सामान्य-प्रघट्टकः

विस्तारः (द्रष्टुं नोद्यम्)

Searchable Electronic Edition of the Sāmānyapraghaṭṭaka section of the Tristhalīsetu of Nārāyaṇa Bhaṭṭa, transcribed by Sravani Kanamarlapudi, is licensed under a Creative Commons Attribution 4.0 International License.

Last updated: August 2022

Sravani Kanamarlapudi (sravanik@utexas.edu)

University of Texas at Austin

Based on the edition:

The Bridge to the Three Holy Cities: The Sāmānya-praghaṭṭaka of Nārāyaṇa Bhaṭṭa’s Tristhalīsetu. crit. ed. and trans. Richard Salomon. Delhi: Motilal Banarsidass, 1985.

Pūrvapakṣa-s are noted with quotation marks.

Abbreviations Used

AgPu Agni Purāṇa

ĀśGr̥Sū Āśvalāyana Gr̥hya Sūtra

ĀśŚrSū Āśvalāyana Śrauta Sūtra

AitBr Aitareya Brāhmaṇa

KāKh Kāśī Khaṇḍa (of the Skanda Purāṇa)

Kāt Kātyāyana

KātŚrSū Kātyāyana Śrauta Sūtra

KūPu Kūrma Purāṇa

KKT Kr̥tyakalpataru

Kh Khaṇḍa (of a Purāṇa)

GaPu Garuḍa Purāṇa

Gr̥Sū Gr̥hya Sūtra

GobhGṛSū Gobhila Gr̥hya Sūtra

GauMā Gautama Māhātmya (of the Brahma Purāṇa)

GVA Gādhivaṃśānucarita

JNMV Jaiminīyanyāyamālāvistara

TīCi Tīrthacintāmani

TīPra Tīrthaprakāśa (of the Vīramitrodaya)

TaiBr Taittirīya Brāhmaṇa

TS Taittirīya Saṃhitā

TSS Tristhalīsetu

TSS-SS Tristhalīsetusārasaṃgraha

TV Tantravārtika

TVK Tīrthavivecanakāṇḍa (of the Kr̥tyakalpataru)

NB Nārāyaṇa Bhaṭṭa

NS Nyāyasudhā

PadPu Padma Purāṇa

Pu Purāṇa

Pra Prakaraṇa or Praghaṭṭaka (of the TSS)

PraKh Prabhāsa Khaṇḍa (of the Skanda Purāṇa)

Br̥h (Śrā) Br̥haspati Smr̥ti (Śrāddha Kāṇḍa)

Br̥h (Saṃ) Br̥haspati Smr̥ti (Saṃskāra Kāṇda)

BrPu Brahma Purāṇa

BrPu (V) Brahma Purāṇa (Veṅkaṭeśvara Press ed.)

BhKh Bhauma Khaṇḍa (of the Padma Purāṇa)

MaPu Matsya Purāṇa

MuCi Muhūrtacintāmaṇi

MaitPari Maitrāyaṇīya Pariśiṣṭa

MK Mīmāṃsākośa

MNP Mīmāṃsānyāyaprakāśa

MP Madanapārijāta

MBh Mahābhārata

MS Mīmāṃsā Sūtra

Yāj Yājñavalkya

RV R̥g Veda

RVKh R̥g Veda Khila

VāPu Vāyu Purāṇa

VāmPu Vāmana Purāṇa

ViPu Viṣṇu Purāṇa

ViSm Viṣṇu Smr̥ti

VM Vīramitrodaya

VS Vājasaneyī Saṃhitā

Śaṅkha (K) Śaṅkha Smr̥ti, Kane’s ed.

Śab Śabara

ŚBr Śatapatha Brāḥmaṇa

ŚrāVi Śrāddhavivekasaṃgraha

SAS Smr̥tyarthasāra

SkPu Skanda Purāṇa

SP Sāmānya Praghaṭṭaka (of the TSS)

Sr̥Kh Sr̥ṣṭi Khaṇḍa (of the Padma Purāṇa)

HirGr̥Sū Hiraṇyakeśin Gr̥hya Sūtra

[प्।२] सरस्वतीं नमस्यामः प्रत्यूहव्यूहहानये ।

** यदेकतानचित्तानां चित्ते संवित्तिर् उत्तमा ॥ १ ॥**

**विघ्नाधिप नमस्तुभ्यं विघ्नसङ्घं विघातय ।**


**प्रचयं रचयात्य् उच्चं बुद्धिशुद्धिं विधेहि च ॥ २ ॥**


**उन्निद्रपत्रशतपत्रसगोत्रनेत्रं**


**सुग्रीवमित्रम् अतिचित्रचरित्रपात्रम् ।**


**उन्नीलनीलमणिवर्णसवर्णगात्रं**


**रामं भजे कुलपतिं कमलाकलत्रम् ॥ ३ ॥**


**विश्वामित्रकुलोदधौ विधुर् इवाखण्डः कलानां निधिर्**


**वाग्गुम्फे निखिले ऽपि यस्य च सुधा शिष्यप्रशिष्यैश् चिता ।**


**विद्यापद्मविकासनैकतरणिः श्रीभट्टगोविन्दजः**


**सङ्ख्यावद् गणनाग्रणीर् विजयते श्रीभट्टरामेश्वरः ॥ ४ ॥**


**श्रिता वाराणसी तेन नगरौ न गरीयसी ।**


**यतो ऽन्या नगरी हेमनगरीतिम् उपेयुषी ॥ ५ ॥**


**शास्त्रेष्वधीती पितुर् एव यः श्रुतीः**


**स्मृतीः समालोच्य च देशरीतीः ।**


**नारायणस् तत्तनयो ऽविमुक्ते**


**तीर्थत्रयीसेतुम् असौ विधत्ते ॥ ६ ॥**


**ग्रन्थे ऽस्मिन् गुणगणवत् त्वम् उच्यते चेत्**


**स्वं ग्रन्थं गुणगणवन्तम् आह को न ।**


**तत् सन्तः शिरसि कृताञ्जलिस् तु याचे**


**शोध्यं तत्सदसद् इहोच्यते मया यत् ॥ ७ ॥**

[प्।३] खलानां प्रार्थनैषेह खलताखलतास् तु वः ।

** भवतां भूषणे ऽप्यत्र दूषणे मास्तु मानसम् ॥ ८ ॥**

** साधारणस् तीर्थविधिः प्रथमं सम्यग् उच्यते ।**

प्रयागादित्रयविधिः पश्चाद् इत्यत्र सङ्ग्रहः ॥ ९ ॥

(१) इह खलु संसारचक्रे परिवर्तमानानां चत्वारः पुरुषार्था धर्मार्थकाममोक्षाख्याः सकलस्मृतीतिहासपुराणादिषु श्रूयन्ते सेव्यत्वेन । तथा च भारते भीमसेनवचो युधिष्ठिरं प्रति—

** धर्मं चार्थञ्च कामञ्च यथावद् वदतां वर ।**

** विभज्य काले कालज्ञः सर्वान् सेवेत पण्डितः ॥ **

** मोक्षो वा परमं श्रेय एशां राजन् सुखार्थिनाम् ॥ १० ॥ इति**

म्भ् इइइ। ३४। ४१-४२ब्

(१) तत्र सुखदुःखाभावयोर् एव निरुपधीच् छाविषयत्वात् पुरुषेणार्थ्यमानतया मुख्यं पुरुषार्थत्वम्, तत्साधनस्य तु गौणम् । (२) एवञ्च सति धर्मार्थयोर् यथायोगं सुखदुःखाभावसाधनत्वाद् औपचारिकी पुरुषार्था । (३) अत एव प्रवृत्तिनिवृत्त्य् आत्मकतया द्विविधस्यापि धर्मस्य पुरुषार्थसाधनतोक्ता वृद्धैः—

** प्रवृत्तिसञ्ज्ञके धर्मे फलमभ्युदयो मतः ।**

** निवृत्तिसञ्ज्ञके धर्मे फलं निःश्रेयसं मतम् ॥ ११ ॥ **इति ।

स्कान्दे ऽपि—

धर्मात् सुखञ्च ज्ञानञ्च यस्माद् उभयम् आप्नुयात् ।

तस्मात् सर्वं परित्यज्य विद्वान् धर्मं समाचरेत् ॥

लोकद्वये ऽपि यत् सौख्यम् तद् धर्मात् प्राप्यते यतः ।

धर्मम् एकमतः कुर्यात् सर्वकामार्थसिद्धये ॥ १२ ॥

भारते—

धर्म एव प्लवो नान्यः स्वर्गं द्रौपदि गच्छताम् ॥ १३ ॥

म्भ् इइइ। ३२। २२अ-ब्

**[प्।४] **(१) इत्यादि । दूह्खाभावसाधनताम् अपि धर्मस्य

धर्मेण पापम् अपनुदति ॥ १४ ॥

(१) इति श्रुतिर् दुःखसाधनपापापनोदद्वाराह ।

स्कान्दे चे—

दीर्घकालेन तपसा सेवितेन तपोधने ।

** धर्मनिर्धूतपापानां संसिध्यन्ति मनोरथाः ॥ १५ ॥**

मनुः—

धर्मेण हि सहायेन तमस् तरति दुस्तरम् ॥

** धर्मप्रधानं पुरुषं तपसा हतकल्मषम् ॥**

** परलोकं नयत्य् आशु भास्वन्तं खं शरीरिणम् ।**

मनु इव्। २४२च्-२४३

(१) प्रायश्चित्तादिधर्मस्य च दुरितक्षयद्वारा दुःखाभावसाधनता सकलश्रुतिस्मृतिपुराणप्रसिद्धा ।

(२) अर्थस्यापि सुखदुःखाभावसाधनतानुभवसिद्धा आगमसिद्धा च,

उच्छा दिवि दक्षिणावन्तो अस्थुः

** ये अश्वदाः सह ते सूर्येण ।**

** हिरण्यदा अमृतत्वं भजन्ते**

** वासोदाः सोम प्रतिर् अन्त आयुर् ॥ १७ ॥**

र्व् X। १०७.२

इति मन्त्रवर्णात्,

सद्यः शुध्यति हेमद ॥ १८ ॥

इति स्मृतेश् च। (१) तुलापुरुषादिदानप्रतिपादकवचनान्यप्य् अत्र प्रमाणभावं
भजन्ते । (२) तेन सिद्धा धर्मार्थयोर् औपचारिकी पुरुषार्थता ।

(३) कामस्तु सुखरूपत्वान् मुख्य एव पुरुषार्थः । सुखरूपता च भारते आरण्यके पर्वणि श्रूयते—

द्रव्यार्थस्पर्शसंयोगे या प्रीतिर् उपजायते ।

स कामश् चित्तसङ्कल्पः शरीरं नास्य दृश्यते ॥ १९ ॥

म्भ् इइइ। ३४। ३०

[प्।५] इति तथा—

अर्थार्थी पुरुषो राजन् बृहन्तं धर्मम् इच्छति ।

** अर्थमिच्छति कामार्थी न कामाद् अन्यम् इच्छति ॥**

** न हि कामेन कमो ऽन्यः साध्यते फलम् एव तद् ॥ २० ॥ **इति ।

> म्भ् इइइ। ३४। ३१-३२ब्

इन्द्रियाणाञ्च पञ्चानां मनसो हृदयस्य च ।

** विषये वर्तमानानां या प्रीतिर् उपजायते ॥**

** स काम इति मे बुद्धिः कर्मणां फलम् उत्तमम् ॥ २१ ॥**

म्भ् इइइ। ३४। ३७

इति च ।

अत्र हि

मुत् प्रीतिः प्रमदो हर्ष ॥ २२ ॥

अमरकोश ४.२४

(१) इत्यादिकोशप्रतिपादितसुखपर्यायप्रीतिशब्देनाभिधानात् फलान्तराभावाभिधानात् फलरूपताभिधानाच् च कामस्य सुखरूपता । अत एव स्मृत्यधिकरणवार्तिके—

यावद् धर्ममोक्षसम्बन्धि तद् वेदप्रभवम् ।

यत् त्व् अर्थसुखविषयं तल् लोकव्यवहारपूर्वकम्

त्व् १। ३। १। २ (प्। १६६)

(१) इति सुखशब्देनैव काम उपात्तः ।

अर्थवादाधिकरण्ē ऽपि—

धर्मार्थकाममोक्षाधर्मानर्थदुःखसंसारसाध्यसाधनप्रतिपत्तिर्

** उपादानपरित्यागाङ्गभूता फलम् ॥ २४ ॥**

त्व् १। २। १। ७ (प्। ११६)

(१) इत्य् अत्र कामप्रतियोगित्वेन दुःखं वदतो वार्तिककार्स्य सुखम् एव कामपुरुषार्थः सम्मतः ।

यत् तु भागवते—

कामस्य नेन्द्रियप्रीतिर् लाभो जीवेत यावते— ॥ २५ ॥

**[प्।६] **(१) —ति कामस्यापीन्द्रियप्रीत्याख्यसुखफलसाधनताम् अङ्गीकृत्य तन् निराकरणम्;

यच् च अन्यत्र—

धर्माद् अर्थो ऽर्थतः कामः कामात् प्रीतिर् अनुत्तमे— ॥ २६ ॥

** **(१) ति प्रीतिसाधनताभिधानं, तद् विषयोपभोगे कामाख्यसुखसाधनत्वाद् गौणं कामत्वम् अङ्गीकृत्य व्याख्येयम् । (२) यद् वा तत्रापि कामशब्दः सुखपर एव । (३) इन्द्रियप्रीतिशब्द एव त्व् इन्द्रियतृप्तिपरः, सुखापरपर्यायायाः प्रीतेर् इन्द्रियधर्मत्वाभावात् ।

(४) तत् सिद्धम् एतत् कामस्य सुखरूपत्वान् मुख्यपुरुषार्थत्वम् इति । (५) मोक्षो ऽपि मतभेदेन सुखदुःखाभावान्यतररूप इति तस्यापि मुख्यम् एव पुरुषार्थत्वम् ।

(६) चतुर्षु तु साधारणः पुरुषार्थत्वव्यवहारश् छत्र्य् अछत्रिसमुदाये छत्रिशब्दवत् सृष्ट्यसृष्टिप्राणभृदप्राणभृत्समुदाययोः सृष्टिप्राणभृच् छब्दवच् चौपचारिकः ।

(७) तद् एतेषु चतुर्षु पुरुषार्थेषु धर्मो मुख्यः, पुरुषार्थान्तरहेतुत्वाद् विद्यादिहेतुत्वाच् च । तद् उक्तम् कौर्म्ये—

धर्मात् सञ्जायते ह्य् अर्थो धर्मात् कामो ऽभिजायते ।

** धर्माद् एव परं ब्रह्म तस्माद् धर्मं समाचरेद् ॥ २७ ॥**

कूपु १। २। ५२

इति । (१) ऽपरं ब्रह्मऽ मोक्षः ।

तथा—

ऊर्ध्वबाहुर् विरौम्य् एष न च कश्चिच् छृणोति मे ।

** धर्माद् अर्थश् च कामश् च स किमर्थं न सेव्यते ॥ २८ ॥**

म्भ् १८। ५। ४९

तथा—

निवृत्तिसञ्ज्ञके धर्मे फलं निःश्रेयसं मतम् ॥ २९ ॥ ( = ११)


भारते—

विद्या वित्तं वपुः शौर्यं कुले जन्म नीरोगता ।

** संसारोच्छित्तिहेतुश् च धर्माद् एव प्रकीर्तितः ॥ ३० ॥**

स्कान्दे—

धर्माद् राज्यं धनं सौख्यम् अधर्माद् दुःखसम्भवः ।

** तस्माद् धर्मं सुखार्थाय कुर्यात् पापं विवर्जयेत् ॥ ३१ ॥**

**[प्।७] **याज्ञवल्क्यः—

कर्मणा मनसा वाचा यत्नाद् धर्मं समाचरेत् ॥ ३२ ॥

याज् १.१५६ १-ब्

मनुः—

धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः ।

** तस्माद् धर्मो न हन्तव्यो मा नो धर्मो हतो वधीद् ॥ ३३ ॥**

मनु ८.१५

इत्यादि ।

(१) “नन्व् अर्थ्स्यापि धर्मकारणतानुभवात् कथं धर्मस्यैव प्राधान्यम्? तदुक्तं भारते—

सर्वथा धर्ममूलो ऽर्थो धर्मश् चार्थपरिग्रहः ॥ ३४ ॥

म्भ् ३। ३४। २९ अ-ब्

तथा—

धर्ममूलं जगद् राजन् नान्यद् धर्माद् विशिष्यते ।

** धर्मश् चार्थेन महता शक्यो राजन् निषेवितुम् ॥ ३५ ॥**

म्भ् ३। ३४। ४७

भागवते—

धर्मं च धर्मैकफलम् ॥ ३६ ॥ इति ।”

(१) मैवम्, कस्यचिद् यागादिदानादिधर्मस्यार्थसाध्यत्वे ऽपि सर्वस्यार्थसाध्यत्वाभावात् । (२) अर्थम् अन्तरापि जपतीर्थयात्रोपवासादिभ्यो धर्मोदयात्, धर्मं विना चार्थलेशस्याप्य् अनुदयात् । (३) एवं धर्मस्य प्राधान्ये स एव मुख्यतो ऽनुष्ठेयः । तद् उक्तम् आरण्यके—

**धर्मं पूर्वं धनं मध्ये जघन्ये कामम् आचरेत् ॥ ३७ ॥ **

म्भ् ३। ३४। ३९ अ-ब्

(१) तत्रापि यागदानादिरूपस्य धर्मस्य बहुद्रव्यसाध्यत्वात्, बह्वङ्गकलापवत्त्वाच् चेदानीन्तनैः साङ्गस्य सम्पादयितुम् अशक्तेः, सपत्नीकसाध्यत्वाद् ऋत्विगादिसहायसम्पाद्यत्वात् सकलवर्णवर्णसङ्करजाश्रमानधिकारित्वाच् च तदपेक्षया तीर्थयात्राधर्मो ऽतिसुगमः, पूर्वहेतुवैलक्षण्यात् । तद् उक्तम् भारतमात्स्ययोः—

[प्।८] ऋषिभिः क्रतवः प्रोक्ता वेदेष्व् अपि यथाक्रमम् ।

** फलञ् चैव यथातत्त्वं प्रेत्य चेह च सर्वशः ॥**

** न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपते ।**

** बहूपकरणा यज्ञा नानासम्भारविस्तराः ॥**

** प्राप्यते पार्थिवैर् एते समृद्धैर् वा नरैः क्वचित् ।**

** नार्थन्यूनैर् अवगणैरेकात्मभिर् असंहतैः ॥**

** यो दरिद्रैर् अपि विधिह् सक्यः प्राप्तुं जनेश्वर ।**

** तुल्यो यज्ञफलैः पुण्यैस् तन्निबोध महीपते ॥**

** ऋषीणां परमं गुह्यम् इदं भरतसत्तम ।**

** तीर्थाभिगमनं पुण्यं यज्ञैर् अपि विशिष्यत ॥ ३८ ॥** इति ।

म्भ् ३। ८०। ३४-३८

मपु ११२। १२-१५

(१) ऽअवगणैःऽ सहायरहितैः । (२) ऽएकात्मभिर्ऽअपत्नीकैः । (३) ऽअसंहतैःऽ ऋत्विगादिसङ्घातशून्यैः ।

(४) शूद्रसङ्कीर्णप्रव्रजितादीनामप्य् अत्राधिकारो ऽस्तीति अधिकारिनिरूपणे निरूपयिष्यते ।

(५) “ननु जपोपवासादिधर्मो ऽर्थनिरपेक्षो विद्यत एवेति कथं तीर्थयात्रायाम् एवातिशयः?” (६) सत्यम् तथापि तस्य भूयसा शरीरायासेन साध्यत्वाद् विष्टम्बपित्त्रोगादियुक्तैश् चानुष्ट्ःआतुम् अशक्तेः सकलानधिकारिकत्वाच् च तद्विलक्षणत्वात् तीर्थयात्रैव श्रेयसी ।

चरन् वै मधु विन्दती— ॥ ३९ ॥

ऐत्ब्र् ३३। ३। ५

(१) त्यादिलिङ्गाच् चायम् अर्थो ऽअध्यवसेयः ।

इति श्रीमद् भट्टरामेश्वरसूरिसूनुनारायणभट्टविरचिते त्रिस्थलीसेतौ तीर्थयात्राकर्तव्यतानिरूपणम् ।

[प्।९] अथ सामान्यतस् तीर्थप्रशंसा

शङ्खः—

सर्वतीर्थानि पुण्यानि पापघ्नानि सदा नृणाम् ।

** परस्परानपेक्षाणि कथितानि मनीषिभिः ॥ ४० ॥**

शङ्ख ८। १३

(१) परस्परेति प्रत्येकम् एव पापघ्नानीत्य् अर्थः ।

तथा—

सर्व प्रस्रवणाः पुण्याः सुर्वेय् पुण्याः शिलोच्चयाः ।

** नद्यः पुण्याः सदा सर्वा जाह्नवी तु विशेषतः ॥ ४१ ॥**

शङ्ख ८। १४

गारुडे—

पुत्रद्रव्यादि सन्त्यज्य तीर्थं व्रजति यो नरः ।

** ब्रह्माद्या देवतास् तस्य तुष्टिं पुष्टिम् ददन्ति हि ॥ ४२ ॥**

गपु २। २६। १३

भारते—

तथा पुण्यानि तीर्थानि पुण्यान्य् आयतनानि च ।

** उपास्य पुण्यं लब्ध्वा च भवत्य् अमरलोकभाक् ॥ ४३ ॥**

तथा—

कीर्तनाच् चैव तीर्थस्य स्नानाच् च पितृतर्पणात् ।

** धुनन्ति पापं तीर्थे ये ते प्रयन्ति सुखं परम् ॥ ४४ ॥**

कौर्मे तीर्थानि प्रकृत्य—

यत्र स्नानं जपो होमः श्राद्धदानादिकं कृतम् ।

** एकैकशो मुनिश्रेष्ठाः पुनात्य् आसप्तमं कुलम् ॥ ४५ ॥**

कूपु २। ३४। ३ (=३०४)

**[प्।१०] **भारतमात्स्ययोः ऽऋषिभिः क्रतवः प्रोक्ताऽ इत्यादि ऽयज्ञैर् अपि विशिष्यतऽ इत्यन्तम् उक्त्वोक्तम्—

अनुपोष्य त्रिरात्राणि तीर्थान्य् अनभिगम्य च ।

** अदत्त्वा कञ्चनं गाश् च दरिद्रो नाम जायते ॥**

** अग्निष्टोमादिभिर् यज्ञैर् इष्ट्वा विपुलदक्षिणैः ।**

** न तत्फलम् अवाप्नोति तीर्थाभिगमनेन यत् ॥ ४६ ॥**

म्भ् ३। ८०। ३९-४०

** **(१) ऽअनुपोष्येऽति तेन त्रिरात्रोपवासादीनां चतुर्णां प्रत्येकं दारिद्र्याभावः फलम् इत्यर्थः

तथा—

यान्य् अगम्यानि तीर्थानि दुर्गानि विषमाणि च ।

** मनसा तानि गच्छेत सर्वतीर्थसमीक्षया ॥**

** एतानि वसुभिः साध्यैर् आदित्यैर् मरुदश्विभिः ।**

** ऋषिभि देवकल्पैश् च श्रितानि सुकृतैषिभिः ॥ ४७ ॥**

म्भ् ३। ८३। ८८-८९

तथा—

इयं राजर्षिभिर् याता पुण्यकृद्भिर् युधिष्ठिर ।

** मन्वादिभिर् महाराज तीर्थयात्रा महाफला ॥ ४८ ॥**

म्भ् ३। ९०। १०

तथा—

अज्ञानेनापि यस्येह तीर्थयात्रादिकं भवेत् ।

** सर्वकामसमृद्धः स स्वर्गलोके महीयते ॥ **

स्थानं च लभेत नित्यं धनधान्यसमाकुलम् ।

ऐश्वर्यज्ञानसम्पन्नः सदा भवति धर्मवान् ।

तारिताः पितरस् तेन नरकात् प्रपितामहा ॥ ४९ ॥ इति

(१) ऽअज्ञानेनेऽति अत्रेदम् अनुष्ठेयम्, अनेनेगं फलम् आप्यत इत्येवञ्ज्ञानाभावे ऽपि । बालादेर् इत्यर्थः ।

**[प्।११] **वायुपुराणे—

तीर्थान्य् अनुसरन् वीरः श्रद्दधानः समाहितः ।

** कृतपापो विशुध्येत किं पुनः शुद्धकर्मकृत् ॥**

** तिर्यग्योनिं न गच्छेच् च कुदेशे नैव जायते ।**

** स्वर्गे वसति वै विप्रो मोक्षमार्गञ् च विन्दति ॥ ५० ॥**

वापु ७७। १२५, १२७

(१) इत्य् अलं सकलपुराणप्रसिद्धमहिमत्वात् तीर्थानाम् ।

[प्।१२] अथ तीर्थस्वरूपम्

गारुडे—

रजस्तमोविरहितैस् तपसा धूतकल्मषैः ।

** यद् अध्यासितम् अर्हद्भिर् तद् धि तीर्थं प्रचक्षते ॥ ५१ ॥**

भारते—

परिग्रहाच् च साधूनां पृथिव्याश् चैव तेजसा ।

** अतीव पुण्यभागास् ते सलिलस्य च तेजसा ॥ ५२ ॥**

म्भ् १३। १११। १८

(१) ऽतेजसाऽ प्रभावेण ।

तत् द्विविधम् । तद् उक्तं भारते—

लोके ऽस्मिन् द्विविधं तीर्थं स्वच्छन्दं देवनिर्मितम् ।

** स्वयम्भूतं प्रभासाद्यं निर्मितं देवनिर्मितम् ॥ ५३ ॥**

प्रख् १। २८। २७

(१) पुनश् च चतुर्विधम् । तद् उक्तम् ब्रह्मपुराणे—

नारद उवाच—

कियन्ति तानि तीर्थानि किम्फलानि सुरेश्वर ।

सर्वेषाम् एव तीर्थानां सर्वदा किं विशिष्यते ॥ ५४ ॥

ब्रह्मोवाच—

चतुर्विधानि तीर्थानि स्वर्गे मर्त्य्र् रसातले ।

दैवानि मुनिशार्दूल आसुराण्य् आर्षकाणि च ॥

मानुषाणि च लोकेषु विख्यातानि सुरादिभिः ।

ब्रह्मविष्णुशिवैर् देवैर् निर्मितं दैवम् उच्यते ॥

त्रिभ्यो यद् एकं जायेत तस्मान् नातः परं विदुः ॥ ५४ ॥

ब्र्पु ७०। १५-१७, १९

(१) यथा प्रभासपुष्करादीनि त्रिभ्यो जातत्वाद् अतिश्रेष्ठानि ।

[प्।१३] गोदावरी भीमरथी तुङ्गभद्रा च वेणिका ।

** तापी पयोष्णी विन्ध्यस्य दक्षिणे तु प्रकीर्तिताः ॥**

** भागीरथी नर्मदा च यमुना च सरस्वती ।**

** विशोका च वितस्ता च हिमवत्पर्वताश्रिताः ॥**

** एता नद्यः पुण्यतमा देवतीर्थान्य् उदाहृताः ॥ ५५ ॥**

ब्र्पु ७०। ३३-३५ब्

तथा—

केनापि न कृतं यद् तद् देवखातम् इति स्मृतम् ॥ ५६ ॥ इति ।

(१) गयकोलासुराद्य् असुरप्रतिष्ठितान्य् असुराणि । (२) वसिष्ठादिऋषिप्रतिष्ठितान्य् आर्षाणि । (३) मन्धात्रम्बरीषहरिश्चन्द्रादिप्रतिष्ठितानि मानुषाणि । (४) भागीरथ्यादीनां तू सत्य् अपि दैवत्वे विष्ण्वादिदेवमूर्तित्वाद् अतिवैशिष्ट्यम् । तद् उक्तम् स्कान्दे रेवाखण्डे—

ब्राह्मी सरस्वती मूर्तिः गङ्गा मूर्तिस् तु वैष्णवी ।

** नर्मदा शाङ्करी मूर्तिस् तिस्रो नद्यस् त्रिदेवताः ॥ ५७ ॥**

तत्रापि गङ्गा—

गङ्गेयं सरितां श्रेष्ठा सर्वकामप्रदायिनी ।

** त्रिदेवत्या मुनिश्रेष्ठ तदुत्पत्तिमतः शृणु ॥ ५८ ॥**

** **(१) इत्यादि वचननिचयप्रतिपादितत्रिदेवत्यत्वादिगुणगणवत्त्वाद् अतिश्रेष्ठेति गङ्गामहिमप्रकरणे स्पष्टीभविष्यति ।

(२) पुनर् भौमान्तरिक्षत्रिलोकस्थभेदात् त्रिविधम् । (३) तत्र नैमिषं भौमं, पुष्करं त्व् अन्तरिक्षस्थं, कुरुक्षेत्रं त्रिलोकस्थम् । तद् उक्तं भारते—

पृथिव्यां नैमिषं पुण्यम् अन्तरिक्षे च पुष्करम् ।

** त्रयाणाम् अपि लोकानां कुरुक्षेत्रं विशाम्पते ॥ ५९ ॥**

म्भ् ३। ८१। १७३

ब्राह्मे—

भौमानां मानसं तीर्थं मया वः परिकीर्तितम् ।

** पुष्करं चान्तरिक्षस्थं मम लोकस्य दुर्लभम् ॥ ६० ॥ इति ।**

**[प्।१४] **प्रभासखण्डे महादेवः—

शृणु देवि प्रवक्ष्यामि तीर्थमाहात्म्यम् उत्तमम् ।

** पृथिव्यां नैमिषं तीर्थम् अन्तरिक्षे च पुष्करम् ॥**

** केदारञ् च प्रयागञ्चे—। त्यादि ॥ ६१ ॥**

ब्रह्मपुराणे—

प्रयागञ् च कुरुक्षेत्रं नैमिषं पुष्करं तथा ।

** गङ्गाद्वारञ् च कुब्जाम्रं बदरीसिन्धुसागरम् ॥ ६२ ॥**

इत्यादितीर्थोद्देशः कृतः ।

काशीखण्डे—

प्रथमं तीर्थराजं तु प्रयागाख्यं सुविस्तरम् ॥ ६३ ॥

काख् ६.२१ अ-ब्

इत्यादिना षष्ठाध्याये तीर्थान्य् उक्तानि ।

वाराणस्यां महादेवं प्रयागे तु महेश्वरम् ।

इत्यादिना शिवपुराणे ऽष्टषष्टितीर्थान्य् उद्दिष्टानि ।

(१) तथा कौर्मे द्वादशे ऽध्याये तीर्थोद्देशः कृतः ।

तथा काशीखण्डे—

शृणु देवि विशालाक्षि तीर्थं लिङ्गम् उदाहृतम् ।

** जलाशये ऽपि तीर्थाख्या जाता मूर्तिपरिग्रहात् ॥**

** मूर्तयो ब्रह्मविष्ण्वर्कशिवविघ्नेश्वरादिकाः ।**

** लिङ्गं शैवम् इति ख्यातं यत्रैतत् तीर्थम् एव तत् ॥**

** वाराणस्यां महादेवः प्रथमं तीर्थम् उच्यते ॥ ६५ ॥ इत्यादि ।**

काख् ९७। ५-७ब्

अन्यत्रापि—

शोणः सिन्धुर् हिरण्याक्षः पोष्यलोहितघर्घराः ।

** शतद्रुश् च नदाः सप्त पावना ब्रह्मणः सुताः ॥ ६६ ॥**

इत्यादि ।

[प्।१५] अथ गौणतीर्थानि

** क्षेत्राग्न्यापः सुरा विप्रा गौर् गुरुस् तीर्थम् उच्यते ।**

** निवासहोमस्नानार्चापोषतोषैः पुनाति तत् ॥ ६७ ॥**

काशीखण्डे—

मानसान्य् अपि तीर्थानि सत्यादीनि च वै विप्रे ।

** एतानि मुक्तिदान्य् एव नात्र कार्या विचारणा ॥ ६८ ॥**

काख् ६। २६

तथा—

सधर्मिण्य् उवाच—

** मानसान्य् अपि तीर्थानि यान्य् उक्तानि महामते ।**

** कानि कानि च तानीह ह्य् एतद् आख्यातुम् अर्हसि ॥**

** ऋषिर् उवाच—**

** शृणु तीर्थनि गदतो मानसानि ममानघे ।**

** येषु सम्यङ् नरः स्नात्वा प्रयाति परमां गतिम् ॥**

** सत्यं तीर्थं क्षमा तीर्थं तीर्थम् इन्द्रियनिग्रहः ।**

** सर्वभूतदया तीर्थं तीर्थम् आर्जवम् एव च ॥**

** दानं तीर्थं दमस् तीर्थं सन्तोषस् तीर्थम् उच्यते ।**

** ब्रह्मचर्यं परं तीर्थं तीर्थञ् च प्रियवादिता ॥**

** ज्ञानं तीर्थं धृतिस् तीर्थं तपस् तीर्थम् उदाहृतम् ।**

** तीर्थानाम् अपि तत् तीर्थं विशुद्धिर् मनसः परा ॥**

** न जलप्लुतदेहस्य स्नानम् इत्य् अभिधीयते ।**

** स स्नातो यो दमस्नातः श्रद्धाशुद्धमनोमलः ॥**

** यो ऽशुद्धः पिशुनः क्रूरो दाम्भिको विषयात्मकः ।**

** सर्वतीर्थेष्व् अपि स्नातः पापो मलिन एव सः ॥**

[प्।१६] न शरीरमलत्यागान् नरो भवति निर्मलः ।

** मानसे तु मले त्यक्ते भवन्त्य् अन्तः सुनिर्मलः ॥**

** जायन्ते च म्रियन्ते च जलेष्व् एव जलौकसः ।**

** न च गच्छन्ति ते स्वर्गम् इव शुद्धमनोमलाः ॥**

** विषयेष्व् अति संरागो मानसो मल उच्यते ।**

** तेष्व् एव हि विरागो ऽस्य नैर्मल्यं समुदाहृतम् ॥**

** चित्तम् अन्तर्गतं दुष्टं तीर्थस्नानान् न शुध्यति ।**

** शतशो ऽपि जलैर् धौतं सुराभाण्डम् इवाशुचि ॥**

** दानम् इज्या तपः शौचं तीर्थसेवा शृतं तथा ।**

** सर्वाण्य् एतान्य् अतीर्थानि यदु भावो न निर्मलः ॥**

** निगृहीतेन्द्रियग्रामो यत्रैव वसते नरः ।**

** तस्य तत्र कुरुक्षेत्रं नैमिषं पुष्कराणि च ॥**

** ध्यानपूते ज्ञानजले रागदोषमलापहे ।**

** यः स्नाति मानसे तीर्थे स याति परमां गतिम् ॥**

** एतत् ते कथितं देवि मानसं तीर्थलक्षणम् ॥ ६९ ॥**

काख् ६। २८-४२ब्

मात्स्ये—

सत्यं तीर्थं दया तीर्थं तीर्थम् इन्द्रियनिग्रहः ।

** वर्णाश्रमाणां गेहे ऽपि तीर्थं शम उदाहृतः ॥ ७० ॥**

मपु २२। ८०

व्यासः—

** आत्मा नदी संयमतोयपूर्णा सत्यह्रदा शान्ततरा दयोर्मिः ।**

** तत्राभिषेकं कुरु पाण्डुपुत्र न वारिणा सुध्यति चान्रात्मा ॥ ७१ ॥**

भारते दानधर्मेषु—

अगाधे विमले शुद्धे सत्यतोये धृतिह्रदे ।

** स्नातव्यं मानसे तीर्थे सत्त्वम् आलम्ब्य शाश्वतम् ॥ ७२ ॥**

म्भ् १३। १११। ३

तथा—

तत्तवित् त्व् अनहम्बुद्धिस् तीर्थं प्रवरम् उच्यते ॥ ७३ ॥

म्भ् १३। १११। ६अ-ब्

**[प्।१७] **तथा—

स्नाति यो मानसे तीर्थे तत् स्नानं तत्त्वदर्शिनाम् ।

** समारोपितशौचस् तु नित्यं भावसमाहितः ॥**

** केवलं गुणसम्पन्नः शुचिर् एव नरः सदा ॥ ७४ ॥**

म्भ् १३। १११। १३च्-१४

(१) सत्यादिषु सत्स्व् एव तीर्थफलाधिगमात् सत्त्वशोधकत्वाच् च सत्यादीनां गौणं तीर्थत्वम् इत्य् अत्र तात्पर्यम् ।

एवं तीर्थान्य् उक्त्वोक्तं काशीखण्डे—

एतत् ते कथितं देवि मानसं तीर्थलक्षणम् ।

** भौमानाम् अपि तीर्थनं पुण्यत्वे कारणं शृणु ॥**

** यथा शरीरस्योद्देशाः केचित् पुण्यतमाः स्मृताः ।**

** तथा पृथिव्याम् उद्देशाः केचित् पुण्यतमाः स्मृताः ॥ ७५ ॥**

(१) ऽपुण्यानि सलिलानि चेऽति भारते पाठः

प्रभावाद् अद्भुताद् भूमेः सलिलस्य च तेजसा ।

** परिग्रहान् मुनीन्नाञ् च तीर्थानां पुण्यता स्मृता ॥ **(= २६३)

** **(२) सलिलस्य तेजसा प्रभावेण सामर्थ्याद् इत्यर्थः

तस्माद् भौमेषु तीर्थेषु मानसेषु च नित्यशः ।

** उभयेषु च यः स्नाति स याति परमां गतिम् ॥ ७५ ॥** इति ।

काख् ६। ४२-४५

** **(३) भारते ऽपि भीष्मेण ऽएतत् ते कथितं राजन्न्ऽइति सम्बोधनभेदेन इदम् एव सर्वम् उक्तम् ।

दानधर्मेष्व् अपि—

मनसश् च पृथिव्याश् च पुण्यास् तीर्थास् तथापरे ।

उभयोर् एव यः स्नायात् स सिद्धिं शीघ्रम् आप्नुयात् ॥

यथा बलं क्रियाहीनं क्रिया वा बलवर्जिता ।

नेह साधयते कार्यं समायुक्ता तु सिध्यति ॥

एवं शरीरशौचेन तीर्थशौचेन चान्वितः ।

**शुचिः सिद्धिम् अवाप्नोति द्विविधं शौचम् उत्तमम् ॥ ७६ ॥ इति ।**


<p style="text-align: right">

म्भ् १३। १११। १९-२१

[प्।१८] अथ तीर्थयात्राधिकारिणः

तत्र—

या याः काश्चित् तीर्थयात्रा मुनीन्द्रैः कृताः प्रयुक्ता ह्य् अनुमोदिताश् च ।

** तां ब्रह्मचारी विधिवत् करोति सुसंयुतो गुरुणा सन्नियुक्त ॥ ७७ ॥**

(१) इति ब्रह्मपुराणवचनाद् गुरुनियुक्तस्यैव ब्रह्मचारिणो ऽधिकारः । (२) इयं चोपकुर्वाणकस्य वेदाध्यनाविरोधेनैव गुरुनियोगाद् भवति । याज्ञवल्क्येन ब्रह्मचारिणम् उपक्रम्य,

गुरुञ् चैवाप्य् उपासीत स्वाध्यायार्थं समाहितः ॥ ७८ ॥

याज् १.२६ च्-द्

(१) इति स्वाध्यायार्थं गुरुम् एवोपासीतेति नियमनात् ।

(२) नैष्ठिकस्यापि गुर्वनुज्ञातस्यास्त्य् एवाधिकारः ऽब्रह्मचारी गुरुणा सन्नियुक्तऽ इत्य् अविशेषश्रवणात् ।

गृहस्थ्स्यापि—

देहं सुपुष्टं विजरं तु यौवनं लब्ध्वा न गङ्गादिषु यान्ति ये नराः ।

** स्नात्वा न पश्यन्ति हरिं महेश्वरं दैवेन ते वै मुशिता नराधमा ॥ ७९ ॥**

इति स्मरणात् ।

(१) ननु नैतेन वचसा गृहस्थस्य तीर्थयात्रा विधातुं शक्या, तत्पदाश्रवणात् । (२) न च ऽयौवनं लब्ध्वेऽ त्यादिलिङ्गात् तत्परत्वम् । (३) वचनान्तरविरोधेन ब्रह्मचर्यादिविषयत्वेनापि तद् उपपत्तेः । तथाहि ब्रह्मपुराणे

यस्येष्टिधर्मेष्व् अधिकारितास्ति वरं गृहं गृहधर्माश् च सर्वे ।

एवं गृहस्थाश्रमसंस्थितस्य तीर्थे गतिः पूर्वतरैर् निषिद्धा

**[प्।१९] सर्वाणि तीर्थान्य् अपि चाग्निहोत्रतुल्यानि नैवेति वयं वदाम ॥ ८० ॥ इति **(= २४२)

तथा तत्रैव—

यज्ञाधिकारे ऽप्य् अथवा निवृत्ते विप्रस् तु तीर्थानि परिभ्रमेत् तु ।

**तीर्थेष्व् अलं यज्ञफलं हि यस्मात् प्रोक्तं मुनीन्द्रैर् अमलस्वभावैः ॥ ८१ ॥**

कौर्मे—

यः स्वधर्मान् परित्यज्य तीर्थसेवां करोति हि ।

** न तस्य तीर्थं फलति इह लोके परत्र चे— । ति ॥ ८२ ॥**

कूपु २। ४२। २०

(१) उच्यते; ऽयस्येष्टिधर्मेष्व् अधिकारितास्ति गृहधर्माश् च सर्वऽ इति विशेषोपादानाद्, ऽयः स्वधर्मान् परित्यज्येऽति चोक्तेर् यागाद्यनुष्ठानाशक्तस्य दरिद्रस्य निरधिकारस्य च गृहस्थस्यापि तीर्थयात्राया अविरुद्धत्वात् । (२) अत एव भारते ऽऋषिभिः क्रतवः प्रोक्ताऽ इत्य् उपक्रम्य ऽने ते शक्या दरिद्रेणेऽत्यादीनि पूर्वोदाहृतानि वाक्यान्य् उक्तानि ।

(३) यद् वा साग्निकस्य सपत्नीकस्यैव गृहस्थ्स्याधिकारः,

सहाग्निर्वा सपत्नीको गच्छेत् तीर्थानि संयतः ।

** सर्वपापविनिर्मुक्तो यथोक्तां गतिम् आप्नुयाद् ॥ ८३ ॥**

कूपु २। ४२। २२

इति कूर्मपुराणोक्तेः,

प्रायश्चित्ती व्रजेत् तीर्थं पत्नीविरहितो ऽपि वा ।

** यज्ञेष्व् अनधिकारी वा यश् च मन्त्रसाधकः ॥**

** सहाग्निर् वा सपत्नीको गच्छेत् तीर्थानि संयत ॥ ८४ ॥**

इति स्मरणाच् च । अत एव ब्रह्मपुराणे कृकलवैश्योपाख्यानम्—

**कश्चित् कृकलो नाम वैश्यः कृततीर्थयात्रो **

** ऽमया पितरस् तारिताऽ इति कृतार्थम् आत्मानं**

** मन्वानः स्वगृहं प्रस्थितो मार्गे सधर्मान्**

[प्।२०] पितॄन् अपश्यत् । ऽन ते किञ्चित् तीर्थफलम् अस्तीऽति

** तैर् उक्तः ऽकुतस् तीर्थफलं मे न जातं कथं न पितरस् तीर्णाऽ**

इति चिन्तामीयिवान् । तम् आह धर्मः—

पूतां पुण्यतमां भार्यां यो वा त्यक्त्वा प्रयाति हि ।

तस्य पुण्यफलं सर्वं वृथा भवति नान्यथे–॥

त्यादि बहूक्त्वा

तया विना यतस् तीर्थे स्नानं दानं कृतं त्व् इह ।

तेन दोषेण वै बद्धास् तव पूर्वपितामहाः ॥

त्वया सा वञ्चिता मूढ चौरकर्म कृतं त्वया ।

अमी पितामहाश् चौरा यैर् भुक्तं तु तया विना ॥

भार्या पचति चैवान्नं स्वहस्तेनामृतोपमम् ।

तच् चान्नम् एव भुञ्जन्ति पितरो हृष्टमानसाः ॥

तस्माद् भार्यां विना सिद्धिः पुरुषस्य न विद्यत ।

**इति धर्मेणोक्ते ऽकथं मे पितृमोचनं भवेद्ऽ इति कृकलेन पृष्टे धर्म आह—**


**गच्छ गेहं महाभाग त्वां विना दुःखभागिनीं ।**


**सम्बोधय सुपुण्यां तां सुफलां धर्मचारिणीम् ॥**


**श्राद्धदानं गृहे गत्वा तस्या हस्तेन वै कुरु ।**


**स्मृत्वा पुण्यानि तीर्थानि पूजयस्व सुरोत्तमान् ॥**


**तीर्थयात्राकृता सिद्धिस् तव चैवं भविष्यति ॥ ८५ ॥**


<p style="text-align: right">

पद्पु भ्ख् ५९.८, २६, ३०ब्-च्, ३१-३२, ६०। २-३

(१) इत्येवमाद्युक्तम् । तेन सपत्नीकस्यैव गृहिणो ऽधिकरः । (२) एतेन “निरग्निगृहिण एवाधिकारो न तु साग्नेर्” इति निरस्तम् ।

(३) विधुरस्यापि ऽयज्ञाधिकारे ऽप्य् अथवा निवृत्तऽ [८१] इति ब्रह्मपुराणवचनाद् अस्त्य् अधिकारः ।

(४) वानप्रस्थ्स्यापि

ऋणानि त्रीण्य् अपाकृत्य कुर्यात् तीर्थस्य सेवनम् ।

विधाय वृत्तिं भार्यायाः पुत्रेषु विनिधाय चे— ॥ ८६ ॥

कूपु २। ४२। २३

**[प्।२१] **ति कौर्मोक्तेः । (१) ऽपुत्रेषु विनिधायेऽत्य् असपत्नीकस्य वानप्रस्थतापक्षे

पुत्रेषु दारान् निक्षिप्य तया वानुगतो वन ॥ ८७ ॥

मनु ६। ३च्-द्

इति मनुस्मरणात् । (१) ऽतया वानुगतऽ इति पक्षे तु सभार्यस्यैव ।

(२) यतेर् अप्य् अस्त्य् अधिकारः,

मुमुक्षुभिस् तीर्थगतं द्विजेन्द्रैः कार्यं तथा तत्फलकाङ्क्षिभिश् च ।

** मातुः पितुः क्षेप्तुमनास् तथास्थि सुतस् तु कुर्यात् खलु तीर्थयात्राम् ॥ ८८ ॥**

इति काशीखण्डात्, सन्न्यासम् उपक्रम्य,

ग्रामैकरात्रवासिनो नगरे तीर्थे च पञ्चरात्रं वसन्त ॥ ८९ ॥

इति कात्यायनेनानुज्ञानाच् च ।

(१) क्षत्रियस्याप्य् अधिकारः,

सर्वस्वनाशे ऽप्य् अथवा नृपस् तु स ब्राह्मणान् अग्रत एव कृत्वे— ॥ ९० ॥


(१) ति ब्रह्मपुराणे ब्राह्मणपुरःसरस्य नृपस्यापि तच् छ्रवणात्, (२) भारते भीष्मभलभद्रपाण्डवादीनां तीर्थयात्राप्रतिपादनाच् च ।

(३) तथा वैश्यस्यापि ब्रह्मपुराणीयकृकलवैश्योपाख्यानात् । वक्ष्यमानवचनाच् च

(४) शूद्राणाम् अपि भारते पुष्करं प्रकृत्य—

ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा राजसत्तम ।

न वियोनिं व्रजन्त्य् एते स्नातास् तीर्थे महात्मन ॥ ९१ ॥

म्भ् ३। ८०। ५१

इति लिङ्गात्; (१) पूर्वोदाहृतवचसां साधारण्याच् च ।

यत् तु मनुः—

जपस् तपस् तीर्थयात्रा प्रव्रज्या मन्त्रसाधनम् ।

** देवताराधनञ् चेति स्त्रीशूद्रपतनानि षड् ॥ ९२ ॥ इति **

अत्रि १३६च्-१३७ब्

तथा

विप्रसेवैव शूद्रस्य विशिष्टं धर्मलक्षणम् ।

** यदतो ऽन्यद् धि कुरुते तद् भवत्य् अस्य निःफलम् ॥ ९३ ॥**

> मनु १०। १२३

[प्।२२] (१) इति तद् विप्रसेवाविरोधेन निरन्तञ् च तीर्थयात्रादि न कार्यम् इत्य् एवं परम् । अत एवोक्तं भारते—

शूद्रस् तु द्विजशुश्रूषाविरुद्धं धर्मम् आचरन् ।

** नरके पच्यते तद्वद्वेदश्रवणकीर्तनाद् ॥ ९४ ॥ इति**

शाततपो ऽपि—

निरन्तरं तीर्थसेवा सन्न्यासो मन्त्रसाधनम् ।

** देवताराधनं ध्यानं तेषां पापावहं परम् ॥ ९५ ॥**

** **(१) इति शूद्रान् प्रतिलोमजांश् च ऽतेषाऽंशब्देन परामृश्य निरन्तरं तीर्थसेवादि निषेधति । ऽयदतो ऽन्यद् धीऽत्य् एतद् व्याख्याने

इतरप्रतिषेधो ब्राह्मणसेवास्तुत्यर्थ ॥ ९६ ॥

मेधातिथि १०। १२३

इत्य् उक्तं मेधातिथिना । (१) तस्माच् छूद्रस्याप्य् अस्ति द्विजशुश्रूषाऽविरोधेन तीर्थयात्राधिकारः ।

(२) सङ्करजेष्व् अपि मूर्धावसिक्तादीनाम् अनुलोमजानाम् अस्त्य् अधिकारः, तेषां द्विजातिजत्वेन द्विजधर्माधिकारात् । (३) प्रतिलोमजानाम् अपि चास्ति,

शूद्राणां तु सधर्माणः सर्वे ऽपध्ध्वंसजाः स्मृता ॥ ९७ ॥

मनु १०। ४१च्-द्

इति स्मरणात् । (१) ऽअपध्वंसजाऽ व्यभिचारजाः ।

(२) स्त्रिया अप्य् अधिकारः भारते पुष्करं प्रकृत्य—

जन्मप्रभृति यत्पापं स्त्रिया वा पुरुषस्य वा ।

** पुष्करे गतमात्रस्य सर्वम् एव प्रणश्यती— ॥ ९८ ॥**

म्भ् ३। ८०। ५४

**[प्।२३] **ति लिङ्गात् । (१) तत्र विधवाया विशेषतः—

स्नानं दानं तीर्थयात्रां विष्णोर् नामग्रहं मुहुर् ॥ ९९ ॥

स्क्पु ब्रह्मखण्ड २। ७। ७२च्-द्

इति स्कान्दे विधवाधर्मान् प्रकृत्योक्तेः । (१) तत्रापि न स्वातन्त्र्येण किन्तु पुत्रज्ञात्याद्यनुमतेनैव,

बाल्ययौवनवत्या वा वृद्धया वापि योषिता ।

** न स्वातन्त्र्येण कर्तव्यं किञ्चित् कार्यं गृहेष्व् अपी— ॥ १०० ॥**

मनु ५। १४७

ति मनूक्तेः,

रक्षेत् कन्यां पिता पतिः पुत्रास् तु वार्धके ।

** अभावे ज्ञतयस् तेषां स्वातन्त्र्यं न क्वचित् स्त्रिया ॥ १०१ ॥**

याज् १। ८५

इति याज्ञवल्क्योक्तेश् च ।

सधवायास् तु भर्त्रा सहैव न पृथ्क्,

नास्ति स्त्रीणां पृथग् यज्ञो न व्रतं नाप्य् उपोषणम् ।

** पतिं संसेवते या तु तेन स्वर्गे महीयत ॥ १०२ ॥**

मनु ५। १५५

(१) इति मनूक्तौ यज्ञादीनाम् उपलक्षणत्वात्, (२) ऽस्त्रीशूद्रपतनानि षड्ऽ इति पूर्वोक्तमनुवचनस्य शूद्रन्यायेन भर्तृशुश्रूषात्यागविषयत्वाच् च ।

(३) तीर्थे मात्राद्यस्थिक्षेप्तुकामस्य सर्वस्यापि, ऽमातुः पितुः क्षेप्तुमनास् तथास्थीऽति [८८] पूर्वोक्तवाक्यात् ।

(४) कृतपापस्य तु तदपनोदार्थं सर्वस्याप्य् अधिकारः,

नृणां पापकृतां तीर्थं पापप्रशमनं भवेत् ।

** यथोक्तं फलदं तीर्थं भवेच् छुद्धात्मनां नृणां ॥ १०३ ॥**

काख् ६। ६२ (= १२७, १७८)

**[प्।२४] **इत्युक्तेः,

** प्रायश्चित्ती च विबुधस् तथा यायावरो गृही ।**

** प्रकुर्यात् तीर्थसंसेवां ये चान्ये तादृशा जना ॥ १०४ ॥**

कूपु २। ४२। २१

इति** **कौर्मोक्तेश् च । (१) प्रायश्चित्तार्थतीर्थयात्रायां तु गृहस्थस्यापि पत्नीरहितस्याधिकारः,

**प्रायश्चित्ती व्रजेत् तीर्थं पत्नीविरहितो ऽपि वे— ॥ १०५ ॥ **(= ८४)

ति वचनात्, (१) अकृतप्रायश्चित्तस्यान्येन सह संसर्गनिषेधाच् च ।

[प्।२५] अथ तीर्थफलतारतम्यकारणानि

शङ्खः

तीर्थं प्राप्य प्रसङ्गेन स्नानं तीर्थे समाचरेत् ।

** स्नानजं फलम् आप्नोति तीर्थयात्राकृतं न तु ॥ १०६ ॥**

शङ्ख ८। १२ (= ३२१)

** **(१) ऽप्रसङ्गेनेऽति वाणिज्यराजसेवादिप्रसङ्गेनेत्यर्थः । यत् तु पैठीनसिः—

अर्धं तीर्थफलं तस्य यः प्रसङ्गेन गच्छति ।

** षोडशांशं स लभते यः परार्थेन गच्छती— ॥ १०७ ॥ **(= ६०५)

ति, (१) तत्र ऽप्रसङ्गेनऽ उद्देश्यतीर्थान्तरप्रसङ्गेनेत्यर्थः । (२) ऽपरार्थेनऽ वेतनं गृहीत्वेत्यर्थः । (३) प्रभासखण्डे तु ऽपरान्नेन गच्छतीऽति पाठः [प्रख् १। २८। ३५द्] । तत्र परान्नं भुञ्जान इत्यर्थः ।

