व्यवहारः

विस्तारः (द्रष्टुं नोद्यम्)

Searchable Electronic Edition of the Madanaratnapradīpa (Vyavahāravivekodddyota), transcribed, formatted, and color-coded by Patrick Olivelle, is licensed under a Creative Commons Attribution 4.0 International License.

Last updated: June 2024

Patrick Olivelle (jpo@austin.utexas.edu)

University of Texas at Austin

Madanaratnapradīpa (vyavahāravivekodddyota)

An extensive digest on Dharma-śāstra compiled under the patronage of King Madanasiṃha

Edited by

Mahāmahopādhyāya Dr. P. V. Kane

Anup Sanskrit Library, Bikaner, 1948

Transcribed and formated by Patrick Olivelle

June 2024

  • Names of authors and texts: RED

  • Prose exts cited: BLUE

श्रीगणेशाय नमः

श्रीमदनरत्नप्रदीपः

(व्यवहारोद्द्द्योतः)

श्रीमन्महागणपतिं नत्वा विघ्नततिच्छिदम् ।

सदाचारं विविच्याथ व्यवहारो विविच्यते ॥

व्यवहारविवेके यान्य् उथोतेत्रोदितानि ( ? ) हि ।

तेषां सुखावबोधार्थम् आनुपूर्वी प्रदर्श्यते ॥

स्वरूपं व्यवहारस्य व्यवहारपदस्य च ।

दर्शितं पूर्वम् अत्राथ व्यवहारपदस्य तु ॥

ऋणादानादयो भेदा दर्शितास् तदनन्तरम् ।

प्राड्विवाकस्वरूपादि विशेषोक्तिपुरःसरम् ॥

सभानिरूपणं चात्र कृतं सम्यक् ततः परम् ।

प्रपञ्चितः प्रकारो ऽत्र व्यवहारस्य दर्शने ॥

कालदेशाचारजातिधर्मासेधादिभिः सह ।

व्यवहारस्य पादानाम् उद्देशो विहितस् ततः ॥

भाषोत्तराख्यौ पादौ तु सप्रपञ्चं निरूपितौ ।

ततः परं क्रियापादे प्रत्याकलितम् ईरितम् ॥

क्रियादानोत्तरं कृत्यं क्रियाते(भे?)दादिकं तथा ।

निरूपितस् ततः साक्षी ततो लेख्यनिरूपणम् ॥

ततो भुक्त्यादिरूपस्यानुमानस्य निरूपणम् ।

ततो दिव्यप्रकरणं तत्रोक्ता दिव्यमातृका ॥

ततो घटविधिश् चाग्निविधिर् जलविधिस् ततः ।

उक्तो विषविधिः कोशविधिर् उक्तस् ततः परम् ॥

[२] तण्डुलानां विधानं च तप्तमाषविधिस् ततः ।

उक्तः फालस्य च विधिर् धर्मजस्य विधिस् ततः ॥

एते चार्थाः क्रियापादे सप्रपञ्चं निरूपिताः ।

ततो निर्णयपादस्य कृतम् अत्र निरूपणम् ॥

एवं प्रपञ्चिता सम्यग् व्यवहारस्य मातृका ।

ततः प्रपञ्चितान्य् अत्र व्यवहारपदानि तु ॥

आदाव् ऋणादानपदं तत्र सम्यक् प्रपञ्चितम् ।

निक्षेपाख्यं पदं पश्चाद् उपनिध्यादिभिः सह ॥

सम्भूय च समुत्थानं सम्यग् अत्र निरूपितम् ।

संविद्व्यतिक्रमः पश्चात् क्रीतानुशय एव च ।

निरूपितो ऽथ विक्रीयासंप्रदानं प्रपञ्चितम् ।

स्वामिपालविवादो ऽथ सीमावादः प्रपञ्चितः ॥

वाक्पारुष्यं तथा दण्डपारुष्यं च निरूपितम् ।

स्तेयसाहसयोश् चैव क्रमेणैव निरूपणम् ॥

स्त्रीसंग्रहविवादस्य कृतं चाथ निरूपणम् ।

स्त्रीपुंयोगविवादस् तु पश्चाद् अत्र निरूपितः ॥

विभागकालकर्त्रादिबह्वर्थोक्तिपुरःसरम् ।

सप्रपञ्चं च कृतं चात्र दायभागनिरूपणम् ॥

ततो द्यूताह्वयाख्यस्य व्यवहारपदस्य तु ।

ततः प्रकीर्णकाख्यस्य विवादस्य निरूपणम् ॥

तत्र व्यवहारस्वरूपं दर्शयति कात्यायनः ।

	प्रयत्नसाध्ये विच्छिन्ने धर्माख्ये न्यायविस्तरे ।

	साध्यमूलस् तु यो वादो व्यवहारः स उच्यते ॥ इति ।

साध्यमूलः प्रयोजनमूलकः । वादशब्देनात्र प्रतिज्ञोत्तरक्रियानिर्णयरूपपदार्थचतुष्टयं गृह्यते याज्ञवल्क्यबृहस्पत्यादिवचनेष्व् एतेषां चतुर्णां **[३] **व्यवहारपादत्वाभिधानात् । तानि वचनान्य् अग्रे दर्शयिष्यन्ते । अत्र श्लोके धर्माख्ये इत्यन्तेन भागेन धर्मविच्छेदरूपो व्यवहारहेतुर् उक्तः । अवशिष्टेन भागेन व्यवहारस्वरूपम् उक्तम् । तस्य च वाक्यद्वयस्यैवं व्याख्या । न्यायविस्तरे न्यायस्य प्रमाणस्य विस्तरः प्रवृत्तिर् यस्मिंस् तस्मिन् विषये साध्यमूलो यो वादः स व्यवहारः । स च प्रयत्नसाध्ये विहिताचरणरूपप्रयत्ननिष्पाद्ये धर्माख्ये धर्मनामके वस्तुनि विच्छिन्ने विनष्टे सति भवतीति । नारदो ‘प्य् अन्वयव्यतिरेकाभ्यां धर्मोच्छेदस्य व्यवहारे हेतुम् आह

	मनुः प्रजापतिर् यस्मिन् काले राज्यम् अबूभुजत् ।

	धर्मैकतानाः पुरुषास् तदासन् सत्यवादिनः ॥

	तदा न व्यवहारो ‘भून् न द्वेषो नापि मत्सरः ।

	नष्टे धर्मे मनुष्येषु व्यवहारः प्रवर्तते ॥ इति । [न्स्म् मा १–२]

अथवा प्रयत्नसाध्य इति श्लोको वाक्यद्वयाश्रयणम् अन्तरेणैवं व्याख्येयः । प्रयत्नसाध्ये कष्टसाध्ये गृहक्षेत्रादिके विषये विच्छिन्ने स्वेच्छया भोक्तुम् अशक्ये सति न्यायविस्तरे न्यायः प्रमाणं विस्तीर्यते प्रपञ्चयते निर्णीयते यस्मिंस् तस्मिन् धर्माख्ये धर्मनामके धर्माधिकरणम् इति प्रसिद्धे सभालक्षणे स्थले साध्यमूलको यो गृहादिविषयो वादः स व्यवहार इति । विचारस्थानस्य धर्माधिकरणत्वम् आह कात्यायनः

	धर्मशास्त्रविचारेण सारासारविवेचनम् ।

	यत्राधिक्रियते स्थाने धर्माधिकरणं हि तत् ॥ इति ।

यद्य् अप्य् एतद् व्यवहारसामान्यरूपं संप्रतिपत्त्युत्तरे व्यवहारे नानुगतं **बृहस्पतिना** – “द्विपात् संप्रतिपत्तिषु” - इति द्विपात्त्वाभिधानात् तथापि अवयवे ऽवयविलक्षणया तत्र व्यवहारपदप्रयोगो ‘वगन्तव्यः ।

अयं व्यवहारो द्विविधः सोत्तरो ऽनुत्तर इति । तथा च **नारदः** ।

**[४] **सोत्तरो ऽनुत्तरश् चेति स विज्ञेयो द्विलक्षणः ।

तयोर् लक्षणम् आह स एव (मा। १.४)

	सोत्तरे ऽभ्यधिको यत्र विलेखापूर्वकः पणः ।

पराजयनिमित्तदण्डद्रव्याद् अधिको लिखनपूर्वकः पणो यत्र भवति स सोत्तरः । अर्थाद् यत्राधिकः पणो न लिख्यते सो ऽनुत्तर इत्य् अर्थः ।

इति व्यवहारस्वरूपनिरूपणम् ।

अथ व्यवहारपदनिरूपणम् ।

तत्र याज्ञवल्क्यः (२.५) ।

	स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः ।

	आवेदयति चेद् राज्ञे व्यवहारपदं हि तत् ॥ इति ।

आधर्षितः तिरस्कृतः । अस्य व्यवहारपदस्याष्टादशविधत्वम् आह उशनाः

	कार्यम् उद्दिश्य पीडां वा यः कश्चिद् राज्ञि वेदयेत् ।

	पदं तद् अष्टादशधा विवादानां प्रकीर्तितम् ॥

तांश् चाष्टादशभेदान् दर्शयति मनुः (८। ४-७)

    तेषाम् आद्यम् ऋणादानं निक्षेपो ‘स्वामिविक्रयः ।


    सम्भूय च समुत्थानं दत्तस्यानपकर्म च ॥


    वेतनस्यैव चादानं संविदश् च व्यतिक्रमः ।


    क्रयविक्रयानुशयो विवादः स्वामिपालयोः ॥


    सीमाविवादधर्मश् च पारुष्ये दण्डवाचिके ।


    स्तेयं च साहसं चैव स्त्रीसंग्रहणम् एव च ॥


    स्त्रीपुंधर्मो विभागश् च द्यूतम् आह्वय एव च ।


    पदान्य् अष्टादशैतानि व्यवहारस्थिताव् इह ॥ इति ।

अनपाकर्म अप्रदानम् । क्रयविक्रयानुशय इति क्रीतानुशयविक्रीयासंप्रदानयोर् एकीकृत्योपादानम् । स्त्रीपुंधर्मशब्देन स्त्रीपुंधर्मपर्यालोचनं यत्र क्रियते तस्य स्त्रीपुंयोगाख्यस्य विवादपदस्य ग्रहणम् । विभागो दायभागः । द्यूतम् अप्राणिद्यूतम् । आह्वयं प्राणिद्यूतम् । इदम् उभयम् अपि द्यूतत्वेनैकं पदं पृथङ् निर्देशस् त्व् अवान्तरभेदविवक्षया । तेन नाष्टादशत्वाभिधानविरोधः । दण्डवाचिके इत्य् अत्र दण्डशब्दस्याल्पाचत्वात् पूर्वनिपातः । तेनात्र पाठक्रमो न विवक्षितः । अत एव तेन (म्ध् ८। २७८),

	एष दण्डविधिः प्रोक्तो वाक्पारुष्यस्य तत्त्वतः ।

	अत ऊर्ध्वं प्रवक्ष्यामि दण्डपारुष्यनिर्णयम् ॥

इति वाक्पारुष्यनिरूपणानन्तरं दण्डपारुष्यनिरूपणं कर्तव्यतया प्रत्ज्ञातम् ।

<span style="text-decoration:underline;">ननु</span> स्तेयस्त्रीसंग्रहणवाग्दण्डपारुष्याणां,

	मनुष्यमारणं स्तेयं परदाराभिमर्शनम् ।

	पारुष्यम् उभयं चेति साहसं स्याच् चतुर्विधम् ॥

इति बृहस्पतिना साहसभेदत्वम् उक्तं, तत् कथम् अत्रैतेषां पृथङ्निर्देशः ।

<span style="text-decoration:underline;">उच्यते</span> । यानि स्तेयादीनि सहसा बलावष्टम्भेन क्रियन्ते तानि साहसानि यानि न तथाविधानि तानि पृथग् व्यवहारपदत्वेन निर्दिष्टानि । अत एव रक्षकजनसमक्षं बलात् क्रियमाणं परधनापहरणं साहसम्, अनेवंविधं परधनापहरणं स्तेयम् इत्य् उक्तं **मनुनैव** (८.३३२) ।

	स्यात् साहसं त्व् अन्वयवत् प्रसभं कर्म यत् कृतम् ।

	निरन्वयं भवेत् स्तेयं हृत्वापव्ययते च यत् ॥

अन्वयवत् रक्षिजनसहितं प्रसभं बलेन निरन्वयं रक्षिजनरहितम् इति मेधातिथिना व्याख्यातम् । नारदस् तु स्वामिपालविवादस्तेयस्त्रीसंग्रहणानि त्रीणि व्यवहारपदानि परित्यज्य प्रागुक्तान्य् अवशिष्टानि पञ्चदशपदान्य् अभ्युपेत्याशुश्रूषाप्रकीर्णकाख्ये अन्ये द्वे पदे स्वीकृत्य विक्रीयासम्प्रदानं पृथक् पदत्वेन निर्दिश्य व्यवहारपदस्याष्टादशत्वम् आह (न्स्म्, मा। १.१६–१९)१६ - १९।

    ऋणादानं ह्य् उपनिधिः सम्भूयोत्थानम् एव च ।


    दत्तस्य पुनर् आदानम् अशुश्रूषाभ्युपेत्य च ॥


**[६]** वेतनस्यानपाकर्म तथैवास्वामिविक्रयः ।


    विक्रीयासंप्रदानं च क्रीत्वानुशय एव च ॥


    समयस्यानपाकर्म विवादः क्षेत्रजस् तथा ।


    स्त्रीपुंसयोश् च सम्बन्धो दायभागो ऽथ साहसम् ॥


    वाक्पारुष्यं तथैवोक्तं दण्डपारुष्यम् एव च ।


    द्यूतं प्रकीर्णकं चैवेत्य् अष्टादशपदा (द- ?) स्मृति (तः ?) ॥ इति ।

एतेषां व्यवहारपदानां स्वरूपं तत्सम्बन्धिनो विशेषाश् चाग्रे दर्शयिष्यन्ते ।

इति श्रीकोदण्डपरशुरामेत्यादिविविधबिरुदावलीविराजमानमानोन्नत-महाराजाधिराजश्रीशक्तिसिंहात्मजमहाराजाधिराजश्रीमदनसिंहदेवविरचिते मदनरत्नप्रदीपे व्यवहारविवेकोद्द्द्योते व्यवहारस्वरूपतद्भेदनिरूपणम् ॥१॥

अथ सकलव्यवहारोपयोगिनी व्यवहारमातृका निरूप्यते । तन्त्रादौ सभानिरूपणम् । **बृहस्पतिः** ।

	दुर्गमध्ये गृहं कुर्याज् जलवृक्षाश्रितं पृथक् ।

	प्राग्दिशि प्राङ्मुखीं तस्य लक्षण्यां कल्पयेत् सभाम् ॥

	माल्यधूपासनोपेतां बीजरत्नसमन्विताम् ।

	प्रतिमालेख्यदेवैश् च युक्ताम् अग्न्यम्बुना तथा ॥

गृहं राज्ञो गृहम् । तस्य राजगृहस्य । लक्षण्यां वास्तुशास्त्रोक्तलक्षणयुक्ताम् । सभां धर्माधिकरणभूतां सभाम् । अस्यां सभायां राज्ञः प्रवेशोपवेशनादौ विशेषम् आह मनुः (८.१–२) ।

	व्यवहारान् दिदृक्षुस् तु ब्राह्मणैः सह पार्थिवः ।

	मन्त्रज्ञैर् मन्त्रिभिश् चैव विनीतः प्रविशेत् सभाम् ॥

	तत्रासीनः स्थितो वापि पाणिम् उद्यम्य दक्षिणम् ।

	विनीतवेशाभरणः पश्येत् कार्याणि कार्यिणाम् ॥

व्यवहारदर्शनं क्रोधलोभरहितेन कर्तव्यम् । तथा च याज्ञवल्क्यः (२.१) ।

**[७]** व्यवहारान् नृपः पश्येद् विद्वद्भिर् ब्राह्मणैः सह ।

	धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः ॥

अत्र नृपग्रहणं क्षत्रियव्यतिरिक्तेनापि प्रजारक्षणाधिकृतेन व्यवहारदर्शनं कर्तव्यम् इति बोधनार्थम् । एतच् च व्यवहारदर्शनं धर्मकामेन प्राड्विवाकसभ्यादिसहकृतेन कार्यम् । तथा च कात्यायनः

	सप्राड्विवाकः सामात्यः सब्राह्मणपुरोहितः ।

	ससभ्यः प्रेक्षको राजा स्वर्गे तिष्ठति धर्मतः ॥

अत्र ब्राह्मणशब्देनानियुक्तानां ग्रहणं सभ्यशब्देन तु नियुक्तानां ग्रहणम् इति न ब्राह्मणशब्दस्य पौनरुक्त्यम् । अमात्यस्वरूपं दर्शितं व्यासेन

	सर्वशास्त्रार्थवेत्तारम् अलुब्धं न्यायभाषिणम् ।

	विज्ञं (विप्रं?) प्राज्ञक्रमायातम् अमात्यं स्थापयेद् द्विजम् ॥

अत्र पुनर् द्विजग्रहणं विप्राभावे क्षत्रियवैश्ययोर् अप्य् उपादानार्थम् । प्राड्विवाकस्वरूपम् उक्तं **बृहस्पतिना** ।

	विवादे पृच्छति प्रश्नं प्रतिप्रश्नं तथैव च ।

	प्रियपूर्वं प्राग्वदति प्राड्विवाकस्ततः स्मृतः ॥

व्यासेनाप्य् उक्तं ।

	विवादानुगतं पृष्ट्वा ससभ्यस् तु प्रयत्नतः ।

	विचारयति येनासौ प्राड्विवाकस् ततः स्मृतः ॥ इति ।

गौतमस् तु राजा सप्राड्विवाको वादिप्रतिवादिनौ पृच्छतीति प्राट् ताभ्याम् उक्तं सभ्यैः सह विविच्य वक्तीति विवाक इति । सभ्याश् च विद्यादिगुणयुक्ता एव कार्याः । तथा च याज्ञवल्क्यः (२.२) ।

	श्रुताध्ययनसम्पन्ना धर्मज्ञाः सत्यवादिनः ।

	राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः ॥

श्रुतं मीमांसादिव्याकरणादिशास्त्रश्रवणम् । अध्ययनं साङ्गवेदाध्ययनम् । कात्यायनः (६६, ६७,७१)

[८] अलुब्धा धनवन्तश् च धर्मज्ञाः सत्यवादिनः ।

    सर्वशस्त्रप्रवीणाश् च सभ्याः कार्या नृपेण तु ॥


    एकं शास्त्रम् अधीयानो न विद्यात् कार्यनिर्णयम् ।


    तस्माद् बह्वागमः कार्यो विवादेषूत्तमो नृपैः ॥


    यत्र विद्वान् न विप्रः स्यात् क्षत्रियं तत्र योजयेत् ।


    वैश्यं वा धर्मशास्त्रज्ञं शूद्रं यत्नेन वर्जयेत् ॥

बह्वागमो बहुशाखज्ञः । नारदः (न्स्म् मा। ३.४-५)

    राजा तु धार्मिकान् सभ्यान् नियुञ्ज्यात् सुपरीक्षितान् ।


    व्यवहारधुरां वोढुं ये शक्ताः सद्गवा इव ॥


    धर्मशास्त्रेषु कुशलाः कुलीनाः सत्यवादिनः ।


    समाः शत्रौ च मित्रे च नृपतेः स्युः सभासदः ॥ इति ।

सद्गवा उत्तमा वृषभाः । बृहस्पतिः

	साधुकर्मक्रियायुक्ताः सत्यधर्मपरायणाः ।

	अक्रोध ओभाः शास्त्रज्ञाः सभ्याः कार्या महीभुजा ॥

साधुकर्मक्रियायुक्ता यज्ञादिसत्कर्माचरणयुक्ताः । एते च सभ्यास् त्रयः कार्याः । तथा च मनुः (८.११) ।

	यस्मिन् देशे निषीदन्ति विप्रा वेदविदस् त्रयः ।

	राज्ञश् चाधिकृतो विद्वान् ब्रह्मणस् तां सभां विदुः ॥

अधिकृतः प्राड्विवाकत्वेन नियुक्तः । बृहस्पतिस् तु त्रिभ्यो ऽधिकानपि विषमसंख्याकान् सभ्यान् आह ।

