महेश्वरानन्दः - चातुर्वर्ण्य-भारत-समीक्षा

TODO: परिष्कार्या

Prof. Ramachandra G. Bha The Director, Veda Vijnana Shodha Samsthanam ( Janaseva Trust, Magadi Road, Bengaluru-562 130. हरिः ॐ तत्सत् वन्दे विश्वेश्वरं विभुम् । अधःपातपराकाष्ठां प्राप्तस्यास्य ममुन्नते! | कालोऽयमागतो जीयाद् हिन्दुराष्ट्रमिदं पुनः ।। चातुर्वर्ण्य-भारत-समीक्षा हरिद्वारकनखल वास्तव्य - श्रीमत्परमहंसपरिव्राजकाचार्य- श्रोत्रिय ब्रह्मनिष्ठ-सकल निगमागमशास्त्रनिष्णात- स्वामि- महेश्वरानन्दगिरिमहामण्डलेश्वरप्रणीता * पण्डितस्वामिविद्यानन्द वेदान्तिस्वामिकृष्णानन्दाभ्यां संशोधिता । कनखलसुरतगिरिबंगलामठस्य कोठारी- श्रद्धेय श्रीकैवल्यानन्दसरस्वतीस्वामिभिः प्रकाशिता विक्रमसंवत् २०२० ] मूल्यं - एकरुप्यकम् । [ ख्रिस्ताब्द: - १९६३ न पण्डिताः साहसिका भवन्ति, । श्रुत्वाऽपि ते सन्तुलयन्ति तत्त्वम् । तत्त्वं समादाय समाचरन्ति, स्वार्थं च कुर्वन्ति परस्य चार्थम् ॥ + ( बम्बई - विला-पारला निवासिनः श्रेष्ठप्रवरस्य धर्मप्रियस्य श्रीजीवनदासगोविन्दजी संपदितिशुभ- नामधेयस्य श्रीलक्ष्मीसहचरस्य शुभद्रव्य साहाय्येन मुद्रिता) हे धीराः ! बहुशास्त्रशीलनपराः ! शान्ताः ! क्षमाभूषणाः ! तप्तास्तीत्रशिखैर्भवाख्यगहने मात्सर्यदावानलैः ॥ एतस्मिन् सरसि प्रपक्षकमले शास्त्रोक्तिपाथोभरे । मग्नीभूय विधीयतां निजमनोदन्तावलः शीतलः ॥X

  • प्रापाततः श्रुत्वा पठित्वैव च सहसा किमपि वक्तुं नोत्स- हन्ते पण्डिताः, अपि त्वाद्योपान्तयोः पूर्णं विचारं कृत्वा तात्पर्य- मवगत्यैव च स्वाभिप्रायं प्रकटयन्तीति भावः । तत्त्वं रहस्यम् । X प्रपक्षकमले = प्रभूताः–अनेके पक्षा एव कमलानि यत्र तस्मिन् । शास्त्रवचांस्येव पाथः = पय:, तेन भरे = पूर्णे, ‘कम- लेन पयः, पयसा कमलम्, ताभ्याञ्च विभाति सरः’ इत्युक्त- त्वात् । एतस्मिन् = चातुर्वर्ण्य भारतसमीक्षाख्ये सरसि । दन्ता- वलः = हस्ती | चातुर्वर्ण्य - भारतसमीक्षायाः सूचीपत्रम् क्रम संख्या विषयः १ मंगलाचरणं निवेदनञ्च पष्ठ- संख्या २ मन्त्रार्थविवेचनम् rm ३ जन्मना जातिवाद: ४ गुणकर्मवादः ५ देवापि वृत्तान्तः ६ विश्वामित्रादिवृत्तान्तः ७ गीतासम्मतिः ८ नीलकण्ठाचार्यव्याख्यानम् ९ शौनकादिमहर्षिविहितचातुर्वर्ण्यविभागः १० पाण्डवचरितम् ११ भृगु भारद्वाजसंवादः १ २ rm w ३ ७ १० १२ १३ १३ १६ r m m w २० १२ उमा-महेश्वरसंवादः २१ १३ वज्रसूच्युपनिषत् २२ १४ अस्या इदं निश्चितं तात्पर्यम् २५ १५ शंका-समाधानम् २६ १६ पौराणिक वचनसम्मतिः २८ wis १७ चित्तपावनविप्रोत्पत्तिकथा २६ १८ ब्राह्मणोत्पत्तिमार्तण्डकथा १६ परशुरामनिर्मित ब्राह्मणवर्णनम् २० २१ सत्यकामजाबालवृत्तान्तः कवषस्य ऐलूषस्य गाथा २२ [ भूयसां प्रसिद्धानां वसिष्ठपराशरव्यासादीनां महर्षी- णामपि महतस्तपसः प्रभावादेव ब्राह्मण्यलाभः m ३० ३१ MITH ३२ ३५ ३६ चातुर्वर्ण्य - भारत- समीक्षा २ क्रम संख्या विषयः २३ विविधानि प्रमाणानि २४ तत्तद्गुणकर्मादिभिरेव भगवत्पादनादिमशंकरा- चार्येणापि ब्राह्मणादिवर्णव्यवस्था विहिता २५ सर्वत्रार्यनिर्माणं कर्तव्यम् २६ यजुर्वेदादेश: २७ तात्पर्यप्रकाशः २८ वर्णनिर्वचनम् २६ जातिवर्णस्वरूपयोरस्ति पार्थक्यम् ३० गुणकर्मादिपरिवर्तनेन वर्णपरिवर्तनम् ३१ मतङ्गमहर्षि - कथा ३२ वीतहव्यस्य राज्ञो वृत्तान्तः पृष्ठ संख्या ४२ ४३ ४५ ४७ ४८ ४६ ५१ ५३ ५४ ५६ w w ६१ ६३ ३३ वर्णपरिवर्तने श्रीमद्भागवतस्यापि सन्त्यनेकोदा- हरणानि ३४ विविधपुराणादीनामुदाहरणानि ३५ प्राक् व्याधकर्मणः पश्चात् यज्ञाचार्यस्योपाख्यानम् ६७ ३६ अन्यस्य पापीयसो व्याधस्य च कथा ३७ अन्धवृद्धस्य दीर्घतमसो महर्षेश्चरितम् ३८ शूद्रयोनौ प्रजातस्य काक्षीवतो ब्राह्मण्यलाभः ६६ ७१ ७२ ७३ ३६ परशुरामवृत्तान्तोऽपि वर्णपरिवर्तनं विज्ञापयति ४० गीतासु भगवताऽर्जुनकृतवर्ण संकरशं का निवारणं कथं न कृतम् ? ४१ शंकानिवारणमित्थम् ४२ फलवैषम्यं किं सूचयति ? ७४ ७६ ७७ ४३ तत्तदितिहासादिसाक्षिकं भारते सर्वत्र वर्णपरिवर्तनम् ७८ सूचीपत्रम् ३ क्रम संख्या विषयः पृष्ठ संख्या ४४ जन्मकृतगुणकर्मकृतवर्णव्यवस्थयोः का युक्तियुक्ता ? ८४ वर्णपरिवर्तने विविधानि प्रयोजककारणानि ४५ ४६ गुणकर्म विशिष्टयोनिवादः ८६ ८८ ४७ एकत्र चातुर्वर्ण्यवादः ४८ वर्णद्वय-वादः ४६ एकवर्णवाद: ५० अन्यद् व्याख्यानम् ६१ १०१ १०३ १०६ ५१ वर्गहीन समाजवादः (ब्राह्मणत्वादिजात्युच्छेदवादः ) १०७ ५२ समानप्रसवात्मिका जातिः ५३ जापानदेशाभ्युदयनिरीक्षणम् ५४ भारतराष्ट्रसमीक्षणम् ५५ विविधाभिमानद्वेषादिदोषाढयस्य हिन्दुसमाजस्य मौढयदर्शनम् ५६ सिद्धपुरवृत्तान्तः ५७ हिन्दूनां विच्छिन्नभावना ५८ हिन्दुसमाजः कथं दुर्बलः ? ५६ तर्कयुक्तिहीन: समाज संघट्टन विरुद्धः शास्त्रविचा- रोऽप्यनर्थायैव प्रभवति ६० काश्मीरप्रदेशनिरीक्षणम् ६१ वेदोपदेश: ६२ स्वातन्त्र्यपारतन्त्र्ययोः इष्टानिष्टत्वम् ६३ म्लेच्छबादशाहानां दौष्ट्यम्, हिन्दुराजानाञ्च दौर्बल्यम् ६४ हिन्दुदेवालयविध्वंसादिकम् ११३ ११५ ११६ ११८ ११६ १२० १२१ १२२ १२४ १२६ १२६ १३० १३१ क्रम संख्या विषय: चातुर्वर्ण्य - भारत-समीक्षा ६५ हिन्दुसमाजस्य दैन्यम् w 9 ६६ ६७ पावागढ -निरीक्षणम् भारत एवानन्यसाधारणोदाहरणरूपः ६८ क्षत्रियाणामपि विवेकविचारहीनता ६६ चरित्रशिक्षणसमालोचना ७० विधवासमीक्षा ७१ विषयवासनाप्राबल्यम् ७२ विविधोदाहरणानि ७३ वृद्धयुवतिविवाहः पृष्ठ-संख्या १३२ १३२ १३३ १३४ १३५ १३६ १३७ १३७ १४२ १४४ ७४ विधवाविवाह उचितोऽप्यस्त्यनुचितोऽप्यस्ति ७५ अर्जुनस्य विधवाविवाहस्ततः पुत्ररत्नोत्पत्तिश्च १४८ ७६ केरलदेशाग्रजन्मचरितम् ७७ योनिबीजप्राधान्यविचारः ७८ अग्रजन्मनो विविधार्थनिरूपणम् ७६ सर्वत्र सद्विद्याप्रचारः कर्तव्यः 50 अग्रज-ब्राह्मणलक्षणानि ८१ संकुचित - घृणित - स्वार्थान्ध-मनोदशा ८२ शूद्राधिकरणसमालोचना ८३ mo ८४ भगवत: परशुरामस्य महाकारुणिकत्वम् स्वनिष्ठोत्तमत्वमिथ्याभिमानः परनिष्ठनीचत्व- १५० १५२ १५३ १५५ १५६ १५८ १५६ १६० शूद्रत्वघृणाभावना च प्रभूतानर्थकारिणी प्रसिद्ध- जगन्नाथमंदिरस्थितगोवर्धनमठ विध्वंसेतिहासश्च १६२ ८५ जातिभेदकर्मभेदप्रयुक्तं राष्ट्रस्य भारतस्य महदा- नर्थक्यम् १६५ सूचीपत्रम् क्रम संख्या विषयः क्रम संख्या ८५ ८६ अत्रेदं शास्त्रीयं तत्समाधानम् ८७ बहुपत्नीवादः मरीचिः ८६ अङ्गिराः १६७ १६६ १६ε १७० რ ო რ ო რ ६० पुलस्त्यः १७० ६१ पुलहः क्रतुश्च १७० ९२ वसिष्ठः १७१ ६३ वैदिककाल: १७१ ६४ केयमुवंशी पुरुरवारच कीदृश: ? १७२ ६५ कामप्रशंसा महाभारतसमर्थनञ्च १७३ ९६ वसुदेवादिवृत्तान्तः १७४ ६७ सपत्नीबाधनसूक्तम् १७५ ६८ समालोचना १७८ ६६ किमस्य तात्पर्यम् ? १८० १०० महाभारतानुमतिः १८१ १०१ युधिष्ठिरकर्णसम्मतिः १८३ १०२ मर्यादास्थापनप्रयोजकम् १८५ १०३ अग्निदेवचरितं वरदानं किमिदमस्ति तात्पर्यञ्च १८६ १०४ यथार्थं समाधानम् १८८ १०५ सपत्नीबाधनसूक्तस्य तात्पर्य-प्रदर्शनम् १६१ १०६ विविधसंप्रदाय-मत संपादित- विच्छेदभावना १६३ १०७ राधास्वामीपन्थः १६५ १०८ प्रणामी - पन्थः १६८ १०६ पीराणा -पन्थः १६६ ११० समन्वय-भावना २०० ६ चातुर्वर्ण्य - भारत- सभीक्षा क्रम संख्या विषय पृष्ठ संख्या १११ उपसंहारः ११२ दोषदर्शनतात्पर्यम् ११३ प्रमोदावसरः ११४ प्रशस्तिः समाप्तिविज्ञप्तिश्च २०२ २०३ २०४ २०६

प्रशस्तिः ( १ ) महेश्वरानन्दपदारविन्देष्वास्तां मदीया प्रणतिर्ह्यजस्रम् । यैर्वेदरत्नाकरमन्थनेन समुद्धृता वैदिकतत्वनिष्ठा ॥ ( २ ) उपनिषच्छतकत्रयदर्शनात् परमहर्ष तरंग लुट्ठन्मनाः । प्रकव्याम्युपकारभरानहम्, ननु कया विधया भवताममून् । ( ३ ) असाधारणमौदार्यं चिराय स्मरणीयताम् । यायान्मुमुक्षुमनसि लोके च रमणीयताम् ॥ ( ४ ) अग्रिमा ये प्रकाश्येरन्, ग्रन्था वेदार्थदर्पणाः । उपकुर्वन्तु संप्रेष्य, तानप्यस्मिन् जने दयाम् ॥ करुणावरुणालयः प्रभु भवतां सन्ततमातनोतु शम् । ( ५ ) इति त्र्यम्बकनाथपादयोरनिशं प्रार्थयते विनम्रधीः ॥ (त्र्यम्बकनिवासी-श्री भालचन्द्रविनायक - मूले- शास्त्री) M

श्रोत्रिय ब्रह्मनिष्ठ श्रीमत्परमहंसपरिव्राजकाचार्य दार्शनिक सार्वभौम - विद्यावारिधिन्याय मार्तण्ड - वेदान्तवागीश श्री १००८ स्वामी महेश्वरानन्द जी महाराज महामराडलेश्वर ग्रामुखः अन्तर्वहिर्भवलुण्ठक-पाटच्चर- प्रत्यर्थिनिकराद्यातङ्कपङ्कपरि- हरणपूर्वक सुनियतसमाजव्यवस्थामन्तरा, जनजीवनौपयिकधन- धान्यादिवस्तूत्पादनाऽऽदानप्रदानादिकमन्तरा च न कस्यापि राष्ट्रस्य चिरकालावस्थायिनी स्थितिः कथंचनापि संभावयितुं शक्येति तथाविधकार्यविधायि वर्गद्वयं राष्ट्रविधारक विधया सर्वत्रापेक्षितमिति निश्चप्रचम् । उभयोरपि तयोरध्यापनादिभि- बुद्धिप्रदाता सामयिकेतिकर्तव्यतापरिदर्शयिता च सर्वमूल- भूतस्तृतीयो वर्गस्तत्त्रितय साहाय्यपरिचर्यादिपरायणश्चतुर्थश्चे- त्याद्यन्ताभ्यां स्थितमिव च वर्गद्वयमतिरिक्ततया समपेक्षित- मिति यथोक्तवर्गचतुष्टयस्य चातुर्वर्ण्यापरपर्यायस्यावश्यकता कस्यापि राष्ट्रस्य केनापि निर्मूलयितुमशक्या यावदिदं सृष्टिजा- तमभिप्रवर्तते । तदेवं गुणकर्मप्रविभक्तं चातुर्वर्ण्यं गुणकर्मप्रयुक्तं वा केवल- जन्मप्रयुक्तं वा तदुभयप्रयुक्तं वेति विशये बुद्धसमयादारभ्यैव विवादः संवृत्त प्रासीत् । बुद्धस्तु ‘यो न हिंसति भूताणि, यश्च सच्चं वदेत् सदा । तमहं ब्राह्मणं ब्रमी’ त्येवं विधैः पद्य : केवल- गुणादिप्रयुक्तं ब्राह्मण्यादिकं स्वीचकार । न वाऽद्यतनाऽऽर्य - समाजीयादिवद् वाङ्मात्रेण गुणकर्मप्रयुक्तब्राह्मण्यादिकं व्यव- हारे च यथाजन्मवर्णव्यवस्था चेत्यासीत्तदा । किन्तु वर्णधर्म- व्यवस्थोन्मूलनपरा बुद्धानुगामिनः कोटिशस्तदानीमभवन्, येऽद्या- पि तां व्यवस्थां नोपगच्छन्ति यदनुगामिनोऽम्बेडकरप्रभृतयो ऽद्यत्वेऽपि तन्मतमाललम्बिरे । उत्तरोत्तरमभितः प्रवर्धमानं बुद्धमतं झञ्झावात इव हिन्दु मतमहीरुहमूलमुन्मूलयत् मटचीवृन्दमिव छन्दः पर्ण-कर्म पुष्प- स्वर्गादिफलानि जर्जरयत् दावानलज्वालामालेव सकलवनसार-८ चातुर्वर्ण्य - भारत - समीक्षा सर्वस्वं ब्रह्मज्ञानं प्रज्वलयत् सकलमपि वैदिकधर्मं व्याकुली - चकार । समुद्रमिवाक्षोभ्यं तत् पराभावयितुं मुनयो महर्षय आचार्याश्च महान्तं शास्त्रार्थं संग्राममङ्गीकृत्य निरन्तरजागरूका अवतस्थिरे । बौद्धपराभूतये तदीयदर्शनशास्त्रं शिथिलयितुकामा गौतमप्रभृतयो महर्षयस्तन्मतं निरस्यन्तो नितरां यत्नमादधाना अपि सर्वतः प्रवर्धमानं बुद्धमतं निरोद्धुं न प्रबभूवुरिति तु षष्ठसप्तमशतकपर्यन्ततदीयोत्तरोत्तरवर्धमान - प्रचारादितोऽव- गम्यते । सम्राजोऽशोकस्य काले एव भारतवर्षेऽस्मिन् प्रायो- व्यापकरूपेण बुद्धमतप्रचारोऽजायतेतीतिहासेभ्यः परिज्ञायते । एवंविधसमये एव श्रीमच्छङ्कराचार्यकुमारिलभट्टप्रभृतयः सनातनधर्मधुरन्धरा अलौकिकाजेयबुद्धिप्रतिभादिसम्पन्ना वा- डवा इव समुद्रं बुद्धमतं परिशोषयन्तः पर्वता इव झञ्झावातं बौद्धप्रसरं प्रतिरुन्धन्तः दिनकरखरकिरणा इव तिमिरनिकरं बौद्धदर्शनाज्ञानमपसारयन्तः परितः प्रचकाशिरे । तदानीं वर्णा- श्रमहीन - बुद्धानुयायिनोऽधुनेवाऽस्पृश्यस्वरूपा अपि कथं हिन्दवः कृता इति ? तथ्यं तु विचारणीयमेव । न हि ते देशतो निष्का- सिताः, प्राणघातेन हिंसिता वा । असंभवात् । तथा सति भारत- मिदं जनहीनमेवाभविष्यत्; हिन्दुजातीयानां तदानीमत्यल्प- संख्यया स्थितत्वात् । बौद्धमतं समूलकाषं कषित्वा ते वर्णाश्रम- प्रविभागभूरिगौरवं सनातनधर्मं प्रतिष्ठापयांबभूवुः । एवं स्थिते सत्यपि नाद्यावधि विवादसमाप्तिरजायत । पुराणादिषु परः सहस्राणि तथाविधानि वाक्यानि कथाप्रसङ्गा- चोपलभ्यन्ते येषु कर्मणा जातेर्व्यवस्था सिद्ध्यति परः शतानि च तथाविधानि वाक्यानि कथाप्रसङ्गाश्च परिदृश्यन्ते, येषु जन्मना जातेर्व्ववस्था निश्चीयते । तथा हि-चन्द्रवंशे पुरुरवसः , प्रामुखः पुत्र प्रायुरभूत् । तस्य रम्भरभसगम्भीराक्रिया: पुत्रपौत्रादि- क्रमेण बभूवुः । प्रक्रियस्य पुत्रा ब्राह्मणा प्रजायन्त । एवं क्षत्र- वृद्धसुहोत्रगृत्समदशुनकशौनकास्तस्यैव तथा बभूवुः । शौनकस्य ब्राह्मणाः पुत्रा अभूवन् । एवं ययातिवंशे प्रस्कण्वस्य । ययाति- वंशे एव रन्तिभारसुमतिरैभ्यादिक्रमेण गर्गशिनिगार्ग्यास्तत्- पुत्रा ब्राह्मणाश्च बभूवुः । सूर्यवंशेऽपि नभगनाभागविरूपपूष- दश्वरथीतर क्रमेणऽऽङ्गिरसा ब्राह्मणा उदपद्यन्त । नरिष्यन्त चित्र- सेनादिक्रमजाताऽग्निवेश्यायनस्य च ब्राह्मणाः पुत्राः संभूताः । तत्रैव धृष्टस्य धाष्टः ब्राह्मणाः, ऋषभदेवपुत्राणां तथात्वं प्रसिद्धमेव । मन्ये एतदेव सर्वं पूर्ववृत्तं परः सहस्रोदाहरणोपबृं - हितमनुस्मृत्य बुद्ध ेन जन्मना वर्णव्यवस्था स्वीकृता न स्यात् । अपि च क्षेत्रप्राधान्यं वा बीजप्राधान्यं वा जन्मना जाति- व्यवस्थाविषये स्वीकर्तव्यमित्यपि विवादास्पदम् । नहि गवाश्व- जातिवद् ब्राह्मणक्षत्रियादयः स्वेतरजातीयकन्यासु बीजवपनं न कुर्वन्ति ? | , ‘विप्रान्मूर्धावसिक्तो हि, क्षत्रियायां विशः स्त्रियाम् । अम्बष्ठः शूद्र्यां निषादो जातः पाराशवोऽपि वा । वैश्याशू- योस्तु राजन्यान्माहिष्योग्रौ सुतौ स्मृती । वैश्यात्तु करणः शूद्र्यां विन्नास्वेष विधिः स्मृतः ॥ ब्राह्मण्यां क्षत्रियात्सूतो, वैश्याद्वैदेहिकस्तथा । शूद्राज्जातस्तु चाण्डालः सर्वधर्म बहिष्कृतः ।। क्षत्रिया मागधं वैश्यात्, शूद्रात्क्षत्तारमेव च । शूद्रादायोगवं वैश्या, जनयामास वै सुतम् । माहिष्येण करण्यां तु रथकारः प्रजायते । असत्सन्तस्तु विज्ञेयाः प्रतिलोमानुलोमजाः ॥ ( या० स्मृ० १ । ६१-६५ ) । इति याज्ञवल्क्यवचनात्, सूतमागधचाण्डालादीनां सत्ययुगा- १० चातुर्वर्ण्य - भारत - समीक्षा दावपि प्रसिद्ध, प्रतिलोम विवाहस्य विधिविरुद्धस्य माता- पितृ- भ्यां कन्यायाः कर्तुमशक्यत्वात् “दुर्वारे मकरध्वजे " इति न्याय- स्त्रीपुरुषमतिवैषम्यसंजातता निश्चीयते । तत्र शूद्रात् ब्राह्मण्या- मनुसृत्यैव क्वचिदज्ञातरूपेण क्वचित्पुत्रोत्पत्त्यनन्तरज्ञातरूपेण मयं जात इति परैरवगमे तस्य चाण्डालत्वमवधार्येत, जाति- बहिष्कारश्च क्रियेत । परं जातिबहिष्कारभयविह्वला बाला नैतत्प्रकाशयेत्तदा वस्तुगत्या चाण्डाल एव ब्राह्मणत्वेन व्यपदि - श्येत । यथा बृहस्पतिपत्नी तारा चन्द्राहिततेजो विवरीतुं बिभ्यती न प्रोवाच प्रथमम् । प्राश्वासितैव पश्चाज्जगाद । परासां नारीणां पुनः का कथा भवेत् ? तदेवं ब्राह्मणत्वेन व्यप- दिश्यमानस्य गुप्तचाण्डालस्य विवाहः पुनर्ब्राह्मण्या सह जायेते- वेति तदीयसुतः किंजात्या व्यवह्रियेत ? न ह्यज्ञाते सति चाण्डालश्चाण्डालो न भवति । न ह्यग्निरग्नित्वेनाज्ञातो नाग्नि र्भवति । एवंविधवैकल्य सहस्रमुपलभ्य केचन क्षेत्रप्राधान्यमुररी- चक्रुः । ग्रपरे पुनर्बीजप्राधान्यम् । परमद्यावध्यस्य निर्णयस्तु नैव जातः । तदिदमखिलमवलोक्य बुद्धो जन्मना जातिमेव नोरी- चकार । तमिममखिलमपि दोषं परिजिहीर्षुः कुमारिलभट्टाचार्यस्ता- वदित्थमुपपत्तिं करोति-मातापितृबन्धुबान्धवाः स्वीयकन्याः सर्वथा रक्षयितुं नित्यमेव प्रयतन्ते । तथा च बहुलतरं प्रतिलोम- विवाहो नैव जायते, यत्र क्वचित्तथा सम्पद्यतापि तत्राल्पं विषं पादौ बहुलले पतितं विषभावमेव जहाति यथा तद्वदेव तद्दोषमोषोऽपि भवेदित्यादि । मद्यत्वे तु विषं बहुलं जलं चाल्पमिति स्थितिरुत्पन्ना दृश्यते । तस्यां स्थितौ च जन्मना जातिवादो वा कर्मणा जाति- प्रामुखः ११ वादो वा उभयतो जातिवादो वा स्वीक्रियतामिति प्रथमोप- दर्शितविशयः पुनरुत्थितो भवति । निर्जातिवादो वा स्वीकर- णीय इति कोट्यन्तरमपि चतुर्थमुदतिष्ठत् । प्रायस्तरां न जन्म- ना जाति विषस्याधिक्यात् । नापि कर्मणा । ‘योऽनधीत्य द्विजो वेदानन्यत्र कुरुते श्रमम् । स शूद्रवद् बहिष्कार्यः सर्वस्माद् द्विज- कर्मणः ।।’ इत्यादिमन्वादिवचनाद्वेदाध्ययनादिशून्यानां बहिष्कर- णीयत्त्वात्तेषामेव संख्याधिक्याच्च ब्राह्मणादिजातेर्दुर्लभत्वापत्तेः । अत एव नोभयतोऽपि । नापि निर्जातिवादो युक्तः, हिन्दुधर्मत्व- व्याधातापत्तेः । इत्येवं विशये वर्णाश्रमविभागविषये पूर्वपक्ष: सिद्धान्तश्चावगन्तव्यो भवति । तदर्थं च सर्वेषामुक्तवादानां विवरणमावश्यकमिति कृत्वा श्रीमत्परमहंसपरिव्राजकाचार्य- महामण्डलेश्वर श्रीमहेश्वरानन्दस्वामिपादाः वेदवेदान्तदर्शनेति- हासपुराणाद्यखिलशास्त्र रहस्य विवेचनविचक्षणाः 1 Į चातुर्वर्ण्य- भारतसमीक्षाभिधानं ग्रन्थमिमं निरमिमत । अत्र च वर्णद्वय- वादः, एकत्र चातुर्वर्ण्यवाद इत्येवं वादान्तराण्यपि प्रदर्शितानि सन्ति । एवं बहुषु वादेषु गुणदोषाश्च बहुलं निदर्शिताः सन्ति । चातुर्वर्ण्यसमीक्षया सह भारतसमीक्षापि दोषनिवारणपूर्वकगुणा- धानाय प्रियस्य भारतराष्ट्रस्याभ्युदयाय च कृता । मानवा - भाष्यादिविधिग्रन्थेभ्यो यद् बहुमूल्यं साहाय्यमत्र संपादितं, तदर्थं स्वामिपादाः विनम्रकृतज्ञतामप्यावेदयन्ति । यद्यपि सकलवेदपुराणादिचिरकालपर्यालोचनानुसन्धानादि- सापेक्षेऽस्मिन् विषये उपवासादिक्षीणशक्तेर्मम भूमिका दिविरचन- योग्यता नासीत्तथापि महतां वचो नानादरणीयमिति कृत्वैव स्वामिपादाज्ञप्तोऽहमेतल्लेखने प्रवृत्तः । अन्ते चेदमभिदध्महे “श्रुतिविभिन्ना स्मृतयो विभिन्ना नैको १२ चातुर्वर्ण्य - भारत - समीक्षा मुनिर्यस्य मतं न भिन्नं (‘न मानं’ ‘प्रमाणमि’ ति पाठान्तरे ) ‘भिन्नरुचिर्हि लोकः’ इत्यादिवचनमनुसृत्य भिन्नरूचीनां लोकानां कृते परस्परभिन्नाः शास्त्रसिद्धान्ताः स्वामिपादैः तटस्थभावेन शास्त्राणामौदार्य प्रदर्शनाय प्रदर्शिता अभ्युदयनिःश्रेयसकामैर्यथा- योग्यमुपादीयन्तामिति । विद्वदनुचरः- स्वामी काशिकानन्द: व्याकरणन्यायवेदान्ताचार्य्यः काशीविश्वविद्यालयतः पुरस्काररूपेणानेकसुवर्णादिपदकविजेता, व्याख्यानशास्त्रार्थमहारथी च तेनैव रूपेण चतुर्भुजेन ( गी० १ १/४६ ) लेखक : – महामण्डलेश्वरः पूज्यपादः स्वामी महेश्वरानन्द महाराजः 1 ‘तेनैव रूपेण चतुभुजेन’ इत्यत्र तेनैव पूर्वपरिचितेन लोक- प्रसिद्धेन मानुषरूपेण, इत्यर्थकरणे ‘चतुर्भुजेन’ इति विशेषणं विरुद्धचेत । यतो मानुषरूपं द्विभुजात्मकमेव लोकप्रसिद्धं पूर्व - परिचितमस्ति, न तु चतुर्भुजम् । न च तेनेव = शास्त्र प्रसिद्धेन, इत्यर्थंकरणे चतुर्भुजेनेति विशेषणं संगच्छेत, इति वाच्यम् । ‘दृष्ट्वेदं मानुषं रूपं तब सौम्यं जनार्दन ! इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः । । ’ ( गी० ११।५१ ) इति वक्ष्यमाणवचन- विरोधात् । प्रत्र किल स्पष्टं लोकप्रसिद्धमर्जुनपरिचितं द्विभुजं मानुषरूपमेव स्वदर्शनेन चेतोवैकल्यनिवारणे, प्रकृतिस्थैर्य संपा- तेनैव रूपेण चतुर्भुजेन १३ दने च निदानमवगम्यते, न तु चतुर्भुजं शास्त्रप्रसिद्धं देवरूपम् । न च कृष्णभक्तोऽर्जुनः सर्वदा भगवतः कृष्णस्य रूपं चतुर्भुजमेव पश्यति, अतस्तदेव पूर्वपरिचितं रूपं द्रष्टुं वाञ्छतीति वाच्यम् । एवं सति श्रजानता महिमानं तवेदं मया प्रमादात् प्रणयेन वा पि । यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु ||’ ( गी० ११४१-४२) इति वचनं विरुद्धयेत । सर्वदा चतुर्भुजं देवरूपं पश्यतोऽर्जुनस्य महिम्नोऽज्ञातत्वकथनं श्रत एव तत्प्रयुक्त- मवज्ञातत्वपरामर्शञ्च कथमपि न संगतं भवति । अतः सर्वदा- ऽर्जुनो भगवतश्चतुर्भुजमेव रूपं पश्यतीति कथनं सर्वथाऽलीक- मेव । न च विश्वरूपदर्शनसमये भगवता कृपयाऽर्जुनाय चतुर्भुजं विष्णोर्देवस्य रूपं ‘किरीटनं गदिनं चक्रिणञ्च तेजोराशि सर्वतो दीप्तिमन्तम् ’ ( गी० ११।१७ ) इति वचनेन प्रादशि, श्रत एव तदेव सौम्यं चतुर्भुजमर्जुनस्य पूर्वपरिचितमभूदिति स्वीकारे, ‘तेनैव रूपेण चतुर्भुजेन’ इति वचनमविरुद्धं संपद्येत, तथा सति ’ तदेव मे दर्शय देवरूपं ’ ( गी० ११।४५ ) इत्यत्र देवस्य = विष्णोः रूपं चतुर्भुजं मह्यं दर्शय, इत्यर्जुनप्रार्थनाऽपि संगता भवतीति वाच्यम् । ‘दृष्ट्वेदं मानुषं रूपमि -’ ( गी० ११।५१ ) ति वच- नविरोधात् । तदेव मे दर्शय देव ! रूपमित्यत्र हे देव ! इति सम्बोधनमस्ति न तु देवरूपं समस्तं पदमस्ति तथैव प्रायः सर्वे- र्व्याख्यातृभिरङ्गीकृतत्वात् । चतुर्भुजरूपस्य वैष्णवस्य विश्वरूप- दर्शनसमयेऽर्जुनस्य परिचयो जातश्चेत्, तदा ‘प्राख्याहि मे को भवानुग्ररूप:’ ( गी० ११।३१ ) इत्यर्जुनस्य प्रश्नः कथमपि न संगतो भवति, यतो विष्णोः सौम्यस्य चतुर्भुजस्यैवेदमत्युग्ररूपं कालात्मकमस्तीति विज्ञातप्रायस्त्वात् ‘को भवान् ?’ ( गी० ११।३१ ) इति प्रश्नस्य सर्वथाऽनुपपत्तिरेव स्यात् । श्रतो वि- ’ १४ चातुर्वर्ण्य भारत समीक्षा श्वरूपदर्शनसमयेऽर्जुनेन चतुर्भुजरूपं यन्मनोरमं दृष्टं तदेव पुन दर्शनाय वाञ्छतीति कथनं सर्वथा पूर्वापरविरुद्धमेव । प्रतस्तेनैव रूपेण चतुर्भुजेन, इत्यत्र विरोधपरिहाराय ‘चतु- र्भुजेन’ इत्यस्य चत्वारो भुजा विद्यन्ते यस्य सः चतुर्भुजः तेनेति व्याख्यानं परिहाय ’ चत्वारो भजन्ते मां जनाः सुकृतिनो- ऽर्जुन ! । श्रार्तो जितासुरर्थार्थी ज्ञानी च भरतर्षभ !’ ’ ( गी० ७।१६ ) इत्यत्राभिहिताः चत्वार प्रातदियो भक्ताः सन्ति, तैश्चतुभिर्भक्तै र्भुज्यते = सेव्यते इति चतुर्भुजस्तेन । यतो भग- वतो मानुषं रूपं द्विभुजं वंशीवादनशोलमेव सर्वेषां चर्तुणां भक्तानामेव सर्वथा भजनीयं ध्यातव्यं सर्वदा द्रष्टव्यञ्चास्ति, इति श्रीमद्भागवतसमालोचनेनाप्यवगम्यते । … ‘आत्मारामास्तु मुनयो निर्ग्रन्था प्युरुक्रमे । कुर्वन्त्यहैतुकीं भक्तिमित्थंभूतगुणो हरिः । । ’ ( भा० १| ७|१० ) इत्यनेन भाग- वतवचनेन ज्ञानिनां मुनीनामपि प्रेम्णाऽनन्येन सेवनीयं द्विभुज - मेव रूपमस्ति, ‘चुकुज वेणुं बर्हापीडं नटवरवपुः बिभ्रद्वासः, ( भा० १० । २१ ।२ - ५ ) इत्यनेनापि तदेव रूपं शुकदेवादीनां ज्ञानिनामपि चेतसइचमत्कारमस्ति । श्रत एवाचार्य्यमधुसूदन- सरस्वत्यो महाज्ञानिनोऽपि द्विभुजमेव रूपं प्रेम्णा ‘वंशीविभूषित- करान्’ इत्यादिना परतत्त्वतया जानन्ति एवमार्तभक्ता द्रौपदी श्रीकृष्णप्रिया, जिज्ञासुभक्तोऽर्जुन उद्भवश्च । श्रर्थाथिभक्त उग्र- सेनादिश्च तदेव मनोहरं मानुषरूपमनन्यप्रेमप्रयोजकं सततं द्रष्टव्यतया वाञ्छन्तीति सर्वमनाविलम् ।


श्री विश्वनाथो विजयतेतराम् । हरिः ॐ तत्सत् चातुर्वर्ण्य-भारत-समीक्षा मंगलाचरणं-निवेदनञ्च , प्रणम्य परमात्मानं सच्चिदानन्दमद्वयम् । चातुर्वर्ण्यविचारोऽयं क्रियते बोधवृद्धये ॥ १ ॥ विद्वद्भिर्मतवैचित्र्यं वर्ण्यते रुचिभेदतः । नहि सर्वत्र रुच्यादौ, दृश्यते चैकरूपता ||२|| शास्त्रयुक्तिवचोवृन्दैः, स्वपक्षं स्थापयन्ति ये । तेषां विभिन्नपक्षाणां क्रियतेऽतः प्रदर्शनम् ||३|| नास्माभिर्हि मते कस्मिन् क्रियतेऽभिनिवेशता । यतो दृश्यस्य विश्वस्य, नामरूपक्रियात्मनः ॥४॥ परिवर्तनशीलत्वं चास्या निर्वचनीयताम् । प्राहुरज्ञानयोनित्वं विद्वांसस्तत्त्ववेदिनः ॥५॥ नान्यं मन्यामहे किञ्चित्, शुद्ध े ब्रह्मणि निर्भराः । इति तथ्यं वचो बुद्धवा, विरमामो विवादतः || ६ || तत्र तावदिदं श्रौतं, ब्राह्मणोऽस्येति शोभनम् । वचो वयं पुरस्कृत्य दर्शयामो यथामति ॥ ७ ॥ व्याख्याभेदरहस्याणि, विद्वद्भिर्दर्शितानि वै । भारतस्यास्य राष्ट्रस्य सहैव च समीक्षणम् ॥ ८॥ क्रियते संघशक्तेश्व लाभाय दोषनष्टये । यत्नेनानेन सर्वात्मा, तुष्यतु विश्वभावनः ॥६॥ मन्त्रार्थ - विवेचनम ( पुरुषमुखादिरूपेण ब्राह्मणादिवर्णनम् ) श्रस्य पुरुषस्य विराजो मुखं किमासीत् ? कि बाहू ऊरू ? पादावपि किमास्ताम् ? इति प्रश्नानामुत्तराण्याह- चास्ताम् भगवान् वेद:- ॐ ब्राह्मणोऽस्य मुखमासीत्, बाहू राजन्यः कृतः । ऊरू तदस्य यद्वश्यः पद्भ्यां शूद्रो अजायत || • १६-६-६ ( शु० य०. ३१-११ ऋ० १०-६०-१२ अथर्व० १६ ६ ६ तै० प्रा० ३.१२-५ :) अस्य पुरुषस्य प्रजापतेनिखिल ब्रह्माण्ड विग्रहस्य मुखं ब्राह्मण आसीत् । राजन्यः = क्षत्रियः बाहू कृतः = बाहुरूप प्रासीत्, अस्य = पुरुषस्य यत् = यौ ऊरू तद्रूपो वैश्य आसीत्, पद्भयां शूद्रोऽजायत इति स्पष्टमेव । ་་ अत्र प्रजापतेर्मुखादिरूपेण प्रतिपाद्यमानाः ब्राह्मणादयः कें सन्ति ? विषयेऽस्मिन् भूयांसः पण्डिताः विवदन्ते । महता समारम्भेण शास्त्रप्रमाणतर्कादिभिः स्वं स्वं पक्षं साधयन्ति । कीदृशास्तेषां पक्षाः ? इति समीक्षार्थमत्रोपक्षियन्ते । श्रत एव मुखादिरूपास्ते श्रासन् ? इत्यस्य किं तात्पर्यं ब्राह्मणादिसमाज- हितकरम् ? अस्मद्भारतराष्ट्रस्य संघट्टनाभ्युदय विद्याशक्तिसमृ- दयादिप्रयोजकञ्च ? । इति बहवः सामान्यजना श्रपि विजिज्ञा- सन्ते । तेषां जिज्ञासाशमनाय कश्चन प्रयत्नोऽस्माभिविधीयते । ‘महाजनो येन गतः स पत्था’ ‘नेको ऋषि र्यस्य मतं न भिन्नम् ’ इति न्यायेन तेषां विविधाः पक्षाः - कुत्र कुत्र स्वकीया रुचिः समीचीनतया पढौकत इति सर्वेषां समीक्षणाय प्रदश्यते । जन्मना जातिवाद: जन्मना जातिवादः RY तत्र केचन जन्मना जातिवादिनो मन्यन्ते योऽयं ब्राह्मणत्वं- जातिविशिष्टः पुरुषः सोऽयमस्य प्रजापतेर्मुखमासीत् = मुखादु- त्पन्न इत्यर्थः । योऽयं राजन्यः = क्षत्रियत्वजातिविशिष्टः, स बाहुत्वेन निष्पादितः बाहुभ्यामुत्पादित इत्यर्थः । तत् = तदानों, यत् = यौ ऊरू प्रास्तां, तद्रूपो वैश्यः = वैश्यत्वजातिविशिष्टः सम्पन्नः, ऊरुभ्यामुत्पन्न इत्यर्थः । तथा पद्भ्यां शूद्रः प्रजायत = उत्पन्नः । इयं च विराजो मुखादिभ्यो ब्राह्मणादीनामुत्पत्तिस्तै- त्तिरीय संहितायाः सप्तमकाण्डे - ‘स मुखतस्त्रिवृतं निरमिमीत’ इत्यादिना विस्पष्टमाम्नाता । श्रतः प्रश्नोत्तरे उभे श्रपि तत्तज्जातिविशिष्टानामुत्पत्तिपरत्वेनैव योजनीये इति । “. अंत एव परमेश्वरेणैव ब्राह्मणादयो वर्णा विनिर्मिताः, न तु पूर्व केनापि व्यक्तिविशेषेण स्वतो वा गुणकर्मानुसारेण ध्यव- स्थापिताः, न चेदानों व्यवस्थापयितुं शक्याः सन्ति । यच्च भगवता सृष्टं नैव तदन्येन निर्मातुं शक्यं भवति । भगवता सर्वेश्वरेण सूर्यचन्द्रादयः सृष्टाः, ते किमन्येन स्रष्टुं शक्यन्ते ? । श्रत एव शास्त्रप्रसिद्धानां जात्यन्तरविशिष्टानां देवापिविश्वा- मित्रवसिष्ठादीनामपि स्वकीयतपःप्रभावात् ब्रह्मषित्वमेव प्राप्तं, न प्रशस्त ब्राह्मणत्वजातिस्तैः संलब्धा । सति चैवं गीतासु भगवता ‘चातुर्वर्ण्यं मया सृष्टम् ’ ( गी० ४ १३ ) इत्युक्तं सुतरां संगच्छते । ’ शमो दमस्तपः शौचं ’ ( गी० १८-४२ ) ‘ब्राह्मणक्षत्रिय विशां’ कर्माणि प्रविभक्तानि’ ( गी० १८-४१ ) इत्यादीनि भगगद्वचांसि ब्राह्मणस्य कर्माणि शमादीनि स्वाभाविकानि सन्ति, नैव पुनः शमदमादिगुणविशिष्टो ब्राह्मणो भवतीति प्रत्याययन्ति । -જ્ चातुर्वर्ण्य - भारत-समीक्षा ‘जन्मना जायते शूद्रः’ इत्यादीनि हि वचांसि शूद्रपदेन शूद्रसमत्वमेव बोधयन्ति न तु वस्तुगत्या ब्राह्मणादिभ्यो ब्राह्मण्यादिषु जायमानानामर्भकाणां शूद्रत्वम् । एतेन - ‘संध्यां नोपासते यस्तु ब्राह्मणो हि विशेषतः । स जीवन्नेव शूद्रः स्यान्मृतः श्वा चैव जायते । ’ (दक्षस्मृति० २-३२) ‘यो भुङ्क्ते हि च शूद्रानं मासमेकं निरन्तरम् । इह जन्मनि शूद्रत्वं, मृतः श्वा चैव जायते ।’ ( श्रङ्गिरास्मृतिः ६-७ ) श्रनधीत्य द्विजो वेदानन्यत्र कुरुते श्रमम । स जीवन्नेव शूद्रत्वमाशु गच्छति मानवः । ’ ( लघु प्राश्वलायनस्मृतिः ७८ ७ ) इत्यादीनि स्मार्त- वचनान्यपि व्याख्यातानि । एष्वपि पूर्वोक्तवत् शूद्रपदेन शूद्रसा- म्यमेव ज्ञेयम् । एवं ‘क्षत्रियपुत्रा ब्राह्मणा बभूवुः ।’ ‘द्वौ वैश्यौ ब्राह्मणतां गतौ’ इत्यादिवचनेष्वपि ब्राह्मणसाम्यमेव वेदितव्यम्, न तु ब्राह्मणत्वजातिप्राप्तिज्ञेया, सा तु ब्राह्मणाद् ब्राह्मण्यामेव जायमानस्यैव प्राप्ता भवति नान्येषाम् । · अत एव महाभारतस्यानुशासनिके पर्वणि तृतीयाध्याये पितामहो भीष्मः पृष्टः - क्षत्रियो यदि वा वैश्यः शूद्रो वा राजसत्तम ! | ब्राह्मण्यं प्राप्नुयात् केन ? तन्मे ब्रूहि पितामह ! | तपसा वा सुमहता कर्मणा वा श्रुतेन वा । ब्राह्मण्यमथ चेदिच्छेत् कथं शक्यं ? पितामह ! । ( ३-७-८ ) इति । भीष्म उवाच- ‘ब्राह्मण्यमतिदुष्प्रापं वर्णैः क्षत्रादिभिस्त्रिभिः । परं हि सर्व- भूतानां स्थानमेतद् युधिष्ठिर ! ॥ बह्वीस्तु संस्मरन् योनीः जायमानः पुनः पुनः । पर्याये नाम कस्मिश्चिद् ब्राह्मणो नाम जायते ।।’ (३-१२) इति । अत्र हि एकस्मिन्नेव जन्मनि ब्राह्मण- त्वजातेः क्षत्रादिभिरप्राप्यत्वं सूच्यते । एवं तत्रैव त्रयोविंशत्य- धिकशततमाध्याये श्रीमन्महेश्वरेण प्रतिपादितम्- ‘स्वभावादेव जन्मना जातिवाद: ५ विद्यन्ते चत्वारो ब्राह्मणादयः । एकजात्या सुदुष्प्रापमन्यवर्ण- त्वमागतम् ।।’ इति । अत्र खलु परंपरया व्यवह्रियमाणानां ब्राह्मणादीनां स्वाभाविकमेव पक्षिणामुडुयनवत् वानराणामुल्ल- च्छनवच्च ब्राह्मणत्वादिकं विद्यते, न तु गुणकर्माद्युपाधितोऽभिनवं लब्धमिति स्पष्टतया सूच्यते । ‘एवं जातिविपर्यासः प्रेत्यभावे भवेक्षणाम् । श्रन्यथा तु न शक्यं तत् लोकसंस्थितिकारणात् ।। ’ इति श्रत्र हि गुणकर्मभिरन्यस्मिन् जन्मनि जात्यन्तरं प्राप्तुं शक्यते, न त्वस्मिन्नेव जन्मनीति स्फुटमवगम्यते । सति चैवं ‘ब्राह्मणः शूद्रो भवति, शूद्रो दाह्मणो भवति ।’ इत्यादिवचनानि जन्मान्तरमभिप्रेत्यैव जातिविपर्यासं प्रतिपादयन्ति, न त्वस्मिन् जन्मनीति प्रत्येतव्यम् श्रपि च तद्य इह रमणीयचरणा श्रभ्याशो ह यत्ते रमणीयां योनिमापद्येरन् ब्राह्मणयोनि वा क्षत्रिययोनि वा वैश्ययोनि वा ’ ( छा० ५-१० ) इति पुनर्जन्मविषयिणी छान्दोग्यश्रुतिः - ब्राह्म जादियोनि प्रशंसन्तो योनिलक्षणजन्मकृतं ब्राह्मणत्वादिकं स्पष्टमभ्युपगच्छति । श्रत एव योन्युत्कर्षमभिप्रेत्यैव महर्षिपरा- शरोऽपि सुस्पष्टमाह- ‘दुःशीलोऽपि द्विजः पूज्यो न शूद्रो विजि- तेन्द्रियः । कः परित्यज्य दुष्टां गां, दुहेच्छीलवतीं खरीम् ॥’ इति । श्रभिहितश्चायमर्थो मनुनाऽपि - ‘श्रविद्वांश्चैव विद्वांश्च, ब्राह्मणो देवतं महत् । प्रणीतश्चाप्रणीतश्च यथाग्नि देवतं महत् ।। ’ ( ६-३१७ ) इति । तस्माज्जन्मनैव वर्णभेदः सुप्रतिष्ठित इत्यभ्युपगन्तव्यम् । श्रत एव जन्मनैव तत्तद्वर्णोचितनामकरण- नियमोऽप्याह- भगवान् मनुः - ‘मङ्गल्यं ब्राह्मणस्य स्यात्, क्षत्रि- यस्य बलान्वितम् । वैश्यस्य धनसंयुक्तं, शूद्रस्य तु जुगुप्सितम् ॥’ ( २-३१) इति । तत्तद्योनिजन्मलाभात् ऋते जातमात्रस्य शिशो ६ स्यात् चातुर्वर्ण्य - भारत-समोक्षा दशमेऽहनि नामकरणसमये किं तस्य ब्राह्मणत्वादिसाधकं ? न हि तदानों गुणकर्मादयः शक्यसंभवाः । तस्माद् ब्राह्मणादिकुलजानामेव ब्राह्मणाद्युचितं नाम मनुनाऽभिप्रेतं तत् ’ जन्मसिद्धा एवं ब्राह्मणादयो वर्णाः’ इति विज्ञापयति । गुणकर्मवादः अपरे तु ब्राह्मणादिशब्दाः गुणशब्दा एव न जातिवाचक- शब्दा, इत्यत्र व्याकरणमहाभाष्यकाराणां भगवतां पतञ्जलि- महर्षीणां - ‘सर्वे एते शब्दाः गुणसमुदायेषु वर्तन्ते - ब्राह्मणः क्षत्रियो वैश्यः शूद्रः इति’ ( अष्टाध्यायो २-२६ ) इति प्राचीनतरं वचनं प्रमाणत्वेनोपन्यस्यन्तः तपः श्रुतादिगुणकर्म- समुदायनिबन्धनैव वर्णव्यवस्था महाभाष्येऽपि प्रोवतेति मन्वानाः एवं पूर्वोक्तं श्रौतमन्त्रं व्याचक्षते श्रस्य = परमेश्वरस्य ब्रह्माण्डविग्रहस्य ब्राह्मणः = ब्राह्मणत्वप्रयोजकशमदमादिगुण- विशिष्टो ब्रह्मभवितुकामः सत्त्वगुणबहुलो वेदादिविद्यासम्पन्नः परमेश्वरोपासको मुखमासीत् = मुखस्थानीयो मुख्यः सर्वोत्तम आसीत् । यथा मुखं ज्ञानप्रधानमितराङ्गापेक्षया श्रेष्ठ, तथाऽस्यापि ज्ञानप्रधानत्वाच्छमा दिगुणैः श्रेष्ठत्वाच्च मुखत्वव्य- पदेशः, अत एव ’ प्रथ य एतदक्षरं गागि ! विदित्वाऽस्माल्लो- कात्प्रेति स ब्राह्मण ।’ ( बृ० उ० ३ ८-१० ) इत्यादिश्रुतिषु ज्ञाननिबन्धनो ब्राह्मण्यव्यपदेश: संगच्छते । तथा राजन्यः = शौर्यादिगुणविशिष्टः सस्योपसर्जन र जोबहुल, बाहू कृतः = बाहु- स्थानापन्नत्वेन सम्पादितः । यथा बाहुबलप्रधानं तथाऽयमपि । तथा, ग्रस्य = पुरुषस्य यत् = यौ, ऊरू तत् = तद्रूपः- तत्स्थानापन्नः, वैश्यः = कृषिवाणिज्यादिकर्मविशिष्टो धनसञ्चयप्रधानः-तम- उपसर्जन रजो बहुल. ऊरुत्वेन सम्पादितः । यो यत्र तत्र पुनः

गुणकर्मवादे देवापि वृत्तान्तः
पुनवशति - प्रविशति कार्यार्थमसौ विट् - तदपत्यं वैश्य इति व्युत्पत्तेः, तथाऽस्य पद्भयां=यौ पादौ विभक्तिव्यत्ययः- ‘किमरू पादा उच्येते’ ( शु० य० ३१-१० ) इति प्रश्नोपक्रमा- नुरोधात् पञ्चमी प्रथमार्था । पादस्थानीयः शूद्रः परिचर्या - शिल्प कौशल्यपरिश्रमत्वादिगुण विशिष्टो रज उपसर्जनतमो-
बहुलः, श्रजायत = अकल्पयत एवमेते ब्राह्मणादयः तत्तद्गुण-
कर्मविशिष्टा एव
मुखप्रभृतयः - अवयवा मुखप्रभृतयः - अवयवा
प्रस्य पुरुषस्य
ब्रह्माण्डविग्रहस्य प्रजापतेः विद्यन्ते इति कल्प्यते इति ।
देवापिवृत्तान्तः
एवं व्याचक्षाणास्ते - पूर्वं ब्राह्मणादिवर्णविभागः तत्तद्गुण- कर्माण्यवलम्ब्यैव विहितः, इत्यत्र नैकविधानि वेदादिशास्त्राणां प्रमाणान्युपहरन्तो वदन्ति । तथाहि तत्र तावद् ऋग्वेदसंहिता- यामित्यमाम्नायते - ‘आष्टिषेणो होत्रमृषि निषीदन् देवापि- देवसुमत चिकित्वान् । स उत्तरस्मादधरं समुद्रमपो दिव्या
सृजद्वर्ष्या अभि । यद्देवापिः शन्तनवे पुरोहितो होत्राय वृतः कृपयन्नदीधेत् । देवश्रुतं वृष्टिवन रराणो बृहस्पति र्वाचमस्मा अयच्छत् ॥’ (ऋ० सं० १० - ६८- ५-७ ) इति । श्रयमक्षरार्थ. - श्राष्टिषेणः = ऋ ष्टिषेणस्य पुत्रः देवापिः प्राक्क्षत्रियपुत्रः सन् संप्रति ऋषिः = पुरोहितो ब्राह्मणः सन् देवानां कल्याणीं मति = स्तुतिं चिकित्वान् = जानन् होत्रं = होतु ब्रह्मणस्य कर्म कर्तु निषीदन् = निषण्णो भवति । स उत्तरस्मात् उपरि वर्तमानाद्- अन्तरिक्षाख्यात् समुद्रात्, अधरं = अधो वर्तमानं, पार्थिवं = पृथिव्यामवस्थितं समुद्रं, अभि = प्रति दिव्याः = दिविभवाः, वर्ष्याः = वर्ष प्रभवाः अपः = जलानि, असृजत् = सृजतु संपादयतु । यत् = यदा, देवापिः प्रष्टिषेणः, शंतन वे स्वभ्रात्रे कौरव्याय,

चातुर्वण्यं भारत-समीक्षा

पुरोहितः सन् होत्राय = होत्रार्थं वृतः सन्, देवश्रुतं = देवा एनं श्रृण्वन्तीति देवश्रुत-तं, तथा वृष्टिवन = वृष्टियाचिन बृहस्पति = देवगुरुं, प्रदोधेत् श्रन्वध्यायत् = ध्यानेन प्रसादया- मास । स च रराणः= रममाणः स्तुतिजपध्यानादिना प्रसीदन्- प्रसन्नो भूत्वा बृहस्पतिः देवः, प्ररमं देवापये, वाचं ‘अस्मे हि घुमतों वाचमासन् बृहस्पते ! अनमीवामिषिराम् । (ऋ० १०- ६८- ३ ) इत्यनेन प्राक् प्रार्थितां स्तोत्रात्मिकां अयच्छत्= प्रदत्तवान । हे बृहस्पते ! देवगुरो ! त्वं कृपया अस्मे = प्रस्मासु, घुमतों = दीप्तिमतीं वाचं = स्तुतिलक्षणां श्रासन् = श्रस्मदीये श्रास्ये मुखे, धेहि = स्थापय । कीदृशीं वाचं, अनमीवाम् श्रमीवा = दोषो विविधः तद्रहिताम् तथा इषिरां= गमनशीलां- श्रभीष्टलाभसंपादिकाम् । यया स्तुतिलक्षणया वाचा देवान् इष्ट्वा वृष्टिकामाय शन्तनवे, यथेष्टमुदकं दातुं वयं प्रभवाम इति भावः । व्याख्यातमेतन्निरुक्ताचार्येण महर्षिरणा यास्केनापि तत्रेति- हासमाचक्षते देवापिश्चाष्टिषेणः शन्तनुश्च कौरव्यौ भ्रातरौ बभूवतुः सः शन्तनुः कनीयान् श्रभिषेचयांच, देवापिस्तपः ब्राह्मणधर्मं प्रतिपेदे, ततः शन्तनोः राज्ये द्वादशवर्षाणि देवो न ववर्ष, तमूचुर्ब्रह्मविदो ब्राह्मणाः, अधर्मस्त्वया चरितो ज्येष्ठं भ्रातरमन्तरित्याभिषेचितं, तस्मात्ते देवो न वर्षतीति, स शन्तनुः देवापि शिशिक्ष राज्येन, तमुवाच देवापिः पुरोहितस्तेऽसानि, याजयानि च त्वेति, तस्यैतद्वर्षकामसूक्तं तस्यैषा भवति । (नि० २ १० ) इति । श्रस्यायमर्थ:- इति हैवमासीदिति यः कथ्यते स इतिहासः । कौरव्यौ = कुरुवंशप्रभवौ क्षत्रियौ, तयोरेको यः कनीयान् शन्तनुनामा स श्रात्मानमभिषेचयांचक्रे = गुणकर्मवादे देवावि वृत्तान्तः , w अभिषेचितवान् । सोऽभिषिक्तः सन् राजा = भूपालो बभूव । इतरः = पुनर्ज्येष्ठो भ्राता देवापिः ब्राह्मणधमं तपः प्रतिपेदे = गृहीतवान् । स किल तोत्रेण तपसा ब्राह्मणत्वमापेदे विश्वा- मित्रवत् । ततस्तेनापचारेण ज्येष्ठातिक्रमजेन शन्तनोः राज्ये = राष्ट्र - देशे द्वादशवर्षाणि देवः =मेघो न ववर्ष | प्रवर्षति देवे शन्तनुं राजानं ऊचुः उक्तवन्तो ब्राह्मणाः ब्रह्मविदः, ज्येष्ठ भ्रातरमन्तरित्य= श्रतिक्रम्य श्रभिषेचितं = अभिषेक श्रात्मनः कारितो यतस्त्वया, तस्मात्तेन मर्यादाऽतिक्रमेण दोषेण ते तव राज्ये देवः पर्जन्यो न वर्षतीति । स एवमुक्तः शन्तनु देवापि स्वकीयज्येष्ठभ्रातरं शिशिक्ष= पुनः पुनः शशास ‘भवानेव राज्यं गृह्णातु’ इति प्रार्थनां कर्तुं श्रभिगतवानित्यर्थः । कथं ? राज्येन श्रभ्युद्यतेन तेनार्थ्यमानो देवापिरुवाच, कानं यथेष्टमहं पुरोहितस्तेऽसानि भवानि याजयानि च त्वां वार्षिकेण यज्ञ- कर्मणा यजनं कारयाणि, न च राजा भविष्यामि, भवानेवास्तु राजा, श्रहं तु ब्राह्मणोऽभवमित्यभिप्रायः । तस्य देवापेः एतत् वर्षकामस्य सूक्तमाविरभूत् । तत्र तस्य समुदाभिधानस्य संदिग्धस्य प्रविभागप्रदर्शनाय एषा = निर्वाचिका ऋक् भवति । यत् = यस्मात्, देवापिः शन्तनवे राज्ञे पुरोहितः । पुरोहितो ह्येवाग्निकर्मणि यज्ञादौ व्याप्रियते, शान्तिपौष्टिकाभिचारकेषु कर्मसु पुर एनं दधति राजानः पुरस्कुर्वन्तीत्यर्थः । स पुरोहितः सन् देवापिर्होत्राय = होतृकर्मणे- वर्षार्थीये कर्मणि बृतः सन् कृपयन = कृपायमाणो राज्ञेऽदीधेत् = प्रन्वध्यायत् वृष्टिर्भवेदिति । तं देवश्रुतं = देवापिमेनं वृष्टिवन = वृष्टियाचिनं मत्वा रराण = ददत्, रातिः दानार्थे स्मरणात् । इह बृहस्पतिस्तस्मिन्नेव कर्मणि ब्रह्मत्वेऽवस्थिनः सोऽस्मै वर्षसाधिकां वाचमयच्छत् श्रददादि १० चातुर्वर्ण्य - भारत-समीक्षा त्यर्थः । तया वाचा तदनुगृहोतया स्तुतिरूपया देवान् स्तुत्वा तेभ्यो वर्षमलभतेति समस्तार्थः । एतेन तपः प्रभावात् स्वयं- प्रतिभात वेदत्वलक्षण- ऋषित्व पुरोहितत्व याजनव र्तृत्वादिप्रति- पादनेन श्राष्टिषेणस्य देवापेः क्षत्रियस्यापि गुणक मैंक निबन्धनं प्राप्तं मुख्यं ब्राह्मण्यं सुस्पष्टं सूच्यते । सति चैवं स्पष्टतया देवापि ब्राह्मणतया मन्वानो भगवान् वेदस्तं ब्राह्मणकर्मकरणा- येत्थमाज्ञापयति- ‘निषीद होत्र मृतुथा यजस्व देवान् देवापे ! हविषा सपर्य ।’ ( ऋ० १० - ६८- ४ ) इति । हे देवापे ! पुरो- हित ! ऋषे ! त्वं होत्रं निषीद= प्रात्विज्ये निषीद, ऋत्विक्- कर्मकरणायावस्थितो भव । निषण्णश्च त्वं, ऋतुथा = काले काले, यजस्व देवप्रसादाय लोकाभ्युदयाय च यज्ञादिकं कुरु । अतः देवान् स्तुत्या हविषा च सपर्य= परिचर-देवानां परिचर्या सेवां कुरुष्वेत्यर्थः । ॥ तदेतदाम्नातं स्मरति भगवान् व्यासोऽपि महाभारतस्य शल्यपर्वणि ‘यत्राष्टिसेनः कौरव्यो ब्राह्मण्यं संशितव्रतः । वपा महता राजन् ! प्राप्तवान् ऋषिसत्तम ! || सिन्धुद्वीपश्च राजर्षि देवापिश्च महातपा । ब्राह्मण्यं लब्धवान् यत्र विश्वा- मित्रस्तथा भुवि । महातपस्वी भगवानुग्रतेजा महातपाः ॥ (म० भा० श० पं० ३६ । ३४-३५-३६ ) इति । एवं विश्वामित्रादिवृत्तान्तः विश्वामित्रस्यातिप्रशस्त गायत्रीमन्त्रद्रष्टुराजर्षेः- ‘गाधेरभून्महातेजाः समृद्ध इव पावकः । तपसा क्षात्रमुत्सृज्य यो लेभे ब्रह्मवर्चसम् ॥’ ( भा० ६ १७-२० ) ‘ततो ब्राह्मणतां यतो विश्वामित्रो महातपाः । क्षत्रियः सोऽप्यथ तथा ब्रह्म- वंशस्थ कारकः ॥ ’ ( म० भा० श० प० ४-४८ ) इति च । गुणकर्मवादे विश्वामित्रादि- वृत्तान्तः ११ तथा - ’ एकाशी ति संख्याकानां राजर्षि ऋषभदेव पुत्राणां - ’ यवीयांस एकाशीति जयन्तेयाः पितुरादेशकराः महाशालीना महाश्रोत्रिया यज्ञशीलाः कर्मविशुद्धा ब्राह्मणा बभूवुः ॥ ’ ( भा० ५-४-१३ ) ‘कर्मतन्त्रप्रणेतारः, एकाशीतिद्विजातयः । ( भा० ११-२-१६ ) इत्यादिवचनैः गुणकर्मादिभिरेव प्राप्तं मुख्यं ब्राह्मण्यं स्पष्टमा- वेद्यते । श्रयमर्थः यवीयांसः = कनिष्ठाः, जायन्तेया: = जयन्तीसंज्ञ- कमातुः पुत्राः । पितुः = भगवदवतारभूतस्य ऋषभदेवस्यादेश- ‘भवन्तो भवन्तु ब्राह्मणधर्मपालकाः’ इत्यादिलक्षणं कुर्वन्ति- पालयन्तीति पितुरादेशकराः । श्रत एव ते महाशालीनाः महाश्रोत्रियाः यज्ञशीलाः अभूवन् । महान्तः = विस्तृता:-विद्या- शाला- चिकित्साशाला - अतिथिशाला - यज्ञशाला - गौशालादयो विद्यन्ते येषां ते महाशालीना - याज्ञवल्क्यादिवत् सहस्राधिक- छात्रादिपालकाः कुलपस्यो गुरुकुलाधिष्ठातारो बभूवुः । श्रत एव ते महाश्रोत्रियाः - वेदादिसकलशास्त्रपारंगताः महाविद्वां- सोऽभूवन् एवं यज्ञशीलाः = यजनयाजनाध्ययनाध्यापनादिब्रह्म- कर्मनिष्ठाः संजाताः । सति चैवं ते कर्मविशुद्धाः = ब्रह्मगुणकर्म - भिरेव विशुद्धाः अर्थात् क्षात्रधर्महसाद्यशुद्धि रहिताः सन्तो ब्राह्मणा बभूवुः । अत एव ते कर्मतन्त्रप्रणेतारः यज्ञादिकर्म- प्रतिपादकतन्त्र संज्ञकग्रन्थानां प्रणेतारः = निर्मातारः - कर्ममार्ग- प्रवर्तकाः संजाताः । एतेन विश्वामित्रादीनां स्वयंप्रतिभातवेदमन्त्रत्वाख्यामेव गौणं ब्राह्मण्यं प्राप्तं न तु ब्राह्मणवर्णत्वमिति भाट्टकौस्तुभे खण्ड- देवाचार्य्यादिभिर्यदुक्तं तत्प्रत्युक्तम् । ‘तस्य पुत्रा महात्मानो ब्रह्मवंशविवर्धनाः । तपस्विनो ब्रह्मविदो गोत्रकर्तार एव च ॥’ (म० भा० श० प० ३६-४६ ) इत्यादिवचनविरोधात् । यतो १२ चातुर्वण्यं भारत समीक्षा ब्राह्मणवर्णत्वाभावे ब्राह्मणवंशकारकत्व विवर्धकत्व गोत्र प्रवर्त कत्वादिकं श्रूयमाणं कथमुपपन्नं भवेत् ? । श्रतोऽवगम्यते ब्राह्मण वर्णत्वमपि तैरस्मिन्नेव जन्मनि प्राप्तमिति । गीतासम्मतिः } श्रत एव गीतास्वपि जगद्गुरुणा भगवताऽऽवेदित ’ चातुर्वष्ट मया सृष्टं गुणकर्मविभागशः ’ ( ४-१३ ) इति । चत्वारो ब्राह्मणक्षत्रियवैश्यशूद्राः इत्येते वर्णाः चातुर्वर्ण्यम् स्वार्थे व्यञ प्रत्ययः । एतच्च मया भगवता गुणकर्मविभागमनुसृत्यैव सृष्टं - व्यवस्थापितं, न त्वेकान्ततो जन्मना जात्या वा । यदि हि वर्णव्यवस्थायाः गुणकर्मावलम्बित्वं नाभिप्रेतमभविष्यत् तदा भगवता ’ गुणकर्मविभागशः’ इति नैवाभ्यधास्यत्, किन्तु ‘जन्म- जातिविभागशः’ इति प्रत्यपादयिष्यत् । ननु - सृष्टमित्यत्र भूतकालत्वनिर्देशात् श्रतीते जन्मान्तरे विद्यमान गुणकर्मविभागशः चातुर्वर्ण्यं सृष्टं न तु वर्तमानगुण- कर्मविभागशः इति चेत् बाढम् । तत्रापि जन्मान्तर विद्यमानानां तत्तद्गुणकर्मादीनां वर्तमानाया अभिव्यवतेरेव तत्तद्वर्णविभाग- प्रयोजकत्वं सम्पद्यते । अन्यथा जन्मान्तरे विद्यमानानां तेषा- मस्तित्वमेव कथं ज्ञातं भवेत् ? । विरोधाभावात् वाक्यभेदा- पाताच्च- ’ न तु वर्तमानगुणकर्मविभागशः’ इति निषेद्धुं न शक्यते । श्रपि च बहुत्रानुभूतव्यभिचारत्वात् तत्तद्वर्णजातानामपि भूयसां तत्तद्गुणकर्मानुपलब्धे, अन्यत्रापि तदुपलब्धेश्च न चेदं नियन्तुं शक्यते - यज्जन्मान्तर विद्यमान गुणकर्मविभागश एव चातु- वर्ण्यविभागः । परमेश्वरस्य भूतवर्तमाना दिसर्व विश्व कारण- तयातीत जन्मवर्तमान देहाभिव्यक्त गुणकर्माण्यपेक्ष्य सृष्टत्वोप पत्तेश्च । श्रत एवोत्तरत्राष्टादशाध्यायेऽपि - ‘ब्राह्मणक्षत्रिय विशां

गुणकर्मवादे नीलकण्ठाचार्य व्याख्यानम् १३ शूद्राणाञ्च परन्तप ! | कर्माणि प्रविभवतानि स्वभावप्रभवै- गुणैः ॥’ ( गी० १८.४१ ) इत्यनेन तत्तद्वर्णविभागस्य प्रयोजकाः स्वभावप्रभवा गुणा एवोक्ता, न तु जन्म जातिर्वा प्रोक्तेति । नीलकण्ठाचार्य व्याख्यानम् तदेतद् व्याख्यातमशेषमहाभारत संस्कृत व्याख्यात्रा नील- कण्ठाचाय्येणाद्वैतवादिना स्वभावः प्राग्भवीयः संस्कार:, तत्प्रभवैर्न तु जातिमात्रप्रभवैः पक्षिणामाकाशगमनवत्, अत एव जात्यन्तरव्यावृत्तानां धर्माणां शमादिषु पाठो न दृश्यते, न हि शूद्राद्वयावृत्तं त्रैवर्णिकानामध्ययनादिकं वा इतरद्वयाद्वद्यावृत्तं ब्राह्मणानामध्यापनादिकं वेह पठ्यते । किन्तु सर्वे सर्वजाती- यानां साधारणाः धर्माः शमादयो दृश्यन्ते । यथा हि द्रोणादिषु ब्राह्मणेष्वपि शौर्यादिकं भरतादिषु क्षत्रियेष्वपि शमादिकं दृष्टम् । एवमितरत्र । तस्माद्यस्मिन् कस्मिश्चित् वर्णे शमादयो दृश्यन्ते स शूद्रोऽप्येतैलिर्ब्राह्मण एव ज्ञातव्यः । यत्र च ब्राह्मणेऽपि शूद्रधर्मा दृश्यन्ते स शूद्र एव । तथा चारण्य के सर्पभूतं नहुषं प्रति युधिष्ठिरवाक्यं सत्यं दानं क्षमा शीलमान- शंस्यं तपो घृणा । दृश्यन्ते यत्र नागेन्द्र । स ब्रह्मण इति ! स्मृतः । ’ तथा ‘यत्रैतल्लक्ष्यते सर्प ! वृत्तं स ब्राह्मणः स्मृतः । यत्रतत्र भवेत्सर्प ! तं शुद्रमिति निर्दिशेत् ॥’ ( म० भा० वनपर्व १००-१-२ ) इति । शौनकादिमहर्षिविहितचातुर्वर्ण्य विभागः एवं विष्णुपुराणमहाभारतादौ - ’ तत्तद्गुणकर्मानुसारेणैव शौनकादिमहर्षिभिर्णर्णव्यवस्था प्रवतिता इति तत्रत्यैर्वचनैः स्पष्टमवगम्यते । तथाहि–‘गृत्समदस्य शौनकश्चातुर्वर्ण्यप्रवर्तयि-१४ चातुर्वर्ण्य भारत समीक्षा ताऽभूत् ’ ( वि० पु० अ श ४ ८- १) भार्गस्य भार्गभूमिः, प्रतश्चातुर्वर्ण्यप्रवृत्तिः ।’ (वि० पु० श० ४-८-६ ) इति । ‘पुत्रो गुत्समदस्यापि शुनको यस्य शौनकाः । ब्राह्मणाः क्षत्रिया- इचैव वैश्याः शूद्रास्तथैव च ।।’ (हरिवंशपुराणे - २६ १५-२० ) इति । अत्र शुनकस्य महर्षेः प्रजारूपाः, तस्मादेव संभूताः – तत्त- दगुणकर्मादिभिर्व्यवस्थापिता: ब्राह्मणादयश्चत्वारो वर्णाः शौनका:– शुनकेन विरचिता इत्यन्वर्थनाम्नाऽभिधीयते । ‘ब्रह्मणो मानसाः पुत्राः विदिताः षण्महर्षयः । मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः || मरीचेः कश्यपः पुत्रः कश्यपात्तु इमा प्रजाः ॥’ (म० भा० प्रा० ६५-१०-११ ) इत्यत्र कश्यपान्महर्षेः संभूताः – तत्तद्गुणादिभिर्व्यवस्थापिताः इमाः सर्वाः प्रजाः ब्राह्मणाद्याः काश्यपाः इत्यावेद्यते । अत एव विद्यते खुल भारते वर्षे परिपाटीरियं यस्य कस्यचित् स्वगोत्रं विस्मृतं चेत्, श्रविदितञ्च चेत्, तदा सामान्यतया सर्वेषां ब्राह्मणादीनां कृते वर्तमानं कश्यपगोत्रं स्वस्मिन् मन्तव्यम् कश्यपगोत्रीयोऽहमि त्यभिधातव्यञ्चेति । एवं महाभारतस्य शान्तिपर्वणि विश्वका - रणात् महादेवात् प्राक् ब्राह्मणा एव सृष्टाः, नान्ये क्षत्रियादयः सृष्टाः पश्चात् राष्ट्ररक्षणपोषणादिप्रयोजनायैव तेभ्य एव ब्राह्म- पेभ्यः ‘वन्तुभ्यः पटा इव’ सुवर्णपिण्डात् श्राभरणानीव च ’ क्षत्रि- याद्याः वर्णाः सृष्टाः, इत्याहु: - ‘वाक्संयमकाले हि तस्य वरप्रदस्य देवदेवस्य ( सकाशात्) ब्राह्मणाः प्रथमं प्रादुर्भूताः । ब्राह्मणेभ्यश्च शेषाः वर्णाः प्रादुर्भूताः ॥’ (म० भा० शा०प० ३४२-२१) इति संसृष्टा ब्राह्मणैरेव त्रिषु वर्णेषु सृष्टयः ।’ (म० भा० शां० ६०-४२) सृष्टयः = संतानानि, तेन सर्वेषां वर्णानां ब्राह्मणजत्वाद् अस्त्येव शूद्रस्यापि यज्ञेऽधिकार इत्यर्थः (नीलकण्ठव्याख्यानम् ) ‘तस्मा- शौनकादिमहर्षि विहितचातुर्वर्ण्य विभागः १५ द्वर्णा ऋजवो ज्ञातिवर्णाः संसृज्यन्ते तस्य विकार एव । एकं साम यजुरेकमृगेका विप्रश्चैको निश्चये तेषु सृष्टः ।।’ (म० भा० शा० प० ६०-४७ ) इति । तस्माद् - ब्राह्मणात् रक्षणाद्यर्थं क्षत्रियादयो वर्णाः संसृज्यन्ते = विरच्यन्ते । श्रत एव तस्य ब्राह्मणस्य ते क्षत्रियाद्याः ज्ञातिवर्णा सन्ति एतेन धर्मसाम्येऽपि ज्ञातिसाम्यं ब्राह्मणक्षत्रियादिषु नास्तीति शंका परास्ता । पुनः कीदृशास्ते ऋजवः = समस्वभाववन्तः- तत्सारल्य विनयाद्युपेताः- साधवः सन्ति । श्रत एव तस्य प्रकृतिभूतस्य ब्राह्मणस्य क्षत्रि यादिः कार्यरूपविकार एवास्ति । यथा मृत्तिकारूपप्रकृतेर्घटादि- विकारः तत्स्वरुपभूतः । तेन धर्मतो जन्मतश्च सर्वे वर्णा ब्राह्मणसंसृष्टा इति स्थितम् । तत्र हेतुमाह - एक इति । तेषु तत्त्वनिश्चये क्रियमाणे एको विप्रः = ब्रह्मैव, प्रथमो ब्राह्मणः सृष्टः=जातः, ब्राह्मणसन्ततित्वात् सर्वेऽप्येते क्षत्रिय - वैश्य - शूद्रा इति तत्तत्कर्मयोगात्संज्ञिता अपि मनुष्या ब्रह्मसन्तानत्वात् मूलजातितः ब्राह्मणा एवेत्यर्थः । तत्र दृष्टान्तः- यथा एकस्मादो- ङ्कारात् सृष्टाः सामादयो वेदा एकीभूताः तत्समानगौरवशा- लिनः सन्ति । तथा प्रकृतेऽपि तेषु क्षत्रियादिषु विप्रः = ब्राह्मण एव सृष्टः, स एव क्षत्रियादिरूपेण परिणतोऽभूदित्यर्थ । प्रत एव श्राभरणादिकार्येषु कारणरूपेण स्वर्ण इव’ तेषु कार्यभूतेषु क्षत्रियादिषु कारणतया ब्राह्मण एव वभाति । यद्वा एकं सामेति - ‘प्रकारो वै सर्वा वाक् संषा स्पर्शोष्मभिर्व्यज्यमाना बही नानारूपा भवति इति श्रुतेः’ एकमकाररूपमेवाक्षरं यथा सामादिरूपं, तथा ब्रह्मैव ब्राह्मणादिचातुर्वर्ण्यरूपमित्यर्थः । (नीलकण्ठः) ‘ससर्ज ब्राह्मणानग्रे सृष्ट्यादौ सः चतुर्मुखः । सर्वे वर्णाः पृथक् पश्चात् तेषां वर्णेषु जज्ञिरे । ’ ( पद्म-पु० उत्कल- १६ चातुर्वर्ण्य भारत समीक्षा

