प्रायश्चित्तेन्दुशेखरः

[[प्रायश्चित्तेन्दुशेखरः Source: EB]]

[

आनन्दाश्रमसंस्कृतग्रन्थावलिः।

ग्रन्थाङ्कः १००

प्रायश्चित्तेन्दुशेखरः।

(शिवभट्टसुतसतीगर्भजनागोजीभट्टविरचितः श्रीमदनन्तोपाध्या-यसूनुकाशीनाथोपाध्यायकृतशोधनोपबृंहणपूरणशाली)।

तथा
कुण्डार्कः।

(महामहोपाध्यायाभ्यंकरोपाह्ववासुदेवशास्त्रप्रणीतकुण्डार्को-
दयाभिघटीकासंवलितः)\।

एतत्पुस्तकद्वयम्

वे० शा० सं० रा० शंकरशास्त्री मारुलकर इत्येतैः संशोधितम्।

तच्च

बी. ए. इत्युपपदधारिभिः
विनायक गणेश आपटे
इत्येतैः

पुण्याख्यपत्तने

श्रीमन्महादेव चिमणाजी आपटे
इत्यभिधेय महाभागप्रतिष्ठापिते

आनन्दाश्रममुद्रणालये
आयसाक्षरैर्मुद्रयित्वा
प्रकाशितम्।

शालिवाहनशकाब्दाः १८५३
ख्रिस्ताब्दाः १९३१

(अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः)
मूल्यं दशानकयुतो रूप्यकः (१४१०)।

आनन्दाश्रमसंस्कृतग्रन्थावलिः।

ग्रन्थाङ्कः १००

प्रायश्चित्तेन्दुशेखरः।

(शिवभट्टसुतसतीगर्भजनागोजीभट्टविरचितः श्रीमदनन्तोपाध्या-यसूनुकाशीनाथोपाध्यायकृतशोधनोपबृंहणपूरणशाली)।

तथा
कुण्डार्कः।

(महामहोपाध्यायाभ्यंकरोपाह्ववासुदेवशास्त्रप्रणीतकुण्डार्को-
दयाभिघटीकासंवलितः)\।

एतत्पुस्तकद्वयम्

वे० शा० सं० रा० शंकरशास्त्री मारुलकर इत्येतैः संशोधितम्।

तच्च

बी. ए. इत्युपपदधारिभिः
विनायक गणेश आपटे
इत्येतैः

पुण्याख्यपत्तने

श्रीमन्महादेव चिमणाजी आपटे
इत्यभिधेय महाभागप्रतिष्ठापिते

आनन्दाश्रममुद्रणालये
आयसाक्षरैर्मुद्रयित्वा
प्रकाशितम्।

शालिवाहनशकाब्दाः १८५३
ख्रिस्ताब्दाः १९३१

(अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः)
मूल्यं दशानकयुतो रूप्यकः (१४१०)।

ॐ तत्सद्ब्रह्मणे नमः।
प्रास्ताविकं किंचित्।
________

अयि महानुभावा विविधविद्यापठनपाठनैकबद्धपरिकराः पण्डितमण्डलीमण्डनायमानाः, विदितचरमेवात्र तत्रभवतां भवतां यन्निखिलेऽपि महीमण्डलेऽतीतानेकजन्मसमुपार्जितपुण्यपुञ्जौघसत्तया समुपनतनृशरीरभाजां खलु जनानां जनेः सार्थकता ‘ज्ञानादेव तु कैवल्यम्’ इत्यादिपरःशतैर्वचोभिश्चरमपरमपुरुषार्थसाधनीभूतज्ञानसंपादनादेव बोभवीतीति। ज्ञानसंपादनस्य पुनरेकान्ततः पापक्षयपूर्वकचित्तसंशुद्धिद्वारेण कर्मायत्तत्वमिति प्रथितमेव बहुत्र स्मृत्यादिवचनेषु। एतदेव पुनर्गीताशास्त्रे तत्र तत्र भगवाञ्श्रीकृष्णः ‘कर्मणैव हि संसिद्धिम्’ इत्यादिभिर्भूयोभिर्वचनैरर्जुनं प्रत्युपादिदेश। एतावता पुनर्ज्ञानसाध्यत्वात्कैवल्यस्य ज्ञानस्य च खलु परम्परया कर्माचरणनिबन्धनत्वात्तदाचरणं पुनरवश्यकरणीयतामापद्यते। तस्य च कर्मणो विविधतरनियमकण्टकाक्रान्तत्वान्न तच्छक्यं किल यथावदनुष्ठातुं केनाप्यनवधानतादिदोषजातविधुरेण मनागपि। अवोचदेतत्पुनर्भगवानेव गीतासु- ‘सर्वारम्भा हि दोपेण धूमेनाग्निरिवाऽऽवृताः’ इति। ‘आरभ्यन्त इत्यारम्भाः सर्वकर्माणीत्येतत्प्रकरणात्’ इत्याचार्यचरणा एव व्याचख्युः। एवंत्वे च पुनर्दोषविभीषिकया कर्माऽऽचरितुं मा पुनस्तपस्विनो भैपुर्जना इति नूनं किल परमकल्याणकृद्भगवानाम्नाय एव कर्माचरणकालिकसकलदोषनिकुरम्बनिवर्हणार्थं खलु प्रायश्चित्तानि व्याजहार। श्रुतीनामपि पुनरानन्त्यात्स्थूलधियामनायासं तदवबोधाय परमकृपालवोमनुयाज्ञवल्क्यव्यासपराशरप्रभृतयो महर्षयस्तान्येव पुनराम्नायगतप्रायश्चित्तानि स्वीयस्वीयस्मृतिषु प्रतिबिम्बयांबभूवुः। स्मृतीनामपि पुनरनेकत्वात्तद्गतानपि प्रायश्चित्तीयार्थान्समाकलयितुं नूनमशक्नुवतो मध्यमाधिकारिणः सम्रधिगम्य सकलभूवलयस्थितपण्डितप्रकाण्डचक्रवर्ती सुगृहीतनामधेयः श्रीमान्नागोजिभट्टो विधाय खलु मन्थानं स्वधियं निर्मथ्य पुनर्धर्मशास्त्रपारवारं निखिललोकोपकृतये प्रायश्चित्तेन्दुशेखरनामधेयं ग्रन्थरत्नं प्राणैषीत्। अनेन ग्रन्थकृता नूनं सुवहूपकृतमनुगृहीतं च पुनः प्रायश्चित्तकथनेन धार्मिकाणां कुलम्। नैतस्मिन् किल ग्रन्थ एकोऽपि प्रायश्चित्तविषयोऽवाशेषि यदर्थेपुनर्ग्रन्थान्तरं समीक्षितुं प्रसक्तिः प्राप्नुयात्। अत एवायं खलु प्रायश्चित्तीयान्सकलानपि ग्रन्थान्नैजगुणगणगरिम्णाऽतिशेत इति यदि व्याह्रियेत तर्हि नैतद्वचोऽनृततादोषं लेशतोऽपि ढौकेत।

पदवाक्यप्रमाणसाहित्यादिसकलशास्त्रपारावारपारीणोऽयं विचक्षणमूर्धन्यः श्रीनागोजिभट्टः कतमस्यां खलु गुरुपरम्परायां समुत्पन्नः कस्मिंश्च पुर्नदेशेऽन्ववाये च जन्मालभतेत्याद्यनुयोगसंततिः सहजतयैव जिज्ञासूनां पुरतः प्रादुर्भवति। तद्वि-

षये पुनर्यावद्बुद्धि प्रयतामहे- मूलपुरुषः शेषः श्रीकृष्णः। तदन्तेवासी श्रीभट्टोजिदीक्षितः। तदात्मजो वीरेश्वरः। वीरेश्वरपुत्रः पुनर्हरिदीक्षितः। हरिदीक्षितच्छात्रः श्रीनागोजिभट्टः। तच्छिप्यः पुनरतारे इत्युपाभिधरामचन्द्रभट्टः। तदन्तेवासी च पायगुण्डे इत्युपाभिख्यो बालंभट्टः। श्रीनागोजिभट्टस्य साक्षादन्तेवासी श्रीबालंभट्ट इत्यपि प्रवादः श्रूयते। जरतो नागोजिभट्टस्य यूनश्च पुनर्बालंभट्टस्य समानकालिकतां तु वयमप्यनुमोदामहे। ‘नागेशभट्टो नागेशभाषितार्थविचक्षणः। हरिदीक्षितपादाब्जसेवनावाप्तसन्मतिः’ इत्युद्द्योतीयमङ्गलपद्येन श्रीनागोजिभट्टस्य सकलशास्त्राध्यापक एक एव किल गुरुः श्रीहरिदीक्षित आसीदित्यपि नृनं प्रतिपादयितुं का पुनर्भीः।

एतस्य पुनर्नागोजिभट्टस्य जन्मस्थानं जन्मकालादिकं चाधिकृत्य किंचित्प्रस्तूयते—

‘काले’ इत्युपाभिधो महाराष्ट्रीयो शिवभट्टसुतः श्रीसतीगर्भजः पुनरयं श्रीनागोजिभट्टः। १६१०- १६७२ वत्सरात्मकः प्रायोऽस्य जीवनकालःशालिवाहनशाकीयः। अल्पयिसि वयस्येव निजपितृचरणादधिगताम्नायःस्मार्तंयाज्ञिकं समध्यैष्ट। तेन चालब्धोपजीविकासाधनः खलु भूयांसं निर्वेदमापन्नः श्रीविराज [वाई] क्षेत्रं शास्त्राध्ययनसंपिपादयिषयाऽऽगात्। उषित्वा च पुनस्तत्र काश्चिच्छरदः श्रीविश्वेश्वरराजधानीं वाराणसीं ज्ञानलिप्सयैव विराजक्षेत्रतः प्रास्थित। सुधीरयमचिरादेव पुनर्भट्टोजिदीक्षितविरचितग्रन्थानात्मसाच्चकार श्रीहरिदीक्षितगुरुवरचरणशरणः। अन्यानि दर्शनान्यपि सुविमलमतिगुणगरिम्णा स्त्रागेव खलु चुलकयामास। लोकोत्तरविदुषोऽस्य पुनर्विसृत्वरः सुकीर्तिपरिमलमिलिन्दस्तदात्वएव परिचुचुम्ब दिगङ्गनामुखपद्मानि। तस्मिन्नेव पुनरवसरे (१६३६ शालिवाहनीयाब्दे) जयपुरमहाराजः श्रीसवाईजयसिंगवर्माऽश्वमेधेन भगवन्तं यज्ञात्मानं समाराधयितुमभिलाष। आसांचक्रे तदानीं कोऽपि यवनः सार्वभौमपदभाक्, अयं पुनः सवाईजयसिंगवर्मा तु माण्डलिकः। माण्डलिकस्य चाश्वमेधाधिकाराभावेऽपि तादानिकाः किल सर्वेऽपि श्रीवाराणसीस्थपण्डिताः कामपि विस्मापयित्रीं प्रकल्प्य खलु योजनां माण्डलिकस्यापि वाजिमेधाधिकारं समर्थयांबभूवुः। तदानीं किलायं लोकोत्तरप्रतिभाशाली निरीहो भट्टनागेशो माण्डलिकस्य कथमपि नाधिकार इति प्रत्यपीपदत्। मतबाहुल्याच्छ्रीजयसिंहस्य पुनस्तद्यज्ञविधाने परमतरौत्सुक्याच्च तेन स यज्ञस्तु निप्प्रत्यूहतयाऽपारि किल। परं तस्मिन्यज्ञे श्रीजयसिंहभूपतिना साञ्जलिबन्धपुरःसरं सबहुमानं च पत्रिकाद्वारा प्रेम्णाऽऽकारितोऽपि तृणाय मत्वा तदाह्वानं ‘अहं क्षेत्रसंन्यासं गृहीत्वा काइयां स्थितोऽस्मि। अतस्तां परित्यज्यान्यत्र गन्तुं न शक्नोमि’ इति प्रत्यौत्तस्यत्। ज्ञायेतैव नूनमत्रत्याकूतं सुधीभिः। एषा जनश्रुतिः पुनर्जयपुरेऽद्यापि प्रथितेति रसगङ्गाधरोपोद्धाते दुर्गाप्रसादः।

ततोऽचिरेणैव सुदूरदर्शी पुनरयं महाब्राह्मणः शृङ्गवेरपुराधीशं रामवर्माणं1 महीपालं निह्नुत्य किलाऽऽत्मीयामार्हन्तीं साधारणीं सेवकजनधोरणीमङ्गीकृत्य चाशिश्रियत्। तेनापि हि निर्विचिकित्सं परमेशितुर्नमस्याकाले समुपयोक्ष्यमाणमृदुतरकुसुमकदम्बोपद्रबकारिमक्षिकानिःसारणार्थं क्लप्तमासिकभृतिदानेन विद्वद्वरोऽयं निजाभ्याशे न्यधायि।

प्रमादराहित्येन मक्षिकापनयनकार्यं विदधति खलु विदुषि नागोजिभट्टेऽल्पीयसैव किल गणरात्रेण कोऽपि माङ्गलिकः समुदभून्महोत्सवः। तत्र च कमप्यतिगूढतरं शास्त्रात्मकं विषयं विवदमाने पण्डितवर्गे संनिधिभागयं पुष्पस्थमक्षिकानिवारकः कृतकसेवक उभयोरपि पक्षयोर्वचःसारं समाकलय्याकुतोभयतया विराजमानस्तं विषयं गाङ्गौघनिभेन पाण्डित्यप्रचुरेणातिगभीरवाक्प्रवाहेण राद्धान्तयामास। अहो न कोऽपि खलु तत्सभागतः पण्डितवरः प्रभुरभूदेतस्य सिद्धान्तमन्यथयितुं नाप्यनुवदितुम्। ततश्चकितचकितेषु पण्डितमूर्धन्येषु विस्मितेषु च सदस्येषु प्रमोदितेषु चेतरेषु तदीयनिरुपमप्रतिभाशालिपाण्डित्यप्रसरभरानन्दनितान्तसंतानसंदानितस्वान्तो राजा रामवर्मा निजासनादुत्थाय प्रणिपनीपत्य च पण्डितवरहीरकवरं श्रीमन्तं प्रेयांसं महीयांसं च नागोजिभट्टं ‘विद्वन् सहस्व मामकीनमपराधम्। भवदधिकारमजानानेन नूनमात्माऽवनतिगर्ते निपातितः। शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्’ इत्यभिधाय महार्हासनमुपवेशयामास। ततः समयानुसारिण्या वाण्या समाश्वासितो रामराजः पण्डितनागोजिं प्रतिवार्षिकपारितोषिकात्माश्रयेण सभाजयामास। सोऽपि वितरत्यपि भूरि धनं राजनि रामवर्मणि यावज्जीविकापर्याप्तमेबाङ्गीकृत्य किल पण्डितप्रवरो बहून्वत्सरांस्तत्रैव स्थित्वा प्रभूतानि खलु ग्रन्थरत्नानि प्रणिनाय। एतेन खलु ‘याचकानां कल्पतरोररिकक्षहुताशनात्। शृङ्गवेरपुराधीशाद्रामतो लब्धजीविकः’ इति काव्यप्रदीपोद्द्योते शब्देन्दुशेखरे च श्रीनागोजिभट्टस्यैव मङ्गलपद्योक्तिः संगच्छते। उपरितनी किंवदन्ती विद्वज्जनाप्तमुखाच्छ्रुता, अत एव खलु संगृहीताऽत्र।भूतार्थं तु नूनमीश्वरो वेद।

एतेन महापण्डितेन विविधशास्त्रेषु= महीयसी पुनर्ग्रन्थसंपन्निरमायि। प्रायो नैतादृशं शास्त्रं समुदियाय यत्किल श्रीनागोजिभट्टमत्या नैजं लक्ष्यं नाकारि। एवंत्वेऽपि पुनर्मुनित्रयशास्त्रे तु चास्य यत्सत्यमपूर्व एव प्रणयातिशयः। कतिपयानां तदीयग्रन्थानां नामानि प्रदर्श्यन्ते- अलंकारसुधा, आचारेन्दुशेखरः, गुरुमर्मप्रकाशः, पातञ्जलसूत्रवृत्तिः, प्रभाकरचन्द्रतत्त्वदीपिका, प्रयोगसरणीतन्त्रम्, वेदसूक्तभाप्यम्, व्याससूत्रेन्दुशेखरः,

रामायणटीका2, शब्दरत्नम्,3 महाभाष्यप्रदीपोद्द्योतः लघुसांख्यसूत्रवृत्तिः स्फोटवादश्चेत्येवमादयोऽन्येऽपि ग्रन्थाः प्रायः षष्टिसंख्यापरिमिता भवेयुः। समुपहृतमानन्दाश्रमसंस्थाप्रणयिभ्यो यावल्लभ्यं नागोजिभट्टीयवृत्तमस्माभिः अनेन च नागोजीयप्रायश्चित्तेन्दुशेखरग्रन्थेन साकं समुपजोषमद्य कुण्डार्कोदयनाम्नीटीका प्रेर्यते नियतग्राहिमहाशयानां तथा चान्येषां विदुषामभ्याशे संस्थया। कुण्डविषये पुनर्बहवो ग्रन्थाः, परं तेषु कुण्डार्कः खलु सर्वातिशायी। कुण्डार्के च किल भूयस्यष्टीका हन्त परं नैतादृश्येकाऽपि या खलु पिपठिषोर्मनः सर्वाङ्गीणतया समाधातुमीशीत। इमां पुनर्न्यूनतामारात्कर्तुमिहत्यैः कैश्चन याज्ञिकधौरेयैर्यत्सत्यं मुहुर्मुहुरभिनवसुगमतमविवृतिविततिविषये संप्रार्थिता अत्रत्याः श्री० ‘महामहोपाध्याय’ इति पदवीमन्वर्थयन्तः स्वीयाधिष्ठित्या च न केवलं पुण्यपुरं नापि वा महाराष्ट्रं किंतु सकलमपि भारतवर्षं विभूषयन्तोऽभ्यंकरोपाभिधवासुदेवशास्त्रिमहाशया लोकोपकृतये व्ययीकृत्य निजमनर्घमनेहसं समर्प्य च शेमुषीं संप्रदर्श्य च सौलभ्याय गाणितीं प्रक्रियां प्रपूर्य च प्राचीनटीकाक्कृतां विगुणतां मूलग्रन्थहृदयं विशदयन्तीं कामपि हृदयंगामिनीं प्रागुक्तां व्याख्यां व्यतानिषुः।मन्यामहे वयं स्थूलधियोऽपि यर्ह्येनां सुनिपुणमभ्यस्येयुस्तर्हि नूनमेकान्ततोऽध्यापयितारं विश्रान्तिसुखमनुभावयेयुः। विरलाः खल्वेतस्य ग्रन्थस्याध्यापकाः। अत एवावश्यं समग्राह्यस्माभिरेतत्पुस्तके।

अयि भो आनन्दाश्रमसंस्कृतग्रन्थावलीप्रकाशितग्रन्थसंग्राहिणो महाशयप्रवरा दिष्ट्या नूनमद्य कै० ‘महादेव चिमणाजी आपटे’ इत्यभिधैर्महनीययशोभिः संस्थापितेयं संस्था युष्माकं हस्ते शततमं ग्रन्थरत्नं सादरं समर्पयति। एवमेवैयं संस्था बहूनि खलु ग्रन्थरत्नानि प्रकाशयतु स्मारयतु च वेदप्रतिपादितं धर्मं वितरतु च तदभिलाषुकाणां निःश्रेयसं संवर्धयतु च वाग्देवीविलासं विलसतु चानर्घग्रन्थहीरकप्रकाशने दृढबद्धपरिकरा सानन्दमिति साज्ञ्जलिबन्धं सप्रणयं संप्रार्थ्य सकलचराचरगुरुमुमाजानिं कमलाजानिं वा स्वीयां लेखनीमधो निदधाति-

इषशुक्लतृतीयायां सौम्यवासरे
शके १८५३ पुण्यपत्तने

‘रानडे’ इत्युपाभिख्यो गोविन्दतनुजन्मा पुरुषोत्तमशर्मा।
__________

प्रायश्चित्तेन्दुशेखरस्थविषयाणामनुक्रमणिका ।

[TABLE]

[TABLE]

[TABLE]

[TABLE]

[TABLE]

[TABLE]

[TABLE]

[TABLE]

[TABLE]

[TABLE]

[TABLE]

[TABLE]

[TABLE]

[TABLE]

[TABLE]

[TABLE]

[TABLE]

[TABLE]

[TABLE]

[TABLE]

[TABLE]

[TABLE]

[TABLE]

[TABLE]

[TABLE]

[TABLE]

[TABLE]

[TABLE]

[TABLE]

[TABLE]

इति प्रायश्चित्तेन्दुशेखरस्थविषयाणामनुक्रमणिका ।
———————————

अथ कुण्डार्कोदयाभिघटीकास्थानां कुण्डार्कगतानां च
विषयाणामनुक्रमणिका ।

———————————

[TABLE]

[TABLE]

[TABLE]

[TABLE]

[TABLE]

इति कुण्डार्कोदयाभिघटीकासंवलितकुण्डार्कगतविषयाणामनुक्रमणिका॥

——————————

ॐ तत्सद्ब्रह्मणे नमः।

प्रायश्चित्तेन्दुशेखरः।

———————————

श्रीशिवभट्टसूतसतीगर्भजनागोजीभट्टविरचितः ।

——————————————

(श्रीमदनन्तोपाध्यायसूनुकाशीनाथोपाध्यायकृतशोधनीपवृंहणपूरणशाली)।

बालेन्दुशेखरं नत्वा बालबोधाय लिख्यते।
बालकृष्णमुदे चापि प्रायश्चित्तेन्दुशेखरः॥

यद्यथाविध्यननुष्ठानाद्युपचिताशुभनाशकमेव तत्प्रायश्चित्तन्। तुलापुरुषादावतिव्याप्तिवारणायैवेति। न तु फलान्तरजनकमित्यर्थः। पापनिवर्तनक्षमधर्मविशेषे योगरूढोऽयं शब्द इति तत्त्वम्। संकेतविशेषसंबन्धेन प्रायश्चित्तशब्दवत्त्वमेव प्रायश्चित्तत्त्वम्। अत एव क्रत्वङ्गभ्रेपप्रायश्चित्ते तद्व्यवहार इत्यन्ये। पापिनः प्रायश्चित्तं नित्यं नैमित्तिकं वेत्यतो विकलाङ्गादपि पापस्य नाशः। किंत्वल्पस्यैव न तु समग्रस्य। एवं च काम्यमप्येतत्। एवं च प्रधाननिष्पत्तावपि न प्रधानवृत्तिरिति बोध्यम्। एकप्रायश्चित्तकानापापकर्मणां तत्प्रायश्चित्तैकप्रयोगेणैव नाशः। एवमधिकपापनाशार्थमुक्तेनैकवारमनुष्टितेन न्यूननाशस्यापि पापान्तरस्य नाशः। एवं यत्र यत्प्रायश्चित्तमुपदिष्टं तदन्यूनक्लेशकप्रायश्चित्तान्तरमपि तत्र योज्यम्। पापिनां तदुपदेशश्च पुण्याय। स चार्चितेन पृष्टेनैव विदुषां संसदि धर्मशास्त्रादि बुद्ध्वैव कार्यः। अन्यथोपदेष्टाप्रंत्यवैति।

संसच्चतुर्भिस्त्रिभिर्वा धर्मशास्त्रादितत्त्वज्ञैर्भवत्येकेनापि ब्रह्मविदा यतिवर्जम्। सहस्राद्येकपर्यन्तमित्येके। पर्षदक्षिणा च लक्षगवादिकिंचिद्देयपर्यन्ता। यथायोग्यं कृच्छ्रसंख्यया वा। पर्षत्तुष्टिर्वा। गौर्वृषभश्चेत्यन्ये। निवेदितदोषस्य पर्षदनुमत्यैव प्रायश्चित्तानुष्ठानं बोध्यम् ।

पापी च सचैलं स्नातो वाण्यत आर्द्रवासा उपदेष्टारं साष्टाङ्गं प्रणम्य स्पष्टाभिधानं वदेदिदं मे पापं निष्पन्नं प्रायश्चित्तं म उपदिश-

त्विति। पापं कृतवतोऽपरैर्ज्ञातदोषस्य च सभोपस्थानं विना भोजने भाषणे च पापवृद्धिः। आसंवत्सरं प्रायश्चित्ताकरणे पापद्वैगुण्यम्। आर्तस्य प्रायश्चित्ताकथनेऽर्चितस्य विपश्चितस्तत्पापभागिताऽज्ञात्वा कथने च। शूद्रादेस्तु प्रायश्चित्तोपदेशो विप्रमन्तरा कृत्वा कार्यः। क्षत्त्रियवैश्ययोरप्येवम्।

गुरुणि पापे लघु लघुनि च गुरु प्रायश्चित्तं न वाच्यम्। पापगौरवं तु कामतः सप्रत्ययं साभ्यासमनुष्ठानाद्दण्डगौरवात्सातिशयाच्च निन्दार्थवादाल्लोकगर्हातिशयाच्च ज्ञातव्यम्। लघुताऽप्येतद्विपर्ययेण ज्ञेया।

प्रायश्चित्तं यथोक्तमेव वाच्यम्। न तु स्नेहलोभादिनाऽनुग्रहः कार्यः। तथा सति पापं वक्तरि संक्रमेत्। दुर्बले तु प्रष्टरि प्रथमं यथोक्तमुदाहृत्य तच्छक्त्यनुसारेण ग्रीष्मादिकाल हिमालयादिदेशानुसारेण चानुग्रहः कार्य एव। एवं शिशुवृद्धस्त्रीरोगिणामप्यनुग्रहः। सोऽपि यद्वर्णस्य यत्पापे यत्प्रायश्चित्तमुक्तं तत्पादन्यूनं तदर्धंतत्पादं वेति बलदेशकालाद्यनुसारेण न ततो न्यूनम्। तच्च बालवृद्धातुरस्त्रीणामर्धम्। एकस्य द्वित्रिधर्मत्वे पादमेव। एवं च यत्र पादमेव प्रायश्चित्तमुपदिष्टं तत्रापि नानुग्रहः। षोडशवर्षन्यूनो बालः\। अशीतिवर्षाधिको वृद्धः। पूर्णषोडशवर्षस्य पूर्णं प्रायश्चित्तम्। ऊनैकादशवर्षस्य पञ्चवर्षादूर्ध्वं पादप्रायश्चित्तम्। द्वादशादा षोडशमर्धम्। तदपि तत्पित्रादिभिः कार्यम्। एवमतिरोग्यतिवृद्धयोरपि पुत्रादिभिः। पञ्चवर्षन्यूनस्य न पापम्। शास्त्रोपदिष्टं पूर्णप्रायश्चित्तं विप्रस्यैव। क्षत्त्रियविट्शूद्राणां तु पादपादहानिः। क्वचिद्विशेषस्तु वाचनिकः। तत्र जपहोमादिरहितमेव शूद्रस्यामन्त्रकप्राणायामश्च। यागाद्यनुष्ठानशीलानां जपादिकम्। इतरेषां तपआदि। नामधारकमूर्खनिर्धनानां तपः। अनधीतानां च। षोडशवर्षाधिकब्रह्मचारिणो द्विगुणम्। वानप्रस्थस्य त्रिगुणम्। यतेश्चतुर्गुणम्। स्वयमशक्तौ प्रतिनिधिद्वारा प्रायश्चित्तं कार्यम्। अज्ञानाकामकृते यदुक्तं[ज्ञान] कामकृते तद्द्विगुणम्। कामतोऽभ्यासे चतुर्गुणम्। कामादिकृते यदुक्तमकामादिकृते तदर्धंयोज्यम्। कृतप्रायश्चित्तो गवां स्वयं तृणं दद्यात्। तच्च ता निःशङ्कं स्वयमेव भक्षयेयुस्तदैनमङ्गीकुर्युः। स चेदं पापं न पुनः करिष्यामीति प्रतिजानीयात्। नो चेत्पुनः प्रायश्चिते योज्यः।

तत्र पापानि प्रकीर्णकजातिभ्रंशकरसंकरीकरणापात्रीकरणमालिनीकरणोपपातकमहापातकानुपातकरूपाणि विहिताकरणनिन्दितकरणेन्द्रियानिग्रहेभ्यो भवन्ति।

तत्र जातिभ्रंशकरादिगणितातिरिक्तं प्रकीर्णकम्।

जातिभ्रंशकराणि तु—विप्रपीडाकरणमनाघ्रेयमद्यलशुनादिघ्राणं मित्रकौटिल्यं पुंसि मैथुनमेतानि जातिभ्रंशकराणि।

संकरीकरणानि तु–खराश्वोष्ट्रमृगहस्त्यजाविमीनमहिषाणामन्येषां च ग्राम्यारण्यपशूनां वधः [इति] संकरीकरणानि।

अपात्रीकरणानि तु-निन्दितेभ्यो धनादानं वाणिज्यं शूद्रसेवा कुसीदजीवनमसत्यभाषणमेतान्यपात्रीकरणानि।

मलिनीकरणानि तु—बहुकुमिकीटकयोर्जलस्थलजयोर्हत्या मद्यानुगतभोजनं बहुफलैधपुष्पस्तेयमधैर्यमेतानि मलिनीकरणानि।

उपपातकान्याह– गोवधः १ व्रात्यता २ स्तेयम् ३ ऋणानपक्रिया ४ अनाहिताग्निता ५ अपण्यविक्रयः ६ परिवेदनम् ७ भृतकाध्ययनाध्यापने ८ पारदार्थम् ९ पारिवित्त्यम् १० वार्धुष्यम् ११ लवणक्रिया १२ स्त्रीशूद्रविट्क्षत्रवधः १३ अशुष्कद्रुमच्छेदनम् १४ निन्दितार्थोपजीवनम् १५ नास्तिक्यम् १६ व्रतलोपः १७ सुतविक्रयः १८ धान्यकुप्यपशुस्तेयम् १९ अयाज्ययाजनम् २० पितृमातृसुतत्यागः २१ तडागारामविक्रयः २२ कन्यादूषणम् २३ परिवेदकयाजनम् २४ तस्य कन्याप्रदानम् २५ गुरोरन्यत्र कौटिल्यम् २६ आत्मार्थं पाकार्थक्रिया २७ मद्यस्त्रीनिषेवणम् २८ व्रतलोपः २९ स्वाध्यायाग्निसुतानां त्यागः ३० बान्धवत्यागः ३१ स्त्रिया हिंसया चौषधेन च जीवनम् ३२ हिंसकप्रवर्तनम् ३३ द्यूतादिव्यसनम् ३४ आत्मविक्रयः ३५ शूद्रमेष्यता ३६ हीनसख्यम् ३७ हीनयोनिनिषेवणम् ३८ अनाश्रमित्वम् ३९ परा- न्नपुष्टता ४० असच्छास्त्राभिगमनम् ४१ आकराधिकारः४२ भार्यादिविक्रयः ४३ असत्प्रतिग्रहः ४४ निन्दितान्नादनम् ४५ नटादिकर्मकरणम् ४६ भार्यात्यागः ४७ एतान्युपपातकानि।

महापातकानि तु–ब्रह्महत्या सुरापानं विप्रस्वर्णस्तेयं गुरुतल्पगम-

नमब्दमेतच्चतुष्टयान्यतमसंसर्ग इति महापातकानि । शूद्रस्य मद्यपानस्थाने ब्राह्मणीगमनम्।

महापातकसदृशान्यनुपातकानि तु—तत्र यागस्थनृपवैश्यवधः १ शरणागतवधः २ रजस्वला गर्भिण्यत्रिगोत्रस्त्रीणां वधः ३ अविज्ञातगर्भस्य सुहृदश्च ४ गुरुविषये मिथ्याभिशंसनं क्रोधोत्पादनमधिक्षेपोऽसकृन्मत्याऽलीकनिर्बन्धश्च ५ राजगामिपैशून्यम् ६ गुरौ महाद्वेषः ७ नास्तिक्याद्वेदनिन्दा ८ कुशास्त्राध्ययनेन वितण्डावादेन चाधीतवेदानां नाशनम् ९ एतानि ब्रह्मवधसमानानि।

सुरापानसमानि तु—लशुनविड्वराहच्छत्राकग्रामकुक्कुटपलाण्डुगृञ्जनानां मत्याऽत्यन्ताभ्यासेन भक्षणम् १ विप्रव्यतिरिक्तमित्रवधः २ गुरुविषये मिथ्याभिशंसनेनान्यथावादित्वमन्यथाकर्तृत्वं कौटिल्यं वाङ्मनःकर्मणामनार्जवरूपं कौटिल्यं च ३ आत्मोत्कर्षार्थं राजकुलादावनृतभाषणम् ४ रजस्वलामुखचुम्बनं कूटसाक्ष्यं वेदत्यागो वेदनिन्दा त्यु(तत्क) र्त्रोरन्नभुक्तिरिति सुरापानसमानानि।

स्वर्णस्तेयसमानि तु—विप्रसंवन्ध्यश्वरत्नमनुष्यस्त्रीधेनुहरणं निक्षेपहरणं चार्वाक्सुवर्णमानादिति स्वर्णस्तेयसमम्।

गुरुतल्पसमानि तु—दुहितृस्नुषाभगिनीषु भागिनेयीषु सगोत्रदुहितृभगिनीषु सकामास्वाचार्यपत्नीतत्तनयाश्वश्रूषु पितृव्यभ्रातृमातुलमातामहश्रोत्रियऋत्विगुपाध्यायमित्रशिष्यस्त्रियस्तत्कन्याश्चोदक्यां निक्षिप्तां प्रव्रजितां व्रतस्थामुत्तमब्राह्मणीं सगोत्रां शरणागतां राजसखीं राजपत्नीं सापत्नभगिनीं स्तनधात्रीं सखीं च गच्छन्पौत्रीं दौहित्रीं पतिव्रतां पितृसखीं भ्रातृभगिन्योः सखीं पितृमातृष्वसारं कुमारीमन्त्यजां म्लेच्छां पुल्कसीं च गच्छन्गुरुतल्पगसमः।

अनुपातकानि तु–तथा मातृपितृयोनिसंबद्धासु गामी स्तेननास्तिक- निन्दितकर्माभ्यास्यनिन्दितकर्मत्यागीपतितात्याग्यपतितत्यागिनः पतिताः पातकसंयोज्य( ज) काश्चेत्यनुपातकानि।

अतिपातकानि तु—मातृगमनं सापत्नमातृगमनं स्वसृस्नुषयोर्गमनमित्यतिपातकानीति गौडनिबन्धेषु।

पापिनः पञ्चधा साक्षात्कर्त्रनुग्राहकप्रयोजकानुमन्तृनिमित्तकर्तृभेदात्।

साक्षात्कर्तुः (र्ता १) पालनादिनोपकारकोऽनुग्राहकः २ आज्ञापयिताऽभ्यर्थयितोपदेष्टा च प्रयोजकः ३ स्वार्थं परार्थं वाऽनुमतिकर्ताऽनुमन्ता ४ अनिमित्तं भर्त्सनताडनधनहरणादिना कोपं जनयंस्तन्मरणे निमित्तं भवेत्स निमित्तकर्ता ५ एषूत्तरोत्तरमल्पदोषत्वं प्रायश्चित्ताल्पत्वं च बोध्यम्।

पापिनां प्रायश्चित्ताकरणेऽन्यजन्मनि देहप्राप्तिः। पापिनां प्रायश्चित्तोन्मुखत्वाय जन्मान्तरभाविनः कर्मविपाकाः कतिचिदुच्यन्ते–अज्ञानतो ब्रह्महा श्वशूकरोष्ट्राणां क्रमेण योनिमेति। सुरापः खरपुल्कसवेनानाम्। स्वर्णस्तेयी विट्जातकृमिकीटपतङ्गत्वं क्रमेण याति। गुरुतल्पगस्तृणगुल्मलतात्वं क्रमाद्याति। ज्ञानतो ब्रह्महा श्वसूकरोष्ट्रखरगोजाविमृगपक्षिचाण्डालपुल्कसानां योनिमति। सुरापो विट्कृमिकीटपतंगपक्षिहिंस्रत्ववताम्। स्वर्णस्तेयी ऊर्णनाभकृकलासतिरश्चांपशुपक्ष्यादीनां च द्योचारिणां च हिंस्राणां पिशाचानां सहस्रशो योनिं याति। गुरुतल्पगस्तृणगुल्मलतानां क्रव्यादानां क्रूरकर्मणां च। तत्संयोगी च तद्वत्। परस्त्रीहारी द्रव्यहारी च निर्जलारण्ये ब्रह्मराक्षसः। अनध्यायाध्यायी दुष्प्रतिग्राही च सृगालः। अन्नरत्नयोर्हर्ताऽजीर्णव्याधिरतिदरिद्रो वा। वेदवाग्वेदपुस्तकानां चोरो मूकः। पत्रशाकयोर्मयूरः। हेमरत्नानां हेमकारी पक्ष्यतिदरिद्रो वा। न्यासस्यानपत्यो धनहीनश्च। सुगन्धानां छुच्छुन्दरी। धान्यानां मूषकः। तिलानां तैलस्य च तैलपायी कीटः। परस्वहृन्नानातिर्यक्। अहुतं हविरश्नन्हरन्वा श्वाऽतिदुःखी वा। यानं हरन्नुष्ट्रः। फलं कपी। जलं जलप्लवः पक्षी मत्स्यो वा। क्षीरं काको बलाको वा। गृहोपस्करं गृहकारी कीटः। मधुहरन्दंशकः कीटः। मांसं गृध्रः। गां गोधा सर्पो वा। अग्निं बकः। वस्त्रं कुष्ठी पतंगो वा । रसं श्वा। लवणं चीरी(णचोर)उच्चैःस्वरः कीटः। तैजसं मण्डली। गोब्राह्मणदेवस्वं पाण्डुरोगी। न्यासं काणोऽनपत्यो वा। शय्यां क्षपणकः। शङ्खं शुक्तिं वा कपाली। दीपं कौशिकः। स्नेहं क्षयी। पशुं परप्रेष्यः। यद्धरति तत्तत्प्रकारकः प्राणी तद्विकलो वा भवति। ब्राह्मणीगामी निर्बीजी। मातरं स्नुषां वा गच्छन्वातवृषणः। चाण्डालीं पुल्कसीं वाऽजगरः। प्रव्रजितां मरुपिशाचः। शूद्रीं दीर्घकीटः। सवर्णां दरिद्रः। राजस्त्रियं नपुंसकः। गां गच्छन्मण्डूकः। पिशुनो दुर्गन्धनासिकः। सूचको दुर्गन्धास्यः। देवब्राह्मणकोशकः खलतिः। गरदाग्नि-

दावुन्मत्तौ। गुरुं प्रति हन्ताऽपस्मारी। गोघ्नश्चान्धः। धर्मपत्नीं त्यक्त्वाऽन्यत्र प्रवृत्तः शब्दवेधी प्राणी। कुण्डाशी भगभक्षकः। स्त्रीपण्यजीवी षण्ढः। कौमारदारत्यागी दुर्भगः। मिष्टकाद*4शी वानरो वातगुल्मी वा। अभक्ष्यभक्षको गण्डमाली। क्रूरकर्मा राक्षसः। मित्रध्रुक्क्षयी। मातापित्रोरनृतवास्खलद्गीः। कूटसाक्ष्युच्छिन्नजङ्घाचरणः। विवाहविघ्नकर्ता छिन्नोष्ठः। विप्रावगोरणे छिन्नहस्तः। चतुष्पथे विण्मूत्रोत्सर्गे मूत्रकृच्छ्री। कन्यादूषकः षण्ढः। ईर्ष्यालुर्मशकः। पित्रादिविवदमानोऽपस्मारी। विद्याविक्रयी पुरुषमृगः। वेदविक्रयी द्वीपी। बहुयाजको जलप्लवः। अयाज्ययाजको वराहः। अनिमन्त्रितभोजी वायसः। इतस्ततोऽश्नन्मार्जारः। कक्षवनदाही खद्योतः। दारकाचार्यो मुखदुर्गन्धिः। पर्युषिताशी कृमिः। अदत्तादायी बलीवर्दः। मत्सरी भ्रमरः। अग्न्युत्सादी मण्डलकुष्ठी। शूद्राचार्यः श्वपाकः। वार्धुषिकोऽङ्गहीनः। अपण्यविक्रयी गृध्रः। राजक्रोशको गर्दभः। मत्स्यवेधी गर्भवासी। आचार्यभार्यागामी भगंदरी। भृतकाध्यापकोऽर्शरोगी। तीर्थेमूत्रा- द्युत्सर्गकरश्चेत्यन्यत्र विस्तरः। स्त्रीणामप्येतद्दोषेषु तत्तज्जाती(ति)स्त्रीत्वम्।

अथ कृच्छ्रादिनिर्णयः। अथ वक्ष्यमाणप्रायश्चित्तव्रतरूपकृच्छ्रादिनिर्णयः। दिनं विलङ्घ्य रात्रौ सार्धयामाभ्यन्तरे मितभोजनं नक्तव्रतम्। तदशक्तौ गुञ्जाद्वयपरिमितरूप्यमाषकदानम्। तदभावे तन्मूल्यम्। दिवारात्रमभोजनमुपवासः। तदशक्तौ रूप्यमाषत्रयदानम्। एकविप्रभोजनं वा। सहस्रगायत्रीजपो वा। द्वादशप्राणायामा वा।

प्रायश्चित्ते संकल्पः—अद्येत्यादि अमुकगोत्रोऽमुकशर्माऽमुककर्मजन्यपापक्षयकामो नक्तव्रतं करिष्ये। तदशक्तौ प्रतिनिधिरूपमिमं रौप्यमाषकं चन्द्रदेवत्यममुकनामगोत्राय विप्रायाहं संप्रदद इति। इदं मूल्यं विष्णुदेवत्यमिति वा संकल्प्य दानं विप्रं च संपूज्य द्रव्यमालभ्य संपोक्ष्य दद्यात्। प्राजापत्यं तु—

त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम्।
त्र्यहं परं च नाश्नीयात्प्राजापत्यः स उच्यते॥
सायं द्वाविंशतिग्रसाः प्रातः षड्विंशतिस्तथा।

अयाचिते चतुर्विंशतिः सायं द्वादश प्रातः पञ्चदशेति वा। ग्रासस्तु कुक्कुटाण्डप्रमाणो यावान्वा मुखं प्रविशेत्। अत्र शक्त्यां व्यवस्था। उपवासस्तु फलादिद्वारा वा कार्यः।

अष्टैतान्यत्रतन्नानि आपो मूलं फलं पयः।
हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम्॥ इत्युक्तेः।

परंतु परिमितमेवेति गौडाः। इदमपि नेत्यपरे। यद्वा क्रमेणैकभक्त नक्तायाचितोपवासाः। एवं त्रिरावृत्तिः। इदं षडुपवाससमम्। तदशक्तौ पयस्विन्या धेनोर्दानम्। तदभावे गोमूल्यम्। गोमूल्यं तु —

गवामभावे निष्कं स्यात्तदर्धंपादमेषवा॥ इति।

निष्कं तु—सुवर्णचतुष्टयसमतोलितं रूप्यं निष्कम्। रूप्यपरिमाणे ’ निष्कं सुवर्णाश्चत्वारः’ इति याज्ञवल्क्यात्।

धेनुः पञ्चभिराढ्यानां मध्यानां त्रिपुराणिका।
कार्षापणैकमूल्याऽपि दरिद्राणां प्रकीर्तिता॥

इति षट्त्रिंशन्मते। पञ्चभिः पुराणैरिति शेषः। पुराणश्च—षोडशमाषपरिच्छिन्नं रजतम्। कृष्टालस्तु–रक्तिकाख्यगुञ्जापरिमितः कृष्टालः। माषकं तु—तद्द्वयपरिमितं रूप्यं रूप्यमाषकम्। यद्वा पणषोडशकं पुराणः। पुराण एव कार्षापणशब्देन कार्षिकशब्देन चोच्यते। पणस्तु–अशीतिरक्तिकापरिमितं ताम्रशीतिर्वराटिका वा। ताम्रपण एव कर्ष उच्यते। रौप्यः पुराणो दक्षिणस्यां पणैः पूर्वस्यामिति व्यवस्था। वृषे षट् कार्षापणा देयाः। पञ्चेति शूलपाणिः। केवलगोमूल्यं तु पुराणत्रयमुत्तमः पक्षः। द्वात्रिंशत्पण मध्यमः। एकपुराणोऽधम इति गौडाः।

दश कार्षापणा धेनावश्वे पञ्चदशैव तु।
द्वात्रिंशत्पणिका गावो ह्यष्ट वा न तु हीनता॥

इति तु प्रायश्चित्तातिरिक्तदक्षिणाप्रसङ्गे धनवतो बोध्यम्।

प्रसङ्गात्स्वर्णमानव्यवस्थाऽप्युच्यते। गुञ्जापरिमितकृष्टालपञ्चकं स्वर्णमाषः। षोडश माषाअक्षशब्देन सुवर्णशब्देन कर्षशब्देन विस्तशब्देन चोच्यन्ते। सुवर्णाश्चत्वारः पलं निष्कश्च। दश पलानि

धरणमिति मनुस्मृतौ। ‘साष्टे शते सुवर्णानां हेम्न्युरोभूषणे पले। दीनारेऽपि च निष्कोऽस्त्री’ इत्यमरः। राजतः पुराणोधरण इत्युच्यते। दशभिर्धरणै राजतं शतमानमित्युच्यते। तदेवं राजतं पलमप्युच्यत इति। पलशतं तुला। तुलाविंशतिकं भारः। आचितो दशभारः । स एव शाकट इत्युच्यते। धेनुमूल्यसममूल्यं भूवनधान्यवत्रस्वर्णरूपयादि वा दद्यात्। गायत्र्ययुतजपो वा कृच्छ्रस्थाने प्रत्याम्नायः। गायत्र्या द्वादशाधिकसहस्रसंख्याकः समिद्घृतहविर्धान्यानामन्यतमस्य होमो वा। तिलहोमस्तु सहस्र एवेति केचित्। घृताहुतिशतद्वयं वा। वेदसंहितापारायणं वा। प्राणायामशतद्वयं वा। द्वादशविप्रभोजनं वा। एकोपवासपूर्वकं द्वादशतिलपात्रदानं वा। तीर्थोद्देशेन योजनगमनं वा। रुद्रैकादशिनी वा। शिरःशोषणपूर्वकं द्वादश साङ्गस्नानानि वा। प्राजापत्यमेव कृच्छ्रः।

पादोनकृच्छ्रं तु—द्व्यहं प्रातद्व्यहं सायं द्व्यहमद्यादयाचि तम्। द्व्यहमुपवास इति। अत्र चतुःपणाधिककार्षापणद्वयमशक्तौ देयम्। एकभक्तायाचितोपवासपादैरेतदिति स्मृत्यर्थसारे। कृच्छ्रार्धं तु—सायं प्रातस्तथैवैकं दिनद्वयमयाचितम्। द्व्यहमुपवासः। अयाचि तोपवासपादाभ्यामिति स्मृत्यर्थसारे। इदं सार्धकार्षापणसममिति गौडाः। पादकृच्छ्रं तु– एकैकदिनक्रमेण दिनचतुष्टयम्। इदं द्वादश पणसमम्। इदमेव शिशुकृच्छ्र। विप्रादिवर्णक्रमेणोपवासत्रयायाचितत्रयनक्तत्रयैकभक्तंत्रयरूपाः पादकृच्छ्रा इत्यापस्तंबः।

अयमेत्रातिकृच्छ्रः स्यात्पाणिपूरान्नभोजनैः॥

अत्र येषु नक्तादिदिनेषु भोजनं तेषु पाणिपूरान्नता। नवाहमेकैकग्रासोऽन्त्य त्रिदिनमुपवासोऽतिकृच्छ्र इति मनुः। अत्र प्राजापत्यत्रयमिति चतुर्विंशतिमते। कृच्छ्रातिकृच्छ्रः पयसा दिवसानेकविंशतिः। पयोऽत्र जलम्। तच्च सायंप्रातर्मध्याह्नेषु पेयम्। द्विगुणोऽतिकृच्छ्र एव कृच्छ्रातिकृच्छ्र इति यमः। तेनायं षट्पाजापत्यसमः। तप्तकृच्छ्रं तु—

तप्तकृच्छ्रं चरन्विप्रोजलक्षीरघृतानिलान्।
प्रतित्र्यहं पिबेदुष्णान्सकृत्स्नायी समाहितः॥

उष्णोदकान्निर्गतस्य बाष्पस्य पानसुष्णानिलपानम्। एतच्च गात्रपूरणमात्रपर्यन्तम्। उष्णादङ्गाराद्वा। तत्र षट्पलमम्बु। त्रिपलं क्षीरम्।

एकपलं घृतम्। एष एव शीतैः शीतकृच्छ्रः। अत्र धेनुत्रयमिति षट्त्रिंशन्मते। अतिकृच्छ्रतप्तकृच्छ्रयोर्धेनुद्वयमित्यपरार्कभवदेवौ। धेनुचतुष्टयमिति शूलपाणिः।

तप्तक्षीरघृताम्बूनामेकैकं प्रत्यहं पिबेत्।
एकरात्रोपवासश्च तप्तकृच्छ्रमुदाहृतम्॥

इत्यपरस्तप्तकृच्छ्रः। अत्रैका धेनुः।

पर्णकृच्छ्रं तु—पर्णोदुम्बरसजीवबिल्वपत्रकुशोदकैः।
प्रत्येकं प्रत्यहं पीतैः पर्णकुच्छ्र उदाहृतः॥

एषां पक्वोदकैरित्यर्थः। पर्णः पलाशः। राजीवं पद्मम्। अयं पञ्चाहसाध्यः। सार्धोपवासद्वयतुल्यः। त्रिरात्रोपवासान्ते पलाशादि- पञ्चकक्काथोदकपाने परः पर्णकृच्छ्रः। चतुर्दश्यामुपोष्य परेद्युः पूर्णिमायां पञ्चगव्यपानेन ब्रह्मकूर्चः। पञ्चगव्यप्रमाणं तु तत्र—

गोमूत्रं कृष्णवर्णायाः श्वेतायाश्चैव गोमयम्।
पयश्च ताम्रवर्णाया रक्ताया गृह्यते दधि॥
कपिलाया घृतं ग्राह्यं सर्वं कापिलमेव वा।
मूत्रमेकपलं दद्यादङ्गुष्ठार्धंतु गोमयम्॥
क्षीरं सप्तपलं दद्याद्दधि त्रिपलमुच्यते।
घृतमेकपलं दद्यात्पलमेकं कुशोदकम्॥

एतच्च गायत्र्या गोमूत्रमित्यादिसमन्त्रकं कार्यम्। पञ्चगव्यपानं च भोजस्थाने। अत्रार्धाधेनुः। अत्र होमोऽप्यस्ति। पञ्चगव्यहोमश्च सप्तपत्रैरच्छिन्नाग्रैःकुशैरिरावती इदं विष्णुर्मा नस्तोके शंवती इति ऋग्भिः कार्यः। हुतशेषं प्रणवेनाऽऽलोड्य प्रणवेन गृहीत्वा मध्यमपलाशपत्रेण स्वर्णपात्रेण ताम्रपात्रेण वा ब्रह्मतीर्थेन पिबेत्। एव द्विरात्रःसांतपनकृच्छ्र इति स्मृत्यर्थसारे।

पराकस्तु द्वादशरात्रोपवासः। अत्र पञ्च धेनव इति शूलपाणिः। द्वे इत्यपराभवदेवौ। तिस्र इति षट्त्रिंशन्मतम्।

सौम्यकुच्छ्रस्तु—पिण्याकाचामतक्राम्बुसक्तूनां प्रतिवासरुम्।
एकरात्रोपवासश्च सौम्यकृच्छ्रोऽयमुच्यते ॥

पिण्याकं तिलपिण्डः। आचाम ओदनस्रावः। तक्रं जलं सक्तवश्च क्रमेण पञ्चदिनेषु षष्ठेऽहन्युपवासः। अत्रैका धेनुरिति केचित्। अर्धोचिता।

पिण्याकं सक्तवस्तक्रंचतुर्थेऽहन्यभोजनम्।
वासो वै दक्षिणां दद्यात्…

इत्यपरः सौम्यः कृच्छ्रः।

अत्रोभयत्र प्राणयात्रामात्रनिर्वाहक्षमं पिण्याकादि ग्राह्यम्। पिण्याकादीनां पञ्चानां प्रत्येकं त्रिरात्रोपयोगाभ्यासे पञ्चदशदिनस्तुलापुरुषः। पिण्याकांदिपञ्चानामेकैकदिनोपयोगोत्तरं त्रिरात्रमुपवासेऽष्टदिनसाध्यस्तुलापुरुषः। एषां पञ्चानामेकैकस्य त्र्यहभोजने त्र्यहं द्व्यहं वायुभक्षणे चैकविंशतिरात्रसाध्यः सः।

वारणकृच्छ्रस्तु—मासं परिमितसक्तूदकपाने वारणकृच्छ्रः । श्रीकृच्छ्रस्तु—

त्र्यहं पिबेत्तु गोमूत्रं त्र्यहं वै गोमयं पिबेत्।
त्र्यहं यावकमेष श्रीकृच्छ्रः स्यात्सर्वसंमतः॥

यावककृच्छ्रः—यवानामप्सु साधितानां सप्तरात्रं पक्षं मासं वा प्राशने यावककुच्छ्रः।

जलकृच्छ्रस्तु—अनशनो जलस्थोऽहोरात्रं क्षिपेदेष जलकृच्छ्रः। उदकसक्तूनां मासाभ्यवहारेणापरः।

बिल्वैर्वा फलकैर्वाऽपि पद्माक्षैरथवा शुभैः।
मासाशनेन श्रीकृच्छ्रः कथ्यते च द्विजोत्तमैः॥

वज्रकृच्छ्रस्तु—गोमूत्रयावकपान एको वज्राख्यः कृच्छ्रः। इति कृच्छ्रनिर्णयः।

अथ सांतपनानि—पूर्वेद्युः पञ्चगव्यमात्राशनं परेद्युरुपवास इति द्वैरात्रिकं सांतपनम्। एतदशकावेकः पुराणः।

यतिसांतपनं तु—पञ्चगव्यं त्र्यहाभ्यस्तं यतिसांतपनं स्मृतम्। अत्र चतुर्थ उपवासः। अत्रापि होमः। पञ्चगव्योपवासाः पञ्च। षष्ठ उपवास इति षडहाः सांतपनम्।

महासांतपनस्तु–—गोमूत्रगोमयक्षीरविसर्पिःकुशोदकानि क्रमेणैकैकं प्रत्यहं पीत्वैकरात्रोपवासे सप्ताहसाध्यो महासांतपनः। अत्र धेनुद्वयम्। इतरेषु प्रागुक्तसांतपनेषु साधोगौरिति षट्त्रिंशन्मते। प्रथम उपवासस्ततः क्रमेण तेषां षण्णां पानमिति प्राञ्चः। गोमूत्रगोमयक्षीरदधिसर्पिषां क्रमेणैकैकस्य त्र्यहं त्र्यहमुपयोगे पाञ्चदशाहिकं तत्।’ षण्णामेकैकमेतेषां त्रिरात्रमुपयोजयेत्। त्र्यहं चोपवसेदन्त्यम्। इत्येकविंशतिरात्रसाध्यमेतत्। ‘एतान्येव तु पेयानि एकैकं तु द्व्यहं द्व्यहम्। अतिसांतपनं त्वेतत्’। इति द्वादशरात्रसाध्यम्। इति सांतपनानि।

अथ चान्द्रायणानि । पिपीलिकामध्यचान्द्रायणं तु—

एकैकं ह्रासयेत्पिण्डं कृष्णे शुक्ले च वर्धयेत्।
उपस्पृशंस्त्रिषवणमेतच्चान्द्रायणं स्मृतम्॥

कृष्णप्रतिपद्यस्यारऽऽम्भः। कृष्णप्रतिपदि चतुर्दश ग्रासान् ग्रसित्वा तत एकैकं ह्रसित्वा चतुर्दश्यामेकं ग्रसित्वाऽमायामुपोष्य पुनः शुक्लप्रतिपदमारभ्य पूर्णिमान्तं यावद्वर्धयेत्। ग्रासश्च मयूराण्डप्रमाण आर्द्रामलकप्रमाणो वा। इति पिपीलिकानध्यम्।

यवमध्यचान्द्रायणं तु-

एवमेव विधिं कृत्स्नमाचरेद्यवमध्यके।
शुक्लपक्षादि नियतं चरेच्चान्द्रायणव्रतम्॥

अत्र शुक्लप्रतिपदादि ग्रासवृद्धिःपूर्णिमान्तम्। ततो ह्रासोऽमान्तः। अनयोरष्ट धेनवः। वृषभसहिता चात्र गौर्दक्षिणा। सार्धसप्त धेनव इति शूलपाणिः। इदमतिधनिनः। निर्धनस्य तु प्राजापत्यत्रयमित्येके। अत्रैकादश्यादिव्रतलोपो न दोषावहः।

यतिचान्द्रायणं तु—

अष्टावष्टौ समश्नीयात्पिण्डान्मध्यंदिने स्थितः।
नियतात्मा हविष्याशी यतिचान्द्रायणं स्मृतम्॥

मासमिति शेषः। एतत्प्राजापत्यचतुष्टयसममिति बृहद्विष्णुः। शिशुचान्द्रायणं तु—

चतुरः प्रातरश्नीयात्पिण्डान्वियः समाहितः।
चतुरोऽस्तमिते सूर्ये शिशुचान्द्रायणं स्मृतम्॥

ऋषिचान्द्रायणं तु-

त्रींस्त्रीन्पिण्डान्संमश्नीयान्नियतात्मा दृढव्रतः।
हविष्यान्नस्य वै मासमृषिचान्द्रायणं स्मृतम्॥

अनुपदोक्ताभ्यां किंचिदधिकद्विगुणमेतत्। अनुपदोक्तयोश्चतुष्टयधेनुदानमिति शूलपाणिः। यत्तु ऋषिचान्द्रायणेऽपि तावदेवेत्युक्तं यच्चान्यैर्धेनुत्रयमित्युक्तं तत्रोपपत्तिश्चिन्त्या।

सोमायनव्रतं तु— गोक्षीरं सप्तरात्रं तु पिबेत्स्तनचतुष्टयात्।
स्तनत्रयात्सप्तरात्रं सप्तरात्रं स्तनद्वयात्॥
स्तनात्तथैव षड्रात्रं त्रिरात्रं वायुभुग्भवेत्।
एतत्सोमायनं नाम व्रतं कल्मषनाशनम्॥

प्रतिदिनसंख्यानियमानादरेण मासत्रयम्। चत्वारिंशदधिकशतद्वयग्रासानां पञ्चविंशत्यधिकशतद्वयग्रासानां वाऽशनेऽपि चान्द्रायणम्। आद्यद्वयातिरिक्तचान्द्रायणानां दिनान्तरेऽप्यारम्भो न प्रतिपद्येवेति नियमः। इति चान्द्रायणानि।

पञ्चगव्यपरिमाणं तु-

गोशकृद्द्विगुणं मूत्रं घृतं विद्याच्चतुर्गुणम्।
क्षीरमष्टगुणं प्रोक्तं पञ्चगव्ये तथा दधि॥ इति।

तथाऽष्टगुणामति प्राञ्चः।

गोमूत्रमाषकाण्यष्टौ गोमयस्य तु षोडश।
क्षीरस्य द्वादश प्रोक्ता दध्नः पञ्चदशेति च॥

मूत्रवद्घृतस्य। कुशोदकसाहित्यं चात्रेत्यन्ये। दधनिदश माषाः। कुशोदके तदर्धतेति स्मृत्यर्थसारे। ताम्रवर्णाया गोमूत्रम्। श्वेताया गोमयम्। पीतायाः क्षीरम्। नीलाया दधि। कृष्णायाः सर्पिरिति च। तच्च प्रणवेनाऽऽहृत्य तेनैवाऽऽलोड्य तेनैवाऽऽदाय तेनैव पिबेदि- त्युक्तम्।

वक्ष्यमाणप्रायश्चित्तेषु सामान्यतो व्रतशब्दो गोमूत्रयावकाहारपरः। दिनरात्रिशब्दौ तत्तद्वचनावेव। उपवासा*5भिव्याहारे त्वहोरात्रवचनौ। अहःशब्दश्चाहोरात्रपर इति क्वचिद्ग्रन्थे व्यवस्थोक्ता। मासोपवासे पञ्चदश प्राजापत्यानि। तथा कृच्छ्राब्दं त्रिंशद्धेमुसमम्।

गोमूत्रपाचितयावकस्य मासं पाने द्वादश प्राजापत्यानि। पाकोत्तरमीषद्गोमूत्रयुक्तपाने कृच्छ्रद्वयम्। त्रिंशन्नक्तैर्दशोपवासास्तत्र कृच्छ्रचतुष्टयम्। उपवासस्थान एको विप्रो भोज्यः। शक्तेन द्वौ। सहस्रगायत्रीजपो वा। द्वादश प्राणायामा वा। द्वादशवार्षिकादिषु द्वादशादिनैरेकेकप्राजापत्यकल्पना। अत एव चतुर्विंशतिमते––

कृत्वाऽर्वाग्ब्रह्महत्यायाः षडब्दं कृच्छ्रमाचरेत्।
प्रत्याम्नायो गवां देयः साशीतिर्धनिनां शतम्॥
तथाऽष्टादशलक्षाणां गायत्रीं वा जपेद्बुधः। इति।
गायत्र्यास्तु जपेत्कोटिं ब्रह्महत्यां व्यपोहति॥ इति।

द्वादशाब्दसमकक्षं न प्रत्याम्नाय इति बोध्यम्। त्रैमासिके सार्धसप्त प्राजापत्यानि। मासिके व्रते सार्धप्राजापत्यद्वयम्। मासं पञ्चगव्यपानेष्वेवम्। षडुपवासेऽप्येकं प्राजापत्यम्। मासं पयोव्रते सार्धप्राजापत्यद्वयम्। वृषभैकादशदशगोदानसहितत्रिरात्रोपवासा- त्मकगोवधव्रते सार्धैकादश त्रैमासिकगोवधव्रते सार्धसप्तेति स्मृत्यर्थसारे। योगीश्वरोक्तमासिकव्रतेत्रीणि तत्सममेकं चान्द्रायणं चेति मिताक्षरा। यत्तु ब्रह्मवधोक्त द्वादशवार्षिकेऽशीत्युत्तरशतधेनवस्तावन्ति प्राजापत्यानि वेति प्राञ्चस्तत्प्रागुक्तचतुर्विंशतिमतविरुद्धमित्येके।

अथ कृच्छ्रस्थाने तीर्थप्रत्याम्नाया उच्यन्ते–भागीरथ्यां स्नानं षष्टियोजनागतस्य षडब्दकृच्छ्रसमम्। अत्र यात्रायोजनवृद्धौयोजनस्यार्धकृच्छ्रवृद्धिः। एकयोजनागतस्य मध्ये पर्वतादिव्यवधाने कृच्छ्रत्रयम्। तृतीयांशाधिकक्रोशादागतस्य भागीरथ्यां विध्युक्तस्नाने एकः कृच्छ्रः। प्रयागे द्विगुणं गंगाद्वारे गंगासागरसंगमे चैवम्। वाराणस्यामगणितम्। वाराणस्यां पातकं न प्रविशति। सर्वत्र यात्राभाषाभेदकृतदेशान्तरविषये महापर्वतव्यवधाने महा[ नदी] व्यवधाने च क्रमेण द्वादशाष्टचतुर्योजनन्यूना षट्चतुर्द्वियोजनन्यूना वा। विंशतियोजनागतस्य यमुनासरस्वत्योः स्नानमब्दसमम्।अब्दद्वयसममित्यन्ये।मथुराद्वारवत्योर्द्विगुणम्। प्रभासेऽप्येवम्। दृषद्वतीशतद्रुविपाशावितस्ताशरावती- मरुद्वृधासिक्नीमधुमतीपयस्विन्यादिषु देवनदीषु स्नानं त्रिंशद्योजनागतस्याब्दसमम्। पञ्चदशयोजनागतस्येत्यन्ये। चन्द्रभागावेत्रवतीसरयूगोमतीदेविकाकौशिकीमन्दाकिनीपुनः- पुनापूर्णापुण्याबाहुदावारुणीग-