	लोकवेदाङ्गधर्मज्ञाः सप्त पञ्च त्रयो ऽपि वा ।

	यत्रोपविष्टा विप्राः स्युः सा यज्ञसदृशी सभा ॥

ये सभ्या न कर्तव्यास् तान् आह बृहस्पतिः

	देशाचारानभिज्ञा ये नास्तिकाः शास्त्रवर्जिताः ।

	उन्मत्तक्रुद्धलुब्धार्ता न प्रष्टव्या विनिर्णये ॥

व्यासः

[९] द्विजान् विहाय यः पश्येत् कार्याणि वृषलैः सह ।

	तस्य प्रक्षुभ्यते राष्ट्रं बलं कोशश् च नश्यति ॥

राज्ञा गणकलेखकाव् अपि कर्तव्यौ । तथाह बृहस्पतिः

	शब्दाभिधानतत्त्वज्ञौ गणनाकुशलौ शुची ।

	नानालिपिज्ञौ कर्तव्यौ राज्ञा गणकलेखकौ ॥

शब्दः शब्दशास्त्रम् । अभिधानं कोशः । राज्ञा कतिचिद्वणिजो ऽपि सभायाम् उपवेशनीयाः । तथा च कात्यायनः (५८) ।

	कुलशीलवयोवृत्तवित्तवद्भिर् अमत्सरैः ।

	वणिग्भिः स्यात् कतिपयैः कुलभूतैर् अधिष्ठितम् ॥

कुलभूतैः एकत्र पुञ्जीभूतैः । अधिष्ठितम् इत्य् अत्र धर्माधिकरणं हि तद् इत्य् अतो धर्माधिकरणम् इत्य् अनुषज्यते । एतेषां कार्यम् अप्य् उक्तम् अनेनैव (क्स्म् ०५९) ।

	श्रोतारो वणिजस् तत्र कर्तव्या न्यायदर्शिनः । इति ।

साक्ष्याद्याकारणार्थं राज्ञा स्वपुरुषो ‘पि कश्चिन् नियोजनीयः । तथा बृहस्पतिः

	आकारणे रक्षणे च साक्ष्यर्थिप्रतिवादिनाम् ।

	सभ्याधीनः सत्यवादी कर्तव्यस् तु स्वपूरुषः ॥

अयं राजपुरुषः साध्यपालनामकः शूद्र एव कर्तव्यः । तथा च व्यासः

	साध्यपालस् तु कर्तव्यो राज्ञा साध्यस्य साधकः ।

	क्रमायातो दृढः शूद्रः सभ्यानां च मते स्थितः ॥ इति ।

राज्ञा स्वस्यासामर्थ्ये कार्यान्तरवैयग्र्ये वा सभ्यादिसहकृतः प्राड्विवाकः स्वस्थाने नियोजनीयः । तथा च मनुः (८। ९७, १४१; ८.१०) ।

    यदा स्वयं न कुर्यात् तु नृपतिः कार्यदर्शनम् ।


    तदा नियुञ्जयाद् विद्वांसं ब्राह्मणं कार्यदर्शने ॥


    अमात्यमुख्यं धर्मज्ञं प्राज्ञं दान्तं कुलोद्भवम् ।


    स्थापयेद् आसने तस्मिन् खिन्नः कार्येक्षणे नृणाम् ॥


    सो ऽस्य कार्याणि संपश्येत् सभ्यैर् एव त्रिभिर् वृतः ।


    सभाम् एव प्रविश्याग्र्याम् आसीनः स्थित एव वा ॥

[१०] खिन्नः श्रान्तः । तच् च राज्ञो विशेषणम् । सभ्यैर् एवेत्य् एवकारेण राज्ञो व्यावृत्तिः । तेन कालान्तरवद् राजसंनिधानापेक्षा प्राड्विवाकेनास्मिन्पक्षे न कर्तव्येत्य् अर्थः । सभाम् एवेत्य् एवकारेण स्थलान्तरव्यावृत्तिः । याज्ञवल्क्यः (२। ३) ।

    अपश्यता कार्यवशाद् व्यवहारान् नृपेण तु ।


    सभ्यैः सह नियोक्तव्यो ब्राह्मणः सर्वधर्मवित् ॥

बृहस्पतिः

    राजा कार्याणि संपश्येत् प्राड्विवाको ऽथ वा द्विजः ।


    न्यायाङ्गान्य् अग्रतः कृत्वा सभ्यशास्त्रमते स्थितः ॥

ब्राह्मणाभावे क्षत्रियं वैश्यं वा प्राड्विवाकं कुर्यान् न तु शूद्रम् । तथा च मनुः (८.२०-२१) ।

    जातिमात्रोपजीवी वा कामं स्याद् ब्राह्मणब्रुवः ।


    धर्मप्रवक्ता नृपतेर् न तु शूद्रः कथंचन ॥


    यस्य शूद्रस् तु कुरुते राज्ञो धर्मविवेचनम् ।


    तस्य सीदति तद् राज्यं पङ्के गौर् इव पश्यतः ॥

एतेषां नृपादीनां सभाङ्गत्वं प्रदर्शयंस् तेषाम् उपयोगम् आह बृहस्पतिः

    नृपाधिकृतसभ्याश् च स्मृतिर् गणकलेखकौ ।


    हेमाग्यम्बुस्वपुरुषाः साधनाङ्गानि वै दश ॥


    एषां मूर्धा नृपो ऽङ्गानां मुखं चाधिकृतः स्मृतः ।


    बाहू सभ्याः स्मृतिर् हस्तौ जङ्घे गणकलेखकौ ॥


    हेमाग्यम्बु दृशौ हृच्च पादौ स्वपुरुषस् तथा ।


    दशानाम् अपि चैतेषां कर्म प्रोक्तं पृथक् पृथक् ॥


    वक्ताध्यक्षो नृपः शास्ता सभ्याः कार्यपरीक्षकाः ।


    स्मृतिर् विनिर्णयं ब्रूते जयदानं दमं तथा ॥


    शपथार्थे हिरण्याग्नी अम्बु तृषितक्षुब्धयोः ।

**[११] **गणको गणयेद् अर्थं लिखेन् न्यायं च लेखकः ॥

    प्रत्यर्थिसभ्यानयनं साक्षिणां च स्वपूरुषः ।


    कुर्याद् अलग्नकौ रक्षेद् अर्थिप्रत्यर्थिनौ सदा ॥


    एतद् दशाङ्गं करणं यस्मिन्न् अध्यास्य पार्थिवः ।


    न्यायान् पश्येत् कृतमतिः सा सभाध्वरसंमिता ॥

अत्र्आधिकृताध्यक्षशब्दाभ्यां प्राड्विवाको गृह्यते । दमो दण्डः । एतद् दशाङ्गं करणं एतत् सभालक्षणं करणं शरीरं दशाङ्गम् इत्य् अर्थः । यस्मिन् सभालक्षणे शरीरे । अस्यां सभायां राजादीनाम् उपवेशनप्रकारम् आह बृहस्पतिः

    पूर्वामुखस् तूपविशेद् राजा सभ्या उदङ्मुखाः ।


    गणकः पश्चिमास्यस् तु लेखको दक्षिणामुखः ॥ इति ।

सभ्यग्रहणं प्राड्विवाकस्याप्य् उपलक्षणम् । राजसभातो ऽन्यान्य् अपि कानिचिद् अमुख्यानि वादनिर्णयस्थानानि दर्शयति बृहस्पतिः

    राज्ञो ये विदिताः सम्यक् कुलश्रेणिगणादयः ।


    साहसन्यायवर्ज्यानि कुर्युः कार्याणि ते नृणाम् ॥


    कुलश्रेणिगणाध्यक्षाः प्रोक्ता निर्णयकारिणः ।


    एषाम् अग्रे निश्चितस्य प्रतिज्ञा तूत्तरोत्तरा ॥


    विचार्य श्रेणिभिः कार्यं कुलैर् यन् न विनिश्चितम् ।


    गणैश् च श्रेण्यविज्ञातं गणाज्ञातं नियुक्तकैः ॥


    कुलादिभ्यो ऽधिकाः सभ्यास् तेभ्यो ऽध्यक्षो ऽधिकः स्मृतः ।


    सर्वेषाम् अधिको राजा धर्मं यत्नेन निश्चितम् ॥


    उत्तमाधममध्यानां विवादानां विचारणात् ।


    उपर्युपरिबुद्धीनां चरन्तीश्व् अबुद्धयः ॥

कुलं ज्ञातिसम्बन्धिबन्धूनां समूहः । श्रेणिर् भिन्नजातीयानाम् एककर्मोपजीविनां समूहः । गणो विजातीयानां नानाकर्मोपजीविनाम् एकग्रामादिवासिनां समूहः । आदिशब्देन सभ्यादीनां ग्रहणम् । साहसन्यायवर्ज्यानि **[१२] **साहसाख्यव्यवहारपदव्यतिरिक्तानि । नियुक्तकाः सभ्याः । याज्ञवल्क्यः (२.३०) ।

    नृपेणाधिकृताः पूगाः श्रेणयो ऽथ कुलानि च ।


    पूर्वं पूर्वं गुरु ज्ञेयं व्यवहारविधौ नृणाम् ॥

नृपेणाधिकृताः प्राड्विवाकादयः । पूगशब्दो गणशब्दसमानार्थः । वनेचरादीनां वनादिषु सभा भवतीत्य् आह बृहस्पतिः

    ये चारण्यचरास् तेषाम् अरण्ये करणं भवेत् ।


    सेनायां सैनिकानां तु सार्थेषु वणिजां तथा ॥

करणं सभा ।

इति श्रीकोदण्डे ॥। द्दयोते सभानिरूपणम् ॥ २ ॥

**पोस्सिब्ले रेअदिन्ग् ओफ़् थे देफ़ेच्तिवे तेxत्-

इति श्रीकोदण्डपरशुरामेत्यादिविविधबिरुदावलीविराजमानमानोन्नत-महाराजाधिराजश्रीशक्तिसिंहात्मजमहाराजाधिराजश्रीमदनसिंहदेवविरचिते मदनरत्नप्रदीपे व्यवहारविवेकोद्द्द्योते सभानिरूपणम् ॥२॥

अथ व्यवहारदर्शनप्रकारः ।

तत्र व्यवहारदर्शनकालम् आह कात्यायनः (६०-६१):

    सभास्थानेषु पूर्वाह्णे कार्याणां निर्णयं नृपः ।


    कुर्याच् छास्त्रप्रणीतेन मार्गेणामित्रकर्शनः ॥


    दिवसस्याष्टमं भागं मुक्त्वा भागत्रयं तु यत् ।


    स कालो व्यवहाराणां शास्त्रदृष्टः परः स्मृतः ॥

अष्टमो भागः प्रथमप्रहरस्य पूर्वम् अर्धं भागत्रयम् एतदुत्तरम् आवर्तनात् प्राचीनं भागत्रयम् । अत्र वर्ज्यास् तिथीर् दर्शयति संवर्तः

    चतुर्दशी ह्य् अमावास्या पौर्णमासी तथाष्टमी ।


    तिथिष्व् आसु न पश्येत व्यवहारान् विचक्षणः ॥ इति ।

अनिषिद्धायां तिथौ पूर्वाह्णे निर्णयार्थं शास्त्रपर्यालोचनं कुर्यात् । तथा च बृहस्पतिर् अपि ।

    पूर्वाह्णे ताम् अधिष्ठाय वृद्धामात्यानुजीविभिः ।


    पश्येत् पुराणधर्मार्थशास्त्राणि शृणुयात् तथा ॥ इति ।

निर्णयार्थम् इति शेषः । धर्मशास्त्राणि दर्शितानि पितामहेन

    साङ्गा वेदास् तु चत्वारो मीमांसा स्मृतयस् तथा ।


    एतानि धर्मशास्त्राणि पुराणं न्यायदर्शनम् ॥ इति ।

[१३] अर्थशास्त्रं नीतिशास्त्रम् । धर्मशास्त्रनीतिशास्त्रयोर् विरोधे व्यवस्थाम् आह नारदः (न्स्म् ना। १। ३९ ) ।

    यत्र विप्रतिपत्तिः स्याद् धर्मशास्त्रार्थशास्त्रयोः ।


    अर्थशास्त्रोक्तम् उत्सृज्य धर्मशास्त्रोक्तम् आचरेत् ॥

धर्मशास्त्रयोर् विरोधे न्यायो विनिगमक इत्य् आह याज्ञवल्क्यः (२.२१) ।

    स्मृत्योर् विरोधे न्यायस् तु बलवान् व्यवहारतः ।

न्यायः उत्सर्गापवादभावादिरूपः । व्यवहारतः वृद्धव्यवहारात् । नारदो ऽपि (न्स्म् मा १.४०) ।

    धर्मशास्त्रविरोधे तु युक्तियुक्तो विधिः स्मृतः ।

न्यायपर्यालोचनाभावे दोषम् आह बृहस्पतिः

    केवलं शास्त्रम् आश्रित्य न कर्तव्यो हि निर्णयः ।


    युक्तिहीने विचारे तु धर्महानिः प्रजायते ॥


    चोरो ऽचोरो साध्वसाधुर् जायते व्यवहारतः ।


    युक्तिं विना विचारेण माण्डव्यश् चोरतां गतः ॥


    असत्याः सत्यसदृशाः सत्याश् चासत्यसंनिभाः ।


    दृश्यन्ते भ्रान्तिजनकास् तस्माद् युक्त्या विचारयेत् ॥

साध्वसाधुः साधुर् असाधुश् छान्दसः सोर्लोपः । व्यवहारतः अयुक्तिकविचारात् । देशाचारपर्यालोचनम् अपि कर्तव्यम् इत्य् आह मनुः (८.३) ।

    प्रत्यहं देशदृष्टैश् च शास्त्रदृष्टैश् च हेतुभिः ।


    अष्टादशसु मार्गेषु निबद्धानि पृथक् पृथक् ॥

कार्याणि पश्येद् इत्य् अनुषङ्गः । मार्गेषु व्यवहारपदेषु । देशदृष्टस्य लक्षणम् आह कात्यायनः (४६) ।

    यस्य देशस्य यो धर्मः प्रवृत्तः सार्वकालिकः ।


    श्रुतिस्मृत्यविरुद्धेन देशदृष्टः स उच्यते ॥

**[१४] **शास्त्राभावे तु देशदृष्टानुसारेणैव निर्णयः कार्य इत्य् आह स एव (कात् ४५) ।

    तस्माच् छास्त्रानुसारेण राजा कार्याणि साधयेत् ।


    वाक्याभावे तु सर्वेषां देशदृष्टमतं नयेत् ॥

भिन्नदेशीयानां परस्परं विवादे शास्त्रदृष्टेनैव निर्णय इत्य् अप्य् आह स एव (कात्। ४७)

    देशपत्तनगोष्ठेषु पुरग्रामेषु वादिनाम् ।


    तेषां स्वसमयैर् धर्मः शास्त्रतो ‘न्येषु तैः सह ॥

निर्णेतव्य इति शेषः । स्वसमयैः स्वदेशनिबद्धैर् आचारैः । जातिकुलधर्मा अप्य् अनुसरणीया इत्य् अप्य् आह मनुः (८ ४१) ।

    जातिजानपदान् धर्मान् श्रेणीधर्मांश् च धर्मवित् ।


    समीक्ष्य कुलधर्मांश् च स्वधर्मं प्रतिपालयेत् ॥

जातिजानपदान् धर्मान् जातिदेशसम्बन्धिनो धर्मान् । श्रेण्यः एककर्मोपजीविनो वणिक्कृषीवलादयः । स्वधर्मं दुष्टदण्डनरूपम् । कुलधर्मस्य लक्षणम् उक्तं कात्यायनेन (८५) ।

    गोत्रस्थितिस् तु या येषां क्रमादायाति धर्मतः ।


    कुलधर्मं तु तं प्राहुः पालयेत्तं तथैव तु ॥

बृहस्पतिर् अपि ।

    देशजातिकुलानां च ये धर्माः प्राक् प्रवर्तिताः ।


    तथैव ते पालनीयाः प्रजा प्रक्षुभ्यते ऽन्यथा ॥


    जनापरक्तिर् भवति बलं कोशश् च नश्यति ।


    उदुह्यते दाक्षिणात्यैर् मातुलस्य सुता द्विजैः ॥


    मध्यदेशे कर्मकराः शिल्पिनश् च गवाशिनः ।


    मत्स्यादाश् च नराः सर्वे व्यभिचाररताः स्त्रियः ॥


    उत्तरे मद्यपा नार्यः स्पृश्या नॄणां रजस्वलाः ।


    अनेन कर्मणा नैते प्रायश्चित्तदमार्हकाः ॥ इति ।

सर्वे ब्राह्मणादयः । “पूर्वे” इति कृत्यकल्पतरौ पाठः । पूर्वे पूर्वदेशे । [१५] दमो दण्डः । यत् तु स्मृत्यन्तरेष्व् एतत्कर्मकरणे प्रायश्चित्तदण्डाभिधानं तद् एतद्वचनानुपात्तदेशविषयम् । वणिगादीनां मिथो विवादे राज्ञा तद्धर्मं पर्यालोच्य तद्धर्माभिज्ञैर् एव निर्णयः कारणीयः । तथा च व्यासः

    वणिक्शिल्पिप्रभृतिषु कृषिरङ्गोपजीविषु ।


    अशक्यो निर्णयो ह्य् अन्यैस् तज्ज्ञैर् एव तु कारयेत् ॥

बृहस्पतिर् अपि ।

    कीनाशाः कारुकाः शिल्पिकुसीदिश्रेणिनर्तकाः ।


    लिङ्गिनस् तस्कराः कुर्युः स्वेन धर्मेण निर्णयम् ॥

कीनाशाः कृषीवलाः । कारुकाः वर्धक्यादयः । शिल्पिनश् चित्रकारादयः । कुसीदिनो वार्धुषिकाः । लिङ्गिनः पाशुपतादयः । ब्राह्मणेषु स्ववर्णाश्रमसम्बन्धिनि कार्ये मिथो विवदमानेषु राजा स्वयं निर्णयं न कुर्यात् । किं तु तान्स् अंबोध्य ब्राह्मणैर् एव तद्धर्मनिर्णयं कारयेत् । तथा च मनुः (८.३९०-९१) ।

    आश्रमेषु द्विजातीनां कार्ये विवदतां मिथः ।


    न विब्रूयान् नृपो धर्मं चिकीर्षन् हितम् आत्मनः ॥


    यथार्हम् एतान् अभ्यर्च्य ब्राह्मणैः सह पार्थिवः ।


    सान्त्वेन प्रशमय्यादौ स्वधर्मं प्रतिपादयेत् ॥

आश्रमेषु कार्ये आश्रमसम्बन्धिनि कार्ये । न विब्रूयात् न विशिष्य ब्रूयात् । सान्त्वेन अनुनयेन । प्रशमय्य कोपम् अपनीय । ऽबृहस्पतिर् अपि ।

    तपस्विनां तु कार्याणि त्रैविद्यैर् एव कारयेत् ।


    मायायोगविदां चैव न स्वयं कोपकारणात् ॥

कात्यायनो ‘पि (८४) ।

    सम्यग्विज्ञानसम्पन्नेनोपदेशं प्रकल्पयेत् ।


    उत्कृष्टजातिशीलानां गुर्वाचार्यतपस्विनाम् ॥

सम्यग्विज्ञानसम्पन्नेन्एति तृतीयान्तं पदम् । गुरुशिष्यादीनां **[१६] **मिथो विवादे राजा केनचित् प्रकारेण यथाभ्यर्थितम् अर्थम् अवकलय्य विवादोपशमं कुर्यात् । न तु प्रतिज्ञोत्तरलेखनपूर्वकं विचारं कुर्यात् । एतद् एवाभिप्रेत्याह बृहस्पतिः

    गुरुशिष्यौ पितापुत्रौ दम्पती स्वामिभृत्यकौ ।


    एतेषां समवेतानां व्यवहारो न सिध्यति ॥

समवेतानां एकस्मिन् विषये विवदमानानाम् । ईर्ष्यादिसमुद्भूतो दम्पत्योर् विवादो राजनि न निवेदनीयो ‘पीत्य् आह नारदः