खण्डे - ३८-४४ ) इति । तेषां = ब्राह्मणानां रक्तादिवर्णेषु पृथ- क्तया जज्ञिरे = प्रादुर्भूताः स्म इत्यर्थः । अत एव शतपथ ब्राह्मणेन ब्राह्मणसंभूतयोः क्षत्रियवैश्ययोः ब्राह्मणत्वव्यवहार इत्थमनुमो- दितः तस्मादपि राजन्यं वा वैश्यं वा ब्राह्मण इत्येवं ब्रूयात्, ब्रह्मणो हि जायते, यो यज्ञाज्जायते ।’ ( शत० ब्रा० का० ३ प्रपा० ९क० ४० ) एवमापस्तम्बोsपि क्षत्रियवैश्ययोरपि ब्राह्मणशब्देनैवाऽऽवेदनं दर्शयति- ‘ब्राह्मणो वा एष जायते, यो दीक्षते’ इति । ‘तेन सर्वण संस्कारेण क्षत्रियो ब्राह्मण्यं प्राप्नोति ।’ ‘तस्माद्राजन्यवैश्या श्रपि ब्राह्मण इत्येवावेदयति’ इत्यादिसाय- णीयं भाष्यं द्रष्टव्यम् । पाण्डवचरितम् • सति चैवं वनवासकाले द्रौपदीस्वयंवरसमये च क्षत्रियप्रव राणां सत्यवादिनां धर्मनिष्ठानां युधिष्ठिरादिपाण्डवानां ब्राह्म- णत्वकथनं ब्राह्मणधर्म भिक्षाटनादिकञ्च वर्ण्यमानं महाभारतादौ संगच्छते न च तदा तेषां ‘वयं ब्राह्मणाः स्मः’ इति कथनेन तद्वेषमृगाजिनादिधारणेन चानृतवादित्वं कपटाचरणशीलत्वञ्च संपद्यमानं बभूव । यथा हि - वनवाससमये द्रौपदीस्वयंवरस्थाने सर्वे युधिष्ठि- रादयः पाण्डवाः ब्राह्मणवेषकृष्णाजिनादिधारकाः ‘दयं ब्राह्मणाः स्मः’ इति ब्रुवाणाः ब्राह्मणसभायामवस्थिताः ब्राह्मणत्वेन व्यवह्रियमाणाश्चासन् । श्रत एवार्जुनो यदा विप्राणां मध्याज्जिष्णुरुदारधीः । ( म० भा० आदिपर्वरि‍ मत्स्यवेधं विधातुं - ‘प्रथोद तिष्ठद् १८८- १ ) । तदा कंश्चित् ब्राह्मणैरिदमुक्तमर्जुनं प्रति-भो ब्राह्मणबटो ! यदि त्वं मत्स्यवेधे विफलो भविष्यसि तदा- गुणकर्मवादे पाण्डवचरितम् १७ ‘श्रवहास्या भविष्यन्ति ब्राह्मणाः सर्वराजसु ।’ ( श्रादिपर्वणि १८८६ ) इति । तद्वचनं श्रुत्वाऽर्जुनस्य बटो: प्रशस्ताकृति दृष्ट्वाऽन्ये ब्राह्मणा एवमूचुः - ‘न च तद्विद्यते किञ्चित् कर्म लोकेषु यद्भवेत् । ब्राह्मणानामसाध्यञ्च ।’ ( श्रा० प० १८८- ११) ‘दुर्बला श्रपि विप्रा हि बलीयसः स्वतेजसा ।’ (१३) ‘जामदग्न्येन रामेण निर्जिताः क्षत्रिया युधि । पीतः समुद्रोऽग- स्त्येन श्रगाधो ब्रह्मतेजसा । तस्माद ब्रुवन्तु सर्वेऽत्र बटुरेष धनुर्महान् । श्रारोपयतु शीघ्र वै तथेत्यूचुद्विजर्षभाः ॥’ ( १४-१५ ) इति । एवमर्जुनपराक्रमेण मत्स्यवेधे सम्पन्ने सति - ‘विस्मिताः राजसत्तमाः । वृत्तो ब्राह्मोत्तरो रङ्गः, पाञ्चाली ब्राह्मणेर्वृता ।’ ( म० भा० ४० ) इति । लोकाः कथयामासुः । उत्तरं = उत्कृष्टं यस्मिन् स ब्राह्मोत्तरः । वृत्तः = विजितः इत्यर्थः । प्रा० प० १६० ३६- ब्रह्म = ब्राह्मणजातिः, रङ्गः संग्रामस्थलः, तदाऽर्जुनस्य द्रौपदीविजेतुर्ब्राह्मणस्येमं विजयं दृष्ट्वा विस्मितः कर्णः, तं प्रति उवाच - ‘तुष्यामि ते विप्रमुख्य ! भुजवीर्यस्य संयुगे । संयुगे । किं त्वं साक्षाद् धनुर्वेदो रामो वा विप्रसत्तम ! ॥’ इति ( श्र० १६०।१६ ) । ’ तमेवं वादिनं तत्र फाल्गुनः प्रत्यभाषत। नास्मि कर्ण ! धनुर्वेदो नास्मि रामः प्रतापवान् । ब्राह्मणोऽस्मि युधां श्रेष्ठः सर्वशस्त्रभृतां वरः । ब्राह्मे पौरन्दरे चास्त्रे निष्ठितो गुरुशासनात् । स्थितो- ऽस्म्यद्य रणे जेतुं त्वां वै वीर ! स्थिरो भव । वैशंपायन ब्राह्म उवाच - ‘एवमुक्तस्तु राधेयो युद्धात्कर्णो न्यवर्तत । तेजस्तदाऽजय्यं मन्यमानो महारथः ॥ ’ पर्वणि स्वयंवरपर्वणि १६०।२०- २१-२२ ) इति । फाल्गुनः = (म० भा० आदि १८ चातुर्वर्ण्य भारत- समीक्षा प्रर्जुनः । राधेयः = राधापुत्रः कर्णः । युधां = योद्ध णां । सुपर- चितो वेषान्तरेण समक्षमवस्थितः संभाषणं कुर्वाणोऽप्यर्जुनः श्राकृत्या स्वरेण च कर्णेन तत्त्वेन न ज्ञातोऽभूदित्याश्चर्यम् । यद्वा ‘लाक्षागृहे सर्वे पाण्डवाः मृताः’ इति दृढतर निश्चयेन हेतुनाऽर्जुनपरिचयसंपादने सामर्थ्यं नाभूत्तस्येति मन्ये । एवमरण्ये यत्र तत्र विचरन्तः पाण्डवाः ब्राह्मणधर्मग्य वेदाध्ययनभैक्षाचररणादेः पालनं कुर्वन्तो ब्राह्मणभावेनैव सर्वत्र प्रसिद्धाः अभूवन् इत्येतैर्महाभारतस्य वचनैरप्यवगम्यते - ‘जटाः कृत्वाऽऽत्मनः सर्वे, वल्कलाजिनवाससः । सह कुन्त्या महात्मानो बिभ्रतस्तापसं वपुः ॥ ब्राह्मं वेदमधीयाना वेदाङ्गानि च सर्वशः ।’ (म० भा० प्रा० प० हिडम्बबधपर्वणि १५६ । ३ - ४ ) इति । ‘चेरुर्भैक्षं तदा ते तु सर्व एव विशां पते ! | (म० भा० प्रा० प० बकवधपर्वणि १५७।४ इति च । यदा हि एकचक्रा नगर्यां गताः, तत्र स्थितस्य कस्यचित् ब्राह्मणस्य गृहे ब्राह्मण- वेषेण स्थिताः पाण्डवा श्रासन् तदा स्वगृहनिवासदातारं राक्षसविहितप्रभूतसंकटसमाक्रान्तं ब्राह्मणं प्रति दयाशीलया कुन्त्या देव्येदं कथितम् - मम बलवान् पुत्रो बकराक्षसवधाय त्वदर्थं गमिष्यतीति । तदा धर्मभीरुणा ब्राह्मणेनेदमुक्तम्- ब्राह्मणस्यातिथेस्त्वत्पुत्रस्य मम स्वार्थाय राक्षसात्संपादितो विनाशः सर्वथाऽनुचितोऽस्ति, नाहमेतत्करिष्यामीति । ब्राह्मण उवाच - ‘नाहमेतत्करिष्यामि, जीवितार्थी कथञ्चन । ब्राह्मण- स्यातिथेश्चैव स्वार्थे प्रारणान् वियोजयन् ।। ब्रह्मवध्याऽऽत्मवध्या वा, श्रेयानात्मवधो मम । ब्रह्मवध्या परं पापं निष्कृतिर्नात्र विद्यते ॥’ ( म० भा० प्रा० प० बकबधपर्वणि १६१।४-६ ) ‘श्रेयांस्तु सह दारस्य विनाशोऽद्य मम स्वयम् । ब्राह्मणस्य वधं गुणकर्मवादे - पाण्डवचरितम् नाहमनुमंस्ये कदाचन ॥ ’ ( ० प० १६१-१२ ) इति । १६ तथा चेदमेतैर्वचनैरवगम्यते, यत् तदानों स्वेच्छावशात् स्वस्वरुच्यनुसारेणार्यजनो यं यं ब्राह्मणादिवर्णं प्राप्तुं यद्यद्वर्ण- धर्मंश्च पालयितुमभिललाष, तं तं वर्णं प्राप्तुं शशाक, तत्तद्धमीश्चाभ्युपगन्तुं प्रबभूव । अद्यतनदृष्टकठिनवर्णबन्धनवत् तदा तादृशं कठिनं वर्णबन्धनं नाभूत्, किन्तु तत्तद्गुणकर्म- वेषादिपरिवर्तन तस्सहजतस्तत्तद्वर्णपरिवर्तनं कर्तुमार्याः प्राभवन् । तदानीं ब्राह्मणभावेन वर्तमानानां धर्मनिष्ठानां पाण्ड- वानां कृते न कश्चन शास्त्रप्रतिषेधो दृष्टः, न च लोकगर्हा- प्रतिषेधः संजातः किन्तु समुदारशीलाभ्यां शास्त्रलोकाभ्यामनुमोदितमासीदिति तद्भारतेतिहासेन ज्ञायते । ‘अप्रतिषिद्धं तदनुमोद्यते’ इति न्यायात् । लक्षणः एतेन - ’ चातुर्वण्यं मया सृष्टं ’ ( गी० ४-१३ ) इति गीता- वचनस्य ‘सर्वं वाक्यं सावधारणमि’ ति न्यायमाश्रित्य मयैव चातुर्वर्ण्यं सृष्ट्यादौ सृष्टं नैव पुनरन्येन केनाप्युपायेन स्रष्टुं शक्यते इति केनचिद्विहितं व्याख्यानं परास्तम् । पूर्वोक्त- वचनेषु शौनकादिमहर्षिभिर्गुणकर्मावलम्बनेन चातुर्वर्ण्यस्य सृष्टत्वप्रतिपादनात् । एवं भगवान् मनुरपि ब्राह्मणादीन् मानवान् असृजदिति वाल्मीकिरामायणे महाभारते चेत्थं वर्णितं - ‘मनुर्मनुष्याञ्जनयद् राम ! पुत्रान्यशस्विनः । ब्राह्म- णान् क्षत्रियान् वैश्यान् शूद्रांश्च मनुजर्षभ ! ॥’ ( वा० रा० अरण्यकाण्ड० १४ - २९) ‘मनोवंशो मानवानां ततोऽयं प्रथितोऽ- भवत् । ब्रह्मक्षत्रादयस्तस्मान्मनोर्जातास्तु मानवाः ॥ ’ ( म० भा० श्रादिपर्व ० ७५-१३ ) इति । २० चातुर्वर्ण्य - भारत - समीक्षा भृगुभारद्वाज-संवादः तथा महाभारतस्य शान्तिपर्वणि भृगुरुवाच- ब्राह्मणानां क्षत्रियाणान्तु लोहितः ( रक्तः ) सितो ( शुक्लः ) वर्ण, वैश्यानां पीतको वर्णः शूद्राणामसितः ( कृष्णः ) तथा । । ’ ( म० खलु भा० शां० १० १८८ । ५) इत्येवं भृगुणोक्ते सति भारद्वाज उवाच - ‘चातुर्वर्ण्यस्य वर्णेन यदि वर्णो विभिद्यते । सर्वेषां वर्णानां दृश्यते वर्णसंकरः ।।’ अर्थात् चतुर्णा ब्राह्मणादीनां शुक्लादिवर्णेन प्रयोजकेन वर्णविभागो मन्येत चेत्, तदा सर्वेषां ब्राह्मणादीनां मध्ये वर्णानां सांकर्यमेव दृश्यते । न हि सर्वे ब्राह्मणाः शुक्ला एव सन्ति, कुत्रचित् रक्ताः पीता: कृष्णा अपि दृश्यन्ते । एवं क्षत्रिया अपि वैश्या अपि शूद्रा श्रपि विभिन्नशु- क्लादिवर्णेन प्रतीयन्ते, अतः शुक्लादिवर्णदर्शनेन वर्णविभाग- निश्चयो न कर्तुं शक्यत इत्यर्थः । ‘काम क्रोधो भयं लोभः, शोकश्चिन्ता क्षुधा भ्रमः । सर्वेषाञ्च प्रभवति, कस्माद्वर्णो विभिद्यते ? ||’ अर्थात् कामादीनां दोषाणामपि सर्वेषु ब्राह्मणादिषु सामान्यतया वर्तमानत्वात् कामादिदोषा अपि ब्राह्मणादिवर्ण- विभागप्रयोजका न भवन्तीति भावः । ‘स्वेदमूत्रपुरीषाणि श्लेष्मा पित्तं सशोणितम् । तनुः क्षरति सर्वेषां कस्माद्वर्णो विभज्यते ? । अर्थात् निखिलेषु शरीरेषु सामान्यतया वर्तमानानि स्वेदादीन्यपि समानस्वरूपाणि सन्ति, ब्राह्मणादिवर्णविभाग- प्रयोजकानि न भवन्तीति भावः । इत्येवंभूताः शंकाः समाधातुं पुनर्भ गुरुवाच- ‘न विशेषोऽस्ति वर्णानां सर्वं ब्राह्ममिदं जगत् । ब्रह्मणा पूर्वसृष्टं हि कर्मभिर्वर्णतां गतम् ।।’ अर्थात् तत्तद्गुणान् तत्तत्कर्माणि च विहाय ब्राह्मणादिवर्णानां व्यावर्तकं विशेषः = वैलक्षण्यमवलोक्यमानं नास्ति किमपि । वस्तुतः इदं सर्वं मनु- गुणकर्मवादे उमा-महेश्वरसंवादः २१ जादि जगत्, ब्रह्मरणा सृष्टत्वात् उपलक्षणमिदं ब्रह्मव्यवस्थानात् तत्रैव च विलीयमानत्वाच्च ब्रह्मभूतमेवास्ति ‘सर्वं खल्विदं ब्रह्म’ ( छा० उ० ३।१४११ ) इति श्रुतेः । श्रतो नंदं ब्रह्मणो मनागपि विभिन्नमस्ति । तथापीदं मनुजादि जगत् तैः तैः कर्मभिः, उप- लक्षणतया तत्तद्गुणैरेव च विभिन्नवर्णतां गतं प्राप्तम् । श्रर्थात् गुणकर्मादिरेव वर्णभेदव्यवहारप्रयोक्ता बभूव । श्रतोऽद्यतनानां सर्वेषां ब्राह्मणादीनां मिथुनसंप्रयोगेण मातृयोनिमार्गेणैव च समुत्पत्तिदर्शनात् मुखादिरूपेण ब्राह्मणादीनां कथनं विद्याबल- धनश्रमादिगुणकर्म निबन्धनस्तुतिप्रदर्शनायैव विज्ञेयम् ।

प्रत एव द्विजाः - ब्राह्मणाः एव ज्ञानविज्ञानशमदमदयादा- नादीनि स्वगुणकर्माणि परित्यज्य - ‘कामभोगप्रियाः तीक्ष्णाः, क्रोधनाः प्रियसाहसाः । शूरा वोराश्च रखताङ्गास्ते द्विजा क्षत्रतां गताः । गोभ्यो वृत्ति समास्थाय पीताः कृष्युपजीविनः । वाणिज्याद्यनुतिष्ठन्ति ते द्विजाः वैश्यतां गताः ॥ हिंसाऽनृतप्रिया लुब्धाः सर्वकर्मोपजीविनः । कृष्णाः शौचपरिभ्रष्टास्ते द्विजाः शद्रतां गताः ॥’ इत्येतैः कर्मभिर्व्यस्ता द्विजा वर्णान्तरं गताः ॥ ( म० भा० शा० प० १८८६ ७ ८-६-१०-११ ) इति । अतोऽत्रेदं स्पष्टमवगम्यते यत् उत्तमगुणकर्मभिरुत्तमवर्णत्वमिव, प्रधमगुणकर्मभिरधमवर्णताऽपि प्राप्यते इति । तस्मात्तत्तद्गुण- कर्मावलम्बिन्येव ब्राह्मणादिवर्णव्यवस्था इति सिद्धम् । उमा-महेश्वरसंवादः श्रत्र महाभारतस्यानुशासनपर्वण्यवस्थित उमामहेश्वरसंवा- दोऽपि द्रष्टव्यः । तथाहि - ‘ज्ञानविज्ञानसम्पन्नः संस्कृतो वेद- पारगः । विप्रो भवति धर्मात्मा क्षत्रियः स्वेन कर्मणा ।। प्रर्थात् क्षत्रियोऽपि ब्राह्मणोक्तगुणकर्मभिर्विप्रो भवतीति स्पष्ट- २२ चातुर्वर्ण्य - भारत-समीक्षा मत्रावेदितम् । एतैः कर्मगुणैर्देवि ! न्यूनजातिकुलोद्भवः । शोsयागमसम्पन्नो द्विजो भवति संस्कृतः ॥’ अर्थात् शूद्रोऽपि तत्तद्गुणकर्मभिद्विज- ब्राह्मणो भवतीत्यनेन विज्ञायते । ‘ब्राह्मणो वायसद्वृत्तः सर्वसंकरभोजनः । ब्राह्मण्यं सः समुत्सृज्य शूद्रो भवति तादृशः ।।’ अर्थात् दुराचारी ब्राह्मणोऽपि दुष्टगुणकर्मभिः स्वकीयं ब्राह्मणत्वं विहाय शूद्रो भवत्येव तुल्यन्यायेन । श्रनेनो- त्तमविचाराचारैः श्रधमोऽप्युत्तमत्वमिवोत्तमोऽपि निकृष्टविचा राचारः श्रधमो भवत्येवेति स्पष्ट मावेद्यते । ‘कर्मभिः शुचिभि- देवि ! शुद्धात्मा विजितेन्द्रियः । शूद्रोऽपि द्विजवत्सेव्यः, इति ब्रह्माऽब्रवीत् स्वयम् ॥ स्वभावः कर्म च शुभं यत्र शूद्रेऽपि तिष्ठति । विशिष्टः स द्विजातेर्वे विज्ञेय इति मे मतिः ॥ न योनिर्नाऽपि संस्कारो न श्रुतं न च संततिः । कारणानि द्विज- त्वस्य वृत्तमेव हि कारणम् । सर्वोऽयं ब्राह्मणो लोके वृत्तेन तु विधीयते । वृत्ते स्थितस्तु शूद्रोऽपि ब्राह्मणत्वं नियच्छति ॥ ब्राह्मः स्वभाव : सुश्रोणि ! समः सर्वत्र मे मतिः । निर्गुणं निर्मलं ब्रह्म, यत्र तिष्ठति स द्विजः ।’ (म० भा० अनु० १४३।४५-४६-४७- ४८-४९-५० -५१-५२ ) इति । उक्त्वा चान्तेऽपि गुणकर्म निबन्ध- नामेव तत्तद्वर्णप्राप्ति दर्शयन्नुपसंहरति- ‘एतत्ते गुह्यमाख्यातं, यथा शूद्रो भवेत् द्विजः । ब्राह्मणो वा च्युतो धर्माद्यथा शूद्रत्व- माप्नुते ॥’ (म० भा० अनु० १४३।४६ ) इति । वज्रसूच्युपनिषत् · इतोऽपि तत्तद्गुणकर्मावलम्बिन्येव वर्णव्यवस्था । एवं वज्रसूच्युपनिषदि समाम्नायते— ‘ब्रह्म क्षत्रिय वैश्य शूद्राः’ इति चत्वारो वर्णाः । तेषां वर्णानां ब्राह्मण एव प्रधानः इति वेदवच- नानुरूपं स्मृतिभिरप्युक्तम् । तत्र चोद्यमस्ति ? को वा ब्राह्मणो गुणकर्मवादे वज्रसूच्युपनिषत् २३ नाम ? कि जीवः ? किं देहः ? कि जाति ? किं ज्ञानम् ? किं कर्म ? कि धार्मिकः ? इति । तत्र प्रथमो जीवो ब्राह्मण इति चेत्, तन्न, प्रतीतानागतानेकदेहानां जीवस्यैकरूपत्वात्, एकस्यापि कर्मक्शादनेकदेहसंभवात्, सर्वशरीराणां जीवस्यैकरू- पत्वाच्च । तस्मान्न जीवो ब्राह्मण इति । तर्हि देहो ब्राह्मण इति चेत्तन्न, श्राचाण्डालादिपर्यन्तानां मनुष्याणां पाञ्चभौतिक- त्वेन देहस्यैकरूपत्वात्, जरामरणधर्माधर्मादिसाम्यदर्शनाद् ब्राह्मणः श्वेतवर्णः क्षत्रियो रक्तवर्णो वैश्यः पीतवर्णः शूद कृष्णवर्ण इति नियमाभावात् । पित्रादिशरीरदहने पुत्रादीनां ब्रह्महत्यादिदोषसंभवाच्च । तस्मान्न देहो ब्राह्मण इति । तहि जातिर्ब्राह्मणः इति चेत्तन्न । तत्र जात्यन्तरजन्तुष्व नेकजाति- संभवा महर्षयो बहवः सन्ति । ऋष्यश्रृङ्गो मृग्या: ( १ ) कौशिकः कुशात् ( २ ) जाम्बूको जम्बूकात् ( ३ ) वाल्मीको वल्मीकात् ( ४ ) व्यासः कैवर्त कन्यायां ( ५ ) शशपृष्ठात् गौतमः ( ६ ) वसिष्ठः + / इदं ऋग्वेदेऽपि श्रूयते - ’ उतासि मैत्रावरुणो वसिष्ठोवंश्या ब्रह्मन् ! मनसोऽधिजातः । द्रप्तं स्कन्नं ब्रह्मणा दैव्येन, विश्वेदेवाः पुष्करे त्वाददन्तः ॥ ’ ( ऋ० ७|३४|११ ) इति । उत = अपि च, हे वसिष्ठ ! त्वं मैत्रावरुणः = मित्रावरुणयोर्द्वयोः पुत्रः, असि = भवसि । हे ब्रह्मन् ! त्वं उर्वश्याः अप्सरसः मनसः = ममायं पुत्रः स्यादितीदृशात् संकल्पात् द्रप्संरेतो वीर्यं मित्रावरुणयोरुर्व- शीदर्शनात्, स्कन्नं = स्खलितमासीत् । तस्मादधिजातोऽसीत्यर्थः । एवं जातं त्वा = त्वां दैव्येन देवसम्बन्धिना, ब्रह्मणा वेदराशिना = युक्तं पुष्करे = क्षेत्रविशेषे विश्वेदेवाः, अददन्त = अधारयन्त । तदेतद् बृहद्देवतायां स्मर्यते - ’ तयोरादित्ययोः सत्रे दृष्ट्वाऽप्सर समुर्वशीम् । रेतश्चस्कन्द तत्कुम्भे न्यपतद् वासवीवरे । तेनैव C.२४ चातुर्वर्ण्य - भारत-समीक्षा उर्वश्याम् ( ७ ) अगस्त्यः कलशे जात इति श्रुतत्वात् । एतेषां जात्या विनाऽप्यग्रे ज्ञानप्रतिपादिता ऋषयो बहवः सन्ति । तस्मान्न जातिर्ब्राह्मण इति । तहि ज्ञानं ब्राह्मण इति चेत्तन्न । fararasa परमार्थदशिनोऽभिज्ञा बहवः सन्ति । तस्मान्न ज्ञानं ब्राह्मण इति । तहि कर्म ब्राह्मण इति चेत्तन्न । सर्वेषां प्राणिनां प्रारब्धसंचितागामिकर्मसाधर्म्य दर्शनात्कर्माभिप्रेरिताः सन्तो जनाः क्रियाः कुर्वन्तीति, तस्मान्न कर्म ब्राह्मण इति । तहि धार्मिको ब्राह्मण इति चेत्तन्न, क्षत्रियादयो हिरण्यदातारो बहवः सन्ति, तस्मान्न धार्मिको ब्राह्मण इति । तहि को वा तु मुहूर्तेन वीर्यवन्तौ तपस्विनौ । अगस्त्यश्च वसिष्ठश्च तत्रर्षी संबभूवतु || बहुधा पतितं रेतः कलशे च जले स्थले । स्थले वसिष्ठस्तु मुनिः संभूत ऋषिसत्तमः । कुम्भे त्वगरत्यः संभूतो जले मत्स्यो महाद्य ुतिः । उदियाय ततोऽगस्त्यः शम्यामात्रो महा- तपाः ॥ मानेन संमितो यस्मात्तस्मान्मान्य इहोच्यते । यद्वा कुम्भादृषिर्जातः कुम्भेनापि हि मीयते । ( बृ० दे० ५ । १४६- १५४ ) इति । ‘कुम्भे रेतः सिषिचतुः समानम् । ततो ह मान- मुदियाय मध्यात्ततो जातमृषिमाहुर्वसिष्ठम् ।।’ (ऋ० ७|३४| १३) कुम्भे = वासवीवरे कलशे, समानं = एकदैव, रेतः सिषिचतुः मित्रावरुणौ प्रसिञ्चताम्, ततः = कुम्भात् मध्यात् अगस्त्यः, मानः शमीप्रमाणः, उदियाय = प्रादुर्बभूव । तत एव कुंभात् वसिष्ठं अपि ऋषि जातमाहुः । वसिष्ठादेरीदृशी उत्पत्तिर्वाल्मी- कीयरामायणे—–‘उर्वश्या एवमुक्तस्तु रेतस्तन्महदद्भ ुतम् (५६।२१ ) इत्यादी । एवं श्रीमद्भागवतेऽपि - ‘मित्रावरुणयोर्जज्ञे उर्वश्यां प्रपितामहः । ( भा० ९ | १३|६ ) इत्यादौ स्पष्टं निरू- प्यते । प्रपितामहः = वसिष्ठः, जज्ञे = प्रादुर्भूतः इत्यर्थः । 1 ľ गुणकर्मवादे प्रस्था इदं निश्चितं तात्पर्यम् २५ ब्राह्मणो नाम । यः कश्चिदात्मानमद्वितीयं जातिगुणक्रियाहीनं बमषड्भावेत्यादिसर्वदोषरहितं सत्यज्ञानानन्दानन्तस्वरूपं - करतलामलकवत्साक्षादपरोक्षीकृत्य कृतार्थतया कामरागादि- दोषरहितः शमदमादिसम्पन्नो दम्भाहंकारादिभिरसंस्पृ- ष्टचेता वर्तते, एवमुक्तलक्षणो यः स एव ब्राह्मण इति श्रुतिस्मृ- तिपुराणेतिहासानामभिप्रायः । अन्यथा हि ब्राह्मणत्व सिद्धि- निस्त्येिव । ’ ( व० सू० उ० ) । अस्या इदं निश्चितं तात्पर्यम्

एतेनात्र श्रनया हि जात्यादिखण्डनं पुरस्कृत्य ब्राह्मण्यप्रयोजकम- शेषगुणमूर्धन्यमपरोक्ष ब्रह्मात्मज्ञानमेवेति प्रदर्शयन्त्या वर्णव्यव स्थायाः गुणकर्मावलम्बनत्वमेव सूच्यते । ब्राह्मणप्राधान्यप्रयोजकमेव ब्रह्मज्ञानं प्रतिपाद्यते, न तु ब्राह्मण- वर्णत्वप्रयोजक मिति केनचिदुक्तं निरस्तम् । यतोऽत्र वर्णत्वस्य खण्डितत्वात् तत्प्राधान्यस्यात्रानिरूपणाच्च ‘कथं ब्राह्मणः प्रधानः स्यादि ? ति । श्रस्तु वा तत्प्राधान्यप्रयोजकं ब्रह्मज्ञानं, यदाहुः शिष्टाः विद्वद्वरा श्रपि ब्राह्मणानाञ्च ब्राह्मण्यं ब्रह्मचर्यादभिव्यज्यते । संप्राप्य ब्रह्मनिष्ठत्वं पूर्ण ( मुख्यं ब्राह्मण्यमाप्यते ।।’ इति परञ्च ब्राह्मणवर्णत्वप्रयोजकन्तु ब्रह्मज्ञानसाधकशमादिगुणकर्मवैशिष्ट्यमेव श्रन्यथा गुरणकर्म- शून्या निर्वचनानर्हा सांकेतिको वराको ब्राह्मणत्वा दिजातिः कि करिष्यति ? । न ह्यौष्ण्यप्रकाशविहीनेन सूर्यत्वावच्छि- नेन तमो विहन्तुं विश्वाह्लादकमालोकञ्च विस्तारयितुं शक्यते । तथाभूतस्य वा सूर्यस्यास्तित्वपरिचयोऽपि कथ स्यात् ? । एवं तत्तद्गुणकर्मरहित ब्राह्मणक्षत्रियादेः ‘चिकित्सा- दिगुणकर्म रहितस्य डाक्टरस्येव कानूनज्ञानादिगुणकर्मरहितस्य २६ चातुर्वर्ण्य भारत समोक्षा बेरिष्टरस्येवास्तित्वपरिचयोऽपि केन कथं वा लभ्यः स्यात् ? । अतः पृथिव्यादाविव व्यवहारविषयाया श्रनिर्वचनीयायास्तत्त- जातेरपि परिचयस्तत्तदसाधारणगुणादिकमादायैव सिद्धीत सर्व सुस्थम् । एतेन ‘जन्मना जायते शूद्रः, संस्काराद् द्विज उच्यते । विद्यया याति विप्रत्वं ब्रह्मवित् ब्राह्मणो भवेत् ।।’ इत्यादीनि वचनानि व्याख्यातानि । शंका-समाधानम् ननु-वर्णव्यवस्थायास्तत्तद्गुणकर्मावलम्बित्वे बाल्ये गुणा- देरनभिव्यक्तत्वेन कुतो ब्राह्मण्यादिनिर्णयः, तदभावे च कुतस्तरामष्टवर्षोपवीत धारणादिसंस्कारप्रविभाग इति चेन्न, तत्तद्रोगपरीक्षणकुशलस्य राजवैद्यस्येव, मनुजस्वभावाकृतिवर्णा- दिपरीक्षणकुशलस्याचार्यस्यापक्षपातया परीक्षया बाल्येsपि ‘प्राकृतिर्गुणान् कथयतीति’ न्यायेन विशेषतोऽनभिव्यवततत्त- द्गुणकर्मादिनिर्णयसम्भवेन ब्राह्मण्यादिनिर्णयसम्भवात् । तदेतदुक्तं शिष्टानसरेण वेदार्थाभिज्ञेन मनुनापि-‘आचार्यस्त्वस्य यां जाति विधिवद्ध दपत्पादयति सावित्र्या सा सत्या साऽजरामरा ॥’ ( मनुस्मृ० २।१४८ ) इति । माणवकस्या- कृतिवर्णोच्चारणादिपरीक्षणेन सावित्र्या = गायत्रीमन्त्रप्रदानद्वारा यां ब्राह्मणत्वादिजाति, उत्पादयति = प्रकटयति, सैव जातिः सत्या == यथार्था विज्ञेया, संवाजरामरा - शाश्वती चेत्यर्थः । प्रतः - ‘ब्राह्मणत्वादिरूपैव जातिरत्र विवक्षिता । सा नैव जन्मतः सिद्धा, किन्त्वाचाय्र्येण जन्यते ।। ) स्वाध्यायेन व्रतैर्होमैस्त्रिवि द्येनेज्यया सुतैः । महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः iľ (म०स्मृ०२।२८) ’ न त्वेव जन्ममात्रेण ब्राह्मी जातिर्भवेन्नृणां । न क्षात्रो न च वा वैश्या नैव शौद्रीतिनिर्णयः । ब्राह्मणत्वादिरूपा गुणकर्मवादे शंका समाधानम् २७ हि या जातिः कल्पिता नृषु । कर्मैव कारणं तस्यां न जन्मेति सती स्थिति ॥’ ( मा० भा० ) इति । पितृभ्यां शरीरस्य संभूतिमात्रं क्रियते, न तु ब्राह्मण्यादिजातिः संपाद्यते, तस्यास्तु तत्तद्गुणकर्मादिभ्य एवेत्याह- भगवान् मनुः - ‘कामा- न्माता पिता चैनं यदुत्पादयतो मिथः । संभूति तस्य तां विद्यात्, यद्योनावभिजायते ।। ( म० स्मृ० २।१४७ ) इति । एनं - बालकं, कामात्- हेतोः, संभूति= उत्पत्ति इत्यर्थः । लोकनेत्रा ननु तत्तद्गुणकर्मादिस्वभावस्यानवस्थितत्वेन ब्राह्मण्यादेः परिवर्तनापातात् इति चेदिष्टापत्तेः । एवं तहिं कथं व्यवस्था- पनम् ? यथा दृष्टं तथैव परीक्षणेन तद्वयवस्थापनसंभवात् । यदाह - ’ स्तेनोऽपि वाल्मीकिरभून्महर्षिः, विप्रोऽपि दैत्यो दशकन्धरोऽभूत् ।’ इति । ननु तर्हि विवाहादिसम्बन्धस्य का गतिः ? प्रयत्नतः समुद्रिक्ततत्तद्गुणकर्मस्वभाववर्णाकृत्यादिपरी- क्षणेन तस्य यथावदवस्थितिरेव गतिरिति गृहाण । अतएव श्रीराजगोपालाचार्येण दाक्षिणात्यब्राह्मणेन स्वकन्यायाः, वैश्यजातित्वेन व्यवहृतस्य विश्वप्रसिद्धस्य भारतराष्ट्रसमुद्धर्तुर्महात्मगान्धेः पुत्रेण साकं ‘क्षत्रियययाति- राजेन सह ब्राह्मणेन शुक्राचार्येण स्वकन्यायाः देवयान्या इव’ समुद्रिक्तगुणकर्मसाम्यमवलोक्यैव विवाहो विहितः । श्रतएव भवता शास्त्राभिज्ञेन वर्णान्तरे विवाहः कथं कृतः ? इत्येवं केनचित्पृष्टेन तेनेत्थं तस्य समाधानमभिहितमपि तत्तद्गुरणकर्म- साम्यं बोधयितुं - ’ न मया वर्णान्तरे विवाहः कृतः किन्तु समान एव वर्णे, वर्ण्यन्ते निरूप्यन्त इति वर्णास्तत्तद्गुणकर्मादयः, द्वयोः समाना एव सन्ति । यतोऽहं यादृशदेहवर्णवान् बेरिस्टरो वैष्णवः शाकाहारी रामनामप्रियो गीतापाठकश्च तथा २८ चातुर्वर्ण्य भारत समीक्षा महात्मा गान्धिरपि । श्रतएव मत्कन्यायास्तत्पुत्रस्य च समान एव वर्णो विद्यते, समानं शिक्षादीक्षादिकमपि । प्रतस्तयोमिथः स्नेहमूला विवाहाय स्वीकृतिरपि संजाता, मवाऽनुमोदिता च । एवं बहवो विवाहा गुणकर्मसाम्यैन संप्रति स्वतन्त्र भारते राष्ट्र प्रवर्तमानाः सर्वैरप्यवलोक्यन्ते इति । पौराणिक वचनसंमतिः एवं तत्तद्गुणकर्माण्येव वर्णविभागस्य बीज मितीममर्थं साधयितुमपरे पुनः पौराणिका श्रपि महत्याऽऽरभटया तत्तद्गुण- कर्मशून्यां ब्राह्मणत्वादिजाति खण्डयन्तः प्राहुः । तथाहि - ‘कि ब्राह्मणाः ये सुकृतं त्यजन्ति ? किं क्षत्रियाः लोकमपालयन्तः ? | स्वधर्महोना हि तथैव वैश्याः शूद्राः स्वमुख्य क्रियया विहीनाः ? ॥ तस्मान्न गोऽश्ववत् कश्चित्, जातिभेदोऽस्ति देहिनाम् । कार्य- शक्तिनिमित्तस्तु संकेतः कृत्रिमो भवेत् || एवं प्रमाणैः प्रतिषि- ध्यमानां सांकेतिकों याति नरो व्यवस्थाम् । स्वकीयसिद्धां स्वमतनिषिद्धां न बुध्यते मूढमना वराकः ॥’ (भविष्य पु० प्र० ४।११-१२-१३ ) इति । प्रर्थात् शमदमक्षमादया विनय विवेकादि- लक्षणं सुकृतं = पुण्यं ये परित्यजन्ति, ते किं ब्राह्मणा भवितुम- र्हन्ति ? नैवेत्यर्थः । एवं शौर्यधैर्यदाक्ष्यबलादिक्षत्रलक्षणरहिताः अत एव लोकं = स्वकीयं राष्ट्रं पालयन्तः = पालनं रक्षणमकु- र्वाणा: किं नाममात्रेण क्षत्रियाः भवितुमर्हन्ति ? नैवेत्यर्थः । तथैव कृषिवाणिज्यधनसञ्चयदानादिलक्षणेन स्वधर्मेण रहिताः कि वैश्या भवितुमर्हन्ति ? नैवेत्यर्थः । एवं स्वमुख्य सेवा शिल्प- कौशल्यश्रमादिरूपक्रियया रहिताः किं शूद्राः भवितुमर्हन्ति ? नैवेत्यर्थः । अत एव देहिनां = मनुजानां तत्तद्गुणकर्मादिकं विहाय वस्तुतः कश्चित् जातिभेदः = जातिवैलक्षण्यसाधकं ● गुणकर्मवादे चित्तपावन विप्रोत्पत्तिकथा २६ ‘गोश्ववत्’ वर्णाकृतिभेदादिकं नास्ति किमपि । तत्तत्कार्याणां साधिकाः याः याः विद्याबलधनादिलक्षणाः शक्तयः, तन्नि- मित्तः तत्प्रयोजितो ब्राह्मणत्वादिलक्षणः संकेतस्तु कृत्रिम एव स्यादित्यर्थः । विभक्तव्यवहारायैव प्रकल्पितो भवेदिति यावत् । ‘शूद्रो ब्राह्मणतामेति ब्राह्मणश्चैति शूद्रताम् । क्षत्रियो याति विप्रत्वं, विद्याद् वैश्यं तथैव च ॥’ (भ० पु० ४०।२५ ) ‘शूद्राः देशान्तरं गत्वा ब्राह्मणं क्षत्रियं श्रिता । व्यापाराकारभाषाद्यै- विप्रतुल्यैः प्रकल्पितैः ॥ ( भ० पु० ४१ | ३ ) इति । उत्तमगुणा- दिभिः शूद्रो ब्राह्मणत्वं एति = प्राप्नोति एवं प्रधमगुणादिभि- ब्रह्मणः शूद्रत्वं प्राप्नोतीत्यर्थः एवं क्षत्रियोऽपि वैश्योऽपि विप्रत्वं याति = प्राप्नोतीत्यर्थः । ब्राह्मणं ब्राह्मणत्वं, क्षत्रियं = क्षत्रियत्वं, भावनिर्देशोऽयम् । देशान्तरं गताः शूद्राः, ब्राह्मणाः क्षत्रियाश्च भवन्ति । प्रकल्पितैः व्यापाराकारभाषाद्यैविप्रतुत्यैः स्वनिष्ठं ब्राह्मणत्वक्षत्रियत्वादिकं प्रत्याययन्ति ‘वयं ब्राह्मणाः क्षत्रियाश्च स्मः’ इतीत्यर्थः । श्रत एव प्राच्यार्थगवेषराशीला इतिहासविदो वदन्ति यत् - इदानींतना बहवः कोट्यधिका ब्राह्मणत्वक्षत्रिय- त्वादिना व्यवह्रियमाणाः चित्पावन मराठाप्रभृतयो जनाः पूर्वं जात्यन्तरविशिष्टा आसन्निति । चित्तपावनविप्रोत्पत्तिकथा तत्र प्रमाणत्वेन महाराष्ट्रादौ प्रसिद्धानां चित्तपावन विप्रा- णामुत्पत्तौ चेदृशी कथा स्कन्दपुराणस्य सह्याद्रिखण्डादौ श्रीशंक- रेणोदिता - श्रूयते । तद्यथा - ’ एवं निवासं कुर्वत्सु, अकस्माद्दैव- योगतः । नीत्वा सागर मध्यस्थैम्लेंच्छैर्बर्बरादिभिः || बहून्य- ब्दान्यतीतानि तेभ्यो जाताश्च सन्ततिः । चितास्थाने तु सहसा , ह्यागतांश्च ददर्श सः (परशुरामः ) || का जातिः कश्च धर्मश्च ? ३० कैवर्तका चातुर्वर्ण्य - भारत - समीक्षा क्व स्थाने चैव वासनम् ? (निवास: ) । एवं रामेण ते पृष्टा इदम् ।। जाति पृच्छसि हेराम ! जातिः कैवर्तकः स्मृतः । सिन्धुतीरे कृतो वासो व्याधकर्मविशारदः ।। चतुर्दश ऊचुः गोत्रकुलं स्थापितं चातुरङ्गके । 1 सर्वे च गौरवर्णास्त ’ सुनेत्राश्च सुदर्शनाः । तेषां षष्टिकुलं श्रुत्वा पवित्रमकरोत्तदा ॥ ब्राह्मण्यञ्च ततो दत्त्वा सर्व विद्यासुलक्षकम् चितास्थाने [ पवित्रत्वात् चित्तपावनसंज्ञकाः । ’ इति । अधिकन्तु वैदिक संपत्ति– संज्ञके हिन्दी ग्रन्थे श्रीरघुनन्दन शर्मरणा लिखिते ४६३।७० इति पृष्ठे द्रष्टव्यम् । ततः = तेभ्य इत्यर्थः । ब्राह्मणोत्पत्तिमार्तण्डकथा एवं ब्राह्मणोत्पत्तिमार्तण्डनाम्नि ग्रन्थे - भगवान् मर्यादा- पुरुषोत्तमः श्रीरामचन्द्रः किरातात् शूद्रान् ब्राह्मणान् कृत्वा तेभ्यः पितुः श्राद्धकर्म वने समाचरत् पश्चात् तेभ्यो रामोऽब्र- वीत्, यूयमद्याऽऽभ्य ब्राह्मणा एव भवन्तु ते रामाज्ञया तथैव संवृत्ताः, सांप्रतमपि श्राभीरभिल्लनामधेयेन ते व्यवह्रियन्ते’ इत्या- दिकमितिवृत्तं ते प्रदर्शयन्ति ( गुणकर्मवादिनः ) । तत्रत्याः कति- चिदनुसंधेया इमे श्लोकास्तैः पाठकानां निश्चयार्थमुपक्षिप्यन्ते । यथा हि - ‘वनाद्वनान्तरं गच्छन्, विन्ध्याद्रिनिकटे यदा । श्राद्धं प्राप्तं कुदेशेऽत्र कथं कर्म भविष्यति ? || विप्राभावेन चिन्तायां निमग्ने सति राघवे । तत्रैव पञ्च कैवर्ताः संप्राप्ता वनचारिणः ॥ तान् पप्रच्छ रामो वै के यूयमि ? ति तेऽब्रुवन् । वयं किराताः राजेन्द्र ! किं कार्यं वद नः प्रभो ! ॥ रामो विचिन्तयामास करिष्यामि द्विजानिमान् । चकार भूमौ रेखानां सप्तकं तदनन्त- रम् । उल्लंघयन्त्विमा रेखा इति तानब्रवीत्प्रभुः ॥ प्रथमायां शुद्ध भिल्लाः, द्वितीयायाञ्च शिल्पिनः । तृतीयायां च शूद्रा व गुणकर्मवादे परशुरामनिर्मित ब्राह्मणवर्णनम् ३१ सच्छूद्राश्च ततः परम् ।। पञ्चम्यां हि वयं वैश्याः, षष्ठयां वं क्षत्रिया इति । सप्तम्यां तु वयं विप्रा इति रामो वचोऽन- वीत् । श्रथ रामश्च तैः साकं श्राद्धकर्म समाचरत् । प्रथ तानब्रवीद्रामः पूर्वमार्गेण गच्छथ ।। हे राम ! ते कृपालेशात् ईदृशीं पदवीं गताः । न गच्छामः पुनर्योनि कैवर्ताख्याधमां प्रभो ! तदा रामोऽब्रवीत्तान् वै यूयं भूमौ द्विजातयः । भवन्तु भिल्लनामानश्चाभीरापरनामकाः ।। ’ ( ब्रा० उ० मा० द्वाविं शतितमे २२ ) प्रकरणे इति । परशुरामनिर्मितब्राह्मणवर्णनम् यथा भगवता रामेण पितुः श्राद्धकर्मणे कैवर्ता: सप्तानां स्वनिर्मित रेखाणामुल्लंघनमात्रेण ब्राह्मणाः कृताः, तथा परशुरा- मेण भार्गवेणापि केरल देशमब्रह्मण्यं प्रेक्ष्य तत्र त्येभ्यः कंवर्तेभ्यो विशिष्टा चारपद्धति समुपदिश्य, तेषां च कण्ठे यज्ञसूत्रं निधाय ते ब्राह्मणा विहिताः । इति स्कन्दपुराणे सह्याद्रिखण्डस्योत्तर- काण्डेऽपीत्थं वर्ण्यते- ‘अब्रह्मण्ये तदा देशे ( केरले ) कैवर्तान् प्रेक्ष्य भार्गवः । विशिष्टाचारमादिश्य यज्ञसूत्रमकल्पयत् ॥ स्थापयित्वा स्वकीये सः क्षेत्रे (केरले ) विप्रान् प्रकल्पितान् । जामदग्न्यस्तदोवाच सुप्रीतेनान्तरात्मना ।। ’ ( १०३।३१ ) इत्यादिना भार्गवपरशुरामप्रसादात् कैवतैरपि महाशूद्रैर्ब्राह्मण- त्वलाभः सम्पादित इति विज्ञायते । श्रत एव ते परशुरामप्रक- पिता ब्राह्मणाः संप्रत्यपि नम्बुद्धि ( नम्पूतिरि ) नाम्ना प्रसिद्धाः सन्ति । नम्पू ( केरलभाषायां ) = पतवार इति हिन्दीभाषायाम्- नौकाया: संचालनप्रयोजको हस्तसंचालितो दण्डविशेषः । तिरि (केरलभाषायां ) इत्यस्य परित्यागोऽर्थः ‘हटाना’ इति हिन्दी - भाषायाम् । इयं किल संज्ञा तेषां प्राक्कालिकं वृत्तं सूच- ३२ चातुर्वर्ण्य भारत समीक्षा 1 यति । संप्रति ते वयं सर्वोत्तमाः पवित्राचारनिष्ठाः विप्रोत्तमाः स्मः इति स्वनिष्ठं प्रभतं गौरवं प्रकटयन्ति । संप्रत्यपि विवाहस- ये ते मत्स्यस्पर्श कुर्वाणाः स्वपूर्वतमपुरुषनिष्ठमत्स्योपजीवित्वं ज्ञापयन्तीति ‘भारतवर्ष में जातिभेद’ नाम्नि हिन्दीपुस्तके स्पष्टम् । सति चैवं यदाहुर्भविष्यपुराणेऽपि पौराणिका अपि - वेदान- धीत्य वेदौ वा वेदं वापि यथाक्रमम् । प्रोद्वहन्ति शुभां कन्यां, शुद्धब्राह्मणजां नराः ॥ अथवाऽधीत्य वेदांस्तु क्षत्रवैश्यास्तु वा नराः । गौडपूर्वा कृतामियुर्जात वा दाक्षिणात्यजाम् । अपरि- ज्ञातशूद्रत्वात् ब्राह्मण्यं याति कामतः । तस्मान्न ज्ञायते भेदो वेदाध्याय क्रियाकृतः ॥ ’ ( भ० पु० ४१ ४-५-६ ) इति । कामतः = स्वच्छन्दत । एव भूयांसोऽवरवर्णजाः शूद्रा श्रपि बलशौर्यादिकमवाप्य भूप्रदेशमात्मसात्कृत्य राजानः क्षत्रियाः संवृत्ताः । एवमुत्तर- प्रदेशस्थाः प्राक्कालिकाः भटनागरसंज्ञया संप्रत्यपि प्रसिद्धाः कायस्था श्रपि सहस्राधिकसंवत्सरेभ्यः पूर्वं गुर्जरदेशं समवाप्य केचन नागरब्राह्मणाः केचन नागरवैश्याश्च संवृत्ता इतीतिहास- समालोचकानां नातीवतिरोहितम् । एवं डॉ० भाण्डारकरस्तु तत्तद्गोत्रोपाधिनामुभयत्र समानरूपेणोपलब्धत्वात् बंगदेशीय- कायस्थाः गुर्जर देशीयनागराश्च मूलतः एक एव सन्तीति वदति । विशदीकृतोऽयमर्थ:- ‘भारतवर्ष में जातिभेद’ इतिसंज्ञके हिन्दी भाषापुस्तके, कलकत्ताशान्ति निकेतनतः प्रकाशिते । एवमन्यत्र जातिसमालोचनादौ स्पष्टम् द्रष्टव्यं तत्स्पष्टावगतिका मेनेति । सत्यकाम जाबालवृत्तान्तः एवं छांदोग्योपनिषदि सत्यकाम जाबालोपाख्याने सत्य- । गुणकर्मवादे सत्यकाम जाबालवृत्तान्तः لله ३३ कामस्य जाबालस्य स्वपितृ - जाति - गोत्र ज्ञानरहितस्य सत्यव- गुणमात्रेण ब्राह्मणत्वप्रतिपादनमुपलभ्यते । तथाहि प्राक् सत्यकामेन विद्यालाभाय गुरुकुलं प्रवेष्टुकामेन स्वकीया मातेत्थं पृष्टा - ‘कि गोत्रो न्वहमस्मीति’ ‘सा हैनमुवाच, नाहमेतद्वेद तात ! यद्गोत्रस्त्वमसि ।’ बह्वहं चरन्ती, परिचारिणी यौवने त्वामलभे ।’ ( छा० उ० ४।४।२ ) इति । श्रयमर्थः - श्रहमेका किनी युवती जीवननिर्वाहाय बहु चरन्ती = इतस्ततोऽनेकस्थलं गच्छन्ती, परिचारिणी - विविधानां जनानामृषीणाञ्च विविधां परिचर्या = सेवां कुर्वाणा सती, यौवने मदीये यौवनकाले, त्वां पुत्ररूपेणाहं श्रलभे = लब्धवती । साऽहं नैव जानामि - बहूनां समागमे सति, कस्मात्त्वं संभूतोऽसीति, अर्थात् - कस्त्वदीयः पिताऽभूदिति । पितृज्ञानमन्तरा तज्जातिज्ञानं तद्गोत्रज्ञानञ्च कथं संभवेत् ? इति । श्रतस्तव पितुर्नामाऽप्यहं न जानामि कुतस्तज्जाति, कुतस्तरां तद्गोत्रमप्यहं जानीयामिति ? । श्रतो जबाला माताऽहमस्मि त्वन्तु मदीयः पुत्रः सत्यकामोऽसीत्येता- वदेवाहं जानामि । एतदेव स्पष्टतया निर्भयतया च गुरवे वक्त- व्यम् । एवं सत्यकामाय पुत्राय मात्राऽपि निष्कपटं लोकवि- गर्हितमध्येतादृशं निर्भयं सत्यमेव वचः संभाषितम् । यदि सत्यकामस्य कश्चन पिता जीवितो वा मृतो वा ‘बृहस्पतिभार्यया तारया प्रबोधितः स्वपुत्रस्य बुधस्य चन्द्रमा पितेव तत्पृथक्तया विज्ञापितः स्यात्तन्मात्रा जबालया, तदा तत्पार्श्ववतिभ्यः तत्सम्बन्धिभ्योऽपि जनेभ्यः तज्जातिगोत्रादिज्ञानं सुलभं भवे- दिति । परन्तु तत्पितुः तत्पृथक्तया ज्ञानाभावादेव तन्मात्रा स्पष्टतया ‘नाहमेतद्वेद’’ इति सत्यमेवाभिहितम् ।३४ चातुर्वर्ण्य भारत समोक्षा तस्य सत्यकाम जाबालस्य गुरुकुले समागतस्य प्रशस्तामाकृति दृष्ट्वा स्वपरनिष्ठघृणाजनकमपि तदतिस्पष्टं निर्भयं सत्यवचनं च श्रुत्वा हारितद्रुमतो गौतम श्राचार्यः प्रसन्नः सन् इदमुवाच - ‘नैतदाह्मणो विवक्तुमर्हति, समिधं सोम्याहर, उप तथा नेष्ये, न सत्यादमा इति’ ( छा० उ० ४।४।५ ) एतत् = निष्कपटं सत्यवचनं, अब्राह्मणः = ब्राह्मणभिन्नो वि= विशेषतयाऽतिस्पष्ट- तया वक्तुं नार्हति श्रर्थात् प्रतिस्पष्टं निर्भयं निरभिमानत्व- पोषकं सत्यवचनमेवास्ति ब्राह्मणलक्षणम्, तेन लक्षणेन संयुक्त- त्वात्, स्वपितृ - जाति - गोत्रज्ञानरहितमपि त्वामहं ब्राह्मणमेव मन्ये, न ब्राह्मणभिन्नमिति । अत एव त्वं समिधं हवनाय हे सोम्य ! प्रियदर्शन ! श्राहर= श्रानय, त्वामहमुपनेष्ये तवाह- मुपनयनसंस्कारं करिष्यामि, यतस्त्वं सत्यात्- ब्राह्मणलक्षणात् न प्रगाः = प्रचलितवानसीत्यर्थः परं धर्मं सत्यं रक्षितवानसीति यावत् । उक्तञ्च महाभारते - ‘य एव सत्यान्नापैति, स ज्ञेयो ब्राह्मणस्त्वया ।’ (म० भा० वन० २८|४) इति । एतेनेदं विज्ञायते यत् तदानींतनाः कुलपतयो विद्वद्धौरेया: श्राचार्या श्रपि - विशालहृदयाः सरलस्वभावाः समुदारचेतस- श्चासन् । ये किल स्वपुरोवर्तिनं विद्यार्थिनं दृष्ट्वा तद्वचनं च श्रुत्वा तस्य योग्याधिकारञ्च विनिर्णीय, तस्मै प्रशस्ततत्तद्गुण- कर्मनिबन्धनां तां तां तद्योग्यां कक्षां समर्प्य स्वराष्ट्राभ्युदयाय वर्ण विभागं व्यवस्थापयामासुः । श्रत एव यजुर्वेदस्य काठकसंहितायां ब्राह्मणपरिचयस्य न ब्राह्मणमातृपितृजन्यत्वलक्षणजात्याऽपि तु प्रशस्त विद्यादिगुणतः 1 एव कर्तव्यत्वप्रतिपादनमित्यमुपलभ्यते । यथा हि - ’ किं ब्राह्मणस्य पितरं किमु पृच्छसि मातरम् ? । श्रुतं चेदस्मिन् वेद्यं हि स पिता गुणकर्मवादे - कवषरय - ऐलूषस्य गाथा ३५ स पितामहः । ( ३००१ ) इति । श्रयमर्थः - कस्मिन् समये केनचित् कश्चन सद्विद्यादिगुणाढ्यो महर्षिः - ‘भवतः कः पिता का च माताऽस्ति, अर्थात् तव पित्रोः किं जात्यादिवैशिष्ट्यं विद्यते ?’ इति पृष्टः । तदीयं प्रश्नं श्रुत्वा स विद्वद्वरो महामना महर्षिर्वदति ब्राह्मणस्यार्थात् ब्राह्मणत्वाभिव्यञ्जक- तत्तत्प्रश- स्तविद्यादिसात्त्विकगुणकर्मविशिष्टस्य किं पितरं वा मातरं वा त्वं पृच्छसि । अर्थात् भवतु यः कोऽपि पिता वा माता वाऽस्य शरीरस्य समुत्पादकः, तेन कि ? तत्तत्कुले शरीरजन्मनो देवाय - त्तत्वात् । ‘दैवाधीनं कुले जन्म, मदायत्तन्तु पौरुषम् ।’ इति स्मरणात् । यद्यस्मिन् शरीरे वेद्यं श्रुतं = वेदनीयं - अभ्यर्हरणीयम् - सद्विद्यादिलक्षणं प्रशस्तं ब्राह्मणत्वप्रयोजकं गुणकर्मादिकं विद्यते, स एव पिता स एव पितामहो वेदितव्यः, इति तेन स्पष्टमेवा- भिहितम् । कवषस्य - ऐलूषस्य गाथा ऐतरेय ब्राह्मणे कवषस्यैलूषस्य शूद्रस्यापि महता तपसा द्विजोत्तमत्वस्यावाप्तिर्मन्त्रद्रष्टृत्व रूपस्य महर्षित्वस्य चावा- प्तिः - ‘ऋषयो हि वै सरस्वत्यां सत्रमासत । ते कवषमैलूषं सोमादनयन्, दास्याः पुत्रः कितवोऽब्राह्मणः कथं नो मध्ये दीक्षिष्टेति’ ( ऐ० ब्रा० ८१ ) इत्यादिग्रन्थेन समाम्नायते । तत्रत्यस्तस्येत्थं वृत्तान्तः - शूद्रो हि कवषो यज्ञे प्रविश्य दीक्षां गृहीतवान् । तस्य शूद्रत्वं विज्ञाय सावेशमृषिभिस्तत्रत्यैः स बहिष्कृतः । अस्यानधिकार चेष्टायाः कटुफलं विधातुं- ‘सरस्वत्याः पावनं जलमयं मा पिबतु, किन्तु पिपासयैवायं स्त्रियतामि त्यभिप्रेत्य निर्जले मरूप्रदेशेऽयं वराक: ऋषिभिस्तनिक्षिप्तोऽभूत् । तथा चोक्तं- ‘तं बहिर्धन्वोदवहन्, कवषः ३६ चातुर्वर्ण्य - भारत-समीक्षा नं पिपासा हन्तु, सरस्वत्या उदकं मा पादिति । (ऐ० ब्रा० ८1१ ) इति । तं कवषं सरस्वतीतीराद् बहिः = दूरे, धन्व= जलरहितां मरूप्रदेशभूमि प्रति उदवहन् = उद्ध तवन्तः- लापसारितवन्तः । धन्वदेशे बलात् प्रेरयित्र णामयमभिप्रायः- श्रत्र जलवजिते देशे एनं कवषं पिपासा मारयतु, सरस्वत्या नद्या: पवित्रमुदकमयं पापिष्ठो मा पिवत्वित्यर्थः । तत्र गतोऽयं तीव्रण तया किल ‘अपां तपसाऽनन्यसाधारण विज्ञानशक्तिमवाप । नपादि त्यादि ऋग्वेदीयसूक्तसमूहस्य, तत्रावस्थित- विविध- मन्त्राणाञ्चायं द्रष्टा भूत्वा प्रमुखो महर्षिरभवत् । ततो भूयोभिर्महर्षिभिरयमभ्यर्हणीयतामापेदे । तस्य इलूषपुत्रस्य कवषस्य तपः सामर्थ्येन संजाते विशुद्ध एकाग्रे हृदये स्वयंप्रति- भातमन्त्र प्रार्थनाप्रभावात् प्राक् कुरुक्षेत्रे प्रवहनशीला सरस्वती नदी मरुप्रदेशेऽपि मधुरकलकल निनादवती दर्शनीयरूपा प्रवाहिताऽभूत् । तदेतदाम्नायते - ‘एतदपोनप्त्रीयमपश्यत् ‘प्रदे- वत्रा ब्रह्मणे गातु रेत्विति’ (ऐ० ब्रा० ८१ ) इति । प्र देवत्रेत्यादिकमपोनप्तृदेवताकं सूक्तं तपसा विशुद्धे हृदयेऽपश्यत् इत्यर्थः । मरुप्रदेशवास्तव्यानां मधुरस्वच्छजलाभावाद्विविधां पीडामनुभवतां कृतेऽयं महान् प्रमोदावसरः संजातः । एतस्याः नदीतमायाः देवीतमायाः विविधसुखप्रयोजिकायाः सरस्वत्याः समानयने कारणभूतोऽयमेव विशिष्टसामर्थ्यशाली कवषः ऐलूषो महषिरेवास्तीति विज्ञाय तदानींतनाः सर्वेऽपि जनाः तस्मै प्रभूतां कृतज्ञतामावेदयाञ्चक्रुः । दण्डवन्नमस्कारश्चि श्रद्धयाऽर्पयामासुरिति । इयं किल सरस्वती कुरुदेशे मरूप्रदेशेऽपि च बहुकालात् प्रवाहिताऽपि दुष्टप्रारब्धयोगात-हिमालयीय- प्लक्षसरोवरस्य विनाशात् भारते वर्षे सर्वथा विनष्टाऽभूदि गुणकर्मवादे कवषस्य ऐलूषस्य गाथा ३७ तीतिहासविदो विकुर्वन्त्येव । श्रत एव तद्विषये ‘लुप्तधारा गुप्तधारा सरस्वती’ तीदृशः सर्वजनप्रसिद्धः प्रवादोऽजायतेति । यदाह - ‘तं सरस्वती समन्तं पर्यधावत् । ( ऐ० ब्रा० ८1१ ) तेन जपितेन सूक्तेन सरस्वती नदी तं कवषं मरुप्रदेशेऽवस्थितं पिपासाव्याकुलं पर्यधावत् = परितः प्रवाहवेगेन प्रबृत्ताऽऽसी- दित्यर्थः । ऋग्वेदस्य दशममण्डलस्य त्रिंशत्तमे सूक्ते वर्तमान- मन्त्रप्रार्थना तस्यासीत्संक्षेपत ईदृशी । यथाहि - ‘अपां नपान्मधु- मतीरपोदा: ।’ ( ऋ० १०।३०१४ ) इदं किल - इलूषपुत्रस्य कवषस्याषं त्रैष्टुभं प्रब्देवताकं प्रपां नपाद्देवताकं वा । हे अपां नपात् = परमेश्वर ! श्रपां क्षीरसमुद्रजलानां मध्ये वर्त- मानः, नपात् = नम्यतमः प्रप्स्वन्तरवस्थितं तं नारायणाख्यं देवमभिलक्ष्य सर्वे भक्ता अतिशयेन प्रणता भवन्तीत्यतः क्षीरसमुद्रशायी सर्व भक्तजननमस्करणीयो नारायणो भगवान् ‘अपां नपादि’ त्युच्यते । यद्वा नपात् = श्रविद्यमानः पातः- च्युतिर्यस्य सोऽच्युतो देवो ‘नपात्’ इत्यनेनाभिधीयते । ‘हिरण्य- रूपः स हिरण्यसंदृक् श्रपां नपात्सेदु हिरण्यवर्णः । ’ ( ऋ० २। ३५। १० ) इति श्रुतेः । स त्वं मधुमतीः = मधुररसयुक्ताः, प्रपः = सरस्वतीनदीरूपाणि पवित्रजलानि, दा: अस्मभ्यं मरु- प्रदेशे वर्तमानेभ्यो देहि । ‘याभिः सोमो मोदते हर्षते च, कल्याणीभिर्युवतीभिर्न मर्यः । ’ ( ऋ० १०३०१५ ) देवमादनं प्रहिणोतनापः । ’ ( ऋ० १० ३०१७ ) इति । याभिः =अद्भिः- सारस्वतैः पवित्रजलैः सोमो देवो मोदते= मुदितो भवति, हर्षते च । तत्र दृष्टान्तः - न = यथा, मर्य: = मनुष्यः, कल्या- गोभिः = कमनीयाभिः सुन्दरीभिः, युवतिभिः = तरुणीभिः = स्त्रीभिः मोदते तद्वत् । हे देवा ! श्रस्माकं देवमादनं= देवानामिन्द्ररुद्रादीनां ३८