प्रभासखण्दे—

यश् चान्यं कारयेच् छक्त्या तीर्थयात्रां तथेश्वरः ।

** स्वकीयद्रव्ययानाभ्यां तस्य पुण्यं चतुर्गुणम् ॥ १०८ ॥**

प्रख् १। २८। २३

(१) विशिष्टनयने त्व् अष्टगुणम् । तद् उक्तम् भारते युधिष्ठिरं प्रति—

नेता च त्वम् ऋषीन् यस्मात् तेन ते ऽष्टगुणं फलं ॥ १०९ ॥ इति ।

म्भ् ३। ८३। ९९च्-द्

**[प्।२६] अथ यानविशेषकृतं फलतारतम्यम्
**

मात्स्यकौर्मयोर् मार्कण्डेयः—

कथयिष्यामि ते वत्स तीर्थयात्राविधिं क्रमात् ।

** आर्षेणैव विधानेन यथादृष्टं यथाश्रुतम् ॥**

** प्रयागतीर्थयात्रार्थी यः प्रयाति नरः क्वचित् ।**

** बलीवर्दसमारूढः शृणु तस्यपि यत्फलम् ॥**

** नरके वसते घोरे गवां क्रोधो हि दारुणः ।**

** सलिलञ् च न गृह्णन्ति पितरस् तस्य देहिनः ॥ ११० ॥**

मपु १०६। ३-५

कूपु १। ३५। १-३

यथा तत्रैव—

ऐश्वर्यलोभान् मोहाद् वा गच्छेद् यानेन यो नरः ।

** विफलं तस्य तत् तीर्थं तस्माद् यानं परित्यजेत् ॥ १११ ॥**

मपु १०६। ७

कूपु १। ३५। ५

तथा—

गोयाने गोवधः प्रोक्तो हययाने तु निःफलम् ।

** नरयाने तद् अर्धं स्यात् पद्भ्यां तच् च चतुर्गुणम् ॥ ११२ ॥**

(१) ऽपद्भ्याम्ऽ इति केवलाभ्याम् इत्यर्थः ।

(२) एतेनोपानत्त्यागे फलम् अधिकम्, तत् परिधानं तु न दोषाय, किन्त्व् आवश्यकम् एव,

वर्षातपे सदा छत्री दण्डी रात्र्याटविषु च ।

** शरीरत्राणक्रमो वै सोपानत्कः सदा व्रजेद् ॥ ११३ ॥**

विपु ३। १२। ३८

(१) इति विष्णुपुराणे ऽसदाऽशब्दबलात् तीर्थयात्रायाम् अपि शरीररक्षाया आवश्यकत्वात्, निषेधाभावाच् चेति सूचयति,

[प्।२७] तीर्थानुगमनं पद्भ्यां तपः प्रम् इहोच्यते ।

** तद् एव कृत्वा यानेन स्नानमात्रफलं लभेद् ॥ ११४ ॥**

प्रख् १। २८। ७२

(१) इति प्रभासखण्डे पदगमनमात्रस्योकत्वाद् यानस्य च निन्दितत्वात्, (२) सोपानत्कत्वेऽ पि पदगमनाक्षतेर् उपानहो ऽपि यानत्वाभावाच् चेऽति कश्चित् ।

तन् न,

** द्विर्भोजनं तृतीयांशं हरेत् तीर्थफलस्य च ।**

** यानधर्मं चतुर्थांशं छत्रोपानहम् एव च ॥**

** तस्माद् एतैर् विहीनस् तु सर्वं तीर्थफलं लभेद् ॥ ११५ ॥**

इति जाबालिवचनविरोधात्,

यानम् अर्धफलं हन्ति तदर्धं छत्रपादुके ।

** वाणिज्यं त्रींस् तथा भागान् सर्वं हन्ति परिग्रह ॥ ११६ ॥**

इति वचनविरोधाच् च । (१) यानप्रयुक्तस् तु दोषो ऽत्र मा भूत्, विशेषोक्तस् तु छत्रवद् भविष्यति । (२) किञ्च—यद्य् उपानत्परिधानम् आवश्यकं तर्हि तत्त्यागे कथं फलाधिक्यम् । (३) प्रत्युत प्रत्यवाय एव भवेत् ।

(४) न च “एतेन ऽराजपुरोहितौ सायुज्यकामौ याजेयाताम्ऽ इतिवद् द्वन्द्वलभ्यसाहित्यविवक्षया केवलोपानत्परिधाने न चतुर्थांशन्यूनते”ति वाच्यम्, वैषम्यात् । (५) तत्र ह्य् उपादेयकर्तृगतत्वात् विवक्षा । (६) इह तूद्देश्यगतत्वाद् ऽयस्य पुरोडाशौ क्षायतऽ इतिवत् सहित्याविवेक्षेति । (७) तस्माद् उपानत्परिधानं दुष्टम् एव ।

(८) “ननु तथापि विरोधः । पद्भ्यां गच्छतश् चतुर्गुणं सोपानत्कस्य चतुर्थांशन्यूनम् । यानान्तरवतस् तु ततो ऽपि न्यूनम् (९) तथा च पूर्णफलं कस्य भवतीति?” (१०) उच्यते; ऽचतुर्गुणऽमित्यत्र गुणशब्दः ऽकृते चतुर्गुणो धर्मऽ इतिवत् पादापरपर्यायचतुर्थांशपरः । (११) तथा च ऽपद्भ्यां गच्छतस् तत्फलं चतुर्गुणं चतुश्चरणं पूर्णम्ऽ इत्यर्थः ।

(१२) अन्त्ये तु “पादगमनं प्रशंसितुं चतुर्गुणोक्तिर् न तु फलार्थम्” इत्य् आहुः ।

गोभिलः—

गोभिर् युक्तेन यानेन तीर्थयात्रां करोति यः ।

** स याति नरकं घोरं यावद्गोरोमसङ्ख्यया ॥ ११७ ॥**

**[प्।२८] **(१) तत् सर्वं यानेन सकलमार्गातिवाहने ज्ञेयम् । (२) किञ्चिद् दूरं यान गमने तु क्रोशयोजनादिगणनया फलतारतम्यम् ऊह्यम् ।

अत्र “मात्स्ये—

भगवन् केन विधिना गन्तव्यं धर्मनिश्चयैः ।

** प्रयागे यो विधिः प्रोक्तस् तन् मे ब्रूहि महामते ॥ ११८ ॥**

मपु १०६। २

(१) इति युधिष्ठिरेण पृष्टे ऽकथयिष्यामीऽत्य् उपक्रम्य ऽप्रयागतीर्थयात्रार्थीऽ [११०] त्यादिमार्कण्डेयेनाभिधानात् प्रयागप्रकरणत्वावगमाद् याननिषेधो याने विफलत्वाभिधानञ् च प्रयागमात्रविषयम् एव । (२) तीर्थान्तरे तु किञ्चित् फलस्य न्यूनतेति” कल्पतरौ ।

(३) तद् इदं चिन्त्यम्, गोभिलजाबाल्यादिवाक्यानां सामान्यतीर्थपरत्वात् तदनुसारेण मात्स्यवाक्यानाम् अपि प्रकरणं भित्त्वा प्रकृताप्रकृततीर्थपरत्वस्यौचित्यात्; (४) अवयुत्यानुवादतया प्रकरण एव वा निवेशात् । (५) कश्चित् तु ऽविफलं तस्य तत् तीर्थऽं [१११] इति सामान्येनोक्तेः श्रुत्या प्रकरणं बाधित्वा ऽप्रयागतीर्थयात्रार्थीऽत्य् अस्यापि [११०] तीर्थमात्रोपलक्षणार्थम् ऽअवयुत्यानुवाददेत्य् अभ्युपगम्य सकलतीर्थपरतां मात्स्यस्याह ।

(६) तन् न, व्रीह्याग्नेय्यादिश्रुतिवत् तीर्थशब्दरूपायाः श्रुतेः प्रकरणानुगुणत्वसम्भवे एकविंशत्याद्य् अनुवचन इव दर्शपूर्णमासाङ्गत्वप्रापकप्रकरणबाधेन श्रौतप्रतिष्ठादिफलार्थत्वावधारणमूलभूतश्रुतिलिङ्गादिसूत्रस्थसमवायशब्दोक्तविरोध-भावात् । (७) अन्यथा व्रीह्याग्नेयीशब्दादेर् अपि प्रकरणबाधेन सकलव्रीह्याग्नेयीपरत्वसम्भवाद् भोजनार्थव्रीहीनाम् प्रोक्षणादि अप्रकृततया चाग्नेय्याग्नीध्रोपस्थानं केन मीमांसकेन वारणीयम् । (८) इत्य् अलं भूयसा—प्रकृतमनुसरामः ।

यत् प्रभासखण्डे—

कुरुक्षेत्रादि तीर्थानि रथगम्यानि यानि तु ।

** तान्य् एव ब्राह्मणो यायाद् याने दोषो न तेषु वै ॥ ११९ ॥ इति,**

प्रख् १। २८। १७

तद् अशक्तविषयम्,

[प्।२९] असमर्थस् तु यानेन तीर्थयात्रां समाचरन् ।

** तदुक्तं फलम् आप्नोति स्वशक्त्या धर्मम् आचरन्न्— ॥ १२० ॥**

(१) इति गोभिलेन तरय यानाभ्यनुज्ञानात् ।

तथा कूर्मपुराणे—

नरयानं चाश्वतरीहयादिसहितो रथाः ।

** तीर्थयात्रास्व् अशक्तानां यानं दोषकरं नहि ॥ १२१ ॥**

अत्र

“नौकयानम् अयानं स्याद् ।

(१) इति वचनान् नौकयाने न दोष” इति कश्चित् । तन् न, साक्षात् स्वशरीरव्यापारासाध्यबुद्धिपूर्वकदेशान्तरप्राप्तिसाधनतया नौकाया अपि यानत्वान् निषेधविषयत्वेन सर्वत्र वर्जनीयत्वे प्रस्कते यत नावा विना गमनम् एव न सम्भवति शङ्खोद्धारगङ्गासागरादौ यावति च मार्गप्रदेशे नद्याद्याक्रान्ते तद्व्यतिरेकेण गमनासम्भवस् तत्र दोषाभावप्रतिपादकत्वेन विषयलाभे चरणगम्यतीर्थविषये ऽपि नावायाने दोषाभावे प्रमाणाभावात्, (२) विपर्यये यानत्वेन प्रमाणसत्त्वाच् च ।

(३) कश्चित् तु “पशुरूपाणाम् अपि गवाश्वव्यतिरिक्तानाम् अजादीनां गवाश्वप्रशंसार्थम् ऽअपशवो वा अन्ये गोअश्वेभः पशवो गोअश्वाऽ इति वचनेनापशुत्वकथनवद् अत्रापि यानरूपाया अपि नावो ऽश्वादियानप्रशंसार्थम् अयानत्वकीर्तनम्” इत्य् आह । (४) तन् न, पूर्वोक्तविषयलाभे सम्भवति अर्थवादताकल्पनस्यान्याय्यत्वात् । (५) किञ्च; अश्वादियानप्रशंसायां तेन यातव्यम् इत्य् एवापद्येत । (६) अथाश्वादेः प्रशास्तयानत्वात् तत्रैव यानकृतो दोषो नावि तु न कश्चिद् अल्पो वेत्य् अभिप्रायः । (७) तदा गतम् अर्थवादतोपपादनप्रयासेन, यानान्तरतः प्रयासाधिक्याभावेन नाविकस्पर्शादिदोषेण च दोषाधिक्यस्यैवोचितत्वाच् च । (८) न चास्ति यानान्तरनिषेधेनैकवाक्यता येनार्थवादता भवेत् ।

(९) “अथाशक्तविषयम् इदं कुतो न भवति?” (१०) न भवति पूर्वोक्तवचनैस् तं प्रति यानान्तराणाम् अप्य् अनिषेधात् विशेषेणैतस्यावक्तव्यत्वात्, (११) अवयुत्यानुवादताप्रसङ्गाच् च । (१२) तस्माद् अस्मद् उक्त एवास्य विषय, इत्य् अलं भूयसा ।

**[प्।३०] **एतेन

आधारतां गतं यत् स्वगत्या देशान्तरं प्रापयति तद् यानम् ।

** रथनौकादि तु न तथेति न तद् यानम् अतो न तेन गमने दोष ॥ १२३ ॥**

(१) इति महार्णवप्रकाशकारोक्तिः पराकृता, रथनौकयोर् अपि लक्षणसत्त्वात् । (२) जलप्रवाहादाव् अतिव्याप्तेश् चेति दिक् । (३) तस्मान् नौकायाने दोष एव ।

(४) तत्रापि अनेकदिननौकयानमात्रसाध्यानि यानि तीर्थानि समुद्रद्वीपनिष्ठानि तत्र द्विजैर् न गन्तव्यम्,

द्विजस्याब्धौ तु नौयातुः शोधितस्यापि सङ्ग्रहः ॥ १२४ ॥

इति कलिनिषिद्धेषु परिगणनात् । (१) अस्य किञ्चिद् गमनमात्रे पातकाप्रसक्तेः प्रायश्चित्ताख्यशोधनायोगात् तत्प्रसक्तिमदनेकदिनगमनविषयत्वात् ।

(२) येषम् अपि अङ्गवङ्गादिदेशानां गमनं निषिद्धं तरापि तीर्थयात्रोद्देशेन गमने न निषेधः ।

** अङ्गवङ्गकलिङ्गेषु सौराष्ट्रमगधेषु च ।**

** तीर्थयात्रां विना यातः पुनः संस्कारम् अर्हती— ॥ १२५ ॥**

ति स्मृतेः । (१) एवं प्रान्त्यदेशेष्व् अपि द्रष्टव्यम् ।

इति श्रीमद् भट्टरामेश्वरसूरिसूनुनारायणभट्टविरचिते त्रिस्थलीसेतौ यानविचारः

[प्।३१] अथ फलतारतम्यप्रसङ्गात् प्रायश्चित्तार्थयात्रायां योजनतारतम्यात्

फलतारतम्यं वक्तुं तीर्थप्रत्याम्नाया उच्यन्ते

(१२५.२) तत्र तावत् तीर्थयात्रायाः पापक्षयार्थत्वे मूलभूतानि वचनानि । (३) तत्र ऽतीर्थान्य् अनुसरन्न्ऽ इत्यादीनि [५०] तीर्थप्रशंसायाम् उक्तानि ।

पाण्डवै ऋअज्यलाभाय दुरितोपशमाय च ।

** श्रीकृष्णनारदव्यासश्रीकण्ठेन्द्राजरोमशैः ॥**

** मार्कण्डेयपौलस्त्याजसप्तर्षिप्रमुखैस् तथा ।**

** द्वादशद्वादशाब्दानि कृच्छ्राण्य् आदाय भक्तितः ॥**

** तीर्थैर् अकुर्वन्न् इत्यादिपुराणे श्रूयते कथे— ॥ १२६ ॥**

** **(१) त्यादिपुराणोक्तेस् तीर्थयात्रायाः प्राजापत्यकृच्छ्रादिप्रायश्चित्तप्रत्याम्नायतावगम्यते ।

काशिखण्दे च—

नृणां पापकृतां तीर्थं पापप्रशमनं भवेद् ॥ १२७ ॥ इति ।

काख् ६। ६२अ-ब् (= १०३, १७८)

तथा

**प्रायश्चित्ती व्रजेत् तीर्थं पत्नीविरहितो ऽपि वे— ॥ १२८ ॥ इति **

(= ८४, १०५)

देवलः—

अभिसङ्गम्य तीर्थानि पुण्यान्य् आयतनानि च ।

** प्रमुच्यन्ते नराः पापाद् ब्राह्मणा ये तपस्विनः ॥**

** सर्वाः समुद्रगाः पुण्याः सर्वे पुण्या नगोत्तमाः ।**

** सर्वम् आयतनं पुण्यं सर्वे पुण्या वनाश्रया ॥ १२९ ॥ इति**

(१) एवं तीर्थयात्रायाः प्रायश्चित्तार्थतयाचरणे स्मृत्यर्थसाराद्य् उक्तः प्रकारो लिख्यते । (२) तत्र प्रायश्चित्तविधिना सङ्कल्पपूर्वकं पद्भ्यां षष्टियोजनागतस्य भागीरथ्यां स्नानं षडब्दकृच्छ्रसमम् । (३) अत्रैकैकस्य यात्रयोजनस्य वृद्धा-

**[प्।३२] **वर्धकृच्छ्रवृद्धिः परिकल्पनीया । (४) षष्टियोजनागतस्य षडब्दत्वाद् दशयोजनागतस्याब्दप्रायश्चित्तं भवति । (५) एवञ् च तृतीयांशाधिकक्रोशाद् आगतस्य भागीरथ्यां विध्युक्तस्नानेनैकः कृच्छ्रः सिध्यति मध्ये चेत् पर्वतादिव्यवधानम् । (६) तद्भावे मार्गस्यादुर्गमत्वे च योजनागतस्य शक्तस्य गङ्गास्नानेनैकः कृच्छ्रः । (७) अशक्तस्य त्व् अर्धयोजनाद् आगतस्य शक्तस्यापि मार्गस्य दुर्गमत्वे ऽर्धयोजनाद् आगतस्येत्य् एवङ्कल्पम् ।

(८) पूर्वं सप्तमातृका रक्षोभयान् नद्यो जाताः । भये गते पुनर् देवता अभवन् । ततो नद्यः शुष्काः । तेषु स्थलेषु भागीरथी समभूत् । (९) तासु विष्णुगङ्गादिसप्तमातृकानामासु गङ्गासु स्नानं षष्टियोजनागतस्य षडब्दकृच्छ्रसमम् । (१०) प्रयागे वाराणस्यां गङ्गाद्वारे गङ्गासागरसङ्गमे च द्विगुणम् । (११) यमुनायं विंशतियोजनागतस्य स्नानं द्व्यब्दसमम् । (१२) मथुरायां द्विगुणम् । (१३) सरस्वत्यां चत्वारिंशद्योजनागतस्य चतुरब्दसमम् । (१४) प्रभासे द्वारवत्याञ् च द्विगुणम् । (१५) यमुनासरस्वत्योर् यात्रायोजनवृद्धौ पादकृच्छ्रवृद्धिः परिकल्प्या । (१६) ह्रासस् तु पर्वताद्यभावमार्गसुगमदुर्गमतादौ पूर्वोक्तरीत्यैव कल्प्यः ।

(१७) अत्रापि स्ननदिनसङ्ख्या कल्प्या

** त्रिभिः सारस्वत्यं तोयं सप्ताहेन तु यामुनम् ।**

** सद्यः पुनाति गाङ्गेयं दर्शनाद् एव नार्मदम् ॥ १३० ॥**

पद्पु आदिखण्ड १३। ७

इति स्कन्दपुराणवचनात् ।

(१) दृशद्वतीशुतुद्रीविपाशावितस्ताशरावतीमरुद्वृद्धामधुमतीपयस्विनीघृतवतीत्यादि-

देवनईषु स्नानं पञ्चदशयोजनागतस्य त्रिंशत्कृच्छ्रसमम् । (२) चन्द्रभागावेत्रवती-

शरयुगोमतीदेविकाकौशिकीमन्दाकिनीनित्यजलासहस्रवक्त्रापौनःपुण्यापूर्णपुण्याबाहुदा-

वारुणीगण्डक्यादिदेवनदीषु स्नानं पञ्चदशयोजनगतस्य पञ्चदशकृच्छ्रसमम् । (३) एतासु महानदीषु परस्परसङ्गमे योजनागतस्य कृच्छ्रसमम् । (४) समुद्रगामहानदीभिः पूर्वोक्तदेवनदीनां सङ्गमे योजनागतस्य षट्कृच्छ्रफलम् ।

(५) अनुक्तस्थले यात्रायोजनसङ्ख्यया कृच्छ्रसङ्ख्या विज्ञेया । (६) महानदेषु महानद्यर्धफलम् । (७) शोणमहानदे तु **[प्।३३] **गङ्गार्धफलम् । (८) नदेषु नद्यर्धफलम् ।

(९) माहिष्मत्यादौ नित्यप्रत्यक्षाग्नौ होमे प्राकृताद् दशगुणम् । (१०) ज्वालामुख्याम् अप्य् एवम् । (११) गणमहानदीसेतुरामेश्वरपद्मनाभश्रीरङ्गपुरुषोत्तमकुरुक्षेत्रनैमिष-

वदर्याश्रमपुण्यारण्यकेदार श्रीशैलमहालयरुद्रकोटिपुष्करनर्मदाम्रातकेश्वर-

कुब्जाम्रप्रभासकोकामुखविजयेशपुरीन्द्रपञ्चनदगोकर्णमथुरायोध्याद्वारवतीगया-

काञ्चीशालग्रामशम्भलग्रामसन्निहत्यादि मुक्तिक्षेत्राणि संसेव्य गङ्गासमं फलं लभते ।

(१२) चतुर्विंशतियोजनागतस्य नर्मदायं स्नानं चतुर्विंशतिकृच्छ्रफलम् । (१३) कुब्जिकासङ्गमे द्विगुणम् । (१४) शुक्लतीर्थे चतुर्गुणम् । (१५) अष्टयोजनागतस्य ताप्याम् अष्टकृच्छ्रसमम् । (१६) पयोष्ण्याम् अप्य् एवम् । (१७) अत्र सङ्गमे द्विगुणम् ।

(१८) षष्टियोजनागतस्य गोदावर्यां त्र्यब्दकृच्छ्रसमम् । (१९) त्रिंशद्योजनागतस्यैकादशतीर्थेषु प्रतिलोमानुलोमस्नानं षष्टिकृच्छ्रसमम् । (२०) वञ्जरासङ्गमे द्विगुणम् । (२१) सप्तगोदावरे भीमेश्वरे त्रिगुणम् । (२२) कुशतर्पणे वञ्जरायां द्वादशयोजनागतस्य द्वादशकृच्छ्रसमम् । (२३) प्रणीतायाम् अष्टयोजनागतस्याष्टकृच्छ्रसमम् । (२४) पूर्णायां तदर्धं । (२५) कृष्णवेणायां योजनसङ्ख्यया कृच्छ्रसङ्ख्या । (२६) तथा तुङ्गभद्रायाम् अपि । (२७) पम्पासङ्गमे द्विगुणम् । (२८) हरिहरे त्रिगुणम् । (२९) भीमरथ्यां योजनसङ्ख्यया कृच्छ्रसङ्ख्या । (३०) ककुद्मिनीसङ्गमे दशयोजनागतस्य पञ्चदशकृच्छ्राः । (३१) मलापहारिण्यां योजनसङ्ख्यया कृच्छ्रसङ्ख्या । (३२) तथा निवृत्याम् अपि ।

(३३) गोदावर्यां यात्रायोजनवृद्धौ पादकृच्छ्रवृद्धिः । (३४) सिंहे गुरौ सर्वत्र जाह्नवीसमा । (३५) कन्यास्थे गुरौ कृष्णवेणायां सर्वत्र जाह्नव्यर्धम् । (३६) तुङ्गभद्रायां तुलास्थे रवौ कर्कस्थे च गङ्गार्धम् । (३७) कृष्णवेणायां मलापहारिणीसङ्गमे त्रिंशद्योजनागतस्य त्रिंशत्कृच्छ्रसमम् । (३८) भीमरथीसङ्गमे द्विगुणम् । (३९) तुङ्गभद्रासङ्गमे त्रिगुणम् । (४०) निवृत्तिसङ्गमे चतुर्गुणम् । (४१) ब्रह्मेश्वर पञ्चगुणम् ।

(४२) मल्लिकार्जुनसमीपे पातालगङ्गायां त्रिंशद्योजनागतस्य षडब्दसमम् । (४३) ततस् पूर्वे षष्टिकृच्छ्रसमम् । (४४) लिङ्गालये द्विगुणम् । (४५) समुद्रसङ्गमे चैवम्।

**[प्।३४] **(४६) कावेर्या महानद्यां दशयोजनागतस्य पञ्चदशकृच्छ्राः । (४७) ताम्रपर्णीकीर्तिमालापयस्विनीषु द्वादशयोजने द्वादशकृच्छ्राः ।

(४८) सह्याद्रिपादोद्भूता नद्यो योजनमविच्छिन्नप्रवाहरूपाश्च दैर्ध्यानुसारेणयोजनागतस्यैकद्वित्रिकृच्छ्रफलदाः । (४९) विन्ध्यश्रीशैलोद्भवा द्विगुणाः । (५०) हिमाचलोद्भूतास् त्रिगुणाः । (५१) स्मृतिपुराणादिषु यथाकथञ्चिद् अनुक्तकुल्या योजनागतस्य त्रिरात्रफलदाः । (५४) महानद्यः कृच्छ्रत्रयफलदाः । (५५) एकयोजनगादिषड्योजनागान्ताः स्रवन्त्यः कुल्याः । (५६) ततो द्वादशयोजनगान्ता अल्पनद्यः । (५७) ततश् चतुर्विंशतियोजनगान्ता नद्यः । (५८) तदधिकयोजनगा महानद्यः । (५९) समुद्रगाश् च । (६०) यत्र महादीव्यपदेशः पुराणादिषु ता अपि महानद्यः । (६१) उपवासयुक्तं महानदीस्नानं योजनाद् अर्वाग् अपि कृच्छ्रसमम् । (६२) शुन्यादिकुत्सितनाम्न्यः पापनद्यश् च कर्मनाशाद्या वर्ज्याः ।

(६३) समुद्रस्नानं सर्वत्र दर्शे कार्यं । (६४) देवतासमीपे सरोनदीसङ्गमेषु च सर्वदा । (६५) समुद्रस्नानं पञ्चदशयोजनागतस्य तावत्कृच्छ्रसमम् । (६६) प्रसिद्धदेवतासमीपे द्विगुणम् । (६७) तत्र स्नात्वा तद्देवतादर्शने त्रिगुणम् ।

(६८) त्रिंशद्योजनागतस्त्य सेतुदर्शनं त्रिंशत्कृच्छ्रसमम् । (६९) तत्र स्नात्वा रामेश्वरदर्शने द्विगुणम् ।

(७०) विन्ध्यदेशीयानां सेतुरामेश्वरे जाह्नव्यास् त्रिगुणम् । (७१) तद्देशीयानाम् एव जाह्नवीकेदारयोस् तद्वद् एव । (७२) दक्षिणदेशीयानां जाह्नव्यां षड्गुणम् । (७३) गङ्गादेशीयानां सेतुरामेश्वरे षड्गुणम् । (७४) स्कन्ददर्शने विंशतिकृच्छ्रसमं त्रिंशद्योजनागतस्य । (७५) यत्र गङ्गा सञ्ज्ञास्ति तत्राप्य् एवम् ।

(७६) सर्वत्र भाषाभेदपर्वतादिभिर्व्यवधाने मार्गस्य दुर्गमत्वे चोक्तयोजनसङ्ख्यातो योजनसङ्ख्याह्रासेन कृच्छ्रादिफलानि कल्प्यानि, प्रयासाधिक्यात् ।

(७७) श्रीरङ्गपद्मनाभपुरुषोत्तमचक्रकोटमहालक्ष्मीदर्शनस्थाने लोणारे च त्रिंशद्योजनागतस्य त्रिंशत्कृच्छ्रसमम् । (७८) सर्ववैष्णवमाहेश्वरसौरशाक्तेयपीठेषु दर्शनेन योजनसङ्ख्यया कृच्छ्रसङ्क्या । (७९) प्रख्यातेषु द्विगुणम् ।

(८०) अनुक्तेषु योजनसङ्ख्यया कृच्छ्रसङ्ख्या ज्ञेया । (८१) तत्रापि देवदर्शनदेशकालवयःशक्तिनियमविशेषेण विशेषो, न्यूनतया न्यूनता वा ज्ञेया ।

**[प्।३५] **(८२) यत्र च पुराणादौ यच् च यावच् च विशेषत उक्तं तत् तथैव ग्राह्यम् ।

(८३) तीर्थतीरस्थितस्यापि योजनपरिमितात् प्रदेशाद् आगमनम् अन्तरेणापि विधिवत् स्नात्वा धौतं वासः परिधाय केशेषु शुष्केषु पुनः स्नातव्यम् । (८४) एवं द्वादशभिः स्नानैर् एकः कृच्छ्रो भवति ।

(८५) यत्रायाम् एकभक्ताधःशयनानृतुब्रह्मचर्याद्या नियमाः पूर्वोक्ता ग्राह्याः । (८६) तीर्थे स्नानतर्पणादि । (८७) तत्तद्देवतायाश् च पूजनम् इत्य् एतदन्ता तीर्थयात्रा सर्वत्र

ज्ञेया ।

(८८) अत्र कृच्छः प्राजापत्यसञ्ज्ञो याज्ञवल्क्योक्तो ग्राह्यः । यथा—

** एकभक्तेन नक्तेन तथैवायाचितेन च ।**

** उपवासेन चैवायं पादकृच्छ्रः प्रकीर्तितः ॥**

** यथाकथञ्चित् त्रिगुणः प्राजापत्यो ऽयम् उच्यत ॥ १३१॥ इति ।**

याज् ३। ३१८-३१९ब्

(१) एवं चतुरहःसाध्यपादकृच्छ्रस्य त्रिवारावृत्तौ द्वादशाहोरात्रसाध्यतास्य भवति ।

योजनपरिमाणञ् च—

तिर्यग्यवोदराण्य् अष्टावूर्ध्वा वा व्रीहयस् त्रयः ।

** प्रमाणमङ्गलस्योक्तं वितस्तिर् द्वादशाङ्गुलः ॥**

** हस्तो वितस्तिद्वयं दण्डो हस्तचतुष्टयम्।**

** तत्सहस्रद्वयं क्रोशो योजनं तच्चतुष्टयम् ॥ १३२ ॥ इति ।**

** इति तीर्थप्रत्याम्नायाः **

[प्।३६] अथ यात्रायां कालशुद्धिः

** षष्ठ्यष्टमीद्वादशीषु न गच्छेत् त्रिदिनस्पृशि ।**

** पूर्णिमाप्रतिपद्दर्शरिक्तावमदिनेषु च ॥ १३३ ॥**

रत्नमालायाम्—

हस्तेन्दुमैत्रश्रवणाश्विपुष्यपौष्णश्रविष्ठाश् च पुनर्वसुश् च ।

** श्रेष्ठानि धिष्ण्यानि नवप्रयाणे त्वक्त्वा त्रिपञ्चादिमसप्तताराः ॥**

** चित्रविशाखानलसार्पयाम्य— वायव्यपित्र्येश्वरदैवतानि।**

** यात्रास्व् अनिष्टान्य् अपराणि भानि स्मृतानि नेष्टानि न निन्दितानि ॥ १३४ ॥**

रत्नमाला १५। ८, १३

तथा—

वारस् तुषारकरसूर्यसुतावनीजतीक्ष्णत्विषाम् अशुभदः कथितः प्रयाणे ॥ १३५ ॥

तथा—

सोमसौम्यगुरुशुक्रवासराः सर्वकर्मसु भवन्ति सिद्धिदाः ॥ १३६ ॥

तथ—

व्यतीपातः परिघार्धं वैधृतियोगश् च विष्टिकरणञ् च

** क्रान्तिसमत्वं कुलिका अवमगण्डान्तानि न शुभानि ॥ १३७ ॥**

लल्लः—

नीचस्थे वक्रसंस्थे ऽप्य् अतिचरणगते बालवृद्धास्तगे वा

** सन्न्यासो देवयात्रा व्रतनियमविधिः कर्णवेधस् तु दीक्षा ।**

** मौञ्जीबन्धो ऽथ चूडापरिणयनविधिर् वास्तुदेवप्रतिष्ठा**

** वर्ज्या सद्भिः प्रयत्नात् त्रिदशपतिगुरौ सिंहराशिस्थिते च ॥ १३८ ॥**

तथा—

रविक्षेत्रं गते जीवे जीवक्षेत्रं गते रवौ ।

** वर्जयेत् सर्वकर्माणि व्रतस्वस्त्ययनानि च ॥ १३९ ॥**

**[प्।३७] **तथा—

गुर्वादित्ये गुरौ सिंहे शुक्रे चास्तम् उपागते ।

** त्यजेद् यानं महादानं व्रतं देवविलोकनम् ॥ १४० ॥**

तथा—

गुर्वादित्ये गुरौ सिंहे नष्टे शुक्रे मलिम्लुचे ।

** याम्यायने हरौ सुप्ते सर्वकर्माणि वर्जयेत् ॥ १४१ ॥**

तथा—

वापीकूपतडागयागगमनक्षौरप्रतिष्ठाव्रतं

** विद्यामन्दिरकर्णवेधनमहादानं वनं सेवनम् ।**

** तीर्थस्नानविवाहदेवभवनं मन्त्रादि देवेक्षणम्**

** दूरेणैव जिजीविषुः परिहरेद् अस्तङ्गते भार्गवे ॥**

** सिंहस्थितं मघासंस्थं गुरुं यत्नेन वर्जयेत् ।**

** अन्यत्र सिंहभागेषु विवाहादि विधीयते ॥ १४२ ॥**

तथा—

बाले वा यदि वा वृद्धे शुक्रे वास्तगते गुरौ ।

** मलमास इवैतानि वर्जयेत् देवदर्शनम् ॥ १४३ ॥**


** **(१) अत्र प्रकर्णे देवदर्शनम् अपूर्वं निषिध्यते ।

अत एव गार्ग्यः

अपूर्वदेवतां दृष्ट्वा शुचः स्युर् नष्टभार्गवे ।

** मलमासे ऽप्य् अनावृत्ततीर्थयात्रां परित्यजेद् ॥ १४४ ॥ इति**

(१) ऽअनावृत्ततीर्थयात्रायाम्ऽ अपूर्वतीर्थयात्राम् ।

तथा-

अतिचारगतो जीवस्तं राशिं नैति चेत् पुनः ।

** लुप्तः संवत्सरो ज्ञेयः सर्वकर्मसु गर्हितः ॥ १४५ ॥**

**[प्।३८] **अस्यापवादः—

**वृषे मेषे झषे कुम्भे यद्यतीचारगो गुरुः ।**


**न तत्र काललोपः स्याद् इत्य् आह गालवो मुनिर् ॥ १४६ ॥ इति ।**

रत्नमालायाम्—

उदयति दिशि यस्यां याति यत्र भ्रमाद् वा

** विचरति वा भचक्रे येषु दिग्द्वारभेषु ।**

** त्रिविधम् इह सितस्य प्रोच्यते सम्मुखत्वम्**

** मुनिभिर् उदित एव त्यज्यते च प्रयत्नात् ॥**

** स्वल्पो ऽपि नार्थः प्रतिशुक्रयाने**

** यियसतां सिद्धिम् उपैति नूनम् ॥ १४७ ॥**

रत्नामाल १५। १७-१८ब्

अस्यापवादो वृत्तशते—

नो तेषां प्रतिशुक्रयानम् अशुभं ये वत्सभृग्वङ्गिरो-

** भारद्वाजवसिष्ठकाश्यपकुलोत्पन्नास् तथात्रेस् कुले ।**

** दुर्भिक्षे विषयप्लवे प्रतिसितं न स्याद् विवाहे तथा **

** तीर्थानां गमने तथैकनगरे ग्रामे च सौम्यं तथे– ॥ १४८ ॥ ति ।**

(१) क्वचित् तु गुरुमौढ्यादिदोषाभाव उक्तः—

गोदावर्यां गयायाञ् च श्रीशैले ग्रहणद्वये ।

** सुरासुरगुरूणाञ् च मौढ्यदोषो न विद्यते ॥ १४९ ॥**

वायुपुराणे—

गयायां सर्वकालेषु पिण्डं दद्याद् विधानतः ।

** अधिमासे जन्मदिने अस्ते च गुरुशुक्रयोः ॥**

** न त्यक्तव्यं गयाश्राद्धं सिंहस्थे च बृहस्पतौ ॥ १५० ॥**

(१) अत्र श्राद्धस्य यात्रापूर्वकत्वाद् यात्रापि न निषिद्धेति केचित् ।

**[प्।३९] **तथा—

** अधिमासे च जन्मर्क्षे अस्ते च गुरुशुक्रयोः ।**

** तीर्थयात्रा न कर्तव्या गयां गोदावरीं विना ॥ १५१ ॥**

(१) अन्ये ऽपि लग्नलग्नांशशुद्ध्यादयो यात्रोपयोगिनो ज्योतिर्ग्रन्थतद्विद्भ्यो ज्ञेयाः, विस्तरभयात् तु नोच्यन्ते ।

इति त्रिस्थलीसेतौ तीर्थयात्रायां कालशुद्धिः ।

[प्।४०] अथ तीर्थगमनविधिः

स्कान्दे—

तीर्थयात्रां चिकीर्षुः प्राग् विधायोपोषणं गृहे ।

** गणेशञ् च पितॄन् विप्रान् साधून् शक्त्या प्रपूज्य च ॥**

** कृतपारणको हृष्टो गच्छेन् नियमधृक् पुनः ।**

** आगत्याभ्यर्च्य च पितॄन् यथोक्तफलभग् भवेत् ॥ १५२ ॥**

काख् ६। ५६-७

(१) ऽआगत्येऽति तीर्थयात्रां कृत्वा ग्र्हागतेन पुनः श्राद्धं कार्यम् इत्यर्थः ।

तथा ब्रह्मपुराणे—

यो यः कश्चित् तीर्थयात्रां तु गच्छेत् सुसंयतः स च पूर्वे गृहे स्वे ।

** कृतोपवासः शुचिर् अप्रमत्तः सम्पूजयेद् भक्तिनम्रो गणेशम् ॥**

** देवान् पितॄन् ब्राह्मणांश् चैव साधून् धीमान् विप्रो वित्तशक्त्या प्रयत्नात् ।**

** प्रत्याङ्गतश् चापि पुनस् तथैव देवान् पितॄन् ब्राह्मणान् पूजयेच् च ॥**

** एवं कुर्वंस् तस्य तीर्थाद् यद् उक्तं फलं तत् स्यान् नात्र सन्दिग्धम् अस्ति ॥ १५३ ॥**

(१) श्राद्धञ् चोपवासोत्तरदिने,

शुभे तिथौ शुभे वारे शुभे लग्नबले द्विजः ।

** उपोष्य रजनीम् एकां प्रातः श्राद्धं विधाय च ॥**

** गणेशं ब्राह्मणान् नत्वा भुक्त्वा प्रथितवान् सुधीर् ॥ १५४ ॥**

काख् ७। ३९च्-४०

इति स्कान्दे शिवशर्मोपाख्यानान्यार्थदर्शनात् । (१) अत्र ऽशुभतिथ्यादौ प्रस्थितवन्ऽ इत्य् अन्वयः । (२) ऽगणेशं ब्राह्मणान् नत्वेऽत्य् अत्र क्रमो न विवक्षितः, उपाख्यायिकारूपतया पाठक्रमस्याविधेयत्वात् । (३) यद्वा श्राद्धपूर्वभाविगणेशपूजातिरिक्तम् एव श्राद्धान्तरं गणेशादिनतिमात्रम् अत्रोक्तम् ।

(४) श्राद्धानन्तरं कार्पटिकवेशो ऽपि कार्यः,

[प्।४१] उद्यतस् तु गयां गन्तुं श्राद्धं कृत्वा विधानतः ।

** विधाय कार्पटीवेषं कृत्वा ग्रामं प्रदक्षिणम् ॥**

** ततो ग्रामान्तरं गत्वा श्राद्धशेषस्य भोजनम् ।**

** ततः प्रतिदिनं गच्छेत् प्रतिग्रहविवर्जित ॥ १५५ ॥**

गपु १। ८४। १-२

इति वायुपुराणोक्तेः । (१) केचित् तु “गयायात्रायाम् एवैष विधिः कार्यः गायाम् उपक्रम्यैव विधानात्, न तु तीर्थान्तरयात्रायाम्” इत्य् आहुः ।

(२) केचिद् “उपवासदिने श्राद्धात् पूर्वं मुण्डनम् अप्य्” आहुः,

प्रयागे तीर्थयात्रायां पितृमातृवियोगतः ।

** कचानां वपनं कुर्याद् वृथा न विकचो भवेद् ॥ १५६ ॥**

इति विष्णुवचनात् । (१) “इदञ् च प्रायश्चित्तार्थयात्रायाम् एव तत्र तस्य विहितत्वाद्” इत्य् एके । (२) “कार्पटिकवेषेण तीर्थगमने तद्” इत्य् अन्ये ।

(३) श्राद्धञ् च तीर्थश्राद्धवग् एव षड्दैवतं नवदैवतं द्वादशदैवतं वा मतभेदेन पार्वणं कार्यम् ।

(४) “इदञ् च घृतमात्रद्रव्यकं,

गच्छेद् देशान्तरं यस् तु श्राद्धं कुर्यात् स सर्पिषा ।

** यात्रार्थम् इति तत् प्रोक्तं प्रवेशे च ने संशय ॥ १५७ ॥**

इति विष्णुपुराणोक्तेः । (१) द्रव्यान्तरसाहित्ये ऽव्रीहिभिर् यजेतेऽतिवन् निरपेक्षसाधनताबोधकऽसर्पिषेऽतितृतीयाबाधापत्तेर्” इति कश्चित् (२) तन् न, घृतमात्रस्य स्वतन्त्रभक्ष्यत्वाभावेन श्राद्धद्रव्यत्वासम्भवाद् आनर्थक्यप्रतीघातेन श्रुतिसङ्कोचात् । (३) तस्माद् “घृतप्रचुरम्” इत्य् अन्ये । (४) तदपि न, प्राचुर्ये तृतीयाया अविधानात्, लक्षणापत्तेश् च । (५) तस्मात् प्रतिस्पर्धिप्रधानभूतद्रव्यान्तरनिरपेक्षत्वस्यैव तृतीयया बोधनाद् ऽघृतेन मुख्यद्रव्येणेऽत्यर्थः,

[प्।४२] तिलैर् व्रीहियवैर् माषैर् अद्भिर् मूलफलेन वा ।

** दत्तेन मासं प्रीयन्ते विधिवत् पितरो नृणाम् ॥**

** द्वौ मासौ मत्स्यमांसेन त्रीन् मासान् हारिणेन त्व्– ॥ १५८ ॥**

मनु ३। २६७-२६८ब्

(१) इत्यादिमन्वादिवचनस्थऽतिलैर्ऽइत्यादिवत् । (२) सत्य् अपि हिरण्यशकलोपस्तरणाभिधारणापेक्षत्वे

वपया प्रातःसवने प्रचरन्ति पुरोडाशेन

** माध्यन्दिने सवने अङ्गैस् तृतीयसवने ॥ १५९ ॥**

इतिवच् च । (१) अत एव स्मृतिरत्नावलीमदनपारिजातकारादिभिर् एवम् एव व्याख्यातम् इति । (२) अत एव ग्रामान्तरे श्राद्धशेषेण घृतेनैव पारणं कार्यं तस्यैव मुख्यद्रव्यत्वात् ।

(३) “इदञ् च श्राद्धम् आभ्युदयिकम् एवे”ति कश्चित् । (४) तन् न, प्रकृतत्वेनोपस्थितेर् लाघवात् । (५) प्राप्ते पार्वणे विशेषानभिधानाच् च ।

(६) “ब्राह्मणानाञ् च त्रयाणाम् एव पूजनं कार्यं कपिञ्जलन्यायाद्” इति केचिद् । (७) “उद्देश्यगतत्वेन तन्न्यायवैषम्याद् ऽविप्रान् शक्त्या प्रपूज्य चेत्ऽयत्र पूजन इव सङ्ख्यायाम् अपि शक्तेर् अन्वयाच् चानियम” इत्य् अन्ये ।

(८) तदयमत्रानुष्ठानक्रमः । (९) यात्रामुहूर्तदिनात् प्रपूर्वदिन एकभक्तहविष्यभोजनब्रह्मचर्यादयो नियमाः कार्याः, पूर्वं ऽसुसंयतऽ इति वचनात् । (१०) तदुत्तरदिने उपवासः । (११) पक्षे मुण्डनञ् च । (१२) तदुत्तरदिने स्नानादि शुचितासम्पादकं नैत्यकं विधाय भक्त्या यथाशक्तिगणेशेष्टदेवते पूजयित्वा घृतमुख्यद्रव्यकं पार्वणश्राद्धं विधाय यथाशक्ति वस्त्रालङ्कारगोभू हिरण्यादिभिर् ब्राह्मणान् सम्पूज्य यात्रासङ्कल्पं विधाय काषायपरिधानादिरूपं कार्पटिकवेषं धृत्वा मुहूर्तवेलायां ग्रामान् निर्गत्य निवासग्रामं प्रदक्षिणीकृत्य क्रोशाभ्यन्तरस्थग्रामान्तरं गत्वा श्राद्धशेषघृतेन पारणं कुर्यात्,

अद्वनि च क्रोशपूरण ॥ १६० ॥

(१) इत्यादिना श्राद्धोत्तरं क्रोशगमननिषेधात् । ततो दिनान्तरे स्नानादि विधाय नियमवान् गच्छेद्

[प्।४३] तम् अपि ग्रामं प्रदक्षिणीकृत्य गच्छेद्– ॥ १६१ ॥

(१) इति स्मृतिरत्नावल्याम् ।

(२) “अयञ् च क्रमो यद्य् उपवासोत्तरदिने पूर्वाह्ने मूहर्तः स्यात् तदा । (३) यदा त्व् अपररात्रे स स्याद् तदा ऽसमर्थस् तद्दिन एवोपवासश्राद्धादि विधाय मुहूर्तसमये यात्रां विधाय स्थ्लान्तरे गत्वा प्रातः पार्वणं कुर्यात् प्रधानाविरोधेनैवोपवासस्येष्टत्वाद्” इति कश्चित् । (४) तच् चिन्त्यं, पूर्वरात्रे ऽपररात्रे वा मुहूर्ते सति तद्दिने उपवासं कृत्वा मुहूर्तसमये ज्योतिःशास्त्रोक्तरीत्या फलवस्त्रादिप्रस्थानं क्वचित् स्थापयित्वा प्रातः श्राद्धादि विधाय गृहान् निर्गत्य तत् प्रस्थानं गृहीत्वा ग्रामं प्रदक्षिणीकृत्य ग्रामान्तरे पारणोपपत्तौ श्राद्धे उपवासोत्तरदिनरूपकालबाधस्यानौचित्यात् । (५) प्रमाणं विना श्राद्धं कृत्वोपवासायोगाच् च । (६) एतादृशविषयार्थम् एव हि ज्योतिःशास्त्रे प्रस्थानप्रकार उक्तः ।

(७) अत्र य आतुरादिर् उपवासासमर्थ स उपवासप्रतिनिधिं यं कञ्चिच् शक्त्या कुर्यात् । प्रतिनिधयश् च—

नक्तं हविष्यान्नमनोदनं वा फलं तिलाः क्षीरम् अथाम्बु चाज्यम् ।

यत् पञ्चगव्यं यदि वापि वायुः प्रशस्तम् अत्रोत्तरम् उत्तरञ् चे–॥ १६२ ॥ ति ।

(१) कार्पटिकवेषधारणञ् च यात्राङ्गत्वाद् गमनकाल एव न त्व् आह्निकभोजनादिकाले ऽपि, ऽकर्मकाले नग्नः काषायवाससेऽति काषायवाससो निषेधात् । (२) तद्बाधकमानाभावात् । (३) वेषविधयकवचसो गमनमात्रे वेषविधानेनोपपत्तेः; एवं तीर्थे ऽपि तत्तत्क्षेत्राद्यनुसरणे कार्पटिकवेशः । (४) “न तु स्नानश्राद्धादिकाले ऽपि मानाभावाद्” इति केचित् । (५) अन्ये तु “उपक्रमाद् आरभ्य यात्रावसानं यावत् प्रतिग्रहादिनिवृत्तिवद् वेषस्याङ्गताविधानात् सदा वेषधारणम् । (६) अन्यथा नियमान्तरे का वार्त्ते”त्य् आहुः ।

(७) तीर्थात् प्रत्यावृत्तो ऽपि स्वग्रामसमीपे ग्रामान्तरे कृतोपवासस् तदुत्तरदिने ग्रहान् इष्टदेवताञ् च सम्पूज्य घृतेन पार्वणं विधाय ब्राह्मणान् सम्पूज्य स्वग्रामं प्राप्य पूर्ववत् प्रदक्षिणीकृत्य वेषस्थाने वेषं त्यक्त्वा स्वगृहं प्रविश्य श्राद्धशेषघृतेन पारणं कुर्यात्, ऽप्रत्यागतश् चापि पुनस् तथैव देवान् पितॄन् ब्राह्मणान् अर्चयेच् चेऽतिवचनस्थऽतथाऽशब्देन [प्।४४] सकलप्रस्थानधर्मातिदेशाद्” इति कश्चित् । (८) तन् न, देवादिपूजनधर्मातिदेशेनैव तथाशब्दोपपत्तेः । (९) अत एव स्कन्दे ऽआगत्याभ्यर्च्य च पितॄन्ऽ इत्य् एवोक्तम् । (१०) शिष्ताचारो ऽप्य् एवम् एव ।

(११) अत्र कश्चित् “यात्रासङ्कल्पे फलोल्लेखः न कार्यः, ऽउद्यतश् चेद् गयां गन्तुऽं ऽफलं स्याद् गच्छतो गयाम्ऽ इत्य् उपक्रमोपसंहाराभ्यां तादर्थ्यावगमात्, ऽउद्देशेन हि तादर्थ्यं विविच्यतऽ इति न्यायात्,

एवं गच्छन् तस्य तीर्थाद् यद् उक्तम्

**फलं तत् स्यान् नात्र सन्दिग्धम् अस्ती– ॥ १६३ ॥ **(= १५३)

(१) त्यादिवचनाच् च । अन्यथा प्रतिपदम् अश्वमेधादिफलाप्तौ तीर्थे वैय्यर्थ्यप्रसङ्गः । (२) यदपि तत्र तत्र यात्रायां स्वर्गराजसूयादिफलाप्तिश्रवणं, तदपि प्रधानफलस्यैवाङ्गे श्रवणन्यायेनार्थवादः ।

“ननु

**स्नानजं फलम् आप्नोति तीर्थयात्राफलं न त्व्– ॥ १६४ ॥ **(= १०६)

(१) इत्यादिवचनाद् यात्राफलम् अपि पृथग् अस्ती”ति चेत् । (२) न, ऽतीर्थयात्रया यत्पूर्णं तीर्थफलं तन् नाप्नोति किन्तु स्नानमात्रजम्ऽ इत्य् अर्थकरणात् । (३) ऽअर्धं तीर्थफलं तस्य यः प्रसङ्गेन गच्छतीऽत्यादेर् अपि [१०७] इति तीर्थस्यैव फलवत्ता । (४) ऽतद् एव कृत्वा यानेन स्नानमात्रफलं लभेद्ऽ [११४] इत्यादिना यानवतस् तीर्थस्यैव वैफल्यं न्यूनफलता वा । (५) यात्राधर्माद्यनुष्ठानाद् अपि तीर्थस्यैव सफलता, न यात्रायाः । (६) ऽसम्पूर्णतीर्थफलप्राप्तिकामऽ इत्य् अपि न सङ्कल्पः, यात्रायाः तीर्थफलसाधनत्वाविधानात् । (७) तस्मात् तत्र फलश्रवणं भातृव्याभिभूतिवद् अर्थवादः ।

(८) प्रायश्चित्तरूपयात्रायां तु पारार्थ्याभावाद् अङ्गत्वानवगतेः स्वतन्त्रं फलम् । (९) तेन तत्रोपक्रमे सङ्कल्प्य पुनस् तीर्थप्राप्तौ न सङ्कल्पस् तीर्थस्नानादेर् यात्रानिर्वर्तकत्वेन तत्रैवान्तर्भावाद्” इति ।

(१०) एतच् चिन्त्यं, ऽगन्तुऽं ऽगच्छतऽ इति श्रवणाद् उपक्रमोपसंहारयोर् विरुद्धत्वात् तादर्थ्यानवगतेः (११) गमनस्यैव फलवत्त्वप्रतीतेः ।

**[प्।४५] **(१२) तीर्थस्य क्रियानाविष्टस्य फलसाधनत्वासम्भवात् क्रियापेक्षायाम् ऽएवं गच्छन्न्ऽ इति समानवाक्योपात्तगमनपरित्यागेन स्नानादिधात्वर्थावेशकल्पनायोगाद् गमनस्यैवावच्छेदकत्वप्रतीतेस् ऽतीर्थात् तीर्थगमनाद् यद् उक्तं फलम्ऽ इत्यर्थप्रतीतेर् द्वितीयहेतोर् अपि विरुद्धत्वात् । (१३) एवञ् च तादर्थ्यानवगतौ तत्र तत्र श्रूयमाणस्य स्वर्गादिफलस्याङ्गफलश्रवणन्यायविषयतोच्यत इति महत्साहसम् । (१४) किञ् च; ऽतीर्थाभिगमनं पुण्यऽं [३८] ऽया याः काश्चित् तीर्थयात्रा मुनीन्द्रैर्ऽ [७७] इत्यादिपूर्वोदाहृताधिकारवाक्यपर्यालोचनया यात्राया एव प्राधान्यम् अवगम्यते । (१५) नह्य् अङ्गे स्वतन्त्राधिकारप्रदर्शनं भवति । (१६) एवञ् च ऽतीर्थयात्राफलं न त्व्ऽ इत्यादेः क्लिष्टकल्पनाव्याख्यानम् अप्रामाणिकम् एव । (१७) ऽअर्धं तीर्थफलं तस्येऽत्य् आदाव् अपि [१०७] अवच्छेदकधात्वर्थापेक्षायां ऽगच्छतीऽतिसमानवाक्योपात्तगमनस्यैवावच्छेदकता । (१८) किञ् च; प्रायश्चित्तार्थयात्रायां प्रधानता नान्यत्रेत्य् अत्र किं नियामकम् अन्यत्र कोशपानात्?