    ईर्ष्यासूयासमुत्थे च संरम्भे कामहेतुके ।


    दम्पती विवदेयातां स्वज्ञातिषु न राजनि ॥ इति ।

ज्ञातिशब्देनात्र सुहृदो लक्ष्यन्ते । विवादविषयम् आवेदयितुम् आगतस्य प्रश्नप्रकार म् आह कात्यायनः (८६-८७) ।

    काले कार्यार्थिनं पृच्छेत् प्रणतं पुरतः स्थितम् ।


    किं कार्यं का च ते पीडा मा भैषीर् ब्रूहि मानव ॥


    केन कस्मिन् कदा कस्मात् पृच्छेद् एवं सभागतः ।

आवेदयितुर् आवेदनकाले सशस्त्रत्वादिकं निषिद्धम् उशनसा

    सशस्त्रो ऽनुत्तरीयो वा मुक्तकच्छः सहासनः ।


    वामहस्तेन वा स्रग्वी वदन् दण्डम् अवाप्नुयात् ॥

सहासनः आसनस्थः । वामहस्तेन वामहस्तम् उद्यम्य । वदन् कार्यम् आवेदयन् वेत्य् अर्थः । प्रश्नानन्तरं कर्तव्यम् आह कात्यायनः (८७-८८) ।

    एवं पृष्टः स यद् ब्रूयात् ससभ्यैर् ब्राह्मणैः सह ।


    विचार्य कार्यं न्याय्यं चेद् आह्वानार्थम् अतः परम् ॥


    मुद्रां वा निक्षिपेत् तत्र पुरुषं वा समादिशेत् ।

न्याय्यं विचारयोग्यम् । बृहस्पतिर् अपि ।

    यस्याभियोगं कुरुते तथ्येनाशङ्कयापि वा ।


    तम् एवानाययेद् राजा मुद्रया पुरुषेण वा ॥

आवेदनानन्तरं कार्यान्तरवैयग्र्येण राज्ञा प्रतिवादिनो ऽनाह्वाने राजाज्ञया [१७] तद्दानपर्यन्तं वाद्य् एव केनचित् पुरुषेण प्रतिवादिनो निरोधं कुर्यात् । तथा च कात्यायनः (२८,१०४) ।

    उत्पादयति यो हिंसां देयं वा न प्रयच्छति ।


    याचमानाय दौःशील्याद् आकृष्यो ऽसौ नृपाज्ञया ॥


    आवेद्य तु नृपे कार्यम् असन्दिग्धे प्रतिश्रुते ।


    तदासेधं नियुञ्जीत यावद् आह्वानदर्शनम् ॥

असन्दिग्धे प्रतिश्रुते विचार्यत्वेन निश्चिते विचार्यत्वेन प्रतिज्ञाते च । तदासेधं प्रतिवाद्यासेधकं पुरुषम् । नारदो ‘पि (मा। १.४७) ।

    वक्तव्ये ‘र्थे न तिष्ठन्तम् उत्क्रामन्तं च तद्वचः ।


    आसेधयेद् विवादार्थी यावद् आह्वानदर्शनम् ॥

वक्तव्ये निर्णेतव्ये । न तिष्ठन्तं निर्णयार्थम् अव्याप्रियमाणम् । उत्क्रामन्तं अतिक्रामन्तम् । तद्वचो वादिवचः । आसेधस्य चातुर्विध्यम् आह स एव (न्स्म् १.४८ ) ।

    स्थानासेधः कालकृतः प्रवासात् कर्मणस् तथा ।


    चतुर्विधः स्याद् आसेधस् तम् आसिद्धो न लङ्घयेत् ॥

अमुं विवादम् अनिर्णीयास्मात् प्रदेशाद् अन्यत्र पदप्रक्षेपो न कार्य इत्य् एवंरूप आसेधः स्थानासेधः । एतन्निर्णयम् अकृत्वा त्वयास्मिन् दिने भोजनं न कर्तव्यम् इत् येवमादिरूपः कालासेधः । निर्णयम् अकृत्वा ग्रामान्तरं न गन्तव्यम् इत्य् एवंरूपः प्रवासासेधः । परिच्छेदम् अविधाय सन्ध्यावन्दनादिकं न करणीयम् इत्य् एवंरूपो देशकालावच्छेदरहितः कर्मनिरोधः कर्मासेधः । स्वनियुक्तपुरुषेण कृतस्य निरोधस्यातिक्रमे स्वपक्षसाधनसामर्थ्ये स्वहस्तेनासेधं कुर्यात् ।

तथा च कात्यायनः

[१८] क्रियार्थिना निरुद्धः सन्न् आसेधं चेद् विलङ्घयेत् ।

	स्वहस्तेनापि रोद्धव्यो यद्य् असौ तां विभावयेत् ॥

असौ वादी तां क्रियाम् विभावयेत् साधयितुं समर्थो भवेत् । आसिद्धस्यासेधातिक्रमे दण्डम् आह कात्यायनः (१०५) ।

	आसेधयोग्य आसिद्ध उत्क्रामन् दण्डम् अर्हति ।

आसेधयोग्ये निरोधयोग्ये कर्मणि । निरोधायोग्यविण्मूत्रोत्सर्गादिनिरोधे अतिक्रमितुर् न दण्डः प्रत्युतासेद्धुर् एव । तथा चोक्तं तेनैव (कात्। १०६) ।

    यस् त्व् इन्द्रियनिरोधेन व्याहारोच्छ्वसनादिभिः ।


    आसेधयेद् अनासेधैः स दण्ड्यो न त्व् अतिक्रमात् ॥

अनासेधैर् आसेधानर्हैः । क्वचिद् आसेधातिक्रमे दण्डाभावम् आह नारदः (मा। १.४९) ।

    नदीसन्तारकान्तारदुर्देशोपप्लवादिषु ।


    आसिद्धस् तं परासेधम् उत्क्रामन् नापराध्नुयात् ॥

माधवीये तु दुर्दशेति पाठः । दुर्दशा दुरवस्था । अनासेध्यान् आसेधुर् दण्डम् आह कात्यायनः (११०) ।

	आसेधयंस् त्व् अनासेध्यं राज्ञा शास्य इति स्थितिः ।

अनासेध्यान् आह स एव (१०७-१०८) ।

    वृक्षपर्वतम् आरूढा हस्त्यश्वरथनौस्थिताः ।


    विषमस्थाश् च ते सर्वे नासेध्याः कार्यसाधकैः ॥


    व्याध्यार्ता व्यसनस्थाश् च यजमानस् तथैव च ।

यजमानो यागादिवैदिककर्म कुर्वाणः । व्यासः

    योगी पियच्छरुद्मतो (यियक्षुर् उन्मत्तो?) धर्मार्थी व्यसनी व्रती ।


    दानोन्मुखो नाभियोज्यो नासेध्यो नाह्वयेच् च तम् ॥

योगी अध्यात्मयोगासक्तः । नारदः (मा। १.५२-५४ ) ।

    निर्वेष्टुकामो रोगार्तो यियक्षुर् व्यसने स्थितः ।


    अभियुक्तस् तथान्येन राजकार्योद्यतस् तथा ।

**[१९] **गवां प्रचारे गोपालाः सस्यावापे कृषीवलाः ।

    शिल्पिनश् चापि तत्कालम् आयुधीयाश् च विग्रहे ॥


    अप्राप्तव्यवहारश् च दूतो दानोद्यतो व्रती ।


    विषमस्थाश् च नासेध्या न चैतान् आहयेन् नृपः

बृहस्पतिः

    शस्त्रोद्वाहोद्यतो रोगी शोकार्तोन्मत्तबालकाः ।


    मत्तो वृद्धो ऽभियुक्तश् च नृपकार्योद्यतो व्रती ॥


    आसन्ने सैनिकः संख्ये कर्षको वापसंग्रहे ।


    विषमस्थाश् च नासेध्याः स्त्रीसनाथास् तथैव च ॥

वापसंग्रहे वीजावापतत्संग्रहयोः । स्त्रीसनाथाः स्त्रियः कुलस्त्रियः सनाथाः परतन्त्राः पित्राद्यधीनाः । स्त्रिया सह रहसि स्थिताः स्त्रीसनाथा इति पौरस्त्याः । कात्यायनः (९६-९७) ।

    अकल्पबालस्थविरविषमस्थक्रियाकुलान् ।


    कार्यातिपातिव्यसनिनृपकार्योत्सवाकुलान् ॥


    मत्तोन्मत्तप्रमत्तार्तभृत्यान् नाह्वानयेन् नृपः ।


    न हीनपक्षां युवतिं कुले जातां प्रसूतिकाम् ॥


    सर्ववर्णोत्तमां कन्यां ता ज्ञातिप्रभुकाः स्मृताः । इति ।

आसेधे कृते यस्य कार्यं नश्यति स कार्यातिपाती । युवती(य?)श् चाप्य् आह्वातव्या आह स एव (कात् ९८) ।

    तदधीनकुटुम्बिन्यः स्वैरिण्यो गणिकाश् च याः ।


    निष्कुलाश् चैव पतितास् तासाम् आह्वानम् इष्यते ॥ इति ।

तदधीनकुटुम्बिन्यः कुटुम्बपोषणकारिण्य आभीरादिस्त्रियः । स्वैरिण्यो व्यभिचारिण्यः । गणिका वेश्या । ये त्व् अभियुक्तास् तद्भयात् संन्यासादिकं गृह्णन्ति तेषाम् अपि क्वचिद् आह्वानम् आह स एव

[२०] ज्ञात्वाभियोगं ये ‘पि स्युर् वने प्रव्रजितादयः ।

	तान् अप्य् आह्वानयेद् राजा गुरुकार्येष्व् अकोपयन् ॥

व्याधितादीनाम् अप्य् अनिर्बन्धेनाह्वानम् आह स एव

    कालं देशं च विज्ञाय कार्याणां च बलाबलम् ।


    अकल्पादीन् अपि शनैः शनैर् आह्वानयेन् नृपः ॥

“शनैर् यानैर् आह्वानयेद्” इति माधवीये पाठः । यानैः दोलादिभिः । राज्ञाहूतस्यानागमने दण्डम् आह बृहस्पतिः

    आहूतो यत्र नागच्छेद् दर्पाद् बन्धुबलान्वितः ।


    अभियोगानुरूपेण तस्य दण्डं प्रकल्पयेत् ॥

अभियोगभेदेन दण्डभेदम् आह कात्यायनः (१०० - १०१) ।

    आहूतस् त्व् अवमन्येत यः शक्तो राजशासनम् ।


    तस्य कुर्यान् नृपो दण्डं विधिदृष्टेन कर्मणा ॥


    हीने कर्मणि पञ्चाशन् मध्यमे तु शतावरः ।


    गुरुकार्येषु दण्डः स्यान् नित्यं पञ्चशतावरः ॥

क्वचिद् आहूतस्यानागमने दण्डाभावम् आह व्यासः

    परानीकहते देशे दुर्भिक्षव्याधिपीडिते ।


    कुर्वीत पुनर् आह्वानं दण्डं न परिकल्पयेत् ॥

आहूतस्यागमने यत् कर्तव्यं तद् आह पितामहः

    सभायाः पुरतः स्थाप्यो ऽभियुक्तो वादिना तथा ।


    शंसिते ऽन्यत्र वा स्थाने प्रमाणं सो ऽन्यथा न तु ॥ इति ।

सभायाम् अप्य् अभियोक्त्रादीनां मध्ये केन कदा वक्तव्यम् इत्य् अपेक्षायाम् आह कात्यायनः (१२१) ।

    तत्राभियोक्ता प्राग् ब्रूयाद् अभियुक्तस् त्व् अनन्तरम् ।


    तयोर् अन्ते सदस्यास् तु प्राड्विवाकस् ततः परम् ॥

[२१] नारदो ‘पि (मा २.३८) पूर्वम् आवेदयितुः प्रतिज्ञावादित्वम् आह ।

    राज्ञे कुर्यात् पूर्वम् आवेदनं यस् 


    		तस्य ज्ञेयः पूर्ववादो विधिज्ञैः ॥ इति ।

क्वचित् सीमाविवादादौ यः पूर्वम् आवेदयति स एव न प्रतिज्ञावादी किं तूभयोर् मध्ये यो ऽधिककार्यो बहुपीडो वा स पूर्ववादी । तथा चाह स एव

    यस्य चाप्य् अधिका पीडा कार्यं वाभ्यधिकं भवेत् ।


    तस्यार्थवादो दातव्यो न यः पूर्वं निवेदयेत् ॥

कात्यायनो ऽपि (१२२) ।

    यस्य स्याद् अधिका पीडा कार्यं वाभ्यधिकं भवेत् ।


    पूर्वपक्षो भवेत् तस्य न यः पूर्वं निवेदयेत् ॥ इति ।

यत्रानयोर् विषयभेदेन युगपद्वादित्वं प्रतिवादित्वं च तत्रोत्तमवर्णस्य

अधिकपीडस्य वा प्रतिज्ञावादं संशोध्य पश्चाद् इतरस्य पक्षो निर्णेतव्यः ।

तथा च बृहस्पतिः

    अहंपूर्विकया याताव् अर्थिप्रत्यर्थिनौ यदा ।


    वादो वर्णानुरूपेण ग्राह्यः पीडाम् अवेक्ष्य वा ।

अनयोर् वादिप्रतिवादिनोर् उभयोर् अन्यतरस्य वा वक्तुम् असामर्थ्ये तदर्थे तत्प्रतिनिधिर् ब्रूयात् । तथा बृहस्पतिः

    अप्रगल्भजडोन्मत्तवृद्धस्त्रीबालरोगिणाम् ।


    पूर्वोत्तरं वदेद् बन्धुर् नियुक्तो ‘न्यो ‘थ वा नरः ॥

पूर्वोत्तरं पूर्वपक्षोत्तरम् । कात्यायनः (८९-९०) ।

    अधिकारो ऽभियुक्तस्य नेतरस्यास्त्य् असङ्गतेः ।


    इतरो ‘प्य् अभियुक्तेन प्रेरितो ऽधिकृतो मतः ॥


    समर्पितो ‘र्थिना यो ‘न्यः परो धर्माधिकारिणि ।


    प्रतिवादी स विज्ञेयः प्रतिपन्नश् च यः स्वयम् ॥

अभियुक्तेन प्रत्यर्थिना । अर्थिना वादिना । प्रतिवादिशब्दो ऽत्र प्रतिनिधिपरो न तु प्रत्यर्थिपरः । प्रतिपन्नश् च यः स्वयं यः स्वयम् अप्य् [२२] अहम् अस्य प्रतिनिधिर् भविष्यामीति कृताङ्गीकारः । अत्र प्रतिपन्नश्चेतिशब्देन अर्थिसमर्पितत्वस्वयंप्रतिपन्नत्वयोः समुच्चित्तयोः प्रतिनिधित्वे प्रयोजकत्वम् उक्तम् । प्रतिनिधिजयपराजयौ वादिप्रतिवादिगामिनाव् इत्य् आह **नारदः **(न्स्म् मा २.२२) ।

    अर्थिना संनियुक्तो वा प्रत्यर्थिप्रेरितो ऽपि वा ।


    यो यस्यार्थे विवदते तयोर् जयपराजयौ ॥

तयोर् अर्थिप्रत्यर्थिनोः । यत् तु –

    यो न भ्राता न च पिता न पुत्रो न नियोगकृत् ।


    परार्थवादी दण्ड्यः स्याद् व्यवहारेषु विब्रुवन् ॥

इति कात्यायनवचनं तद् अनियुक्तविषयं यत उक्तं तेनैव (कात् ९२) ।

    दासाः कर्मकराः शिष्या नियुक्ता बान्धवास् तथा ।


    वादिनो न च दण्ड्याः स्युर् यस् ततो ऽन्यः स दण्डभाक् ॥

केषुचिद् विवादेषु प्रतिनिधिनिषेधस् तेनैव्ओक्तः (कात् ९३ - ९५) ।

    ब्रह्महत्यासुरापाने स्तेयगुर्वङ्गनागमे ।


    अन्येष्व् अशक्यवादेषु प्रतिवादी न दीयते ॥


    मनुष्यमारणे स्तेये परदाराभिमर्शने ।


    अभक्ष्यभक्षणे चैव कन्याहरणदूषणे ॥


    पारुष्ये कूटकरणे नृपद्रोहे तथैव च ।


    प्रतिवादी न दाप्यः स्यात् कर्ता तु विवदेत् स्वयम् ॥

प्रतिवादी प्रतिनिधिः । पुनः स्तेयग्रहणं तत्र सर्वथा प्रतिनिधिर् न दातव्य इत्य् एतदर्थम् । व्यवहारप्रवृत्त्यनन्तरं वादिप्रतिवादिनोर् अन्यतरस्योभयोर् वा विपत्तौ तत्पुत्रो व्यवहारनिर्णयं कुर्यात् । तथा च बृहस्पतिः

    पूर्वोत्तरे ऽभिलिखिते यत्र वादी प्रमीयते ।


    प्रत्यर्थी वा सुतस् ताभ्यां व्यवहारं विशोधयेत् ॥

अनिर्णीतक्रियां कल्पयित्वा परामृश्य वादिनो विवदमानस्य प्रतिज्ञां भावयेत् साधयेत् । मिथ्योत्तरे इति शेषः । प्रत्यर्थी कारणं साधयेत् प्रत्यवस्कन्दने इति शेषः । प्राग्वृत्तवादी प्राङ्न्यायोत्तरवादी जयपत्रेणेति प्राड्विवाकादीनाम् उपलक्षणम् । अत एव व्यासः ।

[२३] प्राङ्न्याये जयपत्रेण प्राड्विवाकादिभिस् तथा । इति ।

नारदः

    मिथ्या क्रिया पूर्ववादे कारणे प्रतिवादिनि ।


    प्राङ्गन्यायविधिसिद्धौ तु जयपत्रं क्रिया भवेत् ॥

मिथ्या मिथ्योत्तरे । पूर्ववादे वादिनि क्रिया । जयपत्रं क्रिया भवेत् प्रमाणं भवेद् इत्य् अर्थः । व्यासः

    प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेत् क्रियाम् ।


    मिथ्योत्तरे पूर्ववादी प्रतिपत्तौ न सा भवेत् ॥

प्रत्यर्थी प्रतिवादी । प्रतिपत्तौ संप्रतिपत्त्युत्तरे । सा क्रिया ।

एकस्मिन् वस्तुनि ममेदं ममेदम् इति विवदमानयोर् युगपत्सभायाम् आगतयोर् यः पूर्वं मया लब्धम् इति वदति तस्य पूर्ववादिनः क्रिया । तथा च याज्ञवल्क्यः (२.१७)

	साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः । इति ।

ग्राह्या भवन्तीति शेषः । साक्षिग्रहणं प्रमाणान्तरस्याप्य् उपलक्षणम् । यदा तु तयोर् एवैकः कथयति सत्यम् अनेन पूर्वं लब्धं किं त्व् अस्माद् एवान्येन प्रतिग्रहादिना लब्ध्वा मह्यं दत्तम् इति तत्र यः पश्चाल् लब्धम् इति वदति तस्योत्तरवादिनः क्रिया । तथा च स एव (य्ध् २.१७) ।

	पूर्वपक्षे ऽधरीभूते भवन्त्य् उत्तरवादिनः ॥

साक्षिण इत्य् अनुषङ्गः । पूर्वपक्षः पूर्वं मया लब्धम् इति पक्षः । तस्य चाधरीभावः संप्रतिपन्नत्वेनासाध्यत्वात् । इदं च क्रियादानं वादिप्रतिवादिनोर् लग्नकं गृहीत्वा कार्यम् । तथा च याज्ञवल्क्यः (२.१०) ।

	उभयोः प्रतिभूर् ग्राह्यः समर्थः कार्यनिर्णये ।

निर्णयस्य कार्यं यत् साधितधनदानं दण्डद्रव्यदानं च तत् कार्यनिर्णयः । पूर्वनिपातशास्त्रस्यानित्यत्वात् तुल्यास्यप्रयत्नं सवर्णम् (पाणिनि

१। १। ९) इति सूत्रे प्रारम्भोत्पन्नस्य (प्रारम्भो यत्नस्य?) प्रयत्न इति

वदता महाभाष्यकारेण क्वचित् षष्ठीसमासे षष्ठ्यन्तस्य परनिपातो **[२४] **भवतीति ज्ञापनाद् वा निर्णयशब्दस्य परनिपातः । विज्ञानेश्वरस् तु आहिताग्यादिगणपाठात् कार्यशब्दस्य पूर्वनिपातम् आह । प्रतिभूत्वेनाग्राह्यान् आह कात्यायनः (११४- ११६) ।