चातुर्वर्ण्य भारत समीक्षा मदरूपस्य हर्षस्य जनयित यज्ञसदनं प्रति आपः = सारस्वत- जलानि, मरुप्रदेशे प्रहिणोतन = गमयत प्रापयतेत्यर्थः । ‘प्रास्मै हिनोत मधुमन्तमूमि गर्भो यो वः सिन्धवो मध्व उत्स ( ऋ० १०1३०1८ ) हे सिन्धवः = स्यन्दनशीलाः सरस्वती- जलानि, वः = युष्माकं यः, मध्वः = मधुररसस्य गर्भः = सारभूतः, उत्सः = उत्स्यन्दनः - प्रस्रवणः, तं मधुमन्तं, ऊर्मि= अपसंघातं पवित्रजलसमूहं अस्मै श्रस्माकं यज्ञस्याधिष्ठात्रे इन्द्राय - परमात्मने प्रहिनोत = प्रगमयत । इत्येवं तेन देवसमुदाय- रूपो नदीजलाधिष्ठातृरूपो वा भगवान् पवित्रजललाभाय प्रार्थितोऽभूदिति तस्य विशिष्टसामर्थ्यशालिनीं प्रार्थनां श्रुत्वा- ‘आग्मन्नाप उशती बहिरेदं न्यध्वरे असदन्देवयन्तीः ।’ (ऋ० १०।३० | १५) उशतीः = उशत्यः कामयमानाः श्रापः = सरस्वती- पवित्रजलानि, इदं - बहिः वेदिस्तरणं श्रस्मद्यज्ञं प्रति श्राग्मन् = श्रागच्छत इत्यर्थः । श्रस्मद्यज्ञं प्रति श्र= आगत्य च अध्वरे= अस्मदीये यज्ञे देवयन्तीः- देवान् कामयमान्नाः- तर्पयितुमिच्छन्त्यः इत्यर्थः, नि श्रसदन् = न्यसीदन्- निवासं चक्रुः इति यावत् । उक्तमर्थं लोकप्रसिद्धया द्रढयति- ‘तस्माद्धाप्येतहि परिसारक- मित्याचक्षते, यदेनं सरस्वती समन्तं परिससार ।’ ( ऐ० ब्रा० ८। १ ) इति । यत् = यस्मिन् स्थाने सरस्वती नदी, एनं कवषं परिससार, तत्स्थानमेतहि अपि = एतस्मिन्नपि काले तीर्थ- विशेषाभिज्ञा: पुराणकर्तारः परिसारकमित्येतन्नाम्ना व्यवहरन्ति इत्यर्थः । इत्येवं तस्य कवषस्य प्रत्यक्षं सामर्थ्यं मरूप्रदेशेऽपि सरस्वती - समानयनलक्षणं - मन्त्रद्रष्टृत्वलक्षणञ्च ज्ञात्वा सर्वेऽपि महर्षयस्तं धन्यं धन्यमभिधाय विश्वामित्रादिवत् तस्मै ब्रह्मषिपदवीं समर्प- गुणकर्मवादे-भूयसां महर्षीणामपि ब्राह्मण्यलाभः ३६ यामासुः । श्रनया गाथयेदं स्पष्टमवगम्यते -यत्- पूर्वमुत्तमगुण- कर्माभावात् तिरस्कृतो यज्ञाद्द्बहिष्कृतः कवषैलूषोऽप्ययमुत्कृष्ट- गुणकर्माणि समवाप्याधमत्वं विहाय विशिष्टसामर्थ्यशाली भुत्वा सर्वोत्तमः पूज्यश्चाभवदिति । अत एव ब्राह्मणोत्पत्तिमार्तण्डेऽपी- दमभिहितं- ‘सर्वज्ञातिषु चाण्डाला:, सर्वज्ञातिषु ब्राह्मणाः । ब्राह्मणेष्वपि चाण्डालाः चाण्डालेष्वपि ब्राह्मणाः । ’ ( ५२४५ ) इति । एतदभिप्रेत्यैव भगवद्रामानुजाचार्येणाप्युक्तम्- ‘न शूद्राः भगवद्भक्ताः, विप्रा भागवताः स्मृताः । त एव शूद्रा विज्ञेयाः, ये चाभवता जनार्दने ।’ इति । भूयां प्रसिद्धानां वसिष्ठपराशरख्यासादीनां महर्षीणामपि महतस्तपसः प्रभावादेव ब्राह्मण्यलाभः वसिष्ठस्मृतौ द्विचत्वारिंशत्तमाध्याये, भविष्यपुराणे ब्राह्मे पर्वणि षष्टिकल्पे द्विचत्वारिंशत्तमाध्यायेऽपि च वसिष्ठपराशर- व्यासादीनां ब्राह्मण्यलाभस्य प्रतिपादका इमे श्लोकाः समाना एवोपलभ्यन्ते । यथाहि - ‘आचारमनुतिष्ठतो व्यासादिमुनिस- त्तमाः । गर्भाधानादिसंस्कार कलापरहिताः स्फुटम् । विप्रोत्तमाः श्रियं प्राप्ताः सर्वलोकनमस्कृताः । बहवः कथ्यमाना ये कतिचित् तान्निबोधत ॥ जातो व्यासस्तु कैवर्त्याः, श्वपाक्याश्च पराशरः । शुक्यां शुकः कणादाख्यः, तथोलूक्याः सुतोऽभवत् ।। मृगीजोऽय- शृङ्गोऽपि वसिष्ठो गणिकात्मज ।। मन्दपालो मुनिश्रेष्ठो नाविकापत्यमुच्यते । माण्डव्यो मुनिराजस्तु मण्डूकीगर्भसंभवः ॥ बहवोऽन्येऽपि विप्रत्वं प्राप्ता ये पूर्वमद्विजाः ॥ हरिणीगर्भसंभूतः ऋष्यश्रृङ्गो महामुनिः । तपसा ब्राह्मणो जातः, संस्कारस्तेन कारणम् ।। २८/कीगर्भसंभूतः पिता व्यासस्य पार्थिव ! । उलूकीगर्भसंभूतः कणादाख्यो महामुनिः । तपसा ४० चातुर्वर्ण्य - भारत - समोक्षा ब्राह्मणी जातः संस्कारस्तेन कारणम् ।। गणिकागर्भसंभूतो वसिष्ठश्च महामुनिः । तपसा ब्राह्मणो जातः संस्कारस्तेन कारणम् ।। नाविकागर्भसंभूतो मन्दपालो महामुनिः । तपसा ब्राह्मणो जातः संस्कारस्तेन कारणम् । इति । ( वसिष्ठ - स्मृतिः अ० ४० श्लो० २२ २३ २४ २५ २६ २७ २८ २९ ३० ) ( भ० पु० ब्राह्म० पर्वणि श्र० ४२ । इलो० १६ । २०।२१।२२।२३।२४। २५ २६ २७ ) इति । श्रत्र खलु ब्राह्मण्यलाभप्रयोजकं तपस्तु विविधं श्रुत्यादिषु प्रतिपादितं मन्तव्यम्, ’ स्वाध्यायप्रवचने एव तपः । ’ ( तै० उ० १०६ ) ’ मनसश्चेन्द्रियाणाञ्च काग्र्यं परमं तपः । ’ (म० भा० शां० २५/४) ‘ऋतं तपः, सत्यं तपः श्रुतं तपः, शान्तं तपो दमस्तपः, शमस्तपो दानं तपो, यज्ञं तपः’ ( तै० प्रा० १०।१) ऋतं = एकाग्रेण मनसा परमार्थवस्तुचिन्तनम् सत्यं = वाचा यथार्थ प्रियभाषणम् | श्रुतं = वेदादिशास्त्राणां गुरुमुखाच्छ्रवरणम्, शान्तं = शान्तिः रागद्वेषनिवृत्तिः, सकलकामनानिवृत्तिश्च, दमः = बाह्येन्द्रियाणां विषयास वितनिवृत्तिः । शमः = चाञ्चल्याभावः क्रोधादिराहित्यं वा, दानं = परोपकारो धनादिना, यज्ञः = श्रौत - स्मार्तशुभकर्माणि | योगदर्शनस्य व्यासभाष्ये हि - ‘तपो द्वन्द्व- सहनम्, द्वन्द्वश्च जिघत्सापिपासाशीतोष्णादीनि । तपो न परं प्राणायामात्, ततो विशुद्धिर्मलानां दीप्तिश्च ज्ञानस्येति ।’ (२।५२) ‘ब्रह्मचर्येण तपसा देवा मृत्युमपाघ्नत ।’ ( श्रथर्व ० सं० ११ १७ ) इत्यनेन ब्रह्मचर्यमेव मृत्युविनाशकं तपः प्रतिपाद्यते । भगवद्गीतासु च शारीरादिभेदेन त्रिविधं तपः सप्तदशाध्याये निरूपितम् । एतादृशेन तपसा ये पूर्वं श्रद्विजाः आसन् ते विप्राः ब्राह्मणा बभूवुः । श्रियं = यशोगौरवं प्राप्ताः, कैवर्त्या: = मल्लाह- कन्यायाः मत्स्योदरीमत्स्यगन्धेति संज्ञायाः, श्वपाक्याः = श्वमांस- । 1 ४१ गुणकर्मवादे-भूपसां महर्षीणामपि ब्राह्मण्यलाभ : पचनशीलायाश्चाण्डाल्याः । गणिकात्मजः = देव वेश्योर्वशीपुत्रः इत्यर्थः । तेन तस्मात् पूर्वोक्ततपःप्रभावात् जायमानः संस्कार एव सर्वोत्तमतालाभे कारणं प्रत्येतव्यम् । अत एव लौकिका अपि वदन्ति नदीनां मूलं, महर्षीणाञ्च कुलं नान्वेषणीयमिति । किन्तु तेषामनन्यसाधारणचरित्रप्रभाव एव वेदितव्यः । न केवलं लोकाः वदन्त्यपि तु महाभारतेऽप्याहु: - ‘ऋषीणां च नदीनां च, साधूनां च महात्मनाम् । प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरि- तस्य च ॥ तन्नात्र चिन्ता कर्तव्या महर्षीणां समुद्भवे । यथा सर्वगतो ह्यग्निः तथा तेजो महात्मसु ॥’ (म० भा० शान्तिपर्वणि २६६।१० - १८ ) इति । यद्वा-तत्रैव भविष्यपुराणे ब्राह्मे पर्वणि षष्ठिकल्पे ब्राह्म- ण्यसंस्कारविवेकनाम्नो द्विचत्वारिंशत्तमाध्यायस्य प्रारम्भ इदम- भिहितम् - ‘विद्वत्सदसि योऽप्याह, संस्काराद् ब्राह्मणो भवेत् । न्यायज्ञैः स निराकार्यो वावयन्ययानुसारिभिः ॥ ’ ( ४२१६ ) ‘ज्ञानाध्ययनमीमांसानियमेन्द्रियनिग्रहैः । विना, संस्कारयोगेऽपि पुंसः शूद्रान्न भिन्नता ।।’ इति । संस्कारः = गर्भाधानादिः, तस्य योगेऽपि ज्ञानादिभिविना, पुंसः = ब्राह्मणादेः, शूद्रात् न भिन्नता मन्तव्येत्यर्थः । ’ संस्कारः क्रियमाणश्च न शूद्रे किं प्रवर्तते ? | संस्कृताङ्गश्च पापेभ्यो न ब्राह्मणादिनिवर्तते ॥ संस्कृतोऽपि दुराचारो नरकं याति मानवः । निःसंस्कारः सदाचारो भवेद्वि- प्रोत्तमः सदा ॥’ ( भ० पु० ४२।१३-१४-१५) ‘गर्भाधानादि - संस्कारकलापरहिताः स्फुटम् ।’ इत्यादिश्लोकैः तादृशा व्यासा- दयोऽपि मुनयो विप्रोत्तमा बभूवुः । अतः तेन तस्मात् कारणात् संस्कारः किं कारणं भवति ब्राह्मण्यलाभ न भवतीत्यर्थः । ४२ चातुर्वर्ण्य - भारत-समोक्षा तथा चैते श्वपाक्यादिहीनतरजातिभ्यः समुदभूता श्रपि पराशरवसिष्ठव्यासादयो मुनयो ब्रह्मर्षयो विप्रोत्तमाः सर्वैरपि मन्यन्ते । प्रणिपातादिभिः सर्वैर्ब्राह्मणप्रवरादिभिरपि वन्द्यन्ते पूज्यन्ते च । वेदमन्त्रद्रष्टृत्वेन स्मृत्यादिशास्त्रप्रणेतृत्वेन विशाल- बुद्धित्वेनाद्भुत सामर्थ्यशालित्वेन च निखिलैरपि समाद्रियन्ते । गोत्रप्रवर्तका ब्राह्मणवंशकार काश्चेमे स्मर्यन्ते । न हि वर्णव्यव- स्थायाः गुणकर्मावलम्बित्वं विना सर्वमेतत् संघटते । जात्या हि ये श्वपाककैवर्तादयः कथं विप्रोत्तमतामुपगच्छेयुः ? | गुणकर्मावलम्बित्वे पुनर्वर्णव्यवस्थायाः नैष दोषः संभवति । तत्र पक्षे हि ब्राह्मणाद्युचितगुणकर्मसम्पन्नानां ब्राह्मणत्वाद्यङ्गीकारात् । ब्राह्मरणगुणकर्मसंयुक्ता ब्राह्मणा एव भवन्ति, क्षत्रियगुणकर्म- संयुक्ताः क्षत्रिया एव भवन्ति, एवमग्रेऽपि । यथा डॉक्टरगुणकर्म- संयुक्ताः ये केऽपि स्युः डॉक्टरा एव भवन्ति, वाक्कीलगुणकर्म- संयुक्ताः वाक्कीला एव भवन्ति, न डॉक्टरवाक्कीलमातापितृ- जन्यत्वेन तद्गुणकर्मरहिताः डॉक्टरा वाक्कीलाश्च भवितुमर्हन्ति, तथाऽभिधाने सति ते लोकोपहास्यतामेवोपगच्छे- युरिति । एवं हि तप आदिभिः प्रकृष्टगुणकर्मभिरेतेषां ब्रह्मर्षित्वं सुसम्पादमेव, अत एव स्मृतिपुराणादिषु स्पष्टं तथैव प्रतिपा दितम्, तस्मात् गुणकर्मनिबन्धनैव वर्णव्यवस्थेति सिद्धम् विविधानि प्रमाणानि श्रत एव हरिवंशपुराणे ब्रह्माण्डपुराणे विष्णुपुराणेऽपि च तत्तद्वर्णप्राप्तेः तत्तद्गुणकर्मणामेव प्रयोजकत्वमभिधीयते । यथाहि - ’ नाभागारिष्टस्य पुत्रौ द्वौ वैश्यो ब्राह्मणतां गतौ ।’ ( हरि० पु० ११।६।५८ ) इति । ब्राह्मण्यमुपजीवति । क्षत्रियो वाथ वैश्यो वा ब्रह्मभूयं स ‘स्थितो ब्राह्मणधर्मेण तत्तद्गुणकर्मादिभिरेव वर्णव्यवस्था विहिता ४३ गच्छति ।।’ । ( ब्र० पु० २२३।१४ ) इति । ‘एभिस्तु कर्मभिर्देवि ! शुभैराचरितस्तथा । शूद्रो ब्राह्मणतां गच्छेत्. वैश्यः क्षत्रियतां व्रजेत् ॥ ( ब्र० पु० २२३।३२ ) ‘तस्य त्रय्यारुणपुष्करिणौ कपिश्च पुत्रत्रयमभूत् । तच्च त्रितयमपि पश्चात् विप्रतामुपजगाम ।।’ ( वि० पु० ४।१६ ) इति । ‘न जात्या ब्राह्मणश्चात्र क्षत्रियो वैश्य एव न । न शूद्रो न च वं म्लेच्छो भेदिता गुणकर्मभिः । ’ ( शुक्र० नीति ० ० १ ३८ ) ‘ब्रह्मणस्तु समुत्पन्नाः सर्वे ते किं न ब्राह्मणाः ? । न वर्णतो न जनकात् ब्राह्मतेज: प्रपद्यते ।।’ ज्ञानकर्मोपासनाभिर्देवताऽऽरा- धने रतः । शान्तो दान्तो दयालुश्च ब्राह्मणश्च गुणैः कृतः ॥ ’ ( शक्र० नीति० १३३६-४० ) इति । ‘क्षान्तं दान्तं जितक्रोधं जितात्मानं जितेन्द्रियम् । तमेव ब्राह्मणं मन्ये शेषाः शूद्रा इति स्मृताः ॥ न जातिः पूज्यते राजन् ! गुणाः कल्याण- कारकाः । चण्डालमपि वृत्तस्थं तं देवा ब्राह्मणं विदुः । ’ ( बृहत् ० गौतम-स्मृतिः श्र० २१।६-१० ) इति । तत्तद्गुणकर्मादिभिरेव भगवत्पादेनादिमशंकराचार्येणापि ब्राह्मणादिवर्णव्यवस्था विहिता । आदिम शंकराचार्यप्रादुर्भावात् प्राक्काले भारतवर्षे पञ्चद- शकोटयधिका बौद्धाः ब्राह्मणादिवर्णविभागरहिता भगवदवतार- भूतरामकृष्णादिभक्तिशून्याः श्रुतिस्मृतिपुराणादिप्रतिपादितस- नातनधर्मविमुखाश्चासन् । अशोक सम्राट्प्रभृतयो बहवो राजानो भूयांसो धनाढयाश्च बौद्धधर्ममेव न तु वैदिकसनातन- प्रभूतया श्रद्धया मन्वाना अभवन्नितोतिहासविदो वदन्ति भगवत्पादप्रयोजितवैदिकधर्मप्रचारसमये ते सर्वे कि भारतात् निष्कासिता वा विध्वंसिता वाऽभवन्निति ? न वक्तुं शक्यते धर्म,४४ चातुर्वर्ण्य - भारत - समीक्षा धर्मं परित्यज्य ब्राह्मणादिवर्गमण्डित हिन्दुरूपेण कथं संवृत्ताः ? शक्यत्वात् । श्रतस्ते हि भगवत्पादशंकराचार्यप्रभावेण बौद्ध- इति प्रश्ने सति इदमेव सदुत्तरं वयं विद्महे - यथा पूर्वजाः शौनक- मन्वादयो महर्षयः तत्तद्गुणकर्मानुसारेण चातुर्वर्ण्यव्यवस्थामकु- र्वन् । तथा पूर्वज प्रदशितमार्गेणैव वैदिकसनातनधर्मसमुद्धारको भगवत्पाद प्रादिमशंकराचार्योऽपि तेषु तेषु भारतीयेषु मनुजेष तत्तद्गुणकर्मादीन् श्रभिवीक्ष्य तेषां तत्तद्ब्राह्मणादिवर्णेष्वभिरुचि च विज्ञाय गुणकर्मादिभिरेव तान् प्राक् बौद्धान् सर्वान् ब्राह्म णादिहिंन्दुरूपान् अकरोत् इति । भगवत्पादप्रचारानन्तरं पवित्रेऽस्मिन् भारते वर्षे एकोऽपि बौद्धो नावाशिष्यत । यस्मिन् शाक्ये वंशे स्वयं भगवान् बुद्धः प्रादुर्भूतः, तद्वंशप्रसूता श्रपि बौद्धधर्मं विहाय सर्वेऽपि पूर्ववत् श्रीरामकृष्णशिवादिभक्ताः वैदिकोपनयन गायत्रीमन्त्रलाभादिसंस्कारनिष्ठाः क्षत्रियाः एवा- जायन्त । इति । X अत एव निश्चितमिदं विज्ञायते भगवत्पादाः श्रीमहेश्वरपरावताराः शास्त्र युक्तिवचोवृन्दैः निखिलं बौद्धमतं समूलं निरस्य तत्तद्गुणकर्मादिभिरेव ब्राह्मणक्षत्रियादिवर्णाश्रम मण्डितं सनातनवैदिकधर्मं सर्वत्र प्रतिष्ठापयामासुः इति । ‘इत्थं श्रीशंकराचार्यऋ षिभिरिव पूर्वजैः । कर्मणैव कुते वर्णे सर्व- जातिनृसंग्रह ॥ चातुर्वण्यं तथैवाभूज्जीविते लोकसंग्रहः । गुणकर्मानुसारेण सनादिभिरप्युत ।। इति । Xबौद्धाः ब्राह्मणादिवर्णव्यवस्थारहिता आसन् इति न्याय- वार्तिकतात्पर्यटीकायां महाविद्वान् वाचस्पतिमिश्रोऽप्याह-‘न चैतेषामागमा वर्णाश्रमव्यवस्थाहेतवः, नो खलु निषेकाद्याः क्रियाः ( संस्कारलक्षणा : ) श्मशानान्ताः प्रजानामेते विदधति । श्रुतिस्मृतिपुराणनिरपेक्षागममात्रेण प्रवर्तन्ते ।’ । इति । ( न्या० वा० २१६८ ) । गुणकर्मवादे सर्वत्रार्यनिर्माणं कर्तव्यम् सर्वत्रार्यनिर्माणं कर्तव्यम् ४५ ‘कृण्वन्तो विश्वमार्यं हि भारतीयार्य पूर्वजाः । काश्यपक- मुख्या हि श्रुत्यादेशानुसारतः । श्रनार्यान् म्लेच्छसंज्ञान् वा, विजातीयान् विधर्मिणः । श्रध्यार्यान् वर्णर्धामिष्ठान् सदाचारान् प्रकुर्वत ॥ शुद्धाचारविचारैश्च, संयोज्य गुणकर्मभिः । श्रन्यः ( श्रेष्ठः ) संपद्यते वर्णः प्राग्जाति परिवर्त्य नुः । तेनापि कर्मणा वर्णः इत्येवं सिद्धयति ध्रुवम् ॥ जन्मना तु व्यवस्थायां न स्यात्तत्परिवर्तनम् । तस्माच्च कर्मणा वर्णो, न कुलेन न जन्मना । इत्येव शास्त्रमर्यादा शिष्टाचारानुमोदिता ॥ इति । यदाहु:- भविष्यपुराणेऽपि पौराणिका:- ‘तेषां मध्ये काश्यपश्च, सर्वज्ञान- मिश्र देशे मुनिर्गतः । सर्वान् म्लेच्छान् मोह- समन्वितः । यित्वा, कृत्वाऽथ तान् द्विजन्मनः । संख्या दशसहस्रं च नरवृन्दं द्विजन्मनां । द्विसहस्रं स्मृताः क्षत्राः वैश्याः शूद्रा इति स्मृताः ॥’ ( भविष्य पु० प्रतिसर्गपर्व ० खं० १ ० ६ ) ‘मिश्र देशोद्भवा म्लेच्छाः काश्यपेनैव शासिताः । संस्कृताः शूद्रवर्णात्ते ब्रह्मवर्ण- मुपागताः ॥ शिखासूत्रं समाधाय पठित्वा वेदमुत्तमम् । यज्ञैश्च पूजयामासुः देवदेवं शचीपतिम् ॥’ ( भ० पु० प्रति० खं० ४ । अ० २०।७५-७६) ‘सरस्वत्याज्ञया कण्वो मिश्र देशमुपाययौ । म्लेच्छान् संस्कृतमाभाष्य तदा दशसहस्त्रकान् ॥ वशीकृत्य स्वयं प्राप्तो ब्रह्मावर्ते महोत्तमे । सपत्नीकांश्च तान्स्लेच्छान् द्विज- वर्णान् हि प्राकरोत् ।।’ (भ० पु० प्रति० ४ ० २१ ) इति । एवं ‘वैदेशिका इहागत्य, शाकद्वीपादितः पुरा । बहवः संघशोऽभूवन् ब्राह्मणाः क्षत्रिया विशः || ‘शाकद्वीपीय’ इत्यादि – नाम्नाऽद्यापि जयन्ति ते । तेनापि कर्मणा वर्णो लोकाचारेण मीयते ॥ याः पुराणेतिहासेषु वर्णोत्पत्तिकथाः स्मृताः । ताभिश्च ४६ चातुर्वर्ण्य - भारत - समीक्षा कर्मणा वर्णो ज्ञायते न तु जन्मना ।।’ इति । एवं ‘म्लेच्छास्ते वैष्णवाश्चाऽऽसन्, रामानन्दप्रभावतः । संयोगिनश्च ते ज्ञेयाः, रामानन्दमते स्थिताः ॥ भाले त्रिशूल चिह्न च श्वेत रक्तं तदाऽभवत् । कण्ठे च तुलसीमाला जिह्वा राममयो कृता ॥ भ० पु० प्रति० खं० ४ । अ० २१ ) इति । एवं श्रीरामानुजाचार्यसंप्रदायेऽपि ‘पल्ली’ संज्ञकस्य शूद्रस्य कुले जातः शठकोप:, स च गुणकर्मभ्यामेव ब्राह्मण्यमधिगत्य श्रीवैष्णवसंप्रदायस्य परमाचार्यः संवृत्त इति : दिव्यसूरिचरित्र - चतुर्थसर्गोक्तवचनैरेतत् विदितं भवति । ‘श्रेष्ठः श्रीवैष्णवाचार्यः ‘शठकोपो’ऽन्त्यजात्मजः । जन्मकर्मविशुद्धानां ब्राह्मणानामभूद् गुरुः ॥’ इति । अन्ये च कतिपये - भक्तिसार - परकाल- मुनिवाह- नादयः श्रीवैष्णवाचार्याः शूर्पकार - भिल्ल - वेणुकाराद्यवरजाति- कुलजन्मान एव श्रूयन्ते । ‘विचक्षणो विश्वविमोहहेतोः, कुलो- चिताचारकलानुषक्तः । पुण्ये महोसारपुरे विधाय विक्रीय शूर्प विचचार योगी ॥’ (दिव्यसूरिचरित्रे सर्ग० २ | श्लो० ५२ ) इति भक्तिसारस्यावरवर्णजत्वमभिहितम् । अन्येषामपि कुलादि- वर्णनं दिव्यसूरिचरित्रे भार्गवपुराणे प्रपन्नामृते च कणेहत्य द्रष्टव्यम् । एवं भविष्यपुराणे श्रीशंकराचार्येणापि म्लेच्छाः श्रार्यशै- वरूपेण संस्कृताः- ‘शंकराचार्य एवापि शैवधर्मपरायणा । त्रिपुण्ड्रं च स्थितं भाले कण्ठे रुद्राक्षमालिकाः । मुखे गोविन्द- मन्त्रश्च तेषां ( म्लेच्छानां ) तत्र बभूव ह ।’ ( भ० पु० प्रति० प० ३ । खं० ४ । श्र० २१ । ६७-६६ ) इति गम्यते । एवं गौडीय वैष्णव संप्रदायेऽपि ’ म्लेच्छाः कलाविशारदाः । कृष्णचैतन्यसेवकाः। दिव्यमन्त्रं गुरोश्चैव पठित्वा प्रययुः पुरीम् ॥’ गुणर्मवादे-यजुर्वेदादेश: ४७ इत्येभिर्भविष्यपुराणवचनैरप्यवगम्यते म्लेच्छानामार्यवैष्णवत्व- लाभः । तथा च ‘कर्मरणा विहितो वर्णो भविष्ये ब्राह्मपर्वणि । चत्वारिंशत्तमाद् दृश्यं तत्राध्यायचतुष्टयम् । साम्प्रतं त्वत्र लोकानां मूढग्राहेण जन्मतः । जातिरूपत्वमापन्नं चातुर्वण्यं विपद्यते । तस्माद्वर्णव्यवस्थाया उद्धारः पुनरिष्यते । कर्मणैवेति लोकेषु तद्द्घोषोऽपेक्ष्यतेऽधुना ॥ अतो मत्स्यपुराणेऽप्येवमनु- ज्ञायते हि - ’ वर्णाश्रमव्यवस्थानं, कार्यं कर्म समीक्ष्य च । स्वधर्म- प्रच्युतान् राजा स्वधर्मे स्थापयेत्तथा ।।’ (अ० २१५ । ६२) इति । अतः ‘शकाश्च यवना हूणा धन्ये चाप्यन्यधर्मिणः वैदेशिका विजातीयाइचातुर्वर्ण्ये प्रवेशिताः ।।’ इत्यलं पल्लवितेन यजुर्वेदादेशः 1 ‘‘विभक्तारं हवामहे ’ ( शु० य० वे० ३०|४) वयं ऋषयो गुणकर्मानुसारेण ब्राह्मणादिवर्णानां विभक्तारं प्रजापति हवामहे = श्राह्वयाम: ( उवटाचार्य्यः) ‘ब्रह्मणे ब्राह्मणं, क्षत्राय ) राजन्यं, मरुद्भूयो वैश्यं, तपसे शूद्रम् ’ ( ३०१५ ) ब्रह्मणे== वेदाय - तदध्ययनप्रवचनतज्ज्ञानप्रचाराय कर्मणे ब्राह्मणं क्यं ऋषयो नियोजयाम इति शेषः । अर्थात् तत्कर्मकर्तारं ब्राह्मणं वयं जानीमहे | क्षत्राय =क्षतात् - शत्रुसमाक्रमणदुष्टपीडादि- लक्षणात् लोकानां त्रारणाय रक्षणाय राजन्यं = क्षत्रियं वयं नियोजयामः, तत्कर्मकर्तारं क्षत्रियं वयमभ्युपगच्छामः । मरुद्भयः=प्राणेभ्यः - अन्नदानादिभिः - लोकेषु प्राणसन्तोषप्रदानाय वैश्यं वयं नियोजयामः, कृषिगोरक्षावाणिज्यादिकर्तारं वैश्यं वयं विद्मः । एवं तपसे = लोकसेवाकर्मणे, ‘तपः शूद्रस्य सेवनम्’ इत्युक्तत्वात् शूद्रं वयं विनियोजयामः, तत्सेवाकर्मकर्तारं वयं शूद्रं जानीमः इति । श्रत एव ब्राह्मणादीनां सर्वेषामभ्युदयायेत्थं

४८ चातुर्वर्ण्य - भारत - समीक्षा प्रार्थना विहिता - ‘रुचं नो धेहि ब्राह्मणेषु, रुचं राजसु नस्कृधि । रुचं विश्येषु शूद्रेषु मयि धेहि रुचा रुचम् ।।’ (यजुः ० १८४८) इति । रुचं = स्वस्वगुणकर्मधारणजन्यां कान्ति-शोभां न:- अस्माकं धेहि = स्थापय । कृधि = कुरु । विश्येषु = वैश्येषु, मयि= एतन्मन्त्रेण प्रार्थनाकर्तरि रुचा रुचं = विविधका त्तिपरम्प रामित्यर्थः । तात्पर्यप्रकाशः सत्ययुगे तु सर्वे - ‘एकवर्णाः समाभाषाः एकरूपाश्च सर्वशः । तासां नास्ति विशेषो हि दर्शने लक्षणेऽपि वा ॥ समं जन्म च रूपं च, म्रियन्ते चैव ताः ( प्रजाः ) समम् । अनिच्छाद्वेषसंयुक्ता ( रागद्वेषाभावयुक्ताः ) वर्तन्ते तु परस्परम् । तुल्यरूपायुषः सर्वाः धमोत्तमर्वाजिताः । ’ ( वा० रा० उ० का० स० ३० श्लो० २१-२२ ) इति । एवं सत्ययुगस्यापरं नाम कृतयुगमपि - ‘श्रादौ कृतयुगे वर्णो नृणां हंस इति स्मृतः कृतकृत्याः प्रजाः यस्मात् तस्मात्कृतयुगं विदुः ।।’ इति निर्वचनात् एवं ‘असृजद् ब्राह्मणा- नेव पूर्व ब्रह्मा प्रजापतीन् ।’ (म० भा० शां० १८८।१ ) ततः पश्चात् ’ त्रेतायां कर्मणैवाभूत् पूर्वं वर्णव्यवस्थितिः । तथैवा- द्यापि कर्तव्या लोकसंग्रहणक्षमा । यावच्च कर्मणा वर्णव्यव स्थाऽऽसीत्प्रवर्तिता । तावल्लोके सुखं शान्तिः समृद्धिश्चाभव- भृशम् ॥ यतः प्रभृति जात्यैव वर्णत्वं स्वीकृतं जनैः । तेनैव च कृतार्थत्वं वृत्तिसाङ्कर्यंमेव च । स्ववृत्त्य नियतत्वं च तत श्रारभ्य भारते । सुखाभावश्च दुःखं च घोरानिष्टमजायत ।। तस्माद- द्यापि कर्तव्यं कर्मणैव नियन्त्रणम् । वर्णाश्रमसमाजस्य यथापूर्व- मिति स्थितिः ॥’ ( मा० भा० ) प्रत: ‘ब्रह्म क्षत्रं हि सर्वेषां वर्णानां मूलमुच्यते । ब्रह्मक्षत्रप्रसूतास्तु वैश्याः शूद्राश्च वर्ण निर्वचनम् ४ε मानवाः ॥’ (म० भा० शां० ६५।१४ ) इति कथनं गुणकर्म- वाद एव सुतरां संगच्छते । ‘ब्राह्मणः संभवेनैव देवानामपि दैवतम् |’ ( मनु० ११।८४ ) ’ जन्मनैव महाभागो ब्राह्मणो नाम जायते ।’ (म० भा० अनु० ७०1१ ) ईदृग्वाक्यैर्मनु- ष्याणां वर्णसम्पत्स्वभावजा । बोध्यते, न तु वर्णानां जन्मनैव व्यवस्थितिः । स्वभावप्रभवैरेव गुणैः पुंसां शमादिभिः । वर्णो निश्चीयते पूर्वं पश्चाद्वृत्या नियम्यते ॥ इति । अयं भावः- कर्मणा स्वभावजेन शमशौर्यादिना वर्णः ब्राह्मणत्वादिः सिद्धयति, निर्णीतश्च भवति । श्रथ च कर्मणा श्रध्यापन- युद्धादिना जीवनौपयिकेन वृत्तिरूपेण ‘वर्ण’ सम्यग्व्यवस्थितो भवति । जातमात्रस्य तावदवर्णस्य शिशोः स्वभावजेन शम- शौर्यादिगुणकर्मणा वर्णः पूर्वं निश्चीयते, ततस्तदनुकूलैः संस्काराचारादिभिर्वर्णत्वमापादितस्य तस्य तद्वर्णोचिता ‘वृत्ति’- व्र्व्यवस्थाप्यत इति । तथा च- ’ वंशानुक्रमसिद्धान्तः प्रकृत्याऽपि पराहतः । प्रत्यक्षेण विरुद्धश्च तस्माद्वर्णो न जन्मना ॥ प्रत्यक्षं दृश्यते चैतज्जन्मवर्णाभिमानिषु । वंशानुक्रमणं नास्ति सत्त्वादिगुण- सम्पदाम् || प्रतिशतं नवत्यां हि नैषु वंशक्रमागताः । तत्तद्वर्णो- चिताः सन्ति शमशौर्यादयो गुणाः । प्रत्युतानुक्रमात्तेषां वैपरीत्यं विभाव्यते । ब्राह्मणम्मन्यवंशेषु यथैते शूद्रधर्मकाः । शूद्रवंश्याश्च भूयांसो ब्राह्मः क्षात्रः स्वभावजैः । वैश्यधर्मैश्च सम्पन्नाः संदृश्यन्ते तथेतरे ॥ तस्माद्यत्र क्वचिद्वंशे यस्तु यद्वर्णसम्पदा | संपनो जायते सः स्यात्तद्वर्ण इति निश्चयः ।।’ इति । ( मा० भा० ) वर्णनिर्वचनम् ‘वृ’ संवरणे, ‘वृङ्’ संभक्तौ, ‘वृन्’ श्रावरणे इति धातवोऽपि ५० चातुर्वर्ण्य - भारत - समोक्षा वर्णविषयेऽनुसंधेयाः । ‘वर्ण’ स्तुति– विस्तार - शुक्लादि उद्युवित दीपने ।’ इति कविकल्पद्रुमः । वर्णयति - वर्णापयति. - शुक्लाबि- वर्णं करोति– उद्युङ्क्ते दीप्यत वेत्यर्थः । तथा च वर्ण्यते– प्रेयंते स्वधर्मेण समाजस्य योगक्षेमयोः, वर्णयति– प्रेरयति स्वकर्मसु परस्परम् । वर्णयति–उद्युङ्क्ते स्वकर्तव्ये, वर्णयति–दीप्यते वच:- पराक्रमैश्वर्यप्रभूतिभिः, वर्णयति– विस्तृणाति - विस्तारयति वा श्रर्थाद् श्रभिवृद्धि गमयति समाजम् आवृणोति श्राच्छादयति- गोपायति–समाजं रक्षति, स्वकर्तव्यपरिपालनेन, व्रियतेऽनेन यथायोग्यं स्वभावानुगुणा वृत्तिः, व्रियतेऽसौ गुणकर्मानुसारतः तत्तद्वर्णत्वाय महाजनैः सामाजिक, एवमादयो वर्णशब्दार्था अवगन्तव्याः । अत एव ‘ब्रह्म हि ब्राह्मणः ’ क्षत्रं होन्द्रः (शतपथब्राह्मण०कां० ५ श्र० १ ब्रा० १) ’ बाहू वै मित्रावरुणौ ।’ (श० ब्रा० ५।४।३) इति तत्तद्गुणकर्म द्योतयितुं समाम्नायते । ‘वर्णो वृणोतेरिति ’ निरुक्तप्रामाण्याद् वर्णीया:– वरीतुमर्हाः स्वीकर्तुं योग्याः गुणाः कर्माणि च । तान् तानि च यथायोग्यं दृष्ट्वा त्रियन्ते ये ते वर्णाः । ब्रह्मणा वेदेन तदुक्तसदाचारेण परमेश्वरस्योपासनेन ज्ञानेन च सह वर्तमानो विद्याविनयशमदमादिगुणयुक्तः पुरुषो ब्राह्मणो भवितुमर्हति । तथैव क्षत्रं = क्षत्रियकुलं, इन्द्रः = परमं- श्वर्यवान् ‘इदि परमैश्वर्ये’ स्मरणात् । शत्रूणां क्षयकरणात् युद्धोत्सुकत्वाच्च धर्मदेशप्रजारक्षणतत्परः इन्द्रो भवितुमर्हति क्षत्रियः । मित्रः = वैश्य:- सर्वेभ्योऽन्न रसादिसमर्पणेन सुखदाता, वरुणः = शूद्रः सेवाकर्मधारणेन श्रेष्ठः, इमावेव मित्रावरुणौ ब्राह्मणस्य क्षत्रियस्य च द्वो बाहुवत् उपकारकौ भवेतामित्यर्थः । जातिवर्णस्वरूपयोरस्ति पार्थक्यम् ५१ जातिवर्णस्वरूपयोरस्ति पार्थक्यम् यतो याज्ञवल्क्यस्मृतिमिताक्षराटीकाया- ( १1० ) मिद- मभिहितम् – प्रत्यक्षगम्या जातिर्भवति, ब्राह्मणत्वादिवर्णस्तु स्मृतिलक्षणः इति । यथा गोत्वोष्टृत्वमनुष्यत्वादयो जातयो निसर्गजा इति श्राकृतिग्रहणा भवन्ति । न तथा ब्राह्मणत्वादयो वर्णा निसर्गजा प्राकृतिग्रहणा भवन्ति । अतो ब्राह्मणत्वादयो वर्णास्तु सामाजिकानां ऐहिकाभ्युदयकार्यव्यवहारसौकर्याध्या- त्माद्युन्नतिसिद्धयर्थाः पूर्वं गुणकर्मानुसारतः प्राक्कालिकसामा- जिकैः कल्पिताः । तदेतत् ऐतरेय ब्राह्मणेनापि समाम्नायते– ‘देवविश: कल्पयितव्या इत्याहुः ताः कल्प्यमाना श्रनुमनुष्य- विशः कल्प्यन्ते’ इति ( ऐ० ब्रा० पं० १ ० २ खं० ३ ) श्रयमर्थः - विशः = ब्राह्मणादयः प्रजाः । सन्ति हि देवेष्वपि तत्तद्गुणकर्मभिः कल्पिता ब्राह्मणादयो वर्णविशेषाः । श्रग्नि- ब. हस्पतिश्च देवेषु ब्राह्मणौ ‘अग्ने ! महां असि ब्राह्मणः’ ‘ब्रह्म चं देवानां बृहस्पतिः’ इति श्रुतेः । इन्द्र- रुद्र-यम- सोम-प्रभृतयो देवक्षत्रियाः, वसु मरुत्- विश्वेदेवा श्रादयो देववंश्याः । पूष- प्रभृतयः शूद्रदेवाः । कल्प्यमानास्ताः देवविशेोऽनुसृत्य, मनुष्य- विश: = ब्राह्मणादयो मनुजप्रजा अपि तत्तद्गुणकर्मभिः कल्प्यन्ते इत्यर्थः । अतः - ‘वेदस्मृति-पुराणेषु वर्णोत्कर्षापकर्षयोः । सिद्धान्तः ऐकमत्येन स्वीकृतो दृश्यते; स च । कर्मणा वर्ण- संस्थायामेव संगच्छतेऽन्यथा । वर्णत्वे जन्मनः सिद्धे न स्यात्तत्परिवर्तनम् ॥ विना वर्णपरावृत्ति तदुत्कर्षो न सेत्स्यति । नापकर्षश्च तस्मात्सा वर्णरूपा न जन्मना || मनुष्यत्वादिरूपा तु गोत्वाश्वत्वादिवद् भवेत् । जन्मनैवेति पार्थक्यं जातिवर्ण- स्वरूपयोः ॥ ( मा० भा० ) इति । ५२ चातुर्वर्ण्य - भारत - समीक्षा सति चैवं ब्राह्मणत्वादिवर्णव्यवहारेषु क्वचित् जातिश- ब्दप्रयोगस्तयोरपृथक्त्वभ्रान्त्यैव वेदितव्यः । 1 श्रत एव ब्राह्मण- क्षत्रियप्रभृतिशब्दाश्च तत्तत्कर्मबोधकगुणशब्दाः परिवर्तनशील- वर्णवाचकाः एव सन्ति, न जातिशब्दाः । न जातिशब्दाः । न हि तेषां ब्राह्मणादीनां वर्णत्वज्ञापकगुणशब्दत्वाभावे व्याकरणमहाभाष्य- कृता भगवता पतञ्जलिना - ‘सर्व एते शब्दा गुणसमुदायेषु वर्तन्ते, ब्राह्मणः क्षत्रियो वैश्यः शूद्र इति’ ( श्रष्टा० राश ११५ ) इत्यभिधातुं शक्यते । जात्यन्तरे प्रयुज्यमानत्वाच्च । यदि ह्येते खलु जातिशब्दा विद्येरन् न गुणशब्दाः, तदा न जातु जात्यन्तरे प्रयुज्येरन् । न ह्यश्वशब्दो गवि, गोशब्दश्चाश्वे कदाचित्प्रयुज्यते । प्रयुज्यन्ते चैते जात्यन्तरेऽपि ‘ब्रह्म वा श्रजः’ ( शत० ६|४|४|१५ ) ‘क्षत्रं वा श्रश्वः’ ( श० १३ |२| २ | १७) ‘वैश्यं च शूद्रं चानु रासभ:’ ( श० ६|४|४|१२ ) ‘ब्रह्म वै पलाश:’ ( श० १ ३।६।१६ ) ‘क्षत्रं वा एतदोषधीनां यदूर्वा ।’ ( ऐ० ८।२।४ ) इति । तस्मान्नूनमेते ब्राह्मणादयो वर्णत्वज्ञापकाः गुणशब्दाः न तु जातिशब्दाः इति विज्ञायते । तथा च गुणोत्कर्षापकर्षाभ्यामिहैव जन्मनि तेषां ब्राह्मणादि- वर्णानां परिवर्तनमपि युक्तमिति निश्चेतव्यम् । अत एव ‘अनयैव च दिशा ब्राह्मणत्वादिजातिरपि निवा- रिता भवति, न हि नानास्त्रीपुरुषव्यक्तिषु मनुष्यत्वादर्थान्तर- भूतमेकं जात्याकारमात्मसात्कुर्वन्ती मतिराविर्भवति कस्यचित्, न हि क्षत्रियादिभ्यो व्यावर्तमानं सकलब्राह्मणेष्वनुवर्तमानमेकं जात्याकारमतिचिरमनुसंदधतोऽपि विचक्षणाः बुध्यन्ते’ इत्यादि प्रकरणपञ्चिकायां जातिनिर्णयाख्ये तृतीयप्रकरणे द्रष्टव्यम् । गुणकर्मादिपरिवर्तनेन वर्णपरिवर्तनम् ५३ अत एव भविष्यपुराणे शतार्द्धसाहस्त्र्यां संहितायां ब्राह्मे पर्वणि षष्ठीकल्पे कार्तिकेयवर्णने जातिवर्णनाध्यायेऽपीदमुक्तम्- ‘गोवर्गमध्यञ्च गतो यथाऽश्वो, निर्धार्यते ज्ञ: सुविचक्षणत्वात् । मनुष्यभावादविशिष्यमाणः, तदृद्द् द्विजः शूद्रगणान्न भिन्नः । मनुष्यजातेर्न परो विशेषो यः कल्प्यते सर्वनरानुयायी । संस्कार- युक्ता हि क्रिया विशिष्टा, द्विजन्मनां शूद्रविवेकहेतुः ॥ ( अ० ४० । २०-२१ ) इति । श्रर्थात् ब्राह्मणादिवर्णभेदकाः गुणकर्मा- ण्येव, न जात्यादिकम् । श्रत एव ‘एक पित्रोः प्रजातानामेकजातिमतां नृणां । ज्योतिः- शास्त्रानुसाराच्च श्रूयते भिन्नवर्णता ।। अन्नप्राशन संस्कारे शिशोश्चेष्टापरीक्षया । तद्वृत्तिनिर्णयः प्रोक्तः, तद्वर्णप्रति- पत्तये ॥ ’ कृतप्राशनमुत्संगाद् धात्री बालं समुत्सृजेत् । कार्यं तस्य परिज्ञानं जीविकाया अनन्तरम् ।। देवताऽग्रेऽथ विन्यस्य शिल्पभाण्डानि सर्वशः । शास्त्राणि चैव शस्त्राणि, ततः पश्येत्तु लक्षणम् । प्रथमं यत्स्पृशेद् बालो रिङ्गमाणः स्वयं तदा । जीविका तस्य बालस्य तेनैव तु भविष्यति । ’ ( पारस्करगृह्य- सूत्रस्य कां० १ कं० १६ । गदाधरभाष्ये धृता इमा: कारिकाः ) परिवर्तनशीलश्च ईदृग्वृत्तिपरीक्षाया उपयोगः प्रयोजनं । वर्णस्तत् कर्मणा कृतः ॥ इति । गुणकर्मादिपरिवर्तनेन वर्णपरिवर्तनम् । श्रत एव तत्तद्गुणकर्मोत्कर्षेण तत्तद्वर्णोत्कर्षोऽपि श्रापस्त- म्बधर्मसूत्रे इत्थं प्रतिपादितो वर्णपरिवर्तनमेव ज्ञापयति । यथाहि - ‘धर्मचर्यया जघन्यो वर्णः पूर्वं पूर्वं वर्णमापद्यते, जाति- परिवृत्तौ श्रधर्मचर्यया पूर्वो वर्णो जघन्यं जघन्यं वर्णमापद्यते जातिपरिवृत्तौ ।’ (प्र० २ कं ११ सू० १०-११ ) इति । प्रतो ।૫૪ चातुर्वर्ण्य - भारत - समीक्षा ‘नरो वर्णपरावृत्तौ वर्णमापद्यतेऽपरं । जीवन्नेति सिद्धान्तः श्राप- स्तम्बादिभिः स्मृतः । श्रत्र कश्चित् जातिपरिवृत्त इत्यस्य ‘जन्मपरावृत्तौ’ व्याख्यानं करोति, तत्तुच्छम् । ‘वर्णमापद्यते ’ इति वर्तमानक्रियाबोधकवाक्यविरोधात् । श्रतो जीवतामेव नृणां वर्णान्तरप्राप्तिविनिश्चीयते । अतः ‘जातिपरावृत्ती’ ’ इत्यस्य सात्त्विकराजसतामसजीवनपरिवर्तने सति’ इत्यर्थ एव साधी- यान् । तस्मात् शमदमादिधर्मेण राजसतामसजीवनस्य सात्त्विक- जीवनरूपेण परिवर्तने कृते सति जीवन्नेव मानवोऽवरवर्णजः उच्चवर्णः स्यादित्यर्थ एवात्र प्रतिपादितोऽवगम्यते । एवं राज- सतामसजीवनरूपेरण सात्त्विकजीवनस्य परिवर्तने सति काम- क्रोधाद्यधर्मेण उच्चवर्णो मानवोऽवरवर्णजो भवतीत्यपि बोध्यम् । अत एव महाभारतस्य शान्तिपर्वण्यपि एतदभिहितम् ‘वर्णोत्क - र्षमवाप्नोति नरः पुण्येन कर्मणा ।’ ‘उत्कर्षार्थं प्रयतेत नरः पुण्येन कर्मणा । वर्णेभ्यो हि परिभ्रष्टो न वै सम्मानमर्हति ॥ ’ ( श्र० २६१ । ३-५ ) इति । ‘ईदृग्वर्णान्तरापत्तौ नृणामेकशरी- रतः । धर्मशास्त्रप्रमाणानि सन्ति भूयांसि सर्वथा ॥’ इति । मतङ्ग - महर्षि - कथा प्रसिद्धयशा मतङ्गो महर्षिः शूद्रात् नापितात् ब्राह्मण्यां जातोऽभूत् । तेन किल गर्दभीवाक्यात् स्वमातृगुप्तव्यभिचार- स्वनिष्ठाधमतमत्ववृत्तान्तोऽवगतः । श्रत एव तस्य हृदये महान् पश्चात्तापो जातः । तेन स्वनिष्ठदोषनिवृत्तये ब्राह्मण्यलाभाय च महत् तपः समाचरितम् । तपःप्रभावेण सात्त्विकशमदम- दयाक्षमादिगुणकर्मधारणेन च स जीवन्नेव महान् महर्षिः कुल- पतिश्चाभवत् । पम्पासरोवरतटे येन विशाल श्राश्रमः स्थापितः, वाल्मीकि रामायणादौ यस्य विशदवर्णनमवगतं भवति । यत्र मतङ्ग-महर्षि कथा ५५ किल भूयांसस्तच्छिष्या महर्षयो ब्राह्मणाः निवासं चक्रुः । प्रसिद्धा तापसी श्रीरामभक्ता शबर्यपि यस्य शिष्या श्रासीत् । यस्य जन्मकथा महाभारतस्यानुशासनपर्वणीत्यमवगम्यते । यथाहि- ‘अत्राप्युदाहरन्तीममितिहासं पुरातनम् । मतङ्गस्य च संवादं गर्दभ्याश्च युधिष्ठिर ! || द्विजातेः (ब्राह्मणस्य ) कस्यचित् तात ! तुल्यवर्णः सुतस्त्वभूत् । मतङ्गो नाम नाम्ना वै सर्वः समुदितो गुणैः ॥ स यज्ञकारः कौन्तेय ! पित्रोत्सृष्ट (पित्रा ब्राह्मणेन तत्र गमनाय प्रयोजितः) परंतप ! । प्रायाद् गर्दभयुक्तेन रथेनाप्याशुगामिना । स बालं गर्दभ राजन् ! वहन्तं मातु- ( गर्दभ्या: ) रन्तिके । निरविध्यत् प्रतोदेन। नासिकायां पुनः पुनः । तत्र तीव्रं व्रणं दृष्टवा, गर्दभी पुत्रगृद्धिनी । उवाच मा शुचः पुत्र ! चाण्डालस्त्वधितिष्ठति । ब्राह्मणे दारुणं ( क्रौर्यं) नास्ति, मैत्रो ( सर्वहितकर्ता ) ब्राह्मण उच्यते । श्राचार्यः सर्व-

  • ब्राह्मणोचितसंस्कारप्रभावेण नीचवर्णजन्योऽपि ब्राह्मण- समानवर्णवान् निखिलगुणसम्पन्नश्चाभूत् । समुदितः = संयुक्त इत्यर्थः । कस्यचित् यजमानस्य गृहे यज्ञकरणाय रथेन गतवान्, अतः स यज्ञकारः=यज्ञसंपादनकर्ता आसीत् । प्रतोदेन = ताडनदण्डेन व्यथाजनकेन तोत्रवेत्रेण, निर- विध्यत् = वेधनं विक्षतमकरोत् । पुत्रगृद्धिनी = पुत्रशुभाकांक्षिणी । अधितिष्ठति = ब्राह्मणो नहि, चाण्डालस्तवोपरि अधिरुह्य गच्छति । पापप्रकृतिः = स्वभावतः पापात्मा, स्वयोनिं = स्व- चण्डालयोनिं शूद्रात् ब्राह्मण्यां जातस्य चाण्डालत्वात् । मानयति = ज्ञापयति । भावः = नीचस्वभावः, भावं = मनसो नीच- भावं नियच्छति = नियन्त्रणं करोति । दारुणं = व्यथाकरं, येन = कर्मणा, तत्त्वेन=वस्तुत्वेन । अनशत् = नष्टमभूत् , ५६ चातुर्वर्ण्य - भारत-समीक्षा भूतानां शास्ता ( हितोपदेष्टा ) किं प्रहरिष्यति ? ॥ श्रयं तु पापप्रकृतिबले न कुरुते दयाम् । स्वयोनिं मानयत्येष भावो भावं नियच्छति । एतच्छ्र ुत्वा मतङ्गस्तु दारुणं रासभीवचः । श्रवतीर्य रथात् तूर्णं रासभीं ( गर्दभीं ) प्रत्यभाषत ॥ ब्रूहि रासभि ! कल्याणि !, माता मे येन दूषिता । कथं मां वेत्सि चण्डालं क्षिप्रं रासभि ! शंस ( कथय ) मे ॥ कथं मां वेत्सि चण्डालं ब्राह्मण्यं येन नश्यते । तत्त्वेनैतन्महाप्राज्ञे ! ब्रूहि सर्व- मशेषतः ॥ गर्दभ्युवाच - ‘ब्राह्मण्यां वृषलेन ( शूद्रेण ) त्वं, मत्तायां ( यौवनमदेनोन्मत्तायां ) नापितेन ह । जातस्त्वमसि चाण्डालो ब्राह्मण्यं तेन तेऽनशत् । एवमुक्तो मतङ्गस्तु प्रतियायात् गृहं प्रति । तमागतमभिप्रेक्ष्य पिता वाक्यमथाब्रवीत् ॥ मया त्वं यज्ञसंसिद्धौ नियुक्तो गुरुकर्मणि । कस्मात् प्रतिनिवृत्तोऽसि, कच्चित् ( इष्टप्रश्ने) न कुशलं तव ॥ मतङ्ग उवाच अन्त्य- योनिरयोनि र्वा कथं स कुशली भवेत् । कुशलं तु कुतस्तस्य यस्येयं X जननी पितः ! || ब्राह्मण्यां वृषलाज्जातं पितर्वेदयतीव माम् । श्रमानुषी गर्दभीयं तस्मात् तप्स्ये तपो महत् ॥ एवमु- क्त्वा स पितरं प्रतस्थे कृतनिश्चयः । ततो गत्वा महारण्यमतपत् सुमहत् तपः ।।’ (म० भा० अनु० प० ० २८ । सप्तमश्लो- कादारभ्य द्वाविंशतिश्लोकपर्यन्तम् ) ’ इत्येवं दारुणं कर्म, मैत्रत्वविरहादि च । मतङ्गे ब्राह्मण- त्वस्याभावहेतुः प्रदर्शितः । पश्चात्तु तपसा सोऽपि ब्राह्मण्यं Xयस्य=पुत्रस्य कृते इयं=ईदृशी - व्यभिचारदुष्टा - जननी= नीचवर्णसंसर्गात् मां पुत्रं प्रसवित्री मिलिताऽभूत्, स कथं कुशली स्यात् ? । वेदयतीव = बोधयतीव । अन्त्ययोनिः = अन्त्यजयोनिः । मतङ्ग - महर्षि कथा ५७ समुपागमत् । जीवन्नेवेति कर्मतो गुणतश्च व्यवस्थितम् । इति । पश्चात् स मतङ्गो महर्षिः समागतं देवराजं शक्रं प्रतीत्थं प्रोवाच- ‘एकारामो X ह्यहं शक्र ! निर्द्वन्द्वो निष्परिग्रहः । प्रसादममास्थाय कथं नार्हामि विप्रताम् ॥’ (म० भा० अनु० प० २८।१७ ) इति । ततः प्रसन्नेन शक्रेण कीर्तिवरः तस्मै प्रदत्तः - ‘कीर्तिश्च तेऽतुला वत्स ! त्रिषु लोकेषु यास्यति’ (अनु० २८ । २४ ) इति यस्य महती कीर्तिः - वाल्मीकिरामायणेऽध्यात्मरामायणे चेत्थं वणिता - ‘पम्पायास्तीरमाश्रित्य पश्चिमम् । श्राश्रमस्थान- मतुलम् ।’ ऋषेस्तस्य मतङ्गस्य विधानात् ( प्रभावात् ) तच्च काननम् । मतङ्गवनमित्येव विश्रुतं रघुनन्दन ! ।’ मतङ्गशिष्या- स्तत्रासन्नृषयः सुसमाहिताः ।’ ( वा० रा० अरण्यकाण्डे सर्ग ७३।२८ - २६- २३ ) इत्येवं तापसी शबरी भगवन्तं श्रीरामं प्रत्युवाच । ‘इह ते भावितात्मानो गुरवो मे महाद्युते ! ॥ जुह- वांचक्रिरे नीडं मन्त्रवन्मन्त्रपूजितम् ।। ( ७४।२२ ) मन्त्रस्य = गायत्र्या जपेन पूजितं = प्रतिशुद्धं, नीडं = देहपञ्जरम् । तद्धो- ममन्त्रवत् - ब्रह्माग्नौ जुहवांचक्रिरे - हुतवन्तः । ’ तेषां तपःप्रभा- वेण पश्याद्यापि रघूत्तम ! । द्योतयन्ती दिशः सर्वाः श्रिया वेद्यतुलप्रभा । । ’ (७४।२४) ’ तेषामिच्छाम्यहं गन्तुं समीपं भावि- तात्मनाम् । मुनिनामाश्रमो येषामहं च परिचारिणी ॥’ (७४। २६) तेषां मदाचार्याणां मतङ्गमहर्षीणां प्रभावेणेयं वेदिस्तत्पू- जाकाल इवाद्यापि सर्वा दिशो द्योतयन्त्यतुलप्रभा दृश्यते, X एकारामः = एकान्ते शान्त्याऽऽनन्देन च निवसनशीलः । विप्रतां = ब्राह्मण्यं कथं प्राप्तु ं न शक्नोमि ? = अर्थात् शक्नो - म्येवेत्यर्थः । ५८ पश्य । चातुर्वर्ण्य - भारत - समीक्षा श्राश्रमः = प्रयमाश्रमः, भावितात्मनां = सदाऽनुसंहित परमात्मनो । ‘अत्राश्रमे रघुश्रेष्ठ ! गुरवो मे महर्षयः । स्थिताः शुश्रूषणं तेषां कुर्वती समुपस्थिता ।। बहुवर्षसहस्राणि गतास्ते ब्रह्मणः पदम् । गमिष्यन्तोऽब्रुवन्मां त्वं वसात्रैव समाहिता ॥ ( श्र० रा० श्ररण्यकाण्डे स० १०।११-१२ ) इति ’ इत्येव - मुक्ता जटिला चीरकृष्णाजिनाम्बरा । अनुज्ञाता तु रामेण हत्वाऽऽत्मानं हुताशने । ज्वलत्पावकसंकाशा स्वर्गमेव जगाम ह |’ ( वा० रा० प्र० ७४ । ३२-३३ ) इति स्वर्ग = ब्रह्मलोकं शबरी जगामेत्यर्थः । एतेनेदमवगम्यते - पुरातनकाले भगवदवतारभूतश्रीरामस्य त्रेतायुगसमयेऽपि याज्ञिक संस्कृत ब्राह्मणादिश्रेष्ठकुलेऽपि गुप्तव्य - भिचारोऽवर्तत । तदन्येषां तु का कथा वक्तव्या भवेत् । सति चैवं तत्तज्जनपदप्रशासकानां राज्ञामिदं वचोऽपि - ‘न मे स्तेनो जनपदे न कदर्यो न मद्यपो न स्वैरः स्वैरिणी कुतः ।’ ( छा० ५।११।५ ) इति चिन्त्यं स्यात् । गर्दभीवाक्यात् तेन मतङ्गेन तया दारुणकर्मावलोकनादनुमितं स्वमातृनिष्ठ कलंकमवगतम् । अन्यथा नापितात् शूद्रात् ब्राह्मण्यां जातस्य स्वस्याज्ञातचाण्डा- लत्वं कथमवगतं स्यात् ? । तत्पित्रा ब्राह्मणेन तु सर्वथैव न ज्ञातम् । स तु मतंगस्य स्ववीर्यजन्यपुत्रत्वं मत्त्वा ब्राह्मणस्य यज्ञोपवीतादिनिखिलसंस्कारान् श्रकरोत् । तेन वेदाध्ययनादिना तस्य यज्ञकर्म नैपुण्यमपि सम्पादितम् । एवं दुर्वारे मकरध्वजे सति, चञ्चलतममदोन्मत्त-कामिनीमूले च कुले सति, को ज्ञातुं यथावत् प्रभवेत् ? कस्य कः पुत्रादिसन्तानो विशुद्धो वा ऽविशुद्धो वा, ब्राह्मणो वाऽब्राह्मणो वेति । श्रत एव गोपथ- ब्राह्मणेऽपीदमभिहितमपि - ’ न च एतद् विद्मो, वयं ब्राह्मणाः वा स्मः वीतहव्यस्य राज्ञो वृत्तान्तः ५६ श्रब्राह्मणाः वा ( गो० ब्र१० पू० ५।२१ ) जन्मतो जात्या वेति शेषः । तत्तद्गुणकर्मादितस्तु ब्राह्मणत्वा देनिर्णयं कर्तुं शक्यत एवेति । वीतहव्यस्य राज्ञो वृत्तान्तः महाभारतस्यानुशासनिके पर्वणि युधिष्ठिरप्रश्न भीष्मोत्त- राभ्यां वीतहव्यस्य राज्ञो वृत्तान्त इत्थमवगम्यते । यथा हि युधिष्ठिर उवाच- ’ वीतहव्यश्च नृपतिः श्रुतो मे विप्रतां गतः । तदेव तावद् गांगेय! श्रोतुमिच्छाम्यहं विभो ! ॥ स केन कर्मणा प्राप्तो ब्राह्मण्यं राजसत्तमः । वरेण तपसा वापि तन्मे व्याख्या- तुमर्हसि ॥’ ( श्र० ३०१३-४ ) इति । भीष्म उवाच - ‘श्रृणु राजन् ! यथा राजा वीतहव्यो महायशाः । राजर्षः दुर्लभ प्राप्तो ब्राह्मण्यं लोकसत्कृतम् ।। ’ ( ३०१५ ) इति । प्रथमं तावत् भीष्मेण तस्य वंशक्रमो निरूपितस्तत्र । पश्चात् बीत- हव्यस्य बलिभिः पुत्रैः दिवोदासस्य काशीनरेशस्य संपूर्णो वंशो युद्धे प्रणाशितः । भारद्वाजस्येष्टिप्रयोगेण तस्य दिवोदासस्य गृहे प्रतर्दननामा तनयो जज्ञे इति वणितम् । तेन महाबलवता प्रतर्द- नेन तस्य वीतहव्यस्य सर्वेऽपि पुत्रा हताः सर्वं राज्यं च विजितम् । पश्चात् - ’ हतेषु तेषु सर्वेषु वीतहव्यः सुतेष्वथ । प्राद्रवन्नगरं हित्वा भृगोराश्रममप्युत ||४४ || ययौ भृगुं च शरणं, वीतहव्यो नराधिपः । अभयं च ददौ तस्मै राज्ञे राजन् ! स्तदा ।। ४५ ।। प्रयानुपदमेवाशु, तत्रागच्छत्प्रतर्दनः । स प्राप्य चाश्रमपदं दिवोदासात्मजोऽब्रवीत् ॥ ४६ ॥ भो भोः ! केऽत्राश्रमे सन्ति, भृगोः शिष्याः ! महात्मनः । द्रष्टुमिच्छे मुनिमहं, तस्याचक्षत मामिति ॥४७॥ स तं विदित्वा तु भृगुनिश्चक्रा- माश्रमात्तदा । पूजयामास च ततो विधिना नृपसत्तमम् ॥४८॥ भृगु- ६० चातुर्वर्ण्य - भारत - समीक्षा । उवाच चैनं राजेन्द्र ! किं कार्य ब्रूहि पार्थिव ! । स चोवाच नृपस्तस्मै, यदागमनकारणम् ॥४६॥ राजोवाच श्रयं ब्रह्मन् ! इतो राजा वीतहव्यो विसर्ज्यताम् । तस्य पुत्राहि मे कृत्स्नो ब्रह्मन् ! वंशः प्रणाशितः ॥५०॥ उत्सादितश्च विषयः (देशः ) काशीनां रत्नसंचयः । एतस्य वीर्यदृप्तस्य हतं पुत्रशतं मया ॥ ५१ ॥ अस्येदानीं वधादद्य, भविष्याम्यनृणः पितुः । तमुवाच कृपाविष्टो भृगुर्धर्मभृतां वरः ॥ ५२ ॥ नेहास्ति क्षत्रियः कश्चित् सर्वे होमे द्विजातय: ( ब्राह्मणाः ) । एतचु वचनं श्रुत्वा भृगोस्तथ्यं ( न तु मिथ्या ) प्रतर्दनः || ५३ || पादावुपस्पृश्य शनैः प्रहृष्टो वाक्यमब्रवीत् । एवमप्यस्मि भग- वन् ! कृतकृत्यो न संशयः ॥ ५४ ॥ य एष राजवीर्येण स्वजाति ( स्ववर्ण-क्षत्रियत्वं ) त्याजितो मया ( प्रतर्दनेन ) । अनुजा- नीहि ( श्राज्ञां विधेहि ) मां ब्रह्मन् ! ध्यायस्व च शिवेन माम् ( मम कल्याणं त्वं चिन्तय ) || ५५|| त्याजितो हि मया जोतिमेव राजा भृगूद्वह ! । ततस्तेना - ( भृगुणा ) भ्यनुज्ञातो ययौ राजा प्रतर्दनः || ५६ ॥ यथागतं महाराजमुक्त्वा विषमि वोरगः । भृगोर्वचनमात्रेण स च ब्रह्मर्षितां गतः ॥५७॥ वीत- हव्यो महाराज ! ब्रह्मवादित्वमेव च ( गतः = प्राप्तः ) ।। ५८ ।। इति । ‘एवं विप्रत्वमगमद् वीतहव्यो नराधिपः । भृगोः प्रसादात् राजेन्द्र ! क्षत्रियः क्षत्रियर्षभ ! ( युधिष्ठिर ! ) ॥ (म० भा० अनु० अ० ३०।६६ ) इति । श्रदं प्रत्येतव्यम्- मृत्युभयात् वीतहव्यो राजा भूगोर्ब्रह्मर्षेः शरणं गत्वा तत्कृपां सम्पादितवान् । श्रतस्तेन तत्कृपावरेणैव ‘न तु महता तपसा विश्वामित्रवत्’ क्षत्रियवर्णतां हित्वा विप्रवर्णता संपादिता । तच्छत्रुः राजा प्रतर्दनोऽपि श्रयं मम ( भृगोः ) प्रसादात् वर्णपरिवर्तने श्रीमद्भागवतस्यापि सन्त्य नेकोदाहरणानि ६१ विप्रोऽजायत, ततः सर्वथा क्षत्रियवर्णत्वमपगतमेव’ इति भृगो- चनं सत्यमेव, न त्वनृतं न तु वञ्चकञ्च मेने । श्रनेन वीत- 1 हव्योपाख्यानेनास्मिन्नेव जन्मनि तत्तद्गुणकर्मपरिवर्तनेन वर्ण- परिवर्तनं स्पष्टतोऽवगम्यते, तयोर्द्वयोर्भु गुप्रतर्दनयोर्ब्रह्मक्षत्रयोः श्रौदार्यस्य पराकाष्ठापि च। प्रतर्दनस्य च स्वपराक्रमप्रयोजित- शत्रु निष्ठक्षत्रियत्ववर्णनिरासात् संजातः सन्तोषोऽपि च । एवं वीतहव्यस्य पुत्रो गृत्समदोऽपि विप्रर्षिरभवत् । तस्य पुत्रः सुतेजाऽपि ब्राह्मणोऽभूत् । एवं तस्य समग्र वंशपरंपरायां स्थिताः वर्चा- विहव्य- वितत्य-सत्य सन्त श्रवा-तम- प्रकाश वागिन्द्र प्रमति-प्रभृतयः प्रमति प्रभृतयः सर्वेऽपि वेदवेदांगपारगा विद्वांसो विप्राः श्रभूवन् । इति महाभारतानुशासनपर्वस्थित वचनैरेवावगम्यते । तद्यथा- ‘तस्य ( वीतहव्यस्य ) गृत्समदः पुत्रो रूपेणेन्द्र इवापरः । ऋग्वेदे वर्तते चाग्र्या (श्रेष्ठा) श्रुतिर्यस्य महात्मनः ॥ ’ ( श्र० ३०५६ ) ‘यत्र गृत्समदो राजन् ! ब्राह्मणैः स महीयते । स ब्रह्मचारी विप्रर्षिः श्रीमान् गृत्समदोऽभवत् || ६०|| पुत्रो गृत्समदस्यापि सुतेजा श्रभवद् द्विजः (ब्राह्मण: ) । इति । तस्यैव वंशे ‘घृताच्यां ( अप्सरसि ) तस्य ( प्रमितेः ) पुत्रस्तु रुरुर्नामोदपद्यत ॥ ६४ ॥ | प्रमद्वरायां तु रुरोः पुत्रः समुदपद्यत । शुनको नाम विप्रर्षिर्यस्य पुत्रोऽथ शौनकः ||६५|| शौनकस्य तु प्रसिद्धमेव ब्रह्मर्षित्वम् । वर्णपरिवर्तने श्रीमद्भागवतस्यापि सन्त्यने कोदाहरणानि यथाहि - नवमस्कन्धे - ’ श्रीशुक उवाच पुरोः ( क्षत्रियस्य ) वंशं प्रवक्ष्यामि, यत्र जातोऽसि भारत ! ( हे परीक्षित् ) || ’ ‘यत्र ( क्षत्रियवंशे ) राजर्षयो वंश्याः, ब्रह्मवंश्याश्च जज्ञिरे । ) ( प्रादुर्भूता: ) ( भा० २०1१ ) इति । ब्रह्म = ब्राह्मणाः वंश्ये येषां ते ब्रह्मवंश्याः । इति । एवं - ’ रथीत रस्याप्रजस्य भार्यायां ६२ चातुर्वर्ण्य - भारत-समीक्षा तन्तवेऽथितः । अ ंगिरा जनयामास ब्रह्मवर्चस्विनः सुतान् ॥ एते क्षेत्रे प्रसूता वै पुनस्त्वांगिरसाः स्मृताः । रथीतराणां प्रवराः क्षत्रोपेता द्विजातयः ॥’ ( भा० ६।६।२-३ ) इति । रथीतर: = क्षत्रियस्य राज्ञः प्रसिद्धस्याम्बरीषस्य प्रपौत्रः । तन्तवे = प्रजातन्तु- विस्ताराय श्रथितः = प्रार्थितः, श्रगिरा: = ब्रह्मषिः । श्रनंन नियोगधर्मोऽभिलक्ष्यते । ये अंगिरसा जनिता एते रथीतरस्य क्षेत्रे भार्यायां क्षत्रियाण्यां प्रसूतत्वेन रथीतरगोत्राः सन्तोऽङ्गिरसो वीर्येण प्रसूतत्वादांगिरसाश्च । पुनरपि रथीतराणामन्येषां जातानां प्रवराः- मुख्याः स्मृताः । यतः क्षेत्रोपेता द्विजातय: = ब्राह्मणाः, यद्वा द्वे जाती ब्रह्मक्षत्रे येषां ते, क्षत्रधर्मयुता ब्राह्मणा बभूवुः । एवं ‘गर्गाच्छिनिस्ततो गार्ग्यः, क्षत्राद्ब्रह्म ह्यवर्तत । दुरितक्षयो महावीर्यात्तस्य त्रय्यारुणिः कविः । पुष्करारुणिरित्यत्र ये ब्राह्मणर्गात गताः । ’ ( भा० ६।२१।१६-२० ) इति । गर्गः = रन्तिदेवस्य क्षत्रियस्य राज्ञः वंशे प्रसूतः । तस्मात् शिनिः पुत्रः, तस्मात् गार्ग्य: पुत्रो, ब्रह्म = ब्राह्मणोऽभूत् । क्षत्रात् = क्षत्रियात्, ब्रह्म = ब्राह्मणकुलं, प्रवर्तत = प्रवृत्तमभूदित्यर्थः । गार्ग्यस्य पुत्र:- दुरितक्षयः, तस्य त्रय्यारुणिः, कविः, पुष्करारुणिश्चेति त्रयः पुत्राः ये सन्ति, ते ब्राह्मणर्गात = ब्राह्मणवर्णत्वं गताः प्राप्ताः अभूवन् । एवं- ‘अजमीढो द्विमोढश्च पुरुमीढश्च हस्तिनः । अजमीढस्य वंश्याः स्युः प्रियमेधादयो द्विजाः ॥ श्रजमीढाद् बृहदिषुस्तस्य पुत्रो बृहद्धनुः । ( भा० ६।२१।२१-२२ ) इति । श्रजमीढस्य वंश्याः (वंशे भवाः ) प्रियमेधादयः केचिद् ब्राह्मणा बभूवुः, बृहदिषुप्रभृतयः क्षत्रियाश्चेति वंशद्वयमुक्तम् (श्रीधरी- यव्याख्यानम्) द्विजाः = ब्राह्मणाः इत्यर्थः । एवं ‘मुद्गलाद्ब्रह्म निर्वृत्तं, गोत्रं मौद्गल्यसंज्ञितम् ।’ ( भा० ६।२१।३३ ) इति । । विविधपुराणादीनामुदाहरणानि ६३ मुद्गलात् = क्षत्रियात्, ब्रह्म = ब्राह्मणकुल, निर्व तं = प्रसूतं समु त्पन्नमभूत् । मौद्गल्यगौत्रान्विताः ब्राह्मणा प्रभवन्निति यावत् । एवं ‘धृष्टात् धार्ष्टमभूत् क्षत्रं ब्रह्मभूयं गतं क्षितौ ।’ ( भा० २१७ ) इति । ब्रह्मभूयं = ब्राह्मणत्वं ( श्रीधरी ) क्षितौ = भूलोके, क्षत्रं ब्राह्मणवर्णत्वेन प्रसिद्धमभूदित्यर्थः । ‘रंभस्य रभसः पुत्रो गंभीरश्चाक्रियस्ततः ।। तस्य क्षेत्र ब्रह्म जज्ञे श्रृणु वंशमनेन स: । ’ ( भा० ६।१७।१०-११ ) तस्य = प्रक्रियस्य क्षेत्र = भार्यायां, ब्रह्म = ब्राह्मणः, जज्ञे = प्रादुर्भूतः इत्यर्थः । ’ ततोऽग्निवेश्यो भग- वानग्निः स्वयमभूत्सुतः । कानीन इति विख्यातो जातूकर्ण्यो महानृषिः ॥ ततो ब्रह्मकुलं जातमाग्निवेश्यायनं नृप ! । नाभा- गोदिष्टपुत्रोऽन्यः कर्मणा वैश्यतां गतः ॥ ’ ( भा० ६।२।२१-२२- २३) इति । ‘शर्यातिर्मानवो राजा ब्रह्मिष्ठः स बभूव ह । यो वा श्रङ्गिरसां सत्रे द्वितीयमह ऊचिवान् ॥’ ( भा० ६|३|१ ) इति । ब्रह्मिष्ठः = वेदार्थतत्त्वज्ञः, द्वितीय महः द्वितीयेऽह्नि क्रिय माणं कर्म ऊचिवान् = उवाच । ‘गृत्समदात् ( क्षत्रियाद्) प्रभूत् । धन्वंतरिर्देर्घतम शुनकः शौनको यस्य बह्व चप्रवरो मुनिः । .. आयुर्वेदप्रवर्तकः ॥ ( भा० ६।१७ ३-४ ) बह्व चां= ऋग्वेदिनां मध्ये प्रवरः = मुख्यो मुनिः । इत्यादीनि श्रीमद्भागवतेऽपि पुराण- मूर्धन्ये तत्तद्गुणकर्मादिपरिवर्तनेन तत्तद्वर्णपरिवर्तने भूयांसि वचनानि प्रमाणभूतानि सन्तीति ज्ञेयम् । ।। C विविधपुराणादीनामुदाहरणानि C मत्स्यपुराणे तावत्- ‘ततस्तु वितथो नाम भरद्वाजो नृपोऽभ- वत् । तस्मादपि भरद्वाजात् ब्राह्मणाः क्षत्रिया भुवि । द्वयामु- व्यायणकौलीनाः X स्मृतास्ते द्विविधेन च ।। ( वंशेन संयुक्ताः ) X द्वयोरमुयोः कुलयोः प्रभवाः पुत्रा इत्यर्थः ।६४ चातुर्वर्ण्य - भारत - समीक्षा 11 गर्गस्य चैव दायादः ( दायं विभजनीयधनमादत्ते ) शिबिविद्वान - जायत । स्मृताः शैब्यास्ततो गर्गाः क्षत्रोपेता द्विजातयः ( ब्राह्मणाः ) । श्राहार्यतनयश्चैव धीमानासीदुरुक्षवः । तस्य भार्या विशाला तु सुषुवे पुत्रकत्रयम् ।। उरुक्षवा: स्मृता ह्येते सर्वे ब्राह्मणतां गताः । काव्यानां तु वरा ह्येते त्रयः प्रोक्ता महर्षयः । गर्गाः संकृतयः काव्याः क्षत्रोपेता द्विजातय: ।’ ‘आजमीढस्य केशिन्यां ( भार्यायी ) कृण्वः समभवत्किल । मेधा- तिथिः सुतस्तस्य तस्मात्काण्वायनाः द्विजाः ( ब्राह्मणाः मुद्गलस्यापि मौद्गल्याः क्षत्रोपेता द्विजातयः । एते ह्यङ्गिरसः पक्षं संश्रिताः काण्वमुद्गलाः ॥ ब्रह्मक्षत्रस्य यो योनिर्वशो देवर्षिसत्कृतः । क्षेमकं प्राप्य राजानं संस्थास्यति कलौ युगे ।।’ (म० पु० प्र० ४६ तथा ५० ) इति । एवं वायुपुराणेऽपि - ‘प्रम्ब- रीषस्तु नाभागिविरूपस्तस्य चात्मजः । पृषदश्वो विरूपस्य, तस्य पुत्रो रथीतरः ॥ एते क्षत्रप्रसूता वे पुनश्चाङ्गिरसः स्मृताः । रथीतराणां प्रवराः क्षात्रोपेता द्विजातयः ।।’ (वायुपु० ८६-७ ) श्रूयन्ते हि तपःसिद्धाः क्षात्रोपेता द्विजातयः । विश्वामित्रो नरपतिर्मान्धाता संकृतिः कपिः । कपेश्च पुरुकु- त्सश्च सत्यश्चानृहवानृथुः । श्राष्टिषेणोऽजमीढश्च भागाऽन्योऽ- न्यस्तथैव च ॥ कक्षीवश्चैव शिजयस्तथाऽन्ये च महारथाः । रथीतरश्च रुन्दश्च विष्णुवृद्धादयो नृपाः । क्षात्रोपेताः स्मृता ह्येते तपसा ऋषितां गताः ॥’ ( वा० पु० ε१।१०५ - १८ ) ’ पुत्रो गृत्समदस्यापि शुनको यस्य शौनकाः । ब्राह्मणाः क्षत्रियाश्चैव वैश्याः शूद्रास्तथैव च । एतस्य वंशे संभूताः विचित्रैः कर्मभि- द्विजाः । शलात्मजो ह्याष्टिषेणश्चरन्तस्तस्य चात्मजः । शौनका- श्चाष्टिषेणाश्च क्षात्रोपेता द्विजातयः । ’ ( वायु पु० प्र० ९२ । विविधपुराणादीनामुदाहरणानि ६५ इलो० ४-६ एवं हरिवंशपुराणेऽपि च १।२६ ७ ८ ) इति । एवं ब्रह्मपुराणे हरिवंशपुराणेऽपि च- ‘नाभागधृष्टपुत्राश्च क्षत्रियाः वैश्यतां गताः । नाभागारिष्टपुत्रौ द्वौ वैश्यो ब्राह्मणतां गतौ ।। पृषधी हिंसयित्वा तु गुरोर्गा द्विजसत्तमाः ! | शापा- च्छूद्रत्वमापन्नः ।’ (ब्रह्म पु० प्र० ७ १३-१४-१५) इमे श्लोकाः हरिवंशेऽपि पर्व ० १ ० १० श्लो० ३० । तथा अ० ११ श्लो० 8- १० ) इत्यत्र समुपलभ्यन्ते । ‘महायोगी स तु बलिर्बभूव नृपतिः पुरा । पुत्रानुत्पादयामास पञ्च वंशकरान्भुवि । श्रङ्गः प्रथमतो जज्ञे, बङ्गः सुह्मस्तथैव च । पुण्ड्रः कलिंगश्च तथा बालेयं क्षत्रमुच्यते ॥ बालेया ब्राह्मणाश्चैव तस्य वंशसमुद्भवाः । बलेश्च ब्रह्मणा दत्तो वरः प्रीतेन भो द्विजाः ! ॥ चतुरो नियता- स्वर्णास्त्वं च स्थापयितेति च इत्युक्तो विभुना राजा बलिः शान्ति परां ययौ ।। तस्य ते तनयाः सर्वे क्षेत्रजाः मुनिपुङ्गवाः । संभूता दीर्घतमसो सुदेष्णायां ( राज्ञ्यां) महौजसः । ( ब्रह्म पु० अ० १३ । तथा हरिवंशे पर्व ० १ ० ३१) ‘विश्रुताः कौशिका: विप्राः, तथाऽन्ये सैन्धवायनाः । ऋष्यन्तरविवाह्याश्च कौशिका बहवः स्मृताः । पौरवस्य मुनिश्रेष्ठाः ब्रह्मर्षेः कौशिकस्य च । सम्बन्धोऽस्याथ वंशेऽस्मिन् ब्रह्मक्षत्रस्य विश्रुतः । । ’ ( ब्र० पु० अ० १३ ) पाणिनो बभ्रवश्चैव पार्थिवा देवराताश्च शालङ्का- यन- बाष्कलाः । शालावत्या हिरण्याक्षाः सांकृत्या गालवास्तथा । ऋष्यन्तरविवाह्याश्च । पौरवस्य महाराज ! ब्रह्मर्षेः कौशिक- स्य च । सम्बन्धोऽप्यस्य वंशेऽस्मिन् ब्रह्मक्षत्रस्य विश्रुतः ॥ ’ ( हरिवंशे- पर्व १ ० २७ । तथा श्र० ३२ ) पुत्रः प्रतिरथस्यापि श्र० । ३२) ’ कण्वः समभवन्नृपः । मेधातिथिः सुतस्तस्य यस्मात् काण्वायना द्विजाः ।।’ ‘मुद्गलस्य तु दायादो मौद्गल्यः सुमहायशाः । सर्व ६६ चातुर्वर्ण्य - भारत - समीक्षा एते महात्मानः क्षत्रोपेता द्विजातयः ॥’ ‘एते ह्यङ्गिरसः पक्षं संश्रिताः काण्वमौद्गलाः । मौद्गलस्य सुतो ज्येष्ठो ब्रह्मर्षिः सुमहायशाः । मंत्रायणस्ततः सोमो मंत्र्यास्तु ततः स्मृताः । एते हि संश्रिताः पक्षं क्षत्रोपेतास्तु भार्गवाः ( ब्राह्मणाः ) ।। (हरि वंश पु० प० १ ० १३ ) । एवं विष्णुपुराणेऽपि - ‘पृषधस्तु शूद्रत्वमगमत् ’ ’ नाभागो वैश्यतामगमत्’ (वि० पु० ४।१।१७-१६) ‘क्षत्रोपेता द्विजातयः ( वि० पु० ४।२।१० ) ( निःस्वाध्याय - वषट्कारानेतानन्यांश्च क्षत्रियांश्चकार’ (वि० पु० ४ | ३ | ४८ ) ’ अप्रतिरथस्य (क्षत्रियस्य) कण्वः पुत्रोऽभूत्, तस्यापि मेधातिथिः, यतः काण्वायना द्विजाः (ब्राह्मणाः ) बभूवुः’ (वि० पु० ४।१६।५-७ ) इति । ( गरुड- पुराणे पूर्वखण्ड श्र० १४२ ।४४ ) भविष्यपुराणेऽपि च- ‘इन्द्रो वै ब्रह्मणः पुत्रः क्षत्रियः कर्म- णाऽभवत् । पञ्च पुत्राः ययातेश्च त्रयो म्लेच्छत्वमागताः । द्वौ तथाऽऽर्यत्वमापन्नौ यदुर्ज्येष्ठः पुरुर्लघुः ||’ ( भ० पु० ११२१४६- ५०) इति । एवं व्याकरणमहाभाष्येऽपि - भगवता पतञ्जलिना - तपसा विश्वामित्रेण न केवलं स्वनिष्ठ ब्राह्मण्यं सम्पादितमपि तु स्वपितुः गाधेः, स्वपितामहस्य कुशकस्य च ब्राह्मण्यं सम्पादित- मित्युक्तम् । तद्यथा - ‘विश्वामित्रस्तपस्तेपे, नाऽनृषिः स्यामिति, तत्रभवान् ऋषिः सम्पन्नः, स पुनस्तपस्तेपे, नाऽनृषेः पुत्रः स्यामिति, तत्रभवान्गाधिरप्यृषिः सम्पन्नः, स पुनस्तपस्तेपे, नाऽनृषेः पौत्रः स्यामिति, तत्रभवान्कुशिकोऽपि ऋषिः सम्पन्नः इति’ ( पा० म० पाणिनि सू० ४।१।१०४ ) इति । तथा च कौशिको विश्वामित्रो ब्रह्मर्षिः इति सिद्धयति । श्रनृषिः = ब्रह्म- प्राक् व्याधकर्मणः पश्चात् यज्ञाचार्यस्योपाख्यानम् ६७ विभिन्नः । ऋषिः = ब्राह्मणोत्तमो ब्रह्मषिः । एवं - ‘ऋग्वेदब्राह्मण- ( ऐतरेय ब्राह्मणस्य ) स्यासीत् कर्ता यस्त्वैतरेयकः । दासीपुत्रः स विख्यातो ब्राह्मण्यं कर्मणा गतः ॥ ’ तद्यथा - ’ एतद्ध स्म वै तद्विद्वानाह ‘वहिदास’ ऐतरेय:’ ( ऐ० प्रा० ८।१।२ छां० उ० ३।१६।७ ) ‘महिदासो नामतः इतराया ( द्विजेभ्योऽन्यायाः शूद्रायाः ) प्रपत्यं ऐतरेय इति तत्रत्यं शाङ्करभाष्यम् । । एभिर्वचनैरिदं स्पष्टतो विनिर्णीयते - ’ तत्तद्गुणकर्मादिपरि- वर्तनेन तत्तद्ब्राह्मणत्वादिवर्णपरिवर्तनं भवत्येवेति । तस्मात् ‘गुणकर्मपरावृत्या वर्णान्तरपरिग्रहे । पुराणाविषु भूयांसि सन्त्यु- दाहरणान्यपि ॥ इति । प्राक् व्याधकर्मणः पश्चात् यज्ञाचार्यस्योपाख्यानम् भविष्यपुराणे प्रतिसर्गपर्वणि द्विजेयखण्डे त्र्यधिकत्रिशत्त- माध्याये तावत्तस्य कथेशी वणितोपलभ्यते । तद्यथा- ‘विक्र- मादित्यराज्ये तु द्विजः ( ब्राह्मण: ) कश्चिदभूद् भुवि । व्याध- कर्मेति विख्यातो ब्राह्मण्यां शूद्रतोऽभवत् ॥ त्रिपाठिनो द्विजस्यैव भार्या नाम्ना हि कामिनी । मैथुनेच्छावती नित्यं ( सर्वदा ) मदाघूर्णितलोचना । द्विजः सप्तशतीपाठे वृत्त्यर्थी कहिचिद् गतः । ग्रामे देवलके रम्ये, बहुवैश्यनिषेविते । तत्र मासो गतः कालो नाययौ स स्वमन्दिरे । तदा तु कामिनी दुष्टा, रूपयौवनसंयुता ॥ दृष्ट्वा निषादं ( व्याधं ) सबलं, काष्ठभारोप- जीवनं । तस्मै दत्वा पञ्च मुद्रा, बुभुजे कामपीडिता ॥ तदा गर्भं दधौ सा च व्याधवीर्येण संञ्चितं । पुत्रोऽभूद् दशमासान्ते, जातकर्म पिताs (ब्राह्मणः ) करोत् ॥ द्वादशाब्दे गते काले स X यदाह - याज्ञवल्क्यः - ‘ब्राह्मण्यां ’ शूद्राज्जातस्तु चाण्डालः सर्वधर्मबहिष्कृतः । ( स्मृ० १/६३ ) इति । ६८ । चातुर्वर्ण्य - भारत- समीक्षा धूर्तो वेदवजितः । व्याधकर्मकरो नित्यं, व्याधकर्मा ह्यतोऽभवत् ।। निष्कासितौ द्विजेनैव मातृपुत्रौ द्विजाधमौ । निषादस्य गृहे चोभौ, वने गत्योषतुर्मुदा ।। प्रत्यहं ( तया कामिन्या) जारभावेन बहुद्रव्यमुपार्जितम् । व्याधकर्मा तु चौर्येण पितृ - ( निषाद ) मातृप्रियङ्करः ।। एकदा दैवयोगेन शिवामन्दिरमाययौ । चौर- वृत्तिपरो धूर्त: ( कस्याश्चित् ) स्त्रिया भूषणमाहरत् ॥ कैश्चि- ज्ज्ञातः स नो धूर्तो, बहुमायाविशारदः । कदाचित्प्राप्तवांस्तत्र द्विजं देवीपरायणम् ॥ श्रुतमादिचरितं ( सप्तशतीपुस्तकात्) हि, तेन शब्दप्रियेण वै । पाठपुण्यप्रभावेण धर्मबुद्धिस्ततोऽभवत् ( सः व्याधकर्मा ) | दत्त्वा चौर्यधनं सर्वं तस्मै विप्राय पाठिने । शिष्यत्वमगमत्तस्याक्षरमैशं । जजाप ह ॥ बीज (शिव) मन्त्रप्रभा- वेण, तदङ्गात्पापमुल्बणं । निःसृतं कृमिरूपेण पश्चात्तापेन तापितम् । त्रिवर्षान्ते च निष्पापो बभूव द्विजसत्तम: ( द्विज- श्रेष्ठो विप्रः) । पठित्वाऽक्षरमालां च जजापादिचरित्रकम् ।। द्वादशाब्दमिते काले, काश्यां गत्वा तु स द्विजः । ( प्राक् व्याध- कर्मा, नीचवीर्यदुष्टागर्भसमुत्पन्नः संप्रति निष्पापो द्विज: ) अन्नपूर्णा महादेवीं तुष्टाव परया मुदा ।। सुष्वाप तत्र मुदितः ( प्रसन्नः ) स्वप्ने प्रादुरभूच्छिवा । दत्त्वा तस्मै हि ऋग्विद्यां पुनरन्तरधीयत । उत्थाय स द्विजो धीमान्, लब्ध्वा विद्यामनु- त्तमां । विक्रमादित्यभूपस्य यज्ञाचार्य्यो बभूव ह ।’ (भ० पु० प्रतिसर्गपर्व ) इति ।
  • स्ववीर्येण तं समुत्पादकस्य व्याधस्येत्यर्यः । + ईशस्य - शिवस्येदं ऐशं अक्षरं = ॐ नमः मन्त्रमित्यर्थः । शिवायेति’ अन्यस्य पापीयसो व्याधस्य च कथा ६६ श्रनेनोपाख्यानेनेदमवगम्यते - किलायं - ’ प्रसच्छूद्र कुलोत्पन्नो दुष्टो व्याधोsपि कर्मणा । शुभेनाभूद् महान् विप्रः श्रेष्ठराजेन पूजितः ॥ एवमेकशरीरेण गुणकर्मप्रभावतः । जीवता तेन दृष्टं वर्णयोः परिवर्तनम् ॥ श्रापस्तम्बेन यत्प्रोक्तं जघन्यपूर्व- वर्णयोः । ज्ञायतेऽस्मादुपाख्यानात्, जीवत्सु परिवर्तनम् || ( मा० भा० ) इति । तद् अन्यस्य पापीयसो व्याधस्य च कथा भविष्यपुराणेऽन्यस्यातीवपापपरायणस्य महादुष्टस्य तेन व्याधस्य कथाऽपीदृशी श्रूयते - तथाहि सः पापोयान् व्याधः कंचन ब्राह्मणं प्रति स्वकृतानि महान्ति पापानि प्रतिपादया- मास - ‘ब्राह्मणानां सहस्राणि x सत्स्त्रीणामयुतानि च । निह- तानि मया ब्रह्मन् ! सततं पापकारिणा ॥ कां गति प्रतिपत्स्यामि ब्रह्मघ्नोऽहं द्विजोत्तम ! । इदानीं तप्तुमिच्छामि, तपोऽहं त्वत्समीपतः ।।’ इत्येवं तस्य तत्सर्वोत्तमब्राह्मणदर्शन- मात्रेण पश्चात्तापविशिष्टा शुभा मतिः संजाता । पश्चात् तत्समीपं वसता व्याधेन व्याघ्रात् तस्य ब्राह्मणस्य रक्षा कृता, तेन सः तं प्रति प्रसन्नोऽभूत् । तस्मै तेन वरोऽपि दत्तः । व्याध उवाच - ‘एष एव वरो मह्यं यत्त्वं मां भाषसे द्विज ! | अतः परं वरेणाहं किं करोमि प्रशाधि माम् ॥’ इति । ऋषिरुवाच- ‘इदानीं तव पापानि, देविकाऽभिषवेण ( देविकानदीस्नानेन ) च । मद्दर्शनेन च चिरं विष्णुनामश्रुतेन च । नष्टानि शुद्ध- x साध्वी स्त्रीणां दशसहस्राणि तदानीं कश्चन दण्डधरो राजा नासीत् किम् ? अस्य महादुष्टस्य विनिग्रहकरणे तस्य सामर्थ्यं नाभूत् किम् ? लोकाश्च कीदृशाः दुर्बलाः श्रासन् वेति न ज्ञायते । ७० चातुर्वर्ण्य - भारत - समोक्षा कदाचित्- देहोऽसि, साम्प्रतं नात्र संशयः । इदानीं वरमेकं त्वं गृहाण मम सन्निधौ । तपः कुरुष्व साधो ! त्वं चिरकालं यदिच्छसि । इत्येवमृषिणाऽऽदिष्टो व्याधोऽतप्यत संयतः । तपः सिद्धिप्रभा- वोत्थ-स्वन्नदानादिसेवया । ऋषि दुर्वाससं सोऽयं क समतोषयत् ॥’ इति । परमसन्तुष्टः स दुर्वासाः तस्मै वरमी- दृशमदात्- ‘उवाच-वेदाः साङ्गास्ते सरहस्य- पद क्रमाः । ब्रह्म- विद्या पुराणानि प्रत्यक्षाणि भवन्तु ते ॥ एवं प्रादाद्वरं तस्य दुर्वासा नाम चाकरोत् । ‘भवान् सत्यतपा नाम ऋषिराद्यो भविष्यति || ’ एवं दत्तवरो व्याधस्तमाह मुनिसत्तमम् । व्याधो भूत्वा कथं ब्रह्मन् ! वेदानध्यापयाम्यहम् ॥’ (भ० पु० प्रति सर्ग० पर्व ० खं० २ । श्र० ३३ ) दुर्वासा ऋषिरुवाच - भो! तपः- प्रभावेण ते पापमयं प्राक्शरीरं नष्टम्, इदानीं तपोमयं शुद्धं वेदादिविद्यासम्पन्नमभिनवं शरीरमुत्पन्नम् । अतस्त्वं शुद्धकायो- ऽसि सत्यमेतद् ब्रवीमि ते । अतो वेदादिशास्त्राणामध्ययने किमध्यापनेऽपि समर्थोऽसि ।