ण्डक्यादिदेवनदीषु द्वादशयोजनागतस्य षोडश कृच्छ्राणि। एतासां परस्परसंगमे द्विगुणम्। त्रिगुणमित्यन्ये। अन्यासु समुद्रगासु नदीषु द्वादशेयाजनागतस्य षट्कृच्छ्रसमम्। महानदेषु नद्यर्धंशोणनदे गंगार्धसमम्। पुष्करे प्रयागसमम्। संनिहित्यां नर्मदायां चतुर्विंशतियोजनागतस्य चतुर्विंशतिकृच्छ्रसमम्। कुब्जिकासंगमे द्विगुणम्। शुक्लतीर्थे चतुर्गुणम्। गोदावर्यां षष्टियोजनागतस्य त्र्यब्दसमम्। वंजराप्रणीतयोर्भर्मदावत्। पूर्णायां योजनार्धेकृच्छ्रः। कृष्णवेणीतुङ्गभद्रयोः प्रतियोजनं कृच्छ्रम्। पम्पायां द्विगुणम्। हरिहरे त्रिगुणम्। कुल्याः स्त्रानेन त्रिरात्रोपवासफलदाः। अल्पनद्यः कृच्छ्रफलदाः। नद्यो द्विकृच्छ्रफलदाः। उक्तान्यसर्वतीर्थेषु रामक्षेत्रश्रीरङ्गादिक्षेत्रेषु योजनसंख्यया कृच्छ्रसंख्या। एकयोजनादिषड्योजनगान्ताः स्रवन्त्यः कुल्याः। द्वादशयोजनगा अल्पनद्यः। चतुर्विंशतियोजनगा नद्यः। तदधिकगा महानद्यःसमुद्रगाश्च। उपवाससहितं नदीस्त्रानं कृच्छ्रसमं योजनादर्वागपि। शुनीगर्दभीचाण्डालीशूद्रीकष्टगा नद्यः पापनद्यथ वर्ज्याः। सर्वत्र समुद्रस्नानं दर्शे कार्यम्। देवतासमीपे सरःसरिन्नदीसंगमेषु च सदा कार्यम्। समुद्रस्नाने पञ्चदशयोजनागतस्य पञ्चदश कृच्छ्राणीत्यादिस्मृत्यर्थसारे विस्तरः। परार्थं गन्ता तीर्थषोडशांशं लभते। प्रसङ्गेन। गन्ताऽर्धफलम्। अनुषङ्गेण तीर्थं प्राप्य स्नाने स्नानफलमेव [न] यात्राफलम्। पितामहभ्रातृमातामहपितृव्यमातुलश्वशुरपोषकार्थं गुर्वाचार्योपाध्यायार्थं तेषां पत्न्यर्थं पितृष्वसृमातृष्वस्रर्थं च स्नात्वा स्वयमष्टमांशं लभते। पित्रोरर्थे कुर्वन्पुत्रश्चतुर्थांशम्। दंम्पती च सपत्न्यश्च लभन्तेऽर्धंमिथः फलम्। आर्थिनां च न फलह्रासः। कर्कादौ मासद्वये निरन्तरं रजस्वला नद्यः। तास्वपि गोमती चन्द्रभागा सिधुर्नर्मदा शरयूश्च त्रिरात्रम्। वापीकूपतडागादिषु स्थितपुराणोदकेषु त्रिरात्रम्। सरस्वतीगङ्गायमुनादयो न कदाऽपि रजस्वलाः।

अथ व्रताङ्गभूता धर्मा यमा नियमाश्च।ब्रह्मचर्यं दया क्षान्तिर्दानं सत्यमकौटिल्यमस्तेयमहिंसा माधुर्यं दमश्चेति दश यमाः। स्नानं मौनोपवासेज्यास्वाध्यायोपस्थनिग्रहगुरुशुश्रूषाशौचाक्रोधाप्रमादता इति नियमा दश।

अथ प्रायश्चित्तपूर्वाहकृत्यम्॥ केशनखादिवपनं कृत्वा स्नात्वा घृतं प्राश्य प्रदोषे गृहाद्बहिर्व्रतकालसंख्योल्लेखपूर्वकं संकल्पः कार्यः। वपनं च महापातकगोवधातिरिक्ते विद्वद्विप्रनृपयोः सधवस्त्रीणां नास्ति। तत्र सधवानां सर्वान्केशान्समुद्धृत्य द्व्यङ्गुलच्छेदनमेव तत्। तीर्थेष्वप्यासामेवमेव। विधवानां सर्ववपनम्। केशधारणेच्छायां द्विगुणितं कार्यम्। तत्र दक्षिणाऽपि द्विगुणा। वपनं च दिनत्रयसाध्यव्रते नखरोमच्छेदनमात्रम्। षड्दिनसाध्ये श्मश्रुणोऽपि नवदिनसाध्ये शिखावर्जम्। तदूर्ध्वं सशिखम्। त्रिषड्दिनयोः स्त्रीणां नैव तत्। धेनुदानादावप्येवं विशेष ऊह्यः। अस्य नैमित्तिकत्वात्सदा बद्धशिखेनेत्यनेनाविरोधः।

प्रायश्चित्ते तिथयः—प्रायश्चित्तं चाष्टमीचतुर्दश्योर्न कार्यम्। चतुर्दश्यां संकल्प्यामायां कार्यमिति शिष्टा। तत्र पापं द्विविधम्। रहस्यं प्रकाश्यं च। कर्तृव्यतिरिक्तैरज्ञातदोषं रहस्यम्। तत्र रहस्ये प्रायश्चित्तम्। प्रकीर्णकादिषु पञ्चविंशतिः प्राणायामाः। उपपातके शतम्। अनुपातके द्विशतम्। महापातके चतुःशतम्। सर्वत्राभ्यासे द्विगुणम्। मत्या त्रिगुणम्। मत्याऽभ्यासे चतुर्गुणम्। यद्वाःगायत्र्या लक्षजपो महापापे। पादोनलक्षजपोऽतिपातके। अर्धलक्षमनुपातके। पादलक्षमुपपातके। तदर्धार्धं प्रकीर्णकादिषु । अत्राप्यभ्यासादौ द्वैगुण्यादि योज्यम्।अन्यान्यपि महापातकादिषु रहस्यप्रायश्चित्तानि विस्तरेण निबन्धेभ्यो ग्राह्याणि। अविद्वान्मुखान्तरेण व्याजात्प्रायश्चित्तं ज्ञात्वा रहसि चरेत्। विद्वांस्तु स्वयमेव ज्ञात्वा चरेत्। दशलक्षगायत्रीजपः सर्वपापप्रायश्चित्तम्।

सर्वेषामेव पापानां संकरे समुपस्थिते ।
शतं सहस्रशोऽभ्यस्ता गायत्री पावनं महत् ॥

इति स्मरणात्। भस्माच्छन्नो भस्मशयानो रुद्रजापी सर्वपापान्मुच्यते। स चैकादशवारम्। सर्वशब्देन महापातकातिरिक्तं ग्राह्यमिति केचित्। महापापान्यपीत्यपरे। पुरुषसूक्तं प्रत्यहं षोडशकृत्वो जपन्मासेन गुरुतल्पादेरपि शुध्येत्। एवं पवमानजपाघमर्षणसूक्तजपादयोऽन्यतो ज्ञेयाः। अत्राऽऽहारविशेषानुक्तौ पयःप्रभृतयः शिलोच्चयादयो माघादयश्च देशकालौ। अथ रिक्तेषु व्याहृतिभिराचमनम्। एवं

ख्यापनानुतापाध्ययनान्यपि पापनाशकानि। ख्यापनं सभासु पुण्यस्थानेषु च स्वपापकथनपूर्वकमात्मनिन्दनम्। अध्ययनं वेदवेदान्तादेश्च। उपदिष्टप्रायश्चित्तेष्वेतदङ्गम्। न स्वतन्त्रम्। अन्यथा तद्विधिरफलः स्यात्।

कृते पापेऽनुतापो वै यस्यः पुंसः प्रजायते।
प्रायश्चित्तं तु तस्यैकं हरिसंस्मरणं परम्॥
प्रातर्निशि तथा संध्यामध्याह्नादिषु संस्मरन्।
नारायणमवाप्नोति सद्यः पापक्षये नरः॥

इति विष्णुपुराणे। अत्र केचित्। अनेन सर्वविधसर्वपापप्रणाशो भवत्येव। इह व्यवहार्यतासिद्धये वा तदुपदेश इति प्राहुः। गङ्गास्नानं च सर्वविधसर्वपापप्रणाशकम्।

चान्द्रायणसहस्रं तु यश्चरेत्कायशोधनम्।
पिबेद्यश्चापि गङ्गाम्भः समौ स्यातां न वा समौ।
भवन्ति निर्विषाः सर्पा यथा तार्क्ष्यस्य दर्शनात्।
गङ्गाया दर्शनात्तद्वत्सर्वपापैः प्रमुच्यते।

इत्यादिमहाभारतादिवचनेभ्यः। न चैतान्यर्थवादाः।

स्नानमात्रेण गङ्गायां पापं ब्रह्मवधोद्भवम्।
दुराघर्षं कथं याति चिन्तयेद्यो वदेदपि।
तस्याहं प्रददे पापं ब्रह्मकोटिवधोद्भवम्।
स्तुतिवादमिमं मत्वा कुम्भीपाकेषु जायते।
आकल्पं नरकं भुक्त्वा ततो जायेत गर्दभः।

इति भविष्यकौर्मादिभ्यः ।

पापानां पाषहन्त्री त्वं स्वर्गमोक्षैकहेतुता।
स्वभाव एव गङ्गायाः शैत्ये शीतरुचेर्यथा।
न गङ्गासदृशं तीर्थं न देवः केशवात्परः।
ब्राह्मणेभ्यः परं नास्तीत्येवमाह पितामहः।
सर्वं कृतयुगे तीर्थं त्रेतायां पुष्करं स्मृतम्।
द्वापरे तु कुरुक्षेत्रे कलौ गङ्गेव केवलम्।

गङ्गा कलियुगे स्मृतोति पाठान्तरम्।

येनाकार्यशतं कृत्वा कृतं गङ्गैव(गङ्गाम्बु)सेवनम्।
तत्सर्वं तस्य गङ्गाम्भो दहत्यग्निरिवेन्धनम्॥

इत्यादिवचनान्यनुसंधेयानि। कलियुग इत्थं पापनाशसामर्थ्यं गङ्गाया एव न तु पुष्करादीनाम्। त्रेतादौ तु पापस्याल्पत्वात्तन्नाशसामर्थ्यं तेषामपीति सर्वंकृतयुग इत्यस्य तात्पर्यम्।

अथ सर्वप्रायश्चित्तविधिः–—तत्र महापातकादर्वाचीनेषु बहुविधेष्वज्ञानकृतेषु प्रतिनिमित्तं कर्तुमशक्तौसर्वप्रायश्चित्तं षडब्दमत्यन्तगुणवतो विरक्तस्य। अभ्यासे द्विगुणम्। मत्या त्रिगुणम्। मत्याऽभ्यासे चतुर्गुणम्। अत्यन्ताभ्यासे निरन्तराभ्यासे वा पञ्चगुणम्। बहुकालाभ्यासे षड्गुणम्। उपपातकमारभ्यार्वाचीनेषु पापेष्वज्ञानकृतेषु प्रतिनिमित्तं कर्तुमशक्तौ द्व्यब्दंप्रायश्चित्तम्। अभ्यासादौ प्राग्वत्। प्रकीर्णकेषु तादृशेषु तादृशस्यैकाब्दम्। अभ्यासादौ प्राग्वत्। क्षुद्रपापेषु तादृशेषु तादृशस्य कृच्छ्रातिकृच्छ्रचान्द्रायणानि। तत्स्थाने द्वादश कायानि वा। अभ्यासादौ प्राग्वत्। चतुष्टयमिदं चोत्तमस्य। मध्यमस्य द्विगुणम्।अधमस्य त्रिगुणम्। द्वादशाब्दं द्विगुणं। महापातकावधिसकलपापप्रायश्चित्तमिति। सर्वत्रानुक्तनिष्कृतौ कृच्छ्रचान्द्रायणानि समस्तव्यस्तरूपेण योग्यतया योज्यानि। क्षुद्रेषु पापेषूपवासत्रिरात्रप्राजापत्यानि योग्यतया। अतिक्षुद्रेषु द्वादश षट्त्रिंशद्वा प्राणायामाः। स्त्रीशूद्राणाममन्त्रकास्ते। पुरुषकारहन्तकाराग्रदानानि वा। मौनलोपेषु विष्णुस्मरणम्।

अथ प्रकाशरूपेषूद्देशक्रमेण प्रकीर्णप्रायश्चित्तान्युच्यन्ते—खरेणोष्ट्रेणवा युक्तं यानमारुह्याध्वगन्ता नग्नस्वापी नग्नतयाऽन्नभोक्ता दिवा स्वदारगामी च सचैलस्नानपूर्धकं प्राणायामेन शुध्येत्। अमत्या स्नानमात्रम्। अभ्यासे प्राणायामचतुष्टयम्। चतुरधिकाभ्यास एक उपवासः। अत्यन्ताभ्यासे त्रिरात्रम्। साक्षात्खरोष्ट्रारोहिणां द्विगुणम्। गुरुं त्वंकृत्य हीनपुरुषं प्रयोज्य हुंकारपूर्वकच्छलवादैर्विप्रंनिर्जित्य वस्त्रेणापि वा विप्रस्य कण्ठबन्धने तृणेनापि वा तस्य ताडने गुर्वादिकं शीघ्रं नत्वा विगतकोपं कृत्वा नक्तं भुञ्जीत। उपवसेदिति स्मृत्यर्थसारे।

अभ्यासे त्रिरात्रम्। गुरुदेवविप्राचार्यमातापितृनरेन्द्राणां प्रतिष्ठीवने प्रतिवाद आक्रोशनेऽतिक्रमे पैशुन्ये च जिह्वां दहेद्धिरण्यं दद्यात्। अभ्यासे सहस्रगायत्रीजपः। अमत्या तु प्राजापत्यं कृत्वा स्नात्वा गुरुप्रसादनात्पूतो भवति शूद्रस्यविप्रातिक्रमादौ सप्तरात्रसभोजनम्। क्षत्त्रियातिक्रम एक उपवासः। विप्रं हन्तुं दण्डोद्यमने कृच्छ्रः। इदमेवावगुरणम्। दण्डनिपाततेऽतिकृच्छ्रः। रक्तस्रवणे कृच्छ्रातिकृच्छ्रः। अभ्यन्तररक्ते त्वग्भेदे वाकृच्छ्रः। अस्थिभेदनेऽतिकृच्छ्रः। अङ्गकर्तने पराकः। केचित्तु दण्डोद्यमननिपातनरुधिरस्रावेष्वर्धकृच्छ्रकृच्छ्रातिकृच्छ्राणि। अन्ये पादकृच्छ्रार्धकृच्छ्रकृच्छ्राण्याहुस्तेषां कामाकामभेदेन व्यवस्था। अङ्गच्छेदने दशगोदानम्। कामतो द्विगुणम्। अत्र यद्यपि शोणितनिपातनयोः क्रमेण निपातनावगुरणे आवश्यके तथाऽपि तन्निमित्ते प्रायश्चित्ते पृथक्भवतः। तयोरवश्यंभावित्वेन तदभ्यन्तरवर्तित्वात्। यत्र पुनर्निमित्तानां नान्तर्भावनियमस्तत्र पृथग्भवत्येव। यथा पर्वणि परभार्यांरजस्वलां तैलाभ्यक्तो दिवा गच्छति जल इति। विप्रस्य पादप्रहार उपोष्यस्नात्वा प्रणिपत्य प्रसादनम्। पादेन स्पर्शे तु प्रसादनमेव। अप्सु चाग्नौ चाऽऽर्तस्य विण्मूत्राद्युत्सर्गे सचैलस्नानपूर्वकं गोस्पर्शः। मत्या तूपोष्य सचैलं स्नायात्। कामतोऽभ्यास उपवासत्रयम्। इदमापः प्रवहतेत्यस्य गायत्र्या वा जपश्च। अनापदि त्रिषवणस्नानं त्रिरघमर्षणं च बोध्यम्। अनार्तस्यात्यन्ताभ्यासे वा तप्तकृच्छ्रम्। उदकं विना मूत्राद्युत्सर्गेऽप्येवमेव। सर्वमिदं मूत्रपुरीषोत्सर्गोक्तं धर्ममात्रोपलक्षणम्। निर्जलारण्यादौ त्वपो दृष्टैव शौचसचैलस्नाने कुर्यात्। मूत्रा देवेगधारणेऽष्टोत्तरशतजपः। श्रौतस्मार्तकर्मलोपे तूपवासः। इदं चानुक्तप्रायश्चित्तविशेषश्रुतिस्मृत्युदितकर्मलोपे वा तत्तत्प्रतिपदोक्तप्रायश्चित्तसमुच्चयेन वा बोध्यम्। सूर्योदये स्वस्यो मत्या सुप्तो दिने तिष्ठन्सा वेत्रीं जपन्नुपवसेत्। सूर्यास्तमये सुप्तो रात्रौ तिष्ठन्सावित्रीं जपन्नाद्यात्। जीर्णमलबद्धवस्त्रधारणादिस्नातकव्रतलोपे तूपवासोऽष्टशतजपो वा। पञ्चमहायज्ञेष्वन्यतमलोपे त्वातुरस्योपवासो धनिनः कृच्छ्रार्धम्। व्याहिताग्नेःपर्वण्युपस्थानलोपे चैवम्। स्नानं विना भोजन एक उपवासोदिनं व्याप्य जपश्च। ऋतौ भार्यागमनलोपे कृच्छ्रार्धम् । अकामतःप्राणायामशतम्। इदं चापर्वणि संनिहि-

तस्यारोगिण एव षोडश्यां रात्रौ तु पर्वण्यपि गच्छेत्। स्वभार्यां पर्वण्यपि गछेत्। स्वभार्यां क्रोधादगम्यति वदतां वर्णानां क्रमेण कृच्छ्रनवरात्रषड्ररारात्रत्रिरात्राणि। सर्वेषां प्राजापत्यमिति गौडाः। त्यागानन्तरं संग्रहेच्छायामृषिचान्द्रायणं कृत्वा स कार्यः। एकपङ्क्त्युपविष्टानां स्नेहादिना विषमदाने दापने च प्राजापत्यम्।

नदीसंक्रमकर्तुश्च कन्याविघ्नकरस्य च।
समेविषमकर्तुश्च शुद्ध्यै चान्द्रायणं स्मृतम्॥

संक्रम उदकावतरणमार्गः। पूजादौ मार्गादौ च समे विषमकर्तृत्वम्। अत्र चान्द्रायणं भैक्ष्यान्नेनेति स्मृत्यर्थसारे। पतितम्लेच्छादिभाषणे पुण्यकृतां ध्यानं विप्रेण सह भाषणं वा। भार्यान्नधनानां लाभस्य विघ्नकरणे प्रत्येकं संवत्सरव्रतम्। यज्ञोपवीतं विना भोजनेऽम्बुपाने च नक्तव्रतम्। अम्बुपाने त्रिः प्राणायामा वा। मत्या भोजने तूपवासः। उच्छिष्टस्य मत्या भोजनाम्बुपानयोरप्येवम्। यज्ञोपवीतं विना मत्या मूत्रादिकरणे भक्षणे चाष्टशतगायत्रीजपः। अकामत एषु क्रमेण त्रिषट्प्राणायामनक्तव्रतानि। ‘यद्युत्तिष्ठत्यनाचान्तो भुक्तवानासनात्ततः। सद्यः स्नानं प्रकुर्वीत’।अम्बुनि स्वप्रतिविम्बदर्शने मयि तेज इति मन्त्रं जपेत्। अशुचिद्रव्यस्पर्शे वाक्पाणिपादचापल्यकरणे कामकृते निष्प्रयोजनेनानृतवदने च गायत्रीजपः। अकामकृते त्वाचमनम्। अत्यल्पे दक्षिणकर्णस्पर्शो जलाभावे वा। शय्यारूढ १ पादुकोपानदारोपितपादो २ भयोच्छिष्टा ३ न्धकारस्था ४ शुद्ध ५ जपकृत ६ होमकृत् ७ श्राद्धकार ८ समित्पुष्पकु….ग्न्यः बुगन्धाक्षतान्नपाणिभैक्ष्याज्यपाणिदेवपूजानिरतानामभिवादने त्रिरात्रमुपवासः। एतैरन्याभिवादन एषामप्येवम्। आह्निकविच्छेदेऽपित्रिरात्रम्। बहुदिवसविच्छेदे द्विगुणम्।निमन्त्रितस्यान्यत्र भोजने त्रिरात्रम्। प्रकामतः सकृत्। निमन्त्रि- तस्य भोजनाद्यदाने यतिचान्द्रायणम्। इन्द्रधनुःपलाशाग्न्योरन्यस्य प्रदर्शने उपवासो धनुर्दण्डश्चक्रमेण दक्षिणा। दण्ड्योत्सर्गे राजैकरात्रमुपवसेत्। त्रिरात्रं पुरोहितः। अदण्ड्यदण्डने कृच्छ्रं पुरोहितः। त्रिरात्रं राजा।

पादप्रतापनं कृत्वा कृत्वा वह्निं तथा ह्यधः।
कुशैः प्रमृज्य पादौ तु दिनमेकं गृही भवेत्॥

भूमिकन्यानृते मासं गोमूत्रयावकपानम्। दुःस्वप्नारिष्टयोर्दर्शने सघृतहिरण्यदानम्। विप्रयोर्विप्राग्न्योर्दम्पत्योर्गोविप्रयोर्विप्रपिण्डयोर्गोबलीवर्दयोर्विष्णुगरुडयोर्मध्यगमने यX6द्द्विजस्य सांतपनम्। वेदाध्ययनहोमसांनाय्याङ्गदोहविवाहकालेष्वेषामन्तरागमने चान्द्रायणम्। कुनखिवश्यावदन्तौ प्राजापत्यं कृत्वा दन्तान्नखांश्चोद्धरेयाताम्।

क्षत्त्रियस्तु रणे पृष्ठं दत्त्वा प्राणपरायणः।
संवत्सरव्रतं कुर्यात्।

एतदेव फलमवृक्षच्छेदे च। तीर्थयात्रां विना-

सिन्धुसौवीरसोष्ट्रांस्तथा प्रत्यन्तवासिनः।
अङ्गवङ्गकलिङ्गान्ध्रान्गत्वा संस्कारमर्हति ॥

एवं मगधदेशेऽपि। कर्मनाशाजलस्पर्शकरतोयाविलङ्घनगण्डकीबाहुतरणेष्वप्येवम्। नीलवस्त्रादिधारणे केशनिर्मितधारणे चोपवासः पञ्चगव्यपानम्। हिरण्योदकपानं च परेद्युः। नीलीमध्यगमने त्रयः प्राणायामाः। नीलीजदन्तधावने वस्त्रधारणवत्। रोमकूपेषु नीलीरजःपतने वर्णमात्रस्य तप्तकृच्छ्रम्। नीलीं विक्रीणन्पालयंस्तद्वृत्त्या जीवंश्च पतति। विरक्तश्चेत्रिभिः कृच्छ्रैःशुध्येत्। नीलीं धृत्वा मैथुन उत्पन्नो गर्भश्चाण्डालो भवति। नीलीं धृत्वा मृतः षष्टिवर्षाणि विष्ठायां कृमिर्भवति। विधवया नीलीधारणे तद्भर्तुर्नरकः। नीलीधारणपूर्वकमन्नदाने दातुर्भोक्तुश्चसांतपनम्। नीलीदारुभेदनेन रुधिरदर्शने चान्द्रायणम्।

स्त्रीधृता शयने नीली ब्राह्मणस्य न दुष्यति।
कम्बले पट्टसूत्रे च नीलीसङ्गो न दुष्यति॥

आपङ्क्तेयपङ्क्तिभोजन उपवासः। परेद्युः पञ्चगव्यं च। प्रत्यर्कादिमेहन आत्मनः शकृद्दर्शने च सूर्यं विप्रं गां वा पश्येत् । क्षत्रियवैश्ययोरभिवादने विप्रस्योपवासः । शूद्रस्याभिवादने त्रिरात्रमुपवासः।

गृहस्थस्यानापदि सिद्धान्नभिक्षाकरणे दशरात्रं वज्रकृच्छ्रसंबन्धिद्रव्यपानम्। आपदि त्र्यहम्। देवगुर्वाद्यभिमुखनिष्ठीवने जीवन(ना)विरोधेन जिह्वां दहेद्धिरण्यं दद्यात्। प्रतिमाभेदने देवालयवापीकूपारामभेदने चेदं विष्णुर्मानस्तोके विष्णोः कर्माणि पादोऽस्येति चतस्र आज्याहुतीर्हुत्वा यां देवतामुच्छेदयति तस्या एव ब्राह्मणान्भोजयेत्। प्रतिमाऽत्र मृन्मयी पूजितोज्झिता च। प्रायश्चित्तस्याल्पत्वात्। तदत्र प्रतिमातारतम्येन दण्डप्रायश्चित्ताधिक्यं योज्यम्। दारिद्र्यक्रोधमात्स- र्यादिना भर्तुरतिक्रमेऽतिकृच्छ्रः। पर्वणि मैथुने सचैलं स्नात्वा वारुणीभिर्मार्जयेत्। श्राद्धदिने मैथुने उपवास एव। स्वपत्न्यां रजस्वलायां गत्वोपवासत्रयपूर्वकं चतुर्थे[ऽहनि]घृतप्राशनम्। कामतश्चेत्सप्तरात्रमुपवासः। अकामतोऽभ्यासे कृच्छ्रः। कामतोऽत्यन्तानवच्छिन्नाभ्यासे नवमासिकव्रतम्। त्रैवार्षिकमिति स्मृत्यर्थसारे। कामतोऽभ्यासमात्रे तु प्रथमेऽह्नि पराकम्। द्वितीये सांतपनम्। तृतीये प्राजापत्यमिति। अकामतःप्रवृत्तस्य रेतःसेकात्प्राङ्निवृत्तस्य सचैलं स्नानं महाव्याहृतिभिर्होमश्च। षण्मासोत्तरं गर्भिणीगमनेऽप्येवम्। यदा तु स्त्रीसंभोगमन्तरेणाप्यकामतोहठाच्चरमधातु- विसर्गस्तदा स्कन्नं रेतो यन्मह्यं रेतः पृथिवी पुनर्मामैत्वित्यभिमन्त्र्य तेन रेतसा स्तनयोर्भ्रुवोश्च मध्यमनामिकया स्पृशेत्। कामतः प्राणायामत्रयसहितसहस्रगायत्रीजपः। वानप्रस्थयत्योश्चान्द्रायणम्। गृहस्थस्य यत्नपूर्वकं धातुविसर्गे वारुणीभिर्मार्जनमित्यपि क्वचित्। स्वप्नेतु त्रिनमस्काराः सूर्यस्य गृहस्थैः कार्याः। तयोस्त्वघमर्षणत्रयम्। ब्रह्मचारिणस्तु स्वप्ने रेतःस्खलने स्नात्वाऽर्कं संपूज्य त्रिः पुनर्मा मैत्वृचं जपेत्। कामत उत्सर्गे संवत्सरव्रतं चरेत्। भयेन रोगेण स्वप्ने गृहस्थादीनां स्खलन आदित्यर्चनादि पूर्ववत्। नैष्ठिकब्रह्मचारिणो द्विगुणम्। वमने स्नात्वा पञ्चगव्यपानम्। पूर्वदिनभुक्तस्य वमन उपवासोऽपि। मांसमाष[म]सूरवमन उपवासत्रयं स्नानपूर्वकप्राणायामत्रयं घृतप्राशनं च। दिवास्वापनग्नस्त्रीदर्शंननग्नस्वापश्पशानाक्रमणहयारोहणपूज्यपूजातिक्रमाजीर्णश्मश्रुकर्मदुर्जनस्पर्शेषु स्नानम्। कामतो नक्तभोजनम्। गर्भाधानादिचूडान्तसंस्कारेष्वेकैकलोपे पादकृच्छ्रम्। चूडाया अर्धकृच्छ्रम्। अनापदि द्विगुणम्। प्रायश्चित्तोत्तरं तत्तत्संस्कारकरणम्। गर्भाधानमात्राकरणे गोदानपूर्वकं पुंसवनं कार्यम्। संव-

त्सरं नित्यक्रियालोपे तु षष्टिः प्राजापत्यानि। आक्रोशनानृतवादयोरेकस्त्रयो वा उपवासाः। अकामतोऽभ्यासे तप्तकृच्छ्रम्। निषिद्धकाष्ठैर्दन्तधावने गोदर्शनम्। गृहीतव्रतस्य प्रमादादिना भङ्ग उपवासत्रयं पुनर्व्रतग्रहणं च। विप्रस्याष्टवर्षपर्यन्तं क्षत्त्रवृत्त्या धनार्जने चान्द्रायणम्। वैश्यवृत्तौ षण्मासान्। शूद्रवृत्तौ तु सकृदेव पुनरुपनयनपूर्वकं कृच्छ्रम्। शूद्रस्य द्विकर्मकरणेऽप्येतत्। तद्धनत्यागोत्तरमिदं प्रायश्चित्तम्। स्त्रीधनोपजीवने स्त्रियै तद्धनं दत्त्वा चान्द्रायणम्। भार्याया मुखमैथुने कृच्छ्रम्। गोयुक्तयानस्थस्य मैथुने तदर्धम्। अकामतोऽभ्यासे स्नानमात्रम्। बस्तिकर्मणि प्रच्छर्दनविरेचनयोरभ्यासे शिशुकृच्छ्रः। अन्यतः स्नानम्। देवागारशिलादिना स्वगृहकरणे कृच्छ्रं यतिसांतपनं च। गुरुप्रतिश्रुतवस्त्वकरणे तप्तकृच्छ्रसहितं चान्द्रायणम्। भोजनकाले परिगृहीतमौनत्यागे तदन्नत्यागः। अर्धभुक्तान्नपात्रेण जलपाने पशुवन्मुखेन जलपाने चोपवासः। इष्टापूर्तादिशुभाशुभमहाकर्मस्थऋत्विगाचार्यादीनां द्वादश कृच्छ्रास्तदर्धंवा सर्वप्रायश्चित्तम्। श्राद्धोपवासादिनिषिद्धदिनेषु दन्तधावने गायत्रीशतसंयु(पू)ताम्बुपानम्। कन्याया विवाहात्पूर्वं रजोदर्शने तत्पिता तदृतून्गणयित्वा तत्संख्यया गोदानं कृत्वाऽशक्तावेकां गां सुवर्णशृङ्गादिगोदानविधिना दत्त्वाऽत्राप्यशक्तौ सदक्षिणमन्नं विप्रेषु दत्त्वा त्रिदिनमुपोषितां चतुर्थरात्रौ गव्यपयोमात्राहारां कन्यां निवृत्तरजस्कां भूषितां दद्यात्। तामुद्वहन्वरस्तच्छुद्ध्यै कूष्माण्डमन्त्रैर्घृतं जुहुयात्। विवाहहोमकाल उपस्थित आरब्धे विवाहे वा रजोदर्शने तु स्त्रापयित्वा तां युञ्जानेति तैत्तिरीयमन्त्रेण हुत्वा विवाहं प्रवतयेत्। सुरापात्रगन्धमाघ्राय सोमपो ब्राह्मणोऽप्सु निमग्नस्रीन्प्राणायामांस्त्रिरघमर्षणजपं वा कृत्वा घृतप्राशनं कुर्यात्। असोमपोऽप्सु। इतरस्यामन्त्रकं प्राणायामाः। मद्यगन्धने तदर्धम्। साक्षात्सुराघ्राणं सुरापानवत्। अमत्याऽऽघ्राणे प्राणायामास्त्रयः।मद्यविण्मूत्रपूतिगन्धानामन्यतमाघ्राणे त्रिः प्राणायामाः। दर्शने स्पर्शने च स्नानं घृतप्राशनं च। सुरापस्पर्शे स्नानं पञ्चगव्यं च। तद्घ्राणेऽप्सु त्रिः प्राणायामाः। असोमपस्यानप्सु। इतरस्यामन्त्रकम्। मद्यविण्मूत्रविप्रुट्भिःसंस्पृष्टे मुखमण्डले मृत्तिकागोमयैः प्रक्षाल्य पञ्चगव्यं पिबेत्। मदिरां दत्त्वा स्पृष्ट्वा प्रतिगृह्य च

स्नात्वा कुशाम्बु त्र्यहम्। संक्रान्त्यादिनिमित्तेष्वस्नात्वा भोजनेऽष्टसहस्रं गायत्रीजपः। शूद्रादिस्पर्शनिमित्ते तूपवासः। चाण्डालादिस्पर्शनिमित्ते स्नात्वा भुक्तौ त्रिरात्रं कायंवा। मत्या चान्द्रं सकृत्। कामाभ्यासे द्विगुणम्। रजकादिस्पर्शनिमित्तेतदर्धम्। पाने त्वेक उपवासः। चाण्डालादिरजकादिस्पृष्टस्पर्शनिमित्ते त्वस्त्रात्वा भोजन उपवासः। नित्यस्नानमकृत्वा भुक्तादुपवासस्त्रिरात्रं वा। नैमित्तिकस्नाने सर्वत्राष्टशतगायत्रीजपः। कामकुते सहस्रत्रयम्। अमेध्यास्पृश्यस्पर्शने त्वस्त्रात्वा भुक्तौ गृहस्थादेस्त्रिरात्रम्। मत्या षट्त्रिरात्रम्। व्रतिनः कायंचान्द्रं वा। श्वपाकादिस्पर्शनिमित्तेष्वस्नात्वा भुक्तौ मत्या त्रिरात्रम्। हस्तस्थापितकवलादिभोजनेऽब्राह्मणसमीपभोजने दुष्टपङ्क्तौ भोजने बालांस्त्यक्त्वा भोजने शूद्रहस्तेन भोजने पाने चामत्या नक्तम्। मत्या तूपवासः पञ्चगव्यं च। शूद्रपङ्क्तौ भोजने द्विरुपवासः।

आसनारूढपादो वा वस्त्रार्धंप्रावृतोऽपि वा।
मुखेन घमितं वाऽपि भुक्त्वा सांतपनं चरेत्॥

अनाचम्य भक्षणेऽष्टशतजपः। भोजने तूपवासः। आपोशनं विना भोजनेऽप्येवम्। अभ्यासे सहस्रगायत्रीजपः। भोक्तुकामस्याऽऽपोशनात्पश्चादभ्यवहारात्पूर्वं मूत्रपुरीषगमने सचैलो बहिराप्लवः षट् प्राणायामाश्च। भुञ्जानस्य मस्तके विष्ठादिपतनेऽन्नं त्यक्त्वा नद्यां स्नानं त्रिः प्राणायामाः। भार्यया सहोदरैर्वा सहभोजने दिनत्रयमभोजनम्। ज्ञातिभिः सह भोजने त्वहोरात्रम्। ऋतौ भूमौ भोजनेऽहोरात्रं यावकाहारः पञ्चगव्यपानं च। घृतहीनाहुतिपञ्चकभोजनोत्तरं सघृतभोजनात्यन्ताभ्यासे चान्द्रायणम्। चाण्डालश्वपचक्षत्तोग्रसूतवैदेहकमागधायोगवाश्चाण्डालाद्याः—विप्रायां शूद्राज्जातश्चाण्डालः। क्षत्तुरुग्रायां जातः श्वपचः। क्षत्त्रियायां शूद्राज्जातः क्षत्ता। राजन्याच्छ्रूद्रायां जात उग्रः। विप्रायां वैश्याज्जातः सूतः। विप्रायां क्षत्रियाज्जातो वैदेहकः। क्षत्रियायां वैश्याज्जातो मागधः। वैश्यायां शूद्राज्जातोऽयोगवः।शौण्डिकादयश्च-कापालिकनिर्णेजकघातुकलुब्धकान्त्यजाः। अन्त्यजाश्च–चर्मकाररजकनट्बुरुडकैवर्तकमेदभिल्लाः सप्त। सूतिकारजस्वलापतितशववाहकषण्टदेवलकविसृष्टाग्न्यारूढपतिताभिशस्ता अन्त्यजाश्च श्वादयश्चान्त्यजाद्याः। श्वविद्वरोहखरोष्ट्राद्याः श्वादयः। एषामेव पञ्चमा इति संज्ञा।

गोमांसभक्षको यस्तु विरुद्धं बहु भाषते।
सर्वाचारविहीनश्च म्लेच्छ इत्यभिधीयते॥

स एव यवनदेशोद्भवो यावनः। तत्र भुक्तिसमये चाण्डालान्त्यजादिदर्शन आचमनपूर्वकप्राणायामत्रयं भोजनत्यागे सति। तदत्यागे तूपवासः पञ्चगव्यं च। मूत्राद्युत्सर्गवेलायां भोजने पान उपवासो व्याहृतिभिः सर्पिषाऽष्टोत्तरशतहोमः। काञ्जिकादिना शौचं कृत्वा भोजने पुनर्जलेन शुद्धिं कृत्वोपोष्य पञ्चगव्यं पिबेत्।

एकपङ्क्यां तु भुञ्जानो विप्रो विप्रंयदा स्पृशेत्।
शिष्टं तदन्नं भुक्त्वैव गायत्र्यष्टशतं जपेत्॥

शिष्टं पात्रस्थितम्। तदुत्तरं भुक्तेर्विरामः। भोजनोत्तरमुच्छिष्टयोः स्पर्श उभयोरपि सद्यः स्नानं शतजपो वा। तादृशस्य क्षत्त्रियवैश्यस्पर्शेक्रमेण नक्तोपवासौ । नक्तं घृतप्राशनमेव । स्नानं जपश्चेति स्मृत्यर्थसारे। भोजनोत्तरमेव तयोः स्पर्शे उपवास उपवासौ वा। भुक्तोच्छिष्टस्य शूद्रश्वादिस्पर्शे तूपोष्य परेद्युर्नक्तम्। परेद्युः पञ्चगव्यपानम्। भुक्त्वाऽनाचमनेऽपीदम्। इदं कामतः। अकामतस्तु स्नानं शतगायत्रीजपश्च। भुक्तोच्छिष्टानाचान्तस्यामेध्यमूत्रादिस्पर्शे पञ्चगव्यपानम्। उच्छिष्टस्य चाण्डालादिस्पर्शे त्रय उपवासा अष्टाधिकशतगायत्रीजपश्च। चतुर्थे पञ्चगव्यं च मिलित्वा पादोनप्राजापत्यम् । ज्ञात्वा बलात्स्पर्शे द्विगुणम्। अन्ये तु त्वनुच्छिष्टस्य चाण्डालादिस्पर्शे स्नानम्। उच्छिष्टस्य तत्स्पर्शे पूर्णं प्राजापत्यम्। ज्ञात्वा तु द्विगुणमित्याहुः। उच्छिष्टस्य चाण्डालान्नस्पर्शे चान्द्रायणम्। अधरोच्छिष्टे त्रिरात्रम्। भुक्तोच्छिष्टस्यानाचान्तस्यान्त्यजशौण्डिकादिभिर्ज्ञानतः स्पर्शे प्राजापत्यम्। अर्धोच्छिष्टे पादः सर्वत्र। येनाऽऽस्ये ग्रासः क्षिप्तो न निगीर्णः सोऽर्घोच्छिष्टः। भुक्तौच्छिष्टस्य रजकादिस्पर्शे त्रिरात्रं घृतप्राशनम्। मूत्राद्युत्सर्गोत्तरमकृतशौचोऽधरोच्छिष्टः। भोजनाद्युत्तरमनाचान्त ऊर्ध्वोऽच्छिष्टः। तत्राधरोच्छिष्टस्य विप्रस्य चाण्डालादिस्पर्शे त्रिरात्रोपवासपूर्वकं पञ्चगव्यम्। तस्य रजस्वलारजकादिस्पर्शे एक उपवासः। अनुक्तेषु यत्रानुच्छिष्टस्पर्शे स्नानं विधीयते तत्रोच्छिष्टस्पर्शे त्रिरात्रं कायं वा। ऊर्ध्वोच्छिष्टार्थमधरोच्छिष्ट इति कल्प्यम्। भुञ्जानस्य रजस्वलादिस्पर्शे शिशुकृच्छ्रः प्राणायामशतं च।

अमत्या त्र्यहम्। भुञ्जानस्य गुदस्रावे शौचं कृत्वोपोष्य पञ्चगव्यम्। भुञ्जानस्याशौचप्राप्तौ मुखस्थग्रासं त्यक्त्वा स्नानम्। तद्ग्रासाशन उपवासः। सर्वाशने त्रिरात्रम्। भुञ्जानस्यानुच्छिष्टेन सगोत्रेणासगोत्रेण वा स्पर्शे भोजनाद्विरम्य शुद्धिः। भुञ्जानस्य भुक्तोच्छिष्टेन सवर्णेन स्पर्शे स्नानं जपो वा। भुञ्जानस्य शूद्रस्पर्श उपवासः पञ्चगव्यं च। भुञ्जानस्यचाण्डा- लादिशब्दश्रवणे भोजनाद्विरम्य शुद्धिः। भोजने स्नात्वाऽष्टशतजपउपवासो वा। मूत्रादिकालेऽन्त्यजादिस्पर्शे तु —

दिनमेकं चरेन्मूत्रे पुरीषे च दिनद्वयम् ।
दिनत्रयं मैथुने च पाने स्यात्तु चतुष्टयम् ॥

एवं रजस्वलाश्वसूकरशवमद्यभाण्डादिस्पर्शेऽपि। चाण्डालादिस्पर्शे सार्धमेतत्। द्विगुणमित्यन्ये। उच्छिष्टैस्य तलाभ्यक्तस्य कृतश्मश्रुकर्मणः कृतमैथुनस्य चाऽऽचमनं विना मूत्रादिकरण एकोपवासस्त्रिरात्रं वा। ऊर्ध्वोच्छिष्टस्य श्वकाकादिविष्ठास्पर्श उपवासः। अधरोच्छिष्टे स्नानम्। उच्छिष्टस्य सूर्यादिदर्शन उपवासः। ऊर्ध्वोच्छिष्टस्य पलाण्डुलशुनादिस्पर्शे त्रिरात्रं कुशजलपानं गायत्रीजपश्च। अकामत उपवासद्वयम्। अधरोच्छिष्टस्य तत्स्पर्शे एक उपवासः। अनुच्छिष्टस्य तत्स्पर्शे स्नात्वा नक्तम्। सर्वाङ्गावच्छिन्नस्पर्श एकनक्तमिति केचित्। सुराया ईषत्स्पर्शेऽप्येतदेव। जान्वधः सुरास्पर्शोस्नानम्। तत आनाभेरुपवासः। तत ऊर्ध्वं स्पर्शेत्रिरात्रम्। अशुचिलशुनादिस्पृष्टिस्पर्शने तु-

अशुचिं संस्पृशेद्यस्तु एक एव स दुष्यति।
तं स्पृष्ट्वाऽन्यो न दुष्येत सर्वद्रव्येष्वयं विधिः॥ इति।

एवं भाण्डेष्वपि स्पृष्टभाण्डस्पर्शे योज्यम्॥

स्त्रीबालवृद्धमक्षिकागृहमार्जारमूषकादयो नित्यं शुद्धाः। उच्छिष्टकाले कर्मानुष्ठाने च मार्जारस्पर्शेस्नानमिति मिताक्षरा। पीतावशिष्टमुखनिर्गततोय पाने मत्याऽभ्यासे चान्द्रं पराको वा। पीतावशिष्टपात्राम्बुपाने वामहस्तेन वा पाने तदर्धंत्र्यहं वा। अज्ञानात्सकृच्छूद्रोच्छिष्टभोजने त्रिरात्रोपवासः। चतुर्थे पञ्चगव्यपानम्। सप्ताहं

पञ्चगव्यं कामतः। एतदेव योषोच्छिष्टभोजनेऽपि । क्षत्त्रियाद्युच्छिष्टभोजने पादोनम्। अकामतोऽभ्यासे चान्द्रम्। कामतो द्विगुणमभ्यासे। भार्यया सह भोजने तदुच्छिष्टभोजने च दोषाभाव आपद्विषयो विवाहविषयो वा। ज्येष्ठभ्रातृपित्राद्युच्छिष्टभक्षणे दोषो न। विप्रोच्छिष्टाशन एकाहः। कामतोऽभ्यासे कृच्छ्रम्। उच्छिष्टमत्र तद्भोजनोत्तरभोजनपात्रेऽवशिष्टम्। चाण्डालस्पृष्टकांस्ये चाण्डालाद्युच्छिष्टकांस्ये च भोजने कृच्छ्रम्। जलपाने पादकृच्छ्रम्। रजकादावर्धम्। चाण्डालेन सहैकवृक्षमारुह्य तत्र फलभक्षणे सचैलं स्नानम्। चाण्डालादिस्पृष्टभोजने त्रिरात्रं मत्या कायम्। चाण्डालादिहस्तपाचितभोजने कायं चान्द्रं च। तद्धस्तेन भोजने द्विगुणम्। चाण्डालाद्युच्छिष्टभोजने चतुर्गुणम्। अभ्यासे कृच्छ्राब्दम्। अत्र सर्वत्र चाण्डालान्नभोजने पुनःसंस्कारः। चाण्डालादिष्टान्नेतूपवासः पञ्चगव्यं च। चाण्डालादिस्पृष्टाम्बुपान उपवासः। तत्स्पृष्टस्पृष्टिविषये तदर्धम्। चाण्डालादिसंस्कारे भोक्तुःपक्षं गोमूत्रयावकं कृच्छ्रं वा। चाण्डालादिर्यस्य गृहेऽज्ञातस्तिष्ठति तस्यान्नममत्या भुक्त्वा प्राजापत्यम्। मत्या पराकः। चाण्डालादिभाण्डसंस्पृष्टाम्बुपाने गोमूत्रयावकंत्रिरात्रं पुनःसंस्कारश्च। शूद्रोदकपान उपोष्य कुशपलाशबिल्वोदकपानम्। चाण्डालादिस्पर्शोत्तरं मूत्राद्युत्सर्गे त्रिरात्रमुपवासो जातवेदसजपो वा। रजकादिस्पर्शोत्तरमघरोच्छिष्टे तूपोष्य पञ्चगव्यम्। रजस्वलासूतिकाश्च सुकरादिपतितकुणिकुष्ठिकुनख्यस्पृश्याशौचिनः स्पृष्ट्वा भोजन एतत्स्पृष्टान्नभोजने च मत्या काकायम्। अमत्याऽर्धम्। कुणिहेस्तविकलः। भोजनकालेऽन्नममेध्यमक्षिकाकेशादिदूषितं चेदनन्तरमपः स्पृशेत्। तच्चान्नं भस्मना मृदाऽम्बुना वा स्पृशेत्। अस्थ्यादिदूषिते स्नानं घृतप्राशनं च। भोजनकाले दन्तपाते चैवम्। रक्तादिदृष्टौ तूपवासः। मुखे रक्तदर्शने त्रिरात्रम्। तद्भक्षणे ब्राह्मीरसपानम्। तादृशजलपाने कुशोदकम्। अशक्त एषु निमित्तेषु ब्राह्मीं पिबेत्। अमेध्यकेशकीटकादिभिः सह पाचितान्नस्य त्यागः। भक्षेण तूपवासः पञ्चगव्यं च। वामहस्तदत्तान्नभोजन एकपङ्क्तावेकस्मिन्नुत्थिते पश्चाद्भक्तौ चोपवासो नक्तं पञ्चगव्यं च। मार्जारकाकाखुनकुलगवाद्युच्छिष्टस्याल्पस्य भोजने ब्राह्मीरसः। अधिकभोजन उपवासः। पूर्णाहारे त्रिरात्रम्। कामतः कृच्छ्रपादः। अभ्यासे कृच्छ्रः।

श्वोच्छिष्टभोजने मासं यावकव्रतम्। विप्रस्य शूद्रगृहे भोजने मनस्तापाच्छुद्धिः। कामतश्चेद्द्रुपदायाः शतजपः। शूद्रभाजनभिन्नभाजनयोर्भोजन उपवासः पञ्चगव्यं च। मत्या त्रिरात्रम्। भिन्नकांस्येऽमत्या त्रिरार्त्रम्। मत्या कायम्। वटार्कश्वत्थकुम्भीतिन्दुककोविदारककदम्बवल्लीपलाशब्रह्मवृक्षपत्रेषु भोजने चान्द्रम्। पद्मपत्रे वानप्रस्थयत्योश्चान्द्र- फलम्। अन्येषां चांन्द्रंप्रायश्चित्तम्। दुग्धाज्यादिपेयद्रव्यहस्तस्योच्छिष्टेन स्पर्शे तद्द्रव्यसाहित्येनाऽऽचमनाच्छुद्धिः। चाण्डलस्योच्छिष्टदानेऽपि द्विरुपवासः।

शूद्रेण च्छिन्नयज्ञोपवीतो ब्राह्मणो मन्त्रेणान्यत्तु परिधायोपवसन्गायत्रीशतं जपेत्। ज्ञानतो द्विगुणम्। एवमन्यत्राप्यनादेशे शतगायत्रीजपः। विप्रेण च्छिन्नयज्ञोपवीतो विप्रोऽन्यत्तु परिधाय मनस्तापेन शुध्येत्। ज्ञानतस्तूपवासः। श्वचाण्डालादिच्छिन्नयज्ञोपवीते महासांतपनद्वयम्।

चाण्डालादिपुल्कसम्लेच्छभिल्लपारसीकमहापातकिबौद्धशैवपाशुपतलोकायतिकनास्तिकोन्मत्तान्त्यजनापितविकर्मस्थद्विजोदक्यासूतिकापतितशवस्पृष्टिशावसूतिकचैत्ययूपमृतहारककापालिकवनमार्जारस्पर्शे सचैलं स्नानम्।कामतस्त्वग्निस्पर्शनघृतप्राशनमधिकम्। अत्र शैवपाशुपतौ वेदविरुद्धतदागमोक्तानुष्ठातारौ। रजकचर्मकव्याधकैवर्तशाकुनिकनटधीवरजालोपजीविनिर्णेजकसौत्रिकशैलूषसर्ववर्णगवनिताचक्रध्वजिवध्यघातिश्वगर्दभग्रामसूकरकुक्कुटैः शिरोव्यतिरिक्ताङ्गन्स्पर्शे तदङ्गक्षालनवस्त्रक्षालनपूर्वकमाचमनम्। शिरःस्पर्शे स्नानम्। कामतः स्पर्शे द्वादशवारं मृज्जलैः शोधनमधिकम्। इदं सर्वमनातुरस्य। आतुरस्य त्वाचमनमेव। चाण्डालादिस्पर्शेऽप्येतत्। शूद्रनिषादस्पर्श आचमनम्। स्मृत्यर्थसारे तु शूद्रस्पर्शे स्नानम्। निषादस्पर्शे सचैलस्नानमिति। चिर कालं चाण्डालादिच्छायारोहणे स्नानं घृतप्राशनं च। तल्लङ्घनेऽप्येवम्। हीनशूद्रस्पर्शे स्नानम्। प्रागुक्तचाण्डालादिभिर्व्यवहितस्पर्शे स्नानमेव। इदं मतिपूर्वस्वे सचैलमन्यत्राचलम्। काष्ठादिद्वारेण तत्स्पर्शे यदङ्गस्पर्शस्तदङ्गस्य वस्त्रादेश्चक्षालनमाचमनं च । नौसंक्रमादौ न स्पर्शदोषः। सर्वाङ्गावच्छेदेन चाण्डालादिस्पर्शे

त्रिरात्रमुपवासः। चाण्डालादिभिरेकशाखारोहणे विप्रस्य सचैलस्नानम्। कामतोऽष्टशतजपश्च। अभ्यासे तूपवासपूर्वकं पञ्चगव्यपानम्। एकपाषाणावरोहणे शाखावत्। चाण्डालादिस्पर्शे रात्रावपि स्नानम्। तच्च दिवोद्धृतजलेनाग्निसंनिधौ स्वर्णं जले निक्षिष्य कार्यम्। चाण्डालशवस्पर्शे कृच्छ्रः। चाण्डालादिभिर्यानशय्यासनादौ त्रिरात्रोपवासः।

विप्रेण चाण्डालस्य व्रणबन्धनाभ्यञ्जनरुधिरोत्पादनादौ विप्रस्य प्राजापत्यम्। चाण्डालेन विप्रस्यैषु कृतेष्वप्येवम्। अनभ्यासे त्रिरात्रम्। अभ्यक्तस्य चाण्डालादिस्पर्श एकोपवासपूर्वकं पञ्चगव्यम्। चाण्डालाय कामतः ऋतुप्रदर्शने तन्नृत्यदर्शने तद्गीतश्रवणे भैषज्यक्रियायां च द्विरुपवासः। चाण्डालादिदर्शने रविदर्शनपूर्वकं पञ्चदश प्राणायामा अभ्यासे। अन्यथा रविदर्शनमेव। चैतन्यव्यवधानेन स्पर्शे स्नानम्। काष्ठादिव्यवधानेन स्पर्शे तदङ्गक्षालनमुक्तम्। एकशाखापाषाणयोरारोहणे तु स्नानम्। वचनादेव तैः संभाषणेऽष्टोत्तरशतगायत्रीजपः। अमत्या चेद्विप्रसंभाषणम्। चाण्डालाद्युपदेशे प्राजापत्यम्। चाण्डालकूपतीर्थनिषेवणे त्रिरात्रम्। चाण्डालेनैकपथगमने गायत्रीस्मरणमल्प- कालसाध्ये। अन्यथा सचैलस्नानम्। चाण्डालादेः स्ववेश्प्रन्यवस्थाने त्र्यहं दधिसर्पिःपयोभिः सह गोमूत्रयावकपानं त्रिसं- ध्यमवगाहनेन। ततस्त्र्यहं दध्ना। ततस्त्र्यहं सर्पिषा। ततस्त्र्यहं पयसा। पलत्रयं दधिपयसोः। सर्पिषः पलम्। वस्त्राणां जलेन क्षालनम्। मृन्मयानां त्यागः कार्यः। कुसुम्भगुडकार्पासलवणसर्पिर्धान्यानि द्वारे कृत्वा वेश्मनि पावकं दद्यात्। ततो ब्राह्मणभोजनम् । त्रिंशद्गावो वृषभश्चैकोदक्षिणा। पुनर्लेपनखननहोमजलैः शुद्धिः। अधिकसंसर्गेऽधिकं कल्प्यम्। वृद्धरोगिबालापत्यगर्भिणीनां प्राजापत्यम्। बालानां प्रहरद्वयमभोजनम्। रजकादिष्वेतदर्थं गृहदाहवर्जम्। चाण्डालगृहप्रवेशे चाण्डालैः सह वृक्षच्छायायां गृहे वाऽवस्थाने मासं कृच्छ्राभ्यासः। द्विमासं शूद्रस्य। क्षत्त्रियवैश्ययोश्चतुस्त्रयः(स्त्रीन्)। अनिष्टगन्धस्पर्शशब्दरूपवाक्यानामाघ्राणस्पर्शनश्रवणदर्शनकथनेषु रविदर्शनम्। रुद्रनिर्माल्यस्पर्शे सचैलस्नानम्। शैवसौरनिर्माल्यनैवेद्यभक्षणे चान्द्रम्। अभ्यासे द्विगुणम्। अमत्याभ्यासे सांतपनम्। अनापदि हरेरन्यनै-

वेद्यभक्षण एवमेव। विष्णोरनिवेदितभोजनेऽर्धकृच्छ्रप्रायश्चित्तम्। हरेर्निर्माल्यनैवेद्यभक्षणे चान्द्रायणफलमिति स्मृत्यर्थसारे। धनहर्ता प्रेतक्रियाया अकरणे तद्वर्णवधे यत्प्रायश्चित्तं तदर्थं कुर्यात्। तदेवेति केचित्।

गोविप्रचाण्डालादिहतोद्बन्धगरदाग्निदात्मघातिशृङ्गिदंष्ट्रिविषवह्निजलविद्युत्सरीसृपहतसंकरजातिपतितशवस्यवहनदहनोदकदानादिक्रियाकरणे तप्तकृच्छ्रः। अमतिपूर्वत्वे गोमूत्रयावकाहारेण कृच्छ्रम्। तच्छवस्पर्शमात्रे केवलेऽश्रुपाते चैकोपवासः। यं कंचित्प्रेतमुद्दिश्य तद्बान्धवैः सहाश्रुपातेऽस्थिसंचयनोत्तरं कृते स्नानम्। ततः पूर्वं तु सचैलं तत्। शूद्रप्रेतानुगमने द्विजस्य स्नानमष्टोत्तरसहस्रगायत्रीजपश्च। द्विजप्रेतानुगमनेऽष्टशतम्। शूद्रस्य तु तत्र स्नानमेव। अनशनजलाग्निपतनानि संकल्प्य ततो भ्रष्टस्य संन्यस्तस्य पुनर्गार्हस्थ्यपरिग्रहेण गृहस्थतामिच्छतश्च कृच्छ्रत्रयपूर्वकं चान्द्रायणत्रयपूर्वकं वा पुनर्जातकर्मादिसंस्कारकरणम्। षण्मासकृच्छ्राभ्यासपूर्वकं वा। अत्र शक्तिसकृदभ्यासकालाद्यपेक्षया व्यवस्था। केचिदत्यसमर्थस्य तप्तकृच्छ्रम्। चान्द्रायणं तु बलात्कारेण परप्रेरणया वा संन्यस्तस्येत्याहुः। ये त्वात्मघाताद्यशास्त्रीयमरणेन मृतास्तत्पुत्रैश्चान्द्रायणतप्तकृच्छ्रद्वयात्मकं प्रायश्चित्तं कृत्वैव तत्क्रियाः कार्याः। क्रोधादिनाऽऽत्मत्यागाध्यवसायमात्र उपवासत्रयम्। अध्यवसायं कतिपयव्यापारं कृत्वा स्वत एव निवृत्तो घृताभ्यक्तो मौनी प्राणायामान्कृत्वा गायत्रीं जपंस्त्रिरात्रमुपवसेत्। अन्येन निवर्तितस्य द्विगुणम्। अध्यवसाय शस्त्रादिक्षतकरणे प्राजापत्यम्। दृढक्षते चान्द्रम्।

चितिभ्रष्टा तु या नारी मोहाद्विचलिता तथा।
प्राजापत्येन शुध्येतेति।

रजस्वले एकभर्तृके अमत्या मत्या वा परस्परस्पृष्टे सद्यः स्नानेन शुध्यतः । असपत्न्योस्तु सवर्णयोर्योनिगोत्रसंबन्धयोरमत्या स्पर्शे तदैव स्नानमात्रम् । मत्या त्वेक उपवासः परेद्युः पञ्चगव्यपानं च । असंबन्धयोः सवर्णयोः स्पर्शे तु मत्याऽऽशुद्धेरनशनम् । अमत्या तु स्नात्वा तद्दिनोपवासाच्छुद्धिः । तन्मध्ये तु भुक्तौ दिनसंख्याकोपवासाः । विप्रशूद्रयो रजस्वलयोः स्पर्शे विप्रायाः कृच्छ्रम् । शूद्रायाः पादः । शूद्राया

निष्कचतुर्थांशदानमित्यन्ये। अकामतस्तु विप्राया यावच्छुद्धेरनशनम्। शूद्रायाः स्नानमात्रम्।क्षत्त्रियवैश्ययोरेतत्कालेऽभावाच्छुद्धिर्न विचार्यते। यदेवानुच्छिष्टयोः परस्परस्पर्शेऽन्यस्पर्शे वा तदेवोच्छिष्टत्वे द्विगुणं बोध्यम्। अधरोच्छिष्टऊर्ध्वोच्छिष्टार्थम्। चाण्डालाद्यन्तेवसायिपतितशवादीनां मत्या स्पर्शे रजस्वला आ शुद्धेरभुञ्जाना शुद्धयन्ते प्रायश्चित्तं कुर्यात्। तच्च प्रथमेऽह्नि स्पर्शे त्रिरात्रम्। द्वितीयेऽह्नि द्विरात्रम्। तृतीय एकाहः। चतुर्थे नक्तम्। तत्र प्रथमदिने यदि सा भुङ्क्ते तदा शुद्धयन्ते चान्द्रम्। द्वितीयादिदिनेषु भोजने पादपादन्यूनं कल्प्यम्। अमत्या चाण्डालादिस्पर्शे त्वा शुद्धेरुपवासमात्रम्। अत्र प्रथमादिदिनभुक्तौ प्रागुक्तत्रिरात्रादि योज्यम्। सूतकिशौण्डिकादीनां श्ववृकसृगालवानरखरोष्ट्रविड्वराहकाककुक्कुटादीनामुच्छिष्टशूद्रस्य च मत्या स्पर्शे तदादिकाहन्यभुञ्जानायाः शुद्धयन्ते प्रायश्चित्तम्। तच्च प्रथमेऽहनि द्विरात्रमभुक्तिः। द्वितीय एकाहम्। तृतीये नक्तम्। चतुर्थ एकभुक्तम्। अत्र प्रथमादिदिनेषु भुक्तौ प्राजापत्यपादपादन्यूनानि। अमत्या स्पर्शे त्वा शुद्धेरभुक्त्यैव शुध्येत्। भुक्तौ प्राजापत्यपादादिन्यूनादिक्रमेण। चाण्डालरजकरजस्वलासूतकिश्वादिस्पृष्टैः सह मत्या स्पर्शेऽमेध्यादिमलोच्छिष्टादिस्पर्शे च तदादिकाहन्यभुञ्चानायाः शुद्धयन्ते प्रथमदिने स्पर्श उपवासः। द्वितीयदिने नक्तम्। तृतीय एकभुक्तम्। परतः पश्चगव्यम्। प्रथमादिदिने भुक्तौ त्रिरात्रैकोपवासनक्तादि। अमत्या तत्तत्स्पृष्टैः स्पर्शेऽभुञ्जाना शुध्येत्। भुक्तावनशनप्रत्याम्नायाः। उच्छिष्टायाश्चाण्डालादिस्पृष्टस्पर्शे तदाद्यभुक्त्वा त्रिरात्रादि। तेषु भुक्तावुपवासप्रत्याम्नायाः। उच्छिष्टायाश्चाण्डालादिभिः साक्षात्स्पर्शे तु प्रथमादिदिनेषु षट्चतुर्द्विरात्रं गोमूत्रयावकम्। चतुर्थदिने स्पर्श उपवासः। सपत्नीं रजस्वलां स्पृष्ट्वा रजोदर्शने स्नात्वा भुञ्जीत। असपत्नीं सवर्णांस्पृष्ट्वा रजोदर्शन आ शुद्धेरभुक्तिश्चान्द्रं च। एवं मृताशौचिभिः स्पर्शे। स्नानात्प्राग्रजोदर्शन आ शुद्धेरभोजनमेव। भुक्तौ तु चान्द्रम्। एवं बन्धुमरणश्रवणेऽमेध्यमलोच्छिष्टादिस्पर्शे च।स्नानात्प्रग्रजोदर्शनेऽपि। रजोदर्शनोत्तरंवन्धुमरणश्रवणे त्वा शुद्धेरभोजनमेव। उच्छिष्टा रजः पश्यति चेच्छुद्ध्यन्ते त्र्यहम्। अधरोच्छिष्टे त्वेकाहमुपवासः। अत्र सर्वत्राशक्तायाः सद्यःस्नानेन भोजनम्। शुद्धयन्तेऽनशनमत्याम्नायाः भोजन-