    न स्वामी न च वै शत्रुः स्वामिनाधिकृतस् तथा ।


    निरुद्धो दण्डितश् चैव संशयस्थो न च क्वचित् ॥


    नैव रिक्थी न रिक्तश् च न चैवान्यत्र वासिनः ।


    राजकार्यनियुक्ताश् च ये च प्रव्रजिता नराः ॥


    नाशक्तो धनिने दातुं दण्डं राज्ञे च तत्समम् ।


    नाविज्ञातो ग्रहीतव्यः प्रतिभूत्वक्रियां प्रति ॥

रिक्थी रिक्थहारी भ्रात्रादिः । रिक्तो निर्धनः । अन्यत्रवासिनो देशान्तरनिवासिनः । अविज्ञातः विशेषतो ऽपरिशीलितः । याज्ञवल्क्यः (२.५२) ।

    भ्रात्रॄणाम् अथ दम्पत्योः पितुः पुत्रस्य चैव हि ।


    प्रातिभाव्यम् ऋणं साक्ष्यम् अविभक्ते न तु स्मृतम् ॥

नारदो ऽपि ।

    साक्षित्वं प्रातिभाव्यं च दानं ग्रहणम् एव च ।


    विभक्ता भ्रातरः कुर्युर् नाविभक्ताः परस्परम् ॥

लग्नकस्यालाभे तद्रक्षणार्थं यावन् निर्णयं राजपुरुषा नियोज्यास् ते च ताभ्यां वेतनं गृह्णीयुः । तथा च कात्यायनः (११७)

    अथ चेत् प्रतिभूर् नास्ति कार्ययोग्यस् तु वादिनः ।


    स रक्षितो दिनस्यान्ते दद्याद् भृत्याय वेतनम् ॥

कार्ययोग्यः साधितधनदानादियोग्यः । वादिनः विवदमानस्य ।

अत्रैकत्वम् अविवक्षितम् । भृत्यायेत्य् अत्राप्य् एकत्वम् अविवक्षितम् । प्रतिभूरहितस्य पराजये धनादिग्रहणोपायम् आह स एव (११८ - ११९) ।

    द्विजातिः प्रतिभूहीनो रक्ष्यः स्याद् बाह्यचारिभिः ।


    शूद्रादीन् प्रतिभूहीनान् बन्धयेन् निगडेन तु ॥

(२५) अतिक्रमे ऽपयाने च दण्डयेत् तं पणाष्टकम् ।

    नित्यकर्मोपरोधस् तु न कार्यः सर्ववर्णिनाम् ॥ इति ।

इयं मिथ्योत्तरादिषु यथायोग्यं वादिप्रतिवादिनोर् अन्यतरस्मै दातव्यत्वेनोक्ता क्रिया । यो हीनवादिलक्षणयुक्तस् तस्य दण्डमात्रार्हत्वे दण्डं गृहीत्वा दातव्या पराजयार्हात्वे तु न देया । हीनलक्षणराहित्ये तु अविलम्बेन देया । तत्र हीनवादिनं दर्शयति कात्यायनः (३८५-३८६)

    आकारेङ्गितचेष्टाभिस् तस्य भावं विभावयेत् ।


    प्रतिवादी भवेद् धीनः सो ऽनुमानेन लक्ष्यते ॥


    कम्पः स्वेदो ऽथ वैवर्ण्यम् ओष्ठशोषावमर्शने ।


    भूलेखनं स्थानहानिस् तिर्यगूर्ध्वनिरीक्षणम् ।


    स्वरभेदश् च दुष्टस्य चिह्नम् आहुर् मनीषिणः ॥

प्रतिवादिग्रहणम् उपलक्षणम् । अनुमानेन दुष्टचिह्नेन कम्पादिना । अवमर्शनं लेहनम् । अन्यान्य् अपि हीनवादिलक्षणान्य् आह याज्ञवल्क्यः (२.१३ -१५) ।

    देशाद् देशान्तरं याति सृक्किणी परिलेढि च ।


    ललाटं स्विद्यते चास्य मुखं वैवर्ण्यम् एति च ॥


    परिशुष्यत्स्खलद्वाक्यो विरुद्धं बहु भाषते ।


    वाक्चक्षुः पूजयति नो तथोष्ठौ निर्भुजत्य् अपि ॥


    स्वभावाद् विकृतिं गच्छेन् मनोवाक्कायकर्मभिः ।


    अभियोगे च साक्ष्ये च दुष्टः स परिकीर्तितः ॥

सृक्किणी ओष्ठप्रान्तौ । परिशुष्यन् मुखम् इति सम्बन्धः । वाक्चक्षुः पूजयति नो अन्योक्तां वाचं प्रतिवचनदानेन चक्षुश् च प्रतिवीक्षणेन न पूजयति । स्वभावात् सभाक्षोभादिकं विनेत्य् अर्थः । कालिकापुराणे

    वाचं न वदति त्रस्तः कम्पः स्वेदो ‘थ वा न तु ।


    विकारो वा व्यथा गात्रे गतिर् वा स्यान् न वान्यथां ॥

[२६] स जयी यद्य् अकोपः स्यान् न चेत् प्राक्तन एव हि ।

प्राक्तनः पूर्ववादी । नारदो ऽपि (न्स्म् मा। २.२४) ।

    पूर्ववादं परित्यज्य यो ऽन्यम् आलम्बते पुनः ।


    वादसंक्रमणाज् ज्ञेयो हीनवादी स वै नरः ॥

कात्यायनः (१९६)

    न मयाभिहितं कार्यम् अभियुज्य परं वदेत् ।


    विब्रुवंश् च भवेद् एवं हीनं तम् अपि निर्दिशेत् ॥

स एव (१९७) ।

    लेखयित्वा तु यो वाक्यम् ऊनं वाभ्यधिकं पुनः ।


    वदेद् वादी स हीयेत नाभियोगं तु सो ‘र्हति ॥

मनुः (८.५३-५८) ।

    आदेशं (?) यश् च दिशति निर्दिश्यापह्नुते च यः ।


    यश् चाधरोत्तरान् अर्थान् विगीतान् नावबुध्यते ॥


    अपदिश्यापदेशं च पुनर् यस् त्व् अपधावति ।


    सम्यक् प्रणिहितं कार्यं पृष्टः सन्नाभिनन्दति ॥


    असंभाष्ये साक्षिभिश् च देशे सम्भाषते मिथः ।


    निरुच्यमानं प्रश्नं च नेच्छेद् यश् चापि निष्पतेत् ॥


    ब्रूहीत्य् उक्तश् च न ब्रूयाद् उक्तं च न विभावयेत् ।


    न च पूर्वापरं विद्यात् तस्माद् अर्थात् स हीयते ॥


    सन्ति ज्ञातार इत्य् उक्त्वा दिशेत्य् उक्तो दिशेन् न यः ।


    धर्मस्थः कारणैर् एतैर् हीनं तम् अपि निर्दिशेत् ॥


    अभियोक्ता न चेद् ब्रूयाद् वध्यो दण्ड्यश् च धर्मतः ।


    न चेत् त्रिपक्षाद् प्रब्रूयाद् धर्मं प्रति पराजितः ॥

आदेश्यम् अभियोगम् । आदेशो यत्रार्थिप्रत्यर्थिनौ ऋणादानादिकाले स्थितौ स प्रदेश इति कृत्यकल्पतरौस्मृतिचन्द्रिकायां त्व् अदेश इति पठित्वा निर्णयसमयासम्भवी साक्षीति व्याख्यातम् । अधरोत्तरान् [२७] पूर्वापरान् । विगीतान् विरुद्धान् । अपदिश्य उक्त्वा । अपदेशं व्याजम् । अपधावति अपसरति । सम्यक् प्रणिहितं सम्यग् अभिहितम् । पृष्टः सन् किम् अत्रोत्तरं कथयसि केन प्रमाणेन स्वपक्षं साधयसीति पृष्टः सन् । नाभिनन्दति नोत्तरयति । असम्भाष्ये देशे सम्भाषणार्हे प्रदेशे । निष्पतेत् अनुक्त्वा ग्रामान्तरं गच्छेत् । पूर्वोक्तस्यार्थस्य ब्रूहि इत्यादिना पुनर्वचनं दार्ढ्यार्थम् । धर्मस्थो धर्माधिकरणस्थः । वध्यो वधार्हे विषये । दण्ड्यो दण्डार्हे विषये । याज्ञवल्क्यः (२.१६) ।

    सन्दिग्धार्थं स्वतन्त्रो यः साधयेद् यं च निष्पतेत् ।


    न चाहूतो वदेत् किञ्चिद् धीनो दण्ड्यश् च स स्मृतः ॥

स्वतन्त्रः साधननिरपेक्षः । साधयेत् गृह्णीयात् । निष्पतेत् पलायेत । अत्र दण्डग्रहणेनैव हीनत्वे सिद्धे पुनर् वचनं प्रकृतार्थहानिज्ञापनार्थम् । ऽअत एव नारदः (मा १.४६) ।

    अनिवेद्य तु यो राज्ञे सन्दिग्धे ऽर्थे प्रवर्तते ।


    प्रसह्य स विनेयः स्यात् स चाप्य् अर्थो न सिध्यति ॥ इति ।

कात्यायनः (२०७) ।

    साक्षिणो यस् तु निर्दिश्य कामतो न विवादयेत् ।


    स वादी हीयते तस्मात् त्रिंशद्रात्रात् परेण तु ॥ इति ।

नारदः (मा। २.३३) ।

    अन्यवादी क्रियाद्वेषी नोपस्थायी निरुत्तरः ।


    आहूतप्रपलायी च हीनः पञ्चविधः स्मृतः ॥

क्रियाद्वेषी सभ्यादिद्वेषी । तथा च स एव

    सभ्याश् च साक्षिणश् चैव क्रिया ज्ञेया मनीषिणा ।


    तां क्रियां द्वेष्टि यो मोहात् क्रियाद्वेषी स उच्यते ॥ इति ।

नोपस्थायी सभ्यादिनिरूपिते काले सभायाम् अप्राप्तः । दैविकादिविघ्नेनानागमने दोषाभावम् आह बृहस्पतिः

[२८] आचारकरणे दिव्ये कृत्वोपस्थाननिर्णयम् ।

    नोपस्थितो यदा कश्चिच् छलं तत्र न कारयेत् ॥


    दैवराजकृतो दोषस् तस्मिन् काले यदा भवेत् ।


    अवधित्यागमात्रेण न भवेत् स पराजितः ॥

आचारकरणे धर्माधिकरणे । छलं तत्र न कारयेत् अपराधं तत्र न मन्येतेत्य् अर्थः । अत्र नारदवाक्ये “हीनः पञ्चविध” इत्य् अभिधानं न पञ्च एवेत्य् अवधारणार्थम् अन्येषाम् अपि हीनानां स्मरणात् । किं तर्हि तेषूत्तरोतरस्य हीनता गुर्वीति ज्ञापनार्थम् । तच् चोत्तरोत्तरस्य

    अन्यवादी पणान् पञ्च क्रियाद्वेषी पणान् दश ।


    नोपस्थाता दश द्वौ च षोडशैव निरुत्तरी ॥


    आहूतप्रपलायी च पणान् ग्राह्यस् तु विंशतिम् । इति

कात्यायनोक्तदण्डभूयस्त्वं सूचयितुम् (२०२) । कात्यायनः

	न परेण समुद्दिष्टान् उपेयात् साक्षिणो रहः ।

	भेदयेच् चैव नान्येन हीयेतैवं समाचरन् ॥

नारदः

    उभयोर् लिखिते वाक्ये प्रारब्धे कार्यनिर्णये ।


    अनुक्तं तत्र यो ब्रूयात् तस्माद् अर्थात् स हीयते ॥ इति ।

बृहस्पतिः

    साक्षिणस् तु समुद्दिश्य यस् तु तान् न निगादयेत् ।


    त्रिंशद्रात्रात् त्रिपक्षाद् वा तस्य हानिः प्रजायते ॥


    आहूतप्रपलायी च मौनी साक्षी पराजितः ।


    स्ववाक्यप्रतिपन्नश् च हीनवादी चतुर्विधः ॥


    प्रपलायी त्रिपक्षे ऽथ मौनकृत् सप्तभिर् दिनैः ।


    साक्षिभिन्नस् तत्क्षणेन प्रतिपन्नश् च हीयते ॥

स्ववाक्यप्रतिपन्नः स्वयमङ्गीकृतपराजयः । अत्र त्रिंशद्रात्राद् [२९] इत्यादिकालविशेषनिर्देशः कार्यलाघवगौरवानुसारी अल्पकालबहुकालोपलक्षणपरः ।

एतेषु हीनवादिचिह्नेषु कानिचित् साक्षिपराजितत्वादीनि चिह्नानि वाद्यभिमतार्थाभावनिश्चायकानि । तेषां दर्शने दण्डभङ्गौ कल्पनीयौ । तथा च कात्यायनः (२०६) ।

	दोषानुरूपं संग्राह्यः पुनर्वादो न विद्यते ।

कानिचित् त्व् अर्थान्तरभाषणादीनि तदभिमतार्थाभावसम्भावनाहेतुभूतानि । तेषां दर्शनेन दण्डः परिकल्प्यः । अत एव कात्यायनः (२०२) ।

    अन्यवादी पणान् पञ्च क्रियाद्वेषी पणान् दश ।


    नोपस्थाता दश द्वौ च षोडशैव निरुत्तरः ॥


    आहूतप्रपलायी च पणान् ग्राह्यस् तु विंशतिम् । इति ।

व्यवहारप्रवर्तनं तु,

    पलायनानुत्तरत्वाद् अन्यपक्षाश्रयेण च ।


    हीनस्य गृह्यते वादो न स्ववाक्यजितस्य तु ॥

इत्यादिभिर् बृहस्पत्य्आदिवाक्यैर् यत्राभ्यनुज्ञातं तत्र कर्तव्यम् । इतरत्र भङ्गो वक्तव्यः । पलायनादौ पुनर्वादाभ्यनुज्ञानं त्रिपक्षादिकालमध्ये वेदितव्यं न तु तत ऊर्ध्वं,

	प्रपलायी त्रिपक्षेण मौनकृत् सप्तभिर् दिनैः ।

इति पूर्वोदाहृतवचनात् । मन्युकृतेषु साहसादिव्यवहारेषु प्रमादेनान्यथाभिधाने ‘पि दण्डभङ्गौ । अमन्युकृतेषु ऋणाद्यर्थव्यवहारेषु तु दण्ड एव न भङ्गः । तथा च नारदः (मा। २.२५) ।

    सर्वेष्व् अर्थविवादेषु वाक्छले नावसीदति ।


    पशुस्त्रीभूम्यृणादाने शास्यो ‘प्य् अर्थान् न हीयते ॥

सर्वेष्व् अर्थविवादेषु अमन्युकृतेषु विवादेषु वाक्छले प्रमादाभिधाने नावसीदति न पराजयवान् भवति । तत्र दृष्टान्तः । यथा पशुस्त्रीभूम्यृणादानेषु प्रमादाभिधानेन **शास्यो ‘**पि दण्ड्यो ‘पि स्वाभिमताद् अर्थान् न हीयते[३०] अत्र्आर्थविवादेष्व् इत्य् अभिधानान् मन्युकृतविवादेषु प्रकृतार्थहानिर् उक्ता । पूर्वपक्षोत्तरलेखनानन्तरं राजानम् अविज्ञाप्य वादिप्रतिवादिनोर् मिथो मेलने दण्डम् आह कात्यायनः (२०६) ।

    आवेद्य प्रगृहीतार्थं प्रशमं यान्ति ये मिथः ।


    सर्वे द्विगुणदण्ड्याः स्युर् विप्रलम्भान् नृपस्य ते ॥

प्रगृहीतार्थं स्वपरिगृहीतम् अर्थम् । यद् अपि,

    पूर्वोत्तरे संनिविष्टे विचारे संप्रवर्तिते ।


    प्रशमं ये मिथो यान्ति दाप्यास् ते द्विगुणं दमम् ॥

इति बृहस्पतिवचनं तद् अपि नृपवञ्चनविषयम् । तेन नृपाज्ञया मिथो मेलने न दण्डः किम् उत गुण एव । तथा च स एव

    पूर्वोत्तरे ऽभिलिखिते प्रक्रान्ते कार्यनिर्णये ।


    द्वयोः सन्तप्तयोः सन्धिः स्याद् अयःपिण्डयोर् इव ॥


    साक्षिसभ्यविकल्पस् तु भवेद् यत्रोभयोर् अपि ।


    दोलायमानौ यो सन्धिं कुर्यातां तौ विचक्षणौ ॥


    प्रमाणसमता यत्र भेदः शास्त्रचरित्रयोः ।


    तत्र राजाज्ञया सन्धिर् उभयोर् अपि शस्यते ॥

साक्षिसभ्यविकल्पः किम् एते वक्ष्यन्तीत्य् एवंरूपं ज्ञानम् । उभयोः वादिप्रतिवादिनोः । दोलायमानौ कथम् एतत् कार्यं भविष्यतीति सन्देहयुक्तौ । प्रमाणसमता पक्षद्वये ऽपि सभ्यानां प्रमाणं साम्यप्रतिभानम् । भेदः शास्त्रचरित्रयोः चरित्रं व्यवहारशास्त्रं तस्य शास्त्रान्तरेण विरोधो व्यवहारस्य व्यवहारान्तरेण विरोध इत्य् अर्थः । इति प्रत्याकलितनिरूपणम् ॥

अथ क्रियादानान्तरं कर्तव्यं क्रियाभेदादिकं च निर्दिष्टं तत्र क्रियादानम् अभिधायाह **बृहस्पतिः** ।

[३१] श्रुत्वा पूर्वोत्तरं सभ्यैर् निर्दिष्टा यस्य भावना ।

    विभावयेत् प्रतिज्ञातं सो ऽखिलं लिखितादिना ॥

भावना क्रिया । आदिशब्देन वक्ष्यमाणानाम् उपसंग्रहः । याज्ञवल्क्यो ‘पि (२.७) ।

	ततो ‘र्थी लेखयेत् सद्यः प्रतिज्ञातार्थसाधनम् ।

अर्थ्यते काम्यते इत्य् अर्थः शोधनीयो अर्थः स यस्यास्ति सो ‘र्थी । ततश् च मिथ्योत्तरे साधयितृत्वाद् अर्थी कारणप्राङ्न्यायोत्तरयोः प्रतिवादी कारणप्राङ्न्यायसाधनकत्वेनार्थी । अयं चार्थी प्रतिज्ञातार्थस्य साधनीयार्थस्य साधनं प्रमाणं सद्यो ऽविलम्बेन लेखयेद् इत्य् अर्थः । व्यासः

    पूर्ववादे ऽभिलिखितं यावत् स्यात् तद् अशेषतः ।


    अर्थी तृतीयपादे तु क्रियया प्रतिपादयेत् ॥

पूर्ववादग्रहणम् उत्तरस्याप्य् उपलक्षणम् । क्रियया प्रमाणेन । क्रियाभेदान् दर्शयति बृहस्पतिः

    द्विप्रकारा क्रिया प्रोक्ता मानुषी दैविकी तथा ।


    एकैकान् एकधा भिन्ना मुनिभिस् तत्त्वदर्शिभिः ॥


    साक्षिलेख्यानुमानं तु मानुषी त्रिविधा क्रिया ।


    घटाद्या धर्मजान्त्या च दैवी नवविधा स्मृता ॥

अत्र भुक्तेः पृथगनिर्देशो ऽनुमाने ऽन्तर्भावात् । साक्ष्यादिभेदनिरूपणं तत्प्रकरणे करिष्यते । कात्यायनः (२१४) ।