पश्चात् तेन पृष्टम् - ? कि मे द्वे शरीरे स्तः ? । दुर्वासा ऋषिरुवाच - एकस्मिन्नेव स्थूलशरीरे वर्तमानं सूक्ष्मशरीरं प्राक् ज्ञानवजितमधर्मोपचितमासीत् । तदिदानीं तपःप्रभावेण नष्टम- भूत् । तत्स्थानेऽत्यन्तधार्मिकं ब्रह्मचर्याहिंसाशमदमदयादिव्रत- संयुक्तं शरीरमभिनवं जातमिति तात्पर्यम् । अतस्त्वं तपोवेदादि- शास्त्रज्ञानशमदमादिसद्गुणप्रभावेण महान् सत्यतपा नामाऽग्रगण्यो यशस्वी ऋषिः संजातोऽसि । एतेन वेदान्तदर्शनस्य (शूद्राधिकरणमपि समालोचितम् । ऋषीणामौदार्यस्य पराकाष्ठा- ऽप्यवगता । अन्धवृद्धस्य दीर्घतमसो महर्षेश्चरितम् अन्धवृद्धस्य दीर्घतमसो महर्षेश्चरितम् ७१ महाभारतस्यादिपर्वणि किल दीर्घतमसः कथेदृशी विद्यते । यथा हि धर्मात्मा राजा बलिरुवाच दीर्घतमसं प्रति- ‘सन्तानार्थं महाभाग ! भार्यासु मम मानद ! । पुत्रान् धर्मार्थकुशलानु- पादयितुमर्हसि ॥ एवमुक्तः स तेजस्वी तं तथेत्युक्तवानृषिः । तस्मै स राजा स्वां भार्या’ ‘सुदेष्णां’ प्राहिणोत्तदा ॥ अन्धं वद्धं च तं मत्वा सा देवी जगाम ह । स्वां तु धात्रेयिकां ( शूद्रां दासीं ) तस्मै वृद्धाय प्राहिणोत्तदा । तस्यां काक्षी- वदादीन् सः, शूद्रयोनावृषिस्तदा । जनयामास धर्मात्मा पुत्रा- नेकादशैव तु ।। काक्षीवदादीन् पुत्रांस्तान्दृष्ट्वा सर्वानधीयतः । उवाच तमृषि राजा ‘ममेम’ इति भारत ! ॥ नेत्युवाच महर्षि- स्तं ममेम इति चाब्रवीत् । शूद्रयोनौ मया होमे जाताः काक्षी- वदादयः ॥ अन्धं वृद्धं च मां दृष्ट्वा सुदेष्णा महिषी तव । अवमन्य ददौ मूढां शूद्रां धात्रेयिकां मम ॥ ततः प्रसादयामास पुनस्तमृषिसत्तमम् । बलिः सुदेष्णां स्वां भार्या तस्मै स प्रहिणो- त्पुनः । तां स दीर्घतमाङ्गेषु स्पृष्ट्वा देवीमथाऽब्रवीद् । भविष्यन्ति कुमारास्ते तेजसाऽऽदित्यवर्चसः ॥ श्रङ्गो बङ्गः कलिङ्गश्च पुण्ड्रः सुह्मश्च ते सुताः । तेषां देशाः समाख्याताः स्वनामकथिता भुवि । एवं बलेः पुरा वंशः प्रख्यातो वै महर्षिजः ।’ ‘एवमन्ये महेष्वासा ब्राह्मणैः क्षत्रिया भुवि । जाताः परमधर्मज्ञा वीर्यवन्तो महाबलाः ।। ’ ( म० भा० श्रादि० १०४ । मत्स्यपुराणेऽपि श्र० ४८ ) । एतेनेदं स्पष्टतोऽवगम्यते- प्राक नियोगधर्मोऽप्यासीदिति । श्रन्धस्य वृद्धस्य दीर्घतमसो महर्षेः कीदृशी सिद्धिरासीत् ? । युवतौ शूद्रायां दास्यां भूयांसः काक्षीवदादीन् पुत्रान्, यया ७२ चातुर्वर्ण्य भारत समीक्षा क्षत्रियायां सुदेष्णायां राज्ञ्याञ्च भूयांसस्तेजस्विनः क्षत्रियकुमा रान उत्पादयामास । स्वकलेवरस्य वृद्धत्वान्धत्वनिवारणे युवत्वसुन्दरत्वचक्षुष्मत्त्वादिसंपादने च सा सिद्धिः कथं विलुप्ता बभूव । श्रथवा प्रभूतपुत्रोत्पादनसमर्थस्य तस्य वृद्धत्वं कथ व्यवह्रियेतापि ? | सुदेष्णापती राजा बलिस्तु नपुंसको वा क्षयादिरोगपीडितो वा शापाक्रान्तो वा ज्ञायते । इयं किल कथा यथार्था वा प्रशंसात्मकार्थवादरूपा वेति को यथार्थतया ज्ञातुं प्रभवेत् ? । अनेनाभीष्टं नियोगप्रसूत वर्णसांकर्यमप्यवगतं भवति । शूद्रयोनौ प्रजातस्य काक्षीवतो ब्राह्मण्यलाभः ‘काक्षीवांस्तु ततो गत्वा, सह पित्रा गिरिव्रजम् । दृष्ट्वा, स्पृष्ट्वा च पितु - ( दीर्घतमस ) वें, स ह्य् पविष्टश्चिरं तपः ।। ततः कालेन महता तपसा भावितस्तु सः । विधूय मातृजं कायं ब्राह्मण्यं प्राप्तवान् विभुः ॥ ततोऽब्रवीत् पिता तं वै पुत्रवा- नस्म्यहं त्वया । सत्पुत्रेण तु धर्मज्ञ ! कृतार्थोऽहं यशस्विना ।। ब्राह्मण्यं प्राप्य काक्षीवान् सहस्रमसृजत् सुतान् । कौष्माण्डा गौतमाश्चैव स्मृताः काक्षीवतः सुताः ॥’ ( मत्स्यपुराणे श्र० ४८ ) इति । ब्राह्मण्यलाभस्येदमपि प्रत्यक्षं फलं तस्य सहस्र- पुत्रोत्पादनलक्षणं जातम् । एतेन बहुपत्नीपरिग्रहोऽपि तस्या- भिव्यज्यते । श्रन्यथैकस्यां सहस्रसुतोत्पादनं कथं शक्यं स्यात् ? मातृनिष्ठसामर्थ्यमपि । स्यादपि तपः सिद्धिप्रभावेण तेषां पुत्रादीनां निवासपोषणादिकमपि च । किमत्र तथ्यमिति सर्वेश्वरो जानीतादिति । परन्त्वेतत् तथ्यमेव तेषु काक्षीवदादिषु ‘केचित् मातृसजातीया, पितृवर्णाश्च केचन । गुणकर्मानुसाराच्च केचिद्वर्णान्तरं गताः ॥’ इति । । परशुरामवृत्तान्तोऽपि वर्णपरिवर्तनं विज्ञापयति ७३ परशुरामवृत्तान्तोऽपि वर्णपरिवर्तनं विज्ञापयति यद्यपि पुरातनकालादेव गुणकर्मादिपरिवर्तनप्रयुक्तं वर्ण- परिवर्तनं प्रवर्तमानमासीत्; तथापि निखिलक्षत्रियप्रद्वेषिणा महाबलवता परशुरामेण भार्गवेण तु तद्विशेषतः सम्पादितमभू- दिति पुराणभारतादितः स्पष्टमवगम्यते । तद्यथा - श्रीमद्भागवते नवमे - ‘त्रि सप्तकृत्वः पृथिवों कृत्वा निःक्षत्रियां प्रभुः ।’ इति । ( ६ १६ १६ ) स्वपतिमृत्युसमये त्रिः सप्तकृत्वो रेणुकया परशुरामजनन्या दुःखावेशादुरस्ताडनं कृतं, ततः परशुरामस्ता- वत्कृत्वः क्षत्र कुलमुत्सादितवानिति प्रसिद्धिः । प्रबलतमसैन्येन सहोग्रतमः परशुरामः सर्वत्र भारते भ्रमणं कृत्वा - एकस्य क्षत्रि- यस्यापराधस्य कृते सर्वानपि निरपराधान् क्षत्रियान् भूयो भूयो विनाश्य तन्निखिलमपि राज्यमात्मसात्कृत्वा ब्राह्मणेभ्यो ददौ । यदाह - ‘ददौ प्राचीं दिशं होत्रे, ब्रह्मणे दक्षिणां विशम् । श्रध्व- र्यवे प्रतीचीं वै, उद्गात्रे उत्तरां दिशम् ॥ श्रन्येभ्योऽवान्तरदिशः, कश्यपाय च मध्यतः । श्रार्यावर्तमुपद्रष्ट्र े सदस्येभ्यस्ततः परम् ॥’ ( भा० १६/२१-२२ ) इति । होत्रे = होतृसंज्ञकाय ऋत्विक्- ब्राह्मणाय, प्राचीं दिशं= पूर्वदिक् प्रदेशमित्यर्थः । एवमग्रेऽपि बोध्यम् । पुनः पुनः एकविंशतिवारं क्षत्रियाणां निखिलानां विनाशेऽय- मभिप्रायः । दुर्बलाः क्षत्रियास्तावत् परशुरामप्रबलभयेन यत्र कुत्रापि पर्वतारण्यादौ निलीना अभूवन् तेषामप्यन्वेषणेन लब्धानां जीवनान्तो भवेदिति । तदा तु तन्महाभयेनातिव्यथिताः क्षत्रियाः स्वस्वकीयसन्तानजीवनरक्षणायेदं प्रोचुः - ’ न वयं क्षत्रियाः स्मः, किन्तु ब्राह्मणाः स्मः, वैश्याश्च स्मः, वयं वेदतद- ङ्गादीनि शास्त्राणि पठामः, न शस्त्राणि धारयामः, वयं कृषि-७४ चातुर्वर्ण्य - भारत-समीक्षा वाणिज्यादिकमेव कुर्मः’ इत्यादिकमिति । क्षत्रियवेषादिपरिव- र्जनेन ब्राह्मणादिवेषादिधारणेन च यैः स्वक्षत्रियवर्णत्वं परित्यज्य वर्णपरिवर्तनं विहितम् । तान् निखिलान् वर्णान्तरप्रविष्टान् परशुरामो न विध्वंसितवान् किन्तु तान् परितत्याज । एवं परशुरामेण स्वब्राह्मणसंघविवर्धनाय प्रन्यान् कैवर्तनिषादादीन् महाशूद्रानपि ब्राह्मणांश्चकार इति यत्र तत्र पुराणादौ स्पष्टं प्राक् प्रदशितमप्यनुसंधेयम् । एवं परशुरामेण ये ये क्षत्रियाः विनाशितास्तेषां विधवा युवतयो ब्राह्मणादिभ्यो नियोगं कृत्वा पुनरपि क्षेत्रप्राधान्यम- भ्युपेत्य क्षत्रियसन्तानानि - उत्पादयामासुः इति महाभारत- पुराणादौ प्रसिद्धम् । यथाहि - ‘तदा निःक्षत्रिये लोके भार्गवेण कृते सति । ब्राह्मणान् क्षत्रियाः (विधवा) राजन् ! सुताथि- न्योऽभिचक्रमुः । ताभिः सह समापेतुर्ब्राह्मणाः संशितव्रताः । तेभ्यश्च लेभिरे गर्भं क्षत्रियास्ताः सहस्रशः । ततः सुषुविरे राजन् ! क्षत्रियान् वीर्यवत्तरान् ॥ कुमारांश्च कुमारीश्च पुनः क्षत्राभिवृद्धये । एवं तद्ब्राह्मणः क्षत्रं क्षत्रियासु तपस्विभिः ॥ जातं वृद्धं च धर्मेण सुदीर्घेणायुषाऽन्वितम् । चत्वारोऽपि ततो वर्णाः बभूवुर्ब्राह्मणोत्तराः ॥’ (म० भा० श्रादिप० ६४ | ३ |६ ) ‘एवं निःक्षत्रिये लोके कृते तेन महर्षिणा । ततः संभूय सर्वाभिः क्षत्रियाभिः समन्ततः ॥ उत्पादितान्यपत्यानि ब्राह्मणैर्वेदपा- रगैः । ‘पाणिग्राहस्य तनयाः’ इति वेदेषु निश्चितम् ॥’ ( वराह- पुराणे श्र० ३७ ३६-४० ) इति । गीतासु भगवताऽर्जुनकृतवर्ण संकरशंका निवारणं कथं न कृतम् ? श्रत एव कश्चिदत्र ब्रूते - वर्णानां मिथः सांकयं पुरातन- कालादेव संप्रवृत्तमासीदिति । श्रत एव गीतासु श्रर्जुनेन युद्धस्ये- ७५ गीतासु भगवता शंकानिवारणं कथं न कृतम् दमेकं प्रबलमनिष्टं फलं प्रदर्शयितुं ‘स्त्रीषु दुष्टासु वार्ष्णेय ! जायते वर्णसंकरः । संकरो नरकायैव । ( ११४१-४२ ) इति विधवा युवतिषु प्रबलकामदोषसमुपेतासु विभिन्नवर्णनियोगात् जायमानाः वर्णसंकर प्रजाः कुलस्य नरकं दातुं प्रभवन्तीति याऽऽशंका कृता । परन्तु भगवान् श्रीकृष्णः तस्याः निवारणम- कृत्वा स्वभक्तसखमर्जुनं क्षत्रियधर्माय युद्धायैव प्रवर्तयामास । तदाशंकाया: समाधानं भगवता कथं न कृतमिति ? तद्विषये कश्चनैवं ब्रवीति । यतो भगवता श्रीकृष्णेनार्जुनस्य वर्णसंकर- प्रजानिर्माणशंकायाः स्वमनसि - इत्थमुपहासो विहितः - भो प्रिय ! अर्जुन! वर्णसंकरतायाः शंका शास्त्र रहस्यसमाजपरिपाटी- ज्ञानशून्येन मनुजेनानिष्टरूपेणोद्भाविता कथं त्वया क्रियते ? | समीक्ष्यताम् - भो ! भवतां पाण्डवानामितिवृत्तम् । भवत्सु कि वर्णसांकर्यं नास्ति ? | भवत्पितरि पाण्डौ, तदुत्पादके भवत्पितामहे भगवति व्यासेऽपि तत्किं नास्ति ? । तत्कि भव- दादिषु अनिष्टदूषणरूपेणोपलभ्यते वा, किमभीष्ट भूषणरूपेण वा । प्रभीष्टभूषणरूपेणैवोपलभ्यते इति ब्रूमः । भवन्तः कीदृशाः सत्यप्रतिज्ञाः धर्मनिष्ठाः शूरवीराः समुदारचरिताश्च सन्ति । भवत्पितामहो भगवान् व्यासोऽपि ‘नमोऽस्तु ते व्यास ! विशालबुद्धे !’ ‘केशवं बादरायणम्’ इत्यादिभिः संस्तुतः प्रसिद्धः सर्वविद्वज्जनललामभूतोऽष्टादशपुराणभारतादिविविधग्रन्थ निर्माता निखिलार्यावर्तप्रदेशाभ्यर्हणीयभूषणरूपश्चास्तीत्यत्र नास्ति कस्यापि सचेतसः शंकागन्धोऽपि । यस्य पुत्रः शुकदेवी- ऽपि महान् वीतरागो ब्रह्मनिष्ठः श्रीमद्भागवतादिमप्रवक्ता भविष्यतीति । श्रत एवोक्तं केनचिद् विदुषा – ७६ चातुर्वर्ण्य भारत समीक्षा ‘कानीनस्य मुनेः स्वबांधववधूवैधव्य विध्वंसिनः । नप्तारः ( पौत्राः ) किल गोलकस्य ( पाण्डोः) तनयाः कुण्डाः स्वयं पाण्डवाः । ते वै पञ्च समानदारनिरताः तेषां कथाकीर्तनात् । पापं नश्यति वर्धते च सुकृतं, धर्मस्य सूक्ष्मा गतिः ॥’ इति । ‘परदारेषु जायन्ते सुतौ च कुण्डगोलको । पत्यो जीवति कुण्ड: स्यात्, मृते भर्तरि गोलकः ।।’ कन्यायाः श्रविवाहितायाः मत्स्य- गंधायाः पुत्रः कानीनो व्यास इत्यर्थः । शंकानिवारणमित्थम् 1 अपि च- ‘विशिष्टायाः विशिष्टेन संगमो गुणवान् भवेत् ।’ ( महाभारतस्य नलोपाख्याने ) इति न्यायेन श्रेष्ठवर्णानां पाण्डवादौ गुणवत्यभीष्टे सांकर्येऽपि कर्मादिसांकर्यं नास्ति । यतः- क्षत्रियगुरणकर्मणां तेषु सुप्रतिष्ठितत्वात् । श्रतः सांकर्यं वर्ण- प्रयुक्तमेव न मन्तव्यमपि तु कर्मादिप्रयुक्तमपि सांकर्यं शास्त्र- वर्णितं विद्यत एव । उक्तं च- ‘अर्थाश्रयाद्वा कामाद्वा, परकर्मनिषेवणात् । स्वकर्मणाञ्च त्यागेन जायन्ते वर्णसंकराः ॥ ( वा०स्मृ० ) अत एवोक्तो महाभारतेऽपि परकर्मसेवनात् परवर्ण- प्रवेशः । यथाहि - ‘यस्तु विप्रत्वमुत्सृज्य क्षात्रं धर्मं निषेवते । ब्राह्मण्यात् स परिभ्रष्टः, क्षत्रयोनौ प्रजायते ॥ ’ ॥ क्षत्रयोनौ = क्षत्रियवर्णे, प्रजायते = गण्यमानः संपन्नश्च भवति, वर्तमान- कालनिर्देशात् जन्मान्तरे क्षत्रिययोनौ जायते इति वर्णन- मयुक्तम् । ‘वैश्यकर्म च यो विप्रो लोभमोहव्यपाश्रयः । ब्राह्मण्यं दुर्लभं प्राप्य, करोत्यल्पमतिः सदा ॥ १०॥ स द्विजो वैश्यतामेति, वैश्यो वा शूद्रतामियात् । स्वधर्मात् प्रच्युतो विप्रस्ततः शूद्रत्व- माप्नुते ॥ ११॥ क्षत्रियो वा महाभागे ! वैश्यो वा धर्मचारिणि ! | स्वानि कर्माण्यपहाय, शूद्रकर्म निषेवते ॥ १२ ॥ फलवैषम्यं किं सूचयति ? ७७ स्वस्थानात् स परिभ्रष्टो वर्णसंकरतां गतः । ब्राह्मणः क्षत्रियो वैश्यः शूद्रत्वं याति तादृशः || १३ || ’ ( म० भा० अनुशासन- पर्वणि० ०१४२ ) इति । वस्तुतो यथायोग्यं मानवानां तत्तद्गुणकर्मणां जीवननिर्वाह- साधनानाञ्च मिथोऽसंकीर्णव्यवस्थैव समुचिता वर्णव्यवस्था संपन्ना भवति । यथा गृहे स्थितानामन्नवस्त्रपादत्राणादिपदार्थानां तत्तन्नियतस्थानेषु स्थापनरूपैव व्यवस्था स्वीक्रियते । यदाहि पादत्राणस्थाने वस्त्राणि, वस्त्रस्थानादौ च पादत्राणादिकं स्थापितं स्यात्, तदा साऽव्यवस्थैवाभिधीयते, तद्वत् । अतस्तत्तद्द्ब्राह्मणादि- स्वरूपसिद्धये कर्मसांकर्यस्य निवारणमपरिहार्यरूपेण नितान्त- मपेक्ष्यत एव । समानशीलव्यसनेषु सख्यं विवाहश्च समुचित एव । ’ विवादश्च विवाहश्च समयोरेव शोभते ।’ अत एव यथा प्राक्काले पृथक् पृथक् तत्तन्नाम-कर्म-स्वभाव - वेषभूषादिमूलैव वर्णव्यवस्थाऽवगता बभूव, तथा संप्रति तादृशी वर्णव्यवस्था सर्वत्र दुर्लभैव प्रतीयते, यतः प्रायः सर्वेषु ब्राह्मणादिषु कर्मादि- सांकर्यस्य सर्वत्र दृष्टत्वादिति । श्रतः - ‘ब्रह्मा कर्मानुसारेण चातुर्वर्ण्यमकल्पयत् । एवं वायुपुराणादौ सुस्पष्टं वर्णितं यथा ॥ ‘ब्रह्मा स्वयंभूर्भगवान् दृष्ट्वा सिद्धिं तु कर्मजां । मर्यादाः स्थापयामास यथाऽऽरब्धाः परस्परम् ।।’ ( ८|३४ ) इति । फलवैषम्यं किं सूचयति ? यथा मधुरादात्रबीजात् उत्पादितस्तरुर्मधुराण्येव फलानि जनयति चेत्, तदा तु ‘प्रयमात्रवृक्षः’ इति शिष्टः प्रोच्यते । यदि कनि चाम्लानि च फलानि समुत्पादयति तदा कथं विचारकैः श्रयमास्रवृक्षोऽस्तीत्यभिधीयेत ? । तथैव जन्मजातिकृते ब्रह्मक्षत्रादिवर्णानां परस्परं भेदेऽभ्युपगते कश्चन स्वभावादि- ७८ चातुर्वर्ण्य - भारत - समीक्षा कृतो विशेषः प्रत्यक्षमुपलभ्येत, शतशो व्यभिचरितत्वात् न तु तत्तथोपलभ्यते । वैपरीत्यमप्युलभ्यते । यथा - दृश्यन्ते हि ब्राह्मणबुवा पनितान्तं बुद्धिहीनाः श्रनृतमायादिपराः पयो- मिश्रितपयोविक्रयिणो भोजन निर्मारणादिश्ववृत्तितत्पराश्च । भूयांसः क्षत्रिया श्रपि कृषकाः किंकराः गवादिपशुपालकाः शौर्यपराक्रमादिभावशून्या वणिक्वृत्तिमाश्रिताश्च श्रक्षत्रिया श्रपि बलपराक्रमशालिनः प्रबलशत्रुजेतारश्च श्रनेके शूद्रा अपि ब्राह्मणोचित - शीलबुद्धिविभवाद्युपेताश्चेति । तथा चानेन प्रत्यक्षविपरीत दर्शनेनापि - शमशौर्यव्यापार- चातुर्य सेवाभावादिगुणमूलको यज्ञयुद्धवाणिज्यश्रमादिकर्ममूल- कश्चायं वर्णविभागः शास्त्र शिष्टसमाजाभ्यामुपनिबद्धो न तु प्राकृतिक इत्ययमर्थः सुष्ठुः संसाधितः । इदानीमपि च तस्य तथैव प्रचारः समाज संघट्टन राष्ट्रोन्नतिसाधकोऽस्ति । न चात्र कोऽपि शास्त्रविरोधगन्धोऽप्यस्तीति सम्यक्प्रतिपादितमेव समीक्षानिपुणैः समीक्ष्यताम् । तत्तदितिहासादिसाक्षिकं भारते सर्वत्र वर्णपरिवर्तनम् भारतस्य विशालराष्ट्रस्य तत्तत्खण्डेषु तत्तदितिहासादिना प्रमाणेन समुपलभ्यन्ते वर्णविपर्ययत्वस्याने कान्युदाहरणानि । प्राचार्यक्षितिमोहनसेन प्रणीतेऽभिनव भारती ग्रन्थमालायां- कलकत्ता नगरीतः प्रकाशिते ‘भारतवर्ष में जातिभेदे’ ति नाम्नि हिन्दी ग्रन्थे ‘समाज में जीवन और गति’ इति संज्ञकेऽध्याये सन्ति प्रतिपादितानि । तानि यथा-चित्तपावनविप्रवत् महाराष्ट्र प्रसिद्धाः जाबालकाष्ठ-ब्राह्मणाः, आन्ध्रप्रदेशे प्रसिद्धा: लिंगा- यतसंप्रदाये प्रवर्तमानाः आराध्य -ब्राह्मणाः, गुर्जरप्रदेशे च तत्तदितिहासादिसाक्षिकं भारते सर्वत्र वर्णपरिवर्तनम् ७६ प्रसिद्धाः ‘राजस्थानादौ कण्डोल X - श्रम्भीर - अनाविलब्राह्मणाः, प्रसिद्धाः पुष्करणा ब्राह्मणाश्च प्राक् विभिन्नवर्णा श्रासन् । कदा कदा राजानोऽपि स्वसामर्थ्येन निम्नकोटिकानां जनानामपि ब्राह्मणत्वं वा क्षत्रियत्वं वा निर्म- मिरे । प्रतापगढ-ब्राह्मणा श्रपि प्राक् श्रहोरजातीयाः श्रासन, श्रत एव तान् अहीरान् राजा माणिकचन्द्रः स्वप्रसादद्योतनाय ब्राह्मणान् अकरोत् । गोरक्षपुरे वर्तमाना ब्राह्मणाः प्राक् बंजारा श्रासन् संप्रति ते पाण्डेय - शुक्ल - मिश्राद्युपसंज्ञाभिः प्रसिद्धाः सन्ति । श्रामता- डाप्रदेशस्य पाठकब्राह्मणाः प्राक् लोधजातिप्रसूता श्रासन् । उन्नाब प्रदेशस्य महावरक्षत्रियाः प्राक् कहारजातिजन्याः, डोमवारक्षत्रियाश्च डोमजन्याश्चासन् । राजा तिलकचन्द्रो युद्धसहायरूपोपकारकृतज्ञताज्ञापनाय तान् क्षत्रियान् चक्रे । श्राब्राह्मणा श्रपि प्राक् द्राविडवैगाजातितः प्रसूताः श्रासन् । बिहारप्रदेशीय – भूमिहार - उत्तर प्रदेशीयतगा - ब्राह्मणानामपीति- हास ईदृश एवास्ति । पंजाबराष्ट्रस्य कांगडा कोटला-बहावल- जब्बाल - प्रदेशानां क्षत्रियाः प्राक् ब्राह्मणाः आसन् । अकाली- दलस्य नेता प्रसिद्धः कट्टरशिक्खो मास्टर तारासिंहोऽपि प्राक् ब्राह्मण आसीत् । पंजाबप्रदेशात् ब्राह्मणादीन् हिन्दून् दूरीकृत्य शिवखस्थानस्य प्रणयनाय महान्तं प्रयत्नं करोतीति संप्रति प्रसिद्धम् । शाकद्वीपीय ब्राह्मणानामितिहासः प्राक् प्रतिपादितः । पंजाबप्रदेशस्य श्राभीर-गुज्जर- ब्राह्मणाः एशिया-युरोपयोर्मध्य- x युगपदेव गलेषु यज्ञोपवीतं निधायाष्टादशसहस्र (१८०००) संख्येयाः कण्डोलाः ब्राह्मणाः बभूवुरिति तन्महत्त्व- बोधककण्डोलपुराणादवगम्यते 1 ८०

चातुर्वर्ण्य भारत समोक्षा

सीमातस्ते समायाताः विदेशीयाः सन्ति । श्रीमता मध्वाचाय्यें- णापि स्वसंप्रदाये ब्राह्मणानामभिवृद्धयेऽभिनवब्राह्मणा विनि- मिताः श्रासन् । कर्णाटकप्रदेशीया मत्तिब्राह्मणाः प्राक् कैवर्ता: श्रासन्, कस्यचित् योगि संन्यासिकृपातस्ते ब्राह्मणा श्रभूवन् । स्थानीय ग्रन्थ पुराणेभ्योऽवगम्यते यत्-कदम्बवंशीयस्य मयूरवर्मणः प्रशासनसमये यज्ञादिकार्यसिद्धये स राजा भूयांसोब्राह्मणानपि यज्ञादिकर्त न् ब्राह्मणान् चकार । श्रत एव तेषां श्रभिनवनि- मितब्राह्मणानां गोत्राणि संप्रत्यपि क्षुद्रजन्तुवृक्षसंज्ञाभिः समलं- कृतानि सन्ति । | नम्बुद्रिब्राह्मणानामितिहासः प्राक् संक्षेपतः प्रदर्शितः । तेऽपि पुरा मत्स्यजीविन श्रासन् । एवं भूयांसः कैवर्ता ब्राह्मणा श्रभूवन् परन्तु मुत्राचकैवर्तवाणाः क्षत्रियेभ्यः कस्माच्चिदप- राधात् पतिताः भूत्वा कैवर्ता अभूवन् । परशुरामः केरलदेशे मत्स्यनिरोधजालसूत्रेभ्यः उपवीतानि निर्माय तुलुनाम्ना प्रसि- द्वानां मत्स्यजीविनां गलेषु तानि निधाय तान् ब्राह्मणान् चक्रे । एवं नागमाची ब्राह्मणानामपीदृश इतिहासोऽस्ति । भोद्री ब्राह्म- णानां पूर्वपुरुषो नापितं श्रासीत् । तम्बलब्राह्मणाः गोदावरी- कृष्णाप्रदेशेषु ब्राह्मणत्वेन व्यवहृता श्रपि त्रिलिङ्गप्रदेशे शूद्रत्वेन मन्यमाना श्रनादृताश्च भवन्ति । भारतस्यानेकप्रदेशेषु कृषकाः ब्राह्मणाः सन्तिः, यान् अन्यान्यब्राह्मणाः प्राक् कृषकाः श्रासन् पश्चात् ते ब्राह्मणा अभूवन्निति मन्यन्ते । यथा गुर्जर प्रदेशस्य भाटलाः, महाराष्ट्रस्य सेनव्यः, कर्णाटकस्य हैगा:, उडीसा प्रदेशस्य मस्तानाः कामाश्च ज्वालादेवीस्थल वास्तव्याः भोजकसारस्वताश्च प्राक् कृषकाः आसन् । मरुप्रदेशस्य डकोतन्ब्राह्मणाः श्राभीरमातृतः, गरुडिया- तत्तदितिहासादिसाक्षिकं भारते सर्वत्र वर्णपरिवर्तनम् ८१ ब्राह्मणाश्च चर्मकारकन्यातो जन्म लेभिरे । ते किल शनि पूजयन्ति निकृष्टदानञ्च परिगृह्णते । व्यासोक्ताः ब्राह्मणाः व्यासवचनमात्रेणैव विप्रा बभूवुः । बंगप्रदेशस्य युगी ब्राह्मणाः प्राक् शूद्रा आसन् । टिपरापत्तनस्थेन कृष्णचन्द्रदालालेन तेषां कण्ठेषु यज्ञोपवीतानि स्थापितानि । संप्रति तेषु केचित् बहिर्गत्वा पण्डिताः शर्माणः उपाध्यायाश्च बभूवुः । द्राविडप्रदेशस्थाः पटवेगराः प्राक् गुर्जरदेशाद् दक्षिणदेशमागत्य वयनजीविनोऽभू- वन् । कस्यचिद्विशालहृदयस्य ब्राह्मणस्यानुग्रहात् वेदमुपवीतं गोत्राणि च गृहीत्वा शास्त्रीत्युपसंज्ञावन्तो ब्राह्मणा बभूवुः । एवं सौराष्ट्रका अपि महम्मद गजनवीप्रयोजितसोमनाथालयवि- ध्वंससमये सौराष्ट्रात् भयभीताः सन्तो द्राविडं प्राप्य अय्यरा- चार्य्याद्युपाधि परिगृह्य ब्राह्मरणा अभूवन् । अत एव संप्रत्यपि तान् द्राविडब्राह्मणास्तत्त्वेन न मन्यन्ते । दक्षिणभारतस्य भाटा: प्राक् ब्राह्मणा आसन्, पश्चात् क्षत्रियादिसम्बन्धात् पतिता प्रभूवन्निति श्रनन्तकृष्णशास्त्री मनुते । एवमासामप्रदेशस्थ करियाः शरणियाश्च कस्यचित् हिन्दु- महात्मनः सकाशात् राममन्त्रं गृहीत्वा क्षत्रिया अभूवन् । एवं तत्रत्याः गणकाः ब्राह्मणाः बभूवुः, ते प्राक् आहोम संज्ञक मंगो- लियनजातिप्रसूता श्रासन् । सेंगरसंज्ञकाः प्राक् शृङ्गिमहर्षि- प्रभवत्वात् ब्राह्मणा ग्रासन्, पश्चात् क्षत्रियविवाहादि - सम्बन्धात् क्षत्रियाः बभूवुः । दक्षिणभारतस्य वस्त्रसीवनकर्तारः सूचिधारकाः वदन्ति, वयं प्राक् क्षत्रियाः श्रास्म, परशुरामस्य भयेन क्षत्रियत्वमस्माभिः परित्यक्तमिति । ये किल स्वस्त्री: सदा वस्त्रावरणग्रथिताः कुर्वन्ति, बहिः सर्वे जनाः तन्मुखानि द्रष्टुं न शक्नुवन्ति, विधवाविवाहं कृष्यादिकञ्च न कुर्वन्ति, ८२ चातुर्वर्ण्य - भारत - समीक्षा ते क्षत्रियाः भवन्ति । ये किल विधवाविवाहकृष्यादिकं कुर्वन्ति, स्वस्त्रीणां मुखानि अन्येऽपि द्रष्टुं शक्नुवन्ति, ते न क्षत्रियाः किन्तु जाटा भवन्ति इत्येकस्मात् क्षत्रियवंशात् प्रसूतानां विभागद्वयं जातम् । रेवाडीप्रदेशवास्तव्याः प्राभीरा: विधवा- विवाहं परित्यज्य स्वस्त्रीनिष्ठवसनावरणप्रथाञ्चाभ्युपगम्य स्वान्याभीरसम्बन्धं विहाय स्वतन्त्राः श्रेष्ठाः क्षत्रियाः बभूवुः । राजस्थानस्य हुसेनी - ब्राह्मणाः हिन्दुयवनोभयभावमभ्यु- पगन्तृ णामनेकेषां पुरोहिताः गुखो बभूवुः । मणिपुर प्रदेशस्था ब्राह्मणाः तत्प्रदेशशूद्रादिकन्याभ्यः प्रादुरभूवन् । सेनराजगणाः ब्राह्मणवंशप्रसूता अपि क्षत्रियवृत्तिमाश्रित्य परमब्रह्मक्षत्रिया बभूवुः । सिलहट प्रदेशस्थानां दाशजातिकानां पुरोहिताः ब्राह्मणाः प्राक् मालाकाराः आसन्, कश्चन राजा प्रसन्नो भूत्वा तान् यज्ञोपवीतं ग्राहयित्वा ब्राह्मणान् चक्रे । बल्लाल- सेनो राजा बंगप्रदेशवास्तव्यानां सुवर्णवणिजां शूद्रत्वं स्थाप- यामास । बल्लालचरिते त्रयोविंशतितमेऽध्याये तद्वर्णनमित्थमव- गम्यते - ‘यदि दांभिकान् सुवर्णवणिजः शूद्रत्वे न पातयिष्यामि, गोब्राह्मणघातेन यानि पातकानि तानि मे भविष्यति’ इति । मध्यभारतस्य गौंडाः शनैः शनैः क्षत्रिया अभूवन् । अवधप्रदे शस्य भूयांसः शूद्रा श्रपि क्षत्रियाः बभूवुः । भूतप्रेतनिवारकाः श्रोझासंज्ञकाः श्रनार्या बैगा अपि शनैः शनैः ब्राह्मणा अभूवन् । । इत्येवमाचार्य क्षितिमोहनसेनेन तत्तदितिहासादिवृत्तान्तेभ्यो भारतस्य सर्वप्रदेशेषु वर्णपरिवर्तनस्य पूर्वोक्तान्यने कोदाहरणानि प्रदशितानि । तत्प्रणीत: ‘भारतवर्ष में जातिभेद’ इतिसंज्ञको ग्रन्थो हिन्दीप्रसिद्ध लेखकेन पण्डितहजारो प्रसाद द्विवेदिना · तत्तदितिहासादिसाक्षिकं भारते सर्वत्र वर्णपरिवर्तनम् ८३ सम्पादितः, भारतवर्षीय सांस्कृतिकयथार्थेतिहासरूपेण सम्मानि- तश्चाभूदिति । एवं ‘सरयूपारीणसर्वस्वः’ इतिसंज्ञकस्य ग्रन्थस्य १० पृष्ठे- ‘जयचन्द्रेण राज्ञा मिथिलास्थितेन शिवसिंहेन राज्ञा चारण्यकको- लभिल्ल मुशहरादिभ्यः सपादलक्षसंख्याकाः कृत्रिमाः श्रभिनवा ब्राह्मणा विनिर्मिताः ताभ्यां तेषां पूजा कृता श्रादरसत्कारा- यपि च विहितौ । ये किल कन्नौजियासरयूपारीणदलाभ्यां बहिर्भूताः देशीयब्राह्मणाः प्रभूवन्निति; एवं ‘पंक्तिपावन- परिचय:’ इति ग्रन्थेऽपि मांडाराजेन विजयपुराधीशेन राज्ञा चैवंभूताः कृत्रिमा श्रभिनवा ब्राह्मणा विनिर्मिताः इति, एवं शालिवाहनस्य राज्ञोऽप्यभिनवकृत्रिमन्ब्राह्मणनिर्माणकथा प्रसिद्धाऽस्तीति निरूपितम् । तथा च सरयूपारीणसभायाः सभापतिनेदं स्वीकृतमपि - ’ यद्यप्यस्माकं ब्राह्मणसमुदायेषु सपादलक्षसंख्याकाः कृत्रिमा: ब्राह्मणाः सम्मिलिताः सन्ति । इतिहासप्रमाणव्यवहारादिदृष्ट्या सत्यमप्येतद्भवतु नाम । तथाप्येतेषामस्मत्समुदायात् बहिनि :- सारगमनार्यायैव भविष्यति । प्रतस्तेषां हृदयेषु ‘धाकडा ’ श्रर्थात् नीचाः कृत्रिमा हमे सन्तीत्याद्य भद्रशब्दप्रयोगेण दुःख- लज्जादिसमुत्पादो भवत्कर्तृकः सर्वथाऽनुचित एवास्तीति मन्ये । यदा भवन्तस्तानुद्दिश्य किमपि गालीप्रदानादिकं करिष्यन्ति, तदा तेऽपि ‘कृते च प्रतिकर्तव्यमि’ ति न्यायेन भवत्स्वपि कानपि दोषान् समारोप्य भवन्निन्दादिकं विधास्यन्तीति । तो ये बहुका- लात् द्विवेदि (दूबे ) त्रिवेदि - (तिवारी) उपाध्याय - मिश्र दीक्षित- अवस्थी पाठकेत्याद्युपसंज्ञाभिः प्रसिद्धाः सन्तोऽस्मत्समुदायेषु सम्मिलिताः बभूवुः, ते तथैव तिष्ठन्तु ।’ इति ( वर्णव्यवस्था-८४ चातुर्वर्ण्य - भारत-समोक्षा मा० प्रा० भा० १ पृष्ठ २८५ ) एवं मैथिल ब्राह्मणसमुदाये- वपि मलिच्छामय-सतलखे वाटधानय सुरिवार प्रभृतिसंज्ञाभिः प्रसिद्धा प्रपि तादृशाः एव सन्तीति सरयूपारीणसंहितायाः १२-१३ पृष्ठयोः वर्णितम् । तथा चेदं स्पष्टतोऽवगम्यते- तत्तत्समये तदानींतनाः धर्मप्रियाः राजानो धर्माचार्याः महा- त्मानोऽपि यथायोग्यं निम्नोन्नतवर्णपरिवर्तनं विदधुरिति । श्रत एव भगवद्रामानुजाचार्य्योऽपि स्वश्रीसंप्रदाये ब्राह्मणवृन्दाभि- वृद्धये सूत्रेभ्य: पटानिव, सुवर्णेभ्यश्चाभरणानीवोपादानकार- णेभ्योऽब्राह्मणेभ्यो ब्राह्मणान् निर्ममे । श्रत एव तेषां गोत्राणि सांप्रतमपि नालिकेरवृक्षस्यारोहावरोहकर्मविशिष्टानि विद्यन्ते इति, यत्र तत्र वर्णितमुपलभ्यते । जन्म कृतगुणकर्म कृतवर्णव्यवस्थयोः का युक्तियुक्ता ? अतएव नेयं ब्राह्मणादिवर्णव्यवस्था केवलजन्मकृता स्वाभाविकी भवितुमर्हति किन्तु गुणकर्मकृतैव, शास्त्रसमाजो- पनिबद्धा च भवितुमर्हति । यदि हीयं वर्णव्यवस्था केवलजन्म- कृतैव स्यात्, अवश्यं तहि भारतनिविशेषं सर्वेष्वपि युरोपादि- देशेष्वपि समुपलभ्येत । न खलु भगवता सर्वेश्वरेणादिपुरुषेण भारतीया एव समुत्पादिताः, न त्वन्यदेशीयाः, इति केनचिद् वक्तुं शक्यते । कदाचित् कथितमपि समीक्षाप्रवीणैः कथमपि संगततया प्रतिपत्तुं न शक्यते । यदि तु भारतीया इव निखिला श्रन्यदेशीया अपि भगवतैवोत्पादिताः स्युस्तहि मुखबा ह्वाद्यन्य- तमजन्ये जन्मतः सिद्धेऽन्यतमे वर्णे एव ते प्रवेश्याः भवेयुः । न तु तत्र तत्तथोपलभ्यते । अस्माकं धर्मशास्त्राण्यपि ह्यस्माकमार्यदेश एव तत्तद्वर्णधर्मान् जन्मत एव तत्तद्वर्णविभागांश्च बोधयन्ति, न तु सर्वेषु देशेषु । जन्मकृतगुणकर्मकृतवर्णव्यवस्थयोः का युक्तियुक्ता ? ८५ येत, ते सर्वेऽपि देशाः म्लेच्छदेशाः श्रसंस्कृताश्च सन्तीति । तदा तु भारतीयैः - श्रत्रत्यैः विविधविज्ञानस्य, विविधसैनिक सामग्र्याः प्रचुरान्नयन्त्रादिकलापस्य च लाभाय कथमपि तेषां म्लेच्छानां मुखानि नावलोक्येत ? । व्यापारादौ भारतीयापेक्षया तेषां प्रामाणिकत्वस्याधिक्यं सर्वैरप्यत्रत्यैरभ्युपगम्यत एव । यदि गुणकर्मानुरोधिनो शास्त्रसमाजकृता च वर्णव्यवस्था - भ्युपगम्येत ? तदा देशान्तरेष्वपि तन्निबन्धना वर्णव्यवस्थाऽस्मा- भिरपि द्रुष्टुं शक्येत । यतस्तत्रापि वैज्ञानिकानां, शिक्षकाणां, विविधग्रन्थ लेखकानां विदुषां शूरवीराणां स्वदेश भवतानां सैनि- कानां, उद्योगधनपतीनां प्रामाणिकानां व्यापारिणां श्रमसमुपेत- सेवकानाञ्च विभागस्य सुप्रथिततरा समुपलब्धिरस्त्येव । तथा च गुणकर्मानुरोधिन्येव वर्णव्यवस्था सर्वाभ्युदयसाधिकाऽस्ति, न केवलजन्मकृतेति वयं युक्तियुक्तमुत्पश्यामः । • अत एवोक्तं शिष्टैनिष्पक्ष विद्वद्भिरपि - ‘गुणकर्मविहीनेन जन्मना नास्ति वर्णता । जातिशेषस्य पुंसः स्याद् वृत्त्या वर्णव- पर्ययः ॥ प्राग्व्यवस्थाप्यते वर्णः शमाद्यै गुणकर्मभिः । पश्चात् श्रध्ययनाद्यैस्तु वर्णाचारैः प्रयुज्यते ।। वृत्त्या निर्णीयते वर्णो वृत्त्यैव, विनियम्यते । वृत्त्या संगृह्यते लोकस्तस्माद्वृत्तिर्गरीयसी ॥’ ( मा० भा० ) इति वृत्तिः = तत्तद्गुणकर्मविशिष्ट शिक्षारक्षण- कृष्यादिरूपा जीविका । श्रतस्तदुक्तमपि - ‘तत्तद्वर्णविभागोऽयं लोके (सर्वस्मिन् देशे - युरोपामरीकादावपि ) जयति सर्वदा । देशकालादिभेदेन नामरूपान्तरात्मना । नृणां शिक्षा च रक्षा च कृष्यादिश्च सहा- यता । यावदावश्यकी लोके, तावद्वर्णव्यवस्थितिः । श्रद्यत्वेऽपि जयत्येषा सर्वदेशनिवासिषु । शिक्षा शासन कृष्यादि-श्रमकर्म- ८६ चातुर्वर्ण्य - भारत - समीक्षा विभागशः ।।’ गुणकर्मानुसारेण म्लेच्छा श्रार्याश्च मानवाः । सर्वदेशेषु समयेव संभवेयुश्च सर्वदा । न कोऽप्यार्योऽथवाऽनाय जन्मनेह प्रजायते । एतदेव मनुः प्राह, पुमान् श्रार्यो भवेद् गुणैः ॥ तस्मादार्यमनायें वा कर्मभिः स्वैविभावयेत् । न जात्या न च रङ्गेन नोच्चनासादिदर्शनैः । । ’ ( मा० भा० ) इति । वर्णपरिवर्तने विविधानि प्रयोजककारणानि निकृष्टवर्णात् उत्कृष्टवर्णलाभे नैकं तपोलक्षणमेव प्रयोजकं कारणं मन्तव्यमपि तु सन्ति विविधानि प्राग्प्रदर्शितानि कार- णानि । यथाहि - ‘ब्रह्मणो मानसाः पुत्राः जन्मतो ब्राह्मणा मताः ।’ सनकादयो जन्मत एव सात्त्विकाः, सत्त्वगुणप्रभवज्ञान- भक्तिवैराग्यादिसाधनसंपन्नाः ब्रह्मभावोपेताः श्रेष्ठाः ब्राह्मणाः संमताः इत्यर्थः । ‘संस्कारेण भरद्वाजजाबालाद्या द्विजीकृताः ।’ अनृतादिदोष निवृत्तिपूर्वक सत्यब्रह्मचर्यादिगुणाघानलक्षणेन लोकसंस्थानुमत्या संस्कारेण ब्राह्मणाः संवृत्ताः इत्यर्थः । ’ विश्वामित्रादयः केचित् ब्राह्मण्यं तपसा गताः । विद्यया चेतरापत्य- काक्षीवद्- कवषादयः ॥ वृत्तं ऋषभपुत्राद्याः ।’ वृत्तैः = सदाचारपरोपकार - यज्ञदानादिभि: शुभकर्मभिरित्यर्थः । ‘कर्मविशुद्धाः ब्राह्मणाः बभूवुः ’ ( भागवते ) ‘भृग्वादिवरदानेन वीतहव्यादयस्तथा । ( श्रार्यसमित्यनुमोदनेन ) तु शाकद्वीपादिवासिन ।’ प्रत्यवविका- लिकाः केचित् ‘सवालवखी’ ति विश्रुताः । ‘चित्तपावन’ संज्ञाद्या राजाज्ञादिव्यवस्थया || ब्राह्मणब्रुवतां यातास्तथाऽऽन्ध्रद्राविडा- दयः ॥ श्रादिपदेन धर्माचार्यादिव्यवस्था ग्राह्या । ’ व्रात्यस्तो- मादिभिः शुद्धया बौद्धीभूता जनाः पुनः । संगृह्य शंकराचाय्यै- श्चातुर्वण्यें प्रवेशिताः । रामानन्दादिभि म्लेच्छाः संस्कृत्य हैन्दवीकृताः ।’ संस्कृत्य = वैष्णव संस्कारोपेतान् कृत्वा । ‘बाले- ८७ वर्णपरिवर्तने विविधानि प्रयोजककारणानि या: शौनकाद्यास्तु भिन्नवृत्तिसमाश्रयात् । ब्राह्मणाः क्षत्रियाः वैश्याः शूद्राश्चेति चतुविधाः ।।’ विधर्मिणो विदेशीयाः शका- द्यास्तु प्रतिज्ञया । जन्मजातिपरावृत्तौ चातुर्वर्ण्यमुपागताः ।।’ भिन्नवृत्तिसमाश्रयात् = भिन्न-भिन्न शिक्षारक्षा-कृषिश्रमादिजीव- ननिर्वाहसाधनानामाश्रयात् । प्रतिज्ञया = दृढशपथेन ‘वयं ब्राह्म- णादयः तत्तद्गुणकर्मादीनां ग्रहणं कृत्वा भवाम इति ’ ब्राह्मण- व्यक्तिजातेऽपि ब्रह्मकर्म न चेद् भवेत् । ब्राह्मणो न स सल्लोकः, शास्त्र व मन्यते नरः ।।’ जन्मतो जातिवादेऽपि, वर्णत्वस्य नियामकं । तत्तत्कर्मगुणादि हि ज्ञेयं सर्वोदयाथिभिः ॥’ इति । । एवमुत्कृष्टवर्णात् निकृष्टवर्णप्राप्तावपि दुष्कर्मादीनि विविधानि सन्ति कारणानि । यथा- ‘विश्वामित्रस्य शापाद्धि तत्पुत्राः म्लेच्छतां गताः । बहवो वैश्वामित्राः मधुच्छन्द:- प्रभृतयो वेदमन्त्रद्रष्टारो ब्रह्मवंशकर्तारो ब्राह्मणाः संजाताः, परन्तु केषांचित पुत्राणां दुराचारादिदुष्टकर्मदर्शनात् विश्वामि- त्रेण तेभ्यः शापो दत्तः यूयं म्लेच्छा भवत दुर्जनाः ।’ इति । ‘यदोस्तु यादवाः जाताः, तुर्वशोर्यवनाः स्मृताः । दुह्योः सुतास्तु वं भोजा:, अनोस्तु म्लेच्छजातयः ।।’ शनकैस्तु क्रियालोपादिमाः क्षत्रियजातयः । वृषलत्वं (शूद्रत्वं ) गता लोके ब्राह्मणादर्शनेन च ॥’ क्रियालोपात्=गायत्रीजपादिशुभकर्मणामभावात्, यथार्थ ब्राह्मणा- नां सद्धर्मशिक्षकाणां संस्कर्त णां विद्या विनयोपेतानां दर्शनात्- श्रभावात् श्रसान्निध्यात्-अप्रापणात् श्रनुपासनात्, ततः तासां जातीनां सद्विद्या-सदाचारभ्र शात्, ताः जातयः वृषलत्वं गतः । एवं निजवर्णधर्मपरित्यागाद ब्राह्मणैश्च परित्यक्ताः म्लेच्छतां ययुः । ( विष्णु पुराणे २८ ) एवं यवनाङ्गलादिशासनसमये भयाद्वा, लोभाद्वा, बलात्काराद्वा, उत्तमवर्णप्रयुक्तोपेक्षणापमान- ce ८८ चातुर्वर्ण्य - भारत-समोक्षा तिरस्कारादितो वाऽऽयं भाव शिक्षणाभावाद्वा विविधकारणादपि श्रार्यसन्तानाः दशकोटयधिकाः प्रिये भारते एवानार्यतां म्लेच्छतां गता इति प्रत्यक्षमेतत् । गुणकर्मविशिष्टयोनिवादः केचनैवं वदन्ति- ’ ‘तपः श्रुतञ्च योनिश्च ह्येतद् ब्राह्मणकारकम् । तपः- श्रुताभ्यां यो हीनो जातिब्राह्मण एव सः । त्रीणि यस्यावदा- तानि, योनिविद्या च कर्म च । एतदेवं विजानीहि ब्राह्मणा- ग्यूस्य लक्षणम् ॥’ ( व्याकरण - महाभाष्ये पतञ्जलिमुनयः ) ‘जन्मशारीरविद्याभिः श्राचारेण श्रुतेन च । धर्मेण च यथोक्तेन ब्राह्मणत्वं विधीयते ॥ चित्रकर्म यथाऽनेकैः रङ्गरुन्मील्यते शनैः । ब्राह्मण्यमपि तद्वत् स्यात् संस्कारैवि धिपूर्वकैः । । ’ (पराशरमाधवीये ८।१६। श्रङ्गिरस उक्तिः) | शारीरः = ररीरकान्त्यादिः ‘सुक्षेत्राच्च सुबोजाच्च, श्रेष्ठो भवति संभवः । अतोऽन्यतरतो हीनादवरो नाम जायते ।।’ इति । श्रुतं = वेदादिसच्छास्त्रविद्या, तपः = पूर्वोक्तं स्ववर्णाश्रमधर्मपरिपालनं वा योनिः = ब्राह्मणादेव ब्राह्मण्यामेव; समुत्पत्ति; अवदातानि= विशुद्धानि योनौ अव- दातत्वं ब्राह्मणलक्षणोपेतमातापितृजन्यत्वम् । जननीजनकयोरु- भययोरपि अवदातत्वमपेक्षणीयमेव । तच्च शरीरसौष्ठ वगौरादिवर्ण-बल- स्वास्थ्य सदाचार बुद्धिमत्त्वादिकम् । यथा गोवेन्द्रस्य चोभययोरपि सौष्ठवात्, तज्जन्यस्य वत्सस्यापि सौष्ठवं संजायते, तथा मनुजेष्वपि प्रत्येतव्यम् । उक्तं च यदा सत्पितरौ स्यातां सत्वादिगुणशालिनौ । तदा तत्सन्ततिः प्रायः, । स्यात्सत्त्वादिगुणाधिकाः ।।’ इति यद्वा योनिः इह न जातिः, किन्तु विशुद्धसन्तानाधिजनन विशिष्टभूमिः सती माता, गुणकर्म विशिष्टयोनिवादः यत्रेदमुक्त - ‘मातुरग्रेऽधिजननम् । 1 ८६ ( मनु० स्मृ० २।१६९ ) इति । विद्याकर्मणोः प्रवदतत्वं = कामक्रोधदं भमात्सर्यादिदो- परहितत्वम् । यस्य किल त्रीणि विद्यादीनि निर्मलानि सन्ति, स एव मुख्यो ब्राह्मणो वेदितव्यः । तेषु त्रिषु द्वाभ्यां हीनस्य, एकस्माद्वा हीनस्य गौणमेव ब्राह्मणत्वं प्रत्येतव्यमित्यर्थः । , अत एव जात्या व्यवहारतश्च ब्राह्मणत्वेऽपि गुणकर्म वैध- स्वाद देवादिरूपेण बहवो ब्राह्मणाः श्रत्रिस्मृतौ इत्थं प्रतिपा- द्यन्ते । यथाहि - ‘संध्या स्नानं जपो होम, देवता नित्यपूजनम् । प्रातिथ्यं वैश्वदेवञ्च देवब्राह्मण उच्यते । देवःभूदेवत्वविशिष्ट इत्यर्थः । ’ शाके पत्रे फले मूले, वनवासे सदा रतः । निरतोऽह- रहो भक्तौ स विप्रो मुनिरुच्यते ।। शाकाद्याहारकर्त तथा संय- मित्वं, एकान्तवासशीलतया, भगवद्भक्तौ निरततया च तस्य विप्रस्य मुनित्वमित्यर्थ: । ‘वेदान्तं पठते नित्यं सर्वसङ्गं परित्य- जेत् । सांख्ययोग विचारस्थः, स विप्रो द्विज उच्यते ।।’ धैर्यशौर्य- बलोपेतो राष्ट्ररक्षासमुद्यतः । संग्रामे विजयी यः स्यात्, स विप्रः क्षत्र उच्यते । कृषिकर्मरतो यश्च गवाञ्च परिपालकः । वाणिज्य व्यवसायश्च स विप्रो वैश्य उच्यते ॥ कैंकर्यवृत्तिमान् यश्च विक्रेता क्षीरसर्पिषाम् । दम्भपाखण्डसंयुक्तः, स विप्रः शूद्र उच्यते । चोरश्च तस्करश्चैव, पिशुनो दुःखदस्तथा । मत्स्य- मांसे सदा लुब्धो विप्रो निषाद उच्यते । ब्रह्मतत्त्वं न जानाति, ब्रह्मसूत्रेण गवितः । तेनैव स च पापेन, विप्रः पशुरुदाहृतः ॥ दुराचाररतो नित्यं विरुद्धं बहुभाषते । धूर्तः क्रूरः शठश्चैव, स विप्रो म्लेच्छ उच्यते ॥ क्रियाहीनश्च मूर्खश्च, सर्वधर्मविवर्जितः । निर्दयः सर्वभूतेषु विप्रश्चाण्डाल उच्यते ।। ’ ( अत्रि स्मृतिः-३७३ इत्यारभ्य ३८३ पर्यन्तम् ) इति । तथा च लौकिकव्यवहारे , 1 ६० चातुर्वर्ण्य - भारत - समीक्षा जात्या ब्राह्मणत्वेनाभिधीयमानोऽपि शुभाशुभगुणकर्मणां वैषम्यात् इत्थमुत्तमाधमभावेन शास्त्रः प्रतिपाद्यते । अत एव तत्तद्गुणोत्कर्षेण तत्तत्संज्ञोत्कर्षोऽपि बौधायन गृह्य- सूत्रेऽपि प्रथमप्रश्रे श्र० ७ । सू० १ ८ इत्यत्र प्रतिपादितो यथा- ‘ब्राह्मणेन ब्राह्मण्यामुत्पन्नः प्रागुपनयनात् ‘जात’ इत्यभिधीयते । उपनीतमात्री व्रतानुचारी वेदानां किञ्चिदधीत्य ‘ब्राह्मणः । एकां शाखामधीत्य ’ श्रोत्रियः’ । अङ्गाध्यायी ‘अनूचानः’ । कल्पाध्यायी ‘ऋषिकल्प:’ । सूत्रप्रवचनाध्यायी ‘भ्रूणः’ । चतु- वेदाध्ययनाद् ऋषिः, अत उध्वं ‘भूदेव:’ इति । यद्यपि - जन्ममात्रेण नास्ति कस्यापि श्रेष्ठता, परन्तु शुभ- गुणकर्मभिरेवेत्यस्ति निश्चितः शास्त्रसिद्धान्तः । यदाहु:-पौरा- णिका अपि - ‘शूद्रोऽपि शीलसंपन्नो ब्राह्मणादधिको भवेत् । ब्राह्मणो विगताचारः शूद्राद् होनतरो भवेत् ॥’ ( भ० पु० १ । ४४ । ३१ ) इति । तथापि ममत्वादिप्राधान्यात् श्रधमगुणकर्मवि- शिष्टोऽपि स्वपुत्रो नहि केनापि परित्यज्यते, व्यवहारविरुद्धत्वात् उत्तमगुणकर्म विशिष्टोऽप्यन्यपुत्रः स्वगृहे नहि समानीयते । एवं विवाहादिव्यवहारोऽपि जन्मजातिप्राधान्यमेवाभिलक्ष्य प्रायः प्रवर्तमानो भवति, कुत्रचिदभिनवसंस्कारवशादपवादोऽपि लक्ष्यते । यद्यपि श्रस्मिन् समये शिक्षायास्तत्तद्वयवसायादिकर्मणश्च समानत्वेन हेतुना जातिकृतवर्णविभागस्यावस्थितिर्दुर्लभा प्रती- यते । यतो वर्णविभागस्य प्रयोजकोऽस्ति - शिक्षाभेदः कर्म- भेदश्च । बुद्धिः शिक्षाकर्मानुसारिण्येव भवतीत्यस्ति नियमः । गलविद्यालये स्कूले कालेजं च वर्तमानानां ब्राह्मणत्वादिजा- तिभिः पृथक्तया व्यवह्रियमाणानामपि छात्रछात्राणामेकत्र एकत्र चातुर्वर्ण्यवाद: ६१ मिलित्वा पाश्चात्यभाषाग्रन्थादिकमधीयानानां समाननामवेष- भूषादि धारयमाणानां, होटलादौ समानविधया भोजनादिकं कुर्वाणानां सिनेमादौ च तत्तदश्लीलदर्शनश्रवणतत्पराणा मुच्छ्र- ङ्गलवैदेशिकोपन्यासादिकमतिरुच्या पठनशीलानां पाश्चात्य- भाषारीतिनीतिभोजनादिव्यवहारेऽच्छबुद्धि धारयमाणानां परस्परं मंत्री भावनया विवाहप्रथ्या च युज्यमानानां मध्ये वर्णविभागः प्रत्यक्षतो दृश्यमानो न भवति, यतस्तद्विभागप्रयो- जककारणानां सर्वथा विनष्टप्रायस्त्वात्, तथापि - ‘श्रयञ्च युग- धर्मो हि वर्तते कस्य दूषणम् ।’ ( भाग० मा० ) इति न्यायेन भगवदुपवन सदृशेऽस्मिन् स्वतन्त्रे भारतराष्ट्र भगवत्प्रेरणया यद्भवति तत्प्रतिरोद्धुं कः शक्नुयादिति विचार्य शिष्टाः मौनमेव भजन्तीत्यलमतिपल्लवितेन । एकत्र चातुर्वर्ण्यवादः केचन साम्यवादभावनाभावितहृदया नव्यास्तु विराट्- पुरुषस्य मुखादिरूपेण ब्राह्मणाद्यवस्थानकथनमिदं लुप्तोपमरू- पकालंकारभाषया भूषितमेवास्तीति मत्त्वा ‘ब्राह्मणोऽस्य मुखमासीदि’ त्यस्य मन्त्रस्य साम्यवादसिद्धय इत्थं व्याख्यानं कुर्वन्तः स्वाभिप्रायं प्रकटयन्ति । तद्यथा- विराट्पुरुषस्य मुखं कि वस्तु आसीत् ? ब्राह्मणो मुखमासीत् । बाहुः किमासीत् ? क्षत्रियो बाहुरासीत् । ऊरुः किमासीत् ? वैश्य ऊरुः = मध्यभाग श्रासीत् ‘मध्यं तदस्य यद्वैश्यः’ ( अथर्व० सं० ) इति श्रुत्यन्त - रात् । पादः X किमासीत् ? शूद्रः पाद प्रासीत् । इति प्रश्नो- तराभ्यामिदमवगम्यते । यथा समष्टिदेहब्रह्माण्डात्मा विराट् पुरुषो ब्राह्मणादिलक्षणमुखादिचतुष्टयावयवैर विच्छिन्नैः X किमिति सामान्यरूपत्वात् नपुंसकलिंगता, सामान्ये नपुं- ६२ चातुर्वर्ण्य - भारत - समीक्षा समुपेतो भवन् पूर्णो भवति, तथा ‘यद्ब्रह्माण्डे तत्पिण्डे’ इति न्यायप्रामाण्यात् : व्यष्टिदेह - पिण्डात्मा मानवपुरुषोऽपि स्वकी- येषु मुखादिष्वविच्छिन्नाङ्गेषु ब्राह्मणत्वादिप्रयोजक विद्यादि- शक्तीः समवाप्यैव पूर्णतामुपैति । यथा च विश्वरूपस्य भगवतो ब्रह्माण्डमूर्तेः समष्टिशरीरे संयुक्ततया विज्ञानपरा- क्रमैश्वर्यादिविशिष्टशक्तयः स्वभावतो विद्यन्ते । तथैव तदंश- भूते पिण्डदेहोपाधिकेऽप्यस्मिन् मनुष्ये चतस्र इमा विद्याबला- दिरूपा विशिष्टशक्तयः प्राधान्येनाविच्छिन्नानि चत्वार्यङ्गान्या- श्रित्याभिवर्तन्ते । शिरसि मुखे च ज्ञानादिशक्तिः, वक्षसि बाह्वोश्च बलपराक्रमादिशक्तिः, उदरे मध्यभागे संग्रहवित- रणादिशक्तिः, पादयोश्च परिचर्याश्रमादिशक्तिः । अत एव ज्ञानेन्द्रियाणि च प्रायेण शिरोभागमेवाश्रयन्ति । दुर्बले च शिरसि ज्ञानादिशक्तिरपि दुर्बला भवति, ब्रह्मचर्यशिक्षणाभ्या- सचित्तैकाग्यादिसाधनैः संजाते सबले शिरसि सबला ज्ञानशक्ति- विकसिता भवति । एवं बलपराक्रमादिप्रयोगोऽपि + सकलिङ्गत्वदर्शनात् । ÷ ‘ब्रह्माण्डपिण्डे सदृशे, ब्रह्मप्रकृतिसम्भ- वात् । समष्टिव्यष्टिसम्बन्धादेकसम्बन्धगुम्फिते ॥ पिण्डज्ञानेन ब्रह्माण्डज्ञानं भवतीति निश्चितम् । एवं ब्रह्माण्डबोधेन पिण्डस्त- दुपमान्वितः ।।’ इति ।