(१९) तस्मात् सर्वत्र यात्रा फलवती । (२०) न च तीर्थवैयर्थ्यप्रसङ्गः ।

** कर्मणाम् अल्पमहतां फलानाञ् च स्वगोचरे ।**

** विभागः स्थानसामान्याद् अविभागे ऽपि चोदित ॥ १६५ ॥**

त्व् १। २। १। ७, प्। १३०

(१) इति न्यायेनावान्तरवैजात्यकल्पनात् । (२) तादृशस्थले ऽर्थवादत्वाद् वा ।

(३) तस्माद् अप्रायश्चित्तार्थापि यात्रा फलवती । (४) स्नानश्राद्धादि च । (५) एतावांस् तु विशेषः; स्नानश्राद्धादेर् अग्निहोत्रवद् ।

एकस्य तूभयत्वे संयोगपृथक्त्वम् ॥ १६६ ॥

म्स् ४। ३। ३। ५

(१) इति न्यायेन काम्यनैमित्तिकतयोभयरूपता, उभयथा वचनसत्त्वात् । (२) ततश् च तीर्थप्राप्तिरूपनिमित्तवान् यदि तन् न करोति तदा यात्राफललाभे ऽपि प्रत्यवैति विगीयते च शिष्टैः । (३) अत एव प्रायश्चित्तार्थयात्रायाम् अप्य् एकं सन्धित्सतो ऽपरप्रच्यवन्यायो मा भूद् इति तीर्थकृत्यान्तता । (४) एवञ् च **[प्।४६] **प्राप्ततीर्थो ऽकृतस्नानादिर् एव यदि दैवान् म्रियते बलान् म्लेच्छादिनान्य् अत्र नीयते वा तदा पुरुषापराधाभावान् न प्रत्यवायो नपि यात्रा निःफलेति । (५) तद् अलं तीर्थयात्रानिःफलेतिजगत्विरुद्धम् अभिदधानैर् विवादेन ।

(६) अन्ये त्व् आहुः; “अस्तु यात्रायाः फलवत्त्वम् । तथपि—

पदे पदे ऽश्वमेधस्य फलं स्याद् गच्छतो गयाम् ॥ १६७ ॥

(१) इति गयायात्रायां श्रुतम् अपीदम् एव फलं सर्वतीर्थयात्रास्व् अन्वेति,

एकत्र निर्णीतः शास्त्रार्थो ऽपरत्रापी– ॥ १६८ ॥

ति न्यायात् । (१) फलाकाङ्क्षायाञ् च गमनफलत्वेन श्रुतस्यास्यैवान्तरङ्गतया फलौचित्यात्, विश्वजिन् न्यायात् स्वर्गकल्पेन बहिरङ्गत्वेनोपस्थितिगौरवाद्” इति ।

(२) तदप्य् अतिमन्दं, तत्र तत्र सामान्यतो विशेषतश् च तीर्थयात्रायां फलान्तरश्रवणात् । सामान्यतस् तावत्—

भारते दानधर्मेषु गोलोकं प्रकृत्य;

मनस्विनस् तीर्थयात्रापरायणास्

** ते तत्र मोदन्ति गवां निवासे ॥ १६९ ॥**

म्भ् १३। १०५। ४४च्-द्

इति । तथा प्रभासादीन्य् अनुक्रम्य—

सरस्वतीदृषद्वत्यौ यमुनां ये ऽनुयान्ति च ।

** तत्र ते दिव्यसंस्थाना दिव्यमाल्यधराः शिवाः ॥**

** प्रयान्ति पुण्यगन्धाढ्या ॥ १७० ॥**

म्भ् १३। १०५। ४७च्-४८च्

इति (१) वायवीये ऽपि ऽतीर्थान्य् अनुसरन् वीरऽ [५०] इत्यादि ।

विशेषतो ऽपि,

कौर्मे—

पुण्डरीकं महातीर्थं ब्राह्मणैर् उपशोभितम् ।

** तत्राभिगम्य युक्तात्मा पुण्डरीकफलं लभेद् ॥ १७१ ॥**

कूपु २। ३६। २५

**[प्।४७] **इति । (१) एवं सर्वपुराणभारतादिषु तत् तत् तीर्थम् उपक्रम्य फलप्रतिपादनं द्रष्टव्यम् । (२) विस्तरभयात् तु न लिख्यते । (३) एवञ् च वाक्यात् प्रकरणाद् वा यथायोगं फले लब्धे तेनैव निराकाङ्क्षत्वात् क्वाकाङ्क्षा क्वतराम् अन्तरङ्गन्यायः क्वतमाम् एकत्रेति न्यायः । (४) विपरीतो ऽपि चान्तरङ्गभावः विशेषश्रुतस्यैवान्तरङ्गत्वात् । (५) स्वर्गकल्पनाभावाच् च नोपस्थितिगौरवम् अपीत्य् अलं पुराणान् अतिदर्शिभिर् विवादेन ।

इति श्रीमद् भट्तरामेश्वरसूरिसूनुनारायणभट्टविरचिते त्रिस्थलीसेतौ

** सामान्यप्रघट्टके तीर्थगमनविधिः ।**

[प्।४८] अथ तीर्थयात्रायां नियमाः

भारते—

कामं क्रोधञ् च लोभञ् च यो जित्वा तीर्थम् आविशेत् ।

** न तेन किञ्चिद् अप्राप्यं तीर्थाभिगमनाद् भवेत् ॥**

म्भ् १३। २६। ६० (= ६५५)

** तीर्थानि च यथोक्तेन विधिना सञ्चरन्ति ये ।**

** सर्वद्वन्द्वसहा धीरास् ते नराः स्वर्गगामिनः ॥ १७२ ॥**

काख् ६। ५५

(१) द्वन्द्वानि शीतातपादीनि तत्सहिष्णवः ।

शङ्खपुलस्त्यौ—

** यस्य हस्तौ च पादौ च मनश् चैव सुसंयुतम् ।**

** विद्या तपश् च कीर्तिश् च स तीर्थफलम् अश्नुते ॥**

शङ्ख ८। १५

प्रतिग्रहाद् उपावृत्तः सन्तुष्तो येन केन चित् ।

** अहङ्कारविमुक्तश् च स तीर्थफलम् अश्नुते ॥**

** अकल्कको निरारम्भो लघ्वाहारो जितेन्द्रियः ।**

** विमुक्तः सर्वसङ्गैर् यः स तीर्थफलम् अश्नुते ॥**

** अक्रोधनश् च राजेन्द्र सत्यशीलो दृढव्रतः ।**

** आत्मोपमश् च भूतेषु स तीर्थफलम् अश्नुते ॥**

पद्पु सृख् १९। ८-१०

(१) हस्तसंयमः परताडनपरस्वग्रहणनिवृत्त्या । (२) पादसंयमः पादताडना गम्यदेशगमननिवृत्त्या । (३) मनःसंयमः

परद्रव्येष्व् अभिध्यानं मनसानिष्टचिन्तनम् ।

** वितथाभिनिवेशश् च मानसं त्रिविधं स्मृतम् ॥ १७४ ॥**

**[प्।४९] **इति त्रिविधपापनिवृत्तिः । (१) ऽविद्याऽ तीर्थमहिमज्ञानम् । यत् तु—

** विद्या सच्छास्त्रज्ञानम् ॥ १७५ ॥**

(१) इति स्मृतिदर्पणे, तन् न, प्रकृत्यानुपयोगात् । (२) ऽतपःऽ उपवासैकभक्तादि । (३) ऽकीर्तिःऽ सच्चरिततया प्रसिद्धिस् तेनाभिशस्तता पराक्रियते । (४) प्रतिग्रहव्यावृत्तिर् यात्रोपक्रमानन्तरम् । (५) यत् तु वचनं—

तावद् अस्य वृथा तीर्थं यावत् तद्धनम् अश्नुत ॥ १७६ ॥

इति, (१) “तद् यस्मिंस् तीर्थयात्राप्रयोगे प्रतिग्रहः कृतः तत्प्रयोगस्य विफलता, (२) प्रतिग्रहनिवृत्तिर् उपाङ्गाभावान् न प्रयोगान्तरस्येत्य् एतत् परम्” इति कश्चित् । (३) “यात्रारम्भात् प्राग् अपि दुःप्रतिग्रहार्जितधनविषयम्” इति तु युक्तम् । (४) इयञ् च प्रतिग्रहनिवृत्तिः प्रतिग्रहमन्तरा निर्वहच्छरीरधारणकर्तृविषया । (५) यतिब्रह्मचार्यादीनां तु भिक्षावस्त्रादिप्रतिग्रहमन्तरा शरीरधारणासम्भवान् न तद्विषया । (६) तेषां सङ्ग्रहस्य निषेधात् तत्प्रतिग्रहं विना यात्राया अनिर्वाहाद् आवश्यकत्वात् तस्य । (७) ऽयेन केनचित् सन्तुष्टःऽ मिष्टभक्ष्यादाव् अलोलुपः । (८) ऽअकल्ककःऽ निर्दम्भः । (९) ऽनिरारम्भःऽ क्रय-विक्रयार्थार्जनादिव्यापारशून्यः । (१०) ऽलघ्वाहारोऽ ऽबहुभुक् । (११) ऽजितेन्द्रियःऽ एकादशेन्द्रियाणां स्वषियासक्तिशून्यः । (१२) अविहितासक्तिः सङ्गस् तच्छून्यः । (१३) ऽदृढव्रतःऽ अङ्गीकृतोपवासादिव्रतक्षतिरहितः । (१४) निर्वाह्यम् एव तीर्थयात्रायां व्रतं ग्राह्यम् इति भावः । (१५) सर्वभूतहिते रतः ऽआत्मोपमो भूतेषुऽ ।

तथा—

अश्रद्दधानः पापात्मा नास्तिको ऽच्छिन्नसंशयः ।

** हेतुनिष्ठष् च पञ्चैते न तीर्थफलभागिनः ॥ १७७ ॥**

काख् ६। ५४

(१) ऽपापात्माऽ बहुपापवन् । (२) तस्य हि पापक्षय एव यात्रया, न तु तीर्थफलं स्वर्गादि,

नृणां पापकृतां तीर्थं पापप्रशमनं भवेत् ।

** यथोक्तफलदं तीर्थं भवेच् छुद्धात्मनां नृणाम् ॥ १७८ ॥ **(= १०३, १२७)

**[प्।५०] **इति काशीखण्डोक्तेः ।

** “यस्य धर्मध्वजो नित्यं सुराध्वजो इवोच्छ्रितः ।**

** प्रच्छन्नानि च पापानि बैडालं नाम तद् व्रतम् ॥ १७९ ॥**

मनु ४। १९५

(१) इति मनूक्तो बैडालव्रतिकः पापात्मे”ति कश्चित् । (२) ऽनास्तिकःऽ पाखण्डः । (३) ऽअछिन्नसंशयःऽ सर्वत्र निश्चयरहितः । (४) फलोपायेतिकर्तव्यार्थनिश्चयशून्य इत्य् अन्ये,

नायं लोको ऽस्ति न परो न सुखं संशयात्मन ॥ १८० ॥

म्भ् ६। २७। ४०च्-द्

इति गीतोक्तेः (१) ऽहेतुनिष्ठोऽ हैतुकः, कुहेतुभि धर्मशास्त्रार्थोपप्लावकः ।

प्रभासखण्डे—

येनैकादशसङ्ख्यानि नियतानीन्द्रियाणि वै ।

** स तीर्थफलम् आप्नोति नरो ऽन्यः पापभाग् भवेत् ॥ १८१ ॥**

प्रख् १। २८। ७२

(१) अत्र ब्रह्मचर्यरूप इन्द्रियनियमः ऋतुकालं विना,

** तीर्थानि गच्छता नित्यम् अनृतो ब्रह्मचारिणे ॥ १८२ ॥**

ति स्मृतेः ।

तथा—

** चित्तम् अन्तर्गतं दुष्टं तीर्थस्नानैर् न शुध्यति ।**

** शतशो जलधौतं तु सुराभाण्डम् इवाशुचि ॥ १८३ ॥**

ब्र्पु (व्) २३। ४ (= ६९)

ब्रह्मपुराणे—

** सर्वेण गाङ्गेन जलेन संयङ् नित्याप्लुतो यो ऽप्य् अथ भावदुष्टः ।**

** आजन्मनः स्नानपरो ऽपि नित्यं न शुध्यतीत्य् एव वयं वदामः ॥**

[प्।५१] गङ्गादितीर्थेषु वसन्ति मत्स्या देवालये पक्षिसङ्घाश् च राजन् ।

भावोज्झितास् ते न फलं लभन्ते तीर्थाच् च देवायतनाच् च तस्मात् ॥

**भावं ततो हृत्कमले निधाय तीर्थानि सेवेत समाहितात्मा ॥ १८४ ॥**

अन्यत्रापि—

मन्त्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ ।

** यादृशी भावना यस्य सिद्धिर् भवति तादृशी ॥ १८५ ॥**

स्क्पु रेवाखण्ड २२७। २०

(१) “तेन भक्तिभावौ मनसि निधाय तीर्थं कुर्याद्” इति भावः ।

(२) एते च हस्तसंयमादयो नियमास् तीर्थयात्रातीर्थस्नानादिसकलकर्माङ्गभूताः ऽस तीर्थफलम् अश्नुतऽ इति सामान्योक्तेः ।

कूर्मपुराण—

तीर्थयात्रां प्रकुर्वन्ति दम्भेन कपटेन च ।

** तीर्थे मृता न सिध्यन्ति ते नरा वरवर्णिनि ॥ १८६ ॥**

भारते—

** भावितैः करणैः पूर्वमास्तिक्याच् छ्रुतिदर्शनात् ।**

** प्राप्यन्ते तानि तीर्थानि सद्भिः शिष्टार्थदर्शिभिः ॥ १८७ ॥**

म्भ् ३। ८३। ९१

तथा—

** सम्प्रस्थितस् तीर्थयात्रां ब्राह्मणान् अवमन्यते ।**

** नासौ प्रतिनिवर्तेत तदन्तं तस्य जीवितम् ॥ १८८ ॥**

तथा—

तीर्थे गच्छन् चरेत् सन्ध्यास् तिस्र एकत्र मानवः ।

** नास्नातो नाशुचिर् गच्छेन् न भुक्त्वा न च सूतकी ॥ १८९ ॥**

(१) ऽतिस्रः सन्ध्या एकत्र चरेद्ऽ इत्य् अनेन रात्रौ कृतमाध्याह्निकेन प्रातश्

**[प्।५२] **चाकृतनित्यक्रियेण न चलितव्यम् इत्य् उक्तं भवति । (२) ऽनास्नातऽ इति शक्तः सन् स्नात्वैव गच्छेद् इत्यर्थः । (३) ऽअशुचिर्ऽ मूत्रं पुरीषं वा कृत्वा ऽकृतशौचः । (४) चण्डालोदक्यादिस्पर्शे स्नानाचमनादिनिमित्ते सत्य् अकृतस्नानाचमनादिश् च ।

यत् तु षट्त्रिंशन्मते—

देवयात्राविवाहेषु यज्ञेषु प्रकृतेषु च ।

** उत्सवेषु च सर्वेषु स्पृष्टास्पृष्टिर् न दुष्यती– ॥ १९० ॥**

ति, बृहस्पतिश् च—

तीर्थे विवाहे यात्रायां सङ्ग्रामे देशविप्लवे ।

** नगरग्रामदाहे च स्पृष्टास्पृष्टिर् न दुष्यती– ॥ १९१ ॥ ति,**

बृह् (सं) २७

**एतद् यत्राहम् अनेन स्पृष्ट इति प्रत्यक्षज्ञानं नास्ति तद्विषयं, **


**तन्मात्रापवादे वचनचारितार्थ्याद् ॥ १९२ ॥**


<p style="text-align: right">

म्प् प्।२६१

इति मदनपारिजातकारः । (१) अन्ये तु “अनिवार्यस्पर्शे देवपूजायात्रादिमात्रकार्यविषये दोषाभावः, भोजनादौ तु स्नानव्यतिरेकेण नैव शुद्धते” त्य् आहुः ।

(२) ऽन च सूतकीऽति नाशौचवान् इत्यर्थः । यत् तु—

प्रारब्धे सूतकं नास्ती– ॥ १९३ ॥

ति, (१) तत्परिगणितव्रतादिमात्रविषयं,

** व्रतयज्ञविवाहेषु श्राद्धे होमे ऽर्चने जपे ।**

** प्रारब्धे सूतकं न स्याद् अनारब्धे तु सूतकम् ॥ १९४ ॥**

इति विष्णुस्मरणात् । (१) अन्यथा पूर्वार्धवैय्यर्थ्यापत्तेः । अत एव

प्रारम्भो वरणं यज्ञे सङ्कल्पो व्रतसत् त्रयोः ।

** नान्दीमुखं विवाहादौ श्राद्धे पाकपरिक्रिये– ॥ १९५ ॥**

लघ्वाश्वलायनस्मृति १५। ७४

(१) ति तावन् मात्रविषय एवारम्भो विष्णुनोक्तो ऽग्रिमवाक्ये । (२) अन्ये तु “यत्र नैरन्तर्येणानुष्ठानं बोधितं मासोपवासादौ तद्विषयं इदं भवतु । (३) न च

**[प्।५३] **तीर्थयात्रायां नैरन्तर्येणानुष्ठानं बोध्यते । (४) तस्मात् प्रारब्धे सूतकाभावो नैतद् विषयः । (५) अत एव सहस्रभोजनादौ सूतकं भवत्य् एवे”त्य् आहुः । (६) उभयथापि यात्रामध्ये सूतके सति आशौचकालं तत्रैव परिकलय्य शुद्धौ सत्यां गच्छेद् इति सिद्धम् । यत् तु—

विवाहदुर्गयज्ञेषु यात्रायां तीर्थकर्मणि ।

** न तत्र सूतकं तद्वत् कर्मयज्ञादि कारयेद् ॥ १९६ ॥ **(= ३१५, ३८५)

(१) इति पैठीनसिवचनं तन्मार्गवैषम्यादिना गत्यन्तराभावे सति तीर्थयात्रायाम् आशौचं नास्तीत्य् एवम्परम् ।

(२) अनयैव दिशा रजस्वला स्त्री तत्रैव चत्वारि दिनान्य् अतिवाह्य पञ्चमे ऽहनि व्रजेत्,

दैवकर्मणि पित्र्ये च पञ्चमे ऽहनि शुध्यती– ॥ १९७ ॥

ति वचनात् । (१) यात्रायाश् च दैवकर्मत्वात् ।

(२) एवं नियमेन गच्छतो यद्यन्तरा तीर्थान्तरम् आपतति तदा तत्र स्नानश्राद्धाद्यवश्यं कार्यं ऽअर्धं तीर्थफलं तस्य यः प्रसङ्गेन गच्छतीऽति [१०७] पूर्वम् एवोक्तत्वात् । (३) तीर्थप्राप्तिरूपनिमित्ते सति नैमित्तिकस्नानाद्यकरणे प्रत्यवायप्रसङ्गाच् च । (४) “उपवासक्षौरे तूद्देश्यतीर्थ एवे”ति केचित् । (५) एवं तीर्थयात्रायै चलितो यदि दैवात् परावर्तते तदा विशेषो गरुडपुराणे—

तीर्थं चलित्वा यः को ऽपि पुनर् आयाति वै गृहे ।

** अनुज्ञातः शुभैर् विप्रैः प्रायश्चित्तं समाचरेत् ॥ १९८ ॥**

गपु २। २६। २२

(१) सङ्कल्पबाधनिमित्तं प्रायश्चित्तं ब्राह्मणानुज्ञया ग्राह्यम् इत्यर्थः ।

(२) तदा तु तीर्थं प्रति चलितस् तीर्थम् अप्राप्यैव मृतस् तत्र विशेषो गरुडपुराणे—

यस् तीर्थसम्मुखो भूत्वा व्रजन्न् अनशने कृते ।

** चेन् म्रियेद् अन्तराले तु ऋषीणां मण्डलं व्रजेत् ॥ १९९ ॥**

गपु २। २६। १४

(१) ऽअनशनेऽ मासोपवासादिरूपोपवासव्रते च कृत इति चकारो ऽभ्याहार्यः ।

**[प्।५४] **(२) विधस्याप्य् अन्तराले मृतस्य ऋषिलोकप्राप्तिर् भवतीत्यर्थः ।

(३) यदा तु पाश्चात्यानां गयायात्रायां पौरस्त्यानाञ् च काश्यादियात्रायां मार्गे कर्मनाशानाम नदी पतति तदा तज्जलस्पर्शो यथा न भवति तथा केनचिद् उपायेन सन्तरणं कार्यं,

कर्मनाशाजलस्पर्शात् करतोयाविलङ्घनात् ।

** गण्डकीबाहुतरणात् पुनः संस्कारम् अर्हती– ॥ २०० ॥**

ति वचनात् । (१) प्राच्यास् तु “ ऽकरतोयाजलस्पर्शात् कर्मनाशाविलङ्घनाद्ऽ इति पाठं पठित्वा गङ्गासङ्गममार्गेण नौकया तदुत्तरमार्गेण वा गन्तव्यम्” इत्य् आहुः । (२) तन् न, कर्मनाशाजलस्पर्शस्यापि तैर् अनिष्टत्वाङ्गीकारात् तज्जलस्पर्शनिषेधकस्याश्रुतस्यापि वचनान्तरस्य कल्पनापातात्

करतोयां कुरङ्गञ् च त्रिरात्रोपोषितो नरः ।

** अश्वमेधम् अवाप्नोति विगाह्य प्रयतः शुचिर्– ॥ २०१ ॥**

म्भ् १३। २६। ११

इति भारते दानधर्मेषु,

करतोयां समासाद्य त्रिरात्रोपोषितो नरः ।

** अश्वमेधम् अवाप्नोति स्वर्गलोकञ् च गच्छती– ॥ २०२ ॥**

म्भ् ३। ८३। ३

ति आरण्यकपर्वणि च करतोयास्नानश्रवणविरोधाच् च,

करतोये सदानीरे सरिच्छ्रेष्ठे ऽतिविश्रुते ।

** आप्लावयसि पापानां पापं हरकरोद् भवे ॥ २०३ ॥**

(१) इति स्मृतिदर्पणोदाहृतकरतोयास्नानमन्त्रविरोधाच् च । (२) तस्माद् अस्मयुक्त एव पाठः ।

(३) एवम् अन्ये ऽपि शिष्टाचारप्राप्ता यात्राधर्मा ज्ञेयाः ।

इति यात्रानियमाः ।

[प्।५५] अथ तीर्थप्राप्तिर्दिनकृत्यम्

(४) तत्र यदि यानारूढः सोपानत्को वा गच्छेत् तदा तीर्थप्राप्तिदिने यावान् मार्गः पादचारेण गन्तुं शक्यस् तावति मार्गे यानोपानहादि परित्यज्य पादचारेण गत्वा तीर्थे दृष्टिपथावतीर्णे साष्टाङ्गं प्रणम्य शिरोवगुण्ठनशस्त्रमाल्यकञ्चुकादि परित्यज्य तीर्थं गच्छेत् । तद् उक्तं—

यानानि तु परित्यज्य भाव्यं पादचरैर् नरैः ।

** लुठित्वा लोठनीं तत्र कृत्वा कार्पटिकाकृतिम् ॥ २०४ ॥**

प्रख् १। २८। ५७च्-५८ब्

(१) ऽलोठनीं लुठित्वेऽति साष्टाङ्गं प्रणम्य । (२) अष्टाङ्गप्रणामस् तु—

पद्भ्यां कराभ्यां जानुभ्यां शिरसा चोरसा तथा ।

** मनसा वचसा दृष्ट्या प्रणामो ऽष्टाङ्ग उच्यते ॥ २०५ ॥**

(१) ऽकृत्वा कार्पटिकाकृतिम्ऽ इति गन्धमाल्यशस्त्रकञ्चुकादिपरिहार उक्तः । (२) यद् वा यदि यात्राप्रक्रमे कार्पटिकाकृतिर् न कृता तदा प्रवेशदिने कार्येत्यर्थः ।

(३) ततस् तीर्थे प्राप्ते पुष्पाक्षतफलादियुक्तम् अञ्जलिम् “अमुक्ततीर्थाय नमः” इति दद्यात् । (४) यथाशक्ति फलवस्त्रहिरण्यादि चोपढौकनिकं स्थापयेद् इत्य् अपि शिष्टाचारः ।

तदनन्तरं—

प्रथमं चालभेत् तीर्थं प्रणवेन जलं शुचि ।

** अवगाह्य ततः स्नायाद् यथावन् मन्त्रयोगतः ॥ २०६ ॥**

प्रख् १। २८। १२३

(१) प्रणवेन तीर्थं स्पृष्ट्वा ततः शुचि जलम् अवगाहेत् सचैलं स्नायाद् इत्यर्थः, काशीखण्डे शिवशर्मोपाख्याने—

[प्।५६] आगत्य दृष्ट्वा मणिकर्णिकायां

** उद्ग्वहं स्वर्गतरङ्गिणीं सः ।**

** सचैलम् आप्लुत्य जले ऽमल ॥ २०७ ॥**

काख् ७। ७२अब्, ७३अ

(१) इति लिङ्गात् । (२) ततो ऽमन्त्रयोगतोऽमन्त्रम् उच्चार्य ऽयथावद्ऽ विध्युक्तमार्गेण स्नायात् । मन्त्रश् च प्रभासखण्ड्ē—

ॐ नमो देवदेवाय शितिकण्ठाय दण्डिने ।

** रुद्राय चापहस्ताय चक्रिणे वेधसे नमः ॥**

** सरस्वती च सावित्री वेदमाता गरीयसी ।**

** सन्निधात्री भवत्व् अत्र तीर्थपापप्रणाशिनी ॥**

** सर्वेषाम् एव तीर्थानां मन्त्र एष उदाहृतः ।**

** इत्य् उच्चार्य नमस्कृत्वा स्नानं कुर्याद् यथाविधि ॥ २०८ ॥**

प्रख् १। २८। १२४-१२६ब्

(१) अत्र ऽइत्य् उच्चार्य नमस्कृत्वेऽत्य् उक्तेर् अयं मन्त्रो न स्नाने करणं किन्तु प्रार्थनमात्रे । (२) स्नानकरणत्वे च मन्त्रलिङ्गबोधो ऽपि स्यात् । यद्वायं मन्त्रः—

सागरस्वननिर्घोष दण्डहस्तासुरान्तक ।

** जगत्स्रष्टर् जगन्मर्दिन् नमामि त्वां सुरेश्वर ॥**

** तीक्ष्णदंष्ट्र महाकाय कल्पान्तदहनोपम ।**

** भैरवाय नमस्तुभ्यम् अनुज्ञां दातुम् अर्हसि ॥**

** इमं मन्त्रं समुच्चार्य तीर्थे स्नानं समाचरेत् ।**

** अन्यथा तत्फलस्यार्धं तीर्थेशो हरति ध्रुवम् ॥ २०९ ॥**

(१) अन्योश् च मन्त्रयोः प्रार्थनाख्यकार्यैकत्वाद् विकल्पः ।

(२) इदञ् च यथाविधि स्नानं वपनानन्तरं कार्य,

[प्।५७] पूर्वम् आवाहनं तीर्थे मुण्डनं तदनन्तरम् ।

** ततः स्नानादिकं कुर्यात् पश्चाच् छ्राद्धं समाचरेद् ॥ २१० ॥**

इति वचनात् ।

यत् तु—

**गत्वा स्नानं प्रकुर्वीत वपनं तदनन्तरम् ॥ २११ ॥ **(= २८२)

(१) इति वचनं, तत् सचैलस्नानविषयम् ।

[प्।५८] अथ तीर्थोपवासः

(२) तत्र ऽस्नानं कुर्याद् यथाविधीत्य् [२०८] एतदनन्तरं वचः

उपवासं ततः कुर्यात् तस्मिन्न् अहनि सुव्रतः ।

** तीर्थोपवासाद् देवेशि अधिकं नास्ति किञ्चन ॥**

** पापानां पापशमनः सताम् ईप्सितकारकः ।**

** उपवासो विनिर्दिष्टो विशेषाद् देवताश्रये ॥**

** तीर्थोपवासं कुर्वीत तस्मात् तत्र वरानने ।**

** व्रती च तीर्थयायी च विधवा च विशेषतः ॥**

** परान्नभोजने देवि यस्यान्नं तस्य तत् फलम् ॥ २१२ ॥**

प्रख् १। २८। १२६च्-द्, ६४-६५ब्, ७८च्-७९

काशीखण्डे—

** तीर्थोपवासः कर्तव्यः शिरसो मुण्डनं तथा ॥ २१३ ॥**

काख् ६। ६५अ-ब् (= २२९, २४९)

नारदीये—

तीर्थम् आसाद्य कुर्वीत नरः शुचिर् उपोषणम् ।

** उपवासविशुद्धात्मा कर्तव्यं कर्तुम् अर्हसि ॥ २१४ ॥**

अत्र काशीखण्डे—

यद् अह्नि तीर्थप्राप्तिः स्यात् तद् अह्नः पूर्ववासरे ।

** उपवासः प्रकर्तव्यः प्राप्ते ऽह्नि श्राद्धदो भवेद् ॥ २१५ ॥**

काख् ६। ६६

(१) इति तीर्थप्राप्तेः पूर्वदिने उपवासो विहितः । (२) ततश् च ऽउपवासं ततः कुर्यात् तस्मिन्न् अहनि सुव्रत इति [२१२] तीर्थप्राप्तिदिनेन सहास्य विकल्पः । (३) न च काशीखण्डस्य काशीमात्रविषयता, सकलतीर्थसाधारणविधिम् उपक्रम्योक्तेः ।

**[प्।५९] **(४) अत्र कश्चित्; “पञ्चदशरात्रे तन्त्रेण प्रयोज्यायां सुब्रह्मण्यायां तद्गताग्निष्टुत्सञ्ज्ञकप्रथमाहे एकाहाग्निष्टुतो नामातिदेशेनोपसत्कालीनसुब्रह्मण्याह्वानार्थम् आग्नेयी प्राप्ता, द्वितीयादिचतुर्दशस्वहःसु स्वप्रकृत्यनुसारेण प्राप्तयैन्द्र्या बहूनाम् अह्नाम् अनुग्रहाय बाध्यते यथा, तथा प्रस्तुते ऽपि प्राप्तिदिनोपवासविधायकबहुवाक्यानुरोधात् पूर्वदिनोपवासविधायकैककाशीखण्डवाक्यबाधात् तुल्यबलत्वाभावात् पूर्वदिनोपवासः पापक्षयद्वाराशरीरशुद्ध्यर्थो ग्रहणाद्युपवासवत् । (५) शुद्धान्तःकरणस्यैव यथोक्ततीर्थफलसम्भवात् । (६) न तु तीर्थप्राप्तिनिमित्त” इत्य् आह ।

(७) तन् न । यदि पूर्वदिनोपवास आवश्यकम् अङ्गम् तदा तीर्थप्राप्तिदिनोपवासस्यापि नैमित्तिकत्वेनावश्यकत्वाद् उपवासद्वयप्रसक्तौ सकलशिष्टाचारविरोधः । (८) अथानावश्यकस् तदा नित्यवच्छ्रवणविरोधः । (९) किञ् च, काम्यत्वे एतस्य फलान्तरादृष्टान्तरकल्पनाप्रसङ्गः । (१०) किञ् च; प्राप्तिपूर्वदिनरूपकालविशिष्टोपवासान्तरविधौ गौरवम् । (११) अस्मत्पक्षे तु प्राप्त एवोपवासे वैकल्पिकपूर्वदिनरूपकालमात्रविधानाल् लाघवम्, अदृष्टान्तरकल्पना च नास्ति ।

(१२) न चात्रास्ति प्राप्तिदिनविशिष्टस्यैवोपवासस्य प्राप्तिर् येनोत्पत्तिशिष्टगुणावरुद्धे उत्पन्नशिष्टो गुणो वाजिनवन् न निविशेत् । (१३) ऽमुण्डनं चोपवासञ् चेऽत्य् एवमादिवचनैः [२३१] स्वरूपमात्रविधौ तद्दिनपूर्वदिनरूपकालद्वयस्य वाक्यान्तरैर् उत्पन्नशिष्टत्वेन तुल्यबलत्वाद् अग्निहोत्रे पयोदध्यादिवद् विकल्पोपपत्तेः ।

(१४) न च “प्राप्तिदिनकर्तव्यमुण्डनानन्तरोक्त्या उपवासस्य तद्दिनकर्तव्यम् एवोत्पत्तिवाक्ये ऽवगम्यत” इति वाच्यम् । (१५) पाठमात्रकल्पत्वात् । (१६) काशीखण्डवाक्यस्थपूर्वदिनशब्दरूपश्रुतिविरोधे च तृतीयस्थानपठिते ऽप्य् आश्विने ऽआश्विनो दशमो गृह्यतऽ इति दशमश्रुतिविरोध इव पाञ्चमिकन्यायेन पाठस्य क्रमाकल्पकत्वात् । (१७) एवञ् च पूर्वदिनोपवासवाक्यस्योक्तयुक्तिभिर् आनर्थक्यप्रसङ्गाच् च ऽआनर्थक्यप्रतिहतानां विपरीतं बलाबलम्ऽ इति न्यायेन बहुभिर् अपि तद्दिनोपवासवाक्यैर् बाधनापत्तिः (१८) पञ्चदशरात्रे हि बह्वनुरोधाद् आग्नेयी चोदकेन यद्यपि न प्राप्यते, तथापि तदतिरिक्ताङ्गप्रापणेन चरितार्थ्यं चोदकस्य । (१९) इह तु नित्यवच् छ्रुतवाक्यानर्थक्यप्रसङ्ग एव स्याद् इति वैषम्यम् ।

**[प्।६०] **(२०) किञ् च; काशीखण्डे ऽतीर्थोपवासः कर्तव्यः शिरसो मुण्डनं तथेऽति [२१३] पूर्वम् उपवासम् अभिधायानन्तरवाक्ये ऽयद् अह्नीऽति [२१५] अस्मिन् पूर्वदिनरूपकालविधानाद् उपक्रमानुरोधेनापि पूर्वदिनोपवासपक्षं एवाभिप्रेतः प्रतीयते । (२१) एतेन “तीर्थोपवासपदाश्रवणान् न पूर्वदिनवाक्यं तीर्थोपवासपरं, किन्तु शरीरशुद्ध्यर्थोपवासविधायकम्” इति अपाकृतं भवति, (२२) उपक्रमवाक्ये तीर्थोपवासपदश्रवणाद् एतस्यापि तत्परत्वावगतेः ।

(२३) यदि तु मीमांसकम् मन्यः कश्चिद् एवं वदेत्; “मुण्डनोत्तरोपदिष्टोपवासस्य प्राग्दिनापकर्षे मुण्डनस्याप्य् अपकर्षः स्यात्, ऽतिष्ठन्तं पशुं प्रयजन्तीऽतिश्रुतप्रयाजापकर्शे प्रयाजप्राचीनाङ्गापकर्षवद्” इति, (२४) तद् अपि न । तत्र हि प्रकृतौ निर्ज्ञातक्रमाणाम् अङ्गानां चोदकेन पशौ प्राप्तानां पश्चात्तनम्प्रयाजापकर्षे निर्ज्ञातक्रमानुरोधात् पूर्वेषाम् अप्य् अपकर्षः । (२५) इह तूत्पत्तिवाक्ये स्वरूपमात्रज्ञाने सति क्रमापेक्षायां प्राग्दिनप्राप्तिदिनबोधकवाक्यानां युगपद् एव प्रवृत्तेर् निर्ज्ञातक्रमत्वाभावस्योक्तत्वात् दर्शे ऽपूर्वेद्युर् अमावास्यायां वेदिं करोतीऽति पूर्वदिनविहितवेदेः पुरोडाशाभिवासनान्तपदार्थानपकर्षकत्ववद् उपवासस्यपि न मुण्डनापकर्षकता स्यात् । (२६) एतेन “उपवासस्य पूर्वदिनकर्तव्यत्वे मुण्डनस्यापि तद्दिनकर्तव्यत्वापत्तिर् ऽइत्य् अपास्तम् । एवञ् च—

आदौ कृत्वा तु वपनं सोमेश्वरसमीपत ॥ २१६ ॥

प्रख् १। २९। ४अ-ब् (= २५०)

इति प्रभासखण्डवचः,

उपवासं ततः कुर्यात् तस्मिन्न् अहनी– ॥ २१७ ॥

प्रख् १। २८। १२६च्-द् (= २१२)

(१) त्यादीनि च प्राप्तिदिनोपवासवचांसि पाक्षिकत्वेन सर्वाण्य् उपपन्नानीति न काचिद् अनुपपत्तिः ।

(२) यच् च काशीखण्डे शिवशर्मोपाख्याने ऽततो मायापुरीं प्राप्तऽ इत्य् उपक्रम्य—

** तीर्थोपवासं कृत्वा स निशि जागरणं तथा ।**

** प्रातः स्नात्वा च गङ्गायां तर्प्यान् सन्तर्प्य यत्नतः ॥**

[प्।६१] यावत् स पारणं कर्तुम् इयेष द्विजसत्तमः ।

** तावच् छीतज्वराक्रान्तश् चकम्पे ऽत्य् अर्थम् आतुरः ॥ २१८ ॥**

काख् ७। ११७-११८

(१) इति प्राप्तिदिनोपवास वचनं; तथा तत्रैव कलावत्युपाख्याने माल्यवतो राज्ञः प्राप्तिदिने जागराद्य् उक्त्वा ऽअथ प्रातः समुत्थायेऽत्य् अभिधाय

पारणं कृतवांस् तत ॥ २१९ ॥

काख् ३४। ११३ब्

इति वचनं; (१) ब्रह्मवैवर्ते च कामकलोपाख्याने

आगत्य मणिकर्ण्यां तु स्नात्वा दत्त्वा धनं बहु ।

** वपनं कारयित्वा तु स्थिता शुद्धा पयोव्रते– ॥ २२० ॥ **(= २५१)

ति वचनम्, (१) तत्सर्वं उपाख्यानरूपत्वात् पक्षे उपपन्नत्वाच् च न पूर्वदिनोपवासविधिं बाधते ।

(२) यत् तु “श्राद्धवद् उपवासस्यापि तीर्थप्राप्तिनिमित्तकस्य तद्दिन एव कर्तव्यतोचिता न तु पूर्वे ऽह्नि निमित्तस्याजातत्वात् । (३) अन्यथा ऽसति निमित्ते नैमित्तिकम्ऽ इति न्यायविरोधाद्” इति, (४) तत् तु मीमांसानतिदर्शन निबन्धनम् । (५) लोके भविष्यन्त्या अपि वृष्टेर् गृहकरणे, वेदे च भविष्यतो ऽपि रथन्तरसामत्वादेर् ऐन्द्रवायव्याग्रतादौ निमित्तत्वदर्शनात् ।

अत एवोक्तं भाष्यकृता—

**अथ यद् उक्तं ऽपूर्वेण निमित्तेन भवितव्यम् उत्तरेण नैमित्तिकेनेऽति नैतन्नियोगतः । भवति हि भविष्यद् अपि निमित्तं यथा ऽवर्षिष्यतीऽति कृषिगृहकर्मानुष्ठानम् ॥ २२१ ॥**

शब् २। ३। १। २, प्।५७७

इति । भट्टपादा अप्य् आहुः—

**भूतभविष्यवर्तमानां चानियमेन लोके वेदे च निमित्तत्वं दृष्टिम् इति रथन्तरभविष्यत्वम् अचोद्यम् ॥ २२२ ॥**

त्व् २। ३। १। २, प्।५७७

इति । एतद् वार्तिकन्यायसुधाप्य् अत्रार्थे ऽनुसन्धेया;

**यदि तु भूतेनैव निमित्तेन भवितव्यम् इत्य् आग्रहस् तथापि **

ऽभविष्यतीऽत्य् अवधारितत्वेन भूतत्वान् निमित्तता सम्भवत्य् एव ॥ २२३ ॥

न्स् २। ३। १। २, प्।८९६

**[प्।६२] **तदप्य् आहुर् भट्टपादाः—

यद् एकान्तेनावधारितं तन् निष्पन्नम् एवे– ॥ २२४ ॥

त्व् २। ३। १। २, प्।५७७

(१) ति तस्मात् पूर्वदिनोपवासो न केवलपापक्षयार्थः किन्तु तीर्थप्राप्तिनिमित्तक एव (२) तेन तीर्थोपवासे प्राप्तिदिनं तत्पूर्वदिनं वेति कालविकल्पः सिद्धः । (३) तत्राद्ये पक्षे तीर्थश्राद्धशेषस्याघ्राणं कृत्वोपवासः, एकादश्यादिवत् ।

(४) “अयञ् च तीर्थोपवासः फलविशेषार्थ एव न त्व् आवश्यकः,

** तीर्थम् अधिगम्य व्रतोपवासनियमयुक्तस् त्र्यहम् अवगाहमानस् त्रिरात्रम्**

**उषित्वा सर्वपापेभ्यो मुच्यते स्वस्तिमांश् च भवती– ॥ २२५ ॥ **(= ६६८)

(१) ति देवलवचने त्रिरात्रोपवासत्र्यहावगाहनयोः सर्वपापविमोकस्वस्तिमत्त्वफलकत्वाभिधानाद्” इति कल्पतरौ । (२) तन् न, पूर्वोदाहृतनारदीयादिवचनैर् आवश्यकतया विधानात् । (३) देवलवचनं तु तीर्थोपवासपरम् अपि त्व् अतिरिक्तकाम्यत्र्यहोपवासपरम् । (४) तीर्थोपवासविधायकवाक्येषु एकवचनान्तत्वेन श्रवणात् तस्यैकरात्रोपवासत्वात् । (५) काशीखाण्डे शिवशर्मोपाख्याने कलावत्युपाख्याने च तीर्थोपवासे प्रातर् एव पारणश्रवणाद् एकाहसाध्यत्वात् । (६) तस्माद् आवश्यक उपवासः ।

[प्।६३] अथ तीर्थे मुण्डनम्

देवलः

मुण्डनं चोपवासश् च सर्वतीर्थेष्व् अयं विधिः ।

** वर्जयित्वा कुरुक्षेत्रं विशालं विरजं गयाम् ॥ २२६ ॥**

गपु १। ८४। ४ (= २५०)

(१) ऽविरजम्ऽ उत्कलदेशे, यत्र धर्मराजेन गयासुरनाभौ विरजाद्रिः स्थापितः । तद् उक्तं वायवीये—

आक्रान्तं दैत्यजठरं धर्मेण विरजाद्रिणा ।

** नाभिकूपसमीपे तु देवी तु विरजा स्थिते– ॥ २२७ ॥ ति ।**

(१) दक्षिणदेशस्थलोणारक्षेत्रम् अपि विरजम्, आदित्यपुराणे तस्य विरजत्वोक्तेः—

एवं कृते विधाने ऽस्मिन् विरजे विरजो भवेद् ॥ २२८ ॥

इत्यादि ।

(१) क्वचित् तु ऽनैमिषं पुष्करं गयाम्ऽ इति पाठः,

(२) ऽविशालं पुष्करं गयाम्ऽ इति वा ।

अन्ये तु ऽवर्जयित्वा गयां गङ्गाम्ऽ इति पठन्ति । (४) तत्त्वयुक्तं, बहुनिबन्धेष्व् अदर्शनात् गङ्गाक्षौरविधायकवक्ष्यमाणबहुवाक्यविरोधाच् च ।

काशीखाण्डे—

तीर्थोपवासः कर्तव्यः शिरसो मुण्डनं तथा ।

** शिरोगतानि पापानि यान्ति मुण्डनतो यतः ॥ २२९ ॥**

काख् ६। ६५ (= २१३, २४९)

तथा—

उदकं शोणितं दद्यात् पिण्डं दद्याद् अमेध्यवत् ।

** नोपतिष्ठति तत्सर्वं यो विना मुण्डितं शिरः ॥ २३० ॥ **(= २५३)

**[प्।६४] **स्कान्दे—

मुण्डनं चोपवासञ् चे– ॥ २३१ ॥

प्रख् १। २९। १०

ति देवलवद् एव ।

(१) अत्र प्राच्याः “ ऽसर्वाणि तीर्थानि सन्त्य् अस्मिन्न्ऽ इति बहुवृइहिणा सर्वतीर्थशब्दस्य प्रयागमात्रपरत्वात् तत्रैवोपवासवपने” इत्य् आहुः । (२) तद् असत्, एकवचनेन विग्रहे अन्यपदार्थस्य प्रयागस्य प्रकृत्यर्थस्यैकत्वात् प्रातिपदिकार्थबहुत्वाभावात् बहुवचनान् उत्पत्तिप्रसङ्गे ऽसर्वतीर्थेषुऽ इति पदस्यासाधुताप्रसङ्गात् । (३) एवञ् च सति यद् उच्यते “ग्रहैकत्ववद् अविवक्षितं बहुत्वम्” इति तद् गर्भस्रावेणैव गलितं, बहुवचनस्यैवानुत्पत्तौ विवक्षितत्वाविवक्षितत्वचिन्ताया निरवकाशत्वात् । (४) ऽग्रहं सम्मार्ष्टीऽत्य् अत्र हि प्रत्येकं ग्रहेष्व् एकत्वस्य वर्तमानत्वाद् एकवचनान्तस्य साधुतायां सर्वग्रहणार्थम् एकत्वाविवक्षोच्यते । (५) नैवं प्रकृते ऽस्ति ।

(६) अथैतद् दोषपरिहाराय ऽसर्वाणि तीर्थानि सन्ति येष्व्ऽ इति बहुवचनान्तेन विग्रहः क्रियते । (७) तथापि प्रयागलक्षणानां सर्वतीर्थशब्दप्रतिपाद्यानाम् अनेकेषाम् अभावाद् बहुवचनानुत्पत्ताव् असाधुता तदवस्था ।

(८) अथ “देवप्रयागादीनि बहूनि प्रयागानि सन्ती”त्य् उच्येत । (९) तथापि तेषु सर्वतीर्थसत्तारूपावयवार्थाभावाद् बहुव्रीह्यर्थबहुत्वाभावाद् बहुवचनानुत्पत्ती सैव भवेत् ।

यदि तु

**सर्वतीर्थानि देवाश् च वसन्त्य् अत्राविमुक्तके ॥ २३२ ॥ **(= २३७)

**सर्वतीर्थमयी गङ्गे– ॥ २३३ ॥ **(= २४४)

(१) त्यादिवचनालोचनेन सर्वतीर्थानाम् अनेकेषां सत्त्वात् बहुवचनोत्पत्तिम् उपपाद्य ग्रहैकत्ववद् बहुत्वाविवक्षयाभिप्रेतसिद्धिः क्रियेत, (२) तर्हि सर्वतीर्थशब्दार्थानां बहूनां सत्त्वात् क्वैकत्र सर्वतीर्थे वपनादीति सन्देह एव स्यात् । (३) न तु सितासितसम्भेदाख्यप्रयागपरत्वनिर्णयः प्रकरणादेर् निर्णायकस् यात्राभावाद् इति वक्ष्यमाणत्वात् ।

**[प्।६५] **अथ

प्रयागे वपनं कुर्याद् वाराणस्यां तनुं त्यजेद् ।

(१) इत्यादीनिर्णायकवचनान्तरैः सर्वतीर्थशब्दस्य प्रयागमात्रपरता ।

(२) तन् न, देवप्रयागादीनां बहूनां प्रयागाणां सत्त्वाद् विवक्षितविशेषनिर्णयात् ।

(३) “निरुपपदः प्रयागशब्दस् तेषु नास्तीति एतेन निर्णय” इति चेत्, (४) न । तदा हि ऽसर्वतीर्थेष्व्ऽ इति विधेश् चतुर्धाकरणवद् अयम् उपसंहारः स्यात्, न च तत् सम्भवति । (५) तत्र हि ऽपुरोडाशं चतुर्धा करोतीऽति सामान्यविधेः पुरोडाशमात्रविषयत्वेनास्पष्टत्वाद् ऽआग्नेयं चतुर्धा करोतीऽति विशेषविषयतयोपसंहारो युक्तः । (६) इह तु ऽसर्वतीर्थेष्व् अयं विधिर्ऽ इति सामान्यविधेः सर्वशब्दबहुवचनबलाद् अशेषतीर्थविषयतया स्पष्टत्वाद् उपसंहारासम्भवात् । तद् उक्तं—

** सामान्यविधिर् अस्पष्टः संह्रियेत विशेषण ॥ २३५ ॥**

त्व् ३। ४। १४। ४१, प्।९७७

इति (१) सत्य् अपि चोपसंहारत्वे वक्ष्यमाणवाक्यैस् तीर्थान्तरे ऽपि उपसंहारसम्भवाच् च ।

(२) नापि पदवाक्यवत् प्रयागवाक्यस्य सर्वतीर्थवाक्यबाधकता । (३) तत्र हि आहवनीयवाक्यस्य पदवाक्येन विषयविशेषे बाधे ऽपि होमान्तररूपविषयसद्भावाद् अत्यन्तबाधाभावे वैय्यर्थ्यप्रसङ्गस्याभावाद् बाध्यत्वं युक्तम् । (४) इह तु प्रयागवाक्येन सर्वतीर्थवाक्यस्य ब्ēधे विषयान्तराभावाद् व्यर्थतैवापद्येत ।

(५) किञ् च; सामान्यस्य विशेषणबाधो भवति, न च सर्वतीर्थवाक्यस्य सामान्यता, प्रयागविषयत्वस्य त्वयाङ्गीकारेण विशेषविषयत्वात् ।

(६) किञ् च; उपसंहारे बाधे वोच्यमाने सर्वतीर्थवाक्यस्य सामान्यरूपताप्रसङ्गात् । (७) प्रयागमात्रपरत्वं सर्वतीर्थशब्दस्योच्यमानं कथं न विरुध्यते?

(८) यत् तु; “ ऽप्रयागे वपनं कुर्याद्ऽ इत्य् अयं [२३४] नापूर्वविधिः; प्रभासखण्डे ऽआदौ **[प्।६६] **कृत्वा तु वपनं सोमेश्वरसमीपतऽ [२१६] इति प्रभासे वपनं विधाय ऽमुण्डनं चोपवासं चेऽति [२२६] वाक्यस्य तीर्थान्तरेषु मुण्डनविधायकस्य सत्त्वात् । (९) देवलस्मृतौ चानारम्भ्यविधानात् । (१०) नापि नियमविधिः; सर्वतीर्थवाक्येनैव प्राप्तौ अप्राप्तांशाभावेन तत्पूरणाभावात् । (११) नापि परिसङ्ख्या; तदा हि ऽप्रयागे वपनम् एव नान्यद्ऽ इति वा वचनव्यक्तिः, ऽप्रयाग एव वपनम्ऽ इति वा । (१२) नाद्यः स्नानादिनिवृत्तिप्रसङ्गात् (१३) न द्वितीयः प्राप्तबाधादिदोषत्रयापत्तेर्; । (१४) अतो ऽवयुत्यानुवादो ऽयं न विधि” इति कैश्चिद् दूषितम्; (१५) तत् तु विकल्पविभीषिकामात्रम्, अपूर्वविधितासम्भवात् । (१६) न च देवलादिवचनेनैव प्राप्तेर् अपूर्वत्वाभावः । (१७) ग्रन्थभेदे वक्तृभेदे च समानार्थानाम् अपि विधित्वाक्षतेः । (१८) अन्यथा ऽनेकशाखास्थानाम् अग्निहोत्रादिविधीनाम् अनेकस्मृतिस्थानाञ् च सन्ध्यावन्दनादि विधीनाम् अनुवादकताप्रसङ्गात् । (१९) प्रयागवाक्यप्राप्तत्वात् तस्य वानुवादकता तद्वाक्यप्राप्तत्वाद् अस्य वेति विनिगमनाविरहश् च । (२०) किञ् चैवम् अस्यानुवादत्वे वक्ष्यमाणानि तीर्थान्तरमुण्डनवाक्यान्य् अपि अनुवादकानि समानन्यायतया भवेयुः (२१) न च बहूनाम् अनुवादकता न्याय्या । (२२) अनर्थकश् चानुवादः । (२३) प्रत्युत प्रतितीर्थं प्रातिस्विकमुण्डनोपवासविधायकवाक्यप्राप्तार्थस्य समुदायानुवादकता सर्वतीर्थवाक्यस्यैवापद्येतेत्य् अलं स्वयूथ्यविवादेन, प्रकृतम् अनुसरामः ।

(२४) अस्य वचनस्याग्निपुराणवायुपुराणयोर् गयाप्रकरणपाठात् स्कन्दपुराणे च प्रभासप्रकरणपाठात् कैव शङ्का प्रयागपरतायाः? (२५) किञ् च, ऽसर्वाणि तीर्थानि सन्त्य् अत्रेऽति बहुव्रीहौ

दशकोटिसहस्राणि तीर्थानां वै महीपते ।

सान्निध्यं पुष्करे तेषां त्रिसन्ध्यं कुरुनन्दने– ॥ २३६ ॥

म्भ् ३। ८०। ४२

त्य् आरण्यकपर्ववाक्यात् पुष्करस्य,

**सर्वतीर्थानि देवाश् च वसन्त्य् अत्राविमुक्तक ॥ २३७ ॥ **(= २३२)

[प्।६७] (१)** **इति ब्रह्मवैवर्तवचनाच् च काश्या अपि सर्वतीर्थत्वात् तत्रापि प्रसङ्गः ।

(२) एवं तत् तत् तीर्थेषु प्रशंसार्थानि सर्वतीर्थसद्भावप्रतिपादकानि वाक्यानि सन्ति । (३) तानि तु विस्तरभयान् नोच्यन्ते । तथा—

** प्रयागश् चापि तीर्थेन्द्रः सर्वतीर्थार्पितं मलम् ।**

** महाघिनां महाघञ् च हरेत् पाञ्चनदाद् बलात् ॥ २३८ ॥**

काख् २। ५९। १६च्-१७ब्

(१) इत्यादीनि च पञ्चनदप्रकरणादिषु वाक्यानि विरुध्येरन् सर्वतीर्थानां तत्र सत्त्वे ।

(२) अथ “योगम् अनपेक्ष्य प्रयागे रूढः सर्वतीर्थशब्द” उच्यते । (३) तन् न, तत्र प्रमाणाभावात् ।

“एवं कुरुष्व कौन्तेय सर्वतीर्थाबिषेचनम् ।

** यावज् जीवकृतं पापं तत्क्षणाद् एव नश्यती– ॥ २३९ ॥**

मपु १०८। ३३

(१) ति मत्स्यपुराणे प्रयागप्रकरणपठितं वचनं तत्र प्रमाणम्” इति चेत्,

(२) तन् न । मत्स्यपुराणे हि ऽअग्नितीर्थम् इति ख्यातम्ऽ [मपु १०८। २७अ] इत्य् उपक्रम्य बहूनि तीर्थान्य् उक्त्वा

** अन्ये च बहवस् तीर्थाः सर्वपापहराः शुभाः ।**

** तेषु स्नात्वा दिवं यान्ति ये मृतास् ते ऽपुनर्भवाः ॥**

** एवं कुरुष्व कौन्तेय सर्वतीर्थाभिषेचनम् ।**

** यावज् जीवकृतं पापं तत्क्षणाद् एव नश्यती– ॥ २४० ॥**

मपु १०८। ३१, ३३

(१) त्य् अन्तेनाभिधानात् प्रकृतसकलतीर्थपरः सर्वशब्दो गम्यते । (२) तत् कथम् एतद् बलात् सर्वतीर्थशब्दः प्रयागपरः?