काले रजस्वलायाः श्वान्त्यजादिस्पर्शे षड्रात्रं गोमूत्रयावकाहारः। शुद्धिं यावदुपवासश्च। रजस्वलाया भुक्तोच्छिष्टद्विजस्पर्शे त्रिरात्रोपवासः। अधरोच्छिष्टतत्स्पर्श एकाहः। रजस्वलाया भोजनकाले रजस्वलान्तरदर्शनआशुद्धेरभोजनम्। भुञ्जानायाश्चाण्डालादिदर्शन उपवासत्रयमपि। एकोपवासो वा। कामतस्तु प्राजापत्यम्। सूतकमृतकयोर्मध्ये रजो दृष्टाव(ष्ट्वा) स्नात्वा भोजनम्। शुद्ध्यन्त उपवासः। आर्तवमध्ये मृताशौचप्राप्तावा शुद्धेरभोजनम्। अशक्तायाः स्नात्वा भोजनम्। रजस्वलाया व्रतस्थाया रजस्वलाभिभाषण उपवासः। सर्वत्र रजस्वलायाउपवासासामर्थ्येऽकालकृष्टफलाद्याहारान्ते पञ्चगव्यपानम्। एवं गर्भिण्या बालापत्यायाश्च। रजस्वलाया उक्तस्पर्शादिनिमित्तेनग्रहणसंक्रान्त्यादिनिमित्तेन वा नैमित्तिकस्तानप्राप्तौ पात्रान्तरिततोयेन तत्कार्यं न तु मज्जनम्। तत्र गात्रमार्जनं वस्त्रपीडनं च न कार्यम्। अन्यवस्त्रधारणं च नेत्येके। प्रारब्धे दीर्घव्रते रजोदृष्टौ व्रतलोपो नास्ति। हविष्यभोजनादिशरीरनियमं स्वयं कुर्यात्। पूजामन्येन कारयेत्। चतुर्थदिने त्वस्नात्वा भुक्तौ कायम्। मत्या चान्द्रम्। तस्या ज्वरादौ तु चतुर्थेऽहन्यन्या स्त्री नरो वा दशवारं द्वादशवारं वा स्पृष्ट्वा सचैलं स्नायादाचामेच्च। अन्ते वस्त्रत्यागः। ततः शुद्धा सा यथाशक्ति दक्षिणां दत्त्वा पुण्याहं वाचयेत्। अयं चाऽऽतुरमात्रे स्नानप्रकारः। आतुरे पुंसि तु मन्त्रैरपि मार्जयेत्। ते च समुद्रज्येष्ठा इति चतस्रः। आपो हि ष्ठेति तिस्रः। शुचीवो हव्येति तिस्रः। एतोन्विन्द्रमिति तिस्र ऋच इति।

रजस्वलासूतिकयोर्मरणे तयोर्मलं प्रक्षाल्य स्नापयित्वा काष्ठवदमन्त्रकं दग्ध्वा चान्द्रायणत्रयं प्रायश्चितं कृत्वाऽस्थीनि मन्त्रवद्दहेतु सूतिकाया आद्यत्र्यहे त्र्यब्दमशीतिकृच्छ्रं वा। द्वितीयादित्र्यहेषु न्यूनम्।

रजस्वला जलावगाहाभ्यङ्गप्रवासदन्तधावननखनिकृन्तनताम्बूलमधुमांसगन्धपुष्पदिवास्वापग्रहनक्षत्रनिरक्षिणानि वर्जयेत्। मृन्मय आयसे वा भुञ्जीतेत्यादिनियमस्था च स्यात्। इति रजस्वलाविधिः।

अनुक्तेषु दण्डादिना स्तुतिनिन्दादिभिश्च प्रायश्चित्तादि कल्प्यम्। इति प्रकीर्णकप्रायश्चित्तानि ॥

अथ जातिभ्रंशकरादिप्रायश्चित्तानि— तत्र जातिभ्रंशकरेषु कामतः कृतेषु सप्ताहसाध्यं महासांतपनम्। अकामे प्राजापत्यम्। सकृदमत्या कृतयोः संकरीकरणापात्रीकरणयोः शिशुचान्द्रायणम्। अज्ञानतः संकरीकरणानुष्ठाने मासं यावकाशनम्। ज्ञानतः कृच्छ्रातिकृच्छ्रः। अज्ञानतोऽभ्यासे चान्द्रम्। ज्ञानतोऽभ्यासे चान्द्रद्वयम्। अज्ञानादपात्रीकरणे तप्तकृच्छ्रं शीतकृच्छं वा। ज्ञानतो महासांतपनम्। चान्द्रं पूर्ववत्। अज्ञानतो मलिनीकरणानुष्ठाने त्र्यहंतप्तयावकपानम्। ज्ञाने तप्तकृच्छ्रं महासांतपनं वा। अज्ञानतोऽभ्यासे कृच्छ्रातिकृच्छ्रः। ज्ञानतोऽभ्यासे द्विगुणम्। एतानिजातिभ्रंशकरादिसामान्यप्रायश्चित्तानि यत्र विशेषो नोक्तस्तत्र केवलानि योज्यानि। यत्र तु प्रातिस्विकेषु कानिचिद्वक्ष्यन्ते। तेषु जातिगुणाद्यपेक्षयैतान्यपि योज्यानि। इति जातिभ्रंशकरसंकरीकरणापात्रीकरणमलिनीकरणप्रायश्चित्तानि।

अथोपपातकप्रायश्चित्तानि। तत्र सामान्यत उपपातकेषु—

उपपातकशुद्धिः स्यादेवं चान्द्रायणेन वा।
\।पयसा वाऽपि मासेन पराकेणाथवा पुनः॥

इति याज्ञवल्क्योक्तं चतुष्टयम्। एवमित्यस्य मासं पञ्चगव्यपानेन मासं प्राजापत्याभ्यासेन वा मासमतिकृच्छ्रेण वा त्रिरात्रोपवासपूर्वकदशगोसहितवृषभदानेनेत्यर्थः। एतेषा पापाल्पत्वगुरुत्वे देशकालवयःशक्त्यादिकं चापेक्ष्य व्यवस्था बोध्या। कामकृतात्यन्ताभ्यासे तु गोवधे वक्ष्यमाणत्रैमासिकम्। तथा चोपपातकनिवृत्तौ गोघ्नवत्प्रायश्चित्तानि विकल्पितानीति क्वचित्प्रतिपदोक्तान्यन्यान्युच्यन्ते। तेषामप्येतैः सह विकल्पो विषम(य) [वि] भागो वा बोध्यः।

तत्र गोवधे - ब्राह्मणस्वामिकचतुर्हायन्यादीनां गवां शस्त्रलोष्टमुष्टिलकुटपाषाणविषाणादिना साक्षाज्ज्ञानपूर्वकं कामतो वधे मासं गोमुत्रसहितयावकयवागूपानम्। शृङ्गलाङ्गूलखुराक्स्रावयुतार्द्रहतगोचर्मावृतस्य गोष्ठे वासः। ततो मासद्वयं चतुर्थकालभोजनमक्षारलवणं मितम्। मासत्रयमपि गोमूत्रेण स्नानं गोमतीजपः। दिवा गाः पालयेदनुव्रजेदनुतिष्ठेदनुस्वपेच्च। तासु गच्छन्तीषूर्ध्वं तिष्ठन्रजः पिबेत्। रात्रौ ताः सेवित्वा नत्वा वीरासनी भवेत्। भित्त्याद्यनाश्रित्योपवेशनं वीरासनम्।

उत्तिष्ठंस्तु दिवा तिष्ठेदुपविष्टस्तथा निशि।
एतद्वीरासनं नामेत्यन्ये॥

चोरव्याघ्रपङ्कपातादिभयादिभ्यस्ताः सर्वप्राणैर्विमोचयेत्। तासु शीतोष्णवातवर्षपीडितासु त्रातुमक्षमो नाऽऽत्मनो रक्षणं कुर्यात्। स्वपरगृहक्षेत्रादावन्नादिकं भक्षयन्तीर्न कथयेन्न निवारयेत्पिबन्तं वत्सं च। एवं मासत्रयेण तत्पापविमोक्षः। अत्र स्नानाङ्गभूतमन्त्रपाठःकाले संध्यावन्दनं च कार्यम्। एवं ब्रह्मघ्नादीनामपि व्रताङ्गशौचार्थं तद्भवत्येव। स्त्रीणां तु गवानुव्रजनगोष्ठशयनगवाजिनधारणजपादिकं नास्ति। स्त्रीबालवृद्धादीनामर्धम्। शूद्रस्य स्त्रीसमानधर्मत्वादर्धमेव।

शूद्राश्चस्त्रीसधर्माणः सर्वे सद्वंशजाः स्मृताः॥

इति मनूक्तेः। प्रतिलोमजानामप्यर्धम्। वैश्यतुल्यशूद्रस्य तु पूर्णमेवेति स्मृत्यर्थसारे। अज्ञानकृतेऽप्यर्धम्। अत्र पूर्णव्रत एको वृषभो दश गावस्तन्मूल्यं वा दक्षिणा। अर्धव्रत एतदर्धमेका गौः। तावत्यविद्यमाने सर्वस्वं देयम्। अत्रमासमीषद्गोमूत्रसहितयावकपाने प्राजापत्यद्वयम्। स्नानादीतिकर्तव्यतासहितमासोपवासे शतं प्राजापत्यानि। एकादशेस्त्रातस्त्रिंशन्नक्तैः पञ्चचत्वारिंशत्संकलनया सप्तदश प्राजापत्यानि वा सप्तदश धेनवो वा तन्मूल्यं वेति चत्वारः पक्षाः। मूल्यं च तावद्द्रव्यलभ्यं काञ्चनं गौर्वासोऽश्वो भूमिस्तिला घृतमन्नं च। यत्र द्रव्यं तन्मात्रोल्लिख्य संकल्पः कार्यः। चतुर्ष्वपि पक्षेषु दक्षिणा प्रागुक्तैव। ज्ञानकृते क्षत्त्रियस्वामिके तादृशगोवधे षण्मासं तच्चर्मणाऽऽवृतो गोग्रासदो गोव्रती यवाशी गोभिरेव संचरन्विमुच्यते। अत्र षाण्मासिकव्रते द्वादश प्राजापत्यानि द्वादश धेनवस्तन्मूल्यं वेति चत्वारः पक्षाः। दक्षिणा यथाशक्तीति शूलपाणिः। अन्ये तु वृषभहन्ता वृषभं स्त्रीगोहन्ता तां दद्यादित्याहुः। वृषभरहिता दश गाव इति गौडाः। अज्ञानकृते त्वर्धम्।बालादीनां च प्राग्वत्। अज्ञानकृते वैश्यसंबन्धिगोवधेमासं पञ्चगव्यपानम्। गोष्ठे वासो गवामनुगमनं गोमतीमन्त्रजपान्ते गोदानम्। अत्र मासव्रते चत्वारि प्राजापत्यानि चतस्रो धेनवस्तन्मूल्यं वा। पश्च प्राजापत्यानीति शूलपाणिः। दक्षिणा त्वेका धेनुः। ज्ञानतो द्विगुणनेतत्। अत्र चर्मादिधारणं नास्ति। ज्ञानकृते शूद्रसंबन्धिगोवधे प्राजापत्यचतुष्टयं

चतस्रो धेनवस्तन्मूल्यं वा। यस्य तैलगुडादिव्यापारान्तरं कार णान्तरनिरपेक्षः कालान्तरे गवां प्राणमोक्षः सोऽपि साक्षाद्गोघ्नः। ज्ञानकृतत्वं च गां ज्ञात्वैतां हन्मीति कामनया हननम्। एतद्रहितमज्ञानकृतत्वम्। तद्राहित्यं च कामनाभावेन तत्प्रापकप्रमात्मकज्ञानाभावेन वा। एवं सर्वत्र बोध्यम्। प्रायश्चित्तानन्तरं पार्वणविधिना श्राद्धं कार्यम्। तच्च जीवत्पितृकेणापि। किंतु पितुः पित्रादिभ्य एव। गोचर्मधारणादिकं प्रायश्चित्तं च गोपतये गोमूल्यं प्रतिरूपगवान्तरं दत्त्वा कार्यम्। पत्रदाने त्विदं लेख्यम्। पूर्वदिने सशिखं वपनं कृत्वा परदिने घृतं प्राश्योपोष्य तत्परदिने स्नानादिकं विधाय व्रतं तत्प्रतिनिधिं वा संकल्प्यानुष्ठाय विप्राय यथोक्तां दक्षिणां दत्त्वाऽच्छिद्रावधारणं कुर्यात्। ततःपार्वणविधिना श्राद्धं भोज्यदानं च कार्यम्। यत्स्वामिकगोवधे यत्प्रायश्चित्तमुक्तं तत्स्वामिकगर्भिणीकपिलाबहुक्षीरादिक- गुणकहोमधेन्वादिवधे तद्विगुणम्। गर्भिण्यां च सचेतनगर्भेयुतायामेवेदम्। उत्पन्नमात्रदार्ढ्ययुताचेतनाङ्गप्रत्यङ्गपूर्णगर्भयुतायास्तु क्रमेण सपादंसपादद्वयं सपादत्रयं पूर्णद्विगुणं च गोघ्नव्रतम्। लगुडादिघातेऽपि गोर्जीवने गर्भमात्रपाते पूर्वोक्तोत्पन्नादिक्रमेणैकपादमर्धपादं त्रिपादं पूर्णव्रतं च। अतिवृद्धातिकृशातिबालातिरोगिणीनां वधे ज्ञानाज्ञानकृते पूर्वोक्तार्धम्। अतिवृद्धत्वं तृणादिच्छेदनासामर्थ्यम्। अतिकृशत्वं दोहनहनायोग्यत्वम्। अतिबालत्वं द्विवर्षीयत्वम्। एकवर्षत्रिवर्षयोर्वधे तु पूर्वोक्तक्रमेण पादं पादत्रयं च। एकप्रयत्ननिष्पन्नानेकगोवधे तु प्रायश्चित्ते द्वैगुण्यम्। एवं गृहदाहादिस्थलेऽपि। क्रमकृते त्वनेकगोवधे प्रयत्नभेदेन पापभेदात्प्रतिगोवधं यथोक्तप्रायश्चित्तावृत्तिः। बहुभिरेकस्या हनने यत्र यावद्विहितं तस्यैव पादं पादं प्रतिपुरुवं कार्यम्। केचित्वज्ञानतः पादं पादम्। ज्ञानतस्त्वर्धमर्धमाहुः। बहुभिरेकव्यापारेण द्वयोर्बहूनां च हनने प्रतिपुरुषं पादद्वयं पादत्रयं च कार्यम्। मिताक्षरा तु बहुभिरेकद्विबहुवधे कामकृते पूर्णमेव पूर्वोक्तंपादद्विपादादिकमकामकृतवधपरमित्याह। प्रयत्नभेदे तु प्रतिवधं प्रतिपुरुषप्रायश्चित्तावृत्तिः। द्वाभ्यामेकस्वा द्वयोर्वैकप्रयत्नेनवधे प्रत्येकं पूर्णमेव। बहूनां वधे तूक्तरीत्या प्रत्येकं द्विगुणम्।अत्यन्तव्याधिपीडितमरणावस्थापन्नोन्मत्तान्धवर्षन्यूनगोवधे पादमेव।

अधमशुद्रकैवर्तादिकस्वामिकैकहायनीद्विहायनीत्रिहायणीवधे क्रमेण प्राजापत्यार्धं सार्धप्राजापत्यं प्राजापत्यद्वयं चेति। अज्ञानतोऽर्धमेतत्। गर्भिण्यादौ द्विगुणम्। अतिरोगेऽतिकृशत्वादौ तदर्धम्। अत्र या दक्षिणोक्तां सा प्रायश्चित्तद्वैगुण्ये द्विगुणा।अर्धेऽर्धा। पादे पादरूपेत्येवं व्यवस्था बोध्या। अग्निहोत्रिणो वेदपारगस्य होमधेनोः कपिलाया गर्भिण्याः पुण्यदेशे पुण्यकाले च बुद्धिपूर्वकवधे तु वैश्यवधे वक्ष्यमाणं त्रैवार्षिकव्रतम्। एकशतं गावो वृषश्चैको दक्षिणा। एवमन्यान्यपि सहस्रगोदक्षिणायुतानि गुरुप्रायश्चित्तान्येवं वधविद्वद्वि (विद्वद्वधवि)षये योज्यानि।

अथ पञ्चविधत्वनिर्णयः- चेतनान्तरव्यापारव्यवधानमन्तरेण प्राणवियोगफलकव्यापाररूपवधनिष्पादकः कर्ता १। यस्त्वप्रवृत्तं पुरुषं वेतनादिना प्रवर्तयति प्रवृत्तं वा प्रोत्साहयति स प्रयोजकः २। वध्यस्य पलायनादिनिरोधकोऽनुग्राहकः ३। एतां हन्मीति वक्तुरनुमतिदाता निषेधक्षमोऽपि मौनालम्बी चानुमन्ता ४। उपदेश्यस्य हन्तुर्हन्तुं क्रोधम त्याद्युत्पादको निमित्तम् ५। प्रयोजकादीनां क्रमेण पादपादहानिरिति शूलपाणिः। अष्टमभागहानिरिति भवदेवः। पैठीनसिः -

हन्ता मन्तोपदेष्टा च तथा संप्रतिपादकः।
प्रोत्साद्दकः सहायश्च तथा मार्गानुदेशकः॥
आश्रयः शस्त्रदाता च शुक्तिदाता विकर्मणाम्।
उपेक्षकः शक्तिमांश्च दोषवक्ताऽनुमोदकः॥
अकार्यकारिणस्त्वेषां प्रायश्चित्तं प्रकल्पयेत्॥इति।

एवं सर्वपापेषु यथासंभवं योज्यम्।

अथ रोधादौ प्रायश्चित्तम्— क्षीणाया गोरक्षीणत्वभ्रमाद् रोधनेन वधे यत्स्वामिकगोवधेऽज्ञानतो यत्प्रायश्चित्तमुक्तं तस्य पादः। तादृश्यास्तथाभ्रमाद्बन्धनेन वधे तस्य पादद्वयम्। तथाभ्रमाद्हलशकटादावतिकालयोजनेन मरणे तत्पादत्रयम्। अतिदोहेऽप्येवम्। अङ्गुष्ठस्थूलहस्तत्रयप्रमाणपलाशदण्डनिपातनेन तादृश्यास्तथाभ्रमाद्वधे संपूर्णम्। उक्तदण्डाधिकदण्डादिना वधे तद्द्विगुणामिति केचित्। क्षीणत्वज्ञाने तु ज्ञानकृतवधविहितं तस्य पादाधिक। रोधश्वात्र रात्रौ रक्षार्थं क्रियमाणरोधातिरिक्ताहारप्रचारनिर्गमरोधः। बन्धनं च दृढकुशकाशादिकरज्जुव्यतिरि

क्तेनायथाबन्धनमकालबन्धनं च। योजनं च हलशकटादावतिवाहादिना। भवदेवस्तु वैश्यादिस्वामिकगोः क्षैण्यज्ञाने रोधादिना वधे क्रमेण चान्द्रायणपादपादद्वयपादत्रयपूर्णचान्द्रायणानि। अज्ञाने तु प्राजापत्यस्यैव पादादिकमित्याह। शूलपाणिस्तु सर्वस्वामिकगोः क्षीणत्वं ज्ञात्वा प्रवृत्तेन पुंसा रोधादिना वधे चान्द्रायणपादादिकम्। क्षीणत्वाज्ञाने तु प्राजापत्यस्यैव पादादिकमित्याह। चान्द्रायणे वृषभसहिता गौर्दक्षिणा। ताडनार्थमुद्यतं दृष्ट्वा भीत्या कूपादौ निपत्य मृते प्राजापत्यम्।

अथास्थिभङ्गादिप्रायश्चित्तम्। गवामस्थिभेदे लाङ्गूलच्छेदे कर्णशृङ्गोत्पाटने कटिभङ्गे चर्मनिर्मोचने च षण्मासाभ्यन्तरे मरणे पूर्णप्रायश्चित्तम्। षण्मासोत्तरं मरणे तदर्धम्। जीवने च मासार्धम्। गोमूत्रसहितयावकपानं सर्ववर्णानाम्। एतच्चैकप्राजापत्यसमम्। हलशकटयोर्विप्रेण वृषभवाहने प्राजापत्यद्वयम्। योषितो द्विगुणं सर्वेषाम्। समुत्सृष्टगोवृषभयोर्येन केनापि दोहने वाहने च चान्द्रायणद्वयम्। कपिलादोहने विप्रस्याप्येतदेव। उत्सृष्टवृषभगोवधे द्विजस्य कपिलावधोक्तं प्रायश्चित्तम्। शूद्रस्य तु विशेषः- वृषभादेरुत्सृष्टत्वे स्वत्वाभावेऽपि भूतपूर्वस्वत्वमाश्रित्ययत्स्वामिकवृषभादिवधकर्तुः प्रायश्चित्तमुक्तं तत्स्वामिकं तद्द्विगुणं बोध्यम्। अण्डनाशे लिङ्गच्छेदने च मृततुल्यप्रायश्चित्तम्। तदनन्तरं मरणे च द्विगुणम्।

अथ पालननिमित्तवधे– तत्राविभक्तानां भ्रातॄणां मध्ये सर्वानुमत्यैकेन प्रायश्चित्ताचरणे सर्वेषां पापक्षयान्न पृथक्प्रायश्चि- त्ताचरणम्। तत्र शूद्रस्वामिनो रक्षणाभावनिमित्तकवधे यत्किंचिद्दक्षिणादिकं केवलं प्राजापत्यम्। द्विजस्वामिनस्तु सशिखं मुण्डितस्य त्रिसंध्यावगाहनशीलस्य पूर्वोक्तचर्मावृतस्य गोव्रजवासिनो दिवारात्रं तन्मध्ये स्थितस्य प्राजापत्यम्। अन्येन ब्राह्मणभोजनमनडुत्साहिता गौश्चदक्षिणा\। इतिकर्तव्यतासहितप्राजापत्याशक्तौधेनुद्वयं दक्षिणा प्रागुक्तैव। शूलपाण्यादयस्तु सर्वेषां केवलं प्राजापत्यम्। तदशक्तावेकधेनुर्दक्षिणा तु प्रागुक्तेत्याहुः। उत्सृष्टवृषभादिषु स्वत्वाभावादपालनान्मृतेष्वप्युत्स्रष्टुर्न दोषः। अपालनमृत्युश्च शीतानिलोद्वन्धनशून्यागारापेक्षाजला

दिमज्जनकूपादिपतनसर्पविद्युद्धमनश्वभ्रपातव्याघ्रादिभक्षणकृतः। एतच्च पालनासमर्पणे। तत्समर्पणे तु पालकस्यैव दोषः। परंतु यावत्कालं पालकाधीनता तावदेव। अशक्तपालकसमर्पणे तु स्वामिन एव दोषः। एवमिक्षुतैलयन्त्रार्थं नियुज्य संनिधावीक्षणे दैवाद्गृहदाहगृहभङ्गाभ्यां गोमरणे घण्टाभरणादिदोषेण गवां विपत्तौ चार्धप्राजापत्यम्। यदि गोः शक्तिमनपेक्ष्य दत्तभारादिदोषेण मरणं तदा प्राजापत्यम्। शक्त पालकस्य संनिधिसत्त्वे कान्तारदुर्गगृहदाहावटेषु लतापाशाद्यानृतस्य गोर्यदि मरणं तदा प्राजापत्यपाद एवेत्याहुः। तथा त्रिहायनपर्यन्तवत्सस्यारक्षणेऽपि पाद एव। गोमांसभक्षकाय गोविक्रये चान्द्रायणम्। यदि तस्मै पालकेन धेनवो विक्रियन्ते तदा तत्तत्स्वामिकगोवधप्रायश्चित्तं प्राजापत्यादिकम्। पालकबहुत्वे तु पालकानामविभक्तानां सर्वेषामेकम्। विभक्तानां तु पादं पादम्। बहूनां गवामपालननिमित्तवधे पालकस्य द्विगुणम्। तत्रापि बहुकर्तृत्वे प्रत्येकं द्विगुणम्। पालकस्य द्रव्यभावे स्वामिना द्रव्यं दत्त्वा कारणीयम्। म्लेच्छपालकत्वे तु स्वामिना कर्तव्यम्। अथौषधाद्युपचारे-

दाहच्छेदशिराभेदप्रयोगैरुपकुर्वताम्।
द्विजानां गोहितार्थं च प्रायश्चित्तं मृतौ नहि॥

इदं चाज्ञानिन आदरेण यथावदुपचार एव। शास्त्रस्यानादरेणायथावदुपचारे च प्राजापत्यव्रतमन्ते धेनुर्दक्षिणा। भिषगपि विरुद्धौषधदानेनाकामतोऽप्येकगोवधे द्विगुणं गोवधप्रायश्चित्तं चरेदिति मिताक्षरादौ। अतिदाहेऽप्येतदेवेति केचित्। एवं यन्त्रेण गोचिकित्सार्थे गूढगर्भमोचन औषधस्नेहाहारदानैश्च गवादिमृतौ न प्रायश्चित्तम्। इदमपि स्वेच्छया गृह्यमाण एव। हठादधिकं दीयमानमाहारस्नेहादिकं मृतिहेतुश्चेत्पादकृच्छ्रः। एवं नगरग्रामदाहेष्ववद्धानां मृतौ पालकस्य स्वामिनश्च न दोषः। बन्धने तु पादकृच्छ्रः। एवं व्याधियुक्तानां दण्डाभिघातादिना मूर्च्छयाऽभिपतनेऽनन्तरंगमनग्रासतोयपानैस्तदानींतनताडनस्य मरणहेतुत्वाभावनिश्चये पूर्वव्याधिनिष्टानां न प्रायश्चित्तम्। यदि पूर्वव्याधियुताऽपि प्रहारजनितपीडयैव ग्रासादिकं न कृत्वैव म्रियते

तदाऽर्धं पादं वा प्रायश्वित्तं भवत्येव। शालादौ गवां मशकादिनिवृत्त्यर्थं धूमायाग्निं प्रज्वाल्य पालकादेस्तत्र स्थितौ दैवात्तदग्निना बन्धनरहितस्य गवादेर्मरणे दोषाभावः। तत्रानवस्थितौ बन्धने वा पादकृच्छ्रः। त्रिशूलादिस्थिरतरचिह्नकरणेन गोण्यादिवाहनादिभिश्चर्मनिर्मोचने दोषाभावः। मत्ता गौर्यदि निवारयन्तं पालकमतिक्रम्य गर्तकूपादौ पतनादिना म्रियते तदाऽपि न दोषः। शङ्कारहिते वनादौ सति संनिधौ पालकेऽकस्मादागतव्याघ्रादिना मरणेऽपि न दोषः। पालकस्य तत्रासत्त्वे तु दोष एव। एवं राजसैन्यादिभिः शरादिभिर्ग्रामघातराष्ट्रघातवेश्मभङ्गातिवृष्टिव्याध्युपद्रववृक्षादिपतनादिभिरुपद्रुतानामबद्धानां पालकसत्त्वे मरणे दोषो न। पालकासत्त्वे बन्धने च दोषादुक्तपादः प्रायश्चित्तम्। गोहरणे तु-

अश्वगोभूमिकन्याश्च हृत्वा चान्द्रायणं चरेत्।
क्षुद्रान्पशून्समाहृत्य प्राजापत्यं समाचरेत्॥

इति जाबाल्युक्तं प्रायश्चित्तम्। गोवधोक्तं सर्वंवृषवधेऽपि। स्त्रीत्वस्याविवक्षितत्वात्। दानं तु स्त्रीगवीणामेव। विधेयगतत्वेन स्त्रीत्वस्य विवक्षितत्वादिति मयूखे।

अत्र वपने विशेषः—पुंसां गोवधोक्तप्रायश्चित्तपादेकण्ठादधःस्थिताङ्गलोम्नां वपनम्। अर्धप्रायश्चित्ते श्मश्रूणामङ्गरोम्णां च शिरःकेशवर्जम्। त्रिपादेऽङ्गरोमश्मश्रुशिरःकेशानां शिखावर्जम्। पूर्णप्रायश्चित्ते सशिखं वपनम्। स्त्रीणां तु सधवानां वपनं न कापि प्रायश्चित्ते। किंतु सर्वान्केशान्समुद्धृत्य द्व्यङ्गुलच्छेदनमात्रं कार्यमिति स्मृत्यर्थसारे। इति गोवधप्रायश्चित्तनिर्णयः।

अथ व्रात्यप्रायश्चित्तनिर्णयः- व्रात्यश्च पञ्चदशैकविंशतित्रयोविंशतिवर्षरूपे षोडशद्वाविंशतिचतुर्विंशतिवर्षरूपे वा ब्राह्मणक्षत्रियवैश्योपनयनकाल उपनयनाभावात। तत्र यस्योपनयनेऽन्नाद्यभावेन तत्कालातिक्रमस्तस्य साधारणोक्त- चान्द्रायणादिचतुष्टयान्यतमं शक्त्यनुसारेण कृत्वोपनयनं कार्यम्। अनापदि यस्य तदतिक्रमस्तस्य मानवं त्रैमासिकम्। तदसमर्थस्य सशिखवपनपूर्वकमेकविंशतिरात्रं प्रसृतिमात्रं यावकपानं पञ्चविप्रभोजनं च। यस्य षोड़शादिवर्षादूर्ध्वम- प्यनापदि बुद्ध्या तदतिक्रमस्तेन

मासद्वयं यावकपानं मासं पयो मासार्धमामिक्षाऽष्टरात्रं घृतं षड्रात्रमयाचितं त्रिरात्रमब्भक्षताऽहोरात्रमुपवास इत्युद्दालकव्रतंकार्यम्। यस्य पितृपितामहावनुपनीतौ तस्य संवत्सरं भैक्षाशनगुरुशुश्रूषादिरूपं ब्रह्मचर्यव्रतम्। तत उपनयनम्। ततो यावतां पुरुषाणामनुपनयनं तावत्संख्याकवर्षपर्यन्तं प्रायश्चित्तार्थंयदन्ति यच्च दूरक इत्यादिसप्तपावमानीभिर्येन देवाः पवित्रेणेति यज्ञपवित्राख्येन कया नश्चित्र आ भुव इति सामपवित्राख्येन हंसः शुचिषदित्यनेनेत्येतैर्मन्त्रैः स्नानं ततोऽध्याप्यता। यस्य तु प्रपितामहादीनामुपनयनं नानुस्मर्यते तस्य द्वादशवार्षिकं पूर्वोक्तं ब्रह्मचर्यम्। तत उपनयनम्। ततः पुरुषसंख्याकाब्दपर्यतमुक्तमन्त्रैः स्नानम्। तदनन्तरमप्यस्य गार्हस्थ्यमात्रोपदेशो नाध्यापनं नापि व्यवहारः। तज्जन्ये तु स्वकालातिक्रमप्रायश्चित्तमात्रं कृत्वा यथाकालमष्टमादिवर्षे संस्कारः। अस्याध्ययनादिकं भवति। इति व्रात्यप्रायश्चित्तम्।

अथ स्तेयप्रायश्चित्तम्— स्तेयं चौर्यम्। तच्च विप्रस्वामिकस्वर्णतत्समव्यतिरिक्तमेवोपपातकम्। स्वर्णादिचौर्यस्य महापापत्वात्। तत्र विप्रस्य विप्रस्वामिकं दशकुम्भपरिमितं धान्यं वा तत्परिमितं तण्डुलाद्यन्नंवा तत्तुल्यमूल्यं वा ताम्ररजतादिकं वाऽमत्याऽपहर्तुस्त्रैमासिकं गोवधव्रतम्। तच्च गोचर्मगोसेवादितद्विशेषरहितं कार्यम्। मत्याभ्यासे वा कृच्छ्राब्दम्। क्षत्त्रियादेर्हर्तुःपादपादहासः। क्षत्त्रियस्वस्य तावतः कामतोऽपलारे षाण्मासिकम्। वैश्यस्वे त्रैमासिकम्। शूद्रस्वे चान्द्रम्। कुम्भपरिमाणं तु—

अष्टमुष्टि भवेत्किंचित्किंचिदष्टौ च पुष्कलम्।
पुष्कलानि च चत्वारि आढकः परिकीर्तितः॥
आढकानि च चत्वारि द्रोण इत्यभिधीयते।
दशद्रोणा भवेत्खारी कुम्भोऽपि द्रोणविंशतिः॥ इति।

स्मृत्यर्थसारे तु कुम्भः पञ्चसहस्रपलपरिमाण इति। सार्धशतद्वयपणमूल्यक्षत्त्रियस्वामिकगृहक्षेत्रभूमिवापीकूपतडागादिपानीयरसानां तत्स्वामिकस्य निक्षेपस्य तावन्मूल्यरजतवस्त्ररत्नादेश्च नारीनराश्वानां चापहारे चान्द्रम्। वैश्यशूद्रस्वे तादृशे पूर्वोक्तक्रमेण चान्द्रार्धवत्पादौ । विप्र-

स्वे तादृशे स्वर्णस्तेयसमम्। तेन षडब्दम्। स्वर्णस्तेयसमवदिति स्मृत्यर्थसारे। अत्र षडब्दं न्यूनं कल्प्यम्। त्रपुसीसलोहादिद्रव्याणामल्पप्रयोजनानां सार्धशतद्वयपणपञ्चदशांशमितानां हर्तुः सांतपनम्। एकवारभोजनपर्याप्तानां भक्ष्यभोज्यपानादीनामपहारे तत्सममूल्यकानां यानशय्यासनोपानत्पुष्पफलमूलकर्णमृद्भाण्डमधुमांसौषधसुगन्धद्रव्याणामपहारे पञ्चगव्येनाहोरात्रम्। द्विवारभोजनपर्याप्ततदपहारे त्रिरात्रं तत्। त्रिरात्रभोजनपर्याप्ताहारमूल्येऽप्येतदेव। तृणकाष्ठद्रुमशुष्कान्नगुडतैलचर्मणां त्रिभोजनमूल्यानां हरणेऽप्येतदिति स्मृत्यर्थसारे। द्वादशाहारपर्याप्तब्राह्मणस्वा- मिकमणिमुक्तामवालताभ्ररजतशङ्खशुक्तिलोहकांस्योपलापहारे द्वादशाहं कणान्नता। त्रिभोजनपर्याप्ताहारमूल्यकार्पासकीटजजीर्णाद्विशफैकशफपशुरज्जुपक्षिणामपहार एक उपवासः। त्र्यहं पयःपानं वा। गजाश्वभूमिकन्याहरणे षडुपवासाः। अभ्यासे चान्द्रायणम्। षण्मासं गोमूत्रयावकाहारो वा। एवं पुस्तकादिचौर्येष्वपि हियमाणाल्पत्वबहुत्वाभ्यां प्रायश्चित्तादि कल्प्यम्। देवद्रव्यापहारेऽब्दम्। यस्य वर्णस्य वृत्तिं यो हरेत्स तद्वर्णवधप्रायश्चित्तं पादोनं कुर्यात्। अत्र सर्वत्र सकृदभ्यासद्रव्याल्पत्वमहत्त्वदेशकालस्वाभ्यपहर्तृगुणवैगुण्याद्यपेक्ष्य प्रायश्चित्तगुरुलघुता ज्ञेया। इदं च प्रायश्चित्तमपहृनद्रव्यस्वामिने तद्द्रव्यं दत्त्वैव कार्यंसति स्वामिनि। वैदिकानिभ्यः काष्ठं गवे तृणं हर्तुः पान्थद्विजस्येक्षुद्रयं मूलकद्वयं चणकव्रीहिगोधूमयवमुद्गषाणां मुष्टिं क्षेत्राद्धरतः स्वाम्यनिषिद्धस्य स्तेयदोषो नेति मयूखे। इति स्तेयप्रायश्चित्तानि॥

अथ ऋणानपाकरणप्रायश्चित्तम्—यज्ञाध्ययनप्रजारूपाणां देवर्षिपितृऋणानामनपाकरणमात्मपितृपितामहादि- भिरुत्तमर्णाद्गृहीतानां धनानामदानं च तत्। तत्र यज्ञब्रह्मचर्याद्यकरणरूपदेवऋष्यादिऋण उपपातकसामान्योक्त- चान्द्रादिष्वेकं शक्त्या कार्यम्। सर्वथा तदसंभवे वर्षान्ते वैश्वानरेष्टिः कार्या। सा च सत्याधानादिना तदधिकारे तदकरणे प्रतिवर्षं कार्या। उत्तमर्णऋणादाने तु कालविलम्बादिप्रयुक्तमेतच्चान्द्राद्यन्यतमं प्रायश्चित्तमुत्तमर्णाय तद्धनं दत्त्वा कार्यं सति धने। इत्यृणानपाकरणप्रायश्चित्तम्॥

अथानाहिताग्निताप्रायश्चित्तम्— सा च सत्यधिकारेऽग्न्याधानाभावः। तत्र वर्षापूर्तौप्रतिमासं त्रिरात्रम्। ततः प्रत्यब्दं चान्द्रादिष्वेकं शक्त्या कार्यम्। अनापदि तु त्रैमासिकम्। पितर्यनग्नावाधातुरयष्टरि यष्टुश्चसुतस्य व्रात्यपशुः कार्यः। औपासनाग्न्यसंधान आवर्षंप्रतिमासमुपवासः। अब्दे चान्द्रादिष्वेकम्। यद्वा प्रथमवर्षे कृच्छ्रः। द्वितीयेऽतिकृच्छ्रः। तृतीये कृच्छ्रातिकृच्छ्रौ। ततश्चान्द्रम्। मयूख इदं ज्येष्ठस्यैव। तच्च दायकालदायाद्यकालगृहपतिमरणरूपकालत्रयातिक्रमे। कनिष्ठस्य तु सति ज्येष्ठ औपासनाग्निरहितेऽनधिकारादेव न प्रायश्चित्तम्। एवं पितरि तादृशे सुतस्यापि। इत्यनाहिताग्निताप्रायश्चित्तम् ॥

अथापण्यविक्रये प्रायश्चित्तम्—अपण्यस्य लवणादेर्विक्रयो हि सः। तत्र सुराविक्रये सौम्यकृच्छ्रचतुष्टयम्। गुडतिलपुष्पफलमूलपक्कान्नविक्रये सौम्यक्कृच्छ्रः। मत्या प्राजापत्यम्। लाक्षालवणमधुमांसतैलक्षीरदधितक्रघृत- गन्धचर्मरक्तवस्त्रतिलाद्यन्यतमविक्रये चान्द्रम्। मत्याऽभ्यासे तत्त्रयम्। अमत्या सकृदुपवासः। पयःपायसापूपेक्षुरसगुडखण्डादीनां स्नेहपकानां च विक्रये पराकः। पूगमञ्जिष्ठाखर्जूरद्राक्षाणां प्राजापत्यम्। पनसस्य त्रिदिनम्। कदलीनीरनारीकेलजम्बीरबीजपूरकनारङ्गाणां पादकृच्छ्रः। कर्पूरादेरर्धकृच्छ्रः। कस्तूरिकादीनां कृच्छ्रः। ऊर्णाकेशकेसरिणां भूधेन्वनडहाश्मशस्त्राणां च विक्रये चान्द्रम्। अभक्ष्यमांसतदस्थिशृङ्गनखशुक्तिहिङ्गुग्गुलुसर्वरसहरितालमनःशिलाञ्जनलवणक्षारमणिमुक्तावालवैणववेणुमृन्मयानां तप्तकृच्छ्रः। अपत्या सकृदुपवासः। विषशस्त्रगोनीलीकौशेयविक्रये प्राजापत्यम्। कृष्णपीतादिवस्त्रकृष्णाजिकृष्णवस्तुविक्रये त्र्यहम्। गजविक्रये चान्द्रम्। खराश्वाश्वतरकरभाणां विक्रये पराकः। नारीविक्रये चान्द्रम्। पुरुषविक्रये तद्द्वयम्। कन्यापुत्रविक्रये तद्द्वयं द्विगुणम्। एकाहाद्वेदविक्रये चान्द्रम्। अङ्गानां विक्रये पराकः। स्मृतीनां कृच्छ्रम्। इतिहासपुराणानां सांतपनम्। रहस्यपञ्चरात्राणां कृच्छ्रः। इतरविद्यामात्रस्य पादकृच्छ्रम्। सोमविक्रय उक्तप्राण्यतिरिक्तप्राणिविक्रये च तप्तकृच्छ्रः पुनरुपनयनं च। तुषकपालमस्मरोमपिण्याकानां प्राजापत्यम्। मधूच्छिष्टत्रपुसीसकृष्णलोहोदुम्बरखड्गपात्रगोधूमविक्रये सांतपनम्। आगमतडागोदपानपुष्क-

रिणीसुकृतविक्रये त्रिषवणस्त्राय्यधःशायी चतुर्थकालाहारो गायत्रीदशसहस्रं जपन्संवत्सरेण शुध्येत्। हीनमानहीनोन्मानाभ्यां विक्रयेऽन्यमिश्रितान्यवस्तुविक्रये चैवम्। तत्र मानं प्रस्थादि। उन्मानं तुलादि। विषमतुलाधारणेऽर्घकृच्छ्रः। निगडादिविक्रये प्राजापत्यम्। प्रतिश्रयोद्यानसभाप्रपादिविक्रये तप्तकृच्छ्रः। अत्र सर्वत्र दण्डशास्त्रपर्यालोचनेन प्रायश्चित्ते न्यूनाधिक्यं योज्यम्। तिलतैलदधिक्षौद्रलवणद्राक्षामद्यमांसपक्वान्नस्त्रीपुरुषहस्त्यश्वगोनृपभगन्धरसक्षौमकृष्णाजिनसोमनीलीविक्रयात्सद्यः पतति विप्रः। प्रायश्चित्तं त्वकामकृते। एतत्सर्वमापदि वैश्यवृत्त्या जीवतो विप्रस्यैव। अन्नापदि तु वैश्यभिन्नानां सर्वेषामेव। शूलपाणि स्तु-आपदि शूद्रस्यैव दोषाभावः। क्षत्त्रियस्यापि भवत्येव प्रायश्चित्तमित्याह। शूद्रस्याऽऽपद्यपि मधुचर्मलाक्षासुरामांसानां विक्रये दोष एव। तिलगोधूमादीनां तु क्रीतानां विक्रय एव दोषः। कृष्युत्पादितानां विक्रये तु नेति बोध्यम्। इदं च प्रायश्चित्तजातं तत्तद्विक्रयार्जितधनोत्सर्गपूर्वकं कार्यमनापदि । इत्यपण्यविक्रये प्रायश्चित्तम्॥

अथ परिवेदनप्रायश्चित्तम्— अकृतविवाहोऽग्रजोऽनुजेन प्रागात्मनो विवाहं कुर्वताऽतिक्रान्तः स परिवित्तिः। स च प्राजापत्यं चरित्वा कनीयसा पूर्वपरिणीतां तेन दत्तामुद्वहेत्। तस्यैव हि सा भार्या नानुजस्य।अशास्त्रीयत्वात्तद्विवाहस्य। अनुजश्च व्युत्क्रमेण विवाहजन्यदोषवान्परिविदानः परिवेत्ता चोच्यते। अयममत्या चेत्तदा चान्द्रादिष्वेकं कृत्वोढां ज्येष्ठाय दत्त्वा पुनरन्यामुद्वहेत्। यद्वा तामेव ब्रह्मचर्याहृतभैक्षवद्गुरुं परिभवपरिहारार्थंनिवेद्य तेनानुज्ञातां पुनस्तामुद्वहेत्। इदमेव युक्तम्। मत्या चेत्रैमासिकम्। अकामतश्चेत्कृच्छ्रातिकृच्छ्रौ कृत्वैव कुर्यात्। इदं कन्यापित्रादिदत्तोद्वाहे देशान्तरे स्थिते ज्येष्ठे कृतविवाहोऽसाविति भ्रान्तिमतः परिवि(वे)त्तुः। कन्यापित्राद्यपरिज्ञाने तत्पित्रादिभिरदत्तां बला- त्कारादिना कामतो ज्ञात्वा चोद्वोढुरब्दं प्राजापत्यादिप्रायश्चित्तपूर्वकं पूर्वोक्तम्। परिवेत्तुरब्दविषये परिवित्तस्य ज्येष्ठस्य द्वौ कृच्छ्रौ। परिवेदनीयायाः कृच्छ्रः। पित्रादेर्दातुः कृच्छ्रातिकृच्छ्रौ। परिकर्त्तातद्याजकस्तस्य चान्द्रायणम्। इदं निर्गुणे ज्येष्ठे। गुणवति ज्येष्ठे

बुद्धिपूर्वकपरिवेदने परिवेत्रादयः परिकर्त्रन्ताःसर्वे पतिताः संवत्सर प्राजापत्यैः शुध्येयुः। दत्तकादीनां तु नायं दोषः—

भिन्नोदरे च दत्ते च पितृव्यतनये तथा।
दाराग्निहोत्रसंयोगे न दोषः परिवेदने॥

इति गौतमस्मरणात्। भिन्नोदर इति सापत्नाभ्रातृविषयम्। दत्ते चेति जनककुले ज्येष्ठभ्रातृसत्त्वेऽपि न दत्तकस्य विवाहादौ परिवेत्तृत्वं नापि ज्येष्ठस्य परिवित्तित्त्वमित्यर्थः। पितृव्यतनय इति देवरेणोत्पादिनस्य भ्रातुः क्षेत्रजपुत्रस्य विवाहादौ देवग्पुत्रादेःपरिवेत्तृत्वादिकं नेत्यर्थः। एवं ज्येष्ठायामनूढायां या कनिष्ठा विवाहिता साऽग्रेदिदिषुःज्येष्ठा तु दिधिषुः। तत्राग्रेदिधिषुपतिः कृच्छं कृत्वा पुनस्तामेवोद्वहेत्। दिधिषुपतिस्तु कृच्छ्रातिकृच्छ्रौ कृत्वा कनीयस्याः पत्ये तां निवेद्य तस्मै नत्वा तेनानुज्ञातस्तां पुनरुद्वाहयेत्। एवं कन्ययोर्योज्यम्। ज्ञानकामकारबलात्कारादिविषये पूर्वोक्तं संवत्सरादिकं व्यवस्थया योज्यम्।

अथानाहिताग्नितायां प्रायश्चित्तम्-

अनाहिताग्नौ ज्येष्ठे तु कनीयानादधीत चेत्।
पर्याधाता कनिष्ठः स्याज्ज्येष्ठः पर्याहितः स्मृतः॥

तयोः संवत्सरव्रतम्। इदं ज्ञात्वा कामतः करणे। अन्यथा प्राग्वद्योज्यम्। क्लीववृषलीपतिविरक्तसंन्यस्तातिरोगिजडमूकगरदवाधिरकुब्जवामनपङ्गुवृद्धतस्करंविवाहानिच्छुशूद्रतुल्यमृतभार्याणां परिवेदने दोषो न। एवंधने कृष्यादौ वैश्यायां वाऽऽसक्त्या दाराग्निहोत्रानिच्छुपरिवेदनेऽपि। धनधर्मविद्यार्जनार्थं देशान्तरस्थे ज्येष्ठेःद्वादशवर्षंप्रतीक्षा। कार्यान्तरार्थं देशान्तरस्थे दशवर्षम्। इति परिवेदनप्रायश्चित्तम्॥

अथ भृतकाध्ययनादिप्रायश्चित्तम्— पणपूर्वकाध्यापकाध्ययनग्रहणं भृतकाध्ययनम्। पणपूर्वकमध्यापनं च भृतकाध्यापनम्। तत्कर्तारौ पयसा ब्राह्मीं सुवर्चलां त्रीन्पक्षान्नियतं पिबेताम्। अनापदि शक्त्याद्यपेक्षया चान्द्रादिष्वेकम्। अनुप्रयोगमदानेऽप्येवम्। उत्कर्षहेतोरधीयानस्य किं पठसि नाशितं त्वयेत्येवं पर्यनुयोगोऽनुप्रयोगदानम्।

अनुप्रयोगदानाभ्यासे पातित्यमाहुः। इति भूतकाध्ययनादिप्रायश्चित्तम्॥

अथ पारदार्यप्रायश्चित्तम्— पारदार्यं च गुरुतल्पं तदातिदेशिकतत्समव्यतिरिक्तपरस्त्रीगमनरूपम्। पुरुषान्तराव्यभिचरितां जातिमात्रविप्रामृतौ विप्रोगत्वा पूर्वोक्तं वार्षिकं ब्रह्मचर्यव्रतम्। धर्मादिकर्मशीलत्वादिगुणशालिनीं तादृशीं गन्तु- र्विप्रस्य द्विवार्षिकं प्रायश्चित्तम्। श्रोत्रिय पत्न्यां तादृश्यां त्रिवार्षिकं तत्। ताभिर्यादि द्रव्यं दत्तं भवेत्तार्हि तत्संत्यज्यप्रायश्चित्तम्। द्वित्रिचतुर्वारगमने क्रमेण द्वित्रिचतुर्गुणम्। अग्रे च पातित्यम्। एवं द्वितीयतृतीयादिगमनेऽपि। शूलपाणिमिताक्षरादयस्त्वेकस्यामेव द्वित्रिवारगमने पूर्वोक्तमेव पादहान्येति प्रोचुः। क्षत्त्रियादीनां स्वस्ववर्णासु गमने पादहानिः। विप्रस्य क्षत्त्रियादिस्त्रीषु द्विवार्षिकत्रिवार्षिकषण्मासिकानि गुणवतीषु। शूद्रस्य परकीयायां गुणवत्यां शूद्र्यांगन्तुः षाण्मासिकम्। अकामतः सर्वत्रैतदर्धम्। स्वभर्तृव्यतिरिक्तसवर्णैकपुरुषगामिन्यां गन्तुः पूर्वोक्तमेव पादहान्या कायम्। पुरुषद्वयगामिन्यां द्विपादहानिः। पुरुषत्रयगामिन्यां त्रिपादहानिः। पुरुषचतुष्टयगामिन्यां स्वैरिणीसंज्ञिकायां विप्रायां गन्तुस्त्र्यहोपवासपूर्वकं घृतपात्रदानम्। तादृश्यां क्षत्रियायामुपवासत्र्यपूर्वकमाढकयवदानम्। वैश्यायां गन्ता चतुर्थकालाहारो विप्रान्भोजयेत्। शूद्रायां गन्तुः सचैलस्नानपूर्वकमुदकुम्भदानम्। पञ्चमादिगामिन्य बन्धकीसंज्ञायामष्टमुष्टियवदानम्। तादृश्यां शूद्रायां विप्रस्योदकुम्भदानम्। क्षत्रियायां धेनुदानम्। वैश्यायां वस्त्रदानम्। अभ्यासे प्रायश्चित्तावृत्तिः। गौडास्तु विप्रादेः क्षत्त्रियादिगमनस्यैवार्धार्धादिहानिमाहुः। अनृतौ जातिमात्रविप्रांविप्रो गत्वा मानवं त्रैमासिकं कुर्यात्। ईदृशक्षत्त्रियादिस्त्रीषु क्रमेण द्वैमासिकचान्द्रायणमासिकानि। क्षत्त्रियादीनां स्वस्ववर्णास्वनृतौ गमने द्वैमासिकान्येव। आसु गर्भोत्पत्तौ तु तत्तद्विषये सर्वत्रोक्तमेव द्विगुणं कार्यम्। शूद्रायां गर्भोत्पत्तौ तु त्रीणि वर्षाणि चतुर्थकाले नक्तं भुञ्जीत। विप्रस्यानिच्छन्तीषु विप्रादिस्त्रीषु गन्तुरनुक्रमेण गोघ्नत्रैमासिकद्वैमासिकचान्द्रमासिकानि। गोभिन्नासु तिर्यग्योनिषु महिषीगर्दभादिषु गमने सचैलस्नानं गोभ्यस्तृणभारदानं च। एक उपवासो वा। कामतोऽभ्यासे कृच्छ्रपादम्। अत्यन्ताभ्यासे प्राजापत्यम्। शुनी-

गमनाभ्यासेऽतिकृच्छ्रः। गवि सकृद्गमन उपवासपूर्वकं गोदानम्। कामतस्तु त्रैमासिकं गोघ्नव्रतम्। कामतोऽभ्यामे प्राजापत्यं त्रैमासिकं च। कामतोऽत्यन्ताभ्यासे संवत्सरव्रतम्। आजन्मान्यन्ताभ्यासे गुरुतल्पसमम् रजकचर्मकारबुरुडकैवर्तमेदभिल्लाः सप्तान्तेवमायिनस्तेषां स्त्रीषु व्याधशैलूषनटवेणुजीविकापालकम्लेच्छादिस्त्रीषु च विप्रस्य च कामतः सकृद्गमने चान्द्रद्वयम्। अमत्या पराकश्चान्द्रंवा। रेतःसेकात्प्राङ्निवृत्तौ कायम्। एतदभ्यासे तु कायावृत्तिः। आस्वेव कामतोऽभ्यासे कृच्छ्रब्दम्। अज्ञानात्तथाऽभ्यासे चान्द्रद्वयम्। गर्भोत्पत्ती त्रैवार्षिकम्। अज्ञानत आसुचतुर्विंशतिवारगमनात्पातित्यम्। ज्ञानतस्तदर्धादिति गौडाः। संवत्सरादर्वाग्ज्ञानतो द्वादशधा गमनादज्ञानतश्चतुर्विंशशतिवारं गमनाभ्यासे च द्वौ मासौ भैक्षौभुक्द्वौ मासौ गोमूत्रयावकभुक्द्वौ मासौ पञ्चगव्याशी। एवं षण्मासाच्छुध्यति। अन्त्यजवच्छौण्डिकादिस्त्रीषु योज्यम्। अमत्या सकृद्वक्ष्यमाणचाण्डालादिस्त्रीषु गमने षडब्दम्। गर्भोत्पत्तौ द्वादशवार्षिकम्। ज्ञानतोऽभ्यासे वाऽग्निप्रवेशादिना मरणमेव। क्षत्रियादीनां पादहानिः। ज्ञाने तु सर्वेषां मरणमेव। अनुपनेतुभ्रातृजायायां मत्या सकृद्गमने चान्द्रम्। मत्या क्रियासिद्धेः प्राङ्निवृत्तौ चान्द्रम्। मत्या क्रियासिद्धिपर्यन्तं सकृद्गमनेऽमत्याऽभ्यासे च संवत्सरं विप्रकुले भैक्षम्। मत्याऽभ्यासे तु गुरुतल्पसमम्। एतदेवानुपनेतृपितृव्यमातुलजाययोर्विधवासु परस्त्रीषु गमने कृच्छ्राधिकं तत्तत्पूर्वोक्तप्रायश्चित्तम्। आसु रजस्वलासु गमने प्रकीर्णकप्रकरणोक्तरजस्वलाप्रायश्चित्तैः सह तेषां समुच्चयः। तत्राप्यधिकेन न्यूनस्य प्रसङ्गात्सिद्धिः। साम्ये तु तन्त्रम्। यत्तु रजस्वलागमनमनुपातकमिति तत्तादृश्यां श्रोत्रियपत्न्यां कामतोऽभ्यासे बोध्यम्।

अथ स्त्रीणां प्रायश्चित्तम्—

यत्पुंसः पारदार्येषु तच्चैनां चारयेदवतम्॥ इति।

स्त्रीणामर्धमिति तु स्त्रीपुंससाधारणव्रतोपदेशविषयम्। इदं च स्त्रीणां समानेषूत्तमेषु वा वर्णेष्विच्छापूर्वकव्यभिचार एव। अनिच्छन्त्यास्तु मलिनाया अधःशयानायाः पिण्डमात्रोपजीविन्या गृहे भर्त्रा गुप्तमवरूद्धायाः कृच्छ्रं पराको वा शक्त्यपेक्षया। अभ्यासे चान्द्रम्। अका-

मतो ब्राह्मण्या वैश्यक्षत्त्रियगमने मासं तदर्धंच क्रमेण गोमूत्रयावकपानम्। ज्ञानतस्तु सकृच्छ्रं चान्द्रद्वयम्। सकृच्छ्रचान्द्रमेकं चान्द्रं च क्रमेण। अनिच्छन्त्याः स्वपतिभ्रान्तिमत्या वा शूद्रगमने रेतःसेकात्प्राङ्निवृत्तौ सकृच्छ्रं चान्द्रम्। रेतःसेके सकृच्छ्रं चान्द्रत्रयम्। बुद्धिपूर्वकं गर्भपर्यन्तं क्षत्त्रियवैश्यगमनाभ्यासेऽनिच्छया क्षत्त्रियवैश्यगर्भप्रसवे च कृतचिह्नायानिर्वासनम्। शूद्रविषये तु कामतः संगमे गर्भानुत्पत्तावप्यनिच्छयोत्पन्नगर्भस्रावेऽपि च तथा निर्वासनम्। तादृशक्षत्त्रियाया वैश्यगमने सकृच्छ्रं चन्द्रायणम्। शूद्रसंगमे सकृच्छ्रं चान्द्रद्वयम्। वैश्यायास्वादृश्याः शूद्रसंगमे सकृच्छ्रं चान्द्रम्। शूद्रायाः शूद्रगमने प्राजापत्यम्। अज्ञानतः क्षत्त्रियाया विप्रक्षत्त्रवैश्यगमनेषु क्रोणार्धकायंकायतिकृच्छ्राणि। वैश्याया विप्रक्षत्रियवैश्येषु गमने कृच्छपादकृच्छ्रार्धकायानि । शूद्राया विप्रक्षत्रियवैश्येष्वहोरात्रत्रिरात्रार्धकृच्छ्रणि । विप्राया गर्भोत्पत्तौतत्प्रसवे च विप्रगर्भे पराकः। क्षत्त्रगर्भे चान्द्रम। वैश्यगर्भे सपराकं चान्द्रम्। इदमकामतः कामतश्चेद्विगुणम्। सर्वत्र प्रागुक्तेन समुच्चय इत्यूह्यः। यदा शूद्रगर्भं प्रसूते तदा त्यागः पतितत्वात्। केचिद्विप्रायाः शूद्रगर्भस्रावे पाते च चान्द्रत्रयम्। कामतो द्विगुणमित्याहुः। एवं क्षत्रियवैश्यस्त्रियोर्विप्रादिगर्भे पादपादन्यूनम्। यदा त्वाहितगर्भा एव व्यभिचरन्ति तदा गर्भबाधशङ्कया दशमासोत्तरं प्रसवे सति प्रायश्चित्तमाचरेयुः। गर्भस्य तु न दोषः । तच्च मासं यावकपानम्। यदा त्वौद्धत्यात्त्रियः प्रायश्चित्तं नेच्छन्ति तदा तासां नासाकर्णादिकर्तनम्। यदा विप्रस्त्री प्रागुक्तरजकादीनकामतो गच्छति तदा चान्द्रत्रयम्। चाण्डालाद्यन्तेवसायिगमने तु चान्द्रचतुष्टयम्। मत्या द्विगुणम्। रेतःसेकात्प्राङ्निवृत्तौ चान्द्रमेव। गर्भोत्पत्त्यनन्तरमन्त्यजगमने तु प्रसवोत्तरमेव प्रायश्चित्तम्। तदनुष्ठानं यावत्पृथगवतिष्ठेन्न तु गृहे प्रचरेत्। तच्च सार्धकृच्छ्राब्दं हिरण्यं वासो धेनुर्वा दक्षिणा। इदमकामतः। मत्याऽन्त्यजसंगमे तु मरणाच्छुद्धिः। रजकादितो गर्भोत्पत्तौ च त्याग एव। प्रायश्चित्ताकरणे तु पुंलिङ्गेनाङ्कनीया। वध्येत्यन्ये। अनिच्छन्त्या बलादानुलोम्येन व्यभिचारे कृच्छ्रम्। द्विर्भोगे पराकः। त्रिरैन्दवम्। रेतःसेकात्प्राङ्निवृत्तावुपवासत्रयम्। एवं बन्दिग्राहं गृहीत्वा बलाद्भुक्तायाःसांतपनम्। तथाऽन्त्यजाद्युपभोगाभ्यासे त्याग एव । मनसा भर्तुरभि-

चोरे त्रिरात्रं क्षीरोदभोजनमधःशयनं चतुर्थेऽहन्यप्सुमग्नाया द्वात्रिंशदधिकचतुःशतावृत्तगायत्रीमैन्त्रेणाभिषेकः। वाचाऽभिचारे मासं क्षीरौदनम्। अन्यत्प्राग्वत्। रजोदर्शने तु तेनैव वाचिकमानसिकव्यभिचारशुद्धिः। प्रायश्चित्तं तुरजोदर्शनात्प्राग्व्यवहार्यत्वसिद्धये। पतिघ्न्यागुरुशिष्यादिगर्भायाः कृतचिह्नाया गृहान्निर्वासनमेव। इदमपि प्रसव एव न तु स्रावादौ। अन्यगर्भायास्तु यावत्प्रायश्चित्तं गृहे निरोध एव। शूद्रस्य विप्रस्त्रीगमनवीरणकुशवेष्टितस्याग्नौ दहनम्।विप्रस्त्रियास्तु वपनं कारयित्वा सर्पिषाऽभ्यज्य नग्नां खरमारोप्य राजमार्गं भ्रामयेत्। ततः पूता भवेत्। वैश्यस्य लोहितदर्भैर्वेष्टितस्याग्नौ प्रक्षेपणम्। विप्रायाः प्राग्वत्। क्षत्त्रियस्य शरपत्रैर्वेष्टितस्य तत्। विप्रायाः पूर्ववत्। एवं वैश्यस्य राजकन्यायां शूद्रस्य राजन्यवैश्यस्त्रीगमनेऽपि ज्ञानत इच्छापूर्वकसंगम इदम्। अकामतः स्वभार्याभ्रान्त्या शूद्रस्य विपस्त्रीगमने द्वादशवार्षिकम्। वैश्यस्य नवाब्दम्। क्षत्रियस्य षडब्दम्। एवं शूद्रस्य क्षत्त्रियवैश्यस्त्रीगमने षड्वार्षिंकम। वैश्यस्य क्षत्रस्त्रीगमनेऽपि षडब्दम्। एतदपि गर्भानुत्पत्तौ। गर्भोत्पत्तौ द्विगुणम्। शूद्रस्याकामतोऽत्यन्तव्यभिचारिविप्रस्त्रीगमने मासं गोमूत्रयावकाहारकता। वैश्यक्षत्रिययोः कृच्छ्रं सांतपनम्। इति पारदार्योपपातकप्रायश्चित्तानि।

अथपरिवित्तिवार्धुष्यलवणक्रियाप्रायश्चित्तानि- कनीयसि कृतविवाहे ज्येष्ठस्य विवाहराहित्यं पारिवित्यम्। तद्वान्परिवि- त्तिः। तत्प्रायश्चित्तं परिवेदनप्रकरण एवोक्तम्। वार्धुष्णंनिषिद्धवृद्ध्युपजीवनम्। तत्र चान्द्रादिष्वेकं त्रैमासिकं वा जातिशक्तिगुणाद्यपेक्षया योज्यम्। लवक्रिया लवणोत्पादनम्। तत्राप्येवं बोध्यम्। इति परिवित्तिवार्धष्यलणकियाप्रायश्चित्तानि॥

अथ स्त्रीशूद्रवैश्यक्षत्त्रवधप्रायश्चित्तानि—तत्रानात्रेच्या अगर्भिण्याः स्त्रिया वधः स्त्रीवधः। कामतो गुणवत्तरब्राह्मणीवधे विप्रस्य षड्वार्षिकं ब्रह्महत्याव्रतम्। क्षत्त्रियवैश्यशूद्रजातिस्त्रीवधेततदर्धंतदर्धानि। अमत्या चेत्सर्वत्र तत्तदर्थम्। सापत्नमातृभगिनीस्नुषाभार्याद्यतिप्रत्यासन्नगुणवत्तरावधेऽप्येतदेव। निर्गुणवरसापत्नभगिनीपितृष्वसृमातृष्वसृ

मातुलानीपितृव्यजायाभ्रातृव्यजायाश्वश्रूणां वध एतदेव पादोनम्। निर्गुणतरायाः सपिण्डसगोत्रस्त्रिया वधेऽर्धम्।असोमपाग्निहोत्रिश्रोत्रियपत्नीत्वादिगुणविशेषे द्विगुणम्। गुणानामाधिक्ये प्रायश्चित्ताधिक्यम्। सकृत्सवर्णव्यभिचारिणीनां ब्राह्मण्यादीनां वधे वृषभैकादशगोदानदक्षिणासहितं संवत्सरव्रतं गोदानसहितषाण्मासिकव्रतं धेनुसहितसांतपनंधेनुद्वयदानं चेति क्रमेण। इदं कामतः। अकामतश्चेत्तदर्धम्। अथ सकृत्सवर्णव्यभिचरितास्वप्रसूतास्वर्धम्। प्रातिलोम्येन व्यभिचरितब्राह्मण्यादिवधे तु गोवधोक्तं यथार्हंयोज्यम्। प्रातिलोम्येनात्यन्तव्यभिचरितानां तत्प्रसूतानां ब्राह्मण्यादीनां वधेक्रमेण चर्मकार्मुकच्छागमेषदानानि। चर्मात्र चर्ममयं जलभाण्डम्। अज्ञानत इदम्। ज्ञानतस्तु द्विगुणम्। स्मृत्यर्थसारे तु ज्ञानतो वधे षट्चतुदर्व्येकमासाः। प्रसूतादीनां वधे चैवमित्युक्तम्। अप्रसूतासु किंचिदधिकम्।अनुलोमेनात्यन्तव्यभिचरितासु ततोऽपि किंचिदधिकम्। गणिकाकर्मणा जीवन्तीनां विप्रादिकान्तानां वधे किंचिज्जलदानम्। जलस्पर्शमात्रमित्यन्ये। अपत्यादिहननशूद्रगमनादिभिरतिदुष्टब्राह्मण्यादिवधे तु न किंचित्प्रायश्चित्तम्। किंतु विपरीतं पुण्यमेवेत्याहुः।