  • भुजद्वयलाभस्य फलं जानकीहरणकाव्येऽपि कुमारदास- पण्डित इत्थं वदति - ‘पुरुषस्य कृतं भुजद्वयं प्रविधातुं द्वयमेव वेधसा । सुहृदामुदयञ्च विद्विषामवलेपप्रतिघातमेव च ॥ शर- गोपनतं न पाति यो, न भिनत्ति द्विषतां समुन्नतिम् । न स बाहुरसाधनक्षमो नरवृक्षप्रभवः प्ररोहकः ।।’ (४।३६-३७ ) इति । शत्रूणां धर्मराष्ट्रद्रोहिणां अवलेपस्य = गर्वस्य विध्वंसनमेव विधातुं एकत्र चातुर्वर्ण्यवादः ६३ बाहूनिष्पाद्यो वक्षसि श्रान्ति जनयति । व्यायामपुष्टान्नभक्षणा- दिना दृढ़े बलिष्ठे वक्षसि सति बाहुसाध्यः पराक्रमोऽपि विकसितो भवति । एवं मध्ये स्थितमुदरञ्चैतद् बाह्यमन्नादिकं संगृह्य यथायोगं विभज्य तद्रसरूपेण सर्वशरीरावयवेषु प्राप- यति । पादौ चाभीष्टदेशप्रापरणादिरूपां श्रमसाध्यां सेवां कुरुत एवेति सर्वेषां सुविदितमेव । अत एव तासां स्वाङ्गेषु स्वभाव- तोऽवस्थितानां विज्ञानादिशक्तीनां विकासाय सर्वैरपि मानवः प्रयत्नो विधेयः । एष एव पूर्णो मानवो भवितुमर्हति यस्य किल शिरसि मुखे च ब्राह्मणत्वप्रयोजकप्रकृष्टविद्याशान्ति- संयमादिशक्तिः, बाह्वोर्वक्षसि च क्षत्रियत्वसम्पादकप्रभूतबल- पराक्रमरक्षणादिशक्तिः, उदरे ऊर्वोश्च वैश्यत्वप्रयोजकवित्ता- जनसंग्रहणवितरणादिशक्तिः, पादयोश्च शूद्रत्वप्रयोजकसेवा परि- श्रमादिशक्तिश्च विकसिता विद्यते । विद्यादिचतुष्टयशक्ति- संयुक्तः पूर्णः पुरुष एवाशेषाभ्युदयमासादयितुं शक्नोति, नान्यथा; श्रत एव सर्वेऽपि मानवाः विद्यां बलं धनं श्रमञ्चाभ्यर्थयमा- नास्तत्कृते प्रयतमानाश्च दृश्यन्ते । सर्वोऽपि मानवः स्वभावत एव स्वस्मिन् महत्त्वं संभावयत्येव, तद्येनोपायेन सिद्धं भवेत्, तेनैवायं तदर्थं प्रयतत एव । विचारेण शास्त्राद्युपदेशेन वा तस्योपायभूता विद्याबलधनादिशक्तीः परिपश्यति । श्रत एव तासामेकत्र समुच्चयमेवाभीप्सितार्थसाधकत्वेनाभिप्रैति । यतस्तास्वन्यतमविहीनेन नाशेषमभ्युदयमवाप्तुं शक्यते । तद्यथा- बलधनादिमन्तरा केवलया विद्यया स्वपररक्षणदेशस्वातन्त्र्य- स्वधर्मरक्षणशत्रु पराजयादिकं कर्तुं न पार्यते श्रतो विद्यया ब्रह्मणा भुजद्वयं कृतम् । प्ररोहकः = शाखालक्षणः । बलपरा- क्रमादिरहितो बाहुरेव न भवतीत्यर्थः ।६४ चातुर्वर्ण्य भारत समीक्षा साकं बलादिकमपेक्षणीयमेव । एवं विद्याधनादिकं विना केव- लेन बलेनानर्थप्रदादुन्मार्गान्न निर्वाततुं शक्यते श्रतो बन सार्द्धं विद्यादिकमपि प्राप्तव्यमेव । एवं धनादिकं विना विद्या- बलाभ्यां केवलाभ्यां जीवननिर्वाहराष्ट्राभ्युदयादिकं कर्तुं न शक्यते, एवं परिश्रमहीनाः यन्त्रकलाप्रावीण्यरहिताश्च विद्या- बलधनवन्तोऽपि अलसाः प्रमादिन एव भवेयुः, धनधान्यादि- कञ्च समवाप्तुं कथं शक्नुयुरिति । श्रत एव तत्तद्विना तत्तदशेषेष्टसाधनायापर्याप्तमवगन्तव्यम् । तस्मात् चातुर्वण्यंस्य मनुष्यस्वभावेषु निहितत्वात्, सर्वोऽपि मानवः चतुर्वर्ण एव भवन् विद्याबलधनश्रमादिलक्षणाः चतुष्टयशक्तीः समवाप्य पूर्णः सकलाभ्युदयवान् भवतीति सिद्धम् । । तथा च सर्वैरपि मानवैः स्वनिष्ठपूर्णमानवतालाभाय सकलाभ्युदयसुखसमवाप्तये च विविधां विद्यां स्वपरहित- साधकं शुभाचरणं क्षमादयासंयमादिसद्गुणांश्च समवाप्याहं ब्राह्मणो भविष्यामि, एवं शारीरादिबलशौर्य पराक्रमादिकं समवाप्याहं क्षत्रियो भविष्यामि, एवं जीवन निर्वाहराष्ट्राभ्यु- दयसाधकधनधान्यैश्वर्यौ दार्यादिकञ्च समवाप्याहं वैश्यो भविष्यामि, एवं परिश्रमसेवायन्त्रकलानैपुण्यादिकं समवाप्याहं शूद्रो भविष्यामीति विभावनीयम् । यतो विराट् - पुरुषस्य मुखादयोऽवयवास्तच्छक्तयश्च नहि विच्छिन्नाः सन्ति, न च मानवेऽपि मुखादयोऽवयवास्तच्छक्तयश्च विच्छिन्नाः पृथक्भूता उपलभ्यन्ते । तथा चैकस्याविच्छिन्नाङ्गेषु वर्तमानानां विद्या- 1. बलादिशक्तीनां समुच्चयोऽवश्यमेव करणीयः पूर्णतालाभाय । यथा चैकस्मिन् शरीरेऽवस्थितानां ज्ञानकर्मेन्द्रियाणां सर्वासां एकत्र चातुर्वण्यबाद: ६५ शक्तीनां समुच्चयः सर्वविधाभ्युदयसाधकोऽवलोक्यते, तथा प्रकृतेऽप्यवगन्तव्यम् । श्रत एवैकत्र चातुर्वर्ण्यवादविषये भगवतः पूर्णपुरुषोत्तमस्य श्रीकृष्णस्य श्रद्धेयं समुदात्तं लोकहितकरं चरितमपि प्रमाणम् । तत्र हि समुदारशीले भगवति स्पष्टतया चातुर्वर्ण्यसमन्वयो दृश्यते । निखिलोपनिषत्सारभूतगीताज्ञानोपदेश कर्त त्वेन जग- द्गुरुत्वेन च प्रशस्तं ब्राह्मण्यं, बलशौर्यधैर्यादिशालित्वेन युद्धादि- कर्त त्वेन च समुदारं क्षत्रियत्वं वैश्यप्रवरनन्दगृहावास- गोरक्षण- गोवर्धनक्षेत्र समृद्धिकर्त. त्वेन गोपालसंज्ञाधारकत्वेन च पुण्यं वैश्यत्वं अमानित्वमानवत्वाभ्यां X विजयहयतनुमार्जन - रथस- ञ्चालना दिश्रमकर्त त्वेन युधिष्ठिरराजसूययज्ञे समागतमहापुरुष- पादप्रक्षालनादिकर्तत्वेन च मानाहं शूद्रत्वं च एकस्मिन्नेव श्रीकृष्णे भगवति शास्त्रवचोभिर्निरूपितं सर्वैरपि तदानींतन- रवलोकितञ्च बभूव । सति चैवं यथा-प्रशिभूते पितरि यद्यद् दृष्टं रूपाकृतिस्वभावकर्मधनादिकं तदंशभूतेषु पुत्रेष्वपि समान- तयाऽभ्युपगम्यते, तथैव तस्यैवामृतस्य + भगवतोंऽशिनो यद्यद् दृष्टं तत्तत्सर्वमविरुद्धं तत्प्रकटांशभूतेषु भारतविशिष्टमानवेष्वपि निखिलाभ्युदयकामैः सर्वोदयवादिभिरभ्युपगन्तव्यम् । श्रपि च पूर्वोक्तस्य ‘ब्राह्मणोऽस्य मुखमासीदि’ त्यस्य युक्ति- संगत एवायमर्थः, अन्यथा मनुष्यसदृशस्य परमात्मनो मुखाद्य- वयवेभ्यो ब्राह्मणादिसृष्टिरियं प्रादुर्भूतेति सर्वथा विज्ञानविरुद्ध- X ‘अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् ।’ इति विष्णुसहस्रनामप्रामाण्यात् ।
  • ‘शृण्वन्तु विश्वे अमृतस्य पुत्रा:’ ( यजु० ११1४ ) इति श्रुतिप्रामाण्यात् । विश्वे = सर्वे अमृतस्य = परमेश्वरस्येत्यर्थः । ६६ चातुर्वर्ण्य - भारत-समीक्षा मसंभावितमर्थं बुद्धिमान् कः श्रद्दधीतः ? | ‘श्रपाणिपाद:’ ( इवे० उ० ३।१६ ) ‘प्रचक्षुः श्रोत्रं ’ ( मु० उ० १|१|६ ) इत्यादिभिः श्रुतिभिः स्पष्टं परमात्मनो विश्वव्यापकस्य निराकारस्यानवयव मेकरूपं प्रतिपाद्यते । किञ्च परमेश्वरमेव विश्वकर्तारमनभ्युपगच्छद्भिः सांख्यमीमांसकादिभि वैदिकैः श्रुतेरस्याः परमेश्वरमुखादिभ्यो ब्राह्मणाद्युत्पत्तिरूपोऽर्थः कथं स्वीकृतः स्यात् ? तस्मात् पूर्वोक्त एव एकत्र वर्णचतुष्टयसमु- च्चयबोधकतात्पर्यार्थ एव तरप्यवश्यमङ्गीकरणीयः । ननु - कर्मसंस्कारादिवैचित्र्यात् न हि सर्वे सर्वशक्तिमन्तो भवितुमर्हन्ति इति चेत् बाढम्, तत्तदभीप्सित विद्याबलादिलाभस्य कर्माद्यायत्तत्वे लौकिकप्रयत्नवत् प्रयत्नस्तु तदासादयितुं कर्तव्य एव । ’ यत्ने कृते यदि न सिद्ध्यति, तदा तस्यापराधो मन्तव्यः । समाने प्रयत्ने कृतेऽपि तत्तद्वयक्तेः न्यूनाधिकलाभादौ प्रयोजक- रूपेरण प्रारब्धयोगादिकं मन्तव्यम्, किन्तु प्रयत्नस्य सर्वथाऽभावे सति कस्यापि कीदृशो लाभः संभवेदेव ? इति विचार्यम् । अपि च मानवतोचित सर्वाभिलषित तत्तच्छक्तिसंपादनेऽमु- कव्यक्तिसमुदायस्य नास्त्यधिकार इत्येवंरूपः प्रतिरोधः कथमपि केनापि कुत्रापि न विधेयः, यतो ‘नायोग्यः पुरुषः कश्चित् प्रयो- वतैव सुदुर्लभः ।’ इत्युक्तत्वादिति । मानवताविकासे क्रियमाणः प्रतिबन्धः पापायैव प्रभवति, न पुण्याय । श्रथित्वस्य सर्वत्र तुल्यत्वात् । ननु - एवं सर्वसाम्ये सति चातुर्वर्ण्यविभागः प्रलयं गमिष्यति इति चेत्, इष्टापत्तेः, यतस्तद्विभाग एव महानर्थकरः, विषमय्या उत्तमाधम भेदभावनाया बीजमपि स एव, यया किलार्य्यहिन्दु- समुदायः स्वसंघशक्तिमासादयितुं कथमपि न प्रभवति । एकत्र चातुर्वर्ण्यवाद: ६७ ब्राह्मणत्वक्षत्रियत्वादिकल्पितभेद प्रयुक्तप्रभूतविग्रहवत्त्वाद्यनर्थत्वं वसिष्ठविश्वामित्र परशुरामसहस्रबाह्लादौ पूर्वमपि दृष्टं, इदानी- मपि द्राविडकडगम - महाराष्ट्रीय पेशवा मराठादौ च दृश्यते । जातिभेदसंप्रदायभेदादिप्रयोजित संघट्टनाभावादेव पूर्व साम्प्रत- ञ्चार्य हिन्दुजातेस्तद्धर्मस्य तद्देशस्य च महती दुर्दशा स्मर्यते, विलोक्यते चास्माभिः सर्वैः । तदानींतना श्रन्येभ्यो विच्छिन्ना ब्राह्मणा इत्थं विचारयामासुः - ’ वयन्तु भिक्षुका विप्राः शास्त्रयज- मानैकजीविनः शौर्यबलपराक्रमादिरहिताः राष्ट्रस्वातन्त्र्यतद्रक्ष- णादिकं कर्तुं कथं प्रभवामः ? तत्र नास्त्यस्माकमधिकारः । भवतु यः कोऽपि महाराजः सम्राट् बादशाहः स्वराष्ट्र नियन्ता श्रार्यो वाऽ- नार्यो वा स्वदेशीयो वा विदेशीयो वा, वयन्तु तं भारतराष्ट्राध्यक्षं जगदीश्वरतुल्यतया विभावयामः, तत्स्तुतिभिश्च स्वमनोरथान् पूरयामः । श्रस्मदीयैः कविवरैरपि स एवं स्तुतः - ‘दिल्लीश्वरो वा, जगदीश्वरो वा, मनोरथान् पूरयितुं समर्थः । अन्ये नृपालैः परिदी- यमानं, शाकाय वा स्यात् लवणाय वा स्यात् ।।’ इति । तत्का- लिका: राजानः क्षत्रिया बलपराक्रमशालिनोऽपि विद्याविचा- रविवेकादिहीनतया स्वसंघट्टनशून्याः भोगविलासप्रियाः मिथः सुन्दरीकुमार्यादेः कृते कलहायमानाः युद्धं कुर्वारणाः स्वबलशक्ति विनाशयन्तरच स्वराष्ट्र विदेशीयम्लेच्छाधीनं विदधानाः तत्पारतन्त्र्यञ्च स्वीकुर्वाणाः स्वधर्मं स्वजातिमप्यधो विनिपा- तयामासुः । वैश्यास्तु कृषिवाणिज्यपशुपालनादितत्पराः वयं रंका वराकाः निर्बलाः स्मः, श्रतः राष्ट्ररक्षणे नास्त्यस्माकमधि- कारः इति; शूद्रास्तु द्विजेभ्यः सर्वथा विच्छिन्ना दूरतोऽपसार्य - माणाः श्रत एव दोना हीनाः किंकराः किं कर्तुं शक्नुमः ? इति च मन्वानाः स्वराष्ट्रपराङ्मुखाः आसन् । तत्तत्संप्रदायाचाय्र्याः IS ६८ ि चातुर्वर्ण्य - भारत-समीक्षा विविधाः साधवः संन्यासिनस्तदानींतनाश्च ग्रन्थलेखकास्तु व्य- भगवद्रूप राष्ट्रस्वातन्त्र्यगौरवगीतलेखने पराङ्मुखाः सन्तः, अव्यक्त परमेश्वरस्यैव चरित्रगीतं वर्णयमानाः तस्मिन्नेकस्मि- नपि विविधनामविग्रहादिप्रयुक्तं भेदं कुर्वाणाः परस्परकल हैक- बीजं खण्डनमण्डनलक्षणं संप्रदायभेदं भक्तसमुदायभेदञ्च विदधुः । तेषु केचन विविधसामर्थ्यशालिनो विविधचमत्कार- प्रदर्शनतत्परा अपि, स्वप्रियभारतराष्ट्रस्य संघट्टनस्वातन्त्र्या- दिस्थापने सर्वथा सामर्थ्यशून्या बभूवुः । तत्साधुसमाज एक एव साधुप्रवरः स्वनामधन्यः समर्थरामदासस्वामी समाक्रान्तराष्ट्र- स्वातन्त्र्यप्रीतिहृदय श्रासीत्, येन किल छत्रपति शिवाजी राष्ट्रस्वातन्त्र्यलाभाय दुष्टम्लेच्छशासकविध्वंसाय हिन्दुजाति- संघट्टनाय च प्रबोधितः । क्षत्रियसमाजे च महाराणाप्रतापः राष्ट्रभक्त श्रासीत्, परन्तु संघट्टनसहायाभावात् सोऽपि न विशिष्टं कार्यं कर्तुं प्राभवत् । तथा च पूर्णसंघट्टनाभावादेव कारणात् सामर्थ्यहीनं हिन्दुधर्मं परित्यज्य पवित्रतमे भारते राष्ट्र दशकोटयधिका म्लेच्छाः प्रादुरभवन् । हिन्दुजातौ नीचत्वेन विभाव्यमानाः विशिष्टाधिकारेभ्यो बहिष्क्रियमाणाः सर्वथोपेक्ष्यमाणास्ते मुहम्मदेश्वादिशरणत्वासादनमन्तराऽन्यत्किं कुर्युः ? प्रतस्ते संप्र- त्यपि वैरायमाणाः विच्छिन्नायाः हिन्दुजातेः सुखमयों निद्रामपि प्रणाशयन्ति । तैरेव पूर्वं सधर्मभिः संप्रति विधर्मभि हिन्दुस्थानं पावनमखण्डं भारतवर्षं पाकिस्तानादिरूपेण खण्डितमेव कृतमवलोक्यते । यत्र किलान्यधर्मावलम्बिभिर्बन्धुभावमाविष्कृत्य परमोदार्यपुरःसरं, अच्छाधिकारादिप्रदानेन परकीया श्रपि स्वकीया विधीयन्ते तत्र परमसंकोच घृणाशीलः कूपमण्डूकाय- 1 एकत्र चातुर्वर्ण्यवादः ह मानः कतिभिश्चित् हिन्दुधर्मभिर्दुः स्वार्थदुरभिमानमौढ्यादि- दोषेण स्वकीया अपि परकीया विधीयन्ते किं सखेदमाश्चर्य- मितः परम् । अत एव दक्षिणभारते उत्तमवर्णाभिमानिभिः पण्डितैः वर्णाश्रमधर्मगौरवज्ञैरपीदं तदुच्छेदकं घण्टाघोषेण पठ्यते- ‘कलावाद्यन्तयोः स्थितिः’ ‘कलौ नो क्षत्रियाः सन्ति, कलौ नो वैश्यजातयः । ब्राह्मणाश्चैव शूद्राश्च, कलौ वर्णद्वयं स्मृतम् ॥’ इति । तदेतत्पद्यं श्रुत्वा दृष्ट्वा च तेषां व्यवसायव्यवहारादिकं, केन चिन्मध्यस्थेनेदमपि पद्यं परिगीयते - ’ कलौ न ब्राह्मणाः सन्ति, कलौ न क्षत्रजातयः । वणिजश्चैव शूद्राश्च कलौ वर्णद्वयं स्मृतम् ॥’ इति । युक्तञ्चैतत्तैः प्रायशो वणिक्वृत्तिश्यवृत्ति- समादरणात् तत्त्वमिति । अन्यथा तपस्विनां विदुषां समर्दाशिनां ब्राह्मणानां बलपराक्रमशालिनां प्रियराष्ट्रगौरवाणां क्षत्रियाणा- ञ्चावस्थाने सति देशपारतन्त्र्ययवनाक्रमणादिकं कथमव- तिष्ठेत् ? इति सुधियः पक्षपातं विहाय माध्यस्थ्यमवलम्ब्य सर्वस्मिन् भारते दृशौ च विस्फार्य विचारयन्तु । सर्वाभि विद्याबलधनादिशक्तिभिः समलंकृतः परमसुखपूर्णः सत्ययुगस्तदैवाऽऽयास्यति, यदाऽऽर्थहिन्दुजातिः - एकवर्णत्वेन- एकधर्मत्वेन एकेश्वरत्वेन-संप्रदायभेदशून्यत्वेन - उत्तमाधम -वर्ण- भेदभावनाशून्यत्वेन च विभूषिता संघट्टिता परस्परं निःस्वार्थ- प्रेमसूत्रसम्बद्धा विशालराष्ट्रहितसंरक्षणतत्परा च भविष्यति । श्रत एव ऋगादिचतुर्वेदसंहितासु कुत्रापि जातिभेदादेः प्रतिपादनं नोपलभ्यते । ‘ब्राह्मणोऽस्य मुखमासीदि’ त्या दिरयमेक एव मन्त्र प्रापाततो जातिभेदप्रतिपादकत्वेनावगम्यमानोऽस्माभिः १०० चातुर्वर्ण्य - भारत-समीक्षा पुरस्तात् जातिभेदाभावपरत्वेनैकत्र चातुर्वर्ण्यशक्तिसमुच्चय- प्रतिपादनपरत्वेन च योजितः । श्रपि च ब्राह्मणग्रन्थस्मृतिपुराणादिषु परिदृश्यमानः चातु- वर्ण्यभेदो न जातिनिबन्धनोऽपि तु गुणकर्माद्युपाधिकृत एव । जातिस्तु भारतराष्ट्रस्थितानां मानवानामार्य हिन्दुत्वलक्षरणा एकैव । भारते राष्ट्र बलात् यवनक्रिश्चयनादिरूपेण परिणताः ये केsपि स्युः ते सर्वेऽपि वस्तुतः सन्ति श्रार्यहिन्दव एव । विचार्यतां तावत्- हिन्दुस्थानस्य पावनमृत्तिकाभि येषां शरीराणि विनिर्मितानि सन्ति ते कथं न हिन्दवो भवेयुः ? वयन्तु तत्र हिन्दुत्वमेवोद्धोषयामः । , अपि च यथा गुणवत्त्वादिभिरुपाधिभिरेव द्रव्यादिप्रतीति- व्यवहारोपपत्तौ सत्यां नैयायिकैः कल्प्यमानद्रव्यत्वादिजात्यभ्यु- पगमो व्यर्थ एव सम्पद्यते । तथा तत्तद्गुणकर्मभिरेवोपाधिभि- ब्रह्मणादिप्रतीतिव्यवहारोपपत्तौ सत्यां जातिवादिभिः कल्प्य - मानब्राह्मणत्वा दिजात्युपगमोऽपि निरर्थक एवावगन्तव्यः । श्रत एवैतदभिसंधाय लोकस्थितिञ्च निरीक्ष्य महाभारते सर्वज्ञकल्पैः श्रीबादरायणमुनिभिः, नैषधीयचरित्रे श्रीहर्षमिश्रा- चायैश्चाभिहितम् - ‘जातिरत्र महासर्प ! मनुष्याणां महामते ! | सांकर्यात् सर्ववर्णानां दुष्परीक्ष्येति मे मतिः ।।’ (म० भा० वन- पर्वणि श्र० ८०।३१) ‘अनादाविह संसारे दुर्वारे मकरध्वजे । कुले च कामिनीमूले का जातिपरिकल्पना ।।’ इति । अपि च विद्याबलादिनिखिलशक्तीनां तरतमभावेनैकत्र समन्वयेऽपि, ‘बैशेष्यात्तु तद्वादस्तद्वादः’ (ब्र० सू० ) इति न्यायेन यत्र किल विद्योत्कर्षो दृश्यते, तत्र शिक्षकत्वापरपर्यायस्य ब्राह्म णत्वस्य यत्र खलु बलपराक्रमोत्कर्षोऽवलोक्यते, तत्र रक्षकत्वा- । । । वणद्वयवादः , १०१ परपर्यायस्य क्षत्रियत्वस्य यत्र हि धनधान्योत्पादनादानप्रदाना- त्कर्षो निरीक्ष्यते, तत्र पोषकत्वापरपर्यायस्य वैश्यत्वस्य यत्र च _aaraौशल्यश्रम सामर्थ्यात्कर्षोऽवगम्यते, तत्र किल सेवकत्वापर- पर्यायस्य शूद्रत्वस्य च व्यपदेशो भवतु नाम, न तेन एकत्र चातुर्वर्ण्यवादस्य क्षतिः । यथा युरोपामरीका दिषु विदेशेषु विद्योत्कर्षवन्तः शिक्षकाः प्रोफेसराः भवन्ति, बलपराक्रमशालिनः रक्षकाः मिलिटरीजना: भवन्ति, कृषिवाणिज्यपशु रक्षणादितत्पराः पोषका: उद्योगपतयो भवन्ति, एवं श्रमजीविनः सेवकाः सन्ती- त्येवं तत्तदुत्कृष्टगुणकर्मभिस्तत्तद्वर्गविभागाः व्यवहारायाम्युपग- म्यन्ते । न जन्मभिः कल्पिततत्तज्जातिभिश्च विभागाः मन्यन्ते । तथाऽस्माभिरपि एकत्र चातुर्वर्ण्यवादिभिः मन्यन्ते । इत्यलं पल्लवितेन । " वर्णद्वयवादः 1 केचन पुनर्वेदसमालोचकाः विद्वांसः - वेदस्य प्रामाणिक वचन वर्णद्वयवादमेव निरूपयन्ति । यथाहि - ’ उभौ वर्णावृषिरुग्रः पुपोष ।’ (ऋ० १।१७६।६ ) ‘हत्वी दस्यून् प्रायं वर्णमावत् ।’ ( ऋ० ३ | ३४ । ९ ) ’ दासवर्णमधरं गुहाकः ।’ (ऋ० २।१६६४) इत्यादिवेदमन्त्रेषु द्वावेव वर्णों - आर्यवर्णः दासवर्णश्च प्रतिपादितौ उपलभ्येते । श्रयमर्थः उभौ द्वावेव वर्णौ स्तः, ऋषिवर्णः, उग्र- वर्णश्च, तौ पुपोष= पोषणं कृतवान् । दस्यून् = बाधकानसुरान् हत्वी = हत्वा श्रार्यं वर्णं उत्तमं X - प्र - श्रावत् =प्रपालयत्, इन्द्र X श्रार्यवर्णस्योत्तमत्वमपि शुभगुणकर्मकृतमेव वेदितव्यम् । अत एवोक्तं - व्यास स्मृतावपि - ‘ज्ञानी तुष्टश्च, शान्तश्च सत्यवादी जितेन्द्रियः । दाता दयालुन म्रश्च स्यादार्यो ह्यष्टभिर्गुणैः ॥’ वाल्मी- १०२ चातुर्वर्ण्य - भारत-समीक्षा इति कर्त पदं शेषः । वेदेषु तावत् ब्राह्मणक्षत्रियादिशब्दानामु- पलभ्यत्वेऽपि तैः साकं वर्णपदप्रयोगस्यानुपलभ्यमानत्वात् द्वावेव वर्णो मन्तव्यौ । वर्णशब्दश्च जातिपर्यायः, प्रार्यवर्णः द्विजवर्ण:- उत्तमवर्णः ऋषिवर्णः इति, दासवरण दस्युवर्णोऽनार्यवर्ण उप्रवर्ण इति चानर्थान्तरमर्थात् पर्याय एव प्रत्येतव्यः । तत्र प्रार्यवर्णो गौर:- शुक्लः सितः, दासवर्णोऽसितः कृष्ण इति सितासितवर्ण- भेदनिबन्धन एवादावभूद् वर्णद्वयविभागः इति ज्ञायते । वर्ण्यते- अवलोक्यत इति वर्णः - रंगविशेषः । कृष्णवर्णो द्विजो गौरवर्णश्च शूद्रः, उभावप्यनवदातयोनी इति विसृमरो लोकप्रवादोऽप्येतम- र्थमुपष्टम्नाति । ब्राह्मणादयः शब्दास्तु न वर्णशब्दाः, अपि तु उपाधिविशेषप्रतिपादकाः, वैद्यज्योतिषिन्यायाधीशादिशब्दवत् । सति चैवं क्वचित् पुराणादौ प्रयुज्यमानो वर्णशब्दश्चोपवर्णपरो द्रष्टव्यः । उपवर्ण:- उपजातिः - उपाधिः इत्यनर्थान्तरम् । तत्र अनपायिनी यावदाश्रयभाविनी, समानप्रसवात्मिका च जातिः, श्रागमापायिनी न यावदाश्रयभाविनी चोपजातिरिति विशेषः । तथा चार्यदासशब्दावेव मनुष्यादिशब्दवत् जातिवाचकशब्दौ न ब्राह्मणादयः शब्दाः, ते तु तत्तद्गुणकर्मप्रतिपादकाः शब्दाः, श्रत एव व्याकरणमहाभाष्ये पतञ्जलिमुनयो ब्राह्मणादिशब्दान् गुणप्रतिपादकशब्दत्वेनैव व्यवजह रिति । पुरा खलु श्रत्रार्यावर्ते किरामायणेऽपि श्रीरामस्यार्यत्वमीदृशं वणितम्- ‘आर्यः सर्वसम- श्चायं सोमवत् प्रियदर्शनः । ( बा० कां० १।१६ ) शब्दक- ल्पद्रुमकोशेऽपि-प्रार्यः, श्रेष्ठः, शान्तः, पूज्यः, उदारचरितः, न्यायपथावलम्बी, कर्तव्यकर्मानुष्ठाता, धर्मशीलः सदाचारी च । ‘कर्तव्यमाचरन् कार्यं श्रकर्तव्यमनाचरन् । तिष्ठति शोभनाचारे स तु श्रार्य इति स्मृतः ॥’ इति । एकवर्णवाद: १०३ नगर ग्रामनिवासिनः सभ्यास्तेषामार्यत्वं, ये त्विहावीतरागाः अपि अरण्याश्रिताः गिरिकन्दरादिवासिनोऽसभ्यास्तेषामनार्य- वर्णनीयमासीत् । तथैवानार्याणामपि आर्यानुगतत्वाऽननुगतत्व- त्वमित्येवं जातिद्वयं जन्मस्थानव्यवहारादिभेदतः पार्थक्येन भेदाद् द्वैविध्यं सम्पन्नम् । ये त्वनार्थ्या प्यार्याणामानुगत्यमा- लम्बिरे, त एव दासा, तद्विपरीतास्तु ‘दस्यवः इति व्यपदिष्टाः, त एव च दासाः शूद्रा इति दस्यवस्तु म्लेच्छा इति चाऽऽख्याताः । इत्थमिह पञ्चवर्णा निष्पन्नाः, एताश्च पञ्च श्रेणयो मनुष्या- णामेवेति मनुष्यशब्दपर्यायत्वमाप्तं ‘पञ्चजनः’ इति । तदेवमेषु पञ्चजनेषु गुणकर्मादिभेदत एव ब्राह्मणः क्षत्रियः वैश्य इति त्रय श्रार्याः, दासो दस्युश्चेति द्वावनार्याविति स्थितम् । " एकवर्णवाद: अपरे तु वाजसनेयक ब्राह्मण- बृहदारण्यकोपनिषत्तैत्तिरीय- ब्राह्मणमहाभारत भागवतवायुपुराणादिवचनेभ्यः सत्ययुगे एक एव ब्राह्मणवर्ण श्रासीत्, यस्यापरं नामधेयं श्रग्निवर्ण:- हंसवर्ण:- ऋषिवर्ण:- प्रार्थवर्णः इति । तद्यथा- ‘ब्रह्म वा इदमग्र आसीद्, एकमेव तत्, तदेकं सन्न व्यभवत् तच्छ्रे योरूपमत्यसृजत क्षत्रं, स नैव व्यभवत् स विशमसृजत, स नैव व्यभवत्, स शौद्रं वर्णमसृजत ।’ (शतपथब्राह्मण - बू० उ० १|४|११ ) इति । अस्यायमर्थः - ब्रह्म = ब्राह्मणवर्णः, इदं = क्षत्रियादिजातं संप्रति भिन्नरूपेण प्रतीयमानं, तत्सर्वं, अग्रे=सत्ययुगे, एकमेव तत् श्रासीत्, ब्राह्मणवर्णाभिन्नमा- सीत्, नासी त्तत्र क्षत्रादिवर्णभेदः । तत्-ब्रह्म न व्यभवत् = रक्षण- युद्धादिरूप विभूतिवत्कर्मणे नालं-न समर्थमासीदित्यर्थः । श्रतः । प्रत्यसृजत श्रेयोरूपं=बलपराक्रमादिना प्रशस्तरूपं क्षत्रं क्षत्रिय, ||= प्रतिशयेनासृजत । ब्राह्मणधर्मशमदमादिपरायणाः वयं ब्राह्मणाः१०४ चातुर्वर्ण्य - भारत - समीक्षा राष्ट्रपरिपालनयुद्धादिषु न समर्थाः स्म इति विचार्य तदर्थं ब्राह्मणेभ्य एव क्षत्रियाः सृष्टाः, अर्थात् ब्राह्मणसमुदायेषु ये बलशौर्यपराक्रमादिविशिष्टत्वेनावलोकितास्ते क्षत्रियरूपेण निर्मिताः । श्रत एवोच्यते - ’ क्षत्रस्य योनिर्यद् ब्रह्म ।’ (बू० उ० १।३।११ ) इति । क्षत्रियाणां स्वेभ्य एवोत्पादकाः निर्मातारो ब्राह्मणा एव सन्तीत्यर्थः । श्रत एव राजसूयाश्वमेधयज्ञे क्षत्रियं राजानं समुन्नतासने संस्थाप्याधः स्थिता विद्वांसो ब्राह्मणाः तं स्तुत्यादिभिः समुपासते, प्रियं पुत्रं प्रशस्तमिव पितरः स्नेहशीलाः इति । राष्ट्रपरिपालनयुद्धादिकमपि धनधान्य- वस्त्राद्युत्पादनमन्तरा दुष्करम् । श्रतस्तदुपार्जयितृ णामभावात् क्षत्रिया श्रपि परिपालनादिकर्मणि न प्रांभुवन् । ततश्च ब्राह्म- णेभ्य एव वैश्याः सृष्टाः, अर्थात् ब्राह्मणसमुदायषु ये कृषिवाणि- ज्यादिकर्मकरणाय प्रवीणाः सशक्ता अवलोकितास्ते वैश्यरूपेण विनिर्मिताः इत्यर्थः । एवं धनधान्याद्युपार्जनमपि परिचारक- परिश्रमादिसापेक्षम्, विना हि परिचारकै र्न शक्यं धनधान्याद्यु- पार्जनकर्म निर्वर्तयितुमिति मत्त्वा ब्राह्मणेभ्य एव परिचरणक- र्माणः शूद्राः सृष्टाः । श्रर्थात् ब्राह्मणेषु ये परिचर्यापरिश्रमादि- कर्मकरणे समर्था अवलोकिताः, ते शूद्ररूपेण विसृष्टा इत्यर्थः । एवं कृष्णयजुर्वेदस्य तैत्तिरीय ब्राह्मणेऽपि ब्राह्मणजातेः सत्ययुगे एकत्वेनाभिन्नत्वेन वर्तमानायाः सकाशादेव क्षत्रादीना- मुत्पत्तिः श्रूयते । ‘ब्रह्म देवानजनयत् ब्रह्म विश्वमिदं जगत् । ब्रह्मणः क्षत्रं निर्मितं ब्रह्म ब्रह्मरणमात्मना ।’ ( तै० ब्रा० २|४| ८) इति । ब्रह्म = ब्राह्मणवर्णः, देदान् विदुषः - प्रशस्तविद्योपे- तान्, अजनयत् स्वस्मादेव प्रादुर्भूतान् कृतवानित्यर्थः । ‘विद्वांसो वै देवाः’ ( श० ३।७।६।१० ) इति शतपथब्राह्मणश्रुतेः । इदं एकवर्णवाद: १०५ विश्वं = सर्व क्षत्रादिजगत् ब्रह्म = ब्राह्मणवर्णाभिन्नमासीदित्यर्थः । ब्रह्मणः = ब्राह्मणेभ्यः, क्षत्रं = क्षत्रियाः, निर्मिताः । श्रात्मना== स्वरूपेण ब्राह्मणो ब्रह्म एव मन्तव्यः । तथा महाभारते पञ्चमवेदस्वरूपेऽपीदमुक्तम्- ‘एकवर्णमिदं पूर्व विश्वमासीत् युधिष्ठिर ! | गुणक्रियाविशेषेण चतुर्वर्णं प्रतिष्ठितम् ।।’ (शान्तिपर्वणि मोक्षधर्मे० २६।१२२ ) इति । एवं पुराणमूर्धन्ये श्रीमद्भागवतेऽपि - ‘एक एवं पुरा वेदः प्रणवः सर्ववाङ्मयः । देवो नारायणो नान्यः, एकोऽग्निवर्ण एव च ॥’ ( भा० ६।१५।४८ ) इति । ‘श्रादौ कृतयुगे वर्षो वृष्णां हंस इति स्मृतः । ’ ( भा० ११।१७।१० ) इति । वायवीये महापुराणेऽपि च - ’ प्रवृत्तिः कृतयुगे कर्मणोः शुभपापयोः । वर्णाश्रमव्यवस्थाश्च न तदासन् न संकरः ।। अनिच्छाद्वेषयुक्तास्ते वर्तयन्ति परस्प- रम् । तुल्यरूपायुषः सर्वे श्रधमोत्तमवजिताः ॥’ (८१६/२० ) इति । सकामे शुभकर्मणि तदानों प्रवृत्ति र्नासीत्, सर्वेषां निष्का- मत्वात् निष्काम एव शुभकर्मणि प्रवृत्तिः श्रासीत् इति गम्यते । सर्वथा - प्रप्रवृत्तिः- कर्माभावस्त्वशक्यः । न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । ’ ( गी० ३।५ ) इति गीतास्मृतेः । वर्ण- भेदाभावात् सांकर्यमपि कथं स्यात् ? श्रत एव तदा न कश्चन वर्णसंकर श्रासीत् । श्रनिच्छाद्वेषयुक्ताः = इच्छा रहिताः - निः स्पृहाः द्वेषरहिताश्च श्रासन् । ते सर्वे सत्ययुगे परस्परं समप्रेम- सद्भावेनैव वर्तयन्ति = वर्तयामासुः इत्यर्थः । तेषां सर्वेषां समा- नान्येव रूपाणि आसन्, न शुक्लादिवर्णभेद आसीत् । प्रायूंष्यपि समानान्येवासन्-न न्यूनाधिकामीत्यर्थः । श्रधमोत्तमवजिताः = नोचोच्चभावरहिताः । १०६ चातुर्वर्ण्य भारत समीक्षा इत्येवं सत्ययुगे वर्णविभागाभावमभिधाय बहोः कालादन- न्तरं तत्रैव वायुपुराणे त्रेतायुगसमये गुणकर्मादिमूलको वर्ण- विभागः तत्तत्कार्यसिद्धये परिकल्पित इत्यपि स्फुटतरमभिहितम्- ‘मर्यादाः स्थापयामास यथाऽऽरब्धाः परस्परम् । … ब्रह्म यथाभूतं ब्रुवन्तो ब्राह्मणाश्च ते । . . . सत्यं इतरेषां कृतत्राणा: स्थापयामास क्षत्रियान् । ये चान्येऽप्यबलास्ते तु वैश्य- कर्मणि संस्थिताः ॥ शोचन्तश्च द्रवन्तश्च, परिचर्यासु ये रताः । निस्तेजसोऽल्पवीर्याश्च शूद्रांस्तानब्रवीत्तु सः ।।’ ( वायु० पु० ८।२४।२७) इति कथयन्ति । अन्यद् - व्याख्यानम् केचन एवं मन्त्राक्षराणि व्याचक्षते - मुखादिशब्दाः लाक्ष- णिका:, मुखादिसम्भवान् गुणान् लक्षयन्ति । तत्र दृश्यमाना प्रथमा विभक्तिः पञ्चम्यर्था । यथाहि प्रस्य = पुरुषस्य प्रजापतेः मुखः = मुखे भवाः विद्याविनयादयो मुख्याः गुणाः, सत्यप्रियहित- वदनोपदेशादीनि कर्माणि च तेभ्यः इत्यर्थः । ब्राह्मणः श्रासीत्, श्राविष्कृतः समुत्पन्नो भवति । तथा बाहू = बाह्वोः भवाः बल- वीर्यपराक्रमादयो गुणाः, तेभ्यः, राजन्यः = क्षत्रियः - क्षतत्राण- परायणो बाहुभवगुणयुक्तः प्रादुर्भूतः उत्पन्नोऽभदित्यर्थः । ऊरुः = मध्यभागः, तत्र भवाः- धनधान्योपार्जन वितरणौदार्यप्रावीण्यादयो मध्यमा गुणाः कृषिव्यापारादीनि कर्माणि, तेभ्यो वैश्यः तद्गुण- कर्मसंयुक्तः प्रकटितः - उत्पन्न प्रासीदित्यर्थः । पट्ट्यां=पादशब्द- स्तद्वत् नीचगुणान् जडबुद्धित्वमूर्खत्व श्रमत्वादि श्रधमगुणान् सेवासहायादीनि कर्माणि च लक्षयति, तेभ्योऽधमगुणकर्मभ्यः शूद्रः- सेवाश्रमादिनिकृष्टगुणकर्मविशिष्टः पराधीन प्रजायत = संभूत इत्यर्थः । यद्यपि सेवाश्रमादीनां नास्ति अधमगुणत्वं, वर्गहीनसमाजवादः ब्राह्मणत्वादिजात्युच्छेदवादः १०७ तथापि बुद्धित्वमूर्खत्वादिनिकृष्ट गुणवैशिष्ट्यात्तेषामपि तत्त्वं प्रत्येतव्यम् । अत एवोक्तं भविष्यपुराणेऽपि - ‘सोमाद्वै ब्राह्मणाः जाताः, सूर्याद्राजन्य वंशजाः । समुद्रात् सकला वैश्याः, दक्षाच्छूद्राः बभूविरे ।।’ (प्रति० प० खं० ४ । प्र० ५ १३ ) इति । ‘कल्पिता: गुणकर्मभ्यां वर्णाः सोमादिरूपणात् । पुराणार्थानुसारेण श्रुतेरर्थः प्रसिध्यति ॥ ब्रह्मो गुणः शमादिश्च क्षात्रः शौर्यादिकः विशः । कृष्यादिकर्मदक्षत्वं शौद्रः सेवादिकौशलम् । । ’ इति । वर्गहीनसमाजवादः ब्राह्मणत्वादिजात्युच्छेदवादः अन्य पौराणिकाः स्वतन्त्रविचारनिपुणाः समाजराष्ट्र - क्यसमर्थनतत्पराः - ब्राह्मणादिवर्गभेदस्य मिथः कलहबीजत्वं मन्यमानाः ‘साधकबाधकप्रमाणाभ्यां वस्तुसिद्धिरि’ ति न्यायेन ब्राह्मणादिवर्णविभागस्य वर्णभेदाकारभेदबुद्धिभेदगुणदोषभेदा- दीनि साधकानि प्रमाणानि नोपलभामहे, एवं एकस्माज्जनि- मत्त्वादीनि बाधकानि प्रमाणानि चोपलभामहे, तो ब्राह्मणादि- वर्णविभागः प्रत्यक्षादिप्रमारणानुग्रहशून्यतया निरर्थक एवेति प्रतिपादयन्ति । यथाहि - भविष्यपुराणे ब्राह्मे पर्वणि तावत् शुक्लादिवर्णविभागो ब्राह्मणादिवर्गविभेदको नैवास्तीत्याहु:- ‘न ब्राह्मणाश्चन्द्रमरीचिशुभ्राः, न क्षत्रियाः किंशुकपुष्पवर्णाः । न चेह वैश्या हरितालतुल्याः शूद्रा न चांगारसमानवर्णाः ॥ ’ ( भ० पु० ४१ ४१ ) इति । श्रयमर्थ:- नहि सर्वे ब्राह्मणाः रजनीकांत- रश्मिसदृशाः धवला अवलोकिताः, रक्तपीतकृष्णोपेता अपि बहवो दृष्टाः । यदि शुक्लगौरवर्णमात्रेण ब्राह्मणत्वं सिद्धचेत् • भारते ‘गौरा: गौराङ्गाः’ इति संज्ञया प्रसिद्धाः सन्ति । हैद्रा- तदा पाश्चात्यानामाङ्गलानामपि तत्त्वं प्रसज्येत, अत एव ते बादनगरे कश्चन वेदपाठी पुरोहितो ब्राह्मणो युवतिकृष्णकेश- १०८ चातुर्वर्ण्य - भारत-समीक्षा कान्तिमपि तिरस्कुर्वता कृष्णवर्णेन संयुक्तोऽस्माभिरवलोकितः । यस्य किल कृष्णशरीरे केवलं दन्ता एव शुभ्रवर्णत्वेन प्रतीताः भवन्ति । तेन हि वेदमन्त्राणां विशुद्ध स्वरेण विलक्षणपद्धत्या च क्रियमाणः पाठः श्रोतॄणां कर्णकुहरेषु मधुरतमममृतं सिञ्चतीव तन्मनांस्याह्लादयतीति । तद्वैपरीत्येन भगवत्पादाचार्य शंकरस्प प्रादुर्भावस्थले कालटीग्रामे रामकृष्णसेवाश्रमे कश्चन बालक- श्चतुर्दशवर्षीयस्तेजस्वी गौरवर्णस्तदानीं वेदमन्त्रैः सस्वरशुद्ध- रूपेण समुच्चरितैर्देवगृहे पूजां कुर्वाणोस्स्माभिरवलोकितः । तत्रत्येनाश्रमाध्यक्षेण महात्मना वयं पृष्टाः, श्रयं कोऽस्तीति ? । सहसाऽस्माभिरभिहितं श्रयं किल ब्राह्मणार्भक एव स्यात्, अन्यः कथं स्यात् ? गौरवर्णत्वात्, विशुद्धोच्चरणशीलत्वात् श्राकर्षक- मुखाकृतिविशिष्टत्वाच्च, तेन किञ्चित् प्रहस्योक्तं- नायं ब्राह्मण- बालकोऽपि तु हरिजनार्भकोऽस्तीति । स च स्वकीयजातिग नाममात्रेणाप्यनुभूय समुज्ज्वलमुखोऽपि सपद्येव म्लानमुखो- ऽभवत् । ग्रस्माभिराश्रमाध्यक्षो महात्माऽभिहितः - यस्य किल भवता समुदाराशयेनेदृशो ब्राह्मणाधिकारः प्रदत्तः, तत्समक्षे कथमपि नैवं वक्तव्यम्; सर्वेभ्योऽपि तिरस्कारेभ्यो जातितिर - स्कारो बलीयानस्तीति । तस्मात् शुक्लवर्णादेर्हतो ब्रह्मणादिषु व्यभिचरितत्वं निश्चितम् । अत एवेदं समीचीनमुक्तं - ‘न ब्राह्मणाः चन्द्रमरीचिशुभ्राः । ’ इति । एवं सर्वे क्षत्रियाः पलाशकुसुमानां रक्तवर्णेन तुल्याः श्ररुणाः प्रतीयमाना नैव भवन्ति, एवं वैश्याः हरितालस्य पीतवर्णेन समानाः नैव सन्ति । एवं शूद्राः अङ्गारसमान कृष्णवर्णसंयुक्ता नैव सन्तोति । शुक्लादिवर्णविभागो ब्राह्मणादिविभागस्य प्रयो- जको नैवास्ति । कस्यां चित् पाठशालायां शिक्षणाय संमिल्या- वर्गहीन समाजवादः ब्राह्मणत्वादिजात्युच्छेदवादः १०० वस्थितान् कश्चनापरिचितो वर्णभेदमात्रेण ब्राह्मणादिबालकान् विभक्तत्वेन ज्ञातं नैव प्रभवतीति प्रत्यक्षमेतत् । संप्रति ब्राह्मणादिवर्गभेदस्य प्रयोजकाः विलक्षणाः पादादि- प्रचाराः, मुखनेत्र केशाः, सुखदुःखानि च रक्तत्वङ्मांसमेदोऽ- स्थिरसाश्चापि नैव भवन्ति, श्रपि तु ब्राह्मणादिचतुर्वर्गेषु ते समाना एवोपलभ्यन्ते इत्याहुः पादप्रचारंर्मुखनेत्र केशैः सुखेन दुःखेन च शोणितेन । त्वङ्मांसमेदोऽस्थिरसः समानाश्चतुः- प्रभेदा हि कथं भवन्ति ।। ’ ( भ० पु० प्र० ४१।४२ ) अय- मर्थ - ब्राह्मणाः क्षत्रियादिभ्यः किं विभिन्न प्रकारेण पादैः संचरन्ति एवं क्षत्रिया वैश्यादिभ्यश्चेति नोपलभ्यते श्रतस्तेषां पादादिप्रचारोऽपि समान एवास्ति । एवं मुखाकृतयो नेत्राणि केशाश्च समाना एव दृश्यन्ते । एवं ब्राह्मणानामेव सुखमिष्टं, श्रन्येषां त्वनिष्टमित्यपि नास्ति, एवं दुःखं सर्वेषां समानरूपेणा- निष्टमेव । एवं ब्राह्मणानां शरीरे वर्तमानं शोणितं पयोवत् शुक्लं क्षत्रियाणां मधुवत् रक्तं वैश्यानामात्ररसवत् पीतं, शूद्राणाञ्च कज्जलवत् कृष्णं वोपलभ्यते किं ? इत्यपि नास्ति, सर्वेषां शरीरान्तर्गतं शोणितं रक्तवर्णमेवोपलभ्यते, नास्ति रक्तवर्णभेदः । एवं त्वङ्मांसादयोऽपि समाना एव सन्ति, तस्माद् ब्राह्मणादिषु चतुर्वर्गप्रभेदाः कथं भवन्ति । तत्प्रभेद- प्रयोजककारणानां सर्वथाऽनुपलभ्यमानत्वात् प्रभेदाः मिथ्या- कल्पनाप्रसूतया नैव मन्तव्या इति भावः । एवं तनुप्रमाणाकृत्यादयोऽपि ब्राह्मणाविजातिभेदकाः नैव भवन्तीत्याहु: - ‘तनु प्रमाणाकृतिगर्भवास- वाग्बुद्धि कर्मेन्द्रियजीवि- तेषु । बलत्रिवर्गामयभेषजेषु न विद्यते जातिकृतो विशेषः ।’ ( भ० पु० ४१।४३ ) इति । श्रयमर्थः- शरीरप्रमाणमपि ११० चातुर्वर्ण्य - भारत - समीक्षा , सर्वेषां ब्राह्मणादीनां समानमेवोपलभ्यते, ब्राह्मणादीनां शरीरा- व्यधिक प्रमाणानि, शूद्रादीनां न्यूनप्रमाणानीति च न्यूनाधिक्यं नावलोक्यते । एवं मुखाद्याकृतिरपि ब्राह्मणादिष्वेव सौन्दर्य- लावण्योपेता वर्तते, शूद्रादिषु नोपलभ्यते इत्यपि नास्ति, शूद्रादीनामपि सा सौन्दर्याद्युपेता कुत्रचित् दृश्यते, एवं ब्राह्म- णादीनामपि कुत्रचित् सा तद्रहिताऽवलोक्यते श्रतः शरीर. प्रमाणवत् श्राकृतिभेदोऽपि तद्भेदको न मन्तव्यः । एवं गर्भवासदुःखमन्तरेण ब्राह्मणादयः समुत्पद्यन्ते, शूद्रादयस्तु तद्दुःखमनुभवन्तः सन्त एवेत्यपि नास्ति वैलक्षण्यम् । श्रतः सर्वेषां समानमेव गर्भवासदुःखमस्ति । यद्वा गर्भे वसन्तो ब्राह्म- णादयो मुखादिभ्य एव समुत्पद्यन्ते, शूद्रादयस्तु पादादिभ्य इत्यपि वैषम्यं नावलोक्यते । यतः सर्वेषां समानमेवास्ति एक- स्मात्स्थानात् दुःखविशिष्टमभिनिष्क्रमणम् । एवं वाणीषु ज्ञाने- न्द्रियेषु कर्मेन्द्रियेषु च नास्ति किमपि वैषम्यम् । एवं जीवितेष्वपि नास्ति वैलक्षण्यम् । ब्राह्मणाः शतं वर्षाणि जीवन्ति, क्षत्रिया: पञ्चाशत्, वैश्याः पञ्चविंशतिः, शूद्राश्च दश वर्षाणि एव जीव- न्तीत्यपि नास्ति जीवनवैलक्षण्यम् । तथा च जीवनमपि मनु- व्यविहित नियमानुरोधि समानमेवोपलभ्यते । शरोरादिबलमपि ब्राह्मणादिष्वधिक, शूद्रादिषु न्यूनमित्यपि नास्ति तत्कृतं तारतम्यम् । एवं धर्मभावना, अर्थलाभस्पृहा, कामपिपासाऽपि च समानैव सर्वेषु समुपलभ्यते, नास्ति किमपि वैषम्यम् । श्रर्थात् सर्वे ब्राह्मणा विषयविरागशालिनः सन्निष्ठाः एवं शूद्राः सर्वे विषयलोलुपा प्रसन्निष्ठाः सन्ति, इत्यपि नास्ति नियमः ; एवं ब्राह्मणादयो धनानि नापेक्षन्ते, शूद्रादय एव तान्यपेक्षन्त इत्यपि नास्ति । एवं ब्राह्मणादय एव धर्मपालनतत्पराः भवन्ति, शूद्रा- वर्गहीनसमाजवादः ब्राह्मणत्वा दिजात्युच्छेदवादः १११ दयस्तु सर्वथाऽधर्मसंयुक्ता एव सन्तीत्यपि नास्ति । एवं ब्राह्म णादयो रोगरहिता: स्वस्था एव भवन्ति, शूद्रादयः सर्वथा रोग समाक्रान्ता एवेत्यपि नास्ति । ब्राह्मणादीनां व्याधयस्तु मधुरौषधसेवनेनैव प्रणश्यन्ति, सूद्रादीनान्तु कटुत मौषध सेवन- वेत्यपि नास्ति वैलक्षण्यम् । तथा च शरीरप्रमाण-मुखाद्याकार- गर्भवासादिकष्ट-वाणी-नेत्रादिज्ञानेन्द्रिय-पादादिकर्मेन्द्रिय–जीव- नसमय-बल- अर्थ - धर्म - काम-रोग- श्रौषधादिषु ब्राह्मणत्वादिजाति- कृतं वैलक्षण्यं नावलोक्यते, तो ब्राह्मणादिवर्गभेदकाः शरीर- प्रमाणादयो नैव सन्तिीति भावः । एवं वर्णविभागप्रयोजककारणाभावमभिधाय वर्ण विभागा- भावसाधकानि एकस्मादेव परमपितुः परमेश्वरादुत्पत्तिमत्त्व रक्षि- तत्वादीनि सन्ति भूयांसि प्रमाणानीत्यप्याहु: - ’ स एक एवात्र पतिः प्रजानां कथं पुन जतिकृतः प्रभेदः ? । प्रमाणदृष्टान्तनय- प्रवादः परीक्ष्यमाणो विघटत्वमेति । चत्वार एकस्य पितुः सुताश्च, तेषां सुतानां खलु जातिरेका । एवं प्रजानां हि पितक एव, पित्रेकभावान्न च जातिभेदः ।।’ (भ० पु० ४१।४४- ४-४५) इति । प्रजानां = ब्राह्मणादीनां सर्वेषां पुत्रस्थानीयानां स एक एव परमेश्वरः परमपिता पतिः - पालकोऽस्ति । तो जाति- प्रयोजितः प्रभेदः कथं स्यात् ? नैव स्यादित्यर्थः । अत एव शास्त्रादिप्रमाणैः, लोकसिद्धदृष्टान्तैः, न्यायतर्कप्रवादैश्च परीक्ष्य- माणो जातिकृतविभेदो, विघटत्वमेति = संघटितो नैव भवती- त्यर्थः । लौकिकदृष्टान्ते हि एकस्मात् पितुः सकाशात् समुत्प- नानां चर्तुण्णां पुत्राणां एकैव जाति विलोक्यते, न तत्र जाति- भेदो मन्यते । एवं सिद्धान्तेऽपि सर्वेषां ब्राह्मणादिप्रजानां परमेश्वररूपस्य परमपितुः एकत्वादेव जातिभेदो नैव मन्तव्यः । ११२ चातुर्वर्ण्य - भारत - समीक्षा संप्रति उदुम्बरवृक्षफलदृष्टान्तेन जातिभेदाभावं समर्थयन्ति - ‘फलान्यथोदुम्बरवृक्षजाते र्यथाग्रमध्यान्तभवानि यानि । वर्णा- कृतिस्पर्शरसैः समानि तथैकतो जातिरिति प्रचिन्त्या ||’ ( भ० , पु० ४१।४६ ) इति । यथोदुम्बरवृक्षस्याग्रिमानि मध्यमानि, अन्तिमानि च फलानि, वर्णैः, श्राकारैः स्पर्शे रसैश्च समानान्येव भवन्ति, न विषमाणि श्रतोऽग्राद्युद्भवकृतो वर्णादिनिरूपितो भेदस्तत्र नावलोक्यते । तथैकस्मात् समुत्पन्नानां प्रजानां वर्णाद- योऽपि समाना एवावलोक्यन्ते श्रतो जातिरपि समानैव मन्तव्या, न विलक्षणा इति भावः । प्रचिन्त्या = पूर्वोक्तदृष्टान्तद्वारा विचारेण जातेरेकता निश्चेतव्येत्यर्थः । श्रत एव चतुर्वर्णेषु ब्राह्मणादिषु जातिर्वलक्षण्यप्रयोजको न चान्तः प्रभवो न च बहिःष्प्रभवः कश्चन भेदो निरीक्ष्यते इत्याहु:- तत्रैव भविष्यपुराणे ब्राह्मे पर्वणि ‘सामग्यनुष्ठानगुणैः समग्राः शूद्राः यतः सन्ति समा द्विजानां । तस्माद्विशेषो द्विजशूद्रनाम्नो नध्यात्मिको बाह्यनिमित्तको वा स्यात् ॥ ’ ( प्र० ४१।३० ) ‘तस्माद्विप्रेषु जात्यादि सामग्रीप्रभवो न सः । तस्मान्न च विभे- दोऽस्ति न बहिर्नान्तरात्मनि । न सुखादौ न चैश्वर्ये नाज्ञायां न भयेष्वपि । न वीर्ये नाऽऽकृतौ नाक्षे न व्यापारे न चायुषि ॥ नाङ्गे पुष्टे न दौर्बल्ये न स्थैर्ये नापि चापले । न प्रज्ञायां न वैराग्ये, न धर्मे न पराक्रमे ।। न त्रिवर्गे न नैपुण्ये न रूपादौ न भेषजे । न स्त्रीगर्भे न गमने, न देहमलसम्प्लवे ॥ नास्ति रन्ध्रे न च प्रेम्णि, न प्रमाणे न लोमसु । शूद्र ब्राह्मणयोर्भेदो मृग्य- माणोऽपि यत्नतः । नेक्ष्यते सर्वधर्मेषु संहतै स्त्रिदशैरपि ।। ( भ० पु० ० ४१।३५-३६-३७-३८-३६-४०) इति । त्रिदर्श: = देवः, 1 I समानप्रसवात्मिका जातिः ११३ संहतैः = संमिलितः, मृग्यमाणः = अन्विष्यमाणोऽपि नेक्ष्यते = नाव- लोक्यत इत्यर्थः । समानप्रसवात्मिका जाति: येषु किल समानरूपेण तुल्यतया प्रसवः सन्तानोत्पत्ति- र्भवति तेषु स्त्रीपुरुषेषु समाना- तुल्यैव जातिर्मन्तव्या, न विषमा- विलक्षणेति । यतो यदि हि गवाश्वादिवत् जन्मत एवाभविष्यज्जातिभेदः, तदा न क्षत्रियादिस्त्रीषु ब्राह्मणादिभ्यो विजातीयत्वेनाभिमतेभ्योऽपत्यान्युदपत्स्यन्त । न हि गवादिषु श्रश्वादिभ्योऽपत्यानि जायन्ते । उद्भवन्ति च ब्राह्मणादिस्त्रीषु क्षत्रियादीनां विजातीयत्वेनाभिमतानां संयोगादपत्यानि । ततश्च ब्राह्मणादिषु जातिभेदोऽयं सांकेतिकः काल्पनिको विद्यते, न वास्तविक इत्यवगम्यते । श्रत एव भविष्यपुराणे ब्राह्मे पर्वणि षष्टिकल्पे - जातेः समानप्रसवात्मकत्वं लक्षणं, तथा पूर्वोक्त एव निर्णयो विस्तरेणेत्थं प्रतिपाद्यते - ‘शूद्रां प्ररोचते विप्रो रागिणीं मैथुनं प्रति । सा कामदुःखविगमे गर्भ धत्ते समागमे ॥ कामं । कामातुरायै तु रोचन्ते शूद्रमानवाः । मैथुनं प्रति ब्राह्मण्यै, सापि तेषां सुखावहा ।। ये तु जात्यादिभिभिन्ना गवाश्वोष्ट्रमतङ्गजाः । ते विजातिषु नो गर्भं कुर्वतेऽपि सुखार्थिनः ॥ श्रनड्वानेव गोरेव कामं पुष्णाति संगमे । घोटकाश्च रात सम्यक्कुर्वते वडवासु च ॥ पतिं करभमेवाप्य करभी रमते मुदा । गजमेव पति लब्ध्वा सुखं तिष्ठति हस्तिनी । तिर्यग्जातिस्त्रिया साकं कुर्वा- णोऽपि हि मैथुनम् । न तस्याः कुरुते गर्भं नरो भोगरतोऽपि यः ॥ तिरश्चा सह कुर्वाणा मैथुनं मनुजाङ्गना । नाधत्ते तत्कृतं गर्भ, न युक्तं मैथुनं तयोः ॥ नवं कश्चिद्विभागोऽस्ति मैथुने स्त्री मनुष्ययोः । येन संक्षीयते भेदः प्रस्फुटं द्विजशूद्रयोः ॥ ’ ( भ० ।११४ चातुर्वर्ण्य भारत समोक्षा पु० प्र० ४३ । ३६-४०-४१-४२-४३-४४-४५-४६ ) ( तस्मान्मनु- व्यभेदोऽयं संकेतबलनिर्मितः । ’ ( ४३।५१ ) ’ व्यलीककल्पनैवैषा, तस्माज्जात्यादिकल्पना || ( ४३।५७ ) इति । श्रनड्वान् = वृषभः, गोः = धेन्वाः । करभं= उष्ट्र-क्रमेलकं, करभी = उष्ट्री | तिर्यग्जातिः = कुक्कुर गर्दभादिजातिः । तिरश्चा = कुक्कुरादिना । व्यलीका = मिथ्या । श्रपि च ये केऽपि ब्राह्मणादयो वा शूद्रादयो वा पापा: दुष्टाः स्युः, तेषु श्रेष्ठत्वादिकं कथमपि नैव मन्तव्यम् । इत्याहु:- ‘वैदिकाखिल संस्कारभूषिताश्च द्विजातयः । सर्वकार्यकराः स्युर्ये, वृषलानतिशेरते ।। सर्वकार्याणि निषिद्धान्यपि ये कुर्वन्ति, ते वृषलान् = शूद्रानपि, प्रतिशेरते = प्रतिक्रम्य वर्तन्ते, शूद्रेभ्योऽपि होना वेदितव्याः । ’ चण्डकर्मा विकर्मस्थो ब्रह्महा गुरुतल्पगः । स्तेनो गोघ्नः सुरापानः परस्त्रीरमणप्रियः ॥ मिथ्यावादी मदो- न्मत्तो नास्तिको वेदनिन्दकः । धूर्तश्चौरः शठः पापी सर्वाशी सर्वविक्रयी । वाङ्मनः कायजै दोर्ष र्हता ये ब्राह्मणाधमाः । ते न शुद्धि व्रजन्तीह, मूढाः यज्ञशतैरपि । शूद्राणां यान्यनिष्टानि सम्पद्यन्ते स्वभावतः । विप्राणामपि तान्येव निर्विघ्नानि भवन्ति च ॥’ ( भ० पु० ४३।५ ६ ७ ८ ९ १०) विक्रीणते ह्य विक्रेय- मभक्ष्यद्रव्यभक्षिरणः । शूद्रकर्मानुतिष्ठन्तो निस्त्र पास्ते नराधमाः ॥ शिल्प कैंकर्य वाणिज्य कृष्याद्यारम्भलम्भिनः । गृह्णते सम्पदो बाह्याः धनधान्यगृहादिकाः ।। क्रोधाद्याभ्यन्तरान् दोषान् तथा दुष्टमनोरथान् । श्रत्यजन्तः कथं ते स्युः श्रेष्ठाः स्त्रीकुचर्मादिनः ? ॥ नोपादेयानि वस्त्राणि, नित्यमाददते द्विजाः । हापयन्ति यानि कथं ते गुरवः क्षितौ ? || सरलान् श्रद्धामयान् नम्रान्, चण्डाश्चण्डालचेष्टिताः । वैतण्डिकास्ते निघ्नन्ति यथा सिंहो ติ | जापान देशाभ्युदय निरीक्षणम् ११५ मृगान् पशून् ॥ ( भ० पु० ४३।३१-३२-३३-३४-३५-३६ ) इति । aosकर्मा = चण्डं - प्रचण्डं भयंकरं कर्म यस्य सः । विकर्मस्थः = विरुद्धे निषिद्धे कर्मणि तिष्ठतीति । निस्त्रपा: निर्लज्जा: कामक्रोधादिदोषवतां कथं श्रेष्ठत्वं गुरुत्वं वा प्रत्येतव्यं नैवेत्यर्थः ? । एतेन - ‘दुःशीलोऽपि द्विजः पूज्यः, न शूद्रो विजितेन्द्रियः । कः परित्यज्य दुष्टां गां दुहेच्छीलवतीं खरीम् ॥’ इति निरस्तम् । दृष्टान्तदान्तिकयोर्वेषम्यात्, गोखर्यो विजातीयत्वात् । न त्र द्विजशूद्रयोस्तद्वत् वैजात्यमवलोक्यते । तस्य प्रतिषिद्धत्वात्, सजातीयत्वस्य समर्थितत्वाच्च । अपि च विजितेन्द्रियाणां भग- वद्भक्तानां शूद्रादित्वेनाभिमतानां श्रीकबीर दादुतुकारामविवेका- नन्दारविन्दयोगिगुरुनानकगोविन्दसिंहप्रभृतीनां श्रेष्ठत्वपूज्यत्व- गुरुत्वादेः स्वीकृतत्वाच्च । जापान देशाभ्युदय निरीक्षणम् । किञ्च तावदवलोक्यतां जापानदेशम् । गृह्यताञ्च तस्मा- त्संघट्टनादिशिक्षणम् । प्राक् तस्मिन् देशे तद्वास्तव्यानां समाजे ‘भारवर्ष हवं’ दुःस्वार्थ मोठ्यानौदार्यप्रसूता भूयस्यः कुप्रथाः समवर्तत । तत्तज्जातिकुलपदा दिवितथाभिमानप्रयुक्तः संघट्टनविरोधी महान भेदभावश्च प्रचलित श्रासीत् । अमुक- जातीयानामेवामुकशिक्षणं युद्धविद्यादि च नियतं कुलधनम- भवत् । परमेतन्मौढ्य तैः सपद्येव समबुध्यत । महता यथार्थशिक्षरणप्रचारेण च तदखिलं कालुष्यममार्जयत् । संप्रति ते निखिला अपि जापानीयाः समानजातयः समानशिक्षणाः समानसद्भावाः समानयुद्ध यन्त्रादिविद्यानिपुणाः समानवेषाः समानव्यवहाराः समानदेशधर्मस्नेहाश्चाभूवन् । कूपमण्डूकता- नुसरणशीलान् दुःस्वार्थदुरभिमानमौढ्यमूलकान् संघ ११६ चातुर्वर्ण्य भारत-समीक्षा प्रयोजकान् सर्वानपि तुच्छभावानपसारितवन्तः; एवं जापा- नीयैः प्ररूढेन देशप्रेम्णा तद्वास्तव्या खिलजनाभ्युदय कामनया च महत्परिवर्तनं विहितम् । विकृतमखिलं संशोध्य यत्खलू- कृष्टं सर्वजन हितकरं देशधर्मोन्नतिसाधकं नीतियोग्यतानुकूलं पक्षपातादिरहितं तदेव संगृहीतम् । भारतराष्ट्र समीक्षणम् परन्तु सोऽयं महान् खेदस्य विषयो, यदस्माकं भारते स्वतन्त्रेऽपि राष्ट्र सांप्रतमपि भूयसां जनानां हृदयेषु दुःस्वार्थ- दुरभिमानपक्षपात मोढ्घ निदानाः संघट्टनदेशाभ्युदयविरोधिन्यः ‘वयमुत्तमा अधमा इमे न गण्याः, श्रस्माकमेवेदृशोऽधिकारो नान्येषामि’ त्यादिलक्षणाः स्वीयार्य हिन्दुबन्धुविषयिण्यः तुच्छा: संकुचित भावनाः जाग्रतितराम् । श्रत एव दम्भपूर्णनिर्मूल- कुविचारः सम्प्रति हिन्दूनां वैयक्तिकं सामाजिकञ्च जीवनं कलुषितं सदवलोक्यते । सवर्णा हिन्दवः केवलं हरिजनानेवा- ऽन्त्यजान् अस्पृश्यान् न मन्वतेऽपि तु मिथः सर्वान् सर्वेभ्यः । श्रुतं हि विश्वसनीयेभ्योऽस्माभिः महीशरनगरे संस्कृतमध्येतु- कामानू कांश्चित् तत्रत्यान गौडसारस्वत ब्राह्मणछात्रान् विद्यालये प्रविष्टान् अवलोक्य तत्रत्या द्राविडब्राह्मण विद्या- थिनः स्वविष्ठोत्तमत्वाभिमानाः सहसा विद्यालयं परितत्यजुः । ‘तदैव वयं विद्यालये प्रवेशं करिष्यामो यदेषामस्मत्तोऽधमानां गौडसारस्वतछात्राणामस्मान्निष्कासनं स्यादि त्यर्थं ते सत्याग्रहं कि ? दुराग्रहं चक्रिरे। दाक्षिणात्या द्राविडाः केचन गौडान्- श्रौदिच्यान- ‘काशीशूद्रा इमें’ seyear विन्दन्त्येव । हिमालय- स्थितबद्रिनारायण विग्रहस्य पूजने सर्वोत्तमस्य दाक्षिणात्यस्य द्राविडनंपूतिरिब्राह्मणस्यैवास्त्यधिकारो नान्येषां हिमालयीय- भारतराष्ट्रसमीक्षणम् ११७ ब्राह्मणानाम् । अत एव तन्मूतिस्पर्शं कर्तु नान्ये वेदविदः सदाचारा अपि ब्राह्मणाः शक्नुवन्ति । यदेयं ब्राह्मणेषु ब्राह्मणा- नामीदृशी कथा, तदा ब्राह्मणत्वमिथ्याभिमानवशंवदाः केचन क्षत्रियादिकं दृष्ट्वा तिरस्कारगर्वपूर्णे नेत्रे विधाय ‘शूद्रा इमे नीचा इमे’ ‘कलावाद्यन्तयोः स्थितिः’ इत्यभिधाय तस्मै घृणां प्रकटयेयुः, तत्र किमु वचनीयम् । दण्डिनो भिक्षुकाः सर्वत्याग- मये पारिव्राज्ये स्वीकृतेऽपि ब्रह्मत्वस्य नहि, ब्राह्मणत्वस्य मिथ्याभिमानवशंवदाः सन्तो दण्डरहितान् परमहंसभिक्षून् विलोक्य श्वानवत् घुरघुरायमाणाः ‘शूद्रा इमे प्रस्पृश्या भ्रष्टा: शापिताः, एम्यो न कैश्चन श्रेष्ठिभिभिक्षा, न च पण्डितैविद्या दातव्या, न च सत्करणीयाः’ इति जल्पन्तः स्वान्तरवस्थितं वैराग्यादिकं नहि, विद्वेषादिकमेवाविष्कुर्वन्ति । इत्येवं कतिपय- ब्राह्मणादि हिन्दुहृदयानां विलक्षणविषमताऽतीव घृणास्पदा निन्दनीया चास्ति । हिन्दूनां पारस्परिकतिरस्कार भावनैवास्मिन् भारते देशे दशकोट्यधिकयवनकृश्चियनसमाजस्यास्ति जननी । यत्र किल जनसमाजे मनुष्यत्वस्य समादरः प्रतिष्ठा च नास्ति, यत्र च परस्परं प्रेमसद्भाव विरोधिघृणात त्तज्जात्यपमानजनक- व्यवहारोऽवलोक्यते, तत्र को मतिमान् श्रवस्थातुमिच्छेत् ? श्रत एव केरलदेशादौ हरिजना श्रन्त्यजाः यावत्पर्यन्तं स्वान् हिन्दुत्वेन पद्मनाभदासजनार्दनदासादिनामत्वेन, तुलसी- देवदेवीपर्वादिपूजकत्वेन च मन्यमाना भवन्ति तावत्पर्यन्तं ते स्पर्श्याः उच्चतमवर्णाभिमानिभिर्ब्राह्मणादिभिर्गर्हणीयाः सन्तः स्वकीयवीथीष्वपि प्रवेशयोग्यतारहिता एव भवन्ति त एव यदा कृश्चियनाः विदेशतद्भाषात द्वेष संस्कृत्यादिप्रियाः स्वदेश- स्वभाषास्ववेषस्व संस्कृत्यादिविमुखाः हिन्दुधर्मसमाजादिद्वेषिणो ११८ चातुर्वर्ण्य - भारत-समीक्षा भवन्ति, तदा तु ते सपद्येव तैरेवोत्तम हिन्दुभिः समादरणीयाः ‘साहबेति’ गौरवशालिनाम्ना संबोध्याश्च सन्तः स्ववीथी प्रवे- शस्य कि ? स्वगृहप्रवेशस्यापि योग्यताशालिनो भवन्तीति महदाश्चर्यमेतत् । त एव संप्रति प्रान्तीयादिशासने सत्तारूढा: सन्तः हिन्दुधर्मसमाजयोर्महतीमवहेलनां कुर्वन्तीति प्रत्यक्षमेतत् । अतः - ’ यत्समाजशरीरस्य पादः शूद्रः पृथक्कृतः । तन्मूनि न कथं कुर्युः ? पादाघातं विर्घामणः ॥ स्वाङ्ग ‘शूद्र’ तिरस्कारा-देव नूनं द्विजातिभिः । प्रापितं भारतं वर्षं शोचनीयदशा मिमाम् ।।’ इति । विविधाभिमानद्वषादिदोषाढयस्य हिन्दुसमाजस्य मौढयदर्शनम् अत एव भेदभावमिथ्याभिमानद्वेषवैरपूर्णात् हिन्दूनां विषाक्तघृणितवातावरणादस्मात् समुद्विग्नाः जना इस्लामाद्या- श्रयं लब्ध्वा स्वजीवनं धन्यं मन्यमाना बोहराखोजेत्यादि - नामभिः लक्षाधिकाः प्रसिद्धा यवना बभूवुः ब्राह्मणाः बभूवुः ‘बोहराः’ लुहाणा भाटियाः क्षत्रियाः बभूवुः खोजा:’ इत्यादि- रूपा प्रामाणिकी प्रसिद्धिरपि विशेषतो गुर्जरे देशे जागर्त्येव । एतत्खोजान्वयजातेन प्रसिद्धेन ‘जिन्ने’ तिनामधेयेन म्लेच्छेन भारतीययवनान् मिथ्यावादेन प्रतार्याखण्डस्य भारतवर्षस्य खण्डद्वयं पूर्वपश्चिमपाकिस्ताननामाङ्कितं कृतमिति सर्वत्र प्रसिद्धं प्रत्यक्षमवलोक्यते । तत्र हि हिन्दूनामार्याणां महती दुर्दशा म्लेच्छैः कृता, पञ्चलक्षाधिका प्राबालवृद्धं हिन्दबो विध्वस्ताः । एका सीता कि ? विंशतिसहस्राधिकाः सीतादेव्यो- X समं प्रजन्ति - समानभावेन मिलन्ति चत्वारो वर्णाः यस्मिन् सः समाजः इत्यर्थः । सिद्धपुरवृत्तान्तः ११६ पहृताः पातिताः मर्दिताः भ्रंशिताः म्लेच्छभावमापादिताश्च । र्याणां गृहवित्तभूम्यादिकं सर्वस्वं बलादपहृतम् । तत्राद्यैको- प्यार्यजातीय जनोऽवस्थातुं न कथमपि शक्नोतीति सांप्रतं प्रसिद्धमेव । सिद्धपुरवृत्तान्तः अस्ति किल ब्राह्मणानां बोहरामुसलमानरूपेण परिणता- नामीदृश इतिहासः । गुर्जरदेशस्य प्रसिद्धे सिद्धपुरक्षेत्रे निवसतां ब्राह्मणानां प्राक् विभागद्वयमासीत् । परस्परं द्वेषनिन्दातिरस्का- खैरादिवशात् ते मिथः कलहायमाना श्रासन् । एकदा यवन - प्रथम विभागस्थित ब्राह्मण समाजेन सैन्यं तत्र समागतम् ! द्वितीयविभागस्थित ब्राह्मणसमाजस्योपरि-इत्थं महान् मिथ्याऽऽ - क्षेपः प्रसारितः - ‘यत् तैः कूपनिक्षिप्तगोमांससंपृक्तयवनोच्छिष्ट- जलपानादिकं विहितम्, अत एव तद्विभागस्थाः सर्वेऽपि ब्राह्मणा यवना म्लेच्छा एव संजाताः, तेषां ब्राह्मण्यं कि ? हिन्दुत्वमपि सर्वथा विलुप्तं बभूव ।’ इति । श्रतः क्षत्रियादिभिः कैरपि हिन्दुभि र्यवनोच्छिष्टजलपानादिकर्तारस्ते ब्राह्मणत्वेन कि हिन्दु- त्वेनापि नैव मन्तव्याः । मूर्खाः क्षत्रियादयोऽन्यत्र स्थिताश्च मूढा ब्राह्मणा अपि तेषां द्वेषिणां ब्राह्मणानामीदृशमिथ्यावाक्- प्रचारेऽन्धश्रद्धां बद्ध्वा तेषां महतीमुपेक्षां प्रभूतां घृणां तिरस्का- रापमानादिकञ्च चक्रिरे । हिन्दुसमाजात् सर्वथा ते तिरस्कृता निराशाश्च भूत्वाऽन्ततो गत्वा स्वकीयं प्राणप्रियं हिन्दुत्वं ब्राह्म- णत्वञ्च परित्यज्य यवनगुरुप्रयोजिततत्समाजे मिलित्वा बोहरा- संज्ञां च गृहीत्वा ते मुसलमाना यवनाः अभवन् । श्रद्यापि ते तस्मिन्नेव सिद्धपुरक्षेत्रे यवनवेषभूषादिरूपेण प्रतीयमानाः स्वबन्धून् स्वशत्रुत्वेन परिणतान् कुर्वतां प्रावकालिकानां तत्र- १२० चातुर्वर्ण्य भारत समीक्षा , त्यानां ब्राह्मणानां विवेक विचारहीनत्वं मूर्खत्वञ्च द्योतयन्तो निवसन्ति, प्राक् ब्राह्मणादिसमाजेन कृतं घोरमनिष्टमिष्टरूपेण संस्मरन्ति । संप्रत्यपि तेषु केचन वयं प्राक् ‘दवे’ ( द्विवेदी ) इत्युपाधिकाः ब्राह्मणा ग्रासन् केचन वयं प्राक् ‘तरवाडी’ ( त्रिवेदी) इत्युपाधिकाः केचन वयञ्च प्राक् भट्ट इत्युपाधिकारच आसन्, इत्येवं स्वकीयामुपसंज्ञां परामृशन्तः कथयन्ति । तेषां स्वबन्धूनामीदृशं पतनं दृष्ट्वा परिशिष्टाः ब्राह्मणमन्याः हिन्दु- धर्मरहस्यविदो महान्तं सन्तोषमवापुः । एवमन्येषां क्षत्रियादि- हिन्दूनां यवनरूपेण परिणतौ प्रेमसद्भावसंघट्टनादिसद्गुणविरो- धिभूतं द्वेषतिरस्कारघृणामौढ्यादिकमेव तत्तदितिहासे कारण- रूपेणावलोक्यमानं भवत्येव । हिन्दूनां विच्छिन्नभावना नीचत्वेनास्पृश्यत्वेन च विभाविताः शूद्रातिशूद्रा उच्चव- र्णेभ्यः सर्वथा विच्छिन्नाः हिन्दवस्तु यवनसाम्राज्यकाले लोभात् बलाद्वा यवनरूपेण परिणता श्रभूवन् । तेषामुद्धारायोच्चवर्णा- भिमानिनो हिन्दवः कथं प्रयतेरन् ? तेभ्यो विच्छिन्नत्वाद्धेतोः । वर्तमानकाल एवास्माभिः उच्चवर्णाभिमानवतां हिन्दूनां मनो- दशा प्रत्यक्षमवलोकिता । गुर्जरदेशस्य नर्मदातीरस्थिते ‘अ’ कलेश्वरपत्तने’ महात्मदर्शनसत्संगलाभाय समागतानामुच्च- वर्णानां हिन्दूनामीदृशवार्तालापः श्रुतः । कश्चित्कथयति कि श्रुतं हि भवद्भिः ? अमुकस्य तैलनिर्मातु हिन्दोः युवतीं कन्याम- त्रत्याः दुष्टाः मुसलमानाः बलादपहृतवन्तः । अपरे ब्राह्मणाः वैश्याश्च स्वमुखेषूपेक्षाभावं प्रदश्यं प्राहुः तेनास्माकं का क्षतिः ? ( श्रापणे शुं ? इति गुर्जरभाषायाम् ) श्रपहरन्तु ते यथेष्टम् । तेषां गुर्जरभाषायां वार्तालापं श्रुत्वा तदग्रावस्थितेन महात्मनो - हिन्दुसमाजः कथं दुर्बल: ? १२१ षतम्-यदि ते दुष्टाः मुसलमानाः ईदृशहिन्दुयुवतीकन्याऽपहरण- व्यापारे लाभशालिनो भूत्वा पुनः ‘लाभाद् लोभः प्रवर्धते’ इति न्यायेन युष्माकं गृहे स्थितां कामपि युवतीं कन्यां वा वधूं वा विधवां वाऽपहरिष्यन्ति तदाऽपि युष्माभिः तेनास्माकं का यथेष्टमिति कथयित्वा महतीमुपेक्षां निकृष्ट हिन्दुसंकटसमये तन्निवारणाय क्षति: ?, अपहरन्तु ते करिष्यन्ति भवन्तः ? सहायसद्भावशून्यानां भवतामुत्कृष्ट हिन्दूनां भवतामुत्कृष्ट हिन्दूनां संकटसमये ते निकृष्टा हिन्दवो भवत्संकटनिवारणायाभिमुखीभविष्यन्ति किम् ? । इति श्रुत्वा मौनं भजमानान् तान् महात्मा हिन्दुषु मिथः प्रेमसद्भावसहायसंघट्टनाय दुष्टदण्डप्रदानाय च समुपदिदेश । हिन्दुसमाजः कथं दुर्बलः ? कश्चन प्रतिपादयति- हिन्दुसमाजस्येदृशं दौर्बल्यम् । हिन्दु- समाजोऽस्ति तावत् विविधवर्णानां विविधोपवर्णानाञ्च संग्रह- भूतः परस्परविच्छेदभाव विशिष्ट: । अत एव केनचित् पृष्टे सति- ‘कस्त्वमसि ? इति, तदुत्तररूपेणाहममुकवर्णोऽहमसुकोपवर्णोऽ- स्मीति विच्छिन्नभावद्योतकं बच्चो वदति । यथा कश्चन शिक्खो वा मुसलमानो वा वदति श्रहं शिवखोऽस्मि, ग्रहञ्च मुसलमा- नोऽस्मीति तथाऽहं हिन्दुरस्मीति संघट्टितभावद्योतकं वचो नंव वदति । अत एव स निश्चयेन जानाति ग्रहम मुकवर्णेभ्योऽमुको- पवर्णेभ्यश्च सुतरां तत्प्रदर्शितबन्धुभावरहितो विभिन्नोऽस्मि । मत्तोऽमुकवर्णा मुकोपवर्णाश्च मन्निष्ठबन्धुभावरहिताः विभिन्नाः सन्तीति । सति चैवं हीनवर्णा अनुभवन्ति उत्तमवर्णान् जनान् वीक्ष्य स्वनिष्ठहीनताप्रयुक्तां लज्जाम् । उत्तमवर्णाश्च हीनवर्णान् दृष्ट्वा स्वनिष्ठोत्तमत्वप्रयुक्त महंकारञ्च येन केन प्रकारेणावि- ष्कुर्वन्तीति प्रायो लोकव्यवहारेऽपि दृश्यते । एवं वर्णादिप्रयुक्त- १२२ चातुर्वण्यं भारत-समीक्षा विच्छेदभावदाढū सति मयाऽमुकवर्णममुकोपवणंञ्च परित्यज्या- न्यत्र वर्णे चोपवणं च न गन्तुं शक्यते । न च मम वर्ण चोपवण चान्येन वर्णेनोपवर्णन चागन्तुं प्रभूयते । यतस्सर्वया मिथो विच्छिन्नत्वात्, परस्परं बन्धुभावभ्रातृभावरहितत्वाच्च । मुसल- प्रत एव स प्रमुकवर्णोपवर्णवान् निश्चयेन जानाति मम संकटसमयेऽन्ये मन्निष्ठबन्धुभावशून्याः वर्णाः उपवर्णाश्च साहाय्यं विघातुं नागमिष्यन्तीति । यथैकस्य शिक्खस्य यर्थकस्य मानस्य च संकटे पतितस्य समुद्धारायाभितो रक्षणाय च सर्व शिक्खाः सर्वे च मुसलमानाः संमित्य तत्र वन्धुभावमाविष्कृत्य समागच्छन्ति, तथा । सति चैवं तस्यैकाकित्वात् सहायशून्यत्वाच्च निर्बलत्वम् । तत्र स्वभावतः क्लीवभावभीरुभावो समुदेतः । अत एव सोऽन्येन म्लेच्छा दिना सह युद्धसमये सहाय शून्यतया सहसा पलायते, अथवा दौर्बल्यप्रयुक्त मिथ्या चाटुशब्दान् ब्रुवाण: तदधीनतां ततः पराजयञ्चाङ्गीकरोति । दुष्टप्रयुक्तानर्गलगा- लिप्रदानचपेटिकाप्रदानादिकञ्च मूकभावेन सहते । अतः शिष्टाः प्राहुः - ‘वर्णोपवर्णभेदाश्च, संप्रदायविभिन्नता । सद्भावः निर्बलत्वप्रयोजकम् ।।’ इति । मिथश्चाप्रेम- तर्कयुक्तिहीनः समाजसंघट्टनविरुद्धः शास्त्रविचारोऽप्य- नर्थायैव प्रभवति अत एव या प्रशस्तवर्णधर्माणामविच्छिन्ना रचना संयुक्तः पुरुष मुखाद्यवयवै निरूपिता, सुन्दरवैज्ञानिक पद्धत्याऽऽविष्कृता प्रेमसमभावसमलंकृताऽऽसीत्, सेदानीं भग्नावशेषतयाऽवलोवयते यत्र तत्र । वर्णानामन्तः श्रात्मीयतायाः प्रगाढप्रेमसूत्रं यत्प्राक् वैदिकयुगे निहितमासीत्, तदिदं सर्वथा समुच्छिन्नमभवत् । १२३ तर्कयुक्तिहीनः शास्त्रविचारोऽनर्थाय प्रभवति मर्यादाश्रृङ्खला रहितो निर्बलः सन् हिन्दुसमाजः असंख्यनीचो- उच्च जात्युपजातिभिर्विच्छिन्नो विभिन्नश्च बभूव । तथापि केचन ब्राह्मणाद्याः हिन्दवो मनागपि पूर्वापरं न विचारयन्ति, देशपारतन्त्र्यधर्म जातिभ्रष्टतादिदुरवस्थायाः कार- णमपि नान्वेषन्ते । विकृतमखिलं न संशोधयन्ति, देशधर्मोन्नति- साधकं नीतियोग्यताऽनुकूलं सर्वजनहितकरमविकृतं पक्षपाता- द्यवद्यवजितं प्रशस्तं पन्थानं न संगृह्णते । ’ देशकालवयोऽवस्था- बुद्धिशक्त्यनुरूपतः । धर्मोपदेशो वक्तव्यो भैषज्यमिव पारगः ॥’ ‘आर्ष धर्मोपदेशं च वेदशास्त्राविरोधिना । यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः ॥ ’ ( मनु० स्मृ० १२ १०६ ) ‘मनुष्या वा ऋषिषूत्क्रामत्सु देवानब्रुवन् को न ऋषिर्भविष्यतीति तेभ्य एवं तर्कमषि प्रायच्छन्, मन्त्रार्थचिन्ताभ्यूहम् , तस्माद् यदेवं किञ्च अनूचानोऽभ्यू हत्याषं तद्भबति ।’ (नि० प्र० १३ | १२ ) ‘केवलं शास्त्रमाश्रित्य न कर्तव्यो विनिर्णयः । युक्ति होने विचारे तु धर्महानिः प्रजायते ।।’ इत्यादिशिष्टवचांस्यपि - श्रप- क्षपातया धिया नानुसंदधते । मिथः ईर्ष्या-द्वेष- घृणा- विच्छेद (फूट) मौढ्यानौदार्यप्रभृतिभिर्दोषैः श्रस्माकं कीदृशं पातित्य- मभूदित्यपि नेत्रे उन्मील्य न निरीक्षन्ते । विदेशीयाः दुष्टाः यवना म्लेच्छा श्रस्मदीये पावने श्रार्यावर्ते भारतवर्षे श्रानवश- ताब्दात् कीदृशं नग्नं ताण्डवं नृत्यमकार्षुः, संप्रत्यपि कुर्वन्तीति

