ द्यूतसमाह्वयं सप्तदशं विवादपदम् |
| द्यूतसमाह्वयस्य स्वरूपकथनम् |
| द्यूतसभाधिकारिणो वृत्तिः |
| जयपराजयप्रदर्शनम् |
| कितवेषु साक्षित्वादिकं कितवानामेव |
| कितवसभिकयोरुपदेशः |
| कूटाक्षदेविनो दण्डः |
| अथ प्रकीर्णकमष्टादशं विवादपदम् |
| प्रकीर्णक क्रोडीकृता विषयाः |
| राज्ञउपदेशः |
| राज्ञा प्रवर्तितान् धर्मानरक्षतो दण्डः |
| सर्वस्वहरणेऽपि हरणानर्हाणि वस्तूनि |
| इदानीन्तन इति सुराजा न परिभवितव्य इति प्रतिपादनम् |
| दण्डधारस्य राज्ञोऽभावे सम्भवन्तो दोषाः |
| राजधर्मस्य सङ्ग्रहः |
| दण्ड्यान् दण्डयन् राजा न दोषभागित्यत्र दृष्टान्तः |
| साध्वसाधु वा राज्ञा उक्तं प्रमाणमिति स्थापनम् |
| तेन कृतमपि प्रमाणमित्यत्र हेतुः |
| विगुणोऽपि राजा प्रजानां पूज्य इत्यत्र दृष्टान्तः |
| राजवचसि स्थातव्यमिति पूर्वमुपक्षिप्तस्यैव पुनः प्रदर्शनम् |
| राज्ञांस्वतः सिद्धानि पञ्च रूपाणि, तद्विवरणं च |
| राज्ञां कर्तव्यम् |
| ब्राह्मणस्य परवस्तुपरिग्रहे नियमः |
| राज्ञइव ब्राह्मणस्यापि प्रजारक्षकत्वम् |
| धर्मज्ञस्य राज्ञो धनं शुद्धमिति दृष्टान्तप्रदर्शनपुरस्सरं स्थापनम् |
| करमुज्झित्वान्यत् स्वं धनं ब्राह्मणेभ्यः प्रयच्छन् राज्ञानुमन्तव्यः |
| करावर्जनेन दानस्याभ्यनुज्ञायां दोषः |
| ब्राह्मणस्य कर्म वृत्तिश्व |
| तस्य प्रतिग्रहविषयक उपदेशः |
| राज्ञः सकाशात् प्रतिग्रहे दोषाभाव इति प्रतिपादनम् |
| अष्टौमङ्गलानि |
| एषां दर्शनादिषु फलम् |
| तस्कराणां द्वैविध्यम् |
| तत्र प्रकाशतस्कराः |
| अप्रकाशतस्कराः |
| तेषां सङ्ग्रहणोपायः |
| गृहीता अपि चोरा विचार्य शासनीयाः |
| निर्णीतचौर्याणां दण्डनप्रकारः |
| सर्वस्वहरणार्हाश्चोराः |
| सलोप्त्राणां विमर्शनप्रकारः |
| लोप्त्राभावे चौर्योन्नयनक्रमः |
| शङ्कालेशे कर्तव्यम् |
| चोरवद् गणनीयाः पुरुषाः |
| ग्रामादिना मुषितद्रव्यदापनम् |
| मोषसम्भवं प्रति विप्रतिपन्नेषु दण्डवासिकादिषु कर्तव्यम् |
| अचोरे दापिते पुनश्चोरोपलब्धौ अभियोक्तुर्दण्डः |
| पूर्वं स्वामिना प्रतिपादितस्य मोषद्रव्यरूपादेः पञ्चाद् विसंवादे जातेतस्य दण्डः |
| काष्ठकाण्डादीनामल्पमूल्यानां हरणे दण्डः |
| बस्त्रकुङ्कुमादीनामुत्कृष्टमूल्यानां हरणे दण्डः |
| दशकुम्भादभ्यधिकं धान्यादिकं हरतो दण्डः |
| हिरण्यादीन् हरतो दण्डः |
| पुरुषादीन् हरतो दण्डः |
| पूर्वसाहसदण्डस्य स्वशास्त्रे कृता परिभाषा |
| मध्यमोत्तमसाहसदण्डयोःपरिभाषा |
| शारीरदण्डमात्रस्य तद्विशिष्टस्यार्थदण्डस्य च विषयः |
| दण्डप्रकल्पनासामान्यविधिः |
| शारीरदण्डस्य दश स्थानानि |
| दण्डोऽपराधदेशकालाद्यनुरूपतया पातनीय इत्युपदेशः |
| निष्पक्षपातं दण्ड्येष्ववश्यं समुचितो दण्डःपातनीयः |
| सर्वपापेष्वपि ब्राह्मणस्य निर्वासनमात्रम् |
| तस्याङ्कनार्हाश्चत्वारोऽपराधास्तदनुरूपा अङ्काश्च |
| पश्चात्तपतःस्तेनस्य कृत्यम् |
| दण्डपातनं दृष्टादृष्टफलकमिति प्रतिपादनम् |
| वर्णभेदेन दण्डभेदः |
| संक्षेपेण द्विविधस्य दण्डस्य प्रदर्शनम् |
| अर्थदण्डोपयोगिषु काकण्यादिषु कृता नियमाः |
| देशभेदेन कार्षापणपणयोर्मानम् |
| कार्षापणादिवित्रकानान्युन्मानानि |
| राजोपदेशोपसंहारः |
| **अथ दिव्यप्रकरणम् |
| दिव्यस्य विषयः |
| पञ्च दिव्यानि |
| तत्र घटस्य लक्षणं स्थापनं च |
| घटेन शोधनप्रकारः |
| घटशब्दार्थः घटाभिमन्त्रणमन्त्रश्च |
| अग्निदिव्ये मण्डललक्षणम् |
| अग्नितप्तेन लोहपिण्डेन शोधनप्रकारः |
| अग्न्यभिमन्त्रणमन्त्रः |
| उदकदिव्येन शोधनप्रकारः |
| अत्रानर्हःस्त्रियः पुरुषाश्च |
| शुद्धस्याशुद्धस्य च लक्षणम् |
| मज्जतस्तोयमध्येऽवस्थानप्रकारः |
| शुद्धेन जलादुत्थाय कर्तव्यः समुदाचारः |
| उदकाभिमन्त्रणमन्त्रः |
| विषदिव्येन शोधनस्य कालनियमः |
| अत्र शोधने वर्ज्यान्युपादेयानि च विषाणि |
| विषदिव्येऽर्हा अनर्हाश्च |
| देयस्य विषस्य मात्रा संस्कारश्व |
| विषखादनविधिः |
| तेन शुद्धस्य लक्षणम् |
| विषाभिमन्त्रणमन्त्रः |
| कोशदिव्येन शोधनस्य कालनियमादिकम् |
| कोशपानोपयुक्तं जलं, तत्पानप्रकारश्च |
| तत्र शुद्धिनिर्णयोपायः |
| ब्रह्महत्यादौ कोशदिव्यस्य निषेधः |
| देवनास्नानजलस्याभिमन्त्रणमन्त्रः |
| यथावत् पञ्च दिव्यानि ददतो राज्ञ उभयलोकसुखावाप्तिः |
॥ श्रीः ॥
नारदीयमनुसंहिता
भवस्वामिप्रणीतभाष्योपेता ।
_________
मनुः प्रजापतिर्यस्मिन् काले राज्यमबूभुजम् ।
धर्मैकतानाः पुरुषास्तदासन् सत्यवादिनः ॥ १ ॥
सर्वो धर्मो वर्णाश्रमान्तरजानां14 स्मृतः । तस्य धर्मस्यार्थाधीनत्वात् कथं नाम निःश्रेयसाभ्युदयाभ्यां पुरुषाः संयुज्यन्तामिति भगवता नारदेन शास्त्रं प्रणीतमिति सम्बन्धः । मनुः प्रजापतिरित्यादि । निगदव्याख्यानो ग्रन्थः । धर्मैकतानाःधर्मैकविस्तारा15 धर्मैकव्यापाराः16 । अस्यैवानुवादः सत्यवादिनइति । तदासन् । पुरुषा इति स्त्रीषुं(सां ? सानां ) ग्रहणम् । ‘पुमांस्त्रिया’ (१-२-६७) इत्येकशेषः । तदा व्यवहारहेतुमत्सराद्यभावादधर्माभावान्नासीद् व्यवहारः ॥१॥
नष्टे धर्मे मनुष्येषु व्यवहारः प्रकल्पितः ।
द्रष्टा च व्यवहाराणां राजा दण्डधरः कृतः ॥ २ ॥
नष्टे धर्मे मनुष्येषु ।कालदोषालष्टे ।नाश (शब्द ? ) श्व धर्मानुबन्धः । मनुष्यग्रहणं देवनिवृत्त्यर्थम् । व्यवहारो न्यायोऽन्यायनिवृत्त्यर्थं मन्वादिभिः शिष्टैःप्रवर्तितः । द्रष्टा च तस्य न्यायस्य राजा, अन्यायप्रवृ17त्तानां दण्डस्य धारयिता, सामर्थ्यात् स्वधर्मस्थानामनुग्राहकश्च कृतः ॥२॥
लिखितं सांक्षिणश्चात्र द्वौ विधी सम्प्रवर्तितौ ।
सन्दिग्धार्थविशुद्धयर्थं द्वयोर्विवदमानयोः ॥ ३ ॥
लिखितं साक्षिणश्च तस्य न्यायाख्यस्य व्यवहारस्याङ्गं, याभ्यां परिच्छिद्यते व्यवहारः । तावत्र द्वौ विधी सम्प्रवर्तितौ लिखितं साक्षिणश्च । तावुत्तरत्र विशेष्यते इति प्रयोजनमाह— सन्दिग्धार्थविशुद्धधर्ममिति । सन्दिग्ध-
श्वासावर्थश्च सन्दिग्धार्थः तस्य विशुद्धिः निर्णयः तदर्थम् । नार्थःसन्दिह्यते, तद्विषये प्रमाणानुपलब्धौ पुरुषस्य संशयप्रत्यय उत्पद्यते, तन्निमित्तत्वादर्थः सन्दिग्ध उच्यते । स एव प्रमाणेन निर्णयप्रत्यय उत्पन्ने विशुद्ध उच्यते । परमार्थत एकरूप एव सः । न तस्य शुद्धयशुद्धी स्तः । द्वयोरिति । यद्यपि द्वयोर्बहूनां च भवति, द्व्यषिष्ठानत्वाद् विवादस्य द्वयोरित्युक्तम् ॥ ३ ॥
सोत्तरोऽनुत्तरश्चैव स विज्ञेयो द्विलक्षणः ।
सोत्तरोऽभ्यधिको यत्र विलेखापूर्वकः पणः ॥ ४ ॥
स व्यवहारो द्विलक्षणःसोत्तरश्चानुत्तरश्च । एवशब्दःप्रकारान्तराभावार्थः। सहोत्तरेण सोत्तरः ।अविद्यमानोत्तरोऽनुत्तरः । सोऽनन्तरं विशेष्यते । तदर्थमुत्तरं तावद् ब्रवीतीति अभ्यधिकः ।यस्मिन् व्यवहारे । लेखा अक्षरविन्यासः । शास्त्रविगता लेखा यस्याः18, विलेखा इच्छा, तत्पूर्वको विलेखापूर्वकः19 । न शास्त्रकृतः,स्वेच्छाकृत इत्यर्थः। एतेन पणेनोत्तरेण सोत्तरः । अर्थादस्याभावोऽनुत्तर इति भवति ॥४॥
विवादे सोत्तरपणे द्वयोर्यस्तत्र हीयते ।
स पणंस्वकृतं दाप्यो विनयं च पराजये ॥ ५ ॥
सोत्तरस्य विशेष उच्यते । विवादे सोत्तरपण \। विरुद्धो वादो विवादः, अन्योऽन्यथा ब्रवीति अन्यश्चान्यथा । द्वयोः सोत्तरपणयोर्यस्तत्र हीयते पराजीयते स पणं स्वकृतं दाप्यःयेन दश कृतं स दश, येन विंशतिः स विंशति- (रि ? मि) ति । किञ्च विनयं च पराजये । तस्मिन् व्यवहारे पराजये यः शास्त्रोक्तो दण्डः तं च । एकस्य सोत्तरपणत्वेऽप्यनेनैव गतार्थत्वान्नोक्तम् ॥ ५ ॥
सारस्तु व्यवहाराणां प्रतिज्ञा समुदाहृता ।
तद्धानौ हीयते वादी तरंस्तामुत्तरो भवेत् ॥ ६ ॥
प्रधानं व्यवहाराणां प्रतिज्ञोक्ता । तद्धानौ हानिरन्यथाभावः अन्यथोक्ते20ऽन्यथाभावे पराजीयते । यथोक्तं “प्रतिज्ञां21 निर्वहञ् जयति, तस्मात् सुपरीक्ष्य प्रतिज्ञा कर्तव्या22, तन्मूलत्वात् सर्वस्ये23” ति ॥ ६ ॥
कुलानि श्रेणयश्चैव गणाचाधिकृता नृपैः ।
प्रतिष्ठा व्यवहारस्य गुर्वेषामुत्तरोत्तरम् ॥ ७ ॥
कुलानि उभाभ्यामानीता नीतिज्ञाः । श्रेणयो वणिगादयः । अधिकृताश्च नृपैःस्थानेषु राजभिः स्वामित्वेन नियुक्ताः । नृपा इति पाठे राजानश्च । प्रतितिष्ठन्त्यस्यां व्यवहारा इति प्रतिष्ठा । प्रतिष्ठाशब्दःप्रत्येकमभिसम्बध्यते । एषामन्यतमेन वर्गेण शास्त्रोक्तेन विधिना स्वसमयेन वा निर्णीतो व्यवहारः सिध्यति । उत्तरोत्तरं पूर्वस्मात् पूर्वस्मात् गुरुतरं भवति प्रमाणतैरं24 भवतीत्यर्थः । एवं ब्रुवतैतदुक्तं भवति—अर्वाक् पुनदर्शनप्रसङ्गोऽस्ति, नृपेण तु दृष्टे तत उत्तरस्य गुरुतरम्याभावात् पुनःप्रसङ्गो नास्तीति । अन्ये ब्रुवते— एवानुज्ञाता नृपैः प्रतिष्ठेति । असी…. नेन युक्तानामनुपसङ्ग्रहः । तदर्थमेव च नियुक्तानां स्वामित्वेन कुलादीनां केवलानामप्रामाण्यं स्यात् । ततश्च25 नृपग्रहणेन नियुक्तानां अपि गृह्यन्ते । नॄन् पालयतीति नृपः इति परित्यक्तरूढित्वात्क्रियाशब्दःस्यात् । ततश्च ‘तैरनुज्ञाता’ इति वचनात् तेषां प्रामाण्यं गम्यत इत्युपपद्यते ॥ ७ ॥
स चतुष्पाच्चतुःस्थानश्चतुःसाधन एव च ।
चतुर्हितश्चतुर्व्यापी चतुष्कारीति कीर्त्यते ॥ ८ ॥
अष्टाङ्गोऽष्टादशपदः शतशाखस्तथैव च ।
त्रियोनिव्द्यभियोगश्च द्विद्वारो द्विगतिस्तथा ॥ ९ ॥
एतौ संक्षेप लोकी । एतेऽर्थाःक्रमेण प्रत्येकं विशेष्यन्ते ॥ ८, ९ ॥
चतुष्पादित्युक्तं, तान विशिनष्टि—
धर्मश्च व्यवहारश्च चरित्रं राजशासनम् ।
चतुष्पाव्द्यवहारोऽयमुत्तरःपूर्वबाधकः ॥ १० ॥
इदानीमेते चत्वारः पादा विशेष्यन्ते—
तत्र सत्ये स्थितो धर्मो व्यवहारस्तु साक्षिषु ।
चरित्रं पुस्तकरणे राजाज्ञायां तु शासनम् ॥ ११ ॥
तत्र तेषु चतुर्षु सत्ये स्थितो धर्मः । तथाभूताख्याने उभयोरपि प्रतिपत्तौ साक्ष्यादिभिः प्रयोजनाभावाद् धर्मव्यवहारः26। यथा कश्चिद् ब्रूयात् ‘ममासौ धारयति, दाप्यतामिति । स्वामिनाहूय पृष्टः स चाह ‘सत्यं धारयामि ददानि चे’ ति समाप्तो धर्मव्यवहारः । व्यवहारस्तु साक्षिष्विति । विसंवादे साक्षिभिनिर्णीयते, स साक्षिव्यवहारः । चरित्रं पुस्तकरण इति । लेख्येन निर्णीयते,
तच्चरित्रम् । ‘चरित्रं सङ्ग्रहः पुंसामिति पाठान्तरम् । पारम्पर्याविच्छिन्नस्मृति–देशाधिष्ठानगणधर्मः सत्पुरुषैः परिगृहीतः तस्मिन् स्थित इति सम्बन्धः । स तथैव द्रष्टव्यः । राजाज्ञायां तु शासनमिति । राज्ञामाज्ञा राजाज्ञा, तत्र स्थितं शासनम् । राज्ञ इच्छा यथा तथाज्ञासिद्धिः । अत्रोत्तरोत्तरं पूर्वस्य पूर्वस्य बाधकं, पूर्वेण पूर्वेणासिद्धावुत्तरोत्तरेण सिध्यतीति ॥ ११ ॥
सामाद्युपायसाध्यत्वाच्चतुःसाधन उच्यते ।
चतुर्णामाश्रमाणां च रक्षणात् स चतुर्हितः ॥१२॥
पादःस्थानमित्युभयं विशेषितम् । इदानीं चतुःसाधनत्वं चतुर्हितत्वं चोच्यते । सामदानभेददण्डैःसाध्यत इति चतुःसाधनः । सामसाधनः ‘सत्यं ब्रूहिविद्वत्कु27लजोऽमि शुभास्ते लोका भविष्यन्ती’ति । दानेन किञ्चिद् दत्त्वैकदेशमोक्षणाभयदानेन वा । भेदन तर्जनादिना। दण्डेन ताडनधनादानादिना । चतुर्णामाश्रमाणामिति प्रदर्शनार्थत्वात् चतुर्णां वर्णानामपि रक्षणात् म चतुर्हितः ॥१२॥
कर्तॄनथो साक्षिणश्च सभ्यान् राजानमेव च ।
व्याप्नोति पादशो यस्माच्चतुर्व्यापी ततः स्मृतः ॥ १३ ॥
कर्तृसाक्षिसभ्यनृपाणां पादशो व्यापनादसम्यग्दर्शननिमित्तस्याधर्मस्य सम्यग्दर्शनानिमित्तस्य धर्मस्य च व्याप्तेश्चतुर्व्यापीत्युच्यते ॥ १३ ॥
धर्मस्यार्थस्य यशसो लोकपक्तेस्तथैव च ।
चतुर्णां करणादेषां चतुष्कारी प्रकीर्तितः ॥ १४ ॥
धर्मादीनां चतुर्णां करणाञ्चतुष्कारी । धर्मः सम्यग्दर्शनात् साध्वसाधूनां शिष्टपरिपालननिमित्तः । अर्थश्च पराजितदण्डादानात्28 । सम्बक्करणादलोभाच्च कीर्तिः ।लोकपक्तिरनुरागः । अनुरागादपहृतमपि ददाति, परचक्रादिषु साहास्यमपि करोति ॥ १४ ॥
राजा सपुरुषः सभ्याः शास्त्रं गणकलेखकौ ।
हिरण्यमग्निरुदकमष्टाङ्गः स उदाहृतः ॥ १५ ॥
राजा सह पुरुषैः सपुरुषः अङ्गम् । तदधीनत्वात् पुरुषानयनधारणादिषु व्याप्तियन्ते पुरुषाः । सभ्याः युक्तिविचारशीलिनः । शास्त्रम् अनुमानगम्येऽर्थे
कर्तव्यताप्रतिपादनेन । गणकः सङ्ख्याविषये ।लेखकः पूर्वपक्षोत्तरपक्षाक्षरविन्यासे । हिरण्याग्न्युदकानि समयादौ । एवमष्टाङ्गः ॥ १५ ॥
ऋणादानं ह्युपनिधिः सम्भूयोत्थानमेव च ।
दत्तस्य पुनरादानमशुश्रूषाभ्युपेत्य च ॥ १६ ॥
वेतनस्यानपाकर्म तथैवास्वामिविक्रयः ।
विक्रीयासम्प्रदानं च क्रीत्वानुशय एव च ॥ १७ ॥
समयस्यानपाकर्म विवादः क्षेत्रजस्तथा ।
स्त्रीपुंसयोश्च सम्बन्धो दायभागोऽथ साहसम् ॥ १८ ॥
वाक्पारुष्यं तथैवोक्तं दण्डपारुष्यमेव च ।
द्यूतं प्रकीर्णकं चैवेत्यष्टादशपदः स्मृतः ॥ १९ ॥
ऋणादानादीनि प्रकीर्णकान्तान्यष्टादश विवादपदान्युत्तरत्र प्रत्येकं व्यास्वास्यन्ते ॥ १६-१९ ॥
एषामेव प्रभेदोऽन्यः शतमष्टोत्तरं स्मृतः ।
क्रियाभेदान्मनुष्याणां शतशाखो निगद्यते ॥ २० ॥
एषामेव प्रभेदो वक्ष्यमाणः शतमष्टोत्तरम् ।यथा ऋणादानादौ देयमदेयमित्यादि । क्रियाभेदान्मनुष्याणां चेष्टप्रत्ययभेदात् शतशाखो बहुशाख उच्यते ॥२०॥
कामात् क्रोधाञ्च लोभाच्च त्रिभ्यो यस्मात् प्रवर्तते ।
त्रियोनिः कीर्त्यते तेन त्रयमेतद् विवादकृत् ॥ २१ ॥
कामादिभ्यस्त्रिभ्यः प्रवर्तनात् त्रियोनिः । यस्मादेतत् त्रयमपि निहवाभियोगवाग्दण्डपारुष्यदिद्वारेण विवादस्य कारणम् ॥२१॥
व्द्यभियोगस्तु विज्ञेयः शङ्कातचाभि29योगतः ।
शङ्कासतां तु संसर्गात् तत्त्वं होढादिदर्शनात् ॥ २२ ॥
अभियुज्यत इत्यभियोगः । द्वाभ्यामभियोगो द्व्यभियोगः । द्वावमियोगौ यस्येति वा । स एवं विज्ञेयः शङ्काभियोगात् तत्त्वाभियोगाच्च । शङ्का स्तेनादि30संसर्गात् । साहचर्यात् । तत्त्वं होढादिदर्शनात् अपह्नुतहृतैकदेशलिङ्गदर्शनात् ॥ २२ ॥
सभाष्यायां नारदीयमनुसंहितायां
पक्षद्वयाभिसम्बन्धाद् द्विर्द्वारः स उदाहृतः ।
पूर्ववादस्तयोः पक्षःप्रतिपक्षस्तदुत्तरः ॥२३॥
पूर्वोत्तरपक्षसम्बन्धाद् द्विर्द्वारस्ताभ्यां हि सम्प्रवर्तते ॥२३॥
भूतच्छलानुसारित्वाद् द्विगतिः स उदाहृतः ।
भूतं तत्त्वार्थयुक्तं तत् प्रमादाभिहितं छलम् ॥ २४ ॥
भृतानुसारित्वाच्छलानुसारित्वाच्च द्विगतिः । भूतं तयोरर्थतत्त्वं, यत्तत्त्वानुसारेणार्थनयनम् । प्रमादोक्तिपरिग्रहेणार्थनयनं छलम् ॥ २४ ॥
तत्र शिष्टं छलं राजा मर्षयेद् धर्मसाधनः ।
भूतमेव प्रपद्येत धर्ममूला यतः श्रियः ॥ २५ ॥
शिष्टं हितम् । शिष्टं छलं31 वाक्छलं राजा मर्षयेद् धर्मसाधनः32 । ‘कृत्यल्युटो बहुलम्’ (३-३-११३) इति ल्युट् ।बहुलवचनात् कर्मणि ल्युट् । धर्मः साधनो यस्य राज्ञःस राजा धर्मसाधनः । स वाक्छलं मर्षयेद्, भूतमेव प्रपद्येत न प्रमादाभिहितं परिगृह्णीयात् । धर्ममूला यतः श्रियः यम्माच्छ्रियो धर्ममूलाः । बहुवचननिर्देशो धनराष्ट्रसाधनदृष्टादृष्टनिमित्तोपमङ्ग्र33हणार्थः ॥२५॥
धर्मेणोद्धरतो राज्ञो व्यवहारान् कृतात्मनः ।
सम्भवन्ति गुणाः सप्त सप्त वह्नेरिवार्चिषः ॥ २६ ॥
धर्मेण शास्त्रोक्तेन न्यायेन उद्धरतो निर्णयतो व्यवहारान् कृतात्मनः । कृतात्मत्वमनौदासीन्यम् । प्रादुर्भवन्ति गुणाः सप्त वक्ष्यमाणाः, अग्नेर्यथा सप्तार्चिषः’सप्तजिह्वा’ इति दर्शनात् । सम्यग्व्यवहारदर्शननिमित्तैर्गुणैः तस्य स्तुत्या कर्तव्यतोच्यते ॥ २६ ॥
धर्मश्चार्थश्च कीर्तिश्च लोकपक्तिरुपग्रहः ।
प्रजाभ्यो बहुमानं च स्वर्ग34स्थानं च शाश्वतम् ॥ २७ ॥
धर्मःशिष्टानुग्रहात् स्वधर्मानुष्ठानात् । अर्थस्तत एव निष्पद्यते । कीर्तिरपक्षपातात् साधुकारीति । लोकपक्तिर्दुष्टनिग्रहात् । उपग्रह आश्रयणीयत्वात् अविसंवादाद् धर्मेसर्वहितत्वात् । प्रजाभ्यः पूजा च । स्वर्ग-
वासश्चनित्यं ‘राजभिर्घृतदण्डा’ इत्यादिश्रवणाद् दुष्टानामपि स्वर्गप्रापणात्शिष्टदुष्टानुग्रहनिमित्ताद् धर्मतः ॥ २७ ॥
तस्माद् धर्मासनं प्राप्य राजा विगतमत्सरः ।
समःस्यात् सर्वभूतेषु बिभ्रद् वैवस्वतं व्रतम् ॥ २८ ॥
यस्मादेते गुणाः, तस्माद् धर्मासनस्थः विगतमत्सरो विगतलोभः । तथाच मत्सर इति लोभनामेत्युक्तं निरुक्ते । समः प्रियद्वेष्वयोस्तुल्यः । एतदेव वैवस्वतं व्रतम् ॥२८॥
धर्मशास्त्रं पुरस्कृत्य प्राड्विवाकमते स्थितः ।
समाहितमतिः पश्येद् व्यवहाराननुक्रमात् ॥ २९ ॥
धर्मशास्त्रं प्रमाणं कृत्वा धर्मशास्त्रोक्तचिकीर्षयेत्यर्थः । प्राड्विवाकसहायः, तेन सह विचार्येत्यर्थः। प्राविवाको धर्मपाठकः ।पृच्छतीति प्राड्, विविधान् नयान् वदतीति विवाकः । पूर्वपक्षोत्तरपक्षौ पृच्छति विविधान् नयान् वदतीत्यर्थः । सम्पदादिपाठाद् भावे वा क्विप् । प्रश्नान् विशेषेणापाकरो35तीति प्राड्विवाकः । समाहितमतिरव्यग्रचित्तः । व्यग्रचित्तः कदाचिदन्यथा कुर्यात् । अनुक्रमात्, अनु परिपाट्या, यस्य व्यग्रहारस्य यः क्रम उक्तस्तेन क्रमेण ॥ २९ ॥
आगमःप्रथमः कार्यो व्यवहारपदं ततः ।
विवि36त्सा निर्णयश्चेति दर्शनं स्याच्चतुर्विधम् ॥ ३० ॥
स क्रम उच्यते । आगमोऽर्थिवचनश्रवणम् । व्यवहारपदमृणादानाद्यन्थतमान्तर्भावानुरूपाक्षरविन्यासः । विवि37त्सा निवेशिताक्षरप्रतिवचनविचारणा । निर्णयः साक्षिपत्रभोगसमयदिव्यै राजाज्ञयावा जयावधारणम् । चतुष्प्रकारं व्यवहारदर्शनमेवं समाप्यते ॥ ३० ॥
धर्मशास्त्रार्थशास्त्राभ्यामविरोधन पार्थिवः ।
समीक्षमाणो निपुणं व्यवहारगतीर्घनाः ॥ ३१ ॥
यथा मृगस्य विद्धस्य मृगव्याधः पदं नयेत् ।
कक्षे शोणितलेशेन तथा धर्मपदं नयेत् ॥ ३२ ॥
श्लोकद्वयेन वाक्यपरिसमाप्तिः । धर्मशास्त्रवदर्थशास्त्रस्यापि प्रामाण्यादुभाभ्यामविरोधेन सम्यक् []38 पश्यन्38 व्यवहारप्रकारान्36 गहनान्36 दुर्शानान्39 मयेदिति सम्बन्धः । यथा मृगस्य विद्धस्यादृश्यमानस्य लुब्धकः कक्षे शोणितलेशानुसारेण प40दं नयति यावद् दृष्ट इति, तथा तेन प्रकारेण व्यवहारस्य गतिमन्त्यां नयेत् शोणितस्थानीयैः प्रत्यक्षानुमानागमैर्वक्ष्यमाणैर्लोप्तृमुखविकारबाक्यासङ्गतादिभिः ॥ ३१, ३२ ॥
यत्र विप्रतिपत्तिः स्याद् धर्मशास्त्रार्थशास्त्रयोः ।
अर्थशास्त्रोक्तमुत्सृज्य धर्मशास्त्रोक्तमाचरेत् ॥ ३३ ॥
यत्र धर्मशास्त्रार्थशास्त्रयोर्विरोधः अन्यथा धर्मशास्त्रप्रवृत्तिरन्यथार्थशास्त्रप्रवृत्तिः, तत्रार्थशास्त्रोक्तमुत्सृज्य तस्य दृष्टार्थत्वाद् धर्मशास्त्रोक्तमाचरेद् धर्मशास्त्रोक्तं कुर्यात् । तस्या41गृह्यमाणप्रकारत्वात् ॥३३॥
धर्मशास्त्रविरोधे तु युक्तियुक्तोऽपि धर्मतः ।
व्यवहारो हि बलवान् धर्मस्तेनापचीयते ॥ ३४ ॥
धर्मशास्त्रार्थशास्त्रयोर्विरोधे धर्मशास्त्रोक्तमाचरदित्युक्तं, धर्मशास्त्रयोरेव विरोध उच्यते—युक्तियुक्तम् अपयुक्तिमुक्तं गृह्णीयाद् , इतरत्र तदनुरोधेन गौणं वा कल्प्यमप्रमाणं वा । यथा क्वचिदुक्तं हंसो भक्ष्य इति । अन्यत्राभक्ष्य इत्युक्तम् । तत्रागृह्यमाणकारणत्वात्42प्रतिषेधम्य न किञ्चिद् दृष्टं प्रयोजनमस्तीति43 प्रामाण्यमस्यावसीयते । इतरथो44त्सर्गः । एवं सर्वत्र । तस्माद् युक्तियुक्तस्याश्रयणम्, इतरस्याश्रयणे यस्माद् धर्मो हीयते । कुतः, व्यवहारो हि बलवान् । अन्यथादृष्टो युक्तियु (क्तो? क्ता) पो45श्रयणे (न ? क्ता) बलवत्त्वादधर्ममुत्पादयति । तस्माद् युक्तियुक्ताश्रयणे प्रमाणद्वय सन्निधानान्न हास्यते धर्म इति ॥३४॥
सूक्ष्मो हि बलवान् धर्मो दुर्विचारस्त्वतीन्द्रियः ।
अतः प्रत्यक्षमार्गेण व्यवहारगतिं नयेत् ॥ ३५ ॥
सूक्ष्मो दुर्बोधो दुर्विचारः अनुमानादिभिरशक्यो विचारयितुं यथा च न सम्प्रतिपत्तव्यः । अतीन्द्रियः परोक्षः चक्षुरादिभिरग्राह्यः । तस्मात् प्रत्यक्षमार्गेण प्रत्यक्षपूर्वकं लोपत्रादिना व्यवहारं नयेत् ॥ ३५ ॥
यात्यचोरोऽपि चोरत्वं चोरवायात्यचोरताम् ।
अचोरश्चोरतां प्राप्तो माण्डव्यो व्यवहारतः ॥३६॥
परीक्ष्य नयने कारणमुच्यते । दुर्दर्शनेन अचोरश्चोरतां याति, चोरोऽप्यचोरत्वम् ।अचोरः सन् चोरतां प्राप्तो माण्डव्योऽसम्यग्व्यवहारदर्शनदोषेण । तस्मात् प्रत्यक्षेऽपि लोप्त्रादौ सुविचार्य निश्चयः कार्यः ॥ ३६ ॥
स्त्रीषु रात्रौ बहिर्ग्रामादन्तर्वेश्मन्यरातिषु ।
व्यवहारः कृतोऽप्येषु पुनः कर्तव्यतामियात् ॥३७॥
स्त्रीषु स्त्रीमध्ये ।कृत इति प्रत्येकमभि
स
म्बध्यते । तासामव्यवस्थितचित्तत्वात् । रात्रावप्रकाशत्वाद् वञ्चना भवतीति । बहिर्ग्रामाद्, येषां ग्रामे बहिश्च सम्भवः । शून्यत्वाद् बहिः । अन्तर्वेश्मनि, स्वगृहे श्रोतृणामभावादसाक्षित्वप्रसङ्गात् । अरातिषु वैरिमध्ये, ते हि द्वेषादन्यथा ब्रूयुः । एषु कृतोऽपि पुनः सम्यकर्तव्यो भवतीति नैषु कर्तव्य इति प्रतिषेध एवोच्यते ॥ ३७ ॥
गहनत्वाद् विवादानामसामर्थ्यात् स्मृतेरपि ।
ऋणादिषु हरेत् कालं कामं तत्त्वबुभुत्सया ॥ ३८ ॥
गहनत्वाद् दुर्बोधत्वाद् विवादानां, सहसा स्मर्तुमसामर्थ्याच्च, ऋणादिषु हरेत् कालम् ऋणादानोपनिधिसम्भूयोत्थानादिषुकालहरणम् । नैतदिच्छातः, स तत्त्वबोधेच्छया । सहसा दुर्बोधत्वं भ्रा46भ्रान्तिश्च भवेत् ॥ ३८ ॥
गोभूहिरण्यस्त्रीस्तेयपारुष्यात्ययिकेषु च ।
साहसेष्वभिशापे च सद्य एव विवादयेत् ॥ ३९ ॥
गवादिषु प्रत्यहं फलनिवृ47त्तेः । स्तेयादिषु महादोषत्वात् । आत्मयिकमतिपाति । अभिशापोऽभिशंसनम् । तयोरसंव्यवहार्य48त्वात् ‘पतितं पतिते’ त्यादिना अन्येषां च तत्सम्बन्धे प्रत्यवायात् तस्मिन्नेवान्युत्तरं दापयेत् ॥ ३९ ॥
अनिवेद्य तु यो राज्ञः सन्दिग्धेऽर्थे प्रवर्तते ।
प्रसह्य स विनेयः स्यात् स चाप्यर्थो न सिध्यति ॥ ४० ॥
अनिवेद्य अनाख्याय राज्ञः सन्दिग्धेऽर्थे प्रवर्तते अनिर्णीते धारयतिन49 ’ ग. प. पाठः.")धारयतीति यः प्रवर्तते साधयितुं स्वयमेवा50भते बलादाक्रम्य स दण्ड्यः स्यात् । सोऽप्यर्थः सन्दिग्धो न लभ्यते हीयते इत्यर्थः ॥ ४० ॥
वक्तव्येऽर्थे न तिष्ठन्तमुत्क्रामन्तं च तद्वचः ।
आसेयेद् विवादार्थी यावदाह्वानदर्शनम् ॥ ४१ ॥
वक्तव्येऽर्थे सन्दिग्धेऽर्थे । न तिष्ठन्तं निर्णयार्थमप्रवर्तमानम् । न केवलं न प्रवर्तंत एव, उत्क्रामन्तं च तद्वचः यदि ज्ञातुं51 मया संहत्य न पृच्छसि मा प्रवर्तिष्ठाः मा च गा इति वार्यमाणो न तिष्ठेच्चेद्, आसेधयेद् वारयेद् मर्यादया न कारणेन, यद्यतिक्रामति इयानर्थो राज्ञे दाप्य इति । यावदित्यवधिपरिच्छेदः । आहूयतेऽस्मिन्नित्याहानं व्यवहारः । यावद्व्यबहारदर्शनमित्यर्थः ॥ ४१ ॥
स्थानासेधः कालकृतः प्रवासात् कर्मणस्तथा ।
चतुर्विधः स्यादासेघस्तमासिद्धो न लक्ष्येत् ॥ ४२ ॥
नासिद्धस्तं व्यतिक्रामेत् । स्थानासेधो नास्मात् स्थानाञ्चलितव्यमिति । कालकृतो द्वित्रैरहोभिर्यदि न करोषि तत इयान् दण्डो राजकुले दातव्य इति । प्रवासात् यद्यदत्त्वा गच्छसि ग्रामान्तरमन्यत्र वा पूर्ववत् । कर्मणः यद्यदत्त्वा कर्षवस्त्रवाहनपण्यप्रसारणादौ प्रवर्तसे पूर्ववत् ! इति चतुर्निधोऽवमासेषः । चतुर्विधमप्यासिद्धो नातिक्रामेत् । अतिक्रमाद् दण्ड्य इति ॥ ४२ ॥
नदीसन्तारकान्तारदुर्देशोपप्लवादिषु ।
आसिद्धस्तं परासेधमुत्क्रामन् नापराध्नुयात् ॥ ४३ ॥
नद्याः सन्तारो नदीसन्तारः तत्र नदीं सन्तितीर्षन् नासध्यः सामनप्रतारकश्चेत् । पलायमानस्य नियमो नास्ति । कान्तारेऽटवीमुखे विबासुः । चोरव्यालाविदुष्टदेशे । उपप्लवदयोऽन्यु52दकमरणपरचक्रादयः । तेषु चासिद्धः, न कारणपूर्वं बारितः । परस्यासेधः परासेभः तमतीस्य गच्छन् न दण्डः ॥४३॥
आसेध्यकाल आसिद्ध आसेधं योऽतिवर्तते ।
स विनेयोऽन्यथा कुर्वन्नासेद्धा दण्डभाग् भवेत् ॥ ४४ ॥
आसेध्ये वारणकाले आसिद्धः । पणपूर्वं निषिद्धो निषेधं योऽतीत्य वर्तते स दण्ड्यः। अकाले प्रतिषिद्धे काले वारयन् वारयिता दण्ड्यः ॥४४॥
निबेष्टुकाम इत्यादयस्त्रयः श्लोका एकबाक्यार्थाः—
निवेष्टुक्कामो रोगार्तो यियक्षुर्व्यसने स्थितः ।
❋53 अभियुक्तस्तथान्येन राजकार्योद्यतस्तथा ॥ ४५ ॥
गवां प्रचारे गोपालाः सस्याबन्धे54 कृषीवलाः ।
शिल्पिनश्चापि तत्काल आयुधीयाश्च विग्रहे ॥ ४६ ॥
अप्राप्तव्यवहारश्च दूतो दानोन्मुखो व्रती ।
विषमस्थश्च नासेध्या नचैनानाह्नयेन्नृपः ॥४७॥
निवेष्टुकामो विवाहाभिमुखो नक्षत्राद्यतिपाताद् आतन्निवृत्तेनासेभ्यः । रोगार्त आसिद्धो []55 म्रियेत वा55रितो दौर्बल्यादिना भेषजातिक्रमेण वा । यियक्षुर्यष्टुकामः साधुत्वाद् धर्मविरोधाच्च । व्यसने स्थितः स्वजनवियोगादौ दुःखितत्वात् साहाय्यकालत्वाच्च । अभियुक्तोऽन्येन व्यवहारेण लेखितस्तत्र बद्धत्वादस्वतन्त्र इति । राजकार्यार्थमुद्यतो राजकार्योद्यतः । शाकपार्थिवादित्वादुत्तरपदलोपः । बलवतावष्टब्धत्वादस्वतन्त्रत्वाच्च आतन्निवृत्तेरिति द्रष्टव्यम् । गवां प्रचारे अटव्याम् । प्रचरन्ति यस्मिन्निति प्रचारः । तत्र गवां प्रमादभयाद् गोपालो नासेध्य आग्रामप्रवेशात् । सस्याबन्धे कृषीवलाः । सस्यस्याबन्धैः56 सङ्ग्रहः । आरम्भ57सङ्घहयोः आ फलप्रदानादित्यर्थः । तत्रासेधेसस्यनाशात् कुटुम्बनाशः राजार्थहानिश्च । तस्मात् तत्र कृषीवला नासेध्याः । शिल्पिनस्तक्षायस्कारतन्तुवायादयः । शिल्पकाले आजीवनहानिः । आयुधीयाश्चपस्थिते युद्धे परचक्रतः प्राणभयात् साधारणप्रयोजनोपस्थानाच्च। अप्राप्तव्यवहार आ षोडशाद् वर्षादज्ञानादनासेध्यः । (धनिने च तद्धनं राज्ञा दाप्यः अन्यथा धनिनो धनहानिः स्यात् ?) । अव्यवहार्यो दूतः राजकार्यगरीयस्त्वात् । दानोन्मुखः श्राद्धब्राह्मणभोजनाद्यभिमुखः निमन्त्रितेषु ब्राह्मणेषु धर्मलोपात् । व्रती नियमस्थःआरब्धपारायणचान्द्रायणादिकसाधनः । तत्र सम्भाषणादिप्रतिषेधात् । विषमस्थश्च
राजकुलचोरादिना आहृतसर्वस्वः दातुमशक्यत्वात्, दापयितुमपि निर्धनत्वात्, कर्मणा समीकरणेऽपि कुटुम्बविनाशात् । नचैनानाह्वयेद् राजा एतेषां बलबदवष्टब्धत्वात् । उत्तरकाल58आसेधाह्वाने कर्तव्ये ॥४५-४७ ॥
नाभियुक्तोऽभियुञ्जीत तमती ( त्या ? त्व) र्थमन्तरा ।
नचाभियुक्तमन्येन विद्धं न व्यकुमर्हति ॥ ४८ ॥
अभियुक्तो लेखितव्यबहारःतमभियोक्तारं ना59भियुञ्जीत अभियोगमशोधयित्वा आ व्यवहारसमाप्तेः । अस्मादेव गम्यते उत्तरकालं यदीच्छति, अभियुञ्जीतेति । नचान्येन लेखितव्यवहारमन्येनाभिमुखीकृ(त्या ? त्य) पदं न विनाशयितुमर्हतीति ॥ ४८ ॥
यमर्थमभियुञ्जीत न तं विप्रकृतिं नयेत् ।
नान्यत् पक्षान्तरं गच्छेद् गच्छन् पूर्वात् स हीयते ॥ ४९ ॥
समर्थं धान्यहिरण्यादिकमुद्दिश्य व्यवहारो लेखितः, तमर्थं क्रियाकालेऽन्यथा नं ब्रूयात् । हिरण्यं लेखयित्वा साक्षिप्रश्नकाले धान्यमिति । नान्यत्पक्षान्तरमिति । गच्छेत् साक्षिणमुद्दिश्येत्युक्तं, नार्थान्तरमुद्दिश्येति । इदमन्यन्मम धारयति तत् तावद् दाप्यतां तिष्ठन्तु साक्षिण इति । स पूर्वोक्तादर्थाद्धीयते तत्र पराजीयत इत्यर्थः । तच्च न लभते दण्डघश्चेति ॥४९॥
नच मिथ्याभियुञ्जीत दोषो मिथ्याभियोगिनः ।
यस्तत्र विनयः प्रोक्तः सोऽभियोक्तारमाव्रजेत् ॥ ५० ॥
अभूतं नाभियुञ्जीत । मिथ्याभियोगिनो दोषो यस्मात् । अभियुक्तस्य पराजितस्य यो दण्डः स मिथ्याभियोगिनः कार्यः । अगुरुतल्पगः गुरुतल्पग इत्युक्ते गुरुतल्पगस्य यत् कार्यं तदभियोक्तुः कर्तव्यम् ॥५०॥
सापदेशं हरन् कालमब्रुवंश्चापि संसदि ।
उक्त्वा वचो विब्रुवंश्चहीयमानस्य लक्षणम् ॥ ५१ ॥
सहापदेशेन सापदेशं व्याजमित्यर्थः । यः पूर्वोक्तमन्यथा ब्रूयात् हीयमानस्यैव तल्लक्षणम् । हीयमानस्य यत् कार्यं तत् तस्य कर्तव्यम् ॥ ५१ ॥
पलायते य आहूतः प्राप्तश्च विवदेश यः ।
स दण्ड्यश्चभवेद् राज्ञाहीन एव स वादतः ॥ ५२ ॥
पलायते आहूतः दर्शनकाले, कथञ्चिदानीतोऽधिकरणस्थानं प्राप्तो न विवदेत् नाहमनेन विवदामीति तूष्णीमेवासीत, स दण्ड्यः स हीयत एव व्यवहारतः । एवशब्दान्नहि तस्मिन् पक्षोऽस्तीति ॥ ५२ ॥
निणिंक्ते व्यवहारे तु प्रमाणमफलं भवेत् ।
लिखितं साक्षिणो वापि पूर्वमावेदितं न चेत् ॥ ५३ ॥
निर्णिक्तेऽवसिते व्यवहारे प्रमाणं लिखितं निष्फलं भवेत् साक्षिणो वा । पूर्वं व्यवहारदर्शनात् प्रमाणमस्तीति यदि नावेदितम् । आवेदितं चेत् पत्र60साक्ष्य61भावादवसितेऽपि पुनदर्शिते न पराजितो भवति ॥ ५३ ॥
यथा पक्केषु धान्येषु निष्फलाः प्रावृषो गुणाः ।
निर्णिक्तव्यवहाराणां प्रमाणमफलं तथा ॥ ५४ ॥
निर्णिक्तव्यवहारे प्रमाणस्याफलत्वे दृष्टान्त उच्यते । निष्पन्नेषु धान्येषु प्रागवस्थायां धान्यार्था अपि प्रावृषो गुणा वर्षादयो निष्फला यथा, तथा निणिक्तव्यवहाराणां प्रागुपकारकमपि निष्फलं पत्रादिप्रमाणम् । तस्मात् प्रागेव निवेद्य तदुपलब्धौ यत्नः कर्तव्यः ॥ ५४ ॥
अभूतमप्यभिहितं प्राप्तकालं परीक्ष्यते ।
यत्तु प्रमादान्नोच्येत तद् भूतमपि हीयते ॥ ५५ ॥
अभूतमप्य62तिरिक्तमप्युक्तं व्यवहारकाले परीक्ष्यते सत्यं वा नवेति । सत्यं गृह्यते, अभूतमुत्सृज्यते । यत्तु प्रमादात् प्राप्तकालं नोच्यते तद् भूतमपि हीयते नश्यति, नत्वत्र भूतं परीक्ष्यते । यस्तु काले लेखयित्वासम्यग्विचारितं कृत्वा लेखयति तत्र यन्नोक्तमात्मदोषान्नष्टं तद् भवति । यथा दश सुवर्णानिधारयतीति लेखयेद् द्वादशसु धार्यमाणेषु, पुनः प्राप्तकाले द्वादशेति ब्रूयात्, भूतान्वेषणे यद्यपि द्वादश भवन्ति63, तद्दोषाद् द्वयोर्नाश इति ॥५५॥
तीरितं चानुशिष्टं च यो मन्येत विधर्मणा ।
द्विगुणं दण्डमास्थाय तत्कार्यं पुनरुद्धरेत् ॥५६॥
तीरितं समापितं ‘तीर समाप्ताबि’ त्यस्य । निर्णीत दण्डितम् अनुशिष्टं निर्वृत्तदण्डं यो मन्येत विधर्मणा अन्यायभूतेन स द्विगुणं दण्डं प्रतिज्ञाय तत्कार्यंपुनर्व्यवहार प्रवर्तयेदिति ॥ ५६ ॥
दुर्दृष्टे व्यवहारे तु सभ्यास्तद्दण्डमाप्नुयुः ।
नहि जातु विना दण्डात् कश्चिन्मार्गेऽवतिष्ठते ॥ ५७ ॥
दुर्दृष्टेऽसम्यग्दृष्टे व्यवहारे द्विगुणं दण्डमास्थाय पुनर्व्यवहारे प्रस्तुते यद्यद् भूतं ति ( री ?रो ) भृतं भवेद् द्विगुणं दण्डं सभ्या दाप्याः । अत्र हेतुरुच्यते— यस्माद् दण्डेन विना कश्चिन्मार्गे नावतिष्ठते । अतस्तेषां मार्गस्थापनार्थे भूयः प्रमादादिना मैवं कार्षीदिति द्विगुणं दण्डं64 दाप्याः ॥ ५७ ॥
रागादज्ञानतो वापि लोभाद्वा योऽन्यथा वदेत् ।
सभ्योऽसभ्यः स विज्ञेयस्तं पापं विनयेद् भृशम् ॥ ५८ ॥
रागादज्ञानतो लोभाद् वा व्यवहारदर्शने नियुक्तः सभायां योऽन्यथा वदेद् उत्कोचादिना भिन्नो दोषवन्तमदोषं कुर्यात्, सभ्योऽपि सन्नसभ्यःस विज्ञेयः । तं तथाभूतं पापं भृशतरं बहुतरं65 राजा दण्डयेत् । योऽन्यथा बदेत् तं पापमित्येव सिद्धे सभ्योऽसभ्य इति ब्रवीति । तस्यैतत् प्रयोजनम् असभ्याहेण दण्डेन विनयेदिति ॥ ५८ ॥
किन्तु राज्ञा विशेषेण स्वधर्ममनुतिष्ठता66 ।
मनुष्ये चित्तवैचित्र्यात् परीक्ष्या साध्वसाधुता ॥ ५९ ॥
किन्तु कर्तव्यं राज्ञा स्वधर्मं67 न्यायप्रवर्तनमन्यायनिवृत्तिं च सम्यक्परिपालयता साध्वसाधुता साधुश्वासाधुश्च साध्वसाधू तयोर्भावः साध्वसाधुता परीक्ष्या अनेकप्रकारम् ।हेतुरुच्यते—मनुष्ये चित्तवैचित्र्यात् । वैचित्र्यं क्षणे क्षणेऽन्यथाभावः । अतो दुर्ज्ञानत्वात् साधुत्वस्य सर्वोपचाशुद्धान् नियुञ्चीतात्मनः प्रत्यवायपरिहारार्थम् ॥५९॥
पुरुषाः सन्ति ते लोभाद् ये ब्रूयुः कार्यमन्यथा ।
सन्ति चान्ये दुरात्मानः कूटलेख्यकृतो जनाः ॥ ६० ॥
अतः परीक्ष्यमुभयमेतद् राज्ञा विशेषतः ।
लेख्याचारेण लिखितं साक्ष्याचारेण साक्षिणः ॥ ६१ ॥
परीक्ष्यत्वे कारणमुच्यते पूर्वश्लोकेन ।उत्तरः साध्यार्थः । अत इत्युत्तरत्र वचनात् पूर्वो हेतुः । यस्मान्मनुष्याः सन्ति तथाभूताः क्षुद्रा लोभमोहगृहीताः, ये कार्यं व्यवहारमन्यथा ब्रूयुः दृष्टलोभेन धर्मं पृष्ठतः कृत्वा । सन्ति चान्ये क्षुद्राः कूटलेख्यं कुर्वन्तीति कूटलेख्यकृतो जनाः अन्यथोच्यमानमन्यथा लिस्वन्ति मिनाः । अत एतस्मात् कारणात् परीक्ष्यं साधुत्वमसाधुत्वं च । असाधुत्वं निरासार्थं, साधुत्वं नियोगार्थं च । लेख्याचारेण लिखितं पत्र कूटलेख्यपरिहारार्थम् । साक्ष्याचारेण साक्षिणः अन्यथानयनपरिहारार्थ वक्ष्यमाणसाक्षिन्यायेन साक्षिणश्च ॥ ६०,६१ ॥
असत्याः सत्यसङ्काशाः सत्याचासत्यदर्शनाः ।
दृश्यन्ते विविधा भावास्तस्माद् युक्तं परीक्षणम् ॥ ६२ ॥
दुष्परीक्ष68त्वाद् न्यायस्य पुनः परीक्षणे हेतुरुच्यते । तस्मादित्यन्ते निगमनात् पूर्वी हेतुरिति गम्यते । असत्याः पापाः । सत्यसङ्काशाः प्रच्छन्नपापाः साधुवद् दृश्यन्ते । सत्याश्चासत्यदर्शनाः प्रच्छन्नधर्मचरणाः कुरूपमात्रेण असाधुवद् दृश्यन्ते । अनेकप्रकारा69भावाः । भवन्तीति भावाः प्राणिनः । प्रकरणे मबतेरुपसंख्यानात् कर्तरि णः । तस्माद् युक्तं परीक्षणमर्थत एव । अथवा असत्याःसत्यसङ्काशाः, यथाहि माण्डव्यस्य ।सत्याश्चासत्यतुल्या;, यथा तस्यैव चोरत्वं दृश्यते । तेनानेकप्रकारा दृश्यन्तेऽर्थाः । तस्मात् परीक्षणं कर्तव्यमिति ॥ ६२ ॥
तलवद् दृश्यते व्योम स्वद्योतो हव्यवाडिव ।
न तलं विद्यते व्योनि न खद्योते हुताशनः ॥ ६३ ॥
मूर्तमाधारभूतमवनितलमिवाकाशो दृश्यते । स्वद्योतश्चाग्निरिव । नचोभयमुभयन्त्र विद्यते । तथा असत्याश्च सत्यवद् दृश्यन्ते, सत्यासत्यवत् ॥६३॥
यस्मात् प्रत्यक्षमप्येवं व्यभि70चरति—
तस्मात् प्रत्वक्षदृष्टोऽपि युक्तमर्थः परीक्षितुम् ।
परीक्ष्य []71 ज्ञापयन्न71र्थान् न धर्मात् परिहीयते ॥ ६४ ॥
तस्मात् प्रत्यक्षदृष्टोऽप्यर्थो न तावता निर्णेतव्यः, युक्तं परीक्षितुं, प्रत्यक्षाभिमतेऽपि भ्रान्तिदर्शनात् । तस्मात् परीक्ष्य ज्ञापयन् बोधयन् अर्थान्न धर्मात् परिहीयते । सहसा ज्ञापयन् परीक्षान्यथाभावे धर्माद्धीयते ॥ ६४ ॥
एवं पश्यन् सदा राजा व्यवहारान् समाहितः ।
वितत्येह यशो दीप्तं ब्रघ्नस्यामोति विष्टपम् ॥ ६५ ॥
एवं परीक्ष्य सार्वकालं व्यवहारान् पश्यन् समाहितः। अप्रमादेनेमं लोकं प्रकृष्टेन यशसा व्याप्यादित्यस्थानं प्राप्नोति ॥ ६५ ॥
नानियुक्तेन वक्तव्यं व्यवहारे कथश्चन ।
नियुक्तेन तु वक्तव्यमपक्षपतितं वचः ॥ ६६ ॥
ब्रूहीति न्यायेन अनियुक्तेन व्यवहारे साध्वसाधु वा न वक्तव्यम् । वचने ह्यौदासीन्यान्निवर्तेत72 । नियुक्तेनावश्यं वक्तव्यम् अपक्षपतितं वचः, सत्यमित्यर्थः । अन्यथावचनेऽवचने च दोषः प्रत्यवायः ॥ ६६॥
युक्तरूपं ब्रुवन् सभ्यो नाप्नुयाद् द्वेषकिल्मिषे ।
ब्रुवाणस्त्वन्यथा सभ्यस्तदेवोभयमाप्नुयात् ॥ ६७ ॥
नियुक्तस्तु युक्तरूपं ब्रुवन् प्रमाणोपहितं ब्रुवन् नाप्नुयाद् द्वेषमप्रीतिं द्वेष्यत्वं च, प्रेत्य च किल्बिषमधर्मम् । असत्यं ब्रुवन्नुभयं लभते । दुष्ठस्य अ च दोषेण योजनाददुष्टस्य चानुग्रहात् ॥ ६७ ॥
अत एवं परीक्ष्य—
राजा तु धार्मिकान् सभ्यान् नियुञ्ज्यात् सुपरीक्षितान् ।
व्यवहारधु (रं? रां) वोढुं ये शक्ताः सद्रवा इव ॥ ६८ ॥
तुशब्दोऽवधारणार्थः। राजा स्वयमेव न परप्रत्ययन, धार्मिकान् सभ्यान् सभार्हान् नियुञ्ज्याद् अधिकरणे \। सुपरीक्षितान् सम्यगुपधामिः शुद्धान् । व्यवहारस्य धूः व्यवहार (धूः? धुरा) । ‘ऋक्पूरब्धः’— (५.४.७४) इति समासान्तः । तां व्यवहारघु (रं ? रां) वोढुं ये शक्ताः । सद्गवा इव अक्षधुरम् ॥ ६८ ॥
ते विशेष्यन्ते—
धर्मशास्त्रार्यकुशलाः कुलीनाः सत्यवादिनः ।
समाः शत्रौ च मित्रे च नृपतेः स्युः सभासदः ॥ ६९ ॥
धर्मशास्त्रस्यार्थाः धर्मशास्त्रार्थाः तेषु कुशला विवेकज्ञा इत्यर्थः । कुले जाताःकुलीनाः, सर्व एव कुलजाः । तत्र कुलग्रहणात् प्रख्यातकुलजाता इति गम्यते । यथा अभिरूपाय कन्या देयेति अनभिरूपाय प्रसङ्गाभावाद् अभिरूपतमायेति गम्यंत । सत्यं वदितुं शीलं येषां ते सत्यवादिनः । तथाभूता अपि द्वेषादिनान्यथा कुर्युरित्यत73आह — समाः शत्रौ च मित्रे च रागद्वेषहिताः । ते हि लज्जया नान्यथा कुर्वन्ति । तस्मादीदृशा नृपतेः सभासदः, सभायां सीदन्तीति सभासदः, अन्येषामपि सभायामासनाविरोधात् प्रकर्षो गम्यते, नियुक्ताः स्युरित्यर्थः ॥ ६९ ॥
तत्प्रतिष्ठः स्मृतो धर्मो धर्ममूलाश्च पार्थिवाः ।
सह सद्भिरतो राजा व्यवहारान् विशोधयेत् ॥ ७० ॥
विशिष्टनियोजने कारणमाह—तत्प्रतिष्ठः । तेषु सभ्येषु प्रतिष्ठित इति तत्प्रतिष्ठः । स्मृतः शास्त्रेषु धर्मस्तद्वशात्74 प्रवर्तते । धर्ममूलाश्च धर्मो मूलं निमित्तं येषां ते धर्ममूलाः । ते पूर्वकृता इहकृताः इहानुरागनिभित्ताः प्रेत्य च सद्गतेः। अतो धर्ममूला राजानः ।तस्मात् सह सद्भिर्व्यवहारान्75 विशोधयेत् तैर्विचार्य निर्दोषान् पश्येदित्यर्थः ॥ ७० ॥
शुद्धेषु व्यवहारेषु शुद्धिं यान्ति सभासदः ।
शुद्धिश्च धर्मात् तेषां हि धर्ममेव वदेदतः ॥ ७१ ॥
सभ्यानामुपदेशाच्छुद्धेषु व्यवहारेषु न्यायेषु निर्णीतेषु शुद्धिं प्राप्नुवन्ति सभासदः । शुद्धिश्चामायया यस्मात् तेषां व्यवहाराणां धर्मात्, तम्माद् धर्ममेव वदेत् सभ्य इति । व्यवहारो धर्माच्छुध्यति तच्छुद्धौ ते शुध्यन्ति । तस्मादात्मार्थं तैर्धर्मोऽवश्यं वक्तव्य इति संक्षेपः ॥ ७९ ॥
यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च ।
हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः ॥ ७२ ॥
सभ्यानामुपेक्षणे सम्यग्दर्शने च हेतुः । यस्माद् यत्र धर्मो न्यायोऽन्यायेन वाक्छलादिना सत्यं च भूतमनृतेन कूटादिना हन्यते निरस्यते असम्यग्दर्शने, हता उभयोर्लोकयोस्तत्र सभासदः ।वधश्च तेषामधर्मसम्बन्धो धर्मनाशश्च ॥ ७२ ॥
सभा वा न प्रवेष्टव्या वक्तव्यं वा समञ्जसम् ।
अब्रुवन् विब्रुवन् वापि नरो भवति किल्बिषी ॥ ७३ ॥
यस्मात् सभ्या हन्यन्तेऽसम्यग्दर्शनेन, तस्मात् सभा न प्रवेष्टव्या । वाशब्दो वक्ष्यमाणेन सह विकल्पार्थः । श्रद्धेयवाक्येनाधिकारोवा न प्रति (वक्त? पत्त) व्यः । यदि प्रविशेन्नियोगं वा प्रतिपद्येत वक्तव्यं वा समञ्जसम् अधिकृतेन संमन्त्र्य ।सत्यं नेच्छति चेत् स्वामी यदि न्यायं नेच्छसि न वयमत्रास्महे धर्मेण हतेन वयं सपुत्रदारान्वया हन्यामह इति निर्गन्तव्यम् । अत्र कारणमुच्यते । अब्रुवन् स्वाभिनो वच्छात उपेक्ष्यःतूष्णीमास्ते विब्रुवन् वा तदिच्छया लोभादिना वा अभूतं ब्रुवन् नरो भवति किल्बिषी प्रत्यवायेन सम्बद्धः । तस्मान्निर्गन्तव्यं भूतं वा द्रष्टव्यमिति ॥ ७३ ॥
पादोऽधर्मस्य कर्तारं पादःसाक्षिणमृच्छति ।
पादःसभासदः सर्वान् पादोराजानमृच्छति ॥ ७४ ॥
असम्यग्दर्शनेना76धर्मस्य चतुर्थो भागः कर्तारं प्राप्नोत्यन्यायकारिणम् । पादःसाक्षिणमाप्नोत्यभूतवादिनम् । सामान्यनिर्देशादेकवचनम् ।साक्षिणः । सभासदश्च पादो गच्छेदसम्यग्दर्शने । तथैव पादाराजानम् । तस्मादभक्षितेन विषेण मा वधिष्टेत्यभूतं नोपेक्षितव्यं, धर्मयशोभिवृद्धये सत्ये यत्नः कर्तव्य इति ॥ ७४ ॥
राजा भवत्यनेनास्तु मुच्यन्ते च सभासदः ।
एनो गच्छति कर्तारं निन्दाहों यत्र निन्द्यते ॥ ७५ ॥
सम्यग्दर्शने गुणमाह ।राजा भवत्यनेनाः । न विद्यते एनोऽधर्मो यस्य सोऽनेनाः । शुद्धो भवतीत्यर्थः । सभासदश्च पादेन मुच्यन्ते । अधर्मश्चतुष्पात् कर्तारमेव गच्छति यत्र दुष्टो दूष्यते भूतदर्शनं चेत्यर्थः । तस्माद् भूतमेव द्रष्टव्यम् ॥ ७५ ॥
अन्धो मत्स्यानिवाश्नाति निरपेक्षः सकण्टकान् ।
परोक्षमर्थवैकल्याद् भाषते यः सभागतः ॥ ७६ ॥
यथान्धो मत्स्यान् सकण्टकानश्नाति । अन्धग्रहणं चक्षुष्मान् कदाचिद्वर्जयेत् । तद्भावात् फलकाल एव चेतयते । एवं निरपेक्षो धर्मानपेक्षः परोक्षमनुपलब्धं प्रमाणैरपरिच्छिन्नम् अर्थवैकल्याद् अर्थवैकल्यं तत्त्वानुपलब्धिः अनुपलभ्य तत्त्वं रागादिना यथेष्टं भाषते सभागतः । यथान्धः सुखार्थं मांसे विद्यमाने कण्टकान् भक्षयन् दुःखमवाप्नोति मुखं च न लभते, एवमभूतं वदन्सुखहेतौ मांसस्थानीये भूते विद्यमाने कण्टकस्थानीयमभूतं वदन् दुःखेन युज्यते सुखेन च वियुज्यते । तस्मादभूतं वर्जयेदित्यभूतनिन्दा ॥ ७६ ॥
तस्मात् सभ्यः सभां प्राप्य रागद्वेषविवर्जितः ।
वचस्तथाविधं ब्रूयाद् यथा न नरकं पतेत् ॥ ७७ ॥
** **यस्मादभूत एष दोषः, तस्मात् सभायां नियुक्तः सङ्गद्वेषरहितस्तथाविधं वचो ब्रूयात् यथोक्तेन नरकं न पतिष्यति सत्येन । तस्मात् सत्यं वढेदित्यर्थः ॥ ७७ ॥
यथा शल्यं भिषग विद्वानुद्धरेद् यन्त्रयुक्तिभिः \।
प्राड्विवाकस्तथा शल्यमुद्धरेद् व्यवहारतः ॥ ७८ ॥
मभ्यानामुपदिश्य सम्प्रति प्राड्विवाकस्योपदिश्यते । यथा शल्यं शस्त्रं77कायनिममं वैद्यशास्त्रकुशलः शास्त्रोक्तयन्त्रयुक्त्या समुद्धरति, एवं शक्यमुद्धर्तुं सुखं चास्य भवतीत्युपपत्त्या, तथा प्राविवाकः शल्यस्थानीयमन्यायमुर्द्धरत्निरस्येदित्यर्थः। व्यवहारेण वादिप्रतिवादिसाक्षिवचनयुक्तिभिः ॥ ७८ ॥
यत्र सभ्यो जनः सर्वः साध्वेतदिति मन्यते ।
स निश्शल्यो विवादः स्यात् सशल्यः स्यादतोऽन्यथा ॥
** **यत्र सभायां साधुर्जनः सर्वः सभां प्रविष्टा विद्वांस इत्यर्थः । साध्वेतद् एष न्याय इति मन्यन्ते ऐकमत्यं सर्वेषामित्यर्थः, तथा नीते विवादे व्यवहारः शुद्धः स्यात् । यस्मिन् वा नीते व्यवहारे साध्वेतन्नीतमिति सर्वे तुष्यन्ति स निश्शल्यः ।
अतो विपरीतं सप्रतिरवं केषुचिन्नैवमिति ब्रुवत्सु बलान्नीते सशल्योऽशुद्ध इति । एषोऽर्थोऽत्र विधीयत—यावदैकमत्यं सर्वेषां तावद् विचार्य नेय इति ॥ ७९ ॥
न सा सभा यत्र न सन्ति वृद्धा
न ते वृद्धा ये न वदन्ति धर्मम् ।
नासौ धर्मो यत्र न सत्यमस्ति
न तत् सत्यं यच्छलेनानुविद्धम् ॥ ८० ॥
न सा सभा । सभामसभेति ब्रुवन् सभाकार्यं नास्तीति ब्रवीति । यथा पुत्रऽपुत्राभिधानम् । न तत्र प्रवेष्टव्यं यस्यां न सन्ति वृद्धाः ज्ञानवृद्धाः, न पलितैः। नहि पलितैर्धर्मः शक्यः परिच्छेत्तुम् । तथाच न हायनैर्न पलितैरित्यायुक्तम् । तथाभूता अपि नैते वृद्धा ये रागादिना न वदन्ति धर्मं न्याय्यम् । नासौ धर्मो यत्र सत्यं नास्ति । सत्याभावे न78भूतं नीयते । सत्यं च तन्न भवति यच्छलेन मिश्रम् ।तस्माज्ज्ञानिमी रागादिरहितैः सत्येन धर्ममहिंसद्भिश्छलम्पर्शं वर्जयित्वा भूतं द्रष्टव्यमिति ॥ ८० ॥
( इनि व्यवहारदर्शनविधिः॥ )
___________
अथ ऋणादानं प्रथमं विवादपदम् ।
ऋणं देयमदेयं च येन यत्र यथा च यत् ।
दानग्रहणधर्माश्च ऋणादानमिति स्मृतम् ॥ १ ॥
व्यवहारपदान्यनुक्रम्य व्यवहारदर्शनविधिरुक्तः । सम्प्रति क्रमेण व्यवहारपदानि प्रतुष्टूषमाणः प्राथम्याद् ऋणादानमेव प्रस्तौति । तत्र ऋणादानस्वरूपं तावत् संक्षेपेणोपन्यस्यति— ऋणं देयमित्यादि । देयादीन्युत्तरत्र विशेष्यन्ते ॥ १ ॥
पितर्युपरते पुत्रा ऋणं दधुर्यथांशतः ।
विभक्ता ह्यविभक्ता वा यस्तामुद्वहते धुरम् ॥ २ ॥
पितरि79 मृते ऊर्ध्वकालं पुत्राः पित्रा कृतमृणं ज्येष्ठांशादिविभागानुरूपं विभक्ताःअविभक्ता वा विभक्तुकामा ऋणं दत्त्वा शेषं यथार्हं विभजेयुः ।
अंशानुरूप्येण वा प्रतिपद्योत्तरकालं दद्युः । अविभक्तुकामानां ज्येष्ठो वा गुणाधिको वा यस्तु भरणक्षमः, यदधीनास्ते सह वसन्ति, स दद्यात् ॥ २ ॥
पितृव्येणाविभक्तेन भ्रात्रा वा यदृणं कृतम् ।
मात्रा वा यत् कुटुम्बार्थे दद्युरतद् रिक्थिनोऽखिलम् ॥ ३ ॥
पितृव्येण पितुर्ज्येष्ठेनानुजेन वा । कुटुम्बार्थ इति सर्वेषां80शेषः । अविभक्तेनेति विभक्तनिवृत्त्यर्थम् । भ्रात्रा वेति वाशब्दादविभक्तेन कुटुम्बार्थ इति चापेक्ष्यः81 । मात्रा वा तथैव कुटुम्बार्थे । तदखिलं दद्युर्धनिनः, ये धनभाजोऽविभक्ताः ॥ ३ ॥
क्रमादव्याहतं प्राप्तं पुत्रैर्यनर्णमुद्वृतम् ।
दद्युःपैतामहं पौत्रास्तच्चतुर्थान्निवर्तते ॥ ४ ॥
क्रमात् प्राप्तमृणमव्याहतमविसंवादितम् । नैतदेवमिति यद् बिसंवादितं तद् व्यवहर्तव्यम्, ओमित्येव न दातव्यम् ।अविसंवादितं तु पुत्रैर्न दत्तं भुज्यमानमभुज्यमानं वा तत् पौत्रो दद्यात् । चतुर्थात् तु निवर्तते । एकेन पत्रेण त्रिपुरुषं लभ्यते । तृतीये तु पुनः पत्रं कर्तव्यम् । अकरणे तद्दोषाच्चतुर्थे हीयते । भूम्यादिषु भुज्यमानेषु न हानिः । अत एव ऋणग्रहणं कृतमाधमननिवृत्त्यर्थम् ।आधमनं त्वादानाद् दशपुरुषमपि न हीयते ॥ ४ ॥
इच्छन्ति पितरः पुत्रान् स्वार्थहेतोर्यतस्ततः ।
उत्तमर्णाधमणेभ्यो मामयं मोक्षयिष्यति ॥ ५ ॥
इच्छन्ति पितरः पुत्रान् न दृष्टार्थमेव अदृष्टप्रयोजनमपि यतः, ततः क्षेत्रजादिप्रकारेणाप्यौरसाभावे एकादशनामन्यतमं यदर्थमिच्छन्ति, तदुच्यते । उत्तमर्णाधमणेभ्यः । उत्तमा ऋषिदेवपितरः तत्सम्बन्धानि ऋणान्युत्तमर्णानि ब्रह्मचर्ययज्ञप्रजाः । तथाच श्रुतिः —‘जायमानो वै ब्राह्मणस्त्रिभिर्ऋणवा जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः’ इति । तथाधमा मनुष्याः । तेषामृणानि सुवर्णादीनि गृहीतान्यधमर्णानि । एतेभ्यो द्विप्रकारेभ्यो मामयं मोक्षयिष्यति अनृणं करिष्यतीति । एतेनैतत् प्रतिपाद्यते—
अवश्यं पितुर्ऋणं पुत्रैर्दातव्यम्, उत्पत्तेः प्राक् प्रधानप्रयोजनत्वेनाशासितत्वादिति ॥ ५ ॥
अतः पुत्रेण जातेन स्वार्थमुत्सृज्य यत्नतः ।
ऋणात् पिता समुद्धार्यो यथा न नरकं पतेत् ॥ ६ ॥
अत एवमाशासितत्वात् पुत्रेण ।जातस्य प्रसङ्गाभावात् पुत्रेणेत्येव सिद्धे जातग्रहणस्य एतदेव प्रयोजनं स जात इत्युच्यते यस्तेषामाशाःपूरयति, इतरो जातोऽप्यजात एव. जातकार्याकरणात् । इदमपि स्वप्रयोजनमेव । स्वार्थमुत्सृज्येति वचनाद् आत्मसुखार्थविषयोपभोगादिदृष्टादृष्टक्रियाः परिहाप्यापि । न तेषां परित्याग उच्यते, अस्य करणीयत्वमुच्यते ऋणात् पिता मोचयितव्यः यथा न नरकं पतेत् । यथा मुक्तर्णो न नरकं पतेद् गच्छेत् स्वर्गं प्राप्नुयाच्चेति ॥ ६ ॥
तपस्वी चाग्निहोत्री च म्रियते चेदृणी यदि ।
तपतश्चैवाग्निहोत्रं च तत्सर्वं धनिनां धनम् ॥ ७ ॥
यमनियमोपवासादिभिः तपो येनार्जितं, स तपस्वी ।अग्निहोत्रग्रहणं प्रदर्शनार्थम् । अग्निहोत्रदर्शपूर्णमासचातुर्मास्यादिभिः इष्टवान् । अन्येनापि प्रकारेण सुवर्णदानादिना सुकृतं कृतं, तत् सर्वम् ऋणमदत्त्वा म्रियते चेदुत्तमर्णस्य भवति । तस्मादवश्यं दातव्यम् ऋणमित्यदाननिन्दया ऋणदानं विधीयते । नह्यस्य सुकृतमन्यं गच्छति, आत्मनि समवेतत्वात् । काममेतस्माद् दोषान्निष्फलं भवेत, परगमनं तु दुरुपपादमिति ॥ ७ ॥
न पुत्रर्णं पिता दद्याद् दद्यात् पुत्रस्तु पैतृकम् ।
कामक्रोधसुराद्यृतप्रातिभाव्यकृताद् विना ॥ ८ ॥
पुत्रसम्बन्धि पुत्रेण कृतम् ऋणं वक्ष्यमाणापवादरहित82मपि न पित्रा दातव्यम् । न पितुराभवति83 । पित्रा कृतं पुत्रो दद्यात् तद्रिक्थहरत्वात् तदधीनत्वाच्च पुत्रेण दातव्यम् । अस्यापवादः —कामकृतं दास्यादिभिः, क्रोधकृतं पुत्रादिद्वेषेण सह भार्यादिभिर्वा, पाननिमित्तं व्यसनेन शौण्डिकादीनां द्यूत-
निमित्तं च प्रतिभूनिमित्तं चापवादविषयम् । एतैर्विनान्यत् पुत्रो दाप्यः84तेषां दृष्टादृष्टविषयेऽनुपकारकत्वादिति ॥ ८ ॥
पितुरेव नियोगाद् यत् कुटुम्बभरणाय वा ।
कृतं वा यदृणं कुच्छ्रेदद्यात् पुत्रस्य तत् पिता ॥ ९ ॥
पितुरेव नियोगाद्, न मात्रादीनाम् । एवशब्दोऽवस्थान्तरे । मात्रादिनियोगाद् वा कुटुम्बभरणाय वा अनियोगादपि कृतं, कृच्छ्रे वा यत् कृतं व्याधिराजकुलबन्दिग्राहनिमित्ते बालादीनां तदपि दाप्यः ।पूर्वस्यापवादोऽयम् ॥ ९ ॥
शिष्यान्तेवासिदासस्त्रीवैयावृत्यकरैश्च यत् ।
कुटुम्बहेतोरुच्छिन्नं वोढव्यं तत् कुटुम्बिना ॥ १० ॥
शिष्यो विद्यार्थमुपपन्नः85 । अन्तेवासी परिमाणेनोपसम्पन्नः, इयन्तं कालं शुश्रूषित्वेदं शिल्पं ग्रहीतव्यमिति ।शिष्यशब्दसन्निधानाद्गोबलीवर्दन्यायेन विशेषेऽवतिष्ठते । दासो वक्ष्यमाणः । स्त्री भार्या ।वैयावृत्त्यकरश्च वक्ष्यमाणः कुटुम्बेऽधिकृतः । एतैर्यत् कृतं कुटुम्बार्थे अवर्तमान स्वामिनो वा परोक्षमु86द्यतं गृहीतं न स्वार्थं तत् स्वामिना दातव्यम्87 अप्रतिविहितत्वात् । प्रतिविहिते तु स्वामिना वर्तमाने यद् विशेषार्थं पानभोजनविशेषप्रेक्षणादिनिमित्तं कुटुम्बार्थेऽपि गृहीतं, न दातव्यम् ॥ १० ॥
नार्वाक संवत्सराद् विंशात् पितरि प्रोषिते सुतः ।
ऋणं दद्यात् पितृव्ये वा ज्येष्ठे भ्रातर्यथापि वा ॥ ११ ॥
विंशत्याः पूरणाद् विंशात् संवत्सरादर्वाक् पितरि देशान्तरं गते पितृव्ये वा ज्येष्ठे88वा भ्रातरि सुतः कनीयान् भ्राता भ्रातृव्यो वा नर्णं दद्यात् । अर्थादूर्ध्वं दद्यात् । ज्येष्ठग्रहणात् कनीयसि नास्ति प्रसङ्गः । इयन्तं कालमस्वतन्त्रत्वान्नेष्टेऽसौ89। तदीयं द्रव्यं धनिकाय राजा दापयेत् ॥ ११ ॥
दाप्यः परर्णमेकोऽपि जीवत्स्वधिकृतैः कृतम् ।
प्रेतेषु90तु न तत् पुत्रः परर्णं दातुमर्हति ॥ १२ ॥