	साक्षिणो लिखितं भुक्तिः प्रमाणं त्रिविधं विदुः ।

दिव्यापेक्षया साक्ष्यादीनां प्राबल्यम् आह याज्ञवल्क्यः (२.२२) ।

    प्रमाणं लिखितं भुक्तिः साक्षिणश् चेति कीर्तितम् ।


    एषाम् अन्यतमाभावे दिव्यान्यतमम् उच्यते ॥

एषाम् अन्यतमस्याप्य् अभावे दिव्येषु घटादिष्व् अन्यतमं प्रमाणत्वेन ग्राह्यम् इति शास्त्रविद्भिर् उच्यत इत्य् अर्थः । कात्यायनो ‘प्य् अनेनैवाभिप्रायेणैकस्मिन् वस्तुनि ममेदं ममेदम् इति विवदमानयोर् युगपत् सभाम् आगतयोर् एकेन **[३२] **साक्ष्यादिप्रमाणावलम्बने अपरेण दिव्यावलम्बने साक्ष्यादिकम् एव ग्राह्यम् । तथा सुवर्णशतम् अस्मिन् दिने इयत्या वृद्ध्या गृहीतं तद् इदानीं मूलं वृद्धिं च न प्रयच्छतीत्य् अभियोगे प्रत्यर्थिना त्व् अपलापे कृते ऋणग्रहणे यदि साक्षिणः स्युः संख्यायां वृद्धिविशेषे वा न स्युस् तदाहं दिव्येन संख्यादिकं साधयिष्यामीत्य् अर्थिनोक्ते ‘पि न तत्र दिव्यं ग्राह्यं स्थालीपुलाकन्यायेन संख्यावृद्धिविशेषयोर् निश्चयसम्भवाद् इत्य् आह ।

    यद्य् एको मानुषीं ब्रूयाद् अन्यो ब्रूयात् तु दैविकीम् ।


    मानुषीं तत्र गृह्णीयान् न तु दैवीं क्रियां नृपः ॥


    यद्य् एकदेशप्राप्तापि क्रिया विद्येत मानुषी ।


    सा ग्राह्या न तु पूर्णापि दैविकी वदतां नृणाम् ॥ [कात् २१८–२१९]

याज्ञवल्क्यो ऽप्य् एकदेशे साक्ष्यादिसम्भवे दिव्यं न ग्राह्यम् इत्य् अभिप्रायेण सुवर्णरत्नाद्यनेकपदार्थविषयके ऽभियोगे प्रत्यर्थिना सर्वेषाम् अपलापे साक्ष्यादिना यद्य् एकदेशम् अर्थी साधयति अवशिष्टं तु दिव्येन सिसाधयिषति तदा राजार्थिनं दिव्यम् अकारयित्वा तस्मै सुवर्णरत्नादिकं सर्वम् अपि प्रत्यर्थिना दापयेद् इति । यत् तु भाषालेखनकाले न लेखितं पश्चाद् आर्थिनोक्तं तत् तु न दापयेद् इत्य् आह (य्ध् २.२०) ।

    निह्नुते लिखितेनैकम् एकदेशविभावितः ।


    दाप्यः सर्वं नृपेणार्थं न ग्राह्यस् त्व् अनिवेदिते ॥ इति ।

न च लिखितापेक्षया न्यूने ऽभ्यधिके वा साक्षिभिर् उक्ते कृत्स्नस्यापि साध्यस्य न सिद्धिर् इत्य् एतदर्थबोधकं यद्,

    ऋणादिषु विवादेषु स्थिरप्रायेषु निश्चितम् ।


    ऊने वाभ्यधिके वार्थे प्रोक्ते साध्यं न सिध्यति ॥

इति कात्यायनवचनं (३९६) तद्विरोध इति वाच्यं, यत्राथिना सर्वस्मिन् प्रतिज्ञाते ‘र्थे प्रमाणत्वेनोपन्यस्तैः साक्षिभिर् एकदेशः साध्यते तद्विषयत्वात् । याज्ञवल्क्यवचनस्य त्व् एतद्व्यतिरिक्तविषयत्वात् । साहसादौ तु सकलार्थसाधकत्वेनोपन्यस्तैर् अपि साक्षिभिर् एकदेशस्याप्य् अभिधाने सकलार्थसिद्धिर् उक्तानेनैव ।

[३३] साध्यार्थांशे ऽपि गदिते साक्षिभिः सकलं भवेत् ।

    स्त्रीसङ्गे साहसे चौर्ये यत् साध्यं परिकीर्तितम् ॥ इति ।

साहसशब्देन वाक्पारुष्यादीनां ग्रहणम् । यत् तु साक्षिणा यावान् अंशो ऽभिहितस् तावत एव सिद्धिर् भवतीति बोधकं,

    अनेकार्थाभियोगे ‘पि यावत् संसाधयेद् धनी ।


    साक्षिभिस् तावद् एवासौ लभते साधितं धनम् ॥ इति

कात्यायनवचनं (४७३), तत् पित्रादिकृतर्णानभिज्ञेन पुत्रादिना दातव्यं यत्र पित्राद्यृणं तद्विषयम्, तत्र पुत्रादेर् अपलापित्वाभावेन निर्दोषत्वात् । साक्षिलेख्ययोर् लेख्यं प्रबलम् इत्य् अप्य् आह स एव (२२३) ।

    क्रिया न दैविकी प्रोक्ता विद्यमानेषु साक्षिषु ।


    लेख्ये च सति वादेषु न स्याद् दिव्यं न साक्षिणः ॥

तथा

    पूगश्रेणीगणादीनां या स्थितिः परिकीर्तिता ।


    तस्यास् तु साधनं लेख्यं न दिव्यं न च साक्षिणः ॥ (२२५)

क्वचित् साक्षिप्राबल्यम् आह स एव (२२७ - २२८) ।

    दत्वादत्ते तथादत्ते स्वामिनां निर्णये सति ।


    विक्रयादानसम्बन्धे क्रीत्वा धनम् अनिच्छति ॥


    द्यूते समाह्वये चैव विवादे समुपस्थिते ।


    साक्षिणः साधनं प्रोक्तं न दिव्यं न च लेख्यकम् ॥

दत्त्वादत्ते इदं तुभ्यं दत्तम् इत्य् उक्त्वा असमर्पिते । आदत्ते दत्त्वा पुनस् तस्माद् आच्छिद्य गृहीते । ददातेस् तकारादेशाभावश् छान्दसः । स्वामिनां निर्णये सति स्वामिविषयके निर्णये सति तद्विषयकविवादे इत्य् अर्थः । क्रीत्वा धनं मूल्यरूपं अनिच्छति दातुम् इति शेषः । क्वचिद्भुक्तेः प्राबल्यम् आह स एव (२२६) ।

    द्वारमार्गक्रियाभोगजलवाहादिके तथा ।


    भुक्तिर् एव हि गुर्वी स्यान् न लेख्यं न च साक्षिणः ॥ इति ।

[३४] द्वारक्रिया जननिःसरणप्रवेशरूपा मार्गक्रिया गवादिनिःसरणमार्गः । भुज्यत इति भोगो गृहक्षेत्रादिः । जलवाहो जलनिःसरणमार्गः । क्वचिद् दिव्यप्राबल्यम् आह बृहस्पतिः ।

    मणिमुक्तानाणकानां कूटकृन् न्यासहारकः ।


    हिंसको ‘न्याङ्गनासेवी परीक्ष्याः शपथैः सदा ॥


    महापापाभिशापेषु निक्षेपहरणे तथा ।


    दिव्यैः कार्यं परीक्षेत राजा सत्स्व् अपि साक्षिषु ॥

कात्यायनो ऽपि (२३१, २३२) ।

    समत्वं साक्षिणां यत्र दिव्यैस् तत्रापि शोधयेत् ।


    प्राणान्तिकविवादेषु विद्यमानेषु साक्षिषु ॥


    दिव्यम् आलम्बते वादी न पृच्छेत् तत्र साक्षिणः ।


    उत्तमेषु च सर्वेषु साहसेषु विचारयेत् ॥


    सद्भावं दिव्यदृष्टेन सत्सु साक्षिषु वै **भृगुः** ॥ इति ।

समत्वं सादृश्यं गुणैः संख्यया च । अन्यान् अपि दिव्यविषयान् आह बृहस्पतिः

    चिरन्तनोपांशुकृते चिरनष्टेषु साक्षिषु ।


    प्रदुष्टेषु समानेषु दिव्यैः कार्यं विशोधयेत् ॥

चिरन्तनोपांशुकृते चिरन्तने रहःकृते च । व्यासः

    न मयैतत् कृतं लेख्यं कूटम् एतेन कारितम् ।


    अधरीकृत्य तत् पत्रम् अर्थे दिव्येन निर्णयम् ॥

अधरीकृत्य अनादृत्य । अर्थे तस्मिन् विषये । नारदः

    अरण्ये विजने रात्राव् अन्तर्वेश्मनि साहसे ।


    न्यासापह्नवने चैव दिव्या सम्भवति क्रिया ॥


    यदा साक्षी न विद्येत विवादे वदतां नृणाम् ।


    तदा दिव्यैः परीक्षेत शपथैश् च पृथग्विधैः ॥

[३५] स्त्रीणां शीलाभियोगे च स्तेयसाहसयोर् अपि ।

    एष एव विधिर् दृष्टः सर्वार्थापह्नवेषु च ॥

बृहस्पतिः

    लिखिते साक्षिवादे च सन्दिग्धं यत्र जायते ।


    अनुमाने च संभ्रान्ते तत्र दिव्यं विशोधनम् ॥


    नृपद्रोहे साहसे च कल्पयेद् दैविकीं क्रियाम् ।

क्वचित् साक्षिदिव्यविकल्पम् आह (कात् २२९,२३३) ।

    प्रक्रान्ते साहसे वादे पारुष्ये दण्डवाचिके ।


    बलोद्भूतेषु कार्येषु साक्षिणो दिव्यम् एव च ॥


    ऋणे लेख्यं साक्षिणो वा युक्तिलेशादयो ऽपि वा ।


    दैविकी वा क्रिया प्रोक्ता प्रजानां हितकाम्यया ॥

युक्तिलेशः युक्त्येकदेशः । आदिशब्देन चोदनाप्रतिकालस्य ग्रहणम् । तस्य स्वरूपम् अनुमाननिरूपणप्रकरणे दर्शयिष्यते । व्यक्तिबहुत्वाभिप्रायेण बहुवचनम् । अत्र वाचिकपारुष्यग्रहणेन तीव्रस्य सुरापोसीत्य् एवमाद्याक्रोशरूपस्य वाक्पारुष्यस्य ग्रहणम् । अल्पे तु वाक्पारुष्ये

    वाक्पारुष्ये च भूमौ च दिव्यं न परिकल्पयेत् ।

इति कात्यायनेन (२३९) दिव्यस्य निषेधात् । अत्र कात्यायनवचने भूमिग्रहणं स्थावरमात्रस्योपलक्षणम् । तथा च पितामहः

	स्थावरेषु विवादेषु दिव्यानि परिवर्जयेत् । इति ।

अयं च दिव्यनिषेधः साक्ष्यादिसद्भावविषयः । यत उक्तं तेनैव ।

	साक्षिभिर् लिखितेनाथ भुक्त्या चैतान् प्रसाधयेत् । इति (कात् २४० ) ।

यदा तु न साक्ष्यादिसद्भावस् तदा दिव्यं ग्राह्यम् एव । अन्यथा तस्य विवादस्य कदाचिद् अपि निर्णयाभावप्रसङ्गात् । न च ऋणादानाद्येष्व् अपि विवादेषु साक्ष्यादिसद्भावे दिव्याद्यग्रहणं साक्षाद्यभावे दिव्यग्रहणम् इति स्थावरविवादे तदपेक्षया विशेषाभावाद् एतद् वचनम् अपार्थकं भविष्यतीति शङ्कनीयम् । [३६] यथा ऋणादिषु विवादेषु साक्षिसद्भावे ‘पि प्रतिवादिना पराजये दण्डविशेषम् अभ्युपगम्य दिव्यं मया कर्तव्यम् इत्य् अभिधाने साक्षिषु क्रोधलोभादिपुरुषदोषाणां सम्भावितत्वाद् दिव्यस्य तु दोषराहित्येन यथावस्थितार्थज्ञापनसमर्थत्वाद् अस्मिन्न् एव विषये दैवसाध्ये पौरुषेयीं न लेखाद्यां प्रयोजयेद् इति कात्यायनेन लिखिते साक्ष्यादीनाम् अग्राह्यत्वाभिधानाच् च दिव्यं ग्राह्यं भवति तथा स्थावरविषयेषु विवादेषु साक्षिसद्भावे प्रतिवादिना दण्डम् अभ्युपगम्य दिव्यं कर्तव्यम् इत्य् अभिधाने ‘पि न दिव्यं ग्राह्यम् इत्य् एतद्विशेषावबोधनार्थत्वात् । यत्र त्व् अल्पकार्यत्वान् न दिव्यप्रवृत्तिर् न च साक्ष्यादिसद्भावस् तत्र राजेच्छैव प्रमाणम् इत्य् आह पितामहः

    लेख्यं यत्र न विद्येत न भुक्तिर् न च साक्षिणः ।


    न च दिव्यावतारो ऽस्ति प्रमाणं तत्र पार्थिवः ॥


    निश्चेतुं ये न शक्याः स्युर् वादाः सन्दिग्धरूपिणः ।


    तेषां नृपः प्रमाणं स्यात् स सर्वस्य प्रभुर् यतः ॥ इति ।

इति श्रीकोदण्डपरशु ॥ ।व्यवहारविवेकोद्द्योते क्रियादानानन्तरकर्तव्यादिनिरूपणम् ॥ ३

**पोस्सिब्ले रेअदिन्ग् ओफ़् थे देफ़ेच्तिवे तेxत्-

इति श्रीकोदण्डपरशुरामेत्यादिविविधबिरुदावलीविराजमानमानोन्नत-महाराजाधिराजश्रीशक्तिसिंहात्मजमहाराजाधिराजश्रीमदनसिंहदेवविरचिते मदनरत्नप्रदीपे व्यवहारविवेकोद्द्योते क्रियादानानन्तरकर्तव्यादिनिरूपणम् ॥३॥

अथ साक्षिनिरूपणम् ।

तत्र साक्षिस्वरूपं दर्शयति मनुः (८.७४) ।

	समक्षदर्शनात् साक्ष्यं श्रवणाच् चैव सिध्यति । इति ।

चक्षुषा श्रोत्रेण वा येन विवादविषयः पूर्वं प्रमितः स तत्र साक्षीत्य् अर्थः । विष्णुः (८.१३) ।

	समक्षदर्शनात् साक्ष्यं श्रवणाद् वा । इति ।

साक्षिभेदान् दर्शयति बृहस्पतिः

    लिखितो लेखितो गूढः स्मारित- कुल्यदूतकौ ।


    यादृच्छिकश् चोत्तरश् च कार्यमध्यगतो ऽपरः ॥


    नृपो ऽध्यक्षस् तथा ग्रामः साक्षी द्वादशधा स्मृतः । इति ।

अध्यक्षः प्राड्विवाकः । अध्यक्षग्रहणं सभ्यलेखकादीनाम् उपलक्षणम् । यत आह कात्यायनः (३५५)

[३७] लेखकः प्राड्विवाकश् च सभ्याश् चैवानुपूर्वशः ।

	नृपे पश्यति तत् कार्यं साक्षिणः समुदाहृताः ॥ इति ।

गणकस्य साक्षित्वं दूतकः खटिकाग्राहीति वक्ष्यमाणबृहस्पतिवचनाद् अवगन्तव्यम् । ग्रामग्रहणम् उपलक्षणम् । तेन यो विवादविषयो येन प्रमितः स तत्र साक्षित्वेनाकृतो ऽपि साक्षी भवतीति सिध्यति । इतरथा वेतनादानादिषु विवादेषु लिखितादीनाम् असम्भवेन साक्ष्यभावप्रसङ्गः । एतद् एवाभिप्रत्योक्तं मनुना (८। ७६) ।

    यत्रानिबद्धो वीक्षेत शृणुयाद् वापि किञ्चन ।


    पृष्टस् तत्रापि तद् ब्रूयाद् यथादृष्टं यथाश्रुतम् ॥ इति ।

अनिबद्धः अकृतः । लिखितादीनां नवानां स्वरूपं नृपादीनां त्रयाणां यत्र स्थले साक्षित्वं तत् स्थलं च दर्शितं तेनैव

    जातिनामाभिलिखितं येन स्वं पित्र्यम् एव च ।


    निवासश् च स विज्ञेयः साक्षी लिखितसंज्ञकः ॥


    अर्थिक्रियां क्रियाभेदैस् तस्य कृत्वा ऋणादिके ।


    प्रत्यक्षं लेख्यते यश् च लेखितः स उदाहृतः ॥


    कुड्यव्यवहितो यश् च श्राव्यते ऋणिभाषितम् ।


    विनिह्नुते यथाभूतं गूढः साक्षी स कीर्तितः ॥


    आहूय यः कृतः साक्षी ऋणन्यासक्रियादिके ।


    स्मार्यते च मुहुर् यश् च स्मारितः सो ऽभिधीयते ॥


    विभागदान आधाने ज्ञातिर् यत्रोपदिश्यते ।


    द्वयोः समानो धर्मज्ञः कुल्यः स परिकीर्तितः ॥


    अर्थिप्रत्यर्थिवचने शृणुयात् प्रेषितस् तु यः ।


    उभयोः संमतः साधुर् दूतकः स उदाहृतः ॥


    क्रियमाणे तु कर्तव्ये यः कश्चित् स्वयम् आगतः ।


    अत्र साक्षी त्वम् अस्माकम् उक्तो यादृच्छिको मतः ॥

[३८] यत्र साक्षी दिशं गच्छन् मुमूर्षुर् वा यथाश्रुतम् ।

    अन्यं संश्रावयेत् तं तु विद्याद् उत्तरसाक्षिणम् ॥


    उभाभ्यां यस्य विश्वस्तं कार्य वापि निवेदितम् ।


    गूढचारी स विज्ञेयः कार्यमध्यगतस् तथा ॥


    अर्थिप्रत्यर्थिनोर् वाक्यं यच् छ्रुतं भूभृता स्वयम् ॥


    स एव तत्र साक्षी स्याद् विसंवादे द्वयोर् अपि ॥


    निर्णीते व्यवहारे तु पुनर् न्यायो यदा भवेत् ।


    अध्यक्षः सभ्यसहितः साक्षी स्यात् तत्र नान्यथा ॥


    मुषितं घातितं यच् च सीमायाश् च समन्ततः ।


    अकृतो ऽपि भवेत् साक्षी ग्रामस् तत्र न संशयः ॥

जातिर् ब्राह्मणत्वादिका । नाम देवदत्तादि । स्वं आत्मीयम् । पित्र्यं पितृसम्बन्धि । निवासो वासस्थानं वाराणस्यादिः । अर्थिक्रियाम् इत्य् अस्यायम् अर्थः । क्रियाभेदैः प्रमाणविशेषैर् आप्तवाक्यादिभिर् अर्थिक्रियां कृत्वा अर्थिसम्बन्धिनः कार्यस्य निश्चयं कृत्वा तस्यार्थिनः सम्बन्धिनि ऋणादिके प्रत्यक्षं यो लेख्यते स लेखित उदाहृत इति । विनिह्नुते न प्रकाशयति । यथाभूतं यथाश्रुतम् अर्थम् । न्यासक्रिया न्यासलक्षणं कार्यम् । आधाने आधौ बन्धके इति यावत् । प्रेषितः अर्थिना प्रत्यर्थिसमीपं प्रत्यर्थिना चार्थिसमीपं चेति शेषः । कर्तव्ये ऋणदानादिरूपे कार्ये । दिशं देशान्तरम् । उभाभ्यां यस्य्एत्य् अस्यायम् अर्थः । उभाभ्याम् अर्थिप्रत्यर्थिभ्यां यस्य विश्वस्तं यस्य वै तत् कार्यं प्रकाशनीयम् इत्य् एवंरूपो विश्वासः कृतः कार्यं वाभिहितं स तथा तेन रूपेणाप्रकाशकत्वेन स्थितो गूढचारी कार्यमध्यगतो विज्ञेय इति । प्राड्विवाकसभ्यग्रहणं गणकलेखकयोर् उपलक्षणम् । सभ्यसहित इति सभ्यादीनाम् अपि पुनर् न्याये साक्षित्वम् इत्य् अभिधानार्थं न तु सभ्यादिविशिष्टस्यैव प्राड्विवाकस्य साक्षित्वबोधनार्थम्,

[३९] लेखकः प्राड्विवाकश् च सभ्याश् चैवानुपूर्वशः ।

इति प्रागुदाहृतकात्यायनवचनविरोधप्रसङ्गात् । एते च साक्षिणः कियन्तो ग्राह्या इत्य् अपेक्षायाम् आह बृहस्पतिः