X वेदमन्त्राणामर्थचिन्तने अभ्यूहमेव = वितर्कमेव - ऋषि प्रायच्छन्-प्रदत्तवन्तः । श्रत एव अनूचानः विद्वान् प्रवचनसमर्थः यदेव किञ्चाभ्यूहति=तर्कयुक्तिसंगतमर्थं विनिश्चिनोति, तदार्ष भवति = ऋषिप्रोक्तमेव भवतीत्यर्थः ।१२४ स्पष्ट चातुर्वर्ण्य - भारत - समीक्षा जानन्तोऽप्यनवधानतां परित्यज्य सावधानतां साधयन्ति । 1 काश्मीरप्रदेशनिरीक्षणम् न दिल्लीश्वरो यवनसम्राट् बादशाहो विविधलोभवलादि- प्रकार : रमणीयतमे काश्मीरदेशे प्रायशः सर्वान् ब्राह्मणाद्यार्यान विकृत्य म्लेच्छरूपान् श्रकरोदिति प्रसिद्धम् । प्राक् तत्र एकोऽपि म्लेच्छो नावातिष्ठत । प्रायः तत्रत्या ब्राह्मणाद्याः श्रार्या विद्वांसः कवयो विविधशास्त्र प्रणेतारः श्रासन् । ‘भवन्तः अस्मान् विकृ- तान् संशोध्य पुनरपि हिन्दुजातौ संमिलिताः पावनादच कुर्वन्तु, इत्येवं पुरा प्रार्थयमानान् तान् तदानींतनाः पण्डितंमन्याः कतिचित ‘गर्दभाः कथमपि घोटका न भवितुमर्हन्ती’ त्यभिधाय तेषां महतीमुपेक्षां चक्रिरे । ‘घोटकाः कथं गर्दभा जाता: ? इत्येषं पुष्टास्ते किमपि सदुत्तरं दातुं न प्रभवन्ति । पश्चाद्भवेन काश्मीरदेशराजेन क्षत्रियप्रवरेण तत्रत्येभ्यः परिशिष्टेभ्यो ब्राह्मणेभ्यः पौनःपुन्येनेदमभिहितमपि इमेऽत्रत्या म्लेच्छाः शुद्धा श्रार्या भवितुं वाञ्छन्ति । ते प्रागपि श्रार्या श्रासन्, मध्ये वला- त्कारेण तेषु मिथ्याम्लेच्छभावप्राप्तो सत्यामपि तान् सर्वान् संशोध्यायसमाजे संमिलिताः कुर्वन्तु भवन्तः । तेषां तत्तद्ग्रामे मयंकमेकं राममन्दिरं विनिर्माय तेभ्योऽहं रामोपासनाय समर्प- यिष्यामि । भवद्भिर्गुरुभिर्ब्राह्मणैः तेषां दक्षिणकर्णेषु पावनं हितकरं राममन्त्रं प्रदाय तान् रामप्रियान् रामसंस्कृतिधारकान् श्रार्यान् कुर्वन्तु । एवं कृते सति, काश्मीरदेशस्य कि ? विशालभारत- राष्ट्रस्य महान् उपकारो भविष्यति । परन्तु तत्रत्या विद्वांसोऽपि मूढाः ब्राह्मणा: ‘म्लेच्छानां शुद्धौ नास्ति किमपि शास्त्रप्रमाणमतः शास्त्रविरुद्धं किमपि कर्तुं वयं न प्रभवामः ।’ इत्यभिघाय काश्मीरप्रदेश निरीक्षणम् १२५ स्वमौढ माश्चर्यकरं प्रदर्श्य राज्ञः काश्मीराधीश्वरस्यापि हित- कारिणी वाञ्छा तैरवहेलिता । तस्यावहेलनस्य खेदमयं कटुफलं संप्रत्यपि समग्रेण भारतवर्षेण भुज्यते । केनचित्तदानींतनेनार्य जातिसंघट्टन राष्ट्रस्वातन्त्र्यप्रेमवता विदुषा ‘इन्द्रं वर्धन्तो अप्तुरः, कृण्वन्तो विश्वमार्यम | अपघ्नन्तो अराव्णः ।।’ (ऋ० ε| ६३ । ५ ) इति वेदवचनं तेभ्यः प्रदर्शितम् । तदर्थोऽपि तेनेत्थं विहितः । यथाहि - इन्द्रं = परमेश्वरं, तदुपदिष्टं समुदारं वैदिकसनातनधर्मं वा स्तुतिभिः सर्वत्र प्रचार व वर्धन्तः = वर्धयन्तु भवन्त इति कर्तृ. पदाध्याहारः । अप्तुरः= अद्भिरुपलक्षितानि तद्वत्स्वच्छानि प्रशंसनीयानि शुभकर्माणि कुर्वन्तः - विद्याबलधनादिशक्तिसमुपार्जने प्रयत्नशीलाश्च भवन्तः, विश्वं = समग्रं जगत्, आर्य आर्यभावादियुक्तं, कृण्वन्तः = कुवन्तु । अराव्णः – विधर्मणो दुष्टान् श्रनार्यान् अपघ्नन्तः = अपघ्नन्तु विमर्दयन्तु । परन्तु ते स्वदुराग्रहसमर्थनाय स्वमौढ्य- प्रदर्शनाय च नास्त्ययमर्थः प्रामाणिक इत्यभिदधुः । प्रेमसद्भाव संघट्टनयोरभावादेव पूर्वं सांप्रतञ्चाप्यार्य हिन्दु- जातेस्तद्धर्मस्य तद्देशस्य च पारतन्त्र्यादिप्रयुक्तां महतीं दुर्दशा- मवलोकयन्तोऽपि ब्राह्मणाद्या हिन्दवः प्रेमसद्भावाय संघट्टनाय च न प्रयतन्ते । केरलदेशे तत्रत्या येऽस्पृश्याः शूद्रातिशूद्राः ब्राह्मणादिभिः सर्वथोपेक्षिताः श्रासन्, ते हिन्दुधर्मात् समुद्विग्नाः सन्तः ‘मोपलेति’ नामधेया दशलक्षाधिका मुसलमानाः संजाताः । तैः स्वतिरस्कारादिप्रयुक्तं प्रतिफलं विधातुं ब्राह्मणादीनां हिन्दूनामुपरि महान् श्रत्याचारो विहितः । ’ मोपलाश्रो नो उपद्रव’ इति नाम्नि पुस्तके स च विस्तरेण केनचित् गुर्जरभाषा - लेखकेन लिखितः अस्माभिरवलोकितः । ‘दुष्टप्रारब्ध कर्मग्रह- १२६ चातुर्वर्ण्य भारत समीक्षा faraifeerrfani देशावे दुर्दशा वर्तते, तत्र वयं किं कर्तुं ege ? ‘च युगधर्मो हि वर्तते कस्य दूषणम् । भा० पुनरपि प्रमादनिद्रायामभिशेरते । भगवतोऽतिधन्यस्य प्रमाणसा- मा० ) इत्याविकमभिधाय देशाभ्युदयाय पुरुषार्थविमुखास्ते भौमस्य वेवस्येमं समुदारं सदुपदेशमपि नाद्रियन्ते । वेदोपदेशः ० ‘ते ज्येष्ठा अकनिष्ठास उद्भिदो मध्यमासो महसा वि वावृधुः । सुजातासो जनुषा पृश्निमातरो दिवो मर्या श्रानो अच्छा जिगातन ॥’ ( ऋ० ५।५६/६ ) ‘प्रज्येष्ठासो प्रक- निष्ठास एते संभ्रातरो वावृधुः सौभगायं । I युवा पिता स्वपा रुद्रः एषां सुदुघा पृश्निः सुदिना मरुद्भ्यः ।। (ऋ० ५।६०१५ ) इति । श्रयमर्थः - ये जनुषा = जन्मना - उत्पत्त्या, पृश्निमातरः = पृश्नः - पृथिव्या: - भारतभूमातुः - पुत्राः पृश्निः भूमिर्माता येषां ते इति पृश्निमातरः - पावनभारतभूमिनिवासिनः- भारतमातृभक्ता इति यावत् । ’ माता भूमिः पुत्रोऽहं पृथिव्या: । ’ ( अथर्व ० १२।१।१२ ) इति श्रुत्यन्तरात् । कीदृशास्ते सन्ति ? इत्यत आह-दिवः = स्वर्गलोकात् सुजातासः = सु सुष्ठुः संभूताः महर्षीणां पावने धर्मप्रधाने देशे समुत्पन्नाः - शुभसंस्कारपुण्यकर्म संयुक्ता यावत् । ‘गायन्ति देवाः किल गीतकानि धन्यास्तु ये इति भारतभूमिभागे ।’ इत्यादिस्मृतेः । पुनः कीदृशास्ते ? उद्भिदः = शत्रूणां - बाह्याभ्यन्तराणामाततायिनामुद्भेदयितारः- विनाशयितारः - शूरवीराः, पुनः कीदृशाः ? कनिष्ठासः = परस्परं श्रज्येष्ठास:- ज्येष्ठकनिष्ठभाव- उत्तमाधमभाव- रहिताः, श्रमध्यमासः = न वा मध्यमाः सन्ति, किन्तु ते सर्व- प्रकारः समाः =समांनवैदिकधर्माः समानप्रेमसद्भावाः - समान- विद्याबलधनश्रमाः, वेदोपदेश: १२७ मर्याः = मनुष्याः सन्ति । ते महसा = तेजसा- भभूत विद्यादिपराक्रमेण विवावृधुः = विवर्धन्तां- शोभनामभिवृद्धिं प्राप्नुवन्तु । ते सर्वे भद्रपुरुषाः भव्यविचाराः समुदाराः प्रेमसंघबलवन्तो यूयं नः = अस्मान् - भगवत्स्वरूप- सन्तः, नाशी, देवान् - उपासितुमितिशेषः, अच्छ:- साधु यथा स्यात्तथाऽस्मदभि- मुखं-प्राजिगातन=प्रागच्छतेत्यर्थः । भ्रातरः = परस्परं भ्रातृ- समानविद्याबलधन सेवाभावाः, भूताः- बन्धुभावार्यभाव सौभगाय = सुभगत्वाय - सौभाग्याय- निखिलमुत्तममभ्यु- दयमासादयितुं, एते वावृधुः = विवर्धन्ताम् । एषां = भवता - मर्याणां पिता = पालकः परमेश्वरः, युवा = नित्यतरुणः - प्रवि- स्वपा=शोभनकर्मा-भक्त रक्षणदुष्टदलना दिरूपाणि यस्य स्तुत्यानि कर्माणि सन्ति, एवंभूतः, रुद्रः = श्रीशंकरः विविधदुःखद्रावकः समुपास्योऽस्ति । सुदुघा = सुष्ठु - दोग्ध्री- जीवननिर्वाहकधनधान्यादिरूपविमल दुग्धसमर्पयित्री, पृश्निः = भारतभूमिः- मातृभूता-सेव्याऽस्ति येषां भवतार्मार्याणामिति शेषः । श्रत एव मरुद्भयः = भगवद्रूपेभ्यो देवेभ्यः- सुदिना = शोभनदिनानि- कुर्वन्तु भवन्तः । अर्थात महादेवप्रीयते धर्मप्रवचनयज्ञादिरूपान्- उत्सवान्- विधाय, सर्वान् दिवसान् शोभनान् सोल्लासान् रम- गीयान् प्रानन्दप्रदान् कुर्वन्तु, इति भगवतो वेदस्य शुभाशीर्वा दोऽयम् । समानप्रेमसद्भावा: मिथः संघट्टिताः भारतराष्ट्रभवताः श्रवश्यं सर्वविधमभ्युदयमासादयन्त्येवेत्यत्र नास्ति संशयले - शोऽपीति भावः । तथा ‘संगच्छध्वं संवदध्वं सं वो मनांसि जानताम् ।’ ऋ० १०।१६१ २। अथर्व ० ६ । ६४ । १ । तै० मा० २।४।४/४ ) हे प्रार्थमानवाः । पावनभारतभूवास्तव्याः । पूयं सर्वे संग- १२८ , चातुर्वर्ण्य - भारत - समोक्षा च्छध्वं=मिथः स्नेहसद्भाव सहानुभूति विनयादिसद्गुणैः संयुक्ताः सन्तः कौटिल्यं विरोधञ्च परिहाय मिथ संमिलिताः संघट्टिता भवत । तथाभूताः सन्त एव स्वाभ्युदयाय राष्ट्रगौरवाभिवृद्धये च प्रगतिशीला भवत इति यावत्; तथा संवदध्वं सम्यक् श्रवि- रोधकरं - राष्ट्रहितसम्पादकं सत्यं प्रियं स्नेहसद्भाववर्धकमेव वाक्यं व्रत । यद्वा संघशक्तिसम्पादकं स्वदेशाभ्युदयकरमेक विध- मेव वचोजातं परस्परं कथयत । तथाऽऽथर्वणोऽप्याह - ‘प्रन्यो अन्यस्मै वल्गु वदन्तः, एत, मा वियौष्ट ।’ (प्रथर्व ० ३ | ३०|५ ) अन्योऽन्यस्मै = परस्परं वल्गु - शोभनं सत्यप्रियवाक्यं वदन्तः = भाषमाणाः सन्तः, एत = प्रग्रे - देशाभ्युदयाय गच्छत, यूयं मा वियोष्ट = कदाचिदपि वियुक्ताः पृथग्भूता मिथो विरुद्धा वा मा भवत; किन्तु प्रेमसद्भावाभ्यां सदा संघट्टिता एव भवतेत्यर्थः । तथा वः = युष्माकं मनांसि = चेतांसि संजानतां = समानमेकरूप- मेवार्थं अवगच्छन्तु यद्यदस्माकमनुकूलं वा प्रतिकूलं वा तदन्ये- षामपि तथैव भवतीति स्वात्मदृष्टान्तेन सर्वत्र प्राणिजाते सुखदुः- खादिकं मानापमानादिकं वा सममेकरूपमेव विजानन्तु इत्यर्थः । ‘समानी व श्राकृतिः, समाना हृदयानि वः । ’ ( ऋ० १० | १६१|४| प्रथर्व ० ६ | ६४ | ३ ) इति । हे श्रार्याः ! सज्जनाः ! वः = युष्माकं, श्राकृतिः = संकल्पः - निश्चयः - प्रयत्नः व्यवहारः समानी=सरला-श्रवक्का-कापट्या दिदोषरहिता - प्रेमसद्भावादिस- इत्यनेकार्थः । द्गुणविभूषिता एकविधा श्रस्तु = भवतु । तथा वः = युष्माकं, हृदयानि = श्रन्तःकरणानि, समानानि न तु विषमाणि - राष्ट्र- गौरवस्वातन्त्र्याभ्युदय विच्छेदकानि भवन्तु, किन्तु तत्सम्पादकानि समभावप्रेमभावोपेतानि सन्तु । ‘समानो मन्त्रः समितिः समानी, समानं मनः सह चित्तमेषाम् ( ऋ० १०।१६१।३ ) इति । । स्वातन्त्र्यपारतन्त्र्ययोः इष्टानिष्टत्वम् १२६ मन्त्रः = गुप्तभाषणं गुप्तयोजना च, समानः एकविधः समान- रूपेण समाज राष्ट्र हितसंपादकः, न त्वनेकविधो भवतु । यद्वा- इष्टलाभायानिष्टनिवारणाय च जपनीयः स्मरणीयः परमेश्वरस्य गायत्र्यादिरूपो मन्त्रोऽपि समेषामार्याणां भारतभूवास्तव्यानां समान एव भवतु, न तु विभिन्नः । समितिः सभा-परिषत्- विचारगोष्ठी, समानी = एकरूपाऽस्तु । एकस्यामेव समितौ समभावेनैवोत्तमाधम भावरहिताः संमिलिताः सन्तो भवन्तो राष्ट्रहित विचारायावतिष्ठन्ताम् । मनोऽपि मननविचारसाधनं भवतां समानमेव भूयात् । तथा चित्तं = मननादिजं ज्ञानमपि, सह = सहितं समानार्थलाभसंपादकत्वेन - एकीभूतमेव, एषां= भवतां - एकस्मिन्नेव राष्ट्रहितकार्ये सह प्रवृत्तानाम् । एवं भगवतो वेदस्य पक्षपातरहितसमभावबोधकं सदुपदेशं श्रुत्वा मत्वा च दुःस्वार्थ- दुरभिमान- मौढ मूलकाः विशेषप्रयो जका राष्ट्रगौरवस्वातन्त्र्यविघातकाः निखिलाः तुच्छा विषमा दुर्भावा: सद्योऽपसारणीयाः, मिथः प्रेमसद्भावमूलकं स्तुत्यं सकलाभ्युदयसाधकं संघट्टनमैक्यं संपादनीयम् । प्रान्तीयभाषा- वान्तरधर्मव्यवहारादेः कथञ्चित् गौणे भेदे सत्यपि सर्वेरप्याय्यै- हिन्दुभि: प्रशस्तं वैदिकं समनुगतं सनातनधर्ममवलम्ब्य विरोध- प्रयोजकाः मिथ्यासंप्रदायभेदा निवारणीया इति । स्वातन्त्र्यपारतन्त्र्ययोः इष्टानिष्टत्वम् संघट्टन प्रेमसद्भावादिसद्गुणानामभावात् बिच्छेदानंवयद्वेष- र्ष्यादिदुर्गुणानां सद्भावाच्च परतन्त्रस्य भारतराष्ट्रस्य तत्समाजस्य तद्धर्मस्य च महती दुर्दशा जाता । श्रतः पारतन्त्र्येण तुल्यं नास्ति किमप्यसह्यं दुःखम् नास्ति किमपि निन्दनीयं मौढधम्, नास्ति किमपि तिरस्करणीयं लाघवम्, ततोऽप्यधिका च नास्ति काप्यु- १३० चातुर्वर्ण्य - भारत - समीक्षा ब्रेजिका हानिः । एवं राष्ट्रसमाजादेः स्वातन्त्र्येण समानं नास्ति किमपि विमलं सुखम्, स्तुत्यं बुद्धिमत्त्वम्, प्रशस्तं गौरवं, प्रभी- प्सितो लाभो वा । यवाह कश्चन विद्वान्- ‘सुखं परं किं ? निजत- स्त्रतैव दुःखं परं किं ? परतन्त्रतैव । वनेषु कीराः सुखिनो भवन्ति, दीनाः पुनः काञ्चनपञ्जरेषु ।।’ इति । परन्तु तत्स्वा - तन्त्र्यं विनय विवेकसंयमत्यागसर्वभूतहित रतिप्रभृति सद्गुणं- विभूषितं स्यात् । श्रत एव भगवता मनुनाऽपीत्थं समुपदिष्टम्- ‘सर्व परवशं दुःखं, सर्वमात्मवशं सुखम् । एतद्विद्धि समासेन लक्षणं सुखदुःखयोः ॥’ (म० स्मृ० ४। १६० ) इति । परवशं = पराधीनत्वं- पारतन्त्र्यमित्यर्थः, श्रात्मवशं = स्वाधीनत्वं स्वातन्त्र्य- मित्यर्थः । म्लेच्छबादशाहानां दौष्टयम्, हिन्दुराजानाञ्च दौर्बल्यम् श्रत एव विदेशीयस्य विधर्मिणो म्लेच्छबादशाहस्य भारत- शासकस्यातीवाधीनाः सन्तः, तद्भयेन सर्वथा सदा व्यथामनु- भवन्तो भारतस्य तत्तल्लघु प्रदेशशासकाः क्षत्रियाः सिंहोपनाम दधाना श्रपि तदानींतनाः राजानः कीदृशाः निर्बलाः स्वप्रशस्त- कुलधर्मादिगौरवशून्या अभूवन् इतीतिहासः तेषां वृत्तं प्रदर्शयति । बादशाहेन षष्टिवर्षोयेण वृद्धेन पलितमुण्डेन श्मश्रुवादितीक्ष्ण- शुभ्रकेशसमुपेतेन दुष्टेन ते राजानः इत्थं समाज्ञप्ताः भवन्ति- ‘भवतां प्रासादे वर्तमानानां भवदीयानां सौन्दर्यलावण्या दिसमुपे- तानां गौररूपवतीनां षोडशादिवर्षीयाणां कुमारीणां मया सह विवाहः सपद्येव विधातव्यः, नो चेत् भवतां लघुराष्ट्र विनष्टं भविष्यति । श्रतः स्वलघुराष्ट्र रक्षणाय स्वसंपत्तिपरित्राणाय च मया वृद्धेनापि बादशाहेन सह भावत्कयुवतिकुमार्याः विवाहो विधेय एवेति’ । तत्पराधीनाः श्रत एव तद्भयेन भीताः स्वराष्ट्र- हिन्दुदेवालयध्वंसादिकम् १३१ तत्कार्यमनिच्छन्तोऽपि संपत्याविरक्षणकामाः जयपुरजोधपुरादिराजाः महादुःखकरं स्वक्षत्रियजातिप्रशस्तगौरव विघातक गंगाप्रवाहे स्वदेहं विनिक्षिप्यात्मघातमपि विदधुरिति, इतिवृत्तं काः । ● केचन राजानः एवं कर्तुमशक्नुवन्तः स्वकुमार्या सह प्रायः सर्वेऽपि भारतसमालोचकाः जानन्त्येव । हिन्दुदेवालयध्वंसादिकम् एवं विदेशीयैर्दुष्टैः - म्लेच्छ्र्बादशाहहिन्दूनां भारतभूमौ स्थितानि पवित्रतीर्थभूतानि बहूनि मन्दिराण्यपि विध्वस्तान, समाराध्याः श्रद्धेयाः देवमूर्तयोऽपि खण्डिताः । श्रीमहादेवस्य द्वादशज्योतिलिङ्गेषु प्रग्रतो गण्य सौराष्ट्र स्थितं सोमनाथ- मन्दिरमपि एकवारं नहि चतुर्दशवारं तैविध्वस्तम् । धार्मिकाः ध्वस्तानां मन्दिराणां पुनः पुननिर्माणं कुर्वन्त ग्रासन् ते च दुष्टाः यवनाः नीचाः ‘न नीचो यवनात्परः’ इत्यभियुक्त- स्मरणात् पुनः पुनस्तानि विध्वस्तानि चक्रुः । तेषां दुष्टानां दौरात्म्यस्य नास्ति काचन सीमा । ‘किमकार्यं दुरात्मनामि’ त्युक्तवात् । एवं वाराणसी स्थितस्य काशीविश्वनाथस्य ज्योतिर्लिङ्गस्यापि तैः पावनं मन्दिरं विनाश्य, तत्स्थले निर्मितं मस्जिदं हिन्दूनामार्यारणां निर्वीर्यतायाः प्रतीकभूतं सदद्यापि वर्तमानं धार्मिकाणां हृदयानि प्रसभं समुद्वेजयति, तद्विध्वस्त- मन्दिरस्याभिमुखस्थितो विशालो नन्दीगणः पाषाणनिर्मितो वृषभोऽपि संप्रति मंदिरं नहि मस्जिदमेवावलोकयन् तत्र त्यानां प्रचुराभिमानभरितानां पण्डितानामुपहासं कुर्वनिवास्ते । एवं महादुष्टः - श्रौरंगजेब बादशाहः मथुरायामयोध्यायाञ्च पुर्या वर्तमानं त्रिंशत्कोटयधिकरूप्यकै विनिमितं सर्वेषां हिन्दूनामतीव श्रद्धास्पदं श्रीकृष्णजन्मस्थलमंदिरं, श्रीरामजन्म- १३२ चातुर्वर्ण्य - भारत - समीक्षा स्थलमन्दिरञ्च विनाश्य तत्तत्स्थले मस्जिदमेकैकं श्रद्यापि प्रत्यक्षतो वर्तमानं विनिर्मितवान् । हिन्दुसमाजस्य दैन्यम् तदानींतनाः कीदृशाः दुर्बलाः परस्परं विच्छिन्नाः संघश- शून्या: मृनिमितजडमूर्तिसदृशाः त्रिंशत्कोटिसंख्याका पि निष्प्राणाः हिन्दव श्रासन् । स्वसमक्षं दुष्टनिमितधर्मध्वंसलीलां मूका इवान्धा इव, बधिरा इव अब्रुवन्तः श्रृण्वन्तः प्रपश्यन्तश्च सन्तः मृतप्राया इव न किमपि प्रतीकारं कर्तुमशक्नुवन् । तदा वक्तुमशक्यं कुणपमुखे प्रतिभासमानमिव गर्हणीयं दैन्य सर्वत्र विप्रसृतमासीत् । तदा हि गंगा च यमुना च स्वविलोलतरङ्गः स्वप्रभूतशोकाश्रूणि विमुञ्चन्तीव प्रवाहिताऽभूत्; तत्तत्तीर्थानि च रोदमानानीव समजायन्त | ‘ब्रह्म सत्यं जगन्मिथ्येति ब्रुवाणाः संन्यासिनोऽपि तद्द्रष्टुमशक्यं दृश्यं दृष्ट्वा हाहाकारमकार्षुः । कृष्ण ! कृष्ण ! रामरामेति केवलनामजपपरायणाः साधवः राम- कृष्णयोर्मानुषविग्रहयोः शत्रुपराजयशीलं पराक्रममस्मरन्तः श्रृगाला इव भयभीतहृदयाः सन्तः पलायमाना अभूवन् । तदा तु हिन्दूनामार्याणां नाडीषु प्रोष्णं रक्तं शोणितं न प्रवाहि- तमासीत्, अपि तु मलीनं सदुर्गन्धं जलमेवेति मन्ये । पावागढनिरीक्षणम् गुर्जरदेशस्थपावागढस्थितस्य श्रीकालिका मंदिरस्यापि शक्तिपीठेषु प्रधानतया गण्यमानस्य म्लेच्छे र्यवनैः कालीदेवी- मूर्तिरपि विध्वस्ता, कथञ्चिदवशिष्टं तन्मूर्तिशिरः क्षतविक्ष- तमपि संप्रत्यप्यवलोक्यमानं समर्च्यमानञ्च वर्तते । परन्तु दभिनः पाखण्डिनः पुजारिगणाः इत्थं विपरीतं कथयन्ति - ‘कुपि - तया देव्या सहसा भूप्रवेशो विहितः कस्यचिद्भक्तस्य महत्या भारत एवानन्यसाधारणोदाहरणरूपः १३३ प्रार्थनया देव्याः शिरोमात्रमेव दर्शनायावशिष्टमस्ति । इति ।’ तं दुष्ट स्तनमन्दिरस्य शिखरं विनाश्य, तत्र परिशिष्टे शिखरे कस्यचित् मुसलमानपोरस्य दरगाहो विनिर्मितः । मन्दिरस्याधी- भागे देवी विराजते, तदुपरि शिखरे च सः कल्पितः पीरो म्लेच्छः कबररूपेणावतिष्ठते । संप्रत्यपि मूर्खाः पुजारिणो ब्राह्मणाः कालीशिरोदर्शनाय समागतान् हिन्दुनरनारीबाल युववृद्धान् समादरेण कथयन्ति एतस्य मंदिरस्य शिखरे यवनः पीरोऽपि विद्यते, तेन सह देव्याः गाढमंत्रीभावो वर्तते । श्रत एव तया प्रेम्णा स्वशिखरोपरि तस्य निवासस्थानं दत्तम् । तत्र मुसल- मानपुजार्यप्यस्ति तस्य दर्शनमपि भवद्भिः कर्तव्यमेव, कापि भेटपूजा तत्रापि कर्तव्या । तद्दर्शनेन सकलाः मनोरथाः सिद्धय- न्तीति । पावागढमंदिरं गतानामस्माकं हृदये तदा महती लज्जा, प्रभूतश्च खेदः समजायत । कीदृशोऽयं गौरवशून्यो विवेकबुद्धि- रहितो निर्लज्जो हिन्दुसमाज: ? । यद्वा तद्वा किमपि कथितं सत्यमेव मनुते । उपरिस्थितस्य पीरस्याधः स्थिता देवीमूर्तिः कीदृशी जातेति वक्तुं जिह्वाऽपि प्रभूतां लज्जामनुभवति । भारत एवानन्यसाधारणोदाहरणरूपः नान्यत्रोपलभ्यते, एतादृशमुदाहरणम्-यथा भारतदेशः । यत्र किलान्यदेशीयाः विजातीयाः विधर्माण:, भारतस्योपरि समाक्रमणं विधाय विच्छिन्नान् परस्परं कलहायमानान् हिन्दु- राजान् विजित्य, भारतं स्वाधीनीकृत्य तस्य धर्मस्थल संस्कृत्या- दिकं विध्वंस्य तन्निवासिनामुपेरि स्वच्छन्दं शासनं चक्रुः, ते च दीनाः होना: रंकाः वराकाश्च सन्त:, तेषामग्रे विविधं दैन्यं प्रदर्श्य, तान् स्तुत्यादिभिः, स्वकन्यादानादिविविधोपहारैश्च१३४ चातुर्वर्ण्य - भारत - समीक्षा प्रसाद्य, ‘प्रजाविसारमेयादिसंघवत्’ तच्छासनश्रृङ्खलाबन्धनम- भीष्टतया स्वीचक्रुरिति । अन्यः कोऽपि देशः स्वगृह एव स्वभूमावेव परकीयं विविधं शासनं बन्धनं गौरवविघातकं गर्ह्यमनिष्टञ्च मौनभावेनाङ्गी- कृत्यावस्थितो नाभूत् । एक एव भारतदेशः एतादृशप्रभूतलज्जा- जनकोदाहरणस्य विषयोऽभूत् । सहस्रवर्षपर्यन्तं बाह्या: विजा- तीयाः विधर्माण: भारते विशालगृहेऽस्माकं संप्रविश्य, तत्र स्वस्वामित्वं संस्थाप्य तद्गृहस्थितानां सर्वस्वं स्वसंस्कृतिधर्म- गौरवादिकं युवतिकन्यावध्वादिकञ्च बलात्कारेणापहृत्य तान् सर्वथा पराधीनान् प्रकुर्वन् । नेतावदेव, किन्तु तान् विधर्मणः कृत्वा स्वदेशबन्धुधर्म संस्कृत्यादिविरोधिनोऽकुर्वन्निति । अत एव ते दशकोट्यधिकाः विकृताः स्वबन्धवः, भारतभूमित एव समुत्पन्नास्तत्रैवावस्थिताः, तयैव संजीविताः भारतं नैव स्वदे- शतया पवित्रतया च मन्यन्ते, किन्तु अरबादिविदेशमेव, श्रन्य- देशीय भाषाभूषा संस्कृत्यादिकं स्वकीयत्वेन, भारतभाषाभूषा- संस्कृत्यादिकन्तु परकीयत्वेन च मन्यन्ते । किमाश्चार्यमतः परम् । क्षत्रियाणामपि विवेकविचारहीनता मुसलमानबादशाहसैन्येषु प्रायः शूरवीराः क्षत्रियाः हिन्दवः एव सम्मिलिता श्रासन् । त एव स्वबन्धूनां हिन्दूराजानामुपरि समाक्रमणं विधाय तैः सह युद्धमकुर्वन् । यथा महाराणाप्रताप- सिंहस्य समक्षं युद्धाय तदीयः सहोदरो लघुभ्राता शक्तिसिंह एव सन्नद्धोऽभवत् । एवं परस्परं द्वेषेर्ष्यावंरादिदोषेभ्यो हेतुभ्यो विच्छिन्नाः क्षत्रिया एव क्षत्रियैः सह युद्धकरणविषये विविधा दृष्टान्ताः भारतेतिहासे समुपलब्धाः सन्ति । यथा जयचन्द्र- चरित्रशिक्षणसमालोचना १३५ पृथ्वीराजादयः । तेष्वयमेकोऽस्ति दृष्टान्तो लज्जास्पद :- गुर्जर - देशराजः पट्टणाधीशः सिद्धराजो जर्यासहः-यां सौराष्ट्रस्थितजी- गंदुर्गपत्तनस्य राजा विवाहितवान्, तस्याः राणकदेव्याः सुन्दर्याः कच्छदेशराजकुमार्याः कृते महद् युद्धं चकार, तेन स जीर्णदुर्गस्य समग्रं राज्यं नष्टं भ्रष्टञ्चाकरोत् । राणकदेव्याः पति राजानं लघुपुत्रांश्च मारितवान् । तया सत्या चिताग्नौ प्रविष्टया तस्मायपरिहार्यः शापो दत्तः, तवापि सर्वस्वं विनष्टं भविष्यति, त्वमपि च महतीं दुर्गंत प्राप्स्यसीति । श्रनेन स्वक्षत्रियबन्धु- विनाशकारिणा युद्धेन गुर्जरराजेन कि लब्धं ? यस्याः कृते युद्ध- मीदृशं कृतं, स्वसैन्यादिक्षतिरपि संपादिता, सा सुन्दरी तेन लब्धा किम् ? कीदृशं तस्य बुद्धिमत्त्वं किं वा स्वशासितप्रजानामनेन कश्चोपकारः सम्पन्नः ? कीर्तिः समुपार्जिता ? इति विचारणीयम् । चरित्रशिक्षणसमालोचना मौढ्यम् ? कीदृशी च तथापि - श्रत्रत्याः पण्डिताः स्वान् हिन्दुसमाजस्याग्रगण्यान् मन्यमानाः ‘एतद्देशप्रसूतस्य सकाशादग्रजन्मनः । स्वं स्वं चरितं शिक्षेरन्, पृथिव्यां सर्वमानवाः ।।’ (म० स्मृ० २।२० ) इति मानवशास्त्रवचनमतिगर्वेण कथयन्तो लज्जाशीला न भवन्निति महदाश्चर्यम् । परतन्त्रतायाः म्लेच्छकृत दुर्दशायाश्च चरितं यद् भारताग्रजन्मभिरप्युपभुक्तं, तच्छष्य क्षत्रियवैमनस्य मौढच- लक्षणञ्च तत्कि शिक्षेरन् ? समग्रपृथिवीनिवासिनो निखिलाः मानवाः इति न विचारयन्ति । तत्र तावदवलोक्यतां बंगादिदेशचरितम् । तत्रत्याः ब्राह्मणादिहिन्दवः उत्तमवर्णाभिमानिनः कदापि कुत्रापि विधवा- इतिशास्त्रवचनमनुसृत्य विधवाविवाहे विवाहो न कर्तव्यः’ १३६ चातुर्वर्ण्य भारत समीक्षा fafe प्रभूतं पापं स्वप्रशस्त कुलगौरव विघातकममन्यत । परन्तु ताः एव विधवाः रमणीः युवती: दुष्टाः म्लेच्छाः अपहृत्य स्वोपभोग्याः स्ववधूः प्रकुर्वन्, ताभ्यश्च क्षेत्रभूताभ्योऽपत्यानि भूयांसि हिन्दुधर्मसंस्कृतिगौरवादिविघातकानि म्लेच्छरूपाणि उत्पादयामासुः इत्यत्र किमपि पापं नापश्यन् । प्रत्युत स्वगृहे- व्यवस्थिताः भारभूताः विधवा एव समुद्वेजकं महत्पापं म्लेच्छ- कृतहरणद्वारा विनष्टमिति समीचीनमभूदिति बुद्धिशालिनो हिन्दुधर्म रहस्य वेत्तार उच्चवर्णाभिमानिनो हिन्दवोऽब्रुवन्, महान्तं सन्तोषञ्च प्राकटयन्निति । श्रत एव बुद्धिशालिनां निवासभूते बंगदेशे हिन्दुभ्योऽप्यधिकाः म्लेच्छाः हिन्दुविधवाभ्य एव संभूताः सन्तः - बंगभंगस्य पाकिस्ताननिर्माणस्य च कारणत्वं भजमानाः प्रासनिति सर्वेऽपि प्रायः तत्रत्यमितिवृत्तं जानन्त्येव । विधवासमीक्षा तथेदं तावद्विविकेन निर्धारणीयम् । यद्यपि विधवाविवाहः शास्त्रदृष्टद्या- एक कलासदृशं लघुपापमस्ति, परन्तु व्यभिचार- म्लेच्छहरणादिकन्तु षोडशकलातुल्यं महत्पापमस्तीति निर्विवा दम् । महतः पापस्य निवारणाय लघुपापकरणमिष्टमेव नानिष्टमिति तत्रत्याः प्राक्कालिकाः धर्मसंमूढचेतसो जना नाविदनिति । प्रत एवायमस्ति प्रसिद्धः प्रवादः - ‘सर्वनाशे समुत्पत्रेऽधं त्यजति पण्डितः ।’ इति प्रर्थात् श्रर्धरक्षणाय सर्वनाशं संपादयति यः स मूर्ख इत्यर्थः । अतः ‘महापापं परिहर्तुं लघु पापं समाययेत ।’ इति प्रर्थात् लघुपापनिवारणाय महत् किमाश्रयेत् ? मेत्यर्थः । पापं यद्यपि वैधव्यमस्ति संयमत्यागादिमण्डितं प्रशस्त संन्यास- धर्मसदृशं समादरणीयं महाधर्मभूतम् । प्रशस्तस्यास्य धर्मस्य विषयवासनाप्राबल्यम्, विविधोदाहरणानि १३७ पासनं सन्महत्त्वं ज्ञात्वैव संयमसद्विचारशीलाः भगवदाराधकाः विधवावेव्य एव कर्तु ं शक्नुवन्ति । न सर्वाः, यथा संन्यासधर्मस्य । यास्तु बहिर्मुखाः युवतयो विधवाः स्वगृहेऽपि स्वाभाविक विषया- सक्तिविवर्धकान् समाकर्षकोच्छृङ्खल रूप रसशब्दस्पर्शादिव्यवहा- रात् बहिस्तु ( सिनेमादौ ) चलचित्रादौ प्रश्लोलान् तान् सतत- मनुभवन्ति । ताः वैधव्यधर्मपरिपालने कथं समर्थाः भवेयुः ? विषयवासनाप्राबल्यम् शब्दादिविषयोपभोगवासनायाः प्राबल्यन्तु सर्वेः मनुजैः कि ? प्राणिभिरप्यनुभूयत एव । यदा हि लब्धसंन्यासवैराग्य- धर्मपालनदीक्षाः संन्यासिनो विरागिणः साधवोऽपि मठादिसंपत्ति- मासाद्य स्वधर्मात्पतिताः भूत्वा लक्षाधिकाः पुत्रकलत्रादिमन्तो गोस्वामिनः संयोगिनो गृहस्था बभूवुः । तदा वराकीणां विधवा- नान्तु का कथा वक्तव्या भवेत् ? । अपि च पतिहीनां युवत विधवां सर्वेऽपि विषयलोलुपाः जनाः प्रार्थयन्त एव तदुक्तं - ‘उत्सृष्टामिषं भूमौ प्रार्थयन्ति यथा खगाः । प्रार्थयन्ति जनाः सर्वे पतिहीनां तथा स्त्रियम् ॥’ ( म० भा० श्रादिपर्वणि० १५८ ।१२ ) इति । विविधोदाहरणानि श्रत एव बहिर्मुखा युवतयो विधवाः विषयवासनापूर्तय एव स्वेच्छयैव स्वकुलमर्यादाविरुद्धमपि यत्र तत्र स्वसम्बन्धं गुप्त- रूपेण वा प्रकटरूपेण वा योजयामासुः योजयन्ति च । यथाहि- रावलपिण्डिपत्तने बङ्गदेशीयमुख्योपाध्यायस्य काचन युवतिः विधवा पुत्री, हिन्दुपंजाबीरजकस्य गृहे तत्पत्नीरूपेण वर्तमानाऽ- स्माभिरवलोकिता । सा च प्रत्यहं श्रद्धया कथाश्रवणाय तत्स्थ- लमाजगाम । ग्रस्मानुपेत्य तया मन्त्रवीक्षाऽपि गृहीता । एकबा १३८ चातुर्वर्ण्य भारत समीक्षा तया स्ववृत्तान्तो निखिलोऽपि निवेदितः । भूतपूर्व विगतं पति स्मृत्वा सा विला बभूव । परन्तु श्रयं रजको ममाभिनव: पतिः मां न किमपि कष्टं ददाति, सुखमेव ददातीत्युक्तम् । गुर्जर देशस्थस्तम्भतीर्थे च काचन मृतस्य नागरब्राह्मणस्य विधवा युवति: मुसलमानाफसरस्य गृहे तद्वधूरूपेणावस्थिता सती भूयांस्यपत्यानि जनयामास तेष्वेको युवा पुत्रः केनचित् श्रेष्ठिना सहास्मत्समीपे समागतः तेनास्य पुत्रस्य माता तु गीतां वासिष्ठं वेदान्तञ्च पठति, धर्मशीलाऽस्तीति तस्याः प्रशंसा विहिता, परन्तु तत्पतिस्तु मुसलमानो विद्यते’ इत्युक्तम् । एवं गुर्जर- देशस्थधोलकापत्तने केचन हिन्दुच्छात्राः श्रस्मत्सकाशं समागत्येत्थं वदन्ति स्म । श्रस्मत्पाठशालायां केचन मुसलमानाः छात्राः श्रस्मान् प्रति एकस्य हस्तस्यार्धाञ्जलि प्रसार्य ददतु भवन्तोऽ- स्मभ्यं पूर्णाः नहि श्रर्धाः दक्षिणाः, यतोऽस्माकं माता ब्राह्मणी विद्यते, तत्पुत्राः वयं इत्युक्त्वाऽस्माकं ते प्रतिदिनमुपहासं कुर्वन्तीति । गुर्जरदेशस्य कस्मिश्चिद् ग्रामेऽस्माभिः स्पष्टतया तथ्यमि- दमवगतम् | कांचन दूरस्थस्य ग्रामस्य युवतिः विधवा ब्राह्मणी मुसलमानगृहे स्वेच्छयैव तत्पत्नीरूपेण समवस्थिताऽभूत् । तत्राल्पीयांसो दरिद्राः मुसलमानाः, भूयांसश्च विशिष्टाः धना- दिसम्पन्ना हिन्दव श्रासन् । तत्कृते द्वयोः समाजयो महान् विरोधोऽभूत् । श्रल्पतरा श्रपि ते मुसलमानाः स्वजनस्य तस्य साहाय्यं विधातुं संघट्टिताः भूत्वा तं रक्षितुं तत्प्रतीकारञ्च कर्तुं सन्नद्धा प्रभवन् । राजकीयन्यायालये हिन्दुभिः कथितं हिन्दुवि- •धवामयं मुसलमानो बलात्कारेणापाहरदिति । न्यायाधीशेन सा विषया पृष्टा- ‘किमत्र तथ्यमिति । तया निर्भयवाचोक्तम्- भवम्, विविधोदाहरणानि १३६ बालविधवाऽहं मम श्वशुरगृहेऽतीव पीडिता दुःखमेव दुःखमन्व- स्वप्नेऽपि न स्वामिनः, न सरसभोजनादेः, न मधुरशब्दा- देश्च सुखमन्वभवम् । कटुत मशब्दत्र हारादिभिः श्रवमान परम्परैव दूयमानेन मनसाऽनुभूता । प्रत्यहमश्रुधाराभिः स्वजीर्णमलिनशाटी श्राद्रकृता । कथमहं वर्णयामि ममावर्णनीयं दुःखम् । अत्र किलाहं सर्वथा सुखमेवानुभवामि । मम शरीरमेव तावदवलो- क्यताम् प्राक् रुग्णस्येवेदमतीव कृशमासीत्, संप्रतीदं पुष्टं स्वस्थं बभूव, तदनुग्रहतोऽहं गर्भिणी जाता । संप्रति पतिसुख- मनुभवामि, सन्तानसुखमप्यनुभविष्यामि । इति । तत्तथ्यं वचः श्रुत्वा न्यायाधीशेन ब्राह्मणेनेदृशो निर्णयो दत्तः सा स्वेच्छयैवात्र मुसलमानगृहे समागताऽस्ति न तत्र लेशतोऽपि तस्य बलप्रयोगो विद्यते । हिन्दुसमाजेमात्र किमपि कर्तुं न शक्यते इति । तन्न्याय्यं वचः श्रुत्वा हिन्दुसमाजः प्रभूतां लज्जामन्वभवत् । तया निर्लज्जया दुष्टयाऽस्माकं गौरवज्ञापकं समुन्नतं मस्तकमव- नतं कृतमित्यभिधाय स तस्यै विविधाः गालीः वदौ । इदमपरमुदाहरणं तावत् पठ्यतां नासिकपंचवटीकुंभोत्स- चावसरेऽस्माभिरियं सत्यघटना तात्कालिको श्रुता । कश्चित् श्रार्यसमाजसनातनधर्मोभयप्रियः प्रामाणिको गुर्जरव्यापारी अस्मत्समीपं समागत्येदं कथयामास । श्रद्यारभ्य मासद्वयात्पूर्वं अस्माभिः श्रुतं कश्चित् बोहरासंज्ञको मुसलमानो सौराष्ट्रस्य हिन्दुयुवतिविधयां समानीतवान् । तया साकममुकमस्जिदेऽमुक- रात्रौ सः यवनविधिना विवाहं करिष्यतीति । वयं चत्वारो हिन्दुयुवानो दण्डादिधराः महाराष्ट्र हिन्दुपुलिसानामपि सहकार समवाप्य तत्समये तत्राकस्मात् प्रविष्टा प्रभूम । किमपि युद्धं विषाय तो बलात् केशकलापेन गृहीत्वा विमोकाय बलप्रयोगं तां १४० चातुर्वर्ण्य भारत- समीक्षा गालिप्रदानञ्च कुर्वतीं उच्चैः रोदितुमिच्छन्तीमपि तन्मुखं पिधाय तां स्वगृहे समानयाम । सर्वत उपरि एकान्ते स्थाने प्रतिरुद्धां तामस्माकं गृहदेव्यः प्रेम्णा समपृच्छन् । भो भगिनि ! काऽसि त्वं कस्मात्स्थानात् समागताऽसि । तव पितरौ भ्रात- रश्च कुत्र सन्ति ? इति । परन्तु साप्तीव क्रुद्धा भोजनं कि ? चायपानमप्यकुर्वाणाऽस्मभ्यं निर्गलगालीप्रदानं कुर्वाणा ततो विमोकाय सहसा धावमाना ‘मां कृपया भवत्यो मोचयन्तु, तेनैव सहावस्थातुमहमिच्छामि स एव मम प्रियो भर्ताऽस्तीति पौनःपुन्येन च ब्रुवाणा रोदमाना च बलात् प्रतिरुद्धा दिवस- चतुष्टयं न किमपि स्वपरिचयमदात् । प्रतिप्रेमप्रदर्शनेनासकृत्पू- ष्टया ‘केनचित्सुन्दरेण सम्पन्नेन हिन्दुयुवकेन सह तव पुनर्विवाह कारयिष्यामो वयं, इत्यादिना प्रलोभितयाऽनिच्छन्त्याऽपि तया ‘अमुकस्य वणिजो विधवा पुत्र्यहं स्वप्रबलेच्छयैवाहं तेन सह समागताऽस्मि मम भ्राता मोहमय्यां नगर्या डाक्टरोऽस्ति मम पिता भावनगरे विद्यते, इत्यादिः परिचयः प्रदत्तः । श्रस्मत्- प्रेषितं तन्मिलनसंवादं समवाप्य तत्पिता तद्भ्रातरश्च तत्र समायाताः, तां गृहीत्वाऽभिजग्मुः । पश्चात् तस्याः का गतिः संपन्नेति वयं न विद्मः इति । श्रनेन बलात्कारेण संयोज्यमानं वैधव्यं कीदृशमनिष्टं संपादयतीति सूच्यते । वयन्तु मन्यामहे - विषयासक्तानां युवतीनां विधवानां स्वसजातीययोग्यविधुरैः सह योजनं तदनर्थापेक्षया वरतरमेवेति । , एवं कलिकत्तानगरे कस्यचित् मरुप्रदेशश्रेष्ठिनो युवतिः विधवा पुत्री चतुविशतिवर्षीया बी० ए० परीक्षोत्तीर्णा माता- पित्रादिभिः स्वजनं: विधवाधर्मपरिपालनाय स्वकुलमर्यादायाः रक्षणाय च पुनः पुनः प्रेरिता सती साऽस्मत्समीपेऽपि कमपि , विविधोदाहरणानि C १४१ सदुपदेशं तस्यै परिग्राहयितुं समानीता । श्रस्माभिरपि सा बहुधा प्रबोधिता । परन्तु तया स्वचक्षुषोः रोषं प्रदर्य - मृतपत्नीका युवानः पुरुषाः कथं न ब्रह्मचर्यं व्रतं परिपालयन्ति ? युवतिभिवि धवाभिः किमपराद्धम् ? मम पितृगृहे श्वशुरगृहे च भ्रातृपत्नीनां भगिनीनां देवर ज्येष्ठ पत्नीनां ननान्दृ णाञ्च विविधयस्त्राभूष- णपरिधान केश विन्यासादिधारणपूर्वकं विलासमय हावभावपरि- हासादिकं तासां मम दुर्भाग्यस्य सूचकान् विलक्षणकटाक्षपातांश्च विलोक्य मम मानसमतीव परिदूयते । कं प्रत्यहं मम प्रभूतां वेदनां निवेदयामि ममाप्यन्तः का अप्यूर्मयः उच्छलन्ति श्रतो हृदयस्य कामप्यव्यक्तां पिपासां, देहस्य च कामपि बुभुक्षां विसंमर्द्याहनिशं नाहं रोदितुमपि वाञ्छामि; प्रतो नाहं वैध- व्यधर्मपालने समर्थाऽस्मि, न चाहं किमपि गुप्तमनिष्टमाचरितु- मभिलषामि । नाहं वराकी संन्यासिनी वा ज्ञानभक्तिवैराग्य- शालिनी वा, किन्तु शिक्षिताऽस्मि ममाभिनवसौभाग्यस्य पुननिर्माणे समर्थाऽस्मि । श्रतोऽहं स्वेच्छयैव पुनर्विवाहं करि ष्याम्येवेति मम दृढो निश्चयः । लज्जावशात् मया पित्रादिभ्यः इत्थं नोक्तं यथाऽत्रोक्तम्, श्रतो भवद्भिः कृपालुभिः मम पित्रा - दयः स्वजनाः ममेदृशभावाभिव्यक्तिद्वारा प्रबोधनीयाः - इत्यभि- हितम् । एवं संख्यातिगाः दृष्टान्ताः यत्र तत्र विशालभारते विधवानां संमिलन्ति । सति चैवं प्रशस्तस्य संयमप्रधानस्यास्य धर्मस्यापि पालनं बलात्कारेण कार्यमाणं विधवानावह्नि- प्रवेशवत् महतेऽनिष्टायापि प्रभवतीति यत्र तत्र विलोक्यत एव । श्रपि च - वर्तमानसमय एव युवतिकामासक्त विधवानां स्वे- च्छातो म्लेच्छगृहनिवासो दृष्टो, न प्राक्काले दृष्ट इति न, १४२ चातुर्वर्ण्य - भारत - समीक्षा किन्तु प्राक्काले धनुर्धरार्जुनसन्निधावपि यादवविषयलोलुपविध- वायुवतीनां बलात् स्वेच्छ्याऽपि चाभीरं म्लेच्छ: हिन्दुभिः सह गमनं दृष्टम् । यथाहि-यदाऽर्जुनः सर्वेषां यादवानां विनाशे सति, द्वारकानर्गयाः समुद्रे विलोपे च सति, परिशिष्टाः यादवविधवाः समादायेन्द्रप्रस्थं प्रति गमनं कृतवान् । तदा मार्गे लुण्टाकाः दस्यवो म्लेच्छाः सम्मिलिता प्रभूवन् । ‘कलत्रस्य बहुत्वाद्धि, संपतत्सु ( म्लेच्छेषु ) ततस्ततः । प्रयत्नमकरोत् पार्थो जनस्य ( यादव बहुकलत्रजनस्य ) परिरक्षणे । मिषतां सर्वयोधानां ततस्ताः प्रमदोत्तमाः । समन्ततोऽवकृष्यन्त कामाच्चान्याः प्रवव्रजुः । जग्मुरादाय ते म्लेच्छाः समन्ताज्जनमेजय ! । धनञ्जयस्तु देवं तन्मनसाऽचिन्तयत्प्रभुः । दुःखशोकसमाविष्टो निःश्वासपरमोऽभवत् । प्रस्त्रार्णा च प्रणाशेन बाहुवीर्यस्य- संक्षयात् ॥ ’ ( महाभारतस्य मौसलपर्वणि० प्र० ७।५८-५६- ६० - ६४-६५ ) इति । मिषतां पश्यतां प्रमदोत्तमाः = मृतानां यादवानां पतिशोकशालिन्योऽपि युवतयः कामिन्यः । काश्चन बलात्, कोश्चनान्याः कामासक्ताः, कामाञ्च = विषयोपभोगा- भिलाषात् स्वेच्छावशाद्वा, तै:- दुष्टैम्लेंच्छैः श्राभीरैः हिन्दुभिः सह प्रवव्रजुः = प्रभिसंजग्मुः, इति । अत एव ये किल हिन्दवो विधवाविवाहं न कुर्वन्ति, त उत्तमाः, ये च कुर्वन्ति, तेऽधमाः, इति वदद्भस्तैः येषां विधवाः मुसलमानादिगृहे गत्वा म्लेच्छसन्तानान् जनयन्ति, ते कीदृशाः भवेयुरिति ? वक्तव्यम् । वृद्धयुवतिविवाहः श्रपि चाधिकविधवायुवतिप्रादुर्भावे कारणमपीदमेकम्- वृद्धयुवतिविवाहः शिष्टविगर्हितः । श्रस्माभि विद्यार्थिदशायां वृद्धयुवतिविवाहः १४३ वाराणस्यां बहुत्र दृष्टं पण्डितानां गृहेष्वपि । एकः कश्चन मैथिलः पण्डितो वृद्धः षष्टिवर्षीयो न्यायशास्त्राध्यापकः, यस्य मुण्डं पलितमेव दृष्टं, दन्ताश्च विशीर्णा अवलोकिताः । तेन विशतिवर्षीया युवत्या सह विवाहो विहितः । वयं तदा तत्समीपे न्यायशास्त्रमध्येतुमगमाम । यदा चास्माभिः तथा श्रुतं वा दुष्ट वा, तदाऽस्मदुहृदयेऽपि महती ग्लानिरजायत । श्रतस्तत्समीपगमनमपि सहसा परित्यक्तम् । एवमेको बंगदेशीयः प्रकाण्डपण्डितोऽवलोकित:, तेनापि वृद्धेन युवतिविवाहः समा- चरितः । यथा युवानो विद्यार्थिनस्तां न पश्येयुः, सा च तान् पश्येत् तथा सः सर्वथा प्रयत्नमकरोत् । एवं एकः कश्चन वृद्धो महान् वैयाकरणः पण्डित आसीत् यः किल पुस्तकमदृ- ष्ट्वैव, व्याकरणमहाभाष्यं परिभाषेन्दुशेखरं शब्देन्दुशेखरं मनो- रमाञ्च कण्ठतोऽध्यापयामास । तेवापि कस्यचित् युवतिकन्या वधूरूपेण समानीता, यदा च पाठशालामध्यापनाय जिगमिषति स्म, तदा तामेकाकिनीमेव स्वगृह एवं ‘कारागारे पादूचरोमिव’ कपास्तालादिभिः प्रतिरुध्यैवागच्छत् । यदा शास्त्रविदां पण्डितानां गृहेष्वीदृशी दशा वर्तते, सदा विविधैश्वर्यसत्तामदोन्मत्तानां राज्ञां विस्तृतभूस्वामिनां धना- दयानां तुन्दिलानां श्रेष्ठिनाञ्च गृहेषु का दशा वर्णनीया भवेत् ? । कीदृशोऽयं वृढयुवतिविवाहलक्षणोऽन्यायो वाऽत्याचारो वा, युवकेन केनापि पण्डितेन प्रसन्नमनसा जर्जरितया वृद्धया साकं विवाहो विहितः, किं ? इति कुत्रापि कदापि दृष्टं वा श्रुतं वाऽस्तीति वर्ण्यताम् । वृद्धेन स्वामिना सह युवत्याः वध्वाः कि पतिस्नेहः प्रादुर्भवति ? | स्नेहं विना सा वैषयिकमपि तुच्छं सुखं लब्धुं शक्नोति किम् ? । एतादृशेनान्यायेनात्याचारेण पीडिता१४४ 1 चातुर्वर्ण्य - भारत-समीक्षा सा वृद्धस्य वाचारम्भणमात्रेण कल्पितस्य तस्य सर्वथा पति- रूपेणानभिप्रेतस्य मरणादनन्तरं वैधव्यं किं यथावत् पालयितुं समर्था भवति ? । अत एव पण्डिताः स्वनिन्दनीयस्वार्थस्य सिद्धये इत्थं समुपदिशन्ति - ‘वृद्धो वा रुग्णो वा कुष्ठी वा होना- ङ्गोऽपि वा । विरूपो वा मूर्खोऽपि पति र्न हातव्यो युवत्या कदाचन, एष धर्मः सनातनः ।।’ इति । ‘वृद्धा वा हीनाङ्गाऽपि वा कुष्टा वा विरूपाऽपिवा । पत्नी न हातव्या यूना पत्यापि कदाचन ॥’ इति कथं न तैः तुल्यन्यायेन समुपदिश्यते । ‘सदृशीं भार्यामुपेयात्’ अर्थात् न तु सदृशं पतिमुपेयात्’ इति श्रौतविधि - वाक्यन्तु समधीताङ्गलविद्याभ्योऽभिनव संस्कारविशिष्टाभ्यो वनिताभ्यः प्रदर्शनीयम् । तास्तु स्पष्टतयेत्थं वदिष्यन्ति - वृद्धः षष्टिवर्षीयः सदृश भार्या वृद्धां षष्टिवर्षीयामुपेयात्, न तु युर्वात विशतिवर्षीयां विसदृशीमिति श्रौतविधिवाक्यार्थ इति । अत एव बलात्प्रतिरुद्धा तस्या मानसक्षुधालक्षणा विषय- वासना, येन केनापि सार्क, उत्तमेन वा ऽधमेन वा म्लेच्छेन वा गन्तुं तां प्रेरयत्येव । तथा चोक्तं द्रौपद्याऽपि पाण्डवमहा- राज्ञ्या- ’ पञ्च मे पतयः सन्ति, मह्यं षष्ठोऽपि रोचते । पुरुषाणाम भावे हि सर्वाः नार्यः पतिव्रताः ॥’ इति । तत्र तस्याः को दोषः ? दोषस्तु प्रागेव वृद्धेन पत्या विहितः । ‘एकस्मात् गुणात् श्रप- रस्य गुणस्य प्रादुर्भाव इव’ एकस्मात् दोषात् अपरोऽपि दोषो नियमतः प्रादुर्भवत्येव । विधवाविवाह उचितोऽप्यस्त्यनुचितोऽप्यस्ति यथा संन्यासधर्मो विरागिणः कृत उचितोऽस्ति, सरागस्य कृते तु सर्वथाऽनुचित एवास्ति । तथा युवतिविधवायाः सका- मायाः विषयासक्तायाः कृते प्रभूतानिष्टनिवारणायः पुनर्विवाहः विधवाविवाह उचितोऽप्यस्त्यनुचितोऽप्यस्ति १४५ उचित एवास्ति । विगतपतिविशेषप्रेमाढ्यायाः विषयोपरतायाः निष्कामायाः सत्संगभक्तिज्ञानादिनिष्ठायाः पुत्रादिसन्तानवत्याः कृते पुर्नाविवाहः सर्वथाऽनुचित एवास्तीति प्रागपि संक्षेपतो वर्णितम् । श्रत एवैतेषां वेदमन्त्राणां गहनगभोरार्थानामुचितानुचि- तोभयविधं व्याख्यानं विद्वांसो विदधति यथाहि - ‘इयं नारी पति- लोकं वृणाना, निपद्यत उप त्वा मर्त्य ! प्रेतम् । विश्वं पुराण- मनुपालयन्ती तस्यै प्रजां द्रविणं चेह घेहि ॥’ (अथर्ववेद. १८ । २|१| ते० प्रा० ६।१।१३ ) इति । तत्र तावदनुचितपक्षं प्रदर्शयाम: - हे मर्त्य ! = मृतमनुष्य ! या नारी = मृतस्य तव भार्याऽस्ति सा पतिलोकं वृणाना = कामयमाना, प्रेतं = मृतं त्वामुपनिपद्यते = समीपे नितरां प्राप्नोति - प्रर्थात् सा त्वां - विगतं पति सततं विशेषप्रेम्णा चिन्तयन्ती सती स्वहृदये ध्यानप्रभा- वात् तव सामीप्यमनुभवति । स्वशरीरत्यागानन्तरं पतिलोके पुनरपि तव साहचर्यमेव कामयते । कीदृशी ? पुराणं विश्वं = श्रनादिकालप्रवृत्तं कृत्स्नं स्त्रीधर्ममनु - क्रमेण पालयन्ती । पति- व्रतानां स्त्रीणां पत्या सहैव वासः परमो धर्मः । तस्यै धर्म- पत्न्यै त्वमिह लोके निवासार्थमनुज्ञां दत्त्वा प्रजां = पूर्वं विद्यमानां पुत्रादिकां, द्रविणं धनं च धेहि-संपादय - वैधव्यधर्मपालनाय पुत्रादिस्वसन्तानरक्षणाय योगक्षेमनिर्वाहकस्वसञ्चितधनसंपा- अनेन निष्कामविधवाया: दनाय च त्वमनुजानीहीत्यर्थः । पुनववाहनिषेध: स्पष्टतः प्रतीयते ।