किञ् च—

सर्वाणि तीर्थानि वसन्ति तत्र

** यत्राच्युतोदारकथाप्रसङ्ग ॥ २४१ ॥ **इति

[प्।६८] सर्वाणि तीर्थान्य् अपि चाग्निहोत्र-

** तुल्यानि नैवेति वयं वदाम ॥ २४२ ॥ **इति

**सर्वतीर्थेषु यत् पुण्यं सर्वतीर्थेषु यत् फलम् ॥ २४३ ॥ **इति

**सर्वतीथमयी गङ्गे– ॥ २४४ ॥ **(= २३३)

(१) त्यादौ सर्वतीर्थशब्दो ऽनेकतीर्थपरो दृश्यते, न तु प्रयागपरः ।

प्रयागं सर्वतीर्थेभ्यो प्रवदन्त्य् अधिकं विभो ॥ २४५ ॥

म्भ् ३। ८३। ७४च्-द्

(१) इति भारतवाक्यञ् च विरुध्येत प्रयागस्य सर्वतीर्थतायाम् ।

(२) अपि च अग्निपुराणे

माहात्म्यं सर्वतीर्थानां वक्ष्ये यद् भुक्तिमुक्तिदम् ॥ २४६ ॥

अग्पु १०९। १अ-ब्

(१) इत्य् उपक्रम्य गङ्गाकाशीप्रयागादिबहुतीर्थानि बहुभिर् अध्यायैर् अभिधायान्ते ऽमुण्डनञ् चोपवासश् च सर्वतीर्थेष्व् अयं विधिर्ऽ [अग्पु ११५। ७च्-द्] [= २२६] इत्य् उक्तम् । (२) तेन नानातीर्थविषयता न तु प्रयागमात्रपरतेति ।

(३) किञ् चऽ यत्रैकतीर्थपरः सर्वतीर्थशब्दः पुराणेषु दृष्टस् तत्रैकवचनान्त एव प्रयुज्यते, तथा सह्याद्रिखण्डे मातृतीर्थप्रकरणे

सह्याद्रेः परमं तीर्थं मातृतीर्थम् इति स्मृतम् ।

** मातृतीर्थं परं ज्ञेयं सर्वतीर्थं मुनीश्वराः ॥**

** तत्र सर्वाणि तीर्थानि यत्र रामो ऽथ रेणुके– ॥ २४७ ॥ **ति

सर्वतीर्थस्य च स्नानात् सर्वतीर्थे नृणां स्नानम् ।

** सर्वतीर्थात् परं तीर्थं न भूतं न भविष्यती– ॥ २४८ ॥**

त्यादौ । (१) न चात्रैकवचनन्तः प्रयुज्यते ।

(२) अपि च; तेषु तेषु तीर्थेषु मूण्डनविधायकवचांसि पुराणेषूपलभ्यन्त एव । (३) तत्र काशीखण्डे ऽप्रथमं तीर्थराजं त्व्ऽ इत्यादिना [६३] ग्रन्थेन बहूनि तीर्थान्य् उक्त्वा मध्ये च तीर्थयात्राप्रकारम् अभिधाय

[प्।६९] तीर्थोपवासः कर्तव्यः शिरसो मुण्डनं तथा ।

** शिरोगतानि पापानि यान्ति मुण्डनतो यत ॥ २४९ ॥ **(= २१३, २२९)

(१) इति सामान्येनैव सकलतीर्थविषये मुण्डनम् उक्तम् ।

प्रभासखण्दे—

तत्र स्नानं प्रकुर्वीत विगाह्य निधिम् अम्भसाम् ।

** आदौ कृत्वा तु वपनं सोमेश्वरसमीपतः ॥ **(= २१६)

शङ्करं मनसा ध्यायन् केशांस् तत्र परित्यजेत् ।

** तत्र त्यक्त्वाखिलान् केशान् भूयः स्नानं समाचरेत् ॥**

** यत् किञ्चित् कुरुते पापं पुरुषो वृत्तिकर्षितः ।**

** तत् ततः पर्वतसुते सर्वं केशेषु तिष्ठति ॥**

** तस्मात् सर्वप्रयत्नेन केशांस् तत्र परित्यजेत् ।**

** अश्वमेधसहस्राणां सहस्रं यः समाचरेत् ॥**

** नासौ तत् फलम् आप्नोति वपनाद् यच् च लभ्यते ।**

** क्षुरकर्म न शस्तं स्याद् योषितां तु वरानने ॥**

** सभर्तृकाणां तत्रैव विधिं तासां शृणुष्व मे ।**

** सर्वान् केशान् समुद्धृत्य छेदयेद् अङ्गलद्वयम् ॥ २५० ॥**

प्रख् १। २९। ३च्-६ब्, १२, ८-९ब्

(१) इत्य् एतावता प्रभासीयं मुण्डनं विधायान्ते प्रसङ्गात् सर्वतीर्थेषु मुण्डनोपवासौ विहितौ

**मुण्डनञ् चोपवासञ् च सर्वतीर्थेष्व् अयं विधिर् ॥ २५० ॥ **इति

प्रख् १। २९। १० (= २२६)

(२) ब्रह्मवैवर्ते ऽपि कामकलोपाख्याने काश्यां मुण्डनोपवासान्यार्थदर्शनम्;

आगत्य मणिकर्ण्यां तु स्नात्वा दत्त्वा धनं बहु ।

** वपनं कारयित्वा तु स्थिता शुद्धा पयोव्रते– ॥ २५१ ॥ **ति (= २२०)

(१) ऽपयोव्रताऽ जलमात्राहारेत्य् अर्थः ।

**[प्।७०] **अन्यत्रापि—

स्नानादिकं विधायादौ तीर्थे मुण्डनम् आचरेत् ।

** तीर्थोपवासनियमं कृत्वा श्राद्धं समाचरेत् ॥ २५२ ॥**

तथा—

उदकं शोणितं दद्यात् पिण्डं दद्याद् अमेध्यवत् ।

** नोपतिष्ठति तत् सर्वं यो विना मुण्डितं शिरः ॥ २५३ ॥ **(= २३०)

तथा—

मुण्डनञ् चोपवासञ् च गोमत्यां सिंहगे गुरौ ।

** कन्यागते तु कृष्णायां न तु तत् तीरवासिनाम् ॥ २५४ ॥**

तथा गङ्गाविषये ऽपि—

यावन्ति नखलोमानि वायुना प्रेरितानि वै ।

** पतन्ति जाह्नवीतोये नराणां पापकारिणाम् ॥**

** तावद् वर्षसहस्राणि स्वर्गलोके महीयते ॥ २५५ ॥**

तथा—

गङ्गां प्राप्य सरिच् छ्रेष्ठां वपनं यो न कारयेत् ।

** स कोटिकुलसंयुक्त आकल्पं रौरवं व्रजेत् ॥ २५६ ॥**

(१) ऽगङ्गायं भास्करक्षेत्रेऽ इति वा पाठः ।

तथा—

गण्गायां भास्करक्षेत्रे मातापित्रोर् गुरोर् मृते ।

** आधाने सोमपाने च वपनं सप्तसु स्मृतम् ॥ २५७ ॥ **इति

प्रख् १। २९। ११

तथा—

यावन्ति नखलोमानि गङ्गातोये पतन्ति हि ।

** तावद् वर्षसहस्राणि स्वर्गलोके महीयते ॥**

**[प्।७१] **तथा—

**गङ्गां प्राप्य सरिच्छ्रेष्ठां कम्पन्ते पापसञ्चयाः । **

** केशान् आश्रित्य तिष्ठन्तस् तस्मात् तान् परिवापयेत् ॥**

** गङ्गां सम्प्राप्य यो धीमान् मुण्डनं नैव कारयेत् ।**

** क्रियास् तस्याक्रियाः सर्वास् तीर्थद्रोही भवेन् नरः ॥ २५९ ॥**

(१) एवं तत् तत् तीर्थेषु मुण्डनविधौ श्रूयमाणे ऽपि प्रयागाद् अन्यत्र मुण्डनश्रवणं वदतां महत्साहसम् ।

(२) यद् अपि गङ्गामुण्डनविधायकवाक्यानां कल्पतरुकारालेखनेन निर्मूलत्वम् उक्तं, (३) तद् अयुक्तम्, अस्थिक्षेपादिविधिवाक्यानां निर्मूलताप्रसङ्गात् । (४) “कल्पतरुकारादर्शनं निर्मूलतायां मानं न तु तद् अलेखनम्” इति चेत्, (५) तद् अदर्शने वा किं प्रमाणम्? (६) न तावत् तद् अलेखनम् एव, पूर्वदोषापत्तेः; (७) इतरेतराश्रयप्रशङ्गाच् च । (८) न चान्यद् अनिर्वचनात् । (९) सत्य् अपि वा तद् अदर्शने कथं निर्मूलता? (१०) न हि कल्पतरुकारः सर्वज्ञो ऽपर ईश्वर, इत्य् अलम् ।

(११) यद् उच्यते, “ ऽगङ्गायां भास्करक्षेत्रेऽ [२५६.१, २५७] इति वचो, ऽवर्जयित्वा गयां गङ्गां विशालम्ऽ [२२८.३] इति निषेधात् न सामान्यतो गङ्गापरं किन्तु प्रयागावच्छिन्नगङ्गापरम् । (१२) निषेधवचनं तु तद् अनवच्छिन्नगङ्गापरम्” इति, (१३) तद् अपि निषेधवाक्ये तादृशपाठस्य पूर्वम् एवायुक्ततयोक्त्या निरस्तम् । (१४) किञ् च “अनेकेषां वचनानां सामान्यरूपाणां विशेषपरता ऽविगीतशिष्टाचारानुरोधाद्” इति त्वयोच्यते । (१५) स च वैदिकशिष्टानां मध्यदेशीयानां बहूनाम् अभियुक्तानाम् आचारेण बाध्यते, (१६) अवैदिकान् अभियुक्ताल्पाचारत्वात् । तद् उक्तं भट्टचरणैः—

अतः शास्त्राभियुक्तानाम् आर्यावर्तनिवासिनाम् ।

**या मतिः सैव कर्माङ्गशब्दार्थत्वप्रमा मते– ॥ २६० ॥ **ति ।

त्व् १। ३। ४। ९, प्। २२०

(१) किञ् च; सर्वतीर्थशब्दस्य प्रयागमात्रपरतायां बहुवचनानुपपत्तिः ।

(२) न च बहुव्रीहिणा प्रयागमात्रपरतायां ऽग्रहं सम्मार्ष्टीऽतिवद् अविवक्षा ।

**[प्।७२] **(३) बहुव्रीहाव् असाधुताप्रसङ्गेन विवक्षाऽविवक्षाचिन्ताया निरवकाशत्वस्य पूर्वम् एवोदितत्वात् ।

(४) किञ् च; बहुवचनाविवक्षा नास्मत्पक्षविरोधिनी किन्त्व् अनुकूला । (५) तवैव तु प्रतिकूला । (६) तथा हि ऽयस्य पुरोडाशौ क्षायतः,ऽ ऽयस्य सर्वाणि हवींषि नश्येयुर् वा दुष्येयुर् वा,ऽ ऽप्रयाजशेषेण हवींष्य् अभिधारयतीऽत्यादिवद् उद्देश्यगतसङ्ख्याऽविवक्षायं एव प्रतितीर्थं मुण्डनं सिध्यति । (७) विवक्षायां तु समुदाय एव स्यान् नतु प्रत्येकम् ।

(८) कश्चित् तु “संस्कार्य रूपोद्देश्यविशेषणत्वाभावान् न ग्रहैकत्ववद् अविवक्षा । (९) निमित्तरूपोद्देश्यविशेषणत्वाभावाच् च न हविर् उभयत्ववद्” इति दूषणम् आह । (१०) तन् न, नहि तत्र संस्कार्यत्वनिमित्तत्वे न्यायशरीरान्तर्गते, (११) उद्देश्यविशेषणत्वेनैवोभयत्राविवक्षासिद्धेः ।

(१२) उभयार्त्यधिकरणस्य पौनरुक्त्यं तु “निमित्तस्वरूपान्तर्गतम् एवोभयत्वं न तु निमित्तविशेषणम्” इत्य् अधिकाशङ्काया निराक्रियमाणत्वात् परिहर्तव्यं, (१३) न तु संस्कार्यनिमित्तरूपविषयभेदेन । (१४) अन्यथा ऽयस्य पुरोडाशौ क्षायतः,ऽ ऽयस्य सर्वाणि हवींषि नश्येयुर्ऽ इति निमित्तोदाहरणं, ऽप्रयाजशेषेण हवींष्य् अभिधारयतीऽति च संस्कार्य हविर्बहुवचनोदाहरणं वार्तिककारीयम् असङ्गतं स्यात् । अत एवाहुर् उभयार्त्यधिकरणे पार्थसारथिमिश्राः—

ग्रहाधिकरणन्यायेन ऽउद्देश्यविशेषणम् अविवक्षितम्ऽ इति स्थितम् एव

** न तु निमित्तस्वरूपम् अविवक्षितम् । इह तु ऽयथा नार्तिमात्रं वा हविर्मात्रं वा**

निमित्तं, मिलितं तु निमित्तम्, एवम् उभयशब्दाम्नानात् त्रयम् अपि मिलितं

निमित्तम् अस्त्व्ऽ इति ॥ २६१ ॥

तन्त्ररत्न प्। ५५४

भट्टसोमेश्वरा अपि

उद्देश्यविशेषणविवक्षायां वाक्यभेदापत्तिलक्षणस्य

**न्यायस्याविवक्षासाधकस्य तुल्यत्वे ऽपि, **

यथोभयपदानर्थक्यपरिहारायोभयत्वस्योद्देश्यान्तर्गतत्वेन

विवक्षाशङ्काधिक्यान् नेहोदाहरणत्वम् ॥ २६२ ॥

इत्याद्य् आहुः ।

**[प्।७३] ** (१) अपि च; असत्य् अपि निमित्तत्वे संस्कार्यत्वे वा उद्देश्यत्वाद् एव ऽप्रयाजशेषं हविःषु क्षारयेद्ऽ इतिवद् अविवक्षा कथं न भवेत्? (२) वस्तुतस् तु ऽसर्वतीर्थेष्व्ऽ इति निमित्तरूपतीर्थविशेषणत्वाद् एव बहुत्वस्योभयत्ववद् एवाविवक्षा सम्भवत्य् एव । (३) किञ् चऽ बहुवचनाविवक्षा कर्मधारयाश्रयणेन प्रतितीर्थमुण्डनपक्षे ऽपि विरुद्धा किन्त्व् अनुकूलैव । (४) अन्यथा सर्वतीर्थसमुदाय एव मुण्डनं स्यान् न प्रतितीर्थम् इत्य् उक्तम् । (५) अतो ऽयस्य पुराडशौ,ऽ ऽयस्य सर्वाणि हवींषि,ऽ ऽप्रयाजशेषण हवींषीऽत्यादिवद् उद्देष्यविशेषणत्वेन बहुत्वाविवक्षाया आवश्यकत्वात् तुल्ययोगक्षेमत्वाच् च प्रयगमात्रमुण्डनवादिनं प्रति अविवक्षान्यायाप्रवृत्तिकथनं विवक्षापादकतया स्वपक्षक्षतिकरत्वेनात्यन्तायुक्तम् ।

(६) तस्माद् अस्मदुक्तप्रकारेण निरवकाशतानुकूलताभ्याम् एव ग्रहैकत्वाधिकरणन्यायोपन्यासो दूषणीय; (७) इत्य् अलं स्वपक्षविवादेन ।

(८) किञ् च; बहुव्रीहौ पदद्वयार्थस्याप्राधान्यप्रसङ्गाद् अन्यपदार्थलक्षणाप्रसङ्गाच् च निषादस्थपतिशब्द इव षष्ठीसमासापेक्षया बहुव्रीहितः कर्मधारय एव ज्यायान्, (९) पदार्थद्वयप्राधान्याल् लक्षणाभावाच् च । (१०) एतेन ऽराजपुरोहितौ सायुज्यकामौ याजेयाताम्ऽ इत्य् अत्र तु क्षत्रियस्य पौरोहित्यनिषेधाद् अवेष्ट्यधिकरणसिद्धक्षत्रियवाचिराजशब्दवाच्ययोः पुरोहितत्वासम्भवाद् कर्मधारयबाधेन द्वन्द्वो ऽङ्गीकृतः । (११) इह तु कर्मधारये न किञ्चिद् बाधकम् अस्ति ।

(१२) अथ “कर्मधारयम् एवाश्रित्यानेकतीर्थरूपत्वात् प्रयाग एव सर्वतीर्थशब्दार्थ” इत्य् उच्युते । (१३) तद् अपि न, तदा हि बहुत्वं विवक्षितम् अविवक्षितं वा । (१४) नाद्यः; उद्देश्यविशेषणत्वेन विवक्षाया असम्भवात् । (१५) नान्यः, विवक्षाव्यतिरेकेणानेकतीर्थसमूहरूपप्रयागालाभात्, प्रतितीर्थं मुण्डनप्रसङ्गाच् च । (१६) तस्मान् न बहुव्रीहिः कर्मधारयो वा युज्यते ।

(१७) अथ “बहुव्रीहेर् एकप्रयागार्थत्वे ऽपि ऽअदितिः पाशान् प्रमुमोक्त्वेतान्ऽ इतिवद् अवयवतीर्थबहुत्वाभिप्रायेण छान्दसं, पूज्यतार्थं वा ऽअचार्यास् त्व् इत्यादिवत् बहुवचनम्” उच्यते । (१८) तद् अप्य् अयुक्तम्; आञ्जस्येन गतौ सम्भवत्याम्, अनन्यगतिकछान्दसत्वादिगतेर् अयुक्तत्वात् । (१९) अपि च; तत्राग्निषोमीयप्रकरणपठितस्य बहुवचनयुक्तस्य मन्त्रस्य प्रकरण एव छान्दसत्वेन बहुवचनं ऽवायवः स्थेऽतिवद् एकविषयम् एवाङ्गीकृत्य, निवेश उत बहुपाशकेषु पशुगणेषूत्कर्ष **[प्।७४] **इति सन्दिह्य, प्रकरणगतैकपाशे बहुवचनस्यासामर्थ्याद् उत्कर्षं पूर्वपक्षयित्वा, (२०) प्रकृत्यर्थस्य पाशस्य विभक्त्यर्थस्य कर्मकारकस्य च प्रकृतौ सत्त्वाद् अप्रधानभूतबहुवचनमात्रानुरोधात् प्रधानभूतस्य प्रातिपदिकस्य कारकवाचिद्वितीयायाः मन्त्रस्य चोत्कर्षासम्भवान्‌ निर्देशमात्रार्थं बहुवचनँ, (२१)

द्विपत्नीकप्रयोग इव ऽपत्नीँ सँनह्येऽत्य् एकवचनम् अवयवाभिप्रायँ वेति (२२) युक्‍तँ नावमिकन्यायेन वक्‍तुम्‌ । (२३) अत्र तूक्तबहुबाधकवशात्‌ प्रयागपरत्वासम्भवात्‌ किम् अनुरोधेन छान्दसत्वम् अवयवाभिप्रायता वेति ?

(२४) अपि च; सर्वतीर्थवाक्यस्य प्रयागमात्रपरता न तावत्‌ परिसँख्याव्यतिरेकेण लभ्यते । (२५) तत्र च कीदृशी परिसँख्या? (२६) किं ऽप्रयाग एव मुण्डनम्‌ऽ इति वा ऽप्रयागे मुण्डनम् एवेऽति वा? (२७) न तावद् अन्त्यः, स्नानादिनिवृत्तिप्रसङ्गात् । (२८) न प्रथमः, पित्रादिमृतौ मुण्डनाभावप्रसङ्गात्‌ ।

(२९) अथ “तीर्थाधिकरणकं मुण्डनँ प्रयाग एव नान्‍यत्रे”ति चेत् ।

(३०) काश्यादितीर्थाधिकरणकपित्रादिमृतौ तदभावप्रसङ्गात्‌ ।

(३१) अथ “तीर्थनिमित्तकँ मुण्डनँ प्रयाग एवे”ति चेत्‌ । (३२) तथा सति तन् निमित्तकमुण्डनस्य रागतः प्राप्त्यभावाच् छास्त्रतः प्राप्तिः सामान्यतस् तीर्थमात्रे ऽण्गीकृता स्यात्; (३३) इति “तीर्थान्तरे मुण्डनविधानम् एव नास्ती”ति वदतो भवतः कथँ न स्वोक्तिविरोधः?

(३४) विकल्पद्वये ऽपि प्राप्तबाधादिदोषत्रयापत्तिश् च ।

(३५) किञ् च; मुण्डनविधेर् अस्य प्रयागमात्रविषयत्वे अग्निवायुपुराणयोर् गयाप्रकरणे पाठो नोपपद्येत ।

(३६) किञ् च; मुण्डनविधौ सर्वपदस्वरसाद् अपि सर्वेषु तीर्थेषु मुण्डनम्‌ ।

(३७) न च “सर्वपदस्याससङ्कोचे ऽतिप्रसङ्गः,

प्रभावाद् अद्भुताद् भूमेः सलिलस्य च तेजसा ।

**परिग्रहान् मुनीनाञ् च तीर्थानाँ पुण्यता स्मृते– ॥ २६३ ॥ **(= ७५)

(१) ति भारतस्थभीष्मवाक्येन सातिशयफलस्य स्थलस्य जलस्य च तीर्थत्वाभिधानाद्‌ यत्रक्वचित्‌ स्वदेशान्तर्गतप्रस्रवणादाव् अपि मुण्डनोपवास- **[प्।७५] **प्रसङ्गाद्” इति वाच्यम् । (२) पुराणेषु तीर्थोद्देशपरिगणितप्रसिद्धमहातीर्थपरत्वात् सर्वतीर्थशब्दस्य । (३) येष्व् एव तीर्थेषु मुण्डनं विशेषवाक्यैर् विहितं तत्परत्वाच् च,

सर्वत्वम् आधिकारिकम् ॥ २६४ ॥

म्स् १। २। १। १६

इति न्यायात् ।

(१) न च “प्रयागातिरिक्ते मुण्डनविध्यभाव एवे”ति वाच्यम् । (२) प्रभासकाश्यादौ तद्विधायकवाक्यानां पूर्वम् एवोक्तत्वात् ।

(३) यद् अपि ऽगङ्गायां भास्करक्षेत्रऽ इति वाक्ये [२५६.१,२५७] भास्करक्षेत्रं प्रयागम् अभ्युपेत्य सामानाधिकरण्याङ्गीकारेण ऽप्रयागाव् अवच्छिन्नयां गङ्गायाम्ऽ इति कस्यचित् व्याख्यानं, (४) तद् अप्य् अयुक्तं, प्रयागस्य प्रजापतिक्षेत्रत्वस्य वक्ष्यमाणत्वाद् भास्करक्षेत्राभावात् ।

तत्र यः सवितुः क्षेत्रे प्राणांस् त्यजति मानवः ।

स सूर्यलोकम् आस्थाय देववन् मोदते दिवि ॥ २६५ ॥

ब्र्पु २८.६२च्-६३ब्

(१) इति कोणादित्यादिमाहात्म्यात् तदादेर् एव भास्करक्षेत्रतावगमात् ।

(२) किञ् च; विशेषणविशेष्यभावेन व्याख्याने षट्त्वापत्तेः ऽसप्तस्व्ऽ इति सङ्ख्यानुपपत्तिश् च । (३) ऽगङ्गायाम्ऽ इत्य् अस्य व्यर्थताप्रसङ्गश् च ।

(४) किञ् च; वपनविधेः प्रयागमात्रपरत्वे तीर्थान्तरे प्राप्तेर् एवाभावाद् ऽवर्जयित्वेऽति विशेषनिषेधो ऽनुपपन्नः स्यात् ।

(५) यत् तूच्यते; “यथा ऽमौद्गश् चरुर् भवतीऽति विशेषविधिनैव माषादि निवृत्तौ सिद्धायां, पुनर् ऽअयज्ञिया वै माषाऽ इति वाक्यं ऽप्रतिनिधित्वेनापि माषा न ग्राह्या अत्यन्तायज्ञियत्वाद्ऽ इत्य् एवम्परम्; (६) तथा गयादिवपननिषेधो ऽपि अत्यन्ताप्राशस्त्यपर” इति । (७) तत्र कश्चिद् आह “मुद्गविधिशेषत्वात् तत्प्रशंसार्थस्य ऽअयज्ञियाऽ इत्य् अस्य ऽप्रतिनिधित्वेनापि माषा नोपादेयाऽ इत्य् एवम् अर्थता न सम्भवति, (८) निन्दाया विधेयस्तुताव् एव तात्पर्यात् । (९) तेन ऽअनाहुतिर् वै जर्तिलाश् च गवीधुकाश् चेऽत्यादिवन् ऽनहि निन्दा निन्द्यं निन्दितुं प्रवर्तते, अपि तु **[प्।७६] **विधेयं स्तोतुम्ऽ इति न्यायेन मुद्गस्तुताव् एव तात्पर्यं,

(१०) न तु माषाणाम् अत्यन्तायज्ञियत्वे ।

(११) किञ् च; ऽअपशवो वा अन्ये,ऽ ऽअयज्ञो वा एषःऽ, ऽअयज्ञिया वै माषाऽ इत्यत्र नञा पश्वादिशब्दलक्षितं प्राशस्त्यं निषिध्यत इति अप्राशस्त्यपरता भवति । तदुक्तं—

गवाश्वादिगतं पूर्वमुपादाय प्रशस्तताम् ।

**तदभावोऽन्यपश्वादौ नञ्समासेन कथ्यत ॥ २६६ ॥**इति ।

त्व् १। ४। १२। २३, प्। ३६२

(१) ऽवर्जयित्वेत्य्ऽ अत्र तु नञो ऽभावान् नाप्राशस्त्यपरत्वं,

श्राद्धं तत्र तु कर्तव्यम् अर्घ्यावाहनवर्जितम् ॥ २६७ ॥

इतिवत्,

**तीर्थश्राद्धेषु वर्जयेद् ॥ २६८ ॥ **

इतिवच् च ।

(१) किञ् च; वैदिके प्रतिनिध्युपादानस्य वचनं विना ऽभावान् माषाणां प्रतिनिधित्वेनानुपादानं वचनाभावाद् एव भविष्यति; (२) किम् ऽअयज्ञिया माषाऽ इति प्रतिषेधेन?

(३) तथा; प्रतिषिद्धस्य प्रतिषेधान्तरम् अत्यन्तदोष ज्ञापनार्थं भवति ।

तद् उक्तं—

षष्ठयादाव् अपि वर्जिते पलमुखे ऽमांसाशने पञ्चदश्यभ्यङ्गे च चतुर्दशीऽति

कथितं दोषाधिकत्वाय तद् ॥ २६९ ॥ इति

(१) प्रस्तुते च निषेधान्तरस्याभावाद् गयादिवपननिषेधस्य नात्यन्ताप्राशस्त्यपरते”ति ।

(२) तद् अतिबहिर्मुद्रं; षाष्ठतृतीयपादषष्ठाधिकरणे

[प्।७७] प्रतिषिद्धं चाविशेषेण हि तच् छ्रुतिर्– ॥ २७० ॥

म्स् ६। ३। ६। २०

(१) इतिसूत्रे, ऽअयज्ञिया वै माषाऽ इत्य् अस्य प्रतिषेधपरताम् अङ्गीकृत्य

प्रतिषिद्धञ् च न प्रतिनिधातव्यम् ॥ २७१ ॥

शब् ७। ३। ६। २०, प्। १४२०

(१) इति वदता सूत्रकृता भाष्यकृता च प्रतिनिधिप्रतिषेधपरताङ्गीकारात्,

प्रतिषिद्धं प्रत्यवायाद् ॥ २७२ ॥

कात्श्र्सू १। १२९

(१) इत्य् अत्र सूत्रे कर्काचार्यैर् अपि निषेधपरताङ्गीकारात् । (२) तथा च कुतो मुद्गविधिशेषता, कुतस्तमाम् ऽअनाहुतिर् वै जर्तिलाऽ इतिवत् स्तुतौ तात्पर्यं, कुतस्तमाम् ऽअपशवऽ इत्यादिसादृश्यप्रसक्तौ नञभावात् तद्वैषम्यप्रतिपादनम्?

(३) यदपि “वैदिके प्रतिनिध्युपादानं वचनं विना नास्ती”ति तदप्य् अमीमांसकान् प्रति शोभते । (४) तत्रैव चतुर्थाधिकरणे प्रतिनिधेर् न्यायसिद्धताया उक्तत्वात् कुत्रापि वाचनिकत्वाभावात्,

**यदि सोमं न विन्देत प्रतीकान् अभिषुणुयाद् ॥ २७३ ॥ **

इत्यादेर् अपि

नियमार्थः क्वचिद् विधिर् ॥ २७४ ॥

म्स् ६। ३। ४। १६

(१) इति तत्रत्यसूत्र एव नियममात्रार्थत्वस्वीकारात् ।

(२) यदपि “प्रतिषिद्धस्य प्रतिषेधो ऽत्यन्तदोषज्ञापनार्थ” इति, (३) तदपि “सर्वतीर्थविधेः परिसङ्ख्यार्थतया ऽन्यत्र वपननिषेधात् पुनर् गयादौ निषेधो ऽत्यन्तदोषार्थ” इत्य् एवाप्राशस्त्यवादिनेष्टापत्त्या सुपरिहरम् एव ।

(४) तस्माद् ऽअयज्ञियाऽ इत्य् एतत् तुल्यत्वं ऽवर्जयित्वा गयाम्ऽ इत्य् एतस्यैव दूषणीयम् ।

(५) तत्र हि मुद्गादिमये चरौ विहिते ऽमुख्यद्रत्यालाभे तत्सदृशं प्रतिनिधेयम्ऽ इति न्यायान् मुद्गसादृश्येन माषाणां मुद्गाभावे प्रतिनिधिताप्राप्तौ **[प्।७८] **तन्निषेधार्थम् अयज्ञियताकथनं युज्यते । (६) इह तु गयादौ मुण्डनप्राप्तेर् एवाङ्गीकारान् निषेधायोगात् किमर्थम् अत्यन्ताप्राशस्त्यकीर्तनम्?

(७) किञ् च; अप्राशस्त्यकथनं किम् ऽअनाहुतिर् वै जर्तिलाऽ इति विधेयपयःस्तुत्यर्थम् इव विधेयप्रयागवपनस्तुत्यर्थं; (८) किं वा ऽअयज्ञिया वै माषाऽ इतिवद् गयादिवपननिषेधार्थम्? (९) नान्त्यः, भवतो गयादौ वपनप्रापकाभावान् निषेधायोगात् अस्मन्मतापत्तेश्च । (१०) नाद्यः, ऽअनाहुतिर्ऽ इतिवद् अत्र नञभावाद् अप्राशस्त्यद्वारास्तुत्यप्रतीतेः,

वाक्पाणिपादचापल्यं वर्जयेच् चातिभोजनम् ॥ २७५ ॥

इतिवद्, (१) ऽअर्घ्यावाहनवर्जितम्ऽ [२६७] इतिवच् च वर्जयतिना निषेधस्यैव प्रतीतेः,

(२) अप्राशस्त्यपरत्वे लक्षणाप्रसङ्गाच् च ।

(३) अथ “प्रयाग एव वपनविधिना ऽन्यत्र तन्निवृत्ताव् अपि दोषाधिक्यज्ञापनार्थो गयादिनिषेधः स्यात् । अथवा

सायं प्रातर् द्विजातीनाम् अशनं श्रुतिचोदितम् ॥ २७६ ॥

(१) इत्यत्र परिसङ्ख्यावादिनां परिसङ्ख्याविवरणार्थम् इव

नान्तरा भोजनं कुर्याद् अग्निहोत्रसमो विधिर् ॥ २७७ ॥

स्मृतिचन्द्रिकायां द्वितीये ऽध्याये प्। ६०९

मनुवचनम्

(१) इत्यस्य गयादिनिषेधस्यापि तद्विवरणार्थता स्यात्” । (२) मैवम्, उभयथापि परिसङ्ख्यात्वापत्तेस् तस्याश् च पूर्वम् एव दूषणात् । (३) परिसङ्ख्याविवरणपरतायां गयादिपरिगणनानर्थक्यात् । (४) ऽनान्यतीर्थेऽ इत्य् एतावन्मात्रस्य वक्तव्यत्वात् ।

(५) “ ऽनान्तरिक्षे न दिवि चाग्निश् चेतव्यऽ इतिवन् नित्यानुवादः किं न स्याद्” इति चेत्, (६) न, वैषम्यात्; तत्र हि अन्तरिक्षादौ चयनस्यासम्भवाद् एव नित्यानुवादः । (७) इह तु प्रयागाद् अन्यत्र वपनस्य सम्भवान् न नित्यानुवादता । (८) नामान्तरेणानर्थक्यापातश् च ।

**[प्।७९] **(९) इत्य् अलं बहुना कण्ठशोषेण; (१०) यद्यपि वाक्यस्वरसाद् एव ऽगयादिव्यतिरिक्तेषु सर्वेषु तीर्थेषु मुण्डनोपवासौऽ इत्य् अयम् अर्थो ज्ञायत एव, तथापि कुमत्युक्तयुक्तिभिर् अल्पबुद्धीनां भ्रमो मा भूद् इति भूयान् अयं दूषणप्रयासः कृतः । (११) तत्सिद्धं, कुरुक्षेत्रादिव्यतिरिक्तेषु सर्वेषु प्रसिद्धमहातीर्थेषु मुण्डनोपवासाव् इति ।

(१२) इदञ् च मुण्डनं दशमासानन्तरं पुनस् तीर्थप्राप्तौ कर्तव्यं,

संवत्सरे द्विमासोने पुनस् तीर्थं व्रजेद् यदि ।

मुण्डनञ् चोपवासञ् च ततो यत्नेन कारयेद् ॥ २७८ ॥ (= ५५१)

इति स्मरणात् । (१) दशमासोत्तरप्राप्ताव् एवावश्यं कार्यम् । (२) अन्तरा तु फलेच्छया भवति, न तु नियम इति ऽयत्नेनेऽत्य् अस्यार्थः । (३) प्रयागे तु विशेषं वक्ष्यामः ।

(४) अत्रेदं चिन्त्यं मुण्डने; (५) किं ऽवपनं करिष्यऽ इति सङ्कल्पः, ऽकारयिष्यऽ इति वा? (६) तत्र केचिद् आहुः— ऽप्रयागे वपनं कुर्याद्ऽ [२३४] इत्यादिविधिभिस् तीर्थप्राप्तिनिमित्तकवपनस्य विहितत्वप्रतीतेर्, (७) वपनस्य च निमित्तरहितेनैव नापितेन वृत्त्यर्थं क्रियमाणत्वान् नैमित्तिकविध्ययोगात्, (८) ऽगङ्गां प्राप्य सरिच्छ्रेष्ठां वपनं यो न कारयेद्ऽ [२५६] इत्यादिवाक्यस्वरसाच् च, (९) ऽकारयेद्ऽ इत्यर्थे ऽकुर्याद्ऽ इति णिचो लोपेन निर्देशाद् वापनस्यैव विधानाद्, (१०) विहितस्य च फलान्वयात् फलवत एव च कर्तव्यत्वाद् (११) ऽयथोक्तफलकामो वपनं कारयिष्यऽ इति सङ्कल्पः (१२) न च “ ऽवपनं कुर्याद्ऽ इति विधानाद् ऽविधिशब्द एव च प्रयोज्यऽ इति न्यायात् ऽकरिष्यऽ इति सङ्कल्प” इति वाच्यम् । (१३) तस्य न्यायस्य अदृष्टार्थशब्दस्वरूपतात्पर्यकमन्त्रदेवतादिरूपशब्दविषयत्वात् । (१४) इह त्व् अर्थमात्रे तात्पर्यं प्रयाजादिविधिवत् । अत एव

विधिशब्दस्य मन्त्रत्वे भावः स्यात् तेन चोदने– ॥ २७९ ॥

म्स् १०। ४। १२। २३

(१) ति सूत्रे जैमिनिना ऽमन्त्रत्वऽ इत्य् उक्तम् । (२) एवञ् च वापनतात्पर्यके विधौ सति ऽअस्मदायत्ते हि शब्दप्रयोगेऽ । किमित्य् अवाचकं प्रयोक्षामहे ॥ **[प्।८०] **इति न्यायेन ऽवपनं कारयिष्यऽ इति वा सङ्कल्पो ऽवापनं करिष्यऽ इति वा, न तु ऽवपनं करिष्यऽ इतीति” ।

(३) एतन् न युक्तं; ऽवपनं यो न कारयेत्ऽ [२५६], ऽतस्मात् तान् परिवापयेत्ऽ [२५९], ऽप्रयागे वपनं कुर्याद्ऽ [२३४] इत्यादिरूपेण विधीनाम् उभयरूपत्वे ऽपि

यानि कानि च पापानि ब्रह्महत्यासमानि च ।

केशान् आश्रित्य तिष्ठन्ति तस्मात् केशान् वपाम्य् अहम् ॥ २८० ॥

(१) इति मन्त्रलिङ्गाद् ऽवपनं करिष्यऽ इत्य् एव सङ्कल्पस्योचितत्वात् । (२) न च बाधाद् अन्वयाप्रतीतेः, केशवियोगसंविधान एव वपनशब्दप्रयोगाद् बाधाभावात्,

केशश्मश्रुवपने नखानि निकृन्तती– ॥ २८१ ॥

त्यादिवत् । (१) ततश् च यथा ऽयद् आहवनीये जुहोतीऽति वचनाद् आहवनीयाधिकरणकद्रव्यप्रक्षेपस्य होमत्वात् तस्य चाध्वर्युकर्तृकत्वाद् यजमानकर्तृकत्वाभावे ऽपि काम्यहोमेषु अध्वर्युकर्तृकत्वपक्षे ऽग्निहोत्रहोमे च ऽअमुकहोमं करिष्यऽ इत्य् एवं सङ्कल्पः; (२) यथा वा समाख्यया चयनस्याध्वर्युकर्तृकत्वे ऽपि ऽप्रजाकामो नाभिदघ्नं चिन्वीतेऽत्यादिवचनाद् ऽअमुककामश् च चयनं करिष्यऽ इति सङ्कल्पस्, (३) तथात्रापि । (४) एवञ् च ऽअग्निं चितवान्ऽ इत्य् अग्निचित्पदे विग्रहकथनं वृद्धानां युज्यते ।

(५) एवञ् च तीर्थप्राप्तिरूपनिमित्तवत्यपि संविधानरूपो वपनशब्दार्थो वर्तत एव । (६) यानि तु ऽवपनं यो न कारयेद्ऽ [२५६] इत्यादीनि णिज्गर्भाणि वचनानि, तानि पर्यवसितार्थम् आदायापि युज्यन्ते ।

(७) यत् तु “अर्थमात्रतात्पर्यकत्वाद् विधिशब्दे तात्पर्याभाव” इति; (८) भवत्व् एवम् । तथापि विधिप्रतिसन्धानपूर्वकानुष्ठाने बुद्धिस्थत्वाल् लाघवाच् च सङ्कल्पे विधिशब्द एव न्याय्यः । (९) अत एव गुणफलोपबन्धवत् सङ्कल्पादिव्यवहारो ऽपि नामधेयप्रयोजनमवादि मीमांसमांसलैः ।

(१०) यो ऽपि ऽअस्मदायत्तऽ इत्यादिर् न्यायस् तस्याप्य् अयम् अविषय; (११) उक्तयुक्त्या प्रत्यायकत्वोपपत्तेर् अवाचकत्वाभावात्, ऽवपाम्य् अहम्ऽ इति मन्त्रलिङ्गस्यैव नियामकत्वेनास्मदायत्तत्वाभावाच् च ।

**[प्।८१] **(१२) यद्वा; वपनशब्दो नानार्थः; तत्र कदाचित् केशवियोगसंविधानात्मकं प्रयोजकव्यापारम् आह; (१३) कदाचिच् च प्रयोज्यव्यापारं, (१४) ऽमया वपनं कृतं,ऽ ऽवपनं कारितम्ऽ इत्य् उभयथापि प्रयोगात् । (१५) तत्र प्रकरणादिवच् छब्दान्तरसमभिव्याहारस् तात्पर्यग्राहकः । (१६) यदा कुर्याच् छब्दसमभिव्याहारस् तदा प्रयोजकव्यापारपरता । (१७) यदा तु कारयेच् छब्दसमभिव्याहारस् तदा प्रयोज्यव्यापारपरतेति । (१८) एवञ् च सति मन्त्रलिङ्गबलात् प्रयोजकव्यापारस्यैव प्रकाश्यत्वाद् ऽवपनं करिष्यऽ इत्येवं सङ्कल्प; (१९) इत्य् अलं बहुना ।

(२०) “इदञ् च वपनं केशश्मश्रुक्रमेण कार्यं,

गत्वा स्नानं प्रकुर्वीत वपनं तदनन्तरम् । ( = २११ )

वपेत् केशांश् च श्मश्रूणि नखानि च निकृन्तयेत् ॥ २८२ ॥

इति ब्रह्मपुराणवचनात्,

केशश्मश्रुलोमनखान्य् उदक्संस्थानि वापयेद् ॥ २८३ ॥

(१) इति अपरार्कलिखितवचने प्रतीतपाठक्रमानुसाराच् च,

स केशश्मश्रु वापयती– ॥ २८४ ॥

त्यादिश्रुतौ दर्शनाच् चे”ति केचित् । (१) अन्ये तु “एतानि वचांसि केशादिवपनमात्रविधायकानि न तु तत्क्रमस्यापि गौरवाद् वाक्यभेदप्रसङ्गाच् च । (२) तस्मात् श्मश्रुपूर्वकम् एव वपनम् ।

(३) तथा चापस्तम्बानां केशप्रथमवपननिन्दापूर्वकं श्मश्र्वादिवपनप्रशंसा श्रूयते-

देवा वै यद् यज्ञे ऽकुर्वत तद् असुरा अकुर्वत । ते ऽसुरा ऊर्ध्वं पृष्ठेभ्यो

नापश्यन् । ते केशान् अग्रे ऽवपन्त । अथ श्मश्रूणि । अथोपपक्षौ । ततस् ते ऽवाञ्च

आयन् । पराभवन् । यस्यैवं वपन्ति अवाङ् एति । अथो परैव भवति । अथ देवा

ऊर्ध्वं पृष्ठेभ्यो ऽपश्यन् । त उपपक्षाव् अग्रे ऽवपन्त । अथ श्मश्रूणि । अथ

केशान् । ततस् ते ऽभवन् । सुवर्गं लोकमायन् । यस्यैवं वपन्ति भवत्य्

[प्।८२] आत्मना । अथो सुवर्गं लोकम् एति । अथैतन् मनुर् वप्त्रे मिथुनम् अपश्यत् । स

श्मश्रूण्य् अग्रे ऽवपत । अथोपपक्षौ । अथ केशान् । ततो वै स प्रजायत प्रजया

**पशुभिः । यस्यैवं वपन्ति प्र प्रजया पशुभिर् मिथुनैर् जायत ॥ २८५ ॥ **इति

तैब्र् १। ५ । ६। १-३

(१) एवञ् च श्मश्रुकूर्चयोर् आदौ वपने क्षणं म्लेच्छवेशकृता लोकविद्विष्टतापि न भवतीत्य् अयं बहुसम्मतः पक्षः ।

(२) तत्राप्य् उदक्संस्थतायै दक्षिणश्मश्रुवपनम् आदौ । (३) पित्रादिमृतौ तु दक्षिणसंस्थत्वाय वामश्मश्रुवपनं आदाव्” इति ।

वपने प्रकारश् चापरार्के—

उदङ्मुखः प्राङ्मुखो वा वपनं कारयेत् सुधीः ।

केशश्मश्रुलोमनखान्य् उदक्संस्थानि वापयेत् ॥

दक्षिणं कर्णम् आरभ्य धर्मार्थं पापसञ्चये ।

शिखाद्यं नवसंस्कारे शिखाद्यन्तं शिरो वपेत् ॥ २८६ ॥

(१) धर्मार्थे तीर्थादिवपने दक्षिणकर्णाद्युदक्संस्थं वपेत् । (२) पापसञ्चयनिमित्तके शिखमादीकृत्याधस्तात् सर्वतो वपेन् नोदक्संस्थम् । (३) ऽनवसंस्कारेऽ चूडाकरणे दक्षिणकर्णाच् छिखान्तं शिखम् आरभ्य वामकर्णान्तञ् च वपेद् इत्य् उत्तरपद्यार्थः ।

(४) इदं वपनं यत्यादिभिः शिखम् अरक्षित्वैव कार्यं,

यतिः शूद्रश् च विधवा सशिखं वपनञ् चरेद् ॥ २८७ ॥

इति वचनात् । तत्र यतिभिः

कक्षोपस्थशिखावर्जम् ऋतुसन्धिषु वापयेद् ॥ २८८ ॥

(१) इति ऋतुसन्धिष्व् एवेतिपरिसङ्ख्यानाद् ऋतुसन्धिव्यतिरिक्तकाले तीर्थप्राप्ताव् अपि न कार्यम् ।

(२) यतिशिष्टानाम् आचारो ऽप्य् एवम् एव ।

(३) आहिताग्निभिस् तु पर्वव्यतिरिक्तकाले ऽपि तीर्थनिमित्तकं मुण्डनं **[प्।८३] **कार्यम् । (४) एतस्य नैमित्तिकतया पुत्रादिमरणनिमित्तकमुण्डनवत् पर्वनियमाभावात्, (५) आचाराच् च ।

(६) जीवत्पितृकेणापि तीर्थे मुण्डनं कार्यं,

विना तीर्थं विना यज्ञं मातापित्रोर् मृतिं विना ।

यो वापयति लोमानि स पुनः पितृघातक ॥ २८९ ॥

इति वचनात् । (१) अत्र पुत्रपदग्रहणाज् जीवत्पितृकविषयता । (२) अन्यथा ऽस पितृघातकऽ इत्येवावक्ष्यत् । (३) मुण्डनवचनानाञ् च जीवत्पितृकसाधारण्यात् ।

(४) तत्रापि “तीर्थान्तरे आद्ययात्रायाम् एव । (५) प्रयागे तु प्रतियात्रम्” इत्य् आहुः ।

(६) तीर्थे च मुण्डनं निषिद्धकाले ऽपि कार्यम् । निषेधश् च वृद्धगार्ग्यः—

रव्यारसौरवारेषु रात्रौ पाते व्रताहनि ।

श्राद्धाहप्रतिद्परिक्ता भद्राः क्षौरेषु वर्जयेत् ॥ २९० ॥

(१) आरो भौमः । (२) सौरः शनिः । ( ३ ) पातो व्यतीपातः । (४) रिक्ताश् चतुर्थीनवमीचतुर्दश्यः । (५) भद्रा द्वितीयासप्तमीद्वादश्यः ।

गार्ग्यः—

षष्ठ्यमापूर्णिमापातचतुर्दश्यष्टमी तथा ।

आसु सन्निहितं पापं त्रिषु तैले भगे क्षुरे ॥ २९१ ॥

व्यासः—

नक्षत्रे तु न कुर्वीत यस्मिन् जातो भवेन् नरः ।

न प्रोष्ठपदयोः कार्यं नैवाग्नेये तु भारत ॥

दारुणेषु तु सर्वेषु दुष्टतारान् तु वर्जयेत् ॥ २९२ ॥

म्भ् १३। १०७। ११९च्-१२०ब् (= ३९३)

**[प्।८४] **तथा—

कुम्भे कर्कटके चैव कन्यायां कार्मुके रवौ ।

**रोमखण्डं गृहस्थस्य पितॄन् प्राशयते यमः ॥ २९३ ॥**

तथा—

विवाहमौञ्जीचूडासु वर्षम् अर्धं तदर्धकम् ।

अन्तर्वत्न्याञ् च जायायां नेष्यते केशवापनम् ॥ २९४ ॥

(१) इत्यादि । अस्य सर्वस्यापवादस् तीर्थप्राप्तौ—

क्षौरं नैमित्तिकं कार्यं निषेधे सत्य् अपि ध्रुवम् ।

पित्रादिमृतिदीक्षासु प्रायश्चित्ते च तीर्थके ॥ २९५ ॥

इति स्मृतेः,

नृपविप्राज्ञया यज्ञे मरणे बन्धमोक्षणे ।

उद्वाहे ऽखिलवारर्क्षतिथिषु क्षौरम् इष्टदम् ॥ २९६ ॥

(१) इति नारदवचने निमित्तपरिगणनस्योपलक्षणत्वाच् च ।

अत्र

“केशानां यावती सङ्ख्या छिन्नानां जाह्नवीजले ।

तावद् वर्षसहस्राणि स्वर्गलोके महीयत ॥ २९७ ॥

(१) इति वचनात् स्थलोपविष्टस् तथा वापयेद् यथा स्वयम् एव केशा गङ्गादिषु पतन्ती”ति कश्चित् । अन्ये तु

“तुषकेशपुरीषभस्मास्थिश्लेष्मनखलोमान्य् अप्सु न क्षिपेद् ॥ २९८ ॥

शङ्ख (क्) ८७

( १ ) इति गद्यशङ्खवचनान् न जले क्षेपः किन्तु तीरे गर्तं कृत्वा केशनखादीनि क्षिपेद्” इत्य् आहुः । (२) अपरे तु—

[प्।८५] “यावन्ति नखलोमानि वायुना प्रेरितानि वै ।

पतन्ति जाह्नवीतोये नराणां पुण्यकर्मणाम् ॥ २९९ ॥

(१) इति वचनात् तादृशे तीरप्रदेशे वपेद् यतो वायुनुन्नाः केशादयस् तीर्थे पतन्ति न तु स्वयं काचित् प्रतिपत्तिः कार्ये”त्य् आहुः । (२) अत्र यथादेशाचारं व्यवस्था ।

(३) स्त्रीणां सधवानां बालानाञ् च मुण्डने विशेषविचारः प्रयागप्रकरणे करिष्यते ।

इति त्रिस्थलीसेतौ मुण्डनविचारः ।

[प्।८६] अथातस् तीर्थस्नानम्

महाभारते—

नाव्रतौ नाकृतात्मा च नाशुचिर् न च तस्करः ।

स्नाति तीर्थेषु कौरव्य न च वक्रमतिर् नरः॥ ३०० ॥

म्भ् ३। ८३। ९२

तथा—

नानृउजुर् नाकृतात्मा च नाविद्यो न च पापकृत् ।

स्नाति तीर्थेषु कौरव्य न च वक्रमतिर् नरः ॥ ३०१ ॥

म्भ् ३। ९०। ११

तथान्यत्राप्य् उक्तं—

नदीसरिद्देवखातगर्तप्रस्रवणेषु च ।

सरःसु चाकृत्रिमेषु शस्तं तीर्थे विशेषतः ॥ ३०२ ॥

(१) स्नानम् इति शेषः ।

कौर्मे—

पृथिव्यां सर्वतीर्थेषु स्नात्वा पुण्येषु च द्विजः ।

मुच्यते पातकैः सर्वैः समस्तैर् अपि पूरुषः ॥ ३०३ ॥

कूपु २। ३३। १४४

तथा तीर्थानि प्रकृत्य—

यत्र स्नानं जपो होमः श्राद्धदानादिकं कृतम् ।

एकैकशो मुनिश्रेष्ठाः पुनात्या सप्तमं कुलम् ॥ ३०४ ॥ (= ४५)

(१) इदञ् च यत्र स्थलविशेषे विपरीतप्रवाहादि तत्र न कार्यम् ।

[प्।८७] तद् उक्तं—

प्रत्यावृत्तोदके स्नानं वर्ज्यं नद्यां द्विजातिभिः ।

तस्यां रजकतीर्थे तु दशहस्तेन वर्जयेत् ॥ ३०५ ॥

तथा—

अग्राह्यास् त्व् आगतां ह्य् आपो नद्याः प्रथमवेगजाः ।

प्रक्षोभिताश् च केनापि तथा तीर्थाद् विनिर्गताः ॥ ३०६ ॥

(१) एतस्य गङ्गायाम् अपवादः—

प्रतिस्त्रोतो रजोयोगो रथ्याजलनिवेशनम् ।

गङ्गायां न प्रदुष्यन्ति सा हि धर्मद्रवः स्वयम् ॥ ३०७ ॥

निषेधान्तरम् अपि—

शाल्मलीतिन्तिणीनिम्बकरञ्जाश् च हरीतकी ।

कोविदारकपित्थार्कबदर्येरण्डशिग्रवः ॥

शेलुश् च खदिरश् चैषां स्नानं छायासु वर्जयेत् ॥ ३०८ ॥

(१) इत्यादि । ऽबदरी च विभीतिकीऽति वा पाठः ।

(२) यश् च रात्रिसन्ध्यादिषु स्नाननिषेधः सो ऽप्य् आकस्मिकतीर्थप्राप्तो न प्रवर्तते नैमित्तिकत्वात् । अत एव शातातपः—

रात्रौ स्नानं न कुर्वीत होमं दानञ् च रात्रिषु ।

नैमित्तिकञ् च कुर्वीत स्नानं दानञ् च रात्रिषु ॥ ३०९ ॥

वृद्धयाज्ञवल्क्यो ऽपि—

ग्रहणोद्वाहसङ्क्रान्तियात्रातिप्रसवेषु च ।

**स्नानं नैमित्तिकं ज्ञेयं रात्राव् अपि तद् इष्यते ॥ ३१० ॥**

(१) “एतच् च रात्रौ तीर्थे स्नानम् आद्यान्त्यप्रहरद्वयविषयं,

[प्।८८] महानिशा तु विज्ञेया मध्यस्थं प्रहरद्वयम् ।

प्रदोषपश्चिमौ यामौ दिनवत् स्नानम् आचरेद् ॥ ३११ ॥

इति पराशरोक्तेर्” इति केचित् ।

(१) अयञ् च निषेधाभाव आकस्मिकतीर्थप्राप्तिविषयः । (२) बुद्धिपूर्वकं तु तीर्थप्राप्ती रात्र्यादौ न कार्येव ।

(३) तथा प्रासङ्गिकप्राप्तौ मलमासे ऽपि कार्यं,

तीर्थस्नानं जपो होमो यवव्रीहितिलादिभिर् ॥ ३१२ ॥

इत्य् उपक्रम्य

कार्याणि मलमासे ऽपी–

ति यमेनाभिधानात् । अत्र

तीर्थस्नानं पूर्वोपक्रान्तम् ॥ ३१३ ॥

म्प् प्। ५४७

इति मदनपारिजाते,

द्वितीयादी– ॥ ३१४ ॥

(१) त्य् अन्यत्र, अपूर्वस्य निषेधात् । (२) “आकस्मिकतीर्थप्राप्तिनिमित्तकम्” इति तु वृद्धाः ।

(३) आशौचे ऽप्य् आकस्मिकतीर्थस्नानं कार्यम् । तद् उक्तं पैठीनसिना—

विवाहदुर्गयज्ञेषु यात्रायां तीर्थकर्मणि ।

न तत्र सूतकं तद्वत् कर्मयज्ञादि कारयेत् ॥ ३१५ ॥ (= १९६, ३८५)

(१) ऽसूतकऽं मृतकस्याप्य् उपलक्षणम् । (२) ऽतीर्थकर्मऽ स्नानतर्पणश्राद्धादि ।

(३) परार्थस्नाने विशेषः मार्कण्डेयपुराणे—

मातरं पितरं जायां भ्रातरं सुहृदं गुरुम् ।

यम् उद्दिश्य निमज्जेत अष्टमांशं लभेत सः ॥ ३१६ ॥

<p style="text-align: right">

गपु १। १०५। १२१

**[प्।८९] **स्मृतिदर्पणे तु—

दशमांशं लभेत सः ॥ ३१७ ॥

प्रख् १। २८। ४१

इति पाठः । स्मृत्यर्थसारे तु

पितामहभ्रातृमातामहमातुलश्वशुरार्थदपोषकाचार्यगुरूपाध्यायार्थं

**तेषां पत्न्यर्थं मातृष्वसृपितृष्वस्र्थञ् च स्नात्वाष्टमांशं लभते । मातापित्रर्थं कुर्वंश् चतुर्थांशम् ॥ ३१८ ॥**

सस्, प्। १५४

(१) परस्परार्थं दम्पती अर्धं लभेते ।

(२) विशेषान्तरम् आह पैठीनसिः—

प्रतिकृतिं कुशमयीं तीर्थवारिणि मज्जयेत् ।

मज्जयेच् च यम् उद्दिश्य सो ऽष्टभागं फलं लभेत् ॥ ३१९ ॥

अत्रि ५०

तत्र मन्त्रः—

कुशो ऽसि कुशपुत्रो ऽसि ब्रह्मणा निर्मितः स्वयम् ।

त्वयि स्नाते स च स्नातो यस्येदं ग्रन्थिबन्धनम् ॥ ३२० ॥

(१) इति । “ ऽकुशप्रतिकृतिःऽ कुशप्रतिमैव कार्या” इति केचित् । (२) अन्ये तु “ ऽग्रन्थिबन्धनम्ऽ इति मन्त्रलिङ्गात् तत् तन् नाम्ना ग्रन्थिबन्धनमात्रं प्रतिकृतिर्” इत्य् आहुः ।

(३) “इदं परार्थस्नानं प्रतिकृतिस्थापनञ् च जीवताम् अजीवतां वोद्देशेन कार्यं सामान्येन विधानाद्” इति कश्चित् । (४) तन् न, मृतानां तर्पणश्राद्धादिफलभाक्त्वाज् जीवताम् एव फलोद्देशौचित्यात् ।

(५) तथान्यो ऽपि विशेषः शङ्खेनोक्तः—

तीर्थं प्राप्यानुषङ्गेण स्नानं तीर्थे समाचरेत् ।

स्नानजं फलम् आप्नोति तीर्थयात्राकृतं न तु ॥ ३२१ ॥

शङ्ख ८। १२ (= १०६)

**[प्।९०] **(१) ऽअनुषङ्गेणऽ वाणिज्यराजसेवादिप्रसङ्गेन ।

(२) विशेषान्तरम् आह जाबालिः—

प्रवाहाभिमुखो मज्जेद् यत्रापः प्रवहन्ति वै ।

स्थावरेषु च सर्वेषु आदित्याभिमुखस् तथा ॥ ३२२ ॥

(१) अन्यन्मृत्तिकास्नानादि ग्रन्थान्तरतो ज्ञेयम् ।

इति तीर्थसेतौ सामान्यप्रघट्टके तीर्थस्नानविधिः

[प्।९१] अथ तर्पणम्

(२) तच् चादौ स्वशाखानुसारेण स्नानाङ्गं कृत्वा पश्चात् तथैव देवर्षितर्पणं कृत्वा पितॄणाम् अपि कार्यम् । तद् उक्तं स्कान्दे—

अकाले ऽप्य् अथ वा काले तीर्थे श्राद्धं च तर्पणम् ।

अविलम्बेन कर्तव्यं नैव विघ्नं समाचरेद् ॥ ३२३ ॥ इति ।

काख् ६। ६०। (= ३८६)

(१) पितृतर्पणं तु देवीपुराणे ऽप्य् उक्तं, ऽतीर्थऽ इति प्रक्रम्य—

प्राप्तैर् एव च कर्तव्यं पितॄणां चैव तर्पणम् ॥ ३२४ ॥ इति । (= ३८१)