प्रोषिते पितरि पुत्रो न दद्यादित्युक्तम् । तस्य विशेष उच्यते— विंशतेरर्वागपि ग्रामनगरविषयसमूहैस्तदर्थं नियुक्तैरुद्यतमृणं वयं दातार इति साधारणेनैकोऽपि दृष्टो दाप्यो जीवतां मध्ये ।असान्निध्ये तेषां पुत्रा अपि दाप्याः । मृते पुत्रप्रतिषेधात् सर्वेषु तु मृतेषु न पुत्रा दाप्याः, यदर्थं तदुद्यतं त एब दाप्याः, अनभिज्ञत्वात् पुत्राणाम् । जीवत्सु त्वागतास्ते91चोन्मोचयिष्यन्ति । अथवा तथैवाधिकृतैः92कृतमृणं साधारणं भवितेति तदस्येयद् अस्येयदिति तदे
काऽपि दृष्टः समर्थो वा दाप्यः ।जीवत्सु तेषु केषुचिन्मृतेषु केषुचिज्जीवत्सु93न
मृतपुत्रा दाप्याः । सर्वेषु तु मृतेषु न पुत्राणां प्रसङ्गः, उपेक्षितत्वात् । अथवा
तटाकारामदेवकुलवाणिज्याद्यर्थेन प्रव्राजि ( ने ? ते ) नाधिकृतैस्तथैवोद्यतमृणं जी
वत्सु तेष्वेको दाप्यः, तथा गृहीतत्वात्, कार्यस्य च साधारणत्वात् । मृतेषु
तेषु न तत्पुत्रः परकीयमृणं दद्यात् । यद्यपि साधारणं, तथापि यावत् पितुराभ
वति ताबद् दद्यात् । विवेच्य तु गृहीते प्रसङ्ग एव नास्ति परर्ण94दाने ॥१२॥
न स्त्री पतिकृतं दद्यादृणं पुत्रकृतं तथा ।
अभ्यु95पेतादृते96यद्वा सह पत्या कृतं तथा ॥ १३ ॥
स्त्री पतिकृतमृणं स्वधनान्न दद्यात्, ‘यतो रिक्थमि’त्युत्तरत्र वचनात
पत्युः स्वाद् देयमेव । किमेष एवोत्सर्गः । अभ्युपेतादृते । जीवति पत्यावहं
दात्रीत्यभ्युपेतं दातव्यमेव । यद्वा पत्या सह कृतमुभाभ्यामर्थितम् । पुत्रकृत
स्याप्यैषैव गतिः ॥ १३ ॥
दद्यात् त्वपुत्रा विधवा नियुक्ता या मुमूर्षुणा ।
यो वा तद्रिक्थमादद्याद् यतो रिक्थमृणं ततः ॥ १४ ॥
अपुत्राविद्यमानपुत्रा पत्या मुमूर्षुणा नियुक्ता या सा पतिकृतं दद्यात् ।
अपुत्रेति वचनात् न सपुत्रा । विधवेति वचनान्न देवरादिसमाश्रिता ।नियुक्तेति
वचनान्नानियुक्ता ।मुमूर्षुणेति वचनान्न स्वस्थेन दास्यादिप्रसक्तेन वा । पतिधने
ऽसत्येतत् । सतितु यस्तस्य97रिक्थमादद्यात्, स दद्यात् । अभावे रिक्थभाजो
राज्ञा ग्राह्यत्वाद् रिक्थस्य राजा दद्यात् ॥ १४ ॥
नच भार्याकृतमृर्ण कथाञ्चित् पत्युराभवेत् ।
आपत्कृतादृते पुंसां कुटुम्बार्थो हि विस्तरः ॥ १५ ॥
पतिकृतं भार्या न दद्यादित्युक्तं, तदपेक्षया समुच्चयार्थश्चशब्दः । भार्याकृतं च स्वेच्छया केनचिदपि प्रकारेण पत्या न दातव्यम् । अस्यापवादः— आपन्ने कुटुम्बे तदभ्युद्धरणार्थं तत्कृतं दातव्यम् । यस्मात् पुंसां कुटुम्बभरणार्थो98हि विस्तरः सर्वः प्रयासः पुरुषेण कर्तव्यः99। तया कृतं तस्मादवश्यं दातव्यमिति ॥१५ ॥
अन्यत्र रजकव्याधगोपशौण्डिकयोपितः ।
तेषां तत्प्रत्यया वृत्तिः कुटुम्वं च तदाश्रयम् ॥ १६ ॥
स्त्रीकृतं पतिर्न दद्यादित्युक्तं, तस्यायमपवादः । रजकव्याधगोपशौण्डिकानां योषितो रजकव्याधगोपशौण्डिकयोषितः । एताभिः कृतं दद्यात् पतिः । अत्र कारणमाह—तेषां तत्प्रत्यया वृत्तिः । तत्प्रत्ययः प्रत्ययो यस्याः सा तत्प्रत्यया वृत्तिः । तत्प्रत्ययप्रत्ययेति प्राप्ते एकस्य प्रत्ययशब्दस्य लोपः समासेन गतार्थत्वात् । तदधीनं जीवनमित्यर्थः । कुटुम्बं च तेषां100स्त्रयाश्रयमेव, जीवना ( र्था?र्थम ) न्यत्र व्यापृतत्वाद् गृहेऽसान्निध्यात् । स्त्रीकृतस्याप्रामाण्ये तन्त्रमेव न संवर्तेत101 । अथ ते गृहे ( न ? ) सन्निहिताः स्युः, वृत्तिरेव न स्यात् । अतः स्त्र्यभीनतन्त्रत्वात् स्त्रीकृतं प्रमाणमिति दातव्यम् ॥ १६ ॥
पुत्रिणी तु समुत्सृज्य पुत्रं स्त्री यान्यमाश्रयेत् ।
तस्या रिक्थं हरेत् सर्वं निःस्वायाः पुत्र एव तु ॥ १७ ॥
स्त्रिया ऋणदानप्रतिषेधार्थमिदमुच्यते । पुत्रवती या नारी पुत्रमुत्सृज्यानिच्छया पुत्रस्यान्यं पतिमाश्रयेत्, तस्याः स्वं धनं हरेत् सर्वम् । सर्वग्रहणं षड्विधस्याप्युपसंग्रहणार्थ102म् । एवशब्दान्नर्णीति गम्यते । ततश्च सा निःस्वैव भवति तस्यै दत्तं हीयते, तस्मान्न दातव्यमिति विधिः । अथवा यद्यन्यमाश्रयेत्, धनं सर्वं पुत्राय दत्त्वा शरीरमात्रेणाश्रयेत् । निःस्वायाः यः पतिः स न तस्या धनं लभते । यत् तया कृतमृणं स एव तद्103 दद्यान्न पुत्र इति ॥ १७ ॥
या च सप्रधनैव स्त्री सापत्या चान्यमाश्रयेत् ।
सोऽस्या दद्यादृणं भर्तुरुत्सृजेद्वा तथैव ताम् ॥ १८ ॥
सह प्रधनेन वर्तत इति सप्रधना सधनैव या स्त्री विधवा सापत्या चान्यमाश्रयेत् । यमसावाश्रयति सोऽस्या104भर्तुः ऋणं दबात्, स्त्रीधनहारित्वात् । उत्सृजेद्वा तथैव ताम् । मथाप्रविष्टां105 सप्रधनामेव तामुत्सृजेदित्यर्थः ॥१८॥
अधनस्य ह्यपुत्रस्य मृतस्योपैति यः स्त्रियम् ।
ऋणं बोदुः स भजते तदेतस्य धनं स्मृतम् ॥ १९ ॥
अविद्यमानधनपुत्रस्य स्त्रियमुपैति परिगृह्णाति यः, तस्याः वोढुः पत्युः ऋणं दद्यात् । सैवास्य धनम् । तां च पर्यगृह्णात् । तस्माद् दद्यात् । ‘यतो रिक्थमृणं तत’ इति न्यायात् ॥ १९ ॥
धनस्त्रीहारिपुत्राणामृणभाग् यो धनं हरेत् ।
पुत्रोऽसतोःस्त्रीधनिनोः स्त्रीहारी धनिपुत्रयोः ॥ २० ॥
धनं च स्त्री च धनस्त्रियौते हर्तुं शीलं ययोस्तौधनस्त्रीहारिणी, तौच पुत्रश्च मनस्त्रीहारिपुत्राः तेषामिति निर्धारणा षष्ठी । तेषां मध्ये यो धनं हरेत् स ऋणं दद्यात्, यस्य तद् धनम् । असतोः स्त्रीधनिनोः पुत्रो दद्यात् । ‘न स्त्री पतिकृतं दद्यादि’ति प्रतिषेधात् स्त्री विद्यमानापि न प्रसक्ता । तस्यां सत्यामपि पुत्र एव दाता । पुत्रेऽसति स्त्रीहारीति वचनात् स्त्रीहारिण्यसति पुत्र इत्ययमर्थो न सम्भवति । तस्मान्न मुमूर्षुणा नियुक्ता, रजकादिस्त्री च । तस्यामसत्यां भ्रनहारिणि चेत्यर्थः । तस्यां हि विद्यमानायां तदधीनत्वात् कुटुम्बस्य सैव दद्यात्, न पुत्रः । धनिपुत्रयोरसतोः स्त्रीहारीति पूर्वस्य विषयः प्रदर्शितः । अथवा ( धन ) स्त्रीहारिपुत्राणामृणभाक् पुत्रः, स्त्रीधनिनोश्च यो धनं हरते, असतोर्धनिपुत्रयोः स्त्रीहारी चेत्ययमर्थो व्यवहितकल्पनया नेयः ॥ २० ॥
उत्तमा स्वैरिणीनां या पुनर्भ्वामुत्तमा तथा ।
ऋणं तयोः पतिकृतं दद्याद् यस्ते उपाश्नुते ॥ २१ ॥
उत्तमा स्वैरिणीनामन्त्या चतुर्थी ।पुनर्भ्यामुत्तमा तृतीया । तयोः पतिकृतमृणं स दद्याद् यस्ते प्राप्नोति भुङ्क्तइत्यर्थः । स्वैरिणीं प्रथमां यो गृह्णाति न तस्य प्रसङ्गः पूर्वस्यामृतत्वात् । द्वितीयस्यापि नास्ति प्रसङ्गः रिक्थभाजां देवरादी ( नाम ?नां ) विद्यमानत्वात् । तृतीयस्यापि नास्ति प्रसङ्गः । धनेन क्रीणाति पत्युश्चर्णं ददाति इति नास्ति प्रसङ्गः । तदेवास्य धनमित्युक्तम् । क्रमाच्चतद्धनाप्रसङ्गः । चतुर्थ्यामस्ति प्रसङ्गः, बान्धवैर्दत्तामसौ गृह्णाति । तस्मात् तत्सम्बन्ध्यणवान् भवति स्वेच्छया प्रतिगृहीतत्वात् । तथा पुनर्भ्वांप्रथमां यो गृह्णाति स न भवति पुनस्संस्कृताग्रहणात्, यथा पूर्वः तस्याश्च पूर्वेणासम्वन्धत्वात् । तथैव द्वितीयायामपि, पूर्वस्यैव जीवनात् । इतरोऽल्पकालसम्बन्धो ग्रहीतरि विद्यमाने कस्मात् तद् दास्यति । अतः स्वैरिण्यामिव तृतीयायामुपपद्यते ॥ २१ ॥
स्त्रीकृतान्यप्रमाणानि कार्याण्याहुरनापदि ।
विशेषतो गृहक्षेत्रदानाधमनविक्रयाः ॥ २२ ॥
स्त्रीभिः कृतानि स्त्रीकृतानि अप्रमाणानि । कार्याणि दानग्रहणादीनि । अनापदि आपत्प्रतीकारार्थं कृतानि प्रमाणानीत्युक्तं भवति । न तस्यामवस्थायां स्त्रीचापल्यात् कृतानि भवन्ति । विशेषत इति वचनादापद्यप्यप्रमाणमित्यवेक्षते । गृहं च क्षेत्रं च गृहक्षेत्रे, दानं चाधमनं च विक्रयश्च दानाधमनविक्रयाः, गृहक्षेत्रयोर्दानाधमनविक्रयाः गृहक्षेत्रदानाधमनविक्रयाः । दासाभरणसुवर्णगवाद्यनापद्यप्रमाणम् । आपद्यपि गृहक्षेत्रं न प्रमाणम् ॥ २२ ॥
एतान्येव प्रमाणानि भर्तायद्यनुमन्यते ।
पुत्रः पत्युरभावे वा राजा वा पतिपुत्रयोः ॥ २३ ॥
एतान्येव प्रमाणानि, पतिरनुमन्यते चेत् । स्त्रीकृतानि प्रमाणम् । पत्युरभावे पुत्रो यद्यनुमन्यते । पुत्राभावे राजकुलं यद्यनुमन्यते । एतत् प्रतिपादितं भवति अस्वतन्त्रा सर्वदा स्त्रीति ॥ २३ ॥
भर्त्रा प्रीतेन यद् दत्तं स्त्रियै तस्मिन् भृतेऽपि तत् ।
सा यथाकाममश्नीयाद् दद्याद् वा स्थावरादृते ॥ २४ ॥
भर्तुः प्रीतिदायं, ( प्रति ? प्रीत ) ग्रहणं कार्यार्थं, भयादिनिवृत्त्यर्थम् । भर्त्रेति वचनात् स्त्रीग्रहणं भार्याविषयम् । मृतेऽपि तस्मिन् सा यथेष्टमश्नीयात् । दद्याच्च ।स्थावरादृते । स्थावरं क्षेत्रगृहारामादि । तत्फलमपि यावज्जीवमश्नीयात् । दानं तु प्रतिषिध्यते अनन्तरत्वात् ॥ २४ ॥
तथा दासकृतं कार्यमकृतं परिचक्षते ।
अन्यत्र स्वामिसन्देशान्नदासः प्रभुरात्मनः ॥ २५ ॥
तथेति तदनुक्रान्तं सर्वमतिदिश्यते । दासकृतमनापद्यप्रमाणम् । आपदि प्रमाणमेव ।स्वामिना प्रीतेन यद् दत्तं तद् यथेष्टमश्नीयात् । न स्थावरमिति । अन्यत्र स्वामिसन्देशात् ।स्वाम्याज्ञया कृतं कृतमेव भवति । उभयत्र हेतुः अप्रभुत्वाद् दासस्य कृतमकृतम् । अप्रभुत्वादेव तदाज्ञया कृतं कृतमेव ॥ २५ ॥
पुत्रेण च कृतं कार्यं यत् स्यादच्छन्दतः पितुः ।
तदप्यकृतमेवाहुर्दासः पुत्रश्च तौ समौ ॥ २६ ॥
पुत्रेण चेति चशब्दःसमुच्चयार्थः । न केवलं स्त्रीदासाभ्यामेव, पुत्रेण च कृतं पितर्यनिच्छति तदप्यप्रमाणम् ।यस्मादस्वातन्त्र्ये दासेन तुल्यः पुत्रः । अस्वातन्त्र्यस्य प्रकृतत्वात् । जात्यादिभिस्तु विशिष्ट एव ॥ २६ ॥
अप्राप्तव्यवहारस्तु स्वतन्त्रोऽपि नचर्णभाक् ।
स्वातन्त्र्यं तु स्मृतं ज्येष्ठे ज्येष्ठ्यं गुणवयःकृतम् ॥ २७ ॥
अप्राप्तव्यवहारः ।तुशब्दोऽवधारणार्थः । स्वतन्त्रोऽपि । अस्वतन्त्रस्तु पित्रादिषु जीवत्सु नर्णभाक् । स्वतन्त्रोऽप्युपरते पितरीत्यर्थः। नर्णं दातव्यम् । अप्राप्तव्यवहार इति वचनादा व्यवहारप्राप्तेर्न दातव्यम् । व्यवहाराज्ञानाद्, अप्राप्तव्यवहार इत्या षोडशाद् वर्षादिति । उत्तमर्णस्तु तावन्तं कालमुदीक्षेत । स्वातन्त्र्यं तु स्मृतं ज्येष्ठे, पितर्युपरते, नेतरे स्वतन्त्राः प्राप्तव्यवहारा अपि । ज्यैष्ठ्यं तु गुणनिमित्तं ब्राह्मणादीनाम् । ‘न हायनैर्न पलितैरि’ति वचनात् । शूद्राणां तु वयोनिमित्तम् । सर्वथा तन्त्रधारणसमर्थो ज्येष्ठः । एतदुक्तं भवति—ज्येष्ठे सतीतर ऋणं न दाप्या106 इति ॥ २७ ॥
त्रयः स्वतन्त्रा लोकेऽस्मिन् राजाचार्यस्तथैव च ।
प्रति प्रति च सर्वेषां वर्णानां स्वगृहे गृही ॥ २८ ॥
स्वतन्त्रा दाप्या इत्युक्तम् । एतेन प्रसङ्गेन स्वतन्त्रा विशेष्यन्ते । त्रयः स्वतन्त्रा लोकेऽस्मिन् राजाचार्यश्च प्रतिवर्णं गृही च खेखेगृहे ॥ २८ ॥
अश्वातन्त्र्यमनन्तरं विशेष्यते क्रमेण—
अस्वतन्त्राः प्रजाः सर्वाः स्वतन्त्रः पृथिवीपतिः ।
अस्वतन्त्रः स्मृतः शिष्य आचार्ये च स्वतन्त्रता ॥ २९ ॥
त्रयः स्वतन्त्रा इत्युक्तम् ।अस्वतन्त्रे सति स्वतन्त्रत्वम्107 । किमपेक्ष्यैषां स्वतन्त्रत्वं, के चैषामस्वतन्त्रा इति । अस्वतन्त्राः प्रजाः सर्वा इति । सर्वग्रहणं वर्णाश्रमान्तरालप्रभवोपसंग्रहार्थम् । स्वतन्त्रो राजा धर्मानुशासने शिष्टपरिपालने दुष्टनिग्रहे च ।तासामस्वतन्त्रता च तदनुशासने स्थानम् । अस्वतन्त्रः शिष्यः, स्वतन्त्रो गुरुः । अत्रापि पूर्ववदेवाध्यापनधर्मानुशासने परिपालने स्खलितप्रायश्चित्तदाने च ।शिष्यस्यापि तथैव तद्विधेयता ॥ २९ ॥
अस्वतन्त्राः स्त्रियः पुत्रा दासाश्चसपरिग्रहाः ।
स्वतन्त्रस्तत्र तु गृही यस्य स्यात् तत् क्रमागतम् ॥ ३० ॥
अस्वतन्त्रा भार्या पुत्रा दासाश्चान्यश्च परिग्रहः, तदुपजीवी तद्वशे स्थातव्यः । स्वतन्त्रस्तेषां गृही । गृहमिति तन्त्रस्याख्या ।यस्य तत् क्रमागतं पारम्पर्यागतम् । क्रमग्रहणस्यैतत् प्रयोजनं—बालो वा वृद्धो वा विद्वान् वेतरो वा ॥ ३० ॥
गर्भस्थसदृशो ज्ञेय आष्टमाद् वत्सराच्छिशुः ।
बाल आ षोडशाद् वर्षात् पौ108गण्डश्चेति शब्द्यते ॥ ३१ ॥
गृही स्वतन्त्र इत्युक्तम् । कस्यामवस्थायां स्वतन्त्र इति न ज्ञायत इत्यतो विशिनष्टि ।गर्भस्थैस्तुल्य आष्टमाद् वर्षात् । मर्यादायामाङ् द्रष्टव्यः । गर्भस्थाश्यं च शौचसंस्कारव्यवहारेऽन109धिकृतत्वम् । अष्टमादारभ्य आ षोडशाद्बालः पौगण्ड इति चोच्यते । इह पौगण्डशब्देनोत्तरत्र व्यवहारार्थम् ‘अजलश्चेदपौ110गण्ड’ इत्येवमादि ॥ ३१ ॥
परतो व्यवहारज्ञः स्वतन्त्रः पितरावृते ।
जीवतोर्ह्यस्वतन्त्रः स्याज्जरयापि समन्वितः ॥ ३२ ॥
परतः षोडशाद् वर्षात् प्राप्तव्यवहारः शिक्षितव्यः पितरावृते । माता च पिता च पितरौ । ‘पिता मात्रा’ (१-२-७०) इत्येकशेषः । ताभ्यामृते तयोरसतोरित्यर्थः । जीवतोर्ह्यस्वतन्त्र एव भवेत् । वृद्धोऽपि ताभ्यां नियुक्तोऽपि तन्त्रे तयोरस्वतन्त्र एव तदधीन एव स्यादित्यर्थः । ननुच पितरावृत इति पञ्चम्या भवितव्यम्, ‘अन्यारादितरर्त—’ (२-३-२९) इति । ‘सिद्धे शब्दार्थसम्बन्ध इति व्याकरणेन शिष्टप्रयुक्तानामन्वाख्यानं क्रियते । अस्माच्च शिष्टात् कोऽन्यः शिष्टो भविष्यति, यत्प्रयुक्तानामन्वाख्यानं क्रियते । तथा- चाभिधानलक्षणाः कृत्तद्धितसमासा इत्युक्तम् । ‘तत आगतः’ (४-३-७४) इति ‘तेन खनति’(४-४-२) इति च सत्यपि सा111मान्यलक्षणे वृक्षमूलादागतःअङ्गुल्या खनतीति च प्रत्ययो न भवति, अनभिधानादित्युक्तम् । अनभिधानं च शिष्टैरप्रयुक्तत्वम् । तस्मादनेन प्रयुक्तत्वादन्वाख्यानं कर्तव्यं शास्त्रेण । अनन्वाख्याने शास्त्रस्य दोषः स्यात् । तेभ्यो ह्ययमाप्ततमः । अन्येषां च शिष्टानां प्रयोगो दृश्यते—
“कल्पच्छ112न्दोविचितिग्रहचारपुराण वास्तुविद्यासु ।
सम्यङ् न यन्ति सिद्धिं गणितमृते लोकयात्रायाः ॥”
तथा भगवता वाल्मीकिनाप्युक्तं—
“नह्यहं जीवितुं शक्तस्तामृते जनकात्मजाम् ।”
इति । व्यासेनाप्युक्तम्— ‘ऋते देवव्रतं भीष्ममि’ति ॥ ३२ ॥
तयोरपि पिता श्रेयान् बीजप्राधान्यदर्शनात् ।
अभावे बीजिनो माता तदभावे तु पूर्वजः ॥ ३३ ॥
तयोरपि पित्रोः पिता प्रशस्यतरः । तस्मिन् जीवत्यस्वतन्त्रा माता । तस्मिन् गरीयसी वृत्तिः कार्या । अत्र हेतुरुच्यते—बीजप्राधान्यदर्शनादिति । बीजं प्रधानमाधारभूतं क्षे113त्रं तदर्थत्वाद् तदपि गुरु भवति । यथा घटे निहिते सुवर्णे सुवर्णमेव प्राधान्याद् रक्ष्यते, तद्द्वारेण घठः । तदभावे पितुर्माता गरीयसी, तत्प्रभवत्वात् पुत्राणाम् । तदभावे भ्राता ज्येष्ठः, संस्कारविनयादेस्तत्प्रभवस्यात् ॥ ३३ ॥
स्वतन्त्राः सर्व एवैते परतन्त्रेषु सर्वदा ।
अनुशिष्टौ *114निसर्गे च विक्रये चेश्वरा मताः ॥ ३४ ॥
स्वतन्त्राः सर्व एवैते तदधीनेषु । पिता सर्वेषां स्वतन्त्रः, माता पित्रा विना, मात्रा विना भ्राता, यं प्रति यस्य स्वतन्त्रत्वं तेषु नित्यं तस्य स्वतन्त्रत्वम् । अनुशिष्टौ अनुशासनमनुशिष्टिः। ( आबा ? अदा ) दिषु द्रष्टव्यः । लिङ्गं च ‘शासु अनुशिष्टावि’ति । कर्तव्यताकर्तव्यतयोः प्रवृत्तिनिवृत्त्योरित्यर्थः । निसर्गे च दाने च तैर्दत्तं115दत्तं भवति । विसर्ग इति पाठान्तरम् ।परित्यागः । तेषां शासने अनवस्थाने द्रव्याणां च यथेष्टं विक्रये च स्वतन्त्राः । नान्यत्र मरणादौ ॥ ३४ ॥
यद् बालः कुरुते कार्यमस्वतन्त्रस्तथैव च ।
अकृतं तदिति प्राहुः शास्त्रे शास्त्रविदो जनाः ॥ ३५ ॥
यद् बाल आ षोडशाद् वर्षात् कुरुते कार्यं व्यवहारम् । अस्वतन्त्रश्च यस्मिन् यस्मिन्जीवति यो योऽस्वतन्त्रः तेन तेन कृतमकृतम् अप्रमाणं तत् । शास्त्रे धर्मशास्त्रे116। धर्मशास्त्र इति हेतुः । आहुः । स्वतन्त्रमननुज्ञाप्यास्वतन्त्रैः कृतमप्रमाणं, यः करोति सोऽर्थाद्धीयते ॥ ३५ ॥
स्वतन्त्रोऽपि हि यत् कार्यं कुर्यादप्रकृतिं गतः ।
तदप्यकृतमेवाहुरस्वतन्त्रः स हेतुतः ॥ ३६ ॥
स्वतन्त्रस्य सर्वदा प्रामाण्ये प्राप्त उच्यते । स्वतन्त्रोऽपि हि यत् कार्यं कुर्यादप्रकृतिं गतः, तदप्यप्रमाणम् । यस्मात् तदासावस्वतन्त्रः, अप्रकृतिगमनाद्धेतोः । स्वस्थकृतं प्रमाणमित्येतदुक्तं भवति ॥ ३६ ॥
कामक्रोधाभियुक्तार्तभयव्यसनपीडिताः ।
रागद्वेषपरीताश्च ज्ञेयास्त्वप्रकृतिं गताः ॥ ३७ ॥
कामश्च कोषश्चाभियुक्तश्चार्तश्च भयं च व्यसनं चेति द्वन्द्वः । एतैः पीडिताः । आर्ताभियुक्तौ सामर्थ्याद् वर्जयित्वा एतैः प्रत्येकं पीडितशब्दोऽभिसम्बध्यते । अथवा आर्ताभियुक्तावपि भावसाधनौ । ततः सर्वैः प्रत्येकं पीडित-
शब्दोऽभिसंबध्यते । अथवा कामयतेः कर्तरि पचाद्यच् । क्रुधेरपि तथैव । कामयमानश्च क्रुद्धश्चाभियुक्तश्वार्तश्च कामक्रोधाभियुक्तार्ताः । भयं च व्यसनं च भयव्यसने भयव्यसनाभ्यां पीडिता भयव्यसनपीडिताः, कामक्रोधाभियुक्तार्ताश्च भयव्यसनपीडिताश्च कामक्रोधाभियुक्तार्तिभयव्यसनपीडिताः । अथवा भयशब्दोऽपि पचादिकाजन्तः । व्यसनशब्दः ‘कृत्यल्युटो बहुलम्’ (३-३-१२) इति वचनात् ल्युट् कर्तरि । अतः कामश्च क्रोधश्चाभियुक्तश्चार्तश्च भयव्यसनपीडिताश्चेति द्वन्द्वः । कामेन पीडितः । कामो नाम यद्य ( प्य ) प्राप्तप्राप्तीच्छा प्राप्तावियोगेच्छा च, तथापीहास्वस्थोपलक्षणात् स्त्रीविषयो गृह्यते । सा ह्यकार्येषु पुरुषं प्रवर्तयति । क्रोधःपराभिद्रोहबुद्धिः सोऽपि बुद्धिमोहं करोति ।
तथाचोक्तं—
“क्रोधो नाम सचक्षुषामपि तमः शत्रुः स्वदेहोत्थित
आयासो मनसः श्रुतस्य निधनं रूपान्वितानां जरा ।
बुद्धेर्मोहनमात्मनः परिभवो नित्योत्थितो देहिनां
यः पूर्वं दहति स्वमेव हृदयं पश्चात् परान् वा नवा॥”
इति । अभियुक्तः सत्येनानृतेन वा परेण राजकुले लेखितः । आर्तो व्याध्वादिना पीडितः । भयमागामिदुःखज्ञानं तेन पीडितः, भीतो वा । व्यसनं द्यूतपानादि, सुहृद्वियोगो वा । पीडितः केनचित् कार्याम्तरेण स्वैः परैर्वा । रागश्च द्वेषश्च रागद्वेषौ ताभ्यां परिगतः परीतः । परीतशब्दः प्रत्येकमभिसम्बध्यते रागपरीतो द्वेषपरीत इति । एते पूर्वश्लोकेऽप्रकृतिं गत इत्यनेन सामान्येनोक्ता विशेषिताः । एतैस्तत्कालकृतमप्रमाणम् ॥ ३७ ॥
कुले ज्येष्ठस्तथा श्रेष्ठः प्रकृतिस्वस्तु यो भवेत् ।
तत्कृतं स्यात् कृतं कार्यं नास्वतन्त्रकृतं कृतम् ॥ ३८ ॥
तस्मिन् कुले यो ज्येष्ठो बृद्धः, तथा श्रेष्ठः गुणैः प्रशस्यतमः, तन्त्रस्य नेता प्रकृतिस्थश्च स्वस्था यदि भवति तत्कृतं प्रमाणं भवति, स चेत् स्वतन्त्रः, पित्राद्यभावादित्यर्थः ॥ ३८ ॥
धनमूलाः क्रियाः सर्वा यत्नस्तत्साधने मतः ।
वर्धनं रक्षणं भोग इति तस्य विधिः क्रमात् ॥ ३९ ॥
धनाश्रयत्वाद् विवादस्य धनार्जनविधिमेव तावत् प्रस्तौति, धनगुणं धनगतिं च । धनमूलाः धनाश्रयाः सर्वाः क्रियाः दृष्टादृष्टसुखदुःखोपभोगादिक्रियाः ।
तस्मात् पुरुषस्य यत्नः सर्वा प्रवृत्तिः तस्य धनस्य साधने । निमित्तसप्तमी । तत्सिद्धिनिमित्ता117।केशेषु ‘चमरीं118हन्ती’ ति यथा । तस्य च त्रिविधा गतिः, वर्धनमुपचयः । रक्षणं पालनम् । भोग उपभोगः । इतिशब्दः परिच्छेदार्थः । विधिर्विधीयत इति । त्रिप्रकारं कर्तव्यम् । क्रमात् पूर्वं वर्धनं, वृद्धस्य नाशो मा भूदिति रक्षणं, रक्षितस्य फलमुपभोग इति ॥ ३९ ॥
तत् पुनस्त्रिविधं ज्ञेयं शुक्लं शबलमेव च ।
कृष्णं च तस्य विज्ञेयः प्रभेदः सप्तधा पुनः ॥ ४० ॥
तत् पुनर्धनं त्रिविधं शुक्लं शबलं कृष्णमिति । तस्य त्रिविधस्यैकैकस्य प्रभेदः सप्तधा ॥ ४० ॥
शादिप्रभेदांच्चविशिनष्टि—
श्रुतशौर्यतपःकन्याशिष्ययाज्यान्वयागतम् ।
धनं सप्तविधं शुक्लमुदयोऽप्यस्य तद्विधः ॥ ४१ ॥
शुक्लं तद्वेदाश्वोच्यन्ते । श्रुतेनोपात्तमध्ययनादिना ।शौर्येण युद्धादिना । तपसा जपहोमदेवताराधनादिना ।कन्या शुल्कनिमित्तम् । शिष्येभ्य आगतं गुरुदक्षिणा । याज्यादुपागतमार्त्विज्येन । अन्वयागतं क्रमागतं, यस्य यद् विहितं तस्य तथा प्राप्तमेव119। तच्छुक्लमित्युक्तं सप्तप्रकारम् \। उदयः फलं, तस्य धनस्य, तथाविधं शुक्लमेव, शुद्धं धर्मत एवेत्यर्थः ॥ ४१ ॥
कुसीदकृषिवाणिज्यशुल्कशिल्पानुवृत्तिभिः ।
कृतोपकारादाप्तं च शबलं समुदाहृतम् ॥ ४२ ॥
सम्प्रति शबलं तद्भेदाश्चोच्यन्ते । कुसीदमन्यायोद्वृत्तंमर्थप्रयोगः, अल्पं दत्त्वाभूयसो ग्रहणादधर्मानुषक्तम् । कृषिरपि “भूमिं भूमिशयांश्चैव हन्ति काष्ठमयोमुखम् ।" इत्यधर्मानुषक्तत्वात्, “ऋतामृताभ्यां जीवेत" इत्यादिना विहितत्वाच्च शबलम् । वाणिज्यमप्यतिसन्धानपरत्वात् “सत्यानृताभ्यामि” ति विधानाच्च शबलम् । शुल्कमारभटगुल्मादिषु भूताभूतग्रहणाच्छबलम् ।शिल्पं कारुकवृत्तिः स्वश्रमफलत्वाद्120 अतिसन्धानसम्बन्धपरत्वाच्च शबलम् ।अनुवृत्तिः सेवा, सापि शिल्पवत् । कृत उपकारो यस्य तत एव चोपकारकरणात् तस्य च विक्रयत्वाच्छबलम् ॥ ४२ ॥
सम्प्रत्यशुद्धमुच्यते—
पार्श्वकद्यूतदूतार्तप्रतिरूपकसाहसैः ।
व्याजेनोपार्जितं यच्च तत् कृष्णं समुदाहृतम् ॥ ४३ ॥
पार्श्वकमुत्कोचादिनोपात्तम् । द्यूतेनोपात्तं सत्यानृताभ्याम् । दूतं दौत्येनोपात्तम् । आर्तादागतम् । प्रतिरूपकं कूटादिनोपात्तम् । सहसोपात्तं चौर्यादिना । व्याजेन चानृतेन सत्याभासेनात्र सर्वत्र प्रतिषिद्धत्वादसत्यातिसन्धानसम्बन्धाच्च कृष्णमेव ॥ ४३ ॥
तेन क्रयो विक्रयश्च दानं ग्रहणमेव च ।
विविधाश्च प्रयुज्यन्ते क्रियाः सम्भोग एव च ॥ ४४ ॥
त्रिप्रकारेणैव धनेन क्रयविक्रयदानग्रहणोपभोगा धनानुरूपाः क्रियन्ते,विविधाश्च क्रियाः ॥ ४४ ॥
यथाविधेन द्रव्येण यत्किञ्चित् कुरुते नरः ।
तथाविधमवाप्नोति स फलं प्रेत्य चेह च ॥ ४५ ॥
यथाविधेन द्रव्येण शुक्लेन शबलेन कृष्णेन वा यत्किञ्चित् कुरुते यजनयाजनादि, तथाविधं तत्प्रकारं धनानुरूपमित्यर्थः । शुक्लेन शुद्धमेव दुःखरहितम् । शबलेन मिश्रम् ।कृष्णेन दुःखोदयम् । इहापि तथैव ॥ ४५ ॥
तत् पुनर्द्वादशविधं प्रतिवर्णाश्रयं स्मृतम् ।
साधारणं स्यात् त्रिविधं शेषं नवविधं स्मृतम् ॥ ४६ ॥
एष धर्म्य इष्यते वचनात् । तत् पुनर्धर्म्यं धनं द्वादशविधम् । वर्णं प्रत्याश्रयात् सर्वेषामेव वर्णानां साधारणवैशेषिकभावेन स्मृतम् । तत्र साधारणं स्यात् त्रिविधं चतुर्णामपि वर्णानाम् । शेषं नवविधं प्रतिवर्णं विभज्यते ॥ ४६ ॥
तत्र साधारणं विशेष्यते—
क्रमागतं प्रीतिदायं प्राप्तं च सह भार्यया ।
अविशेषेण सर्वेषां वर्णानां त्रिविधं धनम् ॥ ४७ ॥
क्रमागतं पितृपितामहप्राप्तं ग्रामक्षेत्रगृहादि । प्रीतिदायं प्रीतिपूर्वक्रमागतम् । भार्यया च सहलब्धम् अविशेषेण साधारणं सर्वेषां वर्णाना त्रिविधमित्युक्तम् ॥ ४७ ॥
यत् प्रतिवर्णंत्रिधा त्रिधाविभक्तं नवविधं तदुच्यते क्रमेण—
वैशेषिकं धनं ज्ञेयं ब्राह्मणस्य त्रिलक्षणम् ।
प्रतिग्रहेण लब्धं च याज्यतः शिष्यतस्तथा ॥ ४८ ॥
ब्राह्मणस्य प्रतिग्रहाध्यापनयाजनलब्धं वैशेषिकं त्रिविधं प्रत्यात्मिकं धनं साधारणेन सह षड्विधम् ॥ ४८ ॥
तथा—
त्रिविधं क्षत्रियस्यापि प्राहुर्वैशेषिकं धनम् ।
युद्धोपलब्धं कार121श्च दण्ड व्यवहारतः ॥ ४९ ॥
क्षत्रियम्यापि त्रिविधं वैशेषिकं धनं युद्धजितं122 जनपदनिबद्धः कारः व्यवहारतो दण्डः123पूर्वेण सह तथैव षड्विधम् ॥ ४९ ॥
तथा—
वैशेषिकं धनं ज्ञेयं वैश्यस्यापि त्रिलक्षणम् ।
कृषिगोरक्षवाणिज्यं शूद्रस्यैभ्यस्त्वनुग्रहात् ॥ ५० ॥
वैश्यस्यापि तथैव कृषिगोरक्षवाणिज्यसमुत्थम् । एवमेतस्यापि साधारणेन सह षड्विधम् ।शूद्रस्यैभ्यस्त्रिभ्यस्त्वनुग्रहात् । अनुग्रहलब्धं प्रीतिदाय एवेति नास्य वैशेषिकं धनमस्ति । तस्माद् द्वादशविधमित्युक्तम् ॥ ५० ॥
सर्वेषामेव वर्णानामेष धर्मो धनागमः ।
विपर्ययादधर्म्यः स्यान्न चेदापद् गरीयसी ॥ ५१ ॥
सर्वग्रहणं शूद्रोपसंग्रहार्थम् । सर्ववर्णानां धर्मादनपेतो यथोक्तो धनागमः । विपर्ययावतोऽन्यः । एतेषां सङ्करेण सेवाचौर्यबलादिना अप्रतिग्राह्या124याज्याशिष्येभ्यश्च कूटयुद्धानिबद्धकरदुर्दृष्टव्यवहारादिना, अयथोक्तकृषिसस्यग्ग्रहणानुचितभागहरणाविक्रेयविक्रयादिना, शूद्धस्यैषां व्याजपरिचरणानमुज्ञानग्रहणादिना अधर्म्योधनागम इत्यपेक्ष्यते । यद्यापद् गरीयसी न स्यात् । आपदि तु यथाकथञ्चिज्जीवितव्यम् । आपदित्येव वक्तव्ये गरीयोग्रहणान्नात्ममात्रे अ125जीवनावस्थायामिति ॥ ५१ ॥
आपत्स्वनन्तरा वृत्तिर्ब्राह्मणस्य विधीयते ।
वैश्यवृत्तिस्ततश्वोक्ता न जघन्या कथञ्चन ॥ ५२ ॥
आपत्प्रदर्शनार्थमुच्यते । आपत्स्विति बहुवचननिर्देशान्नैकस्यामापदीति गम्यते । अ126जीवनावस्थायामित्यर्थः । तथान्यत्राप्युक्तम्— “अ127जीवन्तस्त्वधर्मेणानन्तरां पापीयसी वृत्तिमातिष्ठेयुरि"ति । अनन्तरा ब्राह्मणस्य क्षत्रियवृत्तिः,सा विधीयते । क्षत्रवृत्ती राजधर्मेषुक्ता । तत इति । तयाप्यजीवतो वैश्यवृत्तिरुक्ता । न जघन्या शूद्रुवृत्तिः कस्याञ्चिदापदि । जघन्यशब्दो ब्राह्मणवृत्त्यपेक्षया सर्वासां जघन्यत्वेऽपि128 सति द्वयोरनुज्ञातत्वाद् वैश्यवृत्त्यनन्तरवचनाच्च
शूद्रवृत्तिविषयः ॥ ५२ ॥
न कथञ्चन कुर्वीत ब्राह्मणः कर्म वार्षलम् ।
वृषलः कर्म न ब्राह्मं पतनीयौ हि तौतयोः ॥ ५३ ॥
ब्राह्मणस्य वृषलवृत्तिनिषेधार्थं ‘न जघन्ये’ति निषिद्धोऽर्थः पूर्वेणार्धेना
नूद्यते । उत्कृष्टस्य निकृष्टकर्मप्रतिषेधात् निकृष्टस्योत्कृष्टकर्म गुणवत् स्यादिति
तन्निवृत्त्यर्थमाह न केनचिदपि प्रकारेण शौद्रं कर्म ब्राह्मणःकुर्वीत शुश्रूषादि
शूद्रोऽपि तथैव ब्राह्मणकर्माध्यापनादि । यथा ब्राह्मणस्य शूद्रकर्म पतनीयं, तथा
शूद्रस्यापि ब्राह्मणकर्म ।शूद्रस्य ब्राह्मणकर्मप्रतिषेधात् क्षत्रियवैश्ययोरापदि
अध्यापनाद्यस्तीति गम्यते । तथाच श्रुतावप्युक्तं– ‘सह श्वो भूते समित्पाणिः
केशिनी राजानमाजगामे’ति ॥ ५३ ॥
उत्कृष्टं चापकृष्टं च तयोः कर्म न विद्यते ।
मध्यमे कर्मणी हित्वा सर्वसाधारणे हि ते ॥ ५४ ॥
उत्कृष्टनिकृष्टे ब्राह्मणशूद्रयोः कर्मणी न विद्येते । नोभे उभयोर्निषिध्येते ।
ब्राह्मणस्यापकृष्टं शूद्रस्योत्कृष्टम् । कुत एतत् । द्वयोरात्मीययोर्विहितत्वात् । पूर्वोक्त
एवायमर्थः प्रयत्नेन वर्जनार्थः । मध्यमे कर्मणी हित्वा वर्जयित्वा सर्वेषां129त्रयाणां
साधारणत्वात् तयोरापदि अनापदीति विशेषः । सर्वग्रहणाद् ब्राह्मणकर्मणः
शूद्रस्य पतनीयवचनाच्च कृष्यादि पालनादि च शूद्रस्यापि कस्याञ्चिद-वस्वायाम्
अनुजानाति ॥ ५४ ॥
आपदं ब्राह्मणस्तीर्त्वाक्षत्रवृत्त्या भृते जने ।
उत्सृजेत् क्षत्रवृत्तिं तां कृत्वा पावनमात्मनः ॥ ५५ ॥
आपत्सु ब्राह्मणः क्षत्रवृत्तिमाश्रयेदित्युक्तं, तत् कियन्तं कालमिति न ज्ञायते इत्यतो विशिनष्टि । आपदं तीर्त्वातिक्रम्य । क्षत्रवृत्त्या मृते जने, क्षत्रवृत्त्येत्येतद् भृते जन इत्यनेनापि सम्बध्यते । आपदां तरणं देवपितृकर्माद्यनुष्ठानं कृत्वा कलत्रं च भृत्वा जीवयित्वातिक्रान्तायामापद्युत्सृजेत् क्षत्रवृत्तिम् ।यथारोग्यार्थमौषधपानं रोगनिवृत्तावुत्सृज्यते, तथोत्सृज्य ।पावनं शुद्धिं प्रायश्चित्तं, पूयते येन तत् पावनम् । यदत्रोक्तं तत् कुर्यात् ॥ ५५ ॥
तस्यामेव तु यो वृत्तौ रमते ब्राह्मणो रसात् ।
काण्डपृष्ठश्च्युतो मार्गात् सोऽपाङ्क्तेयः प्रकीर्तितः ॥ ५६ ॥
यो नोत्सृजत्यतिक्रान्तायामापदि, तस्यामेव क्षत्रवृत्तौ रमते रसात् तत्सुस्वास्वादात्, काण्डपृष्ठ आयुधजीवित्वम् आपन्नः क्षत्रियभूत इत्यर्थः । मार्गाद् ब्राह्मणधर्मात् च्युतः प्रतिषिद्धसेवनाद् अपाङ्क्तेयः । काण्डपृष्ठ इति स उक्तः । एतेन वैश्यवृत्तिरपि व्याख्याता– अस्यामप्येषा गति किं पुनर्वैश्यवृत्तिरिति ॥ ५६ ॥
वैश्यवृत्तावविक्रेयं ब्राह्मणस्य पयो दधि ।
घृतंमधु मधूच्छिष्टं लाक्षाक्षाररसासवाः ॥ ५७ ॥
वैश्यवृत्त्या यदा जीवति, तदापवाद उच्यते । पयआदीन्यविक्रेयाणि । एतस्मादेव गम्यते वैश्यस्य पयआदिविक्रये न दोष इति । मधूच्छिष्टं सिक्यम् । क्षारा गुलादयः । रसास्तैलादयः । आसवः सुरा ॥ ५७ ॥
मांसौदनतिलक्षामसोमपुष्पफलोपलाः ।
मनुष्यविषशस्त्राम्बुलवणापूपवीरुधः ॥ ५८ ॥
नीलकौशेयचर्मास्थिकृतपैकसफा मृदः ।
उदश्वित्केशपिण्याकशाकाद्यौषधयस्तथा ॥ ५९ ॥
क्षौमग्रहणात् कार्पासानामदोषः । सोमो यज्ञे न विक्रेयः । उपला रत्नादयो दृषदन्ताः । वीरुधो लतादल्ल्यः । नील्या रक्तं नीलं वस्त्रादि । कोशसम्भूतं कौशेयन् । छागरोमभिः क्रियते प्रस्तरणं कुतपः ।एकशफा अश्वादयः । मृदू-
ग्रहणादन्येषां पार्थिवानां हरि ( त ? ता ) लादीनामदोषः । केन्नाश्चामरादयः शाकाद्या ओषधयः । ओषध्यः कल्पाकान्ताः ॥ ५८, ५९ ॥
ब्राह्मणस्य तु विक्रेयं शुष्कदारु तृणानि च ।
गन्धद्रव्यैरकालेयतूल मूलतुषादृते ॥ ६० ॥
अविक्रेयवचनादेव शेषाणां विक्रेयत्वेऽवगतेऽपि विक्रेयवचनं विक्रेयप्रदर्ह्यनार्थम् । एवञ्च किलाटकूर्चिकादीनां प्रतिषेधः सिद्धो भवति । ब्राह्मणस्य तु विक्रेयमुच्यते—शुष्कदारु तृणानि च । अनेनोत्सर्गेण प्राप्तानां प्रतिषेध उच्यते—गन्धद्रव्याणि चन्दनागरुकालेयकादीनि एरका, तूलं शल्मलीतूलादि, मूलं कन्दादि, तुषम् । एतेभ्यो विना ॥ ६० ॥
स्वयं विशीर्णं विदलं फलानां बदरेङ्गुदे ।
रज्जुः कार्पासिकं सूत्रं तच्चे130दविकृतं भवेत् ॥ ६१ ॥
विक्रेमित्यनु131वर्तते । स्वंय विशीर्णं वंशादि, ओषषीग्रहणेन132प्रतिषिद्धस्य पुनः प्रतिप्रसवः फलत्वात् प्रतिषिद्धयोर्बदरैङ्गुदयोरनुज्ञा ।रज्जुः शुल्बादि । कार्पासिकं सूत्रम् ।भेदेन वा कार्पासिकं वस्त्रादि । एवञ्च क्षौमप्रतिषेधोऽर्थवान् भवति । सूत्रमविशेषेण । तदुभयमविकृतं यदि भवति लाक्षाकुसम्भादिरक्तं यदि न भवति ॥ ६१ ॥
अशक्तौभेषजस्यार्थे यज्ञहेतोस्तथैव च ।
यद्यवश्यं तु विक्रेयास्तिला धान्येन तत्समाः ॥ ६२ ॥
अशक्तौ व्याधितः औषधार्थे यज्ञसिद्ध्यर्थं च विक्रीयमाणेषु तिलेषु असम्भवे अवश्यं वि ( क्री ? क्रे ) यत्वे तिला धान्येन समा विक्रेयाः । प्रतिषिद्धानां विशिष्टे विषये प्रतिप्रसवः ॥ ६२ ॥
अविक्रेयाणि विक्रीणन् ब्राह्मणः प्रच्युतः पथः ।
मार्गे पुनरवस्थाप्यो सज्ञा दण्डेन भूयसा ॥ ६३ ॥
अविक्रेयाणि प्रतिषिद्धानि विक्रीणानो ब्राह्मणः प्रच्युतः स्वमार्गात्
स्वधर्माद्राज्ञा पुनः स्वधर्मेऽवस्थापयितव्यः, भूयसा दण्डेन । भूयोग्रहणं नः दण्डमात्रार्थं, यावता दण्डेन भीतो न भूयो133विक्रीणीते तावतेति ॥ ६३ ॥
प्रमाणानि प्रमाणस्थैः परिपाल्यानि यत्नतः ।
सीदन्ति हि प्रमाणानि प्रमाणैरव्यवस्थितैः ॥ ६४ ॥
प्रमाणानि वक्ष्यमाणानि, प्रमाणस्थैः प्रमाणभूतैः स्थाने स्थितैः परिपाल्यानि नान्यथा कर्तव्यानि प्रयत्ने ( न? ) नानु134 ( त्सृ? सृ ) त्ययथा प्रमाणानि तथैव कर्तव्यानि । अकरणे सीदन्ति यस्मात् प्रमाणानि विनश्यन्ति । प्रमाणैरव्यवस्थितैः अन्यथा चान्यथा च क्रियमाणैः । तस्मात् प्रयत्नेन यथा व्यवस्था प्रमाणानां तथैकरसेन प्रवर्तयितव्यानीति ॥ ६४ ॥
लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं विदुः ।
धमस्वीकरणे येन धनी धनमुपाश्नुते ॥ ६५ ॥
पत्रं साक्षिणो भुक्तिरित्येतत्त्रिविधं प्रमाणं धनस्य स्वीकरणे, येन प्रमा135णेन धनवान् धनं भुङ्क्ते । अन्यथा न कश्चिद् धनी धनमुपाश्नुते । ‘धनमूलाः क्रियाःसर्वा’ इत्यारभ्योक्तैरुपायैराजितं धनं धनी प्रमाणैः सुस्थितैर्भुङ्क्ते । अपरिपालने प्रमाणानां सर्वमेतदुपायेन धनोपार्जितवचनमनर्थकं स्यात् स्वस्वामिभावस्याव्यवस्थानात् ॥ ६५ ॥
लिखितं बलवन्नित्यं जीवन्तस्त्वेव साक्षिणः ।
कालातिहरणाद्मुक्तिरिति शास्त्रेषु निश्चयः ॥ ६६ ॥
पत्रं बलवन्नित्यं सर्वकालं, न तस्य कालनियमोऽस्ति । साक्षिणस्तु जीवन्त एव, मृतेषु136तेषु न प्रमाणाभावात् । तस्मात् ततो बलवद् भवति पत्रम् । भुक्तिस्तु बहुना कालेनाप्यविच्छिन्ना137 प्रमाणम् । ततोऽपि पत्रं नित्यत्वात् प्रमाणम् ॥ ६६ ॥
त्रिविधस्यास्य दृष्टस्य प्रमाणस्य यथाक्रमम् ।
पूर्वं पूर्वं गुरु ज्ञेयं भुक्तिर्वैषां गरीयसी ॥ ६७ ॥
त्रिप्रकारस्य प्रसिद्धस्य प्रमाणस्य यथोक्तक्रमेण पूर्वं पूर्वं बलवद्, भुक्तेः साक्षिणः, साक्षिभ्यः पत्रम् ।भुक्तेरसान्निध्यबलादिनापि सम्भवात्
साक्षिणस्तु प्रमाणीकृता नान्यथा वदिष्यन्तीति साक्षिषु स्मरणमात्रं, विस्मरणसंशयसम्भवाद् धनेनान्यथाकरणाश्चपत्रे स्मरणमुपनिबद्धं चास्तीति पूर्वस्य पूर्वस्य बलवत्त्वम् ।दर्शनान्तरमतत्138 । ‘भुक्तिर्वैभ्य’ इति पाठे बहुवचनं दुरागमम् । एषामेष्विति पाठे निर्धारणा । ततश्च तेषां त्रयाणां मध्ये निर्धार्यमाणा भुक्तिर्गरीयसी भवति । गरिष्ठेति प्राप्ते एकैकापेक्षः प्रकर्षप्रत्ययः । द्वे चैकीकृत्य ॥ ६७ ॥
भुक्तेगेरीयस्त्वे कारणमाह—
विद्यमानेऽपि लिखिते जीवत्स्वपि हि साक्षिषु ।
विशेषतःस्थावराणां यन्न भुक्तं न तत् स्थिरम् ॥ ६८ ॥
त्रयाणां स्वविषयसन्निधौ पत्रे विद्यमाने जीवत्सु च साक्षिषु यन्न भुक्तं न तत् स्थिरम् । विशेषतः क्षेत्रगृहारामतटाकसेतुषु । कस्यचित् पत्रमस्ति । साक्षिणः कस्यचित् । कस्यचिदच्छिन्नकालान्तरभोगः । तत्र कालान्तरभोगे सति भोगहीनमुभयमप्यस्थिरम् । तस्माद् भुक्तिर्गुरुतमा139॥ ६८ ॥
भुज्यमानान् परैरर्थान् यः स्वमौढ्यादुपेक्षते ।
समक्षं जीवतोऽप्यस्य तान् भुक्तिः कुरुते स्वकान् ॥ ६९ ॥
इतश्चभुक्तेर्बलीयस्त्वम् । भुज्यमानान् परैः स्वार्थान् भूमिहिरण्यादीन् यो मूढत्वादुपक्षेते, समक्षं सन्निहितस्य जीवतोऽपि तानर्थान् भुक्तिर्भुज्यमानस्य स्वान् कुरुते । तस्माद् भोगो नोपेक्ष्यः ॥ ६९ ॥
इतश्च—
यत्किञ्चिद्र्वदश वर्षाणि सन्निधौप्रेक्षते धनी ।
भुज्यमानं परैस्तूष्णीं न स तल्लब्धुमर्हति ॥ ७० ॥
यत्किञ्चिद् द्रव्यं दश वर्षाणि सन्निहित उपेक्षते धनी परैर्भुज्यमानं स्वधनमप्रतिरवं, ततश्चोर्ध्वंन तद् धनं स लभते ॥ ७० ॥
उपेक्षां कुर्वतस्तस्य तूष्णीम्भूतस्य तिष्ठतः ।
कालेऽतिपने पूर्वोक्तो140व्यवहारो न विद्यते ॥ ७१ ॥
दशवर्षात्यये व्यवहाराल्लभ्येऽपि तन्निवृत्त्यर्थमाह—उपेक्षां कुर्वतः स्वधनस्य भुज्यमानस्य तूष्णीम्भूतस्य किञ्चिदप्यब्रुवतः सन्निहितस्य तिष्ठतः पूर्वोक्ते दशवर्षाख्ये कालेऽतीते न भूयो व्यवहारो विद्यते । तस्योपेक्षादोषाद्भृतं तद् भवति । तस्मान्नोपेक्ष्यः ॥ ७१ ॥
अजलश्चेदपोगण्डो विषये चास्य भुज्यते ।
भुक्तं तद् व्यवहारेण भोक्ता तद् धनमर्हति ॥ ७२ ॥
जलो मूढः अविभागज्ञः । पोगण्डः पुनातेर्विचि141 ( पो ? पौः । ) शुद्धगण्डः142, बाल इत्यर्थः । तथाचोक्तं पूर्वं—‘बाल आ षोडशाद् वर्षात् पोगण्डश्चेति शब्द्यते ।‘इति । अप्राप्तव्यवहार इत्यभिधानविदः । पोषयितव्यग( ण्ड ? ण्डो ) बा । पूरमितव्यगण्ड इत्यन्ये ।दुर्गतो दरिद्रः यस्म स्त्री पोगण्डनीति प्रसिद्धा । युक्तं च तस्य ग्रहणं, स हि परकर्मणा प्राणवृत्तिमन्विच्छन् स्वधनान्वेषणं कर्तुमसमर्थ इति । वररुचिनाप्युक्तं—
“शरीरपाणिचरणैर्निसर्गेण शरीरिणः ।
विकलाः सद्भिरुच्यन्ते पोगण्डकुणिपङ्गवः ॥”
इति । अनाथइत्यर्थः । अजलश्चेदपोगण्डो विषये चास्य भुज्यते । पश्यतः प्रकाशं स्वगोचरे सन्निहितस्य । भुक्तं द्रव्यं व्यवहारेण भोगेन समर्थस्य सन्निहितस्य उपेक्षया चात्मनस्तद् धनं न सोऽर्हति दशवर्षोपभुक्तम् । परतः यदि सप्रतिरवं स्माद्, व्यवहारेण पुनर्हरेत् । कारणद्वयोपन्यासः प्रदर्शनार्थोऽन्यस्यापि स्वधनान्वेषणाभावकारणस्य व्याधिसंरोधदीर्घसत्रप्रवासादेः ॥ ७२ ॥
आधिः सीमा बालधनं निक्षेपोपनिधिस्त्रियः ।
राजस्वं श्रोत्रियस्वं च नोपभोगेन जीर्यति ॥ ७३ ॥
आधिश्च सीमा च बालधनं च निक्षेपश्योपनिथिश्च, स्त्रियश्च परिचारिका दास्यः, निक्षेपोपनिधी वक्ष्येते143 । राज्ञः स्वं लब्धं क्रीतमवष्टब्धं वा । तथा ब्राह्मणस्वम् । तयोर्धर्मप्रजानुशासनयोर्नित्यव्याप्टतत्वात् । एतत् सर्वं
दशवर्षमुक्तमष्यप्रतिरवं न वीर्यति न भोक्ता भोगेन लभते । इतर उपेक्षयां च न144न लभते । ‘यत्किञ्चिद्दशवर्षाणी’ त्यस्मापबादः ॥ ७३ ॥
प्रत्यक्षपरिभोगाच्च स्वामिनो द्विदशाः समाः ।
आभ्यादीन्यपि जीर्येयुः स्त्रीनरेन्द्रधनादृते ॥ ७४ ॥
आध्यादीनामप्यपवादः । ‘यत्किञ्चिद्दशवर्षाणी’त्येतद् दूरत एव । प्रत्यक्षपरिभोगःस्वामिनः पश्यतोऽविवमानस्य विंशतिवर्षाण्याध्यादीन्यपि आधिः सीमेस्यादीन्वपि । किं पुनरुत्सर्ग इति । आध्यादिन्यायेनातिप्रसक्तस्य निवृत्त्यर्थमाह— ऋते स्त्रीधनान्नरेन्द्रधनाच्च।स्त्री च नरेन्द्रश्च स्त्रीनरेन्द्रौ तयोर्धनं स्त्रीनरेन्द्रवनम् । स्त्री च नरेन्द्रधनं चेति वा ॥ ७४ ॥
स्त्री धनं च नरेन्द्राणां न कथञ्चन जीर्यति ।
अनागमं भुज्यमानं वत्सराणां शतैरपि ॥ ७५ ॥
स्त्रीपरकीया, धनं च राज्ञां, न केनचित् प्रकारेण जीर्यति । अनागममप्रमाणकं भुज्यमानं वर्षशतैरपि, किं पुनर्द्विदशैरिति । ‘स्त्रीनरेन्द्रधनादि’त्यत्र द्विदशैर्न जीर्यतीत्युक्तम् । कियता कालेन जीर्यति न वा जीर्यतीत्यविशेषितत्वाद् जनेनविशेषितम् ॥ ७५ ॥
निर्भोगो यत्र दृश्येत न दृश्येतागमः क्वचित् ।
आगमः कारणं तत्र न भोगस्तत्र कारणम् ॥ ७६ ॥
नियतो विश्चितो या भोगो निर्भोगः स यस्मिन् व्यवहारे दृश्यते । यत्रेति विषगसप्तमी, यस्येत्यर्थः । आगमश्च न दृश्यते आगमःपत्रादिर्न दृश्यते, न तद् भोगाद् भवति, यस्मादागमःकारणं न भोगः । ‘विद्यमानेऽपि लिखित ’ इत्यत्र दर्शनान्तरमित्युक्तम् । ‘पूर्वं पूर्वं गुरु ज्ञेयं’ ‘लिखितं बलवन्नित्यम्’ इति पित्रा मुक्तविषये वा ॥ ७६ ॥
भुज्यतेऽनागमं यत्तु न तद् भोगोऽतिवर्तते ।
प्रेते तु भोक्तरि धनं याति तद्वंश्यभोग्यताम् ॥ ७७ ॥
अनातमंप्रमाणरहितं लो145भस्वयंग्रहणादिना भुज्यमानम् । तद् भोगोनातिवर्तते वर्षशतैरपि । तत्र भोगः प्रमाणं पूर्वोक्त एवार्थ उत्तरविशेषणार्थमनूद्यते । तस्मिन् तथा भुञ्जाने विवादरहिते मृतेऽविच्छिलभोगं तद्वंश्यभोग्यतां याति नेतरस्तल्लभते यस्यागमः ॥ ७७ ॥
आहर्तैवाभियुक्तः सन्नर्थतस्तद्धरेत् पदम् ।
भुक्तिरेव विशुद्धिःस्यात् प्राप्तानां पितृतः क्रमात् ॥ ७८ ॥
मृते तद्वंश्यभोग्यतां यातीत्युक्तम् । जीवति कथमिति तदुच्यते—आहर्तैव प्रथमपुरुष एव भुञ्जानोऽभियुज्यते कथं त्वयालब्धमिति अर्थतो न्यायास्पत्रसाक्ष्यादिभिर्लाभं शोधयेत् पदं व्यवहारपदं व्यवहारस्थानं वा । यदि शुध्यति तस्यैव तत् ।नोचेद्धीयते, यावद्भुक्तं तावद्दाप्यश्च दण्ड्यश्च प्रमाणेम बिना परकीयभोगात् । मृत तस्मिन् मुक्तिरेव विशुद्धिः स्मात् प्रमाणं तत्पुत्राणां भवति पितृतः प्राप्तत्वाद्, अबिबादेन पित्रा भुक्तं चेत् । अथ सबिवादेन, तदा पुत्रैर्थसहर्तव्यम् ॥ ७८ ॥
अन्वाहितहृतन्यस्तबलावष्टब्धयाचितम् ।
अप्रत्यक्षं च यद् भुक्तं षडेतान्यागमाद् विना ॥ ७९ ॥
‘अनागमं च यद् भुक्तमि’त्युक्तं, तद्विशे146ष्यते– अन्वाहितं पश्चादाहितं, यथा कश्चिन्माधुरः कन्याकुब्जस्थोमधुरां प्रस्थितस्य हस्ते मम पुत्राय देहीति समर्पितवान्, तत् तेनैव भुज्यते न147तु दीयते । हृतं चौर्यादिना ।न्यस्तं केनाचित् समर्पित इदं तव हस्ते कञ्चित् कालं तिष्ठत्विति । बलावष्टब्धं बलेन परिगृहीतम् । याचितं मम देहीत्युद्यतम् । अप्रत्यक्षं स्वामिनः परोक्षं भुक्तम् । एतानि षडागमाद्विना । अत्र भोगोऽप्रमाणम् ॥७९॥
तथारूढविवादस्य प्रेतस्य व्यवहारिणः ।
पुत्रेण सोऽर्थः संशोध्यो न तद् भोगोऽतिवर्तते ॥ ८० ॥
तथा तेनैव प्रकारेण ।आरूढो विवादो यस्य स आरुढविवादः। तत्वारूढविवादस्य आरब्धापरिसमाप्तव्यवहारस्यप्रेतस्य पुत्रेण सोऽर्थः
संशोध्यः । न सोऽर्थो भोगेन लभ्यते । ‘प्राप्तानां पितृतः क्रमादि’त्यस्यापबादः ॥ ८० ॥
आगमेन विना पूर्वंभुक्तं पूर्वैस्त्रिभिस्तु यत् ।
न तच्छक्यमपाकर्तुंक्रमाश्रिपुरुषागतम् ॥ ८१ ॥
बिनाप्यागमेन पूर्वैस्त्रिभिर्यद् भुक्तम्, ऊर्ध्वं न तच्छक्यं निरसितुम् । क्रमात् त्रिपुरुषागतं प्रमाणमेवेत्यर्थः । ‘आहर्तैनाभियुक्त’ इत्यस्य च, ‘तथारूढविवादस्य’ इत्यस्य च को विशेषः ।आग्रे148तावत् पितॄ149शोधिते भुक्तिरेव विशुद्धिः पुत्रस्येति । तथारूढविवादस्येत्यारब्धव्यवहारस्य मृते पितरि पुत्रेण शोध्यमित्युक्तम् । पु150त्राशोधितमप्यव्यहतं त्रिपुरुषभुक्तं शुद्धं विनापि प्रमाणेनेति ॥ ८१ ॥
सन्तोऽपि न प्रमाणं स्युमृते भनिनि साक्षिणः ।
अन्यत्र श्रावितं यत् स्यात् स्वयमासन्नमृत्युना ॥ ८२ ॥
‘जीवन्तस्त्वेव साक्षिण’ इत्युक्तम् ।जीवन्तोऽपि न प्रमाणं स्युः । वेदाः प्रमाणं स्मृतयः प्रमाणमिति यथा । पुत्रेण बिना त्वं साक्षीत्येवमाह यः मृते151 तस्मिन् कः साक्षीकृतः केन चेत्यविज्ञानात् । तेषां साक्षित्वे पुनः प्रमाणे152 न प्रयोजनमित्यन153बस्था स्यात् । किमेष एवोत्सर्गः । न । मुमूर्षुणा यच्छ्रावितं स्यात्—एते साक्षिणोऽस्मिन्नर्थ इति अन्येभ्यः । तत्र मृतेऽपि साक्षिणः प्रमाणं तेषां साक्षित्वे इतरे प्रमाणमिति । अतोऽन्यत्राप्रमाणम्, एते तत्र साक्षिण इति पत्राभावात् । इतरत्र साक्षित्वे तन्मुखादेव श्रोतृृणां विद्यमानत्वात् प्रमाणम् ॥ ८२ ॥
नहि प्रत्यर्थिनि प्रेते प्रमाणं साक्षिणां वचः ।
साक्षिमत् करणं तत्र प्रमाणं स्याद् विनिश्चये ॥ ८३ ॥
तथाभूत एव विषये प्रत्यर्थिनि प्रेते न प्रमाणं साक्षिणां वचः । विद्यमानसाक्षिकं करणं पत्रं प्रमाणं, तत्र साक्षिव्यतिरिक्तस्य पत्रस्य तेषां साक्षित्वे विद्यमानत्वात् ॥ ८३ ॥
श्रावितस्त्वातुरेणापि यस्त्वर्थो धर्मसंहितः ।
मृतेऽपि तत्र साक्षी स्यात् षट्सु चान्वाहितादिषु ॥ ८४ ॥
आतुरेणापि यच्छ्रावितं धर्माबिरुद्धम् अश्रद्धेयं च यन्न भवति, मृतेऽपि तत्र प्रत्यर्थिनि साक्षी भवेदेव । षट्सु चान्याहितादिषु अन्वाहितहृतन्यस्तादिषु । पूर्वोक्त एवायमर्थो दार्ढ्यार्थं पुनरुक्तः ॥ ८४ ॥
क्रियर्णादिषु सर्वेषु बलवत्युत्तरोत्तरा ।
प्रतिग्रहाधिक्रीतेषु पूर्वा पूर्वा गरीयसी ॥ ८५ ॥
क्रिया पत्रसाक्षिभोगाः । ऋणादिष्वष्टादशस्वपि उत्तरोत्तरा बलवती । ‘लिखितं बलवन्नित्यमि’त्युक्त एवार्थोऽनूद्यते उत्तरविवक्षया । एवमवस्थिते ‘प्रतिमहाधिक्रीतेषु’ ‘पूर्वं पूर्वं गुरु ज्ञेयमि’ति च ‘भुक्तिर्वैभ्यो गरीयसी’ति च तदुभयमनेन विशेषितम् । ‘पूर्वं पूर्वं गुर्वि’ति प्रतिग्रहाभिक्रीतेषु । अन्यो बानेन श्लोकेनाविरुद्धोऽर्थ उत्प्रेक्ष्यः ॥ ८५ ॥
स्थानलाभनिमित्तं हि दानग्रहणमिष्यते ।
तत् कुसीदमिति ज्ञेयं तेन वृत्तिः कुसीदिनाम् ॥ ८६ ॥
स्थानमविनाशः लाभ उदयः स्थानकाभौ निमित्तमस्येति स्थानलाभनिमित्तम् । मूलाविनाशेन वृद्धिनिमित्तमित्यर्थः । दत्तिर्दानं, गृह्यतेऽस्मादिति ग्रहणं वृद्धिरुभयार्थमिष्यते । प्रयोग ( मि ? इ ) त्यर्थः । स प्रयोगः कुसीदमित्युच्यते । तेन कुसीदेन वृत्तिः प्रयोगजीविनाम् ॥ ८६ ॥
कायिका कालिका चैव कारिका च तथा स्मृता ।
चक्रवृद्धिश्व शास्त्रेषु तस्य वृद्धिश्चतुर्विधा ॥ ८७ ॥
कायिकायाश्चतुर्विधाः क्रमेण विशेषयति—
कायाविरोधिनी शश्वत् पणपादादि कायिका ।
प्रतिमासं स्रवन्ती या सा वृद्धिः कालिका स्मृता ॥ ८८ ॥
वृद्धिः सा कारिका नाम यर्णिकेन स्वयं कृता ।
वृद्धेरपि पुनर्वृद्धिश्चक्रवृद्धिरुदाहृता ॥ ८९ ॥
कायिका तावत् कायस्याविरोधिनी । कायः शरीरं मूलं तस्याविरोधः अक्षयः, मूलस्यावाधयातदनुरूपा शश्वत् प्रतिदिवसं पणपादार्धपणादिर्या उभाभ्यामादौ कृता सा कायिका नाम वृद्धिः । तथा या मासं स्रवन्ती सकृत् मासे मासे तु यद्दातव्यमिति कृता सा कालिका । (कायिका) दिवसे दिवसेऽन्यस्मै दत्त्वा वर्धते । कालिका तु ( ते?) नैवम् । मासस्य सकृदेव गृहीता तत आरभ्यते न प्रतिदिवसम् । कारिका नामर्णिकेनोत्तमर्णेन ( च ) स्वयं कृता कटकवृद्ध्यादिपरस्यार्थितामवे154क्ष्यं155 ( त ? ) कृता । चक्र156वृद्धिर्द्विगुणीभूतापि पुनर्वर्धते । ‘द्वैगुण्यान्नातिवर्तते’ इत्युक्तम् । तथाप्यर्थवशेन परिभाषिते द्विगुणीभूतापि यदि न ददासि पुनरपि वर्षत इत्येवं कृता चक्रवृद्धिः ॥ ८८,८९ ॥
ऋणानां सार्वभौमोऽयं विधिर्वृद्धौ कृतः स्मृतः ।
देशाचारविधिस्त्वन्यो यत्रर्णमधितिष्ठति ॥ ९० ॥
ऋणानां सार्वभौमोऽयं विषिः वृद्धिकृतः स्मर्यमाणः । अतोऽन्यो देशाचारापेक्षया ।यस्मिन् ऋणमेतस्माद् उपरि वर्तते ॥ ९० ॥
द्विगुणं त्रिगुणं चै157व तथान्यस्मिश्चतुर्गुणम् ।
तथाष्टगुणमन्यस्मिन् देशे देशेऽवतिष्ठते ॥ ९१ ॥
यत्र सकृत् कृत्वा पुनर्नं मूलीकृतं द्विगुणादीन् नातिवर्तते, तत् क्रमेण विशेष्यते158—
हिरण्यधान्यवस्त्राणां वृद्धिर्द्वित्रिचतुर्गुणा ।
घृतस्याष्टगुणा वृद्धिः स्त्रीपशूनां तु सन्ततिः ॥ ९२ ॥
हिरण्यस्य द्वैगुण्यात् परतो नास्ति वृद्धिः । भान्यस्य त्रैगुण्याद्, वस्त्राणां चतुर्गुणत्वात्, घृतस्याष्टगुणत्वात्, स्त्रीपशूनां तु सन्वतिः प्रतिदिवसभुक्तिर्गवां दोहादिर्वा, स्त्रीणां प्रतिदिवसं कर्म ॥ ९२ ॥
न वृद्धिः प्रतिदत्तानां स्यादनाकारिता क्वचित् ।
अनाकारितमप्यूर्ध्वं वत्सरार्धाद् विवर्धते ॥ ९३ ॥
वृद्धिःप्रतिदत्तानां न स्यात् । अनाकारिता अपरिभाषिता । क्वचिदप्येवमदत्तषण्मासादूर्ध्वं वर्धते । वृद्धिर्देशाचारव्यवस्थ159या160॥ ९३ ॥
एष वृद्धिविधिः प्रोक्तः प्रवृद्धस्येह धर्मतः ।
वृद्धिस्तु योक्ता धान्यानां वार्धुष्यं तदुदाहृतम् ॥ ९४ ॥
एष वृद्धिविधिः प्रोक्तः’कायिका कालिके’त्यारभ्य प्रवृद्धस्याष्टगुणत्वाद्धर्म्या धान्यानां वृद्धिर्योक्ता ‘त्रिगुणे’ति वा वार्धुषमिति यदेतदुदाहृतं तदेतत् केचिद् धान्यानां त्रिगुणे प्रयोगे वार्धुषिक इत्युच्यते, अन्ये धान्यविषया योक्ता तां य उपजीवति सर्वविषयां त्रिगुणमुपजीवतीत्यर्थः स वार्धुषिक इति । तथाच वसिष्टेनोक्तं—
स ( म161? मा ) र्घं ❋162 धनमादाय म ( ह163? हा ) र्धयः प्रयच्छति ।
स बै वार्धुषिको नाम ब्रह्मवादिषु गर्हितः ॥”
इति ॥ ९४ ॥
आपदं निस्तरेद् वैश्यः कामं वार्धुषकर्मणा ।
आपत्स्यपि हि कष्टासु ब्राह्मणस्य न वार्धुषम् ॥ ९५ ॥
आपद्ग्रहणं तत्र काम्यनैमित्तिकाद्य164प्रवृत्तिः । तामवस्थां वार्धुषकर्मणा निस्तरेद् बैश्यः । ‘आपदं निस्तरेदि’ति वचनादुत्तरकालमुत्सृजेदिति गम्यते । ब्राह्मणप्रतिषेधादेव क्षत्रियवैश्यमोः सिद्ध वैश्यग्रहणात् क्षत्रियस्यापि मेष्यत इति गम्यते । ततश्च ब्राह्मणग्रहणं प्रदर्शनार्थम् । अन्य आह– ब्राह्मणप्रतिषेधात् क्षत्रियवैश्ययोरनुज्ञायते, वैश्यग्रहणं प्रदर्शनार्थमिति । वैश्यस्य स्ववृत्तित्वादितरयोः प्रतिषेधो युक्ततरः । आपत्स्वपि हि कष्टासु सर्वावस्थासु ब्राह्मण क्षत्रिययोः प्रतिषेधः, उभयोरस्ववृत्तित्वाविशेषाद् महादोषवचनाच्च—
“ब्रह्महत्यां च वृद्धिं च तुलया समधारयत् ।
अतिष्ठद् भ्रूणहा कोठ्यां बार्धुषिः समकम्पत ॥”
इति । वैश्वस्य वृत्तित्वेनानुज्ञातत्वात् स्ववृत्त्या निस्तरणमुपपद्यते । तथाच वैश्यग्रहणं कृतम् ॥ १५ ॥
ब्राह्मणस्य च यद् देयं सान्वयस्य न चास्ति सः ।
सपिण्डेभ्योऽस्य निवपेत् तदभावेऽस्य बन्धुषु ॥ ९६ ॥
ब्राह्मणस्य तु यद् दातव्यं ब्राह्मणाद् गृहीतमृणं सान्वयस्य, सहान्वयेन सान्वयः ( तस्य । अन्वयः ) पुत्रपौत्रादिःब्राह्म ( णग्रह ? ) णाद् गृहीतमृणं पुत्रपौत्रादिसहितस्य दातव्यमित्यर्थः । नचायमाचारो लोके । तस्माद् ब्राह्मणाद् यद् गृहीतमृणं तत् तस्यैव निवपेत्, तदभावेऽन्वयस्य ।नचेदस्ति सोऽन्वयः, सपिण्डेभ्योऽस्य । अस्येति प्रकृतस्य ब्राह्मणस्य निर्देशः। निवपेत् दद्यादित्यर्थः । वपेरनेकार्थत्वात्, प्रकरणे दृष्टार्थस्य छेदार्थे केशान् वपतीति दर्शनात् । सपिण्डाश्चेति165 विशेषिताः— ‘सपिण्डता तु पुरुषे सप्तमे विनिवर्तते’ इति । तेषामभावस्तदभावः । सपिण्डाभावेऽस्य बन्धुषु ।बान्धवाः पितृमातृसम्बद्धाः प्रत्यासत्तितोऽनुक्रान्तत्वात् । बन्धुष्वपीष्यते प्रत्यासत्तिः ॥ ९६ ॥
यदा च न सकुल्याःस्पुर्नच सम्बन्धिवान्धवाः ।
तदा दद्यात् स्वजातिभ्यस्तेष्वसत्स्वप्सु निक्षिपेत् ॥ ९७ ॥
यदा सपिण्डा बान्धवा न सन्ति, तदा सकुस्येभ्यः । तदभावे तत्सम्वन्धिनान्धवेभ्यः । यदास्य सकुल्या न स्युः, सकुल्या निवृत्तपिण्डोदका एकपुरुषप्रभवाः, यदा च सम्बन्धिबान्धवाः सम्बन्धिनां पितृमातृसम्बन्धिनां बान्धवाः सम्बन्धिनः, न स्युरित्येव, तदास्य स्वजातिभ्यो ब्राह्मणेभ्यो दद्यादसम्बद्वेभ्यः, सामर्थ्यात् । तेष्वप्यसत्सु कदाचिदसान्निध्यं भवति अनिच्छत्सु बाप्सु निक्षिपेत् । ‘आपो वै सर्वा देवताः’, ‘ब्राह्मणो वै सर्वा देवताः’ इति च श्रुतेः स्वजातीयत्वं तासामस्तीति । क्षत्रियस्य यथोक्ताभावे राजा स्वजातीय इति तस्मै दद्यात् । वैश्यस्याप्येवमेव । राज्ञोऽवकीर्णिकस्य चोपदेशः ॥ ९७ ॥
गृहीत्वोपगतं दद्याद् ऋणिकायोदयं धनी ।
अददद्याच्यमानस्तु शेषहानिमवाप्नुयात् ॥ ९८ ॥
सम्प्रति धनिन उपदेशः । गृहीत्वोदयमुत्तमर्ण उपगतं गृहीतस्योदयस्याविस्मरणार्थं लेख्यं दद्याद् ऋणिकायाधमर्णिकाय । गृहीत्वोदयमुपगतमददतो देहीति याच्यमानस्यादानदोषाच्छेषहानिं मूलहानिमवाप्नुयात् मूलमपि विनष्टं भवति । एष दण्डः ॥ ९८ ॥