    नव सप्त पञ्च वा स्युश् चत्वारस् त्रय एव वा ।


    उभौ वा श्रोत्रियौ ख्यातौ नैकं पृच्छेत् कदाचन ॥

श्रोत्रियो ऽत्र साङ्गवेदाध्यायित्वे सति श्रौतस्मार्तकर्मानुष्ठायी । लिखितादिषु कश्चिद् एको ऽपि ग्राह्य इत्य् आह स एव

    लिखितौ द्वौ तथा गूढौ त्रिचतुःपञ्च लेखिताः ।


    यादृच्छाः स्मारिताः कुल्यास् तथा चोत्तरसाक्षिणः ॥


    दूतकः खटिकाग्राही कार्यमध्यगतस् तथा ।


    एक एव प्रमाणं स्यान् नृपो ऽध्यक्षस् तथैव च ॥

खटिकाग्राही गणकः । एक एवेत्य् एवकारो न द्व्याद्यपेक्षा कर्तव्येत्य् एवमर्थः ।

यस् तु - त्र्यवराः साक्षिणो ज्ञेयाः (य्ध् २.६९) इति नियमः स लिखितादिव्यतिरिक्तलेखितयादृच्छिकादिविषयः । यादृच्छिकादीनां श्रोत्रियत्वे तेषु द्वाव् अपि ग्राह्यौ उभौ वा श्रोत्रियौ ख्याताव् इत्य् उदाहृतवचनात् । लिखितादीनाम् उभयानुमतत्वे एकस्यापि ग्रहणम् आह **याज्ञवल्क्यः** (२.७२) ।

	उभयानुमतः साक्षी भवेद् एको ऽपि धर्मवित् ।

नारदो ऽपि (ऋणादान १९२) ।

    उभयानुमतो यः स्याद् द्वयोर् विवदमानयोः ।


    स साक्ष्य् एको ऽपि साक्षित्वे प्रष्टव्यः स्यात् तु संसदि ॥

आप्तत्वेन राजादिभिर् अवधारित एको ऽपि साक्षीत्य् आह व्यासः

    शुचिक्रियश् च धर्मज्ञः साक्षी यस् त्व् अनुभूतवाक् ।


    प्रमाणम् एको ऽपि भवेत् साहसेषु विशेषतः ॥ इति ।

निक्षेपादिष्व् अनाप्तत्वेन प्राग् अज्ञात एको ऽपि साक्षीत्य् आह कात्यायनः (३५३) ।

[४०] अभ्यन्तरस्थनिक्षेपे साक्ष्यम् एको ऽपि वाच्यते ।

	अर्थिना प्रहितः साक्षी भवेद् एको ऽपि याचिते ॥

याचितं विवाहाद्यर्थं याच्ञया गृहीतम् आभरणादिकम् । कुण्डलादिपण्यविवादे एको ऽपि तन्निर्माता साक्षीत्य् आह स एव (कात् ३५४ ) ।

    संस्कृतं येन यत् पण्यं तत् तेनैव विभावयेत् ।


    एक एव प्रमाणं स विवादे तत्र कीर्तितः ॥

पण्यं कुण्डलादिकम् । यादृशाः साक्षिणः कार्यास् तान् आह व्यासः

    धर्मज्ञाः पुत्रिणो मौलाः कुलीनाः सत्यवादिनः ।


    श्रौतस्मार्तक्रियायुक्ता विगतद्वेषमत्सराः ॥


    श्रोत्रिया न पराधीनाः सूरयश् चाप्रवासिनः ।


    युवानः साक्षिणः कार्या ऋणादिषु विजानता ॥

मूलं पूर्ववृत्तान्तस् तद् विदन्तीति मौलाः । तदधीते तद्वेद (पा। ४। २।

५९) इत्य् अण् । कात्यायनः (३४७- ८) ।

    प्रख्यातकुलशीलाश् च लोभमोहविवर्जिताः ।


    आप्ताः शिष्टा विबुद्धा ये तेषां वाक्यम् असंशयम् ॥


    विभाव्यो वादिना यादृक् सदृशैर् एव भावयेत् ।


    नोत्कृष्टं चावकृष्टैस् तु साक्षिभिर् भावयेत् सदा ॥

आप्ताः यथाप्रमितार्थवादिनः । शिष्टाः निषिद्धकर्माचरणरहिताः । विबुद्धाः शास्त्रार्थज्ञानवन्तः । आदिकर्मविवक्षया कर्तरि क्तः (पा। ३। ४।

७१ ) । विभाव्य इति । यादृक् यज्ज्ञातीयः [यज्जातीयः?] प्रतिवादी वादिना विभाव्यः स्वीकारयितव्यः तत्सदृशैर् एव प्रतिवादिजातीयैर् एव विभावयेत् अङ्गीकारयेत् सभ्य इति शेषः । व्आदिनेत्य् उपलक्षणं प्रतिवादिनेत्य् उपलक्षणम् । प्रतिवादिनापि वादिजातीयैर् एवाङ्गीकारयितव्यः । नारदः (ऋणादान, १५५ ) ।

    श्रेणिषु श्रेणिपुरुषाः स्वेषु वर्गेषु वर्गिणः ।


    बहिर्वासिषु बाह्याः स्युः स्त्रियः स्त्रीषु च साक्षिणः ॥ इति ।

अवकृष्टैः हीनजातीयैः । मनुः (८.६८) ।

    स्त्रीणां साक्ष्यं स्त्रियः कुर्युर् द्विजानां सदृशद्विजाः ।


    शूद्राश् च सन्तः शूद्राणाम् अन्त्यानाम् अन्त्ययोनयः ॥

श्रेणिपुरुषाणां सत्य् अपि वर्गित्वे पृथङ्निर्देशो गोबलीवर्दन्यायेन । वर्गिणस् तु दर्शिताः कात्यायनेन (३४९-३५०) ।

    लिङ्गिनः श्रेणिपूगाश् च वणिग्व्रातास् तथापरे ।


    समूहस्थाश् च ये चान्ये वर्गांस् तान् अब्रवीद् भृगुः ॥


    दासचारणमल्लानां हस्त्यश्वायुधजीविनाम् ।


    प्रत्येकैकसमूहानां नायका वर्गिणः स्मृताः ॥


    तेषां वादः स्ववर्गेषु वर्गिणस् तेषु साक्षिणः । इति ।

जात्यादिसदृशानाम् एव साक्षित्वाभिधानं सदृशासदृशसम्भवे द्रष्टव्यम् । सदृशानाम् असम्भवे तु विसदृशा अपि साक्षिणो ग्राह्याः । इदम् एवाभिप्रेत्याह याज्ञवल्क्यः (२.६८-६९) ।

    तपस्विनो दानशीलाः कुलीनाः सत्यवादिनः ।


    धर्मप्रधाना ऋजवः पुत्रवन्तो धनान्विताः ।


    त्र्यवराः साक्षिणो ज्ञेयाः श्रौतस्मार्तक्रियापराः ।


    यथाजाति यथावर्णं सर्वे सर्वेषु वा स्मृताः ॥ इति ।

जातिम् अनतिक्रम्य यथाजाति । जातयो मूर्धावसिक्ताद्या अनुलोमजाः सूताद्याः प्रतिलोमजाश् च । यथावर्णं वर्णम् अनतिक्रम्य । वर्णा ब्राह्मणादयः । सर्वे सजातीया असजातीयाः सवर्णा असवर्णाश् च । साक्षित्वे वर्ज्यान् आह याज्ञवल्क्यः (२.७०-७१) ।

    स्त्रीबालवृद्धकितवमत्तोन्मत्ताभिशस्तकाः ।


    रङ्गावतारिपाषण्डिकूटकृद्विकलेन्द्रियाः ॥

[४२] पतिताप्तार्थसम्बन्धिसहायरिपुतस्कराः ।

	साहसी दृष्टदोषश् च निर्धूताद्यास् त्व् असाक्षिणः ॥

बालो व्यवहारोपयोगिविवेकरहितः । वृद्धो व्यवहारोपयोगिकरणपाटवरहितः । कितवो द्यूतकारः । मत्तः पानादिकृतचित्तवैकल्ययुक्तः । उन्मत्तो भूताद्याविष्टः । अभिशस्तो ब्रह्महत्याद्यभियोगवान् । रङ्गावतारी नर्तकः । पाषण्डिनः श्रुतिस्मृतिविरुद्धमार्गानुयायिनः । कूटकृत् कपटलेख्यादिकारी । आप्तः अर्थिनो मित्रम् । अर्थसम्बन्धी विवादविषयीभूतार्थसम्बन्धी । सहायः सदा तत्कार्यकरणासक्तः । रिपुः प्रत्यर्थिनः शत्रुः । साहसी प्राणिव्यापादनादिकारी । दृष्टदोषः दृष्टासत्यवचनः । निर्धूतः स्वजनैस् त्यक्तः । आदिशब्देन दासादीनां ग्रहणम् । मनुः ( ८.६५-६६) ।

    न साक्षी नृपतिः कार्यो न च कारुकुशीलवौ ।


    न श्रोत्रियो न लिङ्गस्थो न सङ्गेभ्यो विनिर्गतः ॥


    नाध्यधीनो न वक्तव्यो न दस्युर् न विकर्मकृत् । इति ।

कारुः शिल्पी । कुशीलवो नटः । लिङ्गस्थो यत्यादिः । सङ्गेभ्यो विनिर्गतः परित्यक्तपित्रादिगुरुजनसंसर्गः । अध्यधीनो बन्धकीकृतः । वक्तव्यो निन्द्यः । अयं नृपतेः साक्षित्वनिषेध ऋणादानादिकाले साक्षित्वकरणे न तु वस्तुतत्त्वाभिज्ञस्य तस्य विवादकालीने साक्षित्वे पूर्वोदाहृत्त बृहस्पतिवचनविरोधापत्तेः । श्रोत्रियस्य साक्षित्वनिषेध एकश्रोत्रियविषयः वक्ष्यमाणनारदवचनानुरोधात् । श्रोत्रियमात्रविषयत्वे पूर्वोदाहृतबृहस्पतिवचनविरोधप्रसङ्गाच् च । नारदः (ऋणादान, १७८-

१८७, १५६) ।

    दासनैकृतिकाश्रद्धवृद्धस्त्रीबालचाक्रिकाः ।


    भत्तोन्मत्तप्रमत्तार्तकितवग्रामयाजकाः ॥

[४३] महापथिकसामुद्रवणिक्प्रव्रजितातुराः ।

    व्यङ्गैकश्रोत्रियाचारहीनक्लीबकुशीलवाः ॥


    नास्तिकव्रात्यदाराग्भित्यागिनो ऽयाज्ययाजकाः ।


    एकस्थाली सहायारिचरज्ञातिसनाभयः ॥


    प्राग्दृष्टदोषशैलूषविषजीव्याहितुण्डिकाः ।


    गरदाग्निदकीनाशशूद्रापत्युपपातकाः ॥


    क्लान्तसाहसिकश्रान्तनिर्धूतान्तावसायिनः ।


    भिन्नवृत्तो ऽसमावृत्तजडतैलिकमूलिकाः ॥


    भूताविष्टनृपद्विष्टवर्षनक्षत्रसूचकाः ।


    अघशंस्यात्मविक्रेतृहीनाङ्गभगवृत्तयः ॥


    कुनखी श्यावदन् श्वित्रिमित्रध्रुक्शठशौण्डिकाः ।


    ऐन्द्रजालिकलुब्धोग्रश्रेणीगणविरोधिनः ॥


    वधकश् चित्रकः शङ्खः पतितः कूटकारकः ।


    कुहकः प्रत्यवसितस् तस्करो राजपूरुषः ॥


    मनुष्यपशुमांसास्थिमधुक्षीराम्बुसर्पिषाम् ।


    विक्रेता ब्राह्मणश् चैव द्विजो वार्धुषिकश् च यः ॥


    च्युतः स्वधर्मात् कुलिकः सूचको हीनसेवकः ।


    पित्रा विवदमानश् च भेदकृच् चेत्य् असाक्षिणः ॥


    श्रेण्यादिषु तु वर्गेषु कश्चिच् चेद् द्वेष्यताम् इयात् ।


    तस्य तेभ्यो न साक्ष्यं स्याद् द्रष्टारः सर्व एव ते ॥

नैकृतिकः परच्छिद्रान्वेषणशीलः । अश्रद्धः श्रद्धारहितः । चात्रिको वैतालिकः । प्रमत्तः सदानवहितचित्तः । आर्तो दुःखितः । महापथिको महापथगामी । सामुद्रवणिक् वहित्रयायी । आतुरो रोगी । व्यङ्गः विगताङ्गः । आचारहीनः आचाररहितः । एकस्थाली स्थालीशब्देनात्र स्थाल्यां कृतभोजनार्थान्नपाको गृह्यते । एका स्थाली यस्य [४४] स एकस्थाली । समासान्तविधेर् अनित्यत्वान् नात्र कप् । अर्धपिप्पलीत्यादिवन् न ह्रस्वः । अरिचरः पूर्वं शत्रुः । भूतपूर्वे चरट् (पा। ५। ३। ५३) । कृत्यकल्पतरौ तु अरिधर इति पठित्वा अरिधरः शस्त्रधारीति व्याख्यातम् । ज्ञातयः सगोत्राः सनाभयो मातुलतत्सुतमातृष्वस्रीयादयः । शैलूषः स्त्रीणां नर्तयिता । विषजीवी विषविक्रयजीवी । आहितुण्डिकः सर्पग्राही । गरदः विषदः । अग्निदो गृहादिदाहकर्ता । कीनाशः कृपणः । उपपातकः पातकयुक्तः । उप समीपे पातकं यस्य स तथेति विग्रहः । क्लान्तो अतिखिन्नः । अश्रान्तो ऽनवरतकर्मकारी । निर्धूतो बान्धवैर् बहिष्कृतः । लोकभयशून्य इति प्राच्याः । अन्तावसायी नापितः । भिन्नवृत्तः कुत्सिताचारः । असमावृत्तः अकृतसमावर्तनः । जडो मूर्खः । तैलिकः तिलविक्रयाजीवी । मूलिको मूलमन्त्रविप्रलम्भस् तत्कारीत्य् उक्तं कृत्यकल्पतरौवर्षसूचको वृष्टिसूचकः । नक्षत्रसूचकः ज्योतिषिकः । अघशंसी परकीयपापप्रकाशनकर्ता । हीनाङ्गो न्यूनाङ्गः । भगवृत्तिर् भार्यादास्यादिसम्भोगशुल्कोपजीवी । शठो ऽत्र खलः । शौण्डिकः सुराविक्रयी । शङ्खो वृषभनर्तनजीवी । कुहको दाम्भिकः । प्रत्यवसितः प्रव्रज्यातश् च्युतः । कुलिकः कुलं ब्राह्मणादिसङ्घस् तन्त्र नियुक्तः ब्राह्मणादिगणाधिकारीति यावत् । सूचको राज्ञा परदोषनिवेदने नियुक्तः । भेदकृत् मित्रादिप्रीतिभङ्गकर्ता । श्रेण्यादिष्व् इत्य् अस्यायम् अर्थः । यस्य येषु श्रेण्यादिष्व् एकः शत्रुस् तस्य विवादे तेषु श्रेण्यादिषु निविष्टा अन्ये ‘पि न साक्षिणो भवन्तीति । कात्यायनः (३६१-३६४) ।

    तद्वृत्तिजीविनो ये च तत्सेवाहितकारिणः ।


    तद्बन्धुसुहृदो भृत्या आप्तास् ते तु न साक्षिणः ॥


    मात्रृष्वस्रृसुताश् चैव सोदर्यासुतमातुलाः ।


    एते सनाभयस् तूक्ताः साक्ष्यं तेषु न योजयेत् ॥


    कुल्याः सम्बन्धिनश् चैव विवाह्यो भगिनीपतिः ।


    पिता बन्धुः पित्रृव्यश् च श्वशुरो गुरवस् तथा ॥

[४५] नगरग्रामदेशेषु नियुक्ता ये पदेषु च ।

	वल्लभांश् च न पृच्छेयुर् उक्तास् ते राजपूरुषाः ॥

बृहस्पतिः

    मातुः पिता पितृव्यश् च भार्याया भ्रातृमातुलौ ।


    भ्राता सखा च जामाता सर्ववादेष्व् असाक्षिणः ॥


    परस्त्रीपानसक्ताश् च कितवाः सर्वदूषकाः ।


    उन्मत्तार्ताः साहसिका नास्तिकाश् च न साक्षिणः ॥

शङ्खलिखितौ

    शुल्कगुल्माधिकृतौ दूतो वेष्टितशिराः स्त्रियश् च सर्वा गुरुकुलवासिनः परिव्राजकवानप्रस्थनिर्ग्रन्थाः शङ्खव्यालग्राहिण इति ।

अत्रासाक्षिण इत्य् अनुषङ्गः । शुल्काधिकृतः शुल्कग्रहणस्थलाधिकारी । गुल्माधिकृतो गुल्मः पदातिसमूहस् तदधिकारी । दूतो दासः । गुरुकुलवासिनः ब्रह्मचारिणः । निर्ग्रन्थः क्षपणकः । नारदः (ऋणादान, १५७)

    असाक्ष्य् अपि हि शास्त्रेषु दृष्टः पञ्चविधो बुधैः ।


    वचनाद् दोषतो भेदात् स्वयमुक्तिर् मृतान्तरः ॥

एतांश् च विविच्य दर्शयति स एव (ऋणादान, १५८ - १६२) ।

    श्रोत्रियाद्या वचनतः स्तेनाद्या दोषदर्शनात् ।


    भेदाद् विप्रतिपत्तिः स्याद् विवादे यत्र साक्षिणाम् ॥


    स्वयमुक्तिर् अनिर्दिष्टः स्वयम् एवैत्य यो वदेत् ।


    मृतान्तरो ऽर्थिनि प्रेते मुमूर्षुश्राविताद् ऋते ॥


    श्रोत्रियास् तापसा वृद्धा ये च प्रव्रजितादयः ।


    असाक्षिणस् ते वचनान् नात्र हेतुर् उदाहृतः ॥


    स्तेनाः साहसिकाश् चण्डाः कितवा वधकास् तथा ।


    असाक्षिणस् ते दुष्टत्वात् तेषु सत्यं न विद्यते ॥


    राज्ञा परिगृहीतेषु साक्षिष्व् एकार्थनिश्चये ।


    वचनं यत्र भिद्येत ते स्युर् भेदाद् असाक्षिणः ॥

[४६] स्मृतिमत्साक्षिसाम्यं तु विवादे यत्र दृश्यते ।

    सूक्ष्मत्वात् साक्षिधर्मस्य साक्ष्यं व्यावर्तते ततः ॥


    अनिर्दिष्टस् तु साक्षित्वे स्वयम् एवैत्य यो वदेत् ।


    स्वयमुक्तिः स शास्त्रेषु न स साक्षित्वम् अर्हति ॥


    यो ‘र्थः श्रावयितव्यः स्यात् तस्मिन्न् असति साक्षिणि ।


    क्व तद् वदतु साक्षित्वम् इत्य् असाक्षी मृतान्तरः ॥

श्रोत्रियाद्या वचनतः असाक्षिण इति सम्बन्धः । यत्र विवादे साक्षित्वेनोक्तानां विप्रतिपत्तिर् विरुद्धार्थाभिधायिता तत्र ते भेदाद् असाक्षिणो भवन्तीति भेदाद् विप्रतिपत्तिर् इत्य् अस्यार्थः । अनिर्दिष्टः साक्षित्वेनानुक्तः । एत्य आगत्य । अयम् अत्र साक्षीत्य् एवंविधज्ञानवान् यः स आन्तरः । आन्तरो मृतो यस्य स मृतान्तरः । यो ऽर्थी यं साक्षित्वेन जानाति तस्मिन्न् अर्थिनि मृते स मृतान्तरो भवन् न साक्षी भवति । मुमूर्षुणा प्रत्यासन्नमरणेन । मुमूर्षुग्रहणस्योपलक्षणत्वात् स्वस्थेन वा पित्रादिनायम् अस्मिन्न् अर्थे साक्षीति यं साक्षित्वेन पुत्रादयो ज्ञापिताः स मृतान्तरो ऽपि सन् साक्षी भवतीति मृतान्तरो ऽर्थिनीत्य् अस्यार्थः । मुमूर्षुग्रहणस्योपलक्षणत्वम् अभिप्रेत्योकं तेनैव