जातिमात्रक्षत्रियवैश्यशूद्रवधेषु क्रमेण त्रैवार्षिकवार्षिकषाण्मासिकानि ब्रह्महत्याव्रतानि। त्रैमासिकसार्धनवमासिकानीत्यन्ये। अमत्येदम्। मत्या तु द्विगुणम्। क्षत्रियादिकर्तृक एतद्वधेपादपादहानिः। प्राश्चस्तु—अमत्या जातिमात्रक्षत्रवधे नव कृच्छाणि। तादृग्वैश्यवधेचत्वारि। शूद्रवधे द्वयम्। ज्ञानतः सर्वत्र द्विगुणमित्याहुः। नृपतिवधे द्वादशवार्षिकम्। प्रयोजकादीनां पादपादहानिः सर्वत्र। अत्र सर्वत्र शवशिरःकपालध्वजताऽऽवश्यकी। कामतः सकृत्प्रतिलोमसूतवधे चान्द्रम्। वैदेहवधे पादोनम्। चाण्डालवधे द्विपादम्। मागधवधे पादोनम्। आयोगववधे द्विपदम्। ज्ञानतोऽर्धम्। चाण्डालवधे द्विचान्द्रमित्यर्थः। द्विगुणमन्त्यजातिवधे। ततः स्त्रीवधे षड्रात्रमुपवासस्तिलदानं चेत्याहुः। चोराणामेतेषां वध एकोपवासपूर्वकं घृतप्राशनम्।

अयान्यहिंसायाम्–तत्रास्थिमतां कृकलासादीनामनुक्तप्रायश्चित्तानां सहस्रवधेऽनस्थिमतां क्षुद्राणां जलूकमत्कुणयुकादं- शादीनां शकटपूर्णवधे

कृमिकीटपतंगपिपीलिकाभ्रमरदंशमक्षिकादीनां सहस्रवधाभ्यासं चषाण्मासिकं शूद्रहव्रतम्। दशधेनुदानं वा। परिमाणाधिक्ये प्रायश्चित्ताधिक्यम्। इतोऽल्पपरिमाणवधे मलिनीकरणत्वात्त्र्यहं तप्तयावकपानम्। अमत्याऽल्पैतद्वधे घुणादिजन्तुवधे च किंचिद्देयम्। अष्टमुष्टिमिनं धान्यं किंचित्। ततोऽप्यल्पे क्षुद्रतमेऽनस्यिजन्तोश्च प्राणायामाः। फलपुष्प-धान्यान्तरसंजातप्राणिवधाभ्यासे दिनमेकं घृताहारः। क्षत्रियादीनां पादपादहानिः। स्त्रीणामर्धम्। गौडास्तु कृकलासादिसहस्रवधे जलकादिशकटवधे च तप्तकृच्छ्रम्। अभ्यासे प्रागुक्तमित्याहुः।

मार्जरगोधानकुलमूषकमण्डूककुक्कुटचाषकाकोलूकश्वसर्पादीनां प्रत्येकं वधेपादकृच्छ्रम्। त्रिरात्रं क्षीरपानं वा। एकवर्षवत्सदानं वा। समुद्रगानदीस्त्रानं वा। योजनगमनं वा यथार्हंयोज्यम्। मत्या द्विगुणम्। अभ्यास आवृत्तिः। मत्याऽभ्यासे कायम्। समुदितवधाभ्यासेषाण्मासिकं शूद्रवधव्रतम्। दशधेनुदानं वा। अत्र कपालधारणादिकं नास्ति। कोकिलाकपोतशुककपिजलटिट्टिभखञ्जरीटानां पुरुषभारवधेऽध्येतदेव। गजवधे पञ्चनीलवृषभदानम्। हयवधे तु वरवस्त्रयुग्मम्। उष्ट्रे गुञ्जाभारः स्वर्णं वा गुञ्जामितम्। खरे वृष एकवर्षवत्सो वा। अजामेषयोरप्येवन्। अत्राभ्यासे त्रिरात्रमुपवासोऽपि। अत्यन्ताभ्यासे सप्तरात्रोपवासश्च। हंससारसपारावतमयूरचक्रवाकबलाकाविषजकङ्कश्वावित्का- रण्डवश्येनभासराजपक्षादिषु गौर्देया। गृध्रकाकोलूककपोतकुक्कुटबृहत्पक्षादिषु त्रिवर्षो वत्सः। शुकचाषखञ्जरीटलावकसारिकादिषु द्विवर्षवत्सः। टिट्टिभतित्तिरकारण्डवचटकादिषु क्षुद्रपक्षिष्वेकवर्षो वत्सः। क्रव्यादव्याघ्रसृगालादिवधे वानरहंसश्येनकङ्कगृध्रादिषु जलचरबलाकादिपक्षिषु स्थलचरकाकादिषु भासे मयूरे च प्रत्येकं वधे धेनुर्देया। अक्रव्यादहरिणादिमृगेषु खञ्जरीटादिपक्षिषु च वत्सतरी देया। सर्पादिसरीसृपेषु लोहदण्डस्तीक्ष्णोभयाग्रः। यद्वा शुक्रेषु द्विवर्षो वत्सः। क्रौञ्चे त्रिवर्षः। महिषादिवधे वत्सतरी। वराहे घृतकुम्भः। तित्तिरौ तिलद्रोणः। नपुंसकभृगपक्षादिवधे माषमितं सीसं पलालभारो वा।

अत्र दानाशक्तौ तु स्मृत्यर्थसारे - गजाश्वोष्ट्रखरगौरावयऋक्षमहि-

षमेषादिष्वमत्या प्रत्येकं वधे सार्धकृच्छ्रः। समस्तवधे चान्द्रम्। मत्या समस्तवधेऽपि चान्द्रम्। मत्या समस्तवधे त्वावृत्तिश्चान्द्रस्य । हरिणसारङ्गरुरुवराहसिंहगण्डकव्याघ्रमहामत्स्यग्राहशिशुमारादिष्वमत्या प्रत्येकं कृच्छ्रः । समस्तवधे कृच्छ्रद्वयम्। मत्या प्रत्येकं वधे चैवम्। समस्तवधे चान्द्रम्। श्ववृकवानरजम्बूकविड्वराहादिष्वमत्या प्रत्येकं त्रिरात्रम्। समस्तबधे कृच्छ्रः। मत्या प्रत्येकं वधे चैवम्। समस्तवधेद्विगुणम्। मार्जारसर्पाजगरडुण्डुभनकुलमण्डूक- मूषककर्कटशलभसेधागोधाशल्यककूर्मशशादिष्वमत्या प्रत्येकं वधे पादकृच्छ्रः। समस्तबधे त्वर्धकृच्छ्रः। मत्या प्रत्येकं वधे चैवम्। समस्तवधे कृच्छ्रः। हंसादिष्वमत्या प्रत्येकं वधे कृच्छ्रः। गृध्रादिषु पादन्यूनः। शुकादिवर्धकृच्छ्रः। मत्या द्विगुणम्। टिट्टिभादिषु पादः। समस्तवधादौ द्विगुणम्। हरिणादिषु हंसादिषु च हन्तृबहुत्वे प्रत्येकं त्रिरात्रम्। श्वादिषु गृध्रादिषु चैवम्। गजादिषुप्रतिपुरुषंकृच्छ्रः। मार्जारादिशुकादिषु च प्रत्येकमुपवासः। टिट्टिभादिषु प्रतिपुरुषं नक्तम्। मृतप्रायेषु तु गजादिष्वमत्या प्रत्येकं वधे त्रिरात्रम्। हरिणादिषु द्विरात्रम्। खरादिषु चतुर्थकालाहारः। मार्जारादिषूपवासः। गृध्रादिषु नक्तम्। शुकादिष्वेकभक्तम्। टिट्टिभादिषु जले प्राणायामः। अविज्ञातसर्वमृगपक्षिषु त्रिरात्रमिति। इदं सर्वदेशकालजातिशक्तिगुणाद्यपेक्षया गुरुलघुविषये योज्यम्। इति स्त्रीशूद्रादिवधेऽन्यहिंसायां च प्रायश्चित्तानि॥

अथ द्रुमादिच्छेदनप्रायश्चित्तम् - वृक्षगुल्मलतागुच्छक्षुपप्रतानौषधिवीरुधांफलपुष्पादिभिरुपयोगिनीनां यज्ञाद्यदृष्टार्थं विना छेदे शतगायत्रीजपः। तत्र वृक्षाः पिप्पलाशोकाभ्रपनसाद्याः। गुल्मा मालत्यादयः। गुच्छाः कुरण्टकादयः। क्षुपाः करवीरादयः। प्रतानाः सारिवादयः। ओषध्यः शाल्यादयः। वीरुधो गुडूच्याद्याः। इदमकामतोऽसकृच्छेदे कामतः सकृच्छेदे च। ग्राम्यारण्यौषधिच्छेदनात्यन्ताभ्यासे दिवा तु गोपरिचर्यांकृत्वा रात्रौ क्षीरं पीत्वा स्वपेत्। कामतोऽभ्यासेऽकामतोऽत्यन्ताभ्यासे च वृक्षलताविषयेऽप्यर्धकृच्छ्रः। फलवतां च्छेदे प्राजापत्यम्। कुष्याद्युपकरणादिदृष्टार्थं यज्ञाद्यदृष्टार्थं च च्छेदे तु न दोषः। महाफल-

पदानां नारीकेलादिवृक्षाणां कामतश्छेदनात्यन्ताभ्यासे संवत्सरव्रतम्। सकृच्छेदे तूक्तद्विगुणजपः। एवं चैत्यश्मशान-सीमापुण्यस्थानदेवालयस्थे वृक्षेऽन्यस्मिन्नपि चतुष्पथस्थे महाच्छायावृक्षे प्रख्याते वा वृक्षे छिन्ने द्विगुणजपः प्राजापत्यं च बोध्यम्। शूद्रस्य तु दण्डानुसारेण जपस्थाने द्विरात्रोपवासादि कल्प्यम्। इत्थं छिन्नवृक्षादेरग्रहणविषयम्। छित्त्वा परिग्रहणे तु दण्डाधिक्यदर्शनात्प्रायश्चित्तातिरेको बोध्यः। कामतोऽत्यन्ताभ्यासे वृक्षादौ सर्वत्र चान्द्रादिष्वेकम्। इति द्रुमादिच्छेद-प्रायश्चित्तम्॥

अथ प्रसङ्गाच्छ्वादिदंशप्रायश्चित्तम्—श्ववृकसृगालखरोष्ट्रविड्वराहकाककुक्कुटवानरपुंश्चलीक्रव्यादनराश्वैर्नाभेरध ईषद्दष्टो विप्रो जले प्राणायामत्रयं कृत्वा घृतं प्राश्य शुध्यति। अत्र घृतप्राशनं भोजनस्थाने। तेनाऽऽहारान्तरनिवृत्तिः। अत्र सरुधिरदंशे षोडश प्राणायामा आपो हि ष्ठेत्यादिभिः स्नानं चाधिकम्। अतिगाढदंशे समुद्रगायां नद्यां प्राणायामशत मन्यत्पूर्ववत्। अत्र शक्तौ सत्यां ब्रह्मचारिणस्त्रिरात्रं सायं दुग्धपानमेव। गृहस्थस्य द्विरात्रम्। अग्निहोत्रिण एकाहम्। नाभेरूर्ध्वे दंश इदमेव द्विगुणम्। मुखे दष्टस्य त्रिगुणम्। मस्तके दंशे चतुर्गुणम्। मार्जारमूषकनकुलाजमहिषीहीन जात्याऽरण्यमृगैश्च दृष्टे दश प्राणायामाः। नाभेरध ईषद्दष्टस्य पञ्च। क्षत्रियादौ पादपादन्यूनम्। शूद्रस्यामन्त्रकप्राणायामाः। उपवासादेव शूद्रस्य शुद्धिरित्यन्ये।

स्त्रीणां तु श्वादिदंशे स्नात्वोदितस्य नक्षत्रचन्द्रादेर्दर्शनाच्छुद्धिः। कृच्छ्रादिव्रतस्थाया दंशे तु त्रिरूपवासपूर्वकं चतुर्थे यावकभोजनम्। ततो व्रतशेषसमाप्तिः। व्रतस्थस्य पुंसोऽप्येतदेव।जपाद्यधिकं प्राणायामादिकं च। रजस्वलायाः श्वादिदंशे त्वेकोपवासमुपवासपञ्चकं वा कृत्वा षष्ठे पञ्चगव्यपानम्। नाभेरूर्ध्वें तु प्रागुक्तक्रमेण द्वित्रिचतुर्गुणं बोध्यम्। अत्यसमर्थस्य दिवा दंश आ नक्षत्रादभोजनम्।रात्रिदंश आ सूर्यादभोजनं गायत्रीशतजपो वा। यदा तु श्वादिदंशजे वा शस्त्रघातादिजे वा व्रणे कृमथउत्पद्यन्ते तदा गोमूत्रगोमयाभ्यां त्रिसंध्यं स्नानं त्रिरात्रं पञ्चगव्यपानं च। नाभेरूर्ध्वें कण्ठादधः षड्रात्रम्। शिरोव्रणे कृमिषु कायम्। युगपदनेकव्रणेषु कृमिसंभवे सांतपनम्। वृषभश्च दक्षिणा। इदं च श्वादिदंशनिमित्तप्रायश्चित्तसहितमेव। शस्त्रादिव्रणे कृमिदर्शने तु

केवलमेवैतत्।क्षत्रियादीनां पादहानिः। अन्यव्रणेषु कृमिदोषे तूपवासहिरण्यदानकृच्छ्रैःशुद्धिः। इति श्वादिदंशकृमिव्रणादिप्रायश्चित्तानि॥
अथ निन्द्यार्थजीवनप्रायश्चित्तम्—शास्त्रोक्तोपायार्जितादर्थान्तरेणोपजीवनं निन्द्यार्थजीवनम्। तत्र चान्द्रादिष्वेकं त्रैमासिकं वा जातिशक्त्याद्यपेक्षया। नास्तिक्यं वेदनिन्दनं तेन जीवनं च परलोको नास्तीत्यभिनिवेशश्च। तस्मिन्सकृत्कृते कृच्छ्रः। तेन जीवनेऽतिकृच्छ्रः। अज्ञानतोऽर्धम्। ज्ञानतोऽभ्यासे चान्द्रादिष्वेकम्। अत्यन्ताभिनिवेशेन बहुकालाभ्यासे ग्रीष्मवर्षा-हेमन्तर्तुषु क्रमेणाऽऽतपाभ्रावकाशजलशयनानि। पञ्चवर्षे प्रतिग्र(गृ)हेषुभैक्ष्यं वा।इति निन्द्यार्थजीवनप्रायश्चित्तम् ॥

अथ व्रतलोपे ब्रह्मचारिणः प्रायश्चित्तम्—स च ब्रह्मचारिणः पुंस्त्रीमैथुनरूपः। सर्वसाधारणस्तु देवताराधनाद्यर्थे गृहीत-व्रतलोपः। प्रायश्चित्तार्थंप्रक्रान्तकृच्छ्रादिव्रतच्युतिश्च। किंचिद्व्रतं संकल्प्य त्यागश्च। संकल्पितस्नातकव्रतादेर्मिथ्याकरणं च। शिष्टाप्रतिषिद्धस्य भोजनव्यतिरेकेण मया जलं न पातव्यमित्यादिनियमत्यागश्च। तत्र कालदेशशक्तिबहुत्वाल्पत्वा-दिकं पर्यालोच्योपपातकसामान्यप्रायश्चित्तानि योज्यानि।

अवकीणतारूपे ब्रह्मचर्यादिव्रतलोपे तूच्यते—तत्र गुरुतल्पतत्समानेतरां स्त्रियं गत्वा नैर्ऋतदैवतेनैकाक्षेण गर्दभेण पशुनाऽरण्ये चतुष्पथे रात्रौ लौकिकाग्नौपाकयज्ञधर्मेणाऽऽश्वलायनादिगृह्योक्तपशुकल्पतन्त्रेणेष्ट्वा तस्याजिनमूर्ध्ववालं परिधाय त्रिषवणस्नायी लोहितपात्रः स्वकर्माऽऽचक्षाणः सप्तगृहे भैक्ष्यं कुर्वन्नेकवारभोजी वर्षेण शुध्येत्। एवमशक्तौ नैर्ऋतं चरुं निरुप्य पक्त्वा कामाय स्वाहा। कामकामाय स्वाहा।निर्ऋत्यै स्वाहा। रक्षोभ्यः स्वाहा।देवताभ्यः स्वाहेति हुत्वा होमशेषं समाप्योक्तमब्दव्रतं चरित्वा शुध्येत्। इदमश्रोत्रियाविप्रपत्न्यांश्रोत्रियवैश्यपत्न्यां च ज्ञेयम्। यदा तु गुणवत्योः श्रोत्रियपत्न्योर्विप्रक्षत्रियस्त्रियोरवकीर्णी तदात्रिवार्षिकं द्विवार्षिकं च व्रतं होमश्च। अमत्याऽवकीर्णत्व ईषद्व्यभिचारिण्यां च तत्त्वे वार्षिकव्रतविषये षण्मासं ब्रह्महव्रतं चीरवासाश्चरेत्। द्विवार्षिकादिविषये त्वमत्याऽर्धम्।

अत्यन्तव्यभिचरितशूद्रायां सचैलस्नातस्योदकुम्भदानम्। तादृ-

ग्वैश्यायां चतुर्थकालाहारो विप्रान्भोजयेत्। तृणभारं च गोभ्यो दद्यात्। तादृक्क्षत्रियायां त्रिरात्रोपोषितेन घृतपात्रं देयम्। तादृग्विप्रायां षडुपवासा गोदानं च कार्यम्।गोष्ववकीर्णस्य कायम्।षण्ढावकीर्णस्य पलालभारसीसमाषयोर्दानम्। स्त्रीसंभोगमन्तरेण मत्या रेतो विसर्गे ब्रह्मचारिणो नैर्ऋतयागमात्रम्। दिने स्वप्ने रेतोविसर्गे चैवम्। कृच्छ्रचान्द्रायणादिव-व्रतेष्वतिदिष्टब्रह्मचर्येषु रेतःस्कन्दनेऽप्येवम्।रात्रिस्वप्नेरेतःस्कन्दने ब्रह्मचारी स्नात्वाऽर्कमर्चयित्वा पुनर्मा मै[त्वि]त्यृचो जपेद्गायत्रीं वा त्रिर्जपेत्। अष्टशतगायत्रीजप इत्यन्ये। वानप्रस्थयत्योर्मित्या ब्रह्मचर्यलोपे पराकत्रययुक्तमवकीर्णिव्रतम्। मत्या कृच्छ्रत्रयम्।

अथ प्रसङ्गाद्ब्रह्मचारिणः प्रायश्चित्तमुच्यते—ब्रह्मचारिणोऽनातुरस्य गुरुशुश्रूषादिगुरुतरकार्यव्यग्रतया सप्तरात्रं भैक्ष्यस्याग्निकार्यस्य वा लोपे कामावकीर्णोऽस्म्यवकीर्णोऽस्मि कामाय स्वाहा।कामावपन्नोऽस्म्यवपन्नोऽस्मि कामकामाय स्वाहा। इत्याभ्यामाज्याहुती हुत्वा समासिञ्चन्तु मरुतः समिन्द्रः संबृहस्पतिः समाऽयमग्निः सिञ्चत्वायुषा च बलेन चेत्येतेनोपतिष्ठेत्। अव्यग्रतया तल्लोपे त्ववकीर्णिव्रतम्। अन्ये सप्तरात्रमवकीर्णिव्रतमित्याहुः। मणिवासोगवादीनां प्रतिग्रहेऽष्टसहस्रगायत्रीजपः। उपनयनोत्तरं दिनचतुष्टयव्रतमध्ये मेखलायज्ञोपवीतदण्डादीनां नाशे वस्त्रं सूत्रान्तरं वा धृत्वा मनो ज्योतिरित्यादिमनोलिङ्गाभिस्त्वमग्ने व्रतपा असीत्यादिव्रतलिङ्गाभिश्चस्रआज्याहुतीर्हुत्वोपनयनोक्तविधिना पुनर्मेखलादीनि धारयेत्। असद्भैक्ष्यभोजने सुप्तोदिते सुप्तास्तमिते च वान्ते दिवास्वापे नग्नस्त्रीदर्शने नग्नस्वापे श्मशानक्रमणहयाद्यारोहणपूज्यातिक्रमेषु चैतैर्जुहुयात्। यज्ञोपवीतं विना तदन्यथा वा कृत्वा भोजने विण्मूत्रोत्सर्गे वा गायत्र्यष्टसहस्रजपः। पाने त्रिः प्राणायामाः। फलादिभक्षणे षट्। भोजनमेहनयोरप्येवमित्येके। सूर्योदयस्वापिनो दिवोपवासो दशाधिकसहस्रगायत्रीजपः। अस्तमयस्वापिनस्तु रात्र्युपवासोत्तरदिने प्रागुक्तजप इत्यन्ये। स्थावरजङ्गमवृक्ष-वल्मीकपशुसरीसृपादिप्राणिवधे कूष्माण्डीभिर्होमः। यज्ञोपवीतमेखलाजिनदण्डानां लोपे व्याहृतिहोमं षट् प्राणायामांश्च कृत्वा पुनर्धारयेत्।

संध्याग्निकार्यलोपे स्नात्वाऽष्टसहस्रगायत्री जपः । भिक्षाटनमकृत्वा स्वस्थस्यैकान्नाशनेऽष्ट-शतजपः । भिक्षायां तु क्वचिदेकाम्नाशने दोषो न । शौचाचमनसंध्याभिक्षाग्निकार्यकौपीन मेखलाजिनलोपे शूद्रादिस्पर्शे छत्रपादुकाभ्यङ्गोद्वर्तनानुलेपाञ्जनजलक्रीडाद्यूतनृत्यगीत-वाद्याद्यभिरतिपाखण्ड्यादिसंभाषणपर्युषितभोजनादिकरणे सकलदोषपरिहारार्थेकृच्छ्रत्रयं महाव्याहृतिहोमश्च । बहुकालं बहुतरधर्मलोपे तं वो घियेति मन्त्रस्य शिवालये लक्षजपः । गुरुशुश्रूषाद्यल्पलोपेऽष्टशतजपः । मधुमद्यमांसलशुनभक्षणे कृच्छ्रम् \। मत्या पराकः \।अभ्यासे द्विगुणं पुनरुपनयनं च । तत आरब्धव्रतस्य समापनम् । मद्यग्रहणं क्षत्रियादिविषयम् । तदेकनाश्यरोगाद्यर्थे मध्वादिकं गुरूच्छिष्टं कृत्वा भोक्तव्यम् । ततो रोगनिवृत्तौ हंसः शुचिष-दित्यादित्यमुपतिष्ठेत् । मध्वादेरकामतो भक्षणे दोषो न । गुर्वाज्ञाविघाते गुरोः प्रतिकूलाचरणे च स्नात्वा प्रणिपातादिना गुरुं प्रसाद्य गतकोपदुःखं कृत्वा शुध्येत् । एतदज्ञानपूर्वकं सकृदपराधेऽन्यत्रात्यन्ताभ्यासे पितृविषये ब्रह्महत्यावत्।
ब्रह्मचारिणो यतिव्रतिनोश्च मासिकादिप्रेतश्राद्धभोजने त्रिरात्रमुपवासश्च चतुर्थे नक्तं प्राणायामत्रयं च पञ्चमदिने घृतप्राशनं च । अनापदि तु काय मेकोपवासः पञ्चगव्यं च । अभ्यासे तप्तकृच्छ्रादि । शूद्रान्नभोजने पराकः । क्षत्रियोच्छिष्टभोजने स्नात्वाऽष्टशतजपो द्वादशदिनमुपवासश्च । उच्छिष्टमत्र तद्भोजनोत्तरं पाकपात्रेऽवशिष्टम् । वैश्यशूद्रोच्छिष्टेऽ-धिकं कल्प्यम् । चोरव्याघ्रादिभयाकुलदेशे महान्धकारे रात्रौ गुरुणा स्वकार्यार्थे प्रेषितः शिष्यो दैवान्मृतश्चेद्गुरोः कृच्छ्रत्रयम् । सर्वत्राऽऽरोग्यार्थमौषधपथ्यान्नदानेनतदर्थे क्रियमाणयत्नैर्वा गोब्राह्मणादिप्राणिमृतौ न कश्चिदोष इति प्रासङ्गिकः सर्वहिंसापवादः । इति व्रतलोपप्रायश्चित्तानि ॥
अथाभिशंसिप्रायश्चित्तम् - यस्तु विप्रोविप्रं महापातकादिना मिथ्याऽभिशंसेदनेन ब्रह्महत्यादिकं गोहत्यादि वा कृतमिति संय[व]हर्तृजनान्प्रति मिथ्या ब्रूयात्स मासमम्बुभक्षो नियतेन्द्रियः शुद्धवतीमन्त्रजपशीलः शुध्येत् । इदमुपपातकाभिशंसनाभ्यासे महापातकस्य सकृदभिशंसने च । क्षत्रियाद्यभिशंसने विप्रस्यार्धार्धहानिः । यदा क्षत्रियादयो विप्रमभिशंसन्ति तदा तेषां द्वित्रिचतुर्गुणम् । शूद्रस्य जपस्थानेऽ-

मन्त्रकपाणायामाः । सत्याभिशंसने सर्वत्र तदर्धम् । अतिपातकमिथ्याभिशंसिनामुक्तमास-व्रतं पादोनम् \। अनुपातकाभिशंसिनां ततो न्यूनम् । उपपातके सकृदभिशंसने ततो न्यूनम् । उपपातकाभिशंसनाभ्यासे मासव्रतमुक्तम् । प्रकीर्णकेषु सकृदभिशंसने ततोऽपि न्यूनम् । अतिपातकादिष्वभ्यासे किंचिदधिकमूह्यम् । अथ मिथ्याभिशस्तस्य महापातकेषु कृच्छ्रम् \। अतिपातकादिषु पादपादहासः । मिथ्याभिशस्तस्य वर्षपर्यन्तं प्रायश्चित्ताकरणे मासमम्बु-भक्षता । तत्र सार्धकृच्छ्रद्वयम् । महापापाभिशस्तस्य वर्षोत्तरं द्विमासम् । तत्र पञ्च कृच्छ्राः । गुरुविषये कामतो मिथ्याभिशंसनावृत्तौ पञ्चवर्षे विप्रकुले भैक्षाचरणं संवत्सरं वा षण्मासं वा गवानुगमनम् । अत्राभ्यासाभिनिवेशादितारतम्येन व्यवस्था \। इत्यभिशंसिमिथ्या-भिशस्तयोः प्रायश्चित्तानि ॥
अथ सुतविक्रयप्रायश्चित्तम् - स च धनं गृहीत्वा दास्यार्थं कन्यापुत्रादेर्दानम् । एवं भार्याविक्रयेऽप्यूह्यम् । तत्र कन्याविक्रये देवगृहमतिश्रयोद्यानारामपुष्करणीसभाप्रपापुण्य-सेतुविक्रये सुकृतविक्रये च चान्द्रादिष्वेकम् । अथवा त्रैमासिकम् । आपदि तप्तकृच्छ्रः । अत्यन्तापदि सांतपनम् । पुत्रविक्रये च सर्वे द्विगुणम् । एकपुत्रस्यानापदि कामतः सुतविक्रये चत्रिषवणस्त्राय्यघःशायी चतुर्थकालाशी वत्सरेण शुध्यति । ईदृशकन्याविक्रये तदर्धेन शुद्धिः । कामतोऽनापद्यनेकपुत्रस्य सुतविक्रये चान्द्रम् \। आपद्येकपुत्रस्य कामतः सुतविक्रये चान्द्रद्वयम् । इति पुत्रकन्याविक्रयप्रायश्चित्तानि \।\।
सुतविक्रयोत्तरं धान्यपुष्पपशुस्तेय इत्युपपातकगणे पठितं तत्प्रायश्चित्तं स्तेयप्रकरण एवोक्तम् ।
अथायाज्ययाजने प्रायश्चित्तम् — तत्र व्रात्ययाजको व्रात्योपनेता ब्रात्याध्यापकोऽहीनयाजकः । शुद्रान्त्येष्टिकर्मयाजको वेदविप्लावी तस्करेतरशरणागतत्यागी तस्कररक्षको वशीकरणो-च्चाटनादिरूपाभिचारकर्त्ताचामत्या कृच्छ्रांतपनातिकृच्छ्रेषु त्रिषु यथायोग्यं क्वचित्समुदितं क्वचिदेकं कुर्यात् \। आततायिविषयाभिचारे न दोषः । व्रात्यलक्षणं प्रागुक्तम् । द्विरात्रादि-द्वादशाहान्तोऽहर्गणो यज्ञोऽद्दीनः । मत्या व्रात्यस्योपनयनाध्यापनयाजनेषूद्दालकव्रतम् । मत्या सर्वेष्वेवं वा । उद्दाल-

कव्रतं च व्रात्यप्रकरण उक्तम् । विप्रद्यन्त्येष्टिकर्मसु लोभाद्याजने क्रमेण कायोऽतिकृच्छ्र-स्तप्तकृच्छ्रश्च। अभ्यासे द्विगुणम् । अत्यन्ताभ्यासे त्रिगुणम् ।शूद्राद्ययाज्ययाजने तत्पौरोहित्ये तदध्यापने चामत्या चान्द्रादिष्वेकमशक्तौ कृच्छ्रं मत्या त्रैमासिकम् । अभ्यासे द्विगुणादि । कामतोऽत्यन्तशूद्रयाजनाभ्यासे ग्रीष्मवर्षादिमन्तेषु क्रमेण पञ्चतपोभ्रावकाशजलशयनानि कुर्यात् । गोमूत्रयावकाशनं च । अकामतोऽभ्यासे तल्लब्धसर्वद्रव्यत्यागेन दशसहस्त्र-प्राणायामाभ्यासेन शुध्यति । परिवेदकादियाजनेऽप्येवम् ।सर्वत्र लब्धद्रव्यत्यागपूर्वकमे- तत्प्रायश्चित्तानुष्ठानम् । एवं पर्वचाण्डालश्रोत्रावकाशाद्यनध्यायेष्वध्ययनमशुचिनाऽध्ययनं वा निषिद्धाध्ययनं निषिद्धाध्यायनं च वेदविप्लावनम् । तत्राऽऽद्ये मत्या त्रिरात्रमुपवासः \। अभ्यासे कृच्छ्रम् । अत्यन्ताभ्यासे कृच्छ्रत्रयम् । कामतोऽत्यन्तानवच्छिन्नाभ्यासे संवत्सरं यवौदनभोजनम् । एतदेव गर्हिताध्यापकयोजकयोर्दक्षिणात्यागमात्रमधिकम् । स्मृति-धर्मशास्त्रव्याख्यानेऽधीते च तदर्धम् । नित्यानध्यायेष्वध्ययने यावदधीतं तावज्जलेऽघमर्षण-वत्स्वाध्यायं जपेत् । अशक्तौ जले स्थित्वा जपमात्रम् । अत्यशक्तः स्थले जपेत् । मत्या प्रत्यनध्यायमुपवासः । अशुचिनाऽध्ययने चैवम् । नैमित्तिकानध्यायेष्वध्ययने चाप्येवम् । दुर्बोधस्य तदर्धम् । काककुक्कुटमूषकमण्डूकादेरन्तरा गमने नक्तं तावदध्ययनविरामश्च । गवाश्वमहिषादिपशुस्त्रीशूद्राद्यन्तरा गमने तूपवासः । मार्जारसर्पनकुलपञ्चमजात्यादेरन्तरा गमने त्रिरात्रमुपवासस्त्रिषवणस्नानं च। जानुभ्यां ग्रामान्तरगमनं वा ।श्ववृकसृगालवानर-रजकादीनामन्तरा गमने कायम् । खरवराहोष्ट्रादिचाण्डालसूतिकोदक्याशचादेरन्तरा गमने कायत्रयम् । गौरगवयाजादिब्रह्मोक्तनास्तिकादेरन्तरा गमने त्रैमासिकम् । शशमेषश्व-पाकादिगमने षाण्मासिकम् । गजगण्डसारख्यामहापातकिकृतघ्नादिगमने कृच्छ्राब्दं तावत्प्रायश्चित्तकालमनध्ययनं च । अमत्या सर्वत्रार्धम् । केचिदन्तरा गमने सर्वत्र तदानीमेवा-ध्ययनविरामे प्रायश्चित्तं नेत्याहुः । इत्ययाज्ययाजनादिप्रायश्चित्तानि ॥

अथ पितृमातृसुतत्यागप्रायश्चित्तम् – अपतितानां पितृमातृगुरूणां गृहान्निष्काशनं हि सः । तत्र मत्या तत्कर्तुञ्चान्द्रादिष्वेकं त्रैमासिकं वा

जातिशक्तिगुणाभ्यासादिकापेक्षया योज्यम् । मत्याऽभ्यासे मासं षष्ठान्नकालता मासं संहिताजपो वाऽधिकः । भार्यासुतत्यागेऽप्येवम् । मातुस्तु सर्वदोषेऽप्यत्याज्यतैव । सर्वथा रक्षणीयत्वात् । इति पित्रादित्यागप्रायश्चित्तानि \।
अनन्तरं तडागारामविक्रय इत्युपपातकं पठितं तत्प्रायश्चित्तं तु सुतविक्रयप्रसङ्ग उक्तं वेदितव्यम् ।
अथ कन्यादूषणादिप्रायश्चित्तम् — तच्चाङ्गुल्यादिना तस्याः क्षतयोनित्वकरणं मिथ्यातद्दोष-ख्यापनं च । तत्र सवर्णानां कन्यादूषणे चान्द्रं त्रैमासिकं वा । आनुलोम्येनासवर्णकन्यादूषणे मासं पयःपानं कार्यं वा । प्रातिलोम्ये तु क्षत्रियवैश्ययोः कृच्छ्राब्दं ग्रीष्मवर्षाहेमन्तेषु क्रमेणा-ऽऽतपाभ्रावकाशजलाशयपूर्वकं मासं गोमूत्रयावकपानं वा । शूद्रस्य तु विप्रादिकन्यादूषणे वध एव । अत्यन्ताभ्यासे सवर्णस्यापि कृच्छ्राब्दम्। सोमविक्रयी वृषलीपतिः कौमारदार-त्यागी शूद्रयाजको गुरोः प्रतिहन्ता सुराभिन्नमद्यपो ब्राह्मणवृत्तिघ्नः कूटव्यवहारी मित्रध्रु-क्शरणागतघाती प्रतिरूपवृत्तिश्चैतेऽमत्या प्रवृत्तास्त्रैमासिकं व्रतं कुर्युः । मत्या षाण्मासिकम् । अभ्यासे कृच्छ्राब्दम् । इति कन्यादूषणादिप्रायश्चित्तानि ॥
अथ क्रमप्राप्तपरिवेदकयाजनादिप्रायश्चित्तम्-परिवेदकयाजने तस्मै कन्यादाने गुरौ कौटिल्य आत्मार्थपाकारम्भे च मद्यपायाः स्वस्त्रिया अप्युपभोगरूपे मद्यपस्त्रीनिषेवणेदेवताराधना- द्यर्थगृहीतत्रतलोपेडन्यस्मिन्व्रतलोपे चैतेषूपपातकेषु चान्द्रादिष्वेकं त्रैमासिकं वा । इति परिवेदकयाजनादिप्रायश्चित्तानि ॥
अथ स्वाध्यायाग्निसुतत्यागप्रयश्चित्तम् — तत्रात्यन्तापदि स्वल्पकालमधीतवेदत्यागे कायम् । अधिककालेऽतिकृच्छ्रम् । ततोऽप्यधिके पराकः । मासोत्तरं वेदत्यागे चान्द्रम् \। यदा तु धनार्जनाद्यासक्ततयाऽसच्छास्त्राभ्यासकुटुम्बलालनाद्याकुलतया चिरकालं वेदं त्यजति तदा चान्द्रादिष्वेकं त्रैमासिकं वा । नास्तिक्याद्व्यसनासक्त्या वा वेदत्यागो ब्रह्महत्यासमः । तथा नास्तिक्यादग्नित्यागे मासद्वये जाते कायं कृत्वा पुनःसंघानम् । मासचतुष्टयेऽतिकृच्छ्रः । षण्मासत्यागे पराकः ।

तदूर्ध्वं चान्द्रादिष्वेकम् \। संवत्सरादूर्ध्वं त्रैमासिकं द्वैमासिकं वा । यदा त्वालस्यादिना त्यजति तदा द्वादशाहातिक्रमे त्रय उपवासाः। मासातिक्रमे द्वादश। वत्सरातिक्रमे मासोपवासो मासं पयोभक्षणं वा । प्रमादादिना तत्त्यागे त्वात्रिरात्राद्द्वादश प्राणायामाः। आ षड्रात्राचतुर्विंशतिः । आ द्वादशरात्रात्पञ्चाशत् । आ विंशतिरात्राच्छतं प्राणायामाः । आत्रिंशद्रात्रादुपवासः । आ षष्टिरात्राचिरात्रम् \। आ संवत्सरात्कायम् । अतः परं प्रत्यब्दं कायम् । सर्वत्र यावत्काल-महोमी तावद्द्रव्यं तण्डुलादि देयम् । प्रमादभिन्नविषये तु संवत्सरादूर्ध्वमग्नित्यागे चान्द्रम् । द्विवर्षे त्यागे चान्द्रं सोमायनं च चान्द्रद्वयं वा । त्रिवर्षो संवत्सरं कृच्छ्राचरणं गोदानं च कृत्वा पुनराधानम् \। संस्काराद्यकरणरूपे विभवे सत्यरक्षणरूपे च सुतत्यागे चान्द्रादिष्वेकम् । इति स्वाध्यायाग्निसुतत्यागप्रायश्चित्तानि \।\।
पातित्यादित्यागकारणाभावेऽपि पितृव्यमातुलादिरूपवान्धवैः सह संभाषणसहभोजनादि-वर्जनरूपे शक्तौ सत्यां पालनाद्यकरणरूपे च बान्धवत्यागे, भार्यायाः वेश्यात्वकरणेन जीवनरूपे स्त्रीधनोपजीवनकरणे च स्त्रिया जीवने, हिंसया जीवने वश्याद्यर्थौषधीभिर्जीवने जालबडिशादिविधानरूपे तिलेक्ष्वादिपीडनयन्त्रप्रवर्तनरूपे च हिंस्रयन्त्रप्रवर्तने मृगया-द्यूताद्यष्टादशव्यसनेषु च चान्द्रादिष्वेकं त्रैमासिकं वा । अत्यन्ताभ्यासे द्यूते मृगयायां च पाञ्चवार्षिकव्रतम् । अनृतवादी तस्करो राजभृत्यो वृक्षारोपणवृत्तिर्गरदोऽग्निदो हयगजरथा-रोहणजीवी रङ्गोपजीवी श्वगणिकः शूद्राभ्यापको वृषलीपतिर्भाण्डीकः श्ववृत्तिर्ब्रह्मजीवी नक्षत्रोपजीवी चिकित्सको देवलको राजपुरोहितः कितवो मन्त्रपः कूटका- रकोऽपत्यनरपशुविक्रेता पाखण्डयागभोज्यान्नाशी चेत्येते ब्राहृण्यमिच्छन्तो लब्धद्रव्यं त्यक्त्वा त्रैमासिकं कुर्युः । बहुकालाभ्यासे संवत्सरं चतुर्थकालाहारः । तत्र श्वगणिकः श्वगणजीवी । भाण्डीकस्तूर्यादिजीवी बन्दी वा । श्ववृत्तिर्नीचसेवकः । ब्रह्मजीवी मूल्येन द्विजकर्मकर्ता \। द्रव्यग्रहणेन परहास्यकरणरूपे दासीभवनरूपे वा ।
आत्मविक्रये शूद्रसेवारूपे शूद्रप्रेष्यत्वे हीनजातिषु मैत्रीरूपे दीनसख्ये च चान्द्रादिष्वकं त्रैमासिकं वा । बहुकालं शुद्धसेवायां चतुर्थ-

काले मितभोजनत्रिकालस्नानाभ्यां त्रिवर्षेण शुद्धिः । समुद्रयाने ब्राह्मणन्यासहरणे सर्वषण्यै-र्व्यवहारे भूम्यनृते च शूद्रसेवावत् । उत्तमजातिसख्यविघटन उपोष्य परदिने पयःपारणम् ।
अकृतसवर्णविवाहस्य हीनवर्णविवाहो हीनयोनिनिषेवणं साधारणस्त्रीसंज्ञकवेश्यादि- संभोगश्च। तत्राऽऽद्ये चान्द्रादिष्वेकं त्रैमासिकं वा। सकृदमतिपूर्वकवेश्यादिगमने प्राजापत्यम् । द्विरात्राभ्यासे कामतश्व सकृद्गमने सप्तरात्रं सप्तकुशोदकपानम् । मतिपूर्वकाभ्यासे चान्द्रम् \। अत्यन्ताभ्यासे त्रैमासिकम्। रेतःसेकात्मानिवृत्तौ सचैलंस्नानं गोभ्य ओषधिभारदानं च। आजन्मात्यन्तानवच्छिन्नाभ्यासे गुरुतल्पवत्। अत्र प्रतिनिमित्तं नैमित्तिकस्य प्रायश्चित्तस्या-ऽऽवृत्तिर्नास्ति । किंतु मत्या गमनाभ्यासेऽहर्गुणवृद्धिर्मासादर्वाक् । ततो मासगुणवृद्धिर्या-वदब्दम् । ततो द्विगुणा वृद्धिर्यावत्पापाचरणम् \। अमत्या गमनाभ्यासे तु सकृत्कृते यत्प्रोक्तं तन्त्रिभिर्दिनैस्त्रिगुणम् । मासात्पञ्चगुणम् । षण्मासाद्दशगुणम् । अब्दात्पञ्चदशगुणम् \। त्र्यब्दाद्विंशतिगुणम् । ततोऽप्येवं प्रकल्प्यम् । एवमुपपातकाभ्यासेऽनुक्तप्रकारविशेषे सर्वत्रोद्यम् । महापातकाभ्यासे तु सकृत्कृते यत्प्रोक्तं तद्वितीये द्विगुणम् । तृतीये त्रिगुणम् । चतुर्थे निष्कृतिर्नास्तीत्यादिकम् ।
अगृहीताश्रमित्वमनाश्रमित्वम् । वर्षपर्यन्तमाश्रमं विनाऽवस्थाने प्राजापत्यं कृत्वाऽऽश्रम-स्वीकारः । द्वितीयेऽतिकृच्छ्रः । तृतीये कृच्छ्रा- तिकृच्छ्रम् । अत ऊर्ध्वं चान्द्रादीत्यादि । अनापदि तु प्रथमेऽब्दे चान्द्रा दिष्वेकं त्रैमासिकं वा । ततो वर्षेषु द्वित्रिचतुर्गुणम् । परपाकरतिः परान्नपुष्टता । चार्वाकादिशास्त्राभ्यासोऽसच्छास्त्राधिगमनम् । स्वर्णाद्युत्पत्ति-स्थानेषु राजाज्ञयाऽधिकारित्वमाकराधिकारः । तेषु भार्याविक्रये च चान्द्रादिष्वेकं त्रैमासिकं वा । इति परान्नपुष्टतादिचतुरुपपातकप्रायश्चित्तानि ॥
अथासत्प्रतिग्रहप्रायश्चित्तानि - तत्र प्रतिग्रहस्यासत्त्वं चातिदुष्टचाण्डालादेः कर्मदुष्टपतितादेश्व दातृत्वे भवति । कुरुक्षेत्रादिदेशे ग्रहणादिकाले च भवति । स्वरूपतोऽपि सुरामद्यमेषी-कृष्णाजिनकालपुरुषमृतशय्योभयतोमुख्यादेरसत्त्वम् । मद्यं वृक्षादिसंभवम् । धान्यसंभवा सुरा ।

तत्र निमित्तद्वयसमावेशो यथा पतितादेर्मेष्यादिप्रतिग्रहः । तत्र निमित्तद्वयसमावेशे ब्रह्मचर्यपूर्वेगोष्ठे वासः प्रत्यहं त्रिसहस्रगायत्री जपपूर्वकमासं पयोव्रतम् । अभ्यासे सदा जले वासः । षष्ठे काले पयःपानं मासमेवं कुर्यात् । त्रिचतुर्निमित्तसंनिपाते चैवम् । अन्ते विप्र-भोजनमुभयत्र । यदैकमेव निमित्तं तदा चान्द्रं पवित्रेष्टिर्मृगारेष्टिमित्रविन्देष्टि गायत्र्या लक्षजपो वा । सर्वत्रानुक्तौदातृदेशकालद्रव्येष्वदुष्टेषु द्वादशनिष्कप्रमाणद्रव्यप्रतिग्रहे कायम् । एवं सर्वत्र द्रव्यानुसारात्प्रायश्चित्तवृद्धिह्रासौ । दातृदेशद्रव्यकालेष्वन्यतरदोषे प्रायश्चित्तस्यैकैक-गुणवृद्धिः\। अल्पद्रव्याणां मणिवासोगवादीनामेकैकप्रतिग्रहे गायत्र्यष्टस हस्रजपः।ततोऽल्पत्वे भिक्षामात्रप्रतिग्रहे पुण्यमन्त्रानुच्चारयेत् । प्रायश्चित्तमिदं सर्वेसति द्रव्ये गृहीतद्रव्यत्यागोत्तर-मेव । त्यागश्चाप्सु प्रक्षेपः । कस्मैच्चिद्दानं वा । एकतरनिमित्ते तु त्यागप्रायश्चित्तयोर्विकल्प इत्याहुः ।
षोडश महादानान्यप्यसत्प्रतिग्रहः । एकस्य महादानस्यानेकैः प्रतिग्रहे तु न दोषः । शस्त्रविषब्रह्मदण्डहयरत्नगजतिललोहानां मृतशय्यालंकारवस्त्रादीनां तिलधेन्वाश्च प्रतिग्रहो-ऽसत्प्रतिग्रहः । नवश्राद्धमासिकश्राद्धगजच्छायासु भोजनं तीर्थे प्रतिग्रहश्च तथा। विद्यातपो-हीनेन प्रतिग्रहोऽप्युत्तमद्रव्यप्रतिग्रहोऽपि चासत्प्रतिग्रहः । उत्तमत्वं च मूल्यतो वचनाच्च । देवविप्रराज्ञां द्रव्यमुत्तमद्रव्यं गोभूसरस्वत्यश्च । छान्दोग्ये त्वन्नदधिमधुत्रा (तृ) णगोभूरुक्मा-श्वगजा उत्तमा इत्युक्तम् \। देवलो रत्नक्षेत्रवेश्महेमकुप्याभरणानि चेत्याह । मृतशय्याप्रतिग्रहे पुनःसंस्कारोऽप्यधिकः । एवं समुत्कर्षानृते गुरोरलीकनिर्बन्धे गुरौ व्यभिचाराद्यभिशापे ज्ञानतः कृते मासं पयसा वर्तनम् । एतदेवाशुचिद्रव्यस्याग्नावम्भसि च त्यागे \। अमत्या कृच्छ्रम् \। गुरुविषये तु गुरुं प्रसाद्य कृच्छ्रस्नानाभ्यां शुद्धिः । एतानि स्मृत्यन्तरोक्तोपपातकानि प्रासङ्गिकानि । इत्यसत्प्रतिग्रहप्रायश्चित्तानि \।\।
अथ निन्दितान्नभक्षणप्रायश्चित्तम् — तत्रान्नमदनीयमात्रम् । तस्य निन्दितत्वं च स्वभावकाल संपर्कक्रियाभावपरिग्रहैः। तत्र स्वभावाल्लशुनादेः कालतः पर्युषितादेः । संपर्काच्छ्रवस्पृष्टादेः । क्रियातो हस्तदानादिना व्यञ्जनादेः । भावादिक्षुरसादेः । भवति

हि कस्यचिदिक्षुरसे भावो मदिरेयमिति । परिग्रहात्पतितान्नादेः । तत्र स्वभावदुष्टलशुनगृञ्जन-च्छत्राकविड्वराहग्रामकुक्कुटपलाण्डूनां प्रत्येकममत्या सकृद्भक्षणे सांतपनम् । अभ्यासे यतिचान्द्रायणम् । मत्या सकृच्चेच्चान्द्रम् \। अभ्यासे तदावृत्तिः । अत्यन्ताभ्यासे सुरापानसमं प्रायश्चित्तम् । अन्ते पुनरुपनयनमेतेषु सर्वत्र । पुनरुपनयने च स्वाध्यायादिकालपेक्षावपन-मेखलादण्डभैक्ष्यचर्यादीनि च । अत्र गृञ्जनं विषदिग्धबाणहतमृगमांसमिति कश्चित् । कलञ्जमिति तन्नामेति च प्राञ्चः । गृञ्जनं लशुनतुल्यः कन्द इति मिताक्षरा । गाजराख्यं मूलं यदीयं पत्रं गायकाः कण्ठशुद्ध्यर्थं भक्षयन्ति विटाच मदार्थे स पत्रविशेषश्चेति माधवः । चरकादिवैद्यकोक्तपलाण्ड्ववान्तरभेदेषु च्छत्राकादिभेदे कवकादौ च नरगोमांसादौ चैवमेव योज्यम् । एतेषां मुखमवेशमात्रे बलात्कारेण भक्षणे चानुपनीतबालेन सकृद्भक्षणे च गायत्र्या अष्टाधिकसहस्रेण मूर्धनि संततबिन्दुपातेनोपवासेन च शुद्धिः । इतरौषधानाश्यव्याधि-युक्तस्यैतद्भक्षणे दोषो न । अत्रापि पूर्वोक्तसंततजलाभिषेक उपवासश्चेति स्मृत्यर्थसारे । सर्वत्र तत्कालच्छर्दितेऽर्धप्रायश्चित्तम् । गन्धवर्णरसैर्लशुनादितुल्यस्य भक्षणे सांतपनम् । यतिव्रतिब्रह्मचारिणां तप्तकृच्छ्रादि । लट्वाख्यं पक्षिणं कुसुम्भं वार्ताककुम्भीतक श्लेष्मातक-फलानि कवाककृष्णसर्षपतण्डुलीयकनालीकानालिकेरीखुखण्डाख्यशाकानेि कालिन्दं वर्तुलालाबुं च भक्षयित्वाऽरण्यकण्टकिकुसुम्भरक्तशिग्रुभूस्तृणकोविदारेषु क्षुद्रश्वेतकण्ट-कीटन्ताकेषु राजसर्षपाख्यशाकोदुम्बरपूर्तिकाखड्वा(ण्डा)ख्यशणपुष्पशाल्मलेषु भक्षितेष्वन्येषु च कटुदुर्गन्धिकन्दमूलफलादिषु भक्ष्याभक्ष्यत्वेन संदिग्धेषु व्रश्चनमप्रभव-लोहितवृक्षनिर्यासादिषु रेतोविण्मूत्रेषु करनिमथितदधि बहिवदि वा ऋत्विजैश्च पुरोडाशेषु भक्षितेषु चामत्या सकृच्चेदुपवासः । आवृत्तिरभ्यासे । मत्या सकृच्च त्रिरात्रम् । कामतोऽभ्यासे प्राजापत्यम् । अत्यन्ताभ्यासे तप्तकृच्छ्रः पुनरुपनयनं च । अन्यथा पतेत् \। नील्यास्त्वमत्या सकृद्भक्षणे विमस्य चान्द्रम् \। अभ्यासे मत्या सकृच्चाभ्यासे चाऽऽवृत्तिः । अत्यन्ताभ्यासे सांतपनम् । संधिनीयमसूस्यन्दिनीमृतवत्सानिर्देशामेध्यसेविन्यल्पवत्सानां गवामनिर्दशाजामहिष्योरेकशफानां च महिर्षीवर्जितारण्य मृगाणां चाजावर्जित सर्वद्विस्तनीनां

च क्षीरेषु दधितत्संभवभिन्नशुक्तेषु चामत्या पीतेषु तेषां मत्यापानोत्तरं समनन्तरमेव च्छर्दने चैक उपवासः । मत्या त्रिरात्रम् \। अमत्याऽभ्यासे च त्रिरात्रम् । ज्ञानतो द्वित्रि(स्त्रि)रभ्यासे छर्दने च पक्षं गोमूत्रयावकपानम् । अत्यन्ताभ्यासे मासं तत् । संधिनी वृषभेणोपजिगमिषुः । स्यन्दिनी स्रवत्क्षीरा । अविखरोष्ट्रनारीवानरविड्वराहश्वापदक्षीरेष्वमत्या सांतपनम् । मत्या तप्तकृच्छ्रः । अभ्यासे चान्द्रं पुनरुपनयनं च । अत्यन्ताभ्यासे सांतपनम् ।
स्त्रियाः क्षीरं द्विजः पीत्वा कथंचित्काममोहितः ।
पुनः संस्कृत्य चाऽऽत्मानं प्राजापत्येन शुध्यति ॥
ब्रह्मचारियत्योः कृच्छ्रस्तप्तकृच्छ्रो वा । शुक्तेषु दधि तद्विकारश्च भोज्यः । शूद्रस्य कपिलाक्षीरपानेन नवाब्दं ब्रह्महव्रतम् । विप्रस्यापि हुतशेषातिरिक्ततत्पाने पशुत्वप्राप्तिः । सर्पसर्रासृपमूषकमार्जारकृकलासकर्कटनकुलमण्डूकशृङ्गिमयूरवानरकपिश्वगोमायुवृक-सिंहव्याघ्रादिक्रव्यादजन्तुगजाश्वोष्ट्रखरैकशफानामुभयतोदन्तानां च काकवकबलाकाहंस-गृध्रजालपादचक्रवाकविष्किरपुण्डरीककपिञ्जलभासचाषकुक्कुटप्लवचक्रवाककारण्डव-गृहचटककपोतपारावतखञ्जनपाण्डूकशुकसारिकासारसटिट्टिभोलूकश्येनकङ्करक्तपाद-तित्तिरिकोकिलहारीतपद्गुकलविङ्कक्रौञ्चदावीघाटादीनां मनुष्याणां जलचरजलपक्षिणां प्राणिभक्षकाणां नखैर्विदार्यान्नादिभक्षिणां मत्स्यादिजन्तूनां मत्स्यानां च सूनागतमांसभक्षणे शुष्कमांसभक्षणे च शशकशल्लककच्छपगोककच्छपगोधाखड्गव्यतिरिक्तपञ्चनखमांस-भक्षणे चैतेषां विण्मूत्ररक्तवसामज्जानां तदुच्छिष्टानां च भक्षणे चामत्या कायम् । अभ्यासे महासांतपनम् । मत्या तप्तकृच्छ्रः । मत्याभ्यासे चान्द्रम् \। अत्यन्ताभ्यासे पतनम् \। तेषां कर्णादिमलषट्कभक्षणेऽर्धमिति स्मृत्यर्थसारे । अमत्या सकृद्भक्षण एकोपवासः । कामतो द्विगुणम् । तथाऽभ्यासे त्रिरात्रसप्तरात्रद्वादशरात्रपक्षव्रतमासव्रतचान्द्रायणान्यभ्यासाधि- क्यतारतम्यमालोच्य योज्यानि । अभ्यासे सर्वत्र व्रतान्त एकदिनं घृतप्राशनं पुनःसंस्कारश्च । समुदितभक्षणाभ्यासे . षाण्मासिकं संवत्सरं चेति प्राञ्चः । एषां ज्ञानतो भक्षणोद्भिरणे तु सांतपनम् । अज्ञानतः प्राजापत्यम् । अकामतोऽभ्यासे चान्द्रम् । कामतोऽभ्यासे षण्मा-

सम् । अत्यन्ताभ्यासे सांवत्सरामिति मिताक्षरा । एषां केशनखप्राशनेऽजाविमहिषीमृगाणां मांसभक्षणे मृल्लोष्टभक्षणे वाऽमत्यैक उपवासः । मत्या त्रिरात्रम् । एवं कीटपतंगकृमि-जलचरास्थिरक्तभक्षणे रक्तवमने चापीति स्मृत्यर्थसारे । मांसभाण्डे पक्वस्यान्नस्याशने त्र्यहंकुशपक्वपयःपानम् । व्रतिनः केशादेर्मुखप्रवेशमात्रे तप्तघृतं ब्राह्मीरसं वा पिबेत् । केशादिभक्षणे तु सद्यः कुशहिरण्योदकसहितघृतप्राशनम् । ज्ञानतोऽभ्यासे त्रिरात्रोपवासो घृतप्राशनं च । ब्रह्मचार्यादेर्मघुमांसादिभक्षणेऽधिकं त्रिरात्रं कार्ये कायंवा पुनरुपनयनं च । ततो व्रतसमापनम् । अज्ञानतः सकृद्गोमांसभक्षणे कायम् । ज्ञानतो द्विगुणम् । अज्ञानतो-ऽभ्यासे चान्द्रम् \। समुद्रगानदीतीरेऽनडुत्साहितगौश्चदक्षिणा । ज्ञानतोऽभ्यासे संवत्सरम् \। अत्यन्ताभ्यासे पातित्यम् । कपिखरविड्वराहादादिरेतोविण्मूत्रपुरीषाणामन्यतमभक्षणे-ऽन्येषां चामेध्यानामेतद्भक्षणे चान्द्रम् \। अज्ञानतस्तप्तकृच्छ्रम् । अभ्यासादावधिकं कल्प्यम् । पुनरुपनयनं सर्वत्र । वलाद्रे मूत्रादिपाने प्राजापत्यम् । ऊनैकादशवर्षस्याप्येतदेव । गोमूत्रपुरीषं मेध्यम् । इति निन्दितान्नादिभक्षणप्रायश्चित्तम् ॥
अथोच्छिष्टाद्यभक्ष्यभक्षणे प्रायश्चित्तम्- तत्र काकादिपक्षिश्वापदाखुबिडालनकुलोच्छिष्टे भूयस्यन्नेरसे च केशाद्यवपन्ने देवद्रोयादौ द्रव्यशुद्धिरहिते चान्नेऽमत्या भक्षित एकाहंब्राह्मी सुवर्चलापानम् । मत्या चेत्रिरात्रम् । माधवीये तु तिलदर्भोदकैः प्रोक्षणमकृत्वा भोजन एतत् । मार्जाराद्युच्छिष्टस्य तथा प्रोक्षणैः शुद्धिस्मरणादित्युक्तम् \। अल्पद्रव्यं चेदमत्याऽभ्यासे कृच्छ्रं मत्याऽभ्यासे पक्षं यावकव्रतम् । व्रतस्थस्य ब्रह्मक्षत्रियवैश्यशूद्रोच्छिष्टे तु विप्रएक- त्रिपञ्चसप्तरात्राणि क्रमेण पञ्चगव्यं पिवेत् । अभ्यासेऽप्येषामावृत्तिः । मत्या भोजने त्वेतान्येव सोपबासानि कुर्यात् । मत्याऽभ्यासे कृच्छ्रातिकृच्छ्रतप्तकृच्छ्रचान्द्राणि । क्षत्रादौ पादपादहानिः । अन्यस्य विप्रोच्छिष्टभोजने सकृदज्ञानतः कृते महाव्याहृतिभिर्मन्त्रित-पयःपानम् । ज्ञानतस्तदभ्यासादौ सांतपनम् । उच्छिष्टं चात्रैकपङ्क्त्युपविष्ठविप्रादीनां भोजनमध्य एकेनापि पात्रत्यागे शेषमन्नं शूद्रादिविषये तद्भोजनोत्तरं पाकपात्रेऽवशिष्टमप्युच्छिष्टम् । एवंविधशूद्रोच्छिष्टभोजने त्रिरात्रोपवा

सोऽघमर्षणजपः । कामतस्त्वेतद्विषये पञ्चरात्रं सप्तरात्रमुपवासश्चान्द्र वाऽभ्यासादि-तारतम्येन योज्यम् । गुरुभिन्नविप्रोच्छिष्टभोजने श्वोपहतभोजने कृच्छ्रम् । भोजनपात्रे भुक्तशेषमत्रोच्छिष्टम् । श्वशूद्रभुक्तशेषभोजनपात्रेऽवशिष्टं कामतो भुक्त्वा तप्तकृच्छ्रं कार्यम् । अकामतः प्राजापत्यम् । । । अभ्यासे पराकं चान्द्रत्रयं वा । अपत्यभुक्तशेषभक्षणे चान्द्रम् \। क्षत्रियवैश्यगर्दभादिभुक्तशेषस्य पात्रावशिष्टस्य भोजने पादोनकृच्छ्रम् । सार्द्धेकृच्छ्रत्रयादि (यमिति)केचित् । भाण्डस्थेऽन्ने केशपिपीलिकामेध्यसेविकीटैरुपहतं तावन्मात्रमुद्धृत्य मृद्भस्मताम्रवैडूर्यहिरण्यरजतादिभिर्गोवालदर्भयुक्तवारिणा शेषं प्रोक्षयेत् । हस्तस्थितमेवं-भूतं त्यजेत् । मुखस्थं निष्ठीव्य घृतं प्राशयेत् । श्वचाण्डालरजस्वला सूतिकापतितादिदृष्टान्न-मपि मृद्भस्महेमाम्बुभिः प्रोक्षयेदिति मयूखे स्मृतिः । मनुष्यरेतो विण्मूत्रभक्षणे वर्णाः क्रमेण तप्तकृच्छ्रातिकृच्छ्रकायत्रिरात्राणि कुर्युः । मत्या चान्द्रतप्तकृच्छ्रातिकृच्छ्रकायानि पुनःसंस्कारश्वोभयत्र । अन्त्यजानां भुक्तशेषस्य पाकपात्रावशिष्टस्य भक्षणे वर्णक्रमेण चान्द्र-महासांतपनषड्रात्रात्ररात्राणि \। अभ्यासे द्विगुणम् । निरन्तरे पतने भोजनपात्रावशिष्टतदु-च्छिष्टभोजने द्विगुणम् । सहभोजने त्रिगुणम् । अत्र पुनःसंस्कारोयुक्तः । मत्याऽभ्यासे पतनम् । कानिचिदुच्छिष्टभोजनप्रायश्चित्तानि प्रकीर्णकमसङ्गे दर्शितानि । इत्युच्छिष्टाद्य भक्ष्यभक्षणे प्रायश्चित्तम् ॥
अथाशुचिद्रव्यस्पृष्टाभक्ष्यभक्षणे प्रायश्चित्तम् - तत्र केशकीटनीलीलाक्षास्थिस्नायुचर्मरुधिर-विण्मूत्रमांसवसामज्जाशुक्रसुरास्पृष्टस्य महापातकिदृष्टस्य दुष्टपक्ष्यवलीढस्य विड्वराहा-द्युच्छिष्टस्य गवाघ्रातस्य शुष्कपर्युषितयोश्च वृथापक्वस्य दैवपित्र्यान्नस्य होमार्थदविषो चाराने पाने चामत्या चेदुपवासः । मत्या कृच्छ्रपादोऽल्पसंसर्गे, महासंसर्गे त्वर्धकृच्छ्रः । तत्रापि संस्पृष्टामेध्यादे रसोपलब्धौ तप्तकृच्छ्रः । अविज्ञातजात्यस्थ्यादिदूषिते कर्णादिमलवट्क-दूषिते चार्धम् । जलपानसमये मुखनिःसृतं जलं यदि भोजनभाजने पतेत्तदा तद्भाजनान्न भोजने चान्द्रम् । इदं ज्ञानतोऽत्यन्ताभ्यासे । अकामतोऽभ्यासे सकृत्कामकृते च त्रिरात्रम् । सुराभिन्नगौडीमाध्वीमद्यवासितशुष्कभाण्डस्थोदकस्याज्ञानतः सकृत्पाने छर्दने च त्र्यहं कुशमूलादिपक्वक्षीरपानम् । तदभ्यासे चैतः