लेख्यं दद्यादृणे शुद्धे तदभावे प्रतिश्रवम् ।
धनिकर्णिकयोरेवं विशुद्धिः स्यात् परस्परम् ॥ ९९ ॥
ऋणे शुद्धे गृहीते ग्रहणपत्रं तस्मै दद्यात् शुद्धर्णिकाय । तदभावे लेख्यस्यानुपलब्धौ प्रतिश्रवं प्रतिपत्रं गृहीतं मयेति पत्रं दद्यात् । इत्येवं धनिकर्णिकयोः कालान्तरशुद्धिर्भवतीति166 ॥ ९९ ॥
विस्रम्भहेतू द्वावत्र प्रतिभूराधिरेव च ।
लिखितं साक्षिणश्च द्वे प्रमाणे व्यक्तिकारणे ॥ १०० ॥
विस्रम्भो विश्वासः । द्रव्यं परस्मै ददतः पुनरादानार्थं वृद्धयर्थं वा विश्वासकारणं प्रत्यायितः प्रतिभूः ।आधिग्रहणं गोभूहिरण्यादि दित्सतः समातिरिक्तमूल्यम्167 । लिखितं साक्षिणश्च सन्दिग्धापह्नवविषये स्फुटीकरणे प्रमाणे ॥ १०० ॥
उपस्थानाय दानाय प्रत्ययाय तथैव च ।
त्रिविधः प्रतिभूर्दृष्टस्त्रिष्वेवार्थेषु सूरिभिः ॥ १०१ ॥
विस्रम्भहेतुः प्रतिभूराधिश्चेत्युक्तम् । तत्र प्रतिभूर्विशेष्यते । त्रिप्रकारः प्रतिभूः । प्रतिभवति तस्य ग्रहीतुः स्थाने भवतीति प्रतिभूः त्रिष्वेवार्थेषु मेधाविभिर्दृष्टः। सम्प्रत्यर्थत्रयविशेषणद्वारेण त्रिप्रका ( राः? रान् ) प्रतिभुवो विशिनष्टि– उपस्थानाय प्रयोजनकाले ( डौ168? ढौ ) कनाय समीपे स्थापनाय, प्रयोजनकाले अहं दर्शयिता अदर्शने दातेति । दानाय अहं दातेति । प्रत्ययाय अशीलविप्रतिपत्तये ॥ १०१ ॥
ऋणिष्वप्रतिकुर्वत्सु प्रत्यये वा विवादिते ।
प्रतिभूस्तदृणं दद्यादनुपस्थापयंस्तथा ॥ १०२ ॥
अधमर्णेष्वददत्सु, प्राप्तकाले प्रत्यये वा विवादिते विनाशिते, विश्वासे वाविवादिते विनाशिते शीलविप्रतिपत्तौ यथा त्वया चौर्यं न कर्तव्यं वल्लभस्वाद्वा ऋणं न ग्रहीतव्यमिति तथेति प्रतिभुवि स्थापिते तस्यान्यथाकरणे प्रति-
भूस्तदृणं दद्यात् । तथा दानप्रतिभूरप्यदर्शयन्नुपस्थानकालेऽनुपस्थापयंस्तदृणं दद्यादिति । दानप्रतिभुवि न किञ्चिद् वक्तव्यं, दातव्यमेव तेन ॥ १०२ ॥
बहवः स्युः प्रतिभुवो दद्युस्तेऽर्थं यथाकृतम् ।
अर्थेऽविशेषिते त्वे169षु धनिनश्छन्दतः क्रिया॥170 १०३ ॥
एकैकस्मिन् बहवः प्रतिभुवः स्युः । तेषां दानप्रसङ्गे यथाकृतं दद्युः, ( अ ?) विशेषिते अहमियदहमियद् ददामीति, तथैव ते दद्युः । अविशेषिते तु सामान्येन प्र171तिभूत्वे धनिनो यथेष्टतः सन्निहितास्ते दद्युः । सन्निहितेष्वपि कामचारतः ॥ १०३ ॥
यमर्थं प्रतिभूर्दद्याद् धनिकेनोपपीडितः ।
ऋणिकस्तं प्रतिभुवे द्विगुणं प्रतिपादये172त् ॥ १०४ ॥
प्रतिभूर्यमर्थं दद्याद् धनिकाय तेन पीडितः, द्विगुणं तमर्थं प्रतिभुवे दद्याद् ऋणिकः ॥ १०४ ॥
अधिक्रियत इत्याधिः स तु ज्ञेयो द्विलक्षणः ।
कृतकालोपनेयश्च यावद्देयोद्यतस्तथा ॥ १०५ ॥
यद् गृहीतं द्रव्यं तस्योपरि क्रियत इत्याधिः ।गृहीतद्रव्यार्थं वा अधिक्रियते दाननियमार्थं स्थाप्यत इत्याधिः । स द्विविधोज्ञेयः कृतकाव्येऽकृतकालश्च । अमुष्मिन् काले ददामीति कृतकालः । कृते काले उपनेयःकृतकालोपनेयः । तस्मिन्173 काले द्रव्यं दत्त्वा ग्रहीतव्यः । अग्रहणे यथाभाषितं वा । यावद्देय ( म् ) उद्यतो गृहीतः अस्य सम्बन्धेन स यावद्देयोद्यतः अनियतकालः यावद् गृहीतोऽर्थो दीयते तावत् तिष्ठत्विति ॥ १०५ ॥
स पुनर्द्विविधः प्रोक्तो गोप्यो भोग्यस्तथैव च ।
प्रतिदानं तथैवास्य लाभहानिर्विपर्यये ॥ १०६ ॥
पूर्वं द्विविध इत्युक्तं, पुनरपि स द्विविध इति पुनःशब्दादेकैको द्विविधः, गोप्यो भोग्यश्च । गोप्यो रक्षणीयः आ द्रव्यग्रहणात् । द्रव्यग्रहणोत्तरकालं प्रतिदानं गोप्यस्य यथा निहितं तथैव174। भोग्यस्य यथा भुज्यमानं तथैव । भोगेन यत् क्षीणं तत् क्षीणमेव । लाभहानिर्विपर्यय इति । गोप्यस्य भोगे
वृद्धिहानिः । भोग्यस्य च भोगे भोगस्तत्र लाभः । तच्च द्रव्यमभुक्तं, भोगस्य175 लाभस्वात् तदभावे लाभहानिः ॥ १०६ ॥
प्रमादाद्धनिनस्तद्वदाधौ विकृतिमागते ।
विनष्टे मूलनाशःस्याद् दै176वराजकृतादृते ॥ १०७ ॥
धनिन उत्तमर्णस्य प्रमादादाधौ विकृतिमागतेऽन्यथाभूते तद्वदेव स्यात् यथा ‘लाभहानिर्विपर्यय’ इति वृद्धिहानिः, तथात्रापि । गोष्यविषय एतत्, भोग्ये वृद्ध्यभावात् । भोग्ये तु मूलच्छेदः । विनष्टे द्वयोरपि मूलनाशः । किमविशेषेण । न । दैवराजकृतादृते । तोयाग्निदेशोपप्लवादिर्देवः । अनपराधिनो यद् राज्ञापह्रियते ॥ १०७ ॥
रक्ष्यमाणोऽपि यत्राधिः कालेनेयादसारताम् ।
आधिरन्योऽधिकर्तव्यो देयं वा धनिने धनम् ॥ १०८ ॥
रक्ष्यमाणोऽपीत्यप्रमादार्थम् ।यथाहितस्तथा रक्ष्यमाणः कालेन, नान्येनापराघेन, असारतामियात् क्षीयते, आधिरन्यो योग्योऽधिकर्तव्यः, देयं वाधिं गृहीत्वा धनिने धनम् ॥ १०८ ॥
ऋणिकःसधनो यस्तु दौरात्म्यान्न प्रयच्छति ।
राज्ञा दापयितव्यः स्याद् गृहीत्वांशं तु विंशकम् ॥ १०९ ॥
अधमर्णो विद्यमानधनो यो दौरात्म्याद् यथाकृतं देयं न ददाति, स राज्ञा दाप्यः, उत्तमर्णाद् विंशतिभागं गृहीत्वा । अधमर्णस्य दण्डः शास्त्रान्तरादाचाराद्वान्वेष्यः ॥ १०९ ॥
अथ शक्तिविहीनः स्यादृणी कालविपर्ययात् ।
शक्त्यपेक्षमृणं दाप्यः काले काले यथोदयम् ॥ ११० ॥
अथ शक्तिविहीनोऽसमर्थः स्याद् दातुमृणी कालेन गच्छता, शक्त्यपेक्षमृणं दाप्यःयथास्य कुटुम्बं न विनश्यति । धनिनश्च धनं कथं दाप्यः । काले काले या या वृद्धिः तां तां दापयेदिति । अथवा यथोदयं यथाविभवं स्तोकं स्तोकं मूलस्य ॥ ११० ॥
नश्येद् द्रव्यपरीमाणं कालेनेहर्णिकस्य चेत् ।
जातिसंज्ञाधिवासानामागमो लेख्यतः स्मृतः ॥ १११ ॥
‘विनष्टे मूलनाशः स्याद् धनिन’ इत्युक्तम् । ऋणिकस्यापि द्रव्यमूल्यापरिज्ञाने मूल्यादधिकं देयमित्यर्थादुक्तम् । अथ नश्येद् द्रव्यं, मूल्यपरिमाणं न ज्ञायेत, तत्र विसंवादः स्यादित्यर्थः, कालेन विस्मरणाद् अन्योन्यातिसन्धित्सया वा । तत्र जातिसंज्ञाधिवासानां, जातिर्जातिभेदः, संज्ञा वज्रेन्द्रनीलमरतकादिका, अधिवास उत्पत्तिभूमिः, एतेषामागमस्तत्त्वावबो177धो लेख्यतः स्मृतः यथा लिखितं तथा मूल्यपरिच्छेदः कर्तव्यः ॥ १११ ॥
लेख्यं तु द्विविधं ज्ञेयं स्वहस्तान्यकृतं तथा ।
असाक्षिकं साक्षिमच्च सिद्धिर्देशस्थितिस्तयोः ॥ ११२ ॥
‘लेख्यतः स्मृत’ इत्युक्तम् । तल्लेख्यं विशेष्यते । लेख्यं द्विप्रकारं ज्ञेयं स्वहस्तलिखितमधमर्णेन, अन्यकृतमन्येन लिखितं तद्वचनात् । तदप्येकैकं द्विप्रकारमविद्यमानसाक्षिकं पत्रमात्रं, ससाक्षिकं च । तयोः सिद्धिः प्रमाणं देशाचारः। यस्मिन् देशे असाक्षिकःपत्रसंत्र्यवहारः तत्र तथा सिद्धिः, यत्र ससाक्षिकः तत्र ससाक्षिकं प्रमाणम् ॥ ११२ ॥
देशाचाराविरुद्धं यद् व्यक्ताधिकृतलक्षणम् ।
तत् प्रमाणं स्मृतं लेख्यमविलुप्तक्रमाक्षरम् ॥ ११३ ॥
देशाचारेणाविरुद्धं यद् व्यक्ताधिकृतलक्षणं व्यक्तमधिकृतं लक्षणं यस्मिन् तद् व्यक्ताधिकृतलक्षणम् । इदं द्रव्यममुष्मिन् मासे इयतोदयेनामुष्मिन् काले178दातव्यम्, अदाने चआ दा179नादियानुदय इति180। क्रमश्चाक्षराणि च क्रमाक्षरम्, अविलुप्तं क्रमाक्षरं यस्मिन् तदविलुप्तक्रमाक्षरम् । अविलुप्तक्रमं लेख्यक्रमेण लिखितं, न व्युत्क्रमेण । अविनष्टाक्षरं च काकपदादिव181र्जितम् । तल्लेख्यं प्रमाणं, नात्र विचार्यमस्ति, यथा लिखितं तथानुष्ठेयम् ॥ ११३ ॥
मत्ताभियुक्तस्त्रीबालबलात्कारकृतं च यत् ।
तदप्रमाणं करणं भीतोपधिकृतं तथा ॥ ११४ ॥
पूर्वोक्तस्यापवाद उच्यते । मत्तश्चाभियुंक्तश्चेति द्वन्द्वः । प्रत्येकं कृतशब्दोऽभिसम्बध्यते, मत्तेन कृतमभियुक्तेन कृतमित्येवमादि । मत्तस्य तत्कालमेव, तस्मिन् कालेऽस्वतन्त्रत्वात् । अभियुक्तोऽन्येन वशीकृतः । तस्याप्या व्यवहारनिवृत्तेरार्तत्वादाकुलत्वाच्च । स्त्री अबुद्धित्वादस्वतन्त्रत्वाच्च । बालोऽप्येवमेवा षोडशाद् वर्षात् । बलात्कारकृतमस्वेच्छया कृतत्वात् । भीतकृतं चान्यथाकरणे गृह्यमाणकारणत्वात् । उपधिकृतं च, उपधिर्व्याजः । एतत् सर्वमप्रमाणं गृह्यमाणकारणत्वात् ॥ ११४ ॥
मृताः स्युः साक्षिणो यत्र धनिकर्णिकलेखकाः ।
तदप्यपार्थं लिखितमृते त्वाधेः स्थिराश्रयात् ॥ ११५ ॥
यत्र मृताः स्युः साक्षिणः सर्वे । धनिकश्च ऋणिकश्च लेखकश्च धनिकर्णिकलेखकाः एते मृताः । तेषु जीवत्सु कदाचिदपि न चालिखितम् । तदपि, न केवलम् । मत्तादिकृतम् । इदं व्यपगतार्थकमप्रयोजनमप्रमाणमित्यर्थः । आधिः स्थिरश्चास्थरश्च । स्थिरो भूम्यादिः, अस्थिरो गवादिः । अस्थिराध्याश्रयणं तावदप्रमाणम् अस्थिरद्रव्यस्य भङ्गुरत्वात्, विप्रकृष्टकालत्वाच्चास्मृतेः । स्थिराश्रयंतु प्रमाणमेव लिखितं, तस्य नित्यत्वात् तद्विषयस्मृत्यविच्छेदोपपत्तेः ॥
आधिर्यो द्विविधः प्रोक्तः स्थावरो जङ्गमस्तथा ।
सिद्धिरस्योभयस्यापि भोगो यद्यस्ति नान्यथा ॥ ११६ ॥
‘अधिक्रियत इत्याधिरि’ति य आधिरुक्तः स द्विविधो ज्ञेयः, स्थावरो भूम्यादिः जङ्गमश्च गवादिः । उभयस्याप्यस्य सिद्धिः प्रामाण्यं विना पत्रेण, यद्याहितो भोगोऽस्ति । विना भोगेन न भवतीत्यर्थः । पत्रं च नास्ति भोगश्च न चेद् दुर्विचारं तत् ॥ ११६ ॥
दर्शितं प्रतिकालं यच्छ्रावितं स्रावितं च यत् ।
लेख्यं सिध्यति सर्वत्र मृतेष्वपि हि साक्षिषु ॥ ११७ ॥
साक्षिधनिकर्णिकलेखकेषु मृतेष्वप्रमाणं पत्रमित्युक्तं, तस्यायमपवादः ईदृशं प्रमाणम् अतोऽन्यदप्रमाणम् इति । दर्शितं प्रतिकालं तेषु जीवत्सु ( दु ? दृ ) ष्टं च नापहुतम् । श्रावितं बहूनां मध्ये श्रावितं, तेन चानुज्ञातम् । स्रावितमेकदेशभावितम् । ईदृशं लेख्यं सिध्यति सर्वत्र सर्वेषु मृतेष्वपि साक्षिषु । अपिशब्दाद् धनिकादिष्वपि ॥ ११७ ॥
अश्रुतार्थमदृष्टार्थंव्यवहारार्थमेव च ।
न लेख्यं सिद्धिमाप्नोति जीवत्स्वपि हि साक्षिषु ॥ ११८ ॥
अश्रुतार्थम् अश्रावितार्थम् अदृष्टार्थं काले अदर्शितार्थम् अननुज्ञातार्थं, व्यवहारार्थमेव प्रतिपन्नसस्रावितं च जीवत्स्वपि हि साक्षिष्वीदृशमप्रमाणं किं पुनर्मृतेष्विति मृतेष्वप्रामाण्यं प्रतिपा182द्यते । जीवत्सु तु प्रमाणमेव । यथा लोके कश्चित् केनचिद् रोषितो ब्रवीति ‘चण्डालशालायामपि भुञ्जे183न त्वद्गृह’ इति । नात्र चण्डालशालायां भोजनं प्रतिपा184द्यते, त185द्गृहभोजनानभ्युपगममात्रम् । एवमत्रापि ॥ ११८ ॥
लेख्ये देशान्तरन्यस्ते दग्धे दुर्लिखिते हृते ।
सतस्तत्कालकरणमसतोऽदृष्टदर्शनम् ॥ ११९ ॥
देशान्तरन्यस्तेऽसन्निहिते । दग्धे गृहदाहादौ । दुर्लिखिते लेख्यधर्मापेतत्वेन, हृते चोरादिभिः । सतस्तत्कालकरणं सतो देशान्तरस्थस्य हृतस्य वा तस्य कालकरणम् इयता कालेनानेतव्यमिति । असतोदग्धस्य दुर्लिखितस्य वा । अदृष्टस्य दर्शनमदृष्टदर्शनम्, अदृष्टस्यापूर्वस्य दर्शनं करणम् । अथवा सतः सद्भुतस्य तत्कालकरणं यद्युभयानुमतम् अविवादः स्यात् पुनः ( पु ? प ) त्रंकर्तव्यम् । अ ( स ) तोऽदृष्टस्य दर्शनम् । दृश्यतेऽनेनेति दर्शनं, दर्शनमुपलब्ध्युपायः, यथोत्तरश्लोके वक्ष्यते तथा ॥ ११९ ॥
यस्मिन् स्यात् संशयो लेख्ये भूताभूतकृते क्वचित् ।
तत् स्वहस्तक्रियाचिह्नप्राप्तियुक्तिभिरुद्धरेत् ॥ १२० ॥
नष्टासन्निहिते लेख्य विधिरुक्तः, सम्प्रति दृश्यमाने । लेख्ये यस्मिन् संशयः स्याद् भूताभूतकृते क्वचिद् धनी भूतकृतमिति ब्रवीति ऋण्यभूतकृतमिति न मया कृतं कूटलेख्यमिति । ( ए ? ) तत्पत्रम् । स्वहस्तेनान्यत्र तल्लिखिताक्षरसामान्येन ।क्रियया साक्षिभिः । चिह्नेन तत्कालनि ( वृ ? र्वृ ) त्तव्यापा186रसंवादनेन । प्राप्तिरतिक्रान्तकाले विस्रावितं कस्यचिद्वा सकाशेऽभ्युपगमितम् । युक्तिभिर्योग्यायोग्यत्वं द्रव्यापह्नवयोः ॥ १२० ॥
लेख्यं यच्चान्यनामाङ्कं हेत्वन्तरकृतं भवेत् ।
विप्रत्यये परीक्ष्यं तत् सम्बन्धगमहेतुभिः ॥ १२१ ॥
यच्च लेख्यम् अन्यनामाङ्कम् । अन्यस्य नाम अन्यनाम, अन्यनाम अङ्कःलक्षणं यस्य तदन्यनामाङ्कम्, अन्यस्यनाम्ना कृतं स्यात् । हेत्वन्तरेण कृतं पितृभ्रातृभयेन श्वशुरादिनाम्ना कृतम् । विपरीतः प्रत्ययो यस्य स विप्रत्ययः । विप्रत्यये विसंवादिते तस्मिन् ममैवैतन्नान्यस्येति, तत् सम्बन्धागमहेतुभिः परीक्ष्यम् । सम्बन्धिभ्य आगमःसम्बन्धागमः ।सुहृज्ज्ञातिबान्धवास्तत्कालानुकालवृत्तं जानन्ति क उदयं गृह्णन्ति कोऽभिमन्ता क उदासीन इत्यादि । हेतवः प्रागभिहिताः साधारणनयादयः ॥ १२१ ॥
लिखितं लिखितेनैव साक्षिमत् साक्षिभिर्हरेत् ।
साक्षिभ्यो लिखितं श्रेयो लिखितेन तु साक्षिणः ॥ १२२ ॥
लिखितं सपत्रं व्यवहारं पत्रवशेनैव समापयेत् ।साक्षिमदपत्रं187 व्यवहारं साक्षिवशेनैव समापयेत् । यत्रैकः पत्रं दर्शयत्यन्यो नैवमिति साक्षिण उपस्थापयति, तत्र साक्षिभ्यो लिखितं श्रेयः प्रत्ययकरं प्रमाणमित्यर्थः । यतो लिखितेन तु साक्षिणः लिखितपक्षे पत्रसाक्षिणो विद्यमानत्वात् । इतरत्र साक्षिण एव । साक्षिणश्चान्यथा शक्याः सम्पादयितुम् । अथवा लिखितं श्रेयः ।कस्मात् । यस्माल्लिखितेन सह साक्षिणोऽविनाभूताः । तस्माद् बलवत्तरं लिखितमिति ॥ १२२ ॥
छिन्नभिन्नहृतोन्मृष्टनष्टदुर्लिखितेषु च ।
लेख्यमन्यद्धि कर्तव्यमेषलेख्यविधिः स्मृतः ॥ १२३ ॥
छिन्नंमूषिकादिभिः । भिन्नं छिद्रितं पिपीलिकादिभिः । हृतं चोरादिभिः । उन्मूष्टं ध्वस्ताक्षरमुदक188कालादिना ।नष्टं पतितं विस्मृतम् ।दुर्लिखितेऽवधीरिते लेख्यमन्यच्छुद्धं कर्तव्यम् । एष लेख्यविधिः स्मर्यमाणः ॥
सन्दिग्धेषु तु कार्येषु द्वयोर्विवदमानयोः ।
दृष्टश्रुतानुभूतत्वात् साक्षिभ्यो व्यक्तिदर्शनम् ॥ १२४ ॥
‘लिखितं साक्षिणश्चे’त्युक्तम् । तयोर्लेख्यविधिरुक्तः । इदानीं साक्षिविधिः प्रस्तूयते ।सन्दिग्धेषु संशयितेषु कार्येषु व्यवहारेषु द्वयोर्विप्रतिषिद्ध-
बादिनोःसाक्षिभ्यो व्यक्तिर्निर्णयः तस्य दर्शनं बोधः साक्षिभ्योऽन्यतरतत्त्वज्ञानम् । कुतः । दृष्टश्रुतानुभूतत्वात् । दृष्टं चक्षुर्द्वारेण ज्ञातं, श्रुतं श्रोत्रद्वारेण, अनुभूतं लिङ्गादिनिमित्तं स्वसंवेद्यज्ञानम् अन्यथास189म्भवविलोप्त्र190भि191घातादिनैवमेव नान्यथेति परिच्छेदज्ञानम् । एतदुक्तं भवति—प्रत्यक्षानुमानागमैर्यस्मादर्थःपरिच्छिन्नः, तस्मात् तेभ्यो व्यक्तिदर्शनमुपपद्यते, यस्मात् सर्वपरिच्छेदहेतवः प्रत्यक्षानुमानागमाः, तैः परिच्छिन्नत्वादुपपन्नं तेषां प्रामाण्यमिति ॥ १२४ ॥
समक्षदर्शनात् साक्षी विज्ञेयः श्रोत्रचक्षुषोः ।
श्रोत्रस्य यत्परो ब्रूते चक्षुषः कायकर्म यत् ॥ १२५ ॥
साक्षिनिर्वचनं– समक्षदर्शनात् सम्यगिन्द्रियेणोपलब्धत्वात् साक्षी विज्ञेयः192 । तथाच ‘साक्षाद् द्रष्टरि संज्ञायाम्’ (५-२-९१) इत्युक्तम् । त्रयाणां साक्षाद् द्रष्टृत्वेऽप्युदासीनः साक्षीत्युच्यते रू(ढि ? ढ ) त्वाच्छब्दस्य ।यथा गमनाद् गौरिति सास्नादिमत्येव रूढ्या प्रवर्तते, नाश्वादौ, तथा । समानकर्मणां नामधेयप्रतिलाभमेते193षामप्युक्तम् । कस्येन्द्रियस्य समक्षदर्शनादिति न ज्ञायत इति तद् विशिनष्टि—श्रोत्रचक्षुषोरिति । पुनरपि किं श्रोत्रस्य, किं चक्षुष इति विशेषयति— श्रोत्रस्य यत्परो ब्रूते आक्रोशवादादि, चक्षुषः कायकर्म शरीरे यदुपनिपतति तत् तयोः समक्षमिति ॥ १२५ ॥
एकादशविधः साक्षी स तु दृष्टो मनीषिभिः ।
कृतः पञ्चविधस्तत्र षड्विधोऽकृत उच्यते ॥ १२६ ॥
साक्षिभेदा उच्यन्ते । एकादशविधः एकादशप्रकारः । तत्र तेष्वेकादशसु साक्षिषु कृतः पञ्चविधः ।अकृतः षड्विधः । ते द्विप्रकारा अप्युत्तरेण विशेष्यन्ते ॥ १२६ ॥
लेखितः स्मारितश्चैव यदृच्छाभिज्ञ एव च ।
गूढश्चोत्तरसाक्षी च साक्षी पञ्चविधः स्मृतः ॥ १२७ ॥
लेखितः पत्रारूढः । अलेखितो दृष्टवांस्त्वमिति स्मारितः । यदृच्छया तत्र सन्निहितो वृत्तान्ताभिज्ञः स यदृच्छाभिज्ञः । उपहरे स्थापयित्वापवरकादौ विश्वासात् परस्परं सम्भाषणेन श्रावितसतत्त्वः सन् गूढः । अनपह्नवार्थं यस्य सकाशे पूर्वमेव सम्भाषितं, स उत्तरसाक्षी । एवमेष पञ्चविधः कृतः ॥ १२७
अकृतः षड्विधो❋194नित्यः सूरिभिः परिकीर्तितः ।
ग्रामश्च प्राड्विवाकश्च राजा च व्यवहारिणाम् ॥ १२८ ॥
कार्येष्वधिकृतो यः स्यादर्थिना प्रहितश्च यः ।
कुलं कुलविवादेषु भवेयुस्तेऽपि साक्षिणः ॥ १२९ ॥
** **सम्प्रत्यकृत उच्यते । अकृतः षड्विधो नित्यः सर्वत्रेत्यर्थः । ग्रामःस्व195भावत एव तत्र वृत्तं जानाति । ग्रामशब्दो मनुष्यविषयः, ग्राम आगतो ग्रामो गत इति दृष्टत्वात्, साक्षिप्रकरणाच्च । प्राड्विवाको राजा च, तयोर्विदितपूर्ववृत्तान्तत्वात् । पूर्ववृत्तेषु कार्येष्वधिकृतः तेषु व्यवहारकार्येषु यो व्यापृ196तः ।अर्थिनाधमर्णिकेन यो धनिकसकाशं प्रहितः । कुलं कुलविवादेषु गृहवृत्तेषु गृहजनः, कुलधर्मेषु वा कुलम् । एते नित्या अकृताः ॥ १२८, १२९ ॥
कुलीना ऋजवःशुद्धा जन्मतः कर्मतोऽर्थतः ।
त्र्यवराः साक्षिणोऽनिन्द्या197शुचयः स्युः सुबुद्धयः ॥ १३० ॥
साक्षिणां लक्षणमुच्यते सम्भवतः । कुलीनाः कुले जाताः । स्वधर्मादनपेताः कुले जाताः कुलीना इति प्रसिद्धिर्लोके ।ऋजवोऽवक्रबुद्धयः स्वभावतो धर्मवृत्ताः । शुद्धा जन्मतः कर्मतोऽर्थतश्च । मातृतः पितृतश्च शुद्धा जन्मतः शुद्धाः । कर्मतः शुद्धा निन्दितस्याकर्तारः । अर्थतः शुद्धा अर्थहेतोरकार्यस्याकारिणः । अनिन्द्या अन्यूनानतिरिक्ताङ्गाः, पापरोगादिभिर्वा अकुत्सनीयाः ।शुचयःस्नानदेवब्राह्मणपूजापराः । सुबुद्धय ऊहापोहसमर्थाः, ते हि युक्तायुक्तविचारणक्षमाः नान्यथा ब्रूयुः । एतैर्गुणैः समस्तैर्व्यस्तैर्बहुभिर्युक्ताः, त्रयः अवरा ऊना येषां ते त्र्यवराः साक्षिणः स्युः । एष प्रथमः कल्पः ॥ १३० ॥
पुनरपि तान् विशेषयति—
ब्राह्मणाःक्षत्रिया वैश्याः शूद्रा ये चाप्यनिन्दिताः ।
प्रतिवर्णं भवेयुस्ते सर्वे सर्वेषु वा पुनः ॥ १३१ ॥
ब्राह्मणक्षत्रियविट्शूद्रा ये चाप्यनिन्दिताः अकुत्सितकर्माणोऽन्तरालप्रभवाः । सर्वेषामनिन्दितत्वेऽप्येतेषामनिन्दितग्रहणमत्यन्तकुत्सितकर्मश्वपाकचण्डालमृतपादिनिवृत्त्यर्थम् । एतेषां गुणवतामपि हि निसर्गतः कुत्सितं कर्मेति । वर्णं वर्णं प्रति प्रतिवर्णं, भवेयुस्ते साक्षिणः ब्राह्मणाः ब्राह्मणेषु क्षत्रियाः क्षत्रियेषु ।
एवं सर्वत्र ।सर्वेषु चानियमेन साक्षिणः । प्रतिवर्णं भवेयुरिति वाशब्देन विनोक्तत्वात् प्रथमकल्प इति गम्यते, न तुल्यकल्पत्वं पुनर्वचनादनुकल्प इति गम्यते । यथा ‘दशाहं शावमाशौचमि’ त्यविकल्पेनोक्त्वा ‘आ वा सञ्चयनादस्थामि’ त्यादिवचनादनुकल्पः, तथात्रापि ॥ १३१ ॥
श्रेणिषु श्रेणिपुरुषाः स्वेषु वर्गेषु वर्गिणः ।
बहिर्वासिषु बाह्याश्च स्त्रियः स्त्रीषु च साक्षिणः ॥ १३२ ॥
श्रेणयो वणिगादिसमूहाः प्रसिद्धाः, तेषु श्रेणिपुरुषाः समूहाभ्यन्तराला इत्यर्थः । पुरुषग्रहणं स्त्रीनिवृत्त्यर्थम् । स्वेषु वर्गेषु वर्गिणः हस्तिपकादयः नटमल्लगायकपाकजीवनादयः, तेषां स्ववर्गपुरुषाः । बहिर्वासिषु चण्डालादिषु तन्मध्यभवाः । स्त्रीषुच स्त्रिय एव । साक्षिशब्दः प्रत्येकमभिसम्बध्यते ॥ १३२ ॥
श्रेण्यादिषु च सर्वेषु कश्चिच्चेद् द्वेष्यतामियात् ।
तेभ्य एव न साक्षी स्याद् द्वेष्टारः सर्व एव ते ॥ १३३ ॥
पूर्वोक्तस्यापवादः । श्रेणय आदिर्येषां वर्णानां ते श्रेण्यादयः । बहुव्रीहेस्तद्गुणसंविज्ञानत्वादवयवेन विग्रहः, समुदायः समासार्थ इति वा श्रेणयोऽपि गृह्यन्ते । तेषु यदि कश्चिद् द्वेष्योभवेत् सर्वेषां, तस्य तेभ्य एव श्रेण्यादिभ्योऽन्यतमो न साक्षी स्यात् श्रेण्यादिपुरुषो न साक्षी भवतीत्यर्थः । अत्र साक्षिणो लक्षणंसहे198तुत्वेनाह—यस्मात् तस्य सर्वे द्वेष्टारः । द्वेषोऽन्यथावचनसङ्गहेतुः199 । तस्मादन्यः साक्षी ग्रहीतव्यः ॥ १३३ ॥
सम्प्रत्यसाक्षिलक्षणलक्षितत्वात् असाक्षिण उच्यन्ते—
असाक्ष्यपि हि शास्त्रेषु दृष्टः पञ्चविधो बुधैः ।
वचनाद् दोषतो भेदात् स्वयमुक्तेर्मृतान्तरात् ॥ १३४ ॥
असाक्षी पञ्चप्रकारो वचनादित्यादिक्रमेण विशेष्यते ॥ १३४ ॥
श्रोत्रियाद्या वचनतः स्तेनाद्या दोषदर्शनात् ।
भेदाद् विप्रतिपत्तिः स्याद् विवादे यत्र साक्षिणः ॥ १३५ ॥
श्रोत्रियाद्याः, वचनतस्तान् विशेषयति । दोषत इत्युक्ता ये स्तेनाद्याः ते दोषदर्शनादसाक्षिणः, न तद्वचनं श्रद्धेयं, महत्तरदोषे प्रवृत्तत्वात् । भेदादित्युक्ता विशेष्यन्ते यत्र साक्षिणां विप्रतिपत्तिः ॥ १३५ ॥
स्वयमुक्तेरनिर्दिष्टः स्वयमेवैत्य यो वदेत् ।
मृतान्तरोऽर्थिनि प्रेते मुमूर्षुश्रावितादृते ॥ १३६ ॥
स्वयमुक्तेरसाक्षी । स्वयमेवानुद्दिष्टो गत्वा वदेत् अहं जानामीति । मृतान्तर इत्युक्तं धनिनि प्रेते, अमुष्य असौधारयति अत्राहं साक्षीति ब्रवीति सदसि । अत्रापवादः— मुमूर्षुणा श्रावितः मुमूर्षुश्रावितः । स भवत्येव साक्षी प्रेतेऽपि धनिनि । यथा —असौमे धारयति द्रव्यं ब्राह्मणेभ्यो दापयेदिति ॥ १३६ ॥
सम्प्रति पञ्चप्रकारान् कमेण विशेषयति—
श्रोत्रियास्तापसा वृद्धा ये च प्रव्रजिता नराः ।
असाक्षिणस्ते वचनान्नात्र हेतुरुदाहृतः ॥ १३७ ॥
‘श्रोत्रियाद्या वचनत’ इत्युक्ता येत एते श्रोत्रियाः अध्ययनश्रवणयुक्ताः । तापसा वानप्रस्थाः, अन्येऽपि तपोनिष्ठाः । वृद्धा अशीतेरूर्ध्वम् ।ये च प्रव्रजिताः परिव्राजकादयः न साक्षिणस्ते, वचनात् प्रतिषिद्धत्वात् । नात्र हेतुरुक्तः, नित्यं तेषां साधुनि कर्माणि प्रवृत्तत्वात् तदुपरोधो मा भूदिति । वृद्धा असमर्था एव ॥ १३७ ॥
स्तेनाः साहसिकाश्चाण्डाः कितवा वधकाश्च ये ।
असाक्षिणस्ते दुष्टत्वात् तेषु सत्यं न विद्यते ॥ १३८ ॥
‘स्तेनाद्या दोषदर्शनादि’त्युक्तम् । ते च हेतुश्च विशेष्यन्ते । स्तेनाश्चोराः । साहसिकाः प्रसह्य परस्वापहारिणः । चण्डा धनहेतोर्मारकाः परप्रयुक्ताः । कितवा अक्षदेविनः । वधकाः सौनिकाः । असाक्षिणस्ते, स्वभावत एव दुष्टत्वात् परातिसन्धानपरत्वात् । तेषु सत्यं नास्ति । महापातके प्रवृत्तानां साक्षित्वेऽनृतवचनं प्रियमेव ॥ १३८ ॥
राज्ञा परिगृहीतेषु साक्षिष्वेकार्थनिश्चये ।
वचनं यत्र भिद्येत ते स्युर्भेदादसाक्षिणः ॥ १३९ ॥
राज्ञैकवचनत्वेन परिगृहीतेषु साक्षिषु पृथक् पृथगुत्सार्य पृच्छ्यमानेषु वचनं भिद्येत यत्र येषु यस्मिन् वा कार्येऽन्योऽन्यथा ब्रूयात् अन्यश्चान्यथा, तेऽपि वचनभेदाद् रागाद् द्वेषाल्लोभाद्वा मृषा वदन्तीत्यसाक्षिणः ॥ १३९ ॥
स्वयमुक्तेरनुद्दिष्टः स्वयमेवैत्य यो वदेत् ।
सूचीत्युक्तः स शास्त्रेषु न स साक्षित्वमर्हति ॥ १४० ॥
स्वयमुक्तेरनुद्दिष्ट इति व्याख्यातः सूचक इत्युक्तः । स साक्षी न भवति परोपघातप्रवृत्तत्वात् ॥ १४० ॥
योऽर्थः श्रावयितव्यः स्यात् तस्मिन्नसति चार्थिनि ।
क्व तद् वदति साक्षित्वमित्यसाक्षी मृतान्तरः ॥ १४१ ॥
योऽर्थः श्रावयितव्यः पूर्वपक्षः प्रतिवादिना भवेत्, असति तस्मिन्ननिवेशिते, अर्थिनि चासति निवेशयितरि, क्वकस्मिन्नर्थे कीदृशे वार्थे वदति साक्षित्वम् । स केन चोद्दिष्टः । अथवा स्वयं निवेशयति, न साक्षी, अर्थी सः । अथाहं साक्षीति ब्रवीति, तस्यान्यैः साक्षिभिः प्रयोजनं, न तद्वचः प्रमाणम्, अस्वार्थवचनाद् रागीत्यसाक्षी सः ॥ १४१ ॥
द्वयोर्विवदतोरर्थे द्वयोः सत्सु च साक्षिषु ।
पूर्वपक्षो भवेद् यस्य भवेयुस्तस्य साक्षिणः ॥ १४२ ॥
द्वयोर्विवदतोरर्थे कलहादौ कचग्रहणेन वा घाता200दिप्रवृत्ते, सत्सु च साक्षिषु, द्वयोर्यस्य पूर्वपक्षःयेनाक्षराणि पूर्वं निवेशितानि, तस्य साक्षिणः स्युः ॥ १४२ ॥
आधर्यं पूर्वपक्षस्य यस्मिन्नर्थवशाद् भवेत् ।
विवादे साक्षिणस्तत्र प्रष्टव्याः प्रतिवादिनः ॥ १४३ ॥
पूर्वपक्षो यस्य तस्य साक्षिण इत्युक्तं, तस्यापवादः । अधरभावः आधर्यम् । पूर्वपक्षस्याधर्यमर्थवशाद् यत्र विवादे भवेद्, अभियोक्तुःपूर्वपक्षः अमियुक्तस्योत्तरः, सउत्तरोऽर्थ201वशेन पूर्वःस्यात्, पूर्वश्चाधरोऽभियोज्यः । तद् यथा—कश्चिदभियुङ्क्ते ‘मदीयं सुवर्णं गृहीतवांस्तद् दाप्यतामि’ति । स उत्तरवादी ब्रूयात् ‘सत्यं गृहीतं प्रतिदत्तं मये’ति । एवं पूर्वपक्ष उत्तरीकृते तस्य साक्षिणः प्रष्टव्याः, नेतरस्य, अपवृत्तत्वात् तदीयस्य ।साक्षिणोऽप्येवं ब्रूयुः, गृहीतमिति स्वयमेव प्रतिपन्नत्वात्, किं तत्र प्रश्नेन । इतरत्र न्याय्यं प्रष्टुं विवादस्य तत्र स्थितत्वात् ॥ १४३ ॥
न परेण समुद्दिष्टमुपेयात् साक्षिणंरहः ।
भेदयेत् तं नचान्येन हीयेतैवं समाचरन् ॥ १४४ ॥
परेण समुद्दिष्टं साक्षिणं रहसीतरो न सर्पेत्, नच भेदयेदन्येन । एवमेतत् कुर्वन् परिहीयते । ढौकमानो वा दृष्टः202स्यात् । इदं वा तव दास्यामीति प्रेषितमिति विभाविते यदि शुद्धःस्यात् किमर्थमिदं करोतीत्यशुद्धत्वमनुम203न्येत ॥ १४४ ॥
साक्ष्युद्दिष्टो यदि प्रेयाद् गच्छेद् वापि दिगन्तरम् ।
तच्छ्रोतारः प्रमाणं स्युः प्रमाणं ह्युत्तरक्रिया ॥ १४५ ॥
उद्दिष्टः साक्षी यदि म्रियेत, दिगन्तरं वा गच्छेत् प्रयोजनवशात्, तच्छ्रोतारः येभ्यस्तेनोक्तं ते प्रमाणं स्युः, ते तत्र साक्षिणः प्रष्टव्या इत्यर्थः । बहुवचननिर्देशाद् नैको204 न द्वौ, बहूनां ह्यनृते चैकमत्यं प्रायेण न भवतीति । हेतुमाह—उत्तरसाक्षिणः प्रमाणमित्युक्तं ‘गूढश्चोत्तरसाक्षी चे’ति ॥ १४५ ॥
सुदीर्घेणापि कालेन लिखितः सिद्धिमाप्नुयात् ।
आत्मनैव लिखेज्जानन्नजानानस्तु लेखयेत् ॥ १४६ ॥
‘कृतः पञ्चविध’ इत्युक्ताः’लिखितः स्मारित’ इत्यनुक्रान्ताःक्रमेण विशेष्यन्ते । लिखितो यः पत्र आरोपितः साक्षी, सुदीर्घेणापि कालेन सिद्धिमाप्नुयात् सर्वदा प्रमाणमित्यर्थः । स इदानीं पत्र आत्मनैव लिखेत् यद्यक्षरज्ञः । अथालिपिज्ञः, अन्येन लेखयेत् तद्वचनादमुना नाम लि205खितमिति ॥ १४६ ॥
आष्टमाद् वत्सरात् सिद्धिः स्मारितस्येह साक्षिणः ।
आपञ्चमात् तथा सिद्धिर्यदृच्छोपगतस्य तु ॥ १४७ ॥
आतृतीयात् तथा वर्षात् सिद्धिर्गूढस्य साक्षिणः ।
आवत्सरात् तथा सिद्धिं वदन्त्युत्तरसाक्षिणः ॥ १४८ ॥
लिखितस्य स्मृतिहेत्वक्षरसम्भवात् सार्वकालिकत्वं युक्तं हेतोः । स्मारितस्याहूतस्या206 ( ह ? हि ) तस्य त्वं साक्षीति, तथाभूतानां संवा207दस्मृतिहेत्वभावादाष्टमाद्
वर्षात् सिद्धिः । आपञ्चमात् सिद्धिर्यदृच्छोपगतस्या ( ह? हि ) तानुरूपोऽपि स्मृतिहेतुर्नास्तीति, शिथिलप्रयत्नत्वात् असमाहितचेतसा यहच्छोपगतेन श्रुतमिति । गूढस्यातृतीयात् । आङभिविधौ द्रष्टव्यः; वृत्तस्याप्रत्यक्षत्वात् परकीयवचनं न चिरं शक्यं स्मर्तुमिति । अनुभूतमनुस्मर्येतापि चिरम् । आसंवत्सरात् सिद्धिः । अनेनैव सर्वत्राङभिविधाविति गम्यते, अत्र मर्यादाया असम्भवात् । उत्तरसाक्षिणो गूढक्दपि प्रयत्नाभावात् तत्सकाशेऽभिहितमात्रत्वादल्पकाला स्मृतिरिति ॥ १४७, १४८ ॥
अथवा कालनियमो न दृष्टः साक्षिणं प्रति ।
स्मृत्यपेक्षं हि साक्षित्वमाहुः शास्त्रविदो जनाः ॥ १४९ ॥
अथवा न कालनियमःसा208क्षिणं प्रत्यस्ति, यस्मात् स्मृत्यपेक्षं साक्षित्वम् । तावन्तमपि कालं कश्चिन्न स्मरेत् । कश्चिदूर्ध्वमपि स्मरेत् । तस्माद् यावद् यः स्मरति तावत् साक्षी, न कालावधारणं न्याय्यमिति ॥ १४९ ॥
यस्य नोपहता पुंसः स्मृतिः श्रोत्रं च नित्यशः ।
सुदीर्घेणापि कालेन स साक्षी साक्ष्यमर्हति ॥ १५० ॥
यस्यनोपहता असङ्कीर्णा स्मृतिः श्रोत्रं च, चशब्दाच्चक्षुश्च209, उपघातो रजस्तमोनुषङ्गित्वं दुःखप्रायत्वं वा, महतापि कालेन स साक्ष्यमर्हति, असङ्कीर्णस्मृतित्वात् ॥ १५० ॥
असाक्षिप्रत्ययास्त्वन्ये षड् विवादाः प्रकीर्तिताः ।
लक्षणान्येव साक्षित्वं तेषामाहुर्मनीषिणः ॥ १५१ ॥
अकृता ग्रामादय उक्ताः, तेऽन्यशब्देनोच्यन्ते । षड् विवादा असाक्षिप्रत्ययाः । तत्र साक्षिणः सन्ति । कथं तर्हि तेऽसाक्षिणः । लक्षणैश्चिह्नैस्ते परिच्छिद्यन्ते, न दर्शनश्रवणानुभवैः। अतो लक्षणान्येव साक्षित्वं साक्षिकार्यं कुर्वन्तीत्यर्थः ॥ १५१ ॥
यथैवैतेषु साक्षिप्रत्ययात् परिच्छेदः तभेहलक्षणप्रत्ययादिनि तानि लक्षणान्युच्यन्ते, यैः परिच्छेदः क्रियते—
उल्काहस्तोऽग्निदो ज्ञेयः शस्त्रपाणिस्तु घातकः ।
केशाकेशिगृहीतस्तु युगपत् पारदारिकः ॥ १५२ ॥
उल्काहस्तोऽग्निदो ज्ञेयः । गृहं प्रदीप्तम् उल्काहस्तश्च समीपे दृश्यते । उल्काहस्तस्य संशङ्कापरत्वात् तेन प्रदीपितमिति गम्यते । तथैव शस्त्रमाणिघार्तक इति । हतश्च दृश्यते, इतरश्च विकोशितायुधो भयस्थाने धनुर्वा समारोपितज्य210म्, अन्यश्च न कश्चिद् दृश्यते, शस्त्रं च रुधिरदिग्धं तदीयं, स घातकः । शस्त्रग्रहणं प्रदर्शनार्थम् । मृतश्च दृश्यते, समीपे च मनुष्यः, नच प्रतिरौति, नचान्यं दर्शयति, नाचष्टे वा, स गलागर्त ( ? ) इति गम्यते । केशाकेशिगृहीतः परस्परसम्बद्ध इत्यर्थः । असति प्रणये विनापि स्वाम्येन परस्त्रिया सम्बन्ध211स्य कः प्रसङ्गः । तस्मात् पारदारिक इति परिच्छिद्यते ॥ १५२ ॥
कुद्दालपाणिर्विज्ञेयः सेतुभेत्ता समीपगः ।
तथा कुठारपाणिश्च वनच्छेत्ता प्रकीर्तितः ॥ १५३ ॥
कुरिति भूमेराख्या ।भूमिं दारयतीति कर्मोपपदमण् । कपिलादित्वाल्लः । करणसाधनो वा घञ् । बहुलवचनात् सः ।कुद्दालः पाणौ यस्य स सेतुभेत्ता । अन्यश्च न दृश्यते, स च तथाभूतः सन्निहितः, प्रत्यग्र212भिन्नश्च213 सेतुर्दृश्यते, कोऽन्योऽत्र भविष्यति भेत्ता । ‘सेतुं भेत्ते’ ति पाठे तृन् । षष्ठी तत्र प्रतिषिध्यते । नास्ति तत्र शब्दचोद्यम् ।‘सेतुभेत्ते’ ति पाठ तृचि ‘कर्तृकर्मणोःकृति’ (२-३-६५) इति कर्मणि षष्ठ्या भवितव्यम् । ततश्च ‘तृजकाभ्यां कर्तरि च’ (२-२-१५) इति समासप्रतिषेधः प्राप्नोतीति चेत् । नैष दोषः । शिष्टप्रयोगा दृश्यन्ते—‘सर्वविद्याविधातारम्’, ‘आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तते’त्येवमादयः । पाणिनेश्च लिङ्गं—‘जनिकर्तुः प्रकृतिः’ (१-४-३०) इति । अथवा नेयं कर्मणि षष्ठी, अपितु सम्बन्धषष्ठी । ततश्च समासो भवति, मयूरनृत्तमिति यथा । तत्र सामर्थ्यात् सम्बन्धः क्रियाकारकसम्बन्ध एव विज्ञास्यते । कोऽन्योऽत्र सम्बन्धो मनुष्यस्य भङ्क्तुःसेतोश्च भज्यमानस्य । अतो मनुष्यो भङ्क्ता, सेतुश्च भङ्क्तव्य इति । तथा कुठारपाणिस्तु वनच्छेत्तेति पूर्ववदेव समर्थना ॥ १५३ ॥
अभ्यग्रचिह्नो विज्ञेयो दण्डपारुष्यकृन्नरः ।
असाक्षिप्रत्यया ह्येते पारुष्ये तु परीक्षणम् ॥ १५४ ॥
अभ्यग्रचिह्नं यस्य सम्बन्धि सोऽभ्यग्रचिह्नः अचिरनिर्वृत्तस्य परशरीरे क्षतस्य यथा वस्त्रपाटनकर्णत्रोटनादौ चिह्नस्य कर्तादण्डपारुष्यं करोतीति दण्डपारुष्यकृत् स नरो विज्ञेयः । असाक्षिप्रत्यया एते । अतिक्रान्ता एते उल्कादयः उल्कादिलिङ्गादयः । नात्र साक्षिभिः प्रयोजनं, न पूर्वोत्तरवादेन, एतैरेव लिङ्गैर्ग्रहीतव्याः । पारुष्येतु परीक्षणं कर्तव्यं, न चिह्नमात्रेण ग्रहीतव्यं, व्यभिचारादिति ॥ १५४ ॥
अन्यथासम्भवं दर्शयति—
कश्चित् कृत्वात्मनश्चिह्नं द्वेषात् परमभिद्रवेत् ।
हेत्वर्थगतिसामर्थ्यैस्तत्र युक्तं परीक्षणम् ॥ १५५ ॥
परीक्षणे कारणं व्यभिचारमुपायांश्चाचष्टे । कश्चिदात्मन एव चिह्नं कृत्वा द्वेषाद् दण्ड्यतामयमित्यधिपं गच्छेत् अनेन कृतमिति । एवमपि संभवात् तत्र युक्तं परीक्षणं, न चिह्नमात्रेण ग्रहणम् । कथं परीक्ष्यं, हेत्वर्थगतिसामर्थैः । हेतुः गद्गदस्वेदमुखशोषादिः, अर्थः क्षतस्याल्पत्वमहत्त्वादिः, गतिः सम्भवः, पृष्ठे यदि श्चयथुः स्यात् कथमात्मनः सम्भव इति, सामर्थ्यं बलाबलता, कथं दुर्बलो बलवतः शक्नोति क्षतं कर्तुं, बलवत्त्वाद् दुर्बलस्यैवमेव हन्तुं समर्थः, किमर्थं क्षतं करिष्यतीत्येवमादीनि परीक्षेत साक्ष्यभावे214न ॥ १५५ ॥
नार्थसम्बन्धिनो नाप्ता न सहाया न वैरिणः ।
न दृष्टदोषाः प्रष्टव्याः साक्षिणः प्रतिदूषिताः ॥ १५६ ॥
अर्थसम्बन्धिनो दानग्रहणसम्बद्धाः । ते भयाद् द्वेषाद् वान्यथा ब्रूयुः । आप्ताः प्रत्यासन्नाः मित्रस्वजनाः । तेऽपि सङ्गादन्यथा ब्रूयुः । सहायाः सहकारिणः । वैरिणः क्षतादिनिमित्ताद् बद्धवैराः । तैर्हन्तव्य एव सः । दृष्टदोषाः अकार्यकारिणः । तेऽपि निःश्रीकत्वान्न प्रष्टव्याः ।साक्षिण इति प्रत्येकं सम्बध्यते । प्रतिदूषिताः प्रतिवादिना दूषिताः । तेषामप्यौदासीन्यं जानाति सः ॥ १५६ ॥
दासनैकृतिकाश्रद्धवृद्धस्त्रीबालचाक्रिकाः ।
मत्तोन्मत्तप्रमत्तार्तकितवग्रामयजकाः ॥ १५७ ॥
महापथिकसामुद्रवणिक्प्रव्रजितातुराः ।
❋215 लुब्धैकश्रोत्रियाचारहीनक्लीवकुशीलवाः ॥ १५८ ॥
नास्तिकव्रात्यदाराग्नित्यागिनोऽयाज्ययाजकाः ।
एकस्थालिसहायारिचरज्ञातिसनाभयः ॥ १५९ ॥
प्राग्दृष्टदोषशैलूषविषजीव्याहितुण्डिकाः ।
गरदाग्निदकीनाशशूद्रा216पुत्रोपपातकाः ॥ १६० ॥
क्लान्तसाहसिकाशा217न्तनिर्धूतान्तावसायिनः ।
भिन्नवृत्त्यसमावृत्तझल्लतैलिकमूलिकाः ॥ १६१ ॥
भूताविष्टनृपद्विष्टवर्षनक्षत्रसूचकाः ।
अघशंस्यात्मविक्रेतृहीनाङ्ग†218भगवृत्तयः ॥१६२॥
कुनखी श्यावदन् श्वित्री मित्रध्रुक्छठशौण्डिकाः ।
ऐन्द्रजालिकलुब्धोग्रश्रेणीगणविरोधिनः ॥ १६३ ॥
वधकृच्चित्रकृन्मङ्खःपतितः कूटकारकः ।
कुहकः प्रत्यवसृ219तस्तस्करो राजपूरुषः ॥ १६४ ॥
मनुष्यविषशस्त्राम्बुलवणापूपवीरुधाम् ।
विक्रेता ब्राह्मणश्चैव द्विजो वार्धुषिकश्च यः ॥ १३५ ॥
च्युतः स्वधर्मात् कुलिकः स्तावको हीनसेविता ।
पित्रा विवदमानश्च भेदकृच्चेत्यसाक्षिणः ॥ १६६ ॥
दासश्च नैकृतिकश्चेत्येवमेते द्वन्द्वाः । दासोऽस्वतन्त्रत्वात् स्वामिकार्ये च नित्यव्यापृतत्वात् । निकृत्या चरतीति नैकृतिकः पररन्ध्रान्वेषणशीलः । अश्रद्धः न विद्यते श्रद्धा यस्यासावश्रद्धः । श्रद्धा नाम परलोकदेवब्राह्मणधर्माधर्माः सन्तीत्येवंरूपः प्रत्ययः । स यस्य नास्ति सोऽश्रद्धः अश्रद्दधानः । सोऽपि सम्मिन्नबुद्धित्वाद् यत्किञ्चनकारी । वृद्धस्त्रीबालाः अशक्तत्वादज्ञानाच्च । चाक्रिकोऽश्रोत्रियः कार्यं प्रति प्रतिषिध्यते । चक्रेण जीवतीति चाक्रिकः उपमर्दनप्रधानत्वात् । मत्तोन्मत्तप्रमत्तार्ताः उक्तावधारणविचारासामर्थ्यात् । कितवो
व्यसनित्वादविश्वास्यः । ग्रामयाजको ग्रामार्थं दृष्टादृष्टव्यापारकारी । सोऽपि वृत्तिच्छेदभयान्न धर्ममपेक्षते । महापथिको दीर्घाध्व220निकः । सोऽपि कार्यगौरवान्न धर्ममपेक्षते अस्वतन्त्रश्चेति । सामुद्रवणिक, सामुद्रश्चासौ वणिक् चेति सामुद्रवणिक् । अप्सु मूत्रपुरीषाद्युत्सर्गात् सामुद्रश्च वणिक् चेति वा । प्रव्रजितः श्रोत्रियादिसाहचर्यात् परिव्राजकः पूर्वोक्तः । इह श्रमणकादिः प्रव्रजितः । आतुरो व्याधितः । तयोर्धर्मापेतत्वाद् अन्यचित्तत्वादसामर्थ्यात् प्रमादप्रसङ्गाच्च । लु ( ब्ध ? ब्धःए ) कश्च ।लुब्धोऽर्थार्थमकार्यं न परिहरेत् । एकोऽपि प्रमादात् तत्त्वं नावधारयेत् । श्रोत्रियः, पूर्वत्र ‘श्रोत्रिया’ इति बहुवचननिर्देशात् त एव मिश्राः प्रतिषिद्धाः । प्रव्रजितानामयमपि विशेषः इहमिश्रोऽपि प्रतिषिध्यते । आचारहीनः स्वधर्मपरिभ्रष्टः किमकार्यं न कुर्यात् । क्लीवउपहतपुंस्त्वःपूर्वकृतदोषात् । कुशीलवो रङ्गोपजीविविशेषः अनृतप्रधानत्वात् । नास्तिकव्रात्यदाराग्नित्यागिनः । नास्तीति मतिर्यस्य स नास्तिकः । व्रात्यः पतितसावित्रीकः ।दाराश्चाग्नयश्च दाराग्नयः, दाराग्नीनां त्यागो दाराग्नित्यागः, स येषामस्ति ते दाराग्नित्यागिनः । अयाज्यानां याजकाःअयाज्ययाजकाः । एतेऽपि धर्मनिरपेक्षत्वान्न प्रमाणम् । एकस्थाली, एकस्थालं यस्यास्ति सः एकपाकः, सहभोजनो वा, अत्र सङ्गात् । सहायोऽप्येवमेव ।अरिषु चरतीत्यरिचर । अरिमित्रमित्यर्थः । ज्ञातयो दाया ( द्या ? दा )ः। सनाभयो मात्रा योनिसम्बद्धाः । प्राग्दृष्टदो ( षा ! षः) पूर्वं दृष्टो ( दोषो ) यस्य स तथोक्तः । शैलुषो नटः ।विषजीवी विषेण जीवनं यस्य । आाहितुण्डिको व्यालग्राहकः । एतेऽधर्मप्रायाः साहसिकत्वात् । गरदो विषदः । अग्निदो गृहाणां दाहकः । रू( ढिरे ? ढ ए ) वायं गृहदा ( हा ? हका ) दिषु । एतौ निःश्रीकत्वात् । कीनाशःकृपणः, परकर्मकर इत्यन्ये । शूद्रेव शूद्रा द्विजातिस्त्री व्यभिचारिणी, तत्पुत्रः । उपपातकाः उपपातकिनः । क्लान्तः श्रान्तः । साहसिकः सहसा प्रवृत्तःअविचार्य ।‘स्तेनाः साहसिका’ इति प्रसह्यकारिण इत्युक्ताः । इह त्वप्रत्ययकारी । अशान्तोऽयोग्यकारी । अयोग्यकारित्वाद् यत्किञ्चनकारित्वाच्च। निर्धूतो ग्रामराजकुलश्रेण्यादिभिर्निष्कासितः वर्जितः, प्रत्यक्षदृष्टदोषत्वात् । अन्तावसायिनश्चण्डालादयः, अयोग्यत्वात् साध्वाचारे । भिन्नवृत्तयः स्वधर्मेऽनवस्थिताः तेनैव स्वहस्तो दत्तोऽप्रामाण्ये ।असमावृत्तः, पूर्वं स्त्रीबाल इत्युक्तत्वादिदानीं ब्रह्मचारी गृह्यते नैष्ठिकः । शल्लश्चारण-
जातीयः । तैलिको महायन्त्रिकः । मूलिको मूलैर्विप्रलम्भकः । गुरुकुलाधीनत्वादुपमर्दकत्वाद् विप्रलम्भकत्वाच्चनैष्ठिकादयः । भूताविष्टः पिशाचादिगृहीतः, अस्वतन्त्रत्वात् । नृपद्विष्टो दोषवत्त्वात् । नहि स्वधर्मस्थं राजा द्वेष्टि । वर्षसूचको नैमित्ति221कः । नक्षत्रसूचको ज्योतिषवृत्तिः । सत्यानृतप्रायत्वात् प्रतिषिद्धत्वाच्चाजीवकस्य । अघशंसी परदोषकथनव्यसनी, धर्मनिरपेक्षत्वात् । आत्मविक्रेता अकार्यकारित्वाद् दत्तस्वहस्तोऽप्रमाणत्वात् । हीनाङ्गःपूर्वकृतदोषत्वात्222। भगवृत्तिः स्त्रीवृत्तिमनुजीवति, प्रतिषिद्धसोवित्वात् कृपणत्वाच्च।कुनखिश्यावदत्श्चित्रिणां पूर्वजन्मकृतदोषत्वात् । मित्रध्रुक् अकार्यकारित्वात् । ‘कृतघ्ने नास्ति निष्कृतिरि’त्युक्तम् । शठः स्वकार्यप्रधानत्वात् । शौण्डिको मद्यविक्रयी स्ववर्गादन्यत्र मद्यप्रायत्वात् स्वस्था223स्वस्थावस्थेन ज्ञायते । ऐन्द्रजालिको य इन्द्रजालेन चरति स विप्रलम्भक एव । लुब्धः एव लुब्धः ।सोऽर्थार्थं न किञ्चिन्न करोति । उग्रःक्रूरः । सोऽपि पशुवत् प्रवर्तते । श्रेणीविरोधिनो गणविरोधिनश्च महाजनोपघातप्रायत्वात् । वधकृल्लुब्धकादिः, वध्यानां वा वधे नियुक्तः । सोऽप्यकार्यकारित्वात् । चित्रकृत् चित्रकरः प्रतिषिद्धवृत्तित्वात् । मङ्खोदेवतां224गृहीत्वा याचकः देवताद्वारेण लोकस्य विप्रलम्भकत्वात् । पतितोऽसम्भाप्यत्वात् । कूटकारकोऽद्रव्यं द्रव्यवत् कृत्वा विप्रलम्भकत्वादकार्यकारी । कुहको डाम्भिकः । सोऽपि परवञ्चनार्थमुद्धतचित्तत्वात् । प्रत्यवसु225तः प्रव्रज्याया निवृत्तः । सोऽप्यसम्भाप्यत्वान्निःश्रीकत्वाच्च । तस्करः प्रसह्यचोरः प्रतिरोधकादिः । स्तेनश्छिद्रकारी पूर्वोक्तः। राजपुरुषो राजार्थं प्रवृत्तः, यतो धनं ततो गृह्यमाणक226रणत्वात् । मनुष्याणां विक्रेता प्रतिषिद्धकारित्वात् । विषस्य विक्रेता शस्त्रस्य च, वधसम्बद्धत्वात् । अम्बुलवणापूपवीरुधांप्रतिषिद्धत्वाद् ब्राह्मणस्य ब्राह्मण एतेषां विक्रेता । द्विजातिश्च वार्धुषिकः, प्रतिषिद्धत्वात् । ‘आपत्स्वपि हि कष्टास्वि’ति वैश्यानामपि निस्तीर्णापदां प्रतिषिद्धत्वात् । च्युतः स्वधर्मात् स्वधर्मं न परिपालयति, सत्यं परिपालयतीति को विश्वासः । कुलिकः परिच्छेदकत्वेन नियुक्तः । उदासीनेन तेन भवितव्यम् । प्रत्याय्यप्रत्यायकयोरेकत्वविरोधात् । स्तावकः प्रस्थापकादिः, परासधन-
आत्मानुरागात् । अरातिर्वैरनिर्यातनार्थं नश्यतादिति । एकस्य हेतुर्नोक्तो दुरवधारणत्वाद् गम्यत इति ॥ १७० ॥
अस्येतरैर्वैधर्म्यं ब्रवीति—
अथवानुमतो यः स्याद् द्वयोर्विवदमानयोः ।
स साक्ष्येकोऽपि साक्षित्वे प्रष्टव्यः स्यात् तु संसदि ॥ १७१ ॥
अथवेस्यवस्थया227 साक्षित्वमेकस्यापि कल्पयति । द्वयोरनुमत एकोऽपि साक्षित्वे प्रष्टव्यः प्रमाणभूत इत्यर्थः ॥ १७१ ॥
यस्त्वात्मदोषदुष्टत्वादस्वस्थ इव लक्ष्यते ।
स्थानात् स्थानान्तरं गच्छेदेकैकं चोपधावति ॥ १७२ ॥
कूटकृत् साक्षी येन लक्ष्यते तल्लक्षणमुच्यते—आत्मदोषदुष्टत्वाद् अद्य मां ज्ञास्यन्तीति सशङ्कत्वादस्वस्थ इव लक्ष्यते । स्थानात् स्थानान्तरं गच्छेत्, नैकत्रावतिष्ठते । एकैकं चोपसर्पति प्रत्यायनार्थम् ॥ १७२ ॥
कासत्यनिभृतोऽकस्मादभीक्ष्णं निःश्वसित्यपि ।
भूमिं लिखति पादाभ्यां बाहू वासो धुनोति च ॥ १७३ ॥
कासति चानिभृतोऽविनयेनोच्चैः निष्कारणं पुनःपुनः निःश्वसिति । भूमिं पादाभ्यांविलि228खति । बाहू वासश्चधुनोति चालयति स्फोटयतीत्यर्थः ॥ १७३ ॥
भिद्यते मुखवर्णोऽस्य ललाटं स्विद्यते तथा ।
शोषमागच्छतश्चोष्ठावूर्ध्वंतिर्यक् च वीक्षते229॥१७४॥
भिद्यते मुखवर्णोऽस्य अन्यथा भवति मुखवर्णः । स्विद्यते च ललाटम् । औष्ठौच शुष्यतः । ऊर्ध्वं तिर्यक् च निरीक्षते ॥ १७४ ॥
त्वरमाण इवापृष्टो बह्वबद्धं च भाषते ।
कूटसाक्षी स विज्ञेयस्तं पापं विनयेद् भृशम् ॥ १७५ ॥
त्वरमाण इवाबद्धं बहु भाषतेऽपृष्टः । एतैर्लिङ्गैः कूटसाक्षी स विज्ञेयः । तं पापं बिनयेद् भृशं, दण्डयेदित्यर्थः । प्रत्यर्थी च स्वार्थमनृतं ब्रवीति । अज्ञा-
नादपि सम्भवति । अयं तु परार्थस्वात् ज्ञात्वा च धर्मनिरपेक्षोऽकस्मान्महादोषमनृतं ब्रवीति । तस्माद् भृशमित्युक्तम् ॥ १७५ ॥
श्रावयित्वा तथान्येभ्यः साक्षित्वं योऽपि निह्नते ।
स विनेयो भृशतरं कूटसाक्ष्यधिको हि सः ॥ १७६ ॥
श्रावयित्वा पूर्वमन्येभ्यः साक्षित्वम् एवं बृत्तमहं जानामी’ति, प्रश्नकाले निह्रुते प्रयोजनमभिचिन्त्य ‘नाहं जानामि नच मयोक्तमि’ ति, स विनेयो भृशतरं कूटसाक्ष्यधिको यस्मात् सः । कूटसाक्ष्येवं230 निह्नुते अज्ञानाद्वा, अयं तु तच्चस्ववचनं च उभयं निह्नुते उभौ च विवक्षयिष्यति ॥ १७६ ॥
आहूय साक्षि (णं ? णः) पृच्छेन्नियम्य शपथैर्भृशम् ।
समस्तान् विदिताचारान् विज्ञातार्थान् पृथक् पृथक् ॥ १७७ ॥
आहूय साक्षि (णं ? णः) पृच्छेन्नियम्य नियमयित्वा ‘सत्यमेव वक्तव्यं नान्यदि’ति । अथवा देवताग्निसुवर्णबीजादीनि सन्निधाप्य शपथैर्भृशं नियम्येति सम्बन्धः । पुनः पुनर्वा शपथैः समस्तान् युगपत् सर्वान् विदिताचारान् शुद्धाचारान् विज्ञातार्थान् विदितवृत्तान्तान् पृथक् पृथग् वा समस्तान् वा पृथक् पृथक् पृच्छेत् ॥ १७७ ॥
सत्येन शापयेद् विप्रं क्षत्रियं वाहनायुधैः ।
गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः ॥ १७८ ॥
असाक्षिके विवादेऽलिङ्गेच सत्येन शापयेद् ब्राह्मणम् । ‘एतासां देवतानां राज्ञश्चसन्निधौ सत्यं त्वया वक्तव्यम्’, एवं पृष्टेन ‘सत्यं दृष्टं श्रुतमनुभूतं वे’ त्युक्ते समाप्तो व्यवहारः । एवमितरत्रापि । यथोक्तैरभियुक्तस्यायं यथोक्तः शपथः । क्षत्रियं वाहनायुधैः, गोबीजकाञ्चनैर्वैश्यं, पातकैः सर्वैः शूद्रं पञ्चमहापातकादिभिः ॥ १७८ ॥
पुराणैर्धर्मवचनैः सत्यमाहात्म्यकीर्तनेः ।
अनृतस्यापवादैश्च भृशमुत्रास्य साक्षिणः ॥ १७९ ॥
पुराणैः पूर्वोक्तैर्धर्मवचनैः, सत्यस्य माहात्म्यं सत्यमाहात्म्यं231 तस्य कीर्तनैः । कीर्त्यत एभिरिति कीर्तनानि । सत्यमाहात्म्यं यैः कीर्त्यते तैर्धर्मवचनैः, अनृ-
तस्स्मपवादैःअपो (ह्य?द्य) ते निन्द्यते यैःतैर्भृशमुत्रास्य उद्वेगं जनयित्वापृच्छेत् । सत्यमाहात्म्यकीर्तनानि—
“सत्यं साक्ष्ये ब्रुवन् साक्षी लोकानाप्नोति पुष्कलान् ।
इह चानुत्तमां कीर्तिं वाग्ध्येषां ब्रह्मपूजिता ॥”
इत्येवमादीनि । अनृतापवादानि—
“साक्ष्येऽनृतं वदन् पाशैर्बध्यते वारुणैर्नरः ।
विवशःशतमाजाती232स्तस्मात् साक्षी वदेदृतम् ॥”
इत्येवमादीनि ॥ १७९ ॥
इह वक्ष्यमाणा विप्र233काराः—
नग्नो मुण्डः कपालेन भिक्षार्थी क्षुत्पिपासितः ।
क्रुद्धः शत्रुगृहं गच्छेद् यः साक्ष्यमनृतं वदेत् ॥ १८० ॥
नग्रग्रहणं प्रव्रजितार्थम् । मुण्डग्रहणं केशसंस्कारासामर्थ्यार्थम् एतावतोऽप्ययमसमर्थ इति । कपालग्रहणमबह्वादानार्थम् । भिक्षार्थीत्यतोऽन्यप्रयोजनाभावार्थम् । क्षुत्पिपासित इत्यन्योपायेनासम्भवार्थम् । क्रुद्धग्रहणमन्यत्रालाभार्थम् । शत्रुग्रहणं परिभवार्थमन्नदानार्थं च । एषैषावस्थानृतवादिनः साक्ष्य इति ॥ १८० ॥
नमरे प्रतिरूद्धः सन् बहिर्दारो बुभुक्षितः ।
अमित्रान् भूयसः पश्येद् यः साक्ष्यमनृतं वदेत् ॥ १८१ ॥
नगरे प्रतिरुद्धो बद्धः, दारा यस्य बहिः स बहिर्दारः, बुभुक्षितोऽमित्रान् भूयसो बहुतरान् पश्येत् । स्वजनो बहिः, ये चासन्नास्ते वैरिणः न ददति बुभुक्षितस्य, तथाभूतस्य कुतः प्रतिक्रिया ।एतामवस्थामनुभवेद् यः साक्ष्यमनृतं वदेत् ॥ १८१ ॥
यां रात्रिमाधविन्नास्त्री यां चैवाक्षपराजितः ।
यां चातिभारतप्ताङ्गो दुर्विवक्ता स्म तां वसेत् ॥ १८२ ॥
यां रात्रिमधिविन्ना, अधिऊढा अन्या यस्याः साध्यूढा स्त्री पूर्वोढा, यथा दुःखिता, यां च द्यूतपराजितः, न भुक्तं न दत्तं एवमेव विनाशिवं तेव,
यांचातिभारतप्ताङ्गः, तामिव लुप्तोपमो द्रष्टव्यः । यथाते तां रात्रिंवसन्ति दुःखिताः, तथा दुर्विवक्ता अनृतस्य वक्ता साक्ष्ये सर्वा रात्रीर्वसति । तथा मा भूदिति सत्यं वदेदिति ॥ १८२ ॥
साक्षी साक्ष्यसमुद्देशे गोकर्णशिथिलं चरन् ।
सहस्रं वारुणान् पाशानात्मनिप्रतिमुञ्चति ॥ १८३ ॥
साक्षी साक्ष्यसमुद्देशे साक्षिप्रश्ने गोकर्णशिथिलं गोकर्ण इव शिथिलं, यथा गोः कर्णो न स्तब्धो नापि पत234ति तथा साक्ष्यन्यतरन्न ब्रवीति, जानन् क्षिपति कालं, सहस्रं वारुणान् पाशान् सहस्रैर्वारुणैः पाशैरात्मानं बध्नातीत्यर्थः ॥ १८३ ॥
तस्य वर्षशते पूर्णे पाश एकः प्रमुच्यते ।
एवं स बन्धनात् तस्मान्मुच्यते नियताः समाः ॥ १८४ ॥
वर्षशते पूर्ण एकः पाशो मुच्यते । एवं स बन्धनात् तस्मात् वर्षशते वर्षशत एकैक इति नियताः समाः संवत्सरानतिक्रम्य मुच्यते ॥१८४ ॥
यावतो बान्धवान् यस्मिन् हन्ति साक्ष्येऽनृतं वदन् ।
तावतः सङ्ख्यया तस्मिञ्शृणु सौम्यानुपूर्वशः ॥ १८५॥
बान्धवान् पूर्वपरा235न्यावतो यस्मिन् विवादवस्तुन्यनृतं वदन् हन्ति साक्षी, तावतः सङ्ख्यया तस्मिन्236 विवादवस्तुनि शृणु सौम्य ।क्रमेण ॥ १८५ ॥
पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ।
शतमश्वानृते हन्तिसहस्रं पुरुषानृते ॥ १८६ ॥
हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् ।
सर्वंभूम्यनृते हन्ति मा स्म भूम्यनृतं व (दी ?द): ॥ १८७ ॥
पञ्च पूर्वापरान् हन्ति साक्षी पशुवादेऽनृतं वदन् । पशवोऽजाविखरोष्ट्रादयः । दश गवानृते । शतमश्वानृते । सहस्रं पुरुषानृते । जातानजातांश्च सर्वान् हिरण्यार्थेऽनृतं वदन् । सर्वं सम्बद्धमसम्बद्धं च भूम्यनृते हन्ति । तस्माद् भूम्यनृतं मा वादीः । महादोषत्वाद् भूम्यनृतस्य विशेषेण प्रतिषेधः ।
अनृतनिन्दापरं237 वा अनृतवचनस्य साक्ष्ये । नचाकृताभ्यागमकृतप्रणाशौ । तस्य तावत् कस्मादुभयं भवति अकर्तृत्वादिति चेत् । कर्तुर्भवतीति कुतः । शास्त्रादिति चेत् । तुल्यमीदृशं तत्, यत् सर्वेषां दुःखमुत्पादयतीति । न स्वकृतं तेषां हीयते, तदपि क्रमेण भुज्यते । तत्क्षये चैवम् । अथवा तदपि (न ? ) विनश्यति । एवं महादोषमनृतवचनं, तत् परिहर्तव्यमिति238 ह्यनृतनिन्दार्थमुच्यते ‘असदपी’ति ॥ १८६, १८७ ॥
एकमेवाद्वितीयं तत् प्राहुः पावनमात्मनः ।
सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ॥ १८८ ॥
इत आरभ्य सत्यप्रशंसा यावदनृतनिन्देति । एकमेवाद्वितीयं तथाभूतमन्यन्नास्तीति प्राहुः । शोधनमात्मनः । अन्यदप्यस्ति, तत् सशेषं शोधयति यज्ञादि । इदं त्वद्वितीयं निरपेक्षमशेषं शोधयतीत्यर्थः। किं पुनस्तत। सत्यमेव । अतएव स्वर्गस्य सोपानम् । यथा हर्म्यतलस्य सोपानं तथा स्वर्गमारोढुंमार्गः। पारावारस्य समुद्रस्येति केचित्239, महानद्या गङ्गादेः परकूलस्येत्यन्ये, यथा नौरिति ॥ १८८ ॥
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
अश्वमेधसहस्रात् तु सत्यमेव विशिष्य240ते ॥१८९॥
" ब्रह्महत्याश्वमेधाभ्यां न परं पुण्यपापयोः ॥ "
इत्यश्वमेधः पुण्यानामुत्कृष्टः । ततोऽपि भूतोक्तिः सत्यम् । न तयोः समत्ववैषम्यचिन्तया प्रयोजनं, फलद्वारेणोत्कर्षापकर्षचिन्ता ।उत्कर्षश्चापकर्षश्च तत्फलयोरेव वा । ते तुलयासमधारयत् । तथाभूतप्रकृष्टपुण्यसाधनाश्वमेधसहस्रादपि सत्यं व्यतिरिच्यते । यस्यावभृथस्नानादपि ब्रह्महत्यायाः पूयते किं ततः परं, तत्सहस्रादपि सत्यमतिरिच्यते । तस्मात् सत्यसमं नास्तीति सत्यस्तुतिः241 । जन्मप्रभृत्यामरणात् सत्यवचनस्यैषा स्तुतिः, आहोस्विदेकैकस्येति । यदि जन्मप्रभृत्युक्ता, इह साक्ष्यश्रवणे फलं मन्दम् । अन्यथाक्रान्तत्वादिह सत्यवचने फलाभावात् । अथ एकैकस्य, इह सत्यवचने इयत् फलमवाप्नोति तस्मात् सत्यं ब्रूहि इत्युपपद्यते स्तुतिः ॥ १८९ ॥
परं कूपशताद्वापी परं वापीशतात् क्रतुः ।
परं क्रतुशतात् पुत्रः सत्यं पुत्रशतात् परम् ॥ १९० ॥
परत्वं भूयःफलत्वम् । कूपशताद् वापी भूयःफला, सर्वप्राण्यनुग्रहभूयस्त्वात् । भूतानुग्रहस्य च दुःखनिवृत्तिहेतुत्वात्। वापीशतफलाद् भूयःफलत्वं क्रतोः, श्रुतिविहितफलत्वात् । ‘त्रयः प्राञ्चस्त्रयः प्रत्यञ्च आत्मा सप्तम एताबन्त एवैनममुष्मिल्लोँक उपजीवन्ती’ ति श्रुतेः । तच्छतादपि भूयःफलः242पुत्रः ।