	श्रावितो नातुरेणापि यस् त्व् अर्थो धर्मसंहितः ।

	मृते ऽपि तत्र साक्षी स्यात् स्वद्युचा (?निक्षेपा)न्वाहितादिषु ।

आदिशब्देन याचितकादीनां ग्रहणम् । मुमूर्षुश्रावित इत्य् अत्र प्रयोज्यव्यापारव्याप्ये कर्मणि क्तप्रत्ययः ।

    कथिते ऽभिहिते त्व् अविधिस् त्व् अमतिर् गुणकर्मणि लादिविधिः सपरे ध्रुवचेष्टितयुक्तिषु चाप्य् अगुणे तद् अनल्पमतेर् वचनं स्मरत 

इति महाभाष्योपनिबद्धे वार्तिके गत्यर्थाकर्मकेतरधातुप्रकृतिकणिजन्तेभ्यः कथिते प्रधानकर्मणि गुणकर्मण्य् अप्रधानकर्मणि च पर्यायेण लकारादयो भवन्तीत्य् अभिधानात् । पूर्वोक्तानां वाचनिकाद्यसाक्षिणां स्पष्टीकरणार्थं श्रोत्रियास् तापसा इत्यादि वाक्यकदम्बकम् । अत्र श्रोत्रियास् तापसाश् च ये परब्रह्मैकतानमानसा बाह्यपदार्थानासक्तचित्तास् [४७] ते विवक्षिताः । तेषां विप्रतिपन्नार्थस्मरणासम्भवात् सकलश्रोत्रियतापसग्रहणे पूर्वोदाहृतबृहस्पति-याज्ञवल्क्यवचनविरोधाच् च । वचनात् न तु दोषतः । नात्र हेतुः दोषरूप इत्य् अर्थः । चण्डाः अत्यन्तकोपनाः । वधकाः प्राणिहिंसाकारिणः । एकार्थनिश्चये कर्तव्ये इति शेषः । वचनभेदमात्रेण नासाक्षित्वं किं तु चिरानुभूतार्थस्मरणादिगुणैः संख्यया च समानां वचनभेदे के सत्यवादिनः के मृषावादिन इति विवेचनासम्भवेन साक्षित्वस्य दुर्ज्ञानत्वात् तेषाम् असाक्षित्वम् इत्य् एतदर्थप्रतिपादकं स्मृतिमत्साक्षिसाम्यं त्व् इति वाक्यम् । तेनास्य न पूर्ववाक्यापेक्षया पौनरुक्त्यम् । यत् तु बहुष्व् एकस्यान्यथावादे सर्वेषाम् अप्य् असाक्षित्वम् इत्य् एतदर्थप्रतिपादकं

    साक्षिणां लिखितानां च निर्दिष्टानां च वादिना ।


    तेषाम् एको ‘न्यथावादी भेदात् सर्वे न साक्षिणः ॥ 

इति कात्यायनवाक्यं (३५९) तत् पञ्चषेषु साक्षिष्व् एकस्याधिकगुणस्यान्यथावादित्वे बहूनाम् अल्पगुणानाम् अधिकगुणविरुद्धार्थाभिधायित्वाद् असाक्षित्वम् अधिकगुणस्यैकस्य बहुवाक्यविरुद्धार्थाभिधायित्वाद् असाक्षित्वम् इत्य् एवं ते सर्वे ‘साक्षिण इत्य् एतद्विषयम् । अन्यथोदाहरिष्यमाण – “द्वैधे बहूनाम्” इत्य् एवमादियाज्ञवल्क्यवचनविरोधप्रसङ्गात् (२.७८ ) । स्वयमेवैत्य्एत्य् आह्वानाभाव उक्तः । अत एव कात्यायनः (४०४) ।

    यः साक्षी नैव निर्दिष्टो नाहूतो नैव चोदितः ।


    ब्रूयान् मिथ्येति तथ्यं वा दण्ड्यः सो ‘पि नराधमः ॥ इति ।

यो ऽर्थः श्रावयितव्य इत्य् अस्यायम् अर्थः । यो ऽर्थस् त्वयात्र साक्षिवादो वक्तव्य इत्य् एवंरूपो येनार्थिना साक्षिणि श्रावयितव्यस् तस्मिन्न् अर्थनि मृते श्रावयितुर् अभावेन क्व कस्मिन्न् अनिर्दिष्टे ऽर्थे साक्षित्वं वदत्व् इत्य् अतो हेतोर् मृतान्तरो न साक्षीति । असाक्षित्वेनोक्तानाम् एतेषां क्वचित् साक्षित्वम् आह नारदः (ऋणादान, १८८) ।

[४८] असाक्षिणो ये निर्दिष्टा दासनैकृतिकादयः ।

    कार्यगौरवम् आसाद्य भवेयुस् तेऽ पि साक्षिणः ॥


    स्त्रियाप्य् असम्भवे कार्यं बालेन स्थविरेण वा ।


    शिष्येण बन्धुना वापि दासेन भृतकेन वा ॥


    तेषाम् अपि न बालः स्यान् नैको न स्त्री व कूटकृत् ।


    न बान्धवो न चारातिर् ब्रूयुस् ते साक्ष्यम् अन्यथा ॥


    बालो ऽज्ञानाद् असत्यात् स्त्री पापाभ्यासाच् च कूटकृत् ।


    विब्रूयाद् बान्धवः स्नेहाद् वैरनिर्यातनाद् अरिः ॥

यत् तु,

    स्त्रियाप्य् असम्भवे कार्यं बालेन स्थविरेण वा ।


    शिष्येण बन्धुना वापि दासेन भृतकेन वा ॥

इति मनुना (८.७०) स्त्र्यादीनां साक्ष्यभ्यनुज्ञानं कृतं तन् नारदोक्तासत्यवादित्वाद्यसाक्ष्यहेत्वभावनिश्चये साक्ष्यान्तरासम्भवे वेदितव्यम् । स्त्रीसंग्रहणादिष्व् अपि सर्वेषां साक्षित्वम् आह याज्ञवल्क्यः (२.७२) ।

    सर्वः साक्षी संग्रहणे चौर्यपारुष्यसाहसे ।

अत्र,

    मनुष्यमारणं चौर्यं परदाराभिमर्शनम् ।


    पारुष्यम् उभयं चेति साहसं स्याच् चतुर्विधम् ॥ 

इति वचनात् सत्य् अपि स्त्रीसंग्रहादीनां साहसत्वे पुनर् उपादानं गुप्ततया क्रियमाणानां स्त्रीसंग्रहणादीनां साहसत्वाभावात् तेषां संग्रहार्थम् । उशना

    दासो ऽन्धो बधिरः कुष्ठी स्त्रीबालस्थविरादयः ।


    एते ‘प्य् अनभिसंबद्धाः साहसे साक्षिणो मताः ॥

अनभिसम्बद्धाः अर्थिसम्बन्धरहिताः अपक्षपातिन इति यावत् ।

मनु-नारदौ (मनु ८-७२, नारद, ऋणादान, १८९) ।

    साहसेषु च सर्वेषु स्तेयसंग्रहणेषु च ।


    वाग्दण्डयोश् च पारुष्ये न परीक्षेत साक्षिणः ॥

**[४९] **यत् तु,

    ऋणादिषु परीक्षेत साक्षिणः स्थिरकर्मसु ।


    साहसात्ययिके चैव परीक्षा कुत्रचित् स्मृता ॥ (कात् ३६५)

इति परीक्षाभिधानं तत् सम्भावितासत्यवादित्वदोषविषयम् । यतः परीक्षाभाव उक्तस् तेनैव (कात् ३६६) ।

    व्याघाते च नृपाज्ञायाः संग्रहे साहसेषु च ।


    स्तेयपारुष्ययोश् चैव न परीक्षेत साक्षिणः ॥ इति ॥

साक्षिणां सभायाम् आगतानां प्रत्यर्थी यदि दोषवत्त्वं जानाति तदा दोषोद्भावनं कुर्यात् । अथाविद्यमानान् दोषान् आरोपयति तदा राज्ञा प्रत्यर्थी दण्डनीयः । तथा च बृहस्पतिः

    साक्षिणो ऽर्थिसमुद्दिष्टान् सत्सु दोषेषु दूषयेत् ।


    अदुष्टान् दूषयन् वादी तत्समं दण्डम् अर्हति ॥

वाद्य् अत्र प्रत्यर्थी । तत्समं विवादविषयीभूतद्रव्यसमम् । व्यासः

    साक्षिदोषाः प्रयोक्तव्याः संसदि प्रतिवादिना ।


    पत्रे ऽभिलिखितान् सर्वान् वाच्याः प्रत्युत्तरं तु ते ॥

पत्रे लिखितान् सर्वान् दोषान् प्रतिलक्ष्यीकृत्य तद्विषयम् उत्तरं परिहारं ते साक्षिणः सभ्यैर् वाचनीया इत्य् अर्थः । साक्षिणां संप्रतिपत्त्युत्तराभिधाने न साक्षित्वं मिथ्योत्तराभिधाने प्रत्यर्थी स्वाभिहितान् दोषान् प्रमाणेन साधयेत् । यदि न साधयेत् तदा दण्डनीयः । साधने तु दुष्टत्वात् साक्षिणस् त्याज्याः । अर्थिनः प्रमाणान्तरानुपन्यासे पराजयश् चेत्य् आह स एव

    प्रतिपत्तौ न साक्षित्वम् अर्हन्ति तु कथंचन ।


    अतो ‘न्यथा भावनीयाः क्रियया प्रतिवादिना ॥


    अभावयन् दमं दाप्यः प्रत्यर्थी साक्षिणः स्फुटम् ।


    भाविताः साक्षिणो वर्ज्याः साक्षिधर्मनिराकृताः ॥


    जितः सविनयं दाप्यः शास्त्रदृष्टेन कर्मणा ।

[५०] यदि वादी निराकाङ्क्षः साक्षिष्व् एव व्यवस्थितः ॥ इति ।

प्रतिपत्तौ संप्रतिपत्तौ । अतो ऽन्यथा असंप्रतिपत्तौ । भावनीयाः अङ्गीकारयितव्याः । क्रियया प्रमाणोपन्यासेन । स्फुटं यथा तथा साक्षिणो ऽभावयन्न् इत्य् अन्वयः । “साक्षिणाम्” इति मिताक्षरायां पाठस् तत्र पाठे कर्मणि षष्ठी । सविनयं विनयः शिक्षा तत्सहितं तथा दाप्यो विवादविषयं धनम् इति शेषः । निराकाङ्क्षः प्रमाणान्तरोपम्यासेच्छारहितः । यत् तु व्यासस्य्ऐव साक्षिणां दूषणं साक्ष्यादिप्रमाणैर् न साधनीयम् इत्य् एतदर्थप्रतिपादकम्,

    सभासदां प्रसिद्धं यल् लोकसिद्धम् अथापि वा ।


    साक्षिणां दूषणं ग्राह्यम् असाध्यं दोषवर्जनात् ॥


    अन्यैस् तु साक्षिभिः साध्ये दूषणे पूर्वसाक्षिणाम् ।


    अनवस्था भवेद् दोषस् तेषाम् अप्य् अन्यसम्भवात् ॥ 

इति वचनं तद् असम्भावितदोषा आप्तत्वेन लोकेष्व् अवधारिता ये साक्षिणस् तेषां दूषणं न साधयेद् इत्य् एवंपरम् । असाध्यं प्रसिद्धत्वात् साधयितुम् अर्हम् । दोषवर्जनात् अनवस्थाख्यदोषाभावात् । न च प्रतिवादिना साक्षिदूषणभावनं व्यवहारान्तरापत्तिर् इति वाच्यम् । तस्य प्रकृतव्यवहारोपयोगित्वेनार्थान्तरत्वाभावात् । तथा च कात्यायनः (३८१) ।

    प्रत्यर्थिनार्थिना वापि साक्षिदूषणसाधने ।


    प्रस्तुतार्थोपयोगित्वाद् व्यवहारान्तरं न च ॥

प्रतिवादिनो ऽविद्यमानदोषोद्भावने वैकल्पिकौ हानिदण्डौ । प्रतिवादिना साक्षिदोषाणाम् अज्ञाने सभ्यैस् ते प्रकाशनीया इत्य् अप्य् आह स एव (३८०, २७५) ।

    नातथ्येन प्रमाणं तु दोषेणैव तु दूषयेत् ।


    मिथ्याभियोगी दण्ड्यः स्यात् साध्यार्थाद् वापि हीयते ॥


    प्रमाणस्य हि ये दोषा वक्तव्यास् ते विवादिना ।


    गूढास् तु प्रकटाः सभ्यैः काले शास्त्रप्रदर्शनात् ॥

[५१] गूढाः शास्त्रप्रदर्शनेन सभ्यैः स्फुटीकृत्य काले साक्षिवादात् पूर्वकाले वक्तव्या इत्य् अर्थः । साक्षिवादानन्तरं दोषोद्भावनं न कार्यम् इत्य् आह बृहस्पतिः

    लेख्यदोषास् तु ये केचित् साक्षिणां चैव ये स्मृताः ।


    वादकाले तु वक्तव्याः पश्चाद् उक्तान् न दूषयेत् ॥

वादकाले साक्षिवादात् पूर्वकाले । उक्तान् वक्तुम् आरब्धवतः । आदिकर्मणि क्तः कर्तरि च (पा। ३.४.७१) इति कर्तरि क्तः । साक्षिवादानन्तरदोषोद्भावने दण्डम् आह कात्यायनः (३७९) ।

    उक्ते ऽर्थे साक्षिणो यस् तु दूषयेत् प्राग् अदूषितान् ।


    न च तत् कारणं ब्रूयात् प्राप्नुयात् पूर्वसाहसम् ॥

पूर्वसाहसम् उत्तमसाहसम् । सभाक्षोभादिना साक्षिणां स्वदूषणपरिहाराशक्तौ अर्थी तत्परिहारं कुर्यात् । अत एव बृहस्पतिः

    लेख्यं वा साक्षिणो वापि विवादे यस्य दूषिताः ।


    तस्य कार्यं न सिध्येत् तु यावत् तन् न विशोधयेत् ॥

तत् लेख्यादिकम् । विप्रतिपन्नार्थानभिज्ञान् विपरीताभिज्ञान् वा द्रव्यदानादिना स्वाधीनीकृत्य साक्षित्वेनाभिधातुर् अर्थिनो दण्डम् आह कात्यायनः (४०७) ।

    येन कार्यस्य लोभेन निर्दिष्टाः कूटसाक्षिणः ।


    गृहीत्वा तस्य सर्वस्वं कुर्यान् निर्विषयं ततः ॥ इति ।

कार्यस्य लोभेन स्वाभिहितार्थसिद्धिवाञ्छया । कूटसाक्षिणः दुष्टसाक्षिणः । सर्वस्वग्रहणम् उपलक्षणम् । तेन विवादगुरुलघुभावम् आलोच्य दण्डो ग्राह्यः । निर्विषयं विवादविषयीभूतार्थरहितम् । ततः तस्मात् कूटसाक्ष्युपादानलक्षणात् कारणात् । सभायाम् आगतानां साक्षिणां केन चित्तदूषणानुद्भावने ऽपि राज्ञा ते परीक्षणीयाः । तथा च कात्यायनः (३४०) ।

	उपस्थितान् परीक्षेत साक्षिणो नृपतिः स्वयम् । इति ।

बृहस्पतिर् अपि ।

**[५२] **उपस्थिताः परीक्ष्याः स्युः स्वरवर्णेङ्गितादिभिः ।

दुष्टसाक्षिनिश्चयोपायम् आह नारदः (ऋणादान १९३ - १९६)

    यस् त्व् आत्मदोषदुष्टत्वाद् अस्वस्थ इव लक्ष्यते ।


    स्थानात् स्थानान्तरं गच्छेद् एकैकं चानुधावति ॥


    कासत्य् अकस्माच् च भृशम् अभीक्ष्णं निश्वसित्य् अपि ।


    विलिखत्य् अवनीं पद्भ्यां बाहू वासश् च धूनयेत् ॥


    भिद्यते मुखवर्णो ऽस्य ललाटं स्विद्यते तथा ।


    शोषम् आगच्छतश् चोष्ठौ ऊर्ध्वं तिर्यक् च वीक्षते ॥


    त्वरमाण इवाविद्धम् अपृष्टो बहु भाषते ।


    कूटसाक्षी स विज्ञेयस् तं पापं विनयेद् भृशम् ॥

आविद्धं व्याकुलम् । शङ्खलिखिताव् अपि ।

    मन्त्रिभिः शास्त्रसामर्थ्याद् दुष्टलक्षणं ग्राह्यम् । तिर्यक् प्रेक्षते समन्ताद् एवावलोकयत्य् अकस्मान् मूत्रपुरीषं विसृजति देशाद् देशं गच्छति पाणिना पाणिं पीडयति नखान् निकृन्तति मुखम् अस्य विवर्णताम् एति प्रस्विद्यति चास्य ललाटं न चक्षुर् न च वाचं प्रतिपूजयत्य् अकस्माद् ददाति प्रशंसति पुनः पुनर् अन्यम् अपनुदति बहिर् निरीक्षते शस्त्रं परामृशति भूमिं विलिखति शिरः प्रकम्पयन्न् ओष्ठौ निर्भुजति सृक्किणी परिलेढि अतिविस्मितः कर्मस्व् अमहत्स्व् अपि भ्रुवौ संहरति हसति तूष्णीं ध्यायति पूर्वोत्तरविरुद्धं व्याहरत्य् एवमादि दुष्टलक्षणम् । क्रुद्धस्य च स्वामिनो ऽन्यत्र प्रकृतिशीलात् । इति । 

क्रुद्धस्य च स्वामिन एवमादि दुष्टलक्षणम् इत्य् अनुषङ्गः । अन्यत्र प्रकृतिशीलात् । प्रकृत्या स्वभावेन शीलं पूर्वोक्तप्रेक्षणादिधर्मो यस्य स प्रकृतिशीलः ततो ऽन्यत्रैतानि दुष्टक्रुद्धस्वामिलक्षणानि । स्वाभाविकतिर्यक्प्रेक्षणादिधर्मयोगी न दुष्टो नापि तादृशः स्वामी क्रुद्ध इत्य् अर्थः ।

एवं परीक्षितानां साक्षिणां दुष्टत्वस्याप्रतिपत्तौ विप्रतिपन्नम् अर्थं ते प्रष्टव्याः । तत्र प्रकारम् आह **कात्यायनः** (= मनु। ८। ८७, ७९-८०) ।

[५३] देवब्राह्मणसान्निध्ये साक्ष्यं पृच्छेद् ऋतं द्विजान् ।

    उदङ्मुखान् प्राङ्मुखान् वा पूर्वाह्णे वा शुचिः शुचीन् ॥


    सभान्तः साक्षिणः सर्वान् अर्थिप्रत्यर्थिसन्निधौ ।


    प्राड्विवाको ऽनुयुञ्जीत विधिनानेन सान्त्वयन् ॥


    यद् द्वयोर् अनयोर् वेत्थ कार्ये ऽस्मिंश् चेष्टितं मिथः ।


    तद् ब्रूत सर्वं सत्येन युष्माकं ह्य् अत्र साक्षिता ॥

गवाश्वादिविवादेषु साक्षिप्रश्नकाले विप्रतिपन्नार्थसंनिधानम् अपेक्षितम् इत्य् अप्य् आह स एव (कात् ३८८ - ३९०) ।

    अर्थिप्रत्यर्थिसान्निध्ये साध्यार्थस्य च सन्निधौ ।


    प्रत्यक्षं चोदयेत् साक्ष्यं न परोक्षं कथंचन ॥


    अर्थस्योपरि कर्तव्यं तयोर् अपि विना क्वचित् ।


    चतुष्पादेषु धर्मो ऽयं द्विपदस्थावरेषु च ॥


    तौल्यगणिममेयानाम् अभावे ऽपि हि वादयेत् ।


    क्रियाकारेषु सर्वेषु साक्षित्वं न त्व् अतो ऽन्यथा ॥

तयोर् अपि विना तयोर् वादिनोः संनिधिं विनापि । अपिशब्दः कैमुतिकन्यायसूचनेन साध्यार्थसंनिधानस्यावश्यकतां बोधयति । तेनोभयासंनिधाने ऽपि साक्ष्यं भाषणीयम् इत्य् अत्र न तात्पर्यम् । यद् वा एकस्य प्रत्यर्थिनः संनिधानाभावेनोभयसंनिधानाभावो ग्राह्यः । न त्व् एकैकस्य वादिनः प्रतिवादिनश् चासंनिधानेन । तेन प्रत्यर्थिनः पलायनादिनासंनिधाने ‘पि साक्ष्यं भाषणीयम् । क्वचिच्छब्दार्थो दर्शितश् चतुष्पादेष्व् इत्य् अनेन । तौल्यं तोलनयोग्यं सुवर्णादि । गणिमं गणनीयं नाणकादि । मेयं मानयोग्यं व्रीहिगोधूमादि । अभावे ऽपि साध्यार्थसंनिधानाभावे ऽपि । क्रियाकारेषु व्यवहारेषु । वधरूपे विवादपदे साक्षिभाषणं शिवसंनिधौ कर्तव्यम् इत्य् आह स एव (कात् ३९१) ।