देव षड्रात्रम् । ज्ञानतस्तु पञ्चाहं शङ्खपुष्पीपक्वपयःपानम् । तथाऽभ्यासे सप्तस(रा) गोमूत्रयावकपानम् । अत्यन्ताभ्यासे द्वादशाहं ब्राह्मीपक्वपयःपानं प्रत्यहमष्टसहस्रगायत्री-जपश्च \। अच्छर्दनेन जीर्णत्व एतदेव तत्र तत्र द्विगुणम् । एवं भाण्डस्याऽऽर्द्रत्वेऽपि ताल\। दिमद्यभाण्डस्थोदकपान एतदर्धम् । शुष्कसुराभाण्डस्थोदकपान एक उपवासः । परेऽह्नि घृतप्राशनमात्रम्। तादृशभाण्डस्थपर्युषितजलपाने छर्दने च त्र्यहं शङ्खपुष्पीपक्वक्षीरपानम् । अकामतो द्विस्त्रिरभ्यासे पञ्चरात्रं तत् । कामतः सकृत्पाने सप्तरात्रम् । तथाऽभ्यासे पक्षम् । अत्र सर्वत्र जलपानस्य तपस्त्वाज्जलमल्पं पेयमित्याहुः । जीर्णत्व आर्द्रभाण्डस्थनलस्य पीतस्य वमने च प्राग्वत् । आर्द्रभाण्डस्थोदकपाने जीर्णे चान्द्रं कामतः । अकामतः षडुपवासाः \। अभोज्यान्नभाण्डस्थितजलदुग्धपधिपाने ब्रह्मकूर्वः । शूद्र स्यात्र सर्वत्र विषये किंचिद्दानमेव । अन्तःस्थितक्लिन्नमृषपश्चनखखरविड्वराहादियुक्तात्यन्तोपहतकूपादि-जलपाने षडुपवासाः \। अतिकृच्छ्रो वा । व्रतान्ते पञ्चगव्याशनं च । अक्लिन्न उपवासत्रयं पञ्चगव्यं चान्ते । शूद्राणां नक्तम् । इदं ज्ञानतोऽभ्यासे । अकामतोऽर्धम् । प्राञ्चस्त्वकामतः प्रागुक्तं कामतस्तु द्विगुणमित्याहुः । तादृङ्मनुष्यपशुयुक्तकूपादिजलपाने त्वज्ञानतः सकृच्च पडुपवासाः । कामतोऽभ्यासे च पराकः । मत्याऽभ्यासे तप्तकृच्छ्रः । अधिकतराभ्यासे चान्द्रम् । तादृशस्थूलतडागादिजलपाने तु न्यूनं कल्प्यम् । विण्मूत्रास्थ्यादिदूषित कूपादिजलपाने त्रय उपवासाः । तादृशकुम्भस्थजलपाने सांतपनम् । इदमज्ञानतः । कामस्तु द्विगुणम् । पूर्वोक्तक्कूपादौ पानव्यतिरेकेण स्नानमात्रे त्वेक उपवासस्त्रिषवणस्नानं गायत्रीजपश्च । चाण्डालादिखाततडागादिषु जानुदघ्नादल्पपरिमाणजलेषु तथाविधजलासु चाण्डालादिकसंपर्क युतहृदपुष्करिणीषु चाकामतो जलपाने नक्तम् । कामत एक उपवासः । अन्यखातितचाण्डालादिपरिगृहीततादृशरूपादिजलपान एतदर्थम् । अभ्यासे कृच्छ्रम् । कामतोऽभ्यासे द्विगुणम् । जानुदघ्नह्रदपुष्करिण्यादिषु महाजलाशये च न दोषः । तादृशकूपे तु विप्रस्य महासांतपनम् । क्षत्रियादीनां कृच्छ्रकृच्छ्रार्धपादाः \। अपत्याऽर्धम् । अशक्तः पञ्चगव्यं पिबेत् । चाण्डालादिभाण्डस्थजलपाने कूपवत् । चाण्डालादेः कूपभाण्डादिजलस्य पानोत्तरं वमने विप्रस्य कृच्छ्रम् । रजकाद्यन्त्यजखात -

कूपभाण्डादिजलतद्भाण्डस्थपयोदध्यादिपाने त्वमत्या द्विजाः क्रमेण ब्रह्मकूर्चपानेन त्रिद्व्येकोपवासान्कुर्युः । शूद्रस्तूपवासं शक्त्या दानं च कुर्यात् । मत्या सर्वत्र द्विगुणम् । अन्त्यजखातवापीतडागादिष्वल्पजलेषु पानादिकरण एक उपवासः । मत्या द्विगुणम् \। अमत्याभ्यासे कायम् । मध्यमजलेषु पञ्चगव्यम् । महत्सु न दोषः । अत्र सर्वत्र पुनःसंस्कार इति केचित् । शूद्रामेध्यसेविकीटादिस्पृष्टान्नभोजने त्वहोरात्रमभोजनम् । इत्यशुचिद्रव्यस्पृष्टा भक्ष्यभक्षणप्रायश्चित्तम् \।\।
अथ चाण्डालाद्यन्नभोजने प्रायश्चित्तम् – तत्र ज्ञानतः सकृच्चाण्डालाद्यन्नभक्षणे चान्द्रम् अज्ञान- तस्तप्तकृच्छ्रः । एककाल एकप्रयत्नोपक्रमाणां ग्रासानामेकस्मिन्प्रयोगे भोजनं सकृद्भोजनम् । एवं पुनर्योजनेऽभ्यासः । बारत्रयेऽत्यन्ताभ्यासः । एवं सर्वत्र बोध्यम् । भवदेवस्त्वज्ञानतः सकृद्भोजने तप्तकृच्छ्रम् \। अभ्यासे चान्द्रायणम् । ज्ञानतो द्वैगुण्यमित्याह सिद्धान्नार्थम् \। सक्तुजलादौ शुष्कान्ने [च] । आमान्ने तु तदर्धमात्रं बोध्यम् । बलात्सकृच्छुष्कतदन्नभोजन उपवासत्रयम् । बलात्सिद्धान्नभोजने पराकः । ज्ञानाभ्यासे चान्द्राभ्यासः । अज्ञानतोऽभ्यासे तप्तकृच्छ्राभ्यासः \। चाण्डालादिपक्वान्नाशने सर्वत्र पुनरुपनयनम् । कामतश्चतु विंशतिवारं भोजने पातित्यम् \। अज्ञानतस्तु तद्द्विगुणवारभोजने तत्र च द्वादशवार्षिकं प्रायश्चित्तम् यवन-म्लेच्छयावनानामन्नभोजनेऽप्येवम् । अत्र प्रायश्चित्तेन पापनाशेऽपि वचनान्न व्यवहार्यता द्विजस्य ज्ञानात्स्वेच्छया चाण्डालयवनादीनां दासत्वाङ्गीकारे तु प्राजापत्यद्वयम् । पुंश्चल्यभि-शस्तम्लेच्छचाण्डालादीनां बलादेकमासं दासतामापन्नो द्विजो बलात्कारितगोवधोच्छिष्टमार्ज-नोच्छिष्टभक्षणतत्स्त्रीसंगादिः प्राजापत्येन शुध्यति। आहिताग्निश्चान्द्रेण। संवत्सरोषितस्य-प्राजापत्यं पराकश्च । शूद्रस्य संवत्सरावासे पक्षं यावकपानम् । मासं वासे कृच्छ्रपादः । मयूखे तु प्राजापत्यादिकं मासमात्रे \। गोवधादौ तु प्रातिस्विकं तत्प्रायश्चित्तमकामकृते विहितं कार्यमित्युक्तम् । एवं वर्षपर्यन्तं प्रायश्चितकल्पना कार्या । चतुर्वर्षपर्यन्तमिति क्वचित् । अग्रे पातित्यात्प्रायश्चित्ताभावः । एतदेव ज्ञानाच्छूद्रादिदासत्वाङ्गीकारे । अज्ञानादर्धमित्याहुः । चाण्डालादिस्पृष्टान्नभोजने प्राजापत्यम् । ज्ञानतो द्विगुणम् । एतदेव पतितकुणिरजस्वलादि-स्पृष्टान्नभोजने । अज्ञानतः सकृच्चाण्डालरज-

स्वलापतिताद्युच्छिष्टभोजने चान्द्रम् । तद्भोजनानन्तरं पाकपात्रेऽवशिष्टमन्नंतदुच्छिष्टम् ज्ञानतोद्विगुणं । चाण्डालादिभोजनपात्रावशिष्टरूपोच्छिष्टभक्षणे तु प्रकीर्णकप्रसङ्गोक्तं ज्ञेयम् । क्षत्रियवैश्ययोरापदि बलात्कारेऽन्नेतरचर्वितताम्बूलाद्युच्छिष्टभोजने च क्रमेणकायं कायार्धम्। विप्रस्य तत्रापि चान्द्रमेव । क्षत्रविशोरप्यापदभावेऽन्नरूपोच्छिष्टभोजने च चाद्रमेव । सर्वत्रानुच्छिष्टादुच्छिष्टे द्वैगुण्यम् । तत्रापि पाकपात्रावशिष्टोच्छिष्टाद्भोजनपात्रावशिष्टोच्छिष्टे द्विगुणमधिकं वा कल्प्यम् । तथा च तत्स्पृष्टमात्रात्तद्विगुणं तद्धस्तदत्तस्य तद्गृहपक्वस्य वा भक्षणे कल्प्यम् । सहभोजने त्रिगुणम् \। उच्छिष्टे चतुर्गुणमित्यादि बोध्यम् चाण्डालादिसंसर्गि-णोऽन्नस्य तत्पाकस्य भोजने कृच्छ्रार्धम् । शुष्कादौ तदर्धादिचाण्डालादिस्पृष्टजलक्षीर-दध्यादिपाने लघुसांतपनम् । एतत्पीतशेषाम्बुपाने षडुपवासपूर्वकं पञ्चगव्यपानमज्ञानतः । ज्ञानतो द्विगुणम् । अभ्यास आवृत्तिः । अज्ञानतः सकृच्छौण्डिकाद्यन्नभोजने मासं गोमूत्र-यावकपानम् । शुष्कान्ने तदर्धे षडुपवासा वा । आमान्ने तदर्धम् । ज्ञानतो द्विगुणम् । अभ्यास आवृत्तिः । ज्ञानतोऽष्टधा भोजने कृच्छ्राब्दम् \। अज्ञानतस्तथात्वे चान्द्रद्वयम् । ज्ञानादष्टचत्वारिंशद्वारं भोजने पातित्यम् \। अज्ञानतः षण्णवतिवारं भाजने तत्र द्वादशाब्दम् । ज्ञानतः सकृदेतदुच्छिष्टान्नभोजने विप्रस्य चान्द्रम् \। क्षत्रियवैश्ययोस्तप्तकृच्छ्रः । एतदर्धमेत-त्स्पृष्टमात्रान्नभोजने । शुष्कान्नस्योच्छिष्टभोजनेऽप्येवम् । अत्राशक्तः-
कुशोदुम्बरबिल्वाद्यैः पनसाम्बुजपत्रकैः ।
शङ्खपुष्पीसुवर्चादिकाथं पीत्वा तु शुध्यति ॥
तत्पीतशेषजलपान उपवासत्रयपूर्वकं पञ्चगव्यपानमज्ञानतः ज्ञानतो द्विगुणम् \। अभ्यास आवृत्तिः । गवोच्छिष्टाशने छर्दन एक उवासः पञ्चगव्यपानं च \। अभ्यास उपवासत्रयम् । चतुर्थे पञ्चगव्यम् । अच्छर्दने ज्ञानतः सकृद्भोजनेऽप्येतदेव । मतिपूर्वकाभ्यासेऽतिकृच्छ्रः । केचिच्छ्वकाकोच्छिष्टे पुनःकृतपाकपर्युषितान्ने स्त्रीशूद्रोच्छिष्टे चान्ने भुक्तेऽप्येवमेव प्रायश्चित्त-माहुः । प्रपाजलपाने सीरवृक्षनिर्यासाधारपात्रस्थजलपाने नौकाजलनिःसारणीपात्रस्थजलपाने कूपादेश्चर्मपुटकनिःसा-

रितजलपाने च सचैलस्नानपूर्वकमुपवासः । अशक्तस्य पञ्चगव्यपानम् । आपदि तदेव जलं भूमिष्ठं कृत्वा पात्रान्तरेणोद्धृतं पेयम् । प्राणापदि दोषो न । शूद्रभाण्डजलपान उपोष्य बिल्वपत्रपलाशक्वाथोदकपानम् । नवभाण्डे तु न दोषः । एवं पयोदध्यादावपि । अत्र सर्वत्र पुनरुक्तिः प्रासङ्गिकी \। वैलक्षण्योक्तिः स्मृत्यन्तरानुरोधात् । तत्र शक्त्याद्यपेक्षया व्यवस्था \। शातातपः- घृतं तैलं दधि क्षीरं तथैवेक्षुरसो गुडः ।
शूद्रभाण्डस्थितं तक्रं तथा मधु न दुष्यति ॥
इति चाण्डालाद्यन्नभोजनमायश्चित्तम् ॥
अथ भावदुष्टादिभक्षणे प्रायश्चित्तम्-तत्र यद्वर्णत आकारतो वा विसदृशतया जुगुप्सित-शरीरमलादिभावनां जनयत्यरिप्रयुक्तगरादिशङ्कां वा जनयति तद्भावदुष्टम् \।
क्षुधार्तश्च न को भुङ्क्ते मामकं त्वन्नमेव हि ।
ब्रूतेव्यर्थात्रयस्त्वेवं तद्वाग्दुष्टं [ प्रकीर्तितम् ] ॥
का क्रियाऽस्मिन्निति विनिन्द्य दीयते यत्तच्च । तयोर्भोजने कामतः कृते त्रिरात्रमुपवासः । गोमूत्रयावकपानमित्यन्ये । अज्ञानतोऽर्धम् । छर्दने घृतप्राशनम् । भक्ष्याभक्ष्यत्वेन शङ्कितवस्तुभक्षणेऽक्षारलवणम् । रूक्षां ब्राह्मीं सुवर्चलां पिबेत् । त्रिरात्रं शङ्खपुष्पी वा पयसा सह । कुशपद्मोदुम्बरपलाशबिल्वपत्रक्वाथं वा पिबेत् । शङ्कायाश्च विज्ञाने द्विगुणम् । अज्ञानतः शङ्कितभक्षणशुद्ध्यर्थं वर्षान्ते त्रीद्वावेकं वा कृच्छ्रान्कुर्यात् । इति भावदुष्टादि-भक्षणप्रायश्चित्तम् ॥
अथ कालदुष्टाशने प्रायश्चित्तम् — कालदुष्टमस्नेहातपर्युषितादि । मत्या तद्भक्षणे त्रिरात्रं यावकव्रतम् । अमत्या त्वेक उपवासः । अनिदेशे गोक्षीरादिपाने चैवम् । यवगोधूमपयोदधि-पिष्टविकारे स्नेहपक्वेस्नेहाक्तान्नादौ च न दोषः । शृङ्गास्थिदन्तशुक्तिशङ्खकपर्दजनितपात्रैः कन्दशालूकजैश्च जलं पीत्वानवोदकं च वर्षाकाले त्र्यहादर्वाक्, अकाले च दशाहादर्वाक्वपीत्वा पञ्चगव्यं पिबेत् । मत्योपवासः । ग्रहणकाले नवश्राद्धे च भोजने ग्रामयाचकान्नभोजने च चान्द्रम् \। ग्रहणनिमित्तनिषिद्धकाले संधिकालेऽतिप्रानरतिसायंकाले च भुक्त्वा रात्रौ धानादधिसक्तुतिलसंबद्धान्नभोजन एवमादिष्वनादिष्टप्रायश्चित्तेषु प्राणायामशतम् ।

मत्योपवासः \। अमत्योपवास इत्यन्ये । इति कालदुष्टाशनप्रायश्चित्तम् ॥
अथ गुणदुष्टभोजने प्रायश्चित्तम् — शुक्तानि कषायादींश्चान्यान्यमेध्यानि चामत्या पीत्वा भुक्त्वा चोपवसेत् । मत्या त्रिरात्रं यावकम् \। आमलकयुक्तकाञ्जिकायां न दोषोऽभिघारणे च । शुक्तं कालवशादम्लतां गतम् । उद्धृतसारपिण्याकमथितादिभक्षणे मत्या त्रिरात्रं याव - कम् \। अमत्याऽर्धम् । छर्दित्वा घृतं पिबेत् । वैश्वदेवादिरहितान्नभोजनेऽतिथिदेवतादि-प्रयोजनमनुद्दिश्य वृथा पक्वस्य कृसरसंयावकपायसापूपशष्कुलीमधुमांसादिभक्षणेष्व-मत्योपवासः । मत्या त्रिरात्रं यावकम् \। कायमभ्यासे । आहिताग्निस्त्वमत्या त्रिरात्रम् । मत्या कायंकुर्यात् । हस्तदानादिक्रियादुष्टस्यामत्या भोजने नक्तम् । मत्या तूपवासः पञ्चगव्यं च । तत्र माक्षिकमिक्षुरसविशेषरूपं फाणितं शाकं गोरसलवणघृतानि चैतानि हस्तदत्तानि दुष्टानि । अमत्याभ्यासे तूपवासः । मत्याऽभ्यासे त्रिरात्रम् । अत्यन्ताभ्यासे सांतपनम् । इति गुणदुष्टभोजनप्रायश्चित्तम् ॥
अथ श्राद्धभोजने प्रायश्चित्तम् - तत्रान्तर्दशाहे नवश्राद्धानि । एकादशाहश्राद्धमारभ्यो-नाब्दान्तानि षोडशैकोद्दिष्टानि नवमिश्राणि । सपिण्डीकरणं मित्रं, ततःपराणि पुराणानि । तत्र नवश्राद्धभोजने कायम् । अनापद्यत्र चान्द्रम् \। एकादशाहे महैकोद्दिष्टेऽप्येवम् । पादोनं कायमापदि । अनापदि तु चान्द्रं कायंचेत्यन्ये । द्वादशाह आद्यमासिके चोनमासिके च पादोनं कायमेव । अत्रानापदि कायम् । अन्ये पराकमाहुः । द्वितीयमासिकं त्रैपक्षिकमासिक ऊनषण्मासिक ऊनाब्दे चार्धकृच्छ्रम् \। अनापदि पादोनम् । त्रिमासाद्यब्दमोक्षान्तेषु सपिण्डने चाऽऽब्दिके चोपवासः पादकृच्छ्रो वा । अनापदि तु त्रिरात्रं कृच्छ्रार्घेवा । अन्ये त्वनापदि त्रैपक्षिकेऽतिकृच्छ्रः । षाण्मासिके कृच्छ्रः । आब्दिक आपदि त्रिरात्रं गोमूत्रया- वकपानम् \। अनापदि कायपादमित्याहुः । तदुत्तरं प्रत्याब्दिके त्रिवर्षपर्यन्तं नक्तम् \। अनापदि तूपवासः । गुरुविप्राद्यर्थकद्रव्यार्थेनवश्राद्धभोजने त्रिरात्रम् । महैकोद्दिष्टे द्वादशाहादौ च त्रिरात्रम् । द्वैमासिकादावुपवासः । त्रिमासादौ नक्तं पञ्चगव्यं च । प्रत्याब्दिकेऽन्यपुराणेषु च षट् प्राणायामाः तत्रैव निःस्पृहस्य भोक्तुर्जपशालिनो वा तदर्धम् ।

क्षत्रियादिश्राद्धेषु द्वित्रिचतुर्गुणानि क्रमात्कार्याणीति स्मृत्यर्थसारे । अन्यत्र तु पार्वणश्राद्धे षट् प्राणायामाः । त्रिमासादिवत्सरान्तमुपवासः । सपिण्डनश्राद्धे च । आद्यमासिके पादोनं कृच्छ्रम् \। त्रैपक्षिके तदर्धम् । द्वैमासिके पञ्चगव्यपानम् । प्रत्यब्दं नक्तम् । इदमापदि । अनापदि तु द्विगुणमिति । चाण्डालोदकसर्पविप्रपशुदंष्ट्रिविद्युत्पातपतनविषोद्बन्धनानाशकै- र्मृतानां स्तेनपतिताद्यभोज्यान्नानां च नवश्राद्धेषु चान्द्रम् । प्रथममासिके चान्द्रं पराकश्च । द्वादशाहादौ पराक एव । द्विमासत्रिपक्षादावतिकृच्छ्रः । त्रिमासादौ कायम् \। आब्दिके पादकृच्छ्रः । द्वितीयवर्षादावुपवासः । सम्यग्विषयेऽपि द्रव्यार्थभोजनेऽप्येवमेव । अपाङ्क्ते यानामेकादशाहश्राद्धभोजने शिशुचान्द्रम् । यतिव्रतिब्रह्मचारिणां तु प्रथममासिकादिषु नवश्राद्धसूतकान्नस्य च भोजन उक्तं कृत्वाऽधिकत्रिरात्रोपवासं प्राणायामत्रयपूर्वकं घृतप्राशनं च कृत्वा व्रतशेषसमापनम् । अनापदि तु कायं त्रिरात्रोपवासो द्वादश प्राणायामाः पञ्चगव्याशनं चाधिकम् । कामतो भोजने पुनरुपनयनमित्यन्ये । अभ्यासे तूक्तकृ- च्छ्रादिद्विगुणम् । आमहेमसंकल्पितश्राद्धेषु तत्तदर्धानि । गुरुविषये तूपवासो नक्तं षट्त्रिंशत्प्राणायामाश्च । अश्रोत्रियादिपुराणश्राद्धेष्वनुक्तप्रायश्चित्तेषु सर्वश्राद्धेषु च गायत्र्या दशकृत्वोऽपः पीत्वा शुध्यति । ततः संध्योपासनहोमादि यथोचितं कुर्यात् । वृद्धिश्राद्धे प्राणायामत्रयम् । चौलनामकरणजातकर्माङ्गश्राद्धेषु चूडाहोमान्ते च सीमन्ते सोमे चाधानाङ्गब्रह्मौदने चामत्याऽऽपदि च भुक्तौ सांतपनम् । मत्याऽऽपदि चान्द्रम् \। अन्य संस्कारेषूपवासः । अनापदि त्रिरात्रम् \। अन्यदत्ता कन्याऽन्यस्मै पुनर्दत्ता या सा पुनर्भूः । असंस्कृते पूर्वगर्भे प्रसूते सति द्वितीयगर्भे संस्कारो यस्याः सा पुनरेता । ऋत्वादिषोडशा हात्पश्चादेव या गर्भिणी सा रेतोधा । भर्तृशासनोल्लङ्घिनी कामचारिणी । आसां गर्भेषु भुक्तौ पूर्ववत्सांतपनं चान्द्रं वा । सर्वस्त्रीप्रथमगर्भेषु चैवम् । अनिर्दशाहनवश्राद्धे कामतो भुक्तवतो विप्रस्यानापदि संवत्सरपर्यन्तं भोजनात्प्राक्संहिताध्ययनमिति केचित् । इति श्राद्धभोजनप्राय- श्चित्तम् ॥
अथ परिग्रहाशुचिदुष्टभोजने प्रायश्चित्तानि – तत्र राजपुरोहितराजभृत्यवैश्यशूद्राणां क्लीबा-जाविकमाहिषिकस्थानिकभूपालानां स्तेनगा-

यकलक्षकवार्धुषिकदीक्षावस्थितानांकदर्यबद्धाभिशस्तपुंश्चलीदाम्भि कवैद्यनटनर्त्तक-गणकानांभगवृत्तिस्त्रीसदृशचोष्टतनिराचारानिषिद्धाचाराणामाचार्याग्निगुरुधर्मशास्त्रगोब्राह्मणादिद्वेषिणां संवत्सराभ्यस्तोपपातकानां चर्मकार-स्वर्णकारशौण्डिकव्याघपुनर्भूजातभ्रूणघ्न-विषकारशस्त्रकारलोहकाराणांमत्तोन्मत्तक्रुद्धातुरगण[क]गणिकानां श्वचक्रमद्यस्त्रीमृग-जीविनामश्वरथगजारोहणवृत्तीनामुच्छिष्टभोजी(जि)क्रूरोग्रपतितपिशुनानां रजकनिर्णेजककै-वर्तकानां शूद्रयाजकाध्यापकचित्रकारशिल्पिब्रह्मविक्रयिणां वृथाश्रम्यनाश्रम्याश्रमभेदिनाम-पण्यविक्रेतृसोमलताविक्रेतशैलूषतन्तुवायतु न्नवाय किरातानां यतिब्रह्मचारिणोर्व्रात्यतद्या-जकादीनां नित्यरोगियोनिसंकीर्णसंकरजातिकुण्डगोल कतदन्नाशिनां घाण्टिकविप्रगोदेव-वृत्तिघ्नानां परिदेवनसंबन्धिनां गरदसूपकारवैणवोपजीविपाखण्डिलिङ्गानां सूतादि-प्रतिलोमजानां कर्मारघृतघ्नोग्रदण्डपातिनां पुण्यसोमयागात्मविक्रयिणामनृतवादिद्वेषि-हेमकारणां वृक्षारोपणवृत्तीनां कूटकृद्वृषलीतत्पतितत्संबन्धिनां तूर्यादिस्वनव्यतिरिक्त-करणैर्नृपतिप्रबोधकानां कितवमृगयाजीविनिषादतत्कर्मकृतां मूल्येन द्विजकार्यकर्तॄणां प्राणिवधजीविलोकायतिकदेवलकस्त्रीजितकुष्ठिकुनखिश्यावदन्ताना पित्रादिविवदमानस्य नद्यादिसंतरणजीविग्रामयाजकतत्पुरोहितवणिजपशुमारकदुर्लोमसेवककाण्डपृष्ठानां पर्याहितपरीष्ठपुनर्भ्यग्रेदिधिषूपतितज्जातानां चक्रितौलिकपक्षिरक्षकसमुद्रतारकहीनाङ्गाति-रिक्ताङ्गानामपुत्रकानग्निकमुमूर्षूणां पतिपुत्ररहितस्त्रियाः पञ्चयज्ञानकृत्वा नित्यपरान्नभोजि-विरूपपरपाकनिरतस्य पञ्चमहायज्ञकरणं विना भोजनरूपपरपाकनिवृत्तस्यापञ्चसंज्ञक-ज्ञानवर्जितगृहस्थस्याऽऽचार्यपितृमातृसुतगुर्वमित्यागिनां सुतकन्यास्त्री सत्यविक्रयिणां गृहस्थितोपपत्तिकज्ञातोपपत्तिकस्त्रीपरिग्रहिणो द्यूतजीविविधिनिषेधातीतस्तकिकुलालानां चतुःषष्टिपलान्नभक्षकरूपकुण्डाशिनः कांस्यसीसादिकारवाद्योपजीविभाण्डवस्त्रादिकर्तृ-पश्वादिविक्रयिमहर्घविक्रयिणां ताम्रादीनां स्वर्णादिसदृशरूपकर्तॄणामित्यादिपापिनामेषां मार्गे तिष्ठतां भिक्षान्नप्रतिग्रहे चान्द्रायणम् । एतेषामकृतनिष्कृतीनां मुख्यतस्तत्तद्वस्तूप जीविनां चान्नभोजने दाने याजने प्रतिग्रहे चैवम् । एतच्च त[च]दूस्तूपार्जितधनत्यागपूर्वकमेव । कुनखिकृष्णदन्तकुष्ठिप्रभृतीनां च प्रागुक्तानां विप्रान्नदशूद्रस्य शूद्रान्नदविप्रस्यास्वामिक-शूद्रस्याप्रसूताया दुहि-

तुश्चान्नभोजने शिष्टजुगुप्सितान्नस्य महापापिवीक्षितस्य श्वादिस्पृष्टस्योदक्यादिदृष्टस्य गवाऽऽ-घ्रातस्य पक्ष्यवलीढस्यासंस्कृतस्य बहुयाचितस्य सरोषसविस्मयदत्तस्य पादस्पृष्ट-स्यावज्ञातस्यानर्चितदत्तस्यातुष्टिकरस्य चान्नस्य भोजने चामत्या त्रिरात्रम् \। अमत्याऽभ्यासे कृच्छ्रः । मत्याऽतिकृच्छ्रः । मत्याऽभ्यासे तप्तकृच्छ्रः । ब्रह्मचर्यादेः कायातिकृच्छ्रतप्तकृ. च्छ्रचान्द्रायणानि मत्यादिषु क्रमेण पुनःसंस्कारश्च । यद्वा त्रिषण्णवद्वादशरात्राणि पयसा भूयोभ्यासे चान्द्रम् । अत्यन्ताभ्यासे चान्द्रवृद्धिः । आपद्येकद्वित्रिचतुरुपवासाः । अत्यन्तापदि त्रिषण्णवद्वादश प्राणायामाः । आमान्नेषु स्नानम् । एतद्वृत्तिविप्रान्नभोजन एकभक्तम् । अनाचारे दुष्टाचारे नक्तम् । ब्राह्मणब्रुवे स्नानमष्टशतजपश्च । एवं शाखारण्डान्नस्य ब्राह्मणादिसंघाताद्युपदेशत्यक्तादिरूपस्यानेकस्वामिकरूपस्य वा गणान्नस्य को भुङ्क्त इत्यादिस्मयादिना दीयमानदुष्टान्नस्य नगरमाधुकराद्यन्नस्यासन्मानं गुणिनां सन्मानं पापकर्मणां कुरुते यस्तदन्नस्य च भोजने प्राग्वदेव \। आचारेन्दुशेखरे भोजनप्रकरणे गणिकाद्यभोज्यान्नभक्षणे चैवमित्युक्तम् । इति परिग्रहाशुचिदुष्टभोजनप्रायश्चित्तानि ॥
अथ जातमृताशौचान्नभोजने प्रायश्चित्तम् — द्विजाशौचे सवर्णानामुपवासस्त्रिरात्रं वा । विप्रक्षत्रियवैश्यशूद्राशौचेष्वमत्या विप्रोभुक्त्वा नक्तैकद्वित्रिरुपवासान्कुर्यात् \। अभ्यासे त्वेकत्रिपञ्चसप्तोपवासाः । यद्वाऽभ्यासे द्वात्रिंशत्षष्टिशतं प्राणायामाः । उपवासैः प्राणायामानां समुच्चय इत्येके । अन्ये त्वापद्यज्ञानत एवासकृद्भोजन एवैतत् । अभ्यासे त्वधिकमित्याहुः । मत्या चेत्कायसांत पनमहासांत पनचान्द्राणि । एकद्वित्रिचतुःका- यानि वा । मत्याऽभ्यासे कायातिकृच्छ्रतप्तकृच्छ्रचान्द्राणि । कामतो भूयोभ्यास एकद्वित्रिषण्मासेषु क्रमेण यावकव्रतम् । अत्यन्तापदि मत्याऽभ्यासेऽपि प्रागुक्तप्राणायामा एव । अज्ञानाद्भक्तौ छर्दने चानापद्यप्यष्टा विंशतिपञ्चशताष्टसहस्रगायत्रीजपो वा बोध्यः । द्विजाशौचे शूद्रस्य भुक्तौ स्नानम् । शूद्राशौचे शूद्रस्य स्नानं पञ्चगव्यं च । आशौचविप्रस्पृष्टपानीयपाने पञ्चगव्यमज्ञानतः । ज्ञानतश्चेदुपवासः । ब्रह्मचर्यादेस्तत्पाने पञ्चगव्यमुपवासश्च । प्रत्यहं सहस्रजपश्च त्रिरात्रम् । जाताशौच आहिताग्न्याशौचे च लघु सर्वे योज्यमित्येके । आशौचे भुक्तवन्तं न स्पृशेदा

पुरीषोत्सर्गात् । इदं च प्रायश्चित्तं तद्वर्णानामाशौचव्यपगमे कार्यम् । तावदाशौचान्न भोजिनोऽप्याशौचात् । एतच्चाऽऽशौचिस्वामिकान्नभोजन एव । आशौचिस्पृष्टाशौचिस्वामि-कान्नभोजने तु तत्तत्प्रायश्चित्तद्वयसमुच्चय इत्यन्यत्र विस्तरः \। आशौचिगृहेऽन्यदीयान्नभोजने-ऽपि नक्तमुपवासो वा प्रायश्चित्तम् \।
अथ कापालिकान्नभोजने तज्जलपाने च क्रमात्कायं तदर्थेच । अभ्यासे द्विगुणम् । मत्याऽ-भ्यासे चतुर्गुणम् । तत्स्त्रीसंगमने चैवम् । अत्यन्ताभ्यासेऽब्दकृच्छ्रम् \। अन्नसत्र प्रवृत्तस्या-ग्निहोत्रिणश्चाऽऽशौचवत्त्वेऽपि तदीयामान्नेषु दोषो न । तयोः पक्वान्नग्रहणे तु क्रमेणैकरात्रं यावकव्रतं द्वादश चतुर्विंशतिः प्राणायामा वा । पक्षे मासे वा देवपितॄन्भोजयतोन्नाशने चान्द्रम् \। पतितगृहवासान्नभोजनप्रतिगृ(ग्र)हेषु ज्ञानाभ्यासे मासोपवासः \। अज्ञानाभ्यासे चान्द्रम् \। पूर्वगणितव्यतिरिक्तनिषिद्धाचरणशीलानामन्नभोजने तूपवासः । वत्सराभ्यासेपराकः । उक्तरिक्तनिषिद्धमूलफलपत्राद्यशन उपवासः । इति जातमृताशौचान्नभोजने प्रायश्चित्तम् । इति निन्दितान्नादनप्रायश्चित्तानि ॥
अथ नटादिकर्मकरणे प्रायश्चित्तम् - वशीकरणोच्चाटनादिरूपेऽभिचारे शक्तौ सत्याम-पालनरूपे विना कारणं गृहान्निष्काशने संभोगादित्यागरूपे च भार्यात्यागेऽप्युपपातक-सामान्यप्रायश्चित्तानि शक्त्याद्यपेक्षया योज्यानि। अत्रोपपातकप्रायश्चित्तेषु यथोपदिष्टं विप्रस्यैव । क्षत्रियस्य पादोनम् । वैश्यस्यार्थम् । शूद्रस्य पादम् । तत्स्त्रीणां तदर्धम् । रजस्वलानां तत्र तत्रोक्तमेव कार्यम् । इति नटादिकर्मकरणे प्रायश्चित्तम् । इत्युपपातकप्रायश्चित्तानि समाप्तानि ॥
अथ महापातकेषु । तत्राऽऽदौ ब्रह्महत्याप्रायश्चित्तम्-तत्र ब्राह्मणत्वप्रकारकज्ञानपूर्वकं मारणकामनया ब्राह्मणवधे मरणादेव शुद्धिः । तच्चाऽऽत्मनोऽग्निपवेशनेन भृगुपतनेन वा । अथवा ब्रह्म हत्यापापशुद्धयर्थे बाणलक्षी(क्ष्यी)भूतोऽयमिति जानतां धनुर्भृतां युद्धभूमौ स्वेच्छया लक्ष्यभवनेन । अत्र तादृशो बहुप्रहारार्तोमृतकल्पो भवन्यदि पुनर्जीवत्तदाऽपि शुध्यति । मरणान्तं प्रायश्चित्तं क्षत्रियादेरेव । विप्रस्य तु तत्तद्वक्ष्यमाणं प्रायश्चित्तं द्विगुणं कार्यमिति मिताक्षरा \। अज्ञानतोऽनि-

च्छेयां वा कृते तु ब्रह्मवधे हतविप्रशवशिरोध्वजहस्तस्तत्कपालालोभगृहीतान्यदीयकपालः स्वकर्म ख्यापयन्ब्रह्मचारिधर्मवांस्त्रैवर्णिकाचार्यादिदर्शने मार्गादपक्रामंस्त्रिपवणस्नाय्य-ध्ययनाध्यापनादिषट्कर्माणि वर्ज यन्समन्त्रकं स्नानसंध्योपासनमात्रं कुर्वन् रात्रौ वीरासनी जटी मुण्डी वा वन्यफलमात्राहारी तदभावे त्वसंकल्पितविधूमभुक्तवज्जनसप्तागारेष्वेव भैक्ष्यं मृत्पात्रेण चरन्क्षमीदान्ताचारः कम्बलक्षौमशयानश्चीरवल्कलान्यतमवासा बहिर्ग्रामा-द्देवालयादिसमीपवासी विप्रगृहाण्यप्रविशन्द्वारादेव तत्तद्गृहान्नमस्कुर्वन्नेककालाशीभिक्षाया अलाभ उपवसन्द्वादश वर्षाणि क्षपयेत् । ध्वजश्च शवनिर्हरणार्थखड्वाङ्गस्यैव । एतदशक्तौ षष्ट्युत्तत्रिशतधेनवस्तन्मूल्यं वा परौप्यान्यतरस्य षष्टयुत्तरत्रिशतनिष्कानि (णि) । अत्राशक्तौ तावत्संख्यान्यनिष्कानि (णि) पादनिष्कानि (णि) वा । अत्रान्ते शतं दश वा गावो दक्षिणा विप्रभोजनादीति केचित् । पितृमातृसोदरगुरुश्रोत्रियाहिताग्न्याचार्यादिविप्रवधे तु मरणपर्यन्त-मेतदेव व्रतम् \। भिक्षाशनं च लोहितशरावेणेति । अत्र गोसहस्रादिकद्वादशाब्दमित्यन्ये । द्वादशाब्दव्रतमध्ये चोरव्याघ्रादिहन्यमानस्य ब्राह्मणस्य तादृशगवां द्वादशकस्य वा रक्षणे द्विजान्विज्ञाप्याश्वमेधावभृथस्त्नाने वा सद्य एव शुद्धिः । प्रक्रान्तव्रतमध्ये मरणेऽपि तावतैव पापक्षयः । एवं व्रतमध्ये गोविप्रार्थे प्राणपरित्यागे तत्पर्यन्तं व्यापारं कृत्वा जीवनेऽपि वा सद्य एव शुध्यति । यद्वा व्रतमध्ये कुष्ठादिदीर्घतीव्रव्याधिग्रस्तं विप्रंगां वौषधैः संरक्ष्य तदैव शुध्येत् । एवं व्रतमध्ये चोराद्यपहृतविप्रधनार्थेतैः सह युद्ध्वा तद्धनस्य विप्राय प्रापणे तन्निमित्तमरणे वा बहुशस्त्रक्षतस्य मृतकल्पस्य तैस्त्यक्तस्य धनानयनं विनाऽपि जीवनेऽपि वा सद्य एव शुद्धिः । न त्वग्रे पुनर्व्रतकरणम् । इदं चामत्याऽनिच्छया वा निर्गुणं विप्रं हन्तुर्ज्ञेयम् । प्रक्रान्तव्रतक्षत्रियस्य जातिमात्रविप्रस्य च कामतः सगुणेन वधे कृते द्वादशाब्दं कार्यम् \। अज्ञानतः षडब्दम् । मितहविष्याशिनः शाखान्तं त्रिर्वेदसंहिताब्राह्मणपारायणं वा । पूर्वमेवाऽऽहिताग्नेः कृतप्रकृतियज्ञस्य विश्वजिदभिजित्रिवृदग्निष्टुतामन्यतमयागकरणं वा । विन्ध्योत्तरवासिना तु निर्गुणेन सगुणेन वा जातिमात्रनिर्गुणविप्रवधे विकर्मवर्जित-चातुर्वर्ण्यात्पथि भिक्षां कुर्वता छत्रोपानद्वजितेन गोकुलगोष्ठग्रामतपोवनतीर्थादिषु स्वकर्म ख्यापयन्समुद्रसेतुदर्श-

नस्त्राने कृत्वा विप्रेभ्यो भोजनवस्त्रपवित्रादि देयम् । अत्र गोशतं दक्षिणा \। जातिमात्रविप्रस्य वेदाभ्यासादिहीनेन धनवता वधे वेदवित्संप्रदानजीवनपर्याप्तभूम्यादिधनदानम् । द्वादशवर्षो-पभोग्यद्रव्यसहितगृहदानं वा तावत्सर्वस्वदानं वा । अशक्तावुत्तरोत्तरम् । अत्र प्रतिग्रही- तुर्वैश्वानरेष्टिरनाहिताग्नेर्वैश्वानरश्चरुः प्रायश्चित्तम् \। अज्ञानतः सोमयागदीक्षितब्राह्मणवधे चतुर्विंशतिवार्षिकमुक्तव्रतं गोसहस्रद्वयं वा । आचार्यादिवधेऽप्येवम् । गोसहस्रसहितं द्वादशाब्दमित्यन्ये । अतिगुणवता गुणहीनस्याज्ञानतो वधे पूर्वोक्तं व्रतं वर्षे कृत्वाऽन्ते रत्नहेमगोवान्यतिलदधिघृतदानम् । मत्यादौ द्विगुणादि । ज्ञानतो ब्राह्मणज्ञातीयषण्ढवधे शूद्रवधव्रतम् । अज्ञानतस्तद्वधे गङ्गायमुनासंगमे त्रिषवणस्त्नायी त्रिरात्रोपवासेन शुध्यति । पतितब्राह्मणवधे त्रिवर्षे प्रत्यहं प्राणायामशतपूर्वकं गायत्रीजपपूर्वकं च वने भिक्षाशनमन्ते षोडशविप्रभोजनं च । अनुपनीतविप्रवधे निर्गुणविप्रधोक्तं षडब्दम् । अनुपनीतत्वेन तस्य निर्गुणत्वात् । अविज्ञातस्त्रीपुंस्त्वादिकस्य ब्राह्मणगर्भस्य वधे तु द्वादशाब्दम् \। विज्ञात-स्त्रीत्वादौ तत्तत्प्रयुक्तम् । अत्रैकप्रयत्नकृतानेकविप्रवधेऽप्येकमेव प्रायश्चित्तं तन्त्रेण । तन्त्रत्वं च समानदेशकालकर्तृत्वेनागृह्यमाणविशेषत्वम् । अनेकप्रयत्नकृते तु नानावधे प्रायश्चित्ता-वृत्तिस्तृतीयविप्रवधपर्यन्तम् । चतुर्थे तु विप्रवधे प्रायश्चित्ताभावः । केचिदामरणमुक्त-प्रायश्चित्ताचरणामित्याहुः \। बहुभिरेकविप्रस्य वधे यदीयप्रहारेण मरणं संप्लाक्षप्रस्रवणादारभ्य पश्चिमोदधेः प्रतिस्रोतः सरस्वतीं गच्छेत् । अन्ये षण्मासान्कृच्छ्रांश्चरेयुः । तिरस्कृतनिर्गुण-विप्रस्य क्रोधाद्विषशस्त्रादिनिर्गुणोपरिमरणे त्रैवार्षिकं तद्व्रतम् । निमित्तिनो गुणवत्त्वे त्वब्दं गृहक्षेत्रादिसंबन्धे निर्गुणमरणे सगुणस्यापि त्रैवार्षिकमेव । सगुणस्य तथामरणे तु द्वादशाब्द-मेव । यदा त्वाक्रोशताडनादिसंबन्धमन्तरेण भ्रान्त्यादिवशात्परमुद्दिश्य विप्रस्याऽऽत्महनने तु हन्तुरेव दोषो नोद्दिश्यस्य । तथा यत्राऽऽक्रुष्टोऽपि मरणादवक्धनदानादिना तोषित उच्चैः श्रावयति नाऽऽक्रोशकस्यापराध इति सोऽप्यदोषः । इति ब्रह्महत्याप्रायश्चित्तानि ॥
अथानुग्राहकादीनाम्—तत्र साक्षादनुग्राहकः कर्तुर्द्वादशाब्दचतुर्विंशत्यब्दषडब्दादि यत्प्राप्नुयात्तत्पादोनं चरेत् । प्रयोजकोऽर्थम् । अनुमन्ता

सार्धपादम् \। निमित्तकर्ता पादं चरेत् । अत्र च तिरस्कृतेत्याद्यनुपदोक्ता व्यवस्था निमित्त-कर्तुरुक्तैव । अनुग्राहकप्रयोजकादीनामपि येऽनुग्राहकप्रयोजकादयस्तेषामपि प्रायश्चित्तं कल्प्यम् । तथा प्रोत्साहकादीनामपि दण्डप्रायश्चित्ते कल्प्ये \।
प्रोत्साहकः सहायश्च तथा मार्गानुदेशकः ।
आश्रयः शस्त्रदाता च भक्तदाता विकर्मणाम् \।\।
उपेक्षकः शक्तिमांश्चेद्दोषवक्ताऽनुमोदकः ।
य एव म्रियमाणं तु ब्राह्मणं समुपेक्षते \।\।
अकार्यकारिणां तेषां प्रायश्चित्तं प्रकल्पयेत् ॥ इति ।
कस्मिंश्चिद्ब्रह्मवधे प्रयोजकस्यान्यस्मिन्साक्षात्कर्तृत्व एकस्य गुरुलघुप्रायश्चित्तसंनिपातस्तत्र द्वादशवार्षिकादिगुर्वन्तःपातिनः प्रयोजकादिलघुप्रायश्चित्तस्य प्रसङ्गादिसिद्धिर्न पृथगनुष्ठानम् । अग्निदगरदशस्त्रपाणिधनापहारिक्षेत्रहरदारहारकाः शापोद्यत आथर्वणाद्यभिचारैर्हन्ता राजगामिपैशुनकर्ता चैते वर्तमानतद्व्यापारा आततायिनः । एषामग्निविषशस्त्रादिहरणमात्रेण निवारणसंभवे यदि तदूधः क्रियते तदा तत्तदूधनिमित्तं प्रायश्चित्तं भवत्येव । अशक्यनिवारणे तु गोविप्रादीनामप्येषां हननादावुद्यतानां वधे दोषाभावः । क्षत्रियादीनां ब्रह्मचारिवनस्थयतीनां च क्रमेण द्विगुणं त्रिगुणं चतुर्गुणं च प्रायश्चित्तम् \। केचित्तु क्षत्रियवैश्यशूद्राणां कामतः प्रवृत्तादेतद्विषये मरणमेव तच्च सर्वस्वदानपूर्वकं मुण्डितसर्वाङ्गस्य करीषाग्नावेव । अकामतस्त्वामरणं महाव्रताभ्यास इत्याहुः । यत्तु यथोक्तं प्रायश्चित्तं विप्रस्यैव क्षत्रियस्य तत्पादोनं वैश्यस्यार्धेशूद्रस्य पादमिति स्मृत्यन्तर उक्तं तत्प्रातिलोम्यानुष्ठितमनुष्यवधचौर्य पारदार्यपारुष्येतिचतुर्विधसाहसव्यतिरिक्तपापविषयम् । बालवृद्धस्त्रीणामर्धम् । ब्रह्मचारिणोऽपि षोडशवर्षात्पूर्वे बालत्वादर्धम् । षोडशवर्षादूर्ध्वेतस्य द्विगुणम् । अनपनीतवालानामनूढस्त्रीणां च पादमेव । विप्रात्क्षत्रियायामुत्पन्नो मूर्धावसिक्तस्तस्य क्षत्रिय-न्यूनमध्यर्धेद्वादशाब्दम् । एवमनुलोमेषु सर्वत्र न्यूनत्वमूह्यम् । प्रतिलोमोत्पन्नानागमयैव दिशा प्रायश्चित्ताधिक्यमप्यूह्यम् ।
साग्निकस्याज्ञानान्महापापे तदन्गीन्पुत्रादयोऽप्रायश्चित्तं पालयेयुः । ज्ञानाच्चेदग्नीनप्सु प्रक्षिप्य मरणान्तं प्रायश्चित्तम् । आत्मघाते तु तत्पु-

वादयो मृतजातीयवधप्रायश्चित्तं समुचितं तप्तकृच्छ्रद्वयं चान्द्रं कुर्युः । आत्मघातादिपापिनां शवस्पर्शालंकरणवदनदहनाश्रुपातास्थिसंचयदशाहक्रियादिकमज्ञानतः कृत्वा मनूक्तं तप्तकृच्छ्रं द्वादशाहम् । ज्ञानतो द्विगुणम् । तप्तकृच्छ्रसहितं चान्द्रं वा । एषु स्पर्शाश्रुतपात-भिन्नेष्वेकैककरणे तु ज्ञानतः सप्ताहसाध्यं सांतपनं तप्तकृच्छ्रं वा । अज्ञानतो मासं भिक्षा-हारस्त्रिषवणस्नानं च । स्पर्शाश्रुपातयोस्तु प्रत्येकमेकोपवासः । मत्याऽभ्यासे कृच्छ्रातिकृच्छ्र-चान्द्रादि योग्यतया योज्यम् \। आहिताग्नेतादृशस्य लौकिकाग्निना दाहोऽमत्रकः । दाहकर्तुः प्राजापत्यमात्मघातादिप्रायश्चित्तं पुत्रादिः कृत्वाऽस्थीनि विधिवद्दहेत् ।
अथ ब्रह्महत्यादिव्रतादेशविषय उच्यते - स द्विविधः । ताद्रूप्यताप्रतिपादेन सादृशप्रतिपादेन वा । तत्राऽऽद्यविषये ब्रह्महव्रतं पादोनम् । द्वितीयविषये त्वर्धम् । तत्राऽऽद्यं यथा - सोमयागस्थक्षत्रियतत्स्थवैश्ययोरात्रेय्याश्च वधः । रजोदर्शनात्प्रभृति षोडशदिनान्तं वन्ध्याति रिक्ता स्त्र्यात्रेयी । अत्रिगोत्रोत्पन्ना नारी च गर्भिणी च I केचित्तु तादृशी वन्ध्याऽप्यात्रेयीत्याहुः । आत्रेयी विप्रसंबन्धिन्येव विप्रतुल्या । अत्रापि सगुणनिर्गुणादिव्यवस्था योज्या । एवं यागस्थ - स्त्रीवधः । आहिताग्निद्विजाग्र्यभार्याविधः । विप्रवधफलकानृतसाक्ष्यं विप्रसंबन्धिनिक्षेपहरणं च । अत्र नववार्षिकब्रह्मव्रतम् । कामादिकृते द्वैगुण्यादि । नात्र प्राणान्तिकत्वम् \। क्षत्रियाद्यात्रेयीवधे तु क्षत्रियादिवधोक्तं प्रायश्चित्तम् । द्वितीयं यथा - गुरूणां मुख्यानामाक्षेपोऽनृतपापाभिशंसनं च । वेदानामप्रामाण्याभिधानम् । विप्रातिरिक्तमित्रवधः । अधीतवेदस्य बौद्धादिशास्त्रावष्टम्भेन नाशनम् । प्राणिमात्रवधफलकानृतसाक्ष्यम् । गुणवत्परस्परं स्पर्धायां गुणवत्त्वपरीक्षायां वाऽमृतवचनम् \। राजकुले ब्राह्मणपीडाजनकपैशू (शु)न्यं चेत्यादि । एतेष्वन्येषु च पूर्वोक्तेषु च ब्रह्महत्यासदृशेषु षडब्दं ब्रह्महव्रतम् । एषु कपालध्वजधारणादिकं नास्ति। ब्राह्मणादिहव(न)ने कृतनिश्चये तदर्थे(र्थे)समागत्य- सम्यक्शस्त्रादिप्रहारे कृते कथंचित्प्रतिघातादिप्रतिबन्धवशादसौ न मृतस्तथाऽपि प्रहर्तुर्यथावर्ण ब्रह्महत्याप्रायश्चित्तं भवत्येव । तच्च पादोनमिति मिताक्षरादौ । मनसा निश्चितब्रह्मवधस्य स्वत एवोपरतजिघांसस्य द्वादशरात्रमुदकमात्रभक्षतयोपवासाः । चिकित्सादिनोपकारे।

क्रियमाणे विप्रादिमरणे तु न किमपि पापम् । इति ब्रह्महत्याप्रायश्चित्तप्रकरणम् ॥
अथ सुरापानप्रायश्चित्तानि - मदजनकोऽन्नविकारविशेषः सुरा । तस्या विप्रैर्ज्ञानपूर्वे कामतः सकृदपि पाने मरणान्तमेव तेषां प्रायश्चित्तम् । तच्चाग्निवर्णसुराम्बुगोघृतगोक्षीरस्त्रीगवी-मूत्राणामन्यतमपानेन । पानं च लोहपात्रेण ताम्रपात्रेण वाऽऽर्द्रवासाः कुर्यात् । तत्पानेनाप्य- मरणे तु यावत्प्राणवियोगं तदनन्तरमनशनम् । मरणान्तिके चास्मिन्पर्षदुपदेशो नाऽऽ-वश्यकः । किंतु स्वपर्यालोचनेनापि । अकामतो जलबुध्द्या वैकवारं सुरापाने गोकेशमेषादि-लोमनिर्मितवस्त्रावृतस्य जटिलस्य द्वादशवार्षिकं ब्रह्महव्रतम् । अकामतोऽभ्यासे तु मरणमेव । उदकबुद्ध्या पीतायाः सुरायास्तत्कालमेव वमने तु पूर्वोक्तधर्मवतो वर्षत्रयं रात्रौ सकृत्तिलकल्कतन्दुलकरणान्यतरमात्रभक्षणं नत्वन्नभक्षणं प्रत्यहं पञ्चगव्यपानं च । अथवोभयत्र भूमिदानपूर्वकं पुनःसंस्कारः । अनेनेह व्यवहार्यतैव । द्वादशाब्दासमर्थस्य पापक्षयोऽपीतिः मिताक्षरा । अज्ञानतः सुरायास्तालुमात्रसंयोगे वार्षिकमिदम् । ज्ञानतो द्विगुणम् । अकामतः सुरासंस्पृष्टस्य शुष्कतद्रसस्यान्नस्य द्रव्यान्तरस्य च वा भक्षणे तु पुनःसंस्कार एव । विप्रस्य सुरागन्धाघ्राणे सांतपनकृच्छ्रम् । अकामतः कायम् । अत्र क्षत्रियवैश्ययोः पादपादहानिरिति प्राञ्चः । ज्ञानतः कामपूर्वेसुरापाने तु मरणमेव सर्वेषाम् । गौडी माध्वी च गौणी सुरा । मुख्या तु पैष्ट्येव । तत्र मुख्यायां प्रायश्चित्तमुक्तम् । गौडीमाध्व्योस्तु मत्याऽभ्यासेऽमत्याऽत्यन्ताभ्यासे च माधवीये-
मत्या मद्यममत्या वा पुनः पीत्वा द्विजोत्तमः ।
ततोऽग्निवर्णेतत्पीत्वा मृतः शुध्येत्स किल्बिषात् ॥ इति ।
अकामतो गौडीमाध्व्योः सकृत्पाने द्विजानां कृच्छ्रातिकृच्छ्रं चान्द्रं च कृत्वा पुनःसंस्कारो घृतप्राशनं च । मतिपूर्वकं तयोः सकृत्पाने छर्दने च त्रैवार्षिकं कणभक्षणम् । कामतो द्विस्त्रि रभ्यासे छर्दने च षडब्दम् । उभयत्र च्छर्दनाभावेऽप्येवमेवेति स्मृत्यर्थसारे । अकामतो द्विस्त्रिरभ्यासे तु त्वब्दकृच्छ्रं पुनःसंस्कारश्च । अमत्या मत्या वाऽधिकाभ्यासे द्वादशाब्दमिति स्मृत्यर्थसारे । तेन पूर्वोक्तं माघ-_

वीयं मरणान्तिकं द्वादशाधिकाभ्यासे निरन्तरं बहुकालाभ्यासे वा योज्यम् ॥
अथमद्यपानप्रायश्चित्तम्-पनसादिजन्यं मदकारणं द्रवद्रव्यं मद्यमिति माधवः। तच्चैकादशधा \। पानसं द्राक्षं मधूकरंखार्जूरं तालमैक्षत्रंमाधुत्वंसैरमारिष्टं मैरेयं नारीकेलजमिति भेदात्। एतत्पाने क्षत्रियादेर्न दोषः । विप्रस्यामत्या सकृत्पाने तप्तकृच्छ्रपूर्वकं पुनःसंस्कारः ।ज्ञानतः कामतश्च सकृत्पाने कृच्छ्रातिकृच्छ्रं समुद्रगायां नद्यां चान्द्रं वा कृत्वा पुनरुपनयनं घृतप्राशनं च । मुखमात्रप्रवेशे तुषड्रात्रं पद्मोदुम्ब रबिल्वपलाशकुशोदकपानम् । गौडीमाध्व्योस्तु मुखमात्रप्रवेशे द्विगुणम् । कामतस्त्विदमेव द्विगुणम् । अभ्यासे तु तप्तकृच्छ्रादेश्चान्द्रा देश्चऽऽवृत्तिः । अत्यन्ताभ्यासे मरणमेव । अज्ञानतोऽत्यन्ताभ्यासे द्वादशवार्षिकम् । प्राञ्चस्तु विप्रस्य कामतः सकृदपि तालादिमद्यपाने मरणान्तमेवेत्याहुः \। अनन्यौषधसाध्यव्याध्युप-शमनार्थे सुरापाने त्वज्ञानकृते त्रैमासिकमब्दपादं चान्द्रायणं वा कृत्वा पुनरुपनयनम् । मद्यपाने तु तथा कृते तप्तकृच्छ्रसहितः पुनःसंस्कारः । ज्ञानकृते तु तप्तकृच्छ्रपराकचान्द्रा- णि । मद्ये तप्तकृच्छ्रद्वयम् । पुनःसंस्कार उभयत्र । सुरादेः पानविष[यकं]प्रायश्चित्तं तत्पित्रादिभिः कार्यम् । अस्यानुपनीतस्य सुरापाने तु त्रैवार्षिकं पित्रादिभिः कार्यम् । अनूढाया एतदर्धम् । कामकारेऽपि नानयोमरणान्तिकं किंतु द्विगुणम् । तेन षड्वार्षिकम् । उपनीतस्य षोडशवर्षपर्यन्तं षडब्दम् । केचिद्द्वादशवर्षपर्यन्तं पादमेव । तदूर्ध्वमर्धमित्याहुः । एवं वृद्धातुरस्त्रीणामप्यर्धम् । एवं रोगनाशार्थेपानेऽपि बालादीनां यथायोग्यं कल्प्यम् । इति मद्यपानप्रायश्चित्तम् ।
अथ सुरापानसमानपापानि - वेदनिन्दा व्यसनासक्त्याऽधीतवेदाविस्मरणं कूटसाक्ष्यं विप्रव्यतिरिक्तमित्रवधो मत्याऽत्यन्ताभ्यासेन गर्हितपलाण्ड्वादिभक्षणं रजस्वलामुखचुम्बनं वाङ्मनःकायकर्मणामनार्जवरूपं जैह्मयम् ।
आत्मोत्कर्षार्थं राजकुलादौ चतुर्वेदोऽहमित्याद्य्-अनृत-भाषणमेतानि सुरापानसमानानि । अत्र ब्रह्मवधसमानानामपि केषांचिद्गणनं प्रायश्चित्त-विकल्पार्थम् । एतेषु सुरापानसमेष्वर्धप्रायश्चित्तम् । इति सुरापानादि [सम] प्रायश्चित्तानि ॥

अथ स्वर्णस्तेयप्रायश्चित्तम् — विप्रस्वामिकाशीतिगुञ्जापरिमितसुवर्णापहरणं महापातकम् । इतो न्यूनहरणं न महापातकम् । अपहरणं च समक्षं परोक्षं बलाच्चौर्येण क्रयादिस्वत्वहेतुं विना ग्रहणमुच्यते । ज्ञान तस्तु तत्कर्ता लोहमयं मुसलमादाय प्रकीर्णकेशः स्वदोषं स्वर्णापहाराख्यं ख्यापयन्ननेन मुसलेन मां प्रहर इति वदन् राज्ञे मुसलमर्पयेत् । तेन सकृदे-वाभिहतो मृतः शुद्धः । यदि दृढमहारार्तोऽपि जीवेत्तदाऽपि शुध्यति । न ब्राह्मणं हन्यादित्यादिनिषेधस्तु रागप्राप्तविप्रवधविषयः । अहनने राज्ञः पापश्रवणात्। माधवस्त्वेकस्य तस्य मरणे बहूनां तदीयमित्रकलत्रादीनामनायतया मरणं संभाव्य यदि राजा दयया धनदण्डादिपुरःसरं मुञ्चति तदाऽपि शुद्ध इत्याह । यदि राजा दृढं हन्तुमसमर्थस्तदा ताम्रमयमायुधं तस्मै दद्यात्तेनाऽऽत्मानं घातयेत् । मरणात्पूतो भवति । यत्नपूर्वकं कामतो हरणे मुण्डितकेशो घृताक्तः स्वकर्म ख्यापयन्गोमयाग्निना पादप्रभृत्यात्मानं दाहयेत् । एतच्चापहृतसुवर्णादेकादशगुणं स्वर्णे तत्स्वामिने दत्त्वैव कार्यम् । गुरुश्रोत्रिययागस्था-विप्रसुवर्णहरणे कारीषाग्निदाह एव । क्षत्रियादीनामपहर्तृत्वे सर्वथा कारीषदाह एव । स्मृत्यर्थसारे तु सुवर्णस्तेयी विप्रो व्रतमेवाऽऽचरेत् । न दण्डेनाऽऽत्मानं घातयेत् । न च राजा विप्रं हन्यादित्युक्तम् । अकामतो रजतादिबुद्ध्याऽपहारे सुरापोक्तं द्वादशवार्षिकम् । कामतो रजतादिबद्ध्याऽपहारेऽप्येतदेव \। शूलपाणिस्तु कामतो रजतादिबु‌द्ध्याऽपहार एव द्वादशाब्दम् \। अकामतस्तद्बुद्ध्याऽपहारे तु षड्वार्षिकमित्याह । द्वादशवार्षिकविषयेऽ-पहर्तुर्महाघनिकत्व आत्मतुलितहेमदानम् । निर्गुणस्वामिकहरणे सगुणस्य नव वार्षिकम् । कश्चित्पादोनसुवर्णहरणेऽप्येतदेवाऽऽह । यदा क्षुत्क्षामकुटुम्बभरणार्थेसगुणोऽपि विनो निर्गुणस्वामिकमपहरति तदा षडब्दम् \। तीर्थयात्रासहितं पड्वार्षिकमिति माघवः । कश्चिदर्घ सुवर्णहरणेऽप्येतदेवाऽऽह । ब्राह्मणान्यस्वामिकसुवर्णहरणं न महापातकम् । किंतूपपातक-मिति मिताक्षरा । यदा त्वपहारानन्तरमेवानुतप्य त्यजति प्रत्यर्पयति वा तदा चतुर्थकाल-मिताशिनस्त्रिवर्षवस्थानम् \। क्षत्रियादिसुवर्णापहारेऽप्येतदेवेति केचित् । क्षत्रियादिस्वामिकं हरणमुपपातकमित्यपरे । रजतताम्रादिसंसृष्टसुवर्णापहारेऽपि द्वादशाब्दमेव। यस्तु ताम्रादि-