“पुत्रेण लोकाञ्जयति पौत्रेणानन्त्यमश्नुते ।
अथ पौत्रस्य पुत्रेण ब्रध्नस्याप्नोतिविष्टपम् ॥”
“नापुत्रस्य लोकोऽस्ती” ति चस्मृतेः । क्रतोरदृष्टफलत्वात्, दृष्टादृष्टफलत्वाच्चपुत्रस्य । ततोऽपि भूयःफलं सत्यं, सर्वप्रकृष्टाश्वमेधसहस्रातिरिक्तफलत्वात् । तस्मात् सत्ये स्थिरो भव, अनृतं मा वादीरिति ॥ १९० ॥
भूर्धारयति सत्येन सत्येनोदयते रविः ।
सत्येन बायुः पवते सत्येनापः स्रवन्ति च ॥ १९१ ॥
पृथिव्यादीनां सत्येन सम्बन्धाद् धारणादि243प्रतिज्ञाया अपरित्यागादेतान्यचेतनान्यपि स्वकार्यमुत्पत्तिप्रभृत्यव्यभिचारेण सत्येन कुर्वन्ति, किमुत चेतनावानिति सत्यस्तुतिः ॥ १९१ ॥
सत्यमेव परं दानं सत्यमेव परं तपः ।
सत्यमेव परो धर्मो लोकानामिति वै श्रुतिः ॥ १९२ ॥
दानफलमपि सत्यफलेऽन्तर्भूतम् । प्रकृष्टं च त244पः सत्यमेव ।‘सत्यमेव प्रकृष्टो धर्मो लोकानामि’ त्यागमः । तस्मात् साक्ष्ये वदेत् सत्यमिति ॥ १९२ ॥
सत्यं देवाः समासेन मनुष्यास्त्वनृतं स्मृताः ।
इहैव तस्य देवत्वं यस्य सत्ये स्थिता मतिः ॥ १९३ ॥
सत्यफलं देवाः संक्षेपेण दुःखाननुषक्तनित्यसु245खत्वात् । अनृतफलं मनुष्याः दुःस्वभूयस्त्वात् । इहैव शरीरे तस्य देवत्वं यस्य सत्ये स्थिता मतिः । भाविनि देवत्वे भूतवन्निर्देशः। हस्तप्राप्तं देवत्वं तस्य न दूरे । ‘प्रविष्टं धान्यमि’ ति यथा ॥ १९३ ॥
सत्यं ब्रूह्यनृतं त्यक्त्वा सत्येन स्वर्गमेष्यसि ।
उक्त्वानृतं महाघोरं नर246कं सम्प्रपत्स्यते ॥१९४॥
सत्यं ब्रूहि स्वर्गसाधनत्वात् । ततश्च सत्येनेहैव शरीरे तस्य देवत्वं यस्य सत्ये स्थिता मतिः । अनृतं त्यक्त्वा नरकसाधनत्वात् । ततश्च सत्येन स्वर्गमेष्यसि । अतोऽपि त्वमनृतं नरकसाधनमुक्त्वा घोरं नरकं प्रतिपत्स्यसे ॥१९४॥
निरयेषु247 च ते शश्वज्जिह्वामुत्कृत्य दारुणाः ।
असिभिः शातयिष्यन्ति बलिनो यमकिङ्कराः ॥१९५॥
अनृतवचनान्निरयं गतस्य तव निरयेषु नित्यं जिह्वां छित्त्वा दारुणा बलवन्तो यमकिङ्कराः248यमस्याज्ञाकराः छित्त्वा भित्त्वा शातयिष्यन्ति । तस्मान्मा वादीरनृतमिति ॥१९५॥
शूले मत्स्यानिवाक्षिप्य क्रोशन्तमपरायणम् ।
अवाक्छिरसमुत्क्षिप्य क्षेप्स्यन्त्यग्निह्रदेषु च ॥१९६॥
मत्स्यानिव शूले प्रोत्य क्रोशन्तं रोरुद्यमानमगतिं पुनः शूलादुद्धृत्याग्निप्रदेशे क्षेप्स्यन्ति ततश्च249ह्रदेषु ॥१९६॥
अनुभूय च दुःखास्ताश्चिरंनरकवेदनाः ।
❋250इहायास्यस्यभव्यासु गृध्रकाकादियोनिषु ॥१९७॥
अनुभूय तत्र नरकेषु चिरं दुःखा दुरनुभवा नरकवेदनाः शूलाग्निह्रदासिपत्र-वनकुम्भीपाकतप्तवालुककूटशल्मल्याद्याः, पुनरिहायास्यसि उत्पत्स्यसेअभव्यासु251पापासु गृध्रवायसकृम्यादियोनिषु ॥१९७॥
तस्मात्—
ज्ञात्वैताननृते दोषान् ज्ञात्वा सत्ये च सद्गुणान् ।
सत्यं वदोद्धरात्मानं मात्मानं पीपतश्विरम् ॥१९८॥
एवं ज्ञात्वा अनृते दोषान् सत्ये च शोभनान् गुणान् सत्यं वदोद्धरास्मानं देवत्वं प्रापय । अनृतमुक्त्वा मात्मानं नरकेपीपतः ॥१९८॥
न बान्धवा न सुहृदो न धनानि महान्त्यपि ।
अलं धारयितुं शक्तास्तमस्युग्रेनिमज्जतः ॥ १९९ ॥
बान्धवाः स्वजनाः सुहृदो मित्राणि धनानि गवाश्वहिरण्यादीनि महान्त्यपि भूयांस्यपि न शक्ता न पर्याप्ताः धारयितुं तमस्युग्रेमहति नरके निमज्जतः, सत्यमेवैकं समर्थम् । तस्मात् स्वार्थं तदेवैकमवलम्बस्व, अनृतं परार्थं मा वादीरिति ॥ १९९ ॥
पितरस्त्ववलम्बन्ते त्वयि साक्षित्वमागते ।
तारयिष्यति किन्न्वस्मानात्मानं पातयिष्यति ॥ २०० ॥
पितरस्त्ववलम्बन्ते य(थाल्ब252 ? थोलपा) लम्बमानास्तथा पतेम न पतेभेति संशयावस्थायां त्वयि साक्षित्वमागते साक्षित्वेन नियुक्ते । किमिति संशये, न्विति वितर्के । किन्नु तारयिष्यति नरकादस्मान् आत्मानं च, किन्नु पातमिष्यति अनृतवचनेन नरकेऽस्मानात्मानं चेति। तस्मात् तान् भूतवचनेनोद्धर्तुमर्हसि ॥ २०० ॥
सत्यमात्मा मनुष्यस्य सर्वंसत्ये प्रतिष्ठितम् ।
सर्वथैवात्मनात्मानं श्रेयसा योजयिष्यसि ॥ २०१ ॥
सत्यमात्मा मनुष्यस्य, यथात्मानं श्रेयसा योजयिष्यति तथा सत्यमिति सत्यमात्मेत्युच्यते ।सत्ये सर्वं प्रतिष्ठितम् आ ब्रह्मणः स्थानात् सत्यं निमित्तं, तदभाव आकीटपतङ्गेभ्यः सर्वनारकाणी253ति ।सर्वथात्मानमात्मना श्रेयसा योजयिष्यसि, सत्यवचनं254 (पि ? न) पितृृणामेव हितार्थमात्मार्थमपीति ॥ २०१ ॥
यां रात्रिमजनिष्ठास्त्वं यां च रात्रिं मरिष्यसि ।
वृथा ❋255 तदन्तरा ते स्यात् साक्ष्यं चेदन्यथा वदेः ॥ २०२ ॥
‘अन्तरान्तरेण युक्ते’ (२. ३. ४) इति द्वितीयोभयत्र ।यां रात्रिमवधिं कृत्वा यां च मरणं जन्मन आरभ्यामरणादन्तरा यत् कृतं, सुकृतमिति सामर्थ्यात्, तत्256 तव वृथा स्यात् साक्ष्यं चेदन्यथा वदेः । तस्मात् सुकृतरक्षणार्थमपि मानृतं वादीरिति ॥ २०२ ॥
नास्ति सत्यात् परो धर्मो नानृतात् पातकं परम् ।
साक्षिधर्मे विशेषेण सत्यमेव वदेरतः ॥ २०३ ॥
नास्ति सत्यात् परो धर्मो नानृतात् पातकमपि । ‘ब्रह्महत्याश्वमेधाभ्यां न परं पुण्यपापयोरि ‘त्युक्तम्, ‘अश्वमेधात् परं पुण्यं नास्ति’ ‘अश्वमेषसहसात्तु सत्यमेव विशिष्यत इति ॥ २०३ ॥
पुराणप्रोक्तैचात्र श्लोकौ भवतः—
यः परार्थे^(❋)257ऽपहरति स्वां वाचं पुरुषाधमः ।
आत्मार्थे किन्न कुर्यात् स पापं नरकनिर्भयः ॥ २०४ ॥
अर्था वै बाचि नियता वाङ्मूला वाचि मिश्रिताः ।
यो वैतां स्तेययेद् वाचं स सर्वस्तेयकुन्नरः258 ॥ २०५ ॥
इति । साक्ष्यनृतप्रतिषेधोद्बोधनार्थत्वादिहोपन्यस्तौ । यः परस्यार्थे (वाचं ) सत्यान्महाफलादपहरति अनृतं महादोषंप्रापयति । स्वायत्तानपरा259धिनां परायत्तत्वेन दोषःस्यात् । अतएव पुरुषाधमः ।सः आत्मार्थे किन्न कुर्यात् पापम् आत्मनः फलसम्बन्धो दृष्टादृष्टविषयो यत्र नास्ति तत्राप्यकार्ये प्रवृत्तोऽ(यः ? यं) यत्रात्मनो दृष्टफलसम्बन्धोऽस्ति तत्र नरकनिर्भयः किं260 पापं न करिष्यतीति । ‘सुवा(ग्) ब्राह्मण261’ इति दर्शनाद् वागिति शब्द उच्यते इन्द्रियं च । तत्रार्थाःदृष्टादृष्टा अग्निहोत्रादयः कृप्यादयश्च नियताः तया प्रवर्तन्ते । वाङ्मूलाःशब्दा देवाग्निहोत्रादयो262 गम्यन्ते । वाचि शब्दब्रह्मणि मिश्रिताः स्थिताः । अतः सर्वत्र प्रतिष्ठितां वाचं यः स्तेययेत् चोरकर्म करोति प्रतिषिद्धं करोति अनृतं वदतीत्यर्थः, स सर्वस्तेयकृन्नरः तत्प्रभवत्वात् सर्वस्य तदन्तर्भूतत्वाच्च । तत्र स्तेनप्रणाडि263कया सांक्षाच्च सर्वस्तेनः । तस्मात् सत्ये स्थातव्यमिति ॥ २०४, २०५ ॥
साक्षिविप्रतिपत्तौ तु प्रमाणं बहवो यतः ।
तत्साम्ये शुचयो ग्राह्यास्तत्साम्ये स्मृतिमत्तराः ॥२०६ ॥
साक्षिणां विप्रतिपत्तौ बहवो यद् ब्रूयुः, तद् ग्राह्यम् । तेषां साम्ये शुचयःनान्यथा वदन्तीति सम्भाविताः अन्येषु कार्येषु दृष्टप्रत्ययाः, तेषां वचो ग्राह्मम। तेषां साम्ये स्मृतिमत्तराः कृतज्ञा विविक्तभावाः बहुशो दृष्टव्यवहाराः ॥ २०६ ॥
स्मृतिमत्साक्षिसाम्यं तु विवादे यत्र दृश्यते ।
तीक्ष्णत्वात् साक्षिधर्मस्य साक्ष्यं व्यावर्तते ततः ॥ २०७ ॥
स्मृतिमतां साम्यं यस्मिन् व्यवहारे दृश्यते, तीक्ष्णत्वात् प्रत्यवायबहुलत्वाद् औदासीन्याद्धीनत्वाच्च साक्षिधर्मस्य विरुद्धवादिनोर्गणयोः, तत्र योऽन्यैः साक्षिभिर्देवेन वा शुध्यति, तद्वचो ग्राह्यम् । स च वादी जयति । इतरः साक्षिवर्गः स च पक्षो यस्य स दण्ड्यः । अथवा साक्ष्यं व्यावर्तत इति ततः परं साक्षिव्यापारो नास्ति, तत्र देवेन वान्यैर्वा साक्षिभिर्नेयः, दण्डश्च पराजितस्य साक्षिवर्गस्य ॥ २०७ ॥
निर्दिष्टेष्वर्थजातेषुसाक्षी चेत् साक्ष्य आगते ।
न ब्रूयादक्षरसमं न तन्निगदितं भवेत् ॥ २०८ ॥
निर्दिष्टेष्वर्थजातेषु गोभूहिरण्यादिषुसाक्ष्य आगते साक्षिप्रश्नकाले यदि साक्षी न ब्रूयात् अक्षरसमम् । ‘अयं मम हिरण्यं धारयति अयं मे साक्षी’ इति स पृष्टः ‘सत्यं जानाम्यहं न न जानामी’ त्यक्षरसममेतत् । अतोऽन्यथा ब्रूयात् ‘अस्य ग्रहीतुर्वाह्यं नीयमानं दृष्टमि’ ति, न तन्निगदितं भवेत् न तत् साक्ष्यं दत्तं भवति । अक्षरानुरूपं भाषयितव्यः सः ॥ २०८ ॥
देशकालवयोद्रव्यप्रमाणाकृतिंजातिषु ।
यत्र विप्रतिपत्तिः स्यात् साक्ष्यं तदपि चान्यथा ॥ २०९ ॥
देशश्च कालश्च वयश्च द्रव्यं च प्रमाणं चाकृतिश्च जातिश्चेति देशादयो द्वन्द्वाः। तेषु विप्रतिपत्तिः स्यात् अन्यथा लिखितमन्यथा साक्षी ब्रूयात्— देशे ‘गृहे मया दत्तम् अत्रैते ज्ञातार’ इति लिखिते ‘क्व दीयमानं दृष्टं युष्माभिरि’ ति पृष्टाः देशान्तरं यदि ब्रूयुः ‘आपणे त्रैविद्यामण्टपे वे’ ति, एवं काले ‘पूर्वाह्ण’ इति लिखिते ‘अपराह्ण’ इति ब्रूयुः, वयसि ‘दम्य’ इति लिखिते ‘बलीवर्द’ इति ब्रूयुः, द्रव्ये ‘हिरण्यमिति लिखिते धान्यमि’ ति ब्रूयुः, प्रमाणे
मणिमुक्तादीनां ‘बदरमात्रमि’ ति लेखिते ‘निष्पावमात्रमि’ ति ब्रूयुः,आकृतौ ‘स्त्रीरूपा264’ इति लेखिते ‘पुरुषरूपा’ इति ब्रूयुः, जातौ ‘इन्द्रनीलमि’ ति लेखिते ‘वैडूर्यमि’ ति ब्रूयुः, तदपि चान्यथा न सक्ष्यमित्यर्थः । हीनः स भवति येन ते साक्षिण उद्दिष्टाः ॥ २०९ ॥
ऊनमभ्यधिकं वार्थं प्रब्रूयुर्यत्र साक्षिणः ।
तदप्यनुक्तं विज्ञेयमेष साक्ष्यविधिः स्मृतः265 ॥ २१० ॥
लिखितादूनमधिकं वार्थंपृष्टाः साक्षिणो ब्रूयुः ‘दशे’ति लेखिते ‘सप्ते’ ति ‘द्वादशे’ ति वा पृष्टाः साक्षिणो ब्रूयुस्तदप्यनुक्तं साक्ष्यम् । एष साक्षिधर्मः । तत्रातिरिक्तवचने साक्षिणो मृषावादिनः । न स्वार्थं कश्चिदूनं प्रतिजानीते। सर्वथा हीनः स भवति । तदूनवचने विभा266षितैकदेशत्वाद् दाप्यः सर्वं स्यात् । न । विषयभेदात् । अपह्नु267ते लोप्त्रादिनैकदेशे विभाषिते सर्वं दाप्य इति तदुक्तम् । इह तु प्रतिज्ञासाक्षिवचनयोर्विप्रतिपत्तिरिति वैषम्यं तेन ॥ २१० ॥
प्रमादाद् धनिनो यत्र न स्याल्लेख्यं न साक्षिणः ।
अर्थं चापह्नुते वादी तत्रोक्तस्त्रिविधो विधिः ॥ २११ ॥
यदा धनिनः प्रमादात् लेख्यसाक्ष्यभावः, अर्थं चापह्नुते ग्राहकः, तत्र निर्णये त्रिविधो विधिः ॥ २११ ॥
स उच्यते—
चोदना प्रतिकालं च युक्तिलेशस्तथैव च ।
तृतीयः शपथः प्रोक्तस्तैर्ऋणं शोधयेत् क्रमात् ॥ २१२ ॥
काले काले महाजनसमक्षं चोदना देहीति हेतुस्तत्त्वावगमे । भूयो भूयोऽमुष्यामुष्य च सकाशे चोदितोऽयमिति विभाविते स परिच्छिद्यते धारयतीति । युक्तिलेशः कस्यचिदेकदेशस्य कदाचिदादानम्, ‘अमुना त्वया प्रेषितेन मत्सकाशाद् गृहत्विामुत्रामुत्र च व्ययि268तव्यम्’ (इति) । तृतीयः269शपथःमानुषो दैवश्च । एतैस्तत्त्वमधिगच्छेत् ॥ २१२ ॥
अभीक्ष्णं चोद्यमानोऽपि प्रतिहन्यान्नतद्वचः ।
त्रिश्चतुष्पञ्चकृत्वो वा परतोऽर्थंसमाचरेत् ॥ २१३ ॥
अभीक्ष्णमभिक्षणं क्षणे क्षण इत्यर्थः, चोद्यमानोऽपि न प्रतिहन्यात् तद्वचः ‘नैतदेवम् अनृतं ब्रवीषी’ ति । त्रिश्चतुष्पञ्चकृत्वो वा चोद्यमान इति सम्बधः । परतोऽर्थं दद्यात् । ‘यदि नैवं स्यात् किन्न प्रतिहन्यात्’ तस्मादवश्यं धारयतीति गम्यते ॥ २१३ ॥
चोदनाप्रतिघाते तु युक्तिलेशैस्तमन्वियात् ।
देशकालार्थसम्बन्धपरिमाणक्रियादिभिः ॥ २१४ ॥
‘चोदना प्रतिकालं चे’ ति यदुक्तंतद्विशेषितम् । द्वितीय उपायो युक्तिलेशइत्युक्तः । स विशेष्यते—चोदनाप्रतिघाते तु चोद्यमानो270 ‘नाहं धारयामी’ ति ब्रूयात् ततः प्रतिहतायां चोदनायां युक्तिलेशैः पूर्वोक्तैस्तमनुगच्छेत्, ‘अमुष्मिन् देशेऽमुष्मिन् कालेऽमुनार्थसम्बन्धेन इयत्परिमाणमेवंक्रियं च तद् द्रव्यमि’ त्येवमादिभिः ॥ २१४ ॥
युक्तिष्वप्यसमर्थासुशपथैरेनमर्दयेत् ।
देशकालबलापेक्षमग्न्यम्बुसुकृतादिभिः ॥ २१५ ॥
सम्प्रति तृतीय उपायः शपथ इत्युक्तं, स विशेष्यते —युक्तिष्वपिंयुक्तिलेशेष्वप्यसमर्थेषु शपथैरेनमर्दयेत् ।शपथो विशेष्यते —देशकालबलापेक्षम् । देशश्च कालश्च बलं च देशकालबलं तदपेक्षमिति देशकालबलापेक्षम् । देशाद्यानुरूप्येणार्दयेदिति सम्बन्धः । अग्न्यम्बुसुकृतादिभिः ग्रीष्मवर्षहेमन्तेषु । कालापेक्षया च क्वचिदग्निना क्वचिदुदकेन क्वचित् सुकृतहिरण्यपुत्रदारादिभिः ॥ २१५ ॥
दीप्तो यं न दहत्यग्निरापोऽन्तर्धारयन्ति यम् ।
स तरत्यभिशापं271 तं किल्विषी स्याद् विपर्यये ॥ २१६ ॥
दीप्तोऽग्निर्यं न दहति प्रविष्टं तप्तं वा लोहं हरन्तं, यमापोऽन्तर्धारयन्ति नचोन्मज्जयन्ति, उभयत्र लौकिकः क्रियमाणो विधिर्द्रष्टव्यः इह च वक्ष्यति,
स तरति तमभिशापमभियोगम् ।यो न दग्धो नोन्मग्नश्च, स जयति । यो दह्यते उन्मज्जति च, स हीयते ॥ २१६ ॥
स्त्रीणां शीलाभियोगे च स्तेयसाहसयोरपि ।
एष एवविधिर्दृष्टः सर्वार्थापह्नवेषु यः ॥ २१७ ॥
स्त्रीणां शीलाभियोगे व्यभिचाराशङ्कायां, स्तेयशङ्कायां, साहसशङ्कायां चैष एव त्रिविधो विधिर्दृष्टः क्रमेणसर्वार्थापह्नवेषु य उक्तः ॥२१७ ॥
शपथा ह्यृषिदेवानां पुरा सृष्टाः स्वयम्भुवा ।
वसिष्ठः शपथं शेषेयातुधानेति शब्दितः ॥ २१८ ॥
शिष्टाचारःप्रमाणम् । शपथाश्चर्षिदेवानां सृष्टा ब्रह्मणा । तस्मान्मनुष्याणामपि शपथाःप्रमाणम् । तस्मात् सूक्तं ‘तृतीयःशपथ’ इति । तत्र प्रदर्शनार्थमेकमुदाहरणं दर्शितं —वसिष्ठः शपथं शेषइति । शपथं कृतवान् यातुधानेति शब्दितः उक्तः’अद्यामुरीये’ त्यादिना ॥ २१८ ॥
सप्तर्षयस्तथा सेन्द्राः पुष्करार्थेतपोधनाः ।
शेपुःशपथमव्यग्राः परस्परविशुद्धये ॥ २१९ ॥
तथेति, न केवलं वसिष्ठ एव, सप्तर्षयोऽपि तथा शेपुरिति । सेन्द्राः सहेन्द्रेण ।पुष्करार्थे बिसार्थे तपस्विनः शपथं272 समयं कृतवन्तः समाहितमनसः परस्परविशुद्ध्यर्थं ‘यस्ते हरति पुष्करमि’ त्येवमादिनागस्त्यादयः । तस्माद् विशिष्टैराचरितत्वाश्च शपथाःप्रमाणम् ॥२१९ ॥
अयुक्तं साहसं कृत्वा प्रत्यापत्तिं भजेत यः ।
ब्रूयात् स्वयं वा सदसि तस्यार्धविनयः स्मृतः ॥ २२० ॥
अयुक्तं प्रतिषिद्धं चौर्यपरघातादि कृत्वा प्रत्यापत्तिंभजेत ‘अशोभनमकार्यं मया कृतं, शासनीयोऽस्मि, प्रमादान्मयैतत् कृतमि’ ति प्रतिपद्येत स्वयमेव, स्वयं वाकार्यस्य चोदितो राजकुले प्रणिपत्य ‘इदं मयाकार्यं कृतं शोधयत मामि’ ति तस्य द्विप्रकारस्यापि अस्मिन् कार्ये विहितो यो दण्डः तस्यार्धः स्मृतः । प्रायश्चितं तु तद्वशेन ‘ख्यापनानुतापादिना पापस्य क्षयाद्’ इति स्मरणात् । अन्योऽप्येवं मा कार्षीदित्यर्धदण्डः ॥ २२०॥
गूहमानस्तु दौश्शील्याद् यदि पापं स हीयते ।
सभ्याश्चास्य न दुष्यन्ति तीव्रो दण्डश्च पार्थिवात् ॥ २२१ ॥
यस्तु स्वयं न प्रकाशयति गूहमान एव, लिखितेऽपि व्यवहारे मिथ्येति ब्रुवन् पापं गूहमानो यदि,हीयते,सभ्याश्चसाधवो न दुष्यन्ति, तीव्रश्च दण्डो महान् पार्थिवात् । शिष्टविगर्हणा च परलोकविरुद्धा कष्टेयमबस्थेति तीव्रोदण्डः ।तस्माद् यदि प्रमादेन पापं कुर्यान्न गूहेत273 । तथा सति प्रत्यवायो मन्दः शिष्टविगर्हणाभावात् । दृष्टे चापि दण्डलाभ इति ॥ २२१ ॥
इति ऋणादानं प्रथमं विवादपदम् ॥
______
अथौपनिधिकं द्वितीयंविवादपदम् ।
म्वद्रव्यं यत्र विस्रम्भान्निक्षिपत्यविशङ्कितः ।
निक्षेपो नाम तत् प्रोक्तं व्यवहारपदं बुधैः ॥ १॥
स्वग्रहणादात्मीयं, न चौर्यादिनापहृतं, यस्मिन् विस्रम्भाद् विश्वासान्निक्षिपत्यविशङ्कितो नायमन्यथा करिष्यतीति, निक्षेपो नाम तद् विवादपदम् ।निःश274ङ्कंनिक्षिप्यते स्थाप्यत इति निक्षेपः । स द्विविध इति वक्ष्यति । तस्य द्विविधस्यापि सामान्योपन्यासोऽयम् ॥ १ ॥
अन्यद्रव्यव्यवहितं द्रव्यमव्याकृतं च यत् ।
निक्षिप्यते परगृहे तदौपनिधिकं स्मृतम् ॥२ ॥
अन्येन द्रव्येण व्यवहितं वस्त्रफेलिकादिना मुक्तामण्यादि, मुक्तामणिसमुद्गफेलिका व्याकृता वा, निर्दिष्टद्रव्यं वा इदं चेदं च इत्युद्घाठ्यदर्शयित्वा दर्शिता वा निक्षिप्यते परगृहे, तदौपनिधिकं नाम ॥ २ ॥
स पुनर्द्विविधः प्रोक्तः साक्षिमानितरस्तथा ।
प्रतिदानं तथैवास्य प्रत्ययः स्याद् विषर्यये ॥३॥
स पुनरनुक्रान्तो द्विविधःसाक्षिमानसाक्षिकश्च । प्रतिदानमपि तस्य तथैव (स) साक्षिकस्य ससाक्षिकम्, अनिर्दिष्टद्रव्यस्य अनिर्दिष्टद्रव्यकम्, अव्याकृतस्याव्याकृतकमेव275 । विपर्यये प्रत्ययः शपथः ॥ ३ ॥
याच्यमानस्तु यो दात्रा निक्षेपं न प्रयच्छति ।
दण्ड्यः स राज्ञा दाप्यश्च नष्टे दाप्यश्च तत्समम् ॥ ४॥
याच्यमानस्तु दात्रा निक्षेपं न प्रयच्छति यः, स दण्ड्यो राज्ञा, निक्षेपच्च276दाप्यः ।नष्टे दाप्यश्च तत्समं द्रव्यं, चशब्दाद् दण्ड्यश्चे277ति, येन कस्यचित् तद्ग्रहणं न कृतं, व्यवहारार्थं च उपस्थित इति ॥ ४ ॥
यश्चार्थं साधयेत् तेन निक्षेप्तुरननुज्ञया ।
तत्रापि दण्ड्यः स भवेत् तच्च सोदयमाप्नुयात् ॥ ५ ॥
यश्च निक्षेप्तुरननुज्ञया प्रयुञ्जीत द्रव्यं निक्षिप्तं क्रयंविक्रयं वा कुर्यात्, तत्रापि दण्ड्यः स भवेत् परद्रव्यस्य विश्वासान्न्यस्तस्थाननुज्ञयापि स्वामिनः278स्वार्थमुपभोगात् । तच्च द्रव्यं निक्षिप्तं सोदयं दाप्यः सलाभं सवृद्धिकं च ॥ ५ ॥
ग्रहीतुः सह योऽर्थेन नष्टो नष्टः स दायिनः ।
दैवराजकृते तद्वन्नचेत् तज्जिह्मकारितम् ॥ ६ ॥
ग्रहीतुरर्थेन तत्समेन तद्विशिष्टेन वा सह नष्टो निक्षेपः स दायिनो नष्टो भवति, न दाप्य इत्यर्थः । अप्रकाशं चोरैर्हृते भित्तिच्छेदनादिना प्रसह्यवा । दैवराजकृतेऽपि दैवकृतमग्निदाहादि । तत्रापि स्वद्रव्येण सह समोत्कृष्टेन । स्वगृहात् सममुत्कृष्टं वा यदि निर्हरति, न दाप्यः । अथ न निर्हरति तदा दाप्यः। एवमेव राजकृतं, सर्वस्वहरणे । तत्रान्तर्भूते निक्षेपे न दाप्यः । नचेज्जिह्मकारितं परमार्थतः तथाचेत् । अथ वञ्चनार्थं निक्षेपजिहीर्षया हृतादिव्यपदेशः कृतः, ततः परीक्ष्य दाप्यः । असति प्रमादे यदृच्छया निक्षेप एव हीयेत नश्येद्वा तस्य दैवेऽन्तर्भूतत्वात् तदपि न दाप्यः अजिह्मकारितं बुद्ध्वा ॥ ६ ॥
एष एव विधिर्दृष्टो याचितान्वाहितादिषु ।
शिल्पिधूपनिधौ न्यासे प्रतिन्यासे तथैव च ॥७॥
एष एव विधिर्दृष्टइति पूर्वोत्कातिदेशो याचितादिषु । ‘स पुनर्द्विविध’ इत्यारभ्य यावदयमतिदेशःसर्वो यथोक्तो द्रष्टव्यः निक्षेपप्रतिदानयाच्यमाना-
दानस्वार्थसाधननाशेषु । याचितं विवाहाद्यभ्युदयकर्मसु वस्त्रालङ्कारादि279 । तस्य ग्रहणादारभ्य तुल्यो विधिः । अन्वाहितमतदर्थे गमन आनुषङ्गिकं यत् समर्पितम् । तद्यथा—मथुरायाः कश्चित् स्वार्थं कन्याकुब्जं प्रस्थितः । तस्य हस्ते कन्याकुब्जस्थस्वं280 द्रव्यमिदमस्मद्गृहे देहीति समर्पितम् । तत्रापि साक्षिमदादिरेष281एव विधिः। आदिग्रहणादाधिप्रणयादपृष्ट्वानीतमित्येवमादि । शिल्पिषु उपनिधौ शिल्पिषु सुवर्णकारादिषु कटकादि दत्त्वेयता कालेन दातव्यमिति । तत्राप्येष एव विधिः । निक्षेपोपनिधिभावोपन्यासः अर्थाभेदादिति केचित् । एवञ्च ‘षडेते विधयः समा’ इत्युपपद्यते, अन्यथा अष्टौ समाः स्युरिति । अन्यैर्निक्षेपोपनिधी मुक्त्वा याचिनादयः षडुक्ताः । तत्रापि न्यासः ‘इदं त्वया रक्षितव्यमि’ ति निहितम् । प्रतिन्यासविषये प्रतिन्यासोऽपि ‘यावदहं त्वदीयं रक्षामि तावदिदं मदीयं त्वमधिरक्षेति। एतयोरपि स एव विधिः ॥ ७ ॥
प्रतिगृह्णाति पोगण्डं यश्च भप्रधनं नरः ।
तस्याप्येष विधिर्दृष्टः षडेते विधयः समाः ॥ ८ ॥
पोगण्डमनाथं वालं वा यः संध282नं गृह्णाति तस्याप्येष एव विधिर्दृष्टः । यथा प्रविष्टस्तथैव प्राप्तव्यवहारः स्वकार्य समर्थः प्रतिमोक्तव्यः । षडेते समा विधयः परप्रामाण्ये समर्थविसंवादे च यथोक्तो विधिरिति ॥८॥
इति औपनिधिक द्वितीय विवादपदम् ।
__________
अथ सम्भूयसमुत्थानं तृतीयं विवादपदम् ।
वणिक्प्रभृतयो यत्र कर्म सम्भूय कुर्वते ।
तत् सम्भृयसमुत्थानं व्यवहारपदं स्मृतम् ॥१॥
वणिक्प्रभृतयः वणिजः ऋत्विजः कर्मकराः कर्षका इत्येवमादयः यत्र सम्भूय संहत्य वाणिज्यज्योतिष्टोमादिकं कर्मात्मार्थं कुर्वन्ति, तत् सम्भूयसमुत्थानं नाम व्यवहारपदम् । समुपतिष्ठन्तेऋद्धिं प्राप्नुवन्ति ऐक283मत्येनोत्कृष्टामवस्थां प्राप्नुवन्त्यनेनेति समुत्थानम् ॥१॥
फलहेतोरुपायेन कर्म सम्भूय कुर्वताम् ।
आधारभूतः प्रक्षेपस्तेनोत्तिष्ठेपुरंशतः ॥ २ ॥
फलहेतोर्लाभहेतोरुपायेन समर्धं द्रव्यं देशान्तरे क्रीत्वा यत्र महार्घंतत्र नयनम् अनेनोपायेन सम्भूय कर्म क्रयविक्रयादि कुर्वतां, साधारणत्वादेकैकं प्रत्येककर्त्रभिप्रायत्वात् क्रियाफलस्य परस्मैपदम् ,आधारभूतः प्रक्षेपः । मूलसमाहारे284 यस्य योंऽशः प्रक्षिप्त इति कृत्वा तेनैवानुपातेन लाभो विभक्तव्यः ॥ २ ॥
समोऽतिरिक्तो हीनो वा यत्रांशो यस्य यादृशः ।
क्षयव्ययौ तथा वृद्धिस्तस्य तत्र तथाविधा285॥ ३ ॥
समोऽतिरिक्त ऊनो वा यत्र यस्ययादृशोंऽशः क्षयव्ययौ, वृद्धिश्च तत्र तथाविधा तस्य । क्षयः कालेन द्रव्यस्य । अल्पांशस्याल्पांशः क्षयः महांशस्य महान् । व्ययोऽप्येवमेव ॥ ३ ॥
भाण्डपिण्डव्ययोद्धारभारसारान्ववेक्षणम् ।
कुर्युस्ते व्यवहारेण समये स्वेव्यवस्थिताः ॥ ४ ॥
भाण्डं साधारणद्रव्येण गृहीतं द्रव्यम् ।पिण्डः सर्वसमुदायः । व्ययो भृतिः शुल्कनाविकादिनिमित्तः ।उद्धारस्तत उद्धृतं द्रव्यं सारमसारं वा । बाह्यतः प्रयोजनार्थमुद्यतमित्यन्ये । भाराःपुरुषादिवाह्याः।सारं प्रधानं द्रव्यं चन्दनकुङ्कुमादि, भाराणां वा मध्ये सारद्रव्याणि । तेषामन्वहमवेक्षणं कुर्युस्ते यथाकृतेन286 व्यवहारक्रमेण स्वसमये आदौ कृते स्थिताः । प्रत्यहं वारक्रमेण परस्परतः सम्पाद्यंमतिसाम्यम् ॥ ४ ॥
प्रमादान्नाशितं दाप्यः प्रतिषिद्धकृतं च यत् ।
असन्दिष्टं च यत् कुर्यात् सर्वैः सम्भूयकारिभिः ॥ ५ ॥
यस्य वारे प्रमादात् तस्य यन्नष्टं, न प्रसह्य चोरराजकुलादिना हृतं, स दाप्यः, तद्दोषान्नष्टत्वात् । प्रतिषिद्धेन च कृतं नष्टमित्येव, गुणीभूते वक्तव्याभावात् । सर्वैरसन्दिष्टमप्रतिषिद्धं प्रतिषिद्धमपि स्वमत्या कृतं विपन्नं दाप्य इत्येवं यत्किञ्चित् कर्तव्यं तत् सर्वेषां सम्मतं कर्तव्यमिति ॥ ५ ॥
दैवतस्करराजोत्थे व्यसने समुपस्थिते ।
यस्तत् स्वशक्त्या संरक्षेत् तस्यांशो दशमः स्मृतः ॥ ६ ॥
दैवोत्थे व्यसने वर्षाग्न्यादिना, तस्करनिमित्ते प्रतिरोधकादिभिः सार्थघातादौ, राजोत्थव्यसने व्यवहारातिक्रमो(त्था ? त्थे) धनिकादिना । एतैः सर्वनाशे समुपस्थिते सर्वेषां यस्तद् व्यसनं स्वशक्त्या पुरुषकारलोकयात्रादिना सम्यग् रक्षेत् तद् द्रव्यं हिंसाघातस्य सर्वभाण्डदशभागः। नित्यो नायं नियमः, भूयानपि व्यसनरक्षानुरूपतः । तत्प्रसादाद्धि तेषां फलसम्बन्धः ॥ ६ ॥
एकस्य चेत् तद्व्यसनं दायादोऽस्य तदाप्नुयात् ।
अन्यो वासति दायादेऽशक्ताश्चेत् सर्व एव वा ॥ ७ ॥
एकस्य चेद् दैवादिकृतं व्यसनं मरणादि प्रतिविधातुमशक्यं दायादस्तत्स्थाने भूत्वा तैः सम्भूय तदीयमाप्नुयात् लभेत । तदभावे तेषामन्यतमः शक्तः । तेन विना सर्वे निर्वोढुमशक्ताश्चेत् सर्व एव वा गृह्णीयुः। ननु राजकुलभाव्यमस्वामिकम् । न । सम्भूयारब्धत्वादार्तव्यापारकरणे प्रसङ्गाभावात् ॥ ७ ॥
ऋत्विजां व्यसनेऽप्येवमन्यस्तत्कर्म निस्तरेत् ।
लभेत दक्षिणाभागं स तस्मात् सम्प्रकल्पितम् ॥ ८ ॥
ऋत्विजामपि व्यसन एवमेव व्याधिमरणाशक्तौ287तत् कर्मान्यो दायादो निस्तरेत् समापयेत् । तदभावे पूर्ववदन्यो निस्तरेत् । लभेत दक्षिणाभागं तस्मादारभ्य यतोऽसौ व्यसनी, तं कर्मशेषानुरूपम् । माध्यन्दिनस288वनादूर्ध्वं व्यसने यदि शक्यते प्रत्यादातुं, तत एव प्रत्यादाय शेषानुरूपं दानं, दानस्य कर्मनिमित्तत्वात् । अशक्यत्वे स्वयं289 दद्याद् यजमानः ।सामादिना वा कारयेत् । दक्षिणानियमस्य निभृतत्वात्॥ ८ ॥
ऋत्विग् याज्यमदुष्टं यस्त्यजेदनपकारिणम् ।
अदुष्टमृत्विजं याज्यो विनेयौ तावुभावपि ॥ ९ ॥
ऋत्विग् याज्यमयाज्ययाजनादिनादूषितम् अनपकारेण वा वर्तमानमपरसेवादिना, तथाविधमृत्विजं याज्यो वा त्यजेद्, विनेयौ दण्ड्यौ तावुभावपि
दण्डयित्वा साम्ये स्थाप्यौ । अदुष्टानपकारिग्रहणादन्यतरसद्भावे त्यागे न दण्ड इति गम्यते ॥ ९ ॥
ऋत्विक्तु त्रिविधः प्रो290प्रोक्तः पूर्वैर्जुष्टः स्वयंवृतः ।
यदृच्छया च291यः कुर्यादार्त्विज्यं प्रीतिपूर्वकम् ॥ १० ॥
त्रिविध ऋत्विक पूर्वैः सेवितः पितृप्रभृति(भि):, स्वयं वृतोऽवस्थापेक्षया तदनिच्छया वा, यदृच्छया ।प्रीतिपूर्वकं क्रियासङ्गे ॥ १० ॥
क्रमागतेष्वेष धर्मो वृतेष्वृत्विक्षु च स्वयम् ।
यादृच्छिके तु सांयाज्ये292 तत्त्यागे नास्ति किल्बिषम् ॥ ११ ॥
त्यागे दण्ड उक्तोऽतिदिश्यते ‘विनेयावि’ति पूर्वजुष्टस्वयंवृतेषु ।इतरत्यागे नास्ति293 किल्बिषं दण्डः । सर्वत्रायं विधिरुक्तो मा विज्ञायीति, सामान्येनोक्तत्वात् ॥ ११ ॥
शुल्कस्थानं वणिक् प्राप्तः शुल्कं दद्याद् यथोपगम् ।
न तद् व्यतिहरेद् राज्ञां बलिरेष प्रकल्पितः ॥ १२ ॥
शुल्कस्थानं प्राप्तो वणिक् यथाप्राप्तं शुल्कं दद्यात्, न शुल्कं व्यतिहरेत् ,व्यतिहरणम् अदानं294, दद्यादेव, यतो राज्ञां भाग एष प्रकल्पितः । ‘प्रवर्तित’ इत्यन्यः पाठः ॥ १२ ॥
शुल्कस्थानं परिहरन्नकाले क्रयविक्रयी ।
मिथ्योक्त्वा च परीमाणं दाप्योऽष्टगुणमत्ययम् ॥ १३ ॥
शुल्कमदत्त्वा शुल्कस्थानं परिहृत्य गच्छन्, शुल्कस्थानं प्राप्तश्चाकृतशुल्कः ,रात्र्यादावकाले प्रच्छन्नक्रयविक्रयकृत्, मिथ्योक्त्वा द्रव्याणां सारासाराणां परिमाणमूनमुक्त्वा दाप्यःशुल्कादष्टगुणं दण्डम् । अधिकवचने न दोषः । यद्यप्यधिकवचनेन मिथ्योक्तिः, तथापि राजभाव्यस्यानपहारात् । स्वार्थहानेश्च न छलं ग्राह्यम् ॥ १३ ॥
कश्चिच्चेत् सञ्चरन् देशात् प्रेयादभ्यागतो वणिक् ।
राजास्य भाण्डं संरक्षेद् यावद्दायाददर्शनम् ॥ १४ ॥
कश्चिद् देशान्तरादभ्यागतः स्वदेशे सञ्चरन् म्रियेत चेत् सभाण्डो वणिक्, राजा तद्भाण्डं संरक्षेद् यावत् पुत्राद्यन्यतमदायाददर्शनम् । दायाद आगते दायादत्वं विज्ञाय समर्पयेत् ॥ १४ ॥
दायादेऽसति बन्धुभ्यो ज्ञातिभ्योऽस्य समर्पयेत् ।
तदभावे सुगुप्तं तद् धारयेद् दशतीः समाः ॥ १५ ॥
असति दायादे पुत्रे भ्रातरि वा बन्धुभ्यो दापयेत्, तदभावे ज्ञातिभ्यः मातृसम्बद्धेभ्यस्तस्य वणिजो दापयेत् । तदभावे सुगुप्तं तद् राजा दश वर्षाणि रक्षेत् । यानि न स्थिराणि द्रव्याणि तानि विक्रीय मूल्यं स्थापयेद् दश वर्षाणि ॥ १५ ॥
यदि कश्चिद् यथोक्तानामन्यतम आगच्छेत् ,तस्मै समर्पयेत्, अथ नागच्छेत्, पूर्णेषु दशवर्षेषु—
अस्वामिकमदायादं दशवर्षोपितं ततः ।
राजा तदात्मसात् कुर्यादेवं धर्मो न हीयते ॥ १६ ॥
अस्वामिकं विनष्टस्वामिकम् अविद्यमानदायादबन्धुज्ञातिकं दशवर्षस्थितं तत ऊर्ध्वं राजा तद् द्रव्यमात्मसात् कुर्यात् । एवं धर्मा न हीयते । ऊर्ध्वं यदि कश्चिदागच्छेत्इच्छतिदानमदानं वेति ॥१६॥
इति सम्भूयसमुत्थानंतृतीयंविवादपदम्॥
अथ दत्ताप्रदानिकं चतुर्थं विवादपदम् ।
दत्त्वाद्रव्यमसम्यग् यः पुनरादानुमिच्छति ।
दत्ताप्रदानिकं नाम तद् विवादपदं स्मृतम् ॥ १ ॥
दत्त्वा द्रव्यमसम्यगपात्रे यः पात्रबुद्धया295 क्रोधाद्याविष्टो वा पु296नस्तदादित्सति, तद् दत्ताप्रदानिकं नाम विवादपदम् ।दत्तं च नच प्रदानप्रयोजनं तत्रास्तीत्यन्वर्थसंज्ञा ॥ १ ॥
अथ देयमदेयं च दत्तं चादत्तमेव च ।
व्यवहारेषु विज्ञेयो दानमार्गश्चतुर्विधः ॥ २ ॥
अदेयादिप्रकारार्थ उपन्यासः पुनरादानदानविधिव्याचिख्यासया व्यवहारेषु297 दत्तमादित्सतोऽदेयञ्च ददतो निग्रहार्थः ॥ २ ॥
तत्रेहाष्टावदेयानि देयमेकविधं स्मृतम् ।
दत्तंसप्तविधं विद्याददत्तं षोडशात्मकम् ॥ ३ ॥
चतुर्विधस्य दानविभागस्य सुखग्रहणार्थं सङ्ख्याविभागकथनम् ॥ ३ ॥
अन्वाहितं याचितकमाधिंसाधारणं च यत् ।
निक्षेपं पुत्रदारं च सर्वस्वं चान्वये सति ॥ ४ ॥
आपत्स्वपि हि कष्टासु वर्तमानेन देहिना ।
अदेयान्याहुराचार्या यच्चान्यस्मै प्रतिश्रुतम् ॥ ५ ॥
अन्वाहितं ‘मथुरायां प्रस्थितस्तत्रस्थस्य पूर्वगृहीतं तस्मै दत्त्वा पश्चादिदं मम पुत्राय कन्याकुब्जगतो देही’ति यत् समर्पितम् । याचितकं ‘कतिपयान्यहानि दत्तं क्रियतां, तेन दत्तकार्यं कृत्वा प्रतिदास्यामी’ति गृहीतम् । आधिःकटकादि निधाय द्रव्यं गृह्णता स्थापितं सभोगमभोगं वा । साधारणं बहूनां स्वभूतम् अविभक्तं भ्रात्रादीनाम् । निक्षेपः यद्यप्यन्यत्रान्योऽर्थः298, इह न्यासोऽभिप्रेतः, कारुषु निक्षिप्तस्य दाने दोषाभावात् । पुत्राश्च दाराश्च, तेषां दानं प्रत्यस्वामित्वात् । सर्वस्वं चान्वये पुत्रादौ सति । एतस्मादेव गम्यते अन्वयेप्य299सति सर्वस्वदाने न दोष इति । कष्टापद् मरणं, तत्रापि वर्तमानेन न देयान्येतान्याहुः । अन्येभ्यश्च दत्तं बलीवर्दक्षेत्रादि वाचा दत्तत्वात्, प्रत्यवायाच्च—
“प्रतिश्रुत्याप्रदानेन दत्तस्य हरणेन च ।
जन्मप्रभृति यद् दत्तं सर्वं नश्यति भारत ! ॥”
इति । एतानि प्रमादाद्दत्तान्यपि प्रदेयानि ॥ ४,५ ॥
कुटुम्बभरणाद् द्रव्यं यत्किञ्चिदतिरिच्यते ।
तद् देयमुपहत्यान्यद् दददागः समाप्नुयात् ॥ ६ ॥
देयमेकविधमित्युक्तं, तद् विशेष्यते । यथा दीयमाने भक्तवेतनव्यतिरेकेण पुत्रदारादेर्यत्कि300श्चिद् द्रव्यमतिरिच्यते, देयं तदुभयोरदोषकरं दृष्टादृष्टयोरनुपहत्य पुत्रदारादि । पुत्रादीनामुपचितमददत् अन्यद् दददागः प्रत्यवायमाप्नुयात् दण्ड्यश्च भवेद् राज्ञा ॥ ६ ॥
पण्यमूल्यं भृ301तिस्तुष्टया स्नेहात् प्रत्युपकारितम् ।
स्त्रीशुल्कानुग्रहार्थं चदत्तं दानविदो विदुः ॥ ७ ॥
पण्यमूल्यं पण्यार्थं सवृद्धिकं गृहीत्वा प्रतिदसमन्याययुक्तमपि यथा गृहीतं तथा दत्तं, भृतिर्भूत्येभ्यः, तुष्ट्यातुष्टेन302च यद् दत्तं भृत्यादेः, स्नेहाच्च यद् दत्तं भार्यादेः, उपकारिणे प्रत्युपकारार्थं च अतिबहु यद्यपि दत्तं, स्त्रीशुल्कं चाननुरूपमपि, परलोकार्थमात्मानुग्रहार्थं च ।सर्वत्रानुपहत्य पुत्रादीननुमान्य चेति द्रष्टव्यम् । दत्तं सप्तविधमेतत् ॥ ७ ॥
अदत्तं तु भयक्रोधवेगशोकरुजान्वितैः।
तथोत्कोचपरीहासव्यत्यासच्छलयोगतः ॥ ८ ॥
बालप्रसूढास्वतन्त्रमत्तोन्मत्तापवर्जितम् ।
कर्ता ममायं कर्मेति प्रतिलाभेच्छया च यत् ॥ ९ ॥
अपात्रे पात्रमित्युक्ते कार्ये चाधर्मसंहिते ।
यद् दत्तं स्यादविज्ञानाददत्तंतत् प्रकीर्तितम् ॥ १० ॥
अदत्तमुच्यते— भयेन दत्तम् अदाने मारयतीति कालकाङ्क्षिणाप्रश्नवलेयद् दत्तम् । क्रोधवेगेन तस्मिन्नेव काले यद् दत्तं, शोकेन वा पुत्रादिव्यापदिनिमित्तेन, वेदनया वा शिरोरोगादिजनितया निर्विण्णेन । उत्कोचो राजवल्लभे लेखकादिभ्यः कार्यार्थमकरणे । परिहासेन यद्यप्यन्यतरो राजकुलं गच्छेत् साक्षिण आहत्य ।व्यत्यासं वस्त्रादित्सया हिरण्यं दत्तं समर्पितमदत्तमेव । छलेन दत्तं यथा दशरथेन । यथा ‘तवेदं गृहमि’त्युदारेणोक्ते ‘निर्मच्छे’ त्यादि । बालोऽप्राप्तव्यवहारः । प्रमूढो व्याधिनिद्रामतिविभ्रमादिना ।अस्वतन्त्रः पितृमात्रादिना । मत्तः शीध्वाद्युपयोगेन । उन्मत्तः ।
“पञ्चोन्मादाःसमाख्याता वातपित्तकफोद्भवाः ।
चतुर्थो धननाशेन सन्निपातेन पञ्चमः ॥”
एतैदत्तमदत्तम् । कर्ता ममायमुपकारस्येति प्रतिलाभेच्छया यद् दत्तमप्रतिदाने । अपात्रे वृषलीपत्यादौ तपस्वीत्यनेनोक्ते । कार्ये नटप्रेक्षा303दौअधर्मसंहिते, न कूपारामादौ । एतेषामज्ञानाद् दत्तमदत्तमेवेति ॥ ८-१० ॥
गृह्णात्यदत्तंयो लोभाद् यश्चादेयं प्रयच्छति ।
अदत्तादायको दण्ड्यस्तथादेयस्य दायकः ॥ ११ ॥
अदेयादत्तयोर्दाता प्रतिग्रहीता च लोभाद् दण्ड्यः स्यात् प्रमाणस्याबचनाद् दातृप्रतिग्रहीतृदेयानुरूपो दण्डः । एकान्तेन समासो यथा ‘तत्प्रयोजको हेतुश्च’ (१-४-५५) इत्यत्र तथा द्रष्टव्यः । सोपसर्गं कर्मात्रेति चेत् कर्मविशेषकत्वादुक्सर्गस्य गत्युपसर्गसम्बन्धा304धिका कर्मप्रवचनवसंशति पूर्वोक्तपरिहार एव द्रष्टव्यः ॥ ११ ॥
इति दत्ताप्रदानिकं चतुर्थं विवादपदम् ॥
अथाभ्युपेत्याशुश्रूषा पञ्चमं विवादपदम् ।
अभ्युपेत्य च शुश्रूषां यस्तां न प्रतिपद्यते ।
अशुश्रूषाभ्युपेत्येति विवादपदमुच्यते ॥ १ ॥
शुश्रूषामाज्ञाक305र्म तव करिष्यामीत्यभ्युपेत्य तत् कर्म यो न करोति, अभ्युपेत्याशुश्रूषेत्येतद् विवादपदं विस्तरेणाभिधास्यते ॥ १ ॥
शुश्रूषकः पञ्चविधः शास्त्रे दृष्टो मनीषिभिः ।
चतुर्विधः कर्मकरः306शेषा दासास्त्रिपञ्चकाः ॥ २ ॥
शुश्रूषां प्रतिपद्यमानः पञ्चविधोऽस्मिन् शास्त्रे शास्त्रान्तरे वा पाण्डितैर्दृष्टः । चतुष्प्रकारःकर्मकरःभृत्यर्थः । दास्तस्त्रिपञ्चकाः ॥ २ ॥
ते विशेष्यन्ते—
शिष्यान्तेवासिभृतकाश्चतुर्थस्त्वधिकर्मकृत् ।
एते कर्मकराः प्रोक्ता दासास्तु गृहजादयः ॥ ३ ॥
शिष्यश्चान्तेवासी च भृतकश्च शिष्यान्तेवासिभूतकाः । शिष्य उपनीयाध्याप्यते । अन्तेवासी शिल्पार्थमभ्युपगतः । भूतको वेतनेन कर्म करोति । अधिकर्मकृत् कुटुम्बव्यापारे स्थापितः । एते चत्वारः कर्मकराः प्रोक्ताः । दासा
इत्युक्तास्ते गृहजादयः । इतर इच्छातः कर्म प्रतिपन्नाः, दासास्तु नियोगतोऽस्वतन्त्राः ॥ ३ ॥
सामान्यमस्वतन्त्रत्वमेषामाहुर्मनीषिणः ।
जातिकर्मकृतस्तूक्तो विशेषो वृत्तिरेव च ॥ ४ ॥
अस्वतन्त्रत्वमेषां चतुर्णां सामान्यं स्वाम्यधीनाः सर्वे । दासस्य तूक्तो विशेषः’गृहजात’ इत्यादि । वृत्तिश्चोक्ता ‘उच्छिष्टमन्नंदातव्यं जीर्णानि वसनानि चे’त्यादि । चतुर्विधाः कर्मकराः । कर्मापि द्विविधं शुभमशुभं च । कस्य शुभं कस्याशुभमित्युत्तरेण विशेष्यते ॥ ४ ॥
कर्मापिद्विविधं ज्ञेयमशुभं शुभमेव च ।
अशुभं दासकर्मोक्तं ❋307शेषं कर्मकृतः स्मृतम् ॥५॥
अशुभं दासस्य कर्मोक्तम् । द्विविधे कर्मणि कर्मकराणां शेषं शुभम् ॥ ५ ॥
तत्राशुभेविशेषितेऽन्यच्छुभं भविष्यतीत्यशुभमुच्यते —
गृहद्वाराशुचिस्थानरथ्यावस्करशोधनम् ।
गुह्याङ्गस्पर्शनोच्छिष्टविण्मूत्रग्रहणोज्झनम् ॥ ६ ॥
गृहद्वारादीनां शोधनमिति प्रत्येकं ( सम्बन्धः ) । अशुचिप्रदेशशोधनं, रथ्यायाश्च वर्त्मस्थानस्य शोधनं, शारीरं गुह्याङ्गस्पर्शनं चोद्वर्तनाभ्यञ्जनादिना । उच्छिष्टविण्मूत्राणां ग्रहणं सञ्चयः उज्झनं निरसनम् ॥ ६ ॥
इष्टतः स्वामिनश्चाङ्गैरुपस्थानमथान्ततः ।
अशुभं कर्म विज्ञेयं शुभमन्यदतः परम् ॥ ७ ॥
संवाहनपादोद्वर्तनादिना स्वामिन इष्टैरङ्गैरुपस्थानं हस्तादिभिः। अन्तत इत्यन्यन्न वक्तव्यं कर्तव्यमित्यर्थः । एतदशुमं कर्म दासस्य, अतोऽन्यच्छुभमितरेषाम् ॥ ७ ॥
आ विद्याग्रहणाच्छिष्यः शुश्रूषन् प्रयतो गुरुम् ।
तद्वृत्तिर्गुरुदारेषु गुरुपुत्रे तथैव च ॥ ८ ॥
यावद् विद्याग्रहणं तावच्छुश्रूषेत प्रयतश्च गुरुम् ।विसर्जनोत्तरकालमनियमः, धर्मार्थी शुश्रूषेत, न दण्ड्यः । प्राक् तु विनेयोऽशुश्रूषन् । गुरुदारषु गुरुपुत्रेषु च तथैव गुरुवृत्तिः ॥ ८ ॥
ब्रह्मचारी चरेद् भैक्षमधःशाय्यनलङ्कृतः ।
जघन्यशायी सर्वेषां पूर्वोन्थायी गुरोर्गृहे ॥ ९ ॥
गुप्तसर्वेन्द्रियो भिक्षां चरेद् यथोक्तम् । अधःशाय्यनलङ्कृत इति प्रदर्शनार्थं, गन्धमाल्यविरागवसनच्छत्रोपानहादिरहितः । एतेषामतिक्रमे गुरोरशक्तत्वे राज्ञा विनेय इत्येवमर्थ इहोपन्यासःआचारोक्तस्य । सर्वग्रहणं प्रकृतापेक्षम् ।प्रकृताश्च गुरुभार्यापुत्राः । तेषु शयितेषु शयनशीलः, दृष्टार्थमेतत् । कदाचिज्जाग्रत्सु कार्यं किञ्चिद् भवेदिति । तेभ्यश्च पूर्वोत्थायी । एतदपि तथैव दृष्टार्थम् ॥ ९ ॥
नासन्दिष्टः प्रतिष्ठेत तिष्ठेद् वापि गुरुं क्वचित्
सन्दिष्टः कर्म कुर्वीत शक्तश्चेदविलम्बयन् ॥ १० ॥
आहूतो गुरुसमीपतो न गच्छेदविसर्जितः । अनाहूतश्च गुरुसमीपं नाधितिष्ठेत् ।अकर्मकत्वात् तिष्ठते रुच्यर्थे वृत्तिरुत्प्रेक्ष्यते । यथा तिष्ठतिरेव गमिक्रियानिवृत्तिरिति द्योतकाभावेऽपि कर्मनिर्देशाल्लिङ्गादुपसर्गस्थानीयाद् विशेषो गम्यते । सन्दिष्टः इदं कुर्वित्याज्ञापितः । शक्तश्चेद् यदि न मन्दः कुर्यादविलम्बयन् ॥ १० ॥
यथाकालमधीयीत यावन्न विमना गुरुः ।
आसीनोऽधो गुरोः कूर्चे फलके वा समाहितः ॥ ११ ॥
यथाकालमनध्यायवर्जम् अघीयीत गुरोः समीपे आसीनः कूर्चे फलके वा गुरोरस्वभूते फलकादौ । अध्यात्मपरिग्रह एवेति यावत् ।गुरुस्तुष्टोऽध्यापयति, तदनुरोधात् । विमना अपि कदाचित् पाठयेत् । न तदाध्येयम् । एवं विद्या फलवती भविष्यति ॥ ११ ॥
अनुशिष्यश्चगुरुणा न चेदनुविधीयते ।
अवधेनाथवा शिष्यान् रज्ज्वा वेणुदलेन वा ॥१२॥
अनुशासनीयो गुरुणा इच्छानुविधायी न स्याच्चेत् ।धर्माद्यतिक्रमे भर्त्सनीयः । तथाप्यतिक्रामन्तं रज्ज्वा वेणुदलेन वा शिष्यात्, नोपेक्षेत ॥ १२ ॥
भृशं न ताडयेदेनं नोत्तमाङ्गे न बक्षसि ।
अनुशिष्य च विश्वास्वोदण्डयो राज्ञान्यथा गुरुः ॥१३॥
अननुविधीयमानमनुशासदपिरज्ज्वादिना न भृशं ताडयेत्, मन्दं ताडयेत् त्रासजननार्थम् । मन्दमपि शिरसि वक्षसि च न ताडयेत् । ताडयित्वा च सान्त्वयेद्, अन्यथा गुरुर्दण्ड्यः स्याद् राज्ञा ॥ १३ ॥
समावृत्तश्च गुरवे प्रदाय गुरुदक्षिणाम् ।
प्रतीयात् स्वगृहानेषा शिष्यवृत्तिरुदाहृता ॥ १४ ॥
एवं वसेदा समावृत्तेः । समावृत्तश्चेति चशब्दात् समाप्तविधः । समावृत्तश्व गुरुणाऽनुज्ञातो यथाशक्ति दक्षिणां दत्त्वा स्वगृहान् गच्छेदिति शिष्यवृत्तिरुक्ता ॥ १४ ॥
स्वशिल्पमिच्छमाहर्तुं बान्धवानामनुज्ञया ।
आचार्यस्य वसेदन्ते कालं कृत्वा सुनिश्चितम् ॥ १५ ॥
क्रमादन्तेवासिविधिरुच्यते—आत्मनोऽभिमतं शिल्पं नानाप्रकारं तस्माच्छिल्पोपाध्यायसकाशादाहर्तुं ग्रहीतुमिच्छन् पित्रादिभिरनुज्ञातस्तस्यान्ते वसेत् तेन सह कालव्यवस्थां कृत्वा, ‘इयन्तं कालं तव कर्म करिष्यामि भवानप्यमुं शिल्पं ग्राहयतु माम्’ इति । तथेत्यनुज्ञातस्तदधीनो वसेत् तावन्तं कालम् ॥ १५ ॥
आचार्यःशिक्षयेदेनं स्वगृहाद् दत्तभोजनम् ।
नचान्यत् कारयेत् कर्म पुत्रवच्चैनमाचरेत् ॥ १६ ॥
आचार्यश्च शिक्षयेद् भोजनं दत्त्वा नचान्यदननुरूपमशुभादिकर्म कारयेत्, पुत्रवच्च स्नेहं कुर्यात् ॥ १६ ॥
शिक्षयन्तमदुष्टं च य आचार्य परित्यजेत् ।
बलाद्वासवितव्यः स्याद् वधबन्धौ च सोऽर्हति ॥ १७ ॥
स्वकर्मानुरोधेन शिक्षयन्तं पतनीयेष्ववर्तमानं मत्सरादिरहितं यः परित्यजेदाचार्यं, बलादाक्रम्या कालपरिसमाप्तेस्ताडयित्वा बद्ध्वा च वासयितव्यः एतस्मादेव गम्यते अशिक्षयन्तं दुष्टं वा प्रागप्यवधेः परित्यजतो नास्ति दोष इति ॥ १७ ॥
शिक्षितोऽपि कृतं कालमन्तेवासी समाप्नुयात् ।
तत्र कर्म च यत् कुर्यादाचार्यस्यैव तत्फलम् ॥ १८ ॥
शिक्षितोऽपि कृतार्थोऽप्यवधित्वेन कृतं कालं पूरयेत्, नान्तरा कृतार्थोऽस्मीति गच्छेत् । तत्र यत् कर्म कुर्याच्छिक्षितः स्वशिल्पनिमित्तं राज्ञोऽन्यस्माद्वा तन्निमित्तं यल्लभते, उपाध्यायस्यैव तद् भवति । ऊर्ध्वमवधेरात्मनो भविष्यति ॥ १८ ॥
गृहीतशिल्पःसमये कृत्वाचार्यं प्रदक्षिणम् ।
शिक्षितश्चानुमान्यैनमन्तेवासी निवर्तयेत् ॥ १९ ॥
प्रतिज्ञाते काले शिल्पनिमित्ते पूर्णे प्रदक्षिणमुपाध्यायं कृत्वा आत्मना च शिक्षितोऽनुज्ञाप्य गुरुमन्तेवासी तस्मान्निवर्तयेत् स्वगृहान् गच्छेदित्यर्थः ॥ १९ ॥
भृतकस्त्रिविधो ज्ञेय उत्तमो मध्यमोऽधमः ।
शक्तिभक्त्यनुरूपा स्यादेषां कर्माश्रया भृतिः ॥ २० ॥
सम्प्रति चतुर्णांमध्ये तृतीयो भृतक उक्तो विशेष्यते— स त्रिविधः उत्तमो मध्यमोऽधमश्चेति । तेषां शवत्यनुरूपा च भृतिः कर्माश्रया ।शक्तोऽपि भक्त्या न कुर्यात् कर्मानुरूपाल्पा भृतिः । भक्तोऽप्यशक्तः स्तोकं कुर्यात्, तस्यापि तदनुरूपा भृतिः । शक्तश्च भवत्या करोति तस्य भूयसी भृतिरित्यादि द्रष्टव्यम् ॥ २० ॥
उत्तमस्त्वायुधीयोऽत्र मध्यमस्तु कृषीवलः ।
अधमो भारवाहः स्यादित्येवं त्रिविधो भृतः ॥ २१ ॥
आयुधैः सेक्कः उत्तमः । कर्षको मध्यमः । अधमो भारवाहः काष्ठोदकयवसधान्यवहनादिप्रत्युत्पन्नप्रतिदिवसकर्मकरः । एष त्रिविधो भृतः ॥ २१ ॥
अर्थेष्वधिकृतो यः स्यात् कुटुम्बस्य तथोपरि ।
सोऽधिकर्मकरो ज्ञेयः स च कौटुम्बिकः स्मृतः ॥ २२ ॥
अर्थेषु भाण्डागारादिषु योऽधिकृतः स्यात् स्वामिना गृहचिन्तायां च सोऽधिकर्मकरः । तदधीना इतरे । सर्वकर्मणामुत्कृष्टे कर्मण्यधिकृत उत्तमः कर्मकरः । कौटुम्बिकश्च स एवोच्यते । संज्ञा संव्यवहारार्था ॥ २२ ॥
शुभकर्मकरा ह्येते चत्वारः समुदाहृताः ।
जघन्यकर्मभाजस्तु शेषा दासास्त्रिपञ्चकाः ॥ २३ ॥
शिष्यादयोऽधिकर्मकरान्ताः चत्वारः शुभकर्मकराः । अशुभकर्मकराः शेषा दासाः पञ्चदशोच्यन्ते ॥ २३ ॥
गृहजातस्तथा क्रीतो लब्धो दायादुपागतः ।
अशनादिभृतस्तद्वदाधत्तः स्वामिना च यः ॥ २४ ॥
ऋणाच्च मोक्षितोऽनल्पाद् युद्धप्राप्तः पणे जितः ।
तवाहमित्युपगतः प्रव्रज्यापसृतः308 कृतः ॥ २५ ॥
भक्तदासश्च विज्ञेयस्तथैव बडबाभृतः ।
विक्रेता चात्मनः शास्त्रे दासाः पञ्चदश स्मृताः ॥ २६ ॥
स्वदास्यां जातो गृहजातः । स्वद्रव्येणान्यस्मात् क्रीतः क्रीतः । लब्धः प्रतिग्रहादिना309। पित्रादिक्रमादागतो दायविभागप्राप्तो दायादुपागतः । दुर्भिक्षेऽशनवसनादिना भृतोऽशनादिभृतः । आधत्तः, सोऽपि पूर्ववदेव स्वामिना द्रव्यं गृहीत्वा तस्यादानाद् वृद्धिनिमित्तं कर्मकरणार्थं निहितः । ऋणाद्वातुमशक्तो महतो मोक्षितः । राजकुलादेव युद्धेन जित्वा नीतः । साधकतमविवक्षया तृतीया, स्थाल्या पचतीति यथा । पणे कस्याश्चित् स्पर्धायां जितः यथा कद्रवा स ( फणी? पत्नी ) । तवाहं दासोऽस्प्रीत्युपगतः । केनचिन्निमित्तेन प्रव्रज्याया अपक्रान्तः शाक्यादिः310 । आश्रमादपक्रान्तस्य चण्डालत्वादसम्भाष्य एव सः । तथाचोक्तम्—
“आरूढः पतितो हन्ति दश पूर्वान् दशावरान्311 ।”
इति । कृतः इयन्तं कालं कर्म करिष्यामीति प्रविष्टः । ( भक्तदासः ) यावद् भक्तं ददासि तावद् दासोऽस्मीत्यभ्युपगतः । बडबाभृतः, बडबा दासी अनियतपुंस्कत्वसामान्यात्, तया सह वासनिमित्तेन दासत्वमुपगतः । विक्रेता द्रव्यं गृहीत्वात्मनः । एते पञ्चदश गृहजादयो दासा अशुभकर्मकराः ॥ २४-२६ ॥
तत्र पूर्वश्चतुर्वर्गो दासत्वान्न विमुच्यते ।
प्र ( दासा ? सादा )त् स्वामिनोऽन्यत्र दास्यमेषां क्रमागतम् ॥
गृहजातक्रीतलब्धदायादुपागताश्चत्वारोऽनिच्छति स्वामिनि दानादिना दास्यान्न विमुच्यन्ते । स्वामी यदि प्रसन्नो मुञ्चति ततो मुच्यन्ते, अन्यथा नित्यदासा एव ॥ २७ ॥
यश्चैषां स्वामिनं कश्चिन्मोक्षयेत् प्राणसंशयात् ।
दासत्वात् स विमुच्येत पुत्रभागं लभेत च ॥ २८ ॥
स्वामिप्रसादो मोक्षहेतुरित्युक्तम् । अयं च वक्ष्यमाणश्चेति समुच्चयार्थश्चशब्दः। एतेषां चतुर्णां मध्ये सर्वेषां वा मध्ये यः कश्चित् प्राणसंशयात् स्वामिनं मोक्षयेत्, स मुच्यते दास्यात्, पुत्रवच्च भागं लभेत ॥ २८ ॥
अनाकालभृतो दास्यान्मुच्यते गोयुगं ददत् ।
सम्भक्षितं यद् दुर्भिक्षे न तच्छुध्येत कर्मणा ॥ २९ ॥
दुर्भिक्षे भृतः पञ्चमो गोयुगं दत्त्वा मुच्यते । स्वामिप्रसादान्मोक्षो रणाच्चेति सर्वेषां स्थितेऽनिच्छत्यपि स्वामिनि नियोगतो मोक्षहेतव उच्यन्ते । हेतौ लिङ्। यस्माद् दुर्भिक्ष उपयुक्तं न कर्मणा प्रतिदिवसकृतेन शुध्यति, प्राणा हि तेन312 रक्षिताः । तस्माद् गोयुगं दातव्यम् ॥ २९ ॥
आधत्तोऽथ धनं दत्वा स्वामी यद्येनमुद्धरेत् ।
अथोपगमयेदेनं सोऽपि क्रीतादनन्तरः ॥ ३० ॥
षष्ठ आधत्तो यथागृहीतं धनं दत्त्वा, प्रभुर्यद्येनं मोक्षयेद् मुच्येत दास्यात् । अथ यद्येतावता कालेन नोद्धरामीति ततः प्रविष्टोऽयं भविष्यतीत्याधत्तं313तं कालमतिगमयेत् । सोऽपि क्रीतधर्मा कीतस्य या गतिः सा तस्य ॥ ३० ॥
दत्त्वा तु सोदयमृणमृणी दास्याद् विमुच्यते ।
कृतकालाभ्युषगमात् कृतकोऽपि विहुच्यते ॥ ३१ ॥
सप्तम ऋणान्मोक्षितः । स ऋणं वृद्धिं च दत्वा मुच्यते । अष्टमः कृतकृते काले पूर्णे मुच्यते ॥ ३१ ॥
तवाहमित्युपगतो युद्धप्राप्तः पणे जितः ।
प्रतिपूरुषदानेन मुच्येरंस्तुल्यकर्मणा ॥ ३२ ॥
तवाहमिति कालनियममकृत्वोपगतः, युद्धेनानीतः, पणे जितश्च, त्रयोऽपि प्रतिमनुष्यमात्मना विक्रियमाणं कर्म कर्तुं तस्मिन्नात्मना तुल्यं दत्त्वा मुच्यन्ते, न कृशं वृद्धं वा तत्कर्माक्षममिति ॥ ३२ ॥
राज्ञ एव तु दासः स्यात् प्रवज्यापसृतो नरः ।
न तस्य प्रतिमोक्षोऽस्ति विशुद्धिर्वा कथञ्चन ॥ ३३ ॥
द्वादश उक्तः प्रव्रज्यापसृतो राज्ञ एव दासः, स ह्यस्वामिकस्य स्वामी । प्रव्रज्याया अपगतः उत्प्रव्रजित इत्यर्थः । न केनचिदपि प्रकारेण तस्य मोक्षः शुद्धिर्वास्ति, नित्यदासो नित्याशुद्धोऽसंव्यवहार्यश्च स्पर्शनादिना ॥ ३३ ॥
भक्तस्योपेक्षणात् सद्यो भक्तदासः प्रमुच्यते ।
निग्रहाद्बडबायाश्च मुच्यते बडबाभृतः ॥ ३४ ॥
त्रयोदशो भक्तदास उक्तः । सः भक्तस्याप्रदानाद् मुच्यते, भक्तार्थं हि दासत्वमभ्युपगतः । चतुर्दशो बडबाभृतः । स निग्रहाद् दास्या वारणान्मुच्यते ॥ ३४ ॥
विक्रीणाति स्वतन्त्रः सन् य आत्मानं नराधमः ।
सुजघन्यतमस्तेषां सोऽपि दास्यान्नमुच्यते ॥३५॥
पञ्चदशः आत्मविक्रयी स्वतन्त्र आत्मानं दासत्वेन विक्रीणाति आत्मार्थत्वात् सर्वस्य आत्मत्यागेन परवशो नराधमः, अतएव तेषां मध्ये पापिष्ठः । सोऽप्याद्यचतुर्वर्गवन्न मुच्यते दास्यात् ॥ ३५ ॥
चोरापहृतविक्रीता ये च दासीकृता बलात् ।
राज्ञा मोक्षयितव्यास्ते दासत्वं तेषु नेष्यते ॥ ३६ ॥
चोरैरपहृत्य विक्रीताः, वल्लभैश्च ये बलाद् दासीकृताः, राज्ञा मोच्याः । तद्दोषाद्धि ते तामवस्थां गताः । अतएव तेषां दासत्वं नेष्यते । तेष्विति विषयसप्तमी । तेषां दोषाभावादनभ्युपगमाच्च ॥ ३६ ॥
वर्णानां प्रातिलोम्येन दासत्वं न विधीयते ।
स्वधर्मत्यागिनोऽन्यत्र दारवद् दासता मता ॥ ३७ ॥
वर्णानां ब्राह्मणादीनां प्रातिलोम्येन ब्राह्मणस्य क्षत्रियादीनां त्रयाणां, क्षत्रियस्य द्वयोः, वैश्यस्य शूद्रं प्रति दासत्वं न विधीयते, स्वधर्मात् प्रच्युतान् मुक्त्वा।तेष्वपि प्रच्युतेषु दारवत् यथा दारास्तथा दासत्वम्, अध्येषणायां कर्म कारयितव्या314इति ॥ ३७ ॥
तवास्मीति य आत्मानमस्वतन्त्रः प्रयच्छति ।
न स तं प्राप्नुयात् कामं पूर्वस्वामी लभेत तम् ॥ ३८ ॥
तवाहमित्युपगतो दास इत्युक्तः पूर्वं, तत् स्वतन्त्रविषयम् । अतद्विष( याहि315च द ? यमिदम् )। तवास्मीत्यस्वतन्त्रो दासादिरात्मानमन्यस्मै प्रयच्छति दासत्वेन, स तस्य दासत्वं न लभते, पूर्वस्वाम्येव तं लभेत ॥ ३८ ॥
अधनास्त्रय एवोक्ता भार्या दासस्तथा सुतः ।
यत् ते समधिगच्छन्ति यस्यैते तस्य तद् धनम् ॥ ३९ ॥
अनियतदेशत्वाच्चभार्यादीनामधना एव त्रय उक्ताः । न तैर्धनतृष्णयाभर्तृपितृकार्योत्सर्गः कर्तव्यो भार्यादिभिः । यच्च ते स्वाम्यर्थमहापयन्त केनचित् प्रकारेण लभेरन्, स्वामिन एतद् धनम् ॥ ३९ ॥
स्वदासमिच्छेद्यं कर्तुमदासं प्रीतमानसः ।
स्कन्धादादाय तस्याथ भिन्द्यात् कुम्भं सहाम्भसा ॥ ४० ॥
स्ववासमदासं कर्तुं यदीच्छति तुष्टः, तस्य स्कन्धाद् घटं गृहीत्वाद्भिः पूर्णं स्वयमेव सहाद्भिः भिन्द्याद् घटम् । यत् त्वया कर्तव्यम् अहमेव तत् करोमि न त्वया कृतेन मम प्रयोजनमस्तीति घटग्रहणेन ताभ्यां स्व्यापितं भवति ॥ ४० ॥
अक्षताभिः सपुष्पाभिर्मूर्धन्येनमवाकिरेत् ।
अदास इति चोक्त्वा त्रिःप्राङ्मुखं तमथोत्सृजेत् ॥ ४१ ॥
भित्त्वा कुम्भं तण्डुलैर्वीहिमिश्रैः सपुष्पैस्तस्य मूर्धन्यवकीर्य त्रिरदासोऽसीत्युक्त्वा प्राङ्मुखमुत्सृजेत् । ततःप्रभृत्यदासो भवति ॥ ४१ ॥
ततःप्रभृति वक्तव्यः स्वाम्यनुग्रहपालितः ।
भोज्यान्नः प्रतिगृह्यश्च भवत्यभिमतश्च सः ॥ ४२ ॥
ततःप्रभृति वक्तव्यः स्वाम्यनुग्रहपालित इति, भोज्यान्नश्च प्रतिगृह्यश्च भवेत् प्रतिग्रहार्हश्चाभिमतश्च भवति यथान्ये स्वतन्त्राः । इहाचारवचनमकरणे निगृह्यकरणार्थम् ॥ ४२ ॥
इत्यभ्युपेत्याशुश्रूषा पञ्चमं विवादपदम् ।
_______
अथ वेतनस्यानपाकर्म षष्ठं विवादपदम् ।
भूतानां वेतनस्योक्तो दानादानविधिक्रमः ।
वेतनस्यानपाकर्म तद् विवादपदं स्मृतम् ॥ १ ॥
भृतानां कर्मार्थं कर्मकराणां वेतनस्य मूल्यदानस्यादानस्य चविधौ क्रम उक्तः’ईदृशस्य दातव्यमीदृशस्य न दातव्यमि’ति । दत्तं च प्रत्यादयं द्विगुणादि च क्वचित् । वेतनस्यानपाकर्म अनुरूपाकरणमन्वर्थसंज्ञा । षष्ठमेतद् विवादपदम् । अस्मिन् स्थानेऽयथोक्तकृन्निगृह्य कारयितव्य इति व्यवहारपदमित्युच्यते ॥ १ ॥
❋316भृत्याय वेतनं दद्यात् कर्मस्वामी यथाकृतम् ।
आदौ मध्येऽवसाने वा कर्मणो यद् विनिश्चितम् ॥ २ ॥
अतिक्रमे दोषविवक्षया विधिस्तावदुच्यते । तव कर्म करिष्यामीत्यभ्युपगम्य प्रतिग्रहसद्भावे कारयिता तम्मै भृत्याय यथाकृतमुभाभ्यां तथा भृतिं दद्यात् । आदौ वा प्रत्यायितश्चेत्, कर्मणो मध्ये वार्धकृते, अवसाने समाप्ते वा
यथा परिभाषितम् । कर्मणो यद् विनिश्चितं कर्मोद्दिश्योभाभ्यामनुमतम् उभाभ्यांवछि317तम् अनियतकालं भृत्यकर्मणो वा प्रसिद्धं नियमस्य कर्मणो भृतिरिति(?) ॥ २ ॥