तथान्यत्र—

यस् तु तीर्थे नरः स्नात्वा न कुर्यात् पितृतर्पणम् ।

पिबन्ति देहनिःस्रावं पितरस् तु जलार्थिनः ॥ ३२५ ॥

तथा—

गिरिषु ख्याततीर्थेषु नदीषु च विशेषतः ।

साकाङ्क्षाः पितरो नित्यं तिष्ठन्ति सलिलार्थिनः ॥ ३२६ ॥

(१) अत्र च वक्ष्यमाणान् सर्वान् पितॄन् सन्तर्प्य एकं तिलाञ्जलिं सर्वेभ्यो दद्यात् । तत्र विष्णुपुराणे मन्त्राः—

देवासुरास् तथा नागा यक्षा गन्धर्वराक्षसाः ।

पिशाचा गुह्यकाः सिद्धाः कूष्माण्डास् तरवः खगाः ॥

जलेचरा भूमिलया वाय्वाधाराश् च जन्तवः ।

**तृप्तिम् एतेन यान्त्व् आशु मद्दत्तेनाम्बुनाखिलाः ॥ **

[प्।९२] नरकेषु समस्तेषु यातनासु च ये स्थिताः ।

तेषाम् आप्यायनायैतद् दीयते सलिलं मया ॥

ये ऽबान्धवा बान्धवा वा ये ऽन्यजन्मनि बान्धवाः ।

ते तृप्तिम् अखिलां यान्तु ये चास्मत्तो ऽभिकाङ्क्षिणः ॥

यत्रक्वचनसंस्थानां क्षुत्तृष्णोपहतात्मनाम् ।

इदम् अक्षय्यम् एवास्तु मया दत्तं तिलोदकम् ॥ ३२७ ॥

विपु ३। ११। ३२-३६

वायवीये ऽपि—

आब्रह्मस्तबपर्यन्तं देवर्षिपितृमानवाः ।

तृप्यन्तु पितरः सर्वे मातृमातामहादयः ॥

अतीतकुलकोटीनां सप्तद्वीपनिवासिनाम् ।

आब्रह्मभुवनाल्लोकादिदम् अस्तु तिलोदकम ॥ ३२८ ॥

वापु ११०। २१-२२ (= ३३७)

एतत् फलञ् च वैष्णवे—

कामोदकप्रदानं ते मयैतत् कथितं नृप ।

यद् दत्त्वा प्रीणयत्य् एतन् मनुष्यः सकलं जगत् ॥

जगदाप्यायनोद्भूतं पुण्यम् आप्नोति चानघ ।

**दत्त्वा कामोदकं सम्यग् एतेभ्यः श्रद्धयान्वित ॥ ३२९ ॥ **इति ।

विपु ३। ११। ३७-३८

अत्र

पक्षश्राद्धे हिरण्ये चाप्य् अनुव्रज्य तिलोदकम् ॥ ३३० ॥

(१) इति सौमन्तवाद् वचनात् तीर्थे हेमश्राद्धपक्षे श्राद्धीयब्राह्मणविसर्जनानन्तरं तीर्थनिमित्तं तर्पणम् आचरन्ति केचिन्, न तु पूर्वम् । (२) तद् अयुक्तम्, बहुभिर् वाक्यैस् तीर्थस्नानान्तरम् एव तद्विधानात् । (३) सुमन्तुवचनं तु येषां शाखिनां श्राद्धाङ्गभूतं तर्पणम् अस्ति तेषां हिरण्यश्राद्धे तत्पश्चात् विधत्ते । (४) अत एव प्रयोगपारिजाते श्राद्धाङ्गतर्पणम् एव प्रकृत्येदम् अभिहितम्—

[प्।९३] तस्मात् तीर्थतर्पणं स्नानान्त एव कार्यम् इति सिद्धम् ॥ ३३१ ॥

(१) तर्पणे ऽन्यो ऽपि विशेषो ऽन्यत्रोक्तः—

पितॄन् अतर्पयित्वा तु नदीस् तरति यो नरः ।

तस्यासृक्पानकामास् ते भवन्ति भृशदुःखिता ॥ ३३२ ॥ इति । (= ६७०)

(१) अत्र तर्पणे तर्प्यक्रमः—

आदौ पिता ततो माता सापत्नजननी तथा ।

**मातामहाः सपत्नीका आत्मपत्न्यस् ततः परम् ॥ **

सुतभ्रातृपितृव्याश् च मातुलाश् च सपत्निकाः ।

दुहिता च स्वसा प्रोक्ता दौहित्रो भागिनेयकः ॥

पितृष्वसा मातृष्वसा श्वशुरो गुरुरिकथदौ ॥ ३३३ ॥

(१) ऽरिक्थऽं धनम् ।

**एते स्युः पितरस् तीर्थे तर्पणे च महालये ॥ **

(२) ऽपितेऽति पित्रादित्रयम् इत्यर्थः । (३) एवं ऽमातेऽत्य् अत्रापि ।

अन्यत्रापि—

ताताम्बत्रितयं सपत्नजननी मातामहादित्रयम्

सस्त्रि स्त्रीतनयादि तातजननीस्वभ्रातरस् तत्स्त्रियः ।

ताताम्बात्मभगिन्यपत्यधवयुक् जायापिता सद्गुरुः

शिष्याप्ताः पितरो महालयविधौ तीर्थे तथा तर्पण ॥ ३३४ ॥

(१) इति । ऽत्रितयऽशब्दस्य ताताम्बाभ्यां प्रत्येकं सम्बन्धः । (२) ऽसस्त्रीऽति मातामहादित्रयस्य विशेषणम् । (३) अन्ये तु मातामह्यादीनां पृथक्तर्पर्णम् इच्छन्ति श्राद्धवत् । (४) ऽस्त्रीतनयादीऽति तर्पयित्रपेक्षया । (५) ऽतातजननीस्वभ्रातरऽ इति तातभ्रातरः पितृव्याः मातृभ्रातरो मातुलाः स्वभ्रातरस् तर्पणकर्तृभ्रातरः । (६) ऽतत्स्त्रियःऽ पितृव्यमातुलस्वभार्तृस्त्रियः । (७) ऽसस्त्रियऽ इति वा पाठः । (८) तदा ऽतातभ्रात्रादयः

**[प्।९४] **सपत्नीकाऽ इत्य् अर्थः । (९) ऽतातेऽति पितृष्वसृमातृष्वसृस्वस्वसारो ऽपत्यभर्तृयुक्ताः ।

(१०) ततश् च पितृष्वस्रे यथायोग्यं सभर्तृकायै सापत्यायै इत्य् एवम्प्रकारकं प्रयोगवाक्यम् अनुसन्धेयम् । (११) ऽजायापिताऽ श्वशुरः । (१२) अन्यत् स्पष्टम् ।

(१३) अत्र भ्रातृपितृव्यादीनां पूर्वोक्तक्रमेण सह विकल्पः ।

(१४) एवं पूर्वोक्तसकलतर्पणाशक्तौ सङ्क्षेपतर्पणं कार्यं,

आब्रह्मस्तम्बपर्यन्तं जगत् तृप्यत्व् इति ब्रुवन् ।

जलाञ्जलित्रयं दद्यात् कुर्वन् सङ्क्षेपतर्पणम् ॥ ३३५ ॥

इति वचनात् । (१) तच् चेत्थम्—

आब्रह्मस्तम्बपर्यन्तं जगत् स्थावरजङ्गमम् ।

मया दत्तेन तोयेन तृप्तं यातु परां गतिम् ॥ ३३६ ॥

इति मन्त्रेण, यद्वा

आब्रह्मस्तम्बपर्यन्तं देवर्षिपितृमानवाः ।

तृप्यन्तु पितरः सर्वे मातृमातामहादयः ॥

अतीतकुलकोटीनां सप्तद्वीपनिवासिनाम् ।

**आब्रह्मभुवनाल्लोकादिदम् अस्तु तिलोदकम् ॥ ३३७ ॥ **(= ३२८)

(१) इति मन्त्रेण सतिलकुशान् त्रीन् जलाञ्जलीन् दद्याद् इति । (२) अत्र प्रत्यञ्जलि मन्त्रावृत्तिः । (३) “ननु मन्त्रस्य तर्पणकर्मकरणत्वात् सङ्ख्याञ्जलिदानस्य चैककर्मत्वान्

मन्त्रान्तेन कर्मादिसन्निपातः स्याद् ॥ ३३८ ॥

शब् ११। ४। १९। ५३

(१) इति न्यायेन ऽअव रक्षो दिवः सपत्नं वध्यासम् इत्य् अवहन्तीऽतिवद्, ऽवेदिर् असि बर्हिषे त्व् एति त्रिर्वेदिं प्रोक्षतीऽतिवच् च सकृद् एव मन्त्रपाठः स्यात्” । (२) मैवं, प्रत्यञ्जलि ह्य् अन्यद् अन्यज्जलं दीयते । (३) ततश् च यत्र मन्त्रः प्रयुक्तस् तद् अर्थ एव स स्यान् न सर्वार्थ इति विशेषग्रहणात् सर्वसंस्कारासिद्धेस् तत्सिद्धये **[प्।९५] **निर्वपणलवनादिवत् द्रव्यान्तरत्वेन प्रत्यञ्जल्य् एव मन्त्रप्राप्तिः । (४) अवघातप्रोक्षणयोस् तु त एव व्रीहयः पुनर् अव हन्यन्ते, सैव च वेदिः पुनः प्रोक्ष्यत इति द्रव्यैकत्वात् संस्कारलाभान् न मन्त्रावृत्तिः । (५) तस्मात् सन्ध्यार्घ्यदानवत् प्रत्यञ्जलि मन्त्रावृत्तिः ।

(६) केचित् तु “ ऽइति ब्रुवन्न्ऽ [ ३३५] इति शतृप्रत्ययेन समानकालत्वावगमाद् ऽयुवा सुवासाऽ इतिवत् क्रियमाणानुवादितया करणत्वाभावात् सकृद् एव मन्त्रं पठन्न् अञ्जलित्रयं दद्याद्” इत्य् आहुः ।

(७) यश् च तर्पणे तिलनिषेधः—

गार्ग्यः—

भानौ भौमे त्रयोदश्यां नन्दाभृगुमघासु च ।

पिण्डदानं मृदास्नानं न कुर्यात् तिलतर्पणम् ॥ ३३९ ॥ इति । (= ३९४)

मरीचिः—

सप्तम्यां रविवारे च गृहे जन्मदिने तथा ।

भृत्यपुत्रकलत्रार्थी न कुर्यात् तिलतर्पणम् ॥

पक्षयोर् उभयो राजन् सप्तम्यां निशि सन्ध्ययोः ।

विद्यापुत्रकलत्रार्थी तिलान् सप्तसु वर्जयेत् ॥ ३४० ॥

स्मृत्यर्थसारे—

विवाहे चोपनयने चौले सति यथाक्रमम् ।

वर्षम् अर्धं तदर्धञ् च नेत्येके तिलतर्पणम् ॥

वृद्धौ सत्याञ् च तन्मासि नेत्य् आहुस् तिलतर्पणम् ॥ ३४१ ॥

सस्, प्। ३०

(१) इति, अयं तीर्थतर्पणे न प्रवर्तते,

तीर्थे तिथिविशेषे च गयायां प्रेतपक्षके ।

निषिद्धे ऽपि दिने कुर्यात् तर्पणं तिलमिश्रितम् ॥ ३४२ ॥

इति वचनात्,

तिथितीर्थविशेषेषु कार्यं प्रेते च सर्वदे–

सस्, प्। ३०

ति स्मृत्यर्थसारोदाहृतवचनाच् च ।

[प्।९६] (१) तर्पणे ऽन्यत् सर्वं सामान्यविधानं ग्रन्थान्तरतो ऽवसेयम् ।

(२) विधवयापि तीर्थे तर्पणं कार्यं,

तर्पणं प्रत्यहं कार्यं भर्तुः कुशतिलोदकैः ।

तत्पितुस् तत्पितुश् चापि नामगोत्रादिपूर्वकम् ॥ ३४४ ॥

स्क्पु, ब्रह्मखण्ड २। ७। ६९

(१) इति स्कान्दे विधवाधर्मेषु प्रत्यहम् अप्य् अभिधानात् । (२) तीर्थे निमित्तिकतया सुतरां तदधिकारात् । (३) इदञ् च पुत्रपौत्राभावविषयम् । (४) मदनपारिजाते ऽप्य् एवम् एव ।

(५) सन्न्यासिना तु तर्पणं न कार्यं,

न कुर्यात् सूतकं भिक्षुः श्राद्धपिण्डोदकक्रियाम् ॥ ३४५ ॥ (= ५७१)

(१) इति स्मृतेः ।

इति श्रीभट्टरामेश्वरसूरिसूनुनारायणभट्टविरचिते त्रिस्थलीसेतौ

सामान्यप्रघट्टके तीर्थतर्पणम्

**[प्।९७] ** अथ तीर्थस्नानतर्पणप्रसङ्गान् नदीनां रजोदोषः

देवलः

नभोनभस्ययोर् मध्ये सर्वा नद्यो रजस्वलाः ।

तासु स्नानं न कुर्वीत देवर्षिपितृतर्पणम् ॥ ३४६ ॥

अत्रिः

सिंहकर्कटयोर् मध्ये सर्वा नद्यो रजस्वलाः ।

न स्नानादीनि कर्माणि तासु कुर्वीत मानवः ॥ ३४७ ॥

(१) इदञ् च महानदीव्यतिरिक्तविषयं,

सिंहकर्कटयोर् मध्ये सर्वा नद्यो रजस्वलाः ।

तासु स्नानं न कुर्वीत वर्जयित्वा समुद्रगा ॥ ३४८ ॥

इति व्याघ्रपादोक्तेः । (१) महानदीषु विशेषान्तरं भविष्योत्तरे—

आदौ तु कर्कटे देवि महानद्यो रजस्वलाः ।

त्रिदिनं तु चतुर्थे ऽह्नि शुद्धा स्युर् जाह्नवी यथे– ॥ ३४९ ॥

ति । (१) महानद्यश् च ब्रह्मपुराणे—

गोदावरी भीमरथी तुङ्गभद्रा च वेणिका ।

तापी पयोष्णी विन्ध्यस्य दक्षिणे तु प्रकीर्तिता ॥ ३५० ॥ इति । (= ५५)

भागीरथी नर्मदा च यमुना च सरस्वती ।

विशोका च विहस्ता च विन्ध्यस्योत्तरतः स्थिताः ॥

द्वादशैता महानद्यौ देवर्षिक्षेत्रसम्भवा ॥ ३५१ ॥ इति ।

(१) अल्पनदीषु तु अगस्त्योदयावधि रजस्वलात्वम् उक्तं मात्स्ये—

यावन् नोदेति भगवान् दक्षिणाशाविभूषणम् ।

तावद् रजोवहा नद्यः करतोयाः प्रकीर्तिता ॥ ३५२ ॥ इति ।

(१) ऽकरतीयाःऽ स्वल्पतोयाः ।

(२) अन्यो ऽपि विशेषः कात्यायनेनोक्तः—

[प्।९८] याः शोषम् उपगच्छन्ति ग्रीष्मे कुसरितो भुवि ।

तासु प्रावृषि न स्नायाद् अपूर्णे दशवासरे ॥ ३५३ ॥

(१) गङ्गादिविषये तु देवलः—

गङ्गा च यमुना चैव प्लक्षजाता सरस्वती ।

(१) (कुरुक्षेत्रे या सरस्वती सा प्लक्षजाता । )

रजसा नाभिभूयन्ते ये चान्ये नवसञ्ज्ञिताः ॥

शोणसिन्धुहिरण्याख्या कोकलोहितघर्घराः ।

शतद्रुश् च नदाः सप्त पावनाः परिकीर्तिताः ॥ ३५४ ॥

स्मृतिसङ्ग्रहे—

तपनस्य सुता गङ्गा गौतमी च सरस्वती ।

रजसा नाभिभूयन्ते वेणा च नवसञ्ज्ञिताः ॥ ३५५ ॥

(१) ऽतपनस्य सुताऽ यमुना ।

निगमः—

गङ्गा धर्मद्रवः पुण्या यमुना च सरस्वती ।

अन्तर्गतरजोदोषाः सर्वावस्थासु चामलाः ॥ ३५६ ॥

एवञ् च

प्रथमं कर्कटे देवि त्र्यहं गङ्गा रजस्वले– ॥ ३५७ ॥

(१) त्यादि गङ्गादीनां रजोदोषवचांसि अन्तर्गतरजोविषयाणि ।

तथा—

कर्कटादौ रजोदुष्टा गोमती वासरत्रयम् ।

चन्द्रभागा सती सिन्धुः शरयूर् नर्मदा तथा ॥ ३५८ ॥

(१) अयञ्च नदीनां रजोदोषो न तत्तीरवासिनाम् । अत एव निगमे—

[प्।९९] न तु तत्तीरवासिनाम् ॥ ३५९ ॥ (= २५४)

इत्य् उक्तम् ।

(१) रजोदुष्टम् अपि जलं गङ्गादिजलसंयुतं स्वयम् अदुष्टं भवति, न च गङ्गादिजलं दूषयति । तद् उक्तं मत्स्यपुराणे—

पुण्याम्भसा समायोगाद् दुष्टमप्य् अम्बु पावनम् ॥ ३६० ॥ इति ।

भारते च—

अपवित्रम् अपि प्राप्य गङ्गां याति पवित्रताम् ॥ ३६१ ॥ इति ।

अन्यो ऽपि विशेषः स्मृतिसङ्ग्रहे—

धनुःसहस्राण्य् अष्टौ तु गतिर् यासां न विद्यते ।

न ता नदीशब्दवहा गर्तास् ताः परिकीर्तिताः ॥

काले नभस्य् अशुद्धं स्यात् त्रिरात्रं तु नवोदकम् ।

अकाले तु दशाहं स्यात् पीत्वा नाद्याद् अहर्निशम् ॥ ३६२ ॥ इति ।

(१) अन्यो ऽपि विशेषो भविष्ये—

महदम्बु समं वापि यदि तिष्ठेत् पुरातनम् ।

नवाम्बु मिश्रितं तेन न दुष्टम् इति सूरयः ॥ ३६३ ॥

योगयाज्ञवल्क्यः—

रजोदुष्टे ऽम्भसि स्नानं वर्ज्यं नद्यादिषु द्विजैः ।

कदर्थितं रजस् तेषां सन्ध्योपास्तिश् च तर्पणम् ॥ ३६४ ॥

(१) ऽकदर्थितऽं कुत्सितम् ।

तथा—

अजा गौर् महिषी चैव ब्राह्मणी च प्रसूतिका ।

भूमेर् नवोदकञ् चैव दशरात्रेण शुध्यति ॥ ३६५ ॥

(१) नूतनखानितकूप्याद्युदकं ऽनवोदकम्ऽ ।

(२) केषुचित् तु कर्मसु रजोदोषाभावः । तदाह व्याघ्रपादः—

[प्।१००] अभावे कूपवापीनाम् अनपायिपयोभृताम् ।

** रजोदुष्टे ऽपि पयसि ग्रामभोगो न दुष्यती– ॥ ३६६ ॥** ति ।

वसिष्ठः—

उपाकर्मणि चोत्सर्गे प्रेतस्नाने तथैव च ।

चन्द्रसूर्यग्रहे चैव रजोदोषो न विद्यते ॥ ३६७ ॥

गोमिल १। १४३

इत्यादि ।

इति त्रिस्थलीसेतौ नदीरजोदोषः

[प्।१०१] अथ तीर्थश्राद्धम्

पाद्मे सृष्टिखण्डे—

तीर्थायतनगोष्ठेषु द्वीपोद्यानगृहेषु च ।

विविक्तेषूपलिप्तेषु श्राद्धं देयं विजानता ॥ ३६८ ॥

पद्पु, सृख् ९.१३८च्-१३९ब्

पाद्ममात्स्ययोः ऽतीर्थं पुष्करकं नामेऽत्यादिना [मपु २२। ६५अ] तीर्थान्य् अनुक्रम्योक्तम्—

एषु तीर्थेषु यच् छ्राद्धं तत् कोटिगुणम् इष्यते ।

यस्मात् तस्मात् प्रयत्नेन तीर्थे श्राद्धं समाचरेत् ॥ ३६९ ॥

मपु २२। ८१अ; पद्पु, सृख् ११। ८४अ-ब्, ८५अ-ब्

कौर्मे—

देशानां तु विशेषेण भवेत् पुण्यम् अनन्तकम् ।

गयायाम् अक्षयं श्राद्धं प्रयागे ऽमरकण्टके ॥

वराहपर्वते चैव गङ्गायाञ् च विशेषतः ।

वाराणस्यां विशेषेण यत्र देवः स्वयं हरः ॥

गङ्गाद्वारे प्रभासे च बिल्वके नीलपर्वते ।

कुरुक्षेत्रे च कुब्जाम्रे भृगुतुङ्गे हिमाचले ॥

केदारे फल्गुतीर्थे च नैमिषारण्य एव च ।

सरस्वत्यां विशेषेण पुष्करेषु विशेषतः ॥

नर्मदायां कुशावर्ते श्रीशैले भद्रकर्णके ।

वेत्रवत्यां विशेषेण गोदावर्यां विशेषतः ॥

एवमादिषु चान्येषु तीर्थेषु पुलिनेषु च ।

नदीनाञ् चैव तीरेषु तुष्यन्ति पितरः सदा ॥ ३७० ॥

कूपु २। २०। २८च्-२९ब्, ३२-३६

**[प्।१०२] **विष्णुः—

पुष्करेष्व् अक्षयं श्राद्धं जपहोमतपांसि च ।

पुष्करे स्नातमात्रस् तु सर्वपापात् प्रमुच्यते ॥

विस्म् ८५। १-३

इत्य् अभिधाय,

** एवम् अन्येषु तीर्थेषु सरिद्वरासु सङ्गमेषु प्रभवेषु **

पुलिनेषु निकुञ्जेषु प्रस्रवणेषु वनेषूपवनेषु चे– ॥ ३७१ ॥ त्यादि ।

विस्म् ८५। ५७-६५

(१) ऽप्रभवाऽ नद्युत्पत्तिदेशाः, ऽसरिद्वरासु सङ्गमेष्व्ऽइति प्रकृत्याभिधानात् ।

देवलः—

श्राद्धस्य पूजितो देशो गया गङ्गा सरस्वती ।

कुरुक्षेत्रं प्रयागञ् च नैमिषं पुष्कराणि च ॥

नदीतटेषु तीर्थेषु शैलेषु पुलिनेषु च ।

विविक्तेषु च तुष्यन्ति दत्तेनेह पितामहाः ॥ ३७२ ॥

शङ्खः—

वाराणस्यां कुरुक्षेत्रे भृगुतुङ्गे हिमालये ।

नर्मदाबाहुदातीरे सर्वम् आनन्त्यम् अश्नुते ॥

गङ्गाद्वारे प्रयागे च नैमिषे पुष्करे तथा ।

सन्निहित्यां गयायाञ् च सर्वम् अक्षयतां व्रजेत् ॥ ३७३ ॥

शण्ख (क्) १९४

(१) अत्र सामान्यतस् तीर्थश्राद्धविधायकवचनबलाद् एव सर्वत्र श्राद्धप्राप्तौ सत्याम् अपि विशेषकीर्तनं गुणफलसम्बन्धविधानार्थं, ऽदध्नेन्द्रियकामस्येऽत्यादिवत् । (२) न तु विशिष्टश्राद्धान्तरविधिर् गौरवापत्तेः, ऽसोमेन यजेतेऽत्यादिवद् अगतिकत्वाभावात् ।

तीर्थान्य् अनुक्रम्य वायुपुराणे—

एवमादिषु तीर्थेषु श्राद्धं ये निर्वपन्ति हि ।

पूता भवन्ति ते स्नात्वा दत्त्वा पश्चाद् यथाविधि ॥ ३७४ ॥

[प्।१०३] ऽदत्त्वेऽति तर्पणविध्युक्तमार्गेण तिलोदकं दत्त्वे– ॥ ३७५ ॥

ति स्मृतिरत्नावल्याम् ।

विष्णुधर्मोत्तरे—

दक्षिणाप्रवणे देशे तीर्थादौ वा गृहे ऽपि वा ।

भूसंस्कारादिसंयुक्ते श्राद्धं कुर्यात् प्रयत्नतः ॥ ३७६ ॥

यत् तु यमः—

परकीयप्रदेशेषु पितॄणां निर्वपेत् तु यः ।

तद्भूमिस्वामिपितृभिः श्राद्धकर्म विहन्यते ॥ ३७७ ॥

तथा ब्रह्मपुराणे—

परकीयगृहे यस् तु स्वान् पितॄंस् तर्पयेद् जडः ।

तद्भूमिस्वामिनस् तस्य हरन्ति पितरो बलात् ॥

अग्रभागं ततस् तेभ्यो दद्यान् मूल्यञ् च जीवताम् ॥ ३७८ ॥

(१) स्वीयद्रव्यस्य ऽतेभ्यस्ऽ तद्भूमिस्वामिपितृभ्य उत्सृष्टं देयम् । (२) ऽजीवताऽं स्वामिनां मूल्यं देयम् इति । (३) तत्र परकीयप्रदेशाः परगृहादयो निषिद्धाः, न तु तीर्थादयस् तेषाम् अस्वामिकत्वात् । तद् उक्तं कौर्मे—

**अटव्यः सर्वतः पुण्या नदीतीराणि यानि च । **

सर्वाण्य् अस्वामिकान्य् आहुर् नहि तेषु परिग्रहः ॥ ३७९ ॥

तथा—

वनानि गिरयो नद्यस् तीर्थान्य् आयतनानि च ।

देवखाताश् च गर्ताश् च न स्वामी तेषु विद्यते ॥ ३८० ॥

(१) ऽगर्ताऽ अकृत्रिमाः क्षेत्रविशेषा ब्रह्मयोन्यादयः ।

(२) इदञ् च श्राद्धं स्नानतर्पणाद्यनन्तरम् अविलम्बेनैव कार्यम् । तद् उक्तं देवीपुराणे—

**श्राद्धञ् च तत्र कर्तव्यम् अर्घ्यावाहनवर्जितम् । **( = ४०६ ) **श्वध्वाङ्क्षगृध्रकाकानां नैव दृष्टिहतञ् च यत् ॥**

[प्।१०४] श्राद्धं तत् तैर्थिकं प्रोक्तं पितॄणां तृप्तिकारकम् ।

काले वाप्य् अथवा ऽकाले तीर्थे श्राद्धं तथा नरैः ॥

प्राप्तैर् एव च कर्तव्यं पितॄणां चैव तर्पणम् । ( = ३२४)

पिण्डदानञ् च तच् छस्तं पितॄणाञ् चातिवल्लभम् ॥

**विलम्बो न च कर्तव्यो न च विघ्नं समाचरेद् ॥ ३८१ ॥ **इति ।

(१) ऽप्राप्तैर् एवेऽति आवश्यकस्नानर्तर्पणाद्यनन्तरं, तावतो विलम्बस्य स्नानतर्पणादिविध्यभ्यनुज्ञातत्वात् ।

(२) तीर्थश्राद्धे निषिद्धकालवर्जनम् अपि नास्तीत्य् आह शङ्खः—

तीर्थे द्रव्योपपत्तौ च न कालम् अवधारयेत् ।

पात्रञ् च ब्राह्मणं प्राप्य सद्यः श्राद्धं समाचरेत् ॥ ३८२ ॥

तथा भारते आदिपर्वण्य् अङ्गारपर्णं प्रत्य् अर्जुनः—

भुक्तो वाप्य् अथवाभुक्तो रात्राव् अहनि खेचर ।

न कालनियमो ह्य् अस्ति गङ्गां प्राप्य सरिद्वराम् ॥ ३८३ ॥ इति ।

म्भ् १.१७१३*।१प्र्

चित्रपथामाहात्म्ये—

**भुक्तो वाप्य् अथ वाभुक्तो रात्रौ वा यदि वा दिवा । **

पर्वकाले ऽथ वाकाले शचिर् वाप्य् अथ वाशुचिः ॥

**यदैव दृश्यते तत्र नदी चित्रपथा प्रिये । **

प्रमाणं दर्शनं तस्या न कालस् तत्र कारणम् ॥ ३८४ ॥

(१) ऽअशुचिर्ऽ आशौचेनापि ।

अत एव पैठीनसिः—

**विवाहदुर्गयज्ञेषु यात्रायां तीर्थकर्मणि । **

न तत्र सूतकं तद्वत् कर्मयज्ञादि कारयेत् ॥ ३८५ ॥ (= १९६, ३१५)

[प्।१०५] काशीखण्डे—

अकाले ऽप्य् अथवाकाले तीर्थे श्राद्धञ् च तर्पणम् ।

**अविलम्बेन कर्तव्यं नैव विघ्नं समाचरेत् ॥ ३८६ ॥ **(= ३२३)

(१) ऽकालेऽ ऽपराह्णादौ भोजनादिराहित्ये च । (२) ऽअकालेऽ रात्र्यादौ कृतभोजनादिनापि ।

(३) प्राप्ततीर्थस्यैवाधिकारिविशेषणत्वाद् ग्रहणादिवत् सर्वास्व् अवस्थासु श्राद्धं कार्यम् इत्य् आशयः । (४) ऽकालऽ इति तु दृष्टान्ततयोक्तम् । (५) तत्र च ऽसमुद्रो वा महासत्त्वऽ इतिवद् वाशब्दो नेयः ।

(६) कश्चित् तु “ ऽअकालेऽ अमावास्यादिश्राद्धकालव्यतिरिक्ते ऽपि न तु रात्र्यादौ निषेधविरोधात् । (७) अत एव ऽतीर्थद्रव्योपपत्तौ च न कालम् अवधारयेद्ऽ [ = ३८२] इति देवलवचने

**ऽन कालम् अवधारयेद्ऽ अमावास्याम् अपराह्णं वा न **

प्रतीक्षेत । निषिद्धं तु रात्र्यादि वर्जयेद् एवे–

श्रावि प्। ६६

त्य् उक्तं शूलपाणिने”त्य् आह । (१) तन् न, सर्ववारतिथीनां श्राद्धे निषेधाभावेन नैमित्तिके ऽस्मिन् श्राद्धे निमित्तानन्तरभाविनि प्राप्तत्वाद् एव विधानवैयर्थ्यात् ।

(२) अथोच्येत “सर्ववारतिथिषु श्राद्धस्यानावश्यकत्वाद् यस्मिन् काले प्रतिपदादौ श्राद्धम् अनावश्यकं तदापि तीर्थप्राप्तौ सत्यां श्राद्धम् अवश्यं कार्यम्;

(३) इत्य् आवश्यकत्वार्थम् ऽअकालऽ इत्य् उक्तम्” इति । (४) तद् अपि न, नैमित्तिकविधित एव निमित्ते सत्य् अवश्यकर्तव्यत्वसिद्धेर् गृहदाहेष्ट्यादिवत् । (५) ततश् च ऽअकालऽ इत्यस्य सार्थक्याय निषिद्धरात्र्यादिप्रतिप्रसवार्थत्वम् एव युक्तम् । (६) अत एव शङ्खेन ऽन कालम् अवधारयेद्ऽ इति सामान्यत एवोक्तम् । (७) चित्रपथामाहात्म्ये च ऽरात्रौ वा यदि वा दिवेऽति [३८४] स्फुटम् एवाह । विष्णुर् अपि—

**ततः सायाह्नदत्तं हि राक्षसैर् विप्रलुप्यते । **

**ग्रहोपरागसङ्क्रान्तितीर्थश्राद्धादिकं विने– ॥ ३८८ ॥ **ति ।

(१) तस्माद् आकस्मिकतीर्थप्राप्तौ सत्यां भुक्तवता रात्र्यादौ वा श्राद्धादि कार्यम् इति सिद्धम् ।

(२) यदा तु प्राप्तिदिने दैवो मानुषो वा विघ्नः स्यात्, तदा दिनान्तरे श्राद्धं

[प्।१०६] कार्यम् । (३) “ननु ऽप्राप्तैर् एव कार्यम्ऽ इति प्राप्त्यनन्तरकाले कर्तव्यतोक्तेः दिनान्तरे च तद् अभावात्, अमावास्यायां सूतकादिविघ्ने सति श्राद्धलोपवद् अत्रापि लोप एव स्यात् ।

(४) क्षयाहादेस् तु सूतकाद्यनन्तरम् अप्य् अनुष्ठानं युक्तं,

तद् अहश् चेत् प्रदुष्येत केनचित् सूतकादिना ।

सूतकानन्तरं कुर्यात् पुनस् तद् अहर् एव वे– ॥ ३८९ ॥

त्यादिवचनात् । (१) इह तु वचनाभावाल् लोप एव युक्तः । (२) एवं रात्रौ सन्ध्यायां वा तीर्थप्राप्तौ लोपो ऽस्तु रात्रिसन्ध्ययोः श्राद्धनिषेधाद् उत्तरदिने च

प्राप्त्यनन्तरकालाभावात्” ।

(३) सत्यम् एवं भवेत्, यद्य् अमावास्यादिवत् कालविधानं स्यात् । (४) इह तु तीर्थप्राप्तेर् निमित्ततामात्रम् उच्यते । (५) तथा च ऽनिमित्ते सति नैमित्तिकानुष्ठानम् अनन्तरकाल एवासति प्रतिबन्धे कार्यम्ऽ इति न्यायलभ्यः कालः । (६) तेन सति प्रतिबन्धे जातेष्टिवत् कालान्तरे ऽप्य् अनुष्ठानम् अविरुद्धम् । (७) यथा हि ऽवैश्वानरं द्वादशकपालं निर्वपेत् पुत्रे जातऽ इति विहिता जातेष्टिर् जातकर्मणः पूर्वं क्रियमाणा जातकर्मणः प्राक् स्तनपाननिषेधाद् इष्टिजातकर्मादिव्यवधाने पुत्रविपत्त्यापत्तेर् उपजीव्यविरोधापत्तेर् अनन्तरकाल एव न कार्या, किन्तु जातकर्मण ऊर्ध्वम् इति चतुर्थे सिद्धान्तिते, जातकर्मानन्तरं सूतकेनाशुचित्वान् निमित्ताव्यवहितानन्तर्यस्य च बाधित्वान् निमित्तस्य च जातत्वाद् अत्यन्तलोपायोगाच् छुद्ध्यनुरोधेन सूतकानन्तरे पर्वण्य् अनुष्ठेयेति तदुत्तराधिकरणे साधितम् । (८) तद्वद् अत्रापि कालान्तरानुष्ठानम् अविरुद्धम् ।

(९) इयांस् तु विशेषः; (१०) तत्रावश्यको मध्ये प्रतिबन्धः, इह तु कादाचित्क इति ।

(११) यदा तु प्रतिबन्धाद् अकृतश्राद्ध एव बहिर्याति तथा तीर्थरूपदेशाभावात् तन्निमित्तकश्राद्धं लुप्यत एव, मृत इव पुत्रे पूतत्वादिफलाधिकरणाभावाज् जातेष्टिः ।

(१२) यदि स्वबुद्ध्या ऽकृतश्राद्ध एव गच्छेत् तदा प्रत्यवेयात् पुरुषापराधात् ।

(१३) अबुद्धिपूर्वे तु प्रतिबन्धे न प्रत्यवैतीत्य् एतावान् विशेषः ।

(१४) रात्रिसन्ध्ययोर् अपि तीर्थप्राप्तौ पूर्वोक्तवाक्यवशान् निषेधं बाधित्वा

[प्।१०७] तदैव श्राद्धम् इत्य् उक्तम् एव । (१५) स्नानमुण्डनोपवासादाव् अप्य् अयम् एव सर्वो निर्णयः, नैमित्तिकत्वेन साम्यात् । तथा प्रभासखण्डे—

न वारं न च नक्षत्रं न कालस् तत्र कारणम् ।

यदैव दृश्यते तीर्थं तदा पर्वसहस्रकम् ॥ ३९० ॥

(१) अतश् च तीर्थश्राद्धे तिथिवासरनक्षत्रादि प्रत्युक्तो निषेधो न प्रवर्तत इत्य् अभिप्रायः ।

(२) तन् निषेधश् च गार्ग्यः—

नन्दायां भार्गवदिने त्रयोदश्यां त्रिजन्मनि ।

एषु श्राद्धं न कुर्वीत गृही पुत्रधनक्षयात् ॥ ३९१ ॥

(१) ऽत्रिजन्मनिऽ जन्मदिननक्षत्रतारासु ।

वृद्धगार्ग्यः—

प्राजापत्ये च पौष्णे च पित्रर्क्षे भार्गवे तथा ।

यस् तु श्राद्धं प्रकुर्वीत तस्य पुत्रो विनश्यति ॥ ३९२ ॥

(१) प्राजापत्यं रोहिणी । (२) पौष्णं रेवती । (३) पित्रर्क्षं मघा ।

भारते—

नक्षत्रे च न कुर्वीत यस्मिन् जातो भवेन् नरः ।

न प्रोष्ठपदयोः कार्यं न चाग्नेये च भारत ।

**दारुणेषु च सर्वेषु प्रत्यरे च विवर्जयेत् ॥ ३९३ ॥ **(= २९२)

म्भ् १३। १०७। ११९च्-१२०ब्

(१) आग्नेयं कृत्तिका । (२) दारुणान्य् आर्द्राश्लेषाज्येष्ठामूलानि । (३) जन्मर्क्षात् पञ्चमं चतुर्दशं त्रयोविंशञ् च प्रत्यरम् ।

(४) एतानि वचनानि यद्यपि प्रेतश्राद्धनिषेधपरतया हेमाद्रिप्रभृतिभिर् अङ्गीकृतानि, तथापि कैश्चि छ्राद्धमात्रनिषेधपरताङ्गीकाराद् अत्रोदाहृतानि ।

(५) तथा पिण्डदाने ऽपि निषेधः—

भानौ भौमे त्रयोदश्यां नन्दाभृगुमघासु च ।

**पिण्डदानं मृदास्नानं न कुर्यात् तिलतर्पणम् ॥ ३९४ ॥ **(= ३३९)

[प्।१०८] रामकौतुके—

नन्दाश्वकामरव्यारभृग्वग्निपितृकालभे ।

गञ्जे वैधृतिपाते च पिण्डास् त्याज्याः सुतेप्सुभिः ॥ ३९५ ॥

(१) नन्दाः प्रतिपत्षष्ठ्येकादश्यः । (२) अश्वः सप्तमी । (३) कामस् त्रयोदशी । (४) रव्यारौ रविभौमवारौ । (५) भृगुः शुक्रवारः । (६) अग्निपितृकालभानि कृत्तिकामघाभरण्यः ।

(७) गञ्जो वैधृतिश् च योगौ । (८) पातो व्यतीपातः ।

कार्ष्णाजिनिः—

विवाहव्रतचूडासु वर्षम् अर्धं तदर्धकम् ।

पिण्डदानं मृदास्नानं न कुर्यात् तिलतर्पणम् ॥

वृद्धिमात्रे तथान्यत्र पिण्डदाननिराक्रिया ।

कृता गर्गादिभिर् मुख्यैर् मासम् एकं तु कर्मिणाम् ॥ ३९६ ॥

मनुः—

रात्रौ श्राद्धं न कुर्वीत राक्षसी कीर्तिता हि सा ।

सन्ध्ययोर् उभयोश् चैव सूर्ये चैवाचिरोदिते ॥ ३९७ ॥

मनु ३। २८०

वायुपुराणे—

त्रिमुहूर्तं तु सायाह्नस् तत्र श्राद्धं विवर्जयेत् ।

उपसन्ध्यं न कुर्वीत पितृपूजां कथञ्चन ॥

स काल आसुरः प्रोक्तस् तत्र श्राद्धं विवर्जयेद् ॥ ३९८ ॥

इत्यादि । (१) मलमासे ऽपि तीर्थश्राद्धं कार्यं,

नित्यं नैमित्तिकञ् चैव श्राद्धं कुर्यान् मलिम्लुच ॥ ३९९ ॥

इति जाबालिवचनात्,

नित्यनैमित्तिके कुर्यात् प्रयतः सन् मलिम्लुचे ।

तीर्थश्राद्धं गजछायाप्रेतश्राद्धं तथैव चे– ॥ ४०० ॥

बृह् (स्रा) १४९

ति बृहस्पतिवचनाच् च ।

(१) इदञ् च कृतभोजनादेः सन्ध्यायां रात्रौ मलमासे आशौचेनाशुचेश् च स्नानश्राद्धादिविधानम् आकस्मिकतीर्थप्राप्तिविषयं, न तु बुद्धिपूर्वविषयम् ।

(२) तीर्थप्राप्तिरूपनिमित्तस्य पुरुषप्रयत्नसाध्यतया ग्रहणादिवैलक्षण्यात् ।

[प्।१०९] (३) ततश् चानिषिद्धकाल एव बुद्धितस् तीर्थप्राप्ति कुर्यात् । (४) आकस्मिकप्राप्तौ तु निषिद्धकाले ऽपि ग्रहणपुत्रजन्मादाव् इव स्नानश्राद्धादि कुर्याद् इति तात्पर्यम् ।

(५) इदञ् चामहेमश्राद्धविषयम् । (६) तावतैव पूर्वोक्तवचनचारितार्थ्यात् ।

(७) अन्नश्राद्धं तु रात्रिसन्ध्ययोर् भुक्तवतश् च तीर्थप्राप्तौ द्वितीयदिने । (८) आशौचे तु तीर्थप्राप्तौ आशौचापगमे । (९) तीर्थसम्बन्धस्य तदानीम् अपि सत्त्वेन

ग्रहणादिवैलक्षण्यात् ।

(१०) मलमासे तु तीर्थप्राप्तौ विलम्बनिषेधात् तदा श्राद्धं कृत्वा शुद्धमासे ऽपि कार्यं, (११) तीर्थप्राप्तेस् तदापि सत्त्वात् कालशुद्ध्या फलाधिक्यात्,

यौगादिकं मासिकञ् च श्राद्धं चापरपक्षिकम् ।

मन्वादिकं तैर्थिकञ् च कुर्यान् मासद्वये ऽपि चे– ॥ ४०१ ॥

ति स्मृतिचन्द्रिकालिखितवचनाच् च । (१) अत्र ऽअपरपक्षिकऽं प्रतिमासं कृष्णपक्षश्राद्धं, न तु महालयश्राद्धं, तस्य तत्र निषेधात् । (२) न चेदं वच उभयत्र तीर्थप्राप्तिविषयम्, एतद् व्यतिरेकेणैव तदा श्राद्धसिद्धेस् तैर्थिकग्रहणानर्थक्यप्रसङ्गाद् इति दिक् ।

(३) श्राद्धीयब्राह्मणे विशेषो देवीपुराणे—

तीर्थेषु ब्राह्मणं नैव परीक्षेत कदाचन ।

अन्नार्थिनम् अनुप्राप्तं भोज्यं तं मनुर् अब्रवीत् ॥ ४०२ ॥

पाद्मे—

ब्राह्मणं न परीक्षेत तीर्थे कालं न चिन्तयेत् ।

प्राप्ततीर्थो यदा विद्वांस् तदैव श्राद्धम् आचरेत् ॥ ४०३ ॥


स्कान्दे—

न परीक्ष्यो द्विजस् तीर्थे ह्य् अन्नार्थी भोज्य एव तु ॥ ४०४ ॥

काख् ६। ५८अ-ब्

एतच् च श्राद्धार्हब्राह्मणाभावे ऽभ्यनुज्ञार्थम् ।

**तत्रापि गुणैर् एव न परीक्षेत । **

पातित्याद्यत्यन्तदोषयुक्तस् तु परिहर्तव्य एवे– ॥ ४०५ ॥

ति स्मृतिरत्नावलीकृता व्याख्यातम्

[प्।११०] अथ तीर्थश्राद्धे निषिद्धानि

देवीपुराणे—

श्राद्धञ् च तत्र कर्तव्यम् अर्घ्यावहनवर्जितम् ॥ ४०६ ॥ इति । (= ३८१)

तथा—

अर्घ्यम् आवाहनञ् चैव द्विजाङ्गुष्ठनिवेशनम् ।

तृप्तिप्रश्नञ् च विकिरं तीर्थश्राद्धे विवर्जयेत् ॥ ४०७ ॥

क्वचित् तु—

नावाहनं न दिग्बन्धो न दोषो दृष्टिसम्भवः ।

सकारुण्यञ् च कर्तव्यं तीर्थे श्राद्धं विचक्षणैः ॥ ४०८ ॥

भविष्ये—

देवाश् च पितरो यस्माद् गङ्गायां तु सदा स्थिताः ।

आवाहनं विसृष्टिश् च तत्र तेषां न विद्यते ॥ ४०९ ॥

तथा—

आवाहनं न तीर्थे स्यान् नार्घ्यदानं तथा भवेत् ।

आहूताः पितरस् तीर्थे कृतार्घाः सन्ति वै यतः ॥ ४१० ॥

अग्नौकरणम् अपि तीर्थश्राद्धे ने– ॥ ४११ ॥

ति स्मृतिरत्नावल्याम् ।

देवलः

न चात्र श्येनगृध्रादीन् पक्षिणः प्रतिषेधयेत् ।

तद्रूपाः पितरस् तत्र समायान्तीति वैदिकम् ॥ ४१२ ॥

[प्।१११] (१) अयञ् चावाहननिषेधस् तीर्थप्राप्तिनिमित्तक एव श्राद्धे न तु तीर्थाधिकरणकश्राद्धमात्रे, (२) ऽतत्रेऽति [४०६] निमित्तसप्तम्या तन्निमित्तकश्राद्धे एव तन्निषेधात्, (३) ऽप्राप्तैर् एवेऽत्य् उपसंहारे [३८१] प्राप्तेर् निमित्तत्वकीर्तनाच् च ।

(४) “ननु निमित्तसप्तम्याः पदान्तरसमभिव्याहाराधीनत्वाद् वाक्यगम्यत्वाच् च निमित्तत्वस्याधिकरणसप्तम्य् एवेयम् अस्तु; (५) कारकविभक्तित्वेन श्रुतित्वेन च बलवत्त्वात्” ।

(६) न, कारकविभक्तित्वासम्भवेन वाक्यस्यैव निर्णायकत्वसम्भवात् । (७) तथा हि; न तावद् “इयम् अधिकरणसप्तमी ऽअगारे गावो वास्यन्तम्ऽ इतिवत्, ऽतप्ते पयसि दध्यान् अयतीऽतिवद् वा शेषितया तीर्थस्याधिकरणतां बोधयती”ति युक्तं, (८) श्राद्धेन तीर्थस्य संस्काराद्यतिशयाजनतात् । (९) नापि ऽतत्र जयान् जुहुयाद्ऽ इतिवद् अङ्गितया तीर्थस्याविधेयत्वेनेतिकर्तव्यतानाकाङ्क्षत्वात्, (१०) फलकरणत्वाभावाच् च । (११) नापि शेषतया ऽअग्न्यभावे तु विप्रस्य पाणाव् एवोपपादयेत्,ऽ ऽयद् आहवनीये जुहोतीऽतिवत् तीर्थस्याधिकरणता, (१२) श्राद्धमात्रं प्रति तीर्थस्याङ्गत्वे गृहे क्रियमाणस्य दर्शश्राद्धादेर् वैगुण्यप्रसङ्गात् ।

(१३) “तीर्थश्राद्धं प्रति तीर्थम् अधिकरणतयाङ्गम्” इति चेत्, (१४) न, तीर्थश्राद्धयोः सम्बन्धस्याद्याप्य् अनिर्णयात्, (१५) तीर्थश्राद्धशब्दार्थस्यैव निर्णीयमाणत्वात्,

(१६) तीर्थपदावृत्तिप्रसङ्गाच् च ।

(१७) अतो ऽभिन्ने जुहोतीऽतिवत् कारकविभक्तित्वासम्भवान् निमित्तसप्तम्य् एवेयं ऽतत्रेऽति । (१८) तत्र तीर्थस्य सदातनत्वेन कादाचित्कत्वाभावान् निमित्तत्वायोगात् प्राप्तत्वेन तस्य निमित्तता, तत्प्राप्तेर् वा निमित्तता ऽप्राप्तैर् एव तु कर्तव्यम्ऽ [३८१] इत्यादिवचनालोचनया

लभ्यते ।

(१९) “ननु तथापि ऽतीर्थनिमित्तकं यच् छ्राद्धं तत्रार्घ्यादि वर्जयेद्ऽ इत्य् उद्देश्य श्राद्धविशेषणभूततीर्थाख्यनिमित्तविवक्षायाम् उभयार्त्य् अधिकरणोक्तरीत्यावाक्यभेदः । (२०) ततश् च श्राद्धमात्रे आवाहनादिनिषेधः स्याद्” इति चेन्, (२१) मैवं, उद्देश्यविशेषणविवक्षायां हि वाक्यभेदो, न विशिष्टोद्देश्यतायां, (२२) ऽमैत्रावरुणः प्रेष्यति चानु चाहेऽत्य् अत्रेव चोक्तसाहित्यविशिष्टप्रैषानुवचनोद्देश्यतायाम् ।

[प्।११२] _ _(२३) तत्र च विशिष्टरूपेण प्राकरणिकप्रत्यासन्नप्रमाणोपस्थापिततया बुद्धिविपरिवृत्तिर् एव विनिगमहेतुः, (२४) प्रैषानुवचनोभयात्मकमन्त्रस्येव पाठेन । (२५) ततो न वाक्यभेदः । (२६) प्रपञ्चितम् एतद् भवदेवेनेति नेहातिप्रपञ्च्यते ।

(२७) तस्मात् तीर्थप्राप्तिनिमित्तकश्राद्ध एवार्घ्यादिनिषेधो, न तु तदधिकरणश्राद्धमात्रे क्षयाहादाव् अपि; यथा—

अयनद्वितये श्राद्धं विषुवद्वितये तथा ।

सङ्क्रान्तिषु च कर्तव्यं पिण्डनिर्वपनाद् ऋत ॥ ४१३ ॥

(१) इति सङ्क्रान्त्यादिनिमित्तक एव पिण्डनिषेधो न तु वार्षिकादौ तद्वत् ।

तद् उक्तं—

न त्व् अत्रान्यनिमित्तके पितृयजौ पिण्डप्रहाणं भवेद् ॥ ४१४ ॥ इति

(१) “एवम् अप्य् आवाहनस्य सन्निधिफलकत्वात् तीर्थे च पितॄणां सदासन्निधानात् स्वयङ्कृतेध्मवेद्योश् छेदनोद्धननादिवत् द्वाराबाधात् तीर्थाधिकरणकश्राद्धमात्र एव वैयर्थ्याद् आवाहनबाधः स्याद्” इति चेत्, (२) मैवं, ऽतेन ह्य् अन्नं क्रियतऽ इतिवत् सन्निधिप्रतिपादनस्य हेत्वर्थवादत्वात् । (३) सन्निधाने ऽपि चोपचारत्वेनावाहनसम्भवाद् बुद्धबोधनवत् । (४) तीर्थनिमित्तके तु निषेधाद् बाधः ।

(५) तथा— “न देवतायाः शारीरः सन्निधिर्, देवताधिकरणे शरीरनिराकरणात् । (६) नापि बौद्धः, शब्दमात्रस्य देवतात्वाङ्गीकाराद् अचेतनत्वेन तद् असम्भवात् । (७) किमर्थं तर्हि अन्यत्राप्य् आवाहनम्? (८) अदृष्टार्थम् इत्य् अवेहि । (९) अत एव नावाहनमन्त्रोहो ऽपी”त्य् अप्य् आहुः ।

(१०) अत्र कश्चित्; “न देवताधिकरणे सन्निधानं निरस्तं, किन्तु प्राधान्यम् । सन्निधानं तु

कर्मारम्भे मन्त्राणां देवता वेदितव्याः ॥ ४१५ ॥

सन्न्यस्य मनसि देवतां हविर् हूयत ॥ ४१६ ॥

(१) इत्यादिभिर् उद्देश्यतया कर्तृबुद्धिसन्निध्यवगमान् निषेद्धुम् अशक्यम् एव । (२) किञ् च; अशब्दपूर्वत्वात् तत्र प्राधान्यनिरासः ।

[प्।११३] इह चाहं सन्निहितस् तत्र पाषाणप्रतिमादिषु ॥ ४१७ ॥

रामोत्तरतापिनीयोपनिषद्, प्। १६६ (चतुर्थी खण्डिका)

इति श्रीरामोक्तेः,

शालग्रामशिलायां तु नित्यं सन्निहितो हरिर् ॥ ४१८ ॥

(१) इत्याद्य् उक्तेश् च सन्निधानं सर्वसम्मतम् । (२) पितॄणाम् अप्य्— ।

आच्या जानु दक्षिणतः ॥ ४१९ ॥ (= ४२८)

र्व् १०। १५। ६

आसीनासो अरुणीनाम् उपस्थे ॥ ४२० ॥

र्व् १०। १५। ७

असाव् एतत् ते ॥ ४२१ ॥ (= ४३१)

गोभ्गृसू ४। २। ३५

इत्यादिभिः सन्निध्यवगतिः । तथा—

नोद्धरेत् प्रथमं पात्रं पितॄणां यद् धि पातितम् ।

आवृतास् तत्र तिष्ठन्ति पितरः शौनको ऽब्रवीत् ॥ ४२२ ॥

आश्गृसू ४। ७। १४

पूर्वे द्युर् मन्त्रितान् विप्रान् पितरः संविशन्ति वै ।

यजमानञ् च तां रात्रिं वसेयुर् नियतास् तत ॥ ४२३ ॥

(१) इत्यादिभिश् च तद् अवगतिः ।

(२) किञ् च; नवमे देवताया विग्रहादिपञ्चकनिराकृतिर् न व्यसनितया कृता, किन्तूहसिद्धये गुणत्वाय । (३) तथा हि; प्राधान्ये देवताया निर्वापादिमन्त्राणाम् अग्न्यादिस्वरूपप्रयुक्तौ सत्यां सौर्ये ऽग्न्यादिदेवताभावान् मन्त्राप्राप्ताव् ऊहाभावः प्रसज्येत । (४) तथा च ऽन माता वर्धते न पितेऽत्याद्य् ऊहदर्शनानुपपत्तिः ।

(५) अपूर्वप्राधान्ये तु, मन्त्राणां तत्प्रयुक्तत्वान् मन्त्रप्रकाशितदेवतः ऋतुर् अपूर्वं साधयतीति देवतान्तरवत्यां विकृताव् ऊहः सिध्यति । (६) तेन यथा प्रकृतौ देवता प्रकाशिता, एवं विकृताव् अपीति प्रकृतिवद् भावसिद्धिः ।

(७) तथा— तिरश्चां मण्डूकादीनां पत्रमूलादीनाम् ओषधिवनस्पतीनां हिङ्का–

**[प्।११४] **रादीनां चाश्वचरितानाम् अचेतनानां फलदातृत्वासम्भवाद् अपूर्वम् एव प्रधानं,

देवता तु गुणभूता ।

(८) “ननु

श्राद्धकृत् सत्यवादी च गृहस्थो ऽपि विमुच्यते ॥ ४२४ ॥

स्त्रियः प्रतिपादी– ॥ ४२५ ॥

पारस्कर गृसू, श्राद्धसूत्र ९

(१) त्यादिवचनैः श्राद्धकर्मण एव फलार्थत्वे शब्दपूर्वत्वात्, पितॄणाम् अपि

अपि वा शब्दपूर्वत्वाद् ॥ ४२६ ॥

म्स् ९। १। ४। ९

इति न्यायविषयतैव । (१) न च “मृतपितृकस्यैव श्राद्धाकरणे दोषश्रुतेः श्राद्धं पित्रर्थम्” इति वाच्यम्, (२) तादर्थ्यबोधकविभक्त्यभावेन श्राद्धावश्यकत्वे तात्पर्यात् ।