कस्य रसवेधाद्यापादितस्वर्णत्वस्यापहार उपपातकमेव । मनसाऽपहारं संकल्प्य प्रवृत्तस्य स्वत एव उपरतस्य द्वादशरात्रं वायुभक्षणम् \। मनसि पापध्यानमात्रेण प्रणवव्याहृतिजपपूर्वकं त्रिरात्रं प्राणायामाः । वाचाऽभि लाषे प्राजापत्यम् । स्त्रीबालादिष्वर्धादिव्यवस्था प्राग्वत् \। क्षत्रियादेरपहर्तृत्वे क्रमेण द्विगुणं त्रिगुणं चतुर्गुणम्। ज्ञानतस्तु मरणमेवेति शूलपाणिः क्षत्रियादेः पादपादहानिरेव। द्वैगुण्यादिकं तु प्रकरणाद्विप्रवधविषयमिति भवदेवः। वालाग्र-मात्रसुवर्णापहार एकः प्राणायामः। लिक्षामितापहारे तत्त्रयम्। राजसर्पपतुल्ये तच्चतुष्टयम-ष्टोत्तरशतगायत्रीजपश्च। गौरसर्षपतुल्येऽष्टसहस्रगायत्रीजपः। यवमितसुवर्णस्तेये दिनद्वयं तज्जपः। कृष्णलस्वर्णस्तेये सांतपनकृच्छ्रम्। माषस्वर्णापहारे मासत्रयं गोमूत्रयावकपानम्। पश्चगुञ्जात्मको माषस्ते सुवर्णस्तु षोडश। माषाधिकसुवर्णमानन्यूनहेमापहारे वत्सरं यावकव्रतम्। सुवर्णपरिमाणतो न्यूनस्यापि बलादपहरणे मरणान्तमेव। सुवर्णमानन्यून-रजतस्तेये सांतपनम्। तत ऊर्ध्वेदशनिष्कपर्यन्तं चान्द्रम्। तत आशतनिष्कं चान्द्रद्वयम्। तत आसहस्रात्रिगुणम्। सहस्रनिष्काधिकरजतस्तेथे स्वर्णस्तेये(य)समत्वान्नवाब्दं ब्रह्महव्रतम्। ताम्रकांस्यपित्तलादीनां सहस्रनिष्कमितस्तेये पराकम्। निष्कसहस्ररजतमूल्यानामेषां स्तेये द्वादशाब्दम्। एवं दशानिष्कमूल्यरत्नहरणे चान्द्रम् \। आशतं तद्द्वयम्। आसहस्रं तत्र- यम् । सहस्रनिष्काधिकमूल्यरत्नहरणे ब्रह्मवधसमत्वान्नवाब्दम् ।
सहस्राधिकमूल्यविप्रस्वामिकामनुष्यभूमिगोव्रजानां सुवर्णभिन्ननिक्षेपस्य च हरणमित्येतानेि सुवर्णस्तेयसमानि । एतेषु पडब्दम्\। सहस्राधिकमूल्यविप्रस्वामिकवस्तुमात्रहरणं सुवर्ण-स्तेयसप्रमित्यपरे । युगपदनेकसुवर्णमित हेमापहारेऽप्येकमेव प्रायश्चित्तम् । न प्रायश्चित्ता-वृत्तिर्हरेणक्रियाया एकत्वात् । कालभेदे प्रयत्नभेदे च तदावृत्तिः। इति सुवर्ण स्तेयप्रायश्चित्तानि ॥
अथ गुरुतल्पप्रयश्चित्तम्- गुरुरत्र पिता। तल्पस्तत्पत्नी। गमनं चात्ररेतःसेकपर्यन्तं चेन्महापातकम्। ततोऽर्वाङ्निवृत्तौ त्वनुपातकम्\। तत्राज्ञानादकामतोऽपि जनन्यामुत्तम-वर्णतत्सपत्न्यां च प्रवृत्तस्य सवर्णायां तत्सपत्न्यां तु ज्ञानतः कामतश्च प्रवृत्तस्य मरणान्तमेव। तच्चोभये-

च्छया प्रवृत्तौ गुर्वङ्गनागमनं मया कृतमिति स्वकर्म ख्यापयता मुण्डितसर्वशरीरकेशनखेन घृताक्तेनाग्निवर्णकृते काष्ठशयने तद्वर्णकृतयैव लोहमय्या स्त्रीप्रतिमया सह शयानेन तामालिङ्गन्य कार्यम् । स्वेन प्रोत्साहने तु क्षुरेण वृषणौ सलिङ्गौ स्वयं छित्वाऽञ्जलिना गृहीत्वा नैर्ऋत्यां दिशि पृष्ठतो निरीक्षणमकुर्वन्नकुटिलगतिरग्रतःस्थितमविचारयन्प्राणान्तं गच्छेत् । एवं गच्छन्यत्रैक(व) कुड्यादिना प्रतिबध्यते तत्रैव मरणान्तं तिष्ठेत् । तया प्रोत्साहितस्य तप्तलोहशयनमात्रम् \। जनन्यामुत्तमवर्णतत्सपत्न्यां चाज्ञानादकामतः प्रवृत्तावेतदन्यतममेवेत्यन्ये । कामकृते सर्वत्र प्रागुक्तमरणान्तं कारीषाग्निदाहो वा । अकामतोऽभ्यासेऽप्येवम् । इदं मुख्यपुत्रस्यैव । न तु दत्तकादीनाम् । दत्तकस्य न्यूनं कल्प्यमिति मयूखे । सवर्णायां मातृसपत्न्यामकामादज्ञानतश्चप्रवृत्तौ द्वादशाब्दम् । अस्यां कामतः प्रवृत्तस्य रेतःसेकात्माङ्निवृत्तौ द्वादशवार्षिकम् \। जनन्यामुत्तमवर्णतत्सपत्न्यां चाकामतः प्रवृत्तस्य रेतःसेकात्पूर्वेनिवृतौ द्वादशवार्षिकम् । एषु त्रिष्वकामतोऽर्घम् । विप्रपुत्रस्य क्षत्रियां पितृभार्योगच्छतो नववार्षिकम् । वैश्यां षड्वार्षिकम् । शूद्रायां त्रैवार्षिकम् । अभ्यासे तिसृष्वपि द्वादशाब्दम् । अत्यन्ताभ्यासे मरणान्तमेव । गुरुपत्नीसाम्यात् । मातुः सपत्नीं सवर्णो व्यभिचारिणीमज्ञानतो गच्छतो वेदजपसहितचान्द्रायणत्रयम् । ज्ञानतः संवत्सरं ब्रह्महव्रतम् । एवं लघुप्रायश्चित्तानि व्यभिचार्यनुत्तमवर्णविषयेषु व्यवस्थया योज्यानि।गर्भोत्पत्तौ त्वेतान्येव द्विगुणानि । मरणातिरिक्तविषये गमनावृत्तौ प्रायश्चित्तावृत्तिर्यत्र द्विगुणोक्तिस्तत्र द्वैगुण्यावृत्तिश्च । सर्वत्र रेतःसेकात्प्राङ्निवृत्तौ मरणान्तविषये द्वादशाब्दम् । अन्यविषये रेतःसेकाभावे तत्तदर्धम् । गुरूपभुक्तास्वपि साधारणस्त्रीषु गमने गुरुतल्पदोषो न । आसु कन्यादूषणादिदोषो न । किंतु पूर्वोक्तं तत्प्रायश्चित्तं द्विगुणम् । स्त्रीणामपि पुत्रादिष्वेषु मत्या वृत्तौ मरणान्तमेंव । अमत्या प्रवृत्तौ द्वादशाब्दिकं पुरुषोक्तवत्कार्यम् । अन्ये तु स्त्रीणामपि कामतः प्रवृत्तौ सर्वत्र पुरुषोक्तार्धक्लृप्त्या योज्यमित्याहुः \।\।

अथाऽऽतिदेशिकप्रायश्चित्तानि - पितृष्वसा मातृष्वसा श्वश्रूः पितृव्यभ्रातृमातुलाचार्यमित्रशिष्याणां भार्याः सुताथ सापत्नभगिन्यात्म-

सखी पितृमातृसखी भगिन्याः सखी भगिनी स्नुषा दुहिता शरणागता राज्ञी प्रत्रजिता पतिव्रता धात्री चैतासु गमनं गुरुतल्परूपम् \। पितृव्यभ्रात्रोरुपनी(ने)त्रोरेव भार्ययोरेतत् । पितृव्यभार्यादयः स्वस्रादयश्च समानवर्णा एव । आस्वकामतो द्वित्रिपर्यन्ताभ्यासे कामतः सकृद्गमने च नववार्षिकम् । कामतो द्वित्रिवारं गमने नववार्षिकावृत्तिः । अकामतः सकृद्गमने षड्वार्षिकम् । कामतरूपधिकाभ्यासेऽकामतश्चैकरात्रादूर्ध्वमत्यन्ताभ्यासे च मरणमेव । कुमारी भागिनेयी स्वगोत्रा पितृष्वसृमातृष्वस्रोः कन्या मतामहपितामहयोर्भार्या श्रोत्रियर्त्विगुपाध्यायभार्या गुणवद्रजस्वलानिक्षिप्ते पौत्री दौहित्र्यन्त्यजा म्लेच्छी पुल्कसी चेत्येवमादिषु गमनं गुरुतल्पसमानम् \। अन्त्यजाश्चात्र-

चाण्डालः श्वपचः क्षत्ता सूतो वैदेहकस्तथा ।

मागधायोगवाश्चेति [ स्मृता अन्त्यजजातयः ] ॥

इति सप्तैव न तु रजकश्चर्मकारश्चेत्यादिप्रतिपादिताः । तेषु लघुप्रायश्चितस्योक्तत्वात् । आस्वेकरात्रादूर्ध्वमभ्यासे षड्वार्षिकम् \। अन्त्यजादिषु तु ज्ञानतः सकृद्रमनेवार्षिकं कृच्छ्रम् \। अज्ञानेऽर्धम् । चान्द्रायणद्वयमित्यन्ये । गुरुतल्परूपेषु तत्समेषु च रेतःसेकात्प्राङ्निवृत्तौ चान्द्रायणम् \। अकामतस्त्वत्रतप्तकृच्छ्रम् । यदा पुनरेता एवात्यन्तव्यभिचारिणीर्गच्छति तदाऽप्यकामतस्तप्तकृच्छ्रं पराको वा । कामतस्तु चान्द्रम् \। अभ्यासे आवृत्त्यादि । इति गुरुतल्परूपतत्समप्रायश्चित्तानि ॥

  यानि महापातकसमानि तान्येवानुपातकानि । तेषु च प्रायश्चित्तानि ब्रह्महत्यादिमहापापमघट्टकेषु चतुर्षुक्तान्येव ।

  अथ गौडादिमते मातृगमनं सापत्नमातृगमनं दुहितृस्वसृस्नुषागमनं चेति पञ्चातिपातकानीति यावन्त्युक्तानि तत्राऽऽद्ययोर्व्यवस्थया प्रायश्चित्तान्युक्तान्येव । दुहितृगमनादिषु त्रिषु सकृद्गमने नवाब्दद्वादशाब्दादि । द्वित्र्याद्यभ्यासेऽग्निप्रवेशादिना मरणमिति । अत्र माधवः - मातरि स्वसुताभगिन्योश्च क्रियानिवृ(र्वृ)त्तौ मरणान्तम् । तच्च मातरि सकृत्त्वेऽन्ययोरसकृत्त्वे । संकल्पाध्यवसाययोश्चान्द्रत्रयम् । शेषे पञ्चविधापराधविषये प्राजापत्यद्वयमित्यष्टविधमैथुनप्रकारभेदेन व्यवस्थामुक्तवान् । इति महापातकानुपातकातिपातकप्रायश्चित्तानि ॥







  अथ संसर्गाख्यमहापापादिप्रायश्चित्तम् - संसर्गश्चैकभाण्डवचनतदीयान्नभोजनैकपात्रसहभोजनेष्टिसोमादिश्रौतयागयाजनाध्ययनाध्यापनविवाहैः संभाषणगात्रसंमर्दतन्मुखवायुसंसर्गेकयानारोहणैकासनस्थित्येकखट्टादिशयनैकपङ्क्तिभोजनैश्च । तत्र विवाहो नाम तस्मै कन्यादानं तस्माच्च कन्याग्रहणम् । अत्र विवाहान्तैरेकैकैरप्यनुष्ठितैः सद्यः पातित्यमिति शङ्खः । एतैः प्रत्येकैरपि संवत्सराभ्यस्तैरेव पातित्यमिति मनुः । तत्र विवाहस्य संवत्सराभ्यासस्तत्संबन्धिनिमित्तकभोजनाद्यभ्यासरूपः । संभाषणादिसप्तभिस्तु समुदितैः संवत्सरपर्यन्तं निरन्तराभ्यस्तैरेव पातित्यम् । प्रत्येकं तेषां तथाऽभ्यासेऽपि न पातित्यम् । तथा च चतुर्विधमहापातकिष्वन्यतमेनोक्तद्विविधसंसर्गस्य पातित्यहेतोर्ज्ञानतः करणे द्वादशाब्दम् । अकामतोऽर्धमज्ञानतश्च । एवं च पतितेन समं यस्य वर्षे निरन्तरमज्ञानतः संसर्गः स पातकी व्रतार्धेकुर्यात् । ज्ञानतस्तु तदीयं संपूर्णमेव । मरणस्थानेऽस्य द्वादशाब्दमेव । प्राञ्चस्त्वज्ञानतः संसर्गे पादन्यूनं तत् । ज्ञानतः संपूर्णम् । मरणस्थाने चतुर्विंशतिवार्षिकमित्याहुः । संभाषणादित्रयरहिते यानादिचतुष्टये संवत्सराराभ्यस्तेऽपि पञ्चमभागोनं प्रागुक्तम् । तत्सहिते तु पूर्णद्वादशाब्दादि । अथान्तरितादिगणनादिना पञ्श्चरात्रमज्ञानतः संसर्ग उपवाससहितपादकृच्छ्रम् \। दशाहे कायम् । द्वादशाह संसर्गे सांतपनम् \।

पक्षे दशोपवासाः । मासं चेत्पराकः । मासत्रयं चेच्चान्द्रम् । षाण्मासिके चान्द्रद्वयम् । किंचिन्न्यूनेऽब्दे षण्मासकृच्छ्रम् । कामतः संसर्गे तु पञ्चाहे(ह)कृच्छ्रम् । दशाहे तप्तकृच्छ्रम् । पक्षे पराकः । मासे चान्द्रम् । मासत्र ये कृच्छ्रं चान्द्रं च । षाण्मासिकेऽर्घाब्दकृच्छ्रम् । किंचिन्न्यूनेऽब्देऽब्दं चाद्रायणम् । कामतोऽत्यन्तापदि षण्मासम् । पञ्चमहायज्ञादिस्मार्तयाजनेऽङ्गाध्यापने दुहितृभगिनीव्यतिरिक्ते च योनिसंबन्धे षडब्दम् । अकामसोऽर्धम् ।

 एवमतिपातकिसंसर्गिणां कामतो नववार्षिकम् । अकामतोऽर्धम् । अनुपातकिसंसर्गिणां षड्वार्षिकम् । अकामतोऽर्धम् । तथोपपातकयादिसंसर्गिणां मुख्यपातकितुल्यं त्रैवार्षिकं त्रैमासिकादिकम् । अकामतोऽर्धमित्याद्यूहनीयम् । मयूखे त्वितरपापिसंसर्गे तत्तद्व्रतं पादोनं कार्यमित्युक्तम् ।

सर्वत्र संसर्गे बालस्त्रीवृद्धातुराणामर्धम् । अकामतः पादः । अनुपनीतबालस्य कामतोऽऽपि पाद एव । अकामतोऽर्धपादः ।

  माधवस्तु संसर्गिदोषः कलौ पातित्यापादको न किंतु पापमात्रापादकः। संसर्गदोषः पापेष्विति कलिवर्ज्येषु गणनादित्याह ।  

वस्तुतस्तु-

न्यसेद्देशं कृतयुगे त्रेतायां ग्राममुत्सृजेत् ।

द्वापरे कुलमेकं तु कर्तारं तु कलौ युगे ॥

इति पराशरस्मरणात्कृतयुगादौ दोषजनकत्वेनोक्तदेशादिसंसर्गस्यैव कलिवर्ज्येषु गणनं युक्तम् । अयं चापरः कलौ विशेषः - यत्कृते संभाषणमात्रादेव पातित्यं त्रेतायां स्पर्शमात्राद्द्वापरे तत्स्वामिकान्नमात्रग्रहणात्तत्कलौ स्नेहेन समुदितेनैव संभाषणादिकर्मणा । न त्वेकेनोति दिक् ।

  संसर्गिसंसर्गिणां पादपादहानिः । तथा च मुख्यमहापापिनां संसर्गवतो द्वादशाब्दम् । तत्संसर्गिणो मुख्यात्तृतीयस्य नवाब्दम् । तृतीयेन संसर्गवतो मुख्याच्चतुर्थस्य षडब्दम् । पञ्चमस्य त्रैवार्षिकम् । मुख्यसंसर्गिणो द्वितीयस्यैव पातित्याच्छ्रौतस्मार्तकर्महानिः । तृतीयादेः प्रायश्चित्तमात्रं न तु वैदिककर्महानिरिति मिताक्षरा । प्राञ्चस्तु पादहानिक्रमेण तृतीयेन संसर्गिव्रतार्धमात्रं कार्यम् । चतुर्थस्य तु मुख्यात्पञ्चमस्य न किंचिदित्याहुः । इति संसर्गिप्रायश्चित्तम् ॥

  पतितोत्पन्नानां तु यस्य पतितस्य यदुक्तं तत्तृतीयांशः पुंसम् । कन्यानां तु नवमांशः । पतितोत्पन्नां कन्यां तदीयधनरहितां विवस्त्रां कृतपूर्वोक्तपतितनवमांशप्रायश्चित्तामहोरात्रोपोषितां स्वकीयशुक्लवाससाऽऽच्छादितां नादमेतेषां नैते ममेति त्रिरुचैर्वदन्तीं देवालयादौ स्वगृहे वा विवाहयेत्।

  अथ पतिता महापातकिनोऽनुपातकिनस्तत्संसर्गिणश्च तथा नास्तिकः प्रमादान्नास्तिक्याद्वा चिरं श्रौतस्मार्तकर्मत्यागी पतितपुत्राद्यत्यागी महापापेष्वनुपातकेषु तत्कर्तॄणां प्रयोजकः । गोघ्नादयो मांसभक्षकादयश्च ।

एते चाकृतप्रायश्चित्ता न संव्यवहार्याः । मातुस्तु तादृश्या अपि न तथा किंतु सेवापोषणं कार्येपृथक् । पितुरपि महापातकिन एवं त्यागः । प्रकारान्तरेण पतितस्य न त्यागः । किंच पितुर्दोषं स्वयं ज्ञात्वाऽपि प्रथमतः परेभ्यो न कथयेत् । तत्काले स्वयं तेन संव्यवहरेत् । यत्यादेः स्त्रीसंगेषु पुनर्गार्हस्थ्यकरणे प्रायश्चित्ताभाव एव ।

आरूढं नैछि(ष्ठि)कं धर्मे यस्तु प्रस्रवते पुनः ।

प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा \।\।

इति वचनात् । उपपातकत्वात्प्रायश्चित्तं भवत्येवेत्यन्ये । सर्वथा त्वव्यवहार्यता \। बहिस्तूभयथा स्मृतेराचाराश्चेति व्याससूत्रात् ।

नैष्ठिकानां वनस्थनां यतीनां चावकीर्णिनाम् ।

शुद्धानामपि लोकेऽस्मिन्प्रत्यापत्तिर्न विद्यते \।\।

इति वचनाच्च । एवं स्त्रीबालशरणागतहन्तारः कृतघ्नाश्च कृतप्रायश्चित्ता अपि न संव्यवहार्याः । अतो व्यभिचारिण्या वधे प्रायश्चित्ताल्पत्वेऽपि वचनाद्व्यवहार्यत्वाभाव इति मिताक्षरा । स्त्रीणां महापापातिपापानुपापान्यभ्यस्तोपपातकानि च पातित्यनिमित्तानि । विशेषतो हीनवर्णगमनं स्वगर्भपातनं भर्तृहिंसनं च शिष्यगुरुजुंगितोपगमनानि चेत्येतानि \। महापापेषु कृतप्रायश्चित्तेष्वागतेषु सपिण्डास्तेन सह पुण्यजले स्नात्वाऽपां पूर्णकुम्भं पुण्यदेशे काले पुण्यदिङ्मुखा नयेयुः । ततः स गोभ्यो यवसं दत्त्वा गोभिर्भक्षिते तृणे शुद्धः संव्यवहार्यश्च । स्त्रीणामपि पतितानामेव(वं) परिग्रहः । इदं घटस्फोटोत्तरं कृतप्रायश्चित्तस्य परिग्रहविषयमित्यन्ये \। वाचस्पतिमिश्रास्तु मत्या महापातकिनोऽतिपातनिश्च प्रायश्चित्ते कृतेऽपि न व्यवहार्याः । प्रायश्चित्तं तु तेषां परलोकशुद्धयर्थमेवेत्याहुः । यस्तु नरो नारी बौद्धत्यात्पातित्येऽपि प्रायश्चित्तं नेच्छति तं सर्वे सपिण्डा बान्धवाश्चराजादिसमक्षमाहूय तत्पापं व्यक्तं कृत्वा मुहुरुपदिशेयुः प्रायश्चित्तं कुर्वाचारं लभस्वेति । स यदि एवमपि नाङ्गी करोति तदा रिक्तादिनिन्द्यतिथौ सायाह्ने ग्रामाद्बहिः संभूय कुत्सितजलादिसंपूर्णे[कुम्भं] प्राचीनावीतिनो दक्षिणामुखा गुरुसंनिधावस्माकं त्वं मृत इति वाऽमुमनुदकं करोमीति वा वदन्तो दर्भेषु च्छिन्नाग्रेषु न्युब्जं

कुर्युः । ततः सर्वे निरीक्ष्यमाणा अप उपस्पृश्य ग्रामं प्रविशेयुः । सपिण्डानामेकाहमाशौचम् । ततोऽधिकारी कर्ता दाहवर्जे जीवन्तमेवोद्दिश्य पिण्डोदकदानादिप्रेतकर्माणि सपिण्ड्याः प्राक्तनानि कुर्यात् । उदकपिण्डादिप्रेतक्रियोत्तरं पात्रनिनयनमिति मिताक्षरायां स्पष्टम् । ततः सर्वकर्मबहिष्कृतेन तेन संभाषणादिकं वर्जयेत् । प्रमादात्संभाषणे सावित्रीं जपन्नेकरात्रं तिष्ठेत् । मत्या त्रिरात्रम् \। अब्दपर्यन्ताभ्यासे पातित्यम् । स्त्रीणामपि तादृशीनां गृहसमीपे पर्णकुट्यादौ वासं दत्त्वा जुगुप्सितमन्नं प्राणधारणमात्रसमर्थेजीर्णमलिनवस्त्रं च दद्यात् । घटस्फोटोत्तरं शिष्यगागुरुगापतिघ्नीनां च सर्वथैव त्यागः \। घटस्फोटप्रयोजनमन्यत्र द्रष्टव्यम् । एकस्मिन्निमित्ते गुरुलघुभूतानेकविरुद्धप्रायश्चित्तादिप्राप्तौ देशकालत्रयआदिकमवेक्ष्य परिषदा व्यवस्था कल्प्या । यथाजलवासो हिमदेशे शिशिरकाले च नोपदेष्टव्यः । उपवासादिकं बालवृद्धयोर्न \। एवं शक्तिरवेक्ष्या । अन्यथा युवा पित्तप्रकृतिर्निरन्तरोपवासाननुतिष्ठन्व्यापद्येतेत्यादिकमूह्यम् । अनुक्तप्रायश्चित्तेषु जपतपोहोमोपवा सदानानि देशकालशक्तिपापलाघवगुरुत्वादिकमपे(वे)क्ष्य कल्प्यानि । तत्र जपो गायत्र्यादेः । . होमस्तिलानां व्याहृतिभिर्गायत्र्या वा । तपः - पयोभक्षता शाकाहारता फलाशनं प्रसृतियावकता हिरण्योदकप्राशनं ब्रह्मचर्ये तीर्थोदकस्तानमार्द्रवस्त्रताऽनशनमिति तपांसि । दानं हिरण्यगोवस्त्राश्वतिलभूमिघृतानाम् । संवत्सरः षण्मासाश्चत्वारस्त्रयो द्वावेकश्चतुर्विंशतिरहानि द्वादशाहः षडहरूपहोऽहोरात्र इति कालः। पापस्य गुरुलघुत्वे त्वर्थवादेन दण्डेन वा ज्ञानकृतत्वादिभिर्वाबोध्ये । एवं पापिनां प्रायश्चित्ताकरणे तामिस्रलोहशृङ्खलरौरवमहारौरवसंघातकालसूत्रकप्रतापनासिपत्रवनान्धतामिस्त्रप्रभृतिनरकेषु नानाविधेषु प्रथमं वासोऽनन्तरं पुनरस्मिन्संसारे श्वसूकरादिकुयोनिजन्मानि । ततः कदाचिन्मानुषयोनौ जातस्यापि कुरोगित्वम् । रोगाश्चाऽऽरम्भे एव दर्शिताः । एवं च नरकोपभोगक्षीणदोषाणामपि तद्भोगानुमितावशेषाणां प्रायश्चित्तं कार्यम् । अकृतप्रायश्चित्तानां कुष्ठादिरोगिणां दाहकस्य यतिचान्द्रायणम् । गङ्गास्त्रानविष्णुस्मरणतन्नामजपादिकं सर्वपापप्रायश्चित्तमिति सर्वेष्टसिद्धिः ।

श्रीनागोजीभट्टकृतं प्रायश्चित्तेन्दुशेखरम् \।

काशीनाथ उपाध्यायो व्यशोधयदपूरयत् ॥

इति श्रीशिवभट्टसुतसतीगर्भजनागोजी भट्टकृतः श्रीमदनन्तोपाध्यायसूनुकाशीनाथोपाध्यायकृतशोधनोपबृंहणपूरणशाली प्रायश्चित्तेन्दुशेखरनामग्रन्थः समाप्तिमगमत् ॥

  अथ सर्वप्रायश्चित्तप्रयोगः - तत्र षडब्दत्र्यब्दसार्धाब्दादिव्यवस्था प्राजापत्यप्रत्याम्नायाश्च परिभाषोक्ता एव । तत्र त्रिंशत्कृच्छ्रमब्दम् \। पञ्चचत्वारिंशत्कृच्छ्रं सार्धाब्दम् । नवतिकृच्छ्रं त्र्यब्दम् । कृच्छ्रं प्राजापत्यमिति पर्यायौ । कृच्छ्रे गवादयस्तन्निष्क्रयरजतनिष्कतदर्धतत्पादादयः प्रत्याम्नायाः । तत्र सामग्र्युपकल्पनम् —फलताम्बूलगन्धपुष्पधूपदीपाः पञ्चगव्यानि मृद्भस्मगोमयदूर्वातिलाः समिद्दर्भा होमार्थेघृतं पर्षदक्षिणा निबन्धानुवादकपूजार्थे दक्षिणा पूर्वोत्तराङ्गगोप्रदानविष्णुश्राद्धद्रव्यमिति ।

  अथ प्रयोगः - त्र्यवरानेकं वा विप्रं पर्षत्त्वेनोपवेश्य कृतस्नानः शक्तःश्चेदार्द्रवासाः कर्ता विप्रान्प्रदक्षिणीकृत्य साष्टाङ्गं प्रणमेत् । विप्रैः किं ते कार्ये मिथ्या मा वादीः सत्यमेव वदेति पृष्टो गोवृषयोर्निष्क्रयीभूतं निष्कतदर्धतत्पादान्यतमप्रमाणं रजतद्रव्यं सभ्येभ्यः संपददे न ममेति संकल्पपूर्वकं सभ्याग्रे निधायामुकनाम्नो मम जन्मप्रभृति अद्ययावज्ज्ञानाज्ञानकामाकामसकृदसकृत्कृतकायिकवाचिकमानसिकसांसर्गिकस्पृष्टास्पृष्टभुक्ताभुक्तपीतापीतसकलपातकातिपातकोपपातकलघुपातकसंकरीकरणमलिनीकरणापात्रीकरणजातिभ्रंशकरणप्रकीर्णकपातकानां मध्येसंभावितपापानां निरासार्थेप्रायश्चित्तमुपदिशन्तु भवन्त इति वदेत् । पुत्रादिः प्रतिनिधिश्चेन्मम पितुर्जन्मप्रभृतीत्यादि वदेत् । श्रौतस्मार्ता - धानाङ्गे तु प्रायश्चित्ते निरासार्थमित्यन्तेऽग्निपरिचरणेऽधिकारार्थेचाग्निविच्छेदप्रायश्चित्तं चोपदिशन्तु भवन्त इति वदेत् । तत्तदेकपापे तु किं ते कार्यमिति प्रश्ने मयाऽमुकवधः कृतोऽमुकभक्षणं वाऽमुकागम्यागमनं कृतमित्यादि प्राकृतमेव पापमुच्चार्य तत्मायश्चित्तमुपदिशन्तु भवन्त इति वदेत् । जन्मप्रभृति अद्ययावदित्यादिकं न वदेत्। ततः सर्वे

सर्वे धर्मविवेत्त्कारो गोप्तारः सकला द्विजाः ।

मम देहस्य संशुद्धिं कुर्वन्तु द्विजसत्तमाः ॥

मया कृतं महाघोरं ज्ञातमज्ञातकिल्बिषम् ।

प्रसादः क्रियतां मह्यं शुभानुज्ञां प्रयच्छथ ॥

पूज्यैः कृतपवित्रोऽहं भवेयं द्विजसत्तमैः ॥

इति प्रार्थयित्वा । मामनुगृह्णन्तु भवन्त इति नमेत् । ततः सभ्यैः शक्त्यादि विचार्य प्रायश्चित्ते निश्चिते कर्ता चन्दनपुष्पादिभिः पुस्तकपूजामनुवादकपूजां च कृत्वा निबन्धपूजात्वेन किंचिद्द्रव्यं निधायानुवादकाय भृतिरूपां दक्षिणां पापानुसारेण दद्यात् । ततः सभ्याः पुस्तकवाचनपूर्वकमनुवादकस्याग्रे कथयेयुः । अनुवादकश्च कर्तारं वदेत् । तद्यथासभ्यैरुपदिष्टोऽनुवादकोऽमुकस्य ते जन्मप्रभृत्यद्ययावज्ज्ञाताज्ञातकामाकामसकृदसकृत्कृतकायिकवाचिकमानसिकसांसर्गिकस्पृष्टास्पृष्टभुक्ताभुक्तपीतापतिसकलपातकातिपातकोपपातकलघुपातकसंकरीकरणमलिनीकरणापात्रीकरणजातिभ्रंशकरप्रकीर्णकपातकानां मध्ये संभावितपापानां निरासार्थेपर्षदुपदिष्टं सार्धाब्दप्रायश्चित्तममुकप्रत्याम्नायद्वारा प्राच्योदीच्याङ्गसहितं त्वयाऽऽचरितव्यम् । तेन तव शुद्धिर्भविष्यति । त्वं कृतार्थो भविष्यसीति त्रिरुपदिशेत् । आधानाङ्गे तु सार्धाब्दप्रायश्चित्तमग्निविच्छेदप्रत्यवायनिरासार्थे विच्छेदादिनादारभ्य प्रतिवर्षमेकेककृच्छ्रंचेत्यादि पूर्ववत् । कर्ता, ओमित्यङ्गीकृत्य प्रणम्य पर्षदं विसृजेत् । ततो रिक्तायां सायाह्ने देशकालौ संकीर्त्यामुकशर्मणो मम जन्मप्रभृत्यद्ययावज्ज्ञाताज्ञातमध्ये संभावितानां पापानां निरासार्थेपर्षदुपदिष्टसार्धाब्दप्रायश्चित्तं प्राच्योदीच्याङ्गसहितममुकमत्याम्नायेनाहमाचरिष्ये । आधाने त्वाधानाग्निपरिचरणादिपुण्यकर्मण्यधिकारसिद्ध्यर्थेच सार्धाब्दप्रायश्चित्तमग्निविच्छेददिनादारभ्य प्रतिवर्षमेकैककृच्छ्रप्रायश्चित्तं च तन्त्रेण प्राच्योदीच्याङ्गसहितममुकप्रत्याम्नायेनाहमाचरिष्य इति संकल्पः । ततो

यानि कानि च पापानि ब्रह्महत्यासमानि च ।

केशानाश्रित्य तिष्ठन्ति तस्मात्केशान्वपाम्यहम् ॥

इति मन्त्रेण क्षौरं कार्यम् । क्षौराभावे सार्धाब्दादिवतं द्विगुणं पर्ष

दक्षिणाऽपि द्विगुणा । यत्र तु सभर्तृकस्त्रिया जीवत्पितृकादेश्चक्षौरं निषिद्धं तत्र तद्द्विगुणव्रतं क्षौरं च शिखाकक्षोपस्थवर्जे नखकेशरोम्णामुदक्संस्थं वपनमिति सर्वत्र । रोमवर्जनमप्यन्यत्र । यत्र गोवधादौ विशेषवचनं तत्र प्रायश्चित्ते शिखासहितमपि वपनम् । प्रमादाच्छिखावपने कुशमयशिखां ब्रह्मग्रन्थियुतां दक्षिणकर्णे निदध्यादिति काठके ।

शिखां छिन्दन्ति ये मोहादद्वेषादज्ञानतोऽपि वा ।

पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ॥

इति संग्रहे गृह्याग्निसारे । यज्ञोपवीतसहितशिखात्यागेऽपि पुनरुपनयनमेव । क्रोधादिना केवलयज्ञोपवीतत्यागे तु प्रायश्चित्तं करिष्य इति संकल्प्याऽऽचार्ये वृत्वा सवितारं गायत्र्या तिलैराज्येनाष्टसहस्रं शतं वा जुहुयादिति प्रासङ्गिकम् । क्षौराद्यङ्गजातं च कृच्छ्राधिके भवति न कुच्छ्रे न्यून इति मयूखादौ । प्राजापत्यत्रयमित्याधिके वा प्रायश्चित्ते भवति न तु ततो न्यून इति गृह्याग्निसागरमतम् \। क्षौरान्ते गण्डूषान्कृत्वायथोक्तदन्तकाष्ठेन

आयुर्बलं यशो बर्चः प्रजाः पशुवसूनि च ।

ब्रह्मप्रज्ञां च मेघां च त्वं नो देहि वनस्पते \।\।

इति मन्त्रेण दन्तशुद्धिं कृत्वा काष्ठान्तरेण जिह्वामुल्लिख्य स्नात्वा भस्मादिदशस्नानानि कुर्यात् । तत्र प्रायश्चित्ताङ्गं भस्मस्नानं करिष्य इति संकल्प्य भस्म गृहीत्वेशानाय नम इति शिरसि लिम्पेत् । तत्पुरुषाय नमः इति मुखे । अघोराय नमः इति हृदये । वामदेवाय नमः इतिगुह्ये \। सद्योजाताय नमः इति पादयोः । प्रणवेन सर्वाङ्गेषु ईशानादिपा(प)दोपेतैर्मन्त्रैर्वा भस्मस्नानम् । ततः स्नात्वाऽऽचामेत् । अथ गोमयस्त्रानं करिष्य इति संकल्प्य गोमयमादाय प्रणवेन दिक्षु दक्षिणभागं तीर्थे चोत्तरभागं प्रक्षिप्य शेषं मानस्तोक इत्यभिमन्त्र्य गन्धद्वारामिति मन्त्रेणाग्रमग्रं चरन्तीनामिति सर्वाङ्गमालिप्य

हिरण्यशृङ्गं वरुणं प्रपद्ये तीर्थं मे देहि याचितः ।

यन्मया भुक्तमसाधूनां पापेभ्यश्च प्रतिग्रहः ॥

यन्मे मनसा वाचा कर्मणा वा दुष्कृतं कृतम् ।

तन्नइन्द्रो वरुणो बृहस्पतिः सविता च पुनन्तु पुनः पुनः ॥

इति द्वाभ्याम्, अव ते हेल इति द्वाभ्यां प्रसम्राज इति सूक्तेन च तीर्थेप्रार्थ्य। याः प्रवतो निवत उद्वत इति तीर्थमभिमृश्य स्नात्वा द्विराचामेत् \। हिरण्यशृङ्गमित्यादितीर्थप्रार्थनादिकं सर्वेदशविधस्नानान्त एव कार्यमिति मयूखे । ततो मृत्तिकास्त्रानं संकल्प्य

अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुंधरे ।

शिरसा धारयिष्यामि रक्षस्व मां पदे पदे \।\।

इति मृत्तिकामभिमन्त्र्य

उद्धृताऽसि वराहेण कृष्णेन शतबाहुना ।

मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम् ॥

इति मृदमादाय । नमो मित्रस्य वरुणस्येति सूर्याय प्रदर्श्य । गन्धद्वारामिति मन्त्रेण स्योना पृथिवीति वा, इदं विष्णुरिति वा शिरःप्रभृत्यङ्गानि विलिप्य स्नात्वा द्विराचामेत् । अथवा विस्तरेण मृत्तिकास्त्रानम् । तद्यथा - बलित्था पर्वतानामिति भूमिं प्रार्थ्य । मा वो रिषत्खनितेति खनित्वा । स्योना पृथिवीति मृदमादाय । आयने ते इति दूर्वामादाय \। गायत्र्याऽभ्युक्ष्य भूमौ मृदं निधाय । मृत्तिकास्त्रानं करिष्य इति संकल्प्य । मृदं कुशोदकेन प्रोक्ष्य दिक्षु क्षिपेत् । तत्र मन्त्राःत्रातारमिन्द्रमिति पूर्वस्याम् । यमाय मधुमत्तमराज्ञे इति दक्षिणे । तत्त्वा यामीति पश्चिमे । वयं सोम इत्युत्तरे । तत्सूर्ये रोदसी इत्युपरि । अधः पश्यस्वेत्यधः । ततोऽङ्गेषु लेपः - सहस्रशीर्षेति शिरसि । अक्षीभ्यां ते नासिकामिति मुखे । ग्रीवाभ्यस्त इति ग्रीवायाम् । आन्त्रेभ्य इति हृदये । नाभा नाभिं न इति नाभौ । त्वमिन्द्र सजोषसेति बाह्वोः । सोमानं स्वरणमिति कक्ष्योः । यः कुक्षिरिति कुक्ष्योः । वह्नीनां पितेति पृष्ठे \। मेहनाद्वनं करणादिति जान्वोः । एतावानस्येति पादयोः । यस्य विश्वानि हस्तयोरिति हस्तयोः । अङ्गादङ्गादिति पुरुषसूक्तेन च सर्वाङ्गे । अथ शुद्धोदकस्तानम् । आपो अस्मानित्युक्त्वा सूर्याभिमुख इदं विष्णुरिति मन्त्रेण प्रनाहाभिमुखो मज्जेत् । आपो हि ष्ठेत्यृचेत्यन्ये । अथ पञ्चगव्यैः कुशोदकेन चेति षट् स्नानानि । तत्राऽऽदौ गोमूत्रस्नानं करिष्ये । तत्सवितुरिति गोमूत्रस्नानम् । स्नात्वाऽऽचम्य । एवमग्रेऽपि । गन्धद्वारामिति गोमयस्नानम् । आप्यायस्वेति क्षीरस्नानम् । दधिक्राव्ण

इति दधिस्नानम् । घृतं मिमिक्ष इति तेजोऽसीति वा घृतस्नानम् \। देवस्य त्वा सवितुः प्रस० इन्द्रियेणाभिषिञ्चामीति कुशोदकस्नानम् । यद्वै तानि दशापि स्नानान्यमन्त्रकाण्येव कार्याणि । इमं मे गङ्गे० सुमित्र्या न० समुद्रज्येष्ठा इति चतसृभिः, एतोन्विन्द्रं स्तवेति तिसृभिः, तरत्समन्दीति सूक्तेन, पावमानीभिरापो हि ष्ठेति तृचेन मार्जनं च कृत्वा । इमं मे गङ्गे इत्युदकमालोड्य ऋतं चेति तृचेन त्रिरावृत्तेनाघमर्षणं कृत्वा त्रिर्द्वादशवारं वा मज्जनानि कृत्वा स्नानाङ्गतर्पणं कुर्यात् । अत्र प्राचीनप्रयोगेषु मृतिकास्त्रांनोत्तरं मार्जनाघमर्षणोक्तिर्द्रृश्यते तत्र मूलं मृग्यम् । दशविधस्नानप्रयोगे प्रक्रान्ते स्नानत्रयान्तेऽघमर्षणं ततः सप्त स्नानानीति क्रमस्य नियुक्तिकत्वात् । सर्वदशविधस्त्रानान्त एवाघमर्षणतर्पणादेर्मयूखादायुक्तत्वाच्च ।

  तर्पणं यथा— ब्रह्मादयो ये देवाः, तान्देवांस्तर्पयामि । भूर्देवांस्तर्पयामि । भुवर्देवांस्त० । स्वर्देवांस्त० । भूर्भुवः स्वर्देवास्तं ० निवीती — कृष्णद्वैपायनादयो ये ऋषयः, तानृषींस्त० । भूर्ऋषींस्त० । भुवर्ऋषींस्त० । स्वर्ऋषींस्त० । भूर्भुवः स्वर्ऋषींस्त० । प्राचीनावीती- सोमः पितृमान्यमोङ्गिरस्वानग्निष्वात्तादयो ये पितरः, तान्पितॄंस्त० । भूः पितृंस्त \। भुवः पितृंस्त० \। स्वः पितॄंस्त । भूर्भुवः स्वः पितृंस्तर्पयामि । ततो यक्ष्मतर्पणादिवासःपरिधानान्ते तिलकं धृत्वाऽऽचम्य देशकालादि संकीर्त्य विष्णुप्रीत्यर्थेप्रायश्चित्ताङ्गविष्णुश्राद्धसंपत्तये श्रीविष्णूदेशेन त्र्यधिकयुग्मब्राह्मणभोजनपर्याप्तामनिष्क्रयीभूतं द्रव्यं दातुमहमुत्सृज्ये । तच्चतुर्भ्यो ब्राह्मणेभ्यः पूजनपूर्वकं दद्यात् । तेन पापापहमहाविष्णुः प्रीयताम् । ततः प्रायश्चित्तपूर्वाङ्गगोदानं करिष्य इति संकल्प्य गवामङ्गेष्विति गोदानं प्रत्यक्षं द्रव्यद्वारा वा कुर्यात् । देशकालौ संकीर्त्य प्रायश्चित्तपूर्वाङ्गहोमं करिष्ये । तदङ्गतया स्थण्डिलोल्लेखनाद्यग्निप्रतिष्ठापनादि करिष्ये । विटनामानमग्निं प्रतिष्ठापयामीत्यन्ते ध्यात्वा प्रायश्चित्तपूर्वाङ्गहोमे देवतापरिग्रहार्थमन्वाधानं करिष्ये । चक्षुषी आज्येनेत्यन्ते, अग्निं वायुं सूर्यं प्रजापतिं च प्रतिदैवतं सप्तविंशतिसंख्याज्याहुतिभिः, पृथिवीं विष्णुं रुद्रं ब्रह्माणमग्निंसोमं सवितारं प्रजापतिं प्रजापतिमग्निं स्विष्टकृतं पञ्चगव्येन शेषेण स्वि..कृतमग्निमिध्मसंनहनेन रुद्रमित्यादि । यद्वाऽऽज्येनेत्यन्ते पापापहमहाविष्णुं व्याहृतिभिरष्टोत्तरशतसंख्याज्याहुतिभिः \।

शेषं समानम् । आज्यसंस्कारकाले पञ्चगव्यं कृत्वाऽऽज्येन सह पर्यग्नि कुर्यात् ।

  ताम्रादिपात्रे पलाशादिपत्रपुटे वा ताम्राया गोमूत्रं त्रिपलमष्टमाषंवा गायत्र्याऽऽदाय, श्वेतगोशकृत्षोडशमाषं गन्धद्वारामित्यादाय, पीतगोक्षीरं कापिलं वा सप्तपलं द्वादशमाषं वाऽऽप्यायस्वेत्यादाय, नीलायाः सप्तपलं दशमाषं वा दधि दधिक्राव्ण इत्यादाय, कृष्णाया घृतमेकपलमष्टमाषं वा तेजोऽसि शुक्रमसीति वा घृतं मिमिक्ष इति वाऽऽदाय । यथोक्तगोरभावे गोमात्रस्य मूत्रादि ग्राह्यम् । देवस्य त्वेति कुशोदकमेकपलं चतुर्माषं वा प्रक्षिप्य प्रणवेन यज्ञियकाष्ठेनाऽऽलोड्य प्रणवेनाभिमन्त्रयेत् । आज्यपञ्चगव्यासादनाद्याज्यभागान्ते भूः स्वाहा अग्नय इदम् । भुवः स्वाहा वायव इदम् । स्वः स्वाहा सूर्यायेदम् । भूर्भुवः स्वः स्वाहा प्रजापतय इदम् । इत्याज्यस्य प्रतिदैवतं सप्तविंशतिरित्येवमष्टोत्तरशताहुतीर्हुत्वा \। विष्णुपक्षे भूः स्वाहा विष्णव इदम् । भुवःस्वाहा विष्णव इदम् । स्वः स्वाहा विष्णवइदम् । भूर्भुवः स्वः स्वाहा विष्णव इदम् । इत्यष्टोतरशताहुतीर्हुत्वा पञ्चगव्यहोमः। तत्र साग्रैः सप्तपत्रकुशैः पञ्चगव्यं गृहीत्वा । इरावती धेनुमती० स्वाहा पृथिव्या इदम् । इदं विष्णु० विष्णव इदम् । मा नः स्तो० रुद्रायेदम् । ब्रह्मजज्ञा० ब्रह्मण इदम् । ब्रह्मस्थाने शं नो देवीति मन्त्रेण । अद्भ्य इति केचित् । अग्नये स्वाहा, अग्नय इदम् । सोमाय स्वाहा सोमायेदम् । तत्सवितुर्वरेण्यं० सूर्यायेदम् । प्रजापते न० व्याहृतिभिर्वा ॐ स्वाहा प्रजापतय इदम् । अग्नये स्विष्टकृते स्वाहा अग्नये स्विष्टकृत इदम् । इति दश पञ्चगव्याहुतीर्हुत्वा । केवलाज्यस्य यदस्येति स्विष्टकृतं हुत्वा प्रायश्चित्तहोमशेषं समाप्य । व्रतग्रहणं करिष्यइति द्विजान् पृष्ट्वा कुरुष्वेत्यनुज्ञातः । यत्त्वगस्थिगतं० ॐ इति प्रणवेन गृहीत्वा प्रणवेनैव सर्वेपञ्चगव्यं पिबेत् । अशक्तौ गोमूत्रादि स्वल्पं ग्राह्यम् । सर्वस्य पेयत्वात् । एतच्च ग्रामाद्बहिर्नद्यादेस्तीरे नक्षत्रदर्शने कार्यम् ।

व्रतं निशामुखे ग्राह्यं बहिस्तारकदर्शने ।

इति स्मृतेः । मुमूर्षोस्तु गृहादावेव । अस्मिन्दिन उपवासः । अशक्तौ हविष्याशनम् । अयं च पञ्चगव्यस्य दशाहुतिहोमो ब्रह्मकूर्चाख्यपञ्चगव्यपाने सर्वत्रोः । गृहमागत्य प्रातरारभ्य संकल्पितप्रायश्चित्तं

संकल्पितप्रत्याम्नायानुसारेणानुष्ठायोत्तराङ्गाणि कुर्यात् । गोनिष्क्रयरजतादिदानपक्षे पञ्चगव्यप्राशनान्त इदं सार्धाब्देपञ्चचत्वारिंशत्कृच्छ्रप्रत्याम्नायगोनिष्क्रयीभूतं प्रतिकृच्छ्रं निष्कतदर्धतदर्धान्यतमप्रमाणं रजतद्रव्यं नानानामगोत्रेभ्यो ब्राह्मणेभ्यो दातुमहमुत्सृज्य इति द्रव्यदानसंकल्पं कृत्वा तदैव द्रव्यं विभज्य दत्त्वा चोत्तराङ्गाणि कुर्यात् । आचरितस्यामुकप्रायश्चित्तस्य साङ्गतार्थमुत्तराङ्गाणि करिष्ये । तत्र होमं कर्तुं स्थण्डिलादि करिष्य इति संकल्प्य पूर्ववदाज्यहोममात्रं व्याहुतिभिः कृत्वा पूर्ववदेव विष्णुश्राद्धं गोदानं च कुर्यात् । नात्र पञ्चगव्यहोमः । अन्ते शक्तेन गोभूहेमादिदशदानानि कार्याणि । अशक्तौ हिरण्यदानम् । गृह्याग्निसागरे तस्मिन्नेवदिन उत्तराङ्गहोमश्च तस्मिन्नेवाग्नौकार्य इत्येतावन्मात्रमुक्तं तत्र तन्त्रप्रयोगः पृथक्प्रयोगो वेति विचारणीयम् । मम तु पृथगग्निकरणादि युक्तं भाति । कौस्तुभे पूर्वोत्तराङ्गहोमयोरिध्माधानादिस्थालीपाकतन्त्रं कृताकृतमित्युक्तम् । तत्पक्ष आधानान्तेऽन्वाधानपरिसमूहनपरिस्तरणपर्युक्षणाञ्यपञ्चगव्यसंस्कारसुवसंमार्गार्चनान्तहोमः \। होमान्ते स्विष्टकृत्सप्तप्रायश्चित्ताहुतयश्च कृता-कृताः । [ततः ] परिस्तरणविमोकादि । इति सार्धाब्दादिसर्वप्रायश्चित्तप्रयोगः ॥

  अथ विप्रस्त्रियाः प्रायश्चित्तप्रयोगः - स्त्रीणां होमःकृताकृतः । करणपक्षे विधवायाः क्षौरान्ते पूर्ववत्कृत्वाऽमन्त्रकाणि दश स्नानानि । सधवायास्तु संकल्पान्ते दन्तधावनं कृत्वा तूष्णीं दश स्नानानि । वस्त्रपरिधानान्ते विष्णुश्राद्धगोदाने कृत्वा प्रायश्चित्ताङ्गहोमार्थमाचार्ये त्वां तृण इति विप्रंकृत्वा पूर्ववद्विप्रद्वारा सर्वे पूर्वाङ्ग कारयित्वा स्वयं पञ्चगव्यं तूष्णीं प्राश्य मुख्यप्रत्याम्नायद्रव्यं विसृज्योत्तराङ्गाणि कारयेत् । होमाभावपक्षे दशविधस्नानान्ते विष्णुश्राद्धगोदाने कृत्वा विप्रेण पञ्चगव्यं कारयित्वा तूष्णीं प्राश्य प्रायश्चित्तद्रव्यं संकल्प्य दत्त्वोत्तराङ्गविष्णुश्राद्धगोदानदशदांनानि कुर्यात् ।

  अथ शूद्रस्य संकल्पान्तमविकृतं प्राग्वत् । ततः क्षौरान्तेऽमन्त्रकदशस्त्रानानि वस्त्रतिलकधारणान्ते विष्णुश्राद्धगोदाने कृत्वा विप्रद्वारा पञ्चगव्यं कारयित्वा स्वयं तूष्णीं पिबेत् । शूद्रेण कपिलायाः पञ्च गव्यानि न पेयानि । नास्य विप्रद्वाराऽपि होमः । प्रायश्चित्तद्रव्यं

संकल्प्य दत्त्वोत्तराङ्गविष्णुश्राद्धगोदानानि दश दानानि कुर्यात् । इति स्त्रीशूद्र[प्रायश्चित्त] प्रयोगः ॥

  अथ गोवधाद्येकैकपापे प्रायश्चित्तप्रयोगः----पर्षदं प्रदक्षिणीकृत्य साष्टाङ्गं प्रणमेत् । विप्रैः किं ते कार्यमित्यादिपृष्ठे गोवृषनिष्क्रयं संकल्प्य निधाय मयाऽमुकगोवधः कृतोऽथवा पलाण्डुगृञ्जनादिभक्षणं कृतं यद्वाऽमुकस्त्रीगमनं कृतं तत्प्रायश्चित्तमुपदिशन्तु भवन्त इति यथापापमुच्चार्य स्पष्टं वदेत् । ततः सर्वे धर्मविवेक्तारःइत्यादि । कर्त्रा निबन्धपूजानुवादकपूजने कृते सभ्या अनुवादकमुखेन प्रायश्चित्तं कथयेयुः----त्वयाऽमुकगोवधः कृतस्तत्प्रायश्चित्तं त्रैमासिकव्रतं सप्तदशप्राजापत्यप्रत्याम्नायद्वारा वा सप्तदशगोदानतन्मूल्यदानेन वा पूर्वोत्तराङ्गसहितं त्वयाऽऽचरितव्यं तेन तव शुद्धिर्भविष्यतीत्यादि । यद्वा त्वया प्रत्याऽभ्यासेन पलाण्डुगृञ्जनं कुक्कुटमांसं वा भक्षितं तत्प्रायश्चित्तं यतिचान्द्रायणं पुनःसंस्कारसहितं प्राच्योदीच्याङ्गसहितमाचरणीयं तेन तव शुद्धिर्भविष्यतीत्यादि । एवमनम्यागमनादावृह्यम् । ततः कर्ता देशकालौ संकीर्त्य पर्षदुपदिष्टं गोवधप्रायश्चित्तं त्रैमासिकममुकप्रत्याम्नायेन प्राच्योदीच्याङ्गसहितमहमाचरिष्ये \[इति संकल्प्य \] । ततो वपनदन्तधावनदशविधस्नानपूर्वाङ्गविष्णुश्राद्धगोदानाज्यहोमपञ्चगव्यप्राशनान्ते यथासंकल्पितं मुख्यप्रायश्चित्तं कृत्वोत्तराङ्गाणि कुर्यात् । इदं सामान्यम् । ततो विशेषोक्तं स्वामिपते गोदानपार्वणश्राद्धादि । एवमभक्ष्यभक्षणेऽपि पलाण्डुगृञ्जनकुक्कुटमांसादिभक्षणजनितपातकनिरासार्थेपर्षदुपदिष्टं पुनःसंस्कारसहितं यतिचान्द्रायणम्मुकमत्याम्नायेन प्राच्योदीच्याङ्गसहितमाचरिष्य इति संकल्प्य क्षौरादि पञ्चगव्यमाशनादि पूर्ववत्कृत्वा चान्द्रायणप्रत्याम्नायं पुनरुपनयनं च कृत्वोदीच्याङ्गानि कुर्यात् । एवमगम्यागमनादौ द्रष्टव्यम् \। रहस्यप्रायश्चित्ते तु न पर्षदुपस्थानसभ्यानुवादकपूजनादिकम् । किंतु तत्प्रायश्चित्तं स्वयमेव ज्ञात्वाऽथवा व्याजान्तरेण किंचित्पृष्ट्वा रहस्योक्तं प्रायश्चित्तं स्वयमेव रहसि संकल्प्य महच्चेत्क्षौरसहितमन्यथा क्षौररहितमाचरेदिति ॥

इति श्रीमदनन्तोपाध्याय सूनुकाशीनाथोपाध्यायविरचितः

सर्वप्रायश्चित्तप्रयोग समाप्तः ॥

इति प्रायश्चित्तेन्दुशेखरः समाप्तः ॥

________________

ॐ तत्सद्ब्रह्मणे नमः ।

कुण्डार्कः ।

महामहोपाध्यायाभ्यंकरोपाह्ववासुदेवशास्त्रिविरचितकुण्डार्कोदयाभिधटीकासंबलितः ।

भास्वन्तं नीलकण्ठं पितरमनुसरञ्शंकरो वक्ति कुण्डं

भूद्व्यब्ध्यष्टाङ्गहस्तं दशशतहवनात्तद्दशन्नोत्तरे स्यात् ।

हस्तः स्यादूर्ध्वबाहोः प्रपदगमखिनः पञ्चमोंऽशोऽङ्गुलं

तत्सिद्धांशस्तद्गजांशोयव उरगलवस्तस्य यूकाऽष्टलिक्षा ॥ १ ॥

  भास्वन्तमिति । श्रीशंकरनामा पण्डितः स्वकीयं पितरं भास्वन्तं सूर्यवद्देदीप्यमानं नीलकण्ठनामानमनुसरन्पितुः सकाशात्प्राप्तसांप्रदायिकविद्यानुसारेण वक्तुं प्रवृत्तः सन्कुण्डं वक्ति । कुण्डसंबन्ध्याकारविशेषायामविशेषादिविचारं करोति । कुण्डमाकारभेदेन दशविधम् । वृत्त १ अब्ज २ अर्धचन्द्र ३ योनि ४ त्र्यत्र ५ चतुरस्र ६ पश्चात्र ७ पडस्र ८ सप्तास्र ९ अष्टात्र १० भेदात् । दशविधमपि च तत्प्रत्येकं पुनरायामभेदेन पञ्चविधम् । भूद्व्यब्ध्याष्टङ्गहस्तम् । भूशब्देनैकसंख्योच्यते । अब्धिशब्देन च चतुःसंख्याऽङ्गशब्देन षट्संख्या चोच्यते । एकहस्तप्रमाणायामं द्विहस्तप्रमाणायामं चतुर्हस्तप्रमाणायामं षड्ढस्तप्रमाणायाममष्टहस्तप्रमाणायामं चेति पञ्चविधम् । यत्र दशशतसंख्याकं हवनं तत्रैकहस्तं कुण्डं भवति । तस्याश्च दशशतसंख्याया दशसंख्यया गुणने या संख्या संपद्यते तत्पर्यन्तहवन एकहस्तम् । तत आरभ्य द्विहस्तम् । तदपि लक्षपर्यन्तम् । तत आरभ्य दशलक्षपर्यन्तं चतुर्हस्तम् । तत आरभ्य कोटिपर्यन्तं षड्ढस्तम् । तदुत्तरमष्टहस्तम् । तत्र नास्त्यवधिः । दशन्घंदशगुणितम् । हनधातुर्गुणनवाची । दशशतहवनात्माक्तु स्थण्डिलेन सिद्धिः \। अत्रेदं बोध्यम् । दशघ्नोत्तर इत्युक्ते रग्नौप्रक्षिप्तानि हर्विद्रव्याणि यथा कुण्डाद्बहिर्न गच्छेयुस्तथा कुण्डं कर्तव्यमित्यभिप्रायः । तेन किंचिन्न्यूनायुतहवनेऽपि द्विहस्तकुण्डसिद्धिः ।

यत्र बिल्वोदुम्बरफलसदृशानि स्थूलानि हविर्द्रव्याणि भवन्ति तत्रायुतात्प्राक्तनसंख्याकान्यप्येकहस्ते कुण्डे न संमितानि भवेयुः । तथा च हर्विद्रव्याणां संख्यां स्थूलत्वमणुत्वं यजमानहस्तप्रमाणं चाऽऽलक्ष्य तदनुसारेणैकहस्तादिष्वन्यतमं कुण्डं विरच्यं भवति । सपादहस्तं सार्धहस्तं वा न क्वापि कर्तव्यमिति । न च लाघवात्सर्वत्रैकविधमेवाष्टहस्तं कुण्डं भवतु । तेनैव सर्वत्रेष्टं सिद्धं भवत्येव । इष्टं च कुण्डाद्बहिर्हविर्द्रव्यस्यानिर्गम इति वाच्यम् । तथा सत्यष्टहस्ते कुण्डे दशशतहवने कुण्डतलप्रपूरणमपि न स्यात् । हविर्द्रव्यैः कुण्डं यथा कृत्स्त्रं प्रपूर्येत गलपर्यन्तं वा पादोनं वा ततः किंचिन्न्यूनं वा तथा विधेयम् । अर्धान्न्यूनं यदि पूर्येत तथा कदाऽपि न विधेयं भवति । उत्तरार्धे हस्ताङ्गुलयवयूकालिक्षाणां प्रमाणं प्रदर्श्यते - हस्त इति । प्रपदं पादाग्रम् । मखी यजमानः । सिद्धाश्चतुर्विंशतिः । गजा अष्टौ । उरगा अष्टौ । पादाग्रमात्रं भुवि प्रस्थाप्योर्ध्वमवस्थित ऊर्ध्ववाहुश्च यो यजमानस्तस्य पादाग्रमारभ्य हस्ताग्रपर्यन्तं प्रमितस्य सूत्रस्य यः पञ्चमोंऽशः स हस्तः । तस्य हस्तस्य यञ्चतुर्विंशतितमोंऽशः सोऽङ्गुलम् । तस्याङ्गुलस्य गजांशोऽष्टमांशो यवः । तस्य यवस्योरगलवोऽष्टमोंऽशो यूका । स्नाच यूकाऽष्टलिक्षापरिमिता । यूकाया अष्टमांशो लिक्षेत्यर्थः ॥ १ ॥

छायान्तो मध्यशङ्कोः समभुवि विहितं मण्डलं येन गच्छे-

दुज्झेत्तत्स्थानयुग्मं तदनुगतगुणः प्राग्गुणोऽथोदगंशुः ।

तस्यान्ताभ्यां तदर्धाधिकगुणकृतयोर्मत्स्पयोर्मध्यतः

स्यात्तत्संधेर्भ्रामयांशुं कुरु वलयमितः सर्वकुण्डप्रसिद्धिः ॥ २ ॥

  अथ कुण्डस्य दिक्साधनार्थेप्राच्यादिसाधनमाह - छायान्त इति । छाया 'सावली' इति प्रसिद्धं भाषायाम् । शङ्कुःसूक्ष्मा लोहशलाका दारुमयी वा । गुणशब्दोंऽशुशब्दश्चसूत्रवाची । समायां भुवि परितो वर्तुलं यथा भवेत्तथा मध्ये शङ्कुर्निधेयः । शङ्कुमूले सूत्रपाशं प्रमुच्य परितः सूत्रभ्रामणेन वर्तुलं साधयेत् । शकुप्रमाणापेक्षया सूत्रप्रमाणं तृतीयेन भागेनाधिकमावश्यकमेव । न तु ततः कथमपि न्यूनम् । तथाहि – शङ्कोश्छाया मध्याह्नात्पूर्वेपूर्वाह्ने पश्चिमतो- दृश्यते ।

मध्याह्लादनन्तरमपराह्ने पूर्वस्यां दृश्यते । तथा शङ्कुच्छायाग्रं सूर्यगत्यनुसारेण पश्चिमतः समानत्य वर्तुलरेखां वर्तुलपश्चिमभागे स्पृष्ट्वा वर्तुलान्तः प्रविश्य मध्याह्नसंधिकाले शङ्कुसमीपमागत्य ततोऽपराह्णे वर्तुलपूर्वभागे वर्तुलरेखां स्पृष्ट्वा वर्तुलाद्बहिर्निर्गच्छति । वर्तुलस्य यच्छायाग्रप्रवेशकालिकं छायाग्रस्पर्शस्थानं तत आरभ्य च्छायाग्रनिर्गमनकालिकच्छायाग्रस्पर्शवर्तुलस्थानपर्यन्तं यत्सूत्रं तत्प्राचीसाधकं प्राक्सूत्रमित्युच्यते । प्राक्सूत्रमेव प्राग्गुण इत्युच्यते । अत्र यदि वर्तुलसाधकस्य शङ्कुवर्तुलान्तरसूत्रस्य प्रमाणं शङ्कुप्रमाणापेक्षया त्रिभागाधिकं न स्यात्तर्हि वर्तुलमल्पं स्यादिति धनुःस्थे सूर्ये वर्तुलाद्बहिरेवोत्तरेण च्छायाग्रं पश्चिमतः पूर्वस्यां गच्छेत् । मिथुनस्थे तु सूर्ये वर्तुलाद्बहिर्दक्षिणेन गच्छेदिति माचीसाधनं न स्यात् । यद्यपि शङ्कुप्रमाणापेक्षया भ्रामणसूत्रस्य प्रमाणमर्धेनाधिकं स्याद्विगुणं वा स्यात्तहिं प्राचीसाधनं भवेत्तथाऽपि यावता लघुप्रमाणेन सिद्धिस्तावदत्राऽऽवश्यकतयोक्तं लाघवात् । यदि च भ्रामणसूत्रमतिमहत्स्यात्तर्हि प्रातश्छायाग्रंवर्तुलाद्बहिर्नदृश्येदेति । इदं चात्रापधेयम् । वर्तुलस्य पश्चिमे भागे पूर्वाह्णे जायमानो यश्छायाग्रस्पर्शः स मध्याह्नसंधिकालात्पूर्वे यावता कालेन भवति तावतैव कालेनान्यूनानतिरिक्तेन वर्तुलस्य पूर्वभागेऽपराह्णे छायाग्रस्पर्शो भवति । प्राक्पश्चिमतो निम्नोन्नतायां भुवि वर्तुलं चेदुक्तस्पर्शद्वये कालतो वैषम्यं दुर्निवारमिति प्राचीसाधनं न स्यात् । निम्नप्रदेशे छायाग्रगतेः शैत्र्यं तथोन्नते प्रदेशे छायाग्रागतेर्मान्धं संदृश्यते । अतः समभुदीत्युक्तम् । अवैतत्प्राक्सूत्रमाश्रित्यैवोदीचीसाधकमुदक्सूत्रमुच्यते । उदगंशुरुदक्सूत्रम् । तस्य पूर्वोक्तस्यप्राक्सूत्रस्य यौ द्वावन्तौ, एकः पश्चिमान्तोऽपरः पूर्वान्तः, ताभ्यां द्वौयत्स्यौसाधनीयौ । तथाहि — तादृशप्राक्सूत्रान्तद्वये प्रत्येकमेकः शङ्कुर्वर्तुलसाधक इति शङ्कुद्वयं वर्तुलद्वयसाधकं निधेयम् । वर्तुलद्वयसाधकभ्रामणसूत्रप्रमाणं च प्राक्सूत्रस्यार्धापेक्षया किंचिदधिकमावश्यकमेव । अन्यथा मत्स्योत्पत्तिर्न स्यात् । यद्यपि प्राक्सूत्रतुल्यप्रमाणग्रहणेऽपि मत्स्योत्पत्तिः स्यात्तथाऽपि गौरवमकारणं स्यात् । अतो यावदावश्यकं तावदत्रोक्तम् । एतद्वर्तुलद्वयं च पूर्णे नापेक्ष्यते । पश्चिमशङ्कोः परितो वृत्तस्य पूर्वार्धे पूर्वशङ्कोः परितो वर्तुलस्य पश्चिमार्धे चापेक्ष्यते।