भृतावनिश्चितायां तु दशभागं समाप्नुयुः ।
लाभगोबीजसस्थानां वणिग्गोपकृषीवलाः ॥ ३ ॥
अपरिभाष्यभृतिं वणिगादिभिर्वाणिज्यगोरक्षणकर्षणेषु कारितेषु वणिग्लाभस्य दशभागं लभेत, गोपोऽपि गवां दशमं, कर्षकोऽप्यबीजसस्यस्य दशमं, बीजं समुदायात् स्वामिने दत्त्वा शेषस्य दशमं, सर्वत्र वा मूलद्रव्यं मुक्त्वोदयस्य दशमं भागम् ॥ ३ ॥
कर्मोपकरणं चैषां क्रियां प्रति यदर्पितम् ।
आप्तभावेन कुर्वीत न जिह्मेन समाचरेत् ॥ ४ ॥
तेषां वणिगादीनां वाणिज्याद्युपकरणं तुलारज्जुहलादि यत् स्वामिना क्रियार्थमर्पितं तदाप्तभावेनाप्तबुद्ध्या कुर्वीत रक्षणादि, व्यापारशाठ्यं न कुर्यात् । करणेऽध318र्मवेतनहानिदण्डाः स्युः स्वार्थद्रोहात् ॥४॥
कर्माकुर्वन् प्रतिश्रुत्य कार्यो दत्त्वा भृतिं बलात् ।
भृतिं गृहीत्वाकुर्वाणो द्विगुणां भृतिमावहेत् ॥ ५ ॥
तव कर्म करिष्यामीति भृतिं निश्चित्य प्रतिज्ञायाकुर्वाणो यथोक्तां भृतिं दत्त्वा बलाद् बन्धनादिना कार्यः ।ण्यन्तः, कारयितव्य इत्यर्थः । गृहीत्वा भूतिंशाठ्यादकुर्वाणःपरिभवाद्वा, द्विगुणां भृतिमावहेत् । दण्ड एकगुणः319गृहीत इतरः ॥ ५ ॥
अनयन् नादयित्वा तु भाण्डं वा यानवाहने ।
दाप्यो भृतिचतुर्भागं सर्वामर्धपथे त्यजन् ॥ ६ ॥
एतावद् ददामीति नादयित्वा देशान्तरमुद्दिश्यानयन् भाण्डं स्वामी320शकटं बलीवर्दं वा परिच्छिन्नाया भृतेश्चतुर्भागं दाप्यः ।अर्धपथे भृत्यं त्यज321न् स्वामी सर्वांस्वपरिभाषितां भृतिं दाप्यः ॥ ६ ॥
कालेऽपूर्णे त्यजत् कर्म भृतिनाशमवाप्नुयात् ।
स्वामिदोषादप322क्रामेद् यावत् कृतकमालभेत् ॥ ७ ॥
इयन्तं कालं तव कर्म करिष्यामि त्वयाप्येतावद् दातव्यमित्यारभ्य कर्मापूर्णे काले त्यजन् भृत्यो भृतिनाशमवाप्नु323याद्, न दद्याद् भृतिं स्वामी । स्वामिदोषाद् यद्यपक्रामेदपूर्णे काले दोषं प्रकाश्य, यावत् कृतं तदनुरूपं लभेत ।स्वेच्छयाप (क्र ? क्रा) मतः सर्वनाशः ॥७॥
भृतिषड्भागमाभाष्य पथि युग्यकृतं त्यजन् ।
अददत् कारयित्वा तु कर्मैवं सोदयां भृतिम् ॥ ८ ॥
विशिष्टमध्वानमुद्दिश्यैतावतीं भृतिं ददामीति यद् युग्यादिवाहनार्थं कृतं भृतको यदि मार्ग आरब्धे गन्तुं केनचिद् भागेन तं त्यजेत् तस्या भृतेः षड्भागं दाप्यः । अददत् कारयित्वा कर्म भृतिं न ददाति चेद्, एवमित्याभाष्येत्येतदपेक्ष्यते, सवृद्धिकां भृतिं दाप्यः ॥ ८ ॥
अनयन् वाहकोऽप्येवं भृतिहानिमवाप्नुयात् ।
द्विगुणां तु भृतिं दाप्यः प्रस्थाने विघ्नमाचरन् ॥ ९ ॥
वहनार्थं भृतो वाहकोऽपि यदि न नयेद् भृतिषड्भागं दाप्यः । गृहीत्वा भृतिं प्रस्थानकाले विघ्नमाचरन् अभिप्रेतवेलायां नोपतिष्ठेत चेदित्यर्थः । द्विगुणां भृतिं दाप्यः ॥ ९ ॥
भाण्डं व्यसनमागच्छेद् यदि वाहकदोषतः ।
दाप्यो यत् तत्र नश्येत्तु दैवराजकृतादृते ॥ १० ॥
भाण्डं ग324वादिषु प्रक्षिप्तंबाहकदोषेण सदाप्रत्यवेक्षणप्रमादादिना व्यसनमागच्छेद् विपद्येत, यद् विनष्टं तद् दाप्यः, वाहको यदि दैवेन ज्वरादिना राजपुरुषैर्षानीतो भवेत् ज्वरादिना नचेदशक्तः कृतः ॥ १० ॥
गवांशताद् वत्सतरी धेनुः स्याद् द्विशताद् भृतिः ।
प्रतिसंवत्सरं गोपे सन्दोहो वाष्टमेऽहनि ॥ ११ ॥
गोपस्य भृतिः गोशताद् वत्सतरी तनुभूतवत्सत्वमतीता द्विहायनीत्यर्थः, द्विशताद् एकधेनुःप्रतिसंवत्सरं देया । सर्वसन्दोहो वाष्टमेऽहनि ॥ ११ ॥
उपानयेद् गा गोपाय प्रत्यहं रजनीक्षये ।
चीर्णाः पीताश्च ता (गा ? गो) पः325सायाह्ने प्रत्युपानयेत् ॥ १२ ॥
गोपसमीपं नीत्वास्वामी326 गोपायार्पयेद् दिवसे दिवसे प्रा (प्तः? तः) । ततः स गोपः चीर्णाः तृप्ताः पीतोदकाःसायाह्ने प्रत्यानीय स्वामिने समर्पयेत् ॥ १२ ॥
स्याच्चेद् गोव्यसनं गोपो व्यायच्छेत् तत्र शक्तितः ।
अशक्तावभिपत्यारं स्वामिने तन्निवेदयेत् ॥ १३ ॥
वृकविषमतीर्थक्षतकृम्यादिनिमित्तं व्यसनं स्यााच्चेद् गवां भेषजादिना यथाशक्ति व्यायच्छेद्गोपः । अशक्तौ327 शीघ्रं गत्वा स्वामिने ब्रूयात् । तथा गोपस्य दोषो न भविष्यति ॥ १३ ॥
अव्यायच्छन्नविक्रोशन् स्वामिने चानिवेदयन् ।
वोढुमर्हति गोपस्तं विनयं चैव राजतः ॥ १४ ॥
चोरहरणादौ यथाशक्ति प्रतीकारमकुर्वन्नभिधावतेति जनतायामविक्रोशन् स्वामिने चानिवेदयन्नुदासीनो गोपः तद् द्रव्यं स्वामिने दातुमर्हति । राज्ञश्चदण्डमौदासीन्यादनुमतं तस्य भवतीति ॥ १४ ॥
नष्टं विनष्टं कृमिभिः श्वहतं विषमे मृतम् ।
हीनं पुरुषकारेण गोपायैव निपातयेत् ॥ १५ ॥
नष्टमप्रत्यवेक्षणात्, विनष्टं कृमिभिः अप्रतीकारान्सृतं, वृकैर्मारितं, विषमे तीर्थगोचरादाववतारणेन मृतं, हीनं पुरुषकारेणाप्रतीकारेण शक्तस्य (नष्टं) गोपाचैव तद् दद्यात् ॥ १५ ॥
अजाविके तथा रुद्धे वृकैः पाले त्वनायति ।
यत् प्रसह्य वृको हन्यात् पाले तत् किल्बिषं भवेत् ॥ १६ ॥
अजाश्चावयश्च प्रत्येकं समुदिता अवरुद्धा वृकैः पालेऽनागच्छति रुद्धान् यान् बलाद् वृको हन्यात् पालेन ते दातव्याः, तद्दोषाद्धि ते हताः अरक्षणात् ॥ १६ ॥
तासामनवरुद्धानां चरन्तीनां मिथो वने ।
याः प्रसह्य वृको हन्यान्न पालस्तत्र किल्विषी ॥ १७ ॥
वने चरन्तीनां मिथः परस्परमनिरुद्धानां याः प्रसह्य वृको हन्यात् प्रसृतानां मध्ये नास्ति पालस्य दोषः ॥ १७ ॥
विघुष्य तु हृतं चोरैर्न पालो दातुमर्हति ।
यदि देशे च काले च स्वामिनः स्वस्य शंसति ॥ १८ ॥
विघुष्याहत्य पटहं प्रसह्य चोरैर्हृतं न पालेन दातव्यं यद्यहीनदेशकालः तस्माद् देशादनपगतावस्थायां तस्मिन्नेव काले स्वामिनः स्वस्य वाधिकृतस्य पुरुषस्य । विनापि वाशब्देनायमर्थो गम्यते । अन्यथा स्वामिनः सविशेषत्वेन प्रयोजनाभावादेतस्य कथने दण्ड्यः स्यात्, नचैतन्न्याय्यम् । ‘घोषयित्वा हृतमि’ ति न्याय्यः पाठः । अन्यथा हृतेऽनाख्याते च स्वामिने दाप्य इति गम्यते ॥ १८ ॥
एतेन सर्वपालानां विवादः समुदाहृतः ।
मृतेषु तु विशुद्धिः स्यात् पालस्याङ्कादिदर्शनात् ॥ १९ ॥
एतेन गोमहिषाजाव्यादिपालानां विवादो व्याख्यातोऽनुक्रान्तेन ‘नष्टं विनष्टमि’त्यादिना । एतस्मान्मृते तु पालः शुध्यति अङ्कं शृङ्गखुरादि दर्शयित्वा, अन्यथा प्रलप्यापि मृत इति ब्रूयात् ॥ १९ ॥
शुल्कं गृहीत्वा पण्यस्त्री नेच्छन्ती द्विस्तदा (भवे ? बहे) त् ।
अप्रयच्छंस्तदा शुल्कमनुभूय पुमांस्त्रियम् ॥ २० ॥
वेश्या (भाण्डं ? ) हाटं गृ328हीत्वा तं नेच्छन्ती तच्छुल्कं द्विगुणमावहेत् । तया सहोषित्वा हाटं दास्यामीति पुमानप्यदद् द्विगुणं दाप्यः प्रतिज्ञातस्य ॥ २० ॥
अयोनौ क्रमते यस्तु बहुभिर्वापि वासयेत् ।
शुल्कमष्टगुणं दाप्यो विनयस्ताबदेव च ॥ २१ ॥
शुल्कं दत्त्वा प्रविष्टोऽनिच्छन्त्यामयोनौ अन्यस्मिन् प्रदेशे शुक्लोत्सर्गं बलात् कुर्याद् अष्टगुणं तच्छुल्कं दाप्यः । राज्ञश्च तावानेव दण्डः, उभयोः पूर्वमनभ्युपगमाद् उभयोः प्रतिषिद्धत्वाच्च । बहुभिर्वासयतः एतदेवोभयम् ॥ २१ ॥
पराजिरे गृहं कृत्वा स्तोमं दत्त्वा वसेत् तु यः ।
स तद् गृहीत्वा निर्गच्छेत् त्यक्त्वा सर्वं मुधोषितः ॥ २२ ॥
परस्य गृहाङ्कणे गृहं कृत्वा हाटं दत्त्वा वसेद् यः, स तद् गृहीत्वा गृहोपकरणं निर्गच्छेत् पूर्णे समये ।गृहोपकरणं दार्वादि । त्यक्त्वा सर्वं भाण्डं (गृही? हि)त्वा निष्कामेत् । मुधोषितः (भाण्डे ? हाटे ) न विनोषितः । तस्य तदेव दानं वासनिमित्तम् ॥ २२ ॥
स्तोमवाहीनि भाण्डानि पूर्णकालान्युपानयेत् ।
ग्रहीतुराभवेद् भग्नं नष्टं वान्यत्र संप्लवात् ॥ २३ ॥
भाण्डाधारद्रव्याणि शकटघटापणितादीनि वस्त्रघृतादिभिर्नान्तरीयकत्वाद् विक्रीतैः सह दत्तानि नेत्रा विक्रेता पूर्णकाले निष्ठितद्रव्याणि विक्रेतानयेत् ( ? ) । भग्नंविनष्टं वा क्रेतुरेवाभवति, न तत् प्रत्यानेयम् । प्रत्यग्द्रव्यस्य तत्स्थस्य सञ्चरन्नाशक्यत्वाद् ( ? ) नष्टं च कालान्तरे यन्न दृश्येत । परचक्राटविकदुर्भिक्षादौ नष्टं यदि “नः दृश्येत, न तत् क्रेतुराभवति, नच चोर इतरः ॥ २३ ॥
इतिवेतनस्थानपाकर्म षष्ठं विवादपदम् ॥
अथ अस्वामिविक्रयः सप्तमं विवादपदम् ।
निक्षिप्तं वा परद्रव्यं नष्टं लब्ध्वापहृत्य वा ।
विक्रीयते परोक्षं यत् स ज्ञेयोऽस्वामिविक्रयः ॥१॥
परेण यस्य हस्ते न्यासो निक्षिप्तः, नष्टं वा क्वचित् पतितमन्यतो वा लब्ध्वा स्वयं वापहृत्य विक्रीयते, तेन स्वामिनः परोक्षमस्वामिविक्रयो नाम विवादपदम् ॥ १ ॥
द्रव्यमस्वामिविक्रीतं प्राप्य स्वामी तदाप्नुयात् ।
प्रकाशं क्रयतः शुद्धिः क्रेतुः स्तेयं रहःक्रयात् ॥ २ ॥
गवादिद्रव्यमस्वामिना यथोक्तेन विक्रीतं यत्र स्वामी पश्येत्, ममेति विशोध्य लभेत ।क्रेतुश्च महाजनप्रकाशं क्रयाच्छुद्धिः, मूल्यं तु नष्टमेव । यदि पश्येत् तत्सकाशाल्लभेत । यावदपर329स्तावदपसरश्चोरः ।रहःक्रयात् क्रेतुरस्त्येव स्तेयम् । अप्रकाशकये क्रेता चोरः, यदि विक्रेतारं नोपस्थापयति । उपस्थाप्य मुच्यते चौर्यात् ॥ २ ॥
अस्वाभ्यनुमताद्दासादसतश्च जनाद् रहः ।
हीनमूल्यमवेलायां कीर्णस्तद्दोषभाग भवेत् ॥ ३ ॥
अस्वाम्यनुमतात् स्वामिनाननुज्ञाताद् दासाद्, दास इति ज्ञात्वा, दासी वापालहस्तिपकादेः, असतो बालाज्जनाद् रहो विविक्ते देशे रात्र्यादौ चाल्पं दत्त्वा क्रीणन् तद्दोषभाक् चोरतुल्यो भवेद् एतैर्हेतुभिस्तस्य चोरत्वं ज्ञात्वा क्रयात् ॥ ३ ॥
न गूहेदागमं क्रेता शुद्धिर्ह्यस्य तदागमात् ।
विपर्यये तुल्यदोषः सर्वंतद्दोषमर्हति ॥ ४ ॥
न गूहेदागमं यस्य सकाशाद् गृहीतं तं न प्रच्छादयेत् प्रकाशकये, यतोऽस्य शुद्धिस्तदागमात् तद्द्रव्यस्यागमात् विक्रेतुर्वा दर्शनात् । विपर्यये आगमाभावे चोरेण तुल्यदोषः चोरदोषं सर्वमाप्नुयात्, द्रव्यानुरूपद्रव्यशरीरादिदण्डः॥ ४ ॥
विक्रेता स्वामिनेऽर्थं च क्रेतुर्मूल्यं च तत्कृतम् ।
दद्याद् दण्डं तथा राज्ञे विधिरस्वामिविक्रये ॥ ५ ॥
यस्तेन दर्शतोऽस्मान्ममागम इति स्वयं वा330पि क्रेतानपसरो वा द्रव्यस्वामिने द्रव्यं दत्त्वा क्रेतुश्च मूल्यं तत्कृतं यद् गृहीतं क्रेतुः सकाशाद् राज्ञे चानुरूपं दण्डं दद्यात् । एषोऽस्वामिविक्रये विधिः ॥ ५॥
परेण निहितं लब्ध्वा राजन्युपहरेन्निधिम् ।
राजगामी निधिः सर्वः सर्वेषां ब्राह्मणादृते ॥ ६ ॥
परेण निहितं निधिं यो लभेत स राज्ञे ढौकयेत् । अत्र हेतुमाह— अस्वामिकं राजगामि यतः सर्वं तस्मात् तस्योपहरेद् ब्राह्मणवर्जम् । तेन यल्लब्धं तदात्मन एव ।इतरो यद्राजा तुष्टो ददाति तदेव लभत इति ॥ ६ ॥
ब्राह्मणोऽपि निधिं लब्ध्वा क्षिप्रं राज्ञे निवेदयेत् ।
तेन दत्तं च भुञ्जीत स्तेनः स्यादनिवेदयन् ॥ ७ ॥
ब्राह्मणोऽपि लब्ध्वा निधिं राज्ञे निवेदयेद् अयं मया लब्ध इति । तेनानुज्ञातो भुञ्जीत, अन्थथा चोरः स्यात् ॥ ७ ॥
स्वमप्यर्थंतथा नष्टं लब्ध्वा राज्ञे निवेदयेत् ।
गृह्णीयात् तत्र तं शुद्रमशुद्धः स्यादतोऽन्यथा ॥ ८ ॥
आत्मीयमप्यर्थं नष्टमित्यवघोषितं पुनर्लभेत चेत् तथैव राज्ञे निवेदयेत् । अनुज्ञातं तच्छुद्धं भवति, अशुद्धमन्यथा स्यात् ॥ ८ ॥
इति अस्वामिविक्रयःसप्तमं विवादपदम् ॥
\_\_\_\_\_
** अथ विक्रीयासम्प्रदानमष्टमं विवादपदम् ।**
विक्रीय पण्यं मूल्येन क्रेतुर्यन्न प्रयच्छति ।
विक्रीयासम्प्रदानं तद् विवादपदमुच्यते ॥ १ ॥
तव पण्यं मम मूल्यमिति विक्रीय पण्यं क्रेतुर्यस्मान्न प्रदीयते तस्माद् विक्रीयासम्प्रदानं नाम विवादपदमष्टममुच्यते ॥ १ ॥
लोकेऽस्मिन् द्विविधं द्रव्यं स्थावरं जङ्गमं तथा ।
क्रयविक्रयधर्मेषु सर्वं तत् पण्यमुच्यते ॥ २ ॥
लोके यद् द्रव्यं जङ्गमं हस्त्यश्चमनुष्यादि, स्थावरं क्षेत्रहिरण्यगृहादि, सर्वं तत् पण्यमुच्यते । यत्र पण्यसंशब्दनं करोति, तत्रैतस्य स्थावरजङ्गमाख्यस्य ग्रहणं द्रष्टव्यम् ॥ २ ॥
षड्विधस्तस्य तु बुधैर्दानादानविधिक्रमः ।
गणिमं तुलिमं मेयं क्रियया रूपतः श्रिया ॥ ३ ॥
तस्य पण्यस्य दानग्रहणविधिः षड्विधः गणिमं गणनया निर्वृ331त्तंगणित्वा दीयते गृह्यते च गवाश्ववस्त्रादि । तुलिमं तुलया व्यवह्रियते गुलकार्पासहिङ्गुचन्दनकुङ्कमादि । मेयं प्रस्थादिमेयं ब्रीह्यादि । क्रियया शिल्पविशेषादाभरणादि । रूपतो वस्त्रदासीखड्गादि । श्रिया मण्यादयः ॥ ३ ॥
विक्रीय पण्यं मूल्येन यः क्रेतुर्न प्रयच्छति ।
स्थावरस्य क्षयं दाप्यो जङ्गमस्य क्रियाफलम् ॥ ४ ॥
मूल्यं गृहीत्वा क्रेतुर्यः पण्यं न ददाति यावत्कालं तावत्कालकृतं भोजनवस्त्रादेर्मुज्यमानस्य यावान् क्षयः तावान् दाप्यः, यदि332 भुज्यते । यदि न, सर्वथा तावत्कालमभुक्तत्वाद् भोगस्य च दातुमशक्यत्वाद् भुज्यमानस्य क्षयलब्धेर्द्रव्यं च भुक्तमेव भवतीति जङ्गमस्य यावत्कालं तत्कर्मनिमित्तं मूल्यं दाप्यं तच्चद्रव्यम् ॥ ४ ॥
अर्घश्चेदपहीयेत सोदयं पण्यमाभवेत् ।
स्थानिनामेष नियमो दिग्लाभो दिग्विचारिणाम् ॥ ५ ॥
विक्रीयपण्यमददति ह्रसेदर्घो, यस्मिन् काले विक्रीतं तत्कालीयेनार्घेणादानकालाद् भाव्यवृद्धियुक्तमाभवेद् दाप्य इत्यर्थः । स्थानिनामेष नियमः, दिग्विचारिणामददतां कालातिक्रमेऽर्धहानौ तद्धीनद्रव्यं तस्यां दिशि या वृद्धिः तया सह दाप्यः । अथवानेनार्घेण पण्यं ददामीति धनिनो मूल्यं गृहीत्वा पण्ये गृहीतेऽर्घहानिः स्यात्, पूर्वोक्तेनार्घेण सोदयं पण्यं दद्यात् । तद्यथा — दीना-
रस्य पञ्चपलं कृत्वा कुङ्कुमं ददामीति द्रव्यं गृहीत्वा कुङ्कुमे गृहीते पञ्चपले वर्तमाने तस्मिन् काले अददद् दीनारस्य पञ्चपलद्वये जाते पञ्चपलेनैवार्घेण सवृद्धिकं दद्यात् । स्थानिधर्मोऽयम् । दिग्विचारिणां तत्रत्येनार्घेण ददामीति द्रव्ये गृहीते तत्र तत्रार्घाद् यथाभाषिताद्धानिः स्यात् तेनैवाघेण सोदयं पण्यं दाप्यः । तद्यथाः – काश्मीरेषु दशपलः कुङ्कुमार्थो वर्तते । तेनार्घेण तदेव ददामीति तत्र गतस्य पञ्चपलोऽर्धो जातः । तत्र दशपलार्घेणैव पण्यं दाप्यः ॥ ५ ॥
उपहन्येत वा पण्यं दह्येतापहयेत वा ।
विक्रेतुरेव सोऽनर्थो विक्रीयासम्प्रयच्छतः ॥ ६ ॥
विक्रीय द्रव्यमदत333स्तद् द्रव्यमुपहन्येत वस्त्रादिमिकादिभिः दृष्येत, अग्निना वा दह्येत, चोरैर्वापह्णियेत, विक्रेतुरेवानर्थः सः, तेन द्रव्यं दातव्यमप्रदानदोषात् ॥ ६ ॥
निर्दोषं दर्शयित्वा तु यः सदोषं प्रयच्छति ।
मूल्यं
❋334
स द्विगुणं दाप्यो विनयं तावदेव च ॥ ७ ॥
निर्दोषं कुङ्कुमादि पण्यं दर्शयित्वा तदर्घेण द्रव्यं गृहीत्वासदोषं335 क्लिन्नमन्यद्रव्यमिश्रं वा ददाति, स मूल्यं द्विगुणं दाप्यः, विनयं च तत्वरिमाणम् ॥
तथान्यहस्ते विक्रीय योऽन्यहस्ते प्रयच्छति ।
सोऽपि तद्द्विगुणं दाप्यो विनयं336 तावदेव च ॥ ८ ॥
पूर्ववदेवान्यस्माद् ददामीति मूल्यं गृहीत्वान्यस्मै विक्रीणाति, तस्यापि पूर्ववत् ॥ ८ ॥
दीयमानं न गृह्णा337ति पण्यं क्रीतं हि यत् क्रयी ।
विक्रीणानस्तदन्यत्र विक्रेता नापराध्नुयात् ॥ ९ ॥
पूर्वश्लोकस्यापवादोऽयम् । यदा क्रेता क्रीतं पण्यं दीयमानं न गृह्णाति कालं क्षिपति, तदान्यस्मै विक्रये विक्रेतुर्नास्ति दोषः ॥ ९ ॥
दत्तमूल्यस्य पण्यस्य विधिरेष प्रकीर्तितः ।
अदत्तमूल्ये विक्रीते न विक्रेतुरतिक्रमः ॥ १० ॥
दत्तमूल्येऽनुक्रान्तो दोषः । अदत्तमूल्ये तु सम्भाषणमात्रे कृते अददतोऽन्यस्मैविक्रये विक्रीणानस्य नास्ति दोषः ॥ १० ॥
लाभार्थो वणिजां सर्वः पण्येषु क्रयविक्रयः ।
स च लाभोऽर्घमासाद्य महान् भवति वा नवा ॥ ११ ॥
वणिजां क्रयविक्रयः सर्वोऽतिरिक्तलाभार्थः । स च लाभोऽर्घवशान्महान् भवति कदाचित्, कदाचिदल्पः, कदाचिन्नैव ॥ ११ ॥
तस्माद् देशे च काले च वणिगर्घंप्रकल्पयेत् ।
न जिह्मेन प्रवर्तेत श्रेयानेष वणिक्पथः ॥ १२ ॥
यस्मादर्घाधीनो लाभः, तस्माद् देशकालानुरूपमर्धंप्रकल्पयेद् यथात्मनो हानिर्न भवति परस्यच । न जिह्मेन प्रवर्तेत न परोऽतिसन्धानीयः इत्येवं वणिक्पथादन्यो न प्रशस्यतरः । अतिसन्धाने च दोषः । तस्माद् देशकालरूपानुरूपमर्घंप्रकल्पयेत् । ‘श्रेयानेवं वणिक्पथ’ इत्यन्यः पाठः । एवं श्रेयान् वणिक्पथः । तस्मादजिह्मेन प्रवर्तेत, अन्यथा प्रत्यवेयादिति ॥ १२ ॥
इति विक्रीयासम्प्रदानमष्टमं विवादपदम् ॥
** ________**
अथ क्रीत्वानुशयो नवमं विवादपदम् ।
क्रीत्वा मूल्येन यत् पण्यं क्रेता न बहु मन्यते ।
क्रीत्वानुशय इत्येतद् विवादपदमुच्यते ॥ १ ॥
मूल्येन पण्यं क्रीत्वा न सम्यक् क्रीतमिति क्रेतानुतप्यते, तत् क्रीत्वानुशयो नाम विवादपदम् ॥ १ ॥
क्रीत्वा मूल्येन यत् पण्यं दुष्क्रीतं मन्यते क्रयी ।
विक्रेतुः प्रतिदेयं तत् तत्रैवाहन्यविक्षतम् ॥ २ ॥
** **क्रेता क्रीत्वा मूल्यं दत्त्वा यदि दुष्क्रीतमित्यनुशोचति, तस्मिन्नेवाहनिप्रतिदेयमविकृतं द्रव्यम् । विकृतं नेत्येतस्मा338देव गम्यते ॥ २ ॥
द्वितीयेऽह्नि ददत् क्रेता मूल्यात् त्रिंशांशमावहेत्339 ।
द्विगुणं तत् तृतीयेऽह्नि परतः क्रेतुरेव तत् ॥ ३ ॥
द्वितीयेऽह्निददत् क्रेता मूल्यात् त्रिंशांशं त्रिंशद्भागम् आवहेद्340 दद्यात् । त्रिंशद्भागं बहिः तद् द्रव्यं तृतीयेऽह्निददत् तद्द्विगुणं पञ्चदशांशं दद्यात् । ततः परतः चतुर्थादारभ्य तस्यैव क्रेतुर्भवति, नास्ति प्रदानम् ॥ ३ ॥
क्रेता पण्यं परीक्षेत प्राक् स्वयं गुणदोषतः ।
परीक्ष्याभिमतं क्रीतं विक्रेतुर्नाभवेत् पुनः ॥ ४ ॥
क्रेता च341क्रयात् पूर्वमेव पण्यस्य गुणदोषौ परीक्षेत । परीक्ष्य निर्दोषं क्रीतं न विक्रेतुः प्रतिदातव्यं न देयम् । नहि तेनानिच्छता ग्रहीतव्यं प्रथमादप्यह्णआरभ्य ॥ ४ ॥
त्र्यहाद् दोह्यं परीक्षेत पञ्चाहाद् वाह्यमेवच ।
मुक्तावज्रप्रवालानां सप्ताहं स्यात् परीक्षणम् ॥ ५ ॥
परीक्ष्य क्रीणीयादित्युक्तम् । परीक्षणस्यावधिरुच्यते । त्र्यहाद् दोह्यानां गवादीनाम् । तावता कालेन सारासारता ज्ञातुं शक्या ।पञ्चाहाद् वाह्यानाम् अश्वादीनां परीक्षणम् । मुक्तादीनां सप्ताहाद् ज्ञायते विशेषःकृत्रिमादिः342 ॥ ५ ॥
द्विपदामर्धमासं स्यात् पुंसां तद्द्विगुणं स्त्रियाः ।
दशाहं सर्वबीजानामेकाहं लोहवाससाम् ॥ ६ ॥
पुंसामर्धमासं, तावता कालेन शीलादिर्ज्ञायते । मासेन स्त्रियाः गूढप्रचारत्वादेतावता कदाचिद् ज्ञायते । दशाहाद् बी343जानामुपहतानुपहतत्वं ज्ञायते । लोहानाम् अयआदीनां वस्त्रादीनां च दर्शनादेव ज्ञायते, तथापि दिवसेन सुज्ञातं भवति ॥ ६ ॥
परिभुक्तं तु यद् वासः क्लिन्नरूपं मलीमसम् ।
सदोषमपि विक्रीतं विक्रेतुर्नाभवेत् पुनः ॥ ७ ॥
परिभुक्तं मृदितं, न भोगमात्रेण । मलिनं, सदोषमपि छिद्रादिसहितमपि न344 तत् प्रतिदातव्यम् । तथाभूतस्य ज्ञात्वा क्रीतत्वात् । तथाभूतं च विक्रीणाति न परीक्षत एवेति नास्ति ॥ ७ ॥
मूल्याष्टभागो हीयेत सकृद् धौतस्य वाससः ।
द्विः पादस्त्रिस्त्रिभागश्च चतुर्धौतेऽर्धमेव च ॥ ८ ॥
सकृद् धौतस्य दीनारमूल्यस्य पादार्धं हीयेत । तन्मूल्यार्धैकादशभिर्ग्राह्यम् ।द्विर्धौतस्येत्येवं सर्वत्र ।द्विर्धौतस्य पाद ऊनः, त्रिर्धौतस्य त्रिभागोनः, एवं चतुर्धौतमर्धमूल्यं भवति ॥ ८ ॥
अर्वक्षयात्तु परतः पादांशापचयः क्रमात् ।
यावत् क्षीणदशंजीर्णंजीर्णस्यानियमः क्षये ॥ ९ ॥
पञ्चमादारभ्याष्टमो भागोऽपचीयते । पञ्चमे साष्टभागमर्धम् । षष्ठे सपादम् । एवं यावत् क्षीणदशं जीर्णम् । ततः क्षयनियमो नास्ति । इच्छातः क्रयः ॥ ९ ॥
लोहानामपि सर्वेषां हेतुरग्निः क्रियाविधौ।
क्षयः संस्क्रियमाणानां तेषां दृष्टोऽग्निसङ्गमात् ॥ १० ॥
लोहानामपि, न वस्त्राणामेव । सुवर्णादीनां सर्वेषां हेतुरग्निःकटकादिक्रियाविधौ । नह्यग्निसंयोगमन्तरेणावि345लीनानां कटकादयः शक्याः कर्तुम् । ततोऽग्निसङ्गमात् संस्क्रियमाणानां यः क्षयो दृष्टः स उच्यते क्रमेण ॥ १० ॥
सुवर्णस्य क्षयो नास्ति रजतं द्विपलं शतम् ।
शतमष्टपलं ज्ञेयं क्षयः स्यात् त्रपुसीसयोः ॥ ११ ॥
ताम्रे पञ्चपलं विद्याद् विकारा ये च तन्मयाः ।
*346तद्धेतूनामनेकत्वादयसोऽनियमः क्षये ॥ १२ ॥
सुवर्णंन क्षीयते । रजतं पलशते द्वे पले क्षीयेते । पात्रादिकरणे त्रपुसीसयोः क्षयः शतेऽष्टौ पलानि । शते पञ्चपलं ताम्रे क्षयः । ताम्रविकारेषु सर्वेष्वेवम् । अयसो लोहस्य न क्षयनियमः तन्निमित्तानां येभ्यो लोहमुत्पद्यते तेषामनेकत्वात् कुतश्चिदुत्पन्नस्य कश्चित् क्षय इत्यनियमः ॥ ११,१२ ॥
तान्तवस्य च संस्कारे क्षयवृद्धी उदाहृते ।
यत्र कार्पासिकोर्णानां वृद्धिर्दशपलं शते ॥ १३ ॥
तन्तुविकारस्य वस्त्रकम्बलादेःसंस्कारे कार्पासोर्णसूत्रयोःदशभिः पलैः कृतमेकादशपलं भवति । एवं शतपलस्य दशोत्तरं शतं भवति । तन्तुविकाराणामेषा वृद्धिरुक्ता ॥ १३ ॥
स्थूलसूत्रवतामेषा मध्यानां पञ्चकं शते ।
त्रिपलं तु सुसूक्ष्माणामन्तः347 क्षय उदाहृतः ॥ १४ ॥
स्थूलसूत्रपटादीनामेषा वृद्धिरुक्ता— दशपलं शते । मध्यानां शते पञ्चपला वृद्धिः । सूक्ष्माणां शतेत्रीणि पलानि सत्रिभागानि । एतेनान्तरालावस्थानामनुपातेन कर्तव्यो विभागः। क्षयमुदाहृतं वक्ष्यामः ॥ १४ ॥
त्रिंशांशो रोमविद्धस्य क्षयः कर्मकृतस्य च ।
कौशेयवल्कलानां तु नैव वृद्धिर्नच क्षयः ॥ १५ ॥
पुष्पपट्टा348नां च रोमविद्धस्य छेदकृतः क्षयः त्रिंशांशः । उत्पादितशिल्पविशेषाणां तु कौशेयानां वल्कलानां च न वृद्धिर्नच क्षयः समान्येव सूत्राण्ये349तानि भवन्ति ॥ १५ ॥
क्रीत्वा नानुशयं कुर्याद् वणिक् पण्ये विचक्षणः ।
क्षयवृद्धी च जानीयात् पण्यानामागमं तथा ॥ १६ ॥
उपसंहारोऽयम् ।क्रीत्वा विरूपकं क्रीतमिति नानुश350यं कुर्यात् । वणिग् विचक्षणः तथा परीक्ष्य क्रीणीयाद् यथा पश्चात्तापो न भवति । दानग्रहणयोश्च पण्यानां क्षयं वृद्धिं च जानीयात् । तथा तत्र न351वञ्च्यते । पण्यानामागमं च । अदृश्यमानविशेषस्या352पि जन्मभूम्या विशेषपरिच्छेदो भवति । अत्रोपदेशफलं यथोक्ताकरणे दण्डः ॥ १६ ॥
इतिक्रीत्वानुशयो नवमं विवादपदम् ॥
अथ समयस्यानपाकर्म दशमं विवादपदम् ।
पाषण्डनैगमादीनां स्थितिः समय उच्यते ।
समयस्यानपाकर्म तद् विवादपदं स्मृतम् ॥ १ ॥
पाषण्डाःशाक्यन353ग्नादयः । नैगमा वणिजः, प्रकृतय इत्यन्ये । तेषां पूर्वकृता वर्तमानैर्वा संहत्य कृता स्थितिः समय ।तस्यानपाकर्म अपरित्यागः अनुवृत्तिः तद् दशमं विवादपदम् ॥ १॥
पाषण्डनैगमश्रेणीपूगव्रातगणादिषु ।
संरक्षेत् समयं राजा दुर्गे जनपदे तथा ॥ २ ॥
पाषण्डनैगमा उक्ताः । श्रेणयः तन्तुवायमालाकारादयः । पूगा हस्तिपकपानपालमल्लगोष्ठीप्रभृतयः । व्राता आयुधीयसङ्घाः । तेषां या संस्था स्थितिः तां पालयेद् राजा दुर्गाधिष्ठाने जनपदेषु च । अनुरागश्च भवति । भिन्नानां तद्व्यवहारेण सन्धानं च भवति ॥ २ ॥
यो धर्मः कर्म यच्चैषामुपस्थानविधिश्च यः ।
यच्चैषां (प्रत्यु ? वृत्त्यु) पादानमनुमन्येत तत् तथा ॥ ३ ॥
यो धर्मस्तेषां क्रियमाणः चरितं कर्म यस्योचितं यत् कर्म राजकुलसेवा च, यो यथा सेवते, वृत्तिश्च वणिगादीनां वाणिज्यहस्त्यारोहणादि, तत् तथैवानुमन्येत एषा राजाज्ञेति ये यथैवानुवर्तन्ते ते तथैव वर्तन्तामिति ॥ ३ ॥
प्रतिकूलं च यद् राज्ञः प्रकृत्यवमतं च यत् ।
बाधकं च यदर्थानां तत् तेभ्यो विनिवर्तयेत् ॥ ४ ॥
पूर्वस्यापवादः ।राज्ञोऽनिष्टं, यथा परराष्ट्रे नीयमानं द्रव्यं राजा यद् नच्छतीति ज्ञातं न तन्नेयं महोदयमपि । प्रकृतीनामवमतमनिष्टं च तेलकोत्थापनादि । ‘प्रकृत्यावमतमि’ ति पाठे स्वभावतो बीभत्सं येन कृतेन लज्जते । अर्थानां बाधकं प्रेक्षणमहाव्ययोत्सवादि । तत् तेभ्यो निवर्तयेत् ये एवमाद्याचरन्ति ते वार्याः सान्त्वेनैव ॥ ४ ॥
मिथः सङ्घातकरणमहिते शस्त्रधारणम् ।
परस्परोपतापं च तेषां राजा न मर्षयेत् ॥ ५ ॥
पृथक् पूर्वं सङ्घातकरणम् अनुज्ञाप्यापि समागमं सङ्घातकरणम् । संहता ह्यकस्मादनिष्टमार (भ्ये ? भे) रन् । अहिते च कलहादौ शस्त्रधारणम्, परस्परोपतापं च वल्लभाद्याश्रयेण, तेषामेतद् न मर्षयेद् निगृह्य निवारयेद् न समूह इत्युपेक्ष्य इति ॥ ५ ॥
पृथग् गणान् ये विभिन्द्युस्ते विनेया विशेषतः ।
आवहेयुर्भयं घोरं व्याधिवत् ते छुपेक्षिताः ॥ ६ ॥
गणान् सङ्घातान् ये विभिन्दन्ति, राज्ञो दोषकथनेन परस्तुत्या च, ते विशेषेण निग्राह्याः । विशेषग्रहणात् शारीरेणापि दण्डेन । यतः आवहेयुः त उपेक्षिताः पुनः पुनश्छन्दतः सर्वभेदाद् भयं घोरमप्रतीकारं व्याधिरिवोपेक्षिताः । तस्मादत्र प्रयत्नः कार्यः ॥ ६ ॥
दोषवत्करणं यत् स्यादनाम्नायप्रकल्पितम् ।
प्रवृत्तमपि तद् राजा श्रेयस्कामो निवर्तयेत् ॥ ७ ॥
यस्मिन् क्रियमाणे दोषो भवति अवसन्नज्ययुद्धादिकालापेक्षया पानादि च, तदनाम्नायकल्पितं श्रुतिस्मृत्यनुदितम् । उदितं तु दोषवदप्यर्थहानिकरं यज्ञारामदेवकुलादिकरणं न तन्निवर्त्यम् । प्रवृत्तमपि कालानुकालं354 क्रियमाणं श्रेयस्कामो नोपेक्षेत निवर्तयेत् ॥ ७ ॥
इति समयस्यानपाकर्म दशमं विवादपदम् ॥
\_\_\_\_\_\_
अथ क्षेत्रविवाद एकादशं विवादपदम् ।
सेतुकेदारमर्यादा❋355विकृष्टाकृष्टनिश्चयाः ।
क्षेत्राधिकारा यत्र स्युर्विवादः क्षेत्रजः स तु ॥ १ ॥
सस्यादिनिष्पत्त्यर्थंस्रोतांसि बद्ध्वोदकं धार्यते यत्र ते सेतवः ( तेषाम् ?) ।
सस्यं येषु निष्पद्यते ते केदाराः । ग्रामादिसन्धयो मर्यादाः । विकृष्टाः कृष्यमाणाः । अकृष्टाः खिलाः । तेषां निश्चयाः क्षेत्राण्यधिकृत्य यत्र यस्मिन् सन्देहाः स्युः तद् विवादपदं क्षेत्रनिमित्तमेकादशं क्षेत्रजमित्युच्यते ॥ १ ॥
क्षेत्रसीमाविरोधे तु सामन्तेभ्यो विनिश्चयः ।
नगरग्रामगणिनो ये च वृद्धतमा नराः ॥ २ ॥
क्षेत्रयोर्मर्यादां प्रति विवादे सामन्तेभ्यः, प्रतिनिवेशक्षेत्रिकेभ्यो विनिष्कृष्यनिश्चयः ।नगरग्राममहत्तरेभ्योऽधिकृतेभ्यः । ये चान्ये प्रकर्षेण वृद्धास्ते यद् व्रूयुस्तत् प्रमाणम् ॥ २ ॥
ग्रामसीमासु च बहिर्ये स्युस्तत्कृषिजीविनः ।
गोपशाकुनिकव्याधा ये चान्ये वनगोचराः ॥ ३ ॥
क्षेत्रसीमाविनिर्णय उक्तः । ग्रामसीमासु च विवादे ये बहिः स्युरन्यत्रवासिनः पूर्वं तत्कृषिजीविनः आसन् । गोपाश्च शाकुनिकाश्च लुब्धकाश्च, ये चान्ये वनगोचराः ते तत्र भ्रमन्तः कालान्तरे कुतस्त्यैः कियत् कृष्टमिति जानन्ति ॥ ३ ॥
समुन्नयेयुस्ते सीमां लक्षणैरुपलक्षिताम् ।
तुषाङ्गारकपालानां कुम्भैरायतनैर्द्रुमैः ॥ ४ ॥
यतोऽभिज्ञाः, तस्मात् ते सम्यङ् नयेयुःसीमाम् । लक्षणैः सीमा लक्ष्यत एभिरिति लक्षणानि वक्ष्यमाणानि तैरुपलक्षिताम् । तैरभिज्ञानभूतैः । त्तानि लक्षणान्युच्यन्ते —तुषाश्चाङ्गाराश्च कपालानि च । तेषां कुम्भास्तुषादिभिः पूर्णाःकुम्भाः सन्धिषु पूर्वैर्निहिताः तैरभिज्ञानैः, इह तुषाः, इहाङ्काराः, अस्मिन् प्रदेशे कपालानीत्येवं प्रतिज्ञाय पूर्वं तथा दर्शयन्तो नयेयुः । आयतनैर्द्रुमैश्च प्रतिज्ञातैः इह देवकुलमासीद् इह वृक्ष इति ॥ ४ ॥
अभिज्ञानैश्च वल्मीकस्थलनिम्नोन्नतादिभिः ।
केदारागारमार्गैश्च पुराणैः सेतुभिस्तथा ॥ ५ ॥
अभिज्ञानैश्च यैरभिज्ञायते सीमा तैर्वल्मीकादिमिः, इह वल्मीक आसीत्, इह स्थलम्, इह निम्नम्, इह गर्तम्, इहोन्नतः प्रदेशः, एते सन्धि-
ष्वासन्नाः, तेषां चैतानि लिङ्गानि इति । तथा केदारैश्च इह केदारा आसन् अमुष्य ग्रामस्य, तेषामेते आभासा इति । मार्गैश्च अयमत्र मार्ग आसीद्ग्रामकाल इति । पुराणैश्च सेतुभिः इह सेतुरासीदमुप्य ग्रामस्य, तस्यैतच्चिह्नमिति । एतैर्नयेयुः । तथा सुनीतं भवति ॥ ५ ॥
निम्नगापहृतोत्सृष्टनष्टचिह्नासु भूमिषु।
तत्प्रदेशानुमानाच्च प्रमाणैर्भोगदर्शनैः॥ ६ ॥
नद्या अपहृतं चोत्सृष्टं च चिह्नं यासु भूमिषु ।नद्या वापहरणेन चिरोत्सर्गेण नष्टानि चिह्नानि यासु भूमिषु । तत्प्रदेशानुमानाद् अस्मिन् प्रदेश आसीद् ग्रामः, चिह्नानि चैतानीति लोष्टवृक्षकृपाभासादिभिरनुमेयः । अर्धप्रमाणेन ग्रामयोरल्पत्वमहत्त्वापेक्षया ।इयत्यध्वनि मर्यादया भवितव्यम् अस्यापीयतीति । ग्रामे धान्यभोगदर्शनात् तद्नुरूपां सीमां परिच्छिन्द्यात् ॥ ६ ॥
अथ चेदनृतं ब्रूयुः सामन्तास्तद्विनिर्णये ।
सर्वे पृथक् पृथग् दण्ड्या राज्ञा मध्यमसाहसम् ॥ ७ ॥
सामन्ता यद्यनृतं ब्रूयुः यथाप्रतिज्ञातचिह्नादर्शनेऽन्येन वा जानता अन्यत्र चिह्नदर्शने क्षेत्रनिर्णये एकैको मध्यमसाहसं पञ्चशतानि दण्ड्यः ॥ ७ ॥
गणि356वृद्धादयस्त्वन्ये दण्डगत्या पृथक् पृथक् ।
विनेयाः प्रथमेन स्युः साहसेनानृते357 स्थिताः ॥ ८ ॥
गणि358वृद्धा गोव्याधादयोऽनृते स्थिताः पूर्ववदेव दण्डगतिःदण्डमार्गः तेन विनेयाः प्रथमेन साहसेन अर्धतृतीयशतेनैकैकम् ॥ ८ ॥
नैकः समुन्नयेत् सीमां नरः प्रत्ययवानपि ।
गुरुत्वादस्य धर्मस्य क्रियैषा बहुषु स्मृता ॥ ९ ॥
एको न सीमां नयेत्, प्रत्यायितोऽपि । यतो बहुष्वेषा सीमापरिच्छेदक्रिया स्मृता । सम्यक् क्रिया चैवं भवति । दण्डवृद्धिस्त्वन्यथाकरणे । बहुभिः कर्तव्यत्वे हेतुमाह —गुरुत्वादस्य धर्मस्येति । ‘सर्वं भूम्यनृते हन्ती’त्यादिना अन्यथा प्रमादात् करणे प्रत्यवायबहुत्वाद् बहुभिः कृतायां सुकृतं भवतीति
एकश्चेदुन्नयेत् सीमां सोपवासःसमुन्नयेत् ।
रक्तमाल्याम्बरधरः क्षितिमारोप्य मूर्धनि ॥ १० ॥
यदा बहवो ज्ञातारो न359 सन्ति तदैकोऽपि नयेत् ।एकश्चेन्नयेद् अत्राप्रमादार्थं यत्न आरभ्यते —उपोषितः । तथा धर्माभिमुख्याद् यत्नश्च भवति त्रासब्ध ।रक्तमाल्याम्बरधरः । मृतालङ्कारोऽयम् । आसन्नमरणः प्र360मत्तो भवेदिति । मृदं मूर्ध्नि कृत्वा, ‘सर्वं भूम्यनृते हन्ती’ ति स्मरणात् विच्छेदार्थमेवंभूतो नयेत् । बहुत्वेऽप्यविरोधः, दृष्टप्रयोजनत्वात् ॥ १० ॥
यदात्र न स्युर्ज्ञातारः सीमाया361नच लक्षणम् ।
ततो राजा द्वयोः सीमामुद्धरेदिष्टतः स्वयम् ॥ ११ ॥
यदा ज्ञातारः सीमाया न सन्ति, लक्षणं च नास्ति, तदा राजा स्वयमेव द्वयोः सीमां छिन्द्यादिष्टतः यथेष्टं तवेदं तवेदमिति ॥ ११ ॥
अनेनैव गृहोद्याननिपानायतनादिषु ।
विवादविधिराख्यातस्तथा ग्रामान्तरेषु च ॥ १२ ॥
एतेनैव विधिनाख्यातो देवकुलगृहोद्याननिपानमार्गगोप्रचाराद्यवधेः परिच्छेदो विवादे ॥ १२ ॥
अवस्करस्थलश्वभ्रमार्गस्यन्दनिकादिभिः ।
चतुष्पथसुरस्थानरथ्यामार्गान्362 न दूषयेत् ॥ १३ ॥
अवस्करःपुरीपादिस्थानम् । स्थलं पांसुसञ्चयो गृहशोधनादिना । श्वभ्रं मृदाद्यर्थं गर्तम् । मार्ग उदक निर्गममार्गः ।स्यन्दनिका मूत्रावस्रावणस्नानोदकस्रोतः । एवमादिभिश्चतुप्पथदेवायतनरथ्यामार्गान् नोपहन्यात् । चतुष्यथादयो यथा नोपहन्यन्ते तथावस्करादि कुर्यात् ॥ १३ ॥
परक्षेत्रस्य मध्ये तु सेतुर्न प्रतिषिध्यते ।
महागुणोऽल्पदोषश्चेद् वृद्धिरिष्टा क्षये सति ॥ १४ ॥
परक्षेत्रस्य मध्ये सेतुर्न प्रतिषिध्यते, इष्ट इत्यर्थः । महागुणोऽस्पदोष’श्चेत् । विपरीते न कार्यः, वृद्धेरिष्टत्वादल्पक्षये ॥ १४ ॥
सेतुस्तु द्विविधो ज्ञेयः खन्यो बध्य363स्तथैव च ।
तोयप्रवर्तने खन्यो वध्यः स्याद् विनिवर्तने ॥ १५ ॥
द्विप्रकारःसेतुः खातव्यो बद्धव्यश्च । अप्रवृत्तोदकप्रवर्तनात्मकः खन्यः । प्रवृत्तस्य निरोधे सर्वकालार्थं बध्यः ॥ १५ ॥
नान्तरेणोदकं सस्यं नाशोऽप्यत्युदकेन तु ।
यावाननुदके दोषस्तावानत्युदके स्मृतः ॥ १६ ॥
उदकेन विना सस्यं नास्ति । अत्युदकेन च नाशःसस्यस्य । अतोऽनुदकात्युदकयोस्तुल्यो दोषः । अनुदकेऽनारम्भादल्पः क्षयः । अत्युदके प्रयासभूयस्त्वम् । तस्मात् सेतुस्तथा कार्यो यथोभयं न भवति ॥ १६ ॥
पूर्वप्रवृत्तमुत्सन्नमपृष्ट्वा स्वामिनं तु यः ।
सेतुं प्रवर्तयेत् कश्चिन्न स तत्फलभाग् भवेत् ॥ १७ ॥
पुर्वसेतुमुत्सृष्टं भिन्नं वा स्वामिनम (न) नुज्ञाप्य यः संस्कुर्यात्, न तस्य तत्फलं भवति । पूर्वस्वामिन एव । यदि धर्मार्थं कुर्यात्, नतु फलार्थम् ॥ १७ ॥
मृते वा स्वामिनि पुनस्तद्वंश्ये चापि मानवे ।
राजानमामन्त्र्य ततः प्रकुर्यात् सेतुकर्म तत् ॥ १८ ॥
पूर्वसेतुमुत्सन्नं दृष्टार्थं यदि कश्चिच्चिकीर्षति, स स्वामिनं पृष्ट्वा, मृते वा तस्मिंस्तद्वंश्यं पुत्रादिं, तदभावे राजानमनुज्ञाप्य कुर्यात् । ततस्तत्फलभाक् त्यात् ॥ १८ ॥
अतोऽन्यथा क्लेशभाक् स्यान्मृगव्याधनिदर्शनात् ।
इषवस्तस्य नश्यन्ति यो विद्धमनुविध्यति ॥ १९ ॥
अतोऽन्यथाननुज्ञाप्य कुर्वतःक्लेशमात्रं फलम् । मृगव्याधदृष्टान्तेन । यः पूर्वमन्येन विद्धं पश्चाद् विध्यति, इषवस्तस्य नश्यन्ति श्रमश्च व्यर्थः,
तथा व्यर्थं बन्धनं श्रमश्चार्थहानिश्च । अतो नैवं कर्तव्यम् । अत एव गम्यते न दण्ड्य इति ॥ १९ ॥
अशक्तप्रेतनष्टेषु क्षेत्रिकेष्वनिवारितः ।
क्षेत्रं चेद् विकृषेत् कश्चिदश्नुवीत स तत्फलम् ॥ २० ॥
क्षेत्रिकेष्वशक्तेषु(मृतेषु ) नष्टेषु वा राजकुलादिभयाद् ,अवृत्त्या वा केनचिदप्यनिवारितः कृषिकाले यः कृषेत् तस्य तत्फलं भवति । परक्षेत्रत्वेऽपि राज्ञश्चैवमर्थलाभःकुटुम्बवृद्धिश्च । अन्यथोभयं न स्यात् ॥ २० ॥
विकृष्यमाणे क्षेत्रे चेत् क्षेत्रिकः पुनराव्रजेत् ।
खिलोपचारं तत्सर्वं दत्त्वास्वं क्षेत्रमाप्नुयात् ॥ २१ ॥
विविधं कृष्यमाणे क्षेत्रे स्वाम्यागच्छेच्चेत्, खिलभङ्गादिव्ययं सर्वं दत्त्वा स्वं क्षेत्रं परिगृह्णीयात् । तदष्टभागोपचयादिः खिलभङ्गः ॥२१॥
तदष्टभागोपचयाद् यावत् सप्त समा गताः ।
सम्प्राप्ते त्वष्टमे वर्षे भुक्तं क्षेत्रं लभेत सः ॥ २२ ॥
खिलभङ्गं कृत्वा कृपति, यदि स्वाम्यागच्छेत् , तत्क्षेत्रमष्टभागोपचयादुपचितस्य अष्टभागादारभ्य द्वितीये द्वावष्टभागौ एवमुपचितादष्टभागादारभ्य सप्त समाः संवत्सरास्तुल्यमतीताः सप्तमे वर्षेऽष्टभागेन संप्राप्तेऽष्टमे वर्षे स्वं क्षेत्रं लभेत स्वामी ॥ २२ ॥
संवत्सरेणार्धखिलं खिलं स्याद् वत्सरैस्त्रिभिः ।
पञ्चवर्षावसन्नंतु स्यात् क्षेत्रमटवीसमम् ॥ २३ ॥
‘खिलोपचार’मित्युक्तं, तद् विशेष्यते । संवत्सरोत्सृष्टमकृष्टं कृप्यमाणमर्धखिलम् । तत्र चतुर्भागोपचयादारभ्य तृतीये पादोनं, चतुर्थे स्वं क्षेत्रमाप्नोति । खिलमित्युक्तं त्रिवर्षोत्सृष्टम् । तत्रोक्तो विधिः । पञ्चवर्षोत्सृष्टमटवीसमं राजाधीनं भवति । अटव्यां राजानमनुज्ञाप्य य आक्रामति तस्य तद् भवति ॥ २३ ॥
क्षेत्रं त्रिपुरुषं यत्र गृहंवा स्यात् क्रमागतम् ।
राजप्रसादादन्यत्र न तद्भोगः परं नयेत् ॥ २४ ॥
क्षेत्रं गृहं वा त्रिपुरुषं भुज्यमानं राजा प्रसन्नो यदि दद्यात्, न तत्र वक्तव्यम्, अन्यथा तस्य भोगः परस्य न दातव्यः । स एवोपचितदानेन भुञ्जीतेत्यर्थः ॥ २४ ॥
उत्क्रम्य तु वृतिं यत्र सस्यघातो गवादिभिः ।
पालो दण्ड्यो भवेत् तत्र स चेच्छक्तो न वारयेत् ॥ २५ ॥
वृतिमुत्क्रम्य गोमहिष्यादिभिः सस्यघाते पालः शासनीयः, शक्तः सन् न वारयेच्चेत् । उत्क्रम्येति वचनाद्वृत्यकरणे न दोषः । स चेच्छक्त इति वचनादशक्तौ न दोषः ॥ २५ ॥
समूलसस्यनाशे तु तत्स्वामी धान्यमाप्नुयात् ।
वधेन पालो मुच्येत दण्डं स्वामिनि पातयेत् ॥ २६ ॥
अशेषसस्यनाशे सर्वस्मिन् भक्षिते क्षेत्रस्वामी भक्षितं धान्यं लभेत गोस्वामिसकाशात् । ताडयित्वा पालो मोच्यः । दण्डं च राजकुले, गोस्वामी दाप्यः ॥ २६ ॥
गौः प्रसूता दशाहात् तु महोक्षाजाविकुञ्जराः ।
निवार्यास्तु प्रयत्नेन तेषां स्वामी न दण्डभाक् ॥ २७ ॥
गौः प्रसूता आ दशाहात्, महोक्षादयश्च प्रयत्नेन वारयितव्याः, न स्वामी दण्ड्यः । क्षेत्रं क्षेत्रिणा रक्ष्यम् ॥ २७ ॥
माषं गां दापयेद् दण्डं द्वौ माषौ महिषीं तथा ।
अजाविके च वत्से च दण्डः स्यादर्धमाषकः ॥ २८ ॥
गोनिमित्तं गोशब्देनोच्यते । माषो गवा भक्षिते दण्डः, क्षेत्रिकस्य धान्यदानं च । तथा द्वौ माषौ महिषीनिमित्ते । अजाविकवत्सेष्वर्धमाषः ॥ २८ ॥
अदण्ड्याहस्तिनोऽश्वाश्च प्रजापाला हि ते स्मृताः ।
अदण्ड्यागर्भिणी गौश्चसूतिका चातिसारिणी ॥ २९ ॥
हस्तिनोऽश्वाश्चादण्ड्याः, यतस्तैः प्रजाः पास्यन्ते । गौश्व गर्भिणी । सूतिका चा दशाहाद् वार्येत्युक्तम् । इह सूतिका तदहर्वार्यापि न364 वारिता च ॥ २९ ॥
प्रोक्तः स द्विगुणः सन्नेवसन्त्यां तु चतुर्गुणः ।
प्रत्यक्षचारकाणां तु चोरदण्डः स्मृतस्तथा ॥ ३० ॥
दण्ड इत्यनुवर्तते । प्रोक्तो दण्डो द्विगुणः ‘माषं गामि’त्युक्तः । प्रतिगवं द्विमाषः सस्यं भक्षयित्वा तत्रैव शयिते । तत्रैवोषितायां रात्रौ चतुर्गुणः माषचतुष्कम् ।भक्षणमात्रं तु प्रमादात् स्यात्, इतरयारेनादरभूयस्त्वाद् दण्डभूयस्त्वम् । अधिष्ठाय चारयतश्चोरदण्डः माषं च दाप्यः दण्डश्च भूया(त् ? न्) ॥ ३० ॥
या नष्टाः पालदोषेण गावः क्षेत्रसमाश्रिताः ।
न तत्र गोमिनो दण्डः पालस्तद्दण्डमर्हति ॥ ३१ ॥
पालप्रमादात् क्षेत्रं प्रविश्य नष्टा गावः विनाशयेयुः, न तत्र गोमी दण्ड्यः, पाल एव दण्ड्यः। भक्षितं च दाप्यः ।प्रमादपरिहारार्थो दण्डः ॥ ३१ ॥
राजग्राहगृहीतो वा वज्राशनिहतोऽपि वा ।
अथ सर्पेण वा दष्टो गिर्यग्रात् पतितोऽपि वा ॥ ३२ ॥
न तत्र पालदोषः स्यान्नैष दोषोऽस्ति गोमिनाम् ।
** ** ‘पालो दण्ड्य’ इत्युक्तम् । तस्यापवादः । राजग्राहगृहीतो वा पाठः, बज्रपीडितो वा स्तनयित्नुशब्देन मोहितः, अशनिपीडितो दिव्येनाग्निना हतः, सर्पेण वा दष्टः, पर्वताग्राद् ‘वृक्षा (ग्रा)दि’त्यन्यः पाठः पतितो भग्नः, एतैः कारणैरप्रत्यवेक्षिता गावो भक्षयेयुः, न तत्र पालदोषः नापि गोमिनः, पाले समर्पितत्वात् पालदोषस्यापरिज्ञानाच्चपालेऽप्यस्वतन्त्रत्वात् ॥ ३२॥
गोभिस्तु भक्षितं धान्यं यो नरः प्रतिमार्गति ॥ ३३ ॥
सामन्तस्य शदो देयो धान्यं यत् तत्र वापितम् ।
गवत्रं गोमिने देयं धान्यं तत्कृषकस्य तु ॥ ३४ ॥
गोभिर्भक्षितं क्षेत्रिको यदि मार्गति नयमार्गप्राप्तमिति365 च ज्ञापयति, समीपक्षेत्रस्य तत्परिमाणस्य निष्पन्नं फलं देयम् । यदि शालयः यदि गोधूमयवादयस्तस्मिन् क्षेत्रे वापिताः, प्रतिवेशधान्यक्षेत्रफलं देयं गोभिना । गवत्र
तुषदुसपलालादिकं गोमिनां देयम्, फलेन क्रीतत्वात्, सस्यं क्षेत्रिकेण गोमिना च धान्यं क्षेत्रिकस्य देयमेव ॥ ३३, ३४ ॥
ग्रामोपान्ते च यत् क्षेत्रं विवीतान्ते महापथे ।
अनावृतं चेत् तन्नाशे न गोपस्य व्यतिक्रमः ॥ ३५ ॥
ग्रामसमीपे विवीतसमीपे च । राजकुलरक्षिताटवी विवीतम् । महामार्गे च यत् क्षेत्रम् । वृतिश्चेत् तत्र न कृता, न गोपो दण्ड्यः, न स्वामी । वृतेरकरणात् क्षेत्रिकस्यैव दोषः ॥ ३५ ॥
पथिक्षेत्रे वृतिः कार्या यामुष्ट्रोनावलोकयेत् ।
न लङ्घयेत् पशुर्नाश्वो न भिन्द्याद् यांच सूकरः ॥ ३६ ॥
वृतेरकरणे नास्ति पालदोष इत्युक्तम् । सा वृतिर्विशेष्यते । पथिक्षेत्रे ईदृशी वृतिः कार्या, उच्चैस्त्वे366न यामुष्ट्रोनावलोकयेत् अतीत्य, पशुर्वाश्वो वा न भङ्क्त्वा लङ्घयेत् । पशुर्मृगादिः । दृढत्वाच्च सूकरो यां न भिन्द्यात् । अतोऽन्यादृशी वृतिः स्याच्चे367त् तां भङ्क्त्वा लङ्घयित्वा वा सस्यभक्षणे न पालगोमिनौ दण्ड्यौ ॥३६॥
खातखातस्य केदारमाहुः शल्यवतो मृगम् ।
इषवस्तस्य नश्यन्ति यो विद्धमनुविध्यति ॥ ३७ ॥
क्षेत्रिकेण वृतिः कार्येत्युक्तम् । स क्षेत्रिको विशेष्यते । खिलभङ्गस्य भूमिं प्रसाधितवतः केदारमाहुः । योऽन्यस्तत्र कर्षति स तत्फलं न लभते । क्षयव्ययाभ्यां च युज्यते । यथा शल्यवतः प्रथमं व्यद्धुर्मृगमाहुः ,पश्चाद् विध्यत इषुनाशः श्रमयोगश्च तथेति ॥ ३७ ॥
अशक्तप्रेतनष्टेषु क्षेत्रिकेष्वनिवारितः ।
विकृष्यमाणे क्षेत्रे चेत् क्षेत्रिकः पुनराव्रजेत् ॥ ३८ ॥
बीजापचारं तत् सर्वं दत्त्वास्वं क्षेत्रमाप्नुयात् ।
व्याख्यातमेतत् पूर्वम् । अयं तु विशेषः— तत्र खिलविषयं खिलभङ्गनिमित्तक्षयं दत्त्वेत्युक्तम्। । इह कृष्यमाणविषयं बीजाद्युपक्षयं दत्त्वेति ॥ ३८ १/२॥
गृहं क्षेत्रं च विज्ञेयं वासहेतुः कुटुम्बिनाम् ॥ ३९ ॥
वृद्धे जनपदे राज्ञो धर्मः कोशश्च वर्धते ।
हीयते हीयमाने तु वृद्धिहेतुमतः श्रयेत् ॥ ४० ॥
बीजादि दत्त्वा स्वमाप्नुयादित्युक्तं, तत्र कारणमाह — गृहं क्षेत्रं च कुटुम्बिनां वासहेतुर्यस्मात् ,तस्मात् स्वमाप्नुयात् । इतरस्यापि बीजाद्युपयुक्तं दद्यात् । एवमुभयोरनुग्रहाज्जनपदस्य वृद्धिर्भवति । ततश्च वृद्धे जनपदे राज्ञः कोशो वर्धते । कोशवृद्धौ च सम्यक्परिपालनार्जितेन कोशेन धर्मवृद्धिर्भवति । हीयते तदुभयं हीयमाने जनपदे । ततश्च राज्याद् भ्रश्यते । अतो जनपदवृद्धिहेतुं सम्यक् कुटुम्बिनामनुग्रहमाश्रयेत् । अतः कर्षकक्षेत्रिकयोरनुग्रहार्थं यथोक्तं कुर्यादिति ॥ ३९, ४० ॥
इति क्षेत्रविवाद एकादशं विवादपदम् ॥
____
अथ स्त्रीपुंसयोगो द्वादशं विवादपदम् ।
विवाहादिविधिः स्त्रीणां यत्र पुंसां च कीर्त्यते ।
स्त्रीपुंसयोगसंज्ञं तु विवादपदमुच्यते ॥ १ ॥
विवाहसंस्कारविवाह्याविवाह्यविवाहस्वरूपपरिगणनशुल्कादिविभागाः स्त्रीपुंसां यस्मिन् कीर्त्यन्ते स्त्रीपुंसयोग इत्येवंसंज्ञकं तद् विवादपदं द्वादशं, वर्तयिष्याम इति शेषः ॥ १ ॥
स्त्रीपुंसयोस्तु सम्बन्धाद् वरणं प्राग् विधीयते ।
वरणाद् ग्रहणं पाणेः संस्कारोऽथ द्विलक्षणः ॥ २ ॥
‘संयोगाद् वरणं प्रागि’ति या पाठः । परस्परसम्बन्धात् पूर्वं वरणं, तदनन्तरं पाणिग्रहणम् । एष एव संस्कारो द्विविधो वरणपाणिग्रहणलक्षणः ॥ २ ॥
तयोरनियतं प्रोक्तं वरणं दोषदर्शनाद् ।
पाणिग्रहणमन्त्राभ्यां नियतं दारलक्षणम् ॥ ३ ॥
‘पाणिग्राहणिका मन्त्रा नियता’ इत्यन्यः पाठः । तयोर्लक्षणयोर्वरणमनियतं दारलक्षणं, न नियोगतस्तस्यैव दारा भवन्ति । दोषदर्शनाद्, अन्योन्यानिच्छया च निवर्तते । पाणिग्रहणेन च मन्त्रेण च यः संस्कारः,तन्नियतं दारलक्षणम् । न तस्य (नि)वृत्तिरस्ति । पूर्वस्मिन्निच्छातो दोषेण वा निवृत्तौ नास्ति दण्डः । उत्तरस्मिन् आमरणान्नास्ति त्यागः । अकारणेन त्यजन् दण्ड्यः॥ ३ ॥
ब्राह्मणक्षत्रियविशां शूद्राणां च परिग्रहे ।
स्वजात्या श्रेयसी भार्या स्वजात्यश्चपतिः स्त्रियाः ॥ ४ ॥
ब्राह्मणादीनां चतुर्णां दारपरिग्रहे स्वजातीया ब्राह्मणस्य ब्राह्मणी क्षत्रियस्य क्षत्रियेत्यादि । प्रशस्यतरा । एष प्रथमः कल्प इति प्रकर्षप्रत्ययाद् गम्यते । अस्मादेवेतरा अपि भवन्तीति गम्यते । स्वजातीयश्च पतिः स्त्रियाः श्रेयानिति, स्वजात्यालाभे अन्यस्मै देयेति ॥ ४ ॥
ब्राह्मणस्यानुलोम्येन स्त्रियोऽन्यास्तित्र एव तु ।
शूद्रायाः प्रातिलोम्येन तथान्ये पतयस्त्रयः ॥ ५ ॥
** **ब्राह्मणस्यानुलोम्येनानुक्रमेणान्याः ब्राह्मणी(मन्तरा) क्षत्रिया वैश्या शूद्रा चेति तिस्रः स्त्रियः। अनुकल्पोऽयं प्रकर्षप्रत्ययात् पूर्वश्लोके, ‘कामतस्तु प्रवृत्तानामि’ति संहितान्तरे वचनाच्च । तथा शूद्रायाः प्रातिलोम्येनानुक्रमेण शूद्राभावे वैश्यः, ततः क्षत्रियः, ततो ब्राह्मणो भवति । एवं शूद्रादन्ये त्रयः पतयः सम्भवन्ति । शूद्रा ब्राह्मणश्च प368तिदाराभ्यां तु369 (ल्यौ) ब्राह्मणस्य चतस्रः शूद्रायाश्चत्वार इति ॥ ५ ॥
द्वे भार्येक्षत्रियस्यान्ये वैश्यस्यैका प्रकीर्तिता ।
वैश्याया द्वौपती अन्या एकोऽन्यः क्षत्रियापतिः ॥
द्वे क्षत्रियस्यान्ये क्षत्रियायाः, वैश्या शूद्रा च ।वैश्यस्यैकान्या वैश्यायाः , शूद्रा । क्षत्रियाया वक्तव्ये वैश्योक्ता चतुष्कादिक्रमादैक्यानुग्रहार्थम् । वैश्याया द्वाबन्यौ वैश्यात्, क्षत्रियो ब्राह्मणश्च । क्षत्रियाया अन्यः क्षत्रियादेको
बाह्मणः।क्षत्रियो वैश्या चतुल्यौ तिस्रस्त्रयश्च ।वैश्यः क्षत्रिया च तुल्यौ पतिदाराभ्यां द्वे द्वाविति ॥ ६ ॥
आ सप्तमात् पञ्चमाच्चबन्धुभ्यः पितृमातृतः ।
अविवाह्याः सगोत्राः स्युः समानप्रवरास्तथा ॥ ७ ॥
आङ् मर्यादायामिति केचित् । अभिविधावित्यन्ये, ‘ऊर्ध्वं सप्तमात् पितृबन्धुभ्य’ इत्यन्यत्र दर्शनात् । ‘प्राक् सप्तमादि’त्यप्रत्यक्षत्वात् । आ पञ्चमान्मातृबन्धुभ्य इति चाभिविधिरेव, न विवाहमर्हन्ति पितृष्वस्रादिसम्बद्धाः मातामहमातुलादिसम्बद्धाश्च । सगो(त्रा ? त्र) तुल्यास्ते समानप्रवराश्चेत्यन्ये । सगोत्रा असमानप्रवरा द्रष्टव्या अस्मिन् व्याख्याने ॥ ७ ॥
परीक्ष्य पुरुषं पुंस्त्वे निजैरेवाङ्गलक्षणैः ।
पुमांश्चेदविकल्पेन स कन्यां लब्धुमर्हति ॥ ८ ॥
विचार्य पुरुषं पुंस्त्वे,दुर्ज्ञानत्वात् पुंस्त्वस्य । निजैरेवाजलक्षणैर्वक्ष्यमाणैः । कुलाद्यभिमतश्चेत् पुंस्त्वलक्षणयुक्तः कन्यां लभेत ॥ ८ ॥
सुबद्धजत्रुजान्वस्थिसुबद्धांसशिरोधरः ।
स्थूलघाटातनूजत्वगविलग्नगतिस्वरः ॥ ९ ॥
विद् चास्य प्लवते नाप्सु रावि मूत्रं च फेनिलम् ।
पुमान् स्याल्लक्षणैरेतैर्विपरीतस्तु षण्डकः ॥ १० ॥
** ** सुबद्धं सुदृढं जत्रु जान्वस्थि च ।सुबद्धांसशिरोधरः। अ370धस्तादस्थि जानु जङ्घेति। अन्येषां सर्वास्थीनि च दृढानि ।अंसौ बाहू ग्रीवा च । तथा विस्तीर्णा घाटा ललाटस्योपर्युभयतो रोमाणि, त्वक् च स्थूला । अविलग्नगतिस्वरः अविच्छिन्नाविलम्बितगतिस्वरः । पुरीषं चाप्सु न प्लवते । शब्दवत् फेनवश्च मूत्रम् । एतैर्लक्षणैर्युक्तः पुमान् । अतो विपरीतैर्नपुंसकः । नपुंसकाय दत्तामध्यददतो नास्ति दोषः ॥९,१०॥
चतुर्दशविधः शास्त्रे स तु दृष्टो मनीषिभिः ।
चिकित्स्यश्चाचिकित्स्यश्च तेषामुक्तो विधिः क्रमात् ॥११॥
स तु पण्डकश्चतुर्दशप्रकार उक्तः शास्त्रे मेधाविभिर्दत्तात्रेयप्रभृतिभिः।
इह चिकित्सार्हाश्चेत (राश्च ? रेच) तेषामुक्तो विधिः क्रमात्, तं वक्ष्यामीति शेषः । वैद्यके चायं चिकित्स्योऽयमचिकित्स्य इत्युक्तम् ॥ ११ ॥
निसर्गपण्डो वध्रश्च पक्षपण्डस्तथैव च ।
अभिशापाद् गुरो रोगाद् देवक्रोधात् तथैव च ॥ १२ ॥
ईर्ष्यापण्डश्च सेव्यश्च वातरेता मुखेभगः ।
आक्षिप्तमोघबीजश्व शालीनोऽन्यपतिस्तथा ॥ १३ ॥
उत्पत्तित एव पण्डो निसर्गपण्डः ।वध्रःशयितमुष्कः।पक्षपण्डः पक्षे समागमसमर्थः । गुरुशापादुपहतपुंस्त्वः । तथा रोगाद् देवतापराधाच्च । ईर्ष्यापण्डः, परपुरुषेण संबध्यमानां दृष्ट्वा पुंस्त्वमुपजायते । सेव्यः, पुरुषेण सेव्यमानस्योपजायते । वातरेताः, वातेनोह्यते योनन सिच्यते शुक्लम् । मुखेभगः, मुखग्रहणं प्रदर्शनार्थम् । भगादन्यत्र भगकार्यं भवति । पुंस्त्वं न भग इति केचित् । केचिदन्यत्र क्षतयोन्या अपीति दुर्गम् । अन्ये परेण स्वमुखे क्रियमाणे पुंस्त्वमुपजायते स मुखभग इति । आक्षिप्तबीजः, रतिर्भवति संयोगाद्, रतिकाले शुक्लं नास्ति ।मोघबीजः, भवति तु शुक्लं, न भवत्यपत्यम् । चतुर्ष्वप्येतेष्वीर्ष्वाषण्डादिषु क्षतयोनित्वं यथा सम्भवति तथा व्याख्येयं, ‘क्षतबोन्या अपी’ति वचनात् । शालीनोऽधृष्टः, स्त्रियं दृष्ट्वा लज्जया न प्रहृष्यति । अन्यपतिः, अन्यस्यां भवति पुंस्त्वं, न स्वभार्यायाम् ॥ १२,१३ ॥
तत्राद्यावप्रतीकारौपक्षाख्यं मासमाचरेत् ।
अनुक्रमत्रयस्यास्य कालः संवत्सरः स्मृतः ॥ १४ ॥
तत्रेति निर्धारणसप्तमी । आद्यौनिसर्गषण्डवध्रौअप्रतीकारौ त्यक्तव्यावेवनिर्वृत्तेऽपि पाणिग्रहणे । ‘पाणिग्रहणमन्त्राभ्यां नियतं दारलक्षणमि’त्यस्यापवादोऽयम् । य एवंविधोऽनाख्याय वरयति, पा371णिंवा गृह्णाति, यश्च ज्ञात्वा ददाति स राज्ञा दण्ड्यः ।पक्षपण्डस्तु मासमाचरेत् । ततो ज्ञात्वा पक्षादूर्ध्वमपुंस्त्वे त्याज्यः । दण्ण्यस्त्वनाख्यानात् । अनुक्रमादनन्तरस्य त्रयस्य गुरुरोगदेवतानिमित्तषण्डश्चसंवत्सर उदीक्ष्यः, ऊर्ध्वं तु त्यागः, नात्र दण्डः । एतावताः कालेनाप्रतिविहितमप्रतिविधेयमेतद् भवति ॥१४॥
ईर्ष्याषण्डादयो येऽन्ये चत्वारः समुदाहृताः ।
सन्त्यक्तव्याः पतितवत् क्षतयोन्या अपि स्त्रियाः ॥ १५ ॥
‘स्रिये’ति वा पाठः । ईर्ष्याषण्डसेव्यवातरेतोमुखेभगाश्चत्वारः सम्यगनवे(क्ष्याः? क्ष्य) त्याज्या एव पतितवत् । अकार्यकारित्वात् पतिता एव ते । क्षतयोन्या अपि, किमुताक्षतयोन्या वरणपाणिग्रहणमात्रेण ॥ १५ ॥
आक्षिप्तमोघबीजौ च पत्यावप्रतिकर्मणि ।
पतिरन्यः स्मृतो नार्या वत्सरं सम्प्रतीक्ष्य तु ॥ १६ ॥
‘वत्सरार्धं परीक्ष्य तु’ इत्यन्यः पाठः । आक्षिप्तबीजो मोघबीजश्चयौ, तौ संवत्सरं परीक्ष्य सर्वथा तथाभावे पत्यौप्रतिक्रियामकुर्वति पतिरन्यो ग्राह्यः। प्रतिकर्मकरणे यावदेकान्तज्ञानं तावत् प्रतीक्ष्यः ॥ १६ ॥
शालीनस्यापि धृष्टस्त्रीसंयोगाद् भज्यते ध्वजः ।
तं हीनवेषमत्तस्त्रीबालान्धामिरुपक्रमेत् ॥ १७ ॥
शालीनस्यापि प्रगल्भस्त्रीसन्निधौ नोत्तिष्ठति ध्वनः । उत्थितोऽपि भज्यते । तं हीनवेषाभिरनुज्ज्वलाभिः । तत्र परिभवान्न लज्जा भवति । तथा मत्ताभिर्बालाभिरन्धाभिरपि अन्धकारादावुपक्रमः । तथापगतशालीनभावः स्वभार्यायां रसज्ञः संप्रवर्तिष्यते ॥ १७ ॥
अन्यस्यां यो मनुष्यः स्यादमनुष्यः स्वयोषिति ।
लभेत सान्यं भर्तारमेतत् कार्यं प्रजापतेः ॥ १८ ॥
अन्यस्यां स्त्रियां मनुष्यः स्वभार्यायां षण्डः अन्यपतिरित्युक्तः, तं परित्यज्य ततोऽन्यं भर्तारं लभेत सा । राज्ञ एतत् कार्यम् । एष वादः सर्वशेषः ॥ १८ ॥
अपत्यार्थं स्त्रियः सृष्टाः स्त्री क्षेत्रं बीजिनः प्रजाः ।
क्षेत्रं बीजवते देयं नाबीजी क्षेत्रमर्हति ॥ १९ ॥