(३) तादृशस्यापि च संयोगपृथक्त्वेन फलसाधनत्वोपपत्तेर्” इति चेत्, (४) मैवं, यागस्य देवतार्थत्वे प्रमाणाभावात् । (५) श्राद्धस्य तु तदर्थत्वे बहुप्रमाणसत्त्वात् । तथा हि—

अथैनं प्राचीनवीतिनः पितरः सव्यं जान्वाच्योपासीदंस् तान् अब्रवीन्

मासि मासि वो ऽशनम् ॥ ४२७ ॥

श्ब्र् २। ४। २। २

इति श्रुतिः,

**आच्या जानु दक्षिणतः ॥ ४२८ ॥ **(= ४१९)

पितॄन् हविषे अत्तव ॥ ४२९ ॥ (= ४६४, ४७८)

र्व् १०। १६। १२द्

अत्र पितरो मादयध्वं ॥ ४३० ॥ (= ४८२)

व्स् २। ३१अ

असाव् एतत् त ॥ ४३१ ॥ (= ४२१)

**[प्।११५] **इत्यादिमन्त्रलिङ्गाञ् च,

अग्नौ हुतेन देवस्थाः पितृस्था द्विजतर्पणैः ।

नरकस्थाश् च तृप्यन्ति पिण्डैर् दत्तैस् त्रिभिर् भुवी– ॥ ४३२ ॥

बृह् (श्रा) ११०

ति बृहस्पतिः ।

विष्णुपुराणे—

श्राद्धैस् तु पितरस् तृप्तिं प्राप्नुवंस् तत्र वार्षिकीम् ॥ ४३३ ॥

विपु ३। १४। ७च्-द्

ब्राह्मे—

पितृभ्यश् च तदा श्राद्धं दत्तम् अक्षय्यम् उच्यते ॥ ४३४ ॥

याज्ञवल्क्यः

ते तृप्तास् तर्पयन्त्य् एनम् ॥ ४३५ ॥

याज् १। ४७अ

(१) एवं तत्र तत्र कात्यायनमन्वादिवचनैः गयादिप्रकरणस्थैश् च वाय्वग्निपुराणादिवचनैः पितृतृप्तिर् एव श्राद्धाद् गम्यते ।

आयुः प्रजां धनं विद्यां ॥ ४३६ ॥

याज् १। २६९अ

ते तृप्तास् तर्पयन्त्य् एनम् ॥ ४३७ ॥ (= ४३५)

(१) इत्यादौ फलदातृतापि तेषां गम्यते ।

यदापिपेषे– ॥ ४३८ ॥

श्ब्र् १२। ७। ३। २१

(१) त्यादि मन्त्रवर्णात् सौत्रामण्या अपि पित्रर्थता ।

शिरस् त्व् आद्येन पिण्डेने– ॥ ४३९ ॥

**[प्।११६] **(१) त्यादिना प्रेतश्राद्धानाम् अपि पित्रर्थता शरीरसिद्धिद्वारा । (२) अत एव विग्रहस्यापि सिद्धिः ।

उद्धरेत् सप्तगोत्राणि ॥ ४४० ॥

नरकस्था दिवं यान्ति ॥ ४४१ ॥

गपु १। ८४। ३०अ

मया गयां समासाद्य पितॄणां निष्कृतिः कृता ॥ ४४२ ॥

वापु ११०। ५९ए-फ़्

(१) इत्यादिवचनैः श्राद्धफलम् अपि तद्गतम् । (२) अतः श्रुत्यादिवशात् श्राद्धस्य पित्रर्थत्वावगतेर् नात्राशब्दपूर्वत्वम् । (३) न चैते अर्थवादाः, (४) पारार्थ्यशास्त्रदृष्टविरोधाद्यभावात् ।

(५) अतः श्राद्धे देवता प्रधानभूता, कर्म तु गुणभूतम् । (६) यागादौ तु विपरीतम्” इति ।

(७) तद् इदं मीमांसानतिशीलनमूलकम् । (८) तथा हि; यत् तावत् “कर्तृबुद्धिसन्निहितत्वाद् देवतायाः सन्निधाननिषेधासम्भव” इति, (९) तन् न, केन वा कर्तृबुद्धिसन्निधिर् विषयताख्यो निषिध्यते? (१०) आवाहनप्रयुक्तो हि सन्निधिर् निषिध्यते न चासावाहनप्रयुक्तः । (११) बुद्धिस्थीकृतस्यैवावाहनाद् बुद्धिसन्निधेर् आवाहनोत्तरभावाभावात् । (१२) आवाहनप्रयुक्ते च बुद्धिसन्निधाव् आवाहनबाधवत्युरुक्रमविष्णुयागे तन्निषेधवति च तीर्थश्राद्धादौ बुद्धिसन्निध्यभावप्रसङ्गः । (१३) यस् तु आवाहनप्रयुक्तः सन्निधिः, स विग्रहादिनिरासान् निरस्त एव गमनागमनादिवत् ।

(१४) अपि च; “कर्तृबुद्धिसन्निधिर् न निषेद्धुऽं शक्य इत्य् उक्त्वा ऽअहं सन्निहितस् तत्रऽ ऽशालग्रामशिलायां तु नित्यं सन्निहितो हरिर्ऽ इति सन्निधानप्रमाणोद्भावनं विरुद्धम् । (१५) न ह्य् अनेन कर्तृबुद्धिसन्निधिर् उच्यते । (१६) यश् च पितृसन्निधानप्रतिपादकोपन्यासः ऽआच्या जान्विऽत्यादिः, स तुल्य एव,

आ याहीन्द्र पथिभिर् ईल्̥इतेभिः ॥ ४४३ ॥

र्व्ख् ७। ५५। ८९

अग्न आ याहि वीतये ॥ ४४४ ॥

र्व् ६। १६। १०

वायवा याहि दर्शत ॥ ४४५ ॥

र्व् १। २। १

ऐभिर् अग्ने सरथं याहि ॥ ४४६ ॥

र्व् ३। ६। ९

[प्।११७] इहैवैधि माप च्योष्ठाः ॥ ४४७ ॥

र्व् १०। १७३। २

इन्द्र आगच्छ हरिव आगच्छ ॥ ४४८ ॥

श्ब्र् ३। ३। ४। १८

श्वः सुत्यां आगच्छ मघवन्न ॥ ४४९ ॥

(१) इत्यादिश्रुतिभिर् यागदेवताया अपि सन्निध्यवगमात् । (२) तुलापुरुषादिषु च ऽएह्य् एहीऽत्यादिबहुतरं देवतासन्निधिप्रतिपादनं, भारतादौ च संवर्तादियज्ञेषु देवतासन्निधिः प्रतिपादिता एव ।

(३) यद् अपि “नवमे विग्रहादिनिराकरणं देवताया ऊहसिद्धये गुणत्वार्थम्” इत्यादि, तद् अपि पितृषु सर्वं तुल्यं, (४) श्राद्धे देवताप्राधान्ये ऽयन् मे माता प्रलुलोभेऽत्याद्येकवचनान्तपितृपदवतस् तैत्तिरीयशाखास्थमन्त्रस्य, ऽशुन्धन्तां पितरऽ इत्यादेश् च पित्रादिस्वरूपप्रयुक्तौ सत्यां मातामहादिश्राद्धे तदभावान् मन्त्राप्राप्ताव् ऊहाभावप्रसङ्गात् । (५) तथा च ऽमन्त्रोहेन यथान्यायम्ऽ [४८७] इत्य् ऊहदर्शनानुपपत्तिः ।

(६) न च “अयं एवोहविधिर् न तु दर्शनम्” इति वाच्यं, (७) मातामहश्राद्धविधाव् ऊहविधौ च वाक्यभेदप्रसङ्गात् । (८) इदञ् च सर्वम् अनुपदम् एव स्पष्टयिष्यामः ।

(९) यापि “तिरश्चाम्” इत्यादियुक्तिः, सापि समैव, (१०) प्रातिस्विकस्वकर्मणा नरकस्थानां तिर्यग्योनिगतानां कृमिकीटादिरूपाणां तरुगुल्मादिरूपाणां मुक्तानां वा पित्रादीनां केनापि सचेतनेन प्राधान्यफलदातृतयोर् अङ्गीकर्तुम् अशक्यत्वात् ।

(११) यो ऽपि “यागस्य देवतार्थत्वे प्रमाणाभावम्” इत्य् उक्त्वा श्राद्धस्य पित्रर्थत्वे प्रमाणोपन्यासः, सो ऽपि तुल्यः ।

(१२) तत्र या तावद् ऽअथैनं पितरऽ [४२७] इति श्रुतिर् उपन्यस्ताम्, तस्याः पूर्वभागो ऽयं;

प्रजापतिं वै भूतान्य् उपासीदन् । प्रजा वै भूतानि । ऽव्यु नो धेहि यथा

**जीवामेऽति । ततो देवा यज्ञोपवीतिनो भूत्वा दक्षिणं जान्वाच्योपासीदंस् । तान् **

अब्रवीद् ऽयज्ञो वो ऽन्नम् अमृतं व ऊर्क्सूर्यो̍ वो ज्योतिर् ॥ ४५० ॥

श्ब्र् २। ४। २। १

[प्।११८] इति । (१) तदनन्तरम् ऽअथैनं पितरऽ इत्यादि । (२) तत्रैतस्याः श्रुतेः पूर्वभागात् कथं न यागस्य देवतार्थता? (३) कथञ् चोत्तरभागाच् छ्राद्धस्य देवतार्थत्वम् इति कोशपानं विनावैदिकप्रतारणम् एवैतत् ।

तथा—

अद्धीद् इन्द्र प्रस्थितेमा हवींषी– ॥ ४५१ ॥ ति

र्व् १०। ११६। ८

एकया प्रतिधापिबद् ॥ ४५२ ॥

र्व् ८। ७७। ४

(१) इति भोक्तृता,

इन्द्रो दिव इन्द्र ईशे पृथिव्याः ॥ ४५३ ॥

र्व् १०। ८९। १०

ईशानम् अस्य जगतः स्वर्दृशम् ॥ ४५४ ॥

र्व् ७। ३२। २२च्

अहं भुवं वसुनः पूर्व्यस्पतिर् ॥ ४५५ ॥

र्व् १०। ४८। १

(१) इतीशित्वम्,

तृप्त एवैनम् इन्द्रः प्रजया पशुभिस् तर्पयति ॥ ४५६ ॥

त्स् २। ५। ४। ३

स एवैनं भूतिं गमयति ॥ ४५७ ॥

त्स् २। १। १। १

अहं दाशुषे वि भजामि भोजनम् ॥ ४५८ ॥

र्व् १०। ४८। १द्

पुत्रं ददाति दाशुषे ॥ ४५९ ॥

र्व् ५। २५। ५द्

(१) इत्यादि फलदातृता, ऽतृप्त एवैनम् इन्द्रऽ [४५६] इत्यादि तृप्तिः प्रतीयते । (२) पुराणेतिहासेषु तु ईदृशवचसां गणनैव नास्ति । (३) एवं सति यद्य् एतेषां स्तुत्यादिरूपतया गतिस् तर्हि पितृप्रीत्यादिप्रतिपादकेष्व् अपि पक्षपातं परिहाय दीयतां दृष्टिः । (४) ततश् च

अपि वा शब्दपूर्वत्वाद् यज्ञकर्म प्रधानं स्याद् गुणत्वे देवतास्तुतिर् ॥ ४६० ॥

म्स् ११। १। ४। ९

**[प्।११९] **(१) इति न्यायविषयतायां न कश्चिद् विशेषो दिव्यदृष्ट्या विनोपपादयितुं शक्यः ।

(२) यद् अपि ऽउद्धरेत् सप्तगोत्राणीत्या- [४४०] दिपित्रादिगतफलप्रतिपादकोदाहरणं, तत्रापि श्राद्धस्य देवतार्थत्वाभावे न किञ्चिद् विरुध्यते । (३) न हि यज्ञदत्तजनकादय एव श्राद्धदेवताः, किन्तु वस्वाद्याः (४) पित्रादिशब्दस् तु केवलं तेषु तेषु च समानः । (५) न च तावत् ऐक्यं भवति । (६) एवञ् च श्राद्धं न वस्वाद्य् अर्थम् । (७) त एव तु श्राद्धे गुणभूताः । (८) तद्गुणकञ् च श्राद्धकर्म जनकादितृप्तिं नरकोद्धारं वा करोतीति किम् अनुपपन्नम्? तद् उक्तं याज्ञवल्क्येन—

वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः ।

**प्रीणयन्ति मनुष्याणां पितॄन् श्राद्धेन तर्पिता ॥ ४६१ ॥ **इति ।

याज् १। २६८

(१) अत्र च श्राद्धकर्मगतं प्रीणकत्वं तत्साधनभूतेषु वस्वादिषूपचर्यते, ऽतप्त एवैनम् इन्द्रः प्रजया पशुभिस् तर्पयन्तीऽतिवत् [४५६] । (२) ऽते तृप्तास् तर्पयन्त्य् एनम्ऽ इत्यादाव् [४३५] अप्य् एवम् एवोपचारः ।

(३) न च “श्राद्धेन तृप्तिप्रभृतिफलं जनकादिगतं कथं जायते कर्तृसमवायित्वात् फलस्ये?“ति वाच्यं, (४) जातेष्ट्या पुत्रगतपूतत्वादिवत् प्रमाणेनाकर्तर्य् एव फलबोधनात् । (५) एतच् च गयाप्रकरणे निपुणम् अभिधास्यत इति नेह प्रपञ्च्यते ।

(६) किञ् च; पितॄणां सन्निध्यङ्गीकृतौ दृष्टे सम्भवत्य् अदृष्टाकल्पनाद् आवाहनस्य सन्निधिर् एव फलम् अभ्युपेयम् । (७) तथा च तीर्थाधिकरणकश्राद्धमात्रे आवाहनबाधः स्यात्, (८) नित्यसन्निहितत्वेन फलस्यान्य् अत एव लाभात्,

उदकं तण्डुलास् तत् संसृष्टं प्राजापत्यम् ॥ ४६२ ॥

(१) इत्यत्र तण्डुलेषु वितुषीभावस्यान्य् अतः सिद्ध्यावघातबाधवत् ।

(२) न च “नियमादृष्टार्थम् आवाहनं तत्र भविष्यती”ति वाच्यं, (३) दृष्टार्थानां दृष्टद्वारैवादृष्टजनकत्वात्, कृष्णल इव दृष्टलोपे तस्यापि लोपात्,

(४) नियमादृष्टस्यानुनिष्पादिततया वाजिनवद् अप्रयोजकत्वाच् च । (५) तस्मान् न पितॄणां सन्निधिसम्भवः ।

**[प्।१२०] **(६) यदि च पितृष्व् अङ्गीक्रियते विग्रहादिपञ्चकम् अभ्युपेत्य तदा—

विरोधः कर्मणीति चेन् न, अनेकप्रतिपत्तेर् दर्शनाद् ॥ ४६३ ॥

वेदान्तसूत्र १। ३। २७

(१) इति व्यासोक्तचतुर्लक्षणीप्राथमिकन्यायेनाङ्गीक्रियतां देवतास्व् अपि, नाङ्गीक्रियतां वा जैमिनिमुनिमतेन पितृष्व् अपि, न त्व् अर्धजरतीयम् उचितम् ।

(२) तत्सिद्धिम् एतत् तीर्थनिमित्तक एव श्राद्धे वचनाद् आवाहनबाधो, न तु तीर्थाधिकरणकश्राद्धमात्र इति ।

(३) यत् तु “किमर्थं तर्हि अन्यत्राप्य् आवाहनम्? अदृष्टार्थम् इत्य् अवेही”त्य् उक्त्वा “अत एव नावाहनमन्त्रोहो ऽपी”त्य् उक्तं, (४) तत् तु चिन्त्यम् । आवाहनस्यादृष्टार्थत्वे ऽपि मन्त्रस्यानुष्ठेयार्थस्मारणेन दृष्टार्थत्वात् तावतैव चोपपत्तेः । (५) न हि क्रियाया अदृष्टार्थत्वात् तत्साधने मन्त्रे ऊहाभावः । (६) पञ्चमप्रयाजसाधनीभूते स्वाहानिगदे ऊहाभावप्रसङ्गात् ।

अपि च—

पितॄन् हविषे अत्तवे ॥ ४६४ ॥ (= ४२९, ४७८)

आयन्तु नः पितरः सोम्यास ॥ ४६५ ॥

व्स् १९। ५८अ

(१) इत्य् आवाहनमन्त्रस्थपितृशब्दस्य प्रकृतिवन् मातामहादिश्राद्धे ऽपि समवेतार्थत्वाद् अर्थान्तराभावाद् एव नोहः प्राप्नोति । (२) तथा हि; द्वेधा ह्य् अयं पितृशब्दः प्रयुज्यते ।

(३) क्वचिज् जनकत्वाद्य् उपाधिना

पिता यस्य तु वृत्तः स्याज् जीवेच् चापि पितामह ॥ ४६६ ॥

मनु ३। २२१अ-ब्

इत्यादौ । (१) क्वचिच् च सपिण्डीकरणान्तश्राद्धजनितपितृभावोपाधिना स्त्रीपुंससाधारणो गणदेवतावाची, मरुदादिशब्दवद्, अग्निष्व् आत्तादिशब्दवच् च,

प्रेते पितृत्वम् आपन्ने सपिण्डीकरणाद् अन्व्– ॥ ४६७ ॥

विपु ३। १३। ३६अ-ब्

**[प्।१२१] **इति विष्णुस्मृतेः,

ततः प्रभृति वै प्रेतः पितृसामान्यम् आप्नुयाद् ॥ ४६८ ॥

इति हारीतोक्तेश् च । (१) एवञ् चैकोद्दिष्टे आश्वलायनगृह्यपरिशिष्टोदितः पितृशब्दप्रतिषेधो ऽप्य् उपपन्नः ।

(२) अत एव मातामहपितामहादिष्व् अपि पितृशब्दः साधारणो दृश्यते,

षड्भ्यः पितृभ्यस् तदनु भक्त्या श्राद्धम् उपक्रमेद् ॥ ४६९ ॥ इति ।

पितृपात्रेषु प्रेतपात्रं प्रसेचयेद् ॥ ४७० ॥

याज् १। २५२च्-द्

इति च । (१) मात्रादिसाधारणो ऽपि,

तृप्यन्तु पितरः सर्वे मातृमातामहादय ॥ ४७१ ॥ इति ।

(१) यत् तु “पितृपदस्य साधारणवाचकत्वाभावे

द्वौ दैवे प्राक् त्रयः पित्र्ये ॥ ४७२ ॥

याज् १। २२८अ

पित्र्ये कर्मणि विद्वद्भिर् ग्राह्या कुतपकालिकी ॥ ४७३ ॥

पितृभ्यो रजतं देयम् ॥ ४७४ ॥

पितृपात्रं तद् उत्तानम् ॥ ४७५ ॥

याज् १। २४७च्

(१) इत्यादिपितृशब्दम् आदाय विहितं मातामहादिश्राद्धे न प्रवर्तते”ति दूषणं, (२) तन् न, उपदेशतो ऽप्राप्ताव् अप्य् अतिदेशतो प्राप्तिसम्भवात् । (३) तस्माद् अस्मदुक्तमार्गेणैव साधारणः पितृशब्दः ।

(४) तथा च पितृभावोपाधिना मातृमातामहादाव् अप्य् अविकृतस्यैव पितृपदस्य समवेतार्थत्वात् प्रयोगोपपत्ताव् ऊहप्रसक्तिर् एव नास्तीत्य् आवाहनादृष्टार्थतया

किं निवारणीयम्?

**[प्।१२२] **किञ् च;

पूयति वा एतद् ऋचो ऽक्षरं यद् एनद् ऊहति तस्माद् ऋचं नोहेद् ॥ ४७६ ॥

आश्श्र्सू ५। ४। ८

(१) इति ऋच्यूहनिषेधाद् अपि नात्रोहप्रसक्तिः ।

(२) एतेनेदं निरस्तं, यत् कश्चिद् आह,

“यथार्थम् ऊहश् चोदिते; न प्रकृताव् अपूर्वत्वाद्; विकृतौ वचनाद् ॥ ४७७ ॥

कात्श्र्सू ४। ९८-१००

(१) इति कातीयवचनाद् विकृतिभूतमातामहादिश्राद्धे

पितॄन् हविषे अत्तवे ॥ ४७८ ॥ (= ४२९, ४६४)

आयन्तु नः पितरः ॥ ४७९ ॥ (= ४६५)

ऽतिलो ऽसीऽति मन्त्रे

स्वधया पितॄन् ॥ ४८० ॥

आश्गृसू ४। ७। ८

ऽऊर्जं वहन्तीर्ऽइति मन्त्रे

तर्पयत पितॄन् ॥ ४८१ ॥

व्स् २। ३४

अत्र पितरो मादयध्वं ॥ ४८२ ॥ ( = ४३० )

नमो वः पितरो रसाय ॥ ४८३ ॥

व्स् २। ३२अ

अमीम् अदन्त पितरः ॥ ४८४ ॥

व्स् २। ३१ब्

एतद् वः पितरो वास ॥ ४८५ ॥

व्स् २.३२ह्

(१) इत्यादिमन्त्रेषु पितृशब्दस्थाने मातामहादिशब्दोहः कार्यः समवेतार्थत्वाये”ति,

(२) पितृभावापत्त्युपाधिना प्रवृत्तस्य पितृशब्दस्य मातामहादाव् अप्य् अविकृतप्रयोगोपपत्तेः, (३) ऋग्रूपेषु निषेधाच् च । (४) कातीयवचस् तु न श्राद्ध– **[प्।१२३] **प्रकरणपठितं किन्त्वनारभ्याधीतम् । (५) तन्निर्वापादिप्रकाशकयजुर्मन्त्रविषयत्वेनाप्य् उपपद्यते ।

(६) न च “एवं ऽतिलो ऽसीऽत्यादिमन्त्रस्थपितृप्रातिपदिकस्य साधारणत्वाद् ऊहाभावे ऽपि बहुवचनस्यैकस्मिन् मातामहादाव् असमवेतार्थत्वाद् एकवद् ऊहः स्याद्” इति वाच्यं,

(७) प्रकृतौ बहुवचनस्यासमवेतार्थत्वे विकृताव् अप्य् अविकृतस्यैव प्रयोगोपपत्तेः; ऽअदितिः पाशान्ऽ इतिवत्, एकस्मिन्न् अपि चोपरवमन्त्रवद्, ऽवायवः स्थेऽतिवच् च यथाकथञ्चिद् बहुवचनोपपत्तिः ।

(८) एतेन “बहुवचनान्तपितृशब्दस्य तत्तद्देवताप्रकाशकत्वेन प्रकृतौ समवेतार्थत्वे ऽपि प्रतिपुरुषं बहुवचनम्,

ऽएतद् वः पितरो वासऽ इति जल्पन् पृथक् पृथग् ॥ ४८६ ॥

इति वचनबलाद् एव । (१) विकृतौ तु ऽयावद् वचनं वाचनिकम्ऽ इति न्यायाद् वचनाभावाद् एकवचनान्ततयोह” इति निरस्तं, (२) वचनस्य बहुवचनविधौ तात्पर्यकल्पने पितृशब्दप्रयोगविधाने ऽप्य् अविशेषात् तात्पर्यप्रसङ्गे ऊहाभावापत्तौ पितृशब्दोहोक्तिविरोधात् ।

(३) किञ् च; एवं सति वचनाद् एव बहुवचनस्य प्रकृताव् असमवेतार्थत्वाद् विकृताव् अपि वचनाभावे ऽप्य् अतिदेशात् पाशन्यायेनाविकृतप्रयोग एव भवेद् इति नोहः स्यात् ।

(४) किञ् च; ऽएतद् वऽ इत्य् एतन्मन्त्रमात्रविषयत्वाद् वचनस्य मन्त्रान्तरे का गतिः?

(५) तस्मात् पाठप्राप्तबहुवचनकं मन्त्रम् अनूद्य वचनं पृथक्शब्दार्थभूताम् आवृत्तिं विधत्ते । (६) यद्वा सर्वम् अनूद्य वासोदानम् एव विधत्त, इति न वाचनिकं बहुवचनम् ।

(७) “नन्व् एवम् अपि पार्वणे जनकपात्रतिलावापादिकार्यम् एव प्रकृतिर् अस्तु ।

(८) पितामहप्रपितामहसम्बन्धिकार्ये तु विकृती भविष्यतः । (९) जनके च पितृशब्दः समर्थः, वचनमात्रं त्व् असमर्थम् । (१०) अत उत्तरयोः कार्ययोः पितृशब्दस्थाने पितामहप्रपितामहशब्दाव् ऊहितव्यौ, बहुवचनं तु यथास्थितम् एव । (११) तथा च मात्रादौ सुतराम् ऊहो भविष्यति । (१२) एकञ् च पितृशब्दो ऽनेकार्थो ऽपि न कल्पनीयो भविष्यती”ऽति चेत्, (१३) न, समानप्रकरणे ऐन्द्रान् ऐन्द्रप्रदानन्यायेन प्रकृतिविकृतिभावाभावात् । (१४) तथा च त्रिषु समवेतार्थत्वाय पूर्वोक्तयुक्तिभिर् अनेकार्थताप्य् अनन्यगतिकतयाङ्गीक्रियत इति ।

**[प्।१२४] **(१५) यदि च तत्रोत्तरयोर् ऊहो ऽभ्युपगम्येत तर्हि ऽशुन्धन्तां पितरऽ इत्यादित्रयाणां वचनम् अपार्थकं स्यात् ।

(१६) तत् सिद्धम् एतत्, पितृशब्दः प्रकृताव् इव विकृताव् अपि समवेतार्थत्वान् नोहं याति । (१७) बहुवचनञ् च प्रकृताव् असमवेतार्थत्वाद् इति ।

(१८) यत् तु विष्णुवचनं—

मातामहानाम् अप्य् एवं श्राद्धं कुर्याद् विचक्षणः ।

मन्त्रोहेन यथान्यायं शेषाणां मन्त्रवर्जितम् ॥ ४८७ ॥

विस्म् ७५। ७ (= ६१४)

इति, (१) तदपि न पूर्वोक्तमन्त्राणाम् ऊहार्थं ऽयथान्यायम्ऽ इत्युक्तेः । (२) अयं चोहे न्यायः; (३) मुख्यार्थत्वादिविशेषणैः प्रकृतौ प्रयुक्तो मन्त्रो विकृतौ कार्यद्वारातिदिष्टो ऽर्थान्तरे ऽसमवेतार्थपदवत्तया प्रयुज्यमानः प्रकृतिवत् दृष्टार्थो न स्याद्, अतः समवेतार्थपदवत्तया प्रयोज्य इति । तदाहुर् भट्टपादाः—

मुख्यदृष्टार्थतास्वार्थसमवेतार्थतादिभिः ।

प्रयुक्ताः प्रकृतौ मन्त्रा गताः कार्यातिदेशतः ॥

विकारेष्व् अनिषिद्धोहाः कार्यापन्नेषु पञ्चधा ।

अर्थान्तरेष्व् अपूर्वार्थद्वारेणोहं व्रजन्ति न ॥ ४८८ ॥ इति ।

त्व् १। ३। ८। २४, प्। २६३

(१) पञ्चधाकार्यापत्तिश् चोक्ता भट्टसोमेश्वरैः—

प्रत्यक्षविधिनाभावे विधानेन विकारतः ।

स्वशब्दाच् च निषेधानुवादात् तत्कार्यकारिते– ॥ ४८९ ॥ इति ।

न्स् १। ३। ८। २४, प्। २८१

(१) पूर्वोक्तमन्त्रेषु च प्रकृतिवद् विकृताव् अपि पितृशब्दस्य समवेतार्थत्वाद् अर्थान्तरे प्रयोगाभावान् नोहः ।

(२) “को ऽर्थस् तर्हि ऽमन्त्रोहेन यथान्यायम्ऽ इत्यस्य?” उच्यते;

[प्।१२५] शुन्धन्तां पितर ॥ ४९० ॥

आश्श्र्सू २। ६। १४

(१) इत्यत्र न्यायद् ऊहः । (२) अत्र हि पूर्वोक्तोपाधिना पितृपदप्रवृत्तौ ऽशुन्धन्तां पितामहाःऽ ऽशुन्धन्तां प्रपितामहाऽ इति मन्त्रद्वयपाठो ऽनर्थकः स्यात् । (३) अतो जनकत्वाद्य् उपाधिनैव प्रवृत्तिः । (४) तेन विकृतौ मातृमातामहादिश्राद्धे ऽर्थान्तरत्वाद् ऊहः ।

(५) सो ऽपि प्रातिपदिकमात्रस्यैव । (६) बहुवचनं तु प्रकृताव् अप्य् एकस्मिन् पितर्य् असमवेतार्थम् इति नोह्यम् । (७) ततश् च ऽशुन्धन्तां मातरःऽ ऽशुन्धन्तां मातामहाऽ इत्याद्य् ऊहः । (८) एवं पितामहादाव् अपि ।

(९) ऽपितृभ्यः स्वधोच्यताम्ऽ इत्यादि येषां शाखिनां शुन्धनमन्त्रवद् एव पाठस् तेषां तत्रापि तद्वद् एवोहः । (१०) तत्रापि कात्यायनगोभिलाभ्यां ऽमातामहेभ्यः स्वधोच्यताम्ऽ इति विशेषतः पठितो मन्त्रो ऽतस् तद्विषये नोहः ।

(११) मात्रादौ तु भवति । तथा हि हिरण्यकेशिनां

यन् मे माता प्रलुलोभे– ॥ ४९१ ॥

हिर्गृसू २। १०। ७

(१) त्यादिमन्त्रेषु ऽयन् मे मातामही प्रलुलोभ तन् मे रेतो मातामहो वृक्ताम्ऽ इत्याद्यूहो भवति, (२) पित्रादिशब्दानाम् एकवचनान्तत्वेन साधारणवाचित्वाभावात् । (३) तथात्वे च ऽयन् मे पितामही प्रलुलोभेऽत्यादिमन्त्रपाठानर्थक्यप्रसङ्गात् । तद् उक्तं भाष्यार्थसङ्ग्रहकृता—

अन्नहोमे तथा स्पर्शे जलपिण्डादिदानके ।

ऽयन् मे मातामहीऽत्यादि तत्रोदाहरणं भवेद् ॥ ४९२ ॥ इति ।

(१) ऽउदाहरणम्ऽ ऊहः । (२) ऽस्पर्शेऽ

एष ते तत मधुमान् ॥ ४९३ ॥

हिर्गृसू २। १३। १

इत्यादिमन्त्रैर् ब्राह्मणभोजनार्थम् अन्नस्पर्शे । (१) एवम् अन्यत्रापि यत्र न्याय्य ऊहस् तत्र विचार्य कार्यः ।

**[प्।१२६] **(२) यत् तु “ ऽमन्त्रोहेनऽ मन्त्रपाठेन न तु विकाररूपोहेनेत्यर्थ” इति कश्चित्, (३) तन् न, ऊहशब्दस्य पाठे ऽप्रसिद्धत्वात्, (४) एवं ऽकुर्याद्ऽ इत्य् अनेनैव धर्मान्तरवन् मन्त्रपाठस्यापि प्राप्तेर् एतस्य व्यर्थत्वापातात्, (५) गृहमेधीयाज्यभागन्यायेन वा परिसङ्ख्यापत्तेः, (६) ऽयथान्यायम्ऽ इत्य् अस्यानर्थक्यापत्तेश् च । (७) तस्माद् अस्मदुक्त एवास्य विषयः ।

(८) ऽपितर् एतत् ते ऽर्घ्यम्ऽ इत्यादिषु तुहानूहविचारो न कार्य एव,

(९) एतस्याभिलापमात्रत्वेन मन्त्रत्वाभावात् । (१०) तत्त्वे वा ऽशेषाणां मन्त्रवर्जितम्ऽ इत्युक्त्याभिलापस्यापि वर्जनप्रसङ्गात्,

अयम् एव विधिः प्रोक्तः शूद्राणां मन्त्रवर्जित ॥ ४९४ ॥

वराह पु १८८। ५७अ-ब् (= ५०१)

(१) इति वराहपुराणोक्त्या शूद्रस्याप्य् अभिलापवर्जनापत्तेः । (२) अतो ऽपौरुषेय एव मन्त्रशब्दो मुख्यो ऽन्यत्र गौणः । (३) अत एवोहप्रवरनाम्नाम् अमन्त्रतेति सिद्धान्त इति ।

(४) एष पार्वणे ऊहानूहविवेकः । (५) एकोद्दिष्टे तुच्यते; तत्र पुराणैकोद्दिष्टे पार्वणवद् एव, सपिण्डीकरणेन पितृभावापत्तेर् जातत्वात् । प्रेतैकोद्दिष्टे त्व्

एकवन् मन्त्रान् ऊहेतैकोद्दिष्ट ॥ ४९५ ॥

विस्म् २१। २

इति विष्णुवचनाद् ऊहः । (१) सपिण्डीकरणाभावेन पितृभावापत्तेर् अजातत्वात् पितृपदस्थाने प्रेतपदम् एकवचनान्तं प्रयोज्यम् इति विष्णुवचनार्थः । (२) अत एवाश्वलायनगृह्यपरिशिष्टे पितृपदनिवृत्तिर् एकोद्दिष्टे उक्ता । (३) स्मृतिरत्नावलीकारस् तु “बहुवचने एकवचनमात्रम् ऊहितव्यं न तु पितृपदे ऊहः, ऽएकवद् ऊहेतेऽतिवचनात् । (४) इतरथा ऽयथार्थम् ऊहेद्ऽ इत्येवावक्ष्यत् । (५) तेन मातृभ्रातृपितृव्यादिश्राद्धे एकवचनमात्रम् ऊह्यं पितृशब्दस् तु यथास्थित एव । (६) तस्य प्रमीतमात्रवचनत्वाद्” इति विष्णुवचनार्थम् आह । (७) तन् न, आश्वलायनपरिशिष्टोक्तपितृपदनिवृत्तिविरोधात्, (८) प्रमीतमात्रवाचितत्वे ऽशुन्धन्तां पितरऽ इत्यादौ पूर्वोक्तोहाभावप्रसङ्गात्, (९) अभिलापे ऽपि पितृपदस्यैव सर्वत्र प्रसङ्गात्,

(१०) शिष्टाचारविरोधाच् च । (११) विष्णुना तु ऽपितृपदे न्यायाद् एवोहः प्रप्नोतीऽ–

**[प्।१२७] **ति तम् अविधाय ऽवचनस्य प्रकृताव् असमवेतार्थत्वाद् ऊहो न प्राप्नोतीऽति तन्मात्रं विहितम् ऽएकवन् मन्त्रान् ऊहेतेऽति ।

(१२) तस्माद् एकवचनान्तः प्रेतशब्द ऊह्यः प्रेतैकोद्दिष्ट इति सिद्धम् ।

(१३) ऽशेषाणां मन्त्रवर्जितम्ऽ इति विष्णुवचनशेषः । (१४) अस्यार्थम् आह

शूलपाणिः—

पितृव्यमातुलादीनाम् एकोद्दिष्टे ऊहयोग्यपितृपदवन् मन्त्र एव न प्रयोज्यः,

**न तूहः कार्यः । न तु पितृपदरहितो ऽप्य् अप्रयोज्यो ऽप्रकृतत्वाद् ॥ ४९६ ॥ **इति ।

पितृव्यमातुलादीनाम् आवाहनादिमन्त्रवर्जितं कार्यम् इत्यर्थः ॥ ४९७ ॥

इति कल्पतरौ (१) युक्तं त्व् इदम्; अकृतविवाहभोगार्थरक्षितस्त्रीविषयम् इदं, पारशवकरणादिशूद्रापुत्रविषयञ् च,

स्त्रीणाम् अमन्त्रकं श्राद्धं तथा शूद्रासुतस्य च ।

प्राग् द्विजाश् च व्रतादेशात् ते च कुर्युस् तथैव तद् ॥ ४९८ ॥

इति मरीचिस्मरणात् । अत्र

ऽस्त्रीणाम् इत्य् अकृतविवाहस्त्रीविषयम् ॥ ४९९ ॥

इति हेमाद्रिः । (१) ऽप्राग्ऽ इति अनुपनीता द्विजातयः । (२) ते च स्त्रीपारशवकरणादयो ऽसंस्कृतत्वात् संस्कृतानाम् अपि श्राद्धं तथैवामन्त्रकं कुर्युः ।

(३) यद्वा ऽशेषाणाम्ऽ इति कर्तरि षष्ठी । (४) ततश् च वर्णशेषाणाम् । (५) शूद्राणां तत्तुल्यानां पारशवकरणानुपनीतस्त्रीणाञ् च कर्त्तव्यं श्राद्धं तैर् अमन्त्रकं

कार्यम् इत्यर्थः । तद् उक्तं श्राद्धं प्रकृत्य पाद्मे सृष्टिखण्डे—

शूद्रो ऽप्य् अमन्त्रकं कुर्याद् अनेन विधिना नृपे– ॥ ५०० ॥ ति ।

पद्पु, सृख् ९। १९३ च्-द्

(१) मरीचिः— ऽप्राग् द्विजाश् चेऽत्यादि [४९८] ।

**[प्।१२८] **वराहपुराणे—

**अयम् एव विधिः प्रोक्तः शूद्राणां मन्त्रवर्जितः । **(= ४९४)

अमन्त्रस्य तु शूद्रस्य विप्रो मन्त्रेण गृह्यत ॥ ५०१ ॥ इति ।

वराह पु १८८। ५७

(१) ऽविप्रो मन्त्रेण गृह्यतेऽ सम्बध्यत इत्यर्थः ।

इयञ् च परिभाषा । न च परिभाषा प्रकरणेन नियम्यते । तेनास्य

श्राद्धप्रकरण पाठे ऽपि शूद्रस्य स्नानदानादाव् अपि विप्रेण

मन्त्रः पठनीय ॥ ५०२ ॥

श्रावि, प्। २३१

इति शूलपाणिः ।

(१) अत्र ऽअमन्त्रकम्ऽ इति वैदिकमन्त्रप्रतिषेधः । (२) तेन पौराणो

नामगोत्राद्यभिलापश् च वक्तव्य एव ।

(३) इत्य् अलं प्रसक्तानुप्रसक्त्या; प्रकृतम् अनुसरामः ।

(४) तीर्थश्राद्धस्य पार्वणप्रकृतिकतया

पुरूरवार्द्रवौ चैव पार्वणे समुदाहृताव् ॥ ५०३ ॥

बृह् (श्रा) ९३अ-ब्

(१) इति बृहस्पतिवचनात् पुरूरवार्द्रवौ विश्वेदेवत्वेन यद्यपि प्राप्तौ, तथापि तस्य संयोगपृथक्त्वेन काम्यस्यापि सत्त्वाद्, गोदोहनन्यायेन च काम्यस्य नित्यबाधकत्वान्, नैमित्तिकस्यापि चावश्यकतया नित्यत्वात्,

काम्ये च धुरिलोचनाव् इ– ॥ ५०४ ॥

बृह् (श्रा) ९२द्

(१) ति वचनात् तौ बधित्वा धुरिलोचनौ भवतः । (२) न च “तत्र प्रधानभूतेन गोदोहनेन काम्येन नित्याङ्गचमसबाधे ऽपीह काम्याङ्गेन कथं नित्याङ्गबाधो ऽङ्गत्वसाम्याद्” इति वाच्यं, (३) समानन्यायतया काम्याङ्गस्यापि नित्याङ्गबाधकत्वात्,

(४) यज्ञाथर्वणवाक्यविहितकाम्येष्ट्यङ्गभूतोपांशुत्वस्य जातेष्टौ

मध्यमेन हवींष्या स्विष्टकृत ॥ ५०५ ॥

आश्श्र्सू० १। ५। २७

**[प्।१२९] **(१) इति वचनविहितचोदकप्राप्तमध्यमस्वरबाधकत्ववत् । (२) अतः

काम्यत्वेन तीर्थश्राद्धकरणे धुरिलोचनौ ।

(३) यदा तु कामाभावे केवलनित्यतया करोति तदा पुरूरवार्द्रवौ । यदापि—

हविष्यान्नेन वै मासम् ॥ ५०६ ॥

याज् १.२५७अ

(१) इत्यादिगुणफलाधिकारो गोदोहनवत्, तदापि काम्यश्राद्धाभावेन धुरिलोचनाप्राप्तेर् नित्यकर्माश्रयणेन च गुणफलविधेः कर्मषाड्गुण्याय ताव् एव ।

(२) न च “अङ्गस्य काम्यगुणस्याष्टमिकन्यायेन पार्वणविकृतौ तीर्थश्राद्धे ऽप्रवृत्तिर् एवे”ति वाच्यं, (३) प्रकरणमध्यपातिकाम्यगुणविषयत्वात् तस्य । (४) हविष्यादयस् तु मन्वादिवचनैः सकलश्राद्धशेषभूता; इत्य् अलम् ।

इति तीर्थश्राद्धे विहितनिषिद्धानि तत्प्रसङ्गागतञ् च ।

[प्।१३०] अथान्नहेमाद्धादिविचारः

गारुडे—

तीर्थे गत्वा तु यच्छ्राद्धम् आमान्नं भोजनं द्विजे ॥ ५०७ ॥

गपु २। १५। ३६अ-ब्

कात्यायनः—

आपद्य् अनग्नौ तीर्थे च प्रवासे पुत्रजन्मनि ।

आमश्राद्धं प्रकुर्वीत भार्यारजसि सङ्क्रमे ॥ ५०८ ॥

सुमन्तुः

पाकाभावे ऽधिकारः स्याद् विप्रादीनां नराधिप ।

अपत्नीनां महाबाहो विदेशगमनादिभिः ॥

सदा चैव तु शूद्राणाम् आमश्राद्धं विदुर् बुधाः ।

आत्मनो देशकालाभ्यां विप्लवे समुपागते ॥

आपद्य् अनग्नौ तीर्थे च प्रवासे पत्न्यसम्भवे ।

चन्द्रसूर्यग्रहे चैव दद्याद् आमं विशेषतः ॥ ५०९ ॥

तथा—

तीर्थे श्राद्धं प्रकुर्वीत पक्वान्नेन विशेषतः ।

आमान्नेन हिरण्येन कन्दमूलफलैर् अपि ॥

एषाम् अभावे कुर्याच् च श्रद्धयापि जलेन वा ॥ ५१० ॥

तथा—

द्रव्याभावे द्विजाभावे प्रवासे पुत्रजन्मनि ।

हेमश्राद्धं प्रकुर्वीत यस्य भार्या रजस्वला ॥ ५११ ॥

प्रख् १। २०६। ५२

(१) “एवं नानारूपेषु वाक्येषु सत्सु पाकश्राद्धं मुख्यं पाकासम्भवे ब्राह्मणासम्भवे च आमश्राद्धं, तदसम्भवे हेमश्राद्धम्, अपि वा यथाशिष्टाचारं कार्यम्” **[प्।१३१] **इति मदनपारिजातदिवोदासाद्याः । (२) प्राच्या अप्य् एवम् । (३) स्मृतिरत्नावलीकारादयस् तु “ग्रहणे तीर्थादौ चामश्राद्धं हेमश्राद्धं वा मुख्यं पाकश्राद्धं तु न भवत्य् एवे”त्य् आहुः । (४) एवं तु युक्तं पश्यामः; तीर्थजलसमीपे आमेन हेम्ना वा

सदैव हि जलान्तेषु आमश्राद्धं प्रशस्यते ।

गृहाद् दशगुणं पुण्यं लभेत् तीर्थे निवापकृत् ॥ ५१२ ॥

इति वचनात् । (१) गृहादौ त्व् अन्नेनैवेति ।

(२) दाक्षिणात्यास् तूभयं कुर्वन्ति, पूर्वोक्तात् ऽपक्वान्नेन विशेषतऽ [५१०] इतिवाक्यात् ।

(३) अत्र यथादेशाचारं व्यवस्था ।

(४) शूद्रेण तु सर्वदामेनैव कार्यं, \

सदा चैव तु शूद्राणाम् आमश्राद्धं विदुर् बुधाः ।

** न पक्वं भोजयेद् विप्रान् सच्छूद्रो ऽपि कदाचन ॥**

भोजयन् प्रत्यवायी स्यात् न च तस्य फलं लभेत् ॥ ५१३ ॥


इति सुमन्तूक्तेः ।

(१) आमश्राद्धे च विशेषः—

व्यासः—

आमं ददत् तु कौन्तेय दद्याद् अन्नं चतुर्गुणम् ॥ ५१४ ॥

यत् तु—

आमं ददद् धि कौन्तेय आमं तु द्विगुणं भवेत् ॥ ५१५ ॥

(१) इति, तच्चतुर्गुणदानाशक्तौ वेदितव्यम् । अत एव स्मर्यते—

आमं ददति चेद् राजन्न् आमं तद्विगुणं भवेत् ।

त्रिगुणं चतुर्गुणं वापि नत्व् एकगुणम् अर्पयेत् ॥

ब्राह्मणाय प्रदातव्यं सर्वोपस्कारसंयुतम् ॥ ५१६ ॥ इति ।

(१) अत्रोत्तरोत्तरपक्षस्य मुख्यता ।

(२) हिरण्यं त्व् अष्टगुणं चतुर्गुणं द्विगुणं वा दद्यात् । (३) अशक्तौ सममप्य् आमं हेमं वा दद्यात् । (४) द्वैगुण्यादि च पुरुषाहारापेक्षया ।

**[प्।१३२] **उशनाः—

आमश्राद्धं यदा कुर्याद् विधिज्ञः श्राद्धदस् तदा ।

हस्ते ऽग्नौकरणं कुर्याद् ब्राह्मणस्य विधानतः ॥ ५१७ ॥

तथा—

सिद्धान्ने तु विधिर् यः स्याद् आमश्राद्धे ऽप्य् असौ विधिः । (= ५२५)

आवाहनादि सर्वं स्यात् पिण्डदानञ् च भारत ॥

दद्याद् यच् च द्विजातिभ्यः शृउतं वाशृउतम् एव वा ।

तेनाग्नौ करणं कुर्यात् पिण्डांस् तेनैव निर्वपेत् ॥ ५१८ ॥

तथा—

आमश्राद्धं यदा कुर्याद् विधिज्ञः श्रद्धयान्वितः … ॥ ५१९ ॥

(१) उत्तरार्धं पूर्ववत् । (२) आवाहनादिकं ग्रहणादिनिमित्तामश्राद्धे न तु तीर्थश्राद्धे तत्र निषेधस्योक्तत्वात् ।

षट्त्रिंशन्मते—

आमश्राद्धं यदा कुर्यात् पिण्डदानं कथं भवेत् ।

गृहपाकात् समुद्धृत्य सक्तुभिः पायसेन वा ॥ ५२० ॥

(१) पिण्डदानं भवतीति शेषः । (२) आमगृहपाकसक्तुपायसेषु यथालाभं व्यवस्था ।

यत् तु—

आमेन पिण्डं दद्याच् चेद् विप्रान् पक्वेन भोजयेत् ।

पक्वेन कुरुते पिण्डम् आमान्नं यः प्रयच्छति ॥

ताव् उभौ मनुजप्रोक्तौ नरकार्हौ न संशयः ॥ ५१२ ॥

(१) इति, तद् अमावास्यादिपरम् ।

(२) आमश्राद्धे भोजनसम्बद्धा अपोशानादयो लुप्तप्रयोजना निवर्तन्ते, कृष्णले ऽवघातवत् । तदुक्तं—

[प्।१३३] तृप्तप्रश्नो ऽवगाहश् च जुषप्रश्नो यथासुखम् ।

आमश्राद्धे भवेन् नैतद् अपोशानञ् च पञ्चमम् ॥ ५२२ ॥

(१) ऽअवगाहोऽ ऽङ्गुष्ठनिवेशनम् । (२) ततश् च आमश्राद्धपक्षे एते न भवन्ति । (३) आवाहनादयश् च तीर्थश्राद्धत्वात् । (४) पाकश्राद्धे तु आवाहनादय एव न भवन्तीति विवेकः ।

हेमश्राद्धपक्षे पिण्डनिवृत्तिर् अपी– ॥ ५२३ ॥

ति दिवोदासः । (१) स्मृत्यर्थसारे तु विकल्पः ।

(२) आमश्राद्धे केषाञ्चिन् मन्त्राणाम् ऊहो ऽपि भवति । अत एव मरीचिः—

आवाहने स्वधाकारे मन्त्रा ऊह्या विसर्जने ।

अन्यकर्मण्य् अनूह्याः स्युर् आमश्राद्धविधिः स्मृतः ॥ ५२४ ॥

(१) आवाहने ऽपितॄन् हविषे अत्तवऽ [४२९] इति मन्त्रे ऽअत्तवऽ इतिपदस्थाने ऽस्वीकर्तवेऽ इतिपदोहः । (२) स्वधाकारे ऽनमो वः पितर इषऽ इति मन्त्रे ऽइषऽ इतिपदे ऽआमायेऽत्यूहः । (३) विसर्जने ऽवाजे वाजऽ इति मन्त्रे ऽतृप्ता यात पथिभिर् देवयानैर्ऽ इत्यत्र ऽतृप्ताऽ इति क्तप्रत्ययस्थाने ऽतृप्यतेऽति लोट्प्रत्ययोहः कार्यः । (४) यद्यपि ऽपूयति वा एतद् ऋचो ऽक्षरं यद् एनद् ऊहतीऽति [४७६] ऋव्यूहो निषिद्धस् तथापि ऽवाजे वाजे ऽवतेऽति ऋचि वचनाद् ऊहो भवति । (५) एवं ऽइदम् अन्नम्ऽ इत्य् एवमादौ ऽइदम् आमम्ऽ इत्याद्यूहो ज्ञेयः । (६) ऽअन्यकर्मणिऽ ऽविष्णो हव्यं रक्षस्वेऽत्यादौ नोह इति मरीचिवचनार्थः ।

(७) वस्त्रदक्षिणादि यथाशक्ति आमहेमश्राद्धयोर् अपि देयम् एव,

सिद्धान्ने तु विधिर् यः स्याद् आमश्राद्धे ऽप्य् असौ विधिर् ॥ ५२५ ॥ (= ५१८)

इति सुमन्तुवचनात् ।

(१) यदा तु ब्राह्मणा बहवो न सन्ति तदैकेनापि श्राद्धं कार्यम्,

**अन्नाभावे द्विजाभावे तीर्थरूपे महालये । **

एकस्मिन् दीयते चान्नम् अर्घ्यान् पिण्डान् पृथक् पृथग् ॥ ५२६ ॥

**[प्।१३४] **इति वचनात् ।

(१) यदा तु एको ऽपि न लभ्यते तदा दर्भवटोर् उपरि श्राद्धं कार्यम्, अन्नञ् चाग्न्यादौ क्षिपेत्,

पात्राभावे ऽखिलं कृत्वा पितृयज्ञविधिं नरः ।

निधाय वा दर्भवटून् आसनेषु समाहितः ॥

प्रैषानुप्रैषसंयुक्तं विधानं प्रतिपादयेत् ।

सर्वाभावे क्षिपेद् अग्नौ गवे दद्याद् अथाप्सु वा ॥

नैव प्राप्तस्य लोपो ऽस्ति पैतृकस्य विशेषत ॥ ५२७ ॥

इति देवलोक्तेः । (१) ऽप्रैषानुप्रैषसंयुक्तम्ऽ इति “श्राद्धं सम्पन्नं? सुसम्पन्नम्” इत्यादि प्रश्नप्रतिवचने स्वयम् एव वदेद् इत्यर्थः । (२) इदञ् चान्नश्राद्धपक्षे ।

(३) आमहेमपक्षयोस् तु सर्वं श्राद्धं निर्वर्त्य तद्द्रव्यं कालान्तरे ब्राह्मणाय दद्यात् ।

(४) इदञ् चामश्राद्धं सति सम्भवे पूर्वाह्ने तीर्थप्राप्तिं सम्पाद्य तदैव कार्यम्,

आमश्राद्धं तु पूर्वाह्ने एकोद्दिष्टं तु मध्यतः ।

पार्वणं चापराह्ने तु प्रातर्वृद्धिनिमित्तकम् ॥ ५२८ ॥

इति हारीतोक्तेः । (१) आकस्मिकप्राप्तौ तु प्राप्तिलक्षणनिमित्तानुरोधेन कालान्तरे ऽपीत्य् उक्तं प्राक् ।

(२) यदि तु तीर्थे केनापि प्रकारेण श्राद्धे ऽशक्तिस् तदा सक्त्वादिना पिण्डदानम् अप्य् अवश्यं कार्यम् । अत एव देवीपुराणे श्राद्धोक्त्यैव पिण्डदानप्राप्तौ

पिण्डदानं तु तच् छस्तं पितॄणाञ् चैव वल्लभम् ॥ ५२९ ॥ (= ३८१)

(१) इति पुनः पिण्डमात्रं पृथग् उक्तम् । (२) अन्यथाङ्गान्तरपरिसङ्ख्यया

दोषत्रयं स्यात् ।

देवलः—

पिण्डमात्रं प्रदातव्यम् अभावे द्रव्यविप्रयोः ।

श्राद्धाहनि तु सम्प्राप्ते भवेन् निरशनो ऽपि वे– ॥ ५३० ॥

**[प्।१३५] **ति । विष्णुपुराणे ऽपि—

अकुर्वन् वित्तशाठ्यं यः पिण्डान् नो निर्वपिष्यती– ॥ ५३१ ॥

विपु ३। १४। २२च्-द्

(१) ति पितॄणां वाक्ये पिण्डमात्रम् उक्तम् । (२) अत एव ज्ञापकात् तीर्थे पिण्डदानम् अपि प्रधानम् एकोद्दिष्टवत् ।

(३) पिण्डे च द्रव्याणि—

देवीपुराणे—

सक्तुभिः पिण्डदानञ् च संयावैः पायसेन वा ।

कर्तव्यम् ऋषिभिः प्रोक्तं पिण्याकेनेङ्गुदेन वा ॥ ५३२ ॥

(१) ऽगुडेन वेऽति वा पाठः । (२) संयावो गोधूमविकारः । (३) पिण्याकस् तिलकल्कः । (४) इङ्गुदं तापसतरुफलम् । (५) अत्र पूर्वपूर्वासम्भवे उत्तरोत्तरं ज्ञेयम् ।

सत्यव्रतः—

शाकमूलफलान्नैस् तु वासोगोभूमिकाञ्चनैः ।

अद्भिर् वा विप्रसंवादात् पितॄणां प्रीतिम् आवहेत् ॥ ५३३ ॥

(१) विप्रसंवादः सर्वाभावे विप्रं ब्रूयात् “मयाद्य श्राद्धं कृतम् अस्तु” “अस्त्व्” इत्य् एवं विप्रो ब्रूयाद् इत्य् एवंरूपः ।

(२) पिण्डप्रमाणञ् च अङ्गिराः—

कपित्थबिल्वमात्रान् वा पिण्डान् दद्याद् विधानतः ।

कुक्कुटाण्डप्रमाणान् वा केषाञ् चामलकैः समान् ॥

बादरेण समान् वापि दद्याच् छ्रद्धासमन्वित ॥ ५३४ ॥ इति ।

(१) अत्राप्य् अशक्तौ सूक्ष्मप्रमाणा अपि देयाः,

शमीपत्रप्रमाणेन पिण्डं दद्याद् गयाशिर ॥ ५३५ ॥

अग्पु ११५। ४६च्-द्

**[प्।१३६] **इति लिङ्गात् ।

अन्यच् च—

तिलम् अन्नञ् च पानीयं धूपं दीपं पयस् तथा ।

मधु सर्पिः खण्डयुक्तं पिण्डम् अष्टाङ्गम् उच्यते ॥ ५३६ ॥

तथा—

अवनेजनं पिण्डदानं पुनः प्रत्यवनेजनम् ।

दक्षिणा चान्नसङ्कल्पस् तीर्थश्राद्धेष्व् अयं क्रम ॥ ५३७ ॥

इति वृद्धश्लोकः ।

(१) तीर्थश्राद्धे पिण्डदानं

पिण्डांस् तु गोजविप्रेभ्यो दद्याद् अग्नौ जले ऽपि वे– ॥ ५३८ ॥

याज् १। २५६अ-ब्

(१) ति याज्ञवल्क्योक्ता प्रतिपत्तिर् न कार्या किन्तु जल एव क्षेपः,

तीर्थश्राद्धे सदा पिण्डान् क्षिपेत् तीर्थे समाहितः ।

दक्षिणाभिमुखो भूत्वा पित्र्या दिक् सा प्रकीर्तिते ॥ ५३९ ॥

ति वचनात् ।

(१) तीर्थपिण्डदाने नन्दादिप्रयुक्तो निषेधो न प्रवर्तत इति श्राद्धप्रसङ्ग एवाभ्यधायि ।