अनयोश्च पूर्वार्धपश्चिमार्धयोर्मिथः संधिर्दक्षिणत एक उत्तरतश्चापर इति संधिद्वयं भवति । तत्र दक्षिणसंधिमारभ्योत्तरसंधिपर्यन्तं यत्सूत्रं स्यात्तदुदक्सूत्रमित्युच्यते । यश्च भूभाग उक्तयोः पूर्वार्धपश्चिमार्धयोर्द्वयोरन्तः प्रविशति तन्मत्स्यद्वयशरीरम् । तत्र प्राक्सूत्रादुत्तरो भाग एको मत्स्यो दक्षिणो भागश्चापरो मत्स्यः । संधिद्वयंच मत्स्यमुखद्वयम् । एवं प्राचीसाधकं प्राक्सूत्रमुदीचीसाधकमुदक्सूत्रं च साधितम् । प्राचीसाधनेनैव प्रतीच्यपि साधिता भवति । उदीचीसाधनेन दक्षिणा दिक् च साधिता भवति । अथैतत्सूत्रद्वयमाश्रित्य कुण्डरचनाप्रकारमाह – तत्संधेरिति । तयोः प्रागुदक्सूत्रयोर्यः संधिस्तत्र शङ्कुं निधाय तत्र स्वेष्टकुण्डविशेषानुसारिप्रमाणेन सूत्रेण वलयं कुरु । तेन च वलयेन सर्वविधकुण्डानि साधितानि भवन्तीत्यर्थः ॥ २ ॥

वृत्तेऽब्जे वलयोऽधिभैरधिपदह्यग्निःसपात्खानलो

द्दृग्वेदे सयवे रसत्रि सदलं सिद्धाः करामेऽकले ।

क्ष्मारामे सयवेऽधिपादधृतयोऽनङ्घ्रौ खरामे दलं

गोद्वावत्रियवत्रिभूरपदले ज्या निस्त्रियूकाः शिवाः ॥ ३ ॥

 अथैक हस्तादिषुव्यासस्य भुजानांचाङ्गुलप्रमाणं वक्तव्यम् । तत्र लाघवादेकहस्त्रे कुण्डेव्यासभुजप्रमाणे कथिते सति द्विहस्तादिषु तद्वृद्ध्या व्यासभुजप्रमाणज्ञानं सुलभं भवति । अतः प्रथमत एकहस्ते कुण्डे तत्प्रदर्शयति-वृत्तेऽब्ज इति । एकहस्तमपि च कुण्डं वृत्ताब्जार्धचन्द्रयोनित्र्यस्त्रचतुरस्रपञ्चास्रषडस्रसप्तास्राष्टास्रभेदेन दशविधम् । तत्र क्रमेण व्यासप्रमाणं त्र्यस्रादिषु व्यासप्रमाणं भुजप्रमाणं च दर्शयति । वृत्तं वर्तुलं कुण्डम् । अब्जं पद्माकारम् । वलयो वलयव्यासः । भशब्देन सप्तविंशतिसंख्योच्यते । संख्याशब्देन चेदृशेनात्र संख्येयमुच्यते । संख्येयानि चात्राङ्गुलान्येव । योग्यताबलात् । तत्र च विशेषणीभूतमधिशब्देनोक्तमाधिक्यमङ्गुलावयवैरेव कतिपयैः । अङ्गुलावयवाश्च यूका ग्राह्याः । न तु यवा नापि लिक्षाः । अग्रिमोपपत्त्यनुरोधात् । तत्र यूकानां संख्याऽपि योग्यताबलादेव निर्णेया भवति । पच्छब्देनाङ्गुलविशेषणान्तर्गतेनाङ्गुलचतुर्थाेश उच्चते। एवं दलशब्देन तथाविधेनाङ्गुलार्धमुच्यते । अहयोऽष्टौ । अग्नयस्त्रयः ।

खं शून्यम् । अनलास्त्रयः । दृग्द्वौ । वेदाश्चत्वारः । रसाः षट् । सिद्धाश्चतुर्विंशतिः । कश्चतुर्मुखः । तेन चतुःसंख्योच्यते । रामास्त्रयः । कला षोडशो भागः । स चाङ्गुलविशेषणान्तर्गतत्वादङ्गुलस्यैव । क्ष्मैका । धृतयोऽष्टादश । अङ्घ्रिश्चतुर्थांशः । स चाङ्गुलविशेषणान्तर्गतत्वादङ्गुलस्यैव । दलमर्धम् । तच्चागुलविशेषणानन्तर्गतत्वान्नाङ्गुलस्य । किंतु प्रकृतस्ववाक्योपात्तखरामपदबोध्यसंख्याया एव । गावो नव । भूरेका । दलमर्घमङ्गुलस्य । अङ्गुलविशेषणान्तर्गतत्वात् । ज्या भुजाः । शिवा एकादशःअयमर्थः- वृत्तकुण्डे पद्मकुण्डे च पञ्चयूकाधिकैः सप्तविंशत्यङ्गुलैः ( २७\। ० \। ५) संमितो वलयव्यासो भवति । भुजाभावात्तन्मानं नोक्तम् । अधिपदह्यग्निः । अर्धचन्द्राकारकुण्डे यूकात्रमाधिकसपादाष्टत्रिंशदङ्गुलैः (३८ । २ । ३ ) संमितो वलयव्यासो भवति । ज्यामानं चेदमेव । एकैव चात्र ज्या । व्यास एव भुजोऽत्रेत्युक्तत्वात् । सपात्खानलः । योनिकुण्डे यवद्वयाधिकत्रिंशदङ्गुलसंमितो (३०\।२\।०) वलयव्यासो भवति । योनिकुण्डे च ज्याद्वयम् \। योन्याकारसंपादनाय प्रथमतस्त्र्यस्त्रसंपादनेऽपि तादृशत्र्यस्त्रान्तर्गताया उभयतः श्रोणिद्वयस्पृष्टाया ज्यायाः पश्चाद्विलोपात् । अवशिष्टस्य ज्याद्वयस्य परिमाणं च वृत्तानुसारेण ( २६ \। १ \। ६) यूकाद्वयोनसपादषड्विंशत्यङ्गुलसंमितं ज्ञेयम् । दृग्वेदे सयवे रसत्रि सदलम् । इत उत्तरं सप्तम्यन्तपदेन वलयव्यासमानं प्रथमान्तपदेन भुजमानं चोच्यते । त्र्यस्त्रकुण्डे यवाधिकद्विचत्वारिंशदङ्गुलो ( ४२ । १ । ० ) वलयव्यासः । सार्धषट्त्रिंशदङ्गुला ( ३६ । ४ । ०) स्तिस्रो ज्या भवन्ति । सिद्धाः करामेऽकले । चतुरस्रकुण्डे वलयव्यासो ( ३३ । ७ । ४ ) यूकाचतुष्टयसहितयवसप्तकसहितत्रयस्त्रिंशदङ्गुलसंमितः । अकले षोडशांशरहिते करामे ३४ \। अङ्गुलस्य षोडशांशश्च यूकाचतुष्टयं भवति । तत्र भुजमानं सिद्धाः २४ चतुर्विंशत्यङ्गुलात्मकं भवति । क्ष्यारामे सयवेऽधिपादधृतयः । पञ्चास्त्रकुण्ड एकयवसहितैकत्रिंशदङ्गुलात्मकं वलयव्यासमानम् ( ३१ । १ । ० ) । भुजमानं च यूकात्रयसहितसपादाष्टादशाङ्गुल( १८ । २ । ३ ) संमितम् । अनङ्घ्रौ खरामे दलम् \। षडस्रकुण्डे पादोनत्रिंशदङ्गुलसंमितो ( २९ । ६ । ० ) वलयव्यासः \। बादृशवलयव्यासमानस्य दलमर्धे ( १४ । ७ । ० ) भुज-

मानम् \। गोद्वावत्रियवत्रिभूः । गोद्वाविति गोद्विशब्दस्य सप्तम्यन्तं पदम् । सप्तास्र एकोनत्रिंशदङ्गुलात्मको ( २९ । ० ) वलयव्यासः । अत्रियवा यदत्रयरहिता । त्रिभूस्त्रयोदश । भुजमानं पञ्चयवाधिकद्वादशाङ्गुल ( १२ । ५ । ० ) संमितम् । अपदले ज्या निस्त्रियूकाः शिवाः । गोद्वावित्यनुवर्तते । अष्टास्रेऽङ्गुलार्धरहितगोद्वि( २८\।४\।० )संमितो बलयव्यासः । भुजमानं च यूकात्रयरहिताः शिवाः । यूकात्रयरहितैकादशाङ्गुल( १० । ७ । ५ ) संमितम् ॥ ३ ॥

  एवं दशविधेऽप्येकहस्ते कुण्डे व्याससूत्रमानं भुजमानं चोक्तम् । अथ तदेव सूत्रमानं द्विहस्तादौ कियतांऽशेन वर्धनायामीति तद्विघ्न इति पूर्वार्धेन दर्शयति-

द्विघ्नोऽब्धिघ्ने फलेंऽशुर्दलिनि विदशमेनाङ्घ्रिणेद्धो द्विनिघ्ने

त्र्यंशेन स्वाङ्घ्रिभाजा वियुगगुणलवस्वाङ्घ्रि तद्विन्नमन्त्ये ।

कोट्यः पूर्वोत्तरांश्वोरिह वरुणदिशः पुच्छपार्श्वास्यपार्श्वा

अंसौ पार्श्वास्यमध्यावनुजघनयुगं मध्यतः पुच्छकुक्ष्योः ॥ ४ ॥

 नन्वेकहस्ते कुण्डे यावत्परिमाणं व्याससूत्रं गृहीतं तद्द्विहस्ते कुण्डे द्विगुणं ग्राह्यं चतुर्हस्ते कुण्डे चतुर्गुणितं ग्राह्यमिति ज्ञायत एव तत्किमर्थमिदमुच्यत इति चेद् भ्रान्तोऽसि । एकहस्ते कुण्डे यावत्यवकाशे हविर्द्रव्याणि संमान्ति हविर्द्रव्यमक्षेपयोग्यो यावानवकाशस्तावतोऽवकाशस्य द्विगुणोऽवकाशो यस्मिन्कुण्डे भवति तत्कुण्डं द्विहस्तामिति ज्ञेयम् । न तु द्विहस्ते कुण्डे कुण्डस्याऽऽयामो द्विहस्तो भवति । एवमेव चतुर्हस्तादिषु ज्ञेयम् । तदित्थम् । समचतुरस्रोऽणुः काष्ठखण्डस्तादृशः कल्पनीयो यस्य पूर्वपश्चिमायामो दक्षिणोत्तरायामाङ्गुलात्मको भवेत् । अघऊर्ध्वायामश्चैकहस्तात्मको भवेत् । एतादृशानि काष्ठान्येकहस्ते कुण्डे यदि मिथः संलग्नानि निवेश्यन्ते तर्हि तत्र षट्सप्तत्यधिका पञ्चशती तादृशानां काष्ठानां संमिता भवेत् । एतदेव ( ५७६ ) फलमित्युच्यते । हस्तो हि चतुर्विंशत्यङ्गुलात्मकः । तस्य वर्गश्चतुर्विंशत्या गुणिता चतुर्विशतिः । सा च षट्सप्तत्यधिका पञ्चशत्येव भवति । यच्च द्विहस्तायामं कुण्डं तच्चतुर्हस्तमिति गीयते । एकहस्तापेक्षया चतुर्गुणितफलसद्भावात् ।

पूर्वपश्चिमतो दक्षिणोत्तरतश्च द्विहस्तायामे कुण्ड एकहस्तकुण्डतुल्याश्चत्वारो भागा भवन्ति । तथा च फल एकहस्तकुण्डफले- अब्धिघ्ने चतुर्गुणिते सति तत्रांशुरेकहस्तकुण्डमूलसूत्रं द्विघ्नः, द्विगुणितं कार्यम् । अष्टचत्वारिंशदङ्गुलात्मकं कार्यमित्यर्थः । तदेव चतुर्हस्तं कुण्डं विज्ञेयम् । तत्र हस्तचतुष्टयं चेत्थं ज्ञेयम् । पूर्वपश्चिमतो दक्षिणोत्तरतश्च द्विहस्तायामे कुण्डे मध्यगतया पूर्वपश्चिमरेखया भागद्वयं परिकल्प्य तत्रोत्तरभागे समचतुरस्रं हस्तद्वयं दक्षिणभागे च तथैवेत्येवं हस्तचतुष्टयं भवति । एतादृशे चतुर्हस्ते कुण्डे फलं चैकहस्तापेक्षयाचतुर्गुणितं चतुरधिकशतत्रयाधिकसहस्रद्वयं भवति ( २३०४ ) \। अस्मिंश्चफले दलिंन्यर्धेनाधिके विवक्षिते सति कियता सूत्रेण कुण्डं विरच्यमित्याह - विदशमेनाङ्घ्रिणेद्ध इति । चतुर्हस्ते कुण्डेऽशुश्चाष्टचत्वारिंशद्ङ्गुलात्मकः । स चाङ्घ्रिणा चतुर्थांशेन द्वादशात्मकेनेद्धो वर्धितः षष्ट्यङ्गुल( ६० )परिमितो भवति । स च चतुर्थीशो द्वादशात्मकः स्वकीयेन दशमेनांशेन रहितः कार्यः । द्वादशाङ्गुलसूत्रस्य दशमो भागश्चैकमङ्गुलमेको यव ईषदधिकाश्चतस्त्रो यूकाश्च । तेनोना षष्टिश्व तादृशयूकाचतुष्टयसंहितयवषट्कसहिताष्टपश्चाशदङ्गुलात्मिका ( ५८ \। ६ \। ४ ) भवति । इयदेव षड्ढस्ते कुण्डे सूत्रमित्यर्थः । अथ द्विहस्तं कुण्डं कियता सूत्रेण भवतीत्याह - द्विनिघ्ने त्र्यंशेन स्वाङ्घ्रिभाजा विद्युगगुणलवस्वाङ्घ्रीति । एकहस्तकुण्डफले षट्सप्तत्यधिकपञ्चशत्यात्मके ( ५७६ ) द्विनिघ्ने द्विगुणिते सति द्विपञ्चाशदधिकैकशतयुतमेकसहस्रं ( ११५२ ) भवति । तादृशे फले विवक्षिते सत्येकहस्तकुण्डांशुश्चतुर्विंशत्यङ्गलात्मकस्यंशेन स्वतृतीयांशेनाष्टाङ्गुलात्मकेन वर्धनीयः । न केवलं तावतैव । किंतु स त्र्यंशः स्वाङ्घ्रिभाक्स्वकीयचतुर्थीशेनाङ्गुलद्वयात्मकेन युतः । न केवलमेतावदेव किंतु सोऽङ्गुलद्वयात्मकश्चतुर्थांशो वियुगगुणलवः । स्वकीयेन चतुस्त्रिंशत्तमेनांशेन रहितः । अङ्गलद्वयस्य चतुस्त्रिंशत्तमोऽशः स्थूलदृष्टचेषदूनयूकाचतुष्टयमितः । तथा च द्विहस्ते कुण्डे व्याससूत्रं यूकाचतुष्टयसहितयबसप्तकसहितत्रयस्त्रिंशदङ्गुलात्मकं ( ३३ । ७ । ४ ) भवति । एतदेव च सूत्रं द्विघ्नं द्विगुणितं ( ६७ । ७ । ० ) सप्तयवाधिकसप्तषष्ट्यङ्गलात्मकं सूत्रमष्टहस्ते कुण्डे विज्ञेयम् \। अन्त्येष्टहस्ते । अष्टहस्ते फलं तु द्विहस्तकुण्डापेक्षया

चतुर्गुणितमष्टाधिकषट्शताधिकसहस्रचतुष्टयं (४६०८) भवति । अथोत्तरार्धेन परिभाषामाह- कोट्य इति । पूर्वीशुः प्राक्सूत्रम् । उत्तरांशुरुदक् , सूत्रम् । तयोश्चतस्रः कोट्यः । प्रत्येकमग्रद्वयमिति चत्वार्यग्राणि । वरुणदिक् पश्चिमा । तत आरभ्य तेषां चतुर्णामग्राणां क्रमेण चतस्रः संज्ञा भवन्ति । माक्सूत्रस्य पश्चिमाग्रं पुच्छम् । उदक्सूत्रस्योत्तराग्रं पार्श्वम् । प्राक्सूत्रस्य पूर्वाग्रमास्यम् । उदक्सूत्रस्य दक्षिणाग्रं पार्श्वम् । अग्रचतुष्टयं चैतदृवृत्तरेखां स्पृशति । सूत्रद्वयानुसारेणैव वृत्तनिर्माणात् । पार्श्वास्ययोर्मध्यावसौ । दक्षिणपार्श्वास्ययोर्मध्यो दक्षिणांसः । उत्तरपार्श्वास्वयोर्मध्ये उत्तरांसः । तथा दक्षिणपार्श्वपुच्छयोर्मध्यो दक्षिणं जघनम् \। उत्तरपार्श्वपुच्छयोर्मध्ये उत्तरं जघनामिति ॥ ४ ॥

 एवं कुण्डविरचनोपयोगिपूर्वपीठिकोक्ता । कुण्डं च वृत्ताब्जाद्याकारभेदेन दशविधमुक्तम् \। वृत्तव्यासप्रमाणं भुजप्रमाणं च तत्तत्कुण्डानुसारेणोक्तम् । प्राक्सूत्राग्रद्वयमुदक्सूत्राग्रद्वयं च सर्वत्र वृत्तरेखास्पर्शीति दशविधेष्वपि कुण्डेषु वर्तुलं साधितम् । इदानीं तत्र तत्र वर्तुले ते त आकारविशेषाः कथं साधनीयास्तच्छ्लोकत्रयेणोच्यते-

संधेः पार्श्वस्य मध्यावनु ततगुणयोः कोटयोऽब्भ्यस्रकोणा-

स्तस्मात्प्राग्ज्याङ्घ्रिदेशात्कुरु वलयमिहार्थेन्दु पश्चिमार्धम् ।

श्रोण्यौ पुच्छाद्दलेन द्वयमुखगुणतस्त्र्यस्त्रिवृत्ते भगाभे

पुच्छश्रोणीगुणरूज्यंदलवलययुगं चाधिकं षड्भुजे तु ॥ ५ ॥

  तत्र वृत्तकुण्डे वर्तुल एवाऽऽकार इति वर्तुलसाधनेनैव वृत्तकुण्डं साधितं भवति । वर्तुलानुसारेणैव तत्र कुण्डस्य विरचनीयत्वात् । अन्येषु नवविधेषु तत्तद्विशेषाकारप्रापणाय वर्तुलसाधनोत्तरं तत्र कर्तव्यतयाऽन्यत्किंचिद्वक्तव्यं भवति । तत्रोक्तिलाघवानुरोधेन क्रममुत्सृज्य प्रथमतश्चतुरस्त्रे कर्तव्यमुच्यते - संधेरिति प्रथमपादेन । पार्श्वास्यमध्यौ द्वावंसौ प्रागुक्तौ । तावनुलक्ष्य गुणौ ततौ कर्तव्यो । सूत्रद्वयं देयमित्यर्थः । तच्च संधेः प्राक्सूत्रोदक्सूत्रयोर्यः संधिस्तमनुसृत्य देयम् । प्रागुदक्सूत्रयोर्यः संधिः स एवास्य सूत्रद्वयस्य संधिर्यथा भवेत्तथा सूत्रद्वयं देयम् । सूत्रद्वयस्य विस्तारश्च न वर्तुलाद्वहिः । प्रमाणाभावात् ।

तथा च दक्षिणांसमारभ्योत्तरजघनपर्यन्तमेकं सूत्रम् । अपरं चोत्तरांसमारभ्य दक्षिणजघनपर्यन्तमर्थादेव सिध्यति । अस्य सूत्रद्वयस्य याश्चतस्रः कोटयोऽग्रचतुष्टयं तदेवाब्ध्यस्रस्य चतुरस्रकुण्डस्य कोणाः कोणचतुष्टयं भवति । तथा चोत्तरांसाद्दक्षिणांसपर्यन्तमेको भुजः । दक्षिणांसाद्दक्षिणजघनपर्यन्तं द्वितीयः । दक्षिणजघनादारभ्योत्तरजघनपर्यन्तस्तृतीयः । उत्तरजघनादारभ्योत्तरांसपर्यन्तश्चतुर्थ इति चतुरस्रकुण्डसिद्धिः ।

नन्वत्र पार्श्वास्यमध्यौ प्रसाध्य तदनुसारेण सूत्रद्वयं च प्रसाध्य तादृशसूत्रद्वयाग्रचतुष्टयानुसारेण भुजचतुष्टयं साधनीयमित्युक्तम् । तत्र माऽस्तु मध्ये सूत्रद्वयकल्पना । पार्श्वास्थमध्याविव पार्श्वपुच्छमध्यौ प्रसाध्य तदनुसारेण भुजचतुष्टयसिद्धेरिति चेत्सत्यम् । स्यादभुजचतुष्टयसिद्धिः किंतु भुजसाम्यं नियमेन न सिध्येत् । कदाचिदीषद्वैषम्यं स्यात् । प्रथमतः पार्श्वास्ययोर्मध्यो यः सामान्यतः प्रकल्पितो भवति स स्थूलः । न तु सूक्ष्मः \। मध्याद्यदास्यपर्यन्तमन्तरं यच्च मध्यात्पार्श्वपर्यन्तमन्तरं तयोरन्तरयोर्लिक्षयाऽपि वैषम्यं यत्र न जायत एतादृशो मध्यः सूक्ष्मः । सूक्ष्म एव चात्र भुजसाम्यसिद्ध्यर्थमपेक्षितो भवति । मध्यसंधिमनुलक्ष्य प्रागुदक्सूत्रयोः समान्तरेणोक्तसूत्रद्वयसाधने तु सूत्राग्रेण सूक्ष्मो मध्यः संलक्षितो भवति । प्राची दिक्च सामीचीन्येन साधिता भवति ।

  अथार्धचन्द्रकुण्डे कर्तव्यमुच्यते तस्मादिति द्वितीयपादेन । अर्धचन्द्रे प्रकृतिवृत्तव्याससूत्रप्रमाणं पूर्वमुक्तम् (२८/२ /३) । तादृशसूत्रद्वयसंधिस्तस्मादित्यनेन निर्दिश्यते । तादृशसूत्रद्वयसंधेः प्राक्प्राच्यां दिशि ज्याङ्घ्रिदेशात्सूत्रचतुर्थीशमदेशाद्वलयं कुरु । सूत्रचतुर्थाेशः पूर्वस्यां दिशि यत्र भागे भवति तत्र शङ्कुंनिधाय व्याससूत्रार्धममितेन ( १९ । १ । १ । ४ ) सूत्रान्तरेण वर्तुलं कार्यम् । तादृशवर्तुलस्य यत्पश्चिमार्धेतदर्धेन्दुभमर्धचन्द्रकुण्डं भवति । ननु किमर्थमिदं वर्तुलान्तरं साधितम् । प्रकृतिवृत्तस्यास्य वर्तुलस्य च परिमाणं सममेव । तथा च प्रकृतिवृत्तस्य पश्चिमार्धमेवार्धचन्द्रकुण्डमित्युक्त्यैव निर्वाह इति चेत्सत्यम् । सूत्रद्वयसंधिः कुण्डमध्ये यथा स्यादित्यभिप्रायेण वर्तुलान्तरसाधनात् । अथ त्र्यस्त्रे कुण्डे कर्तव्यं दर्शयति-श्रौण्यौ पुच्छाद्दलेन द्वयमुखगुणतरूपस्त्रिवृत्ते, इत्यनेन । त्र्यस्त्रिवृत्ते ़कोणकुण्डे । त्र्यस्त्रेवलयव्याससूत्रप्रमाणं प्रागुक्तम् ( ४२ । १ ) । तत्र वलये पुच्छात्पुच्छभागमध्याद्दलेन व्यास-

सूत्रार्धप्रमितेन सूत्रान्तरेण वर्तुलान्तरं कृत्वा श्रोण्यौ श्रोणिगतौ द्वौ भागविशेषौ साधनीयौ । एको दक्षिणश्रोणिगतोऽपर उत्तरश्रोणिगतः । तादृशभागविशेषद्वयान्मुखमध्यभागपर्यन्तं सूत्रद्वयं देयम् । उभयतः श्रोणिभागविशेषस्पर्शिच तृतीयं सूत्रमर्थादेव सिद्धमिति तादृशसूत्ररूपभुजत्रयघटितं त्रिकोणं कुण्डं भवति । न च पुच्छपार्श्वमध्यभागस्य श्रोणिसंज्ञा पूर्वमुक्तेवानुजघनयुगं मध्यतः पुच्छकुक्ष्योरित्यनेन । तथा च किमर्थेपुनरत्र श्रोणिसाधनमिति बाच्यम् । श्रोणीशब्देन श्रोणीगतभागविशेषोपलक्षणात् । तादृशभागविशेषसाधनं च भुजावधिद्योतनायाऽऽवश्यकम् । ननु श्रोणितो मुखपर्यन्तं सूत्रं देयमित्येवोच्यतां किमर्थे तदन्तर्गतभागविशेषसाधनमिति चेदुच्यते । श्रोणितो मुखपर्यन्तं सूत्रं देयमित्युक्ते किं श्रोणिमध्यादथवा श्रोण्यग्रात् । आद्ये भुजसाम्यं न स्यात् । त्र्यस्त्रकुण्डे ह्येकः पश्चिमतो भुजः पार्श्वद्वये च भुजद्वयमिति भुजत्रयं समं साधनीयम् । तत्र पार्श्वभुजात्पश्चिमभुजस्तृतीयांशेन न्यूनः स्यात् । द्वितीयेऽपि यदि पश्चिमाग्रं गृह्यते तर्हि ततोऽपि न्यूनः स्यात् । यदि पूर्वाग्रं गृह्यते तर्हि पार्श्वभुजापेक्षयाऽधिकः पश्चिमभुजः स्यात् । तथा च भुजत्रयसाम्याय तथोक्तिः । अथ योनिकुण्डे कर्तव्यमाह– भगाभे पुच्छश्रोणीगुणज्यं दलवलययुगं चाधिकमित्यनेन । भगाभे योनिकुण्डे । अत्र त्र्यस्त्रेवलयंव्याससूत्रप्रमाणं प्रागुक्तम् (३० । २ ) । तादृशसूत्रानुसारिवर्तुले त्र्यस्त्रकुण्डवच्छ्रोणिद्वयान्तर्गतभागविशेषद्वयसा-धनं त्र्यस्त्रोत्पादनं च कर्तव्यमेव । तदुत्तरमधिकं यत्कर्तव्यं तदत्रोच्यते । एतदुक्तिलाघवानुरोधेनैव त्र्यस्त्रकुण्डपकारकथनानन्तरं योनिकुण्डप्रकारकथनम् । पुच्छमध्यभागात्पूर्वसाधितश्रोण्यन्तर्गतभागविशेषपर्यन्तं सूत्रं देयं दक्षिणत उत्तरतश्च । तदेव च सूत्रमर्धवर्तुलस्य धनुराकारस्य ज्या भवति । तादृशस्य तस्य दक्षिणसूत्रस्य मध्यभागे शङ्कं निधाय सूत्रार्थेन दक्षिणश्रोण्यन्तर्गतपूर्वसाधितभागविशेषप्रारभ्यप्राक्सूत्रस्य पश्चिमाग्रपर्यन्तमर्धवर्तुलं धनुराकारं साधनीयम् । एवमुत्तरसूत्रेऽपि सूत्रमध्ये शङ्कुंनिधाय सूत्रार्थेन प्राक्सूत्रस्य पश्चिमभागप्रारभ्योत्तरश्रोण्यन्तर्गतपूर्वसाधितभागविशेषपर्यन्तमर्धवर्तुलं धनुराकारं साधनीयम् । ततो योन्याकारं कुण्डं भवति । पुच्छश्रोणीगुण एव ज्या

यस्य तादृशं दलवलययुगमर्धवर्तुलद्वयं त्र्यस्त्रकुण्डापेक्षयाऽधिकमित्यर्थः । षड्भुजे त्वित्युत्तरश्लोकान्वायि॥ ५ ॥

श्रोण्यंसौ पार्श्वतोऽर्धाद्युगभुजयुगलं दिग्विदिक्कोणकं स्याद्

बाह्यत्र्यस्त्राष्टकोनं त्रियवयुतनगत्र्यङ्गुलेऽष्टात्रिकुण्डम् \।

सप्तास्त्रे दोस्त्रिदोर्दोर्दलमिभरसदृग्भागयुग्वक्त्रतो ज्याः

पञ्चास्त्रेद्विघ्नपार्श्वाननततिविवरं खाभ्रवेदांशयुक्तम् ॥ ६ ॥

  षड्भुजे तु श्रौण्यंसौ पार्श्वतोऽर्धादित्यनेन षडस्रकुण्डे कर्तव्यं दर्शितम् । षडस्त्रेवलयव्याससूत्रप्रमाणं प्रागुक्तम् ( २९ । ६ ) । उत्तरपार्श्वमध्ये शङ्कुं निधाय तत्र सूत्रार्धेन शङ्कोर्दक्षिणभागेऽर्धवर्तुलं कार्यम् । एतदर्धवर्तुलं च पार्श्वात्पूर्वतः पश्चिमतश्च प्रकृतिवर्तुलं स्पृशति । स्पर्शस्थानद्वयं च क्रमेणांस्रत्वेन श्रोणित्वेन च कल्पनीयम् । एवं दक्षिणपार्श्वेऽपि पार्श्वमध्ये शङ्कं निधाय तत्र सूत्रार्धेन शङ्कोरुत्तरतोऽर्धवर्तुलं कार्यम् । एतदप्यर्धवर्तुलं पार्श्वात्पूर्वतः पश्चिमतश्च प्रकृतिवर्तुलं स्पृशति । स्पर्शस्थानद्वयं च क्रमेणांसत्वेन श्रोणित्वेन च कल्पनीयम् । एवं चोत्तरतः पार्श्वमध्यस्थानमंसान्तर्गतविशेषस्थानं श्रोण्यन्तर्गतविशेषस्थानं चेति स्थानत्रयम् । दक्षिणतोऽप्येवं स्थानत्रयमिति मिलित्वा प्रकृतिवृत्ते षट् स्थानानि संपन्नानि । तत्र प्रत्येकस्थानात्स्वानन्तरस्थानपर्यन्तं सूत्रं देयम् । तथा च षट् सूत्राणि भवन्ति । त एव च षड् भुजा इत्येवं षडस्त्रंकुण्डं भवति ।           अत्रार्धवर्तुलेन श्रोण्यन्तर्गतोऽसान्तर्गतश्च यः स्थानविशेषः प्रकल्पितःस षण्णां भुजानां साम्यार्थम् । अन्यथा षड्भुजाः समी न स्युः । उदाहरणार्थेकिंचित्प्रकल्प्यते । अष्टचत्वारिंशदङ्गुलात्मके वृत्ते षड्भागाः समाः प्रत्येकमष्टाङ्गुलात्मका भवन्ति । मुखं पुच्छमंसद्वयं पार्श्वद्वयं श्रोणिद्वयं चेत्यष्टववयवाः प्रत्येकं षडगुलात्मकाः । यदि च श्रोण्यंसयोरन्तर्गतः स्थानविशेषो न प्रकल्प्यते तर्हि पार्श्वमध्याच्छ्रोणीपर्यन्तो भागः श्रोणीमध्यपर्यन्तः श्रोण्यग्रपर्यन्तो वा स्यात् । आद्येस भागः षडङ्गुल एव स्यात् । अन्त्ये पूर्वाग्रे गृह्यमाणे त्र्यङ्गुल एव स्यात् । पश्चिमाग्रे गृह्यमाणे नवाङ्गुलः स्यात् । न तु काप्यष्टाङ्गुलः । अष्टाङगुल एव चेष्यते । स्थानविशेषे प्रकल्पिते तु स स्थानविशेषः श्रोण्यन्तर्गतपञ्चाङ्गुलान्ते भवति । श्रोण्यन्तर्गत एकाङ्गुलात्मको भागोऽवशिष्यते । तथा च पार्श्वगतमध्यात्पश्चिमतोऽङ्गुलत्रयं श्रोणीगताङ्गुलपञ्चकं

चेत्यङ्गलाष्टकात्मक इष्टो भागः समप्रयाणः सिद्धो भवति । यद्यपि मुखमध्यं पुच्छमध्यं वाऽऽरभ्याष्टाङ्गुलात्मकाः समाःषड् भागा भवेयुस्तथाऽपि तथा नोक्तम् । तथा सति पुच्छमध्ये योनिस्थाने भुजद्वयसंधिः स्यात् । स तु नेष्यते । नार्पयेत्कुण्डकोणेषु योनिमिति निषेधात् । यदि चांसमध्यं श्रोणिमध्यं वाऽऽरभ्यं समाः षड् भागा अष्टाङ्गुलात्मकाःक्रियन्ते तर्हि यद्यपि भुजसंघौ योनिर्न भवति तथाऽपि भुजमध्ये न भवति । पश्चिमभुजस्य मध्यभाग एव सर्वकुण्डेषु योनिरिष्यते । अतः पार्श्वमध्यमारभ्यात्र षड् भागा उक्ताः ।

  अथाष्टास्रकुण्डे कर्तव्यमाह – युगभुजेत्यादिना कुण्डमित्यन्तेन । अष्टास्त्रे प्रकृतिवृत्तव्याससूत्रप्रमाणं सार्धाष्टाविंशत्यङ्गुलात्मकं प्रागुक्तम् ( २८ । ४ ) । तत्र च साधारणपरिभाषया मुखांसपार्श्वश्रोणीपुच्छश्रोणीपार्श्वोससंज्ञाः क्रमेण भवन्ति । तत्रैकैको भागो यूकाचतुष्टयसहितसार्धाङ्गुलत्रयात्मकः ( ३ \। ४ \।

४) । प्राक्सूत्रस्य यत्पूर्वाग्रं तस्य दक्षिणोऽर्धभागः ( १ । ६ । २ ) उत्तरतश्च तथैव ( १ । ६ । २ ) मिलित्वा मुखं ( ३ । ४ । ४ । ) भवति । तदनन्तरं क्रमेण तावन्त एवांसादयः सप्त भागाः कल्पनीयाः। तथा चैता मुखादयोऽष्टौ संज्ञा वर्तुलान्तर्गतस्य यावतो भागस्य भवन्ति तावत एव भागस्याग्रद्वयमभिलक्ष्य सूत्रे दत्तेऽष्टौ भुजाः समा भवन्ति । न किंचिदधिकं तत्र कर्तव्यं भवति । एवं यद्यप्यष्टास्त्रंकुण्डं साधितं स्यात्तथाऽपि तत्र स्थूलदृष्ट्या भुजसाम्ये साधितेऽपि सूक्ष्मं साम्यं नियमेन न सिध्येत । कदाचिल्लिक्षया वैषम्यं स्यात् । इष्टं च सर्वत्रैव सूक्ष्मं भुजपाम्यम् । लिक्षयापि वैषम्याभाव इति यावत् । तच्च सूक्ष्मं भुनसाम्यं वर्तुलान्तर्गतप्रागुदगैशान्याग्नेयीसूत्रानुरोधेन साधितेषु भुजेषु भवति । तथा च तथा साधनाय कर्तव्यविशेषोऽत्र प्रदर्शनीयः । किंतु स कर्तव्यविशेषः प्रागुक्तव्याससूत्रप्रमाणा( २८ । ४ )नुसारिवर्तुले न संभवति । अतोऽत्र व्यांससूत्रस्य प्रमाणान्तरं दर्शयति- त्रियवयुतनगत्र्यङ्गुलं ( ३७/३ ) इति ।

  ननु कथमसंभवः । सार्धाष्टाविंशत्यङ्गुलानुसारि( २८ । ४ )वर्तुलेऽपि वर्तुलान्तःप्रागुदगैशान्याग्नेयीसूत्रचतुष्टयं दत्वैकस्य सूत्रस्याग्रद्वयमित्येवं चतुर्णाेसूत्राणां यान्यष्टावग्राणि तत्रैकस्मादग्रात्स्वानन्तरापराग्रपर्यन्तमेको

भुज इत्येवं समभुजाष्टकसंभव इति चेन्न । तथा सति योनिमध्ये भुजकोणपातप्रसङ्गात् । ननु त्रियवयुतनगत्र्यङ्गुलानुसारिवर्तुलेऽपि तथा प्रसङ्गः स्यादिति चेन्मैवं वादीः । यानि तत्राष्टावान्तरसूत्राग्राणि न ते भुजकोणा भवन्ति । किंत्वन्य एव । तथाहि - युग- भुजा भुजचतुष्टयम् । तद्यथा चतुरस्रकुण्डे विदिक्कोणकं कृतं तथाऽत्रापि कर्तव्यम् । अपरं चात्र दिक्कोणकमपि तादृशं भुजचतुष्टयमपरं कर्तव्यम् । तत्र दिक्कोणकभुजस्य विदिक्कोणकभुजस्य च संधिर्भवति । एवं चतुर्णोदिक्कोणकानां भुजानां चतुर्षु विदिक्कोणकेषु प्रत्येकं संधिद्वयमित्येवं संध्यष्टकं भवति । एतत्संध्यष्टकमेवाष्टास्त्रेकुण्डेऽष्टानां भुजानां कोणाः । बाह्यकोणास्त्वेतदिष्टभुजाष्टकसिद्ध्यर्थेकल्पिताः । इष्टभुजसिद्धयनन्तरं पश्चात्ते विलोपनीयाः । तदेतद्ब्राह्यत्र्यस्राष्टकोनमित्यनेन दर्शितम् । इष्टभुज एवबाह्यत्र्यस्त्रस्य भूमिः । तस्योभयतो दिक्कोणपर्यन्तं चतुर्षु चतुर्षु च विदिक्कोणपर्यन्तं त्र्यस्रस्य भुजद्वयमित्येवं यद्वाह्यं त्र्यस्राष्टकं तेनोनमेतदष्टास्रं कुण्डं भवति । त्र्यस्त्रष्टकान्तर्गतो भाग उक्ताष्टास्त्रेकुण्डे न धर्तव्य इत्यर्थः । नन्वेतत्त्र्यस्त्राष्टकमिवापररूप्यत्र त्र्यस्राष्टकं संभवति । उक्तं त्र्यस्त्राष्टकमन्तर्भूमि बहिर्मुखम् । अपरं त्र्यस्राष्टकं चैतद्विपरीतं बहिर्भूम्यन्तर्मुखम् । वर्तुलरखैव तस्य भूमिः । इष्टभुजकोणश्च तस्य मुखम् । द्वयोर्बहिर्मुखगोर्मध्ये एकमन्तर्मुखं त्र्यस्त्रंभवति एवं तान्यप्यष्टौ त्र्यस्राणि भवन्ति । तान्यपि च विलोपनीयान्येव । तथा च तादृशत्र्यस्राष्टकेनोनमित्यप्यत्र वक्तव्यं तत्कुतो नोक्तमिति चेत्सत्यम् । तदपि बिलोपनीयमेव । किंत्वत्राष्टात्रे कर्तव्यतया यद्दिग्विदिकोणकं भुजचतुष्टययुगमुक्तं तदन्तर्गतं तन्न भवतीति तस्य ग्राह्यतया प्रसक्तिरेव नास्ति । अत एव त्र्यस्त्रचतुरस्रादिषु त्र्यस्रच्चतुरस्राच्च बहिर्भूतोयो वर्तुलान्तर्गतो भागस्तेनोनमित्येवं नोक्तम् ।

अथ सप्तःस्त्रे कुण्डे कर्तव्यं दर्शयति– सप्तास्रे दोरित्यादिना तृतीयचरणेन । सप्तास्त्रे दोः, त्रिदोदोर्दलम्, इभरसदृग्भागयुक्, वक्त्रतः, ज्याः, इति पदानि । सप्तास्रे व्याससूत्रप्रमाणमकोनत्रिंशदङ्गुलात्मकं (२९) प्रागुक्तम् । त्रिदोर्दोःत्र्यस्रबाहुः । तस्य दलमर्धम् । त्र्यस्रवा - हुश्च वृत्तव्यासवर्गस्य पादत्रयमूलेन भवति । प्रकृते वृचव्यासः

तस्य वर्गः( ८४१ ) तस्य पादत्रयम् ( ६३०\।६ ) तस्य मूलम् ( २५ \। १ ) तस्यार्धम् ( १२\।४\।४) एतत्रिदोदोंर्दलम् । तश्चेभरसदृभागेन ( २६८ ) अष्टषष्ट्यधिकद्विशततमेनांशेन युक्तम् । अत्र च त्रिदोदोंर्दलस्य ( १२४४) अष्टषष्ट्यधिकद्विशततमोंऽशः(२३८) यूकात्रयात्मकः । तेन युक्तं तद्दलं चेत्स्थूलमानेन पञ्चयवाधिकद्वादशाङ्गुल( १२/५ )परिमितं भवति । एतत्परिमितं सप्तास्रे दोर्भवति । पञ्चय- वाघिकद्वादशाङ्गुलसंमितः सप्तास्रबाहुर्भवति । तावत्परिमितं सूत्रं चोभयतोऽग्रद्वयमात्रेण वृत्तरेखास्पर्शि देयम् । तच्च मुखमध्यमारभ्य देयम् । तदुक्तं वक्त्रतो ज्या इति । मुखमध्यमारभ्य पुनर्मुखमध्यपर्यन्तं तावन्तः सप्त बाहवो भवन्ति । चतुर्थस्य बाहोर्मध्ये योनिरिति न योनौ भुजकोणपातप्रसङ्गः ।

  अथ पञ्चास्रे कुण्डे कर्तव्यं दर्शयति – पञ्चास्रे द्विघ्नेत्यादिना चतुर्थचरणेन \। पञ्चास्त्रे व्याससूत्रप्रमाणं प्रागुक्तम् ( ३१ । १ ) । द्विघ्नं द्विगुणितं यत्पार्श्वननं ततिश्च । तयोर्यद्विवरमन्तरं तच्च खात्रवेदांशेन चतुःशततमेनांशेन युक्तं यावद्भवति तावान्पञ्चस्त्रेबाहुर्भवति । व्यासवर्गार्थमूलं पार्श्वाननम् । व्यासस्ततिः । अत्र व्यासः ( ३१ । १ ) तस्य वर्गः( ९६८ । ६ ) तदर्धम् (४८४ \। ३ ) तस्य मूलं ( २२ ) इदं द्विगुणितम् (४४) । तथा व्यासः ( ३१ \। १ ) स द्विगुणितः( ६२ । २ ) तयोर्द्विगुणितपार्श्वानन (४४) तत्यो(६२ । २ )र्यदन्तरं द्वियवाधिकाष्टादशाङ्गुलसंमितम् (१८ । २ ) । तच्च पुनः स्वीयेन चतुःशततमेनांशेन युक्तम् । यवद्वयाधिकाष्टादशाङ्गुलस्य चतुःशततमोंऽशः स्थूलमानेन यूकात्रयात्मकः । तेन युक्तं ( १८ \। २ । ३ ) यूकात्रयाधिकसपादाष्टादशाङ्गुलसंमितं भवति । एतदेव पञ्चास्रे कुण्डे भुजप्रमाणम् । एतत्प्रमाणकं सूत्रं गृहीत्वा मुखमध्यमारभ्याग्रद्वयमात्रेण वृत्तरेखास्पर्शि सूत्रपञ्चकं पुनर्मुखमध्यपर्यन्तं देयम् । त एव च पञ्च बाहवः । अत्रापि तृतीयस्य वाहोर्मध्ये योनिरिति न योनौ भुजकोणपातप्रसङ्गः \।\। ६ \।\।

वृत्तव्यासे नवांशे द्विचतुर्भिलवैः कर्णिकाकेसरान्तः-

पत्रक्ष्मामण्डलानि स्युरवधिवलयं स्यात्सतत्वांशपङ्क्त्या ।

त्र्यस्त्राण्यष्टौ बहिस्तच्छ्रुतिदलगुणकौदिन्घमौर्वीभ्रमेण

चापावन्तर्बहिर्ज्याविति कुरु मतिमन्नष्टपत्राब्जकुण्डम् ॥ ७ ॥

 अथ पद्मकुण्डे कर्तव्यं दर्शयति- वृत्तव्यास इति । पद्मकुण्डे व्याससूत्रप्रमाणं ( २७।०।५ ) प्रागुक्तम् । तदनुसारिवृत्ते साधिते व्यासस्य तादृशवृत्तान्तर्गतभागस्य समान्वरा नवांशाः कर्तव्याः । ते च मण्डलाकाराः कार्याः । तेषु कांश्चिदुद्दिश्य मण्डलविशेषसंज्ञाकथनात् । मध्यबिन्दुमभिलक्ष्य परिब्रो यूकार्धसहिताङ्गुलत्रयात्मकव्यासयुतं प्रथमं मण्डलं साधयेत् । तत्साधनायतादृशव्यासार्धप्रमाणं सूत्रं मध्यबिन्दुमभिलक्ष्य परितो भ्रापयेत् । तत्प्रथमं मण्डलम् । ततो बहिस्तावत्येवावकाशे तद्विगुणप्रमाणं सूत्रं वर्तुलाकारं पुनर्भ्रामयेत् । तद्द्वितीयं मण्डलम् । एवं त्रिगुणेन सूत्रेण तृतीयं चतुर्गुणेन चतुर्थमित्येवं तृतीयादीनि मण्डलानि साधयेत् । प्रकृतिवृत्तरेखया च चरमया नवमं मण्डलम् । अत्रान्तरसाम्याय नवांशा उक्ताः । उपयोगस्तु द्वितीयचतुर्थाष्टमानाम् । अवशिष्टानि विलोपनीयानि । द्वितीयमण्डलस्य कर्णिकामण्डलमिति संज्ञा । मध्यविन्दुमभितो द्वितीयमण्डलपर्यन्तस्य सर्वस्य भागस्य कर्णिकात्वात् । ततो बहिश्चतुर्थमण्डलपर्यन्तस्य भागस्य केसरमण्डलमिति संज्ञा । ताव पर्यन्तं केसरदर्शनात् । अष्टममण्डलस्यान्तःपत्रक्ष्मामण्डलमिति संज्ञा । अन्तरित्यव्ययं मध्यवाचि \। पत्रक्ष्मा पत्रभूमिः । अष्टमे मण्डले हि पत्रमध्यो भवति । तावत्पर्यन्तं पत्राणि मिथः संलग्नानि । ततो बहिः पत्राणां मिथो विभागोदृश्यते । विभागे सति पत्रद्वयमध्यगतो भागो वर्तुलान्तर्गतोऽपि न पद्मकुण्डन्तर्गतः । तत्र पद्मावयवस्य कस्याप्यदर्शनात् । पत्राग्राणि च वृत्ताद्बहिः कियत्यवकाशे दृश्यन्ते । सोऽवकाश वृत्ताद्बहिरपि पद्मकुण्डान्तर्गतः । तत्र वृत्ताद्बहिः पत्राग्रस्पर्शि यद्दशमं मण्डलं तदवधिवलयमित्युच्यते ।वृत्तान्तर्गतानि च नव मण्डलानि प्रत्येकं यावताऽन्तरेण साधितानि तावतैषान्तरेणेषदधिकेन दशमं साधनीयम् । ईषदाधिक्यं च तत्र तत्त्वांशेन । तत्त्वांशः पञ्चविंशांशः । स च पञ्चविंशोंऽशः दशममण्डलव्यासस्य यावन्त्यङ्गुलानि तस्य ग्राह्यः । सतत्त्वांशेति पङ्क्तेर्विशेषणात् । पङ्क्तिर्दशमोंऽशः । दशमं मण्डलमिति यावत् । तादृशदशममण्डलव्यासस्याङ्गुलानि च सार्धयूकापञ्चकसहितानि त्रिंशत् (३०/०/५/४ ) \।

तस्य पञ्चविंशो भागः स्थूलमानेन ( १ । १ ) इति । मिलित्वा दशममण्डलव्यासः सार्धयूकापञ्चकसहितैकयवयुतैकत्रिंशदङ्गुलप्रमितः ( ३१ । १ । ५ । ४ ) साधितो भवति । ततोऽष्टममण्डलाद्बहिरष्टौ त्र्यस्राणि साधनीयानि । तथाहि – अष्टममण्डलरेखायामष्टासु दिक्षष्टौ चिह्नानि कर्तव्यानि \। चिह्नद्वयान्तर्गता रेखा बाह्यत्र्यस्त्रस्य भूमिः। त्र्यस्त्रेह्येका भूमिः । उभयतस्तःदृशभूमिसंबद्धं कर्णद्वयम् । तच्च कर्णद्वयं मिथोऽग्रेण संगतं भवति । तादृशकर्णद्वयं चात्र नवममण्डलरेखां मध्यतः कृत्वाऽवधिमण्डलरेखायामेकत्र स्वस्वाग्रेण यथा स्पृशेत्तथा साधनीयम् \। कर्णमध्यश्च नवममण्डलरेखातो बहिरर्घागुलसांमिते प्रदेशे स्यात् । एवमष्टौ त्र्यस्राणि साधनीयानि । प्रसित्र्यस्त्रंच चापचतुष्टयमित्येवं द्वात्रिंशश्चापा भवन्ति । प्रतित्र्यस्त्रंकर्णद्वयम् । प्रतिकर्णे च चापद्वयम् । चापे हि सरला ज्या । अर्धवर्तुलाकारं काष्ठं च दृश्यते । अत्र हि एकैकस्य कर्णस्य समौ द्वौ भागौ कार्यौ। तत्र प्रथमार्धमष्टममण्डलरेखास्पर्शि । द्वितीयार्धमवधिमण्डलस्पर्शि \। अर्धद्वयमपि धनुर्द्वयस्य ज्ये एव भवतः । तत्र प्रथमार्धरूपा ज्या कुण्डान्तर्गता । तदीयार्धवर्तुलाकारश्चज्यायाः सकाशाद्बहिरवधिवलगाभिमुखः कुण्डान्तर्गतश्च भवति । द्वितीयार्धरूपा ज्या तु कुण्डाद्बहिर्भूता । तदीयार्धवर्तुलाकारस्तु ज्यायाः सकाशादन्तर्नवममण्डलाभिमुखः कुण्डाद्बहिर्भूतो भवति । स चार्धवर्तुलाकार इत्यंसंपादनीयः । कर्णार्धरूपाया ज्याया अग्रद्वयं कर्णप्रमितसूत्रस्याग्रद्वयेन संगतं कार्यम् । अर्थादेव च तत्सूत्रं शिथिलं स्यात् । तच्च सूत्रं मध्यभागेनाऽऽकर्षणीयम् । आकर्षणं च प्रथमार्धेऽष्टममण्डलरेखाभिमुखम् । द्वितीयार्धेतु ततो विपरीतं दशममण्डलरेखाभिमुखम् । आकर्षणानन्तरं च ज्याग्रद्वयसंगतसूत्राग्रद्वयमध्येऽन्यतरत्किंचिदेकं ज्याग्राद्वियुक्तं कृत्वा ज्याया द्वितीयाग्रपर्यन्तं भ्रामयेत् । भ्रामणेन चार्धवर्तुलाकारःसंपद्यते । स चार्धवर्तुलाकारः प्रथमार्धेज्याया बहिः । द्वितीयार्धेज्याया अन्तः । अर्धवर्तुलाकारघटको धनुर्भागश्च प्रथमार्धे त्र्यस्राद्बर्हिर्भवति कुण्डान्तर्गतश्च भवति । द्वितीयार्धेतु तद्वैपरीत्येन त्र्यस्त्रान्तर्भवति कुण्डच्च बहिर्भवति ।

  तच्छ्रुतिदलगुणकावित्यादेरयमर्थः । तस्य त्र्यस्रस्य या श्रुतिः कर्णः, तस्य दलमर्धे, तदेव गुणो ज्या ययोस्तादृशौ चापौ । अनेन चापस्य

ज्या साधिता । द्विघ्नपौर्वीभ्रपेणेत्यनेनार्धवर्तुलाकारः साध्यते । ज्यापेक्षया द्विघ्ना द्विगुणा या मौर्वी सूत्रं तस्य च पूर्वोक्तरीत्या भ्रमः कार्यः । अन्तश्च बहिश्च ज्ये ययोस्तावन्तर्बहिर्ज्यौचापौ कुरु । हे मतिमन्ननेन प्रकारेणाष्टपत्रं पद्मकुण्डं भवतीति ॥ ७ ॥

वेदास्त्रंयोनिरर्धं वलयमनलदोर्वृत्तमङ्गास्रमब्जं

वस्वस्रं चेन्द्रदिक्तः प्रथमचरमयोरन्तराले युगास्त्रम् \।

वृत्तान्याद्यानि वा स्युर्नव विदिश ऋते पञ्च वा स्युः प्रतीच्या-

मेकं कुण्डं यदि स्यात्पुरहरदिशि वा तानि वेद्याः पदान्ते ॥८॥

  अथोक्तानां कुण्डानां दिग्भेदेन स्थानभेदं प्रदर्शयति - वेदास्त्रमिति । वेदास्रं चतुरस्रम् । योनिर्योन्याकारम् । अर्धवलयमर्धचन्द्राभम् । अनलदोस्त्र्यत्रम् \। वृत्तं वर्तुलम् । अङ्गास्त्रंषडस्रम् \। अब्जं पद्मकुण्डम् \। वस्वस्रमष्टास्रम् । इन्द्रदिक्तः - इन्द्रदिक्प्राची । तामारभ्य प्रादक्षिण्यक्रमेणैतान्यष्टविधकुण्डान्युक्तक्रमेण भवन्ति । प्राच्यां चतुरस्रम् \। आग्नेय्यां योन्याकारमित्यादि । प्रथमं प्राच्यां चतुरस्रम् \। चरममीशान्वामष्टास्रम् । तयोरन्तराले मध्ये युगास्रं चतुरस्रमेव पुनः कर्तव्यम् । एवं नवकुण्डी साधिता । अस्यां पञ्चास्रसप्तास्रयोर्नाविकाशः । अथवा नवापि कुण्डान्येकविधान्येव कर्तव्यानि । तानि च वृत्तानि वर्तुलानि वा स्युराद्यानि प्रथमोक्तचतुरस्राण्येव वा । विदिश ऋते । पञ्चकुण्डीपक्षे विदिक्स्थानि चत्वारि न कार्याणीत्यर्थः । पञ्च कुण्डानि तु यथोक्ततत्तदाकाराणि वृत्तानि चतुरस्राणि वेति त्रयः कलाः । एकं कुण्डं यदि स्यादेककुण्डीपक्षे तदेकं कुण्डं प्रतीच्यां दिशि कार्ये पुरहरदिशीशान्यां वा कार्यम्। प्रतीच्यां चेद्वृत्तं चतुरस्रं वा । ईशान्यां चेदष्टास्रं वृत्तं चतुरस्रं वा । कुण्डरचना च मण्डपान्तर्गतवेदिप्रदेशाद्बहिः पदमात्रप्रदेशं त्यक्त्वा कार्येत्यर्थः । पञ्चास्रसप्तात्रयोरुपयोगस्त्वभिचारशमे भूतोत्सादे च बोध्यः ॥ ८ ॥

खातं कुण्डाभमानं जिनलवगलतः स्युर्बहिर्मेखलास्ता

नन्दाङ्गत्र्युच्चवेदत्रिकरविततयोंऽशोचनाभिर्द्विपुष्टा ।

स्वाभा नाब्जेऽब्जभा वा वसुनवकलवव्यासदैर्घ्यातु योनिः

पश्चान्नालाग्रगा नो भग उपरि भुवाऽग्रेण कुण्डं विशन्ती॥९॥

अथ कुण्डरचनार्थंखातादि दंर्शयति—खातमिति। खातं गर्तः। जिनाश्चतुर्विंशतिः। नन्दा नव। अङ्गानि षट् \। उच्चा उन्नताः। वेदा- श्चत्वारः। करौ द्वौ। विततिरायामः। वसवोऽष्टौ। यादृशाकारं कुण्डं कर्तव्यं तादृशप्रमाणो गर्तोविधेयः। यथैकहस्ते चतुरस्रे कुण्डे चिकीर्षिते चतुरस्र एवगर्तः कर्तव्यो भवति। स चाघस्तादेकहस्तप्रमाणः। एकहस्तस्य चतुरस्रकुण्डस्य पूर्वापरायामो दक्षिणोत्तरायामश्च सम एव चतुर्विंशत्यङ्गुलात्मकः। गर्तस्तु परितश्चतसृषु दिक्षु पञ्चाङ्गुलैरधिकः। पञ्चाङ्गुलेत्युपलक्षणम्। भूमेः शैथिल्ये कुण्डस्य दाढर्यार्थमधिकस्यापि भूभागस्य खननीयत्वात्। पञ्चाङ्गुलात्मकश्चायं भागो मध्ये चतुर्विंशत्यङ्गुलं कुण्डावकाशं त्यक्त्वा तस्याभितो भित्त्याकार इष्टकाशकलादिभिर्विरचनीयः। स चैकहस्तोन्नतः। तावतोपरिभूभागः समो भवेत्। समे च भूभागे तादृशभूभागान्तर्गतश्चतसृष्वपि दिक्षु कुण्डसमीप एकाङ्गुलात्मको भागः कुण्डस्य गल इत्युच्यते। जिनलवश्चतुर्विंशतितमेंऽशएकागुलात्मकः। तद्रूपाद्गलाब्दहिर्मेखलात्रयं भवति। तत्र गलस्याभितस्तत्समीपे चतुरङ्गुलायामा नवाङ्गुलोच्चा प्रथमा मेखला। तस्याः समीपे परितस्तदपेक्षया न्यूना द्वितीया मेखला। सा च त्र्यङ्गुलायामा षडङ्गुलोच्चा। तदपेक्षयाऽपि न्यूना परितस्तत्समीपे तृतीया मेखला। सा च द्व्यङ्गुलायामा त्र्यङ्गुलोच्चा \। मेखलासूत्तरोत्तरं न्यूनत्वमौन्नत्येनाऽऽयमेन च भवति। नन्दाङ्गत्र्युच्चाश्च ता वेदत्रिकरविततयश्चेति कर्मधारयः। अंशोच्चनाभिः। कुण्डस्य तलभागे मध्ये नाभिः कार्या। सा चैकाङ्गुलोच्चा। अंश एको भागः। स चाङ्गुलात्मकः। सा च नाभिर्द्विपृष्टा। अङ्गुलद्वयेन पृष्टा। नाभिभागस्य क्षेत्रफलं द्व्यङ्गुलात्मकं यथा भवति तथा कार्येत्यर्थः। सा च स्वाभा। मनुष्येषु यथा नाभ्याकारो दृश्यते तथा तस्या आकारः कार्यः। स च गर्तरूपः। अथवाऽब्जभा \। अब्जाकारा। नाब्जे। अब्जकुण्डे तु नाभिर्न कर्तव्येत्यर्थः। तत्र मध्ये कर्णिकायाः सत्त्वात्। मेखलात्रयोपरि पश्चिमदिशि मध्यभागे योनिः कार्या \। वसवश्च नव च ये लवा अंशा अङ्गुलरूपास्तदात्मकः क्रमेण व्यासो दैर्घ्यंच यस्यास्तादृशी। योनेर्दक्षिणोत्तरव्या-सोऽष्टाङ्गुल संमितः। प्राक्पश्चिमदैर्घ्यं च नवाङ्गुलात्मकमित्यर्थः। पश्चान्नाला। योनेर्नालं सच्छिद्रं पश्चात्कर्तव्यम्।

नो भगे। योनिकुण्डे पुनरन्या मेखलोपरि योनिर्न कर्तव्या। मेखलो -

परिभुवा स्वाग्रेण कुण्डं प्रविशन्ती योनिः कार्या। प्राकूपवणेत्यर्थः ॥ ९ ॥

पङ्क्त्यर्कैरर्कशक्रैर्नृपतिधृतिकरैर्मण्डपोऽल्पः स सोऽम्य-

स्तुल्याम्भोदोष्णि खण्डा इह नव सुसमा मध्यमो वेदिरेषाम्।

हस्तोच्चा खण्डकोष्विभकरमुदरे पञ्चहस्तं बहिश्च

स्तम्भौघं द्वष्टसंख्यं भुवि शरलवतः खेयमन्यत्र चैवम् ॥ १० ॥

अथ मण्डपं दर्शयति- पङ्क्त्यर्कैरिति। पङ्क्तिर्दश। अर्का द्वादश। दशहस्तप्रमाणे द्वादशहस्तप्रमाणे वा समचतुरस्रे भूभागेतावान्मण्डपश्चेत्सोऽल्पः। अर्का द्वादश। शक्राश्चतुर्दश। द्वादशहस्तप्रमाणे चतुर्दशहस्तप्रमाणे वा समचतुरस्रेभूभागे तावान्मण्डपश्चेत्सोऽल्पापेक्षयाऽग्रयः श्रेष्ठः। मध्यम इत्यर्थः। तदपेक्षयाऽप्यग्रयः श्रेष्ठो मण्डपो नृपतिधृति-करैर्भवति। नृपतयः षोडश। धृतिरष्टादश। षोडशहस्तात्मकेऽष्टादशहस्तात्मके वा समचतुरस्त्रे भूभागे तावान्मण्डपश्चेत्स उत्तमः। स सोऽग्र्यइत्यत्र समोऽग्र्यइति पाठे मध्यमस्य सम इति संज्ञा। तुल्याः समा अम्भोदोषश्चतुर्बाहवो यत्र तादृशे। समचतुरस्र इति यावत्। तादृशे भूभागे सुसमा नव खण्डाः कार्याः। सुष्ट समाः सुसमाः। साभ्यं चाऽऽकारेण। तच्च नवानां खण्डानां मिथो ग्राह्यम्। प्रतियोगित्वेनान्यस्यानुपस्थानात्। तेषु समेषु खण्डेषु सौष्ठवं च मण्डपभूभागवत्समचतुरस्रत्वेन। तेन दीर्घचतुरस्रः समा भागा न कर्तव्या भवन्ति। किंतु समचतुरस्रा एव। तथाहि—द्वादशहस्तो मण्डपश्चेत्तत्र दक्षिणतश्चतुर्हस्तं भूभागं त्यक्त्वा प्राकपश्चिमतो रेखा देया। पुनश्चतुर्हस्तं भूभागं त्यक्त्वा तथैव द्वितीया रेखा देया। एवं मध्ये रेखाद्वयदानेन भागत्रयं भवति। पुनश्च दक्षिणोत्तरं तथैव रेखाद्वयं देयम्। तथा सति प्रतिभागं पुनः प्रत्येकं भागत्रयमित्येवं नव खण्डाः समा भवन्ति। तेषु मध्यमो खण्डो वेदिरित्युच्यते। तत्र कुण्डं नास्ति। नवकुण्डीपक्षेऽपि मध्यखण्डं वेदिरूपं विहाय परितोऽष्टसु खण्डेष्वेकैकं कुण्डं प्रागीशानखण्डयोः संधौ च नवमं भवति। अत्र द्वादशहस्तस्य मण्डपस्याल्पत्वं मध्यमत्वं चोक्तम्। तत्फलं चाग्रे द्वादशश्लोके येऽल्पस्य मध्यमस्य च मण्डपस्य धर्मावक्ष्यन्ते तेषामुभयेषामपि द्वादशहस्ते प्राप्तिर्भवति। तथा सति तत्र यजमानेन यथारुचि कर्तव्यमिति। हस्तोच्चा \। मध्यगता वेदिश्च परितो यत्खण्डाष्टकं तदपेक्षयैकहस्तप्रमाणेनोन्नता। अत्र मण्डपार्थंषोडश स्तम्भा निखेया भवन्ति। तदुक्तं स्तम्भौघं द्व्यष्टसंख्यमिति। तत्रोदरे मण्डपमध्ये खण्डकोणेषु वैदिकोणचतुष्टये स्तम्भचतुष्टयमिभकर-मष्टहस्तप्रमाणम् \। बहिश्च स्तम्भद्वादशकं पञ्चहस्तप्रमाणम्। एतच्च यत्स्तम्भप्रमाणं दर्शितं तच्चूडाव्यतिरिक्तस्य। स्तम्भाग्रे चूडा तूक्तप्रमाणातिरिक्ता वलिकानुसारेणोन्नता कार्या। तत्र बाह्येषु द्वादशस्तम्भेषु प्रतिस्तम्भचूडं वलिकात्रयं निवेश्यते। आन्तरेषु चतुर्षु स्तम्भेषु प्रतिस्तम्भचूडं वलिकाषट्कं निवेश्यते। यद्यपि स्तम्भानां वलिकानां च स्थौल्यस्य प्रमाणमत्र न प्रदर्शितं तथाऽपि तन्मण्डपदाढर्यानुसारेण स्वयमूहनीयम्। तथा च वलिकाप्रान्ते छिद्रस्थले वलिकास्थौल्यं द्व्यङ्गुलं त्र्यङ्गुलं वा स्यात्। तत्र द्व्यङ्गुलप्रमाणसत्त्वेवलिकात्रयनिवेशस्थले स्तम्भचूडोन्नतिः षडङ्गुलाऽवश्यमपेक्ष्यते। वलिकाषट्कनिवेशस्थले तु द्वादशाङ्गुलाऽपेक्ष्यते। वलिकास्थौल्यस्य न्यूनाधिकत्वे तु तदनुसारेण चूडोन्नतेरावश्यकत्वं कल्पनीयम्। शरलवः पञ्चमोंऽशः। सर्वे स्तम्भवृन्दं भुवि स्वकीयपञ्चमांशेन निखेयं भवति। अन्यत्र चैत्रम् \। द्वादशश्लोके वक्ष्यमाणं शङ्खचक्रशूलादिकं यद्यत्र निवेश्यतयोक्तं तत्तत्र स्वकीयपञ्चमांशेन निवेश्यं भवतीत्यर्थः ॥ १० ॥