संप्रति समुचितपक्षं- हे मर्त्य ! = मरणधर्मन् मनुष्य ! इयं पुरोवर्तिनी नारी= युवतिः सकामा स्त्री:, पतिलोकं = पतिगृहं- पतिस्थानं वृणाना = सहधर्मचारिणीत्वेन संभजमाना, १४६ चातुर्वर्ण्य - भारत - समीक्षा पालयन्ती । पुराणं पुरातनं- धर्म - प्रत्यक्षपतिसहचारलक्षणं प्रेतं = प्रकर्षेण - इतं - अस्माद्, भूलोकाद् विनिर्गतं - श्रनु = पश्चात्, त्वा = त्वां उपनिपद्यते = समीपं नितरां गच्छति । श्रत एव त्वं तस्यै सकामायै तव साहचर्यं प्राप्तायं प्रजां = पुत्रादिरूपां सन्तति, द्रविणञ्च घेहि=प्रयच्छ । श्रत्र कि मर्त्यसम्बोधनेन ‘मृतः कथं सम्बोध्यः स्यात् ? । ‘इह’ इति मनुष्यलोकबोधकवचनेन च प्रेतं पति, अनु = पश्चात् त्वामन्यं योग्यं पतिं वृणाना इति योज- नेन च सकामायाः विधवायाः कृते स्पष्टतः पुनर्विवाहः प्रतीयते । सति चैवं ‘मुह्यन्ति यत्सूरयः’ ( भा० १1१1१ ) इति यत् श्रीमद्भागवतेऽभिहितं तत्समीचीनमेव । यत् = यस्मिन् - वेदार्थ- विवेचने, सूरयः = प्रगल्भपण्डिता अपि किमयमर्थः साधुरसा- घुर्वेति निर्णेतुं न प्रभवन्तीति यावत् । ‘उदीर्ष्व नार्यभि जीवलोक मितासुमेतमुपशेष एहि । हस्त- ग्रामस्य दिधिषोस्त्वमेतत्पत्युर्जनित्वमभिसंबभूथ || ( ऋ० १०१ १८२८ । प्रथर्व० सं० १८।२।२। तै० प्रा० ६।१।१४ ) इति । हे नारि ! इतासुं = इताः = गताः प्रसवः - प्राणाः यस्मात् तं गतप्राणं मृतमेतं पतिमुपशेषे = उपेत्य शयनं करोषि । अर्थात् मृतर्पात प्रागनुभूतं विषयोपभोगप्रदं तत्सामीप्यञ्चानुस्मृत्या- सहायभूता शोकेनाभिभूता च सती शय्यायां पतिताऽसि । श्रत- स्त्वमस्मात् मृतपतिस्मरणलक्षणात्समीपात् उत्तिष्ठ । तं विहाय नीवलोकमभि = जीवन्तं योग्ययुवकमानवसमूहमभिलक्ष्य एहि = आगच्छ । त्वं हस्तग्राभस्य = पाणिग्राहवतो दिधिषोः = पुनववा - हेच्छो द्वितीयस्य पत्युः, एतत् जनित्वं = जायात्वं भार्याभावं, प्रभिसंबभूथ = प्राभिमुख्येन सम्यक् प्राप्नुहि । सति चैवं दिधि- षोरस्तीवृशी व्युत्पत्तिः- द्विरूढायाः - द्वितीयवारं विवाहितायाः १४७ विधवाविवाह उचितोऽप्यस्त्यनुचितोऽप्यस्ति स्त्रियाः स्वामी पतिः दिधिषुः । ‘भ्रातुर्मृ तस्य भार्यायां योऽनु- रज्येत कामतः । धर्मेणापि नियुक्तायां स ज्ञेयो दिधिषूपतिः ॥ ’ इति । अस्य मन्त्रस्यायमेवार्थः तैत्तिरीयारण्य के सायणाचार्यादि- वेदभाष्यकारैरभ्युपगतः । तथा मेधातिथिना भाष्यकारेणापि समर्थितोऽस्ति । श्रत एव सकामायाः विधवायाः कृतेऽयं मन्त्रः पत्यन्तरविधायकोऽस्तीति निश्चप्रचम् । अयमेकः समुचितः पक्षः । इदञ्चास्ति - अनुचितपक्षस्यान्य- द्वयाख्यानम् - हे नारि ! = मृतस्य पत्नि ! जीवलोकं = जीवानां पुत्रपौत्रादीनां लोकं = स्थानं गृहमभिलक्ष्य उदीर्ष्व = अस्मात् स्थानादुत्तिष्ठ । “ईर गतौ” प्रादादिकः । इतासुं = गतासुं अपक्रान्तप्राणं, एतं पति उपशेषे = तस्य समीपे स्वपिषि | तस्मात्त्वम्, एहि = प्रागच्छ, यस्मात्त्वं हस्तग्राभस्य = पाणिग्राहं कुर्वतः, दिधिषोः = गर्भस्य निधातुः, तव अस्य पत्युः सम्बन्धा- दागतं, इदं जनित्वं = जायात्वमभिलक्ष्य संबभूथ = संभूतासि- अनुमरणनिश्चयमकार्षीः, तस्मात्तन्निश्चयं विहाय पुत्रादि- सन्तोषायागच्छ इति । ‘अपश्यं युवति नीयमानां जीवां मृतेभ्यः परिणीयमानाम् । अन्धेन यत् तमसा प्रावृताऽऽसीत् प्राक्तो अपाचीमनयं तदेनाम् ॥ प्रजानत्यघ्न्ये ! जीवलोकं देवानां पन्थामनुसंचरन्ती । श्रयं ते गोपतिस्तं जुषस्व स्वर्ग लोकमधिरोहयैनम् ॥’ (अथर्व ० १८३ २। ३-४ ) इति । इदमचितपक्षे व्याख्यानम् - युवति = यौवन- मदोन्मत्तां, जीवां=जीवन्तीं - ग्राम्यसुखेन सह जीवितुमभिल- षन्तों, मृतेभ्यः - नीयमानां त्यक्तप्राणेभ्यः - मृतपतिसकाशादति- दूरे प्राप्यमाणां परिणीयमानां तत्प्रबलेच्छामनुरुध्यान्येन तरुणेन तथा स्वीकृतेन पत्या सह परिणयेन - विवाहेन संयुज्य- १४८ चातुर्वर्ण्य - भारत-समीक्षा मानां श्रहं मन्त्रद्रष्टा महषि: अपश्यं = पश्यामि श्रवलोकया- मीत्यर्थः । यत् यस्मात् या विधवा नारी प्राक् प्रन्धेन तमसा- ज्ञानशोकादिलक्षणेन प्रावृता = प्रकर्षेण वेष्टिता समाक्रान्ता श्रासीत्, तत् = तस्मात्, तामेनां, अपाचीं = मृतपतिसकाशात् अपाङ्- मुखीं पराङ्मुखीं कृत्वा,अर्थात् अस्मदभिमुखों, प्राक्तः = पूर्वदेशात्, प्रगतिशीलो वा अनयम् = प्रापयामीत्यर्थः । हे अघ्न्ये! ग्रहन्तव्ये ! . तदभिलषित विषयसुखहननायोग्ये ! जीवलोकं = जीवतां युवक- युवतीनां लोकं = मिथः स्नेहसुखार्पणादिपूर्वकं दर्शनं ‘लोक दर्शने स्मरणात्’ प्रजानती = प्रकर्षेण तल्लाभेच्छाजनकज्ञानयुक्ता सती, देवानां मिथुनेन सञ्चरतां पन्थां मार्ग, अनुसञ्च- रन्ती = सदाऽनुसरणं कुर्वती, अयं = समक्षं वर्तमानः गोपतिः = गवामिद्रियाणां पतिः समर्थस्तरुणस्तव पाणिगृहीता द्वितीयः स्वामी वर्तते, तं जुषस्व = प्रीत्या सेवस्व । एवं ग्राम्यसुखादि- प्रदानेन स्वर्ग लोकं तत्र त्वमधिरूढा सती तं पतिमपि श्रधिरोह- येत्यर्थः । कामिकामिन्योविषय सुख तल्लीनतैवात्र स्वर्गाधिरोहः प्रत्येतव्यः । एवमनुचितपक्षोऽपि कथञ्चित् विद्वद्भिर्व्याख्येयः, विस्तरभयादुपरम्यते । =3 एवं ‘विधवेव देवरम् ।’ ( ऋ० १०।४०।२ ) ’ देवर: कस्माद् द्वितीयो वर उच्यते’ (निरु० अ० ३।१५) ‘नारी तु पत्यभावे वै देवरं कुरुते पतिम् ।। (म० भा० १३ | १२।१९ ) इत्यप्यनुसंधेयमुचितपक्षे । यथा विधवा = मृतभर्तृका नारी देवरं=भर्तृ भ्रातरं संभोगलाभायाभिमुखीकरोति तद्वदित्यर्थः । अर्जुनस्य विधवाविवाहस्ततः पुत्ररत्नोत्पत्तिश्च महाभारतस्य भीष्मपर्वणि नवतितमे - ( ६० ) ऽध्याये किलेदं वर्ण्यते- ‘अर्जुनस्य सुतः श्रीमान्, इरावान् नाम वीर्य- अर्जुनस्य विधवाविवाहस्ततः पुत्ररत्नोत्पत्तिश्च १४६ वान् । सुतायां नागराजस्य जातः पार्थेन धीमता ।।७॥ ऐरा- वतेन सा दत्ता श्रनपत्या महात्मना । पत्यौ हते सुपर्णेन कृपणा दीनचेतना ||८|| भार्यार्थं तां च जग्राह पार्थः कामवशानु- गाम् । एवमेषः समुत्पन्नः परपक्षेऽर्जुनात्मजः || || सुपर्णेन = गरुडेन । पतिवियोगे सति युवतिविधवाया: श्रपत्यरहितायाः कृपणात्वदीन चेतनात्वविशेषणाभ्यां दासदासीसरसभोजनोत्तम- निवासप्रभूतधनादिप्रयुक्त सुखसस्वेऽपि पतिप्रयुक्तप्रकृष्टसुखा- भावात् प्रभूतदुःखानुभवलक्षणा दुर्दशा सूच्यते । कामवशानु- गामिति विशेषणेन कामासक्तायास्तस्याः पुनर्विवाहोऽर्जुनवत् समुचितत्वात्समादर्तव्य इति बोध्यते । ‘परपक्षे समुत्पन्नः’ इत्यनेनासवर्णविवाहोऽपि द्योत्यते । श्रर्जुनस्यार्यवर्णत्वात् तस्याः नागराजसुताया: तद्भिन्ननागवर्णत्वात् तयोरसवर्णत्वम् । ‘स नागलोके संवृद्धो मात्रा च परिरक्षितः || १० ।। रूपवान् बल- सम्पन्नो गुणवान् सत्यविक्रमः । इन्द्रलोकं जगामाशु, श्रुत्वा तत्रार्जुनं गतम् ॥ ११ ॥ सोऽभिगम्य महाबाहुः पितरं सत्य- विक्रमः । श्रभ्यवादयदव्यग्रो विनयेन कृताञ्जलिः ॥ न्यवेदयत चात्मानमर्जुनस्य महात्मनः । इरावानस्मि भद्रं ते पुत्रश्चाहं तव प्रभो ! ।। १३ ।। मातुः समागमो यश्च तत्सर्वं प्रत्यवेदयत् । तच्च सर्वं यथावृत्तमनुसस्मार पाण्डवः || १४ || परिष्वज्य सुतं चापि श्रात्मनः सदृशं गुणैः । प्रीतिमाननयत् पार्थो देवराज- निवेशने ||१५|| इन्द्रभवने इत्यर्थः । ‘सोऽर्जुनेन समाज्ञप्तो देवलोके तदा नृप ! | प्रीतिपूर्वं महाबाहुः स्वकार्य प्रति ।। भारत ! ||१६|| युद्धकाले त्वयाऽस्माकं साह्यं देयमिति प्रभो! । बाढमित्येवमुक्त्वा तु युद्धकाले इहागतः ॥ १७ ॥ साह्यं = साहाय्यं । तेन पराक्रमिणा - इरावता कुरुक्षेत्ररणसंग्रामे शकुनेः १५० चातुर्वर्ण्य - भारत - समीक्षा भ्रातरो युद्धदुर्मदा गान्धाराः सद्यो विनिहताः पश्चात् तमि. रावन्तं न्यहनद् श्रलम्बुषनामा कश्चित् राक्षसोऽसिना । ‘सकु- ण्डलं समुकुटं पद्मेन्दुसदृशप्रभम् । इरावतः शिरो रक्षः पात- यामास भूतले ॥ तस्मिंस्तु विहते वीरे राक्षसेनार्जुनात्मजे । विशोकाः समपद्यन्त धार्तराष्ट्राः सराजकाः ॥७८॥ इति । श्रनेन वर्णनेन स्पष्टं विज्ञायते श्रर्जुनस्य विधवया सह विवाह:, तत्समागमेन पुत्ररत्नोपलब्धिश्चेति । केरल देशाग्रजन्मचरितम् ’ निरीक्ष्यतां तावत् केरलदेशीयानामग्रजन्मनां नम्बुद्रि- संज्ञकानां चरितम् । जनार्दनक्षेत्रे शंकरन् - नम्बुद्रिनामा कश्च- नाध्यापक:, अस्मत्- सकाशं समागत्य तत्रत्यमार्यसंस्कृतिविरुद्ध- मनार्यचरितमित्थं वर्णयामास । श्रत्रत्या अग्रजन्मानो विप्राः ‘कलावाद्यन्तयोः स्थितिरि’ ति तन्निर्णयानुसारेण क्षत्रियगुण- कमीढ्यानामपि नायराणां ( नायकानां ) तैः शूद्रत्वेनाभि- मतानां कन्याभिर्युवतिभिः सुन्दरीभिर्न तु विधिवद्विवाहं, किन्तु भार्यासम्बन्धं स्थापयन्ति । ते तु निशासु तत्कन्यापितृगृहं गत्वा ताः यथेष्टमुपभुञ्जते । तासु भूयांसः पुत्रादीन् जनयन्ति । नायरा अपि प्रसन्ना भवन्ति, स्वकन्यानां दानमस्माभिविप्रेभ्यः कृतमिति हेतोः । ताः तत्सम्बन्धिताः स्ववधूरूपेणाङ्गीकृताः तद्विप्रपतिगृहे नावतिष्ठन्ते । यदि कदाचित् कार्यवशात् तद्गृहं गच्छन्ति, तदा शूद्रदासीवत् पाकशालादौ भोजन निर्माणाय प्रवेष्टुं नार्हन्ति । स च शंकरन् -नम्बुद्रिः पुनरप्युवाच । पश्यन्तु तावत् - प्रस्माकमुपहासास्पदं पावित्र्यम । वयं ताः शूद्रकन्याः उपभोग्यवधूरूपेण स्वीकुर्वाणा श्रपि, ताभ्यः शुभसन्तति जन- केरलदेशाग्रजन्मचरितम् १५१ यन्तोऽपि तद्धस्तगृहीतं जलमपि न पिबामः, कुतस्तत्करनिर्मित- भोजनादिकं भोक्तुं शक्नुमः । अस्माकं कुलेषु सुदृढोऽयं नियमो वर्तते, यो भ्रातृषु ज्येष्ठा- इग्रजो भवति, स एव ब्राह्मणकन्ययैव साकं विवाहं कर्तुं शक्नोति स एव पितुविस्तृत भूमि विशेषसम्पत्तिस्वामित्व- मधिगच्छति, नान्येऽवरजाः सहोदरा भ्रातरः । ते तु नायर- कन्याभिः सह स्वोपभोग्यभार्यासम्बन्ध स्थापयन्ति, केवलजीव- ननिर्वाहोपयिकधनधान्यादिकमेव लभन्ते नाधिकम् । श्रप्रजा- नामल्पत्वात्, अवरजानामधिकानामन्यत्र सम्बन्धितत्वाच्च परिशिष्टाः युवतयो ब्राह्मणकन्या: प्रविवाहिता एव तिष्ठन्ति । काश्चन विषयवासनाप्रेरिताः यद्वा तद्वा किमपि वक्तुमर्ह समाचरन्ति । अन्यत्र वा विजातीयकृश्चियनादिसमाजे संमि- लिता भवन्ति । यतः केरलप्रदेशे मोपलामुसलमान समाजवत् तत्समाजोऽपि प्रत्यधिको वर्तते । संप्रत्येव समाचारपत्रेषु पठितं - कन्याकुमारीक्षेत्रे विश्वमान्य स्वामिविवेकानन्दस्य पुण्यस्मृत्यर्थं स्थापिता ज्ञानशिला तैर्दुष्टैविनाशितेति । यतः तत्रापि हिन्दुभ्यः तेषामत्यधिका संख्या, विशालः चर्चोऽपि च विद्यते । अपि चास्मभ्यं ब्राह्मणेभ्यो नायरकन्यासु समुत्पन्नाः पुत्राः पुत्र्यश्च न पितृब्राह्मणजाति लभन्ते, किन्तु योनिप्राधान्यमभ्युपगम्य, न तु बीजप्राधान्यं तन्मातृजातिमेवेति । मद्रपुर्या कश्चन हिन्दुहोटलस्य कर्मकरः श्रद्धाढ्यः पत्रिकरसंज्ञको युवा नायरो- Sस्मत्सकाशं ब्राह्मणेन शिखायज्ञोपवीत भस्मरुद्राक्षविभूषितेन स्वजनयित्रा पित्रा सह समागतोऽभूत् । तेनाङ्गुलीनिर्देशेनोक्त- मयं मम जनकः पिता ब्राह्मणोऽस्ति ग्रहन्तु तत्पुत्रस्तज्जन्योऽपि यज्ञोपवीताविद्विजसंस्काररहितः शूद्रोऽस्मीति । १५२ चातुर्वर्ण्य - भारत - समीक्षा त्रावनकोर - - ( अनन्तशयनपत्तन ) कोचीनादिराजानां कुलेष्वपि एतादृशो नियमो वर्तते, राजकन्यानां ब्राह्मणः सह सम्बन्धो भवति, तेभ्यस्तासु समुत्पन्ना एव कुमाराः राजसिहा- सनाधिकारिणो भवितुमर्हन्ति, न तु राजभिः क्षत्रियैः स्वधर्म- पत्नीराजमहिषीषु समुत्पन्नाः राजकुमारा, ते तु तेषां ब्राह्मणं- मन्यानां दृष्टिभिः शूद्राः एव सन्तीति कथं तदधिकारिणो भवेयुः ? यतः सर्वेऽपि राजकुलपुरुषाः समानगोत्रोद्भवत्वेन हेतुना तत्कन्यानां ब्राह्मणा एव पाणिग्रहणं कुर्वन्ति, राजकुलो- वास्तु पुरुषा नायरकन्यानां सुन्दरीणाञ्च । तासु समुत्पन्नाः योनिप्राधान्यमभिलक्ष्य तज्जन्या श्रपि कथं क्षत्रियाः भवेयुरिति तदभिप्रायः । श्रस्माभिस्तदा विचारितम् - कीदृशमत्रत्यानां दाक्षिणात्यानामग्रजन्मनां चरितं शिक्षेरन् उत्तरभारतपृथिवी- निवासिनो हिन्दवः ? | यदाऽस्माकं राष्ट्रस्य प्रियभारतस्य सद्गुणशालिनी स्वतन्त्रता स्थायिनी भविष्यति, मिथः प्रेमसद्भावविनयविवेकादिसद्गुणयुक्तं विद्याबलपराक्रमधनैश्व- र्यकलाकौशल्यादिगौरवसमुपेतमेकभावभ्रातृभावमण्डितं सुदृढं प्रशस्तमार्य राष्ट्र भविष्यति, तदा वयं ‘स्वं स्वं चरितं शिक्षेरन् पृथिव्यां सर्वमानवाः ।’ इति मानवं सूक्तं हर्षेण गातुं शक्ष्यामः इति वयं मन्यामहे । योनिबीजप्राधान्यविचारः पुराणादिष्वपि नास्ति निर्णय:-योनिप्राधान्यस्य वा बीज- प्राधान्यस्य वा । यदि बीजप्राधान्यमभ्युपगम्येत, तदा व्यासपुत्रेण भगवद्भक्तेन नीतिनिपुणेन विदुरेण किम- पराद्धम ? ? 1 स्वपितृव्यासादिवत् तुल्यन्यायेन तस्य कथं न ब्राह्मण्यथ्यपदेश: संजात: ? । यदि योनिप्राधान्यं अग्रजन्मनो विविधार्थनिरूपणम् १५३ तत्राभ्युपगम्य मातुः दास्याश्च शूद्रत्वमभिलक्ष्य तस्य शूद्रत्व- मभ्युपगम्येत, तदा व्यासादिष्वपि तथा स्यात् । यतो व्यास - स्यापि माता नाविकमल्लाहपुत्री मत्स्योदरी शूद्रैवास्ति । सा हि पराशरात् महर्षेः व्यासस्य पुत्रस्य प्रादुर्भावानन्तरं शन्तनोः क्षत्रियस्य सम्राजो महाराज्ञी क्षत्रियाणी ‘सत्यवती’ - त्यपर- पर्याया बभूव, विचित्रवीर्यादीन् क्षत्रियान् पुत्रान् राजकुमारान् जनयामास । परन्तु केरलदेशे न बीजप्राधान्यमपि तु योनि- प्राधान्यमेवाभ्युपगम्यते, अत एव पुत्राः पुत्र्यश्च स्वपरिचयाय प्रायो मातृनामनिर्देशं कुर्वन्ति, मातुः उपसंज्ञां धारयन्ति, न च पितृनामनिर्देशं न च पितुः । श्रत एव पुत्रास्तदीया: वदन्ति मम पिता पन्त्रिकरोऽस्ति परन्त्वहन्तु मेननोऽस्मीति, मातुर्मेमनरूपोपसंज्ञा विशिष्टत्वात् । अत एव ब्राह्मणजन्याः पुत्राः न स्वजनकपितृसंपत्तिमादातुं समर्था भवन्ति, किन्तु मातुलगृहे वर्धिताः रक्षितास्ते भागिनेयाः मातुलसम्पत्तिमेवो पभोक्तुं प्रभवन्ति । तथा चोक्तं महाभारते कर्णपर्वर्ण्यपि - ‘तस्मात्तेषां भागहरा : भागिनेयाः न सूनवः । ’ ( श्र० ४५।१३ ) इति । अग्रजन्मनो विविधार्थनिरूपणम् अत एव मानवर्षभाष्ये हि प्रग्रजन्मनो संकुचितार्थस्य श्रेणिविशेषार्थस्य च निवारणाय विस्तृतोचित विविधार्थबोध- नाय चेत्थं निरूप्यते । तथाहि - (१) ‘अग्रे = प्राग् यस्य जन्मा- सौ, अग्रजन्मा निरुच्यते । परजत्वाऽग्रजन्मत्वे स्यातां सप्रति- योगिके ॥ अग्रत्वमिह सर्वेषां परत्वापेक्षिकं मतं । सर्व एवाग्रजो लोके स्वापेक्षोत्तरजन्मनः । तस्मादत्राग्रजन्मेति वृद्धवर्गोऽभि- धीयते । भवन्त्येव समाजेषु सर्वदैवाग्रजा नराः । सदैवाग्रज- 11१५४ चातुर्वर्ण्य-भारत-समीक्षा वृद्धानां परजेषूपदेष्टृता । प्रकृत्यैवेष्यते लोके चेयमस्ति परम्परा || शास्त्रेऽपि भूयसा ( बहुधा) प्रोक्ता श्रेयसी वृद्ध- देशना । वृद्धसेवैव चादिष्टा विद्यासामस्त्यसिद्धये ।। ( वृद्धाश्च विविधाः प्रोक्ताः, ज्ञानवृद्धाः पराः मताः । वयसैवात्र वृद्धत्वं नाम्युपगम्यते यतः । । ) (२) चातुर्वर्ण्येऽग्रजातत्वात्, ब्राह्मण- श्चाग्रजः स्मृतः । इत्थं केचिदबुधाः प्राहुः, सोऽयमर्थोऽपि युज्यते ॥ ’ मातुरग्रेऽधिजननाद्’ श्रग्रजन्मत्वमिष्यते । भावि- ब्राह्मण्यसंस्कारैरभिजातस्य जन्मतः ॥ (३) त्रिगुणेष्वग्रजो ज्येष्ठः, श्रेष्ठः सत्त्वगुणो मतः । ज्ञानात्मा तत्प्रधानत्वाद् विद्व- त्स्वग्रजतोचिता ॥ (४) प्रग्राद् श्रर्थात्प्रधानाङ्गाद् विराजों ब्रह्मणो मुखात् । जन्माऽस्येत्यग्रजन्माऽसौ इत्यर्थोऽपि बुधैः स्मृतः ॥ त्रार्थे त्वग्रजन्मत्वं, नूनमारोप्यते नृषु । मुखकर्मो- पदेशादि-साधर्म्यादिति दर्शितम् । वस्तुतस्तु मुखाज्जन्म, नैव श्रुत्याऽवगम्यते । ‘ब्राह्मणोऽस्य मुखमासीद्’ इत्येवास्ति श्रुतौ स्फुटम् ।। ब्रह्मणो विश्वरूपस्य मुखं ब्राह्मण इत्ययम् । श्रर्थः स्पष्टतरस्त्वत्र स्थूलबुद्ध्यापि बुध्यते ॥ मुख्यत्वान्मुखसादृश्यात्त- द्गुणकर्मरूपणात् । ‘मुखं ब्राह्मणः’ इत्युक्तं न तज्जन्यतया श्रुतौ ॥ ( ५ ) चातुर्वर्ण्य विभागोऽस्ति, कायव्यूहानुसारतः । समाजाग्रज इष्टोऽतः शरीराग्रजरूपणात् ।। जन्मकाले नृणामग्रे शिर एव प्रजायते । श्रन्याङ्गापेक्षया तस्मात्प्रत्यक्षमग्रजं शिरः || ज्ञानस्थानन्तु मस्तिष्कं तस्याधिकरणं शिरः । ज्ञानेन्द्रियसम्- हस्य चाधिष्ठानं शिरो मतम् । ज्ञानसम्बन्धिकर्मा, मुखं चास्ति शिरः स्थितम् । तस्मात्तस्याग्रजन्मत्वं रूपकाच्चोपचर्यते ।। ब्रह्मणो वेवसंज्ञस्य मस्तिष्केण विधारणात् । ब्रह्मरन्ध्राश्रय- त्वाच्च शिरो ब्राह्मण उच्यते || तद्रूपारोपतो ज्ञानप्रधानेषु । सर्वत्र सद्विद्याप्रचारः कर्तव्यः १५५ नरेष्वपि । ब्राह्मण्यमग्रजत्वं च शास्त्रोक्तमुपपद्यते । तस्मा- दाग्रजन्मेति ज्ञानवानिष्यते नरः । तत्सकाशात् स्वचरितं शिक्षेरन् सर्वमानवाः ।। ( ६ ) अग्रजन्मेति शब्देन जनतास्व- प्रयायिनः । पुरुषाश्चोपलक्ष्यन्ते ये हि लोकपुरोहिताः । । ‘पुरो’- ऽग्रे लोकनेतृत्वे हिता एव ‘पुरोहिताः ’ । श्रद्धिताः स्वस्तिकर्तारः, न श्राद्धाद्युपजीविनः ॥ ( ७ ) ‘अग्रे’ सर्गस्य वाऽऽरम्भे, नृसृष्टिः प्रथमाऽभवद् । श्रत्रैवा - ( भारते - आर्यावर्ते ) ऽतोऽग्रजन्मानः एतद्देशप्रसूतयः ॥ श्रन्यदेशेषु ये पश्चाज्जातास्तेऽवरजाः स्मृताः । तच्छिक्षा तुचितैव स्याद् एतद्देशाग्रजन्मनः ॥ ( ८ ) अग्रजन्मेति शब्देन वेदो वाऽत्र विवक्ष्यते । संसारवाङ्मयस्याग्रे वेद एवोद- पद्यत । एतद्देशे ह्यभूदग्रे वेदजन्मेति वर्णनात् । एतद्देशाग्र- जन्मत्वं वेदस्यात्रोपपद्यते । एतद्देशप्रसूतोऽसौ वेद एव पुरातनः । पुरातत्त्वानुसन्धानान्निश्चितो विश्ववाङ्मये ॥ तत्प्रभावोन्मिषञ्ज्ञानैरन्यत्रापि महीतले । ग्रन्थाः, विद्वद्भिः स्युः प्रकाशिताः ॥ ’ सर्वत्र सद्विद्याप्रचारः कर्तव्यः नानाभाषामया प्रत एव - ’ एकाग्रमनसः शान्ताः, मुनयः संयमे रताः । वेदान् अर्थत श्रालोच्य, लोकानां हितकाम्यया ।। इदं श्रेयः इदं ब्रह्म इदं हितमनुत्तमम् । श्रवगम्यातो महाभागाः, शास्त्राणि च प्रचक्रिरे ॥ श्रतो भारतवर्षस्य या जगद्गुरुता स्मृता । सेतिहासपुराणेषु लोके साक्षाच्च दृश्यते । पुरा मेरुप्रदेशस्थः, शुकोऽत्र मिथिला पुरीम् । श्रागत्य जनकात् सम्यग्वेदान्तार्थ- मधीतवान् ।। ’ एवमुक्तः स धर्मात्मा जगाम मिथिलां मुनिः । पद्भ्यां शक्तोऽन्तरिक्षेण क्रान्तुं पृथ्वीं ससागराम् । स गिरीं- श्चाप्यतिक्रम्य, नदीतीर्थसरांसि च । बहुव्यालमृगाकोर्णा १५६ चातुर्वर्ण्य - भारत - समीक्षा टवीश्च वनानि च । मेरो हरेश्च द्व वर्षे, वर्ष हैमवतं ततः । क्रमेणैवं व्यतिक्रम्य भारतं वर्षमासदत् । स देशान् विविधान् पश्यंश्चीनहूणनिषेवितान् । श्रार्यावर्तमिमं देशमाजगाम महा- मुनिः ॥’ (म० भा० शां० प्र० ३२५ । इलो० १२-१३-१४- १५ ) पृथिव्यामिति निर्देशात् सर्वदेशनिवासिषु | विद्याप्रचार आदिष्टो भारतीयाऽग्रजन्मने || अतोऽत्रत्था महाभागाः, विवेकानन्दस्वामिनः । रामतीर्थाश्च बहवो विदेशान् प्रययु- मुदा ।। पृथिव्यां हि समाविष्टं समस्तं वसुधातलं । एवं मनुष्य- मात्रार्थे प्रयुक्ताः सर्वमानवाः । तस्मात् सर्वमनुष्येषु विद्या- प्रचार इष्यते । निर्विशेषात्समैवास्ति सर्वत्र मनुदेशना ।। सर्व- देशमनुष्येषु स्वविद्याप्रथनं तथा । स्वीयग्रन्थप्रचारं च, को न वाञ्छति बुद्धिमान् ? ॥ लोकशिक्षाप्रचारार्थी विद्यादान- परायणः । सद्गुरुः सुतरामेव निष्पक्षमुपदेक्ष्यति ॥ लोक- संग्रहदृष्ट्याऽपि सर्वेष्वेव समं नृषु । विद्यादानस्य धर्म्यत्वं सत्कार्यत्वं च गम्यते ॥ एतद्देशे पुराऽग्रे ये, संजाता प्रार्य पूर्वजाः । ‘कृण्वन्तो विश्वमार्य’ ते विसस्रः पृथिवीतले । एतदत्र पुरा- तत्त्वं सूचयन्भगवान् मनुः । सर्वदा लोकशिक्षार्थं नियुक्ते भारताग्रजान् । इति । श्रत एव ‘प्रार्यभावप्रचारेण, भक्तिविद्या- प्रचारतः । शकाश्च यवाना हूणा अन्ये चाप्यन्यधर्मिणः । वैदेशिका विजातीया- श्चार्यवर्णे प्रवेशिताः || अग्रज ब्राह्मण - लक्षणानि महाभारते शान्तिपर्वणि महाराजो युधिष्ठिरो वैशम्पायन- महर्षि पप्रच्छ - ’ धर्मराज उवाच’ - ‘के च ते ब्राह्मणाः प्रोक्ता: ? किं वा ब्राह्मणलक्षणम् ? । एतदिच्छामि भो ! ज्ञातुं तद्भवान् व्याकरोतु मे ॥’ इति । वैशंपायन उवाच - क्षान्त्यादिभिर्गुणै- अग्रज-ब्राह्मण-लक्षणानि १५७ युक्तः, त्यक्तदण्डो निरामिषः । न हन्ति सर्वभूतानि प्रयमं ब्रह्मलक्षणम् ॥’ ‘क्षान्तिः = क्षमा, श्रादिपदेन दया दम-संतीया- दयः । त्यक्तदण्डः = क्रोध द्वेषवैरादिरहितः, निरामियः=परित्यक्त- तामसाद्याहारः । न हन्तीत्यनेनाहिसाव्रतं तस्य बोधितम् । यदा सर्व परद्रव्यं, पथि वा यदि वा गृहे । प्रदत्तं नैव गृह्णाति, द्वितीय ब्रह्मलक्षणम् ॥’ अनेन लोभचौर्याभावः सूच्यते । ‘त्यक्त्वा क्रूर- स्वभावन्तु निर्ममो निष्परिग्रहः । मुक्तश्चरति यो नित्यं तृतीयं ब्रह्मलक्षणम् ॥’ मुक्तः = निःस्पृहो निर्द्वन्द्वः सन् चरति = सर्वत्र विचरति सर्वदा, नैकत्र तिष्ठति । ‘देवमानुषनारीणां तिर्यग्यो- निगतेष्वपि । मैथुनं हि सदा त्यक्तं चतुर्य ब्रह्मलक्षणम् ॥’ अनेन पूर्ण ब्रह्मचर्यं तल्लक्षणतया द्योत्यते । ‘सत्यं शौचं क्षमा शौचं, शौचमिन्द्रियनिग्रहः । सर्वभूते दया शौचं तपशौचं च पञ्चमम् ॥ पञ्चलक्षणसम्पन्नः ईदृशो यो भवेद् द्विजः । तमहं ब्राह्मणं ब्रूयां शेषाः शूद्राः युधिष्ठर ! || शौचं पावित्र्यं ग्रनृत- द्वेषविषयलोलुपतादिदोषमालिन्यनिवारकत्वात् सत्यादीनामस्ति पवित्रकरत्वम् । ‘न कुलेन न जात्या वा क्रियाभिर्ब्राह्मणो भवेत् । चण्डालोऽपि हि वृत्तस्थो ब्राह्मणः स युधिष्ठिर ! | ’ अनेन सनातनार्यधर्मस्य परमौदार्यं पक्षपातरहित्यञ्च सूच्यते । ‘सर्वे हि योनिजाः मर्त्याः ( न तु मुखादिजाः ) सर्वे मूत्रपुरीषिणः । एकेन्द्रियेन्द्रियार्थाश्च तस्माच्छीलगुणो द्विजः ।।’ एकः समानः । श्रर्थात् सर्वेषां मानवार्ना समानानि चक्षुरादीनीन्द्रियाणि सन्ति, तैरनुभूयमानाः रूपादयो विषयाः अपि समाना एव सन्ति, न विषमाणीन्द्रियाणि न च famaणाः विपमाः विषयाश्च । तस्मात् शीलेन सदाचारेण शमादिगुणैश्च युक्त एव द्विजः = ब्राह्मणो ज्ञेयः । ‘पञ्चेन्द्रियार्णवं घोरं यदि शूद्रोऽपि तीर्णवान् । १५८ चातुर्वर्ण्य - भारत - समीक्षा तस्मै दानं प्रदातव्यमप्रमेयं युधिष्ठिर ! || श्रप्रमेयं = श्रपरिमितं, प्रनेन तपः परायण: संयम्येव दानयोग्यः, न तु विषयासक्तः । श्रतः ‘न जाति दश्यते राजन् ! गुणाः कल्याणकारकाः । तस्माच्छू- द्रप्रसूतोऽपि ब्राह्मणो गुणवान्नरः ।।’ ( श्र० २६६ । ३२ इत्यारभ्य ज्ञेयाः) एतैर्वचनैः सुस्पष्टमवगम्यते यत्प्रशस्तस्य श्रद्धेयस्य ब्राह्मणवर्णत्वस्य ब्रह्मर्षित्वस्य च प्रयोजका एते प्राक्प्रतिपादिता गुणा एव, वेदाध्ययनपरोपकारादीनि शुभानि कर्माण्येव च सन्ति । एतादृशप्रशस्त गुणगणोपेतं ब्राह्मण्यं को न मतिमान् श्रद्दध्यात् ? । के न सहृदयाः तत्रानुरागं बद्ध्वा प्रणता भवेयुः ? अत एव प्राप्ताप्राप्तविवेकन्यायेन यत्र कुत्रापि प्राप्तानां गुणा- नामेव पूज्यता वेदितव्याः । तथा चोक्तं शिष्टैः - ’ गुणाः पूजास्थानं न च गुणिषु लिङ्गं न च वयः ।’ इति । अत एव - ’ त्रैलूषैत- रेयाद्या दासीपुत्रा अनार्यकाः । बभूवु ऋषयो मन्त्र - द्रष्टारो गुणकर्मभिः ।।’ इति । संकुचित - घृणित - स्वार्थान्ध - मनोदशा यत्तु केरलद्राविडादिदक्षिणप्रदेशवास्तव्याः केचनाहंमन्याः ब्राह्मणाः तत्रत्यान् ब्राह्मणेतरान् गीताविष्णुसहस्रनामभागवता- दिग्रन्थपाठकर्तन निरीक्ष्य तान् प्रति वदन्ति भो ! युष्माभिः कथमपि गीतापाठादिकं नैव कर्तव्यम् ( तत्प्रदेशे वर्तमानानां ब्राह्मणेतराणां सर्वेषां शूद्रत्वात् ) केवलं ब्राह्मणमुखात् तच्छ्रवणं कर्तव्यम् । तत्पाठकरणेन भवतां महान् अपराधो जायते, मह- त्पापञ्च प्रादुर्भवति । श्रतो गीतापाठादिजन्येन पापेन भवन्तो नरकं गमिष्यन्तीति । एवं पापनरकादिभयं प्रदर्श्य तान् गीता- पाठादितो निवारयन्ति । कर्णाटकस्य महीशूरादिप्रदेशे सर्वत्र गीतादिप्रचारं कुर्वता परमहंसस्वामिना श्रीशंकरानन्देनेदृश शूद्राधिकरण-समालोचना १५६ वृत्तान्तोऽस्मभ्यमभिहितः । प्रस्मत्सभायां सर्वान् परमश्रद्धया गीतापारायणादिकं कुर्वाणान् हिन्दून् समुपलभ्य तत्रत्याः केचन ईर्ष्याविशवशवर्तिनो ब्राह्मणा श्रनर्गल प्रलापमुपद्रवञ्च कुर्वन्तीति । एवं दक्षिणप्रदेशवास्तव्यानां केषाञ्चिद् ब्राह्मणानां सर्वैरपि संकुचिता घृणिता स्वार्थान्धा च मनोदशा स्पष्टमवगन्तुं शक्यते । परन्तु ते नेत्रे समुद्घाटय न मनागपि विचारयन्ति, वस्तुतः पुराणभारतादीनामुच्चासनमधिरुह्य प्रवक्तारः सूतादयः शूद्रा एव बभूवुः । यदाहु: - ‘पुराणादिप्रवक्तृत्वं (प्रवचनकर्त त्वं ) शूद्रस्यैवादितः श्रुतम् । ऋषीन् ( शौनकादीन् ) प्रध्यापयत् सूतः, पुराणानि विलोमजः । प्रख्यातो व्यासशिष्योऽभूत्, सूतो वे रोमहर्षणः । पुराणसंहितां तस्मै ददौ व्यासो महामुनिः । ’ ( मा० आ० भाष्ये ) ’ यत्तु शूद्राधिकारोऽस्ति पुराणश्रवणे, न तु । तत्पाठेऽ- पीति केषाञ्चिन्मतं तच्चाज्ञकल्पितम् ॥ पुराणाध्यापनं तुच्छं तत्कथावाचनं च किम् ? । ब्रह्मविद्या प्रवक्तृत्वं चापि शूद्रस्य सुश्रुतम् ॥ ’ नमस्कृत्वा ब्राह्मणेभ्यो ब्राह्मीं विद्यां निबोध मे ।’ ( म० भा० वनपर्व २१०१५ ) इत्युक्त्वा कौशिकं व्याधः ( महाशूद्रः ) तं वेदान्तमवेदयत् ।।’ इति । श्रद्दधानः शुभां विद्यामाददीताऽवरादपि । श्रन्त्यादपि परं धर्मं’ इत्याह भगवा- न्मनुः । स्वयं श्रीशङ्कराचार्य्यश्चान्त्योक्तिप्रबोधितः । भेदबुद्धि मनुष्येषु त्यक्त्वाऽमन्यत तं गुरुम् ॥’ (मा० प्रा० भा० ) इति । शूद्राधिकरण- समालोचना मानवर्षभाष्ये हि वेदान्तदर्शन - ब्रह्मसूत्र मीमांसायां प्रसि- द्धस्य शूद्राधिकरणस्येदृशी समालोचना कृता । यथाहि - ‘क्वचि १६० चातुर्वर्ण्य - भारत-समीक्षा | ग्रन्थेषु याऽनूक्ता, शूद्र श्रोत्रे तु निर्दया । तप्तत्रपु - जतुक्षेत्री, स्मृतिः सा नार्षवाङ्मयी ॥ बभूवुः ऋषयः पूर्वे, सर्वभूतहिते रताः । महाकारुणिकास्तेषां शूद्रे न स्यान्नृशंसता ॥ न वेदो- च्चारणे जिह्वाच्छेदं शूद्रस्य धारणे । देहभेदं विदध्याद्वा, वागार्षी करुणामयी || साक्षाद्वेदविरुद्धत्वात् स्मृतिष्वेतादृशं वचः । प्रक्षिप्तं स्यान्नृशंसैस्तु स्वार्थान्धैर्जनशत्रुभिः || ‘स्त्रीशूद्रौ न त्वधीयाताम् एषा कैश्चित्प्रकल्पिता । श्रुतिः क्वापि हि वेदेषु तत्त्सत्त्वानुपलम्भतः ॥ प्रत्युत श्रुतिकर्तृत्वं शूद्रस्य सर्वसम्मतम् । स्त्रीदृष्टा वेदमन्त्राश्च जयन्त्यद्यापि सूक्तशः ॥’ इति । श्रार्षवाङ्मयी = ऋषिप्रोक्ता शब्दसमुदायरूपेत्यर्थः । नृशंसता = क्रूरता - परद्रोहकारिता । नृशंसैः = क्रूरैः - निर्दयैः । इति । एवं विदेशीयाः श्रत्रत्यपण्डितै म्लेच्छत्वेनाभिमताः मोक्षमूलरप्रभृतयो भूयांसोऽपि विद्वांसः - ऋग्वेदादिसंहिता- नामध्ययनतदर्थविचारसमालोचनप्रकाशनादिकं समादरेण चक्रुः, तथापि तेषां शूद्राधिकरणन्यायेन किमप्यनिष्टमत्रत्यैः पण्डित- मानिभि र्न कृतमित्याश्चर्यमिति । भगवतः परशुरामस्य महाकारुणिकत्वम् श्रत एव यदा राज्यैश्वर्यमदोन्मत्तक्षत्रियजातिविध्वंस- शीलस्य महाक्रूरस्य भगवत: परशुरामस्यापि कैवर्तादिमहाशू- द्वेषु प्रभूतं सफलं कारुण्यं दृष्टम्, तदाऽन्येषां व्यासवसिष्ठादि- महर्षीणां करुणाशालित्वमवर्णसिद्धमेव संपद्यते । श्रत एव दीन- हीनान् कैवर्तादिमहाशूद्रानभिवीक्ष्य तेषु विद्यादिसद्गुणशालित्वस्य सर्वोत्तमत्वस्य च विधानाय स्वनिष्ठप्र- संस्थापनाय भूतकरुणायाः प्रत्यक्ष सद्यः प्रकटितफलस्य च सः परशुरामः तान् इत्थमुवाच - ‘भवत्सु ब्राह्मणत्वं हि सद्यः भगवत: परशुरामस्य महाकारुणिकत्वम् १६१ संस्थापयाम्यहम् । ब्राह्मणाः नूतनाः कार्याः, गुणकर्म परिवर्त्य च ॥ मयि प्रभूतकारुण्यं क्रूरता न च विद्यते । तस्य प्रकट- नार्थाय सर्वस्मिन् जगतीतले ।। अधमान् उत्तमान् कृत्वा कारुण्यं ख्यापयाम्यहम् । ततो नूतनविप्रेभ्यो ददौ गोत्राणि नामतः । वेदान् साङ्गान् ससूत्रांश्च तच्छाखाः प्रवरैः सह । शुभाचारान् शुभादेशान् श्रार्यभावान् यशस्करान् ॥ कृत्वैषां चित्तशुद्धि तु यस्मात्परशुरामतः । चित्तशुद्धिः कृता तेषां तस्मात्ते चित्तपावनाः ।। महाश्रेष्ठा हि विद्वांसः, प्रभूतैश्वर्य- शालिनः । भुञ्जते ते मुदैतहि भार्गवकरुणाफलम् || पश्चा- तेन कृपालुना तेभ्यो दत्तो वरो ह्ययम् । ‘यदा कदा वा युष्माकं विपत्तिर्जायते भुवि । तदाऽऽहूयन्त मां सर्वे समवेताः सुखाप्तये ।। श्रागत्याहं तदा विप्राः ! वः कार्यं साधये क्षणात् । एवं हि चाशिषस्तेषां ददौ तु भार्गवो मुनिः ॥ ’ ( ब्राह्मणोत्पत्तिमार्तण्डे- वेङ्कटेश्वरप्रेसमुद्रिते ३१५ पृष्ठे ) इति । एवं केरलदेशीय- कैवर्ते करुणा कृता । प्राक् च निरूपिताऽस्माभिः, भार्गवेणेति बुध्यताम् ॥’ चित्तपावनविप्रैर्भगवत: श्रत एव महाराष्ट्रादौ चित्तपावन विप्रैर्भगवतः परशुरामस्य भार्गवस्य महामुने - महाकारुणिकत्वश्रद्धेयत्व पूज्यत्वादिद्योत- नायानेकानि मन्दिराणि श्रद्धया विनिर्मितानि सन्ति, इति श्रूयते । त्र्यम्बकतीर्थे तु मया रम्यं परशुराममन्दिरं प्रत्यक्षमव- लोकितम् । तत्र गत्वा तत्सौम्य मूर्तेर्दर्शनं कृत्वा किमपि प्रवचन- मपि विहितमिति । १६२ चातुर्वर्ण्य - भारत - समीक्षा स्वनिष्ठोत्तमत्वमिथ्याभिमानः परनिष्ठनी चत्वशूद्रत्वघृणा- भावना च प्रभूतानर्थकारिणी; प्रसिद्ध जगन्नाथ- मन्दिरस्थित गोवर्धनमठविध्वंसेतिहासश्च । तदानींतनः कश्चनारण्यनामा जगन्नाथपुरीस्थित गोवर्धन- मठाध्यक्षः शंकराचार्य श्रासीत् । यथा भगवतो द्वारकाधीश– स्यैव मंदिरे भगवत्पादादिमशंकराचार्य स्थापितः शारदामठ: संप्रत्यपि वर्तते, तथा तदा गोवर्धनमठोऽपि भगवतो जगन्नाथ- स्यैव मन्दिरेऽवर्तत । तत्समये कश्चन श्रद्धाभक्तिसम्पन्नो नागपुरनरेशो ‘भोसले’ - महाराजः स्वकल्या रणकामनया तं जगद्गुरुपदवीविभूषितं योगिनं तेजिस्विनं शंकराचार्य मन्त्र- दीक्षा लाभाय प्रार्थयामास । तेन साभिमानं विपुलैश्वर्यसम्पन्नः स नरेशः पृष्टः, ‘का जातिविद्यते भवदीयेति ।’ नम्रभावेन नागपुर प्रदेशाधिपतिना ‘भोसले’ इत्युपसंज्ञावान् मराठोऽहमस्मी- त्युक्तम् । तच्छ्र ुत्वा स्वनिष्ठोत्तमत्वविषयक मिथ्याभिमानवशं- वदः परनिष्ठनीचत्वशूद्रत्वघृणा भावनाभरितहृदयः सः शंकरा- चार्योऽवदत् । ‘राजानोऽपि मराठा: न क्षत्रियाः सन्ति, किन्तु शूद्राः एव सन्ति, अतस्त्वमपि शूद्रोऽसि श्रतस्तव मत्तो मन्त्र- दीक्षाग्रहणे नास्त्यधिकारः, अतो नाहं तुभ्यं शूद्राय मन्त्रदीक्षां दातुं समर्थोऽस्मि, इति । तस्य स्वजात्यपमानपूर्णमत्युद्वेगकरं निष्ठुरं वचः श्रुत्वा स महीपति महाराजोऽतीव चुक्षुभे प्रचु- कोप च । तथापि क्षत्रियप्रकृतिना सिंहसमदर्शनेन तेन महाराजेन श्रद्धेय काषायवस्त्रवेष्टितं सम्मान्यविरक्तचतुर्थाश्रमरूपेणाचार्य- पीठावस्थितं तं दण्डिनं मत्त्वा दण्डप्रहारादिना न तस्य किमप्य- निष्टमाचरितम् । पूर्वोक्तदुर्वचः प्रहारस्य, तज्जन्यकोपस्य च स्वनिष्ठोत्तमत्व मिथ्याभिमानः १६३ मौनभावेन सहनं कृत्वा खिन्नवदनः सन् ततो निष्क्रम्य रामा- नुजसंप्रदायस्य मठालयं जगाम । तत्र गत्वा तन्मठालयाध्यक्ष महान्तमाचार्य पदवीविभूषितं साधुमहाराजं प्रति स नरेशो मन्त्र- दीक्षालाभाय प्रार्थनां विधाय पूर्वोक्तस्वजातिपरिचयमदात् । तेन प्रसन्नवदनेन समुदारहृदयेन च स भूपतिर्महाराज इत्थम- भिहितः । अहं भवन्तं विशुद्ध मिक्ष्वाकुवंशप्रसूतं बलपराक्रम- शौर्यधैर्यशालिनं क्षत्रियमेव मन्ये । भवद्वशे लब्धजन्मानं छत्रपति श्रीशिवाजीतिशुभनाम्ना प्रसिद्धं हिन्दुजातिधर्म- राष्ट्रसमुद्धारकं दुष्टम्लेच्छ से नाजेतारं महाशवीरं क्षत्रियत्वेन यो न मनुते, स मूढ एवा’ तीत्यहं विजाने । सः शंकराचार्यस्तु कथं जगद्गुरुर्भवितुमर्हति ? यो जगति वर्तमानानां सर्वेषां मान- वानां कल्याणाय मन्त्रोपदेशमपि प्रदातुं न प्रभवतीति अहमेव वस्तुतो जगतां गुरुरस्मि, यः कोऽपि भवतु नाम, सजातीयो वा विजातीयो वा विदेशीयो वा स्वदेशीयो वा उत्तमो वा ऽधमो वा, तस्य सर्वस्य समुद्धाराय कल्याणाय च वैष्णवमन्त्रो- पदेशो मयाऽतिप्रेम्णा विधीयते । श्रस्माभिर्दुन्दुभिनादेन पौनः- पुन्येन समुद्धोष्यते - मत्तो वैष्णवीं मन्त्रदीक्षां समवाप्य सर्वे भवन्तु वैष्णवाः, जगतीतले कोऽप्यवैष्णवो मा तिष्ठत्विति । श्रतोऽहं भवन्तं भूपालं महाराजं क्षत्रियमेव मन्यमानो भवतेऽतीव प्रेम्णा स्वकीयश्रीवैष्णव संप्रदायस्य समुदारां मन्त्र - दीक्षामेव दातुं सर्वथा समर्थोऽस्मीति श्रतो भवतो विनम्र प्रार्थना मया सफलीकर्तुं शक्यते, इत्येवं तस्य महतः समुदारभाव - मण्डितं प्रशस्तं वचः श्रुत्वा स महाराजोऽतीव प्रससाद । पश्चात् तेन नागपुरन रेशेन ततो वैष्णवाचार्यात् विधिवत् मन्त्र- दोक्षा गृहीता । तस्मै मन्त्रोपदेष्ट गुरवे दक्षिणारूपेण दशलक्षतो-१६४ चातुर्वण्यं भारत- समीक्षा " ऽप्यधिक सुवर्णरजतरूप्यकाणि श्रद्धया समर्पितानि पुनस्तेन श्रद्धालुना नरेशेन भगवन् ! कृपासिन्धो ! गुरो ! अन्य कां भवतः सेवां कर्तुं शक्नोमि यदि काचन मद्योग्या सेवा स्यात्तदा सा मह्यं स्वसेवकाय निःशङ्क निवेदनीयेति पुनः पुनस्तेन प्रार्थना विहिता । तत्प्रार्थनां श्रुत्वाऽतीव प्रसन्नः स वैष्णवाचार्यः स्वशिष्यं महाराजं प्रतीत्थं जगाद । येन भवतो महाराजस्य घोरमपमानं विहितम्, यश्च किल सर्वदा सर्वत्र मिथ्याभिमानरूपसुरापानेन मदोन्मत्तो वर्तते, तस्य मिथ्या- जगद्गुरुपदवीधारकस्य भवत्परिचितस्यास्मद्विरोधिनः पूर्वोक्त- शंकराचार्यस्यास्मदिष्टदेवश्रीजगन्नाथ विष्णुमन्दिर एव मठालयो विद्यते, तस्य यया कयाऽपि रीत्या विध्वंसः कर्तव्यः, ततो- Sस्मादस्य निष्कासनं यथा स्यात्तथा भवता समर्थेन बलवता विधातव्यमितीदृशीं सेवां कर्तुं भवन्तं स्वशिष्यमहं विनिवेद- यामि । इत्येवं तस्य वैष्णवाचार्यस्य गुरोर्वचः श्रुत्वा प्रसन्नः स महाराजः कामपि सहायशक्ति समवाप्य जगन्नाथपुरीराजस्य खुर्दा नरेशस्य तन्मन्दिरपुजा रिपुरोहितादेश्च तत्कार्य करणे द्रव्यादिप्रदानेन स्वानुकूल्यञ्च संपाद्य तं जगन्नाथदेवालय- स्थितं गोवर्धनमठं विध्वस्तमकरोत् । अन्यत्र गतः सः शंकरा- चार्यः स्वमठविध्वंसं स्वादिमगुरो भगवत्पादस्य शंकराचार्यस्य तन्मठस्थितार्चनीयस्याद्वैतपीठस्यापि च विध्वंसं मठाच्यंदेव- मूर्तीनाञ्च समुद्रे निक्षेप च श्रुत्वाऽतीव संक्षुब्धहृदय. सन् सद्यो जगन्नाथपुरीमाजगाम । तत्रागत्य तन्मठविध्वंसलीलाञ्च स्वचक्षुर्म्या वृष्ट्वा स्वशरीरं परित्यक्तुमिच्छता स्वमठ विध्वंसप्रयोजकाय नागपुरनरेशाय तद्राज्य- तेन जातिभेदकर्मभेदप्रयुक्तं राष्ट्रस्य भारतस्य महदानर्थक्यम् १६५ विध्वंसलक्षणं शापञ्च दत्त्वा जगन्नाथमन्दिरस्य सिंहद्वायें- वानशनव्रतेन योगसमाधिना स्वशरीरं परितत्याज । इत्येवं तेन स्वमिथ्याभिमानस्य परनिष्ठनीचत्व शूद्रत्व- घृणाभावनायाश्च प्रभूतानर्थंकरं कटुफलं सद्योऽनुभूतम् कीदृशो- ऽयं परस्परयोः समुच्छेदको जातिविद्वेषः, शिष्ट विगर्हितः संप्रदायविद्वेषश्च । ईदृश: प्रामाणिक इतिहासो बंगदेशीयेन विदुषा परमहंसेन श्रीदुर्गाचैतन्यभारतीस्वामिना ‘संन्यास एवं संन्यासी’ इति नाम्ना प्रसिद्ध हिन्दीग्रन्ये बंगला भाषाग्रन्ये च प्रकाशितो मया च यथावत् पठित एवात्र विलिख्यते । ततो बहुकालादनन्तरं केनचिदन्येनाभिनवशंकराचाय्र्येण समुद्रतटे नूतनो गोवर्धनमठो निमितः, तत्रादिमभगवत्पादशंकराचार्य- स्याद्वतपीठः तन्मूतिः श्रीवेणुवादकगोपालविग्रहश्च तेन संस्था- पितोऽद्याप्यवलोक्यमानो भवति । प्ररूढतया · अनेन वृत्तान्तेनेदमवगम्यते यद्यपि सर्वेषु देशेषु मनुष्यसमाजे च उत्तमाधमभेदभावस्तु सर्वत्र विद्यते एव । परन्तु भारते वर्तमान उत्तमाधममध्यमजातिभेदोऽन्यत्र दुर्लभः प्रतीयते । यतोऽन्यदेशेषु तद्देशीयः समुदारो धर्मः समस्तोत्तमा- धमभेदान् गौणीकृत्य तत्र मुख्यमैक्यं प्रशस्तं स्थापयति, परन्तु भारते तु जात्युपजातिभेदभित्तिरेव धर्माधारमवलम्ब्यैवावस्थिता भवति । श्रर्थात् धर्मेऽपि भूयान् भेदः, तत्तत्समाजेऽपि च भेदः सर्वत्र यत्र तत्र भेद एवावलोक्यमानो विजयते । श्रभेदभावस्तु केवलाद्वैतवेदान्तिनां वाच्येव वर्तते, नान्यत्रेति । जातिभेदकर्मभेदप्रयुक्तं राष्ट्रस्य भारतस्य महदानर्थक्यम् कश्चनैवमधिक्षिपति - यस्मिन् देशे जातिभेदाः तत्तत्कर्म- भेदाश्च नैव सन्ति, तस्य देशस्योपरि शत्रूणामाक्रमणे सति १६६ शूराः चातुर्वर्ण्य - भारत - समीक्षा 1 सर्वेsपि देशवास्तव्याः समानरूपेण लब्धयुद्धादिशिक्षाः, श्रत एव यरक्षणहेतवे यद्धं कुर्वन्ति, संघशक्तिप्रभावेण च ते शत्रून् : वीराः संमिलिताश्च भूत्वा शत्रुभिः साकं स्वराष्ट्रस्वात- विनाशयन्तोऽभ्यर्हणीयं विजयं लभन्ते । परन्तु यस्मिन् जातिभेद- कर्मभेदाभ्युपगमकर्तरि देशेऽमुकस्य श्रेणिविशेषस्य क्षत्रियजाति- farastra शतेषु विशति संख्यातोऽपि न्यूनस्य युद्धादिशिक्षणेऽ- धिकारी वर्तते, नान्येषां प्रभूतसंख्याकानां ब्राह्मणत्वादिजाति- विशिष्टानाम् । तस्मिन् देशे कदाचित् बाह्यानां विजातीयानां शत्रूणां प्रबलाक्रमणेन सा न्यूनसंख्याका क्षत्रियजातिः विपन्ना वा विनष्टा वा भवेत् चेत्, तदाऽन्ये ब्राह्मणादयो बलशौर्ययुद्ध शि- क्षणादिरहिततया निःसहायाः अनाथाः वराकाः किंकर्तव्यविमूढाः तत्पराजयेन पराजिताश्च भूत्वा विधर्मणां म्लेच्छशत्रूणामजावि- सारमेयादिसंघवत् - अधीना भवन्त्येव । श्रल्पसंख्यकक्षत्रियपरा- जयेन समग्रस्यापि राष्ट्रस्य पराजयो मन्यत एव । निखिलं राष्ट्र परतन्त्रं सम्पद्यत एव । अत एवास्मादेव जातिभेदकर्म- भेदाभ्युपगमरूपकारणात् समुद्भ तं प्रभूतानिष्टजनकं प्रशस्त- राष्ट्रजातिधर्मगौरव विघातकं पारतन्त्र्यं सहस्रवर्षपर्यन्तं भारतीय दनेर्होनंश्चानुभूतम् । यद्यपि देशस्वातन्त्र्य रक्षणायाक्षत्रिया अपि सन्नद्धा श्रभवन् शत्रुभिः साकं युद्धमकार्षुः, परन्तु ते सामान्य- नियमस्यापवादभूता एव मन्तव्याः । श्रत एव ते महाशूरवीराः कृतशत्रुपराजयाः हिन्दुधर्मरक्षकाः श्रीशिवाजीप्रभूतयः अन्यैः राजस्थानादिनिवासिभि विभिन्नजातित्वेन शुद्धक्षत्रियवंश्यैः प्रद्वेष्याः प्रभूवन्निति विज्ञापयन्त्येव । मराठाराजस्थानक्षत्रियेतिहासविदो प्रत्रेदं शास्त्रीयं तत्समाधानम् अत्रेदं शास्त्रीयं तत्समाधानम्

१६७ ब्रह्म 773 ऐतरेय ब्राह्मणे यथा-यज्ञसमये त्रैवर्णिकानां सर्वेषां ब्राह्मण. त्वमेवानाम्, अर्थतस्तद्धर्मा श्रपि तैरङ्गीकरणीयत्वेन कथिताः। सन्ति । तद्यथा - ‘ब्रह्म वा एष प्रपद्यते, यो यज्ञं प्रपद्यते, यज्ञः, यज्ञादु ह वा एष पुन र्जायते । यो दीक्षते, तं ब्रह्म प्रपन्न क्षत्रं न परिजिनाति ।’ ‘सह दीक्षमाण एव ब्राह्मणतामभ्युपैति यत् कृष्णाजिनमध्यूहति यद्दीक्षितव्रतं चरति, यदेनं ब्राह्मणाः प्रभिसंगच्छन्ते । अग्निं देवतामुपैमि गायत्री छन्दः, त्रिवृतं स्तोमं सोमं राजानं ( उपैमि ) ब्रह्म प्रपद्ये, ब्राह्मणो भवामीति । ( ए० ब्रा० अ० ३४ | खं० ४-५-६ ) इति । श्रयमर्थः - एषः = क्षत्रियादिः, ब्रह्म = ब्राह्मणवर्णं, तद्धर्माश्च शमदमज्ञानादी ! प्रपद्यते = प्राप्नोति यः = क्षत्रियादिः यज्ञं श्रेष्ठतमं कर्म, प्रपद्यते = स्वीकरोति । दीक्षते = सत्यब्रह्मचर्याहिंसादिव्रतदीक्षा- मभ्युपगच्छति, तं ब्रह्म = ब्राह्मणवर्णत्वधर्मादिकं प्रपन्न = प्राप्तं, न परिजिनाति = न परित्यजति । सहसः खलु क्षत्रियादिः, दीक्षमाण एव = व्रतीक्षां स्वीकुर्वन्नव ब्राह्मणतां = ब्राह्मणवर्ण- त्वादिकं प्रभ्युपैति = प्राप्नोति । कृष्णाजिन= संस्कृतं कृष्ण- मृगचर्म, दीक्षाज्ञापक, अध्यूहति = प्राच्छादयति, यद दीक्षितानां व्रतं = सत्य ब्रह्मचर्यवानियमनगायत्री जपध्यानादिकं चरति = अनुतिष्ठति । यत् = यस्मात्, एनं= क्षत्रियादिकं लब्धदीक्षं ब्राह्मणा: दीक्षिता: अभितः संगच्छन्ते = सगताः एकस्यामेव पङ्क्तौ संमिलिताः भवन्तीति यदस्ति तेन सर्वेण दोषमार्जन- गुणाधानलक्षणेन संस्कारेण क्षत्रियादिः ब्राह्मण्यं प्राप्नोति । प्राक् क्षत्रियादिरहं संप्रति लब्धयज्ञदीक्षाप्रभावेण श्रग्नि ब्राह्मण- वर्णेष्टदेवतां उपैमि=प्राप्नोमि तथा गायत्री त्रिवृतं स्तोमं १६८ चातुर्वर्ण्य भारत समीक्षा सोमं राजानं च ब्रह्म = ब्राह्मणवर्णादिकं प्रपद्ये= प्राप्नोमि, तस्तेषामग्न्यादीनामनुग्रहणात् श्रहं ब्राह्मणो भवामि (सायण- भाष्यम्) एवं शतपथब्राह्मणेऽपि - ‘प्रथाsत्राद्धा जायते, यो ब्राह्मणो यो यज्ञाज्जायते, तस्मादपि राजन्यं वा वैश्यं वा ब्राह्मण इत्येव ब्रूयात्, ब्रह्मणो हि जायते, यो यज्ञाज्जायते । (शतपथ ब्रा० ३ २ १ ४० ) इति । यः = क्षत्रियादिः, यज्ञात = यज्ञदीक्षात: जायते = संस्कृतः सन् प्राविर्भवति, ब्रह्मणः = ब्राह्मणवर्णत्वादितो जायते, तेन संपन्नो भवतीति यावत् । =: " तथा - राष्ट्रस्वातन्त्र्य रक्षणसमये युद्धादिसमयेऽपि च सर्वेऽपि ब्राह्मणादयः क्षत्रिया एवार्थतस्तद्धर्मबल शौर्यधैर्यनिर्भयत्वयुद्ध- शिक्षणादिसमन्विताः भवन्तीति समाम्नातम् । तद्यथा - ‘क्षत्रं वा एष प्रपद्यते, यो राष्ट्रं प्रपद्यते, क्षत्रं हि राष्ट्र तं क्षत्रं प्रपन्नं ब्रह्म न परिजिनाति ।’ ( ऐ० ब्रा० अ० ३४ । ७ ) इति । श्रयमर्थः - यः ब्राह्मणादिः, राष्ट्र = राष्ट्रस्वातन्त्र्यादिरक्षणाय, प्रपद्यते = प्राप्नोति, सन्नन्द्रो भवति, वा = वै, निश्चयेन, एषः ब्राह्मणादिः, क्षत्रं = क्षत्रियवर्णत्वतद्धर्मयुद्ध शिक्षणबलशौर्यादिकं ब्रह्म = ब्राह्मणादिवर्णः, तं प्रपन्नं स्वीकृतं, क्षत्रं क्षत्रियत्वादिकं न परिजिनाति =न परित्यजति । तथा च यथा यज्ञसमये सर्वे क्षत्रियादयो ब्राह्मणा भवन्ति, तथैव युद्धसमये सर्वेऽपि ब्राह्मणादयः क्षत्रिया एव भवन्तीति बोध्यम् । श्रनेन स्वस्व- रुचियोग्यतानुरोधेन वर्णपरिवर्तनमवगम्यते । सति चैवं जाति- भेदकर्मभेदप्रयुक्तमानर्थक्यं नावतिष्ठत इति सर्वं सुस्थम् ।

X’सोमो वै अस्माकं ब्राह्मणानां राजा’ (शुक्ल यजुर्वेद ० १०।१८) इत्यादी समाम्नानात् । बहुपत्नीवाद:, मरीचिः १६६ अत एव संप्रत्यपि राष्ट्ररक्षणशत्रु पराजयसमये सर्वेऽवि श्रार्या भारतीयाः क्षात्रभावोपेताः संहता व्यूहसम्बद्धाश्च भवन्तोsarयमेव विजयं लभन्ते । सति चैवं संग्रामस्थल एव केवलं क्षात्रभावशौर्यादिकमपेक्ष्यत इति न मन्तव्यम्, श्रपि तु योद्ध णां वीराणां निखिलस्य समाजस्य च रक्षणाय पोषणाय च कृषिश्रमादिस्थलेष्वपि उल्लासोत्साहधैर्य प्रयत्नादिलक्षणः क्षात्रभावोऽस्त्यपेक्षित इति ज्ञेयम् । बहुपत्नीवाद: कश्चनैवमधिक्षिपति - पूर्वस्मिन् समये ये महान्त ऐश्वर्य- शालिनी विशिष्टसत्तावन्तो राजानो महाराजाः सम्राजश्च, विस्तृत भूस्वामिनः सामन्ताः धनाढ्याः श्रेष्ठिनश्चासन्, ते तु भूयसी : पत्नीः संभोग्यरूपेण परिजग्रहुः, ताभ्यश्च प्रभूताः प्रजाः जनयामासुः । ये धर्माचार्याः श्रद्धेयाः प्रभुभक्तिपरायणाः ब्रह्मवा- परन्तु दिनो महषपदवाच्याश्च बभूवुः, तेऽपि नैकां पत्नीमपि तु अनेकाः पत्नी: भुञ्जानाः श्रासन् । तेषु बहुषु महर्षिषु सप्त ऋषयः प्रधानरूपेण स्मृतिपुराणादिषु प्रसिद्धाः मन्यन्तेऽस्माभिः । यथाहि - ‘मरीचिरङ्गिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः । वसिष्ठ इति सप्तैते मानसा निर्मिता हि ये । एते वेदविदो मुख्याः वेदाचार्य्याश्च कल्पिताः ॥ ’ ( महा - शान्ति० ३४०।६६-७० ) इति । मरीचिः अस्य महर्षेः श्रनेकाः रमण्य पत्न्य श्रासन् यासु प्रधाने द्वे भार्ये श्रास्ताम् । एका दक्षत्रजापतेः राज्ञः पुत्री संभूतिः, द्वितीया धर्मनाम्नो ब्राह्मणस्य कन्या धर्मव्रता च । ताभ्यः प्रभूतसन्तति- १७० चातुर्वर्ण्य - भारत - समीक्षा विस्तारोऽजायत । प्रसिद्धः कश्यपो महर्षिः मरीचिपुत्र एवास्ति । वायुपुराण- स्कन्दपुराण- प्रग्निपुराण- पद्मपुराण मार्कण्डेयपुराण- महाभारत- प्रभृतिषु तस्य विस्तृता कथा वर्तते । अङ्गिराः प्रस्य महर्षेरपि श्रनेका उपभोग्याः पत्न्य प्रासन् । यासु प्रधानतया पञ्च भार्या बभूवुः । प्रथमा मरीचिकन्या सुरूपा, द्वितीया कर्दममहषिपुत्री स्वराट् तृतीया च मनु महाराजस्य पुत्री पथ्या, चतुर्थी प्रत्रिमहर्षिकन्या प्रात्रयी, पञ्चमी च शुभा । प्रथमया वृहस्पतेः पुत्रस्य, द्वितीयया गौतमवामदेवादिपञ्च- पुत्राणां तृतीयया विष्णुप्रभृतिपुत्रत्रयस्य, चतुर्थ्या श्राङ्गिरसादि पुत्राणां प्रादुर्भावो बभूव । वायुपुराणे (६५) पञ्चषष्टितमेऽध्याये, ब्रह्मपुराणे महाभारते चास्य कथा विद्यते । पुलस्त्यः अस्यापि महर्षेः सन्ध्या प्रतीची प्रीति हविर्भू-प्रभृतिप्रभूत- पत्न्यः आसन् । ताभ्यो दत्तोलि-निदाघागस्त्यविश्रवः - प्रमुखाः अनेके पुत्रा जायन्त । विश्रवसः सकाशात् कुबेररावणकुंभ- कर्णविभीषणप्रभृतयः पुत्राः समुदपद्यन्त । एतस्य कथा विष्णु- पुराण - ब्रह्मवैवर्तपुराण- कूर्मपुराण- श्रीमद्भागवत- वायुपुराणमहा- भारतोद्योगपर्वप्रभृतिग्रन्थेषु वर्तते । पुलहः क्रतुश्च पुलहस्य महर्षेरपि श्रनेकाः रमण्यः कलत्राण्यासन् । तासु दक्षप्रजापतिकन्या क्षमा, कर्दमपुत्री गतिश्च मुख्ये प्रास्ताम् । क्रतुमहर्षेरपि बहुभार्यासु कर्दमकन्या क्रिया, दक्षपुत्री सत्र तिश्च द्वे प्रधाने प्रास्ताम् । एतयोश्च भागवते चतुर्थस्कन्धे विष्णुपुराणे च प्रथमांशे च कथा वर्तते । वसिष्ठः, वैदिककाल: वसिष्ठः १७१ वसिष्ठस्य महर्षेः प्ररुन्धतीनामिका पत्नी प्रासीदिति सर्वत्र प्रसिद्धम् । परन्तु तस्याक्षमालासंज्ञिका द्वितीया परिणीता पस्न्यप्यासीदिति - ‘प्रक्षमाला वसिष्ठेन संयुक्ताऽधमयोनिजा । शारङ्गी मन्दपालेन जगामाभ्यर्हणीयताम् । एताश्चान्याश्च लोकेऽस्मिन्नपकृष्टप्रसूतयः । उत्कर्ष योषितः प्राप्ता: स्वःस्वै- भर्त गुणैः शुभैः ।।’ ( मनु० | २३-२४ ) इति मनुस्मृतिवचन- प्रामाण्यादवगम्यते । संयुक्ता = परिणयेन वधूरूपेण संगता । श्रभ्यर्हिणीयतां = पूज्यतां गता । एताश्चान्याश्च सत्यवत्यादयो निकृष्टयोनिप्रसूतयः स्वभर्त प्रकृष्टगुणैः उत्कृष्टतां प्राप्ताः । अनेनासवर्णविवाहोऽपि प्राक् बाहुल्येन प्रवृत्तोऽभूदिति ज्ञायते । इमे च महर्षयः स्वायम्भुवमन्वन्तरसमये वर्तमाना बभूवुः । वर्तमाने वैवस्वत मन्वन्तरे तु ‘विश्वामित्र जमदग्नि-भरद्वाज- गौतमात्रि- वसिष्ठ- कश्यपाः सन्ति । वैदिककालः घनैश्वर्य सम्पन्नस्यानेक सुन्दर स्त्रीसेवनं वैदिककालेऽप्यव- गम्यते । यथाहि - ’ परिष्वजन्ते जनयो यथा पतिम् ।’ ( ऋ० १०।४४ । १ ) इति । जनयः - जायाः सुन्दररमण्यः, बहुवचनात् अनेकाः, पतिमेकवचनात् एकम् । परिष्वजन्ते= समालिङ्गनं कुर्वन्ति । ‘समस्मिञ्जायमान श्रासत ग्नाः । ’ ( ऋ० १०६५/७ ) इति । श्रयमर्थः - श्रस्मिन् पुरुरवसि राज्ञि जायमाने सति = अर्थात् धनैश्वर्ययौवनादिगुणैः प्रादुर्भूते संयुक्ते सति, ग्नाः = अप्सरसो देववेश्या श्रपि, बहुवचनात् बह्वयः सम्प्रासत = संगता श्रभवन् । तथापि कामककरो पुरुरवाः तृप्ति न लेभे इति काम- स्थानलत्वं बहुसंतापप्रदतया वैरित्वञ्च सूच्यते । ग्ना:’ इति १७२ चातुर्वर्ण्य - भारत-समीक्षा स्त्रीणां नाम, गच्छन्ति हि एना: मैथुनधर्मेण नरा इति शेषः । अपि च ‘ग्ना व्यन्तु देवपत्न्यः’ (नि० १२।४६ । १ ) व्यन्तु = पिबन्तु, एतदाज्यमिति शेषः । इत्यत्र निरुक्ते न मानवपत्न्यो ग्नाः, श्रपि तु गन्धर्वादिदेवानां पत्न्यः सन्तीति स्पष्टं प्रतिपादितम् । केयमुर्वशी, पुरूरवाश्च कीदृश: ? । ‘ता श्रञ्जयोऽरुणयो न सत्र :’ ( ऋ० १०६५।६ ) ताः == प्रसिद्धाः, विदेशीयाः विजातीयाश्चाप्सरसः कीदृशास्ताः, अञ्जयः = विविधवस्त्राभरणोपेताः, अरुणयः = अरुणवर्णाः, न सत्र : = पुरुरवसः राज्ञः सकाशात् उर्वशीवत् न जग्मुः, किन्तु अवस्थिता बभूवुः । तथापि राजा पुरुरवा: विविधानेकोपभोग्य- नारीसंयुक्तोऽपि उर्वशीविरहेणातिव्याकुलः सन् इतस्ततो बभ्राम, विविधं कष्टमनुभूतवान् । ताः प्रभूताः सुन्दर्यो युवतयोऽपि तस्य व्याकुलतामपनेतुमसमर्था अभवन् इत्यहो कामस्य वामता । अनेन बह्वीभिः रमणीभिः सजातीयाभि विजातीयाभिश्च सह राज्ञः पुरुरवसः कामसंसर्गे जात इत्यप्यवगम्यते । उर्वश्यपि विदेशीया विजातीया चास्ति । स्वयमुर्वशी ब्रवीति - ‘यद्विरूपाऽचरं मर्त्येषु ।’ (ऋ० १० । ६६ । १६ ) यत् = यदा, अहं, विरूपाऽस्मि, देशजाति - प्राकारवेषभूषादिभेदेन तस्याः विरूपत्वम् । सा च गन्धवणी वेश्याऽऽसीत् । अत एव ‘वेश्यापुत्रो वसिष्ठ’ इति प्रसिद्धम् । मर्त्येषु = मनुष्येषु मनुपुत्रेषु श्रार्येषु, अचरं = मनुष्याणां सविधे गमनमकार्षमित्यर्थः । ‘श्रमानुषीषु मानुषो निषेवे ’ ( ऋ० १०६५/८ ) ’ यदासु मर्तो अमृतासु निस्पृक् ।’ (ऋ० १०/६५ / ६ ) इति । श्रमानुषीषु = गन्धर्वादि- देवभूतासु प्रप्सरःसु मानुषः सन् = मनुपुत्रः श्रार्यः सन् पुरुरवाः निषेवे = प्रबलासक्त्या ताः सेवितवान् । यत्=यदा ग्रासु श्रमृतासु- कामप्रशंसा महाभारतसमर्थनञ्च १७३ प्रप्सरः सु मर्तः मनुष्यः पुरुरवा: निस्पृक् =ता: निःशेषेण पस्पर्श । , वैदिकसमयेऽपि धनादिसम्पन्नाः लोका प्रतिकामाकुला प्रासन् । दिवसे मैथुननिषेधमपि न पालयामासुः, संग्रमस्य विशेषमादरं नाकार्षुः इत्यनेन वेदवचनेनावगम्यते । ‘दिवा नक्तं इनथिता वैतसेन’ (ऋ० १०/६५।४ ) इति । सा चोर्वशी, राज्ञा पुरुरवसा, दिवा दिवसेऽपि यत्र किल सर्वथा मैथुननिषेधः तस्मिन्नपि । नक्तं = रात्रिषु तु किं वक्तव्यम् ?, यतः प्ररमयत्र्यो रात्र्यो भवन्ति । वैतसेन दण्डसदृशेन पुंव्यञ्जनेन शिश्नेन इनथिता = ताडिता भवति । ‘त्रिः स्म माऽह्नः इनथयो वैतसेन ( ऋ० १०/६५/५ ) इति । उर्वशी पुरुरवसं राजानं सम्बोध्य तस्यासंयमं प्रभूतमुक्तवती, हे पुरुरवः ! अस्य मन्त्रस्य तृतीय- पादे सम्बोधनं वर्तते । त्वं मा = मां श्रह्नः = श्रहन्यपि दिवसेऽपि, रात्रौ तु किं वक्तव्यम् ? । वैतसेन - शिश्नदण्डेन, त्रिः = त्रिवारं ‘द्वित्रिचतुर्भ्यः सुच्’ इनथयः = प्रश्नथयः प्रताडयः, न त्वेकवारं, असंयमस्य पराकाष्ठा श्रनेनावगम्यते ।

कामप्रशंसा महाभारतसमर्थनश्च श्रतएव महाभारते श्रापद्धर्मपर्वणि धर्मार्थाभ्यामपि कामस्य प्रशंसायं प्राधान्यमभिहितम् । यथाहि - X ‘श्रेयस्तैलं हि पिण्या- काद्, घृतं श्रेय उदश्वितः । श्रेयः पुष्पफलं काष्ठात्, कामो धर्मार्थयो वरः ।। नवनीतं यथा दध्नस्तथा कामोऽर्थधर्मतः । तस्मात कामो विशिष्यते । ’ ( श्र० १६७।३४-३५-३६ ) सति चैवं Xश्रेयः=श्रेष्ठः, पिण्याकात् = तिलकल्कात् ‘खोण’ इतिगुर्जर- भाषायाम् । उदश्वितः = अर्धजलेन मथितात् तत्रात् ।१७४ चातुर्वर्ण्य - भारत - समीक्षा अनेकाभिः सुन्दरीभिः युवतिभिः सह एकस्य पुरुषस्य स्वच्छन्द रमणमित्थं विहितम् । ‘सुचारुवेषाभिरलंकृताभिः, मधोत्कटाभिः प्रियदर्शनाभिः । रमस्व योषाभिरुपेत्य कामं कामो हि राजन् ! परमो भवेन्नः ।।’ ( १६७-३८ ) अर्थात् त्वमेक एवैतादृशीभिः नारीभिः कामं = यथेच्छं रमस्व = रमणं विधेहीत्यर्थ: । श्रेष्ठस्य कामस्य परितृप्तये इति शेषः । हे राजन् ! नः = श्रस्माकं मते कामः परमः = श्रेष्ठः प्रशंसनीयो भवेत् । श्रनेन संदर्भेण महाभारतेऽपि वेदवचनप्रतिपादितो बहुपत्नीवादः स्पष्टतया समर्थितः । वसुदेवादिवृत्तान्तः गवते नवमे अत एव द्वापरयुगे पुराणकालेऽपि एकस्यैश्वर्यसंपन्नस्य भूयस्यः पत्न्यः श्रूयन्ते । तद्यथाऽत्रैकमुदाहरणं प्रदश्यते । श्रीमद्भा- श्रीकृष्णपितुर्वसुदेवस्यानकदुन्दुभीत्यपरनाम्नः- ‘पौरवी, रोहिणी, भद्रा, मदिरा, रोचना, इला । देवकीप्रमुखा प्रासन् पत्न्य प्रानकदुन्दुभेः ||’ ( भा० ६।२४।४५ ) इति । प्रमुखपदेन नवमस्कन्धे तत्रैव प्रतिपादिताः धृतदेवा, शान्तिदेवा, उपदेवा, श्रीदेवा, देवरक्षिता, सहदेवा च बोध्या । ताभ्यः त्रयोदशपत्नीभ्यः, एकस्मादेव वसुदेवात् षष्टिसंख्यातोऽप्यधिकाः पुत्राः समुत्पन्ना प्रभूवन्निति तस्मिन्नेव नवमे तत्तन्नामसंख्या- निर्देशेन प्रतिपादिताः सन्ति । ‘पुत्रान् प्रसुषुवे चाष्टौ कन्यां चैवानुवत्सरम् ’ ( भा० १०।१।५६ ) इत्यनेन प्रतिवर्ष देवक्या: प्रसूति बोधयता वचनेनान्यासामपि भार्याणां प्रतिवर्ष प्रसव- संभवेन नारीणामुदरदुर्दशात्वं पुरुषस्यातिकामाकुलत्वं च द्योत्यते । एवं कलियुगेऽपीदमेकमुदाहरणं सर्वत्रैश्वर्यवतां बहुपत्नी- बोधकं प्रदश्यते । तद्यथा - ‘जयचन्द्रस्य भूपस्य योषितः षोडशो- सपत्नीबाधनसूक्तम् १७५ ऽभवन् । तासां न तनयो ह्यासीत् पूर्वकर्म विपाकतः ॥’ ( भ० पु० ३।३।६ ) इति । एवं भारततत्तत्खण्डशासकानां दुष्टानां मुसलमानराजानान्तु का कथा वक्तव्या भवेत् ? । ते तु यस्य कस्यचित् सुन्दरीं युवतीं सधवां वा विधवां वा पुत्र वा वधूं वा बलाद्वा धनाद्वा येन केन प्रकारेण स्वाशायिनीः प्रकुर्वन्निति तदितिहासेनावगम्यते । संप्रति हैदराबादनिजामस्य पटियालाराजस्य च प्रभूतोपभोग्यपत्नीपरिग्रहवृत्तान्तः सर्व- जनप्रसिद्धोऽस्ति । सपत्नीबाधनसूक्तम् प्रनेन ऋग्वेदसंहितायाः दशममण्डलस्य एकशतषट्चत्वा- रिशत्तमेन सूक्तेन सपत्न्याः बाधनं प्रतिपाद्यते । श्रत एतत्सूक्त- जपा दिना सपत्न्याः विनाशो भवति ( सायणभाष्यम्) प्रनेनाव- गम्यते वैदिककालेऽनेकस्त्रीविवाह ग्रासीत्, अत एव सपत्न्यो मिथः प्रद्वेषं कुर्वन्त्यां मन्त्रप्रार्थनया सपत्नीबाघनाय पत्युश्च स्व- वशकरणाय तच्छिरसि - श्रौषध्युपधानादिकं बहुविधमुपायम- कार्षुः इति । यथाहि - ’ इमां खनाम्योषधि, वीरुधं बलवत्ताम् । यया सपत्नों बाधते, यया संविन्दते पतिम् ॥ ( ऋ० १०। १४६ । १ ) श्रयमर्थः - इमामोषध पाठानामिकां आपस्तम्बगृह्य- सूत्रे ‘पाठां परिकिरति’ इत्युल्लेखात्, पाठानामौषधिः खातव्या, तां हस्तयोराबध्य शय्याकाले बाहुभ्यां भर्तारं परिगृह्णीयात्, तेन वश्यो भवति पतिः, सपत्नीबाधनञ्च संपद्यते इति च । वीरुधं लतारूपां, बलवत्तमां=स्वकार्यकरणेऽतिशयेन बलवतों, खनामि= उन्मूलयामि, सपत्नों समानः एकः पतिर्यस्या सा । बाधते = हिनस्ति, पति = भर्तारं संविन्दते = सम्यगसाधारण्येन लभते । १७६ चातुर्वर्ण्य भारत समीक्षा द्वितीयेन मन्त्रेण सपत्नी प्रोषधिप्रार्थनां करोति, तत्प्र भावाच्च स्वाभीष्टसिद्धिकामनाञ्च प्रकटयति- ‘उत्तानपर्णे ! सुभगे ! देवजूते ! सहस्वति ! सपत्नों मे पराधम, पति से केवलं कुरु ॥’ ( ऋ०१० | १४६ । २ ) इति । उत्तानपर्णे= उत्तानानि ऊर्ध्वमुखानि, पर्णानि पत्राणि यस्यास्तादृशि ! हे सुभगे = सौभाग्य हेतुभूते ! हे देवजूते ! = देवेन स्रष्टा प्रेरिते! हे सहस्वति ! = प्रभिभवनवति । ईदृशे हे पाठे ! मम सपत्नी त्वं पराधम= परागमय दूरीकुरु मम पतिसकाशात् दूरं गमय । मे = ममैव केवलं=असाधारणं - पति कुरु । मयैव स उपभोग्यः स्यात्, नान्ययेति भावः ।

अनेन तृतीयेन स्वोन्नतेः परावनतेश्च सौन्दर्यादिप्रयुक्तस्व- निष्ठोत्कृष्टत्वस्य च भावना स्त्रीषु स्वाभाविकी वर्तत इति द्योत्यते - ‘उत्तराऽहमुत्तरे ! उत्तरेदुत्तराभ्यः । श्रथा सपत्नी या ममाधरा साधराभ्यः ॥ ’ ( ऋ० १० १४६ । ३ ) इति । हे उत्तरे ! = उत्कृष्टतरे ! पाठे ! ग्रहं उत्तरा = सौन्दर्ययौवनादिना उत्कृष्टतरा भूयासम् । उत्तराभ्यः = उत्कृष्टतराभ्योऽन्याभ्यो नारीभ्योऽपि ग्रहं उत्तरा - इत् उत्कृष्टतरैव त्वत्प्रसादाद्भवे- यम् । श्रथ = श्रनन्तरं मम या द्वेष्या सपत्नी सा, अधराभ्यः = निकृष्टाभ्योऽपि नारीभ्यः, अधरा = निकृष्टतरा भवतु । सपत्नीनामाप्यहं नैव कथयामीत्यनेन चतुर्थेन द्वेषातिशयो श्रभिव्यज्यते मम भर्तुः सकाशात् तां दूरादप्यतिदूरं च गमया. मीति रूढवैरत्वं गम्यते - ’ न ह्यस्या नाम गृभ्णामि, नो अस्मिन् रमते जने । परामेव परावतं सपत्नों गमयामसि ।।’ (ऋ०१० | १४६ ४ ) इति श्रस्याः सपत्न्याः, नाम = संज्ञामपि नहि गृभ्णामि= नैव गृह्णामि उच्चारयामि । नो= न खलु कदाचित् सपत्नीबाधनसूक्तम् १७७ श्रस्मिन् जने सपत्न्याख्ये रमते = क्रीडति मम मन इति शेषः, मम मनः तत्र कदापि नैवानुरागं बध्नातीति यावत् । श्रत एव तां द्वेष्यां सपत्नीं परां परावतमेव = प्रतिशयेन दूरदेशमेव गम- यामसि = गमयामः प्रापयामः, प्रतिशयेन स्वप्रियभत्र वियोजयाम इत्यर्थः । अनेन पञ्चमेन सर्वथा सर्वदाऽहं सपत्न्याः तिरस्कारादिना अभिभवनशीला भवामीति बोध्यते - ‘श्रहमस्मि सहमानाऽथ त्वमसि सासहिः । उभे सहस्वती भूत्वी सपत्नों मे सहावहै ॥ ( ऋ० १० १४६।५ ) इति । हे श्रोषधे ! अहं त्वत्प्रसादात् सहमाना, अस्मि = सपत्न्या अभिभवित्री भवामि । श्रथ = श्रपि च त्वमपि सासहिः प्रसि= तस्या अभिभवित्री भवसि । श्रावामुभे श्रपि, सहस्वती = श्रभिभवित्र्यौ भूत्वी= भूत्वा मे मम, मे मम, सपत्नों सहाव है = श्रभिभवाव इत्यर्थः । प्रोषधिप्रभावेणाहं पत्यु र्मनो मय्येव समासक्तं करोमीति षष्ठेन प्रतिपाद्यते - ‘उप तेघां सहमानामभि त्वाधां सहीयसा । मामनु प्र ते मनो वत्सं गौरिव धावतु पथा वारिव धावतु ॥’ (ऋ० १० १४६ | ६ ) इति । हे प्रियपते ! ते =तव, सहमानां= सपत्न्याः श्रभिभवित्रों, इमामोषधि, उपप्रधां= शिरसि उपाधानं करोमि । सहीयसा = श्रभिभवितृतरेण तेनोपधानेन त्वां श्रभि श्रधां= श्रभितो धारयामि । ते तव प्रियभर्तुः मनः मामनुलक्ष्य प्रधावतु = प्रकर्षेण शीघ्रं गच्छतु । तत्र निदर्शनद्वयमुच्यते- गौरिव = यथा गौः वत्सं प्रति शीघ्रं गच्छति, पथा= निम्तेन मार्गेण वारिव= वा:- उदकं यथा स्वभावतो गच्छति, तद्वत् । श्रनेन दृष्टान्तद्वयेन स्त्रियः स्वाभाविकपति मिलनोत्सुक्या तिशयोऽ- भिव्यज्यते । १७८ चातुर्वर्ण्य - भारत - समीक्षा समालोचना 1 एक: पुरुषोsनेकस्त्रीभिः सह विवाहादिना सहयोगं करोति चेत्, तदा विचारकै सोऽयं सामाजिक दुर्नयोऽस्तीत्यभिधीयते पुरुषाणामौद्धत्ययुक्तमुच्छृङ्खलत्वं स्त्रीणाञ्च वराकीणां पश्वा- दिवत् सार्वनाववैशिष्टचं सश्रृङ्खलत्वं द्योत्यते । श्रस्य दुर्नयस्य प्रतिषेधो भगवता वेदेन सबलशब्दः कर्तव्य श्रासीत । परन्तु कर्तव्यस्य प्रतिषेधस्य स्थाने सपत्नीबाधकसूक्तेना कर्तव्यस्य सपत्नीग्रहणत द्वेषादेः प्रोत्साहनं विधीयते । तत्कथमपि समु- चितं विचारकाणां न प्रतिभाति । सपत्न्याः कोऽयमपराधः ? अपराधोऽस्ति स्पष्टः पत्युः, तदकार्यकरणे प्रोत्साहनप्रदातुः समाजस्य च । श्रनेन सूक्तेन निरपराधस्य बाधनं, सापराधस्य चाबाधनं वैपरीत्यमेव प्रतिपाद्यते । कथं तया स्त्रिया तेन विद्य- मानस्त्रीकेण पुरुषेण साकं विवाहो विहितः ? इति चेत्, तस्याः सर्वथा मूकगवादिपशुरिव पराधीनत्वादिति गृहाण । 2 गृह्यसूत्रेष्वापस्तम्बादिमहर्षिभिरपि - ‘एतत्सूक्तजपादिना सपत्न्याः विनाशो भवति श्रतस्तद्देवताकमिदम्’ इति चानुमो- द्यते । सायणभाष्येऽपि ‘अस्य सूक्तस्य विनियोगो भगवताऽऽ- पस्तम्बेन कस्मिश्चित् सपत्नीघ्नप्रयोगविशेषे प्रदर्शितः । इत्य- भिहितम् । श्रपि च कस्याः सपत्न्याः प्राक्स्थितायाः पश्चादा- गतायाः वा विनाशो भवति ? इत्यपि चिन्त्यम् । प्रथमायाश्चेत् तस्याः विशेषाधिकारवत्वात्, द्वितीयायाश्चेत् पत्या प्रथमापेक्षया सौन्दर्यादिप्रयुक्तेन प्रेम्णा परिगृहीतत्वात् । अस्य सूक्तस्य जपानुष्ठानादिप्रयोगो मिथः सपत्नीभ्यां कृतश्चेत्, तदा द्वयोरेव विनाशः स्यात् । तथा च पतिगृहं गृहमेव न स्यात्, ‘गृहिणी गृहमुच्यते’ इति न्यायात् । सरागस्य तस्य पुरुषस्य निष्फलमेव समालोचना १७६ जोवनं संपद्येत, ‘नाना नारी निष्फला लोकयात्रा’ इत्युक्त- स्वाच्च, पुत्रादिसन्ततिश्च मातृविहीना दयनीया संजायेत । प्रतः अस्य सूक्तस्य कोऽभिप्रायः इति साधारणैर्जने ज्ञतुं न शक्यते । सामाजिकनयः शास्त्रादेशश्च ईदृशो भवितव्य प्रासीत् । एकस्य पुरुषस्य कृतेऽन्यस्त्रीपरिग्रहाधिकार एव नास्ति । अन्य- स्त्रीपरिग्रहोऽस्य महान् अपराधोऽस्ति । तत्प्रतिषेधार्थं पापनरक- दुःखादेः सामाजिकदण्डराजदण्डयोश्च प्रतिपावनं कर्तव्यमासीत् । कन्यानां बहुत्वात् कुमाराणामत्पत्वाच्च तदानों बहुपत्नीवादः प्रतिपादित प्रासीदिति चेत् । मैवम् । धनैश्वर्यादिसम्पन्नानां दृष्ट्येदं कथनं, नाकिञ्चनदृष्ट्या । ते तु धनादिप्रभावेण भोग- विलासकामनयैव बहुमनोरमभार्याः परिगृह्णन्ति । अत एव ब्राह्मणेन क्षत्रियादिकन्यानां, एवं क्षत्रियेण वैश्यादिकन्यानां परिग्रहोऽनुलोम विवाहलक्षणो विधातव्यः, परन्तु शूद्रादिभिः ब्राह्मणादिकन्यानां परिग्रहो निषिद्धप्रतिलोम विवाहवत्त्वात् न कर्तव्यः । श्रनेनेदं विज्ञायते - ब्राह्मणादयः समृद्धाः आसन्, शूद्रादयस्तु अकिञ्चना, कथमेवं कर्तुं शक्नुयुः ? । परन्तु एकेन तेन पत्या भूयसीनां पत्नीनां मनांसि कथं सन्तोष्टव्यानि स्युः ?, यथैकया भार्यया भूयसां पतीनां मनांसि न च संतुष्टानि भवन्ति, तथा । पुरुषः किं बहुभार्याः समादाय सन्तोषभरितो भवति ? नैव भवति, ‘बह्वचः सपत्न्य इव गेहपति लुनन्ति ।’ ( भा० ७२ ६।४० ) इति न्यायेन प्रभूतसन्तापभरित एव भवति । भार्याश्च सपत्नीद्वेष का मानलसन्तापभरिताश्च भवन्ति । प्रकिञ्चनास्तु भार्यामन्तरेण सर्वथा सन्तप्यमाना रिक्तैव भवन्ति । प्रतोऽभ्यु- दयकामैः श्रीरामस्येव एकपत्नीव्रताख्यं चरितमुपादेयम् । न तु श्रीकृष्णस्य बहुभार्याग्रहणलक्षणम् । अपि च ‘नियोगपर्यनुयोगा- १८० चातुर्वर्ण्य भारत समीक्षा नर्हत्वात् भगवतो वेदस्य’ इत्यास्तिकभावमनुरुध्य श्रद्धावनताना- मस्माकं नास्ति काचन समालोचना, न चास्ति किमपि वक्त- व्यम् । तथापि सर्वथा सर्वत्र सर्वदा एकपत्नीवाद एव एकपति- वाद एव च धर्म्या न्याय्यः सुसंगत एव विज्ञेयः, न बहुपत्नीवादो न बहुपतिवादश्चेति सर्वेऽपि लोकहितचिन्तकाः प्रशस्ता: विचारकाः प्रभ्युपगच्छन्ति । किमस्य तात्पर्यम् ? , जायायें एकवचनं, तत्र बीजवपनादिकर्त्रे पुरुषाय च बहु- वचनम् बहुवारम् । किमस्ति तात्पर्यमत्र ? कि द्रौपद्यादिवत एकस्या बहवः पतयः आसन् वैदिककाले इत्यनेन कल्प्यं स्यात् ? । किमस्त्यत्र काव्यचातुर्यग् इति विद्वद्भि विचारणीयम् । यथाहि - ‘तां पूषन् ! शिवतमामेरयस्व, यस्यां बीज मनुष्या वपन्ति । या न ऊरू उशती विश्रयाते यस्यामुशन्तः प्रहराम शेषम् ।।’ ( ऋ० १० ८५।३७ ) इति । प्रयमर्थः तां वधूं शिवतमां = प्रत्यन्त मंगलभूतां कृत्वा सौन्दर्यलावण्य सौजन्यादिवै- शिष्ट्यमेवास्याः शिवतमत्वं, एरयस्व = ईरय मां प्रति प्रेरय । यस्यां जायायां युवत्यां ऊरौ वा, बीजं= रेतो- वीर्यं, मनुष्या:= पुरुषाः वपन्ति = श्रादधते वीर्याधानं कुर्वन्ति । स्त्रियः किं मनुष्याः न भवन्ति ? अतः श्रौचित्यात् भागत्यागलक्षणा कार्या मनुष्य- पदेनोभयग्रहणे सति । या नः श्रस्माक पुरुषाणां, ऊरू उशती= कामयमाना, विश्रयाते = शयनं करोति, श्रस्माभिः सहेति शेषः । यस्यां जायायां श्रपत्यानि उशन्तः = कामयमानाः वयं, शेर्पा- स्पर्शनयोग्यं शिश्नं प्रहराम - प्रक्षिपाम तस्य गुह्यस्थाने प्रक्षेप करवामेत्यर्थः । यद्वा यस्यां तस्या ऊरौ शिश्नसम्बन्ध करवामेत्यर्थः । ·