(२) यदा तु पिण्डदाने ऽप्य् अशक्तिस् तदा तर्पणम् अप्य् अवश्यकं कर्त्तव्यं,

तिलैः सप्ताष्टभिर् वापि समवेतं जलाञ्जलिम् ।

भक्तिनम्रः समुद्दिश्य भुव्य् अस्माकं प्रदास्यति ॥

यतः कुतश्चित् सम्प्राप्य गोभ्यो वापि गवाह्निकम् ॥ ५४० ॥

विपु ३। १४। २७-२८ब्

इत्यपि शब्दयुक्तपितृवचनात् ।

(१) एवञ् च सत्य् एष सङ्क्षेपः— (२) शक्तेन तर्पणश्राद्धपिण्डदानानि त्रीण्य् अपि कार्याणि । (३) अशक्तेन तर्पणपिण्डौ । (४) अशक्ततरेण तर्पणमात्रम् अपीति ।

**[प्।१३७] **(५) यत्र च काश्यादाव् एकस्मिन् महातीर्थे अनेकान्य् अवान्तरतीर्थानि एकदिने गम्यन्ते, तदैकस्मिन्न् अपि दिने तत्तत्तीर्थप्राप्तिनिमित्तकानि बहूनि श्राद्धानि निमित्तक्रमेण कार्याणि निमित्तभेदात्, दर्शे उपरागश्राद्धवत् । यत् तु प्रचेतसो वचनं—

नैकश्राद्धद्वयं कुर्यात् समाने ऽहनि कुत्रचित् ।

न हन्तेति न होमं च न स्वाध्यायं न तर्पणम् ॥ ५४१ ॥

(१) इति, तत् समाननिमित्तकश्राद्धविषयम् । तद् आह जाबालिः—

श्राद्धं कृत्वा तु तस्यैव पुनः श्राद्धं न तद्दिने ।

नैमित्तिकं तु कर्तव्यं निमित्तानुक्रमोदये ॥ ५४२ ॥

कात्यायनो ऽपि—

द्वे बहूनि निमित्तानि जायेरन्न् एकवासरे ।

नैमित्तिकानि कार्याणि निमित्तोत्पत्त्यनुक्रमात् ॥ ५४३ ॥

अन्यत्रापि—

एकस् त्व् एकनिमित्तम् एकदिवसे श्राद्धं न चावर्तयेद् ॥ ५४४ ॥ इति ।

(१) उपवासमुण्डने तु सकृद् एव, प्रयागकाश्यादिव्यापकतीर्थोपाध्यवच्छेदेन विधानात् ।

(२) यत्र तु व्याप्यतीर्थावच्छेदेन श्राद्धकरणाद् व्यापकतीर्थश्राद्धम् अपि

सिध्यति, तत्र प्रतिनिमित्तमावत्तिर् न भवति । (३) किन्तु ऽइदं कृतं इदं नेऽत्य् अगृह्यमाणविशेषत्वात् तन्त्रेणैव श्राद्धानां सिद्धिर् देशकालकर्त्रैक्यात् द्रव्यदेवतयोर् अभेदाच् च । (४) यथा गङ्गावेणीप्रयागनिमित्तकानां गङ्गाकाशीमणिकर्णिकानिमित्तकानां चेत्यादि ।

(५) “ननु ऽप्राप्तैर् एव च कर्तव्यम्ऽ [३२४] इति वचनात् पञ्चक्रोशाद्यवधि प्राप्ताव् एव प्रथमं व्यापकतीर्थनिमित्तकं श्राद्धं प्राप्नोति । (६) व्याप्यतीर्थदेशप्राप्तौ तु तन्निमित्तकं पश्चाद् इति देशकालयोर् भेदात् कथं तन्त्रता? (७) मैवं, सायम्प्रातःपौर्णमास्यमावास्यावाक्यवशाद् यावज्जीववचनोक्तजीवनाख्यनिमित्तसङ्कोचवन् मणिकर्ण्यादितत्तत्प्रधानतीर्थावच्छेदेन प्राथमिकस्नानश्राद्धादिबोधक–

**[प्।१३८] **वाक्यवशात् ऽप्राप्तैर् एवेऽति वचनोक्तप्राप्त्याख्यनिमित्तसङ्कोचात् । तथा हि काशीखण्डे व्यासवचः—

निशामय महाप्राज्ञ लोमहर्षण वच्मि ते ।

यथा प्रथमतो यात्रा कर्तव्या यात्रिकैर् मुदा ॥

सचैलम् आदौ स्नात्वा तु चक्रपुष्करिणीजले ।

सन्तर्प्य पितृदेवांश् च ब्राह्मणांश् च यथाविधी– ॥ ५४५ ॥

(१) त्यादि । तथा च मणिकर्ण्याख्यप्रधानतीर्थावच्छिन्नकाशीप्राप्तेर् निमित्तत्वाद् देशकालभेदो नास्तीति युक्ता तन्त्रता । (२) एवं प्रयागादाव् अपि ।

(३) “नन्व् एवंविशिष्टस्य निमित्तत्वे निमित्तभेदाभावाद् भिन्नश्राद्धप्रसक्तिर् एव नास्तीति केषां तन्त्रता?” (४) सत्यं, किन्तु मणिकर्ण्यादिश्राद्धे ऽपि पृथक्फलप्राशस्त्यबोधकवाक्यैस् तत्प्राप्तेर् अपि पृथक्श्राद्धनिमित्तत्वम् । (५) तद् यथा पौर्णमास्यमावास्ययोर् अस्ति च जीवनाख्यनिमित्तावच्छेदकतास्ति च ऽय इष्ट्येऽत्यादिवचनात् स्वतन्त्रेष्टिकालता, तद्वद् अत्रापि द्विविधवचनैर् मणिकर्ण्यादेर् निमित्तावच्छेदकता स्वतन्त्रश्राद्धनिमित्तता च भविष्यति, संयोगपृथक्त्वन्यायात् ।

(६) वस्तुतस् तु निमित्तसङ्कोचे सति प्रतिबन्धकवशान् मणिकर्णिकाद्यप्राप्तौ निमित्तानिष्पत्तेर् नैमित्तिकश्राद्धान् अनुष्ठानम् एव स्यात् । (७) अतः काश्यादिप्राप्तिनिमित्तक एव श्राद्धे मणिकर्णिकादिदेशो ऽङ्गत्वेन विधीयते । (८) तथा च निमित्तकतयावश्यकत्वात् तदप्राप्ताव् अपि देशाङ्गविकलम् अपि श्राद्धं कार्यं निमित्तस्य वृत्तत्वाद् इति दिक् । (९) तस्माद् अस्त्य् अनेकप्राप्तिः ।

(१०) “नन्व् एकप्रयोगविधिपरिगृहीतेषु प्रयाजाद्यङ्गेष्व् एव तन्त्रं दृष्टं, न स्वतन्त्रप्रधानेष्व् अपी”ति चेत्, (११) अहो यावद् दृष्टग्राही मूढः, यो ऽयं दर्शपूर्णमासराजसूयादौ फलतन्त्रतां, सान्नाय्ये च सम्प्रतिपन्नदेवताकत्वेन प्रधानयोर् अपि देवतोद्देशत्यागात्मयागयोः, यमलपुत्रजन्मनि जातेष्ट्योः, पक्षहोमे अनेकहोमानां, युगपदनेकगृहदाहादिनिमित्तेषु क्षामवत्यादीनां, स्मार्ते च सङ्क्रान्त्यमावास्यादिनिमित्तकश्राद्धानाञ् च प्रधानानाम् अपि देशाद्यैक्येनागृह्यमाणविशेषतया सकृद् अनुष्ठानाद् एव सर्वापूर्वनिष्पत्तेर् युगपज् जायमानत्वात् तन्त्रभावं नालोचयते, येनेतिकर्तव्यतामात्रविषयतां तन्त्रस्याह ।

(१२) तस्मात् ऽकाशीनिमित्तकं मणिकर्णिकानिमित्तकञ् च श्राद्धं तन्त्रेणाहं करिष्यऽ इति सङ्कल्प्यैकमेव श्राद्धं कुर्यात् । (१३) यदा तु प्रत्यासन्नप्राक्काले गङ्गायाम् अकृतश्राद्धस् तदा ऽगङ्गाश्राद्धञ् चेऽत्यपि वदेत् । (१४) एवं प्रयागगयादाव् अपीति ।

**[प्।१३९] **(१५) केचित् तु “काश्यादिव्यापकतीर्थस्यैवोद्देश्यत्वात् तत्प्रकरणे च मणिकर्ण्यादिव्याप्यतीर्थपाठात् तन्मध्यपाताख्यं विशेषग्रहणम् अस्तीति पश्वर्थानुष्ठितप्रयाजैः पशुपुरोडाशप्रयाजानां काम्याग्निहोत्रेण नित्यस्यापरपक्षिकेण च नित्यश्राद्धस्य प्रसङ्गसिद्धिवद् व्यापककाश्यादिश्राद्धेनैव व्याप्यश्राद्धस्यापि प्रसङ्गत एव सिद्धिम् अभ्युपेत्य “काशीप्राप्तिनिमित्तकश्राद्धं करिष्यऽ इत्य् एव सङ्कल्प” इत्य् आहुः ।

(१६) यत् तु “न तन्त्रं न वा प्रसङ्गः, किन्तु काश्यादिप्राप्तिनिमित्तकम् एकम् एव श्राद्धं निमित्तसङ्कोचात् । पृथक्फलबोधनं तु पञ्चतीर्थाद्यन्तर्गतमणिकर्ण्यादिश्राद्धविषयं स्वतन्त्रतच्छ्राद्धविषयं वा भविष्यती”ति, (१७) तन् न, व्याप्यतीर्थप्राप्तिरूपनिमित्ते सत्य् अपि तन्निमित्तकश्राद्धबाधे हेत्वभावात् । (१८) विपर्यये प्रमाण सत्त्वाच् च । (१९) न च पञ्चतीर्थाद्यन्तर्गतमणिकर्ण्यादिश्राद्धविषयं पृथक्फलश्रवणम् ।

(२०) तदन्तर्गतस्नानश्राद्धादेर् इतरसहितस्यैवसमुदायोपाधिना राजसूयमध्यपतितावेष्ट्यादिवत् समुदायप्रयोगवाक्यगतफलेन निराकाङ्क्षत्वात् पृथक्फलाकाङ्क्षाया अभावात् । (२१) नापि स्वतन्त्रश्राद्धविषयं पृथक्फलश्रवणं, फलान्तरार्थ श्राद्धान्तरविधौ गौरवात् । (२२) अस्मतपक्षे तु प्राप्त एव प्राप्तिनिमित्तक श्राद्धे ।

सन्निधौ त्व् अविभागात् ॥ ५४६ ॥

म्स् २। ३। १३। २६

(१) इति न्यायेनावेष्टाऽव् ऽएतयान्नाद्यकामं याजयेद्ऽ इतिवत् फलसम्बन्धमात्रं क्रियत इति लाघवम् ।

(२) तस्मान् मणिकर्ण्यादिश्राद्धम् अवेष्टिवत् द्विविधम्; (३) इतरैः सह समप्रधानं, स्वतन्त्रञ् चेति । (४) तत्राद्यं पञ्चतीर्थ्याद्यन्तर्गतम् । (५) द्वितीयं तु प्राप्तिनिमित्तकम् ।

(६) तत्रोत्तरलोपे हेत्वभावाद् उक्तरीत्या तन्त्रेण प्रसङ्गेन वा सिद्धिर् इत्येव युक्तम् ।

(७) एकस्यापि चानेकफलसाधनता प्रयोगभेदाद् अवच्छेदकभेदाच् चावेष्टिवद् एवोपपादनीया । (८) एवं सर्वत्रेत्य् अलं बहुना ।

**[प्।१४०] ** अथ श्राद्धान्तरसमवाये निर्णयः

(९) तत्र यदि तीर्थप्राप्तिदिने वार्षिकं स्यात् तदा पृथग् एव कार्यम् । तद् उक्तं कालादर्शे—

प्रत्याब्दिकेषु चालभ्ययोगेषु विहितस्य च ।

सम्पाते देवताभेदाच् छ्राद्धयुग्मं समाचरेद् ॥ ५४७ ॥ इति ।

(१) तत्राप्य् आदौ तीर्थनिमित्तकं, प्राप्त्यनन्तरम् एव कार्यत्वाद् विलम्बायोगात् ।

(२) पश्चाद् वार्षिकम् ।

(३) दार्शिकव्यतीपातयुगादिमन्वादिसङ्क्रान्त्यादिनिमित्तकानि तु यद्य् आमेन हेम्ना वा तीर्थश्राद्धं क्रियते तदा पृथग् एव कार्याणि, तेषां पक्वसाध्यत्वेन द्रव्यभेदात् प्रसङ्गायोगात् । (४) यदा तु तीर्थश्राद्धं पाकेनैव क्रियते, तदा द्रव्यभेदाभावात् तद्देवतानाञ् च सर्वासां तीर्थश्राद्ध एवेष्टत्वात् प्रसङ्गात् तीर्थश्राद्धेनैव सिद्धिः,

दार्शिकस्य युगादेश् च दार्शिकालभ्ययोगयोः ।

प्रसङ्गाद् इतरस्यापि सिद्धेर् उत्तरम् आचरेद् ॥ ५४८ ॥

इति कालादर्शोक्तेः । (१) अत्र दार्शिकशब्दस् तत्समानन्यायानां सर्वेषामुलक्षकः ।

(२) नित्यश्राद्धम् अपि यद्य् आमेन हेम्ना वा तैर्थिकं तदा पृथक् तस्य पक्वद्रव्यत्वात् । यत् तु

नान्दीमुखतीर्थश्राद्धेषु नित्यश्राद्धदेवतानाम् इष्टत्वात्

प्रसङ्गसिद्धतया पृथक् नित्यश्राद्धं न कर्तव्यम् ॥ ५४९ ॥

(१) इति हेमाद्रिणोक्तम्, तत् तीर्थश्राद्धस्यान्नेन करणे द्रष्टव्यम् । तद् उक्तं

नागरखण्डे—

नित्यश्राद्धं न कुर्वीत प्रसङ्गाद् यत्र सिध्यति ।

श्राद्धान्तरे कृते ऽन्यत्र नित्यत्वात् तन् न हापयेद् ॥ ५५० ॥

[प्।१४१] इति ।

(१) यदा तु केनचिन् निमित्तेनाशक्त्या वा सर्वाणि दार्शिकादीनि आमेन हेम्ना वा चिकीर्षति, तदामिकेन हैमेन वा तीर्थश्राद्धेनैव सिद्धिर् इत्यादयो निर्णयाः स्वबुद्ध्या कार्याः ।

(२) इदं तीर्थनिमित्तकश्राद्धं दशमासानन्तरं तीर्थप्राप्ताव् आवश्यकम् ।

(३) अन्तरा तु फलेच्छया कृताकृतम्,

संवत्सरं द्विमासोनं पुनस् तीर्थं व्रजेद् यदि ।

मुण्डनञ् चोपवासञ् च ततो यत्नेन कारयेद् ॥ ५५१ ॥ (= २७८)

(१) इति यत्नपदयुक्तवचनोक्तमुण्डनादिसमानन्यायत्वात्, (२) चकारेणोपसङ्ग्रहाद् वा ।

(३) स्नानतर्पणादि तु सर्वदा भवतीति वृद्धाः ।

इति श्रीभट्टरामेश्वरसूरिसूनुनारायणभट्टविरचिते त्रिस्थलीसेतौ सामान्यप्रघट्टके सपरिकरस् तीर्थश्राद्धविचारः ।

[प्।१४२] अथ तीर्थश्राद्धाधिकारिणः

तत्र

पितुः पुत्रेण कर्तव्या पिण्डदानोदकक्रिया ।

पुत्राभावे तु पत्नी स्यात् पत्न्यभावे तु सोदरः ॥ ५५२ ॥

शङ्ख १८८

इति कात्यायनवचनात्,

**पुत्रः पौत्रः प्रपौत्रो वा भ्राता वा भ्रातृसन्ततिः ।**


**सपिण्डसन्ततिर् वापि श्राद्धार्हा नृप जायत ॥ ५५३ ॥** 


<p style="text-align: right">

विपु ३। १३। ३०च्-३१ब्

(१) इति विष्णुपुराणवचनाच् च पुत्रादीनाम् अधिकारः । (२) एवम् अन्ये ऽपि सामान्याधिकारिणो ग्रन्थान्तराद् ज्ञेयाः ।

(३) विशेषस् तु; जीवत्पितृको ऽपि तीर्थश्राद्धं कुर्यात् । तद् उक्तं मैत्रायणीयपरिशिष्टे—

उद्वाहे पुत्रजनने पित्र्येष्ट्यां सौमिके मखे ।

तीर्थे ब्राह्मण आयते षड् एते जीवतः पितुः ॥ ५५४ ॥

मैत्परि, प्प्। २३६-७

(१) उद्वाहो ऽत्र द्वितीयादिः, प्रथमे पितुर् एवाधिकारात् । (२) ऽपुत्रजननेऽ जातकर्मणि ।

(३) इदम् अपत्यसंस्कारमात्रोपलक्षणम् । (४) ऽपित्र्येष्ट्याऽं चातुर्मास्यान्तर्गतायाम् ।

(५) ऽसौमिके मखेऽ तार्तीयसवनिकैः पुरोडाशखण्डैः स्वचमसाधस्तात् पिण्डदाने ।

(६) ऽब्राह्मण आयतेऽ त्रिमधुस् त्रिसुपर्णक इत्यादिगुणयुतविप्रसम्पदि । (७) ऽजीवतः पितुःऽ पुत्रस्यैते श्राद्धकालाः षड् इत्यर्थः ।

(८) एवं तीर्थमात्रे श्राद्धे प्रसक्ते गयायाम् अपवादम् आह लौगाक्षिः—

**दर्शश्राद्धं गयाश्राद्धं श्राद्धञ् चापरपक्षिकम् ।**


**न जीवत्पितृकः कुर्यात् तिलैः कृष्णैश् च तर्पणम् ॥ ५५५ ॥**

**[प्।१४३] **मैत्रायणीयपरिशिष्टे ऽपि—

महानदीषु सर्वासु तीर्थेषु च गयामृते ।

जीवत्पितापि कुर्वीत श्राद्धं पार्वणधर्मवत् ॥ ५५६ ॥

मैत्परि प्। २३७, नोते २

(१) मृतमातृकस्य तु प्रासङ्गिकगयाप्राप्तौ मातृश्राद्धे परिशिष्ट एव प्रतिप्रसवः श्रूयते—

आन्वष्टक्यं गयाप्राप्तौ सत्यां यच् च मृते ऽहनि ।

मातुः श्राद्धं सुतः कुर्यात् पितर्य् अपि च जीवति ॥ ५५७ ॥

मैत्परि प्। २३७

(१) अत्रापि ऽगयाप्राप्तौ सत्याम्ऽ इत्य् अनेन प्रासङ्गिकप्राप्तिर् उक्ता; (२) तस्यां सत्यां मातृश्राद्धं कार्यं न तूद्दिश्य गत्वा । अत एव स्मृत्यन्तरम्—

गयां प्रसङ्गतो गत्वा मातुः श्राद्धं समाचरेद् ॥ ५५८ ॥ इति

(१) ततश् च “गयातिरिक्ततीर्थे जीवत्पितृकेण वक्ष्यमाणोद्देशेन श्राद्धं कार्यम् । (२) गयायां तु यदि प्रसङ्गाद् याति मृतमातृकश् च तदा मातृपार्वणमात्रं कुर्यात् । (३) अमृतमातृकस् तु ने”त्येवं कालादर्शस्मृतिदर्पणकारादयो बहवो मेनिरे । (४) अपरे तु “जीवत्पितृकश्राद्धविधायकवाक्यानां साधारण्याद् गयायाम् अपि जीवत्पितृकेण पितृपित्रादिभ्यो वक्ष्यमाणेभ्यः श्राद्धं कार्यम् । (५) एतस्मिंश् च श्राद्धे मृतमातृकस्य पितृपत्नीत्वेन मातृश्राद्धसिद्धाव् अपि ऽआन्वष्टक्यम्ऽ इत्यादिवचनं मातृत्वादिरूपेण पृथक् पार्वणप्राप्त्यर्थम् । (६) यानि तु गयाश्राद्धनिषेधवचनानि तानि मृतमातृकेणापि तच्छ्राद्धोद्देशेन गत्वा श्राद्धं न कार्यं, किन्तु प्रासङ्गिकगमन एवेत्य् एवम्पराणीत्य्” एवं वचनानां व्यवस्थाम् आहुः ।

(७) एवम् उभयथा वचनव्यवस्थायां सत्यां देशाचाराद् व्यवस्था । (८) उभयथापि तीर्थश्राद्धे जीवत्पितृकस्याधिकारः सिद्धः ।

एवञ् च यत्

सपितुः पितृकृत्येषु अधिकारो न विद्यते ।

न जीवन्तम् अतिक्रम्य किञ्चिद् दद्याद् इति श्रुतेर् ॥ ५५९ ॥

कात् २। १६। १२

**[प्।१४४] **इति कात्यायनवचः, यच् च

पित्र्यं जीवत्पितुर् नोक्तम् ॥ ५६० ॥

(१) इति निगमवचस् तद् विहितकालषट्कातिरिक्तपरं भवति ।

(२) “ननु यदि जीवत्पितृकस्यापि तीर्थश्राद्धे ऽधिकारस् तदा पितरि तीर्थवासिनि देशान्तरागतेन पुत्रेण श्राद्धं कर्तव्यं स्यात्, निमित्तस्य वृत्तत्वात् ।” (३) कर्तव्यम् एवेति वदामो, बाधकाभावात् । (४) “तर्हि पित्रा सहागतेनापि कुतो न क्रियते?” (५) उच्यते; वचनात् प्राप्नोत्य् एव, लोकविद्विष्टत्वात् त्व् अननुष्ठानम् ।

तद् उक्तम्—

अस्वर्ग्यं लोकविद्विष्टं धर्मम् अप्य् अचरेन् न तु ॥ ५६१ ॥ इति ।

याज् १। १५६च्-द्

(१) “पितृकृतेन प्रसङ्गसिद्धेर् अनुष्ठानं कुतो ने”ति चेत्, (२) न, भिन्नकर्तृके प्रसङ्गाभावात् ।

(३) तत्सिद्धं जीवत्पितृकस्यापि तीर्थश्राद्धे ऽधिकारित्वम्

(४) भ्रातरस् तु यदि विभक्ता युगपद् अयुगपद् वा तीर्थे गतास् तदा प्रत्येकं पृथक् श्राद्धं कुर्युः । (५) अविभक्तेषु तु य एव गतस् तेन कार्यम् । (६) सहगमने तु ग्रहणादिवत् ज्येष्ठेनैव, न तु सर्वैः । तद् आह मनुः—

भ्रातॄणाम् अविभक्तानाम् एको धर्मः प्रवर्तते ।

विभागे सति धर्मो ऽपि भवेत् तेषां पृथक् पृथक् ॥ ५६२ ॥

प्रदीपे—

विभक्तास् तु पृथक् कुर्युः प्रतिसंवत्सरादिकम् ।

एकेनैवाविभक्तेषु कृते सर्वैस् तु तत्कृतम् ॥ ५६३ ॥

(१) विधवा तु यदि पुत्रवती तीर्थे च गता तदा नैव कुर्यात्,

सपुत्रया न कर्तव्यं भर्तुः श्राद्धं कदाचने– ॥ ५६४ ॥

ति वचनात् । (१) अपुत्रया तु कार्यम् एव,

[प्।१४५] अपुत्रा पुत्रवत्पत्नी– ॥ ५६५ ॥

ति वचनात् ।

(१) केचित् तु “पुत्रवत्यापि पुत्रासन्निधाने ब्राह्मणादिद्वारा सङ्कल्पश्राद्धं कारणीयम् ।

(२) साङ्कल्पे च वर्ज्यानि—

वसिष्ठः—

आवाहनं स्वधाशब्दं पिण्डो ऽग्नौकरणं तथा ।

विकिरं पिण्डदानञ् च साङ्कल्पे षट् विवर्जयेत् ॥ ५६६ ॥

(१) “ ऽपिण्डऽ उच्छिष्टपिण्डः” इत्य् आहुः । (२) तत्र मूलं मृग्यम् ।

(३) अनुपनीतो ऽपि तीर्थे श्राद्धं कुर्यात्,

एतच् चानुपनीतो ऽपि कुर्यात् सर्वेषु पर्वसु ।

श्राद्धं साधारणं नाम सर्वकामफलप्रदम् ॥

भार्याविरहितो वापि प्रवासस्थो ऽपि भक्तिमान् ।

शूद्रो ऽप्य् अमन्त्रकं कुर्याद् अनेन विधिना नृपे– ॥ ५६७ ॥

सृख् ९। १८५-१८६ब्

ति पाद्मे सृष्टिखण्डे तीर्थश्राद्धादिकं उपक्रम्योक्तेः । (१) तत्र स्त्रिया अनुपनीतेन च यथादेशाचारं ब्राह्मणद्वारा कारणीयं, स्वयं वामन्त्रकं कार्यम् । तद् उक्तं स्मृत्यर्थसारे—

अनुपनीतः स्त्रीशूद्राश् च श्राद्धम् ऋत्विजा कारयेयुः, स्वयं वा अमन्त्रकं

नामगोत्राभ्यां कुर्युः, ऽदेवेभ्यो नमःऽ ऽपितृभ्यः स्वधा नमऽ इति

मन्त्राभ्यां वे– ॥ ५६८ ॥ ति ।

सस्, प्। ५६

(१) क्षेत्रजादीनां तु यो विशेषः स नोच्यते,

दत्तौरसेतरेषां तु पुत्रत्वेन परिग्रह ॥ ५६९ ॥

(१) इति पुत्रान्तरनिषेधेन कलाव् अनुपयोगात् ।

**[प्।१४६] **तथा—

**यो यस्य स्त्रियं धनं वा हरति स तस्य कुर्यात् । **

स्त्रीहारी धनहारी च कुर्युः पिण्डोदकक्रियाम् ॥ ५७० ॥

इति कार्ष्णाजिनिवचनात् ।

(१) एवम् अन्ये ऽपि ग्रन्थान्तरतो ऽधिकारिणो ज्ञेयाः । (२) केचित् तु सम्प्रदाननिर्णये ऽत्रापि स्पष्टीभविष्यन्ति ।

[प्।१४७] अथाधिकारापवादः

(३) तत्र यतिना न कार्यं,

न कुर्यात् सूतकं भिक्षुः श्राद्धं पिण्डोदकक्रियाम् । (=३४५)

त्यक्तं सन्न्यासयोगेन गृहधर्मादिकं व्रतम् ॥

गोत्रादिचरणं सर्वं पितृमातृकुलं धनम् ॥ ५७१ ॥

इति स्मरणात् ।

(१) पतितो ऽपि न कुर्याद्,

द्विजातिकर्मभ्यो हानिः पतनम् ॥ ५७२ ॥

इति वचनेन निषेधात् । (१) उपपातक्यादिना तु कार्यम् एव, तस्य नित्यनैमित्तिकयोर्

निषेधाभावात् ।

इति श्रीभट्टरामेश्वरसूरिसूनुनारायणभट्टविरचिते त्रिस्थलीसेतौ सामान्यप्रघट्टके तीर्थश्राद्धाधिकारिणः

[प्।१४८] अथ तीर्थश्राद्धे सम्प्रदाननिरणयः

तत्र—

**नदीतीरेषु तीर्थेषु सुभूमौ चैव सानुषु । **

विविक्तेषु च तुष्यन्ति दत्तेन पितरः सदे– ॥ ५७३ ॥

कूपु २। २२। १५

ति कूर्मपुराणात्,

**सपिण्डीकरणाद् ऊर्ध्वं यत्र यत्र प्रदीयते । **

पार्वणं तत्र कर्तव्यम् एकोद्दिष्टं न कर्हिचिद् ॥ ५७४ ॥

(१) इति वचनाच् च पित्रादिपार्वणं तावत्कार्यम् ।

(२) ततो मातामहादिपार्वणम् अपि

पितरो यत्र पूज्यन्ते तत्र मातामहा अपि ।

अविशेषेण कर्तव्यं विशेषान् नरकं व्रजेत् ॥ ५७५ ॥

इति गौतमोक्तेः,

**कर्षूसमन्वितं मुक्त्वा तथान्यत् श्राद्धषोडशम् । **

प्रत्याब्दिकञ् च शेषेषु पिण्डाः स्युः षड् इति स्थितिर् ॥ ५७६ ॥

कात् ३। २४। १४

इति कात्यायनोक्तेश् च ।

(१) एवं “गयातिरिक्ततीर्थेषु षड्दैवत्यम् एवे”ति स्मृतिरत्नावलीकारादयो मेनिरे ।

(२) अन्ये तु तीर्थादिसामान्यश्राद्धम् उपक्रम्य

**हविःशेषात् ततो मुष्टिम् आदायैकैकम् आदृतः । **

क्रमशः पितृपत्नीनां पिण्डनिर्वपनं चरेद् ॥ ५७७ ॥

(१) इति देवलवचनान् मातृपार्वणम् अपीच्छन्ति ।

(२) स्मृत्यर्थसारे तु

तत्र मातृश्राद्धं पृथक् प्रशस्तम् ॥ ५७८ ॥

सस्, प्प्। ५९-६०

**[प्।१४९] **(१) इति वदता कृताकृतत्वम् उक्तम् ।

(२) गयायां तु मात्रादिपार्वणम् आवश्यकम् इति तत्रैव वक्ष्यामः ।

एतच् च पित्रादिपिण्डानां पश्चिमभागे देयम् ॥ ५७९ ॥

इति शाङ्ख्यायनः । (१) एवं नवदैवत्यं भवति ।

(२) अन्ये तु “मातामह्यादिपार्वणम् अपि पृथग्” आहुः,

केचिद् इच्छन्ति नारीणां पृथक् श्राद्धं महर्षय ॥ ५८० ॥

(१) इति चतुर्विंशतिमते नारीणाम् अपि सामान्योक्तेः,

पित्रादिनवदैवत्यं तथा द्वादशदैवतम् ॥ ५८१ ॥

अग्पु ११५। १०अ-ब्

इति अग्निपुराणोक्तेश् च । (१) विकल्पार्थस् तथाशब्दः; (२) तथा च द्वादशदैवत्यं भवति ।

(३) अत्र देशशिष्टसमाचाराद् व्यवस्था ।

(४) तत्र यदा मातृमातामहीपार्वणे पृथङ् न स्तस् तदा पित्रादीनां मातामहादीनाञ् च सपत्नीकत्वेन निगमेषु निर्देशः कार्यः,

**स्वेन भर्त्रा समं श्राद्धं माता भुङ्क्ते सुधासमम् । **

पितामही च स्वेनैव स्वेनैव प्रपितामही– ॥ ५८२ ॥

बृह (श्रा) ७५

(१) ति बृहस्पतिना मात्रादीनां पित्रादिसहभावेन देवतात्वोक्तेः,

अन्वष्टका तथा मातृश्राद्धञ् चैव मृते ऽहनि ।

एकोद्दिष्टं तथा मुक्त्वा स्त्रीषु नान्यत् पृथग् भवेद् ॥ ५८३ ॥

शङ्ख (क्) १९०

(१) इति शङ्खेन पृथक् श्राद्धं निषेधता अपृथग् भवेद् इत्य् अभ्यनुज्ञानाच् च ।

(२) मात्रादीनां पथक्श्राद्धपक्षे ऽपि यदि ताः कृतसहगमनास् तदा भर्तारं ताञ् चोद्दिश्य सहैवायुग्मब्राह्मणभोजनम् । (३) पिण्डो ऽपि चोभयोद्देशेनैक एव देयः इत्य् एवं समासेनानुष्ठानं,

[प्।१५०] मृताहनि समासेन पिण्डनिर्वपणं पृथक् ।

नवश्राद्धं तु दम्पत्योर् अन्वारोहण एव त्व् ॥ ५८४ ॥

इति लौगाक्षिवचनात् । (१) अयम् अर्थः; दम्पत्योर् अन्वारोहणेन निमित्तेन मृततिथ्येकत्वे ऽपिण्डनिर्वपणऽं पिण्डो निर्वपणं श्राद्धं चोक्तप्रकारेण द्विपितृकश्राद्धवत् समासेन । (२) नवश्राद्धं तु प्राक् सपिण्डीकरणाद् यत् तत् पथक् न तु समासेन । (३) अत्र ऽमृताहनीऽति विशेषोपादानान् मृततिथेर् भेदे तु न समासः किन्तु पृथग् एव ।

(४) अत्र “नवश्राद्धे एव पृथक्त्वविधानाद् दर्शसांवत्सरिकतीर्थश्राद्धादिषु परिसङ्ख्यया समास एवावगम्यते । (५) एवम् अनेकासाम् अप्य् अन्वारोहणे ज्ञेयम् । यच् च स्मृत्यन्तरम्—

**एकचित्यां समारूढौ दम्पती निधनं गतौ ।**


**पृथक् श्राद्धं तयोः कुर्याद् ओदनञ् च पृथक् पृथग् ॥ ५८५ ॥**

(१) इति, तन्नवश्राद्धविषयम्” इत्येवं मदनपारिजातकाराद्याः । (२) हेमाद्रिप्रभृतयस् तु “परिसङ्ख्यापरिहाराय ऽमृताहनीऽति यथाश्रुतानुरोधाच् च सांवत्सरिकमात्रविषयम् एतत् ।

(३) तेन तीर्थादौ पृथग् एव देयम्” इति ।

(४) तथा सपत्नमातृसपत्नपितामहीसपत्नप्रपितामहीभ्यो ऽपि तीर्थे दद्यात्,

पितृपत्न्यः सर्वा मातर ॥ ५८६ ॥

(१) इति सुमन्तुना तास्व् अपि मातृत्वाद्यतिदेशात् । (२) तत्रापि जनन्यादिस्थानीयब्राह्मणे तत्पिण्डे च तासाम् अप्य् उद्देशो न तु पृथक्,

**अनेका मातरो यस्य तीर्थे चापरपक्षिके ।**


**अर्घ्यदानं पृथक् कुर्यात् पिण्डम् एकं तु निर्वपेद् ॥ ५८७ ॥**

इति गालवोक्तेः । (१) शिष्टास् तु एतस्याशक्तविषयतां मत्वा पृथग् एव श्राद्धं पिण्डञ् च

कुर्वन्ति । (२) तथा सपत्नमातामहेभ्यो ऽपि श्राद्धं कार्यं, मातृसपत्नीनां सुमन्तुना मातृत्वे ऽतिदिष्टे तत्पितॄणाम् अप्य् आर्थिकगौणमातामहतासिद्धेः । (३) तद् एतत् सर्वम् उक्तं श्राद्धकल्पे हेमाद्रिणा ।

**[प्।१५१] **(४) यदा तु नानापितृतृप्तिकाम् अनया विशिष्टे महालयादिकाले गयादितीर्थविशेषे वा श्राद्धं कुर्यात्, तदा पुत्रवतीनामपुत्राणां वा मातृसपत्नीनाम् अपि श्राद्धं कार्यम् ।

(५) पुत्रवतीनाम् अपि तासां श्राद्धेषु कृपया स्नेहेन वा सपत्नीपुत्रस्य पाक्षिकाधिकारवत्त्वात् । (६) एतेनैव पितृजननीव्यतिरिक्ताः पितामहपत्न्यः पितामहजननीव्यतिरिक्ताः प्रपितामहपत्न्यो ऽपि व्याख्याताः । (७) जननीसपत्नीनां गौणमातृत्वनिरूपणेन तज्जनकानाम् अपि गौणम् एव मातामहश्राद्धे देवतात्वम् इत्यपि निरूपितं भवति । (८) यदा तु विशिष्टदेशकालादौ नानापितृतृप्तिकामनया श्राद्धं कर्तुम् इच्छेत्, तदा पाक्षिकेणाधिकारेणापि तेषाम् अपि कुर्याद् इति स्थितम् इति ।

(९) पितृव्यसुतयोर् अपि कार्यम्; (१०) आचार्यादीनाञ् च,

**आचार्यगुरुशिष्येभ्यः सखिज्ञातिभ्य एव च ।**


**तत्पत्नीभ्यश् च सर्वाभ्यस् तथैव च जलाञ्जलीन् ॥**


**पिण्डांस् तेभ्यः सदा दद्यात् पृथग् भाद्रपदे नरः । **


**तीर्थेषु चैव सर्वेषु माघमासे मघासु चे– ॥ ५८८ ॥**

ति चतुर्विंशतिमतात् । (१) ज्ञातयः पितृव्यसुतमातुलाद्याः । (२) भविष्ये ऽन्यो ऽपि विशेषः—

**दौहित्रपुत्रदाराश् च ये कनिष्ठाः सहोदराः । **

निःसन्तानम् ऋता ये च तेभ्यो ऽप्य् अत्र प्रदीयते ॥ ५८९ ॥

वृद्धशातातपो ऽपि—

**प्रीत्या श्राद्धं तु कर्तव्यं सर्वेषां वर्णिलिङ्गिनाम् । **

एवं कुर्वन् नरः सम्यङ् महतीं श्रियम् आप्नुयात् ॥ ५९० ॥

(१) वर्णिलिङ्गिनो ब्रह्मचारियत्यादयः । (२) अत्र सामान्योक्ताव् अपि ज्ञातिभूता एव ते ग्राह्याः ।

(३) ऽतत्पत्नीभ्यश् चेऽति चतुर्विंशतिमतवचनाद् एव पितृव्यादिपत्नीभ्यो ऽपि पृथग् देयम् ।

(४) एतेषाञ् च सर्वेषाम् एकोद्दिष्टम् एव,

सपिण्डीकरणाद् ऊर्ध्वं पित्रोर् एव हि पार्वणम् ।

पितृव्यभ्रातृमातॄणाम् एकोद्दिष्टं सदैव हि– ॥ ५९१ ॥

[प्।१५२] ति जातुकर्ण्यवचनात्,

**सपिण्डीकरणाद् ऊर्ध्वं यत्र यत्र प्रदीयते ।**


**भ्रात्रे भगिन्यै पुत्राय स्वामिने मातुलाय च ॥**


**मित्राय गुरवे श्राद्धम् एकोद्दिष्टं न पार्वणम् ॥ ५९२ ॥**

इति सुमन्तूक्तेश् च ।

पूर्ववाक्ये मातृग्रहणं सपत्नमातृविषयं मुख्यमातृपार्वणस्य

पूर्वम् उक्तत्वात्, पितृव्यादिसमभिव्याहाराच् चे– ॥ ५९३ ॥

ति हेमाद्रिः ।

यत् तु वचनं—

**पितृव्यभ्रातृमातॄणाम् अपुत्राणां तथैव च ।**


**मातामहस्यापुत्रस्य श्राद्धादि पितृवद् भवेद् ॥ ५९४ ॥**

इति, (१) तदावश्यकतया तुल्यत्वार्थ, न तु पार्वणविधानेन तुल्यत्वार्थम् ।

(२) तथा यस्य यो द्रव्यं हरति तेनापि तस्मै देयम् इत्य् अधिकारिषूक्तम् ।

(३) अत्र पार्वणानां निवेशक्रमम् आह सत्यव्रतः—

**पितॄणां प्रथमं दानं मातॄणां तदनन्तरम् । **

ततो मातामहानाञ् च पितृव्यस्य सुतस्य च ॥ ५९५ ॥

छागलेयः—

**क्षयाहे केवलाः कार्या वृद्धाव् आदौ प्रकीर्तिताः । **

सर्वत्रैव हि मध्यस्था नान्त्याः कार्यास् तु मातरः ॥ ५९६ ॥

यत् तु वचनं—

**पितृमातामहाव् आदौ मातरस् तदनन्तरम् ।**


**तर्पणे ऽन्वष्टकाश्राद्धे तीर्थे चायं क्रमः स्मृत ॥ ५९७ ॥**

(१) इति स्मृतिरत्नावलीकारोदाहृतं, तत् तेनैव निर्मूलतोक्तेर् उपेक्षणीयम् ।

**[प्।१५३] **(२) अत एवान्तनिवेशनिषेधम् आहोशना—

**अन्तर्मातामहान् कृत्वा मातॄणां यः प्रयच्छति । **


**स मूढो नरकं याति यावद् आभूत् असम्प्लवम् ॥ ५९८ ॥**

जाबालिः—

**अन्ते निवेशयेद् यस् तु मातॄः श्राद्धेषु मानवः । **

स मूढो नरकं याति कालसूत्रम् अवाक्शिराः ॥ ५९९ ॥

(१) तस्मान् मातृपार्वणं पितृपार्वणानन्तरम् एव । (२) अनेनैव न्यायेन मातामह्यादिपार्वणम् अपि मातामहादिपार्वणानन्तरम् । (३) पत्न्यादीनां तु क्रमस् तर्पणोक्त एव ।

(४) अत्र पितृमातामहपार्वणे नित्ये, तावतैव शास्त्रार्थसम्पत्तेः । (५) अन्यानि तु पार्वणैकोद्दिष्टानि काम्यानीति यावच् छक्ति कार्याणि; न तु सर्वाण्य् आवश्यकानि । (६) गयायां तु मातृपार्वणम् अप्य् आवश्यकम् इति तत्रैव वक्ष्यामः ।

(७) एवं पार्वणैकोद्दिष्टानाम् अनेकेषां युगपत् प्राप्तौ तन्त्रेण पाकः कार्यः ।

तथा चात्रिः—

**बहूनाम् अथवा द्वाभ्यां श्रद्धञ् चेत् स्यात् समे ऽहनि । **

तन्त्रेण श्रपणं कृत्वा पृथक् श्राद्धानि कारयेत् ॥ ६०० ॥

पुलस्त्यः—

**महालये गयाश्राद्धे गतासूनं क्षयेऽहनि । **

तन्त्रेण श्रपणं कृत्वा श्राद्धं कुर्यात् पृथक् पृथक् ॥ ६०१ ॥

(१) तत्रापि पार्वणैकोद्दिष्टयोः क्रमम् आह मरीचिः—

**यद्य् एकत्र भवेयाताम् एकोद्दिष्टञ् च पार्वणम् । **

पार्वणं तत्र निर्वर्त्य एकोद्दिष्टं समापयेत् ॥ ६०२ ॥

(१) एतच् च शक्तौ । (२) अशक्तौ तु पार्वणैकोद्दिष्टानां तन्त्रम् ।

(३) अत्रैकोद्दिष्टेषु शक्तौ प्रत्येकं ब्राह्मणभोजनम् । (४) अशक्तौ त्व् एकस्मिन्न् अपि ब्राह्मणे सर्वाण्य् एकोद्दिष्टानि । (५) अत एव चतुर्विंशतिमते ऽआचार्यगुरुशिष्येभ्यःऽ [५८८] इत्याद्य् उपक्रम्य

**[प्।१५४] तीर्थेषु चैव सर्वेषु माघमासे मघासु च । **

एकस्मिन् ब्राह्मणे सर्वान् आचार्यादीन् प्रपूजयेत् ॥ ६०३ ॥

इत्य् उक्तम् ।

(१) पिण्डदानं तु पृथग् एव तीर्थश्राद्धे तस्य प्रधानत्वात् । (२) अत एव ब्राह्मणमात्रैक्यम् उक्तं वचने । (३) पित्रादिपार्वणेष्व् अपि यदि शक्तिस् तदा प्रतिदैवतम् एकैकब्राह्मणभोजनम् । (४) दैवं तु सर्वपार्वणानां तन्त्रम् एव

**कालभेदे न तन्त्रं स्याद् देशभेदे न चैव हि । **


**तस्मात् तन्त्रविधानात् तु यौगपद्यं प्रतीयत ॥ ६०४ ॥**

(१) इति सङ्ग्रहकारेण देशकालैक्ये दैवतन्त्राभिधानात् । (२) यदा त्व् अशक्तिस् तदा पित्रादिपार्वणेषु पित्रादित्रयत्रयस्थाने एकैकं भोजयेद् दैवे च तन्त्रेणैकम् एवेति

निर्णयः ।

(३) यदा त्व् अन्येन सामदानादिना प्रेरितस् तीर्थं याति, तदा यद्यपि स्वस्य कर्तृत्वं तथाप्य् अधिकारिणः पूर्णतीर्थयात्राजन्यफलसिद्ध्यर्थं तत्पित्रादीन् एवोद्दिश्य प्रथमं श्राद्धं कुर्यात् । (४) तथा च ऽयजमानस्य पितृपितामहानाम्ऽ इत्यादि सङ्कल्पः कार्यः ।

(५) तदनन्तरं प्रासङ्गिकतीर्थप्राप्तेः स्वपितृश्राद्धनिमित्तभूताया वृत्तत्वात् प्रत्यवायपरिहारार्थं ।

**षोडशांशं स लभते यः परार्थेन गच्छती– ॥ ६०५ ॥ **(= १०७)

(१) ति वचनबोधितपूर्णफललाभार्थञ् च स्वपित्रादिभ्यो ऽपि श्राद्धं कुर्यात् । (२) यद्यपि स्वाधिकारिकत्वात् स्वपितृश्राद्धम् अन्तरङ्गतयादौ प्रसज्यते तथापि उद्देश्यत्वाभावाद् यात्रायाः परकीयत्वेन तदनन्तरम् उपस्थित्यभावाच् च स्वपितृश्राद्धं पश्चाद् एव ।

(३) उपपादितञ् चैतद् धेमाद्रिणा विस्तरेण श्राद्धकल्प इति नेह प्रपञ्च्यते ।

(४) अत एव वायुपुराणे स्वधनदानेन प्रेतप्रेरितस्य कस्यचिद् वणिजो गयां गतस्यादौ प्रेतपिण्डदानं तदनन्तरञ् च स्वपितृभ्य इत्य् उक्तम्—

**आदौ गत्वा गयाशीर्षे प्रेतराजस्य पिण्डकम् । **


**स मुदा बन्धुभिः सार्धं स्वपितृभ्यस् ततो ददौ ॥ ६०६ ॥**

**[प्।१५५] **वामनपुराणे ऽप्य् एतम् एव प्रक्रम्य

**पिण्डनिर्वपणं तत्र प्रेतानाम् अनुपूर्वशः । **

चकार च स्वदायादान् पितॄंश् चक्रे त्व् अनन्तरम् ॥ ६०७ ॥ इति ।

वाम्पु ५७। ७०

(१) विधवा तु भर्तृपार्वणं स्वपितृपार्वणञ् च कुर्यात्,

**स्वभर्तृप्रभृतित्रिभ्यः स्वपितृभ्यस् तथैव च । **

विधवा कारयेत् श्राद्धं यथाकालम् अतन्द्रिते– ॥ ६०८ ॥

ति स्मृतिदर्पणलिखितस्मृतेः । (१) ऽतथैवऽ त्रिभ्य एव । (२) ऽयथाकालऽं यत्र तीर्थमहालयादाव् अनेकदेवत्यं विहितं तत्रेत्यर्थः ।

अत्र

स्वपितुर् अपुत्रपौत्रत्व एव तत्पार्वणम् ॥ ६०९ ॥

इति दिवोदासीये । (१) तन् न, ऽअपुत्रा पुत्रवत्पत्नीऽति [५६५] वचनस्थवतिना प्रकरणानुरोधाच् छ्राद्धक्रियातुल्यताभिधानात्, पुत्रस्य च स्वपितृमातामहपार्वणयोर् अधिकाराद्, अपुत्रां प्रति च तत्पित्रादीनां भर्त्रादिरूपत्वात्, तन्मातामहादीनाञ् च पित्रादिरूपत्वात्, पुत्रवताम् अपुत्राणां वा स्वपित्रादीनां तीर्थश्राद्धादौ पुत्रवद् एव विधवाया अप्य् अधिकारावगमात्;

(२) अपुत्राणाम् एवेति विशेषवचनाभावाच् च ।

(३) “नन्व् एनं पुत्रस्य मातामहत्वादिरूपेण तच्छ्राद्धे ऽधिकाराद्, एतस्या अपि तत्त्वेनैव स्यान् न तु पितृत्वादिनेति चेत्, (४) न, एकस्यापि सम्बन्धिभेदेन परिधिवत् सम्बन्धितावच्छेदकरूपभेदाद्, यं प्रति येन रूपेण सम्बन्धिता, तं प्रति तेनैवोद्देश्यत्वात् । (५) तावतापि वत्युक्तक्रियातुल्यतानिर्वाहात् । (६) ततश् च यथा पुत्रं प्रति पितृत्वादिनोद्देश्यानाम् अप्य् एतां प्रति भर्तृत्वादिनोद्देश्यत्वं, तथा मातामहत्वादिनोद्देश्यानाम् अपि पितृत्वादिना भविष्यति । (७) एतद्रूपोद्देश्यतार्थम् एव हि ऽस्वभर्तृप्रभृतीऽति [६०८] वचः ।

(८) तस्माद् विधवाया भर्तृपार्वणं पितृपार्वणञ् चावश्यकम् । (९) आवश्यकत्वायैव ऽअतन्द्रितेऽत्य् आह ।

**[प्।१५६] **यत् तु

**भर्तुः श्राद्धं तु या नारी मौढयात् पार्वणम् आचरेत् । **

न तेन तृप्यते भर्ता कृत्वा तु नरकं व्रजेद् ॥ ६१० ॥

(१) इति वचनं, तत्क्षयाहे एकोद्दिष्टपक्षप्रशंसार्थं, न तु सर्वथा पार्वणप्रतिषेधार्थम् इति ।

(२) यस्यास् तु श्वशुरो जीवति सा भर्तृतत्पितामहप्रपितामहेभ्यः कुर्यात्;

(३) श्वशुरतत्पित्रोर् जीवतोर् भतृतत्प्रपितामहवृद्धप्रपितामहेभ्यः ।

(४) “एवं स्वपित्रादिजीवने ऽपी”ति केचित् । (५) प्रामाणिकास् तु “स्वपितरि जीवति द्वारलोपात् तत्पार्वण लोप एवे”त्य् आहुः ।

(६) मृतश्वश्रवादेस् तु श्वश्र्वादिपार्वणम् अपि कृताकृतम् । (७) एवञ् च नव दैवत्यम् । (८) केचिन् “मृतमातृकायाः स्वमात्रादिपार्वणम् अपीति द्वादशदैवत्यम्” आऽहुः । (९) अपरे “स्वमातामहपार्वणेन पञ्चदशदैवत्यम्” । (१०) अन्ये “स्वमातामह्यादिपार्वणेन सहाष्टादशदैवत्यम्” । (११) एतत् त्रयम् अपुत्रविषयम् इति युक्तं भाति । (१२) तत्राप्य् आद्याद्यजीवने द्वारलोपाल् लोप एव ।

(१३) भर्तृमातामहादीनां तु श्राद्धप्रसङ्ग एव नास्ति ।

(१४) श्वश्र्वादिमात्रादिपार्वणयोर् अकरणे भर्तृपितृपार्वणयोर् एव यथायोग्यं सपत्नीकानाम् इति वाच्यम् । (१५) अन्येषां तु यथासम्भवम् एकोद्दिष्टानीति । (१६) अत्र तत्तद्देशीयशिष्टाचार एव सन्देह सरिदुत्तारणतरिर् इत्य् अलम् ।

(१७) जीवत्पितृके तु विशेषम् आह मनुः—

ध्रियमाणे तु पितरि पूर्वेषाम् एव निर्वपेद् ॥ ६११ ॥ इति ।

मनु ३। २२०अ-ब्

स्मृत्यन्तरे—

**वृद्धौ तीर्थे च सन्न्यस्ते ताते च पतिते सति । **


**येभ्य एव पिता दद्यात् तेभ्यो दद्यात् स्वयं सुतः ॥ ६१२ ॥**

(१) ऽस्वयम्ऽ इति स्वाधिकारिकतोच्यते ।

(२) भविष्यत्पुराणे तु जीवत्पितृकः पितामहप्रपितामहयोर् एव दद्याद् इत्य् उक्तं—

**जीवमाने न देयं स्याद् यस्माद् भारतसत्तम । **


**तस्माज् जीवत्पिता कुर्याद् द्वाभ्याम् एव न संशय ॥ ६१३ ॥**

**[प्।१५७] **इति । विष्णुना त्व् अन्यो ऽपि विशेष उक्तः—

पितरि जीवति यः श्राद्धं कुर्याद् येषां पिता कुर्यात् तेषां कुर्यात् । पितरि

पितामहे च जीवति येषां पितामहः । पितरि पितामहे प्रपितामहे च जीवति नैव

कुर्याद् । यस्य पिता प्रेतः स्यात् स पित्रे पिण्डं निधाय पितामहात् पराभ्यां

द्वाभ्यां दद्याद् । यस्य पिता पितामहश् च प्रेतौ स्यातां स ताभ्यां पिण्डौ

दत्त्वा पितामहपितामहाय दद्याद् । यस्य पितामहः प्रेतः स्यात् स तस्मै

**पिण्डं निधाय प्रपितामहात् पराभ्यां द्वाभ्यां दद्याद् । यस्य पिता **

प्रपितामहश् च प्रेतौ स्यातां स पित्रे पिण्डं निधाय प्रपितामहात् परं

**द्वाभ्यां दद्यात् । **

**मातामहानाम् अप्य् एवं श्राद्धं कुर्याद् विचक्षणः । **

मन्त्रोहेन यथान्यायं शेषाणां मन्त्रवर्जितम् ॥ ६१४ ॥ इति ।

विस्म्र् ७५। १-७ (= ४८७)

(१) ऽपितरि जीवतीऽत्य् असाधारणनिर्देशः । (२) पितर्य् एव जीवतीत्यर्थः । (३) अत एव त्रिषु जीवत्सु ऽनैव कुर्याद्ऽ इत्य् उक्तम् । (४) एवम् अग्रे ऽपि ऽमातामहानाम् अप्य् एवम्ऽ इति । अत्र—

**यथा पितरि जीवति येषां पिता कुर्यात् तेषां पुत्रः कुर्यात्, तथा **


**मातामहे जीवति येषां मातामहः । यथा पित्रादिषु त्रिषु जीवत्सु नैव कुर्यात्, तथा मातामहादिषु त्रिषु जीवत्सु नैव कुर्याद् इत्यादि सर्वम् अतिदेश्यम् ॥ ६१५ ॥**

इति व्याख्यातवान् शूलपाणिः । (१) कालादर्शकारो ऽप्य् एवमाह ।

(२) “मातृजीवने ऽप्य् एवम् एव न्यायसाम्यात् । (३) ततश् च जीवत्पितृकः पितृपित्रादिभ्यस् त्रिभ्यो दत्त्वा, यदि मृतमातृकस् तदा स्वमात्रादिभ्यो; मातृसद्भावे पितामह्यादिभ्यस् तिसृभ्यः, ततः स्वमातामहादिभ्यो; मातामहसद्भावि मातृपितामहादिभ्यस् त्रिभ्यो दद्याद् इति फलितम् । (४) न च ऽयेभ्य एवेऽत्यादिवचनविरोधः, (५) मातृमातामहशब्दयोः सम्बन्धिशब्दत्वात् पुत्रसम्बद्धानाम् एव मात्रादीनां मातामहादीनाञ् च मातृमातामहादिशब्दवाच्यत्वेनैक्याद् याः पितुर् देवतास् ता एव पुत्रस्येति व्याख्यानसम्भवात् । (६) ततश् च जीवत्पितृकस्य स्वसम्बन्धिमातृमातामहादीनाम् एव श्राद्धम्” इति ।

**[प्।१५८] **(७) इदं त्व् अयुक्तं, “यच्छब्दवाच्येभ्यस्” “तच्छब्दवाच्येभ्य” इति व्याख्याने यत्तच्छब्दयोर् लक्षणाप्रसङ्गात्; (८) पितृपित्रादिविषये श्रुत्यर्थसम्भवेन युगपद् वृत्तिद्वयप्रसङ्गाच् च । (९) अपिच; अत्र यत्तच्छब्दाभ्याम् एव वाक्ये निर्देशः सो ऽपि च ऽयेभ्यः पितेऽति पितृप्रतियोगिकत्वेन, न तु स्वप्रतियोगिकत्वेन । (१०) तथा च; क्व सम्बन्धिशब्दबलात् पुत्रसम्बद्धमात्रादिप्राप्तिः? (११) विष्णुवचने तु ऽएवम्ऽ इत्य् अनेन मातामहश्राद्धे इतिकर्तव्यतामात्रम् अतिदिश्यत इति ।

(१२) तस्मात् पितृसम्बद्धा मात्रादयस् तत्सम्बद्धा एव च मातामहादयो जीवत्पितृकस्य तीर्थश्राद्धे देवताः न तु स्वसम्बद्धाः । (१३) स्वमातुस् तु पितृपत्नीत्वेनैकोद्दिष्टं, स्वमातामहस्यापि पितृश्वशुरत्वेन । स्वपितुस् तीर्थे तदेकोद्दिष्ट एवाधिकारात् ऽयेभ्य एव पिता दद्याद्ऽ इत्यस्याविशेषाच् च ।

(१४) अत्र “जीवत्पितृको ऽपि साग्निर् एव तीर्थे श्राद्धं कुर्यान् नानग्निकः,

**न जीवत्पितृकः कुर्याच् छ्राद्धम् अग्निमृते द्विजः । **


**येभ्य एव पिता दद्यात् तेभ्यः कुर्वीत साग्निक ॥ ६१६ ॥**

इति सुमन्तुवचनात् । (१) ऽसाग्निकःऽ श्रौतेन स्मार्तेन वाग्निना । (२) तेन साग्नेर् एव जीवत्पितृकस्य तीर्थश्राद्धे ऽधिकार” इति मदनपारिजातकारादयः । (३) “साग्नीनाम् अपि

मैत्रायणीयसूत्रोपजीविनाम् एव न तु सर्वेषां, ऽषड् एते जीवतः पितुर्ऽ इति [५५४] पूर्वोक्तवचनस्य तत्परिशिष्ट एव श्रवणाद्” इति स्मृतिरत्नावलीकारदिवोदासादयः ।

(४) इदं मतद्वयम् अप्य् अयुक्तं,

**कुर्याद् अहर् अहः श्राद्धं प्रमीतपितृको द्विजः । **

साग्निको नाग्निको वापि तीर्थेष्व् अपि विशेषत ॥ ६१७ ॥

इति उशनोवचनविरोधात् । (१) सौमन्तवं तु अग्निरहितः पिण्डपितृयज्ञविधिना श्राद्धं न कुर्यात् साग्निकस् तु तद्विधिना पितृपित्रादिभ्यो दद्याद् इत्येवं परम् । (२) ऽषड् एतऽ इति वचनञ् च यद्यपि मैत्रायणीयपरिशिष्ट एव श्रुतं, तथापि उशनोवचनस्य ऽवृद्धौ तीर्थे चेऽत्यादि [६१२] प्राग् उदाहृतवचसाञ् च साधारण्यात् सर्वशाखिसाधारणतयैव व्याख्येयम् । (३) किञ् च; मैत्रायणीयवाक्यस्य साग्नितच्छाखिमात्रविषयत्वे तद्वाक्योपात्तद्वितीयोद्वाहादौ का वार्त्तेति?