द्वात्रिंशत्स्तम्भचूडास्ववनय वलिकास्ता जिनाः खण्डबाहु-

ष्वष्टौ स्युर्मण्डपस्य श्रुतिषुं सशिखरो मध्यभागोऽस्य यस्मात्।

दिक्षु द्वारो द्विहस्ता उपरि चतुरिभैरङ्गुलैरेधिताः स्यू

रम्श्रास्तम्श्रध्वजाद्यैः कटपिहितममुं शोश्रयाम्श्रोघटाद्यैः ॥ ११ ॥

अथ स्तम्भोच्छ्रायानन्तरं कर्तव्यमाह – द्वात्रिंशदिति। स्तम्भचूडा स्तम्भाग्रम् \। तक्षणेन तनूकृतम् \। ‘कुसू’ इति प्रसिद्धम्। वलिका। स्तम्भद्वयोपरि दीयमानः काष्ठखण्डविशेषः ‘पखाडी’ इति प्रसिद्धः। ताश्चवलिका द्वात्रिंशत्। तत्राष्टाविंशतिर्वलिका उभयतः सच्छिद्राः। चतस्रश्चवलिका एकतः सच्छिद्राः, अपराग्रे स्तम्भवत्कृतचूडास्तनूकृताग्राः। उभयतः सच्छिद्रायां वलिकायामेकस्मिंश्छिद्र एकस्तम्भाग्रंप्रवेश्यापरच्छिद्रे द्वितीयस्तम्भाग्रंप्रवेशनीयम्। एवमेकैकया वलिकया स्तम्भद्वयं ग्रन्थनीयम्। तथा च चत्वारो वेदिकोणस्तम्भाश्चतसृभिर्वलि काभिर्ग्रथिता भवन्ति। बाह्या द्वादश स्तम्भाश्चद्वादशभिर्वलिकाभिर्ग्रथिता भवन्ति। एताः षोडश बलिकाः साम्येनावस्थिता भवन्ति। एकस्या वलिकाया अग्रद्वयमध्य ऊर्ध्वाधरभावाभावः साम्यम्। अपराश्चषोडश वलिकास्तथाऽवस्थिता भवन्ति यथैकमग्रं न्यग्भूतमपरमुन्नतम् \। तत्र द्वादशभिर्वलिकाभिः प्रत्येकं यत्स्तम्भद्वयं ग्रथ्यते तत्र द्वय एको वेदिकोणस्तम्भोऽष्टहस्तोन्नतोऽपरश्च बाह्यस्तम्भः पञ्चहस्तोन्नतः। चतुर्षु वेदिकोणस्तम्भेष्वेकैकस्मिन्वेदिकोणस्तम्भे तत्समीपवर्ति बाह्यस्तम्भत्रयं वलिकात्रयेण ग्रथितं भवति। एवमष्टाविंशतिर्वलिका उपयुक्ताः \। अवशिष्टाश्चतस्रः। ताश्चैकतः सच्छिद्रा अपरत्र तनूकृताग्राः। तत्रच्छिद्रे वेदिकोणस्तम्भाग्रं प्रवेशनीयम्। अपरं च यत्तनूकृतं वलिकाग्रं तदीषदुन्नतं कृत्वा गडुच्छिद्रे प्रवेशनीयम्। गडुर्हि कुम्भाकारः सशिखरश्चतसृषु विदिक्षु कृतच्छिद्रचतुष्टयः। स च स्वप्रविष्टवलिकाग्रचतुष्टयमवलम्ब्यैवोर्ध्वमवस्थितो भवति।
अथ श्लोकार्थः—स्तम्भचूडासु षोडशस्तम्भाग्रेषु द्वात्रिंशद्वलिका अवनय संगमय। ता बलिकाः खण्डबाहुषु जिनाश्चतुर्विंशतिसंख्याका भवन्ति। खण्डानां समचतुरस्राणां नवानां खण्डानां बाहवः प्रत्येकं चत्वारो भुजाः। यद्यपि तेषां संख्या षट्त्रिंशद्भवेत्तथाऽपि खण्डद्वय मध्यगतो भुज एक एव द्वयोरपि मर्यादां प्रदर्शयति। एतादृशाश्च खण्डनवकमध्ये द्वादश भुजाः। वेदिव्यतिरिक्तस्य खण्डाष्टकस्य बाह्यमर्यादादर्शका बाह्या द्वादश भुजा इत्येवं चतुर्विंशतिरेव। मण्डपस्य श्रुतिषु कर्णेष्वष्टौवलिकाः स्युः। मण्डपस्य बाह्यं विदिक्कोणमारभ्य मण्डपमध्यपर्यन्तं रेखा कर्ण इत्युच्यते। ते च कर्णाश्चत्वारः। प्रतिकर्णे वलिकाद्वयम्। बाह्यस्तम्भमारभ्याऽऽन्तरस्तम्भपर्यन्तमेका। आन्तरस्तम्भमारभ्य मध्य गडुपर्यन्तं द्वितीया। यस्मात्सशिखरः शिखरसहितो मध्यभागः कर्तव्यो भवत्यतस्तावत्पर्यन्तं वलिका अपेक्ष्यन्ते। दिक्षु चतसृषु दिक्षु चतस्रो द्वारो द्विहस्ताः कार्याः। प्रतिदिशमेकैकं द्वारमित्यर्थः। तच्चाल्पे मण्डपे द्विहस्तायामम्। मध्यमे मण्डपे चतुर्भिरङ्गुलैरेधितव्यम्। उत्तमे मण्डपेऽष्टभिरङ्गुलैरेधितव्यम्। मध्यमे मण्डपे द्वारस्याऽऽयामोऽङ्गुलच-तुष्टयाधिकहस्तद्वयसंमितः। उत्तमेऽङ्गुलाष्टकसहितहस्तद्वयसंमितः। उन्नतिस्तु द्वारस्य वलिकापर्यन्तैव। इयं च वलिका मण्डपबलिकातो भिन्ना मण्डपवलिकाया अधस्तान्मडपवलिकासंयुक्तैव देया। न चैतत्परिमाणं द्वारस्य यदुक्तं तद्द्वारोन्नतेः कुतो न स्यादिति वाच्यम्। अल्पसमाग्र्य- भेदेन त्रिविधेऽपि मण्डपे मण्डपोन्नतिरेकविधैवेति तत्र द्वारोन्नतेर्मण्डपभेदेन त्रिविधत्वस्यानुचितत्वात्। मण्डपस्याऽऽयामस्तु मण्डपभेदेन त्रिविध भवतीति तदनुसारेण द्वारायामस्य त्रैविध्यं वक्तुमुचितमिति बोध्यम्। अमुं मण्डपं कटेन पिहितमाच्छादितं रम्भास्तम्भध्वजाद्यैरम्भोघटाद्यैश्चशोभय। द्वारस्तम्भेषु रम्भा ध्वजादयश्च संयोजनीयाः। तेन बाह्यशोभा संपद्यते। अम्भोघटा उदकपूर्णघटाः। तदाद्यैर्मङ्गलवस्तुभिरान्तरशोभा संपादनीयेत्यर्थः।
अत्रेदं बोध्यम्। द्वात्रिंशद्वलिकासु काश्चित्कोटिद्वये वैषम्येणावस्थिता भवन्ति। एका कोटिरुन्नताऽपरा न्यग्भूता यासां ता विषमा इत्युच्यन्ते। अन्याः समाः I तथा यासां वलिकानां कोटिद्वयं विदिक्कोणे भवति तावत्र्काइत्युच्यन्ते। अन्याः सरलाः। तत्र समाः षोडश विषमाश्च षोडश। सरलाचतुर्विंशतिर्वक्रा अष्टौ। उभयतश्छिद्रा अष्टाविंशतिः। एकतश्छिद्रा अन्यतस्तनूकृताग्राश्चतस्रः।
अथ तासां प्रमाणमुच्यते। उभयतश्छिद्राः सरलाः सनाश्च याः षोडश वलिकारताः खण्डप्रमाणाः। उदाहरणार्थं द्वादशहस्तो मण्डपो ग्राह्यः। तत्र इस्तचतुष्टयप्रमाणाः। छिद्रद्वयान्तरप्रमाणमेतत्। याश्चोभयतश्छिद्राः सरला विषमा अष्टौ वलिकास्ताः सप्तयवाधिकपञ्चदशाङ्गुलयुतहस्तचतुष्टय संमिताः। याश्चोभयतश्छिद्रा वक्रा विषमाश्च चतस्रो वलिकास्ता यवत्रयसहिताङ्गुलत्रययुतहस्तषट्कसंमिताः। यास्त्वेकतश्छिद्रा वक्रा विषमाश्च शिखरगडुप्रविष्टाश्चतस्रो वलिकास्ता यवपञ्चकसहितैकाङ्गुलयुतस्तत्रयप्रमाणा भवन्ति ॥ ११ ॥

हस्तान्ते तोरणोऽस्मादिषुषडगकरोऽश्वत्थजोदुम्बरोत्थ-

प्लक्षन्यग्रोधजः प्राक्प्रभृतिषु फलकाः स्वार्धतो मूर्ध्नि तस्य।

तन्मध्ये विष्णुयागे दशरविमनुभिश्चाङ्गुलैः स्वाङ्घ्रिपुष्टं

शङ्खं चक्रं गदाब्जं भवति शिवमखे शूलमेकाङ्गुलोनम् ॥ १२ ॥

मण्डपस्य बाह्याङ्गान्याह—हस्तान्त इति। तोरणो बहिर्द्वारम्। इषवः पञ्च। अगाः सप्त। अस्मान्मण्डपाद्बद्दिर्हस्तप्रमिते देशे प्रतिदिशमेकं बहिर्द्वारंकर्तव्यम्। तस्योन्नतिप्रमाणमल्येमण्डपे पञ्चहस्तम्। मध्यमे षड्ढ-स्तम्। उत्तमे सप्तहस्तम्। एतत्प्रमाणं स्तम्भद्वययुतं द्वारं कार्यम्। स्तम्भद्वयं च प्राच्यामश्वत्थवृक्षस्य। ततः प्रादक्षिण्येन दक्षिणस्यामुदुम्बरस्य। प्रतीच्यां प्लक्षस्य। उदीच्यां न्यग्रोधस्य। स्तम्भप्रमाणस्य यदर्धंतत्प्रमाणाः फलका बलिका देयाः। एतेन बहिर्द्वारस्याऽऽयामप्रमाणं दर्शितम्। फलकश्च स्तम्भो यस्य वृक्षस्य यत्र स्थापितस्तत्र तस्यैव वृक्षस्य कार्यः। तत्र विष्णुदेवताको यागः कर्तव्यश्चेत्तादृशफलकमध्ये प्राच्यां शङ्खो- दक्षिणस्यां चक्रं पश्चिमायां गदोत्तरस्यां पद्मं च निवेश्यम्। शङ्खादीनां परिमाणं चाल्पे मण्डपे दशाङ्गुलसंमितम्। मध्यमे मण्डपे द्वादशाङ्गुलसंमितम्। उत्तमे मण्डपे चतुर्दशाङ्गुलसंमितम्। तच्च शङ्खादिकं स्वाङ्घ्रिपुष्टम्। स्वाङ्घ्रिः स्वचतुर्थांशः। तेन पुष्टम् \। यदि शङ्खादयो दशाङ्गुलविस्तारास्तर्हि तेषां स्थौल्यं सार्घद्व्यङ्गुलसंमितमित्यादि बोध्यम्। शिवदेवताके यागे तु चतसृष्वपि दिक्षु बहिर्द्वारफलके शूलमेव निवेशनीयम्। शूलपरिमाणं शङ्खाद्यपेक्षयैकेनाङ्गुलेनोनं भवति। अल्पे मण्डपे नवाङ्गुलः शूलः। सपादद्व्यङ्गुलं स्थौल्यम्। मध्यमे मण्डप एकादशाङ्गुलः शूलः। पादोनत्र्यङ्गुलं स्थौल्यम्। उत्तमे मण्डपे त्रयोदशाङ्गुलः शूलः। सपादत्र्यङ्गुलात्मकं स्थौल्यं भवतीत्यर्थः ॥ १२ ॥

वृत्तेऽब्जेऽब्धीष्विभागैरयुतगुणफलाल्लब्धमूलेन वृत्त-

व्यासो योनौ तुसार्धत्रिनवकररसैः सार्धसप्ताब्धिदन्तैः।

खाभाभार्थैः सहाङ्घ्रिश्रुतिकनवशरैर्घीनवाम्भोरसैश्च

क्ष्मावार्धीभर्तुभिर्भूनमगगननगैश्चक्रमात्त्र्यादिदोः षु ॥ १३ ॥

अथ वृत्तानयनप्रकारं प्रदर्शयति—वृत्तेऽब्ज इति। स्वाभिमतं क्षेत्रफलं किंचिद्धृत्वा तत्क्षेत्रफलं यावति वृत्ते भवति तावतो वृत्तस्य व्यासः कियान् स इदानीमुच्यते। वृत्तेऽब्जे चैकहस्ते कुण्डे ५७६ क्षेत्रफलमभिमतम्। तदयुतगुणं कर्तव्यम्। तथा सति ५७६०००० एतावज्जातम्। तच्चाब्धीष्विभागै ७८५४ र्भाज्यम्। तत्र भागः ७३३ तस्य मूलं २७। ०। ६। एतावांस्तत्र व्यासः। एतद्व्याससूत्रं गृहीत्वा तदर्धेन सूत्रेण शङ्कोराभितो भ्रामणे स्वाभिमतक्षेत्रफलकंवृत्तं भवति। तदिदमुक्तं ‘वृत्तेऽब्जेऽब्धीष्विभागैरयुतगुणफलाल्लब्धमूलेन वृत्तव्यासः’इत्यनेन। अब्जे पद्मकुण्डे। अब्धयश्चत्वारः। इषवः पञ्च। इभा अष्टौ। अगाः सप्त। तष्टादित्यध्याहारः। अयुतेन दशसहस्रेण गुणितं यदिष्टं क्षेत्रफलं तच्चाब्धीष्विभागै ७८५४ स्तष्टं कार्यम्। तस्माद्यल्लब्धं यो भागो लब्धस्तस्य यद्वर्गमूलं तद्द्वृत्तव्याससूत्रपरिमाणं भवति। पद्मकुण्डे चेदमेव व्याससूत्रम्। तत्र यद्यपि वृत्तं नवमण्डलात्मकमिति तस्माब्दहिर्भूतो दशममण्डलान्तर्गतः पत्राग्रभागः कुण्डान्तर्गतो भवति तथाऽपि तावानेव भागः पत्रसमीपस्थो नवममण्डलान्तर्गतः कुण्डाद्बहिर्भवतीति क्षेत्रफलं नाधिकं भवति। अनयैव दिशा यद्यत्क्षेत्रफलं स्वाभीष्टं वर्तुलेन साधनीयं भवति तत्कियदप्यस्तु तद्दशसहस्रेण गुणितं कृत्वाऽब्जीष्विभागैः (७८५४) प्रतक्ष्य च लब्धस्य भागस्य यन्मूलं तमेव वृत्तव्यासमभिलक्ष्य तदर्धेन वर्तुलं निष्काश्यते चेत्तद्वर्तुलं स्वाभीष्टक्षेत्रफलकं भवेदेव। अयं च क्षेत्रफलाद्वृत्तव्यासा- नयनप्रकारः। यदि चवृत्तव्यासं यं कंचिन्मनसिकृत्वा तस्मिन्वर्तुले- कियत्क्षेत्रफलं स्यादिति जिज्ञासा भवति तदा वृत्तव्यासात्क्षेत्रफलानयनप्रकारः पूर्वविलोमेन बोध्यः। स यथा—व्यासवर्गमब्धीष्वि-भागै( ७८५४ ) र्गुणितं कृत्वा दशसहस्रेण प्रतक्ष्य यो भागो लभ्यते तदेव क्षेत्रफलं भवेत्। यदि चोक्तगुणका ( ७८५४ )र्धेनभनवाग्निना (३९२७) गुणितं क्रियते तदा भागोऽप्युक्तभाजका (१००००) र्धेन पञ्चसहस्रेण (५०००) कार्यः। क्षेत्रफलं च तदेव भवेत्। तदुक्तं ‘व्यासस्य वर्गे भनवाग्नि (३९२७) निघ्ने सूक्ष्मं फलं पञ्चसहस्त्र १००० भक्ते’इति।
अर्धचन्द्राकारकुण्डे स्वाभीष्टात्क्षेत्रफलाद्वृत्तानयनप्रकारस्तु वर्तुलकुण्डवदेव भाजकव्यतिरिक्तः सर्वः। भाजकं तु तदर्धंकल्पनीयमित्येवं सुविज्ञेयो भवति। अतोऽत्र मूले स न प्रदर्शितः। उदाहरणं यथा—स्वाभीष्टं क्षेत्रफलमेकहस्तकुण्डे ५७६ तद्दशसहस्रगुणितं ५९६०००० एतत्पूर्वोक्तभाजकस्य ७८५४ अर्धेन ३९२७ प्रतक्ष्य यो भागो लभ्यते १४६६। ६ अस्य यन्मूलं ३८\।२।३ अयमेवार्धचन्द्रकुण्डे वृत्तव्यासः पूर्वमुक्तः। एतत्प्रातिलोम्येनार्धवर्तुलव्यासात्क्षेत्रफलानयनप्रकारो बोध्यः। स यथा—अत्रैवार्धचन्द्रकुण्डव्यासः ३८ \। २। ३ तस्य वर्गः १४६६।६ स आनुलोम्ये या भाजकसंख्या ३९२७ तयाऽत्र गुण्यः। गुणा- कारश्च ५७५९९२७। २। अयं च दशसहस्रेण तष्टश्चेत्५७६ भवति। एवमेवाग्रेऽनुसंधेयम् \।
अथ वृत्तव्यासमभिलक्ष्य तस्मात्क्षेत्रफलसाधने प्रकारान्तरमुच्यते। प्रथमतो वृत्तव्यासाद्वृत्तं (परिधिः) साधनीयम्। परिधेश्चसकाशात्क्षेत्रफलं साधनीयम्। व्यासात्परिधिसाधनं च प्रकारत्र - येण भवति। व्यासस्य भनन्दाग्निना ३९२७ गुणने खबाणसूर्यै- १२५० स्तक्षणे च यो भागः स परिधिः। अयं सूक्ष्मः प्रकारः। व्यासस्य द्वाविंशत्या २२ गुणने नगै ७ स्तक्षणे च यो भागः स परिधिः। व्यासस्य सप्तमांशेन युतं व्यासत्रैगुण्यं परिधिमानम्। एतच्च प्रकारद्वयं स्थूलम्। एवं परिधिं प्रसाध्य तेन व्यासपादस्य गुणने यो गुणाकारो भवति तत्क्षेत्रफलम्। यथैकहस्ते वृत्तकुण्डे वृत्तव्यासः प्रागुक्तः ( २७ \। ० \। ५ )। तत्र परिधिरुक्तप्रकारत्रयेणेषदधि कपञ्चाशीत्यङ्गुलसंमितः (८५ \। ० \। ६ \। ४) \। व्यासपादश्च (६। ६। १। २)। तेन गुणने (५७६) संख्या भवति। एतदेव क्षेत्रफलम्।
अथ योनिकुण्डे क्षेत्रफलाद्व्यासानयनप्रकारं दर्शयति— योनौ तु सार्धत्रिनवकररसैरित्यनेन। योनिकुण्डे वलयव्यासः (३०। २) सपादत्रिंशदङ्गुलात्मकः पूर्वमुक्तः। स च क्षेत्रफलादित्थमानेयः। एकहस्ते योनिकुण्डे क्षेत्रफलं (५७६ ) । तच्च पूर्ववद्दशसहस्रगुणितं (५७६००००) एतत्परिमितं संपन्नम्। तच्चात्र सार्धत्रिनवकररसै- (६२९३ \। ४) र्भाज्यम्। करौ द्वौ। रसाः षट्। भागश्च (९१५) लब्धः। तस्य मूलं (३०। २) यत्स एवात्र वृत्तव्यासः। अथात्र योनिकुण्डे क्षेत्रफलं (५७६) कथं भवति तत्प्रदर्श्यते— योनिकुण्डे हि त्र्यस्रद्वयमर्धवर्तुलद्वयं च भवति। त्र्यस्रंचैकं पूर्वाग्रं समत्र्यस्रम्। अपरं पश्चिमाग्रं विषमत्र्यस्रम्। तत्रापि बाहुद्वयं सममेव। केवलं भूमिस्तदधिकेति विषममुच्यते। उभयोरपि त्र्यस्रयोः कोणत्रयं वर्तुलरेखास्पार्शिभवति। तयोश्च द्वयोस्त्र्यस्रयोः क्षेत्रफलं पृथक्प्रसाध्य पश्चात्तस्य मेलनं कर्तव्यम्। तदपेक्षयाऽत्र द्वयोस्त्र्यस्रयोर्मिलित्वैकदैव क्षेत्रफलं साधयितुं शक्यते। त्र्यस्रेहि लम्बगुणं भूम्यर्धेस्पष्टं त्रिभुजे फलं भवतीति न्यायः। अत्र च द्वयोस्त्र्यस्रयोर्भूभिरेकैव। लम्बश्च द्वयोस्त्र्यस्रयोर्मिलित्वैको भवति। स च प्राक्सूत्रात्मकः। प्राक्सूत्रं च वृत्तव्यास एवेति तस्य परिमाणं ज्ञातमेव सपादत्रिंशदङ्गुलात्मकम् (३०।२)। तेन च भूम्यर्धस्य गुणनं कर्तव्यम्। समत्र्यस्रेच भुजपरिमाणमेव भूमिपरिमाणम्। भुजपरिमाणं च व्यासवर्गस्य पादोनस्य मूलम्। अत्र च व्यासस्य ३०।२ वर्गः ९१५/०/४ स च पादोनः ६८६। २ तस्य मूलम् २६। १। ४ इदं भूमिपरिमाणम्। एतदर्धं१३\।०\। ६ लम्बेन ३०।२ गुणितं ३९६। ४ भवति। एतदेव च त्र्यस्रद्वयस्य मिलित्वा फलं साधितं भवति। अथ योनिकुण्डान्तर्गतार्धवर्तुलद्वयस्य फलं साघनीयम्। एकस्य वर्तुलस्य यत्फलं तदेवार्धवर्तुलद्वयस्य। वर्तुले क्षेत्रफलं च परिधिगुणितव्यासपादात्मकम्। अत्र व्यासः १५। १ परिधिश्चत्रिगुणो व्यासो व्यास सप्तमांशयुतश्च। स चात्र ४७। ४ परिधिगुणितो व्या- सश्च७१८ तस्य पादः १७९। ४ इदं वर्तुलफलं तदेवार्धवर्तुलद्वयस्य। तदिदं १७९। ४ पूर्वसाधितेन त्र्यस्रद्वयफलेन ३९६। ४ मिलितं सत् ५७६ योनिकुण्डक्षेत्रफलं संपद्यते। एवं द्विहस्तयोनिकु- ण्डादौ फलमुन्नेयम्।
अथैतत्प्रातिलोम्येन वृत्तव्यासाद्योनिकुण्डक्षेत्रफलानयनप्रकारः प्रदर्श्यते-वृत्तव्यासः ३०।२ तस्य वर्गः ९१५। ०। ४ स चाऽऽनुलोम्ये यद्भाजकमुक्तं तेनात्र गुणितः कार्यः। तच्च भाजकं ६२९३ \। ४ तेन व्यासवर्गस्य ९१५\।०\।४ गुणने गुणाकारः ५७९८९४५\।६।६ संपद्यते। तस्य चाऽऽनुलोम्योक्तेन गुणकेन १०००० अत्र तक्षणे ५७६ भवति। एवमग्रेऽपि त्र्यस्रकुण्डादौ यत्र यथा क्षेत्रफलाद्वृत्तव्यासानयनप्रकार उक्तस्तत्र तत्प्रातिलोम्येन वृत्तव्यासात्क्षेत्रफलमानेयम्। आनुलोम्ये यो गुणकोऽङ्कः स प्रातिलोम्ये भाजकः। यश्चाऽऽनुलोम्ये भाज़कः स प्रातिलोम्ये गुणकः। यत्र चाऽऽनुलोम्ये मूलकरणं तत्र प्रातिलोम्ये वर्गकरणम्। यश्चाऽऽनुलोम्ये क्रमः स प्रातिलोम्ये विपरीतः। एतदेव प्रातिलोम्यम्। तद्यथा—क्षेत्रफलस्य गुणने गुणितस्य तक्षणे तष्टस्य मूलकरणे यन्मूलं स एव वृत्तव्यासः। वृत्तव्यासस्य वर्गकरणे वर्गस्य गुणने गुणितस्य तक्षणे यो भागस्तदेव क्षेत्रफलमिति।
इदं चात्र बोध्यम्। वृत्ताब्जार्धचन्द्रयोनित्र्यस्रचतुरस्रपञ्चास्रषडस्रसप्तास्राष्टास्रेषु दशविधेष्वपि कुण्डेषु क्षेत्रफलाद्वृत्तव्यासानयनप्रकारः सर्वत्र सम एव।केवलं भाजकाङ्कोभिन्नः। स चात्र श्लोके पृथङ्निर्दिष्ट इति।
अथ त्र्यस्रकुण्डे क्षेत्रफल\।द्वृत्तव्यासानयनप्रकारे भाजकमङ्कं दर्शयति—सार्धसप्ताब्धिदन्तौरिति। अब्धयश्चत्वारः। दन्ता द्वात्रिंशत्। एकहस्ते त्र्यस्रकुण्डे वलयव्यासः पूर्वमुक्तः ४२।१ स च क्षेत्रफलादित्थमानेयः। एकहस्ते त्र्यस्रकुण्डे क्षेत्रफलं ५७६ तच्च पूर्ववद्दशसहस्रगुणितं ५७६००००। तच्च सार्धसप्ताब्धिदन्तै ३२४७। ४ र्भाज्यम्। भागश्च यो लब्धः १७७४ तस्य मूलं ४२। १ इदमेव पूर्वमुक्तं वृत्तव्यासमानम्।
एतद्वैपरीत्येन वृत्तव्यासात्क्षेत्रफलानयनं यथा—वृत्तव्यासः ४२। १ तस्य वर्ग : १७७४।४।१ तस्य सार्घसप्ताब्धिदन्तै३२४७।४ र्गुणनम्। गुणितस्य ५७६२७३९।३।७ दशसहस्रेण भाजनेस्थूलमानेन भागः ५७६ इदमेव क्षेत्रफलम्।
अथात्र त्र्यस्रकुण्डे क्षेत्रफलं ५७६ कथं भवति तत्प्रदर्श्यते—लम्ब गुणं भूम्यर्धे स्पष्टं त्रिभुजे फलं भवतीति न्यायः। समत्र्यस्रेत्रयाणां भुजानां समत्वाद्भुजपरिमाणमेव भूमिपरिमाणम्। भुजपरिमाणं च वृत्तव्यासवर्गस्य पादोनस्य मूलम् \। वृत्तव्यासः ४२। १ तस्य वर्गः १७७४। ४। १ स च चतुर्थोशहीनः १३३१ तस्य मूलं स्थूलमानेन ३६। ४ एतद्भूमिपरिमाणम्। अस्यार्धे१८/२ इदं लम्बेन गुणितं क- र्तव्यम् \। लम्बपरिमाणं च भुजवर्गपादोनमूलम्। अत्र भुजः ३६। ४ तस्य वर्गः १३३१ स च पादोनः ९९८ तस्य मूलं ३१।४ इदं लम्बपरिमाणम्। अनेन लम्बेन ३१। ४ भूम्यर्धस्य १८। २ गुणने स्थूलमानेन ५७६ भवति। इदमेव क्षेत्रफलम्।
अथ चतुरस्रकुण्डे क्षेत्रफलाद्वृत्तव्यासानयनप्रकारे भाजकमङ्कंदर्शयति– खाभ्राभ्रार्थैरिति। खं शून्यम्। अभ्रं शून्यम्। अर्थाः पञ्च। एकहस्ते चतुरस्रकुण्डे वलयव्यासः ३३।७। ४ पूर्वमुक्तःस च क्षेत्रफलादित्थमानेयः। एकहस्ते चतुरस्रकुण्डे क्षेत्रफलं ५७६ तच्च पूर्ववद्दशसहस्रगुणितं ५७६०००० तच्च खाभ्राभ्रार्थै ५००० र्भाज्यम्। भागश्च यो लब्धः १९५२ तस्य मूलं ३३। ७। ४ अयमेव वृत्तव्यासः। एतद्वैपरीत्येन वृत्तव्यासात्क्षेत्रफलानयनं यथा— वृत्तव्यासः ३३। ७। ४ तस्य वर्गः ११५२ तस्य खाभ्राभ्रार्थै ५००० र्गुणनम्। गुणितस्य ५७६०००० दशसहस्रेण भाजने भागः ५७६ इदमेव क्षेत्रफलम् \।
अथात्र चतुरस्रकुण्डे ५७६ क्षेत्रफलं कथं भवति तत्प्रदर्श्यते—समचतुरस्रे हि भुजस्य भुजेन गुणने क्षेत्रफलं लभ्यते। भुजपरिमाणं च वृत्तव्यासवर्गार्धमूलम्। वृत्तव्यासः ३३। ७। ४ तस्य वर्गः ११५२ तदर्धे५७६ तस्य मूलं २४ एतद्भुजपरिमाणम्। तस्य २४ तेनैव २४ गुणने ५७६ क्षेत्रफलं भवति।
अथ पञ्चास्रकुण्डे क्षेत्रफलाद्वृत्तव्यासानयनप्रकारे भाजकमङ्कं दर्शयति — सहाङ्घ्रिश्रुतिकनवशरैरिति। अङ्घ्रिः पादः। श्रुतयश्चतस्रः। कशब्देन चत्वारः। शराः पञ्च। तथा चायं ५९४४।२ भाजकोऽङ्कः। एकहस्ते पञ्चास्रकुण्डे वृत्तव्यासः ३१।१ पूर्वमुक्तः। स च क्षेत्रफलादित्थमानेयः। एकहस्ते पञ्चास्रकुण्डे क्षेत्रफलं ५७६ तच्च पूर्ववद्दशसहस्रगुणितं ५७६०००० तच्च सपादश्रुतिकनवशरै ५९४४।२ र्भाज्यम्। भागश्च यो लब्धः ९६९ ईषदधिकः तस्य मूलं ३१। १। १ इदमेव वृत्तव्यासमानम्। एतद्वैपरीत्येन वृत्तव्यासात्क्षेत्रफलानयनं यथा— वृत्तव्यासः ३१। १। १। तस्य वर्गः ९६९ तस्य सहाङ्घ्रिश्रुतिकनवशरै ५९४४। २ र्गुणनम्। गुणितस्य ५७६०००० दशसहस्रेण भाजने ५७६ भागः संपद्यते। इदमेव क्षेत्रफलम्।
अत्र च पञ्चास्रकुण्डे क्षेत्रफलं ५७६ कथं भवति तदुच्यते- पञ्चास्रकुण्डे हि पञ्च त्र्यस्रणि केन्द्रमभिलक्ष्य भवन्ति। पञ्चास्रस्य ये पञ्च भुजास्त एव त्र्यस्रपञ्चकस्य पञ्च भूमयः। पञ्चास्रेभुजपरिमाणं तु परिधिपरिमाणस्य सार्धपञ्चदशांशेनोनस्य पञ्चमांशः। परिधिपरिमाणं च व्यासस्त्रिगुणो व्याससप्तमांशयुतः। अत्र च व्यासः ३१। १ तस्य त्रैगुण्ये ९३। ३ भवति। तत्र व्याप्तसप्तमांशस्य ४ \। ३ \। ४ मेलने ९७। ६। ४ परिधिपरिमाणं संपद्यते। तस्य सामान्यतः सार्धपञ्चदशांशः ६। २। ५ अनेनोनं परिधिपरिमाणं च ९१। ३। ७ भवति। तस्य पञ्चमांश १८। २। ३ एतत्पञ्चास्रभुजपरिमाणम्। भुज एव चान्तर्गतत्र्यस्रस्य भूमिः। तादृशभूमेरर्धे९। १। १। ४ अस्य लम्बेन गुणने त्र्यस्रफलं भवेत्। लम्बपरिमाणं च १२। ४। २ स्थूलमानेन भवति। तेन भूम्यर्धस्य ९। १। १। ४ गुणने ११५।१ संपद्यते। एतदेकत्र्यस्रफलम्। तच्च पञ्चभिर्गुणितं त्र्यस्रपञ्चकस्य ५७६ फलं संपद्यते। एतदेव च पञ्चास्रकुण्डफलम् \।
अथ षडस्रकुण्डे क्षेत्रफलाद्वृत्तव्यासानयनप्रकारे भाजकमङ्कं दर्शयति—धीनवाम्भोरसैरिति। धियः पञ्च। अम्भश्चत्वारः। रसाः षट्। अयं ६४९५ भाजकोऽङ्कः। एकहस्ते षडस्रकुण्डे वृत्त - व्यासः २९। ६ पूर्वमुक्तः। स च क्षेत्रफलादित्थमानेयः। एकहस्ते षडस्रकुण्डे क्षेत्रफलं ५७६ तच्च पूर्ववद्दशसहस्रेण गुणितं ५७६०००० तच्चधीनवाम्भोरसै ६४९५ र्भाज्यम्। भागश्च यो लब्धः ८८६। ६। ६ तस्य मूलं २९। ६ इदमेव वृत्तव्यासमानम्। एतद्वैपरीत्येन वृत्तव्यासात्क्षेत्रफलानयनं यथा—वृत्तव्यासः २९। ६ तस्य वर्गः ८८६। ६। ६ तस्य धीनवाम्भोरसै ६४९५ र्गुणनम्। गुणितस्य ५७६०००० दशसहस्रेण भाजने भागः ५७६ संपद्यते। इदमेव क्षेत्रफलम्।

अत्र षडस्रकुण्डे क्षेत्रफलं ५७६ कथं भवति तत्प्रदर्श्यते—षडस्रेहि केन्द्रमभिलक्ष्य समत्र्यस्राणि षड् भवन्ति। समत्र्यस्रेहि भुजभूम्योरेकमेव परिमाणम्। तच्च षडस्रेव्यासाधम् १४। ७॥ भूमे १४ ।७ रर्धं ७। ३। ४ च लम्बेन गुणितं फलं भवति ।समत्र्यस्रे हि पादोनस्य भुजवर्गस्य मूलं लम्बो भवति। अत्र भुजः १४। ७ तस्य वर्गः २२०। ५ स च पादोनः १६५। ४ तस्य मूलं १२। ७ अयमत्र लम्बः। अनेन १२। ७ भूम्यर्धस्य ७। ४ \। ३ गुणने स्थूलदृष्ट्या गुणाकारः ९६ भवति। इदं चैकत्र्यस्रफलम्। एतच्च षड्गुणं ५७६ त्र्यस्रषट्कात्मकस्य षडस्रकुण्डस्य फलं भवति।
अथ सप्तास्रकुण्डे, क्षेत्रफलाद्वृत्तव्यासानयनप्रकारे भाजकमङ्कं दर्शयति—क्ष्मावार्धीभर्तुभिरिति। क्ष्मैका। वार्धिः समुद्रः। ते च चत्वारः।इभा अष्टौ। ॠतवः षट्। तथा चायं ६८४१ भाजकोऽङ्कः। एकहस्ते सप्तास्रकुण्डे वृत्तव्यासः २९ प्रागुक्तः। स च क्षेत्रफलादित्थमानेयः। एकहस्ते सप्तास्रकुण्डे क्षेत्रफलं ५७६ तच्च पूर्ववद्दशसहस्रेण गुणितं ५७६०००० तच्च क्ष्मावार्धीभर्तुभि ६८४९ र्भाज्यम्। भागश्च यो लब्धः ८४१। ७ तस्य मूलं २९ इदमेव वृत्तव्यासमानम्। एतद्वैपरीत्येन वृत्तव्यासात्क्षेत्रफलानयनं यथा—वृत्तव्यासः २९ तस्य वर्गः ८४१। ७ तस्य क्ष्मावार्घीभर्तुभि ६८४१ र्गुणनम्। गुणितस्य ५७५९२६६। ७ दशसहस्रेण भाजने भागः ५७६ इदमेत्र क्षेत्रफलम् \।
अत्र सप्तास्रकुण्डे ५७६ क्षेत्रफलं कथं भवति तत्प्रदर्श्यते—सप्तास्रे हि केन्द्रमभिलक्ष्य सप्त त्र्यस्राणि भवन्ति। सप्तास्रस्य ये सप्त भुजास्ते त्र्यस्रसप्तकस्य सप्त भूमयः। तत्परिमाणं च परिधिपरिमाणस्यैकत्रिंशांशेनोनस्य सप्तमो भागः। परिधिश्च त्रिगुणो व्यासो व्याससप्तमांशयुतः। अत्र व्यासः २९ स त्रिगुणः ८७ व्याससप्तमांशेन ४। १। १ युतः ९१। १। १ एतत्परिधिपरिमाणम्। एतच्च साधारणत एकत्रिंशांशेनोनं ८८।३ भवति। तस्य सप्तमो भागः १२। ५ एतद्भूमिपरिमाणम्। एतदर्धं६। २। ४ लम्बेन गुणितं कार्यम्। लम्बश्चात्र स्थूलमानेन त्रयोदशाङ्गुलः १३ तेन भूम्यर्धस्य ६। २। ४ गुणने ८२। १। ४ संख्या भवति। इदमेकत्र्यस्रफलम्। तस्य सप्तभिर्गुणने ५७६ त्र्यस्रसप्तकात्मकस्य सप्तास्रकुण्डस्य क्षेत्रफलं भवति।
अथाष्टास्रकुण्डे क्षेत्रफलाद्वृत्तव्यासानयनप्रकारे भाजकमङ्कं प्रदर्शयति—भूनगगगननगैरिति। भूरेका। नगाः सप्त। गगनं शून्यम्। तथा चायं ७०७१ भाजकोऽङ्कः। एकहस्तेऽष्टास्रकुण्डे वृत्तव्यासः २८। ४ प्रागुक्तः। स च क्षेत्रफलादित्थमानेयः। एकहस्तेऽष्टास्रकुण्डे क्षेत्रफलं ५७६ तच्च पूर्ववदशसहस्रेण गुणितं ५७६०००० भवति। तच्च भूनगगगननगै ७०७१ र्भाज्यम्। भागश्च ८१४। ४ लब्धः। तस्य मूलं २८। ४ इदमेव वृत्तव्यासमानम्। एतद्वैपरीत्येन वृत्तव्यासात्क्षेत्रफलानयनं यथा—वृत्तव्यासः २८। ४ तस्य वर्गः ८१४ \। ४ तस्य भूनगगगननगै ७० ७१ र्गुणनम्। गुणितस्य ५७५९३२९। ४ दशसहस्रेण भाजने भागः ५७६ इदमेव क्षेत्रफलम्।

अत्र चाष्टास्रकुण्डे ५७६ क्षेत्रफलं कथं भवति तत्प्रदर्श्यते—अष्टास्रेहि केन्द्रमभिलक्ष्याष्टौ त्र्यस्राणि भवन्ति। अष्टास्रस्य ये भुजास्ता एव त्र्यस्राष्टकस्य भूमयोऽष्टौ। तादृशभूमिपरिमाणं च परिधिपरिमाणस्य पञ्चचत्वारिंशांशेनोनस्याष्टमो भागः। परिधिश्चत्रिगुणो व्यासो व्यास सप्तमांशयुतः। अत्र व्यासः—२८। ४ स त्रिगुणः ८५। ४ व्याससप्तमांशेन ४।०।४ युतः ८१। ४। ४ अयं च स्वपञ्चचत्वारिंशांशेनोनः स्थूलमानेन ८७। ५ भवति। अस्याष्टमो भागः १०। ७। ५ एतद्भूमिपरिमाणम्। एतदर्धे५। ३। ६ लम्बेन गुणितं कार्यम्\। लम्बश्चात्र स्थूलमानेन सार्धत्रयोदशाङ्गुलः। तेन १३ \। ४ भूम्यर्धस्य ५। ३। ६ गुणने साधारणतः संख्या ७२ भवति। इदमेकत्र्यस्रफलम्। तस्याष्टसंख्यया गुणने ५७६ त्र्यस्राष्टकात्मकस्याष्टास्रकुण्डस्य क्षेत्रफलं भवति। अत्र च गुणाकारभागाकारादिगणिते वर्गप्रदर्शने चाङ्गुलांशा यावन्तो यत्र प्रदर्शितास्ते तत्र स्थूलमानेन प्रदर्शिता न तु तावन्त एवेत्यभिनिवेशः कार्यः। तेन तत्र न्यूनाधिक्येऽपि न क्षतिः ॥ १३ ॥

इष्टव्यासमितैर्भुजैः समचतुष्कोणं विधायाङ्कयेत्

कर्णार्धेऽर्धमुखेंऽसतोऽपरदिशि श्रोत्रेऽप्युदक् चांसतः।

मूलं द्व्यादिगुणे फले वदनतः पार्श्वार्धपुच्छेंऽसतः

पार्श्वेऽर्धेऽर्धमुखे कटौ द्विगुणिते कर्णाच्च पार्श्वे दले ॥ १४ ॥

पूर्वमाकारभेदेन वृत्ताब्जादीनि दशविधानि कुण्डानि प्रमाणतः प्रदर्शितानि। तेषु वृत्तव्यासप्रमाणं भुजप्रमाणं च प्रदर्शितम्। तान्येव द्विहस्तादीनि कर्तव्यानि स्युश्चेत्तत्र कियतांऽशेन प्रमाणसूत्रं वर्धितव्यं तदपि द्विघ्नोऽब्धिघ्नेफलेंऽशुरिति श्लोकेन (४) प्रतिपादितम्। तच्च गणिताभिज्ञानां सुशकमेव। इदानीं ये गणितानभिज्ञास्ते यथा द्विहस्तादीनि कुण्डान्यनायासेन रचयिष्यन्ति तथा सुलभमुपायं दर्शयति— इष्टव्यासेति। अत्र च समचतुरस्रे तत्तत्स्थानविशेषेषु चिह्नानि कर्तव्यतयोक्तानि। तेषां चिह्नानां पृथक्पृथङ्नामानि चोक्तानि। तत्र चामुकस्थानमारभ्यामुकचिह्नपर्यन्तं यद्भवेत्तदेव द्विगुणं द्विहस्तकुण्डे मूलसूत्रं द्रष्टव्यम्। एवं त्रिहस्तादिष्वपि। अनेन चोपायेन गणितानभिज्ञा अपि सौलभ्येन द्विहस्तादीनि कुण्डानि विरचयेयुः। तद्यथा—इष्टः स्वाभिमतोयः कश्चन व्यासस्तत्प्रमाणैर्भुजैः समचतुष्कोणं कार्यम्। साधारणत एकहस्ते चतुर्विंशत्यङ्गुलभुजचतुष्टयं समचतुरस्रं कार्यम्। तत्र च दक्षिणभुजस्य पश्चिमार्धे चिह्नद्वयं कार्यम्। कर्णार्धंमध्यबिन्दुः। अंसतः कर्णार्धपर्यन्तमेकं सूत्रं ग्राह्यम्। तच्च व्यासार्धप्रमितं भवति। तस्य च सूत्रस्यैकमग्रंदक्षिणांसे निधायापरमग्रं दक्षिणभुज एवयत्र संगतं भवेत्तत्र चिह्नं कार्यम्। तस्य चार्ध इति संज्ञा। कर्णस्याग्रमारभ्यापर्यन्तं सूत्रस्य गृहीतत्वात्। तथा मुखमारभ्य तादृशार्धसंज्ञितचिह्नपर्यन्तं द्वितीयं सूत्रं ग्राह्यम्। तस्यापि सूत्रस्यैकमग्रं पूर्ववद्दक्षिणांसे निधायापरमग्रं दक्षिणभुज एव यत्र संगतं भवेत्तत्र चिह्नं कार्यम्। तस्य चार्धमुख इति संज्ञा। मुखमारभ्यार्धचिह्नपर्यन्तं सूत्रस्य गृहीतत्वात्। तथा तृतीयं सूत्रम्। तच्च कर्णपरिमितं ग्राह्यम्। तस्यापि सूत्रस्यैकमग्रंपूर्ववद्दक्षिणांसे निधाय पूर्वभुजे तत्सूत्रं निधाय च तस्मात्पूर्वभुजादुत्तरतश्चतुरस्राद्बहिरेव यत्र तस्य सूत्रस्यापरमग्रंसंगतं भवेत्तत्र चिह्नं कार्यम्। तस्य च कर्ण इति संज्ञा। एवं चिह्नत्रये कृते तत्तत्स्थानावशेषसंगतं सूत्रविशेषं गृहीत्वा द्विगुणितं च कार्यम्। तेन द्विहस्तत्रिहस्तादीनां दशहस्तपर्यन्तानां नवानां कुण्डानां मूलसूत्रपरिज्ञानं सुलभं भवति। द्व्यादिगुणे फले। क्षेत्रफले द्विगुण इष्टे द्विहस्तं कुण्डं कार्यम्। क्षेत्रफले त्रिगुण इष्टे त्रिहस्तं कुण्डं कार्यम्। एवं दशहस्तपर्यन्तं बोध्यम्। तत्र द्विहस्तादीनां दशहस्तपर्यन्तानां नवविधानां कुण्डानां मूलसूत्राणि नवज्ञातव्यानि। तत्राऽऽदौ सूत्रत्रयं वदनत आरभ्य ज्ञेयम्। वदनतो मुखतः। तत्रैकं मुखमारभ्य दक्षिणपार्श्वपर्यन्तम्। तच्च द्विगुणितं द्विहस्तकुण्डस्य मूलसूत्रं भवति। द्वितीयं सूत्रं च मुखमारभ्यार्धसंज्ञितचिह्नपर्यन्तम्। तच्च द्विगुणितं त्रिहस्तकुण्डस्य मूलसूत्रं भवति। तृतीयं सूत्रं च मुखमारभ्य पुच्छपर्यन्तम्। तच्च द्विगुणितं चतुर्हस्तकुण्डस्य मूलसूत्रं भवति। ततः सूत्रचतुष्टयमुत्तरांसत आरभ्य ग्राह्यम्। तत्र प्रथममुत्तरांसमारभ्य दक्षिणपार्श्वपर्यन्तम्। तच्च द्विगुणितं पञ्चहस्तकुण्डस्य मूलसूत्रं भवति। द्वितीयं सूत्र मु्त्तरांसमारभ्यार्धसंज्ञितचिह्नपर्यन्तम्। तच्च द्विगुणितं षड्ढस्तस्य कुण्डस्य मूलसूत्रं भवति। तृतीयं सूत्रमुत्तरांसमारभ्यार्धमुख- संज्ञितचिह्नपर्यन्तम्। तच्च द्विगुणितं सप्तहस्तकुण्डस्य मूलसूत्रं भवति। चतुर्थेसूत्रं चोत्तरांसमेवाऽऽरभ्य कटिपर्यन्तम्। कटौ जघने समापनीयम्। तच्च द्विगुणितमष्टहस्तकुण्डस्य मूलसूत्रं भवति। ततः सूत्रद्वयं कर्णसंज्ञितचिह्नमारभ्य ग्राह्यम्। तत्र प्रथमं कर्णान्तमारभ्य दक्षिणपार्श्वपर्यन्तम्। तच्च द्विगुणितं नवहस्तकुण्डस्य मूलसूत्रं भवति। द्वितीयं सूत्रं च कर्णान्तचिह्नमेवाऽऽरभ्यार्धसंज्ञितचिह्नपर्यन्तम्। दलमर्धम्। तत्र समापनीयमित्यर्थः। तच्च द्विगुणितं दशहस्तकुण्डस्य मूलसूत्रं भवति। अत्र श्लोकेंऽसत इति पदं त्रिवारं दृश्यते। तत्र प्रथमस्य दक्षिणांसत इत्यर्थस्तृतीयस्य चोत्तरांसत इत्यर्थस्तादृशविशेषणाभावेऽपि योग्यता- बलाद्ग्राह्यः। पार्श्वपदस्य दक्षिण पार्श्व इत्यर्थोऽपि तथैव बोध्यः ॥१४ ॥

स्युर्वृत्तव्यासवर्गत्रियमकुचरणा श्रांशखाब्ध्यंशयुक्तौ

रामाश्वांशौ नरांशो नगकुलववियुक्त्र्यस्रतो बाहुवर्गाः।

दोघ्नं दोर्व्यासकृत्योः खपदमिति फलं स्याच्चतुर्णां त्रिदोष्णां

पादर्द्ध्यावृत्तदोष्णामिति मितिमवदच्छंकरो नैलकण्ठिः॥ १५ ॥

अथ भुजवत्सु कुण्डेषु वृत्तव्यासाद्भुजप्रमाणानयनप्रकारं प्रदर्शयति श्लोकार्धेन—स्युर्वृत्तेति। त्र्यस्रतस्त्र्यस्रमारभ्याष्टास्रपर्यन्तं षण्णां कुण्डानां बाहुवर्गा भवन्ति। तत्र त्र्यस्रेवृत्तव्यासस्य ४२। १ यो वर्गः १७७४। ४। १ तस्य ये त्रयश्चरणाः १३३१ अयं त्र्यस्रभुजवर्गः \। तथा चास्य १३३१ मूलं १६। ४ त्र्यस्रेभुजपरिमाणमुक्तं भवति। तथा चतुरस्रे वृत्तव्यासस्य ३३। ७। ४ यो वर्गः ११५२ तस्य यच्चरणद्वयं ५७६ अयं चतुरस्रभुजवर्गः। तथा चास्य ५७६ मूलं २४ चतुरस्रे भुजपरिमाणमुक्तं भवति। तथा षडस्रेवृत्तव्यासस्य २९। ६ यो वर्गः ८८५ \। ० \। ४ तस्य य एकश्चरणः २२१। २। १ अयं षडस्रेभुजवर्गः। तथा चास्य २२१। २। १ मूलं १४। ७ षडस्रेभुजपरिमाणमुक्तं भवति। यमौ द्वौ। कुरेका। व्यासवर्गस्य त्रियमकुचरणाः — त्रयश्चरणाः, द्वौ चरणावेकश्चरणश्चेत्यर्थः। भं २७। खं शून्यम् \। अब्धयश्चत्वारः। भांशेन २७ खाब्ध्यंशेन ४० च युक्तौ यौ रामा३श्वां७शौ। क्रमेण मांशेन २७ युक्तो रामांशः ३ खाब्ध्यंशेन ४० च युक्तोऽश्वांशः ७ \। पञ्चास्रेवृत्तव्यासस्य ३१। १ यो वर्गः ९६८। ६। १ तस्य यस्तृतीयोंऽशः ३२२। ७। ३ स च स्वकीयेन सप्तविंशतितमेनांशेन १२ युक्तः ३३४। ७। ३ अयं पञ्चास्रेभुजवर्गः। तथा चास्य ३३४। ७। ३ मूलं १८। २ पञ्चास्रभुजपरिमाणमुक्तं भवति। अष्टास्रे वृत्तव्यासस्य २८। ४ यो वर्गः ८१२। २ तस्य यःसप्तमोंऽशः११६।०।२ स च स्वकार्येनचत्वारिंशत्तमेनांशेन २। ७। २ युक्तः ११८। ७। ४ अयमष्टास्रेभुजवर्गः। तथा चास्य ११८। ७। ४ मूलं १०। ७। ५ अष्टास्रेभुजपरिमाणमुक्तं भवति। नगंशः पञ्चमांशः। नगाः सप्त। कुरेकः। नगकुलवःसप्तदशांशः। तेन वियुग् रहितः पञ्चमांशः। सप्तास्रेवृत्तव्यासस्य २९ यो वर्गः ८४१ तस्य यः पञ्चमोंऽशः १६८। १ स च स्वकीयेन सप्तदशांशेन ९। ७ रहितः १५८ \। २ अयं सप्तास्रे भुजवर्गः। तथा चास्य १५८। २ मूलं १२। ५ सप्तास्रभुजपरिमाणमुक्तं भवति।
अथैतद्भुजप्रमाणानुसारेण क्षेत्रफलानयनप्रकारं प्रदर्शयति— दोर्घ्नमिति। दोर्घ्नबाहुप्रमाणेन गुणितम्। कृतिर्वर्गः। दोर्बाहुः। तस्य व्यासस्य च या कृतिर्वर्गः, भुजवर्गोव्यासवर्गश्च तयोर्यत्खं विवरम्।अन्तरमिति यावत् तस्यान्तरस्य यत्पदं मूलं तच्च मूलं भुजगुणितं सद्यद्भवेत्तच्चतुर्णां त्रिदोष्णां क्षेत्रफलं भवति। त्र्यस्रचतुरस्रपञ्चास्रादिषु कुण्डेषु यत्र यावन्तो भुजास्ते तत्रा-वान्तरत्र्यस्राणां भूमित्वेन कल्पनीयाः। मध्यबिन्दुश्च त्र्यस्राणां कोणत्वेन कल्पनीयः। एवं कल्पनायां त्र्यस्रेकुण्डे कुण्डमध्येऽवान्तरत्र्यस्राणि त्रीणि कल्पितानि स्युः। चतुरस्रेकुण्डे कुण्डमध्येऽवान्तरत्र्यस्राणि चत्वारि कल्पितानि स्युः। पञ्चात्रे कुण्डे कुण्डमध्येऽवान्तरत्र्यस्राणि पञ्च कल्पितानि स्युः। एवं षडस्रे षट् सप्तास्रेसप्ताष्टास्रेऽष्टौ त्र्यस्राणि कल्पनीयानि। तत्र चोक्तरीत्या त्र्यस्रचतुष्टयस्य क्षेत्रफलं निर्धारणीयम्। अवान्तरत्र्यस्राणि त्रीण्येव चेत्तत्क्षेत्रफलं पादोनं कृत्वा कुण्डफलं ज्ञेयम्। अवान्तरत्र्यस्राणि पञ्च चेत्तत्क्षेत्रफलं सपादं कृत्वा कुण्डफल ज्ञेयम्। एवमवान्तरषट्त्रिकोणात्मके षडस्रेकुण्ड उक्तरीत्या यदवान्तरत्र्यस्रचतुष्टयस्य फलं भवेत्तत्सार्धेकृत्वा कुण्डक्षेत्रफलं भवेत्। एवं सप्तास्रे कुण्डेऽवान्तरत्र्यस्रचतुष्टयस्य फलं पादोनद्विगुणं कुण्डक्षेत्रफलं भवेत्। अष्टास्रेकुण्डे चावान्तरत्र्यस्रचतु्ष्टयस्य फलं द्विगुणं कुण्डक्षेत्रफलं भवेत्। यथाऽवान्तरत्र्यस्रचतुष्टयात्मकेसमचतुरस्रे चतुर्विंशत्यङ्गुलसंमिते कुण्डे दोःकृतिः भुजस्य २४ वर्गः ५७६ व्यासकृतिः व्यासस्य ३३। ७। ४ वर्गः ११५२ तयोः खमन्तरं ५७६ तस्य पदं मूलं २४ तच्च दोर्घ्नंबाहुना २४ गुणितं ५७६ भवति। एतदेव त्र्यस्रचतुष्टयस्य फलं भवति। तदेव चतुरस्रकुण्डे क्षेत्रफलम्। कुण्डस्य त्र्यस्रचतुष्टयात्मकत्वात्। अवान्तरत्र्यस्रत्रयात्मके त्र्यस्रकुण्डे तु भुजस्य ३६। ४ वर्गः १३३२। २ तथा व्यासस्य ४२। १ वर्गः १७७४। ४। १ तयोरन्तरं ४४२। २ तस्य मूलं २१ ईषदधिकम्। तञ्च बाहुना ३६। ४ गुणितं स्थूलमानेन ७६८ एतत्क्षेत्रफलं त्र्यस्रचतुष्टयस्य। अत्र त्र्यस्रकुण्डे हावान्तरं त्र्यस्रत्रयमेवेत्यतस्तत् ७६८ पादेन १९२ ऊनं कार्यम्। तथा सति ५७६ त्र्यस्रकुण्डस्य क्षेत्रफलं भवति। अवान्तरत्र्यस्रपञ्चकात्मके पश्चास्रकुण्डे तु भुजस्य १८। २ वर्गः ३३३। ०। ४ तथा व्यासस्य ३१। १ वर्गः ९६९ तयोरन्तरं ६३६ ईषन्न्यूनम्। तस्य मूलं२५। १। ५। ३८ तच्च बाहुना १८। २ गुणितं ४६०। १ स्थूलमानेन भवति। एतत्त्र्यस्रचतुष्टयस्य फलम्।पञ्चास्रक्कुण्डे त्ववान्तरं त्र्यस्रपञ्चकमित्यतस्तत् ४६०। १ पादेन १२५ अधिकं कार्यम्। तथा च ५७६ पञ्चास्रकुण्डस्य क्षेत्रफलं भवति। तथाऽवान्तरत्र्यस्रषट्कात्मके षडस्रकुण्डे भुजस्य १४। ७ वर्गः २२०। ५ तथा व्यासस्य २९। ६ वर्गः ८८६ \। ६ \। ६ तयोरन्तरं ६६६। १। ६ तस्य मूलं२५। ६ तच्च बाहुना १४। ७ गुणितं ३८४ स्थूलमानेन भवति। एतत्त्र्यस्रचतुष्टयस्य फलम् ।षडस्रकुण्डे त्ववान्तरं त्र्यस्रषट्कमित्यतस्तत् ३८४ अर्धेन १९२ अधिकं कार्यम्। तथा सति ५७६ संख्या भवति। इदमेवैकहस्ते षडस्रकुण्डे क्षेत्रफलम्। अवान्तरत्र्यस्रसप्तकात्मके सप्तास्रकुण्डे तु भुजस्य १२। ५ वर्गः १५९। ३। १ तथा व्यासस्य २९ वर्गः ८४१ तयोरन्तरं ६८१। ४। ७ तस्य मूलं २६ \। ० \। ६ \। ३ तच्च बहुना १२।५ गुणितं ३२९। ४\।०\।६ भवति। एतत्त्र्यस्रचतुष्टयस्य फलम्। सप्तास्रकुण्डे त्ववान्तरं त्र्यस्रसप्तकमित्यतस्तत् ३२९। ४॥ ६ पादोनद्विगुणं कार्यम्। द्विगुणं ६५९ तच्च पादेन ८२। २ ऊनं सत्साधारणतः ५७६ भवति। इदमेवैकहस्ते सप्तास्रकुण्डे क्षेत्रफलम्। अवान्तरत्र्यस्राष्टकात्मकेऽष्टास्रकुण्डे तु भुजस्य १०। ७। ५ वर्गः ११८। ६। ५ तथा व्यासस्य २८। ४ वर्गः ८ १४। ४ तयोरन्तरं ६९५। ६ तस्य मूलं २६। ३। ७ तच्च बाहुना१०। ७। ५ गुणितं२८८ भवति। एतत्त्र्यस्रचतुष्टयस्य फलम् \। अष्टास्रकुण्डे त्ववान्तरं त्र्यस्राष्टकमित्यतस्तत् २८८ द्विगुणं ५७६ कार्यम्। इदमेवैकहस्तेऽष्टास्रकुण्ठे क्षेत्रफलम् \। पादर्द्ध्या\। पादस्य ऋद्धिः पदर्द्धिस्तया। ऋद्धिर्वृद्धिः। सा च पञ्चास्रकुण्ड एकपादस्य षडस्रकुण्डे पादद्वयस्य सप्तास्रकुण्डे पादत्रयस्य च प्रदर्शितैव। यथा च पञ्चास्रकुण्डेक्षेत्रफल्संख्या पादेनैकेनाधिका निर्धारिता तथा तुल्यन्यायात्त्र्यस्रकुण्डे क्षेत्रफलसंख्या पादेनैकेनोना निर्धारणीया।उपसंहरति– वृत्तदोष्णामित्यादिना। वृत्तानां वृत्ताब्जादिदशविधकुण्डप्रकृतिवृत्तव्यासानाप्रेकहस्तद्वि-हस्तादिभेदभिन्नानां दोष्णां बाहूनां च मितिं प्रमाणमित्येवं प्रकारेण नीलकण्ठपुत्रः शंकरोऽवददित्यर्थः ॥ १५ ॥

वंशे पूते भुवनविदितेऽभ्यंकरोपाभिधेऽभूत्प्राज्ञो विद्वन्मुकुटसुमणिर्देशिको भास्कराख्यः।

तत्पौत्रः श्रीबुधजनहितायोदवाख्यां तमोघ्नीं कुण्डार्केऽमूंविवृतिमतनोद्वासुदेवः सुबोधाम् ॥ १ ॥

त्रीष्विभेन्दुमितेशाके वत्सरेऽथ प्रजापतौ। श्रावणे मासि कुण्डार्कटीका श्रीभास्करेऽर्पिता ॥ २ ॥

इति महामहोपाध्यायाभ्यंकरोषावासुदेवशास्त्रिप्रणीता कुण्डार्कोदयाभिधा कुण्डार्कटीका समाप्तिमगात्॥

॥ ॐ तत्सद्ब्रह्मार्पणमस्तु ॥

————0————

]


  1. “एतस्य किल सांप्रतिकं नामधेयं सिंगरूर इति। वर्तते पुनरिदं श्रीगङ्गारोधसि प्रयागतो वायव्यां दिशि नवकोशात्मकेऽन्तरे। अत्र निवादपतिर्गुहः श्री दाशरथिरामभद्रकाले वसति स्म := श्रीनागोजीयसमस्तप्रस्थानां प्राय आहत्य ग्रन्थसंख्या लक्षद्वयाधिका नतु ततो न्यूना।” ↩︎

  2. “इयं रामायणीया टीका नागोजिभट्टेनैव निरमाथि। परं निजाश्रयदातू रामवर्मणो नाम्ना कृतज्ञतया प्राकाशि।” ↩︎

  3. “+ ग्रन्थोऽयं किल ग्रन्थकृता श्रीगुरुवरहरिदीक्षित चरणयोर्गुरुदक्षिणीकृतः। अतोऽस्य दीक्षितनाम्ना प्रसिद्धिः।” ↩︎

  4. “अत्र दकारोऽधिकः पतित इति भाति ।” ↩︎

  5. “उपवासस्य समभिव्याहारे सामीप्येनोक्तावित्यर्थः ।” ↩︎

  6. “x यच्छब्दोऽधिकः ।” ↩︎