अपत्यार्थं स्त्रिय उत्पादिताः । तदुभयोरपतनं करोति । बीजिनः क्षेत्रस्थानीया स्त्री । तत उभयसम्पत्तौ प्रजाः सस्यवदेव । तस्मात् क्षेत्रं बीजवते देयं, ततश्च सस्यनिर्वृत्तिः । अबीजी क्षेत्रेण किं करिष्यति । तत्र क्षेत्रस्य समर्थस्यापि नागः । तस्मात् परीक्ष्य पुरुषाय देया ॥ १९ ॥
पिता दद्यात् स्वयं कन्यां भ्राता वानुमते पितुः ।
मातामहो मातुलश्चसकुल्या बान्धवास्तथा ॥ २० ॥
पिता दद्यात् कन्यां स्वयम् ।स्वयंग्रहणमन्यनिरपेक्षप्रामाण्यार्थम्। पित्रा अनुज्ञातो भ्राता वा, पितुरभावे मात्रा372वा । तदभावे मातामहः, ततो मातुलः, ततः सकुल्याः सपिण्डाः, ततो बान्धवाः सम्बन्धिनः ॥ २० ॥
माताभावे तु सर्वेषां प्रकृतौ यदि वर्तते ।
तस्यामप्रकृतिस्थायां दद्युः कन्यां सजातयः ॥ २१ ॥
यथोक्तसर्वाभावे माता दद्याद् यदि प्रकृतिस्था वृत्तस्था पतितल्पमुपास्ते चेत् । तस्यां चासत्यामवृत्तस्थायां च समानजातीयां ब्राह्मणकन्यां ब्राह्मणः । एवमितरा अपीतरे ॥ २१ ॥
यदा तु नैव कश्चित् स्यात् कन्या राजानमाव्रजेत् ।
अनुज्ञया वरं तस्य प्रतीत्य वरयेत् स्वयम् ॥ २२ ॥
यदा तु नैव कश्चित् स्याद् दातोक्तानां मध्ये, सा राजानमाव्रजेद् देहि मां कस्मैचिदिति । तदनुज्ञया अभीष्टमनुरूपमावेद्य राज्ञे स्वयं प्रतीत्य वरं वरयेत् ॥ २२ ॥
सवर्णमनुरूपं च कुलरूपवयःश्रुतैः ।
सह धर्मं चरेत् तेन पुत्रांश्चोत्पादयेत् ततः ॥ २३ ॥
सवर्णं समानंजातीयम् । कुलादिभिर्युक्तम् । सवर्णमित्येवं गते सवर्णं स्वयं वरयन्ती रूपादियुक्तमेव वरयति न विरूपादिकमित्येतत् प्रयोजनं, सवर्णमपि कुलादियुक्तम् । सर्वे कुलयुक्ता एव, प्रकर्षार्थमुक्तमिमे कुलजा इति । तेन सह धर्मं गृहस्थानां चरेत् । धर्मे चार्थे च कामे च नातिचरेत् । तत एव पुत्रानुत्पादयेत् । तत इत्यवक्तव्ये वचनप्रयोजनं तस्यासामर्थ्ये तदनुज्ञया क्षेत्रजोत्पादनार्थम् । तद्धि तत एवोत्पन्नमपत्यं भवति ॥ २३ ॥
प्रतिगृह्य च यः कन्यां नरो देशान्तरं व्रजेत् ।
त्रीनृतून समतिक्रम्य कन्यान्यं वरयेद् वरम् ॥ २४ ॥
कन्याग्रहणं प्राप्तवरार्थं, न बालां प्रतिगृह्येति वरणमात्रार्थं, न पाणिगृहीताम् । तथाभूतां प्रतिगृह्यापरिणीय देशान्तरं गच्छेत्, सा त्रीनृतूनतिक्रम्य देया ।दातुरभावेऽदाने वा स्वयं वरयेत् । न तत्र वाग्दोषः ॥ २४ ॥
कन्या नर्तुमुपेक्षेत बान्धवेभ्यो निवेदयेत् ।
ते चेन्न दद्युस्तां भर्त्रे ते स्युर्भ्रूणहभिः समाः ॥ २५ ॥
ऋतुं कन्या नोपेक्षेत न गूहेत्,स्वजनेभ्य आख्यापयेत् । उपेक्षायां तस्या एव दोषः । ते तु श्रुत्वा भर्त्रे न चेद् दद्युभ्रूणहभिस्तुल्याः, याप्या दण्डयाश्च ॥ २५ ॥
यावन्तश्चर्तवस्तस्याः समतीता विना पतिम् ।
तावत्यो भ्रूणहत्याः स्युस्तस्य यो न ददाति ताम् ॥ २६ ॥
कन्यायां प्राप्तवरायामदीयमानायां न केवलं भ्रूणहभिः समाः, यावन्तश्चर्तवस्तस्या विना भर्त्राति (क्र? क्रा) मेयुस्तावत्यो भ्रूणहत्या भवेयुः, यस्तां योग्याय न ददाति । तस्मादवश्यं देयेत्येतत् प्रतिपाद्यतेऽदानस्य निन्दया ॥ २६ ॥
अतोऽप्रवृत्ते रजसि कन्यां दद्यात् पिता सकृत् ।
महदेनः स्पृशेदेनमन्यथैष विधिः सताम् ॥ २७ ॥
अत एवाप्रवृत्ते रजसि ऋतावप्रवृत्त एवप्रसङ्गावस्थायामेव नग्निकां पिता सकृदेव दद्यात् । वाचा दाने प्रवृत्ते पुनरप्रसङ्गार्थं सकृदित्युक्तम् ।अदाने प्रागृतोर्महानधर्मः पितुर्भवेत् । अत एनो मा स्प्राक्षीदिति नग्निकामेव दद्यादित्येष विधिः साधूनाम् । एष साध्वाचार इति प्ररोचना ॥ २७ ॥
सकृदंशो निपतति सकृत् कन्या प्रदीयते ।
सकृदाह ददानीति त्रीण्येतानि सकृत् सकृत् ॥ २८ ॥
सकृतक्रियैवैतेषाम्, अन्यथा दण्ड इत्येवमर्थ उपदेशः । प्रसङ्गेनान्यदाह \। यथांशदाने सकृद् एवं कन्यादानमपीति विभागः । सकृत्, (न) पुनः373 पुनः । कन्यादानस्य पृथगुक्तत्वात् नान्यबिषयं दानम् । सकृदेव स्वत्वस्य निवृत्तत्वात् पुनः किं दास्यति । स्वत्वनिवृत्तिपरस्वत्वापादने हि दानम् । एवं कन्यायाः ॥ २८ ॥
ब्राह्मादिषु विवाहेषु पञ्चस्वेष विधिः स्मृतः ।
गुणापेक्षं भवेद् दानमासुरादिषु च त्रिषु ॥ २९ ॥
ब्राह्मप्राजापत्यार्षदैवगान्धर्वेषु पञ्चस्वेष विधिरनुक्रान्तः ‘सकृत् कन्या प्रदीयत’ इत्यादि, ‘कन्यां दद्यात् पिता सकृदि’ति । आसुरराक्षसपैशाचेषु त्रिषु गुणापेक्षम् । सकृद् दास्यामीत्युक्त्वापि गुणवत्तराय दाने न दोषः शुल्कभूयस्त्वे वा प्रमथ्यहृते वा, पैशाचेऽपि तथेति । ‘पञ्चस्वपि विधिः स्मृतः’, ‘आसुरादिषु न त्रिष्वि’ति पाठे पञ्चस्वपि गुणापेक्षं दानं, नेतरेषु त्रिषु, तत्र धनाद्यपेक्षम् । गान्धर्वेऽपि अन्यो374न्येच्छामात्रेण यथोक्तगुणापेक्षमेव ॥ २९ ॥
कन्यायां प्राप्तशुल्कायां ज्यायांश्चेद् वर आव्रजेत् ।
धर्मार्थकामसंयुक्तं वाच्यं तत्रानृतं भवेत् ॥ ३० ॥
कन्यायां प्राप्तशुल्कायां शुल्कग्रहणकाले प्रशस्यतरः प्रार्थनीयो यद्यागच्छेत्, तत्र धर्मादियुक्तं शीलवती कुलरूपवती चेत्याद्यनृतमपि प्रयोजनार्थं वक्तव्यम् ।नात्रानृतवचने दो375षः । अन्य आह — गृहीतशुल्कायां प्रशस्यतरो यद्यन्य आगच्छेत् तत्र ध376र्मादियुक्तमविधेया अविनेया अतिविरूपा च तस्मात् तव न ददामीति शुल्कप्रदाने नास्त्यनृतदोष इति ॥ ३० ॥
नादुष्टां दूषयेत् कन्यां नादुष्टं दूषयेद् वरम्377 ।
दोषे तु सति नागः स्यादन्योन्यं त्यजतोस्तयोः ॥ ३१ ॥
दत्तां प्रतिगृहीतां वादुष्टां वरो न दूषयेद् न त्यजेद् दोषवतीति । न चादुष्टं पुरुषं दोषरहितं वरं दोषवानिति त्यजेत् । दोषे सति त्यजतोरन्योन्यं नापराधः दृष्टे राजकुलादावदृष्टे च ॥ ३१ ॥
दत्त्वा न्यायेन यः कन्यां वराय न ददाति ताम् ।
अदुष्टश्चेद्वरो राज्ञा स दण्ड्यस्तत्र चोरवत् ॥ ३२ ॥
दत्त्वा शुल्कादिना न्यायेन साक्षिमध्ये यो न ददाति अदुष्टाय,स दण्ड्यश्चोरवद् राज्ञा ॥ ३२ ॥
यस्तु दोषवतींकन्यामनाख्याय प्रयच्छति ।
तस्य कुर्यान्नृपो दण्डं पूर्वसाहसचोदितम् ॥ ३३ ॥
यो दोषवतीं, दोषा वक्ष्यमाणा “दीर्घकुत्सितरोगार्ता” इत्याद्याः378, ताननाख्याय ददाति, आख्याय दाने न दोषः,तस्य पूर्वसाहसो दण्डः ॥ ३३ ॥
अकन्येति तु यः कन्यां ब्रूयाद् द्वे379षेण मानवः ।
स शतं प्राप्नुयाद् दण्डं तस्या दोषमदर्शयन् ॥ ३४ ॥
पुरुषेण सम्बद्धेयं, न कन्येति प्रतिगृह्य कन्याद्वेषेण यो ब्रवीति स शतं दण्ड्यः, यदि कन्यादोषं न दर्शयति । अथ विभावयति, न दण्ड्यस्त्यजन्नपि ॥ ३४ ॥
प्रतिगृह्य तु यः कन्यामदुष्टामुत्सृजेद् वरः ।
विनेयः सोऽप्यकामोऽपि कन्यां तामेव चोद्वहेत् ॥ ३५ ॥
अदुष्टामविभावितदोषां प्रतिगृह्य य उत्सृजेद् वरः, सोऽपि विनेयः । विनयस्यावचनात् सोऽपीत्यपिशब्दात् पूर्वोक्तशतमेवेति गम्यते । अनिच्छन्नपि तामेव कन्यामुद्वहेत् तामुद्वहेदेवेत्यर्थः अनियतदे380शत्वाञ्च381दीयमानां382, नान्योद्वाहप्रतिषेधः, तामुत्स्रष्टुं न ल383भत इति ॥ ३५ ॥
दीर्घकुत्सितरोगार्ता व्यङ्गाः संस्पृष्टमैथुनाः ।
धृष्टान्यगतभावाश्च384कन्यादोषाः प्रकीर्तिताः ॥ ३६ ॥
‘यस्तु दोषवती कन्याम्’ ‘अदर्शयन्नि’ति चोक्तम् । ते दोषा उच्यन्ते । दीर्घरोगाः शूलार्शआदियुक्ताः । कुत्सितरोगाः कुष्ठादियुक्ताः । आर्ता राजग्राहादिदारिद्र्यादियुक्ताः, एताभ्यां वार्ताः । व्यङ्गा विकलाङ्गाः । संस्पृष्टमैथुना भुक्तपूर्वाः । धृष्टाश्चान्यगतभावाश्च धृष्टान्यगतभावाः । धृष्टा निर्लज्जाः कार्याकार्येषु प्रसह्य वर्तन्ते । अन्यगतभावा अन्यकामाः । यथा कन्यादोषाः, एते प्रदर्शनमात्रम् । अन्येऽपि प्रसिद्धा द्रष्टव्याः । दोषवतीरुक्त्वा एते दोषा इति ब्रवीति, तत्रार्थाद् यत्सम्बन्धाद् दोषवत्यस्तास्ते दोषा इत्युक्तं भवति । धर्मिणा धर्माख्यानं दृष्टम् । तद् यथा —गोत्वे385किं लक्षणमिति पृष्टे विषाणी ककुद्मान् प्रान्तेवालधिः सास्नावानिति गोत्वे लिङ्गमिति, एवमिहापि दीर्घरोगादयो दोषा इत्युक्तं भवति ॥ ३६ ॥
उन्मत्तपतितक्लीबदुर्भगत्यक्तबान्धवाः ।
कन्यादोषौ च यौ पूर्वावेष दोषगणो वरे ॥ ३७ ॥
‘नादुष्टं दूषयेद् वरम्’ ‘दुष्टश्चेन्न वर’ इति चोक्तम् । दोषा उच्यन्ते उन्मत्तः
“पञ्चोन्मादाः समाख्याता वातपित्तकफोद्भवाः ।
चतुर्थो धननाशेन सन्निपातेन पञ्चमः ॥”
इति । पतितः सुवर्णस्तेयादिमहापातकोपपातककृत् । क्लीबः उपहतपुंस्त्वः । दुर्भगः सर्वद्वेष्यः । त्यक्तबान्धवो बान्धवैस्त्यक्तः । पूर्वौ च कन्यादोषौ दीर्घरोगः कुत्सितरोगश्च । एष दोषगणो वरविषयः । धर्मिणा धर्मनिर्देशः पूर्ववत् ॥ ३७ ॥
अष्टौ विवाहा वर्णानां संस्काराख्याः प्रकीर्तिताः ।
ब्राह्मस्तु प्रथमस्तेषां प्राजापत्यस्तथैव च ॥ ३८ ॥
आर्षश्चैवाथ दैवश्च गान्धर्वोऽथासुरस्तथा ।
राक्षसोऽनन्तरस्तस्मात् पैशाचश्चाष्टमोऽधमः ॥ ३९ ॥
सङ्ख्याग्रहणं परिगणनार्थं वर्णानां सम्भवतः । संस्काराख्याः उपनयनस्थानीयाः । शेषो गतार्थः ॥ ३८,३९ ॥
सत्कृत्याहूय कन्यां तु ब्राह्मो दद्यात् स्वलङ्कृताम् ।
सह धर्मं चरेत्युक्त्वा प्राजापत्यो विधीयते ॥ ४० ॥
अष्टानां लक्षणमुच्यते । सत्कृत्य पूजयित्वा आहूय वरं तस्मै कन्यां दद्यात्, एष ब्राह्मः । आहूय कन्यादानमात्रम् ।यथाविभवमलङ्कृता । सह पत्या धर्मं चरेत्युक्त्वा दद्यादित्येवमेष प्राजापत्यः ॥ ४० ॥
वस्त्रगोमिथुने दत्त्वा विवाहस्त्वार्ष उच्यते ।
अन्तर्वेद्यां तु दैवः स्यादृत्विजे कर्म कुर्वते ॥ ४१ ॥
वस्त्रयुगं च गोयुगं च दत्त्वा विवाहः । विवाहयेदिति त्वाप्रत्ययोपपत्तिः । एष आर्षः । अन्तर्वेद्यां तु यज्ञमध्ये ऋत्विजे कर्म कुर्बते, अलङ्कृत्येत्यादि सर्वत्र तुल्यं, दचात् स दैवः ॥ ४१ ॥
इच्छन्तीमिच्छते प्रादुर्गान्धर्वो नाम पञ्चमः ।
विवाहस्त्वासुरो ज्ञेयः शुल्कसंव्यवहारतः ॥ ४२ ॥
कामयमानां कामयमानाय दद्याद्, गान्धर्वो नाम सः । आसुरः शुल्कपणापणपरिच्छेदेन द्रव्यं गृहीत्वा दानमासुरः । दैवे तु गृहीत्वा द्रव्यं पिता तस्या एव दद्यात्, अपत्यविक्रयप्रतिषेधात् । इह तु विक्रय एव ॥ ४२ ॥
प्रसह्यहरणादुक्तो विवाहो राक्षसः स्मृतः ।
सुप्तमत्तोपगमनात् पैशाचश्चाष्टमोऽधमः ॥ ४३ ॥
प्रसह्यप्रमथ्य हरणाद् राक्षसः ।सुप्तां मत्तां वोपगच्छति, स पैशाचः । अधमः पापः सर्वेभ्यः ॥ ४३ ॥
एषां तु धर्म्याश्चत्वारो ब्राह्माद्याः समुदाहृताः ।
साधारणः स्याद् गान्धर्वस्त्रयोऽधर्म्यास्त्व386तः परे ॥ ४४ ॥
एषामष्टानां मध्ये चत्वारो धर्म्याः ब्राह्मप्राजापत्यार्षदैवाः । साधारणो गान्धर्वः न धर्म्योनाप्यधर्म्यः । अतः परे त्रयोऽप्यधर्म्याः, क्रयादपहरणादज्ञातसङ्गमाच्च। एषां विस्तरो दानापत्यफलं च भृगुसंहितायां व्याख्यातम् । विस्तरेण तत एवोपलब्धव्यम् ॥ ४४ ॥
परपूर्वाः स्त्रियस्त्वन्याः सप्त प्रोक्ता यथाक्रमम् ।
पुनर्भूस्त्रिविधा तासां स्वैरिणी तु चतुर्विधा ॥ ४५ ॥
परपूर्वाः सप्त ।पुनर्भूस्त्रिप्रकारा ।स्वैरिणी चतुष्प्रकारा ॥ ४५ ॥
ताः क्रमेणोच्यन्ते
—
कन्यैवाक्षतयोनिर्या पाणिग्रहणदूषिता ।
पुनर्भूः प्रथमा सोक्ता पुनः संस्कारकर्मणा ॥ ४६ ॥
कन्यैवासम्बद्धा पुरुषेण पाणिग्रहणमात्रेण परभार्याव्यपदेशेन दूषिता पुनर्भूः प्रथमा सोक्ता पुनः संस्कारकर्मणा, पुनर्यस्मात् संस्क्रियते तस्मात् पुनर्भूरित्युच्यते । पुनर्विवाह्यान्येन सा ॥ ४६ ॥
देशधर्मानवेक्ष्य स्त्री गुरुभिर्या प्रदीयते ।
उत्पन्नसाहसान्यस्मै सा द्वितीया प्रकीर्तिता ॥ ४७ ॥
देशसंव्यवहारानवेक्ष्य, येषु देशेष्वयं व्यवहारो दृश्यते, गुरुभिर्या प्रदीयतेऽन्यस्मै स्त्री भुक्ता, न कन्या, सा द्वितीया पुनर्भूः पत्यावसत्युत्पन्नसाहसाव्यभिचारिणी । पत्या त्यक्तेत्यन्ये ॥ ४७ ॥
असत्सु देवरेषु स्त्री बान्धवैर्या प्रदीयते ।
सवर्णायासपिण्डाय सा तृतीया प्रकीर्तिता ॥ ४८ ॥
असत्सु देवरेषु, एतस्मादेव गम्यते द्वितीया गुरुभिर्देवराय दत्तेति, स्त्री मृतपतिका सवर्णायासपिण्डाय बान्धवैर्या प्रदीयते सा तृतीया स्त्री ॥ ४८ ॥
प्रसूता वाप्रसूता वा पत्यावेवतु जीवति ।
कामात् समाश्रयेदन्यं स्वैरिणी प्रथमा तु सा ॥ ४९ ॥
स्त्री भुक्ता सापत्यानपत्या वा पत्यौ जीवत्येव कामादन्यं पतिं समाश्रयेत् तमुत्सृज्य, सा प्रथमा स्वैरिणी ॥ ४९ ॥
कौमारं पतिमुत्सृज्य या त्वन्यपुरुषाश्रिता ।
पुनः पत्युर्गृहं यायात् सा द्वितीया प्रकीर्तिता ॥ ५० ॥
कौमारं पतिमतिक्रम्यान्येन सह पुरुषेणोषित्वा तमप्युत्सृज्य प्रथमपतिगृहमेव यायात्, सा द्वितीया स्वैरिणी ॥ ५० ॥
मृते भर्तरि या प्राप्तान् देवरानप्यपास्य तु ।
उपगच्छेत् परं कामात् सा तृतीया प्रकीर्तिता ॥ ५१ ॥
भर्तरि मृते योग्यानपि देवरानपास्योपगच्छेद् ऊनमन्यं, सा तृतीया स्वैरिणी ॥ ५१ ॥
प्राप्ता देशाद् धनक्रीता क्षुत्पिपासातुरा च या ।
तवाहमित्युपगता सा चतुर्थी प्रकीर्तिता ॥ ५२ ॥
देशान्तरादागता धनेन क्रीता क्षुत्पिपासातुरा च तवाहमित्युपगता सा चतुर्थी प्रकीर्तिता ॥ ५२ ॥
पुनर्भुवामेष विधिः स्वैरिणीनां च कीर्तितः ।
पूर्वा पूर्वाजघन्यासां श्रेयसी तूत्तरोत्तरा ॥ ५३ ॥
एके यथापाठमेवेच्छन्ति । न तदुपपन्नम् । कथमक्षतयोनिरितराभ्यां जषन्या स्यात् । तस्मात् क्रमेण पुनर्भुवां पूर्वा पूर्वा अजघन्या । आसामक्षतयोनि-
र्देवराय दत्ता (या सा ? याः) प्रशस्या ।सापि सवर्णाय सपिण्डाय दत्तायाः प्रशस्या द्वितीया । स्वैरिणीनां तूत्तरोत्तरा पूर्वस्याः पूर्वस्याः श्रेयसी ।जीवति पत्यावन्यं समाश्रितायाः पुनः पतिगृहं गता पश्चात्तापात् श्रेयसी । मृते भर्तर्यन्यं समाश्रिता भर्तुरनतिक्रमाद् द्वितीयायाः श्रेयसी । देशान्तरादागता क्रीता प्राणसंशये चान्यमुपगता पूर्वस्याः श्रेयसी, अत्यन्तविरोधानाचरणात् ॥ ५३ ॥
अपत्यमुत्पादयितुस्तासां या शुल्कतो हृता।
अशुल्कोपनतायां तु क्षेत्रिकस्यैव तद् भवेत् ॥ ५४ ॥
तासां सप्तानां या शुल्केन हृता तस्यामपत्यमुत्पादयितुरेव भवति, क्रीतत्वात् तस्याः ।पुनर्भूष्वेव तत् सम्भवति, न स्वैरिणीषु । अथ तत्रापि सम्भवति, तथा नामास्तु । (अ) शु387ल्कोपनतायां388 यदपत्यं क्षेत्रिण एव । क्षेत्रस्य तेन तत्सम्बद्धैर्वानुत्सृष्टत्वात् ॥ ५४ ॥
क्षेत्रिकस्य यदज्ञानात् क्षेत्रे बीजं प्रकीर्यते ।
न तत्र बीजिनो भागः क्षेत्रिकस्यैव तद् भवेत् ॥ ५५ ॥
‘अशुल्कोपनतायां क्षेत्रिकस्ये’त्युक्तस्य दृष्टान्तास्त्रय उत्तरश्लोका इति केचित् । अन्ये सामान्येन प्रकृतानामेवेति । परक्षेत्रे बीज उप्तेतेनाज्ञातं, पत्युरेवापत्यं न जारस्य भागः पिण्डदानाशौचादिषु । यथा परक्षेत्रे बीजेऽन्येनाविदिते प्र(की ? का) रिते क्षेत्रिकस्यैव सस्यं, न बीजिन इति ॥ ५५ ॥
ओघवाताहृतं बीजं क्षेत्रे यस्य प्ररोहति ।
फलभाग् यस्य तत् क्षेत्रं न बीजी फलभाग भवेत् ॥ ५६ ॥
पूर्वश्लोके स्त्रीच्छापूर्वकत्वमुक्तम् । अस्मिंस्तूभयोरप्यनिच्छतोरन्येन दैवात् कथञ्चिद् योजिते उच्यते । उत्तरस्मिन् पुरुषेच्छापूर्वके यथैव क्षेत्रिबीजिनोरविदिते ओघवाताहृते बीजे क्षेत्रिणः सस्यम्, एवं क्षेत्रपतेरेवापत्यं न बीजिन इति ॥ ५६ ॥
महोक्षो जनयेद् वत्सान् यस्य गोषु व्रजे चरन् ।
तस्य ते यस्य ता गावो मोघं स्पन्दितमार्षभम् ॥ ५७ ॥
महोक्ष ऋषभः, ‘आर्षभमि’त्यन्ते वचनात् । कामाद् यस्य स्वभूतासु गोषु व्रजे चरन्, कस्येत्यविशेषितत्वाद् यस्यकस्यचिद् व्रजे चरन्, यासु गोषु
कस्यचिद् वत्सानुत्पादयेत्, यस्य ता गावः तस्य वत्साः । व्यर्थ ऋषभव्यापारः, नर्षभस्वामिनो वत्सा इत्यर्थः । एवमपत्यमपीति ॥ ५७ ॥
क्षेत्रिकानुमतं बीजं यस्य389 क्षेत्रे प्रमुच्यते ।
तदपत्यं द्वयोरेव बीजिक्षेत्रिकयोर्मतम् ॥ ५८ ॥
परस्त्रियां पत्यनुमते जातमपत्यं द्वयोर्भवति । ततश्च द्वयोर्धनपिण्डादिना सम्बध्यते ॥ ५८ ॥
नर्ते क्षेत्रं भवेत् सस्यं नच बीजं विनास्ति तत् ।
अतोऽपत्यं द्वयोरिष्टं पितुर्मातुश्च धर्मतः ॥ ५९ ॥
** **बीजक्षेत्राभावे सस्याभाववत् पित्रोरन्यतराभावेऽपत्याभावात् ,तुष्टेः कारणत्वाच्च धर्मत उभयोरपत्यम् । पित्रोरन्यतरानिच्छायां दानविक्रयातिसर्गाभावः । उभयाधीनत्वादिति प्रयोजनम् ॥ ५९ ॥
नाथवत्या परगृहे संयुक्तस्य स्त्रिया सह ।
दृष्टं संग्रहणं तज्ज्ञैर्नागतायाः स्वयं गृहे ॥ ६० ॥
नाथवद्ग्रहणं वेश्यादिनिवृत्त्यर्थम् । गु (प्तायाः ? प्तया) ।पुरुषस्यास्वगृहे परगृहे संयुक्तस्य परस्त्रिया सह संग्रहणज्ञैः संग्रहणं दृष्टं ज्ञातम् । स्वयमागतायां पुरुषस्य गृहे संयुक्तायां न संग्रहणम् । नात्र पुरुषस्य दोषः ॥ ६० ॥
प्रदुष्टत्यक्तदारस्य क्लीबस्य क्षमकस्य च ।
स्वेच्छैरुपेयुषो दारैर्न दोषः साहसो भवेत् ॥ ६१ ॥
प्रदुष्टा एव त्यक्ताः प्रदुष्टत्यक्ताः ता दारा यस्य, दुष्टेत्युत्सृष्टा भार्या येन, क्लीबस्य च क्षमकस्य च गच्छन्ती परेणेच्छति, तस्य दारैरिच्छद्भिः सङ्गच्छतो न साहसदोषः संग्रहणमित्यर्थः । पूर्वस्यापवादः ॥ ६१ ॥
परस्त्रिया सहाकालेऽदेशे वा भवतो390 मिथः ।
स्थानसंभाषणामोदास्त्रयः संग्रहणक्रमाः ॥ ६२ ॥
परभार्यया सहाकाले रात्र्यादौ अदेशे दिवाप्यपवरकादौ मिथः परस्परतो रहसि वा, उभयत्र महाजनमध्ये प्रकाशमदोष इत्युक्तं भवति, पुरुषस्य सह-
स्थानसम्भाषणामोदा इति क्रीडारतिविस्रम्भास्त्रय एते संग्रहणारम्भाः संग्रहणान्येव391॥ ६२ ॥
नदीनां सङ्गमे तीर्थेष्वारामेषु वनेषु च ।
स्त्री पुमांश्च समेयातां ग्राह्यं संग्रहणं भवेत् ॥ ६३ ॥
नदीसंगमादिषु व्याजेन रहः स्त्रीपुंसौ संगच्छेयातां, तत् संग्रहणं ग्राह्यम् ॥ ६३ ॥
दूतीप्रस्थापनैश्चैव लेखासंप्रेषणैरपि ।
अन्यैरपि व्यतीचारैः सर्वं संग्रहणं स्मृतम् ॥ ६४ ॥
दूतीप्रस्थापनमपि भावदोषलिङ्गम् । एवं लेखासंप्रेषणमपि । परभार्यायां परपुरुषस्य वा परस्परतः कः प्रसङ्गः । दुष्टैरन्यै392रपि प्रेक्षि(तो ? त) प्रकाशनपरिहासादिभिः संग्रहणमेवासंबद्धानाम् ॥ ६४ ॥
स्त्रियं स्पृशेददेशे यः स्पृष्टो वा मर्षयेत् तया ।
परस्परस्यानुमते तच्च संग्रहणं भवेत् ॥ ६५ ॥
** ** स्त्रियं परः स्पृशेत् स्तनोष्ठादौ, तया वा तत्र स्पृष्टो मर्षयेत्, अन्योन्यानुमते प्रीयमाणावप्रीयमाणौ वा न रुष्टौ, सर्वमेवंरूपं संग्रहणं भवेत् ॥ ६५ ॥
भक्ष्यैर्वा यदि वा भोज्यैर्वस्त्रैर्माल्यैस्तथैव च ।
संप्रेष्यमाणैर्गन्धैश्च सर्वं संग्रहणं भवेत् ॥ ६६ ॥
भक्ष्यादिप्रेषणैरप्यसम्बद्धानां संग्रहणम् ॥ ६६ ॥
उपचारक्रिया केलिः स्पर्शो भूषणवाससाम् ।
सह खट्वासनं चैव सर्वं संग्रहणं स्मृतम् ॥ ६७ ॥
उपचारक्रिया उद्यतवस्त्रालङ्कारदानादि, केलिर्नर्महासः, भूषणवासः-स्प393र्शः, एकखट्वासनादि सर्वं संग्रहणम् ॥ ६७ ॥
दर्पाद् वा यदि वा मोहाच्छ्लाघया वा स्वयं वदेत् ।
मयेयं भुक्तपूर्वेति सर्वं संग्रहणं स्मृतम् ॥ ६८ ॥
दर्पान्मोहाद् वेदृशोऽहमिति श्लाघमानो वा स्वयमेवाकस्माद् ब्रूयात् मयेयं भुक्तपूर्वेति अन्तर्गतं गृहितुमशक्तः, तदपि संग्रहणम् ॥६८ ॥
पाणौ यश्च निगृह्णीयाद् वेण्यां वस्त्रान्तरेऽपि वा ।
तिष्ठ तिष्ठेति वा ब्रूयाद् सर्वंसंग्रहणं स्मृतम् ॥ ६९ ॥
पाणिग्रहणाद्यपि संग्रहणलिङ्गं प्रीतिप्रकाशनात् ॥ ६९ ॥
स्वजात्यतिक्रमे पुंसामुक्तमुत्तमसाहसम् ।
विपर्यये मध्यमस्तु प्रतिलोमे प्रमापणम् ॥ ७० ॥
स्वजातीयाया ब्राह्मण्या ब्राह्मणस्य, क्षत्रियायाः क्षत्रियस्येत्यादि, संग्रहणे उत्तमसाहसं सहस्रमिति ।विपर्यये ब्राह्मणस्योनया क्षत्रिययेत्यादि, मध्यमसाहसं पञ्च शतानि । प्रतिलोमे ब्राह्मण्याः क्षत्रियस्य, क्षत्रियाया वैश्यस्येत्यादि, संग्रहणे मरणमेव दण्ड इति ॥७० ॥
कन्यायामसकामायां द्व्यङ्गुलस्यापकर्तनम् ।
उत्तमायां वधस्त्वेव सर्वस्वहरणं तथा ॥ ७१ ॥
कन्यायामसकामायामनिच्छन्त्यां स्वजात्यस्याकन्याकरणे द्व्यङ्गुलस्य छेदनम् । उत्तमायामनिच्छन्त्यामधमजात्यस्य वध एव । ताडनं वध इति केचित्, अधमस्य सिसृक्षाभावादिति । मारणमित्यन्ये । द्व्यङ्गुलच्छे394दादतिरिक्तेन भवितव्यम् । सिसृक्षापि किं न सम्भवतीति संसर्ग एवैतदन्यदुच्य395ते इत्यन्ये । सर्वस्वहरणं च ॥ ७१ ॥
सकामायां तु कन्यायां सवर्णे नास्त्यतिक्रमः ।
किन्त्वलङ्कृत्य सत्कृत्य स एवैनां समुद्वहेत् ॥ ७२ ॥
इच्छन्त्यां सवर्णे नास्ति दोषः । किन्तु सत्कृत्यालङ्कृत्य स एवोद्वहेत् । अन्यथा दण्ड्यः ॥ ७२ ॥
माता मातृष्वसा श्वश्रूर्मातुलानी पितृष्वसा ।
पितृव्यसखिशिष्यस्त्रीभगिनी तत्सखी स्नुषा ॥ ७३ ॥
दुहिताचार्यभार्या चसगोत्रा शरणागता ।
राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या ॥ ७४ ॥
आसामन्यतमां गत्वा गुरुतल्पग उच्यते ।
शिश्नस्योत्कर्तनं दण्डो नान्यस्तत्र विधीयते ॥ ७५ ॥
मात्रादयो गुरुतल्पः तद्गमने गुरुतल्पगः । पितृव्यस्त्री सखिस्त्री शिष्यस्त्री भगिनी भगिन्या अपि सखी भगिनीवदेव ।साध्वीति वर्णोत्तमाविशेषणम् । आसामन्यतमागमने शिश्नच्छेद एव दण्डः। नान्य इति वचनं लोभादिना धनादिदण्डनिवृत्त्यर्थम् ॥ ७३-७५ ॥
पशुयोन्यामतिक्रम्य विनेयः सदशं शतम् ।
मध्यमं साहसं गोषु तदेवान्तावसायिषु ॥ ७६ ॥
पशुरजमहिष्यादिः । योनिग्रहणमन्यप्रदेशनिवृत्त्यर्थम् । गत्वा दण्ड्यो दशोत्तरं शतम् । गोषु योन्यामतिक्रम्य मध्यमसाहसम् । तदेव मध्यमसाहसमन्तावसायिषु चण्डालादिषु ॥ ७६ ॥
अगम्यागामिनः शास्ति दण्डो राज्ञा प्रचोदितः ।
प्रायश्चित्तविधावत्र प्रायश्चित्तं विशोधनम् ॥ ७७ ॥
** ** अगम्यागामिनो यथोक्तो दण्डो राज्ञा प्रणीतः शास्ति । प्रायश्चित्तविधावत्र नान्यो दण्डोऽस्ति । तस्माद् यथोक्तो दण्डो न प्रमाद्यः । तेषामप्यनुग्रहो भवत्येव । इतरथोभयोः प्रत्यवायः स्यात् ॥ ७७ ॥
स्वैरिण्यब्राह्मणी वेश्या दासी निष्कासिनी च या ।
गम्याः स्युरानुलोभ्येन स्त्रियो न प्रातिलोभ्यतः396 ॥ ७८ ॥
स्वैरिणी पत्यादित्यक्ता यथेष्टाचारा ।अब्राह्मणी ब्राह्मण्या अन्या क्षत्रिया, वैश्या, दासी च । निष्कासिनी अनिरुद्धा । एताः स्त्रियो गम्याः तद्गमने न दण्ड्याः । आनुलोम्येन ब्राह्मणः क्षत्रियादिस्वैरिण्यां, क्षत्रियो वैश्यादिस्वैरिण्यामित्यादि । विपरीते दण्ड्यः ॥ ७८ ॥
आस्वेव तु भुजिष्यासु दोषः स्यात् परदारवत् ।
गम्या अपि हि नोपेयास्ताश्चेदन्यपरिग्रहाः ॥ ७९ ॥
आस्वेव स्वैरिण्यादिषु नियतपुरुषपरिग्रहासु परदारवदेव दोषः । गमने दण्डश्च । गम्या अपि अभुजिष्याः विप्लुता अप्यगम्याः यदि कस्यचित् परिग्रहे वर्तेरन् यावत् कालं तावत् ॥ ७९ ॥
अनुत्पन्नप्रजायास्तु पतिः प्रेयाद् यदि स्त्रियाः ।
नियुक्ता गुरुभिर्गच्छेद् देवरं पुत्रकाम्यया ॥ ८० ॥
अनुत्पन्नप्रजा अप्रजा । उत्पन्नविनष्टप्रजाप्यप्रजैव । मृते भर्तरि ‘पुत्रेण लोकान् जयती’ त्यादिना पुत्रलोककामा, न पतिलोककामा, यदि स्याद् गुरुभिः श्वशुरादिभिर्नियुक्ता देवरं गच्छेत् पुत्रेच्छया, न रन्तुमिच्छया । तत्र व्यभिचारे न दोषो न दण्डः ॥ ८० ॥
स च तां प्रतिपद्येत तथैवा पुत्रजन्मनः ।
पुत्रे जाते निवर्तेत विप्लवः स्यादतोऽन्यथा ॥ ८१ ॥
स च देवरस्तां तथैव धर्मार्थमेव, न रस्यर्थम्, आ पुत्रोत्पत्तेः । उत्पन्ने पुत्रे निवर्तेत । गुरुवदेव पश्येत् । अन्यथा पुनरपि परिग्रहे विप्लवः सङ्करः स्यात् । तथा सति अधर्मो दण्डश्च स्यात् ॥ ८१ ॥
घृतेनाभ्यज्य गात्राणि तैलेनाविकृतेन वा ।
मुखान्मुखं परिहरन् गात्रैर्गात्राण्यसंस्पृशन् ॥ ८२ ॥
घृतेनापक्वेन वा तैलेन गात्राण्यभ्यज्य सुखार्थं भूयःप्रवृत्तिं परिहरन् । परस्परगात्रस्पर्शनं च प्रयोजनार्थमेव391 ॥ ८२ ॥
नीरजस्कामनिच्छन्तीं वन्ध्यां पुत्रवतीं स्त्रियम् ।
न गच्छेद् गर्भिणीं निन्द्यामनियुक्तां च बन्धुभिः ॥ ८३ ॥
‘निन्दन्नियुक्तामपि बन्धुभिरि’त्यपरः पाठः । ऋतुर्यस्या नास्ति सा नीरजस्का तामनिच्छन्तीं चेत्यादि । निन्द्या कुत्सिता त्वग्दोषादिना । निन्द्या, अपत्यं म्रियते यस्याः । बन्धुभिश्चानियुक्तामिति अनियुक्तायां यदि गमने प्रसङ्गोऽस्ति देवरादेः, गतम् । अथवा यथोक्तां देवरादिर्नियुक्तामपि न गच्छेद् इति ’ स च तां प्रतिपद्येते’त्यस्यापवादः ॥ ८३ ॥
अनियुक्ता तु या नारी देवराज्जनयेत् सुतम् ।
जारजातमरिक्थीयं तमाहुर्धर्मवादिनः ॥ ८४ ॥
अनियुक्तायाः स्वेच्छया देवराज्जातो जारजातः न रिक्थभाक् । नापत्यं तयोः पित्रोः, प्रत्यवायो दण्डश्च । अन्यजातो दूरत एव ॥ ८४ ॥
तथानियुक्तो भार्यायां यवीयाञ् ज्यायसो व्रजेत् ।
यवीयसो वा यो ज्यायानुभौ तौ गुरुतल्पगौ ॥ ८५ ॥
तथा तेनैव प्रकारेणानियुक्तः कनीयान् ज्येष्ठभार्यां गच्छेद् गमनमात्रेण, कनीयसो वा भार्यां ज्येष्ठो ब्रजेद् एतावुभौ गुरुतल्पगौ ।गुरुतल्पगमनप्रा397यश्चित्तमत्रापीति ॥ ८५ ॥
कुले तदवशेषे तु सन्तानार्थं न कामतः ।
नियुक्तो गुरुभिर्गच्छेद् भ्रा(तृ ! ता) भार्यां यवीयसः ॥
ज्येष्ठभार्यां कनिष्ठो वा गच्छेद् गुरुनियोगतः ।
कुलसन्तानरक्षा तु फलं समधिगच्छतः ॥ ८७ ॥
कुले तदवशेषेऽन्यमनुष्याभावे सन्तानार्थमेव, न कामतः, नियुक्तो ज्येष्ठो वा कनीयसः, कनीयान् वा ज्येष्ठस्य भार्यांगच्छेत् । ततः कुलरक्षणात् तन्निमित्तं फलमश्नुवाते ॥ ८६,८७ ॥
अविद्यमाने तु गुरौ राज्ञो वाच्यः कुलक्षयः ।
ततस्तद्वचनाद् गच्छेदनुशिष्य स्त्रियं च सः ॥ ८८ ॥
गुरौ नियोक्तर्यविद्यमाने राज्ञस्तत्कुलक्षयमुक्त्वा तेनानुज्ञातो देवरस्तदभावेऽन्यो वा गच्छेद् अनुशिष्य वक्ष्यमाणेन विधिना घृताभ्यक्तेन तथा सह गात्रस्पर्शवर्जम् ऋतौ गन्तव्यं प्रजार्थमेवेति ॥ ८८ ॥
पूर्वोक्तेनैव विधिना स्नातां पुंसवने शुचिः ।
सकृदा गर्भाधानाद् वा कृते गर्भेस्नुषैव सा ॥ ८९ ॥
पूर्वोक्तेनैव विधिना घृताभ्यक्तो गात्रस्पर्शवर्जं व्रजेत् ,ऋतुस्नातां पुमान् जायते यस्मिन् दिवसे तस्मिन्, ‘युग्मासु पुत्रा जायन्त’ इति वचनाद् । ऋतावृतावसकृत् सकृद्वा यावद् वा गर्भो भवति तावद् युग्मास्वेकस्मिन्नप्यृतौ । कृत उत्पन्ने गर्भेस्नुषैव सा कनीयसोऽपि गुरुरेव सा ॥ ८९ ॥
अतोऽन्यथा वर्तमानः पुमान् स्त्री वापि कामतः ।
विनेयौ सुभृशं राज्ञा किल्बिषी स्यादनिग्रहे ॥ ९० ॥
कामाद् वर्तमानावुत्तरकालं च सुष्ठु दण्ड्यौ राज्ञा । अदण्डने राजा प्रत्यवेयात् ॥ ९० ॥
ईर्ष्यासूयासमुत्थे तु संरम्भे रागहेतुके ।
दम्पती विवदेयातां न ज्ञातिषु न राजनि ॥ ९१ ॥
ईर्ष्यासमुत्थेऽन्य398शङ्कानिमित्ते परस्परतः अमुका अशोभना असावशोभन इत्यादि, (ईर्ष्या ?) असूयासम्भवे च सङ्गानुमिते संरम्भे चित्तवैषम्ये दम्पती परस्परत एव चित्तविशुद्धिं कुर्यातां, न स्वजने न राजनि वा विवादः कर्तव्यः ॥ ९१ ॥
अन्योन्यं त्यजतोर्नागः स्यादन्योन्यविरुद्धयोः ।
स्त्रीपुंसयोर्नतूढाया व्यभिचारादृते स्त्रि(यः ? याः) ॥ ९२ ॥
अन्योन्यविरुद्धयोः परस्परत्यागे न दोषः । नतूढाया इति वचनाद् अविवाहिताविषयमेतत् । ऊढा विवाहपरिगृहीता, तस्या नास्ति त्यागः । अस्यापवादः – व्यभिचारे सापि त्याज्यैव ॥ ९२ ॥
व्यभिचारे स्त्रि(यो ? या ) मौण्ड्यमधःशयनमेव च ।
कदन्नंच कुवासश्चकर्म चावस्करोञ्छनम् ॥ ९३ ॥
व्यभिचारे मौण्ड्यं, भूमौ शयनं, कदन्नं सक्त्वादि, कुवासो जीर्णवसनम्, अवस्करोञ्छनं मूत्रपुरीषस्थानशोधनं कर्म च ॥ ९३ ॥
स्त्रीधनभ्रष्टसर्वस्वां गर्भविस्राविणीं तथा ।
भर्तुश्च वधमिच्छन्तीं स्त्रियं निर्वासयेद् गृहात् ॥ ९४ ॥
स्त्रीधनेन सह भ्रष्टसर्वस्वां हृतसर्वधनां, गर्भविनाशिनीं, भर्तुश्च वधकाङ्क्षिणीं विषदानादिना, गृहान्निर्वासयेत् त्यजेदित्यर्थः ॥ ९४ ॥
अनर्थशीलां सततं तथैवाप्रियवादिनीम् ।
पूर्वाशिनी च या भर्तुः स्त्रियं निर्वासयेद् बुधः ॥ ९५ ॥
पानप्रेक्षणबाह्यस्त्रीसंसर्गशीलां, तथाप्रियवादिनीं, प्रथमभोजनशीलां, भर्तुरित्युभयोः शेषः, निर्वासयेद् ग्रामात् ॥ ९५ ॥
वन्ध्यां स्त्रीजननीं निन्द्यां प्रतिकूलां च सर्वदा ।
कामं तां नाभिनन्देत कुर्वन्नेवं न दोषभाक् ॥ ९६ ॥
निन्द्यां मरणशीलापत्यां, सार्वकालं विपरीतकारिणीम्, सर्वदेति कदाचित् प्रमादकृतनिवृत्त्यर्थम् । तादृशीं यदि नेच्छति नाभिनन्देत न रमेत तया सह । ‘कामतो नाभिनन्देते’त्यपरः पाठः । स एवार्थः । एवं कुर्वन् न प्रत्यवैति, नच दण्ड्यः ॥ ९६ ॥
अनुरूपामवाग्दुष्टां दक्षां साध्वीं प्रजावतीम् ।
त्यजन् भार्यामवस्थाप्यो राज्ञा दण्डेन भूयसा ॥ ९७ ॥
** ** वश्यां प्रियंवदां, दक्षां कुशलाम्, अव्यभिचारिणीं, पुत्रवतीं त्यजन्नन्यत्र सक्तो, राज्ञा बहुतरेणानुरूपेण दण्डेनानुशिष्य तस्यामेव व्यवस्थाप्यः ॥ ९७ ॥
अज्ञातदोषादुष्टा या निर्गता नान्यमाश्रिता ।
बन्धुभिः सा नियोक्तव्या निर्बन्धुः स्वयमाश्रयेत् ॥ ९८ ॥
अज्ञातदोषा पत्युर399पचारादल्पदोषाद् रोषान्निर्गता गृहाद्, निर्दोषा अन्यमनपाश्रिता बन्धुगृहे स्थिता, तस्मिन्नेव पत्यौस्वजनैर्नियोज्या । निस्स्वजना स्वयमेव तं प्रत्याश्रयेत् । ‘अज्ञातदोषाद्रूढाया नि400र्दोषे’त्यस्मिन् पाठे त्यक्ता ‘नष्टे मृत’ इत्यादौ वा बन्धुभिरन्यस्मै देया । निर्बन्धुः स्वयमेवान्यमाश्रयेत् ॥ ९८ ॥
पत्यौ प्रव्रजिते नष्टे क्लीबेऽथ पतिते मृते ।
पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥ ९९ ॥
एताखापत्सु यद्यक्षतयोनिः नियोगतोऽन्यतरस्याः पुत्रेच्छायाः पत्यनि(च्छ ? च्छा)या वा । पतिलोकेच्छायां न नियमः ॥ ९९ ॥
अष्टौ वर्षाण्युदीक्षेत ब्राह्मणं प्रोषितं पतिम् ।
अप्रसूता तु चत्वारि परतोऽन्यं समाश्रयेत् ॥ १०० ॥
‘नष्टेऽन्यो विधीयत’ इत्युक्तम् । अप्रतिविधायानाख्याय प्रोषितो नष्टः । स द्विविधः मृतोऽमृतश्च । मृत इति ज्ञाते उदीक्षणप्रयोजनं नास्ति । तत्र पूर्वोक्त एव विधिः । अमृतोऽपि द्विविधः अमुत्रेति श्रूयमाणोऽश्रूयमाणश्च । अश्रूयमाणेऽयं विधिः । प्रतिविधायैकमत्येन प्रोषिते अन्याय्यमन्याश्रयणम् ।
गतार्थः श्लोकः । प्रसूतायाः सापत्याया निर्वृत्तप्रयोजनत्वाद् रतिहरणार्थत्वान्महान् कालः । इतरस्या अनिर्वृत्तप्रयोजनत्वात् प्रथमवयोवस्थत्वाद् दुर्धरत्वाच्च विषयस्याल्पः कालः ॥ १०० ॥
क्षत्रिया षट् समास्तिष्ठेदप्रसूता समात्रयम् ।
वैश्या प्रसूता चत्वारि द्वे समे अप्रजा वसेत् ॥ १०१ ॥
गतार्थोऽयं पूर्वेणैव ॥ १०१ ॥
न शूद्रायाः स्मृतः कालो नच धर्मव्यतिक्रमः ।
विशेषतोऽप्रसूतायाः संवत्सरपरा स्थितिः ॥ १०२ ॥
शूद्रायाः प्रोषिते पत्यौ न कालनियमः । नचान्यगमनेऽस्यामवस्थायां धर्मलोपः । सर्वस्या अविशेषेण । प्रसूताया उदीक्षणप्रसङ्गे संवत्सरपरा स्थितिः । संवत्सरादूर्ध्वं नास्ति दोषः । उदीक्षणे पतिलोको धर्मवृद्धिश्च सर्वासां, नोदीक्षणप्रतिषेधः । एतावतोऽनुदीक्षणे दण्डः अधर्मश्च । उदीक्षणं तु न्याय्यमेव ॥ १०२ ॥
अप्रवृत्तौ स्मृतो धर्म एषप्रोषितयोषिताम् ।
जीवति श्रूयमाणे तु स्यादेष द्विगुणो विधिः ॥ १०३ ॥
प्रोषितस्य योषितां भर्तर्यश्रूयमाणे प्रोषिते एषकालविधिः । जीवति तु श्रूयमाणे जीवत्यमुत्रेति श्रूयमाणे द्विगुणः कालो यथोक्तः ॥ १०३ ॥
प्रजाप्रवृत्तौ भूतानां सृष्टिरेषा प्रजापतेः ।
अतोऽन्यथागमे स्त्रीणामेवं दोषो न विद्यते ॥ १०४ ॥
प्रजाप्रवृत्ताविति निमित्तसप्तमी । अपत्यार्थे यतः प्रजापतेः सृष्टिः सर्वभूतानाम्, अतोऽन्यगमने यथोक्तं न दोषः । दोषो न विद्यत इति ब्रुवन् नायं धर्मः, धर्मस्तु पतिव्रतात्वमेव, एवमपि दोषो नास्तीति ज्ञापयति ॥ १०४ ॥
आनुलोम्येन वर्णानां यज्जन्म स विधिः स्मृतः ।
प्रातिलोम्येन यज्जन्म स ज्ञेयो वर्णसङ्करः ॥ १०५ ॥
आनुलोम्येन ब्राह्मणस्य चतसृषु यदपत्यजन्म, क्षत्रियस्य तिसृषु, वैश्यस्य द्वयोः, शूद्रस्यैकस्यां स विधिः विधीयते शास्त्रे धर्मः । प्रातिलोम्येन
शूद्रस्य तिसृषु वैश्यादिस्त्रीषु, वैश्यस्य द्वयोः, क्षत्रियस्यैकस्याम्, एवं वर्णसङ्करः प्रतिषिद्धः अधर्मः राज्ञः प्रमादादित्यर्थः ॥ १०५ ॥
अनन्तरः स्मृतः पुत्रः पुत्र एकान्तरस्तथा ।
द्व्यन्तरश्चानुलोम्येन तथैव प्रतिलोमतः ॥ १०६ ॥
आनुलोम्येन सवर्णानन्तरैकान्तरद्व्यन्तराश्चत्वारो ब्राह्मणस्य पुत्राः, एवं त्रयः क्षत्रियस्य सवर्णानन्तरैकान्तराः, तथा वैश्यस्य सवर्णानन्तरौ द्वौ, शूद्रस्य सवर्ण एव । प्रतिलोमतोऽपि शूद्रस्य त्रयो वैश्यादिपुत्राः, वैश्यस्य द्वौ क्षत्रियाब्राह्मणीपुत्रौ, क्षत्रियस्यैको ब्राह्मणीपुत्रः । नामत एषां विशेषं वक्ष्यति । रिक्थविभागविवक्षयोपन्यासः, स्त्रीपुंससंयोगफलत्वात् तासां च विवाहस्योक्तत्वात् ॥ १०६ ॥
उग्रः पारशवश्चैव निषादश्चानुलोमतः ।
उत्तमेभ्यस्त्रयस्त्रिभ्यः शूद्रापुत्राः प्रकीर्तिताः ॥ १०७ ॥
ब्राह्मणादिभ्यः क्रमेणोग्रपारशवनिषादास्त्रयस्त्रिभ्योऽनुलोमत इति केचित् अन्येनान्यत्र यथासङ्ख्यमुक्तम् । ‘उत्तमेभ्यस्त्रिभ्यस्त्रय’ इत्येतावदुक्तम् । अतो ब्राह्मणात् पारशवः, निषादः क्षत्रियात्, उग्रो वैश्यादिति ॥ १०७ ॥
ब्राह्मण्यामपि चण्डालसूतवैदेहका अपि ।
अपरेभ्यस्त्रयस्त्रिभ्यो विज्ञेयाः प्रतिलोमतः ॥ १०८ ॥
प्रतिलोमतोऽपि ब्राह्मण्यां शूद्राच्चण्डालः, क्षत्रियात् सूतः, वैदेहको वैश्यात् । अपरेभ्य एवैते त्रयस्त्रिभ्यः ॥ १०८ ॥
अम्बष्ठो मागधश्चैव क्षत्ता च क्षत्रियासुताः ।
आनुलोम्येन तत्रैको द्वौ ज्ञेयौ प्रतिलोमतः ॥ १०९ ॥
अम्बष्ठ आनुलोम्येन क्षत्रियस्य वैश्यायां (?) जातः । मागधो वैश्यात् क्षत्रियायां जातः । क्षत्ता शूद्रात् क्षत्रियायां जातः । एते क्षत्रियासुताः ॥ १०९ ॥
वैश्यापुत्रास्तु दौष्षन्तयवनायोगवा अपि ।
प्रातिलोम्येन तत्रैको द्वौ ज्ञेयावनुलोमजौ ॥ ११० ॥
शूद्राब्राह्मणीक्षत्रियापुत्रा उक्ताः प्रतिलोमानुलोमतः । वैश्यापुत्रा अपि ब्राह्मणाद् दौष्षन्तः, क्षत्रियाद् यवनः अनुलोमौ ।शूद्रात् प्रतिलोभआयोगव इति ॥ ११० ॥
सूताद्याः प्रतिलोमास्तु ज्ञेयावप्रतिलोमजौ ।
ससङ्कराः श्वपाकाद्यास्तेषां त्रिस्सप्तको (गु ? ग )णः ॥ १११ ॥
सूतवैदेहकचण्डालाः प्रतिलोमजा ज्ञेयाः । अप्रतिलोमजौ सूताद् वैदेहकायां, वैदेहकाच्चण्डाल्याम् । एवं प्रतिलोमजेषु अप्रतिलोमजा द्रष्टव्याः । तेषां ससङ्कराः श्वपाकाद्याः त्रिःसप्त एकविंशतिर्गणोज्ञेयः । चण्डालश्चण्डालीवैदेहकसूतब्राह्मणादिकन्यासु सप्त बाह्यान् जनयति । तथा वैदेहकस्तथा सूतः । अतः सङ्कराः श्वपाकाद्याः ।
“उग्रात्तुजातः क्षत्तायां श्वपाक इति कीर्त्यते ।
वैदेहकेन त्वम्बष्ठ्यामुत्पन्नो वेन उच्यते ॥
इति भार्गव्यां संहितायां विस्तर उक्तस्तत एव द्रष्टव्यः।संज्ञास्तु तत्रान्यथैव। शूद्रप्रतिलोमस्य सप्त चतुर्षु चत्वारः । क्षत्रियावैश्याशूद्रापुत्रैः सप्त एवं वैश्यक्षत्रियप्रतिलोमयोरपीति त्रिस्सप्तको बाह्यो गणः । तद्भेदाः श्वपाकादयोऽनन्ताः ॥ १११ ॥
सवर्णो ब्राह्मणीपुत्रः क्षत्रियायामनन्तरः ।
अम्बष्ठोग्रौ तथा पुत्रावेवं क्षत्रियवैश्ययोः ॥ ११२ ॥
ब्राह्मणाद्ब्राह्मण्यां सवर्णः। क्षत्रियायां ब्राह्मणादनन्तरो मूर्धाभिषिक्तः । क्षत्रियेण वैश्यायामनन्तरोऽम्बष्ठः ।वैश्येन शूद्रायामनन्तर उग्रः ॥ ११२ ॥
एकान्तरस्तु दौष्षन्तो वैश्यायां ब्राह्मणात् सुतः ।
शूद्रायां (ब्राह्मणा ? क्षत्रिया)त् तद्वन्निषादो नाम जायते ॥ ११३ ॥
अनन्तरानुक्त्वा पूर्वमविभागेनोक्तानेकान्तरान् प्रतिपादयति । ब्राह्मणेन वैश्यायां दौष्षन्तः । क्षत्रियेण शूद्रायां निषादः ।वैश्यस्यैकान्तरो नास्ति । एवमित्यनेन सवर्णासुतः सर्वेषां सवर्ण इत्येतत् प्रतिपाद्यते ॥ ११३ ॥
शूद्रा पारशवं सूते ब्राह्मणाद् द्व्यन्तरं सुतम् ।
आनुलोम्येन वर्णानां पुत्रा एते प्रकीर्तिताः ॥ ११४ ॥
द्व्यन्तरो ब्राह्मणस्यैव नान्यस्य ।शूद्रायां ब्राह्मणात् पारशवः । वर्णानामानुलोम्येन पुत्राः प्रकीर्तिताः ॥ ११४ ॥
सूतश्च मागधश्चोभौ पुत्रावायोगवस्तथा ।
प्रातिलोम्येन वर्णानां तद्वदेतेऽप्यनन्तराः ॥ ११५ ॥
प्रतिलोमानन्तराः क्षत्रियाद् ब्राह्मण्यां सूतः । मागधो वैश्यात् क्षत्रियायाम् । आयोगवः शूद्राद् वैश्यायाम् ॥ ११५ ॥
ब्राह्मण्येकान्तरं वैश्यात् सूते वैदेहकं सुतम् ।
क्षत्तारं क्षत्रिया शूद्रात् पुत्रमेकान्तरं तथा ॥ ११६ ॥
प्रतिलोमा एकान्तरा उच्यन्ते । ब्राह्मणी वैश्याद् वैदेहकं सूते । क्षत्रिया शूद्रात् क्षत्तारम् ॥ ११६ ॥
द्व्यन्तरं शूद्रस्यैव, नान्यस्य ।स उच्यते —
द्व्यन्तरः प्रातिलोम्येन पापिष्ठः सङ्करे सति ।
चण्डालो जायते शूद्राद् ब्राह्मणी यत्र मुह्यति ॥ ११७ ॥
प्रातिलोम्येन द्व्यन्तरः शूद्राद् ब्राह्मण्यां जातश्चण्डालः । ब्राह्मणी तत्राकुलीभवति ॥ ११७ ॥
राज्ञा परीक्ष्यं न यथा जायते वर्णसङ्करः ।
तस्माद् राज्ञा विशेषेण त्रयी रक्ष्या तु सङ्करात् ॥ ११८ ॥
** **राज्ञा यथा वर्णसङ्करो न भवति तथा परीक्ष्य व्यवस्थाप्यम् । तस्माद् राज्ञा विशेषेण सर्वे रक्ष्याः । विशेषेण तु त्रयी विद्या । सा सङ्करे सति बिप्लवेत, त्रयीजातः तत्र ब्राह्मणावस्थितत्वादिति (?) ॥ ११८ ॥
इति स्त्रीपुंसयोगो द्वादशं विवादपदम् ॥
विभागोऽर्थस्य पित्र्यस्य पुत्रैर्यत्र प्रकल्प्यते ।
दायभाग इति प्रोक्तं व्यवहारपदं बुधैः ॥ १ ॥
पैतृकस्यार्थस्य यत्र पुत्रेर्विभाग क्रियते, विवादपदं तद् दायभाग उच्यते ॥ १ ॥
पितर्युपरते पुत्रा विभजेयुर्धनं पितुः ।
मातुर्दुहितरोऽभावे दुहितॄणां तदन्वयः॥ २ ॥
पितरि मृते पितुर्धनं पुत्रा विभजेयुः । विभागो वक्ष्यमाणः । मातुश्च धनं मातरि मृतायां विभजेयुरित्येव दुहितरः । दुहित्रभावे दौहित्रादयः ॥ २ ॥
मातुर्निवृत्ते रजसि प्रत्तासु भगिनीषु च ।
निरिष्टे वाप्यभरणे पितर्युपरतेऽस्पृहे ॥ ३ ॥
मृतयोर्विभाग उक्तः । संप्रति पित्रोर्जिवतोरप्यवस्थाविशेषे विभाग उच्यते । मातुर्निवृत्ते रजस्यृतौ, भगिनीषुच द401त्तासु, निरिष्टे व्याप्त्यभावे निरिन्द्रिये जीवत्यपि पितरि, निःस्पृहे विषयेषु, ‘निवृत्ते वापि, मरणादि’ति पाठे न तावदुत्थिते, विभजेयुर्धनं यथोक्तम् ॥ ३ ॥
पितैव वा स्वयं पुत्रान् विभजेद् वयसि स्थितः ।
ज्येष्ठं श्रेष्ठविभागेन यथा वा स्वमतिर्भवेत् ॥ ४ ॥
स्वयमेव स्वयमिच्छति चेत्, न बलादित्येवमर्थं स्वयंग्रहणम् ।पुत्रान् विभजेत् अस्य त्वम् अस्य त्वमिति । श्रेष्ठः प्रशस्यतमः सर्वद्रव्याणां मध्ये, तेनाधिकेन विभजेत् ।यथा वेच्छेत् तथा, ज्येष्ठविभागविषयमिति केचित् । अन्ये सर्वविषयमूनं वाधिकं वात्मेच्छानुरूपं विभजेदिति ॥ ४ ॥
बिभृयाद् वेच्छतः सर्वाञ्ज्येष्ठो भ्राता यथा पिता ।
भ्राता शक्तः कनिष्ठो वा शक्त्यपेक्षं कुले क्रिया ॥ ५ ॥
यदीच्छेयुर्भ्रातरः, ज्येष्ठो वा भ्राता सर्वान् पितृवदेव बिभृयात् । अथ ते पृथग्धर्मविध्यपेक्षया नेच्छेयुः, ततो विभागः । अन्यो वा भ्राता यदि शक्तः इतरेऽपीच्छेयुः, मध्यमादिः कनिष्ठो वा । शक्त इत्येव वक्तव्ये पुन-
र्भ्रातृग्रहणं मध्यमाद्युपसंग्रहार्थं, ततः कनिष्ठो वा । सामर्थ्यमेव कारणं भरणस्येति दर्शयति —शक्त्यपेक्षः कुले व्यापारः, न ज्येष्ठापेक्षः, दृष्टार्थत्वात् । अशक्तः किं करिष्यति, नाशयेदेव ॥ ५ ॥
शौर्यभार्याधने हित्वा यच्च विद्याधनं भवेत् ।
त्रीण्येतान्यविभाज्यानि प्रसादो यश्च पैतृकः ॥ ६ ॥
युद्धादौ जित्वा लब्धं, विद्यया (लब्धं), भार्याधनं स्त्रीधनं त्रीण्यविभाज्यानि अनिच्छतां तेषाम् । अथेच्छेयुः विभज्यत एव । पित्रा तुष्टेन यद्402 दत्तमन्यतमस्य, तदप्यविभाज्यम् ॥६॥
मात्रा च स्वधनं दत्तं यस्मै स्यात् प्रीतिपूर्वकम् ।
तस्याप्येष विधिर्दृष्टो मातापीष्टे यथा पिता ॥ ७ ॥
मात्रा च तुष्टया दत्तं नान्येन प्रकारेण पुत्राय, तदप्यविभाज्यम् । यतः सापि स्वधनस्य दाने पितृवदीष्टे ॥ ७ ॥
अध्यग्न्यध्याहवनिकं भर्तृदायस्तथैव च ।
भ्रात्रा दत्तं पितृभ्यां च षड्विधं स्त्रीधनं स्मृतम् ॥ ८ ॥
विवाहकाले दत्तं, भर्त्रादिभिर्नीतायां ज्ञातिकुलं पुनरानयनकाले दत्तमिति केचित् । अन्ये स्वगृहानयनकाले दत्तमिति । भर्त्रा तुष्टेनोत्तरकालं च यद् दत्तं, भ्रात्रापि384 दत्तं मात्रा पित्रा च, षट्प्रकारं स्त्रीधनमिति यत्रोच्यते तत्रैतद् ग्राह्यम् ॥ ८ ॥
स्त्रीधनं तदपत्यानां भर्तृगाम्यप्रजासु च ।
ब्राह्मादिषु चतुर्ष्वाहुःपितृगामीतरेषु तु ॥ ९ ॥
स्त्रीधनं तदपत्यानां, न सापत्नानां, जीवत्यपि भर्तरि, ‘भर्तृगाम्यप्रजास्वि’ति वचनात् । भर्तृगामीति विशेष उच्यते — न सर्वं, ब्राह्मादिषु चतुर्ष्वप्रजायाः । इतरेषु तु गान्धर्वादिषु तस्याः पितुर्भवत्यप्रजाया जीवत्यपि भर्तरि ॥ ९ ॥
कुटुम्बं बिभृयाद् भ्रातुर्यो विद्यामधिगच्छति ।
भागं विद्याधनात् तस्मात् स लभेताश्रुतोऽपि सन् ॥ १० ॥
विद्याधनमविभाज्यमित्युक्तं, तस्यायमपवादः । विद्याग्रहणकाले भ्रातुर्व्यापृतस्य कुटुम्बं बिभर्ति यः स तस्मिन् विद्याधनाद् भागं लभेत । अस्यापितल्लाभहेतुत्वाद् भ्रातुः ॥ १० ॥
वैद्योऽवैद्याय नाकामो दद्यादंशं स्वतो धनात् ।
पितृद्रव्यं तदाश्रित्य न चेत् तेन तदाहृतम् ॥ ११ ॥
विद्वानविदुषे स्वयमर्जितमविद्याधनमपि बलान्न दाप्यः । किमविशेषेण, यत् पितुः स्वं द्रव्यं तदाश्रित्य मूल्येन बलीवर्दादिना वा तद् द्रव्यं यदि नार्जितम् । अथ तेनोत्थानं चेद्, देयमेव ॥ ११ ॥
द्वावंशौप्रतिपद्येत विभजन्नात्मनः पिता ।
समांशभागिनी माता पुत्राणां स्यान्मृते धवे ॥ १२ ॥
स्वमर्थं स्वेच्छया विभजन् पिता द्विगुणमात्मनः । तदर्धं पुत्राणाम् । मृते पत्यौ माता पुत्रैः समभागा। मृते धव इति वचनात् जीवति न तस्या भाग इति गम्यते ॥ १२ ॥
ज्येष्ठायांशोऽधिको देयो ज्येष्ठाय तु वरः स्मृतः ।
समांशभाजः शेषाः स्युरप्रत्ता भगिनी तथा ॥ १३ ॥
ज्येष्ठाय भागोऽधिको देयः । वरश्च सर्वार्थेषु पूर्वोक्त एव । वरं दत्त्वाशेषस्य भागोऽधिको देयः । अन्य आहुः — ज्येष्ठायाधिको भागो देयः । ततः समभागेषु श्रेष्ठ इष्टः तस्य पूर्वं(वरं ) दत्त्वा शेषाः समभागा इति । भगिन्या अपि403 ऊढाया नास्त्यंश इत्यस्मादेव गम्यते ॥ १३ ॥
क्षेत्रजेष्वपि पुत्रेषु तद्वज्जातेषु धर्मतः ।
वर्णावरेष्वंशहानिर्मूढजातेष्वनुक्रमात् ॥१४॥
क्षेत्रजेष्वपि तथैव समांशता । धर्मेण यथोक्तजातास्ते । अयथोक्तजा अभागार्हा इत्यस्मादेव गम्यते । वर्णावरेषु क्षत्रियावैश्याशूद्रापुत्रेष्वंशहानिः सर्वं दशधाकृत्वा चतुरो भागान् ब्राह्मणीपुत्रो हरेत्, त्रीन् क्षत्रियासुतः,द्वौ वैश्यासुतः, एकं शूद्रासुतः । केचिदाहुः —पुत्रबहुत्वेऽप्येवमेवेति । अन्ये यथा ब्राह्मणीपुत्रांशाच्चतुर्भागोनः क्षत्रियासुतस्य, ततस्त्रिभागोनो वैश्यासुतस्य, तदर्धं शुद्रासुतस्य तथा विभागः । क्षत्रियस्य (सप्त ? षड् ) भागान् कृत्वा त्रीन् क्षत्रियः,
द्वौ वैश्यासुतः, एकं शूद्रासुतः । वैश्यस्यापि त्रीन् कृत्वा द्वौ वैश्यः, एकमितरः । एकपुत्रास्वेवम् । यदा ब्राह्मण्या एकः, क्षत्रियाया बहवः, वैश्याया वा, तदापि मातृत एव यथोक्तः । इतरोक्तः क्षेत्रज उत्पन्ने यद्यौरसः स्यात्, समांश इत्युक्तः । पुत्रिकासुतस्तत्पितुरेव भवति औरस उत्पन्ने । एवमवाप्य दत्ता (?) । स च मातामहस्य समांश एव । गूढजाताः कानीनसहोढगूढोत्पन्नाः । तेष्वंशहानिः औरसस्यार्धंकानीनस्य, तदर्धं सहोढस्य तदर्धं गूढोत्पन्नस्य ।बन्धुदायादा हि ते ।तेषां भागहरत्वं वक्ष्यति । तेषामयं विभागः औरसे सति ॥ १४ ॥
पित्रैव तु विभक्ता ये हीनाधिकसमैर्धनैः ।
तेषां स एव भागः स्यात् सर्वस्य हि पिता प्रभुः ॥ १५ ॥
पित्रैव विभक्ता ये ऊनैर्वा धनैरधिकैर्वा समैर्वा तेषां मृते पितरि स एव विभागः, न पुनर्युक्तायुक्तविचारप्रसङ्गः । यतः सर्वस्य दानाक्षेपयोः पिता प्रभुः, तस्मात् तेन यथा दत्तं तथैव प्रमाणम् ॥ १५ ॥
कानीनश्च सहोदश्च गूढायां यश्च जायते ।
तेषां वोढा पिता ज्ञेयस्ते च भागहराः स्मृताः ॥ १६ ॥
** **कानीनादयस्त्रयः पुत्रा वोढुरेव दायहराश्च ॥ १६ ॥
अज्ञातपितृको यस्तु कानीनो गूढमातृकः ।
मातामहाय दद्याच्च पिण्डं रिक्थं हरेत च ॥ १७ ॥
कानीनो वोढुःपुत्र इत्युक्तम् अतिप्रसङ्गाद् विशेष्यते । कन्यायामदत्तायां यो जातश्चौर्येण, सोऽज्ञातपितृकः ।दत्तायामनूढायां चौर्येण, क्षेत्रिणो निर्ज्ञातत्वाज्ज्ञातपितृक एव सः । उभयत्र गूढायां जातत्वेऽपि स वोढुरित्युक्तः404 । क्षेत्रजादावपि वैलक्षण्यान्न क्षेत्रजः । इतरस्तुमातामहाय पिण्डं दद्यात्, पुत्र इत्यर्थः । रिक्थं च तस्य लभते स देवरजादिष्वनुरूप405म् ॥ १७ ॥
जाता ये त्वनियुक्तायामेकेन बहुभिस्तथा ।
अरिक्थभाजस्ते सर्वे बीजिनामेव ते स्मृताः ॥ १८ ॥
क्षेत्रजाः समांशा इत्युक्तम् । ते नियुक्तायां जाताः, नेतर इति विशिनष्टि ।अनियुक्तायां स्वेच्छया कामात् प्रवृत्तायामेकेन बहुभिर्वा जाताः क्षेत्रजत्वेऽपि न ते धनादिभाजः, बीजिनस्ते पिण्डदा धनभाजश्व ।ऋषभधर्मेण
च प्राप्ताः नियोगवचनस्यार्थवत्त्वायादायादाः । सर्वेषां दायादत्वे नियोगवचनमनर्थकं स्यात् ॥ १८ ॥
दद्युस्तेबीजिनः पिण्डं माता चेच्छुल्कतो हृता ।
अशुल्कोपनतायां तु पिण्डदा वोढुरेव ते ॥ १९ ॥
यदि माता शुल्केन नीता स्याद्, बीजिनः पिण्डदाः । विना शुल्केन स्वयमागतायां जातो वोढुरेव क्षेत्रिण एवेत्यस्मिन् नियोगवचनमनर्थकं स्यात्। अन्य आह — अशुल्कोपनतायां वोढुःपिण्डदा इति वचनान्न रिक्थभाज इति । अत्रापि यतो रिक्थं ततः पिण्डमिति दुरुपपादम् । तस्मात् पणेन विना नियुक्तानियुक्ता वा पत्युरेवापत्यार्थं न्यायेनोपनता चेद् वोढुरेवेति समांश इत्युक्त एव विशेषित इति ॥ १९ ॥
पितृद्विट् पतितः पण्डो यश्च स्यादौपपातिकः ।
औरसा अपि नैतेंऽशं लभेरन् क्षेत्रजाः कुतः ॥ २० ॥
पितरं यो द्वेष्टि, पण्डो व्याख्यातः, औपपातिको विनाशकः अनिष्टश्चाभियुक्तश्च । औरसा अप्येते नांशभाजः । क्षेत्रजा इति । तेषामप्यप्रसङ्ग इत्युक्ते ततो विप्रकृष्टानां दूरत एवेत्युक्तं भवति कानीनादीनां पुत्रत्वे पितुः ॥
दीर्घतीव्रामयग्रस्ता जलोन्मत्तान्धपङ्गवः ।
भर्तव्याः स्युः कुटुम्ब्यास्ते तत्पुत्रास्त्वंशभागिनः ॥ २१ ॥
दीर्घतीव्रामयः क्षयादिः तेन ग्रस्ता जलादयश्च नांशभाजः, अशनादिना भर्तव्याः । निविष्टाश्चेदेवं भवेयुः, तेषां पुत्रा भागहराः ॥ २१ ॥
द्विरामुष्यायणा दद्युर्दाभ्यां पिण्डोदके पृथक् ।
रिक्थादर्धाशमादद्युर्बीजिक्षेत्रिकयोस्तथा ॥ २२ ॥
** ** तव च मम चेत्युत्पादिताः क्षेत्रजाः पुत्रिकासुताश्च, ते द्वयोर्बीजिक्षेत्रिकयोः पिण्डोदके दद्युः, उभयोरनपत्यत्वे सर्वं हरेयुः, सापत्यत्वे उभयतोऽर्धांशम् । एवमौरसैस्तुल्यांशा भवन्ति ॥ २२ ॥
संसृष्टिनां तु यो भागस्तेषामेव स इष्यते406 ।
अतोऽन्यथांशभाजो हि निर्बीजिष्वितरानियात् ॥ २३ ॥
विभक्ताः पुनरेकीभूताः संसृष्टिनः । तेषामनपत्यस्य दायं संसृष्टिन एव विभजेरन् । तेषामन्याभावेंऽशभाजो भ्रातरोऽन्ये विभक्ता असंसृष्टाः, न तानियात् । निर्बीजिषु भ्रातृृणामप्यभावे इतरान् दायादान् गच्छेत् ॥ २३ ॥
भ्रातॄणामप्रजः प्रेयात् कश्चिच्चेत् प्रव्रजेत् तथा ।
विभजेयुर्धनं तस्य शेषास्ते स्त्रीधनाद् विना ॥ २४ ॥
विभक्तेष्वसंसृष्टेषु कश्चिदनपत्यः प्रेयात् प्रव्रजेद्वा, शेषा भ्रातरो विभजेयुस्तदीयं धनम् ।स्त्रीधनाद् यथोक्तादृते । न स्त्रीधनं रूढमेव गृह्यते, स्त्र्यर्थं धनं तद्भार्याया जीवनं मुक्त्वा । तस्यां मृतायां तदपि विभाज्यम् ॥ २४ ॥
भरणं चास्य कुर्वीरंस्त्रीणामा जीवितक्षयात् ।
रक्षन्ति शय्यां भर्तुश्चेदाच्छिन्द्युरितरासु तु ॥२५॥
भरणं व्यापारं च, न स्त्रीधनादि दत्तमित्युपेक्ष्यं, तस्य स्त्रीणां कुर्वीरन् दायादाः यावत् ता जीवन्ति, यद्येकपत्नीव्रतं रक्षन्ति । अन्यथाच्छिन्द्युः सर्वं, न च तद्भरणम् ॥ २५ ॥
स्याद् यस्य दुहिता तस्याः पित्रंशो भरणे मतः ।
आ संस्काराद् भरेतैनां परतो बिभृयात् पतिः ॥ २६ ॥
भ्रातृृणां मध्ये विभक्तानां यस्यापुत्रस्य दुहिता स्यात् , तस्याः पितुरंशो भरणे मतः । अविभक्तानां विभागकाले आ विवाहाद् भरेत इतरो भ्राता । स एवांशः। परत ऊढायाः पतिर्बिभृयात् । न पित्रंशो भवतीत्यर्थः । ततः सएव भ्राता गृह्णाति ॥ २६ ॥
मृते भर्तर्यपुत्रायाः पतिपक्षः प्रभुः स्त्रियाः ।
विनियोगात्मरक्षासु भरणे च स ईश्वरः ॥ २७ ॥
** ** पत्यौ मृतेऽपुत्रायाः । मृत इति वचनाज्जीवन् स एव पतिः । अपुत्राया इति वचनात् सपुत्रायाः पुत्र एव । पतिपक्षः श्वशुरादिः, न पित्रादिः, प्रभवति । विनियोगे क्षेत्रजार्थं, तस्या रक्षायां, भरणे च स एव पतिपक्ष ईष्टे, न पितृपक्षः। पितृविनियोगादि पितृपक्षेण कारयितव्यं व्यवहार इत्येवमर्थ उपन्यासः ॥ २७ ॥
परिक्षीणे पतिकुले निर्मनुष्ये निराश्रये ।
तत्सपिण्डेषु चासत्सु पितृपक्षः प्रभुः स्त्रियाः ॥ २८ ॥
असति पतिपक्षे भरणसमर्थे, निर्मनुष्ये, तत्सपिण्डः प्रभुः । तदभावे पितृपक्ष एव भरणं दाप्य इति ॥ २८ ॥