**[प्।१५९] **(४) अधिकारविचारो ऽप्य् अयं प्रसङ्गाद् अत्र कृतः । एवं जीवत्पितृकस्याधिकारे सिद्धे स यदि द्रव्यादिदानप्रेरितपुमन्तरवत् पितृनियुक्तस् तत्फलार्थम् एव याति, तदा पितुर् एवाधिकारित्वाद् ऽयजमानस्य पितृपितामहप्रपितामहानाम्ऽ इत्य् एवम्प्रकारकवाक्यरचनयैकं श्राद्धं कृत्वा, स्वस्यापि श्राद्धहेतुप्रासङ्गिकतीर्थप्राप्तेर् वृत्तत्वात् ऽपितुः पितृपितामहप्रपितामहानाम्ऽ इत्य् एवंविधवाक्यरचनया श्राद्धानन्तरम् अपि कार्यम्, (५) देवताभेदात्, ऽयेभ्यः पिता दद्यात् तेभ्यो दद्याद्ऽ [६१२] इत्य् अनेन पितृपितृत्वाद्युपाधिनैव देवतात्वबोधनात् । (६) पूर्वश्राद्धे च पुत्रातिरिक्तसेवकान्तरकर्तृक इव यजमानपितृत्वाद्युपाधिनैव देवतात्वात् । (७) स्वयंशब्देन स्वाधिकारिकतासूचनाद् भिन्नाधिकारिकयोस् तन्त्रेण प्रसङ्गेन वा अनिर्वाहाच् च ।

(८) यदा तु पित्रानुज्ञातो ऽननुज्ञातो वा स्वफलार्थम् एव तीर्थं याति, तदा स्वयंशब्दाक्षिप्तस्वाधिकारिकतानिर्वाहार्थं “मम पितुः पितृपितामहप्रपितामहानाम्ऽ इत्येवमादिवाक्यरचनया एकम् एव श्राद्धं कार्यम् ।

(९) अन्यो ऽपि विशेषः; यदा मृतमातृकः पित्रर्थं गयां याति, तदा प्रथमश्राद्धे यजमानपत्नीत्वेन स्वमात्रे एकोद्दिष्टं कार्यं, स्वपितुस् तस्या एकोद्दिष्ट एवाधिकारात् ।

(१०) द्वितीयश्राद्धे तु पितृपत्नीत्वेनैकोद्दिष्टम् एव मातुः कार्यं पूर्वोक्तन्यायाद् एव ।

(११) तदनन्तरं गयाप्रसङ्गगमने अधिकारप्रकरणे मातश्राद्धस्यापि कर्तव्यत्वाभिधानान् मात्रादिपार्वणम् अपि कार्यं,

**नान्दीमुखे ऽष्टकाश्राद्धे गयायाञ् च मृते ऽहनि । **


**पितामह्यादिभिः सार्धं मातुः श्राद्धं समाचरेत् ॥ ६१८ ॥**

(१) इति शातातपवचनात् स्वस्य तत्पार्वण एव अधिकारात् ।

(२) यदा तु प्रसङ्गात् गयां मृतमातृको याति, तदा प्रथमश्राद्धे पितृपत्नीत्वेन स्वमात्रे एकोद्दिष्टं कार्यम् । (३) द्वितीयं तु मात्रादित्वेन पार्वणम् एवेति ।

(४) कालादर्शादिमते तु गयायां जीवत्पितृकस्य श्राद्धे ऽनधिकारात् पित्रर्थं गतस्य द्वितीयं श्राद्धं नास्ति । (५) प्रसङ्गगतस्य त्व् आद्यं नास्तीत्य् एतदधिकार उक्तम् ।

(६) गयातिरिक्ततीर्थे तु यथायोगं यजमानपत्नीत्वेन पितृपत्नीत्वेन वा एकोद्दिष्टम् एव मातुः कार्यं, न तु पार्वणं, वचनाभावाद् इति विवेकः । (७) एवं पितृव्यादीनाम् अपि यथायोगं गयायाम् अन्यतीर्थे वा जीवत्पितृकेण यजमानभ्रातृत्वेन पितृभ्रातृत्वेन वा एकोद्दिष्टं कार्यम् । (८) पितृव्यत्वादिरूपेण तु श्राद्धं नास्त्य् एव, वचनाभावात् ।

(९) कालादर्शादिमते तु पितृभ्रातृत्वादिनापि नास्ति, जीवत्पितृकस्य गयाश्राद्धे स्वतो

ऽधिकाराभावात् ।

**[प्।१६०] **(१०) “नन्व् एवम् उपाधिभेदमात्रेण पुनः पुनः श्राद्धकरणे पित्रादेर् एवाचार्यत्वादौ सति तदुपाधिनापि पुनः श्राद्धप्रसङ्गः” । (११) उच्यते; ऽयेभ्य एव पिता दद्याद्ऽ [६१२] ऽगयां प्रसङ्गतो गत्वेत्य् [५५८] एवमादिवचनान्यथानुपपत्त्योपाधिभेदेन पुनः पुनः श्राद्धं न दोषाय । (१२) आचार्यादिश्राद्धशास्त्रं तु पित्त्राद्यतिरिक्ताचार्यादिवन्तम् अधिकृत्य चरितार्थतया न पुनः श्राद्धं प्रयोजयति ।

(१३) किञ् च; प्रत्यासन्नासाधारणपितृत्वादिरूपोपाधिप्रयुक्ते प्रथमं श्राद्धे कृते, ऽप्रत्यासन्नसाधारणाचार्यत्वादिप्रयुक्तपुनःश्राद्धासम्भवः; (१४) निगदे निगदत्वप्रयुक्तोच्चैस्त्वे कृते यजुष्ट्वप्रयुक्तोपांशुत्वासम्भववत्,

(१५) उपांशुत्ववचनस्येव यजुरन्तरे आचार्यादिश्राद्धवचनस्य केवलाचार्यान्तरे चारितार्थ्याच् चेत्य् अलं बहुना !

(१६) एवं जीवत्पितृको ऽपि पितृदेवताभ्य एव तीर्थे श्राद्धं कुर्याद् इति सिद्धम् ।

(१७) यदा तु मृतपितृको ऽपि जीवन्मातृकस् तदा मातृपार्वणलोप एव । (१८) किन्तु यथायोग्यं ऽसपत्नीकानाम्ऽ इति पित्रादिविशेषणं कार्यम् । ( १९ ) एवं मातामहजीवने ऽपि तत्पार्वणलोपः । (२०) मातामहीजीवने ऽप्य् एवमेव । (२१) किन्तु पूर्ववद् विशेषणं कार्यम् । तदुक्तं—

**पितृवर्गे मातृवर्गे तथा मातामहस्य च । **

जीवेच् चेद् यदि वर्गाद् यस् तद्वर्गं तु परित्यजेत् ॥ ६१९ ॥

(१) अत्र ऽपितृवर्गेऽ इत्य् एतद् अमावास्यादिविषयम्, तीर्थे वचनाज् जीवत्पितृकस्यापि पितृपित्रादिपार्वणस्योक्तत्वात् । (२) एवं ऽमातृवर्गेऽ ऽपि ।

(३) एवं यस्य यस्य या या देवता उक्तास् ताभ्यः श्राद्धं पिण्डदानञ् च पृथक्

पृथक् कृत्वा सामान्यपिण्डो देयः; यद् आह देवलः—

ततः पिण्डम् उपादाय संस्कृतासंस्कृतस्य च ।

ज्ञातिवर्गस्य कृत्स्नस्य सामान्यम् इति निर्वपेत् ॥ ६२० ॥

(१) ऽइतीऽति वक्ष्यमाणमन्त्रेण । स च मन्त्रः—

**पितृवंशे मृता ये च मातृवंशे च ये मृताः । **

**गुरुश्वशुरबन्धूनां ये चान्ये बान्धवा मृताः ॥ **

**ये मे कुले लुप्तपिण्डाः पुत्रदारविर्वाजिताः । **

**क्रियालोपगताश् चैव जात्यन्धाः पङ्गवस् तथा ॥ **

**विरूपा आमगर्भाश् च ज्ञाताज्ञाताः कुले मम । **

तेषां पिण्डो मया दत्तो ह्य् अक्षय्यम् उपतिष्ठताम् ॥ ६२१ ॥

गपु १। ८५। १८-२०

**[प्।१६१] **(१) इति । अत्र श्लोकत्रयस्यापि एकमन्त्रता, तावतैव वाक्यार्थपरिसमाप्तेः; (२) तथैव च जैमिनिमुनिनैकमन्त्रत्वस्य

अर्थैकत्वाद् एकं वाक्यं, साकाङ्क्षञ् चेद् विभागे स्याद् ॥ ६२२ ॥

म्स् २। १। १४। ४६

इत्यत्रोक्तत्वात्; (१) ऽपिण्डम् उपादायेऽति देवलोक्ताव् एकवचनाच् च ।

तथा—

**आ ब्रह्मणो ये पितृवंशजाता मातुस् तथा वंशभवा मदीयाः । **

**कुलद्वये ये मम दासभूता भृत्यास् तथैवाश्रितसेवकाश्च ॥ **

मित्राणि सख्यः पशवश् च वृक्षाः स्पृष्टाश् च दृश्ष्टाश् च कृतोपकाराः ।

जन्मान्तरे ये मम सङ्गताश् च तेभ्यः स्वधापिण्डम् अहं ददामि ॥ ६२३ ॥

(१) इति श्लोकाभ्यां पिण्डान्तरं देयम् । (२) अत्रापि पूर्ववद् एकमन्त्रता ।

(३) एवं पिण्डदानं कृत्वा ब्राह्मणानुव्रजनान्तं श्राद्धं स्वस्वसूत्रोक्तविधिना समापयेत् ।

(४) यस्य तु एतावन्तं श्राद्धकलापं प्रत्येकञ् च पिण्डदानं कर्तुम् अशक्तिः रोगादिना, तावतः कालस्य वा ऽभावः स सङ्क्षेपश्राद्धं कुर्यात् । (५) तच् चैवं- ऽअशक्त्या सङ्क्षेपश्राद्धम् अहं करिष्यऽ इति सङ्कल्प्य

**ॐ पिता पितामहश् चैव तथैव प्रपितामहः ।**


**माता पितामही चैव तथैव प्रपितामही ॥**


**मातामहस् तत्पिता च प्रमातामहकादयः ।**


**तेषां पिण्डो मया दत्तो ह्य् अक्षय्यम् उपतिष्ठताम् ॥ ६२४ ॥**

गपु १। ८४। ४५च्-४६, ४८

(१) इति मन्त्रेणैकं पिण्डं दद्याद् इति ।

इति तीर्थश्राद्धे सम्प्रदाननिर्णयः ।

इति श्रीभट्टरामेश्वरसूरिसूनुनारायणभट्टविरचिते तीर्थसेतौ सामान्यप्रघट्टके तीर्थश्राद्धप्रकरणम् ।

[प्।१६२] अथ तीर्थे ऽस्थिप्रक्षेपविधिः

(२) तत्र तीर्थमात्रे ऽस्थिक्षेपे विधिपूर्वकं फलम् उक्तं ब्रह्माण्डपुराणे—

**स्नात्वा ततः पञ्चगवेन सिक्त्वा हिरण्यमध्वाज्यतिलेन योज्य । **

ततस् तु मृत्पिण्डपुटे निधाय पश्येद् दिशं प्रेतगणोपगूढाम् ॥

**ऽनमो ऽस्तु धर्मायऽ वदन् प्रविश्य तीर्थं ऽस मे प्रीतऽ इति क्षिपेच् च । **

स्नात्वा तथोत्तीर्य दिवाकरञ् च दृष्ट्वा प्रदद्याद् अथ दक्षिणां तु ॥

एवं कृते प्रेतपुरे स्थितस्य स्वर्गे गतिः स्यात् तु महेन्द्रतुल्या ॥ ६२५ ॥

(१) पञ्चगवं पञ्चगव्यम् ।

(२) अत्र यद्यप्य् अविशेषतः स्वर्गप्राप्तिर् उक्ता तथापि तीर्थतारतम्यात् तत्र वैजात्यं ज्ञेयम् । (३) गङ्गायां तु विशेषः; ब्रह्माण्डे—

यस्मिन् काले नृणाम् अस्थि गङ्गायां क्षिप्यते नरैः ।

तं कालम् आदितः कृत्वा स्वर्गलोके भवेत् स्थितिः ॥ ६२६ ॥

(१) अत्रोत्तरावधेर् अनुक्तेः कल्पान्त एवावधिर् योग्यत्वात् । (२) तथा ब्रह्मलोकावाप्तिर् अपि श्रुता;

यमः—

**गङ्गातोयेषु यस्यास्थि क्षिप्यते शुभकर्मणः ।**


**न तस्य पुनरावृत्तिर् ब्रह्मलोकात् सनातनात् ॥ ६२७ ॥**

यम ९०

तथा—

**यावद् अस्थि मनुष्याणां गङ्गातोयेषु तिष्ठति । **

तावद् वर्षसहस्राणि ब्रह्मलोके महीयते ॥ ६२८ ॥

यम ९१

इत्यादि । (१) ब्रह्मलोकाप्तिश् च प्रयागादिक्षेत्रविशेषात् ज्ञेया, सामान्यतः स्वर्गावाप्तेर् उक्तत्वात् ।

(२) तत्र कालविशेषः—

**[प्।१६३] अस्तङ्गते गुरौ शुक्रे तथा मासे मलिम्लुचे । **

गङ्गायाम् अस्थिनिक्षेपं न कुर्याद् इति गौतमः ॥ ६२९ ॥

तथा—

**अस्थिक्षेपं गयाश्राद्धं श्राद्धञ् चापरपक्षिकम् ।**


**प्रथमे ऽब्दे न कुर्वीत यदि न स्यात् सपिण्डनम् ॥ ६३० ॥**

(१) ऽकृते ऽपि तु सपिण्डनऽ इति क्वचित्पाठः ।

तथा—

**अस्थिक्षेपं गयाश्राद्धं श्राद्धञ् चापरपक्षिकम्म् । **

प्रथमे ऽब्दे ऽपि कुर्वीत कृतं यस्योर्ध्वदेहिकम् ॥ ६३१ ॥

(१) ऽयदि स्याद् भक्तिमान् सुतऽ इति चतुर्थपादं केचित् पठन्ति ।

(२) दशाहाभ्यन्तरे तु न दोषः,

**दशाहाभ्यन्तरे यस्य गङ्गातोये ऽस्थि मज्जति । **


**गङ्गायां मरणं यादृक् तादृक् फलम् अवाप्नुयाद् ॥ ६३२ ॥**

इति वचनात् ।

(१) तथान्यो ऽपि विशेषः पुराणे—

**मातुः कुलं पितृकुलं वर्जयित्वा नराधमः । **

अस्थीन्य् अन्यकुलोत्थानि नीत्वा चान्द्रायणञ् चरेत् ॥ ६३३ ॥

(१) इदञ् च द्रव्यादिलोभविषयम् । तथा—

**अस्थीनि मातापितृवंशजानि नयन्ति गङ्गाम् अपि ये कदाचित् । **

सद्बान्धवस्यापि दयाभिभूतास् तेषाञ् च तीर्थानि फलप्रदानि ॥ ६३४ ॥

[प्।१६४] अथ प्रकारः

**शौनको ऽहं प्रवक्ष्यामि अस्थिशुद्धिविधिं क्रमात् । **

**ग्रामाद् बहिस् ततो गत्वा स्नानं कुर्यात् सचैलकम् ॥ **

प्रोक्षयेत् पञ्चगव्येन तत्तन्मन्त्रैर् विचक्षणः ॥ ६३५ ॥

(१) यत्रास्थीनि निखातानि सन्ति तां भूमिं प्रोक्षयेदद् इत्यर्थः । (२) ऽतत्तन्मन्त्रैःऽ ऽआ प्ययस्वेऽत्यादिपयोदध्यादिप्रकाशकैः पञ्चगव्यमन्त्रैः ।

उपसर्पादिभिर् मन्त्रैः प्रार्थनं खननं तथा ।

मृतिकोद्धरणञ् चास्थ्नां ग्रहणञ् च यथाक्रमम् ॥ ६३६ ॥

(१) ऽउप सर्पेऽति चतसृणां शङ्खः पितरस् त्रिष्टुप् । (२) प्रथमाया भूप्रार्थने, द्वितीयायाः खनने, तृतीयाया मृत्तिकोद्धरणे, चतुर्थ्या अस्थिग्रहणे विनियोगः ॥

(३) एवम् अस्थीनि गृहीत्वा

ततो जलाशयं गत्वा स्नानं कुर्याद् यथाविधि ।

**अस्थिशुद्धिं ततः कुर्याद् ऽएतो न्व् इन्द्रेऽति मन्त्रतः ॥ **

**स्पृष्ट्वा स्पृष्ट्वा तथा स्नानं पञ्चगव्येन शुध्यति । **

**दशस्नानानि कुर्वीत तत्तन्मन्त्रैर् विचक्षणः ॥ **

**गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । **

भस्ममृन्मध्वबादीनि मन्त्रस्नानानि वै दश ॥

कुशैः सम्मार्जयेद् अस्थीन्य् ऽअतो देवेऽति मन्त्रतः ।

**ऽएतो न्व् इन्द्रऽं ऽशुची वेऽति ऽन तम् अंहऽ ति त्व् अथ ॥ **

**पावमानी ऽममाग्नेऽ च रुद्रसूक्तं यथाक्रमम् । **

**एतत् सूक्तं पठेद् विद्वान् शुचिर् भवति नान्यथा ॥ **

**हेमश्राद्धं ततः कुर्यात् पितॄन् उद्दिश्य यत्नतः । **

**पिण्डदानं प्रकुर्वीत ततश् च तिलतर्पणम् ॥ **

**अजिनं कम्बला दर्भा गोकेशाः शाणम् एव च । **

भूर्जपत्रं ताडपत्रं सप्तधा वेष्टनं स्मृतम् ॥ ६३७ ॥

**[प्।१६५] **(१) क्वचित् तु ऽगोकेशा भूर्जपत्रकम् । ताडपत्रञ् च नेत्रञ् चे–ऽऽ ॥ त्य् अस्थ्नां वेष्टनसप्तकम्ऽ इति पाठः ।

**हेमञ्च मौक्तिकं रूप्यं प्रवालं नीलकं तथा । **

**निक्षिपेद् अस्थिमध्ये तु शुद्धिर् भवति नान्यथा ॥ **

**ततो होमं प्रकुर्वीत तिलाज्येन विचक्षणः । **

**ऽउदीरतेऽति सूक्तेन हुनेद् अष्टोत्तरं शतम् ॥ **

**ततो गत्वा सुतीर्थेषु स्पर्शदोषो न विद्यते । **

**मूत्रं पुरीषाचमनं कुर्याद् नास्थीनि धारयन् ॥ **

काशीखण्डे—

**धनञ्जयो ऽपि धर्मात्मा मातृभक्तिपरायणः । **

**आदायास्थीन्य् अथो मातुर् गङ्गामार्गस्थितो ऽभवत् ॥ **

**पञ्चगव्येन संस्नाप्य ततः पञ्चामृतेन वै । **

**यक्षकर्दमलेपेन लिप्त्वा पुष्पैः प्रपूज्य च ॥ **

**आवेष्ट्य नेत्रवस्त्रेण ततः पट्टाम्बरेण च । **

ततः सुरसवस्त्रेण ततो माञ्जिष्ठवाससा ॥ ६३८ ॥

(१) सुरसवस्त्रं श्वेतं चीनांशुकम् ।

**नेपालकम्बलेनाथ मृदा चाथ विशुद्धया ।**


**ताम्रसम्पुटके कृत्वा मातुर् अङ्गान्य् अहो वणिक् ॥**


**अस्पृष्टहीनजातिः स शुचिष्मान् स्थण्डिलेशयः ।**

काख्, १। ३०। ४२-४६ब्

व्यासः—

**पट्टवस्त्रञ् च कौशेयं माञ्जिष्ठं श्वेतवस्त्रकम् । **

कम्बलं शाणपट्टौ च अजिनञ् च तथोत्तरम् ॥ ६३९ ॥

(१) एतेषाञ् च वेष्टनसाधनानां वेष्टनक्रमाणाञ् च विकल्पः ।

**[प्।१६६] ** अथास्य प्रयोगपद्धतिः

(२) यत्रास्थीनि निखातानि सन्ति तत्र गत्वा सचैलं स्नात्वास्थिनिखननभूमिम् ऽआ प्यायस्वेऽति पयसा, ऽदधिक्राव्णऽ इति दध्ना, गायत्र्या गोमूत्रेण, ऽगन्धद्वाराम्ऽ इति गोमयेन, ऽघृतं मिमिक्षऽ इति घृतेन प्रोक्ष्य तत (ऽउप सर्पेऽति चतसृणां शङ्खः पितरस् त्रिष्टुप्, आद्याया भूप्रार्थने, द्वितीयायाः खनने, तृतीयाया मृत्तिकोद्धरणे, चतुर्थ्या अस्थिग्रहणे विनियोगः) इत्य् उक्त्वा एताभिः क्रमेण एतानि कृत्वा जलाशये ऽस्थिसहितः स्नात्वा पञ्चगव्येनास्थीन्य् ऽएतो न्व् इन्द्रम्ऽ इति सूक्तेन प्रक्षाल्य शुद्धोदकेन स्नापयेत् । (३) ततः सास्थिर् दशस्नानानि कुर्यात्; गायत्र्या गोमूत्रेण, ऽगन्धद्वाराम्ऽ इति गोमयेन, ऽआ प्यायस्वेऽति पयसा, ऽदधिक्राव्णऽ इति दध्ना, ऽघृतं मिमिक्षऽ इति घृतेन, ऽआपो हि ष्ठेऽति कुशोदकेन ऽमा नस्तोकऽ इति भस्मना, ऽबल्̥इत्था पर्वतानाम्ऽ इत्यादिगृह्यपरिशिष्टोक्तमन्त्रैर्, ऽअश्वक्रान्ते रथक्रान्तऽ इत्यादिभिर् वा मृदा, ऽमधु वातेऽति मधुना, ऽआपो हि ष्ठेऽति शुद्धोदकेन ।

(४) एवं दशस्नानानि विधाय कुशैर् अस्थ्नां मार्जनं कुर्याद् एभिर् मन्त्रैः—ऽएतो न्व् इन्द्रम्ऽ इति सूक्तं, ऽशुची वो हव्येऽ ति सूक्तं, ऽन तम् अंहऽ इति सूक्तं, ऽइति वा इति मे मनऽ इति सूक्तं, ऽयद् अन्ति यच् च दूरकऽ इत्याद्याः पावमान्यः, ऽममाग्ने वर्चऽ इति ऋक्, रुद्रसूक्तञ् च ।

(५) ततो हिरण्यश्राद्धं कृतसपिण्डीकरणस्य त्रिदैवत्यम् अकृतसपिण्डीकरणस्यैकोद्दिष्टं कुर्यात् । (६) इदञ् च यदीयान्य् अस्थीनि तद् देवत्यं श्राद्धम् ।

(७) तदनन्तरं तथैव सक्तुपिण्डान् दत्त्वा तथैव तिलतर्पणञ् च कृत्वा यक्षकर्दमादिना लिप्त्वा पुष्पैः प्रपूज्य अजिनादिभिः पूर्वोक्तपक्षचतुष्टयमध्ये केनचित् पक्षेण वेष्टयित्वा सुवर्णमौक्तिकरूप्यप्रवालनीलमणीन् अस्थिषु प्रक्षिपेत् । (८) तत ऽउदीरताम्ऽ इति सूक्तेनाष्टोत्तरं शतं तिलाज्यं जुहुयात् । (९) ऽउदीरताऽं शङ्खः पितरस् त्रिष्टुप् ।

(१०) ततस् ताम्रसम्पुटे ऽस्थीनि निधायाकृतचाण्डालपतितादिस्पर्शः शुचिस् तीर्थं गच्छेत् । (११) ततस् तीर्थे सास्थि स्नात्वा पलाशपत्रपुटे स्थापयित्वा **[प्।१६७] **“अमुकगोत्रस्यामुकशर्मणो ऽपुनरावृत्तिकब्रह्मलोकावाप्तये ऽमुकतीर्थे ऽस्थिप्रक्षेपम् अहं करिष्य” इति सङ्कल्प्यास्थीनि पञ्चगव्येन प्रक्षाल्य हिरण्यशकलमधुघृततिलमिश्रितानि कृत्वा मृत्पिण्डे निधाय दक्षिणतो ऽवेक्षमाणो नाभिमात्रे जले स्थित्वा ऽनमो ऽस्तु धर्मराजाय स मे प्रीतो ऽस्त्व्ऽ इति मन्त्रेण तीर्थे प्रक्षिप्य स्नात्वा जलाद् बहिर् आगत्य सूर्यं दृष्ट्वा नत्वा च हरिं स्मृत्वा “अमुकगोत्रस्यामुकशर्मणो ब्रह्मलोकावाप्तये कृतस्यास्थिप्रक्षेपस्य साद्गुण्यायेदं रजतं चन्द्रदैवत्यं ब्राह्मणाय सम्प्रददे” इति पितृकृत्यत्वात् रजतं यथाशक्ति दद्यात् । (१२) इदञ् च सर्वं दक्षिणावर्जम् अपसव्यम् ।

(१३) एतच् च तीर्थमात्रे कार्यम् । (१४) गङ्गायां विशेषतः पूर्वोदाहृतवचनेभ्यः ।

(१५) तत्रापि प्रयागे विशेषत इति शिष्टाः । (१६) एवं कृते फलं प्राग् एवोक्तम् ।

(१७) अत्र “एतत् कृत्वा सर्वस् तीर्थविधिः कार्य” इति दिवोदासादयः । (१८) अपरे तु “नित्यानित्यसंयोगविरोधापत्त्यास्थिक्षेपस्य तीर्थकृन्त्यान्तःपाताभावाच् छ्राद्धादौ च विलम्बनिषेधादनावश्यकेनैतेन स्नानादिनेव विलम्बानभ्यनुज्ञानाद्, अनन्तरम् एव कर्तव्यत्वे वचनाभावाद् ऽआगन्तूनाम् अन्ते निवेशऽ इति न्यायाच् च स्नानादितीर्थकृत्यं निर्वर्त्यानन्तरम् अस्थिप्रक्षेपः कार्य” इति मेनिरे । (१९) न्यायविदस् तु “अस्थिप्रक्षेपजन्यफलोद्देशेन तीर्थं गतेनादौ स एव कार्यः, उद्देश्यकृत श्राद्धादिविलम्बस्य तच्छास्त्रेणाभ्यनुज्ञातत्वात्, तीर्थकृत्यस्य नान्तरीयकत्वेनोद्देश्ये विलम्बकारित्वायोगाच् च । (२०) अत एव तीर्थनिमित्तकं सविधिस्नानम् अपि पश्चाद् एव । (२१) यस् तु तीर्थफलोद्देशेन गच्छन्न् अनुषङ्गाद् अस्थीनि नयति स सकलतीर्थकृत्यानन्तरं तानि क्षिपेद्” इत्य् आहुः । (२२) एवं सत्य् अत्र शिष्टा एव प्रमाणम् ।

इति श्रीतीर्थसेतौ सामान्यप्रघट्टके ऽस्थिक्षेपणविधिः ।

**[प्।१६८] ** अथ प्रकीर्णकास् तीर्थधर्माः

देवलः

**तर्पणं पितृदेवानां श्राद्धदानं सदक्षिणम् । **

**तीर्थे तीर्थे च गोदानं नियतः प्राकृतो विधिः ॥ **

**विशिष्टख्यातलिङ्गेषु वृषदानं विधीयते । **

**स्नानं विलेपनं पूजां देवतानां समाचरेत् ॥ **

**ब्राह्मणानां भूमिदानं देवपूजाकराय वा । **

सर्वत्र देवयात्रायां विधिर् एष प्रवर्तते ॥ ६४० ॥

तथा—

**देवानां दर्शनं पुण्यं दर्शनात् स्पर्शनं वरम् । **


**स्पर्शनाद् अर्चनं श्रेष्ठं घृतस्नानम् अतः परम् ॥ **


**अष्टकृत्वो मन्त्रजपैः सुप्रभूतसुगन्धिभिः । **


**प्राहुर् गङ्गाजलैः स्नानं घृतस्नानसमं बुधाः ॥ ६४१ ॥**

(१) घृतग्रहणं पञ्चामृतोपलक्षणम् । (२) अर्चने च तत्तद्देवेष्व् अनिषिद्धानि गन्धपुष्पादीनि ग्राह्याणि ।

(३) भानौ तु विशेषः—

**अर्धद्रव्यविशेषेण गङ्गातोयेन यः सकृत् । **


**मागधप्रस्थमात्रेण ताम्रपात्रस्थितेन च ॥**


**भानवे ऽर्घं प्रदद्यात् तु स्वकीयपितृभिः सह । **


**पुत्रपौत्रैश् च संयुक्तः स्वर्गलोके महीयते ॥ ६४२ ॥**

काख् २७। ९६-९७

(१) अर्घश् चाष्टाङ्गः स्कान्दे—

**आपः क्षीरं कुशाग्राणि घृतं मधु गवां दधि । **


**रक्तानि करवीराणि रक्तचन्दनम् इत्यपि । **


**अष्टाङ्गो ऽर्घो ऽयम् उद्दिष्टस् त्व् अतीव रवितोषणः ॥ ६४३ ॥**

काख् २७। ९८-९९ब्

**[प्।१६९] **(१) प्रदक्षिणायां तु विशेषः—

**एकां चण्ड्यां रवेः सप्त तिस्रो दद्याद् विनायके । **

चतस्रो विष्णवे देयाः शिवस्यार्धप्रदक्षिणम् ॥ ६४४ ॥

तथा—

शिवं प्रदक्षिणं कुर्वन् सोमसूत्रं न लङ्घयेत् ॥ ६४५ ॥

(१) सोमसूत्रादिपरिमाणं विश्वेश्वरादौ दोषाभावञ् च काशीप्रकरणे वक्ष्यामः ।

(२) नमस्कारे ऽपि विशेषः—

अग्रे पृष्ठे वामभागे समीपे गर्भमन्दिरे ।

**जपहोमनमस्कारान् न कुर्याद् देवतालये ॥ **

**अग्रे मृत्युम् अवाप्नोति पृष्ठे त्व् अपचयः स्मृतः । **

वामभागे भवेन् नाशो दक्षिणे सर्वकामदः ॥ ६४६ ॥

(१) शिवे त्व् अग्रे ऽपि कार्यः—

**पशोः पशुपतेर् अग्रे दण्डवत् पततो भुवि । **

पतन्ति पातकाः सर्वे नोत्तिष्ठन्ति तदा सहे- ॥ ६४७ ॥ ति ।

अन्यच् च देवीपुराणे—

**देवमाल्यापनयनं देवागारसमूहनम् । **

स्नापनं सर्वदेवानां गोप्रदानफलं स्मृतम् ॥ ६४८ ॥

(१) समूहनं सम्मार्जनादि पतितस्योत्थापनञ् च ।

तथा पाद्मे—

**द्रव्यम् अन्नं फलं तोयं शिवस्वं न स्पृशेत् क्वचित् । **

**लङ्घयेन् नैव निर्माल्यं कूपे सर्वं विनिक्षिपेत् ॥ **

**मक्षिकापादमात्रं यः शिवस्वम् उपजीवति । **

लोभान् मोहात् स पच्यते कल्पान्ते नरके नरः ॥ ६४९ ॥

**[प्।१७०] **ब्राह्मे तु—

**ब्रह्माङ्गलग्नं विप्रेभ्यो वैष्णवञ् च प्रदापयेत् । **

**रुद्राङ्गलग्नम् अग्नौ च दहेत् सर्वञ् च तत्क्षणात् ॥ **

**अन्येभ्यस् त्व् अथ देवेभ्यो यत् तद् दीनेषु निक्षिपेत् । **

**विप्रेभ्यस् त्व् अथ तद् देयं मातृभ्यो यन् निवेदितम् ॥ **

वाडवेभ्यस् तु तद् देयं गणेशादिनिवेदितम् ॥ ६५० ॥

(१) विश्वेश्वरादौ त्व् अपवादं वक्ष्यामः ।

(२) तीर्थे प्रतिग्रहादिनिवृत्तिश् च कार्या । पाद्मे—

**जीवनार्थं हतं तीर्थं जीवनार्थं हतं व्रतम् । **

**असत्या च तथा वाणी तथा पैशुन्यवादिनी ॥ **

**न तीर्थे प्रतिगृह्णीयात् प्राणैः कण्ठगतैर् अपि । **

**अपि कामातुरो जन्तुर् एकां रक्षति मातरम् ॥ **

**तीर्थे प्रतिग्रहो यस् तु तीर्थविक्रय एव सः । **

**विक्रीतायां तु गङ्गायां विक्रीतः स्याज् जनार्दनः ॥ **

जनार्दने च विक्रीते विक्रीतं भुवनत्रयम् ॥ ६५१ ॥ इति ।

**यस् तु लौल्याद् द्विजः क्षेत्रे प्रतिग्रहरुचिर् भवेत् । **

**नैव तस्य परो लोको नायं लोको दुरात्मनः ॥ **

**महादानानि ये विप्रा गृह्णन्ति ज्ञानदुर्बलाः । **

**वृक्षास् ते द्विजरूपेण जायन्ते ब्रह्मराक्षसाः ॥ **

न वेदबलम् आश्रित्य प्रतिग्रहरुचिर् भवेत् ।

**अज्ञानाद् वा प्रमादाद् वा दह्यते कर्म नेतरत् ॥ **

**स्थितो वै नृपतेर् द्वारि न कुर्याद् वेदविक्रयम् । **

**हत्वा गावं परं मांसं भक्षयीत द्विजाधमः ॥ **

**अथ चेत् प्रतिगृह्णाति ब्राह्मणो वृत्तिकर्षितः । **

दशांशम् अर्जितं दद्याद् एवं तन् न प्रहीयते ॥ ६५२ ॥

प्र्ख् १। २८। ३०च्-३१ब्, ४३-४४, ४७ए-४८ब्, ३१च्-फ़्

**[प्।१७१] **कौर्मे ऽप्रतिगृह्णीयाद्ऽ इत्य् उपक्रम्य

**स्वकार्ये ऽप्य् अन्यकार्ये वा देवताभ्यर्चने ऽपि वा । **

**निःफलं तस्य तत्तीर्थं यावत् तत्फलम् अश्नुते ॥ **

**अतस् तीर्थे न गृह्णीयात् पुण्येष्व् आयतनेषु च । **

निमित्तेषु च सर्वेषु अप्रमत्तो द्विजो भवेत् ॥ ६५३ ॥

कूपु १। ३४। ४३-४४

(१) मात्स्ये ऽपीदं वचनद्वयं पठितम् ।

(२) अत्र “यावत् प्रतिगृहीतं धनम् उपभुङ्क्ते तीर्थकृतप्रतिग्रहस्य पुंसो यावत् तीर्थोपार्जितधने स्वत्वानुवृत्तिस्, तावत् तीर्थदानादिषु कोटिगुणत्वादिलक्षणं फलं न

जनयति । (३) तद्धनत्यागात् तु स्वं फलं जनयत्य् एवे”ति कल्पतरौ । (४) “इदम् अपि प्रभुनिर्बन्धादिना ऽकामकृते; कामकृते तु तीर्थविक्रयान् नैव फलम्” इति कश्चित् ।

पाद्मे सृष्टिखण्डे—

**यद् अन्यत्र कृतं पापं तीर्थे तद् याति लाघवम् । **

न तीर्थकृतम् अन्यत्र क्वचित् पापं व्यपोहति ॥ ६५४ ॥

प्रख् १। २८। ५१

भारते—

**कामं क्रोधं च लोभं च यो जित्वा तीर्थम् आवसेत् । **

न तेन किञ्चिन् न प्राप्तं तीर्थाभिगमनाद् भवेत् ॥ ६५५ ॥ (ँ १७२)

पाद्मे उत्तरखण्डे—

**न तीर्थे पातकं कुर्यात् त्यजेत् तीर्थोपजीवनम् । **

**तीर्थे प्रतिग्रहस् त्याज्यस् त्याज्यो धर्मस्य विक्रयः ॥ **

**दुर्जरं पातकं तीर्थे दुर्जरश् च प्रतिग्रहः । **

तीर्थे तु दुर्जरं सर्वं नरके याति तद्विधः ॥ ६५६ ॥

आदिख् ३१। ७०-७१

गारुडे—

**सन्न्यासिनं तीर्थगतं रक्षन्ति वनदेवताः । **

मम दूता विशेषेण न याम्यास् तस्य चान्तिकाः ॥

**[प्।१७२] सेविते ऽपि सदा तीर्थे अन्यत्र म्रियते यदि । **

शुभे देशे कुले धीमान् स भवेद् वेदविद् द्विजः ॥ ६५७ ॥

गपु २। २६। १७, १९

तथा—

**गृहे तु यत् कृतं पापं तीर्थस्नानैर् विशुध्यति । **

**तत्र दानानि दत्त्वा च अक्षयाणि सदा खग ॥ **

**कुरुते तत्र पापं चेद् वज्रलेपसमं हि तत् । **

क्लिश्येत् स नात्र सन्देहो यावच् चन्द्रार्कतारकम् ॥ ६५८ ॥

गपु २। २६। २५-२६

तथा—

**न काष्ठे विद्यते देवो न शिलायां कदाचन । **

भावे हि विद्यते देवस् तस्माद् भावं समाश्रयेत् ॥ ६५९ ॥

गपु २। २८। ११

नारदीये—

**पुण्यक्षेत्राभिगमनं पुण्यतीर्थनिषेवणम् । **

यज्ञो वा विविधो ब्रह्मंस् त्यक्ताचारं न रक्षति ॥ ६६० ॥

देवलः—

**न नदीषु नदीं ब्रूयात् पर्वतेषु च पर्वतम् । **

नान्यत् प्रशंसेत् तत्रस्थस् तीर्थेष्व् आयतनेषु च ॥ ६६१ ॥

तथा—

**यत्र स्थानेषु यत् तीर्थं नदी पुण्यतमा च या । **

तां ध्यायेन् मनसा वापि अन्यत्रेच्छाविचिन्तनम् ॥ ६६२ ॥

(१) इदं स्नानविषयम् । (२) इदं द्वयम् अपि गङ्गातिरिक्तविषयं; यथोक्तं स्कान्दे—

**स्नानकाले ऽन्यतीर्थेषु जप्यते जाह्नवी जनैः । **

विना विष्णुपदीं क्वान्यत् समर्थम् अघशोधने ॥ ६६३ ॥

**[प्।१७३] **ब्राह्मे ऽपि—

**अन्यतीर्थेषु गङ्गायाः स्मरणं कार्यते नृभिः । **

**तस्माद् गङ्गासमं तीर्थं न हि ब्रह्माण्डगोलक ॥ ६६४ ॥ **इति ॥

(१) कृतञ् च तीर्थयात्रादि विष्णाव् अर्पणीयम् । तद् उक्तं ब्राह्मे—

**यानि यानि च तीर्थानि दानव्रततपांसि च । **

**तानि सर्वाणि सिध्यन्ति विष्णोः पादार्पणेन वै ॥ **

**नार्पयन्ति हरौ लोके पुण्यानि विविधानि च । **

विफलानि भवन्तीह श्रम एव फलं भवेत् ॥ ६६५ ॥

देवलः—

**अरण्यं देवतास्थानं तीर्थान्य् आयतनानि च । **

तस्मात् तेषु वसन् लोकान् याति नाकं दिवौकसाम् ॥ ६६६ ॥

तथा—

**श्रौतस्मार्तक्रियाः कर्तुं यो न शक्नोति मानवः । **

तेन तीर्थानि सेव्यानि व्रतानि च तपांसि च ॥ ६६७ ॥

(१) यात्रार्थगतस्य तु साधारण्येन तीर्थे दिनत्रयं वासः,

**तीर्थम् अधिगम्य व्रतोपवासनियमयुक्तस् त्र्यहम्**


**अवगाहमानस् त्रिरात्रम् उषित्वा सर्वपापेभ्यो मुच्यत ॥ ६६८ ॥** (ँ २२५)

इति देवलवचनात् । (१) यत्र चाधिकता विशेषत उक्ता सापि ग्राह्या ।

(२) यदा मार्गगामिनो ऽन्तरा सरस्वतीव्यतिरिक्ता नदी पतति तदा परपारे स्नानादि कार्यं; सरस्वत्यास् त्व् अर्वाक्तीरे । तद् उक्तं—

**मार्गे ऽन्तरा नदीप्राप्तौ स्नानादि परपारतः । **

अर्वाग् एव सरस्वत्या एष मार्गगतो विधिः ॥ ६६९ ॥

यत् तु

**पितॄन् अतर्पयित्वा तु नदीस् तरति यो नरः । **

तस्यासृक्पानकामास् ते भवन्ति भृशदुःखिता ॥ ६७० ॥ (= ३३२)

**[प्।१७४] **(१) इति वचनं, तत्सरस्वतीविषयम् । (२) तासाम् अपि बहूनां सत्त्वाद्

बहुवचनोपपत्तेः । (३) यद्वा तरणम् अतिलङ्घ्य गमनं; तेन मार्गपतितायाम् अपि नद्यां स्नानतर्पणाद्य् अकृत्वा न गच्छेद् इत्यर्थः । अत एव शङ्खः—

न स्रवन्तीम् अतिक्रमेद् अनवसिच्ये– ॥ ६७१ ॥

(१) त्य् अतिक्रमनिषेधम् आह । (२) ऽअनवसिच्यऽ तर्पणम् अकृत्वा । (३) अत्र वचनद्वये ऽपि तर्पणं स्नानस्याप्य् उपलक्षणं, तर्पणस्य तदनन्तरभावित्वात् ।

(४) प्रसिद्धनद्यां मार्गपतितायां श्राद्धम् अपि कार्यं समानन्यायत्वात् ।

(५) इदञ् च नदीषु परपारे स्नानम् अर्वाक्तीरे विशिष्टतीर्थाभावे ज्ञेयं; तत्सत्त्वे त्व् अर्वाग् एव स्नानादि, तदवगणनायां दोषापत्तेः । (६) सरस्वत्यां तु परपारे तीर्थविशेषसत्त्वे ऽर्वाक्तीरे कृत्वा परपारे ऽपि कार्यम् इति विवेकः ।

(७) अथ प्रतिग्रहादिप्रतिषेधार्थं तीर्थगर्भादि कथ्यते । तत्र ब्रह्मपुराणे—

**प्रवाहम् अवधिं कृत्वा यावद् धस्तचतुष्टयम् ।**


**तत्र नारायणः स्वामी नान्यः स्वामी कदाचन ॥**


**तत्र न प्रतिगृह्णीयात् प्राणैः कण्ठगतैर् अपि ॥ ६७२ ॥**

(१) अत्र ऽप्रवाहम्ऽ इति जलावध्युपलक्षणम् । (२) तेन पुष्करादौ तडागवाप्यादिरूपे ऽपि तीर्थे सर्वत्रैव जलम् अवधीकृत्य हस्तचतुष्टयाभ्यन्तरेति निषेधः ।

दानधर्मे—

**भाद्रशुक्लचतुर्दश्यां यावद् आक्रमते जलम् । **

तावद् गर्भं विजानीयात् तद् ऊर्ध्वं तीरम् उच्यते ॥ ६७३ ॥

(१) अत्र भाद्रशुक्लचतुर्दश्यां कदाचिद् वृष्ट्यभावेन जलवृद्ध्यभावे ऽपि किञ्चिद् वर्षभाविवृद्ध्यैव

लक्षणं हि पुरोडाशाव्– ॥ ६७४ ॥

म्स् १०। ८। १८। ६९

इतिन्यायेन देशविशेष उपलक्ष्यते ।

(१) तीरावधिश् च ब्रह्मपुराणे—

सार्धं हस्तशतं यावद् गर्भतस् तीरम् उच्यते ॥ ६७५ ॥

**[प्।१७५] **स्कान्दे—

**तीराद् गव्यूतिमात्रं तु परितः क्षेत्रम् उच्यते । **

अत्र दानं जपो होमो गङ्गायां नात्र संशयः ॥ ६७६ ॥

(१) तटद्वये प्रत्येकं क्रोशद्वयाख्यगव्यूतिमात्रं क्षेत्रम् । अत एवोक्तं भविष्ये—

**गङ्गासीमान् न लङ्घन्ति सर्वपापान्य् अशेषतः । **

**दिशो दश पलायन्ते सिंहं दृष्ट्वा यथा मृगाः ॥ **

एकयोजनविस्तीर्णा क्षेत्रसीमा तटद्वयम् ॥ ६७७ ॥ इति ।

(१) अत्र गर्भे प्रतिग्रहनिषेधः प्रसिद्धनदीषु । (२) प्रसिद्धतरगण्डक्यादिनदीषु तु उभयतः सार्धहस्तशतमिते तीरे ऽपि निषेध इति शिष्टाः । (३) क्षेत्रे तु निषेधो गङ्गाविषयस् तत्रैव क्षेत्रकथनात् ।

यत् तु ब्रह्मपुराणे—

**यत्र गङ्गा महाराज शम्भुस् तत्र तपोवनम् ।**


**सिद्धिक्षेत्रं च तद् ज्ञेयं समन्तात् तु त्रियोजनम् ॥ ६७८ ॥**

(१) एकैकस्मिन् पार्श्वे सार्धयोजनम् इति ऽसमन्तात् त्रियोजनम्ऽ इत्यर्थ इति तन्मरणे ऽतिशयार्थं न तु प्रतिग्रहप्रतिषेधार्थम् । (२) यदा तु ऽसमन्ताद् अर्धयोजनम्ऽ इति पाठः, तदा स्कान्देन तुल्यार्थतैव ।

(३) अथ लिङ्गाद्यर्चने विशेषः । नारदीये—

**यः शूद्रेणार्चितं लिङ्गं विष्णुं वा प्रणमेन् नरः । **

**न तस्य निष्कृतिर् ह्य् अस्ति प्रायश्चित्तायुतैर् अपि ॥ **

**तथैव शूद्रसंस्पृष्टं लिङ्गं वा हरिम् एव वा । **

**स सर्वयातनाभोगी यावदा चन्द्रतारकम् ॥ **

**पाखण्डपूजितं लिङ्ग नत्वा पाखण्डतां व्रजेत् । **

**आभीरपूजितं लिङ्गं नत्वा नरकम् अश्नुते ॥ **

**योषिद्भिः पूजितं लिङ्गं विष्णुं वापि नमेत् तु यः । **

स कोटिकुलसंयुक्त आकल्पं रौरवे वसेत् ॥ ६७९ ॥

**[प्।१७६] **(१) एतत् सर्वं इदानीन्तनप्रतिष्ठितलिङ्गादिविषयं, न तु पुराणप्रसिद्धमहिमविषयं,

**यदा प्रतिष्ठितं लिङ्गं मन्त्रविद्भिर् यथाविधि ।**


**तदा प्रभृति शूद्रश् च योषिद् वापि न संस्पृशेत् ॥ ६८० ॥**

इति तत्रैवोक्तत्वात् । अत एव स्कान्दे काशीलिङ्गं प्रकृत्योक्तम्—

**अदृश्यान्य् अपि दृश्यानि दुरवस्थान्य् अपि प्रिये । **

भग्नान्य् अपि च कालेन तानि पूज्यानि सुन्दरी– ॥ ६८१ ॥

कख् ७३। २४च्-२५ब्

(१) ति । ऽदुरवस्थानिऽ अस्पृश्यस्पृष्टानि ।

(२) तथान्यो ऽपि विशेषस् तत्रैव;

**स्त्रीणाम् अनुपनीतानां शूद्राणाञ् च नरेश्वर । **


**स्थापने नाधिकारो ऽस्ति विष्णोर् वा शङ्करस्य वा ॥ **


**यः शूद्रसंस्कृतं लिङ्गं विष्णुं वापि नमेन् नरः । **


**इहैवात्यन्तदुःखानि पश्यत्य् आमुष्मिके किमु ॥ **


**शूद्रो वानुपनीतो वा स्त्रियो वा पतितो ऽपि वा । **


**केशवं वा शिवं वापि स्पृष्ट्वा नरकम् अश्नुते ॥ ६८२ ॥**

इत्यादि । (१) अन्यो ऽपि विशेषः—

**महातीर्थस्य गमनम् उपवासव्रतानि च । **

संवत्सरं न कुर्वीत महागुरुनिपातने ॥ ६८३ ॥

तथा—

**तीर्थस्नानं महादानं परान्नं तिलतर्पणम् । **

**अब्दम् एकं न कुर्वीत महागुरुनिपातने ॥ **

**वपनं मैथुनं तीर्थं वर्जयेद् गुर्विणीपतिः । **

श्राद्धञ् च सप्तमान् मासाद् ऊर्ध्वञ् चान्यत्र वेदवित् ॥ ६८४ ॥

**[प्।१७७] **(१) ऽश्राद्धऽं श्राद्धभोजनम् ।

लल्लः—

**उपप्लवे शीतलभानुभान्वोर् अर्धोदये वा कपिलाख्यषष्ठ्याम् । सुरासुरेज्यास्तमये ऽपि तीर्थे यात्राविधिः सङ्क्रमणे ऽपि शस्तः ॥ ६८५ ॥**

(१) उपप्लवो ग्रहणम् । (२) गुरुशुक्रास्तमय उपलक्षणम् । (३) तेन निषिद्धकालान्तरे ऽपि ग्रहणादौ न दोष इत्यर्थः ।

(४) अस्थिप्रक्षेपार्थयात्रायाम् आद्यवर्षे ऽपि न दोष इत्य् आहुः ।

तथा धर्मविवृत्तौ—

**उपवासो व्रतं होमस् तीर्थस्नानजपादिकम् । **


**विप्रैः सम्पादितं यस्य सम्पन्नं तस्य तत्फलम् ॥ ६८६ ॥**

तथा—

**नार्वाक् संवत्सरात् प्रोक्तं क्षौरं तीर्थनिवासिनाम् । **


**देशान्तरगतानाञ् च क्षौरं नैमित्तिकं विना ॥ ६८७ ॥**

तथा—

**अम्बुमध्ये गवां गोष्ठे तीर्थेष्व् अपि च पर्वसु । **

राहोर् दर्शनकाले च सूतकं नैव विद्यते ॥ ६८८ ॥

(१) इदं शीघ्रम् अन्यत्रगमनसम्भावनायां दानादिविषये द्रष्टव्यम् ।

तथा—

**गृहे दशगुणं दानं गोष्ठे शतगुणं भवेत् । **

पुण्यतीर्थेषु साहस्रम् अनन्तं शिवसन्निधौ ॥ ६८९ ॥

अन्यच् च—

**येषु तीर्थेषु ये देवा येषु तीर्थेषु ये द्विजाः । **

येषु तीर्थेषु यत्तोयं विचिकित्सेन् न तत्र तु ॥ ६९० ॥

[प्।१७८] (१) एतेषूपहतेष्व् अपि न दोष इत्य् आशयः ।

तथा—

**न देवः पर्वताग्रेषु न देवो विष्णुसद्मनि । **


**देवश् चिदानन्दमयो दिवि भावेन दृश्यते ॥ **


**यत्र यत्र दृढा भक्तिर् यदा यस्य महात्मनः । **


**तत्र तस्य महादेवः प्रसादम् उपगच्छति ॥ ६९१ ॥**

(१) इत्यादि । बहुनालम् !

इति श्रीमद्विद्वन्मुकुटमाणिक्यश्रीमद्भट्टरामेश्वरसूरिसूनुनारायणविरचिते त्रिस्थलीसेतौ सामान्यप्रघट्टके प्रकीर्णकतीर्थधर्मप्रकरणं समाप्तम् ।

समाप्तश् च प्रघट्टकः ।

इतः परं प्रयागप्रकरणं भविष्यति ।