, महाभारतानुमतिः १८१ यद्यपि भूयः सु नारीक्षेत्रेषु एकः समर्थो वीर्यवान् पुरुष: सफलं बीजवपनं कर्तुं प्रभवति, वेश्यानारीक्षेत्रे तु बहूनां मनुष्याणां निष्फलं बीजवपनं स्यादपि । तथाप्येकस्मिन्नेव कुलवधूरूपे सुनारीक्षेत्रे बहवः पुरुषाः सफलं बीजवपनं कर्तुं कथं शक्नुयुः ? इति तथा चात्र प्रतिपादितं पुरुषनिष्ठं बहुवचनं, नारीनिष्ठमेकवचनञ्च विलष्टतरं प्रतिभाति । यद्यपि ‘मया पत्या’ ( ऋ० १० । ८५ । ३६ ) इति पूर्वमन्त्रवाक्येन स्पष्टं प्रतीयते, यत् कुलवधूनारीक्षेत्रस्य बीजवपनकर्ता एक एव पतिः पुरुषोऽर्हति तदधिकारात्, नान्यः पतिभिन्नः कश्चन, तथाप्य- त्रत्यमन्त्रस्थपुरुषगतक्रियागतबहुवचनस्य किं तात्पर्यमिति ? विद्वद्भिरन्वेषणीयम् । ‘पुनः पतिभ्यो जायां दा प्रग्ने ! प्रजया सह । ( ऋ० १० ८५ । ३८ ) पतिभ्यः = अस्मभ्यं, दाः = देहि, श्रत्रापि पतिनिष्ठबहुवचनं जायागतैकवचनकृतं शंकाशल्यम् । ‘सोमः प्रथमो विविदे, गन्धर्वो विविद उत्तरः । तृतीयो श्रग्निष्टे पतिः, तुरीयस्ते मनुष्यजाः ।।’ (ऋ० १० २८५/४० ) इति । कन्यामिति शेषः । विविदे = लब्धवान् ते= तव पति- रित्यनुषङ्गः । पश्चात् मनुष्यजा: = मनुष्यपुत्राः ते इति प्रथमा- बहुवचनं, ते तवेति षष्ठी एकवचनं वा । अत्रापि ‘मनुष्यजा:’ इति बहुवचनस्य किं तात्पर्यम् ? महाभारतानुमतिः श्रथवा - महाभारतस्यादिपर्वणि महाराज्ञीं कुन्तों प्रति महाराजः पाण्डुः- ‘अनावृताः किल पुरा, स्त्रिय प्रासन् वरानने ! । कामाचारविहारिण्यः स्वतन्त्राश्चारुहासिनि ! ॥ तासां व्युच्चर- माणानां कौमारात् सुभगे ! पतीन् । नाधर्मोऽभूद् वरारोहे ! स हि धर्मः पुराऽभवत् । प्रमाणदृष्टो धर्मोऽयं पूज्यते च १८२ चातुर्वर्ण्य - भारत - समीक्षा महर्षिभिः । उत्तरेषु च रंभोरु ! कुरुष्वद्यापि पूज्यते । स्त्री. णामनुग्रहकरः, स हि धर्मः सनातनः । श्रस्मिस्तु लोकेन चिरान्मर्यादेयं शुचिस्मिते ! | स्थापिता येन यस्माच्च तन्मे विस्तरतः श्रृणु । । ’ ( अ० १२२।४-५-६ - ७ - ८ - 8 ) इति वदन् वैदिककाले प्रतिरोधरहितानां कामाचारविहारिणीनां स्वतन्त्राणामत एव कौमारादारभ्यानेकान् विद्यमानान् पतीन परित्यज्य संप्रति श्रुतदृष्टयुरोपामरीका दिपाश्चात्यनारीवत् स्वेच्छावशात् इतस्ततो गच्छन्तीनां नारीणां भूयसीनां विद्यमान- त्वात्, तदभिलक्ष्य ‘यस्यां बीजं मनुष्याः वपन्ति’ इत्यादि श्रौतं वचनं अनेक पुरुषसम्बन्धबोधकप्रमाणरूपेण विज्ञापयति किम् ? । अनावृता: = इतस्ततो गमने वा निवासे वा मनोज्ञमनुजैः सह हास परिहाससहवासादिकरणे प्रतिरोधरहिताः, पुरा= श्रादिमे वैदिकयुगे, कामाचारविहारिण्यः = स्वेच्छानुसारेणानेक- मानवैः सह विहरणशीलाः, वरानने! = सुन्दर-मनोहरमुखे ! चारुहासिनि ! = मनोरममन्दहासोपेते ! सुभगे !, वरारोहे ! = श्रेष्ठाङ्गप्रत्यङ्गारोहाव रोहविशिष्टे ! रंभोरु ! = रंभा कदली, तत्स्तम्भवद् ऊरू सक्थिनी यस्याः शुचिस्मिते= श्राह्लादकमन्द- हासे ! इति कुन्त्याः षट् सम्बोधनानि । प्रमाणदृष्टः = किं वेदादि - शास्त्रप्रमाणेषु एतादृशो धर्मो दृष्टोऽस्ति ? किं वा प्रत्यक्षा- दिभिः प्रमाणैर्दृष्टोऽयम् ? । पूज्यते = समाद्रियते । महर्षिभिः = साक्षात्कृतधर्मभिः- शिष्टैः- यथार्थदर्शिभिः, फलसाधनतांशे भ्रान्ति- रहितत्वं शिष्टत्वमित्यभ्युपगमात् । श्रद्यापि स धर्मः, उत्तरेषु = उत्तरप्रदेशेषु कुरुषु = धर्मक्षेत्रेषु कुरुक्षेत्रेषु पूज्यते = लोकैः समादरे- णाङ्गीक्रियते, न तु गर्ह्यते । तथा चैकस्या नार्याः अनेक मानवस- म्बन्धस्य नाधर्मत्वमपि तु वेदप्रमाणवणिततया महर्षिभिः श्रेष्ठ- !. युधिष्ठिर कर्ण संमतिः १८३ स्वेनानुमोदिततया च धर्मत्वमेव मन्तव्यम् । स च धर्मः कामि- नीनां स्वेच्छाचारविहारिणीनां कृतेऽनुग्रहप्रयोजकः सनातनः = पुरातनोऽस्ति । एकपतिसम्बन्धस्य मर्यादा तु श्रचिराद् अर्थात् संप्रत्येव श्वेतकेतुना महर्षिणा स्थापिता । श्रत्र नैलकण्ठीय- भारतभावदीपव्याख्या- अनावृताः सर्वेद्रष्टुं योग्याः । कामा- चारः = रतिसुखं तदर्थ विहारिण्य = पर्यटनशीलाः, स्वतन्त्राः = भर्त्रादिभिरनिवार्याः । पतीन् व्युच्चरमाणानां व्यभिरन्तानां ( व्यभिचारं कुर्वतीनां ) दृश्यते च वेदे ‘न कांचन परिहरेत् ( छां २।१३ ) इति वामदेव्यव्रतेषु मैथुनार्थिन्याः स्त्रिया: प्रत्याख्याननिषेधः । युधिष्ठिरकर्ण संमतिः एवमनेकपत्तिवादो महाराजेन युधिष्ठिरेणापि एकया द्रौपद्या सह पंचानां पाण्डवानां विवाहावसरे सदृष्टान्तमित्थं समर्थतः । युधिष्ठिर उवाच- ‘न मे वागनृतं प्राह, नाधर्मे धीयते मतिः । वर्तते हि मनो मेऽत्र नैषोऽधर्मः कथञ्चन ॥ श्रूयते हि पुराणेऽपि जटिला नाम गौतमी । ऋषीनध्यासितवती सप्तधर्मभृतां वरा । तथैव मुनिजा वार्क्षी, तपोभिर्भावि- तात्मनः । संगताऽभूद् दश भ्रातृ न्, एकनाम्नः प्रचेतसः ।। गुरोहि वचनं प्राहु र्धम्यं धर्मज्ञसत्तम ! | गुरूणां चैव सर्वेषां माता परमको गुरुः । सा चाप्युक्तवती वाचं भैक्ष्यवद् भुज्य- तामिति । तस्मादेतदहं मन्ये परं धर्मं द्विजोत्तम ! ॥’ ( म० भा० श्रादिपर्व - १६६ - १४ - १५-१६ ) इति । धीयते= प्रविश्यते । गौतमी = गौतमगोत्र प्रसूता, जटिलेति नामधारिणी, काचन ब्राह्मणकन्या, सप्त ऋषीन् पतिरूपेण, प्रध्यासितवती = श्राश्रितवती, तथापि सा धर्मभृतां वरा = श्रेष्ठैव मन्तव्या ।१८४ चातुर्वर्ण्य भारत- समीक्षा मुनिजा मुनिकन्या, वार्ली = वृक्षात् समुत्पन्ना यद्वा एतनाम्नी । भावितात्मनः = कृतविशुद्धमन इन्द्रियान् । एकनाम्नः = एकसंज्ञा- धारिणः । संगता = विवाहिताऽभूत । भैक्ष्यवत् = द्रौपदी-कृष्णा संमित्य भुज्यतां = क्रमश उपभोगं क्रियतां भवद्भिः पञ्चभि- भ्रातृभिः इति मातुः कुन्त्याः श्रावेशोऽयमस्माभिर्धर्मबुद्धया परिपालनीय एव । यदा तस्याः सप्तपतिसमाश्रयेणापि धर्मस्य न लवलेशः संजातः, तदा पञ्चपतिसमाश्रयेण द्रौपद्याः कथ- मधर्मलेपः स्यादिति भावः । श्रत एवान्ते वंशम्पायन उवाच - ‘ततो द्वैपायनस्तस्मै नरेन्द्राय महात्मने । श्राचख्यौ तद्यथा धर्मो बहूनामेकपत्निता । ’ ( म० भा० श्रादिपर्वणि० १६८।२३ ) इति । द्वैपायनः = व्यासः, नरेन्द्राय = द्रुपदाय - द्रौपदीपित्रे इत्यर्थः । एवं महाभारतस्यादिपर्वणि एकाधिकद्विशततमाध्याय (२०१) समुदारदोत्रा यशस्विना कर्णेन दुर्योधनं प्रतीत्थमुक्तम्- भो दुर्योधन ! त्वया पाण्डवेषु मिथो विच्छेदभावो न स्थापयितुं शक्यो भवति केनाप्युपायेन । ‘परस्परेण भेदश्च नाधातुं तेषु शक्यते एकस्यां ये रताः पत्त्यां न भिद्यन्ते परस्परम् ॥६॥ न चापि कृष्णा शक्येत, तेभ्यो भेदयितुं परैः । परिद्यूनान् वृत- । वती, किमुताद्य मृजावतः ||७|| ईप्सितश्च गुणः स्त्रीणामेकस्याः बहुभर्तता । तं च प्राप्तवती कृष्णा, न सा भेदयितुं क्षमा ॥८॥ ’ इति । तेषु पाण्डवेषु भेद: ‘फूट’ इति भाषायाम् । कृष्णा = द्रौपदी परः = अन्यैः परियूनान् = भिक्षाभोजिनोऽकिञ्चनान् दीनहीनान् तानभिवीक्ष्यापि यदा सा वृतवती = पतित्वेन स्वीकु- वंती बभूव, तदाऽद्य तु मृजावतः प्रभूतसंपत्तिशालितया परिपुष्ट- स्वच्छसुन्दराङ्गान् तान् कथं परित्यजेत् ? कथं न स्वीकुर्यादिति । ईप्सितः = प्रभिलषितः, गुणः = कामुकस्त्रीदृष्टया गुणोऽपि 1

मर्यादास्थापनप्रयोजकम् १८५ पुरुषदृष्टघाऽनिष्टो दोष इति भावः । श्रनेन कर्णेनापि, एकस्या: कामिन्याः कृते बहुपतिवादः, प्रभीष्टगुणत्वेन प्रतिपादित प्रासीदिति । मर्यादास्थापन प्रयोजकम् श्वेतकेतुना कदा कस्मात् कारणाच्च कीदृशी च मर्यादा स्थापिता ?, इत्यत्रास्ति ईदृशो वृत्तान्तः - ‘बभूवोद्दालको नाम महर्षिरिति नः श्रुतम् । श्वेतकेतुरिति ख्यातः पुत्रस्तस्याभव- न्मुनिः ॥’ ख्यातः=छांदोग्योपनिषदः षष्ठाध्याये श्वेतकेतुः नववारं तत्त्वमसीति महावाक्यस्य पितुरुद्दालकात् सदुपदेशग्रा- हकत्वेन प्रसिद्धोऽस्ति । ‘मर्यादेयं कृता तेन, धर्म्या वै श्वेतकेतुना । कोपात् कमलपत्राक्षि ! यदर्थं तान्निबोध मे ।। श्वेतकेतोः किल पुरा, समक्षं मातरं पितुः । जग्राह ब्राह्मण: पाणौ गच्छाव इति चाब्रवीत् ॥ ऋषिपुत्रस्ततः कोपं चकारामर्षचोदितः । मातरं तां तथा दृष्ट्वा नीयमानां बलादिव ।। क्रुद्धं तं तु पिता दृष्ट्वा, श्वेतकेतुमुवाच ह । मा तात ! कोपं कार्षोस्त्वमेष धर्मः सनातनः || अनावृता हि सर्वेषां वर्णानामङ्गना भुवि । यथाभावं स्थितास्तात ! स्वे स्वे वर्णे तथा प्रजाः ।। ऋषिपुत्रोऽथ तं धर्मं श्वेतकेतु र्न चक्षमे । चकार चैव मर्यादामिमां स्त्रीपुंसयो र्भुवि ॥ व्युच्चरन्त्याः पतिं नार्या अद्य प्रभृति पातकम् । भ्रूणहत्या समं घोरं भविष्यत्यसुखावहम् ॥ भार्या तथा व्युच्चरतः कौमार- ब्रह्मचारिणीम् । पतिव्रतामेतदेव भविता पातकं भुवि ॥ इति तेन पुरा भीरु ! मर्यादा स्थापिता बलात् । उद्दालकस्य पुत्रेण धर्मो वै श्वेतकेतुना ॥ ( म० भा० श्रादिपर्व ० ० १२२ ।४ । १०-११-१२-१३-१४-१५-१६ - १८-१६-२१ ) इति । कश्चनोच्छु- स्ङ्खलः कामी ब्राह्मणः श्वेतकेतुमातरं वदति स्म गच्छावः = भावां १८६ 1 चातुर्वर्ण्य - भारत - समीक्षा अन्यत्र गमनं कुर्वः, यत्र किलावयोः परस्परं स्नेहसिक्तयो येथे- ष्टविहारः स्यादिति । स्त्रीणां स्वेच्छाचारः सनातनो धर्मोऽस्ति । अतस्त्वया श्वेतकेतुना कोपो न कर्तव्योऽधर्मत्वाभावात् । वर्णानां = सर्वेषां ब्राह्मणादीनां अंगनाः = स्त्रियः, भुवि = लोके, अनावृताः = प्रतिरोधरहिताः सन्ति । यथा पशुपक्ष्यादित्रजाः स्वस्मिन् स्वस्मिन् वर्गे यथा स्वच्छन्दतो विहरन्ति तथा मनुष्य- प्रजा:, यथाभावं = स्वस्व भावमनतिक्रम्य विहरन्तु, प्रत्र नास्ति कश्चन दोष इत्यर्थः । श्रसुखावहं = दुःखप्रापकम् । नीलकण्ठव्याख्यानमंत्र - न चक्षमे =न क्षमां कृतवान् ( न सहनं चकार ) ’ यथा स्तेनो यथा भ्रूणहा, एवमेष भवति, योऽयोनौ रेतः सिञ्चति । ( काचन श्रुतिः ) इति । प्रयोनौ = अन्यदारेषु पुंसां गमनात् प्रत्यवायः श्रुतिसिद्धः । तथा ‘अमीषां निष्कृतं जारिणीव’ इति मन्त्रे जारिण्याः निष्कृतेः = पीडायांश्च दर्शनात्, स्त्रीणामपि परसंगे दोषोऽस्त्येवोक्तः । तथापि श्रौतार्थस्यैव कयाचिदूंग्या व्यवस्थेयं विहितेति ज्ञेयम् । अथवा व्युच्चरणे तेजस्विनां न दोष:, किन्तु पृथग्जनानामेवेति तात्पर्यम् । अन्यथा कृष्णस्यापि पारदार्यदोषप्रसवतेः ( ‘परदाररतः कृष्णः’ इत्युक्त- त्वात् ) । प्रहल्या दिजाराणामिन्द्रादीनां तदप्रसक्तेश्चेत्यास्तां तावत् । अग्निदेवचरितं वरदानं किमिदमस्ति तात्पर्यञ्च महाभारतस्थ सभापर्वणि सहदेवदिग्विजय प्रसंगे माहि- हमत्यां नगर्यामग्निदेवस्येदं चरितं निरूप्यते । यथाहि - ’ तत्र माहिष्मतीवासी भगवान् हव्यवाहनः । श्रूयते हि गृहीतो वै पुरस्तात् पारदारिकः ।। नीलस्य राज्ञो दुहिता बभूवातीव- शोभना । साऽग्निहोत्रमुपातिष्ठद् बोधनाय पितुः सदा ॥ व्यजनै- अग्निदेवचरितं वरदानं किमिदमस्ति तात्पर्यञ्च १८७ धूयमानोऽपि तावत्प्रज्वलते न सः । यावच्चारुपुटौष्ठेन वायुना न विधूयते । ततः स भगवान् श्रग्निश्चकमे तां सुदर्शनाम् । ततो ब्राह्मणरूपेण रममाणो यदृच्छया । चकमे तां वरारोहां कन्यामुत्पललोचनाम् ।’ ( प्र० ३१.२७२८-२६-३०-३१ ) इति । पारदारिकः = परदाररतः, तया रममाणः । दुहिता = कन्या, प्रतीवशोभना=अनुपमसुन्दरी । साऽग्निहोत्रस्य समीपे बोधनाय = धग्निप्रज्वलनाय प्रवस्थिताऽभवत् । प्रवस्थिताऽभवत् । व्यजनंः = तालवृन्तकैः, ‘पंखा’ इति भाषायाम्, धूयमानः = तज्जन्यवायुना समुद्दीप्यमानोऽपि । यावत्पर्यन्तं तस्याः सुन्दर्याः चारुणा = सुन्दरेण पटवत् = संपुटवत् संमिलितेनौष्ठेन, तज्जन्येन वायुना न विधू- यते =न समृद्दीप्यते । चकमे = कामयामास । यदा राजा नीलः स्वकन्याकामुकं तमग्निदेवमवारुधत् । तदा सो ब्राह्मणवेषधारी श्रग्निदेव : कोपात्प्रजज्वाल । तत्कोपभीतो राजा विप्ररूपाय वह्नये शिरसा नतः सन् तां स्वकीयां मनोहरां कन्यां प्रददौ । तां नीलराज्ञः सूत्र सुतां परिगृह्याग्निदेवः प्रसन्नोऽभूत् । पुनस्तेन तस्मै महीपतये स्वसैन्यस्य शत्रुकृतभयाभावलक्षणो वरो दत्तः । श्रज्ञानाद्यदा केचन राजानो तां माहिष्मतीं पुरीं जेतुमभिजग्मु- स्तदा तेनाग्निना सद्यो दह्यमाना बभूवुः । ईदृशमस्ति अग्निदेव- चरितम् । 1 यद्यपि तस्यां नगर्यो प्रागपि योषितः स्वच्छन्दतः स्वेच्छा- नुसारेण स्वयोग्यं वरं वरयामासुः । बलात् ताः अन्यैः स्वेच्छा- प्रतिकूलंर्जनः प्रतिशयेन प्राह्या न बभूवुः । तथापि प्रसन्नेन तेनाग्निदेवेन सत्रस्याभ्यः सर्वाभ्यः स्त्रीभ्यः स्वतन्त्ररूपेण यथा- कामविहाराय केनापि प्रतिरोद्धुमशक्यलक्षणो वरो दत्तः । ‘तस्यां पुर्या’ तदा चैव माहिष्मत्यां कुरूद्वह।। बभूवुरन तिग्राह्या १८८ चातुर्वर्ण्य भारत समीक्षा घोषित छन्दः किल । एवमग्नि वरं प्रादात् स्त्रीणामप्रति वारणे । स्वैरिण्यस्तत्र नार्यो हि यथेष्टं विचरन्त्युत ।। ’ ( म० भा० सभापर्व ० ३१ ३८-३६ ) इति । स्वैरिण्यः = स्वतन्त्राः- व्यभिचारिण्यः परपुरुषगामिन्य इत्यर्थः । प्रनेनेदं कि तात्पर्यमभिव्यज्यते यत् तत्र भूप्रदेशे यज्ञवेद्यां सुन्दरीयुवतिकुमारिकाचारुपुटौष्ठजन्येन वायुनाऽग्निः प्रज्वलितः कर्तव्य इति विधानमभूदिति । सुन्दरदर्शनमग्निहोत्रिणामपि मन श्राह्लादयतीत्यवर्णकथितमेतत् । ‘श्रग्निदेवो ब्राह्मणो भूत्वा तां कन्यां बुभुजे’ इत्यस्य किमिदं तात्पर्यं कल्प्यं स्यात् ? अग्नि- समुपासकोऽग्निहोत्री ब्राह्मणोऽहमेवाग्निरस्मि, दीयतां मह्यं मम प्रेयसीं तव सुन्दरों कन्याम्, न चेत् शापं दास्यामि । शापभीतेन राज्ञा तस्मै स्वकन्यादानं कृतमिति । यदि वस्तुतोऽलौकिकोऽ- ग्निदेव एव स्वीकृतः स्यात्तदा - ‘नैषां (देवानां ) शिश्नं प्रदहति जातवेदा: । ’ ( अथर्व ० ४।३४। २ ) इति श्रौतं वचनं व्याकुप्येत । जातवेदाः = कामाग्निः । श्रनेन देवानां निष्कामत्वं बोध्यते । भवतु नाम यत्किमपि । परन्तु तत्रत्यनिखिलस्त्रीणां कृते स्वेच्छाविहारलक्षणो वरस्तु न वरोऽपि त्वभिशाप एवास्तीति मन्ये । यथार्थ समाधानम् यद्यपि प्राक्प्रदशितेषु द्वित्रेषु मन्त्रेषु राजसतामसमानवानु- द्दिश्य लोकस्थितिञ्चानुसृत्य बहुपत्नीवादो बहुपतिवादश्चा- पाततः प्रतीतो भवति । तथापि सात्विकान् सदाचारनिष्ठान् मानवानुद्दिश्य धर्मन्यायोपेतः एकपत्नीवाद एकपतिवाद एव च भूयः सु मन्त्रेषु स्पष्टतयाऽवगतो भवति । यथाहि - ’ जायेव पत्य उशती सुवासा’ ( ऋ० १०/७११४ ) पतिरिव जायाम्’ यथार्थं समाधानम् १८६ ऋ० १०।१४६।४) ‘श्रारोह सूर्ये अमृतस्य लोकं स्योनं पत्ये वहतुं कृणुष्व ’ ( ऋ० १०८५ २०) ‘मोदमानौ स्वे गृहे (पतिश्च पत्नी चेमौ द्वौ ) विश्वमायु र्व्यश्नुतम् मा वियौष्टम् ।’ (ऋ० १०२८५/४२ ) ‘चक्रवाकेव दम्पती’ (जाया च पतिश्चेमी द्वौ दम्पती इत्युच्यते ) ( अथर्व ० १४ । २ । ६४ ) ‘वीरा अनवद्या पति- नारी’ ( ऋ० १।३। ) ’ जास्पत्यं सुयमस्तु देवाः’ x जुष्टव ( ऋ० १० ८५।२३) ‘समञ्जन्तु विश्वेदेवाः ! समापो हृदयानि नौ सं मातरिश्वा सं धाता समु देष्ट्री दधातु नौ ॥’ (ऋ० १०/८५/४७ ) + ’ स्योना पत्ये भव’ ( श्रथर्व० १४।२।२७ ) 1 , X उशती = कामयमाना, सुवासाः = शोभनवसना, पत्ये = भर्त्रे | हे सूर्ये ! = सूर्यवत् तेजस्विनि ! नारि ! लोकं = स्थानं, स्योनं = सुखकरं, पत्ये = स्वामिने वहतुं = वहनमात्मनः प्रापणं, कृणुष्व = कुरुष्व । विश्वं निखिलं, आयुः = जीवनं व्यश्नुतं = प्राप्नुतम् । मा वियोष्टं = कदाचिदपि पृथग्भूतौ मा भवेताम् । पतिजुष्टा = पत्या प्रेम्णा सेविता । जास्पत्यं = जायापत्यो युगलं, सुयमं = सुमिथुनं सुखकरं - शोभनसंयमोपेतं वा ।

  • विश्वे सर्वे देवा:, नौ = आवयोः पतिपत्न्योः हृदयानि = मानसानि, सं= सम्यक् प्रञ्जन्तु = प्रपगतदुःखादिक्लेशानि कृत्वैह- लौकिकपारलौकिकादिविषयेषु शान्तिसुखप्रकाशयुक्तानि कुर्व- न्त्वित्यर्थः । मातरिश्वा = वायुः, संदधातु = श्रावयोर्बुद्धी: परस्प- रानुकूलाः करोत्वित्यर्थः । देष्ट्री = फलानामभीष्टानां दात्री सरस्वती देवी श्री र्वा । स्योना = उभयकुलस्य स्नेहेनानुस्यूतकर्त. - त्वात् तज्जसुखप्रदतया पत्नी स्योनेत्युच्यते । अनुव्रता = अनुकूल कर्मा अहं पतिः, द्यौरिव-उपरि स्थितः सन् अभीष्टसुखप्रवर्षणशीलोऽस्मि, त्वं पृथिवीवत् अधः स्थिता अभीष्टपुत्रादिसुखप्रसवित्री असि । १६० चातुर्वर्ण्य भारत समीक्षा ‘पत्युरनुव्रता भूत्वा’ (प्रथर्व० १४ । १ । ४२ ) इयं नारी उप दीर्घायुरस्तु मे पतिः, जीवाति शरद: शतम् ।’ ( प्रथर्व ० १४। २।६३) ‘धौरहं पृथिवी त्वम्’ ( प्रथर्व० १४ | २|७१ ) पत्नी त्वमसि धर्मणाऽहं गृहपतिस्तव । ’ ( प्रथर्व० १४ । १।५१ ) ’ गृह्णामि (गृभ्णामि ) ते सौभगत्वाय ( तव भार्यायाः सौभाग्याय) हस्तम् । मया पत्या ।’ ( अथर्व ० १४।१।५० ऋ० ८।३।२७ ) ‘महां त्वाऽदुर्गार्हपत्याय देवा:’ ( अथर्व ० १४ । १।५० ) ’ ममेयमस्तु पोष्या’ ( प्रथर्व ० १४।१।५२ ) ’ मया पत्या प्रजावती संजीव शरद: शतम् ।’ ‘परिष्वजस्व जायां सुमनस्यमानः प्रजां कृण्वाथामिह मोदमानौ दीर्घं वामायुः सविता कृणोतु ।’ प्रथर्व ० १० १२/३६ ) ‘भद्रा वधूर्भवति यत् सुपेशाः स्वयं सा मित्रं वनुते जनेचित् ।’ (ऋ० १०।२७।१२) ‘जाया पत्ये मधुमतीं वाचं वदतु शन्ति- वाम् ।’ (अथर्व ० ३।३०।२) इत्यादिभि भूयोभि मंन्त्र भगवता वेदेन स्पष्टमेव पत्यौ जायायाञ्चैकवचनप्रदानेन चक्रवाकदृष्टा- न्तेन मिथो विविधाभीष्टसुखलाभप्रार्थनाभिश्च एकपतिवादः एकपत्नीवाद एव च विहितः समर्थितश्च । ’ एवं बहुपत्नीवाद :- ‘सं. मा तपन्त्यभितः सपत्नीरिव पर्शवः ।’ ( ऋ० १०।३३।२ ) ’ उभे धूरौ वह्निरापिब्दमानोऽन्तर्योनेव धर्मणा = धर्मेण । गार्हपत्याय = गृहपते र्मम शोभनकर्माणि संपाद- यितुमेव देवास्त्वां धर्मपत्नीं मह्यं = पत्ये भर्त्रे, श्रदुः = दत्तवन्तो देवा इत्यर्थः । यत् = या, भद्रा = कल्याणी सुपेशाः = शोभनरूप- सौन्दर्यलावण्यवती वधूर्भवति सा द्रौपदीसीतादिवत् स्वयं = श्रात्मनैव, जनेचित् = श्रायंजनमध्ये अवस्थितं मित्रं प्रियं पति अर्जुनरामादिवत्, वनुते = याचते - वृणोति स्वयंवरधर्मेण प्रार्थयते इत्यर्थः । सपत्नीबाधनसूक्तस्य तात्पर्य- प्रदर्शनम् १६१ चरति द्विजानि: । (ऋ० १० १०१।११ ) + इत्यादिभि मंत्र: प्रभूतसन्तापहेतुतया विनिन्दितः । श्रत एव सर्वथा हेयतया च प्रतिपादितोऽवगम्यते । द्विजानिदृष्टान्तेन च द्वयो जययोः पत्युः सदा पराभवो द्योत्यते, कंमुत्यन्यायेन चार्थतो द्वाभ्यामधिक- जायाग्राहकानां मानवानां दुर्दशा च बोध्यते । सपत्नीचाधनसूक्तस्य तात्पर्य- प्रदर्शनम् . 1 एवं सपत्नीघ्नसूक्तेनापि - अनेक पत्नीवादोऽर्थात् भगवता वेदेन निन्दितोऽस्तीति विदुषां तत्तात्पर्यं प्रतिभाति । कथं ? इत्थं, यस्मिन् गृहे सपत्नीनां परस्परं ईदृशो द्वेषः कलहश्च सर्वदा प्रवर्तमानो भवति, तस्मिन् गृहेऽवस्थितस्य गृहपतेः कथमपि शान्तिसुखोपलब्धिर्न भवति, प्रत्युत तेन सन्तापपरम्परैवानु- भयते इति लोकेऽपि प्रत्यक्षमतः स्पष्टं प्रभूतसन्तापजनकतया बहुपत्नीवादो निन्दितोऽस्तीति । अत एव गृहपते दुर्दशाबोधनाय सपत्नीसूक्तस्य वर्णनं क्रियते भगवता वेदेन, न त्वेकस्य कृते बहुपत्नीविधानायेति सर्वमनाविलम् ।
  • मा=मां- देवताप्रसादरहितं कवषं, पर्शवः = पाश्र्वास्थीनि, अन्नाभावाद् दौर्बल्यात् कुशयनाच्च सपत्नीरिव = यथा सप न्यो गेहपति सं तपन्ति = संतापं ददति तथा अभितः = सर्वतः सं तपन्ति = दुः खयन्तीत्यर्थः । हविर्धानशकटस्य उभे धूरौ आपिब्द- मानः = श्रपिशब्दमानः, वह्निः = हविर्वाहकोऽनड्वान् अश्वो वा । योनौ प्रन्तः = तयोर्द्वयो धुर्यो: अन्तः = मध्ये प्रविष्टः सन्, इव = यथा द्विजानिः = द्विजाय: - भार्याद्वयवान् मानवः तयोर्द्वयोः पर- स्परं द्वेषकलहादिकुर्वत्यो मध्ये प्रविष्टो चरति = दुःखमेवानु- भवति, तथा ताभ्यां द्वाभ्यां समाक्रान्तः सन् चरति = दुःखमनु- भवन् गच्छतीत्यर्थः । 11 १६२ चातुर्वर्ण्य - भारत - समीक्षा श्रत एव केचन विद्वांसः - एकस्य विश्वपतेः सर्वात्मन: परमेश्वरस्य ‘अहोरात्रे पार्श्वे’ ( शु० यजुः ० ३१।२२ ) इति श्रुत्याऽर्थात् ‘विद्याऽविद्ये मम तनू’ बन्धमोक्षकरी, बन्धोऽस्या- विद्ययाऽनादि विद्यया च तथेतरः ( मोक्षः) । ( भा० ११/११ | ३-४ ) इति वेदार्थं विवृण्वता श्रीमद्भागवतेन स्पष्टतो ज्ञापिते शक्तिभूते विद्याऽविद्यालक्षणे द्वे भार्ये स्तः प्रत एव विद्यया देव्या श्रविद्यारूपाया: सपत्न्याश्चैतन्यपतिसमाश्रितायाः सन्ता- पप्रदायाः सर्वथा बाधनं प्रार्थ्यत एव, क्रियत एव च । यद्वा-एकस्य जीवात्मनः सुमतिकुमतिलक्षणे द्वे भार्ये तदधीने स्तः, सुखसंप- त्प्रदया सुमतिदेव्या ‘प्रकाशेनान्धकारस्येव ’ कुमतिरूपायाः दुःख- विपत्प्रदायाः सपत्न्याः बाधनं क्रियत एव । तद्बाधनायात्र क्रियमाण औषधिप्रयोगस्तु सत्संगप्रभवविचार एव वेदितव्यः । तदुक्तं - भगवत्पादेन प्रश्नोत्तरी ग्रन्थे - ‘को दीर्घरोगो ? भव एव साधो ! किमौषधं तस्य विचार एव ।’ इति । सति चैवं सर्वमपि सपत्नीघ्नसूक्तं - एतादृशार्थानुकूलपरतयैव योजयन्ति । अपि च- ‘न देवचरितं चरेत्’ इति न्यायेन ये देवतुल्याः समर्था महर्षयः विशिष्टजन्मानो द्रौपदीजटिलापाण्डवादयश्च सन्ति, तेषु पर्यनुयोगायोगात्, तच्चरितानुकरणस्य सामर्थ्यहीन जन: कर्तुमशक्यत्वाच्च, इदानींतनानां द्वित्रादिपतिपत्नीविशि- ष्टानां यत्र कुत्रापि त्रिविष्टपादौ वर्तमानानां पशुप्रायाणामा- चारस्याप्रामाण्याच्च । भगवदवतारभूतस्य श्रीकृष्णस्यापि लोकोत्तरं चरितं - ’ कृत्वा तावन्तमात्मानं यावती गोपयोषितः ।’ ( भा० १०।३३।२० ) ’ प्रन्याश्चैवंविधा भार्या कृष्णस्यासन् सहस्रशः । ’ ( भा० १०।५८।५८ ) यथोपयेमे भगवांस्तावद्रूप- धरोऽव्ययः । ’ ( भा० १०५६।४२ ) ‘तमेव सर्वगेहेषु सन्तमेकं विविधसंप्रदाय - पन्थ-मत संपादितविच्छेद भावना १६३ ददर्श ह । कृष्णस्यानन्तवीर्यस्य योगमायामहोदयम् ॥’ ( भा० १०। ६६ । ४१४२ ) इत्यादिलक्षणं ‘एकोऽहं बहुस्यां प्रजायेय’ ( छा० उ० ६ २ ३ ) इति श्रीतार्थस्य स्वविग्रहे, भगवत्तमत्वस्य च प्रदर्शनायाविष्कृतं - एकपत्नीवादं न विरुणद्धि, किन्तु बिभव । प्रत एव वेदार्थज्ञेन भगवता मनुनाऽपीत्यमुक्तम्- ‘श्रन्योऽ- न्यस्याव्यभिचारो भवेदामररणान्तिकः । एषः धर्मः समासेन ज्ञेयः स्त्रीपुंसयोः परः । तथा नित्यं यतेयातां स्त्रीपुंसौ तु कृतक्रियो । यथा नाभिचरेतां तौ वियुक्तावितरेतरम् । (म० स्मृ० । १०१-१०२ ) इति । भार्यापत्यो मरणान्तं यावद् धर्मार्थकामेषु परस्पराव्यभिचारः = मिथो निःस्वार्थस्नेहसम्बन्धः श्रर्थात् अन्यस्मिन् पुंसि वाऽन्यस्यां नार्या वा कदापि व्यभिचारो न स्यादित्येव संक्षेपतः स्त्रीपुंसयोः प्रकृष्टो धर्मो ज्ञातव्यः । कृत- क्रियौ = कृतविवाहौ । तथा सदा यत्नं कुर्यातां यथा धर्मार्थका- मविषये वियुक्तौ सन्तौ परस्परं न व्यभिचरेतामित्यर्थः । किन्तु सदा परस्परं प्रेमसद्भावाभ्यां संयुक्तावेव भवेतामिति यावत् । इत्यलं पल्लवितेन । विविध संप्रदाय- पन्थ-मतसंपादितविच्छेद भावना भारतवर्षे सन्ति विविध संप्रदाय विभिन्न मतपन्थाः, तेषां विभिन्नानि नामानि विविधाश्च साधवो हरिद्वारप्रयागादि- कुंभपर्वोत्सवावसरे विशेष प्रयत्नतो विज्ञायन्ते । यथा (१) द- ण्डी संन्यासी ( २ ) परमहंसदशनामसंन्यासी (३) नागासंन्या- सी (४) वंरागी ( ५ ) उदासी (६) निर्मला (७) कबीर- पन्थी (८) दादुपन्थी (६) चरणदासी (१०) निराकारी ( ११ ) पानवदासी ( १२ ) गरीबदासी ( १३ ) लालपन्थी१६४ चातुर्वर्ण्य - भारत-समीक्षा (१४) बुनियादासी (१५) राधास्वामी (१६) दरियादासी (१७) पलटुदासी (१८) जगजीवनपन्थी (१६) घीसापन्थी (२०) मोहनपन्थो (२१) खिचड़ापन्थी (२२) कुण्डापन्थी (२३) बीजमार्गी (२४) वाममार्गी (२५) चोलीमार्गी (२६) स्वामी नारायणः (२७) गुलाबदासी ( २८ ) कापडीपन्थ: ( २ ) तुलसीसाहेब पन्थ : ( ३० ) भाणसाहेबपन्थ : ( ३१ ) रविसाहेबपन्थः (३२) गोस्वामी पन्थः ( ३३ ) संयोगी पन्थः (३४) नित्यानन्द - प्राणगोपन्थः (३५) कानफटानाथ- पन्थः ( ३६ ) श्रोघड़नाथ - पन्थ : ( ३७ ) जंगमपन्थः (३८) सेवडापन्थ : ( ३६ ) जैनसाधुपन्थ : ( ४० ) बौद्धसाधुपन्थ : ( ४१ ) सुथरा - शाहीपन्थ : ( ४२ ) रामानुज संप्रदायः (४३) मध्वसंप्रदायः (४४) निम्बार्कसंप्रदाय: (४५) वल्लभसंप्रदायः - हवेलीपन्थः (४६) राधावल्लभसंप्रदायः (४७) गौरांगमहाप्रभु संप्रदायः (४८) शैवसंप्रदाय : ( ४६ ) सखीसंप्रदाय : (५०) भीनकपन्थी (५१) सेवापन्थी (५२) प्रेमपन्थी (५३) बेनामीपन्थः (५४) प्रणामीपन्थ : (५५) काचूकटियापन्थः (५६) ब्रह्म- समाज: (५७) आर्यसमाजः (५८) प्रार्थना - समाज: ( ५६ ) सन्तदासी (६०) मदनपन्थी (६१) योगीपन्थः (६२) राम- स्नेही (६३) वीरशैवपन्थ : ( ६४ ) लिङ्गायतपन्थ : ( ६५ ) घोरपन्थः (६६) व्यासपन्थी (६७) सन्तरामसाधुपन्थः (६८) कुबेरदासपन्थ: ( ६६ ) अकालीपन्थ : ( ७० ) पीराणा- पन्थः (७१) शाक्तसंप्रदायः ( ७२ ) गाणपत्य संप्रदायः (७३) सौरसंप्रदायः, श्रादिः श्रादिः । तेषां समेषां विविधाः उपास्याः, मतभेदाः विभिन्नाश्चाचा- राः पृथक् पृथक् - तिलकादिवेषभूषाश्च सन्ति । केचन मूर्तिपूजां राधास्वामीपन्थः १६५ सम्बते केचन न केचन व स्वधर्मग्रन्थमेव गुरुरूपेणेश्वरविग्रह- रूपेण च पूजयन्ति । केचन भगवन्तं निराकारमेव केचन सा- कारमेव, केचनोभयमपि । केचन स्वकरनिर्मितमन्यास्पृष्टमेव भोजनं कुर्वन्ति केचन सर्वस्य भोजनमङ्गीकुर्वन्ति । केचन ती- भम्पिटन्ति केचन तीर्थाटनं खण्डयन्ति, एवं स्वस्वमतपक्षं वाद- विवादद्वारा समर्थयन्ति, परपक्षञ्च प्रतिषेधन्ति । तेषु केचन मतपन्थास्तु दम्भपाखण्डतुच्छस्वार्थादिकं पुरस्कृत्य हिन्दुत्व- भारतीयत्वसमाजैकत्वप्रशस्त भावनां मूलत एव प्रतिघ्नन्ति । तेष्वयमेकः । राधास्वामीपन्थः एतस्य पन्थस्य विच्छेदभावना पाखण्डप्रचारश्च तावदव- लोक्यताम् । तत्प्रणीत हिन्दी ग्रन्थेषु - राधास्वामी हिन्दुधर्म न मनुते, न श्रुतिं न स्मृति, न पुराणानि च न रामं, न कृष्ण, न शिवं, न शक्ति च मनुते, न गंगां न यमुनां, न हिमालयं, न सूर्य, न चन्द्रं च मनुते, न पूज्यां मातरं भारतभूमिमपि मनुते, न जपज्ञानध्यानानि च श्रात्मपरात्मपरमेश्वरादिकमपि न च भारतीय संस्कृतिञ्च x किन्तु एकमात्रं तत्पन्थस्य प्रणेतारं श्री- शिवदयालसिंहनाम्ना प्रसिद्धं प्राप्रापत्तने लब्धजन्मानं राधा- X राधास्वामी माने न धर्मकर्मरी । राधास्वामी माने न रामकृष्णरी । राधास्वामी माने न सूर्य चन्द्ररी, न गङ्गा जमु- नरी (सा० ० ८ पृ० १५२) श्रुतिस्मृतिजाल फैलाया (सा० व० २२) न हि आत्म-परमात्म मानूं ।’ षट्शास्त्र और चारों वेदा, यह सन्तन ने किया निषेधा । ब्रह्म विष्णु महेश भुलानी- शेष गनेश कुरम अज्ञानी । वेद शास्त्र और सिमृति पुराना, १६६ चातुर्वर्ण्य - भारत - समीक्षा स्वामिनमेव तदनुयायिनो मन्यते । राधास्वामिशब्दसाम्येन हिन्दूनां भावुकानां विवेकहीने मनसि भ्रान्तिर्जायते यत् राधा- स्वामी तु श्रीकृष्ण एव । वस्तुतो राधा श्रीशिवदयाल सिंहस्य पस्येवास्ति । उत्तरप्रदेशस्याग काशीप्रभृत्यनेकस्थानेषु तेषा- मालया विद्यन्ते । तेष्वव स्थिताः साहेबपदवाच्याः तत्पन्यप्रचा- रकाः प्रतारक- दलाल द्वारा सर्वत्र दम्भ पाखण्डमेव विस्तार- यन्तो विशेषबुद्धिहीनान् हिन्दून् मिथ्यावाग्जालः प्रवञ्चयन्ति केचनालसाः प्रमादिनो बहिश्चित्ताः हिन्दवो मोक्षस्य सरलाति- सरलं सुलभं साधनं लब्धुमभिलषन्ति । यस्य कृते प्रमादालस्य- विषयानुरागमोहममतादिकं न त्यक्तव्यं स्यात्, हृदयेऽवस्थिताः राजसतामसभावा न च हातव्या भवेयुः, न किमपि जपध्याना- दिकं साधनमनुष्ठातव्यं भवेत् । श्रनायासतः सद्यः शाश्वता- नन्दपूर्णस्य मोक्षस्य लाभः सपन्नो भवेदिति वाञ्छन्ति । श्रत एव तत्प्रयोजिता दलाला :- प्रमादिनां तेषां धनिकानां हिन्दूनां नरनारीणां तद्धनापहरणकामाः तत्समीपं गत्वेत्थं मिथ्याप्रवा- दान् कथयन्ति । मोक्षस्य तीव्राभिलाषावन्तो वयं प्राक् हरिद्वारे काइयां हिमालयस्योत्तरकाश्यामयोध्यायां वृन्दावने चावस्थितानां प्रसिद्धानां महात्मनां सतां समीपं गत्वा मोक्षलाभाय विविधान् महतः प्रयत्नान् श्रकार्ष्म । परन्तु तैर्न मनागपि लाभः सम्पन्नः श्रनेकसंवत्सरकृत प्रयत्नानां वैफल्यं जातम् न कुत्रापि भगवतो पढ़ना इनका वृथा जाना । (सा० व० ३।८) मेरे नज़दीक हुए हिन्दु मुसलमां काफिर ।’ ( मा० वा० २१) ज्ञान-ध्यान श्रौर जोग विरागा । तुच्छ समझ मैंने इनको त्यागा । (सा० व० ) ऋषि-मुनि सब धोखा खाया, क्या व्यास वसिष्ठ भुलाया । रामकृष्ण दोनों तज डार ।’ (सा० भा० २।१२ ) । राधास्वामीपत्यः १९७ दर्शनं लब्धम् । न चात्मज्ञानं यथार्थमपरोक्षं प्राप्तम्, न च शाश्वतशान्तिविमलानन्दश्च सम्पन्नः । यदा च वयममुकस्या- मुकनिलयाधिष्ठितस्य प्रख्यातस्य राधास्वामिमहाराजस्य समीप- मत्राजिष्म । तदा दक्षिणकर्णे तन्मन्त्रोपदेशमात्रेणैव तत्काल- मेव भगवद्दर्शनं जातम्, मोक्षस्य शान्त्यानन्दश्च प्रत्यक्षतश्चिर- कालमनुभूतः । किं वर्णयामोऽस्माकं कृतार्थताम् । तन्महाराजस्य कीदृशो महिमा, कीदृशी च सिद्धिः ? केन कथं वर्णायितुं शक्येत ? तन्महाराजानुग्रहत एव दृष्टिपातमात्रेण जपध्यानादिकं विना, त्यागवंराग्यादिमन्तरा च निखिलो बहुकालादस्मदभिल- षितः पुरुषार्थः सिद्धः । यथाऽस्माभिरनायासतः प्रशस्त ईदृशो लाभ: संपादितः, तथैव भवद्भिरपि तत्समीपं गत्वा तादृशो लाभः संपादनीय इति । वयं भवतः साग्रहं वदामः । मूलपुरुषो राधास्वामी महाराज एव दीनदयालुः साक्षात् परमेश्वरोऽस्ति नान्यः कश्चन । स एवास्मिन् कलियुगेऽमुक- स्थानेऽमुकवंशे च दीनानां जनानां सद्यो मोक्षप्रदानाय दुःखेभ्यः समस्तेभ्यः समुद्धाराय चाविर्भूतः । गीतागायकः कृष्णस्तु न दयालुरपि क्रूरकर्मा काल एवाति । श्रत एव गीतासु सः स्वयं स्वस्वरूपं कालरूपेण निखिलजनमारकत्वेन च वर्णयति- ‘कालोऽ- स्मि लोकक्षयकृत्प्रवृद्धः । ’ ( गी० ११ ३२ ) इति । श्रतः सः तादृशोऽधः स्थितः कृष्णोऽपि तस्य सर्वत उपर्यवस्थितस्य परम दयालो: राधास्वामिनः सकाशात् स्वमोक्षं प्रार्थयते । गीतासु X मन्त्रस्तस्येदृश: - ‘ज्योतिनिरञ्जन, ओंकार- रोरंकार- सोहं - सत्तनाम’ इति । 1
  • रामकृष्ण दोउ जगमें प्राये । कालधरे श्रौतारा (सारव - चन० २२) त्यागो कृष्ण लबार, ( मा० वा० २१ ) १६८ चातुर्वर्ण्य - भारत - समीक्षा कृष्णस्तु ‘अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ।’ (गोता० ७।४५) ‘बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते ।’ ( गी० ७| १६ ) इति बुवाणोऽनेकजन्मकृतप्रभूतसाधनलाभेभ्यो मोक्षसिद्धि वर्णयति । परन्तु प्रस्माकं महाराजस्तु प्रस्मिन्नेव जन्मनि तत्का- लमेव साधन प्रयत्नमन्तरेण मोक्षं ददाति श्रद्धालुभ्य इति कृष्ण- तोऽस्य महाराजस्यास्ति महद्वैशिष्ट्यमिति तावदालोच्यताम् । प्रपि च- दम्भपाखण्डप्रचारं त इत्थं कुर्वन्ति । सभास्थित- स्वानुयायिजनवञ्चनायैतादृशानृतवार्ता प्रकटयन्ति । कश्चन तत्प्रेरितो मिथ्यावादी सभायां सहसा समुत्थायेवं ब्रवीति - ‘ग्रहो धन्योऽहं धन्योऽहं मम जन्म सफलं जातम्, मम पितु मरणावसरे मया श्रीराधास्वामिमहाराजस्य प्रत्यक्षमद्भ ुतं दर्शनं कृतम् । तदा मम पितरं स्वभक्तं समानेतुं दिव्यं विमानमधिरुह्य स भगवान् समागतवानिति । तच्च संस्मृत्य संस्मृत्य मे रोमहर्षश्च जायते । तद्वार्ता श्रुत्वा तत्पीठाधिष्ठितो महाराजो वदति - भो ! श्रद्धाढ्य ! एतादृशी गुप्त रहस्यवार्ता त्वया सर्वत्र न प्रकटनीया, परमभाग्यशालिनं भवन्तं मन्ये, प्रतो भवान् सद्य उपविशतु, एवंभूतं मिथ्याप्रलापं श्रुत्वा तत्सभास्थाः सर्वे जनाः विस्मयम- नुभवन्तः तत्पन्थे विशेषानुरागिणो भवन्ति । एतादृशानृतप्र- चारोऽस्माभिस्तद्दलालद्वारा साक्षाच्छ्र ुतः, श्रन्यैश्च सद्गृहस्थैरपि श्रावितः । श्रस्माभिस्तद्गुरुसमीपे प्रेषितः कश्चन समालोचकः, तच्छिष्यो भूत्वा तद्ग्रन्थान् तद्गुप्तमन्त्रं च समादायास्मभ्यमन्यै- बहिर्भूतः प्राप्तुमशवयान् तान् दत्तवान्, मन्त्रश्च प्रदर्शितः, तत्सभावृत्तान्तो निखिलोऽपि निवेदितः । इति । प्रणामी पन्थः एतस्य पन्थस्यापि विचित्रास्ति विच्छेदभावना । तत्पन्था- पीराणापन्थः १६६ नुयायी कश्चित् कदाचित् पुरातन संस्कारवशात् यदा हे राम ! रामेति हे श्रीनाथ ! हे रणछोडराय ! महादेव ! इति समुच्च- रेत्, तदा तच्छ्रुत्वा तत्प्रखरानुयायिभिः सः सद्योऽधिक्षिप्तो भवति । कि भो ! त्वया कथ्यते ? न तथा कदापि वक्तव्यम्, महान् अपराधो भवति, राजसामाजीधणी, राजसामाजीधणी इत्येवं प्रेम्णा वक्तव्यम् । नान्यस्य कस्यचित् देवस्य नामान्यु- च्चारणीयानि न च तन्मन्दिरेषु गन्तव्यम् । स्वमतप्रणेतृप्राण- नाथप्रणीतस्य स्वरूपसाहेबेतिनामधेयस्य पूज्यस्य स्वधर्मग्रन्थ- स्यैव श्रद्धया पाठो विधेयः, न गीताभागवताद्यन्यधर्मग्रन्थानाम् । तेषामेतादृशी विच्छेद भावना हिन्दुसंघट्टनं विरुणद्धि | X पीराणापन्थः अयमपि पन्थः केनचित् मुसलमानेन पीरेण प्रवर्तितः गुर्जरे सौराष्ट्र कच्छदेशे च प्रचलति । निम्नकोटिषु परिगण्य- माना: सरलहृदया: विशिष्ट संस्कारहीना निरक्षराः अन्धश्रद्धा- लवो हिन्दव एव रबारीका छियाकणबीहरिजनप्रभृतयः एतस्य पन्यस्यानुयायिनो भवन्ति । तत्पन्थसाधवः तत्पन्थप्रणेतारं मुसलमानपीरमुद्दिश्य यद्वा तद्वा किमपि गप्पाष्टकं कपोलकल्पि- तमपि विश्वासोत्पादनाय यथार्थतया कथयन्ति । यस्यात्र गद्दी वर्तते, सोऽयं किल पीरः हिन्दुच्चतुविशत्यवताराणामप्यस्त्यवता- रीभूतः । गुर्जरदेशस्य प्रसिद्धेऽहमदाबादनगरेऽपि तस्य पीर गद्दी- स्थानं वर्तते, एवमन्यत्रापि । श्रार्यहिन्दवः स्वपुरातनश्रद्धेयसमु- दारसंस्कृति हित्वा यवनानां संस्कृति किं ? दुष्कृति यथाऽभि- गृह्णीयुरिति तत्तात्पर्यम् । स्वान् सर्वोच्चमभिमन्यमानाः पण्डिताः साधवश्च स्वबन्धूनां विच्छेदं स्वनेत्रं दृष्ट्वाऽपि न X एतत्सर्वमितिवृत्तं तत्पन्थप्रचार पत्रिकासु मयाऽवलोकितम् । २०० चातुर्वर्ण्य - भारत - समीक्षा विषीदन्ति; शूद्रत्वात् नीचत्वादसंस्पृश्यत्वाच्च प्रीतमवर्णानां मन्दिरेषु गन्तुमशक्नुवन्तः सनातनधमरामायणगीतादिशिक्षा. रहिता अपि ते धर्ममोक्षाभिलाषावत्त्वात् तस्मिन् मुसलमान- प्रवर्तित पन्थे निर्बाधतया प्रवेष्टुं वाञ्छन्त्येवेति तत्र तेषां कोऽप- राध: ? । श्रत एव ते वञ्चकास्तान् मिथ्यावारजालं चमत्कार- वैशिष्ट्यं प्रसार्य तत्र प्रवेशयन्त्येव । समन्वय - भावना सर्वेषां रुचिवैचित्र्यात् संजातभदानां विविधपन्थानामनेक- संप्रदायानाञ्च मिथः समन्वयभावनाऽत्यावश्यकी । या हि प्रिय- राष्ट्रस्यैकत्वसिद्धये प्रभवेत् भवन्तु नाम विविधानि साधनानि, विलक्षणाश्च रुचिप्रभेदाः, परन्तु परमलक्ष्यस्यैकत्वमभ्युपगम्य सर्वैरपि साधुजनै: राष्ट्रकत्वसाधकः प्रबलः समन्वयो विधा- तव्यः । मिथोवादविवाद निन्दासंघर्षादिना जायमाना या विच्छेद- भावना, साऽस्मदीयस्य राष्ट्रस्याभ्यर्हणीयमेकत्वं विनाशयति । राष्ट्र कत्वस्य विनाशे सति निखिलमव्यभीष्टं विनष्टं, तस्मिन् प्रयत्नतो रक्षिते सति सवमेव च तद्रक्षितं भविष्यति । श्रतः प्रियराष्ट्रकत्व रक्षणाय सर्वैरपि साधुजन:- अवान्तरमतभेदं दम्भा- भिमानौ च विहाय परस्परं प्रेमसद्भावविनय विवेकौदार्य सौहा ददिक सद्गुणजातं देशसमाजहितकरञ्चावलम्ब्य सर्वतोभावेन समन्वयभावनायां सन्नद्धं भवितव्यम् । यहि परस्परं प्रबलभेद- भावविशिष्टाः सन्ति, तन्मूलकेर्ष्यास्पर्धादिदोषाढघाश्च भवन्ति, खलु स्वकीयं यथार्थं धर्ममपि पालयितुं क्षमाः न भवन्ति, न च विमलं सुखं, स्तुत्यं गौरवं, नितान्तस्पृहणीयां शान्तिमपि च प्राप्तुं कथमपि शक्नुवन्ति । यदाह - महाभारते उद्योगपर्वणि महात्मा श्रीविदुरः न वै भिन्ना जातु चरन्ति धर्म, न वै सुखं ते समन्वय भावना २०१ प्राप्नुवन्तोह भिन्नाः । न वै भिन्ना गौरवं प्राप्नुवन्ति, न वै भित्राः प्रशमं रोचयन्ति ।।’ (म० उ० ३६।५६ ) इति । भिन्नाः = भेदभावविशिष्टाः, प्रशमंशान्ति । अपि च भेदभावविशिष्टाः जनाः शास्त्राणां निष्पक्षमहात्म- नाञ्च हितकराः सूक्तीः अपि रुच्या न शृण्वन्ति । श्रत एव परस्परं कलहायमानानां तेषां भिन्नानां योगक्षेमावपि न सिद्ध- घतः । विनाशं विहाय तेषामन्या गति नं विद्यते, तदेतदुक्तं- महात्मना विदुरेण तत्रैव – ’ न वै तेषां स्वदते पथ्यमुक्तं, योग- क्षेमं कल्पते नॅव तेषाम् । भिन्नानां वै मनुजेन्द्र ! परायणं, न विद्यते किञ्चिदन्यद् विनाशात् । ’ (म० उ० ३६।५७ ) इति । पथ्यं = हितकरं स्वदते = रुचिकरं भवति । परायणं प्रतिमा गतिः । अत एव ‘अन्योऽन्यसमुपष्टम्भाद् अन्योऽन्यापाश्रयेण च । ज्ञातय: ( साधवः ) सम्प्रवर्धन्ते सरसीवोत्पलान्युत || ’ ( म० भा० उ० ३६।६५ ) इति अन्योऽन्येषां समुपष्टम्भात् = प्रेम- सद्भाव मिलनाभेदभावादिभिः एकत्र सम्बद्धत्वात् श्रन्योऽन्यापा- श्रयेण = परस्परसाहचर्यात् । संप्रवर्धन्ते शोभनशान्तिसुखाद्य- भिवृद्धि प्राप्नुवन्ति । श्रत एव स्वतन्त्र भारतराष्ट्रस्य कर्णधारा गौरवशालिनः पण्डितजवाहरलालनेहरुप्रभृतयः प्रमुखनेतारो महतः स्वराष्ट्र- स्यैकत्व विघातकमनर्थंकरं तत्तज्जातिसंप्रदायादिभेदं कथमपि न वाञ्छन्ति, किन्तु तं सयुक्तिकप्रामाणिकवचोभिः खण्डयन्तीति तत्तत्पत्राकाशवाणीसमाचारविदां न तिरोहितम् । सति चैवं स्पर्शयोगो वं नाम, सर्वसत्वसुखो हितः । अवि- वादोऽविरुद्धच्देशितस्तं नमाम्यहम् ॥’ ( गौडपाद - कारिका ) इत्यनेन यस्य विवादविरोध निवारकं प्रशस्तं महत्त्वं भगवत्पादाचार्यशंकरस्य परमगुरुभिगौडपादाचार्य्यैरभि- २०२ चातुर्वर्ण्य - भारत - समीक्षा वणितं तं केवलाद्वैत वेदान्तसिद्ध तमवलम्ब्य साक्षिरूपेण सर्वा- नुगतस्य नित्यस्य स्वास्मन एकत्वं विश्व नियन्तुः परमेश्वरस्य चैकत्वमभ्युपगम्य सर्वत्र समन्वयभावना स्थापनीया । प्रपिचाखिलनामरूपात्मकस्य संसारस्य मिथ्यात्वं शरीरा- दीनाञ्च नश्वरत्वं दृढीकृत्य यज्ज्ञानात्सर्वा निर्थनिवृत्तिः परमा- नन्दावाप्तिश्च भवति, तत्रैव परिपूर्णसच्चिदानन्द-त्रिकालाबाध्य- वस्तुनि सर्वाभिन्न एव मनो देयं तत्साधने प्रार्जव दयाशान्ती- श्वराराधनादौ निष्कामकर्मणि च नान्यत्र कल्पितभेदे तत्प्रयो- जित- खण्डनमण्डन- परनिन्दास्वस्तुत्यादौ निष्फलव्यापारे चेति समदर्शिनां विनयविवेकवतां साधूनामयं प्रशस्तः समुपादेयः पन्था इति सर्वमनवद्यम् । उपसंहारः संप्रति स्वतन्त्रे कांग्रेसप्रशासिते भारते राष्ट्र विविधाः समाजा: विभिन्नाश्च पार्टयः समुपलभ्यन्ते । यथा कांग्रेस सोश- लिस्ट - कम्युनिष्ट जनसंघ - हिन्दुमहासभा - राष्ट्रीय स्वयंसेवकसंघ- श्रार्यसमाज सनातनधर्मसभा प्रभृतयः । तेषामत्र प्रतिपादिता: विविधा: विभिन्नाश्च पक्षाः सन्ति । अस्माकं विशालनिष्पक्ष- पात भावभूषितानि शास्त्राणि हितशासकानि, सर्वेषां तेषां पक्षाणां ‘पुष्पक विमानवत्’ अवकाशं ददति । श्रत एव तत्तत्प्रमाणवचांस्यत्र प्रियपाठकैः तत्तत्पक्ष समर्थनायोपक्षिप्तान्यवलोक्यन्ते । भारतभूदेव्याः यथाऽ- खण्डाभ्युदयो भवेत्, महनीयं गौरवञ्च प्रसिद्धयेत् । चीनपाकि- स्तानादिशत्रूणामाक्रमणस्य संमिलिताः संघट्टिताः पावनभारत- भूवास्तव्याः सर्वेऽपि प्रायजनाः विद्याबलधनां दिविविधशक्ति- सम्पन्नाः सन्तः प्रतीकारं यथा विवध्युः, स्वप्राणप्रियराष्ट्रस्य प्रमाणभूतानि श्रुतिस्मृतिपुराणादीनि उपसंहार २०३ स्वातन्त्र्यं यथा सर्वाभिः शक्तिभिरभिरक्षेयुः । सर्वविधाम म्युन्नति यथा प्राप्नुयुः । विविधान् मिथ्याभिमानादिदोषान् विनिवार्य, मिथो निःस्वार्थ- प्रेमसद्भावसहानुभूति-संयमविनयविवेकादिसद्- गुणैः शुभकर्मभिश्च विभूषिता यथा भवेयुः । एतदर्थमेव शास्त्र- युक्त्या दिसमलंकृताः पूर्वोक्ताः विविधाः पक्षाः संकलय्यास्माभिः प्रदशिताः । तेषु कस्मिन्नपि पक्षे एतत्पक्षसंग्रहकर्त णामस्माकं नास्ति कश्चनाप्यभिनिवेशः इति प्रारम्भेऽपि प्रदर्शितम् । श्रत एवात्र नास्ति कश्चनास्माकं पक्षो वा सपक्षो वा विपक्षो वेति तथ्यं वचः सवैरपि बोद्धव्यम् । सति चैवं विभिन्नरुचयो विद्वांसः कस्यापीष्टस्यात्रत्यस्य वाऽनिष्टस्य सपक्षस्य विपक्षस्य च खण्डनं वा मण्डनं वा कर्तुं वाञ्छन्ति चेत् ? ते यथेष्टं खण्डयितुं वा मण्डयितुं वा शक्नुवन्ति इत्यत्र नास्त्यस्माकं कश्चन विवादो वा विरोधो वा काचन वा क्षतिरित्यवधयम् । श्रपि चात्र तत्त- न्मताभिनिवेशवशात् कश्चिदपि शास्त्रवचनानां याथार्थ्येन भासमानोऽर्थो न हि निगूहितः । यथाबुद्धिस्फुरितमेव तु रहस्य- मुपनिबद्धमिति निष्पक्षपातैविद्वद्वरैः समीक्ष्यताम् । दोषदर्शनतात्पर्यम् प्राक्कालिके भारते ये ये विविधा दोषाः - ‘कथंचित् कदा- चित् श्रतिशयोक्तिपूर्णा श्रपि स्युः’- प्रदशिताः । तत्प्रदर्शनस्ये- दमेव तात्पर्यं वेदितव्यम् । यद्गतं तदगतमेव भवति, प्रतीताः दोषाः श्रतीतत्वादेव कथं हेयाः स्युः ? अतो ‘हेयं दुःखमनागतम् ’’ ( यो० सू० २।१६ ) इति न्यायेन यथा गतस्य दुःखस्य संप्रत्य- विद्यमानस्य हानासंभवादेव, अनागतं = भविष्यदेव दुःखं हेयं भवति । यथा- भविष्यतो दुःखस्य प्रादुर्भावो न स्यात्, तथा तत्समुत्पादकका रणहाने नानागतं दुःखमेव हेयं भवितुमर्हति ।२०४ चातुर्वर्ण्य - भारत- समीक्षा तथा भfasureाले ते तेsतीताः दुःखप्रदाः दोषाः, यथा न संभ- वेयुः, तथा सर्वैरपि भारतभूवास्तव्यैः श्रार्य हिन्दुभिः प्रयतनीयम् । मलिनवस्त्रस्येव दोषज्ञानतन्निरासमन्तरा कथं सद्गुणानामाधानं स्यात् ? प्रत एव दोषज्ञः पण्डितो भवति, तन्नामसु ‘विद्वान् विपश्चित् दोषज्ञः सन्सुधीः कोविदो बुधः । ’ (२|७|५ ) इत्या- द्यमरकोशोक्तेषु पर्यायरूपेण तस्य गृहीतत्वात् । यः किल स्वदोषानेव न जानाति, सः कथं तन्निवारणाय प्रयतेत ? । तथा च तन्निवारणाय तज्ज्ञानमावश्यकम्; यथा पूर्वपक्षज्ञानं विना तन्निवारणपूर्वकं स्वपक्षस्थापनं विचक्षरणोऽपि शास्त्रज्ञो न कथ- मपि कर्तुं शक्नोति, तथाऽत्रापि वेदितव्यम् । पारतन्त्र्यदौर्बल्य- विच्छेदभावादयो दोषाः, स्वातन्त्र्यसबलत्व संघट्टनादयो गुणाः प्राक् प्रदर्शिताः । अतएवोक्तं- ‘उत्थानं विनिपातश्च, संसारे परिवर्तिनि । सर्वेषां भवतोऽवश्यं, पर्यायान्नियतेः क्रमात् ॥ प्रागेतद्भारतं दृष्ट्वा स्वदोषैः पतनोन्मुखम् । वैदेश्यैरधरीकृत्य त्वापादतलमापितम् ॥ श्रधःपातपराकाष्ठां प्राप्तस्यास्य समु- न्नतेः । कालोऽयमागतो जोयाद् हिन्दुराष्टमिदं पुनः । प्रापितं = प्रापितमित्यर्थः । प्रमोदावसरः श्रपि च भारतभूवास्तव्यानां कृतेऽयं महान् प्रमोदः प्रभूतश्च संतोषः समजन । योऽयं प्रियभारतदेश आर्यावर्तो भगवद्- विविधावतारप्रादुर्भावस्थलभूतोऽपि बहुकालात् पराधीनो विवि- धदुर्दशाग्रस्तः श्रीमन्महात्म- गान्धी महोदय- पण्डित नेहरू-सरदार- पटेल-लोकमान्यतिलक - मालवीय - राजेन्द्र प्रसाद - लाजपतराय - चित्तरंजनदास - विट्ठलभाई पटेल- सुभाषबाबू प्रभृतीनां भूयसां देश नेतृणां त्यागप्रज्ञापुरुषार्थ सौहार्दप्रमुखप्रशस्त गुणैः जनतायाश्च प्रशस्तिः समाप्तिविज्ञिप्तश्च २०५ मिथः प्रेमसद्भावपूर्ण संघशक्तिप्रभावेण च स्वतन्त्रोऽभूत्, विदेशी- यशासनञ्च नष्टमभूदिति । श्रत एव स्वतन्त्रताप्रियाः भारतीयाः प्रार्य हिन्दवः प्रतीतकाल दुर्दशाकारणानि परस्परविच्छेदभावा- भिमानद्वेषेयवैरादीनि सर्वथा विनाश्य मिथः प्रेमसद्भावनैति- कबल संघट्टनसंयमपराक्रमस्वार्थत्याग विद्याविनयादिसद्गुणान् विधार्य स्वप्रियराष्ट्रस्य स्वातन्त्र्यं यथा सर्वतोभावेनाभिरक्षेयुः, तथा विश्वनियन्ता लोकलीला सूत्रधारो भगवान् श्रीविश्वनाथ- स्तान् अनुग्रहीतुमस्माभिः पौनःपुन्येन श्रद्धया प्रार्थ्यत इति । प्रशस्तिः समाप्तिर्विज्ञप्तिश्च जयतात् भारतो देशो यस्योदारा च संस्कृतिः । उदारो वैदिको धर्मो ब्रह्मात्मैकत्वमण्डितः ॥ १ ॥ सौभाग्यशालिनी यस्य पुण्या भूमिर्वसुन्धरा । धत्तेऽन्यदात्मनो नाम ‘रत्नगर्भे’ ति सार्थकम् ॥ २ ॥ यस्य स्वादका नद्यो गंगारेवादयोऽमलाः । . हिमविन्ध्यादयः सन्ति भूधरा भूरिसंपदः ॥ ३ ॥ ऋतवो यत्र राजन्ते क्रमात् संभूय सर्वदा । यत्सस्यफलसम्पत्या स्वर्गोऽपि स्यातिरस्कृतः ॥ ४ ॥ रामकृष्णादयो यस्य बभ्रुवुश्चोत्तरे शुभाः । आचार्याः शंकराद्यास्तु दक्षिणे लोकशिक्षकाः ।। ५ ।। २०६ चातुर्वर्ण्य - भारत - समीक्षा हिन्दुसमाजतद्धर्म-संस्कृति गौरवं वयम् । पूर्वजानाच माहात्म्यं, सादरं वै वृणीमहे ॥ ६ ॥ अभीष्टं तत्समाक्रान्तं, दोषैर्दुः खप्रदैरभूत् । दोषाघातो भवेद्यस्मात् सद्गुणानां हि सञ्चयात् ||७|| ॥ तथा विश्वेश्वरो देवः सामर्थ्यं भारते प्रिये । दत्त्वा चानुग्रहं कुर्यात् प्रार्थनैषा विधीयते ॥ ८ ॥ विवेचका हि विद्वांसः, समीक्षां ग्रन्थरूपिणीम् । आमूलचूडमभ्यस्य तात्पर्यमधिगम्यताम् ॥ ६ ॥ दोषनाशगुणाधान-लक्षणं निखिलेप्सितम् । मात्सर्यश्च परित्यज्य नन्दन्तु हितचिन्तकाः ॥ १०॥ कृता महेश्वरानन्द - स्वामिना यतिना शुभा । शास्त्रीयान् विविधान् पक्षान्, संकलय्य यथामति ॥ ११ ॥ विना शास्त्रप्रमाणानि, न कोऽप्यर्थोऽस्ति निश्चितः । अतः शास्त्रप्रमाणैश्च तदनुरोधियुक्तिभिः ॥ १२ ॥ कर्तव्यो निर्णयोऽर्थानां शास्त्र युक्तिविभूषितः । निर्विशंकमयं ग्रन्थस्तत्संग्राह्यो बुभुत्सुभिः ॥ १३ ॥ एकं चापि यथा ह्यन्नं नानारूपेण साधितम् । गेचते स्वदते चैवं, पक्षाः भिन्नः नवार्थकाः ॥ १४ ॥ ॥१४॥ प्रशस्तिः समाप्तिविज्ञप्तिश्च रुचिवैचित्र्यसंजाताः मतभेदाः लोकशास्त्रयोः । २०७ तत्तत्परम्पराप्राप्ताः पक्षाः ग्रन्थेऽत्र संचिताः || १५|| इति कनखल - हरिद्वार- वास्तव्य - श्रीमत्परमहंसपरिव्राजकाचार्य- महामण्डलेश्वर - श्रोत्रिय ब्रह्मनिष्ठ श्रनन्तश्री विभूषित-स्वामिश्री- महेश्वरानन्दमहाराज प्रणीता-चातुर्वर्ण्य - भारत - समीक्षा संपूर्णा । हरिः ॐ तत्सत् ॐ नमः शिवाय शिवः सर्वम् शिवोऽहम् । एतद्ग्रन्थलेखप्रणीतानीमानि पुस्तकानि (१) ऋग्वेदसंहितोपनिषत् - श्रध्यात्मज्योत्स्नाविवृत्युपेता (२) यजुर्वेदसंहितोपनिषत्- (३) प्रथर्ववेदसंहितोपनिषत्- 17 ( ४ ) सामवेदसंहितोपनिषत् (५) श्रीमद्भागवतसंहितोपनिषत् 17 ( अप्रकाशिता) ( खण्डद्वयम् " (६) गीताप्रवचनसुधा ( हिन्दी एवं गुजराती ) ७) दक्षिणतीर्थयात्रा (८) सिद्धान्तद्वयसमीक्षा ( हिन्दी ) (६) पुनीत संस्मरण 19 "” (१०) हरगोविन्ददासव्याख्यानमंदिर ( हिन्दी ) ( ११ ) गायत्रीमीमांसा संध्योपासनं पुरुषसूक्त - श्रीसूक्त (१२) गीताव्याख्यानसमीक्षा ( अप्रकाशिता ) (१३) श्रीशंकरसूक्तिसुधा (१४) सर्वातिकं पंचीकरणम् (१५) भगवत्प्रसाद, सद्गुरुप्रसाद इत्यादि श्रीमहेश्वरानन्दाभिनन्दनम् अबोधलोकान् अमृतोपदेशतः, प्रकारयन् तान् परमार्थदर्शनम् । प्रबोधयन् ज्ञानप्रकाशदानतो, महेश्वरानन्दयतिर्विराजताम् ॥ १॥ ग्रानन्दकन्दमुनिवृन्दसुवन्दितश्री- पादारविन्दमकरन्दकदम्बरेणुः । जीयात् स साधुजनतासमताविभूतिः, श्रीमण्डलेश्वर महेश्वर सौम्यमूर्तिः ॥ २ ॥ वेदान्तसिद्धान्तप्रचारलीनः, कैवल्यविद्यामनने प्रवीणः । संसारमायामदमोहहीनः, सद्धर्ममार्गे रमते मुनीनः (महेशः ) || ३ || गांभीर्यौदार्यधैर्य स्खलितजलनिधिविश्वकीर्तिर्वरेण्यः । सौजन्याचारबोधैविलसितचरितो मण्डलेशो महेशः ॥ वेदान्ते सर्वशास्त्रे विशदमतिगतिः प्राप्तविद्यानुभूतिः । श्रीमान् स्वामी जयति यतिवरः कोऽपि स्वानन्दमूर्तिः ॥ ४ ॥
  • ( कश्चन चित्तौडवास्तव्यः पण्डितप्रवरः प्रणेतेषाम् )