पक्षद्वयावसाने तु राजा भर्ता स्मृतः स्त्रियाः ।
स तस्या भरणं कुर्यान्निगृह्णीयात् पथश्च्युताम् ॥ २९ ॥
उभयपक्षाभावे राजा बिभृयाद् रक्षेच्च । न स्वतन्त्रा कार्या ॥ २९ ॥
स्वातन्त्र्याद् विप्रणश्यन्ति कुले जाता अपि स्त्रियः ।
अस्वातन्त्र्यमतस्तासां प्रजापतिरकल्पयत् ॥ ३० ॥
गतार्थः श्लोकः ॥ ३० ॥
पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
रक्षन्ति वार्द्धके पुत्रा न स्त्री स्वातन्त्र्यमर्हति ॥ ३१ ॥
वार्द्धकग्रहणं विधवावस्थोपलक्षणार्थम् । शेषमृज्वेव ॥ ३१ ॥
यच्छिष्टं पितृदायेभ्यो दत्त्वर्णं पैतृकं च यत् ।
भ्रातृभिस्तद् विभक्तव्यमृणी न स्यात् पिता यथा ॥ ३२ ॥
पित्रा दत्तं शेषं, पैतृकं पित्रा गृहीतमृणं, तच्च दत्त्वावशिष्टं भ्रातरो विभजेयुः, पिता यथा ऋणी न भवति तथा कुर्युरित्यर्थः ॥ ३२ ॥
येषां च न कृताः पित्रा संस्कारविधयः क्रमात् ।
कर्तव्या भ्रातृभिस्तेषां पैतृकादेव तद्धनात् ॥ ३३ ॥
भ्रातॄणां वालानां पित्रा अकृतसंस्काराणां पितुरभावे ते संस्कारा अकृता भ्रातृभिः पितृधनादुपादाय साधारणात् कर्तव्याः । संस्कारार्थं धनं मुक्त्वान्यद् विभजेरन्नित्यर्थः ॥ ३३ ॥
अविद्यमाने पित्रर्थे स्वांशादुद्धृत्य वा पुनः ।
अवश्यकार्याः संस्कारा भ्रातॄणां पूर्वसंस्कृतैः ॥ ३४ ॥
पितृद्रव्याभावे स्वांशात् स्तोकं स्तोकं गृहीत्वा, वाशब्दादन्यतो वा याचित्वा, ज्येष्ठैरवश्यं कर्तव्याः संस्काराः ।अकरणे कारयितव्या राज्ञा ॥ ३४ ॥
कुटुम्बार्थेषु चोद्युक्तस्तत्कार्यं कुरुते च यः ।
स भ्रातृभिर्बृंहणीयो ग्रासाच्छादनभोजनैः ॥ ३५ ॥
** **अविभक्तावस्थायां विभक्तानां वा साधारणप्रयोजनतत्परः साधारणकार्यं चेत् कुरुते, स इतरैर्भ्रातृभिर्वर्धनीयो ग्रासादिभिः, येन निराकुलः सर्वैः कर्तव्यं करोति ॥ ३५ ॥
विभागधर्मसन्देहे दायादानां विनिर्णये ।
ज्ञातिभिर्भागलेख्यैस्तु पृथक् का(र्यं ? र्या) प्रकल्पना ॥ ३६ ॥
विभक्तानां कस्य कोंऽश इति सन्देहे दायादानां विनिर्णये निश्चयार्थं स्वजनैर्भागलेख्यैर्यथालिखितं पत्रैर्निश्चयप्रकल्पना विभागः कर्तव्यः ॥ ३६ ॥
भ्रातॄणामविभक्तानामेको धर्मः प्रवर्तते ।
विभागे सति धर्मोऽपि भवेदेषां पृथक् पृथक् ॥ ३७ ॥
अविभक्तानामेकः साधारणो धर्मः वैश्वदेवभिक्षातिथ्यादिः । विभक्तानां सर्वःपृथक् पृथगेव ॥ ३७ ॥
दानग्रहणपश्चन्नगृहक्षेत्रपरिग्रहाः ।
विभक्तानां पृथग् ज्ञेयाः पाकधर्मागमव्ययाः ॥३८॥
दानमविभाग एकेन दत्तं सर्वेषां धर्माद्यर्थं, विभागे तु नान्येन दत्तमन्यस्य भवति । एवमृणादिग्रहणं पश्चादिपरिग्रहाश्च, येन यद् गृहीतं, तत् तस्यैव । पाकश्च पृथगेव, धर्मश्च वैश्वदेवादिः, लाभोऽपि प्रतिग्रहादिना, व्ययश्च तस्यैव, नान्यस्य भवति ॥ ३८ ॥
साक्षित्वं प्रातिभाव्यं च दानं ग्रहणमेव च ।
विभक्ता भ्रातरः कुर्युर्नाविभक्ताः परस्परम् ॥ ३९ ॥
परस्परं विभक्ताः साक्षित्वादि कुर्युः, अन्येनानुमता अविभक्ताः कुर्युः, नहि तत्रान्यस्य भवति । अविभ(क्ता ? क्तै) स्त्वननुज्ञाप्य कृतमप्यकृतं, न तत्र साधारणाद् दानादि कृतम् ॥ ३९ ॥
येषां द्विधा क्रिया लोके प्रवर्तन्ते स्वरिक्थिनाम् ।
विभक्तानवगच्छेयुर्लेख्यमप्यन्तरेण तान् ॥ ४० ॥
येषां, नैकधा भेदोपलक्षणार्थं द्विग्रहणं, पृथग् धनपरिग्रहवतां पाकधनसङ्ग्रहकर्षणवैश्वदेवादयः, तत्र विभागसन्देहे विनापि लेख्यादिभिर्विभक्ता इत्यवगन्तव्याः । यथाव्यवहारमेव द्रव्यपरिग्रहः ॥ ४० ॥
यद्येकजाता बहवः पृथग्धर्माः पृथक्क्रियाः ।
पृथक्कर्मगुणोपेता न तेऽकृत्येषु सम्मताः ॥ ४१ ॥
भ्रातरो बहवो यदि, पृथग्धर्मवैश्वदेवपितृकार्यादयः पृथक्कर्षणादिक्रियाश्च, कर्मफलेनापि पृथगेव सम्बध्यन्ते चेत्, न तेऽकृत्येषु अकार्येषु चौर्यादिष्वेकत्वेन मताः । त एव ग्राह्याः, नेतरे ॥ ४१ ॥
स्वानंशान् यदि दद्युस्ते विक्रीणीयुरथापि वा ।
कुर्युर्यथेष्टं तत्सर्वमीशते स्वधनस्य ते ॥ ४२ ॥
य ईशते स्वधनस्य विभागादूर्ध्वं सम्बद्धमितरनिरपेक्षं, तस्माद् दानविक्रयभोगास्तैः कृता इतरनिरपेक्षैः सुकृताः ॥ ४२ ॥
औरसः क्षेत्रजश्चैव पुत्रिकापुत्र एव च ।
कानीनश्च सहोढश्च गूढोत्पन्नस्तथैव च ॥ ४३ ॥
पौनर्भवोऽपविद्धश्च लब्धः क्रीतस्तथा कृतः ।
स्वयं चोपगतः पुत्रो द्वादशैत उदाहृताः ॥ ४४ ॥
** ** औरसो ब्राह्मादिविवाहोढायामात्मना जातः । क्षेत्रज उक्तः । पुत्रिकापुत्रःइयं मम पुत्र इति परिकल्प्य तथा परिभाष्यास्यां जातो यदि मम, रोचते, गृहाणेति दत्तायां जातः । कानीन उक्तः । दत्तायामवि (वा) हितायां जात इतरः ‘न वोढुः पितुरेवे’त्युक्तः । सहोढो गर्भिण्यामूढायां जातः । ऊढायां स्वगृहे पितृगृहे वान्येनोत्पन्नः प्रच्छन्नः । पौनर्भव उक्तः । अपविद्ध उत्सृष्टः कृपवत् ।लब्धः पितृभ्यां दत्तः । क्रीतो मूल्येन शुनश्शेफादिवत् । कृतः त्वं मम पुत्र इति गृहीतः । स्वयमुपगतस्तवाहं पुत्र इति । द्वादशैते पुत्राः ॥ ४४ ॥
तेषु षड् बन्धुदायादाः षडदायादबान्धवाः ।
पूर्वः पूर्वः स्मृतः श्रेष्ठो जघन्यो यो य उत्तरः ॥ ४५ ॥
तेषामयं विशेषः — य आद्याः षडौरसादयो गूढोत्पन्नान्ताः सन्ततिश्च दायादाश्चेति केचित् । बन्धूनां च दायं पितृस्वमपि लभन्त इत्यर्थः । इतरे षट् पितुरेव दायं लभन्ते न सपिण्डानाम् । पूर्वः पूर्वःश्रेयान् उत्तर उत्तर ऊनः रिक्थभागादौ । पूर्व उत्तरं बिभृयात् “अंशानां चौदनं दद्यात् तदंशा इतरे" इति ॥ ४५ ॥
क्रमादेते प्रपद्येरन् मृते पितरि तद्धनम् ।
ज्यायसो ज्यायसोऽभावे जघन्यस्तदवाप्नुयात् ॥ ४६ ॥
मृते पितरि तद्धनं कमात् प्रपद्येरन् । औरसः पूर्वं, तदभावे क्षेत्रजः इत्यादिविभागश्च सर्वसद्भाव उक्तः ॥ ४६ ॥
पुत्राभावे तु दुहिता तुल्यसन्तानदर्शनात् ।
पुत्रश्च दुहिता चोक्तौ पितुः सन्तानकारकौ ॥ ४७ ॥
पुत्राभावे, सर्वाननुक्रम्य वचनात् सर्वाभावे दुहिता हरेत् । अपुत्रस्य पुत्रिकापुत्रेण तुल्यसन्तानदर्शनात् ।
“तस्यामात्मनि तिष्ठन्त्यां कथमन्यो धनं हरेत् ।”
इति,
“(स) दौहित्रोऽप्यमुत्रैनं सन्तारयति पौत्रवत् ।”
इति चोक्तः । द्वावपि सन्तानकारकौ । तस्मात् पुत्राभावे तत्तुल्यत्वादन्येभ्यः प्रत्यासत्तेर्दुहित्महरेत् ॥ ४७ ॥
अभावे दुहितॄणां तु सकुल्या बान्धवास्तथा ।
ततः सजात्याः सर्वेषामभावे राजगामि तत् ॥ ४८ ॥
दुहित्रभावे सकुल्याः सपिण्डाः। तदभावे बान्धवाः सम्बन्धिनः । तदभावे सजात्याः समानजातीया मित्रभूताः । तदभावे राजा हरेत् ॥ ४७ ॥
अन्यत्तु ब्राह्मणात् तत्तु राजा धर्मपरायणः ।
तत्स्रीणां जीवनं दद्यादेष दायविधिः स्मृतः ॥ ४९ ॥
राजगामीत्युक्तं, तदन्यत्र ब्राह्मणात् । तत्तु ब्राह्मणेभ्य एव देयं, न भाण्डागारं प्रवेशयेद् धार्मिकः । इतरो हरेदपि धर्मनिरपेक्षः । यदेतरेषां हरति तदा स्त्रीणां जीवनं दत्त्वा शेषं हरेत्। एष दायधर्मः ॥ ४९ ॥
इति दायविभागत्रयोदशं विवादपदम ॥
\_\_\_\_\_
अथ साहसं चतुर्दशं विवादपदम् ।
सहसा क्रियते कर्म यत्किञ्चिद् बलदर्पितैः ।
तत् साहसमिति प्रोक्तं सहो बलमिहोच्यते ॥ १ ॥
सहसा बलेन बलवद्भिः प्रसह्यप्रतिज्ञातं यत्किञ्चित् कर्म क्रियते परस्वहरणादि, तत् साहसमिति चतुर्दशं विवादपदम् उच्यते । सहो बलं, तम्मिन् भवं साहसम् ॥ १ ॥
तत् पुनस्त्रिविधं ज्ञेयं प्रथमं मध्यमं तथा ।
उत्तमं चेति शास्त्रेषु तस्योक्तं लक्षणं पृथक् ॥ २ ॥
तत् साहसं त्रिविधं, प्रथमं मध्यमम्, उत्तममिति । फल्गुसारादिविषयभेदेन मनुसंहितासु शास्त्रान्तरेषु च तस्य त्रिप्रकारस्यापि लक्षणमुक्तम् ॥ २ ॥
तदुच्यते —
फलमूलोदकादीनां क्षेत्रोपकरणस्य च ।
भङ्गाक्षेपावमर्दाद्यैः प्रथमं साहसं स्मृतम् ॥ ३ ॥
परपरिग्रहे फलमूलोदकशाकपुष्पादीनां क्षेत्रोपकरणस्य हलयुगवरत्रादेर्भङ्गः, क्षेत्रोपकरणस्य फलकन्दशाकादीनामाक्षेपो हरणम्, उदकादेश्च सेतोरवमर्द , सस्यादेश्चाहरणं सर्वेषां वा यथासम्भवम् । एतत् प्रथमं साहसमल्पद्रव्यापहारविषयम् ॥ ३ ॥
वासःपश्वन्नपानानां गृहोपकरणस्य च ।
एतेनैव प्रकारेण मध्यमं साहसं स्मृतम् ॥ ४ ॥
वस्त्राणां पशूनामजादीनां पक्वान्नस्य क्षीरादेर्गृहोपकरणस्य घटपीठकोलूखलमुसलशूर्पादेः पूर्वबद् भङ्गादिकरणं मध्यमद्रव्यविषयत्वान्मध्यमं साहसम् ॥ ४ ॥
व्यापादो विषशस्त्राद्यैःपरदारप्रधर्षणम् ।
प्राणोपरोधि यच्चान्यदुक्तमुत्तमसाहसम् ॥ ५ ॥
व्यापादो मरणं विषशस्त्राग्निहस्तमुष्ट्यादिभिः ।परदाराणां चातिक्रमः । अन्यदपि येन म्रियते तस्यानुष्ठानं पुत्रमरणकथनाद्यनृतं, तद्ध्युत्कृष्टविषयत्वादुत्तमसाहसम् ॥ ५ ॥
तस्य दण्डः क्रियापेक्षः प्रथमस्य शतावरः ।
मध्यमस्य तु शास्त्रज्ञैर्दृष्टःपञ्चशतावरः ॥ ६ ॥
तस्य त्रिप्रकारस्य साहसस्य दण्डः, क्रियत इति क्रिया द्रव्यं तदपेक्षो द्रव्यतत्सारापेक्षो भिद्यते । तत्र प्रथमस्य तावत् फलादिविशेषवशात् पञ्चशतादारभ्य यावच्छतं, न शतादर्वाक् । अल्पेऽप्यपराधे बहुदण्डवचनं प्रसङ्गनिवृत्त्यर्थम् ।मध्यमसाहसस्य सहस्रादारभ्य यावत् पञ्चशतानि ॥ ६ ॥
वधः सर्वस्वहरणं पुरान्निर्वासनाङ्कने ।
तदङ्गच्छेद इत्युक्तो दण्ड उत्तमसाहसे ॥ ७ ॥
वधस्ताडनादिः, सर्वस्वहरणं, ततो महति पुरान्निर्वासनं वधादि कृत्वा ततोऽपि महति पूर्वत्रयमङ्कनं च, येनाङ्गेन हस्तेन पादेन वा साहसं कृतं तस्यच्छेदनम् । एवम्प्रकारो दण्ड उत्तमसाहसे ॥ ७ ॥
अविशेषेण सर्वेषामेष दण्डविधिः स्मृतः ।
वधादृते ब्राह्मणस्य न वधं ब्राह्मणोऽर्हति ॥ ८ ॥
अविशेषेण क्षत्रियविट्शूद्रादीनामेष पञ्चविषो दण्ड उत्तमसाहसे । इतरयोरपि प्रथममध्यमयोरपि यथोक्तो वधं मुक्त्वा अन्यस्तुल्यः, ब्राह्मणस्य तु वधो नास्ति, तुल्यदोषत्वेऽपि जातेः पूज्यत्वात् ॥ ८ ॥
शिरसो मुण्डनं दण्डस्तस्य निर्वासनं पुरात् ।
ललाटे चाभिशस्ताङ्कोनिर्याणं गर्दभेन च ॥ ९ ॥
ब्राह्मणस्योक्तमेव — शिरसो मुण्डनं पञ्चसटं कार्यम् । ततो महति
पुरान्निर्वास्यः । ततोऽपि महति ललाटेऽभिशस्ताङ्कनं कुक्कुटाद्यं क्रमात् कार्यम् । गर्दभेन चाधिष्ठाने भ्रामयितव्यः ॥ ९ ॥
स्यातां संव्यवहार्यौतौ धृतदण्डौ तु पूर्वयोः ।
धृतदण्डोऽप्यसंभोज्यो ज्ञेय उत्तमसाहसे ॥ १० ॥
प्रथममध्यमयोश्च कर्तारौ दण्डितौ कृतप्रायश्चित्तौ च सम्भोजनादिमर्हतः, न त्याज्यौ । उत्तमसाहसे तु407 धृतदण्डोऽपि त्याज्य एव, न सम्भोज्यः ॥ १० ॥
तस्यैव भेदःस्तेयं तु विशेषस्तत्र चोच्यते ।
आधेःसाहसमाक्रम्य स्तेयमाधिच्छलेन तु ॥ ११ ॥
प्रसह्यबलात्प्रज्ञातमादा408नं स्तेयमित्युच्यते । एष एव तस्य साहसस्य भेदो विशेषश्च ॥ ११ ॥
तदपि त्रिविधं प्रोक्तं द्रव्यापेक्षं महर्षिभिः ।
क्षुद्रमध्योत्तमानां तु द्रव्याणामपकर्षणात् ॥ १२ ॥
तदपि स्तेयं द्रव्यापेक्षं त्रिविधम् ऊनमध्यमोत्तमम् । क्षुद्रद्रव्यापकर्षणादल्पं, मध्यमद्रव्यापकर्षणान्मध्यमम्, उत्तमद्रव्यापकर्षणादुत्तमम् ॥ १२ ॥
मृद्भाण्डासनखट्वास्थिदारुचर्मतृणादि यत् ।
फलं चान्यकृतान्नंच क्षुद्रद्रव्यमुदाहृतम् ॥ १३ ॥
मृन्मयं घटादि, आसनं पीठिका, खट्वा, अस्थि कङ्कता409दि, काष्ठचर्मतृणादि, माषादिफलं, पक्कान्नादि, क्षुद्रद्रव्याणि । एषामपहरणे प्रथमं स्तेयम् ॥ १३ ॥
वासः कौशेयवर्जं यद्गोवर्जं पशवस्तथा ।
हिरण्यवर्जं लोहं च मध्यं व्रीहियवाअपि ॥ १४ ॥
कौशेयादन्यद् वस्त्रम् । कौशेयपर्युदासात् तत उत्कृष्टपत्रपट्टोर्णादिव्युदासोऽर्थात् \। गोवर्जमजादयः पशवः ।गोवर्जनाद् हस्त्यादिवर्जितम् । हिरण्यवर्जितानि ताम्रायस्त्रपुसीसादीनि । अत्रापि मण्यादिपर्युदासो द्रष्टव्यः । व्रीहियवादि द्रव्यं, तेषां हरणे मध्यमस्तेयम् ॥ १४ ॥
हिरण्यरत्नकौशेयस्त्रीपुङ्गोगजवाजिनाम् ।
देवब्राह्मणराज्ञां च द्रव्यं विज्ञेयमुत्तमम् ॥ १५ ॥
** ** गतार्थः श्लोकः । एतदपहरणादुत्तमस्तेयम् ॥ १५ ॥
उपायैर्विविधैरेषां छलयित्वापकर्षणम् ।
सुप्तमत्तप्रमत्तेभ्यःस्तेयमाहुर्मनीषिणः ॥ १६ ॥
उपायैर्विविधैः सन्देशकूटलेख्यसन्धिच्छेदग्रन्थिभेदाद्यैरेषां त्रिप्रकाराणां च वञ्चयित्वा410 स्वामिनोऽपहरणं सुप्तमत्तप्रमत्तेभ्यश्च त्रिप्रकारं स्तेयमाहुः ॥ १६ ॥
सहोढग्रहणात् स्तेयं होढेऽसत्यतिभोगतः ।
शङ्कात्वसज्जनैकार्थ्यादनायव्ययतस्तथा ॥ १७ ॥
** ** लोप्त्रेणापहृतद्रव्यैकदेशेन सह ग्रहणादवसराभावे स्तेयम् । लोप्त्राभावेऽतिभोगात् पूर्वावस्थाया गन्धमाल्यवस्त्रादीनाम् । शङ्कया सर्वं दृष्ट्वा शङ्कित इवोद्विग्नइव भवति, तत्रापि स्तेयं सम्भाव्यम् । शङ्काभावे न निश्चयः तदन्वसज्जनैर्द्यूतकदासीपत्यादिदुष्टजनैरेककार्यत्वात् सम्भाव्यं स्तेयम् । न विद्यते (आयः) आगमो यस्य सोऽनायः । अनायस्य व्ययोऽनायव्ययः । अनायव्ययाच्च सम्भाव्यमेव411म् ॥ १७ ॥
भक्तावकाशदातारः स्तेनानां ये प्रसर्पताम् ।
शक्तौ च य उपेक्षन्ते तेऽपि तद्दोषभागिनः ॥ १८ ॥
** ** स्तेनानां मुषितुं गच्छतां, मुषित्वा वोपसर्पतां, ये भक्तदाःज्ञानपूर्वकमवकाशदातारश्च प्रच्छादनार्थं मोषनिधानार्थम् । ‘जनिकर्तुः प्रकृतिः’ (१-४-३०) इति ज्ञापकात् तृजन्तेन समासः ।अभिधावतेत्युद्धोषिते त्रातुं शक्ताः सन्तो ये चौदासीन्येनासते, ते सर्वे चोरतुल्याः ॥ १८ ॥
उत्क्रोशतां जनानां च हियमाणे धनेऽपि च ।
श्रुत्वा ये नाभिधावन्ति तेऽपि तद्दोषभागिनः ॥ १९ ॥
अपिचेति न पूर्व एव एतेऽपीति समुच्चयार्थः । उत्क्रोशतां धनं गृहीत्वा
चोरा गच्छन्ति परित्रायध्वं परित्रायध्वमिति, धने ह्रियमाणे आह्वानं कुर्वतां ये न धावन्ति शक्ता अशक्ता वा, तेऽपि तद्दोषेण सम्बध्यन्ते॥ १९ ॥
साहसेषु य एवोक्तस्त्रिषु दण्डो मनीषिभिः ।
स एव दण्डः स्तेयेऽपि द्रव्येषु त्रिष्वनुक्रमात् ॥ २०॥
यथैव साहसेषु प्रथममध्यमोत्तमेषु क्रमेण प्रथममध्यमोत्तमसाहसदण्डाः प्रोक्ताः, तथा क्रमेण क्षुद्रमध्यमोत्तमानि द्रव्याणि मृद्भाण्डवासोहिरण्यादीनि, क्षुद्रमध्यमोत्तमद्रव्यापहारेषु प्रथममध्यमोत्तमसाहसदण्डाः, देशकालपुरुषापराधान् परीक्ष्य सर्वत्र ॥ २० ॥
गवादिषु प्रनष्टेषु द्रव्येष्वपहृतेषु वा ।
पदेनान्वेषणं कुर्युरां मूलात् तद्विदो जनाः ॥ २१ ॥
गवादिषु गोजाविमहिषाश्वादिषु प्रनष्टेषु, द्रव्येषु वा सन्धिच्छेदनादिनापहृतेषु गवादिषु, मनुष्यपदेन यतोऽपहृतं द्रव्यं तत आरभ्य यत्र प्रवि(ष्टो ? ष्टं)गच्छेत् घोषे वा तावदन्वेषणं कुर्युः अपूर्वमानुषादिपदज्ञानकुशलाधिष्ठिताः ॥ २१ ॥
ग्रामे व्रजे विवीते वा यत्र सन्निपतेत् पदम् ।
वोढव्यं तद् भवेत् तेन नचेत् सोऽन्यत्र तन्नयेत् ॥ २२ ॥
ग्रामादौ यत्र तत् पदं प्रविष्टं, तेन ग्रामादिना चोरदोषोऽनुभवितव्यः, स ग्रामादिस्ततो प्रामान्निर्गत्यान्यत्र न नयेच्चेत् । अन्यत्र स मुच्यते यो नयेत् । इतरस्याप्येषैव गतिः ॥ २२ ॥
पदे प्रमूढे भग्नेवा विषमत्वाज्जनान्तिके ।
यस्त्वासन्नतरो ग्रामो व्रजो वा तत्र पातयेत् ॥ २३ ॥
ग्रामाद् बहिरटव्यां प्रमूढं न ज्ञायते तत् पदमतश्चेतश्च पदबहुत्वात् । भ(ग्नो? ग्नं) वोपर्युपरि गमागमवैषम्यात् । यत्र पदं भग्नं प्रनष्टं प्रमूढं वा, तस्य देशस्य सन्निकृष्टतरे ग्रामे व्रजे वा तच्चौर्यं पातयेत् । तथा सति त एव रक्षिष्यन्ति तद्भयात् । एवं कृते चोराणां प्रवेशनिर्गमाभावान्निश्चोरता भवति ॥ २३ ॥
समेऽध्वनि द्वयोर्यत्र स्तेयप्रायोऽशुचिर्जनः ।
पूर्वापदानैर्दृष्टो वा संसृष्टो वा दुरात्मभिः ॥ २४ ॥
यत्र तत्पदं412 भग्नं प्रमूढं वा तस्य देशस्य तुल्याध्वानौ ग्रामौ यदि स्यातां, यस्मिन् देशे चोरप्रायो निस्सत्यशौचो जनः पूर्वकार्य एव सम्भावितः निषाददासीपतिद्यृतकरशौण्डिकादिभिः संसृष्टः, तत्र पातयेदित्येव । तत्र हि सम्भाव्यते चोरत्वम् । तथाभूतो जनः शक्तोऽत्यनार्यप्रायः । तस्मिन् सत्यनार्यप्राये न्याय्यं पातयितुम् ॥ २४ ॥
ग्रामेष्वन्वेषणं कुर्युश्चण्डालवधकादयः ।
रात्रिसञ्चारिणो ये च बहिष्कुर्युर्वहिश्चराः ॥ २५ ॥
ग्रामेषु चोरान्वेषणं कुर्युः । ग्रामग्रहणे न413गरस्यापि द्रष्टव्यम् । चण्डालाश्च वधकाश्च चेटिकागोमलिकाशौण्डिकादयश्चराः, रात्रिसञ्चारिणो ये च भाण्डवाहिकुभिण्डिक414पुरुषाः, ग्रामादिषु बहिरन्वेषणं कुर्युरित्येव415 ॥ २५ ॥
स्तेनेष्वलभ्यमानेषु राजा दद्यात् स्वकाद् धनात् ।
उपेक्षमाणो ह्येनस्वी धर्मादर्थाच्च हीयते ॥ २६ ॥
चोरेष्वलभ्यमानेषु राजा स्वधनाद् दद्यात् तद्धनं, नास्तितस्य रक्षितव्यस्यारक्षणात् स्वदोषान्नष्टत्वात् ।उपेक्षमाणोऽददत् स्वधनाच्चोरमन्विष्यादापयंश्च स्वार्थात् तन्निमित्ताद्धीयते । तस्माद् यथोक्तं कर्तव्यम ॥ २६ ॥
इति साहसं चतुर्दशं विवादपदम् ॥
\_\_\_\_\_
** अथ वाग्दण्ढपारुष्यं पञ्चदशं (षोडशं च ) विवादपदम् ।**
देशजातिकुलादीनामाक्रोशन्यङ्गसंहितम् ।
यद् वचः प्रतिकूलार्थं वाक्पारुष्यं तदुच्यते ॥ १ ॥
यो यस्मिन् देशे जातस्तद्देशसम्बद्धं, जातिर्ब्राह्मणादिः तज्जातिसम्बद्धं च, तत्कुलसम्बद्धं च, विद्याशिल्पस्वजनादिसर्वसम्बद्धं चाक्रोशनं न्यङ्गरूपम् । तेषां तत्राक्रोशः प्रसिद्ध एव ।न्यङ्गं मर्मगोप्यम् । तदुभयसंयुक्तं देशादिविषयं प्रतिकूलाभिधेयं वचः (वाक् ) पारुप्यमुच्यते ॥ १ ॥
निष्ठुराश्लीलतीव्रत्वात् तदपि त्रिविधं स्मृतम् ।
गौरवानुक्रमादस्य दण्डोऽपि त्रिविधः स्मृतः ॥ २ ॥
अपि तावत् साहसं त्रिविधमित्युक्तं, तथैव वाक्पारुप्यमपि त्रिविधं निष्ठुरत्वादश्लीलत्वात् तीव्रत्वाच्च । गौरवानुक्रमादस्य त्रिविधस्य गौरवं क्रमेण । निष्ठुरादश्लीलं गुरु, ततोऽपि तीव्रं, तेनैव क्रमेण दण्डोऽपि त्रिविध एव लघुर्लघौगुरौ गुरुः ॥ २ ॥
लाक्षेपं निष्ठुरं ज्ञेयमश्लीलं न्यङ्गसंयुतम् ।
पतनीयैरुपक्रोशैस्तीव्रमाहुर्मनीषिणः ॥ ३ ॥
साधिक्षेपं मातैवंरूपा तव पिता च त्वमपि न किञ्चिज्जानासि इत्यादि निष्ठुरम् ।न्यङ्गसंयुतम् अश्लीलम् ।पतनीयैः चोरस्त्वं गुरुतल्पग इत्यादिभिरपवादैर्युतं वचस्तीव्रमुच्यते । उत्तरोत्तरो गुरुः ॥ ३ ॥
वाक्पारूष्यं निरूप्यदण्डारुप्यंप्रस्तौति
परगात्रेष्वभिद्रोहो हस्तपादायुधादिभिः ।
भस्मादिभिश्चोपघातो दण्डपारुष्यमुच्यते ॥ ४ ॥
रोषात् परशरीरेष्वभिद्रोहः प्रहरणं हस्तादिभिः भस्मादिभिश्चोपघातो रज्जुपाषाणादिभिश्च भस्मधूलीपानीयाशुच्यादिना, दण्डपारुप्यमुच्यते ॥ ४ ॥
तत्रापि दृष्टं त्रैविध्यं मृदुमध्योत्तमक्रमात् ।
❋416 अवगूरणनिस्सङ्गपातनक्षतदर्शनैः ॥ ५ ॥
दण्डपारुप्येऽपि त्रैविध्यं त्रिप्रकारत्वं दृष्टमधममध्यमोत्तमक्रमेण । अवगूरणेन मन्दः । निस्सङ्गप्रहरणैर्मध्यमः । शोणितोत्पादनैरुत्तमः ॥ ५ ॥
हीनमध्योत्तमानां तु द्रव्याणां समतिक्रमात् ।
त्रीण्येव साहसान्याहुः प्रोक्तं कण्टकशोधनम् ॥ ६ ॥
निकृष्टमध्यमोत्तमानां द्रव्याणां हरणात् त्रीणि साहसान्युक्तानि । तान्येवैतानि दण्डपारुप्याणि । तेषां च शोधनमुक्तं पूर्वस्मिन् विवादपदे ‘सहोढ❋417")दर्शनात् स्तेयमि’ त्यादिना ।दण्डश्चोक्तः । तस्य चास्य चैकत्वमुक्तमेतेन ॥ ६ ॥
विधिः पञ्चविधस्तूक्त एतयोरुभयोरपि ।
विशुद्धिर्दण्डभाक्त्वं च तत्र सम्बध्यते यथा ॥ ७ ॥
अथवा पूर्वश्लोके यथा त्रीणि साहसानि कण्टकशोधनमिति, नच दण्डपारुप्यसाहसयोरेतयोरुभयोरप्युपलब्धो विधिः पञ्चविध उक्तः । असज्जनैकार्थ्यादीनां विशुद्धिश्च, प्रथमसाहसादिना दण्डभाक्त्वं चाकार्यकारिणां यथा भवति ‘भक्तावकाशदातार’ इत्यादिना, तदेवात्राप्युक्तं द्रष्टव्यम् ॥ ७ ॥
पारुष्येसति संरम्भादुत्पन्ने क्षुब्धयोर्द्वयोः ।
स मान्यते यः क्षप्रते दण्डभाग योऽतिवर्तते ॥ ८ ॥
संरम्भात् क्षुभितयोः पारुष्यउत्पन्ने सति यः क्षमते स पूज्यो न दण्ड्यः । यस्त्वतिवर्तते आक्रोशैः प्रहरणेन वा, स दण्ड्यः ॥ ८ ॥
पारुष्यदोषधुतयोर्युगपत् सम्प्रवृत्तयोः ।
विशेषश्चेन्नदृश्येत विनयः स्यात् समस्तयोः ॥ ९ ॥
पारुष्यदोषधुतयोर्वाग्दण्डपारुष्यदोषधुतयोः रोषाविष्टयोरन्यतरोऽपि न क्षमते ।युगपद् घाताघातादि कुर्वतोर्विशेषाभावे धाते प्रतिघा ( तं? तः) (आक्रोशे) प्रत्याक्रोशः, उभयोस्तुल्यो दण्डः ॥ ९ ॥
पूर्वमाक्षारयेद् यस्तु नियतं स्यात् स दोषभाक् ।
पश्चाद् यः सोऽप्यसत्कारी पूर्वे तु विनयो गुरुः ॥ १० ॥
यः पूर्वमाक्रोशेनातिक्रामेत् तर्जनादिना, स नित्यं दोषभाक् । पश्चादपि य आक्षारयेत्, न क्षमेत, सोऽप्यसत्कारी अशोभनकारी दण्ड्य इत्यर्थः । तयोः पूर्वस्य महान् दण्डःप्रथमातिक्रमात् । इतरस्य प्रथमं क्षमणादल्पः, पश्चादप्यतिक्रामन् दण्ड्यः ॥ १० ॥
द्वयोरापन्नयोस्तुल्यमनुबध्नाति यः पुनः ।
स तयोर्दण्डमाप्नोति पूर्वो वा यदि वेतरः ॥ ११ ॥
द्वयोः संरम्भादुपशान्तयोर्यः पुनः पुनरनुद्रवति, अपसर्पंन ददाति, स दण्ड्यः, यदि पूर्वं मारयति यदि पश्चाद् वा ।इतर उपशीन्तो न दण्ड्यः ॥
❋418. “)श्वपाकः सौबलः । पण्डः षण्डः। व्यङ्गो हीनाङ्गः । वधवृत्तयो वधकारिणः घात्यघातकाः । हस्तिपा हस्त्यारोहाः । व्रात्याः संस्कारहीना द्विजातयः । गुरवः पितृव्यतिरिक्ता मातुलादयः । अन्तगाः शिष्याः । एतेषां दारेषु मर्यादातिक्रमेण गमने सद्योवध एव दण्डः । तेऽपि यदि ताडनमारणादि कुर्युः, न दण्डपारुष्यदोषमाप्नुयुः, न दण्ड्याः, न सा419धुकृतमित्यनुज्ञातव्या राज्ञा । एवं ब्रुवतान्यैः स्वयं निग्रहो न करणीय इत्युक्तं भवति । अयमत्रार्थः— ‘श्वपाक (पण्ड) चण्डालेष्वन्तस्थवधकारिष्वि’ति श्वपाकादयो मर्यादाभिगम इति हस्तिपकादिदारेषु गच्छेयुः । गुर्वाचार्यातिक्रमे च तथा वाग्दण्डपारुष्येषु हन्तव्याः । एतेन दण्डपारुष्यदोषः । एतेषु दण्डपारुष्यनिग्रहो वध एवेति ॥
यमेव ह्यतिवर्तेरन्नेते सन्तं जनं नृषु ।
स एव विनयं कुर्यान्न तद्विनयभाङ् नृपः ॥ १२ ॥
यमेव सज्जनमेतेऽतिवर्तेरन् संसर्गवाग्दण्डपारुष्यादिना, स एव विनयं वधादि कुर्यात् । न तत्र राजैव शिष्यादिति नियमोऽस्ति ॥ १२ ॥
मला ह्येते मनुष्येषु धनमेषां मलात्मकम् ।
अतस्तान् घातयेद् राजा नार्थदण्डेन दण्डयेत् ॥ १३ ॥
घात एव, धनदण्डो नेत्यत्र कारणमाह —मनुष्येषु मलाः पापा एते शास्या एव । तद्धनं पापकरम् । तस्माद् घात एव दण्डः ॥ १३ ॥
शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमर्हति ।
वैश्योऽध्यर्थं शतं द्वे वा शूद्रस्तु वधमर्हति ॥ १४ ॥
ब्राह्मणमाकुश्य वाक्पारुष्येण क्षत्रियादयो यथोक्तं दण्ड्याः ॥ १४ ॥
विप्रः पञ्चाशतं दण्ड्यः क्षत्रियस्याभिशंसने ।
वैश्यं चैवार्धपञ्चाशच्छूद्रं द्वादशको दमः ॥ १५ ॥
ब्राह्मणोऽपीतरानाक्रुश्य यथोक्तं पञ्चाशत् पञ्चविंशतिः द्वादश च दण्डयः ॥ १५ ॥
समवर्णद्विजादीनां द्वादशैव व्यतिक्रमे ।
वादेष्ववचनीयेषु तदेव द्विगुणं भवेत् ॥ १६ ॥
ब्राह्मणस्य ब्राह्मणे क्षत्रियस्य क्षत्रिये वैश्यस्य वैश्येऽतिक्रम आक्रोशे प्रकृतत्वाद् द्वादशैव सर्वथा वचने पणः । अवचनीयेषु चतुर्विंशतिः ॥ १६ ॥
काणं वा यदि वा खञ्जमन्यं वापि तथाविधम् ।
तथ्येनापि ब्रुवन् दाप्यो दण्डं420 कार्षाषणात् पर421म् ॥ १७ ॥
काणखञ्जकुणिबधिरादीस्तथ्येनापि ‘काणे’त्यादि ब्रुवन् दण्डं दाप्यः कार्षापणादधिकम् ॥ १७ ॥
न किल्बिषेणापवदेच्छास्त्रतः कृतपावनम् ।
न राज्ञा धृतदण्डं च दण्डयेत् तव्द्यतिक्रमे ॥ १८ ॥
कृतशास्त्रोक्तप्रायश्चित्तं राज्ञा च दण्डितं, व्यस्तसमस्तग्रहणं, न दोषेण दूषयेत् । दूषयन्तं दण्डयेत् ॥ १८ ॥
अत्रहेतुरुच्यते—
लोकेऽस्मिन् द्वाववक्तव्याचदण्ड्याौच प्रकीर्तितौ।
ब्राह्मणश्चैव राजा च तौहीदं विभृतो जगत् ॥ १९ ॥
यतो लोकेऽस्मिन् द्वाववक्तव्यौ यथाब्रूतांतथा कर्तव्यम् । यच्च ताभ्यां कृतं तन्न विचार्यं प्रमाणीकर्तव्यम् । अदण्ड्यौ च अन्यथाकृतेऽपि । तत् प्रमाणमेव ब्राह्मणश्च राजा च । यतस्तौ जगद् बिभृतः । ब्राह्मणः प्रतिग्रहादिनेतरान् धर्मे स्थापयति ।
“अग्नौप्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते ।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नंततः प्रजाः ॥”
इत्यादिना । राजा च पालनदानादिना ।तस्मान्नापवदेत् ताभ्यां शोधितमिति ॥ १९ ॥
पतितं पतितेत्युक्त्वा चोरं चोरेति वा पुनः ।
वचनात् तुल्यदोषः स्यान्मिथ्या द्विर्दोषभाग् भवेत् ॥ २० ॥
‘द्विर्दोषतां व्रजेदि’त्यन्यः । कृतप्रायश्चित्तं राज्ञा च दण्डितमपवदन् दण्ड्य इत्युक्तम् । कारणं चात्रोक्तम् । ब्राह्मणो राजा चाप्रतिहतौ ताभ्यां पूर्वं भृतत्वादिति । दण्डस्त्वविशेषित इति स विशेष्यते । द्वाभ्यामुक्ताभ्यां शुद्धं पूर्वं पतितं पतितेत्युक्त्वा प्रत्यक्षमामन्त्र्य चोरं च तथा सुशुद्धं चोरेत्यामन्त्र्य अस्मादेव वचनात् पतितचोरतुल्यदोषः स्यात् । अस्मिन् व्याख्याने ‘मिथ्या द्विर्दोषतामि’ ति दुर्गमम् एवं नेतव्यं स्यात् । अकारणमेवैवं दण्डितरत्वम्, एवञ्च तस्य प्रायश्चित्तं चरितमिति मिथ्यावचने द्विर्दोषत्वम् । अथवा न सम्यगुभयं कृतं, तस्माच्चोरः पतित इत्येवमुक्त्वा तुल्यदोषः स्यादसम्यक्करणे । सम्यक्करणे तु मिथ्यावचनाद् द्विर्दोषत्वमिति । आ (सु ? ) युक्तैर्वा दृष्टे व्यवहारे दण्डिते चोरेति ब्रुवंस्तुल्यदोषः, तेषां राज्ञा प्रमाणीकृतत्वात् । पुना राज्ञा दृष्टे सम्यगेव स्याद् द्विर्दोषतामिति । तथा वसिष्ठेनाप्युक्तं— “भ्रूणहा प्रायश्चित्तं चरन् भ्रूणहणे भिक्षां देहीति ब्रूयाद् निरुक्ते ह्येनः कनीयो भवती” त्युक्त्वेदमाह—“पतितं पतितेत्येतद्विषयमेतदि” ति । स न वक्तव्यः इत्यस्य दृष्टान्तत्वेन चार्थबादः। भृगुसंहितायामपि ‘काणं वाप्यथवा खञ्जमन्यं वापी’त्यनन्तरं वाक्पारुष्यप्रकरणे यत् पठितं, केषाञ्चिन्नास्त्येव । तत्रापि संरब्धयोराकोशे सम्यङ्मिथ्यावचनयोर्दोष इत्याद्येतावत् । कृतपावनं दण्डितं च न किल्बिषेणापवदेत् इति सर्वविषयवचनाच्चोरपतितयोरेव विशेषेण वदतः सम्बोधनं च न सम्यग् विलक्ष्यते । प्रदर्शनार्थं वा कल्पनीयः । सर्वेष्वेव व्याख्यानेषु युक्तं विचार्यम् । यश्चौर्यादि न करोति, कथं तं चोरेति वचनात् तुल्यदोषता, मिथ्या वा द्विर्दोषता । अनेन न वक्तव्यमित्येताव्रतोऽर्थवादो मिथ्या द्विरिति वचने दण्ड्य इति, तत् पूर्वश्लोकेनैवोक्तत्वादनर्थकम् । द्विरिति च क्रियाभ्यावृत्तिवचनो दुर्गमः । असमासे दोषतामित्यसम्बद्धं, कथं पुरुषो दोषतां व्रजेत् । अथ समासः, सुजर्थो नास्ति उत्तरपदस्याक्रियावचनात् । तस्माच्चिन्त्यम् । अथवायमर्थः—वाक्पारुष्ये
पठितत्वात् पतितं पतितबुद्ध्यैव न अदुष्टकर्मा क्रीडार्थक्रियया वा पतितेति समक्षमामन्त्र्य । ‘पूर्वत्रासिद्धम्’ (८-२-१) इति चासिद्धत्वादसंहिता (?) । ततश्च पतित इत्युक्त्वा रोषेण चोरमपि तथैव । सकृद्वचनाद् द्विरित्युक्तम् । अत्र वचनात् तुल्यदोषःस्यात् । तुल्यशब्दः साधारणदोषः स्याद्वा । दोषसम्बन्धे वचनमात्रानुरूपो दण्डः । मिथ्या ब्रुवन् सकृदज्ञानाद् वदन्ननुरूपदण्ड इति द्विर्वचनादपेक्ष्यते । तथाच सुजर्थःसम्पन्नो भवति । सकृत् प्रमादाद् ब्रूयात् । द्वितीयं न प्रमादेन ब्रवीति, बुद्धिपूर्वं परोपघातार्थमेव । अतः परोपघातसामान्याद्दोषभाग् भवति । पूर्वमंशस्योक्तत्वादिति समस्तचोरदोषाभाग् भवेत् । बुद्धिपूर्वमुभयो परोपघातस्य तुल्यत्वात् ॥ २० ॥
नामजातिग्रहं तेषामभिद्रोहेण कुर्वतः ।
निखेयोऽयोमयः शङ्कुःशूद्रस्याष्टादशाङ्गुलः ॥ २१ ॥
शूद्रस्येति वचनात् तेषा422मिति बहुवचनाद् द्विजातीनां रोषेण नाम गृहीत्वाक्रोशतः, नामग्रहणं सौतिलक दत्तिलकेति, जातिग्रहणं वा ब्राह्मणस्त्वमित्यादि कुर्वतो लोहमयः शङ्कुरष्टादशाङ्गुलो मुखे निखेयः ॥ २१ ॥
धर्मोपदेशं दर्पेण द्विजानामस्य कुर्वतः ।
तप्तमासेचयेत् तैलं वक्त्रे श्रोत्रे च पार्थिवः ॥ २२ ॥
शूद्रस्य दर्पाद् धर्मोपदेशं वेदवेदाङ्गस्मृतिशास्त्रार्थोपदेशं कुर्वतः प्रतिषिद्धकरणत्वात् तप्तं तैलं मुखे श्रोत्रे च दापयेद् राजा । दण्डाभिप्रायेण वचनादग्निवर्णमिति गम्यते, नोष्णमात्रम् ॥ २२ ॥
येनाङ्गेनावरो वर्णो ब्राह्मणस्यापराध्नुयात् ।
तदङ्गमेवच्छेत्तव्यमेवं शुद्धिमवाप्नुयात् ॥ २३ ॥
येनाङ्गेन हस्तेन पादेन वा शुद्धो ब्राह्मणं प्रहरेत् तदेवाङ्गंछेत्तव्यम् । एवं शुद्धिः, न धनदण्डेन ॥ २३ ॥
सहासनमभिप्रेप्सुरुत्कृष्टस्यापकृष्टजः ।
कटिदेशेऽङ्क्य निर्वास्यः स्फिग्देशं वास्य कर्तयेत् ॥ २४ ॥
एकमासनं य इच्छति, सहास्त इत्यर्थः, उत्कृष्टस्योत्कृष्टस्यावरावरवर्णजः। अङ्कयित्वा कटिदेशे निर्वास्यः स्फिजं वास्य छित्त्वा ॥२४ ॥
अवनिष्ठीवतो दर्पाद् द्वावोष्ठौ छेदयेन्नृपः ।
अवमूत्रयतः शिश्नमवशर्धयतो गुदम् ॥ २५ ॥
दर्पादवमत्योपनिष्ठीवतः शूद्रस्य द्विजातेरोष्ठद्वयस्य छेदः, तथा मूत्रयतः शिश्नस्य, तथा पातककर्मादि कुर्वतो गुदस्य छेदः ॥ २५ ॥
केशेषु गृह्णतो हस्तौ छेदयेदविचारयन् ।
पादयोर्नासिकायां वा ग्रीवायां वृषणेषु च ॥ २६ ॥
एतेषु गृह्णतस्तत्क्षणमेव स हस्तौ छेदयेदिति ॥ २६ ॥
उपाक्रुश्य च राजानं वर्त्मनि स्वे व्यवस्थितम् ।
जिह्वाच्छेदाद् भवेच्छुद्धिः सर्वस्वहरणेन वा ॥ २७ ॥
गतार्थः श्लोकः ॥ २७ ॥
राजनि प्रहरेद् यस्तु कृतागस्यपि दुर्मतिः ।
शूले तमग्नौ विपचेद् ब्रह्महत्याशताधिकम् ॥ २८ ॥
यो राजनि कृतापराधेऽपि प्रहरेत्, शूले प्रोत्यैनमग्नौविविधं पचेद ब्रह्महत्याशतादभ्यधिकं पापम् ॥ २८ ॥
पुत्रापराधे न पिता न श्ववाञ् शुनि दण्डभाक् ।
न मर्कटे च तत्स्वामी तैरेव प्रहितो न चेत् ॥ २९ ॥
पुत्रे दोषवति न पिता दण्ड्यः, शुनि च दोषवति तत्स्वामी । मर्कटे चैवम् ।नचेत् ते पित्रादिभिः प्रयुक्ताः । प्रयुक्ताश्चेत् पित्रादयो दण्ड्याः ॥ २९ ॥
इति वाग्दण्डपारुष्यं पञ्चदशं ( षोडशं ) च विवादपदम् ॥
_____
अथ द्यूतसमाह्वयं सप्तदशं विवादपदम् ।
अक्षवर्ध्रशलाकाद्यैर्देवनं जिह्मकारितम् ।
पणक्रीडा वयोभिश्च पदं द्यूतसमाह्वयम् ॥ १ ॥
अक्षैः वर्ध्रैशलाकादिभिर्वराटिकादिभिश्च समविषमादिभिश्च देवनं क्रीडया विजिगीषया वा परस्परं छलप्रायं द्रष्टव्यम् । पणं (क्री ? कृ) त्वा क्रीडा423
वयोभिश्च योधनं ‘मदीये जितेऽयं वः पणः, हर्तव्योऽयं त्वदीय’ इति कुक्कुटबालमेषयुद्धबलीवर्दधावनादिभिः । पूर्वं द्यूतं नाम, एतत् परं समाह्वयं षोडशं विवादपदम् ॥ १ ॥
सभिकः कारयेद् द्यूतं दद्याद् देयं च सत्कृतम् ।
दशकं तु शताद् वृद्धिस्तस्य स्याद् द्यूतकारिता ॥ २ ॥
सभिको देवयिता । स कारयेत् । तन्निमित्तं च देयंराजकुले । जेतुश्च तस्य वृद्धिर्लाभः । शताद् दशकं द्यूतकरणनिमित्ता वृद्धिः ॥२ ॥
द्विरभ्यस्ताः पतन्त्यक्षा गेहे यस्याक्षदेविनः ।
जयं तस्यापरस्याहुः कितवस्य पराजयम् ॥ ३ ॥
** **द्विरभ्यस्ताःएकरूपाः तृतीयोऽन्यः सत्त्वस्य ( ? ) ।तस्मिन् पतिते स जयति, इतरो जितो भवति तं पणम् ॥ ३ ॥
कितवेष्वेव तिष्ठेयुः कितवाः संशयं प्रति ।
त एव तस्य द्रष्टारः स्युस्त एव च साक्षिणः ॥ ४ ॥
संशये कितवेष्वेव तिष्ठेयुः, नान्यत्र राजकुलादौ । त एव प्रमाणम् । व्यवहारदर्शने त एव कितवाः साक्षिणः । न तत्र साक्षिपरीक्षा ॥४ ॥
अशुद्धं कितवो नान्यमाश्रयेद् द्यूतमण्डलम् ।
प्रतिहन्यान्न सभिको दापयन्तं स्वमिष्टतः ॥ ५ ॥
** **असम्मतौ दानग्रहणं नान्यं द्यूतमण्डलमाश्रयेद्, अन्यसभिकमण्डले न दीव्येद् ।नच सभि (कं ? को) दापयन्तं रोधनादिना प्रतिहन्यात् । न किञ्चित् कुर्यात्, यथेष्टं दापयितुं लभेत ॥ ५ ॥
कूटाक्षदेविनः पापान् निर्भजेद् द्यूतमण्डलात् ।
कण्ठेऽक्षमालामासज्ज्य स ह्येषां विनयः स्मृतः ॥ ६ ॥
** **कूटाक्षैर्देवनशीलानधर्मपुरुषान् कण्ठे मालामक्षैर्ग्रथितामासज्ज्य द्यूतमण्डलाद् देवनस्थानान्निर्वासयेत् ॥ ६ ॥
इति द्यूतसमाह्वयाख्यं सप्तदशंविवादपदम् ॥
\_\_\_\_\_\_
प्रकीर्णके पुनर्ज्ञेया व्यवहारा नृपाश्रयाः ।
राज्ञामाज्ञाप्रतीघातस्तत्कर्मकरणं तथा ॥ १ ॥
पुरप्रधानसम्भेदः424 प्रकृतीनां तथैव च ।
पाषण्डनैगमश्रेणिगणधर्मविपर्ययाः ॥ २ ॥
पितृपुत्रविवादश्च प्रायश्चित्तव्यतिक्रमः ।
प्रतिग्रहविलोपश्च कोप आश्रमिणामपि ॥ ३ ॥
वर्णसङ्करदोषश्च तद्वृत्तिनियमस्तथा ।
न दृष्टं यच्च पूर्वेषु तत्सर्वं स्यात् प्रकीर्णके ॥ ४ ॥
राजाश्रया व्यवहाराः प्रकीर्णकेऽस्मिन् विवादपदे । एते व्यवहाराः— राजाज्ञाप्रतीघातस्तस्य यत् कर्म तत्करणं स्वयं निग्रहकरणं तेन वा यत् कर्म कर्तव्यम् एवं चैवं चेति । एते एवमादयः । पूर्वे425षु च वादेषु यन्नोक्तमृणादानादिषु परीक्षोपायादि तत् सर्वं प्रकीर्णके द्रष्टव्यम् । यथैवैते दोषा न सम्भवन्ति, तथा कर्तव्यमित्येष संक्षेपः ॥ १-४ ॥
राजा त्ववहितः सर्वानाश्रमान् परिपालयेत् ।
उपायैः शास्त्रविहितैश्चतुर्भिः प्रकृतैस्तथा ॥ ५ ॥
** **चतुर्भिःसामादिभिः । गतार्थः शेषः ॥ ५ ॥
यो यो वर्णोऽपहीयेत यो वोद्रेकमनुव्रजेत् ।
तं तं दृष्ट्वा स्वतो मार्गात् प्रच्युतं स्थापयेत् पथि ॥ ६ ॥
** **यो यो वर्णः स्वमार्गादपहीयेत उत्सृजेत्, यो वोद्रेकं गच्छेत्, तं तं नियम्यानुगृह्य स्वमार्गे स्थापयेत् ॥ ६ ॥
अशास्त्रोक्तेषु चान्येषु पापयुक्तेषु कर्मसु ।
प्रसमीक्ष्यात्मना राजा दण्डं दण्ड्येषु पातयेत् ॥ ७ ॥
** **अशास्त्रोक्तेषु प्रवर्तमानेष्वनुरूपं दण्डं धारयेत् ॥ ७ ॥
** श्रुतिस्मृतिविरुद्धं च जनानामहितं च यत् ।**
** न तत् प्रवर्तयेद् राजा प्रवृत्तं च निवर्तयेत् ॥ ८ ॥**
गतार्थः श्लोकः ॥ ८ ॥
न्यायापेतं यदन्येन राज्ञाज्ञानकृतं च यत् ।
तदप्यन्यायविहितं पुनर्न्याये निवेशयेत् ॥ ९ ॥
न्यायापेतं करपातनादि यदन्येन राज्ञा कृतमपि निवर्तयेत् । आत्मनाप्यज्ञानकृतं न्याये स्थापयेत् ॥ ९ ॥
राज्ञा प्रवर्तितान् धर्मान् यो नरो नानुपालयेत् ।
नह्यःस पापो वध्यश्च लोपयन् राजशासनम् ॥ १० ॥
** **गतार्थः ॥ १० ॥
आयुधान्यायुधीयानां वाह्यादीन् वाह्यजीविनाम् ।
वेशस्त्रीणामलङ्कारान् वाद्यातोद्यानि तद्विदाम् ॥ ११ ॥
यच्च यस्योपकरणं येन जीवन्ति कारुकाः ।
सर्वस्वहरणेऽप्येतान् न राजा हर्तुमर्हति ॥ १२ ॥
आयुधजीविनामायुधानि, वाह्यादीन् हस्त्यश्वरथगवादींस्तज्जीविनां, वेश्यानामाभरणानि, वाद्यातोद्यानि वीणामुरवादीनि तज्जीविनां, येन जीवन्त्युपकरणेन शिल्पिनः तेषां यद् यस्योपकरणं कुम्भकारस्य चक्रादि, तक्ष्णो वास्यादि,एवमादीन्यन्यान्यन्येषां सर्वस्वहरणेऽपि प्राप्ते न राजा हरेत् । किं पुनरन्यस्मिन्नपराधे । एतैर्विना न जीवन्ति, तस्माद् वधादर्वाङ् न हर्तव्यानि ॥ ११, १२ ॥
अनादिश्चाप्यनन्तश्च द्विपदां पृथिवीपतिः ।
दीप्तिमत्त्वाच्छुचित्वाच्च यदि स्यान्न पथश्च्युतः ॥ १३ ॥
अविद्यमानाद्य ( न्तं ? न्तः) । नचास्यादिरन्तो वा विद्यते । तस्मा ( द् ?द)विद्यमानाद्यन्तकार्योऽयम् । स करोति धर्मम् । न स इदानीन्तन इति (न ?) परिभवितव्यः । अनादिरेव सः । नच तस्यान्तोऽस्ति । कालान्तरेऽपि प्रमाणंभवति धर्मः । अनाद्यन्तः426 द्विपदां मध्ये राजा । दीप्तिमत्त्वादीश्वरत्वाच्च तस्यानादित्वम् । शुचित्वात्, सर्वकालं हितत्वात् । ततश्चानन्तत्वम् । यदि स्वधर्मान्न
च्युतः । च्युतश्चेद् न कश्चिदपि, “सम्भूय निहन्तव्यश्चेतसोन्माद आतुर " इत्युक्तः ॥ १३ ॥
यदि राजा न सर्वेषां नियतं दण्डधारणम् ।
कुर्यात् पथो व्यपेतानां विनश्येयुरिमाः प्रजाः ॥ १४ ॥
** **गतार्थः श्लोकः ॥ १४ ॥
ब्राह्मण्यं ब्राह्मणो हन्यात् क्षत्रियः क्षात्रमुत्सृजेत् \।
स्वकर्म जह्याद् वैश्यश्च शूद्रः सर्वान् विशेषयेत् ॥ १५ ॥
राजान (चे ? श्चे) न्नाभविष्यन् पृथिव्यां दण्डधारणे ।
शूले मत्स्यानिवापक्ष्यन् दुर्बलान् बलवत्तराः ॥ १६ ॥
निगदव्याख्यातौ ॥ १५,१६ ॥
सतामनुग्रहो नित्यममतां निग्रहस्तथा ।
एष धर्मः स्मृतो राज्ञामर्थश्चापीडयन् प्रजाः ॥ १७ ॥
सदसतोरनुग्रहनिग्रहनिमित्तो धर्मो राज्ञामर्थश्च भवति प्रजा अपीडयन् दण्डेन ।इतरोऽर्थः प्रजाः पीडयित्वा वर्जनीयः स्यात् ॥ १७ ॥
न लिप्यते यथा वह्निर्दहञ्छश्वदिमाः प्रजाः ।
तथा न लिप्यते राजा दण्डं दण्ड्येषु पातयन् ॥ १८ ॥
** **दुष्टान् शासद् दोषेण न लिप्यते राजा । स्वधर्मकरणादिति हेतुः । वह्निर्दृष्टान्तः॥ १८ ॥
आज्ञा तेजः पार्थिवानां सा च वाचि प्रतिष्ठिता ।
ते यद् ब्रूयुरसत् सद्वा स धर्मो व्यवहारिणाम् ॥ १९ ॥
तेजोनिमित्तत्वात् तेज आज्ञा राज्ञाम् ।सा च वाचि प्रतिष्ठिता वाङ्मात्रे प्रतिष्ठिता ।तेज आज्ञारूपेण वाचि स्थितं यस्मात्, तस्मात् ते यद् ब्रूयुरसाधु साधु वा, स धर्मो मनुष्याणां, तेजसो माहात्म्यात् ॥ १९ ॥
राजा नाम चरत्येष भूमौ साक्षात् सहस्रदृक् ।
न तस्याज्ञां व्यतिक्रम्य सन्तिष्ठेरन् प्रजाः क्वचित् ॥ २० ॥
राजा नाम साक्षादिन्द्रः । तस्याज्ञामतिक्रम्यावस्थानं प्रजानां नास्ति । तस्मादनुवर्त्यते ॥ २० ॥
रक्षाधिकारादीशत्वाद् भूतानुग्रहदर्शनात् ।
यदेव कुरुते राजा तत् प्रमाणमिति स्थितिः ॥ २१ ॥
अहं रक्षितास्मीति रक्षायामधिकृतो यः सोऽहितं कथं करिष्यति । नहि भोजनेऽधिकृतः कश्चित् तद्विपरीतं करिष्यति । ऐश्चर्याद् बलादपि शक्तो व्यवस्थापयितुम् \। ईष्टे च सर्वस्य ।नान्यः कश्चिद् बलात् प्रतिज्ञाविपरीतस्य कारयितास्ति । दृश्यते चानुग्रहं कुर्वन् । तस्मात् तद्वचः प्रमाणेन स हितं प्रजानां करोति यथैतैर्धर्मैर्युक्ता माता पुत्रस्य ॥ २१ ॥
विगुणोऽपि यथा स्त्रीणां पूज्य एव पतिः सदा ।
प्रजानां विगुणोऽप्येवं पूज्य एव नराधिपः ॥ २२ ॥
** **गतार्थः श्लोकः ॥ २२ ॥
तपःक्रीताः प्रजा राज्ञाप्रभुरासीत् ततो नृपः ।
तस्मात् तद्वचसि स्थेयं वार्ता चासां तदाश्रया ॥ २३ ॥
पूर्वकृतेन तपसा साधिता राज्ञा प्रजाः । तस्मात् प्रभुत्वात् तद्वचसि स्थेयं पितृवचसीव ।वार्ता जीवनं च तदाश्रया पितरीव । अन्यथा मात्स्यन्यायाद् विनाशः स्यात् ॥ २३ ॥
पञ्च रूपाणि राजानो धारयन्त्यमितौजसः ।
अग्नेरिन्द्रस्य सोमस्य यमस्य धनदस्य च ॥ २४ ॥
** **गतार्थः श्लोकः ॥ २४ ॥
यथा धारयन्ति तथा प्रतिपादयति—
कारणान्निर्निमित्तं वा यदा क्रोधवशं गतः ।
प्रजा दहति भूपालस्तदाग्निरभिधीयते ॥ २५ ॥
यदा तेजः समालम्ब्य विजिगीषुरुदायुधः।
अभियाति पराम् राजा तदेन्द्रः समुदाहृतः ॥ २६ ॥
विगतक्रोधसन्तापो हृष्टरूपो यदा नृपः ।
प्रजानां दर्शनं याति सोम इत्युच्यते तदा ॥ २७ ॥
धर्मासनगतः श्रीमान् दण्डं धत्ते यदा नृपः ।
समः सर्वेषु भूतेषु तदा वैवस्वतो यमः ॥ २८ ॥
यदातिथिगुरुप्राज्ञान् भृत्यादीनवनीपतिः ।
अनुगृह्णाति दानेन तदा स धनदः स्मृतः ॥ २९ ॥
तस्मात् तं नावजानीयान्नकोशेन्नं427विशेषयेत् ।
आज्ञायां चास्य तिष्ठेत मृत्युः स्यात् तद्व्यतिक्रमे ॥ ३० ॥
** **गतार्थाः श्लोकाः । पश्चानां रूपाणि धारयन्तीत्युक्त्या पञ्चापि स इत्युक्तम् । अतस्तद्भाव इत्युक्ते तद्रूपकारणमुक्तमेव भवतीति तद्रूपकारणप्रकर्ष उक्तो भेदेन ॥ २५-३० ॥
तस्य वृत्तिः प्रजारक्षा वृद्धप्राज्ञोपसेवनम् ।
दर्शनं व्यवहाराणामात्मनश्चाभिरक्षणम् ॥ ३१ ॥
तस्य कर्तव्यं प्रजानां रक्षणम् । वृद्धाः शास्त्रकृतबुद्धयः ।प्राज्ञो विना शास्त्रेण स्वाभाविकविनयः शेषो गतार्थः ॥ ३१ ॥
ब्राह्मणानुपसेवेत नित्यं राजा समाहितः ।
संयुक्तं ब्राह्मणैः क्षत्रं मूलं लोकाभिरक्षणे ॥ ३२ ॥
कृतकस्वाभाविकविनयानामासेवनस्योक्तत्वाद् ब्राह्मणग्रहणं जातिमात्रोपसेवनार्थम् । ब्राह्मणैः संयुक्तं हि क्षत्रमविघ्नेन प्रजा रक्षति । अन्यथा कुपिता ब्राह्मणाः समूलं क्षत्रं दहेयुः अभिवत् ॥ ३२ ॥
ब्राह्मणस्यापरीहारोऽजघन्यासनमग्रतः ।
प्रथमं दर्शनं प्रातः सर्वेषां चाभिवादनम् ॥ ३३ ॥
सर्वावस्थायां दर्शनं प्रति ब्राह्मणस्यापरीहारः । अजघन्यासनमुत्तमासनमग्रतः । जघन्यासनमित्यन्ये, आत्मासनान्निकृष्टमिति । प्रातस्तु सर्वेभ्यः प्रथमं दर्शनं, पुण्यत्वात् तेषां दर्शनस्य ।बालवृद्धानां यूनां चाभिवादनम् ॥ ३३ ॥
अग्रं नवेभ्यः सस्येभ्यो मार्गदानं च गच्छतः ।
भैक्षहेतोः परागारे प्रवेशश्चानिवारितः ॥ ३४ ॥
सर्वेभ्यः सस्येभ्यः प्रथमं निष्पन्नं ब्राह्मणेभ्यो देयम् । पथि च सङ्गमे मार्गोदेयो राज्ञा, भैक्षार्थं परगृहप्रवेशावारणं च ॥ ३४ ॥
समित्पुष्पोदकादानेष्वस्तेयं सपरिग्रहात् ।
अनक्षेपः प428रेभ्यश्च सम्भाषश्च परस्त्रिया ॥ ३५ ॥
समिधां पुष्पोदकानां च ग्रहणमस्तेयवन्निर्दोषं परपरिग्रहात् । परेभ्यश्चधिक्षेपो यथा न भवति, तथा कर्तव्यः429। परस्त्रिया च सम्भाषणं प्रकाशं निर्दोषम् ॥ ३५ ॥
नदीष्ववेतनस्तारः पूर्वमुत्तरणं तथा ।
करेष्वशुल्कदानं च नचेद् वाणिज्यमस्य तत् ॥ ३६ ॥
अवेतनःअमूल्यः नद्यास्तरः । प्रथमं चोत्तरणमन्येभ्यः । शुल्कं च न प्राह्यं, यदि वाणिज्यं न करोति । आत्मीयं तद् यदि न भवति, क्रयविक्रयकरणेऽप्युचितं शुल्कं ग्राह्यमित्युक्तं भवति ॥ ३६॥
वर्तमानोऽध्वनि श्रान्तो गृह्णन्नेकाशनः स्वयम् ।
ब्राह्मणो नापराध्नोति द्वाविक्षू पञ्च मूलिकान् ॥ ३७ ॥
अध्वनि श्रान्तोऽननुज्ञाप्य स्वामिनं स्वयमेवात्मांशं गृह्णन् निस्स्वो ब्राह्मणो नापराध्यति इक्षुद्वयं पञ्च मूलिकानिति ॥ ३७ ॥
नाभिशस्तान्न पतितान्नद्विषो नच नास्तिकात् ।
न सोपधान्नानिमित्तं न दातारं प्रपीड्य च ॥ ३८ ॥
ब्राह्मणेन ग्राह्यमित्युक्तं, तदपवादः । अभिशस्तान्न ग्राह्यम् । न पतितात् । न द्विषः वैरिणः नास्तिकाच्च।भिन्नमर्यादो हि स भवति । सोपधाच्च,व्याजेन यो जीवति, सः । अनिमित्तं च । यज्ञादिनिमित्तमुद्दिश्य यो ददाति, तस्यापीडया ग्राह्यम् । न ददातीत्येव सर्वम् ॥ ३८ ॥
अर्थानां भूरि139भावाच्च देयत्वाच्च महात्मनाम् ।
श्रेयान् प्रतिग्रहो राज्ञामन्येभ्यो ब्राह्मणादृते ॥ ३९ ॥
राज्ञामर्थानां प्रभूतत्वादवश्यं देयत्वाच्च महात्मानः स्वार्थं द्रव्यमार्जंयन्ति । तस्मात् पीडाभावाद् राज्ञः सकाशाच्छ्रेयान् प्रतिग्रहो ब्राह्म (णाद ? णस्या) न्येभ्यः ।ब्राह्मणात् तु ततोऽपि श्रेयान् ॥ ३९ ॥
ब्राह्मणश्चैव राजा च द्वावप्येतौधृतव्रतौ ।
नैतयोरन्तरं किञ्चित् प्रजाधर्माभिरक्षणात् ॥ ४०॥
ब्राह्मणाच्च राज्ञश्चप्रतिग्रहः प्रशस्यतर इत्युक्तः । तत्र कारणमुच्यते । द्वावप्येतौ धृतव्रतौ ।नानयोर्विशेषोऽस्ति प्रजारक्षणाद्, एकः पालनेन इतरो धर्मोपदेशेन ॥ ४० ॥
धर्मज्ञस्य कृतज्ञस्य रक्षार्थं शासतोऽशुचीन् ।
मेध्यमेव धनं प्राहुस्तीक्ष्णस्यापि महीपतेः ॥ ४१ ॥
सदसदुपादानतो मेध्यमेव धनं प्राहुः । तीक्ष्णस्याप्ययत्वादशुद्धं राज्ञो धनम् । तस्मान्नातः प्रतिग्रहः श्रेयानित्याशङ्कानिवृत्त्यर्थमाह —धर्मज्ञस्येत्यादि । साधूनां रक्षणार्थमशुचीन् दण्डयतो यथोक्तकारिणोऽपि, किं पुनर्धर्मज्ञस्येति । धर्मज्ञस्य शुद्धमित्येवंपरमेतद्, न तीक्ष्णस्य शुद्धताप्रतिपादनार्थम् । तस्य प्रतिषिद्धत्वात्
“यो राज्ञः प्रतिगृह्णीयाल्लुब्ध430स्योच्छास्त्रवर्तिनः ।
स पर्यायेण यातीमान् नरकानेकविंशतिम् ॥”
इति ॥ ४१ ॥
अत्र दृष्टान्त उच्यते—
शुचीनामशुचीनां च सन्निपातो यथाम्भसाम् ।
स तत्र समतां याति तद्वद्राज्ञां धनागमः ॥ ४२ ॥
गतार्थः श्लोकः ॥ ४२ ॥
यदा चाग्नौस्थितं दीप्ते शुद्धिमाप्नोति काञ्चनम् ।
एवमेवागमाः सर्वे शुद्धिमायान्तिं राजसु ॥ ४३ ॥
द्वितीयो दृष्टान्तः —अग्नौस्थितं दीप्तेअशुद्धमंपि काञ्चनं निर्मलं शुद्धं भवति यथा, एवमेवागमा असदुपादाना अपि राजसु स्थिता राजपरिगृहीताः शुद्धा भवन्ति ॥ ४३ ॥
यदा च कश्चित् स्वं431 द्रव्यं ब्राह्मणेभ्यः प्रयच्छति ।
तद् राज्ञाप्यनुमन्तव्यमेष धर्मः सनातनः ॥ ४४ ॥
गतार्थः श्लोकः ॥ ४४ ॥
अन्यत्र कारादुचिताद् भूमेः पद्मागसंज्ञितात् ।
बलिः स तस्य विहितः प्रजापालनवेतनः ॥ ४५ ॥
राज्ञानुमन्तव्यमित्युक्तम् । तत्र कारात्, कारः करः, उचितात् षड्भागाद् धनान्ना (द ? ) नु432मन्तव्यम्। वि433हितो बलिर्वृत्तिः स तस्य प्रजापालनवृत्तिः । तस्माद् राज्ञा नानुमन्तव्यम् ॥ ४५ ॥
शक्यं तत् पुनरादातुं यदब्राह्मणसात्कृतम् ।
ब्राह्मणाय तु यद् दत्तं न तस्याहरणं पुनः ॥ ४६ ॥
ब्राह्मणस्य कराननुमानने हेतुः — ब्राह्मणादादातुमशक्यं यथान्येषां दत्तं शक्यं न तथा तस्य, पुनरादाने प्रत्यवायात् । षड्भागेन विना वृत्त्य434भावात् ॥ ४६ ॥
दानमध्ययनं यज्ञः कर्मास्योक्तं त्रिलक्षणम् ।
याजनाध्यापने वृत्तिस्तृतीयस्तु प्रतिग्रहः ॥ ४७ ॥
त्रीण्यदृष्टार्थानि कर्तव्यानि । त्रीणीच्छातो जीवनानि ॥ ४७ ॥
स्वकर्मणि द्विजस्तिष्ठन् वृत्तिमाहारयेत् कृताम् ।
नासद्भ्यःप्रतिगृह्णीयाद् वर्णेभ्यो नियमे सति ॥ ४८ ॥
स्वधर्मे ब्राह्मणस्तिष्ठन्, न क्षत्रधर्मादौ, कृतां विप्रः कामेनोक्तां वृत्तिं गृह्णीयात् । न वृत्तिसङ्करं कुर्यात् । असद्भ्यो वर्णेभ्यो न प्रतिगृह्णीयात् । प्रशस्तेभ्य एव गृह्णीयादित्यर्थः । नियमे सति अनापदीत्यर्थः ॥ ४८ ॥
अशुचिर्वचनाद् यस्य शुचिर्भवति पूरुषः ।
शुचिश्चैवाशुचिः सद्यः कथं राजा न दैवतम् ॥ ४९ ॥
गतार्थः श्लोकः ॥ ४९ ॥
विदुर्यस्यैव देवत्वं राज्ञो ह्यमिततेजसः ।
तस्य हि प्रतिगृह्णन्तो न लिप्यन्ते कदाचन ॥ ५० ॥
लोकेऽस्मिन् मङ्गलान्यष्टौ ब्राह्मणो गौर्हुताशनः ।
हिरण्यं सर्पिरादित्य आपो राजा तथाष्टमः ॥ ५१ ॥
गतार्थाविमौ ॥ ५०, ५१ ॥
एतानि सततं पश्येन्नमस्येदर्चयेच्चतान् ।
प्रदक्षिणं च कुर्वीत तथाह्यायुर्न दीयते ॥ ५२ ॥
गतार्थ एवायमपि ॥ ५२ ॥
एतेषामव प्रकार्णकं समाप्तम ॥
द्विविधास्तस्करा ज्ञेयाः परद्रव्यापहारिणः ।
प्रकाशाश्चााप्रकाशाश्च तान् विद्यादात्मवान् नृपः ॥ ५३ ॥
परद्रव्यापहरणशीला द्विप्रकाराश्चाराः435 प्रच्छन्नाश्च प्रकाशाश्च । ते राज्ञा ज्ञेयाः ॥ ५३ ॥
प्रकाशवञ्चकास्तत्र कूटमानतुलाश्रिताः ।
उत्कोदकाः सोपधिकाः कितवाः पण्ययोषितः ॥ ५४ ॥
तत्र द्विप्रकाराणां मध्ये प्रकाशचोरा एते वक्ष्यमाणाः । कूटमानाश्रिताः कूटतुलाश्रिताश्च वणिजः, उत्कोदका उत्कोचभक्षाः राजकुलाद्याश्रिताः, सोपधिका विप्रलम्भकाः, कितवाश्च, वेश्याश्च ॥ ५४ ॥
प्रतिरूपकराश्चैव मङ्गलादेशवृत्तयः ।
इत्येवमादयो ज्ञेयाः प्रकाशा लोकवञ्चकाः ॥ ५५ ॥
कूटशासनकार्षापणविवर्णादि (काः ? कराः), ज्योतिषनैमित्तिकेक्षणिकादयः । एवमादयः प्रकाशा लोकचोराः । तत्र यत्नः कर्तव्यः प्रतिमासेतुलाद्यवेक्षणादिना436 ॥ ५५ ॥
अप्रकाशास्तु विज्ञेया वहिरभ्यन्तराश्रिताः ।
सुप्तान् मत्तान् प्रमत्तांश्च मुष्णन्त्याक्रम्य चैव ये ॥ ५६ ॥
प्रच्छन्नचोरास्तु बहिर्ग्रामादटव्याद्याश्रिताः437 ग्रामजनपदनगरप438 (त्य ? थ्य)न्तराश्रिताश्च, सुसादीनां केचिच्छद्मना, प्रसह्य केचित् । तान् विदित्वा निगृह्णीयात् ॥ ५६ ॥
देशग्रामगृहध्नाश्चपथिघ्नाग्रन्थिमोचकाः ।
इत्येवमादयो ज्ञेया अप्रकाशास्तु तस्कराः ॥ ५७ ॥
देशघातका ग्रामघातका गृहघातकाश्च मार्गमुषः ग्रन्थिच्छेत्ता(र) एवम्प्रकाराः प्रच्छन्नचोराः ॥ ५७ ॥
तान् विदित्वा सुनिपुणैश्चोरैस्तत्कर्मकारिभिः ।
अनुसृत्य ग्रहीतव्या गूढैः प्रणिहितैर्नरैः ॥ ५८ ॥
तानेवम्प्रकारान् बुद्ध्वा कुशलैश्चोरैः तत्कर्मकारिभिश्चोरव्यञ्जनैः पुराणचोरैश्चानुसृत्य गृह्णीयात् । अमुत्रासत इति तैश्चारयित्वा गृह्णीयात् । अथवा चोरव्यञ्जनास्तैःसहकार्थीभूताश्चोराः कस्मिंश्चिद् गृहे फल्गु द्रव्यं तत्र निधाय तान् नीत्वा मोषयित्वा प्रत्ययमुत्पाद्य पुनः ग्रामान्तरेषु मनुष्यान् गूढान् निधाय तत्र प्रवेश्य ग्राहयेयुः ॥ ५८ ॥
सभाप्रपापूपशालावेशमद्यान्नविक्रयाः ।
चतुष्पथाश्चैत्यवृक्षाः समाजप्रेक्षणानि च ॥५९॥
शून्यागाराण्यरण्यानि देवतायतनानि च ।
चारैर्विचेयान्येतानि चोरग्रहणतत्परैः ॥ ६० ॥
सभादीनि नित्यं चारैः परीक्ष्याणि तेऽत्र चोरचिह्नैःग्रहीतव्याः, तदन्वेषणतत्परैः परीक्ष्य एतैर्ग्रहीतव्यास्ते ॥ ५९,६० ॥
तथैवान्ये प्रणिहिताः श्रद्धेयाश्चित्रवादिनः ।
चोरा ह्युत्साहयेयुस्तांस्तस्करा (न्) पूर्वतस्कराः ॥ ६१ ॥
तथान्ये प्रणिहिताश्चोराः तैः संह439त्य दर्शितप्रत्ययाः ‘अन्तर्धानमन्त्रोऽयम् अनेन म440न्त्रेणापिहितो न दृश्यते मनुष्य’ इति पूर्वं राज्ञा सङ्केतिते गृहेदिवस एव प्रविश्य भाजनादि गृहीत्वा निष्क्रामन्ति । गृहजनश्चतूष्णीमास्ते । ततोऽपरस्मिन् गृहे गूढमनुष्ये प्रवेश्य ते तथोत्पादितप्रत्ययाः चित्रवादिनः ‘इदं चेदं चास्मिन् गृहेऽस्ति पर्याप्तमेतदस्माकमि’ति प्रोत्साद्य प्रवेश्य ग्राहयेयुः ॥
अन्नपानमहादानैः समाजोत्सवदर्शनैः ।
तथा चौर्यापदेशैश्च कुर्युस्तेषां प्रसर्पणम् ॥ ६२ ॥
श्रद्धेयवाक्याः पुराणचोराः तैः सहैकीभूता भोजनं चोद्दिश्य पानं वा ‘यूयं निमन्त्रिताः आगच्छतास्मद्गृहे भोक्तुमिति दारकस्य ब441हुदण्डनमिति निमित्तेषूद्दिश्य, महादानं वा ‘अहमस्मिन् देशे वस्तुमुत्सहे देशान्तरं यास्यामि यन्ममास्ति तद् युष्मभ्यं दास्यामि अमनुष्यायां वे442लायामागच्छतेति, समाजं वापुत्रं वा पश्यामः उत्सवं वेति, रात्रावागच्छत अदो गृहं तन्मुष्याम इति, एवमेषां समागमं कारयेयुः । समागतान् ग्राहयेयुः ॥ ६२ ॥
ये तत्र नोपसर्पन्ति सृताः प्रणिहिता अपि ।
तेऽभिसृत्य ग्रहीतव्याः सपुत्रपशुबान्धवाः ॥ ६३ ॥
ये तथा प्रणिहिता अपि तस्मिन् समागमे नोपसर्पन्ति, ये गताः तेऽप्यनुगत्य सपुत्रदाया (?) ग्रहीतव्याः ॥ ६३ ॥
तैगृहीत्वा भाणयित्व—
अचोरा अपि दृश्यन्ते चोरैः सह समागताः ।
यादृच्छिकान् नैव तु तान् राजा दण्डेन शासयेत् ॥ ६४ ॥
अचोरा अपि यदृच्छया चोरैः समागता दृश्यन्ते । तान् विचार्य राजा मुच्चेत् । न तावता अविचार्यैव शासितव्याः, चोरैः सह दृष्टा इत्येतावता नाविचार्य शासितव्याः ।विचार्य शासयेदित्यर्थः ॥ ६४ ॥
यांस्तत्र चोरान् गृह्णीयात् तानाताड्य निबध्य च ।
अवघुष्य च सर्वत्र वध्याश्चित्रवधेन ते ॥ ६५ ॥
तथा गृहीतान् चोरान् ताडयित्वा लगुटादिना, गर्दभादिना च भ्रमयित्वा, अवधुष्य च सर्वत्र चतुष्पथचत्वरशृङ्गाटकेष्वेवंकर्माण इति छेदनताडनदहनादिभिर्मारयितव्यास्ते अन्ये मैवं (कुरु ? कृष) तेति प्रत्यादेशार्थम् ॥ ६५ ॥
लोप्त्रादिरहिताश्चोरा राज्ञावध्या ह्यनागमम् ।
सहोढान् सोपकरणांश्चोरान् क्षिप्रंविवासयेत् ॥ ६६ ॥
लोप्त्रादिरहिता अनागममविचार्य न वध्याः । चोरा ये तु सहोढाः सन्धिच्छेदाद्युपकरणयुक्ताश्च, क्षिप्रमेव हन्तव्याः पूर्वोक्तेन न्यायेन ॥ ६६ ॥
स्वदेशघातिनो ये स्युस्तथा मार्गोपरोधिनः ।
तेषां सर्वस्वमादाय भूयो निन्दां प्रवर्तयेत् ॥ ६७ ॥
स्वदेशं घ्नन्ति ये मार्गं च, तेषां सर्वस्वं गृहीत्वा धनं भूयो हस्तपादादिच्छेदनं, मरणं न विद्यते, निन्दा यस्यां क्रियायामिति (तां) प्रवर्तयेत् ॥ ६७ ॥
सहोढान् विमृशच्चोरान् गृहीत्वा परिशङ्कया ।
भयोपधाभिश्चित्राभिर्ब्रूयुः सत्यं यथा हि ते ॥ ६८ ॥
सलोप्त्रानपि चोरान् सहोढा दृष्टा इत्येतावता न शासितव्याः, विचारयेदेव अचोरशङ्कया ।माण्डव्यवदचोरस्यापि होढसम्भवात् । यावदव्यभिचारि लिङ्गं दृष्टमिति । तदभावे भयोत्पादनैश्चित्रैस्ताडननिर्भर्त्सनपुत्रदारच्छेदनागस्ति443प्रदानरूपाभि ( ? ) र्यथा ते सन्त्रस्ताः सत्यं वदन्ति तथा ॥ ६८ ॥
देशं कालं तथा जातिं नाम रूपं प्रतिश्रयम् ।
कृत्यं कर्म सहायांश्च प्रष्टव्याः स्युर्निगृह्य ते ॥ ६९ ॥
देशं ‘कुतस्त्या यूयमि’ ति ‘कस्मिन् काले इहागताः’ ‘कस्यां दिशि कस्मिन् देशे कुतो वा प्रविष्टाः, ‘जातिर्भवतां का’, किं नाम रूपं च, केन वेषेण प्रविष्टा इहे’ति, प्रतिश्रयश्चेह कासीदागच्छतां वेति, चौर्येण चेहत्या भक्तदानोपकरणप्रच्छादनादिना साहाय्यं के कृतवन्त इति निगृह्य प्रष्टव्याः ॥ ६९ ॥
वर्णस्वराकारभेदात् ससन्दिग्धनिवेदनात् ।
अदेशकालदृष्टत्वाद् वासस्थाप्यविशोधनात् ॥ ७० ॥
वर्णभेदात् पृष्टः सन् विवर्णो भवति । स्वरभेदात् सगद्गदो भवति । आकारभेदात् त्रासविषादादियोगास्पृष्टः स्पष्टं ब्रवीति । अदेशे च विविक्ते शून्ये, अकाले च रात्र्यादौ दृष्टे, क्वोषित इति तस्य स्पष्टं निर्णयावचनात् परिच्छिद्यते चोर इति ॥ ७० ॥
असव्द्ययात् पूर्वचौर्यादसत्संसर्गकारणात् ।
लेशैरप्यवगन्तव्या न होढेनैव केवलम् ॥ ७१ ॥
असद्व्ययात् द्यूतपानदास्यादिषु व्ययात् । पूर्वचौर्यात् पूर्वकाले चोरत्वेनोपलब्धस्यात् सन्दिग्धत्वेऽपि सम्भाव्यते । दुष्टैःसह संसर्गात् । एतैर्लिङ्गैर्लेशै444रपि ग्राह्या। न लोप्त्रेणैव, लोप्त्राभावे एतैर्लिङ्गैगृह्णीयात् ॥ ७१ ॥
दस्युवृत्ते यदि नरे शङ्का स्यात् तस्करो न वा ।
यदि स्पृश्येत लेशन कार्यः स्याच्छपथं नरः ॥ ७२ ॥
अशुभवृत्ते मनुष्ये चोरो न वेति शङ्का स्याद् यदि, स यथोक्तानामन्यतमेम लेशेन युक्तः स्यात्, गोबीजकाञ्चनपुत्रमस्तकादिभिः दिव्यैर्वा शपथं कारयितव्यः । ‘तस्करेऽपि चे’ति पाठे दस्युवृत्तेशङ्कायां मानुषः शपथः, तस्करे दिव्य इति ॥ ७२ ॥
चोराणां भक्तदा ये स्युस्तथाप्युदकदायकाः ।
आवासदा देशिकदास्तथैवान्तरदायकाः ॥ ७३ ॥
क्रेतारश्चैव भाण्डानां प्रतिग्राहिण एव च ।
समदण्डाः स्मृताः सर्वे ये च प्रच्छादयन्ति तान् ॥ ७४ ॥
देशिकदा मार्गदेशिकं ददति । अन्तरदाः छिद्रदाः । क्रेतारश्चाप्रकाशं द्रव्याणाम् । चोरहस्तादमूल्येन प्रतिग्राहिणश्च, चोरैरानीय स्थापयन्ति । चोरान् ये प्रच्छादयन्ति च । एते सर्वे चोरतुल्या निग्राह्याः ॥ ७३,७४ ॥
राष्ट्रेषुराष्ट्राधिकृताः सामन्ताश्चैवचोदिताः ।
अभ्याघातेषु विज्ञेया यथा चोरास्तथैव ते445 ॥ ७५ ॥
राष्ट्रेष्वधिकृताः प्रत्यन्तेषु च446निवेशिताः अयुक्तचोरैर्धरणिकादयः (?) प्रतिवेशाश्चाभि (ध ?धाव) तेति चोदिताः अभ्याघातेषु यदि नाभिधावन्ति, चोरवत् ते विज्ञेयाः । अवश्यं तेषां चोरैःसह संविदस्तीति गम्यते ॥ ७५ ॥
गोचरे यस्य मुषितं तेन चोरः प्रयत्नतः ।
गृह्य दाप्योऽन्यथा मोषंपदं यदि न निर्गतम् ॥ ७६ ॥
यस्य वसत्यां मुषितं ग्रामस्य ग्रामण्यो वा, तेन प्रयत्नतः चोरामृग्याः । अन्यथा मोषं दाप्यः ।पदं चिह्नं ततो ग्रामात् निर्गतं यदि न दर्शयेत् । अथान्यस्य गोचरं प्रविष्टनष्टं चोरलिङ्गं दर्शयेत्, शुद्धो भवति ॥
निर्गते तु पदे तस्मान्नष्टेऽन्यत्र निपातिते ।
सामन्तान् मार्गपालांश्च दिक्पालांश्चैव दापयेत् ॥ ७७ ॥
नष्टेऽन्यत्र निपातिते निर्गते तस्माद् गोचरादन्यगोचरं प्राप्य नष्टे, अन्यत्र तुनिपा447तिते तस्य पूर्वैव गतिः, अनिपातिते नष्टे सामन्तादयो दाप्याः ॥ ७७ ॥
गृहे तु मुषिते राजा दापयेद् दण्डवासिकान् ।
आरक्षिकान् बाहिकांश्च यदि चोरो न लभ्यते ॥ ७८ ॥
गतार्थः श्लोकः ॥ ७८ ॥
यदि वा दाप्यमानानां तस्मिन् मोषे ससंशये ।
मुषितः448शपथं कार्यो मो(पं ? ष) वैशोध्यकारणात् ॥ ७९ ॥
तेषां दाप्यमानानां दण्डवासिकादीनां च यदि मोषे संशयः स्याद्माल्पं मोष इति, मुषितः शपथं कारयितव्यः मोषविशोधननिमित्तप्रत्ययकारणात् । कृते शपथे, दाप्याः । अथ न संशयस्तेषां, दा (प्य ? प्या) एव ॥ ७९ ॥
अचोरे दापिते मोषे चोरान्वेषणकारणात् ।
उपलब्धे लभेरंस्ते द्विगुणं तत्र दापितात् ॥ ८० ॥
अचोरे अविद्यमानचोरे मिथ्याभियोगान्मोषे दापिते चोरान्वेषणार्थमुपलब्धे मिथ्याभावे अभियोक्ता तेभ्यो द्विगुणं दाप्यः । राजकुले च यथार्हंदण्ड्यः । अन्य आह — अनुपलभ्यमाने चोरे मिथ्यादापिते मोषे यदि चारमन्विष्यानयेयुः, चोरो द्विगुणं तेभ्यो दाप्यः, मोषं च मुषितस्य, राजकुले च दण्डमिति ॥ ८० ॥
चोरैहतं प्रयत्नेन सरूपं प्रतिपादयेत् ।
सदभावे तु मूल्यं स्याद् दण्डं दाप्यश्चतत्समम् ॥ ८१ ॥
चोरैः हृतं द्रव्यं मुषितं प्रयत्नेन सरूपं यथाभूतं तथाभूतं प्रतिपादयेत् इदं द्रव्यं दीनारादि यच्च नचास्मादासमादिपुरादि (?) चेति । अप्रतिपादनेनानीते मोषे विसंवदिते मूल्यं चोरसमं दण्ड्यः ॥ ८१ ॥
काष्ठकाण्डतृणादीनां मृन्मयानां तथैव च ।
शाकाहरितमूलानां*449हरणे फलपुष्पयोः ॥ ८२ ॥
गोरसेक्षुविकाराणां तथा लवणतैलयोः ।
पक्वान्नानां कृतान्नानां मद्यानामाभिषस्य च ॥ ८३ ॥
सर्वेषामल्पमूल्यानां मूल्यात् पञ्चगुणो दमः ।
तुलाधारिममेयानां गणिमानां च सर्वशः ॥ ८४ ॥
काण्डशब्देन पूर्वाधन्व ( ? ) शरादय उच्यन्ते । तृणशब्देन दर्भमुञ्जादय उच्यन्ते । हरितशब्देन घास उच्यते यवसादिः । मूलं कन्दादि । पक्वान्नं मोदकादि । कृतान्नं सक्तुपृथुकलाजादि । तुलाधा450रिमं कार्पासादि । मेयं व्रीह्यादि । गणिमं हरीतकीविभीतकादि । एतेषां हृतानां यन्मूल्यं, तस्य पञ्चगुणो दण्डः ॥ ८२-८४ ॥
एभ्यस्तूत्कृष्टमूल्यानां मूल्याद् दशगुणो दमः ।
धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं वधः ॥ ८५ ॥
एभ्यः काष्ठादिभ्यः उत्कृष्टमूल्यानां वस्त्रकुङ्कुमचन्दनादीनां हरणे मूल्याद् दशगुणो दण्डः । दीनारमूल्ये हृते दश दीनारा दाप्याः, एको मुषितस्य, नव राज्ञः । धान्यं दशभ्यः कुम्भेभ्योऽभ्यधिकं हरतो वधः ॥ ८५ ॥
घृते त्वेकादशगुणं दण्डं दाप्योऽब्रवीन्मनुः ।
हिरण्यरजतादीनामुत्तमानां च वाससाम् ॥ ८६ ॥
पुण्ड्रवर्धनश्रीवर्धनादीनामेकादशगुणमित्येव । समं मुषितस्य, शेषं राज्ञः ॥ ८६ ॥
रत्नानां चैव मुख्यानां शतादभ्यधिके वधः ।
पुरुषं हरतो वासो दण्डस्तूत्तमसाहसः ॥ ८७ ॥
रत्नानां वज्रमणिमुक्तादीनां शतादभ्यधिकं हरतो वधः । पुरुषस्त्वविशिष्टः। हरत उत्तमसाहसः ॥ ८७ ॥
सर्वस्वं स्त्रीं तु कन्यां तु हरतो वध एव च ।
चतुर्विंशा ( त प ?व ) रःपूर्वः परः षण्णवतिर्भवेत् ॥ ८८ ॥
स्त्रियं हरतः सर्वस्वं, कन्यां तु वधः। पूर्वसाहसदण्डः । मध्यम उत्तम इति च तत्र तत्रोक्तं वक्ष्यति च । तद्विशेष्यते —चतुर्विंशतेरारभ्य आषण्णवत्याः पूर्वसाहसदण्डः । चतुर्विंशतेरधोनास्ति । षण्णवतितश्च उत्तरं नास्ति । अत्रापराधानुरूपो द्रष्टव्यः । स तत्पूर्व इति ब्रवीति ॥ ८८ ॥
शतानि पञ्च तु वरो मध्यमो द्विशतावरः ।
सहस्रं तूसमो ज्ञेयः परः पञ्चशतावरः ॥ ८९ ॥
द्विशतादारभ्य आपञ्ञ्चशतान्मध्यमः ।पञ्चशतादारभ्य आसहस्रादुत्तमः ॥ ८९ ॥
त्रिविधः साहसेप्वेवं दण्ड उक्तः स्वयंम्भुवा ।
प्रथमे ग्रन्थिभेदानाम
*
ङ्गुल्यङ्गुष्ठयोर्वधः ॥ ९० ॥
द्वितीये चैव यच्छेषं दण्डः पूर्वश्च साहसः ।
गोष
ब्राह्मणसंस्थासु स्थूरायाश्छेदनं भवेत् ॥ ९१ ॥
दासीं तु हरतो नित्यमर्धपादावकर्तनम् ।
ग्रन्थिच्छेदानां प्रथमे ग्रहणे अङ्गुल्यङ्गुष्ठयोः छेदः दक्षिणहस्तस्य । द्वितीये पुनरपि ग्रहणे शेषस्याङ्गुलित्रयस्य छेदः ॥ ९०,९१ ॥
येन येन यथाङ्गेन स्तेनो नृषु विचेष्टते ।
छेत्तव्यं तत्तदेवास्य तन्मनोरनुशासनम् ॥ ९२ ॥
हस्तादीनां येनाङ्गेन चौर्यं करोति, तदेव छेत्तव्यम् ॥ ९२ ॥
गरीयसि गरीयांसमगरीयसि वा पुनः ।
स्तेने निपातयेद् दण्डं न यथा प्रथमे तथा ॥ ९३ ॥
महति महान्तमल्पमल्पे दण्डं निपातयेत् चोरे । सर्वत्र द्वितीयादिषु ततोऽधिकं, न तुल्यम् ॥ ९३ ॥
दश स्थानानि दण्डस्य मनुः स्वायम्भुवोऽब्रवीत् ।
त्रिषु वर्णेषु तानि स्युरक्षतो ब्राह्मणो व्रजेत् ॥ ९४ ॥
उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम् ।
चक्षुर्नासा च कर्णौ च स्तनौ देहस्तथैव च ॥ ९५ ॥
गतार्थौ॥ ९४, ९५ ॥
अपराधं परिज्ञाय देशकालौ च तत्वतः ।
सारानुबन्धावालोच्य दण्डं दण्ड्येषु पातयेत् ॥ ९६ ॥
अपराधस्याल्पत्वमहत्त्वे ज्ञात्वा देशं स्वस्थं विपरीतं च ।यथा स्वस्थे (न) तथा विपरीते । कालं यथा सुभिक्षे (न) तथा दुर्भिक्षे प्राणातिपातावस्थायाम् । सारं यथा ब्राह्मणस्य न तथेतरेषां, यथा वा क्षत्रियस्य न तथेतरयोः, यथा ब्राह्मणस्वंहरतो गरीयान् न तथेतरस्वम् । अनुबन्धम् आजीवं गुरुकलत्रद्यूतदासीपानाद्यर्थम् । यस्मिन् दण्डिते महानधर्मः यथा लिखितस्य हस्तच्छेदे,यस्मिंश्च शासिते भूयान् धर्मः यथा जम्बुकस्य, एतत्सर्वमनुरूपं दण्ड्येषु कुर्यात् । न यथोक्तमेवेति सर्वशेषः ॥९६ ॥
न मित्रकारणाद् राज्ञो विपुलाद् वा धनागमात् ।
उत्स्रष्टव्याः साहसिकास्तस्करा लोकवञ्चकाः ॥ ९७ ॥
यावानवध्यस्य वधे तावान् वध्यस्य मोक्षणे ।
भवत्यधर्मो नृपतेर्धर्मस्तु विनियच्छतः ॥ ९८ ॥
न जातु ब्राह्मणं हन्यात् सर्वपापेष्वपि स्थितम् ।
निर्वासं कारयेत् कामं समग्रधनमक्षतम् ॥ ९९ ॥
निगदव्याख्याताः ॥९७-९९॥
सर्वंवापि हरेद् राजा चतुर्थं वावशेषयेत् ।
विप्रेभ्योऽनुस्मरन् धर्मं प्राजापत्यमिति स्थितिः ॥ १०० ॥
ब्राह्मणस्यापराधेषु चतुर्ष्वङ्को विधीयते ।
गुरुतल्पे सुरापाने स्तेये ब्राह्मणहिंसने ॥ १०१ ॥
स्तेय इत्यविशेषवचनान्न शारीर इत्यादिप्रतिषेधान्महापातकसाहचर्याद्ब्राह्मणसुवर्णस्यै ॥ १००,१०१ ॥
गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः ।
स्तेये तु श्वपदं कृत्वा शिखिपित्तेन पूरयेत् ॥ १०२ ॥
मयूरपित्तेन पूरिते न क्रीडन् तिरोभवति । उत्तरत्र ललाट इति वचनादिह देशावचनेऽपि ललाट एवेति गम्यते ॥ १०२ ॥
विशिराः पुरुषः कार्यो ललाटे ब्रह्मघातिनः ।
असम्भाष्यश्चकर्तव्यस्तन्मनोरनुशासनम् ॥ १०३ ॥
ब्राह्मणस्य ब्रह्मघातिनो ललाटादौ कबन्धवत् पुरुषोऽङ्क्यः, असम्भाष्यश्च कर्तव्यः निर्वास्य इत्यर्थः ॥ १०३ ॥
राजा स्तेनेन गन्तव्यो मुक्तकेशेन धीमता ।
आचक्षाणेन तत् स्तेयमेवंकर्मास्मि शाधि माम् ॥ १०४ ॥
पश्चात्तापेनैवं कर्तव्यम् । इदं मयामुष्य हृतं, शाधि मामिति ॥ १०४ ॥
अनेना भवति स्तेनः स्वकर्मप्रतिवेदनात् ।
राजानं तत् स्पृशेदेन उत्सृजन्तं सकिल्विषम् ॥ १०५ ॥
चोरस्तेनापापो भवति । दुष्टमुत्सृजन्तं तत्कृतं पापं राजानं गच्छति । स तत्फलं भुङ्क्ते॥ १०५ ॥
राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः ।
निर्मलाःस्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ १०६ ॥
एतत् प्रतिपाद्यते — न (नाशं ? शा) सनं शिष्टपरिपालनार्थमेवादृष्टार्थमपि । तेऽप्येवमनुगृहीता भवन्ति । सर्वहितत्वमेव राज्ञ इति ॥ १०६ ॥
शासनाद् वापि मोक्षाद् वा स्तेनो मुच्येत किल्विषात् ।
अशासत् तमसौ राजा स्तेनस्याप्नोति किल्बिषम् ॥ १०७ ॥
यदि शिष्यते अथ मुच्यते सर्वथा स्तेनः शुद्धो भवति । अशासत् तेन कृतं पापं राजाप्नोति । तस्मादवश्यं धर्मार्थमधर्मनिवृत्त्यर्थं दृष्टार्थं चोरार्थं च शासयेदिति बहुफलत्वमनुशासनस्योक्तम् ॥ १०७ ॥
गुरुरात्मवतां शास्ता राजा शास्ता दुरात्मनाम् ।
अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥ १०८ ॥
इ (ह ? हा) शिष्टा यमेन शास्यन्ते, शिष्टास्तु न यमेन । तस्मादिह शासनं सुष्ठु दृष्टार्थमिति तेषां वृत्त्यर्थमेव ।शास्तेति । ‘अनित्यमागमशासनमि’त्येतत् ज्ञापितं ‘युवोरनाकौ’ (७-१-१) इत्यादिना ॥१०८॥
अष्टापाद्यं तु शूद्रस्य स्तेये भवति किल्बिषम् ।
व्द्यष्टापाद्यं तु वैश्यस्य द्वात्रिंशत् क्षत्रियस्य तु ॥ १०९ ॥
ब्राह्मणस्य चतुष्वष्टिं मनुः स्वायम्भुवोऽब्रवीत् ॥ ११० ॥
हृतस्याष्टगुणं शूद्रस्य स्तेये दण्ड इति केचित् । अन्येऽष्टगुणोऽधर्मः तस्य हृतस्य य उक्तः स्तेय इति । पूर्वपूर्वाद् द्विगुणमुत्तरोत्तरस्य ।शूद्रादीनां वा स्वहरणे एवमेव धर्म इति । हृतं वा दापयित्वा ततोऽष्टगुणं दण्डः शूद्रस्य, षोडशगुणं वैश्यस्य, द्वात्रिंशद्गुणं क्षत्रियस्य, चतुष्षष्टिगुणं ब्राह्मणस्य इति ॥ १०९,११० ॥
शारीरश्चार्थदण्डश्च दण्डस्तु द्विविधः स्मृतः ।
शारीरो द्विविधः प्रोक्तो अर्थदण्डस्त्वनेकधा ॥ १११ ॥
तदुक्तमुभयं विशेष्यते—
काकण्यादिस्त्वर्थदण्डः सर्वस्वान्तस्तथैव च ।
शारीरस्त्ववरोधादिजीवितान्तस्तथा स्मृतः ॥ ११२ ॥
द्विविधो दण्डः अर्थदण्डःशारीरश्च । शारीरो दशधा । ‘अर्थदण्डस्त्वनेकधे’त्युक्तम् । तद् विशेष्यते । संक्षेपेण तावदुभयमुच्यते । अर्थदण्डःकाकण्या आरभ्य यावत् सर्वस्वं, शारीरोऽवरोधाद्यारभ्य यावन्मरणम् ॥ १११,११२ ॥
काकण्यादिस्तु यो दण्डः स तु माषपरः स्मृतः ।
(कार्षा ? माषा) परार्धो यः प्रोक्तः कार्षापणपरस्तु सः ॥
कार्षापणापरार्धस्तु च ष्कार्षापणोत्तरः ।
व्द्यवरोऽष्टपरश्चान्यस्त्र्यवरोद्वादशोत्तरः ॥ ११४ ॥
अर्थदण्डो विशेष्यते । काकण्यादिर्य उक्तः स तु यावन्माषम् । माषजघन्यादारभ्य यः स तु कार्षापणपरः । कार्षापणादारभ्य यावच्चतुष्कार्षापणम् । द्विकार्षापणादारभ्य यावदष्टौ । त्रिकार्षापणप्रभृति यावद् द्वादश ॥ ११३,११४ ॥
कार्षापणाद्या ये प्रोक्ताः सर्वे ते स्युश्चतुर्गुणाः ।
एवमन्येऽपि बोद्धव्याः प्राक् च ते पूर्वसाहसात् ॥ ११५ ॥
कार्षापणद्विकार्षापणत्रिकार्षाप ( ण ? णाः) चतुर्गुणपरमास्ते प्रोक्ताः । एवमन्येऽपि बोद्धव्याः । चतुष्कार्षापणादिः षोडशपरः । पञ्चादिर्विंशतिपरः । एवं प्राक् पूर्वसाहसात् पञ्चाशदादिद्विशतान्तम् । एवमेतद् दश सम्भवति । दोषोत्तर इति यत्रोच्यते तत्रापराधानुरूपेणैव काकण्यादयो द्रष्टव्याः। यत्र कार्षापणपर इत्युच्यते ‘दमः कार्षापणपर’ इत्यादौ, चतुर्माषादि यावत् काषार्पणम् ।
कार्षापणादारभ्य यावच्चत्वारि । अष्टोत्तरमिति यत्र, द्वावारभ्य यावदष्टौ । द्वादशोत्तरमिति यत्र, त्रिभ्य आरभ्य यावद् द्वादश ।पूर्वसाहसपरमिति यत्र, पञ्चाशत आरभ्य यावत् पूर्वसाहसमिति अपराधानुरूपो विभागो द्रष्टव्यः ॥
कार्षापणो दक्षिणस्यां दिशि रूढः प्रवर्तते ।
पणैर्निबद्धःपूर्वस्यां षोडशैव पणाः स तु ॥ ११६ ॥
कार्षापणो दक्षिणस्यां दिशि द्रविलविषयादौरूढ एक एव लोहैः कृतः रूप (वा ?मा) न451गणनायाम्।यथेह दीनारकेण व्यवहारः प्रवर्तते । तत्र पणैर्निबद्धःपूर्वस्यां प्राक् षोडशभिः । षोडशपणं कार्षापणःकार्षापणसंव्यवहारे ॥
पञ्चनद्याः प्रदेशे तु या संज्ञा व्यावहारिकी ।
कार्षापणप्रमाणं तु निबद्धमिह वै तया ॥ ११७ ॥
पञ्चनदे देशे या संज्ञा तया कार्षाप ( णप्रमा) णं निबद्धम् इह मध्यमे विनयवाक्यप्रणयनिमित्तम् ॥ ११७ ॥
कार्षापणोऽब्धिका ज्ञेयश्चत ( स्रो व ? स्रस्ता) स्तु धानकः ।
ते द्वादश सुवर्णं स्याद् दीना ( रा ? र) श्चित्रकः स्मृतः ॥ ११८ ॥
कार्षापण उक्तः अब्धिका452 धानकचतुर्भागः । चतस्रोऽ(ण्डि? ब्धि) काधानकः । ते धाना द्वादश सुवर्णम् ।दीनारश्च सर्वप्रकारः ॥११८ ॥
वार्तां त्रयीमप्यथ दण्डनीति राजानुवर्तेत सदाप्रमत्तः ।
हन्यादुपायैर्दिविधैर्गृहीत्वा पुरे च राष्ट्रे च विघुष्य चोरान् ॥
वार्तां कृषिगोरक्षवाणिज्यलक्षणां, त्रयीमृभ्यजुस्सामलक्षणां, दण्डनीतिं च सदा राजानुवर्तेत । कुटुम्बिनो ब्राह्मणादीन् न पीडयेदित्यर्थः । अर्थशास्त्रं च मनसा नित्यमवेक्षेतेत्यर्थः । अथवा कृष्यादि सदा कुर्यात् । तेनोक्तानि च कर्माणि नित्यं कुर्यात् । अर्थशास्त्रे च यथोक्तं तथा कुर्यात् । किञ्च उपायैर्यथोक्तैरनेकप्रकारैश्चोरान् गृहीत्वा पुरे च राष्ट्रे च चकाराद् ग्रामे च विघुष्य प्रकाश्या (न्यामुष्य ? न्यमोष) त्रासजननार्थं हन्यादित्युपसंहारार्थः ॥ ११९ ॥
इति प्रकीर्णकमष्ठादशंविवादपदम् ॥
संशयस्थास्तु ये केचिन्महापातकिनश्च ये ।
अभिशस्ताः परैश्चापि ते शोध्याः संशयैरिह ॥ १ ॥
संशयस्थाश्चोरा वेति य आत्मानं शोधयितुकामाः, महापातकिनः, संशय्यमाना अन्ये च यस्मिंश्च कस्मिंश्च चौर्यादावभियुक्ता अन्यैः, त एतैर्वक्ष्यमाणैःसमयैः453शोधनीयाः ॥ १ ॥
घटोऽग्निरुदकं चैव विषं कोशश्च पञ्चमः ।
पञ्चैतान्याह दिव्यानि दूषितानां विशोधने ॥ २ ॥
तुलादीनि पञ्च देवतानिमित्तानि दूषितानां शुद्धिकारणानि । तेषां विधिं वक्ष्यति ॥ २ ॥
सन्दिग्धेऽर्थेऽभिशस्तानां परीक्षार्थंमहात्मना ।
नारदेन पुरा प्रोक्ताः सत्यानृतविभाजिकाः ॥ ३ ॥
सन्दिग्धेऽर्थे चौर्यादौ मिथ्यादूषितानां परीक्षार्थं नारदप्रोक्ताः सत्यानृतविभाजिका वक्ष्यन्त इति शेषः ॥ ३ ॥
कारयेत चतुर्हस्तां समां लक्षणलक्षिताम् ।
तुलींकाष्ठमयीं राजा शिक्यप्रान्तावलम्बिनीम् ॥ ४ ॥
घटस्य तावल्लक्षणमुच्यते । चतुर्हस्तां, चत्वारो हस्ताः प्रमाणं यस्याः सा चतुर्हस्ता ।प्रमाणप्रत्ययस्य ‘प्रमाणे लुक्’ (वा० ५-२-३७) इति लोपः । लक्षणयुक्तामेतां सुषिरग्रन्थिवर्जितां प्रशस्तस्य वृक्षस्य काष्ठमयीं तुलां कारयेत् । प्रगतावन्तौ प्रान्तौ प्रान्तयोर्लम्बनशीले अवलम्बि (न्यौ ? नी) शि (क्याै ? क्ये) (प्रान्तावलम्बिन्यौ ? ) यस्यां सा शिक्यप्रान्तावलम्बिनी । उभयोरन्तयोर्बद्धशिक्यामित्यर्थः ॥ ४ ॥
दक्षिणोत्तरसंस्थानावुभावेकत्र सङ्गतौ ।
स्तम्भौ कृत्वा समे देशे तयोः संस्थापयेत् तुलाम् ॥ ५ ॥
दक्षिणीचोत्तरा च दक्षिणोत्तरसंस्थाने च यौ स्तो दक्षिणोत्तरसंस्थानौ । अर्थात् तयोरन्तरं कार्यापेक्षया यावद्धि तद्विभागः । उक्तयोरुच्चैष्ट्वमपि मनुष्यः सुखमास्ते यस्मिन् शिक्ये तत् । तत्र नध्र्यावलम्बनं यावद् भूमिं न
स्पृशति तावदर्थात् कर्तव्यम् । उभौ तौ तस्मिन् काले निबद्धौतयोरुपरि काष्ठं निबध्येत्यर्थः । समायां भूमौ तयोर्मध्ये तुला कर्तव्या ॥५ ॥
आयसेन तु पाशेन मध्ये संगृह्य धर्मवित् ।
योजयेत सुसंयत्तां तुलां प्रागपरायताम् ॥ ६ ॥
तयोर्मध्ये तुला कार्येत्युक्तं तद् विशेष्यते । लोहपाशेन तुलां मध्ये गृहीत्वा योजयेदुपरितनस्य काष्ठस्य मध्ये पूर्वपश्चिमदीर्घाम् ॥ ६ ॥
वादिनोऽनुमतेनैनां कारयेन्नान्यथा नृपः ।
तोलयित्वान्तरं पूर्वं चिह्नं कृत्वा घटस्य तु ॥ ७ ॥
प्रतिवाद्यनुमतेन, इत्थंभूतलक्षणा, प्रकृत्यादित्वाद्धेतौ वा तृतीया । प्रतिवादिनि शिरसि स्थिते एवं समयं कारयेत्, नान्यथा स्वयमुत्थाप्य ।नृपस्तुलां कृत्वा एकस्मिन् पार्श्वेऽभिशस्तमपरस्मिन् पाषाणादि बद्ध्वा समवस्थितायां चिह्नं कृत्वा तुल्यसमवस्थितमवतार्य घटात् समयान् ज्ञापयित्वा पुनरारोपयेदभिशस्तम् ॥ ७ ॥
तुलितो यदि वर्धेत स विशुद्धो हि धर्मतः ।
समो वा हीयमानो वा न विशुद्धो भवेन्नरः ॥ ८ ॥
तुलितो यद्यधो लम्बते गुरुः स्यादित्यर्थः, स शुद्धः । समो वा स्याद्धीयते वा स उपरि गच्छेत्, लघुः स्यादित्यर्थः । यथा चोदकेन च शुद्धः स भाति तथा सत्यशुद्धो भवति ॥ ८ ॥
धर्मपर्यायवचनैर्धट इत्यभिधीयते ।
त्वं वेत्सि सर्वभूतानां पापानि सुकृतानि च ॥ ९ ॥
त्वमेव देव ! जानीषे न विदुर्यानि मानवाः ।
व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति ॥ १० ॥
तदेनं संशयारूढं धर्मतस्त्रातुमर्हसि ।
अवतार्य श्रावयित्वा पुनरारोपयेत् । ततो वृद्धिह्रासाभ्यां जयपराजयौ । घटस्तुतिरेषा । तदधिष्ठिता स्त्रीदेवता तु सत्यानृते विभजति ॥ ९, १० ॥
अतः परं प्रवक्ष्यामि लोहस्य विधिमुत्तमम् ।
द्वात्रिंशदङ्गुलाख्यं तु मण्डलान्मण्डलान्तरम् ॥ ११ ॥
अग्निरिति द्वितीयं दिव्यमुक्तं, तत् प्रस्तूयतेऽनन्तरम् । लोहाधारत्वाल्लोह इत्यग्निरुच्यते, तस्य विधिं वक्ष्यामि । मण्डलान्मण्डलमध्यं द्वात्रिंशदङ्गुलम् ॥ ११ ॥
मण्डलस्य प्रमाणं तु कुर्यात् तद्धटसम्मितम् ।
अष्टाभिर्मण्डलैरेवमङ्गुलानां शतद्वयम् ॥ १२ ॥
चतुर्विंशत् समाख्यातं भूमेस्तु परिकल्पनम् ।
मण्डलैस्तु ततः क्लृप्तैः सोपवासः शुचिर्नरः ॥ १३ ॥
द्वात्रिंशदङ्गुलान्यष्टौ मण्डलानि कृत्वा तेषु दूषितस्य पदमात्रं मण्डलानि कुर्यात् । अष्टानां द्वयोर्द्वयोः सन्धावष्टाभिर्मण्डलैश्चतुर्विंशत्यधिकमङ्गुलानां शतद्वयं भूमेः कल्पितं भवति । सप्त सन्धयः । द्वात्रिंशत् (अङ्गुलानि) सप्तभिर्गुणिते एतावदङ्गुलप्रमाणं भवति । एवं मण्डलानि कल्पयित्वा कृतोपवासः पूर्वेद्युः शुचिर्दूषितः ॥ १२, १३ ॥
सवासा जलमाप्लुत्य त्वार्द्रकेशः समाहितः ।
सप्ताश्वत्थस्य पत्राणि तथा सौत्राणि तन्तवः (?) ॥ १४ ॥
सवासाः स्नात्वार्द्रकेशः अचिरस्नात इत्यर्थः । देवताप्रणामपरः अश्वत्थपत्राणि सप्त हस्ते कृत्वा सूत्रस्य तन्तून् सप्त ॥ १४ ॥
हुताशतंप्तंलोहस्य पञ्चाशत्पलिकं समम् ।
हस्ताभ्यां पिण्डमादाय व्रजेत् सप्त शनैः शनैः ॥ १५ ॥
लोहस्य पञ्चाशत्पलप्रमाणमग्निना तप्तहुताशन इवातप्तमग्निवर्णभित्यर्थः, समं निम्नोन्नतवर्जं पिण्डमुपरि कृत्वा साश्वत्थपर्णसूत्राभ्यां हस्ताम्यामादाय सप्तसु सन्धिषु कृतेषु मण्डलेषु पादं निदधदत्वरमाणो गच्छेत् ॥ १५ ॥
न मण्डलमतिक्रामेन्नाप्यर्वाक् स्थापयेत् पदम् ।
न पातयेत् तामप्राप्तो यावद् भूः परिकल्पिता ॥ १६ ॥
मण्डले पदमनिदधन्नातिक्रामेत् मण्डले पदं निदध्यात् । यावच्च भूपरिकल्पिता तस्या अन्तमप्राप्तो न लोहं पातयेत् ॥ १६ ॥
भयात् पातयते यस्तु दग्धो वा न विभाव्यते ।
पुनस्तं हारयेल्लोहंस्थितिरेवं दृढीकृता ॥ १७ ॥
भयाद् अन्तरा त्रस्तः पातयेत्, दग्धो वा न दग्धो वेति न निश्चीयते, तं पुनरेतेन प्रकारेण लोहं हारयेत् । एवं स्फुटं भवति ॥ १७ ॥
तीर्त्वानेन विधानेन मण्डलानि कृतानि तु ।
न दग्धः सर्वथा यस्तु स विशुद्धो भवेदिह ॥ १८ ॥
अनेन विधानेन मण्डलान्यतिक्रम्य न दग्धो यः स शुद्धः ॥ १८ ॥
अनेन विधिना कार्यो हुताशसमयः सदा ।
त्वमेव सर्वभूतानामन्तश्चरसि नित्यशः ॥ १९ ॥
प्रच्छन्नानि मनुष्याणां पापानि सुकृतानि च ।
त्वमेव देव ! जानीषे न विदुर्यानि मानवाः ॥ २० ॥
व्यवहाराभिशस्तोऽयंमानुषः शुद्धिमिच्छति ।
तदेनं संशयारूढं धर्मतस्त्रातुमर्हसि ॥ २१ ॥
त्वमग्नेसर्वभूतानामिति मन्त्रमुक्त्वा यथोक्तेन विधानेन लोहं हस्ते दद्यात् । गतार्थो मन्त्रः ॥ १९-२१ ॥
अतःपरं प्रवक्ष्यामि पानीयविधिमुत्तमम् ।
नातिक्रूरेण धनुषा प्रेरयित्वा शरत्रयम् ॥ २२ ॥
अतःपरमुदकविधिरुच्यते । नातिखरेण नातिमृदुना मध्यमेन च धनुषाशरत्रयं क्षिप्त्वा ॥ २२ ॥
पानीये मज्जये(रं ? द्य )स्तु शङ्कायां प्रतिवर्तते ।
मध्यमस्तु शरो यः स्यात् पुरुषेण बलीयसा ॥ २३ ॥
प्रत्यानीते तु तेनाथ तस्य शुद्धिर्भविष्यति ॥ २४ ॥
** ** पानीये मज्जयेद्, यस्त्वाशङ्कितः पुरुषः (तं ? ततः) पूर्वं शरत्रये प्रेरिते मध्यमो यः नातिदूरे नातिनिकटे पुरुषेण बलीयसा तत्रस्थेन गत्वानीते तस्मिन् तेन तस्य शुद्धिः, तावद् यदि नोन्म (ज्या?ज्जे)त् ।अथोन्मज्जत्यशुद्धः ॥ २३,२४ ॥
स्त्रियस्तु न बलात्कार्या न पुमांसोऽतिदुर्बलाः ।
भीरुत्वाद् योषितो मृत्युर्निरुत्साहतया कृशः ॥ २५ ॥
स्त्रियोऽनिच्छन्त्यो न बलात्कार्याः, पुरुषश्चातिदुर्बलः । यदि स्वेच्छया (न ?) कुर्वन्ति तदा न दोषः । भीरुत्वात् स्त्री म्रियते दुर्बलत्वाश्च पुरुषः ॥ २५ ॥
वारिमध्ये मनुष्यस्य अङ्गं यदि न दृश्यते ।
अतोऽन्यथा न शुद्धः स्यादेकाङ्गमपि दर्शयन् ॥ २६ ॥
उदकमध्ये निमग्नस्य यद्येकमप्यङ्गं न दृश्यते ततः शुद्ध इति सामर्थ्यात् । अतोऽन्यथा यत्किञ्चिदप्यङ्गंदर्शयन्नशुद्धः स्यात् ॥ २६ ॥
स्थानादन्यत्र वा गच्छन् यस्मिन् पूर्वं निवेशितः ।
तोयमध्ये मनुष्यस्य गृहीत्वोरुं सुसंयतः ॥ २७ ॥
लग्नस्तु निश्चलस्तिष्ठेद् यावत् प्राप्तस्तु सायकः ।
( प्राप्तं तु सायकं दृष्ट्वा जलादुत्थाय प्राङ्मुखम् ? ।)
यस्मिन् स्थान उदकमध्ये पूर्वं निमज्जितः तस्मादन्यत् स्थानं गच्छन् न शुध्यतीति पूर्वशेषः । तस्य मनुष्यस्य गृहीत्वोरुदेशं तथा निश्चलस्तिष्ठेद्यावच्छर आनीत इति ॥ २७ ॥
आनीतं तु शरं दृष्ट्वा जलादुत्थाय प्राङ्मुखः ।
प्रणिपत्य नृपं गच्छेत् सर्वांश्चैव सभासदः ॥ २८ ॥
प्रणिपत्य नमस्कृत्य नृपं सभासदश्च शुद्धो गच्छेद् यथेष्टम् ॥ २८ ॥
मज्जनकाले इमं मन्त्रं पठित्वा मज्जेत्—
त्वमम्भः ! सर्वभूतानामन्तश्चरसि नित्यशः ।
प्रच्छन्नानि मनुष्याणां पापानि सुकृतानि च ॥ २९ ॥
स्वमेव देव ! जानीषे न विदुर्यानि मानवाः ।
व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति ॥ ३० ॥
तदेनं संशयारूढं धर्मतस्त्रातुमर्हसि ॥ ३१ ॥
गतार्थो मन्त्रः ॥ २९-३१ ॥
अतःपरं प्रवक्ष्यामि विषस्य विधिमुत्तमम् ।
अपराह्णेन मध्याह्णेन सन्ध्यायां तु धर्मवित् ॥ ३२ ॥
शरद्ग्रीष्मवसन्तेषु वर्षासु च विवर्जयेत् ।
एतेषु कालेषु न दातव्यं विषम् । शेषो गतार्थः ॥ ३२ ॥
भग्नं च वारितं चैव धूपितं मिश्रितं तथा ।
कालकूटं मलं चैव विषं यत्नेन वर्जयेत् ॥ ३३ ॥
भग्नंस्वरूपादपेतं, वारितमन्येन, धूपितं द्रव्यान्त ( र ? रात् ), मिश्रमन्येन विषादिना, कालकूटं च न दापयेत् ॥ ३३ ॥
शार्ङ्गं हैमवतं शस्तं ❋454रूपवर्णरसान्वितम् ।
महादोषवते दद्याद् राजा तत्त्वबुभुत्सया ॥ ३४ ॥
शृङ्गिविषं, हिमवति जातं, प्रशस्तं, स्वरूपेण स्ववर्णेन स्वरसेन च युक्तं, महादोषवते वधार्हदोषाय च दद्यात् तत्त्वज्ञानार्थं राजा ॥३४ ॥
न वृद्धातुरबालेषु नच स्वल्पापराधिषु ॥ ३५ ॥
विषस्य पलषड्भा (गं ? गो) भागो विंशतिम (स्य तत् ? स्तु यः) ।
तदष्टभागशुद्धं तु शो (ध्य ? ध्ये) दद्याद् घृताप्लुतम् ॥ ३६ ॥
वृद्धातुरबाला(ल्पा)पराधिषु न दद्यात् । पलषड्भागं पलविंशतिभागं च तदष्टभागमपास्याभिशस्तस्य दद्यात् घृतेनाप्लुत्य ॥ ३५, ३६ ॥
यथोक्तेन विधानेन विद्वान् स्पृट्वानुमोदितः ।
सोपवासस्तु खादेत देवब्राह्मणसन्निधौ ॥ ३७ ॥
यथोक्तेनानेन विधानेन स्नात्वा स्पृष्ट्वा तेनानुमोदितो दद्यात् । देहीत्यनुमोदितः । स पूर्वेद्युरुपोषितोदेवब्राह्मणसन्निधौ, खादेत ॥३७ ॥
विषवेगक्रमापेतं सुखेन यदि जीवति ।
विशुद्धमिति तं ज्ञात्वा राजा सत्कृत्य मोक्षयेत् ॥ ३८ ॥
विषवेगग्लानिरहितो यदि सुखेन जीवति तं विशुद्धमिति बुद्ध्वा पूजयित्वा राजा विसर्जयेत् ।
“त्वं विष !ब्रह्मणः पुत्रः सत्यधर्मव्यवस्थितः ।
शोधयैनं नरं पापात् सत्येनास्यामृतं भव ॥”
इत्यनेन मन्त्रेण दातव्यम् ॥ ३८ ॥
अतः परं प्रवक्ष्यामि कोशस्य विधिमुत्तमम् ।
*455 इति निषेध उक्तः।")
मध्याह्ने सोपवासस्य स्नातस्यार्द्राम्वरस्य च ॥ ३९ ॥
गतार्थः ॥ ३९ ॥
ƚ456 सशुकःआस्तिक इति च तत्रोक्तम् ।")
न शूद्रस्याव्यसनिनः कोशपानं विधीयते ।
यद्भक्तः सोऽभियुक्तः स्यात् तद्देवत्यं तु प्राङ्मुखः ॥ ४० ॥
प्रत्युच्चार्य ततोर्ध्वास्यं पाययेत् प्रसृतित्रयम् ।
द्विसप्ताहान्तरात् तस्य त्रिसप्ताहेन वा शुभः ॥ ४१ ॥
प्रत्युक्त्वा तत्कृतं तेनानुमतमूर्ध्वाम्यं प्रभृतित्रयं पाययेत् । चतुर्दशाहादेकविंशत्यहाद् वा ॥ ४०, ४१ ॥
प्रत्यात्मिकं तु दृश्येत सैव तस्य विभावना ।
ऊर्ध्वंत्रिसप्तदिवसाद् वैकृतं सुमहद् यदि ॥ ४२ ॥
नाभियोज्यःस विदुषा कृतकालव्यतिक्रमात् ।
एवं प्रत्युच्चार्य पायितः, द्वित्रिसप्ताहादर्वाग् यद्यशुभं पुत्रादिमरणं गृहदाहादि वा स्यात्, अशुभं स्यादित्यभ्युपगम्य दत्तत्वात् प्रत्यात्मिकमसाधारणमशुभं तदन्तरा यदि दृश्येत, विभावितोऽशुद्ध इति । तत ऊर्ध्वं कृतकालातिक्रमान्नाभियोज्यःशुद्ध इत्यर्थः ॥ ४२ ॥
महापराधे निर्दोषे कृतघ्ने क्लीबकुत्सिते ।
नास्तिकव्रात्यबालेषु कोशपानं विवर्जितम् ॥ ४३ ॥
ब्रह्महत्यादौ निर्दोषे च कृतघ्नादिषु च न कोशपानं तथाभूताः प्रकुर्युरपि ॥ ४३ ॥
चराचरस्य जगतो जलेश ! प्राणधारणम् ।
मानुषोऽयं त्वया देव ! धर्मतः शुद्धिमिच्छति ॥ ४४ ॥
अद्भ्याग्निरभूद् यस्मादतस्तोये विशेषतः ।
तस्मात् सत्येन भगवञ्जलेश ! त्रातुमर्हसि ॥ ४५ ॥
कोशपानमन्त्रो गतार्थः ॥ ४४, ४५ ॥
यथोक्तेन विधानेन पञ्च दिव्यानि धर्मवित् ।
ददद् राजाभिशस्तेभ्यः प्रेत्य चेह च नन्दति ॥४६ १/२॥
गतार्थः श्लोकः ॥ ४६ १/२॥
इति पञ्च दिव्यानि
समाप्तमिदं भगवद्भवस्वामिना कृतं
नारदीयमनुसंहितायां भाग्यम् ॥
______
शुभं भूयात ।
ग्रन्थान्तरोपात्तवाक्यानि ।
| वाक्यम् | ग्रन्थनाम | कर्तनाम |
| ‘प्रतिज्ञां निर्वान्—’ | … | … |
| ‘सप्तजिह्वाः ' | … | … |
| ‘राजभिर्धतदण्डाः—’ | … | … |
| ‘जायमानो व ब्राह्मणः—’ | श्रुतिः | … |
| ‘कल्पच्छन्दोविचिति—’ | … | … |
| ‘नह्यहं जीवितुं शक्तः—’ | … | वाल्मीकिः |
| ‘ऋते देवव्रतं भीष्मं’—’ | … | व्यासः |
| ‘क्रोधो नाम सचक्षुषामपि—’ | … | … |
| ‘केशेषु चमरीं इन्ति’… | … | … |
| ‘भूमिं भूमिशयांश्चैव—’ | … | … |
| ‘‘ऋतामृताभ्यां जीवेत’ | … | … |
| अजीवन्तस्त्वधर्मेण – ' | … | … |
| ‘सह श्वोभूते समित्या —’ | श्रुतिः | |
| शरीरपाणिचरणैः—’ | … | वररुचिः |
| ‘समार्धं धनमादाय—’ | … | वसिष्ठः |
| ‘ब्रह्महत्यां च वृद्धिः —’ | … | … |
| ‘सपिण्डता तु पुरुषे—’ | … | … |
| ‘आपो वै सर्वा देवताः’ | श्रुतिः | … |
| ‘ब्राह्मणो वै सर्वा देवताः’ | … | … |
| ‘दशाहं शावमाशौचम्’ | … | … |
| ‘आवा सञ्चयनादसाम्श्नाम’ | … | … |
| ‘सर्वविद्याविधातारम्’ | … | … |
| ‘आदिकर्ता स भूतानां—’ | … | … |
| ‘सत्यं साक्ष्ये ब्रुवन् साक्षी—’ | … | … |
| ‘साक्ष्येऽनृतं वदन् पाशैः—’ | … | … |
| ‘ब्रह्महत्याश्वमेधाभ्यां—’ | … | … |
| ‘त्रयःप्राञ्चस्त्रयःप्रत्यञ्चः—’ | श्रुतिः | … |
| ‘पुत्रेण लोकाञ्चयति —’ | स्मृतिः | … |
| वाक्यम् | ग्रन्थनाम | कर्तृनाम |
| ‘नापुत्रस्य लोकोऽस्ति’ | स्मृतिः | …. |
| ‘सत्यमेव प्रकृष्टो धर्मः—’ | आगमः | …. |
| ‘अश्वमेधात् परं पुण्यं—’ | …. | …. |
| ‘सुवाग् ब्राह्मणः’ | …. | …. |
| ‘अद्या मुरीय’ | …. | …. |
| ‘यस्ते हरति पुष्करम्’ | … | …. |
| ‘ख्यापनानुतापादिना —’ | स्मृतिः | …. |
| ‘प्रतिश्रुत्याप्रदानेन—’ | …. | …. |
| ‘पञ्चोन्मादाःसमाख्याताः—’ | …. | …. |
| ‘उच्छिष्टमन्नं दातव्यं—’ | …. | …. |
| ‘आरूढःपतितो हन्ति—’ | …. | …. |
| ‘कामतस्तु प्रवृत्तानाम्—’ | संहितान्तरम् | …. |
| ‘ऊर्ध्वं सप्तमात् पितृ—’ | …. | …. |
| …. | भृगुसंहिता | …. |
| ‘युग्मासु पुत्रा जायन्ते’ | …. | …. |
| ‘उग्रात् तु जातः क्षत्तायां—’ | भृगुसंहिता | …. |
| ‘तस्यामात्मनि तिष्ठन्त्यां—’ | …. | …. |
| ‘स दौहित्रोऽप्यमुत्रैनं—’ | …. | …. |
| ‘अग्नौ प्रास्ताहुतिः—’ | …. | …. |
| ‘भ्रूणहा प्रायश्चित्तं—’ | …. | वसिष्ठः |
| ‘पतितं पतितेत्येतद्—’ | …. | …. |
| ‘काणं वाप्यथवा—’ | भृगुसंहिता | …. |
| ‘सम्भूय निहन्तव्यः—’ | …. | …. |
| ‘यो राज्ञःप्रतिगृह्णीयात्—’ | …. | …. |
| ‘त्वं विष! ब्रह्मणः पुत्रः—’ | …. | …. |
]
-
“सन्दिग्धेऽर्थेऽभिशस्तानां परीक्षार्थे महात्मना । मारदेन पुरा प्रोक्ताःसत्यानृतविभाजिकाः ॥ (p. 195 ↩︎
-
““रक्कैर्गन्धैश्च माल्यैश्च दव्यपूपाक्षतादि मेः ।” ↩︎
-
“Compare “चत्वारिंशत्समधिकं भूमेरकुलमानतः ।” ↩︎
-
" नष्टे धर्मे मनुष्येषु व्यवहारः प्रकत्वित। द्रष्टाच व्यवहाराणां राजा दण्डघरःकृतः ॥” ↩︎
-
“Compare अष्टापायं तु शूद्रस्य स्तं भवति किल्बिषम् । व्द्यष्टापाद्यं तु वैश्यस्य द्वात्रिंशत् क्षत्रियस्य तु ॥ ब्राह्मणस्य चतुष्षष्टिं मनुः स्वायम्भुवोऽब्रवीत् ।( Nāradīya. p. 190 ↩︎
-
“Compare शौर्यभार्याधने हित्वा यच विद्याधनं भवेत् । त्रीण्येतान्यविभाज्यानि प्रसादो यश्च पैतृकः ॥(Naradiya p. 150 ↩︎
-
“Compare घृतेत्वेकादशगुणं दण्डं दाप्योऽब्रवीत्मनु ।(Naradiya. p. 187 ↩︎
-
““नारदः पुलहो गार्ग्यः पुलस्त्यः शौनकः क्रतुः । बोधायनो जातुकर्णो विश्वामित्रः पितामहः ॥”” ↩︎
-
““बौधायनं जैमिनिं च कौषीतक्याश्वलायनौ । वाधूलकापस्तम्बादीन् नौमि शाखाप्रवर्तकान् ॥ तत्प्रोक्तकल्पसूत्रादिव्याख्यानकृतमानसन् । आचार्यानपि सिद्धान्तिभवस्वामिमुखान् भजे ॥”” ↩︎
-
“एतशब्दः श्वेतपर्याय इति कल्पसूत्रव्याख्यातारो धूर्तस्वाभिभवस्वामिरुद्रदत्तप्रभृतयोयाज्ञिकाः।” ↩︎
-
“नारायणादिभेःप्रयोगकारैरेकैकं पक्षमाश्रित्य दर्शपूर्णमासादीनां प्रयोग उक्तः। आचार्यपादैर्द्वेधैव पक्षान्तराण्युक्तानि । भवस्वामिमतानुसारिणा मया तूभयमङ्गीकृत्य प्रयोगसारः क्रियते ।” ↩︎
- ↩︎
-
“स्कन्दस्वामीयऋग्भाष्यग्रन्थोपोद्धातकथितप्रकारेण ।” ↩︎
-
“‘नाम् । तस्य’,” ↩︎
-
“‘स्त’ घ. पाठः” ↩︎
-
“‘कतानाः। अ’,” ↩︎
-
“यवृ’ ग. घ. पाठः. G. P. T. -1051. 500. 21-0-1103, B” ↩︎
-
“‘स्याद् वि’ ख., ‘यःस्याद् ’ घ. पाठः” ↩︎
-
“‘कःस्वे’ ग. घ. पाठः” ↩︎
-
" ‘क्तो’” ↩︎
-
“‘ज्ञानिर्वहं ज क. ख. पाठः,” ↩︎
-
“‘वक्तव्या’ ख. पाठः,” ↩︎
-
“‘स्य ॥’ ग. घ. पाठः” ↩︎
-
“‘क’ ग. पाठः.” ↩︎
-
“‘अथ नृ’ ग. घ. पाठः” ↩︎
-
" रः । ‘व्यवहारस्तु य’ घ. पाठः.” ↩︎
-
" ‘दून्कुल’ क. ख. पाठः” ↩︎
-
“‘ण्ड’ घ. पाठः.” ↩︎
-
“‘दि’ घ. पाठः.” ↩︎
-
“‘मि’ ख. पाठः.” ↩︎
-
" ‘लं रा ग’ ग. पाठः" ↩︎
-
“नः ।साधनः कृ’ ग. घ. पाठः.” ↩︎
-
“‘हार्थः।’ क. ग. घ. पाठः” ↩︎
-
“‘गे’ ग. पाठः.” ↩︎
-
" ‘णौपात्करो’ ग. घ. पाठः. " ↩︎
-
“‘व’ क, ख. पाठः,” ↩︎
-
“‘तू’ ग. घ. पाठः.” ↩︎
-
" ‘पा’ ग. पाठः." ↩︎
-
" ‘स्य’ ख. पाठः" ↩︎
-
" ‘णप्रकारत्वात्’ क. ख. पाठः" ↩︎
-
“‘मतिप्रा’ ख. पाठः” ↩︎
-
“‘स्यो’ ग. घ. पाठः” ↩︎
-
“‘प’ क, ख. पाठः” ↩︎
-
" ‘त्वाद् भ्रा’ ग. पाठः" ↩︎
-
“र्वृ.ग. पाठः.” ↩︎
-
“‘र’ क. ग. पाठः” ↩︎
-
" ‘नयाधा (? ↩︎
-
“‘यमार’ क. ख. पाठः” ↩︎
-
“‘तं’ ग” ↩︎
-
" ‘बोऽग्न्यु’ क. ख. पाठः." ↩︎
-
“‘अभिशस्त’ इति मूलपाठः.” ↩︎
-
“‘रम्भे ’ कृ. क. ख. पाठः” ↩︎
-
" ‘न्धःसस्याबन्धः सङ्ग्रक. ख. ग. पाठः." ↩︎
-
“‘म्भः’ ग. घ. पाठः.” ↩︎
-
" ‘ला’ ग. पाठः." ↩︎
-
“‘युक्तंना’ क. पाठः,” ↩︎
-
“‘त्रंसाक्षी वाव’ ख. पाठः.” ↩︎
-
“‘क्षि’ घ. पाठःः,” ↩︎
-
" ‘ब्य’ क. घ. पाठः," ↩︎
-
“‘ति’ क. ख. प. पाठः,” ↩︎
-
“‘ण्डयाः ॥’ ग. पाठः” ↩︎
-
“‘रंसभ्यार्हेण’ क. ख. पाठः.” ↩︎
-
" ‘रक्षता’ ग, घ.पाठः" ↩︎
-
" ‘मेः’ ख. ग. घ. पाठः," ↩︎
-
" ‘क्ष्य’," ↩︎
-
“‘र’,” ↩︎
-
“‘ति’ ग. पाठः” ↩︎
-
“‘र्तते’ क. पाठः” ↩︎
-
“‘त्राह’ क. पाठः” ↩︎
-
" ‘द् व’ ग. पाठः" ↩︎
-
“‘न्शो’ क. ख. घ. पाठः.” ↩︎
-
“‘नेऽध’ क ख ग. पाठः” ↩︎
-
“‘स्त्रंभिषक् का’ क. ख. पाठः,” ↩︎
-
" ‘ना’ क. ख. घ. पाटः" ↩︎
-
“‘र्युपरते’ क. ख. पाठः” ↩︎
-
" ‘षामिति शे’ ख. पाठः" ↩︎
-
“‘वेक्ष्य ।’ क. ख. पाठः” ↩︎
-
“‘तं न’ ग. घ. पाठः” ↩︎
-
“‘र’ क. पाठः” ↩︎
-
“‘प्यइति एते’” ↩︎
-
“‘मवसन्नः’ ग. घ.पाठः” ↩︎
-
“‘क्षार्थमु’ क.ख. घ. पाठः” ↩︎
-
“॥ ‘व्यम् ना’ क. ख. पाठः” ↩︎
-
“‘ष्ठभ्रा’क. पाठः.” ↩︎
-
“त्वं नेष्टे त्वसौ” ↩︎
-
" ‘षु नतु न’ क. ख. पाठः." ↩︎
-
“‘न्ते चेन्मो’ ख. घ. पाठः” ↩︎
-
" ‘कृत’ ग. घ. पाठः" ↩︎
-
“‘त्सु तेष्वे’” ↩︎
-
“‘र्णा’” ↩︎
-
“‘भ्युपायादृ’ ख. पाठः” ↩︎
-
“‘ते जीवतिय’ ग. घ. पाठः” ↩︎
-
“‘स्या’ क.ख. पाठः” ↩︎
-
“‘म्बजीवनार्थो’ ग. घ. पाठः” ↩︎
-
“‘व्यत’ घ. पाठः” ↩︎
-
“‘षां वर्तेत अथ’क. ख. पाठः” ↩︎
-
" ‘पत्ते’ ग. पाठः" ↩︎
-
“‘हार्थम्’ क. ग. पाठः” ↩︎
-
" ‘णंतत् स एव द’ क. ख. पाठः" ↩︎
-
“‘स्या दयादृण स्त्री’ ख. पाठः” ↩︎
-
“‘विनष्टां’ क. ख. पाठः” ↩︎
-
" ‘दातव्या इ’ क. ख. पाठः" ↩︎
-
“‘त्वं के’ क. पाठः” ↩︎
-
“‘पो’ क. ग. पाठः” ↩︎
-
" ‘ररैन’ कःपाठः" ↩︎
-
" ‘पो’ क. ग. पाठः" ↩︎
-
“‘पिच सा’ घ. पाठः” ↩︎
-
" ‘कालच्छ’ क. ख. पाठः" ↩︎
-
" ‘तमात्रं क्षे’म. पाठः" ↩︎
-
“‘वि’ इति मूलपाठः” ↩︎
-
“‘त्तंतद् द’ ध. पाठः” ↩︎
-
" ‘स्त्रे इति धर्मशास्त्रे आहुः’ क. पाठः" ↩︎
-
" ‘ता वाले के’" ↩︎
-
“‘रीं चिन्हन्ती’” ↩︎
-
" ‘ब शु’" ↩︎
-
" ‘परत्व’ क. पाठः" ↩︎
-
“‘श’ क. ख. पाठः” ↩︎
-
" ‘जीवितम्’ क. पाठः" ↩︎
-
" ण्डजः’ ग. घ. पाठः" ↩︎
-
" ‘प्रहाया’ क. ख. ग. पाठः" ↩︎
-
“‘आ’ घ. पाठः” ↩︎
-
“, .” ↩︎
-
" ‘आ’ घ. पाठः" ↩︎
-
““त्वेस’ क. ख. पाठः” ↩︎
-
" ‘वां स्रा’ घ.पाठः" ↩︎
-
“‘न चेद’ क. पाठः” ↩︎
-
“‘ति व’ ग. पाठः” ↩︎
-
“‘नैव प्र’” ↩︎
-
“‘योऽपि वि’” ↩︎
-
" ‘स्सृजत्य’" ↩︎
-
“‘कारेण ध’ क. ख. पाठः” ↩︎
-
“‘षु न’” ↩︎
-
" ‘ब’ घ. पाठः" ↩︎
-
“‘मेवत’ घ, पाठः” ↩︎
-
“‘क्ते’ क. ख. ग. पाठः” ↩︎
-
" ‘चि चे वाशु’ ग. घ. पाठः" ↩︎
-
" ‘ण्डः। त’ क. ख. पाठः" ↩︎
-
“‘क्ष्यति । ग. घ. पाठः” ↩︎
-
“‘न ल’ ग. घ. पाठः,” ↩︎
-
“‘ला’ ग. घ. पाठः” ↩︎
-
" ‘शि’" ↩︎
-
“‘न दी’ घ. पाठः” ↩︎
-
" ‘अन्येतावच्छोधिते’ क. पाठः" ↩︎
-
" ‘त्रा’ घ. पाठः" ↩︎
-
" ‘पि’" ↩︎
-
" ‘तेऽस्मिन्’ ग. घ. पाठः" ↩︎
-
“‘णे प्र’ क. ख. पाठः” ↩︎
-
" ‘त्यव्यव’ ग घ पाठः" ↩︎
-
“‘पे’ क. ख. पाठः” ↩︎
-
" ‘क्ष्येत’ क. ख. ग. घ. पाठः" ↩︎
-
" च वृ क. ख. पाठः" ↩︎
-
“‘त्वे’ ख. पाठः” ↩︎
-
“‘तोऽस्ति’ क. ख. पाठः,” ↩︎
-
" ‘स्था’ क. ख. घ. पाठः ।" ↩︎
-
“‘याः’” ↩︎
-
“‘मु’ क. ख. ‘पाठः” ↩︎
-
“‘धान्यमाहाये’ति वसिष्ठस्मृतिपाठोऽन्यत्र दृश्यते । एष प्रकृतानुगुणो भवति ।” ↩︎
-
“घ’ ख. पाठः.” ↩︎
-
“‘म्य’ ग. घ. पाठः.” ↩︎
-
" ‘श्च वि’ ग. घ. पाठः" ↩︎
-
" ‘विष्यती’ ग. घ. पाठः" ↩︎
-
" ‘ल्य’ क. ख. पाठः" ↩︎
-
" ‘केना’ ग., ‘डो’ घ. पाठः" ↩︎
-
“‘ते’” ↩︎
-
“‘याः ॥’” ↩︎
-
" ‘न्यप्र’ क. ख. पाठः" ↩︎
-
" ‘दापये’ षः पाठः." ↩︎
-
" ‘यः । तस्मिन्’ क. ख. पाठः" ↩︎
-
“‘व ।गोप्यस्य’ ग. पाठः” ↩︎
-
" ‘ग्य’ क.ख.पाठः" ↩︎
-
" ‘दे’ ख. घ. पाठः" ↩︎
-
“‘त्त्वबो’” ↩︎
-
" ‘र्ये’ क. ख. पाठः" ↩︎
-
“‘च दा’ क. ख. घ. पाठः” ↩︎
-
" ‘ति । अवि’" ↩︎
-
“‘दिविव’ क. पाठः” ↩︎
-
“‘प’ क. ख. पाठ.” ↩︎
-
" ‘ङ्क्ते’ ख. ग. पाठः" ↩︎
-
“‘प’ क. ख. ग. पाठः” ↩︎
-
" ‘त्व’ घ. पाठः" ↩︎
-
“‘पा’ क. ख. पाठः” ↩︎
-
“‘त्’ ग. घ. पाठः” ↩︎
-
" ‘मुदका’ ग. पाठः" ↩︎
-
" ‘था अस’ ग. घ. पाठः" ↩︎
-
" ‘प्ता’ क.‘प्त्रधा’ घ. पाठः" ↩︎
-
" ‘हा’ ग. पाठः" ↩︎
-
“‘विचक्षुषः ज्ञे ’ ग. घ. पाठः” ↩︎
-
“‘के’ क. घ. पाठः” ↩︎
-
“‘धश्चापि सू’ इति मूलकोशपाठः.” ↩︎
-
“‘मश्चस्व’ ग. घ. पाठः.” ↩︎
-
“‘षु तयोर्व्यापू’,” ↩︎
-
“‘त्या’ क. पाठः” ↩︎
-
" ‘णं हे’ ग. घ. पाठः" ↩︎
-
" ‘स्य हेतुः यथासङ्गः । त’ क., ‘सङ्गः । त’ ग. घ. पाठः," ↩︎
-
“‘णनपाताधा’ घ. पाठः” ↩︎
-
" ‘सोऽधरोऽर्थ’ ग. पाठः" ↩︎
-
" ‘ढः’ क. पाठः" ↩︎
-
“‘मा’ घ. पाठः” ↩︎
-
" ‘नान्नैको’ क. पाठः" ↩︎
-
“‘ले’ ग. घ. पाठः” ↩︎
-
“‘स्य’” ↩︎
-
“‘पा’ घ. पाठः” ↩︎
-
“‘मः न दृष्टःसा’” ↩︎
-
“‘क्षुषश्च’ क. पाठः” ↩︎
-
“‘ज्यः’ ग. पाठः” ↩︎
-
" ‘द्ध’ घ. पाठः" ↩︎
-
“‘ग्र’ क. पाठः” ↩︎
-
" ‘चिह्नश्च’ ग. घ. पाठः" ↩︎
-
“‘बे ॥ ना’ ग. घ. पाठः” ↩︎
-
“‘लुब्धक’ इति” ↩︎
-
" ‘द्र’ घ. पाठः" ↩︎
-
" ‘श्रा’ क. पाठः" ↩︎
-
" ‘बकवृत्तयः’ इति च मूलपाठः" ↩︎
-
" ‘सि’ घ. पाठः" ↩︎
-
" ‘महाध्व’ क. पाठः" ↩︎
-
" ‘स’" ↩︎
-
“‘त् बकभग’ क. पाठः” ↩︎
-
" ‘स्थाः’ ग घ. पाठः" ↩︎
-
" ‘ता’ क. पाठः" ↩︎
-
“‘सि’ घ. पाठः” ↩︎
-
“‘का’ ग. घ. पाठः” ↩︎
-
" ‘स्थायां’ ग. घ. पाठः" ↩︎
-
“‘भ्यां लि’” ↩︎
-
" ‘ते ॥ त्वरमाण’ क. पाठः" ↩︎
-
“‘ब’ क. पाठः " ↩︎
-
“‘त्म्यं मैः’ घ. पाठः” ↩︎
-
“‘जीतस्त’” ↩︎
-
“‘विधप्र’ क. पाठः” ↩︎
-
“‘तिष्ठति’क. पाठः” ↩︎
-
“‘रजान्’ ग. घ. पाठः” ↩︎
-
“‘स्मिस्तस्मिन् वा’ घ. पाठः” ↩︎
-
“‘फलं वा’ क. पाठः” ↩︎
-
“‘त्यनृ’ ग. घ. पाठः” ↩︎
-
“‘त् । केचिन्महा’” ↩︎
-
“‘शे’” ↩︎
-
“‘तिः । प्रज’ क. पाठः” ↩︎
-
“‘लं’ क. पाठः” ↩︎
-
“‘द्धारणादिसम्बन्धाद् धार’ ग. घ. पाठः” ↩︎
-
“‘ष्टत’” ↩︎
-
“‘क्तसु’ क. पाठः” ↩︎
-
“‘निरयं स’ ग. घ. पाठः” ↩︎
-
“‘षु ते चश’” ↩︎
-
“‘राः छित्वाशा’ क. पाठः” ↩︎
-
“‘श्च-अनु’ घ. पाठः” ↩︎
-
“‘इह या’ इति मूलपाठः” ↩︎
-
“‘सु वा पा’ क., ‘सु पासपा’ ग. घ. पाठः” ↩︎
-
“‘न्मावल’” ↩︎
-
“‘कारिणी’ क. पाठः” ↩︎
-
“‘नमपि’ क. घ. पाठः” ↩︎
-
“‘तदन्तरं’ इति मूलपाठः” ↩︎
-
“‘व वृ’ क.,‘त्वृ’ ग घ. पाठः” ↩︎
-
“‘र्थेप्रहरति’ इति मूलपाठः” ↩︎
-
“‘रः ॥सा’ ग. घ. पाठः” ↩︎
-
“‘नामप’ क. ग. पाठः” ↩︎
-
“‘किन्न पापंक’ क. पाठः” ↩︎
-
" ‘ह्मइ’ घ. पाठः” ↩︎
-
“‘यो वा ग’ क. पाठः” ↩︎
-
" ‘ना’ क. म. घ. पाठः" ↩︎
-
“‘स्त्रीमस्समा इ’ ग., ‘स्त्रीमिस्स इ’ घ. पाठः.” ↩︎
-
“‘धिस्मृतिः ॥’ ग. घ. पाठः.” ↩︎
-
“पि’ क. ग. पाठः” ↩︎
-
" ‘हरते’," ↩︎
-
" ‘यितम् ॥’ क. पाठः." ↩︎
-
" ‘यः स श’ ग. पाठः," ↩︎
-
“‘ने’ ग. घ. पाठः” ↩︎
-
“‘पान्तं’ क. पाठः” ↩︎
-
“‘थंकृ’ क. पाठः” ↩︎
-
“‘हयेत्’ क. पाठः” ↩︎
-
“‘निर्विश’ ग. घ. पाठः” ↩︎
-
" ‘तक्षे’ क. पाठः" ↩︎
-
“‘श्च’ क.पाठः” ↩︎
-
“‘ण्ड’ क. पाठः,” ↩︎
-
“‘निस्स्वा’ क. ख पाठः” ↩︎
-
" ‘दि याचितम् । त’," ↩︎
-
“‘स्थः’ ग. घ. पाठः.” ↩︎
-
" ष ‘बि’क. पाठः." ↩︎
-
“‘स्व’” ↩︎
-
" ‘कार्थ्येनो’ ग. घ. पाठः," ↩︎
-
“‘रो’ ग. घ. पाठः.” ↩︎
-
“‘धः’,” ↩︎
-
“‘ते व्य’ क पाठः.” ↩︎
-
“‘स’ ष. पाठः.” ↩︎
-
“‘नात् स’ क. पाठः.” ↩︎
-
“‘स्वंद’ ग. घ. पाठः.” ↩︎
-
“‘धो दृष्टःपू’ ग. घ. पाठः” ↩︎
-
“‘तु’,” ↩︎
-
“‘सं’ क. पाठः, " ↩︎
-
“‘स्ति द’ग. घ. पाठः.” ↩︎
-
“‘आ’ क. पाठः.” ↩︎
-
“‘त्रा’,” ↩︎
-
“‘वादेयं पु’ घ. पाठः.” ↩︎
-
“‘ष्व’ क. पाठः.” ↩︎
-
“‘नि’,” ↩︎
-
“‘व्य’,” ↩︎
-
“‘र्यद्द्रव्य’ ग. घ. पाठः.” ↩︎
-
" ‘हृ’,” ↩︎
-
“‘न य’”
↩︎'अदत्तं षोडशात्मकमि'त्युक्त, तद् विशेष्यते— -
" ‘क्ष्या’ क. पाठः" ↩︎
-
“‘संज्ञाधिका बन्धवा क’ ग. घ. पाठः” ↩︎
-
“‘ज्ञाङ्कक’ ग., ‘ज्ञांक’घं पाठः” ↩︎
-
“‘रस्तेषां दा’ क. घ. पाठः” ↩︎
-
" ‘शुभं’ इति मूलपाठः" ↩︎
-
" ‘स्मृ’ घ. पाठः" ↩︎
-
" ‘ना लब्धः । पि’ क. पाठः" ↩︎
-
“‘शक्यादिः’ क.‘शाक्यदिः’ ग. पाठः” ↩︎
-
“‘प’ क.पाठः” ↩︎
-
" ‘ते र’ ग. पाठः" ↩︎
-
“‘रि’ क.घ.पाठः.” ↩︎
-
" ‘व्यं’ ग., ‘व्य’ घ. पाठः" ↩︎
-
“‘पदिद’ क. पाठः” ↩︎
-
“‘भुताय’ इति मूलकोशपाठः” ↩︎
-
“‘च्छा’ ग. पाठः” ↩︎
-
“‘णे ध’ क. पाठः” ↩︎
-
" एव क गु’ न. पाठः" ↩︎
-
" ‘मि’" ↩︎
-
“‘त्यांस्त्यज’ क. पाठः” ↩︎
-
“‘पा’ घ. पाठः ।” ↩︎
-
“‘माप्नु’ क. पाठः” ↩︎
-
“‘ना’ ग. घ. पाठः.” ↩︎
-
“‘वः’,” ↩︎
-
“‘त्वा स्वस्वा’,” ↩︎
-
“‘क्तः’ क. पाठः.” ↩︎
-
" ‘भ्याहभाण्डं गृ’ ग. घ. पाठः." ↩︎
-
“‘दपर’ ग. क. पाठः” ↩︎
-
“‘वि’ क. घ. पाठः,” ↩︎
-
“‘वृ’ ग. घ. पाठः.” ↩︎
-
“‘प्यः ।यदि न’ ग. पाठः,” ↩︎
-
“‘दत् तेनद् द्र’ ग. पाठः.” ↩︎
-
" ‘तद्द्विगु’ इति मूलकोशपाठः," ↩︎
-
" ‘ष’," ↩︎
-
" ‘यस्ताव’ ग. घ. पाठः." ↩︎
-
“ह्णीत प’ क. पाठः” ↩︎
-
“‘तत् तस्मा’ घ. पाठः” ↩︎
-
“‘भवेत्’ क. पाठः” ↩︎
-
“‘भवेत्’” ↩︎
-
“‘पि’ ग. घ. पाठः” ↩︎
-
“‘दि ॥’” ↩︎
-
“‘हं बी’ क. पाठः” ↩︎
-
“‘नोपहत’ ग. घ. पाठः” ↩︎
-
“‘पि’ क. घ. पाठः” ↩︎
-
“‘तद्धातूनां’ इति मूलकोशपाठः” ↩︎
-
" ‘तः’ ग. घ. पाठः" ↩︎
-
“‘दा’” ↩︎
-
“‘सामान्येन वस्त्राण्ये’ क. पाठः” ↩︎
-
“‛नाशमि’ क. पाठः” ↩︎
-
“‘नच व’ ग. घ. पाठः” ↩︎
-
“‘षणस्या’ क. पाठः” ↩︎
-
“‘ना’ क. पाठः.” ↩︎
-
“‘नूकलं’ क. पाठः,” ↩︎
-
“‘निकृष्टे’ति. मूलकोशपाठः..” ↩︎
-
“‘ण’,” ↩︎
-
“‘ता’” ↩︎
-
“‘ण’ क. पाठः,” ↩︎
-
“‘ने’,” ↩︎
-
“‘त्रं मरणमप्र’,” ↩︎
-
" ‘यां’ ग. घ. पाठः" ↩︎
-
“र्गन’ क. पाठः” ↩︎
-
“‘द्ध’ क. पाठः.” ↩︎
-
“‘शि’ ग. पाठः.” ↩︎
-
“‘न मार्गणप्राप्त’ ग. घ. पाठः.” ↩︎
-
“वे’पाठः.” ↩︎
-
“‘स्यात् । तां’ ग. घ. पाठः.” ↩︎
-
“‘भवति दारा’,” ↩︎
-
“‘च’ क. पाठः.” ↩︎
-
“‘राःबा अ’ ग. घ. पाठः.” ↩︎
-
“‘तीति पा’ ग. भ. पाठः.” ↩︎
-
“‘ता’ क. पाठः.” ↩︎
-
“‘त् पुनः क’ घ. पाठः.” ↩︎
-
“‘र्वेषु नान्यो’ ग. पाठः,” ↩︎
-
“‘तदो’ ग. घ. पाठः.” ↩︎
-
“‘त् ध’,” ↩︎
-
“‘येन्नरम्’ क. पाठः,” ↩︎
-
“‘दि ता’ ग. घ. पाठः.” ↩︎
-
“‘दो’ क. पाठः.” ↩︎
-
" ‘द’ घ. पाठः." ↩︎
-
“‘च्च’,” ↩︎
-
“‘नं’ क. पाठः.” ↩︎
-
“‘ष्टुर्न ल’,” ↩︎
-
“‘त्वं’ क. पाठः,” ↩︎
-
“‘स्त’ क. पाठः.” ↩︎
-
“‘माशु’ क. पाठः” ↩︎
-
“‘या’ क. घ. पाठः.” ↩︎
-
" ‘स्याः’ क. पाठः." ↩︎
-
“‘ते’ ग. ध.पाठः” ↩︎
-
" ‘ष्टयोर’ घ. पाठः. " ↩︎
-
“‘ससः स्प’ ग. घ. पाठः.” ↩︎
-
“‘लस्यच्छे’, " ↩︎
-
" ‘दुच्य’ ग. घ. पाठः.” ↩︎
-
“‘प्रतिलोभतः’ ग. घ. पाठः.” ↩︎
-
“‘गप्रा’ ग. घ. पाठः.” ↩︎
-
“‘न्या’ च.पाठः.” ↩︎
-
“‘रु’,” ↩︎
-
“‘यानिरूडा’ क. पाठः.” ↩︎
-
“‘षु द’ क. पाठः.” ↩︎
-
“‘न द’,” ↩︎
-
“‘न्यपि’ क. पाठः.” ↩︎
-
“‘क्तं’,” ↩︎
-
“‘पः’ क. पाठः.” ↩︎
-
“‘उच्यते ।’ क. पाठः.” ↩︎
-
" ‘मे तु’," ↩︎
-
“‘द’ क. पाठः.” ↩︎
-
“‘टा’ ग. पाठः.” ↩︎
-
“‘ञ्चित्वा’,” ↩︎
-
“‘व ॥’ क. पाठः.” ↩︎
-
" ‘तु पदं’," ↩︎
-
“‘णेन न’,” ↩︎
-
" ‘क’ ग. घ. पाठः." ↩︎
-
“‘वम् ॥’ क. पाठः” ↩︎
-
“‘अवगोरणे’ति तु विज्ञानेश्वरदृष्टः पाठः तदनुसारि च कोशान्तरमपि ।” ↩︎
-
“‘ग्रहणात्’ इति पूर्वं पठितः । (श्लो० १७ ↩︎
-
“भाष्यस्यास्य मूलश्लोको मातृकासु नोपलभ्यते । अस्मिन् प्रकरणे मुद्रित मिताक्षरोद्धृत एतदनुगुणो नारदस्मृतिपाटस्त्ववं—‘‘श्वपाकपण्डचण्डालव्यङ्गेषु वधवृत्तिषु। हस्तिपव्रात्यदारेषु गुर्वाचार्यान्तगेषु च॥ मर्यादातिक्रमे सद्यो घात एवानुशासनम्।’’ इति।(पृo २४० ↩︎
-
" ‘ण्डयाः ।सा’ ग. घ. पाठः.” ↩︎
-
“‘ण्डः’ ग. पाठ..” ↩︎
-
" ‘रः’ क. पाठः” ↩︎
-
“‘नादेषा’ ग. घ. पाठः.” ↩︎
-
" ‘णं क्रीडा’ ग. पाठः," ↩︎
-
" ‘दा’ क. ग. पाठः ." ↩︎
-
“‘न्तरपूर्वे’ क. पाठः.” ↩︎
-
“‘ति । अनाद्यन्तधर्मा अना’ ग. पाठः,” ↩︎
-
" ‘न’ ग. पाठः" ↩︎
-
" ‘अपेक्षःप’. " ↩︎
-
“ञ्दम्’ ग. घ. पाठः,” ↩︎
-
“‘ह्णाति लुब्ध’ ग. घ. पाठ,” ↩︎
-
“‘स्व’ क. पाठः” ↩︎
-
“‘नादनु’ ग. घ. पाठः.” ↩︎
-
“‘व्यम् । ब’ क. पाठः” ↩︎
-
“‘न न वि’ च. पाठः” ↩︎
-
" ‘स्तस्कराः" ↩︎
-
" ‘न’ क. पाठः" ↩︎
-
“‘श्रयाः प्रा’.” ↩︎
-
“‘पा’ ग. घ. पाठः” ↩︎
-
“‘हृ’” ↩︎
-
“‘भि’ ग. घ. पाठः,” ↩︎
-
" ‘वा" ↩︎
-
“‘मुष्यांवे’ ग. घ. पाठः,” ↩︎
-
“‘न अहस्ति’ ग. घ. पाठः.” ↩︎
-
" ‘ङ्गलेशै’," ↩︎
-
“‘च’ क.पाठः” ↩︎
-
" ‘चा’ घ. पाठः" ↩︎
-
“‘तु पा’ क. पाठः” ↩︎
-
“तं’ ग. घ. पाठः” ↩︎
-
“‘मूल्यानामि’ ति मूलपाठः.” ↩︎
-
“‘लादिधा’ ग. घ. पाठः” ↩︎
-
“‘न्न’,” ↩︎
-
“‘ण्डि’ ख. ग. पाठः” ↩︎
-
“‘संशयैः’ क. पाठः” ↩︎
-
“‘गन्धव’ इति मूलपाठः.” ↩︎
-
“‘पूर्वाह्णेसोपवासस्य’ इति विज्ञानेश्वरः । अयमेव च पाठः सङ्गतो भवति, यतोऽत्रैव ‘अपराह्णेन मध्याह्णेन सन्ध्यायाम् ( श्लो० ३२ ↩︎
-
“‘सशूकस्याव्यसनिनः’ इति स्मृत्यन्तरमिति मिताक्षरा । (१७८ पृ. ↩︎