    वधे चेत् प्राणिनां साक्ष्यं वादयेच् छिवसंनिधौ ।


    तदभावे तु चिह्नस्य नान्यथैव प्रवादयेत् ॥

[५४] तत् साक्षिभाषणं चिह्नस्य वधचिह्नस्याभावे कर्तव्यम् इति शेषः । अन्यथा वधचिह्नसद्भावे । साक्षिप्रश्ने विलम्बो न कार्य इत्य् उक्तं तेनैव (कात् ३३९) ।

    न कालहरणं कार्यं राज्ञा साक्षिप्रभाषणे ।


    महादोषो भवेत् कालाद् धर्मव्यावृत्तिलक्षणः ॥

साक्षिणः शपथैर् असत्यभाषणान् निरुध्य प्रत्येकं प्रष्टव्या इत्य् आह नारदः ( ऋणादान १९८) ।

    आहूय साक्षिणः पृच्छेन् नियम्य शपथैर् भृशम् ।


    समस्तान् विदिताचारान् विज्ञातार्थान् पृथक् पृथक् ॥

क्वचित् साक्ष्यं समुदितैर् वक्तव्यं क्वचित् प्रत्येकम् इत्य् आह वसिष्ठः

    समवेतैस् तु यद् दृष्टं वक्तव्यं तु तथैव तत् ।


    विभिन्नेनैव यत् कार्यं वक्तव्यं तत् पृथक् पृथक् ॥


    भिन्नकाले तु यत् कार्यं विज्ञातं यत्र साक्षिभिः ।


    एकैकं वादयेत् तत्र विधिर् एष प्रकीर्तितः ॥

यत् कार्यं दृष्टम् इत्य् अनुषङ्गः । साक्षिणां धर्मोपबृंहितैर् वचनैर् अनृतभाषणाद् भयम् उत्पादनीयम् इत्य् आह नारदः (ऋणादान २००) ।

    पौराणैर् धर्मवचनैः सत्यमाहात्म्यदर्शनैः ।


    अनृतस्यापवादैश् च भृशम् उत्त्रासयेद् इमान् ॥ इति ।

यानि वाक्यानि ते श्रावयितव्यास् तान्य् आह मनुः (८.७९-८६) ।

    प्राड्विवाको ऽनुयुञ्जीत विधिनानेन सान्त्वयन् ॥


    यद् द्वयोर् अनयोर् वेत्थ कार्ये ऽस्मिंश् चेष्टितं मिथः ।


    तद् ब्रूत सर्वं सत्येन युष्माकं ह्य् अत्र साक्षिण- ( साक्षिता? ) ।


    सत्यं साक्ष्ये ब्रुवन् साक्षी लोकान् आप्नोति पुष्कलान् ।


    इह चानुत्तमीं कीर्तिं वाग् एषा ब्रह्मपूजिता ॥


    साक्ष्ये ऽनृतं वदन् साक्षी पाशैर् बन्ध्येत वारुणैः ।


    विवशः शतम् आजातीस् तस्मात् साक्ष्ये वदेद् ऋतम् ॥


    सत्येन पूयते साक्षी धर्मः सत्येन वर्धते ।

[५५] तस्मात् सत्यं हि वक्तव्यं सर्ववर्णेषु साक्षिभिः ॥

    आत्मैव ह्य् आत्मनः साक्षी गतिर् आत्मा तथात्मनः ।


    मावमंस्थाः स्वम् आत्मानं नृणां साक्षिणम् उत्तमम् ॥


    मन्यन्ते वै पापकृतो न कश्चित् पश्यतीति नः ।


    तांश् च देवाः प्रपश्यन्ति स्वश् चैवान्तरपूरुषः ॥


    द्यौर् भूमिर् आपो हृदयं चन्द्रार्काग्नियमानिलाः ।


    रात्रिसन्ध्ये च धर्मश् च वृत्तज्ञाः सर्वदेहिनाम् ॥

आजातीः जन्मानि । बृहस्पतिः

    सत्यप्रशंसावचनैर् अनृतस्यापवर्जनैः ।


    सभ्यैः स बोधनीयस् तु धर्मशास्त्रप्रवेदिभिः ॥


    आ जन्मनश् चा मरणात् सुकृतं यद् उपार्जितम् ।


    तत् सर्वं नाशम् आयाति अनृतस्याभिशंसनात् ॥

वसिष्ठः

    अथ चेद् अनृतं ब्रूयात् सर्वतो मिथ्यलक्षणम् ।


    मृतो नरकम् आयाति तिर्यग् गच्छत्य् अनन्तरम् ॥


    सूकरो दश वर्षाणि दश वर्षाणि गर्दभः ।


    श्वा चैव दश वर्षाणि भासो वर्षाणि विंशतिम् ॥


    कृमिकीटपतङ्गेषु चत्वारिंशत् तथैव च ।


    मृगस् तु दश वर्षाणि जायते मानवस् ततः ॥


    मानुष्यं तु यद् आप्नोति मूको ऽन्धस् तु भवेत् तु सः ।


    पामरो जायते पश्चात् संपरित्यक्तबान्धवः ॥


    पङ्ग्वन्धबधिरो मूकः कुष्ठी नग्नः पिपासितः ।


    बुभुक्षितः शत्रुगृहे भिक्षते भार्यया सह ॥


    ज्ञात्वा त्व् अनृततो दोषाञ् ज्ञात्वा सत्ये च सद्गुणान् ।


    श्रेयस्करम् इहामुत्र सत्यं साक्ष्ये वदेत् ततः ॥

बोधायनः

[५६] त्रीन् एव च पित्रॄन् हन्ति त्रीन् एव प्रपितामहान् ।

	सप्त जातान् अजातंश् च साक्ष्यं साक्षी मृषा ब्रुवन् ॥

मनु-नारदौ (मनु ८.९७ - १०१, नारद, ऋणादान २०७ - २०९) ।

    यावतो बान्धवान् यस्मिन् हन्ति साक्ष्ये ऽनृतं वदन् ।


    तावतः संख्यया तस्मिन् शृणु सौम्यानुपूर्वशः ॥


    पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ।


    शतम् अश्वानृते हन्ति सहस्रं पुरुषानृते ॥


    हन्ति जातान् अजातंश् च हिरण्यार्थे ऽनृतं वदन् ।


    सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वेदीः ॥


    अन्ने भूमिवद् इत्य् आहुः स्त्रीणां भोगे च मैथुने ।


    अब्जेषु चैव रत्नेषु सर्वेष्व् अश्ममयेषु च ॥


    पशुवत् क्षौद्रघृतयोर् यानेषु च तथाश्ववत् ।


    गोवद् रजतवस्त्रेषु धान्ये ब्रह्मणि चैव हि ॥


    एतान् दोषान् अवेक्षस्व सर्वान् अनृतभाषणे ।


    यथाश्रुतं यथादृष्टं सत्यम् एवाञ्जसा वद ॥ इति ।

अब्जेषु रत्नेषु मुक्ताफलादिषु । ब्रह्मणि वेदे । याज्ञवल्क्यः (२.७५) ।

    सुकृतं यत् त्वया किञ्चिज् जन्मान्तरशतैः कृतम् ।


    तत् सर्वं तस्य जानीहि यं पराजयसे मृषा ॥ इति ।

साक्षिणः शपथैर् नियम्य प्रष्टव्या इत्य् उक्तं नारदेन (ऋणादान १९८) ।

    आहूय साक्षिणः पृच्छेन् नियम्य शपथैर् भृशम् । इति ।

तत्र वर्णभेदेन विशेष उक्तस् तेन मनुना च (मनु ८.११३, नारद,

ऋणादान १९९) ।

    सत्येन शापयेद् विप्रं क्षत्रियं वाहनायुधैः ।


    गोबीजकाञ्चनैर् वैश्यं शूद्रं सर्वैस् तु पातकैः ॥

[५७] अस्यार्थः । ब्राह्मणम् अन्यथा ब्रुवतः सत्यं ते नश्यतीति शापयेत् । क्षत्रियं वाहनायुधानि तव विफलानीति । गोबीजकाञ्चनानि तव विफलानि भविष्यन्तीति वैश्यम् । शूद्रम् अन्यथा ब्रुवतस् तव सर्वाणि पातकानि भविष्यन्तीति शापयेद् इति । यस् तु – “शपथेनैके सत्यकर्म तद् देवराजब्राह्मणसंसदि स्याद् अब्राह्मणानाम्”-इति गौतमेन (१३.१२ - १३) ब्राह्मणस्य शपथाभाव उक्तः स सर्वैर् आप्तत्वेनावधारितो यस् तद्विषयः । सत्यकर्म यथाभूतार्थव्यवस्थापनम् । गोरक्षणादिभिर् अपकृष्टा ब्राह्मणास् तु शूद्रवच् छपथं कारयितव्या इत्य् आह मनुः

    ये व्यपेताः स्वकर्मभ्यः परपिण्डोपजीविनः ।


    द्विजत्वम् अभिकाङ्क्षन्ति तांश् च शूद्रवद् आचरेत् ॥

विप्रग्रहणं क्षत्रियवैश्ययोर् उपलक्षणम् । पृष्टाः साक्षिणो येन प्रकारेण ब्रूयुस् तम् आह बृहस्पतिः

    विहायोपानदुष्णीषं दक्षिणं पाणिम् उद्धरेत् ।


    हिरण्यगोशकृद्दर्भान् समादाय ऋतं वदेत् ॥

साक्ष्यभिहितवचनस्य परीक्षाप्रकारम् आह बृहस्पतिः

    देशकालवयोद्रव्यसंज्ञाजातिप्रमाणतः ।


    अन्यूनं चेन् निगदितं सिद्धं साध्यं विनिर्दिशेत् ॥


    निर्दिष्टेष्व् अर्थजातेषु साक्षी चेत् साक्ष्यम् आगतः ।


    न ब्रूयाद् अक्षरसमं न तन् निगदितं भवेत् ॥


    देशकालवयोद्रव्यप्रमाणाकृतिजातिषु ।


    यत्र विप्रतिपत्तिः स्यात् साक्ष्यं तद् अपि कुत्सितम् ॥


    ऊनम् अभ्यधिकं वापि प्रब्रूयुर् यस्य साक्षिणः ।


    तद् अप्य् अनुक्तं विज्ञेयम् एष साक्ष्यविधिः स्मृतः ॥ इति ।

साक्षिणां विप्रतिपत्तौ कथं निर्णय इत्य् अपेक्षायाम् आह याज्ञवल्क्यः (२.७८) ।

[५८] द्वैधे बहूनां वचनं समेषु गुणिनां तथा ।

	गुणिद्वैधे तु वचनं ग्राह्यं ये गुणवत्तमाः ॥

ये गुणवत्तमास् तेषाम् इति शेषः । नारदः (ऋणादान २२९ ) ।

    साक्षिविप्रतिपत्तौ च प्रमाणं बहवो मताः ।


    तत्साम्ये शुचयो ग्राह्यास् तत्साम्ये स्मृतिमत्तराः ॥ इति ।

साक्ष्यम् अङ्गीकृत्यानभिधाने दण्डम् आह याज्ञवल्क्यः (२.७६) ।

    अब्रुवन् हि नरः साक्ष्यम् ऋणं सदशबन्धकम् ।


    राज्ञा सर्वं प्रदाप्यः स्यात् षट्चत्वारिंशके हनि ॥

सर्वं वृद्धिसहितम् । सदशबन्धकं दशमांशरहितम् । दशमांशो राज्ञा ग्राह्यः सवृद्धिकम् ऋणम् उत्तमर्णेन ग्राह्यम् इति विज्ञानेश्वराचार्याः । ऋणग्रहणं विवादमात्रोपलक्षणम् । अत एव मनुः (८.१०८) ।

    त्रिपक्षाद् अब्रुवन् साक्ष्यम् ऋणादिषु नरो ऽगदः ।


    तद् ऋणं प्राप्नुयात् सर्व्ं दशबन्धं च सर्वशः ॥

गदग्रहणम् अपरिहार्यप्रतिबन्धकस्याप्य् उपलक्षणम् । यः साक्ष्यं जानन्न् अपि द्वेषवशान् नाङ्गीकरोति तस्य दण्डम् आह याज्ञवल्क्यः (२.८२) ।

    यः साक्ष्यं श्रावितो ऽन्येभ्यो निह्नुते तत् तमोवृतः ।


    स दाप्यो ऽष्टगुणं दण्डं ब्राह्मणं तु विवासयेत् ॥

यः साक्ष्यम् अङ्गीकृत्याप्तैः साक्षिभिः सह साक्ष्यं श्रावितः सन् निगदकाले तमोवृतो रागद्वेषादियुक्तस् तत् साक्ष्यम् अन्येभ्यः साक्षिभ्यः निहुते नाहम् अत्र साक्षी भवामीति स विवादपराजये यो दण्डस् तं दण्डम् अष्टगुणं दाप्यः । ब्राह्मणं तावद् दण्डदानसमर्थम् अपि विवासयेत् न तु दण्डयेत् । विवासनं च नग्नीकरणं गृहभङ्गो देशनिर्वासनं वा । तेषां विषयविशेषानुसारेण व्यवस्था । क्षत्रियादीनां तावद् दण्डदानासामर्थ्ये स्वस्वजात्युचितकर्मकरणनिगडबन्धनकारागृहप्रवेशादि कारयितव्यम् इति विज्ञानेश्वराचार्याःनारदः

    श्रावयित्वा तथान्येभ्यः साक्षित्वं यो विनिह्नुते ।


    स विनेयो भृशतरं कूटसाक्षिपरो हि यः ।

[५९] अन्येभ्यः साक्ष्यं श्रावयित्वा अहम् अत्र साक्षी भवामीत्य् अन्यान् ज्ञापयित्वा साक्षिणा निगदे दत्ते यदि तत्र प्रत्यर्थिलोभादिकारणप्रतिकल्पनं कुर्यात् तदा यदि सप्ताहमध्ये साक्षिणोत्युपद्रवकारिरोगादिकं स्यात् तदा कूटसाक्षित्वात् स दण्ड्यः । इतरथा तु प्रत्यर्थ्य् एवेत्य् आह मनुः (८.१०८) ।

    यस्य दृश्येत सप्ताहाद् उक्तवाक्यस्य साक्षिणः ।


    रोगो ‘ग्निर् ज्ञातिमरणम् ऋणं दाप्यो दमं च सः ॥

ऋणग्रहणं विवादविषयमात्रोपलक्षणम् । साक्षिभिर् यथाभूतम् अर्थम् अभिधाय पश्चाल् लोभादिनान्यथाभिधाने ते दण्ड्या इत्य् आह कात्यायनः (४०६) ।

	उक्त्वान्यथा ब्रुवाणाश् च दण्ड्याः स्युर् वाक्छलान्विताः । इति ।

साक्षिभिः साक्ष्ये ऽभिहिते प्रतिवादिना गुणवत्तरैर् द्विगुणैर् वा विपरीतसाक्षिभिस् तद्विपरीतार्थसाधने पूर्वेषां कूटसाक्षिताम् आह कात्यायनः (४०८) ।

    यत्र वै भावितं कार्यं साक्षिभिर् वादिना भवेत् ।


    प्रतिवादी यदा तत्र भावयेत् कार्यम् अन्यथा ॥


    बहुभिस् तत्कुलीनैर् वा कूटाः स्युः पूर्वसाक्षिणः ।

तत् कार्यम् इत्य् अन्वयः । कुलीनैर् इत्य् अन्येषाम् अपि गुणानाम् उपलक्षणम् । याज्ञवल्क्यः (२.८०) ।

    उक्ते ऽपि साक्षिभिः साक्ष्ये यद्य् अन्ये गुणवत्तराः ।


    द्विगुणा वान्यथा ब्रूयुः कूटाः स्युः पूर्वसाक्षिणः ॥

अयं च विपरीतसाक्ष्युपन्यासो व्यवहारसमाप्तेः प्राग् द्रष्टव्यः ।

    निर्णिक्ते व्यवहारे तु प्रमाणम् अफलं भवेत् ।


    लिखितं साक्षिणो वापि पूर्वम् आवेदितं न चेत् ॥


    यथा पक्वेषु धान्येषु निष्फलाः प्रावृषो गुणाः ।


    निर्णिक्तव्यवहाराणां प्रमाणम् अफलं तथा ॥ इति

नारदेनाभिधानात् (व्य। मा।अ। १.६२-६३) । कूटसाक्षिणां लोभादिकारणविशेषपरिज्ञाने दण्डविशेषम् आह मनुः (८। ११९ - १२४) ।

[६०] लोभान् मोहाद् भयान् मैत्र्यात् कामात् क्रोधात् तथैव च ।

    अज्ञानाद् बालभावाच् च साक्ष्यं वितथम् उच्यते ॥


    एषाम् अन्यतमस्थाने यः साक्ष्यम् अनृतं वदेत् ।


    तस्य दण्डविशेषांश् च प्रवक्ष्याम्य् अनुपूर्वशः ॥


    लोभात् सहस्रं दण्ड्यस् तु मोहात् पूर्वं तु साहसम् ।


    भयाद् द्वौ मध्यमौ दण्डौ मैत्रात् पूर्वं चतुर्गुणम् ॥


    कामाद् दशगुणं प्रोक्तं क्रोधात् तु त्रिगुणं परम् ।


    अज्ञानाद् द्वे शते पूर्णे बालिश्याच् छतम् एव तु ॥


    एतान् आहुः कूटसाक्ष्ये प्रोक्तान् दण्डान् मनीषिभिः ।


    धर्मस्याव्यभिचारार्थम् अधर्मनियमाय च ॥


    कूटसाक्ष्यं तु कुर्वाणांस् त्रीन् वर्णान् धार्मिको नृपः ।


    प्रवासयेद् दण्डयित्वा ब्राह्मणं तु विवासयेत् ॥

लोभः अर्थलिप्सा मोहो मिथ्याज्ञानं मैत्र्यं स्नेहातिशयः कामः स्त्रीव्यतिकराभिलाष इति विज्ञानेश्वराचार्याःअज्ञानम् अस्फुटज्ञानम् । अज्ञानं तात्कालिको भ्रम इति कृत्यकल्पतरौबालभावो विशेषज्ञानोत्पत्तिराहित्यम् इति विज्ञानेश्वरप्रभृतयो दाक्षिणात्याः । यत् तु बालभावो यौवनोन्मेषप्राप्तो मद इति रत्नाकरादिषु पौरस्त्यनिबन्धेषूक्तं तद् असुन्दरं बालिश्याच् छतमेव तु इति निमित्तान्तरापेक्षयाल्पदण्डाभिधानस्य निरुपपत्तिकतापत्तेः । अत्र ताम्रिकाः पणाः सहस्रादिसंख्यासंख्येयतया ग्राह्याः । पूर्वः साहसः सार्धपणशतद्वयं मध्यमः साहसः शतपञ्चकं,

    पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः ।


    मध्यमः पञ्च विज्ञेयः सहस्रं स्याद् अथोत्तमः ॥ इति

मनुनाभिधानात् (८.१३९) । पञ्च शतानीति वचनविपरिणामेन शतशब्दस्यानुषङ्गः । याज्ञवल्क्येन (१.३६६) तु किञ्चिदधिकम् एषां परिमाणम् उक्तं ।

[६१] सासीतिपणसाहस्रो दण्ड उत्तमसाहसः ।

	तदर्धं मध्यमः प्रोक्तः तदर्धम् अधमः स्मृतः ॥ इति ।

अनयोर् अपराधतारतम्यानुसारेण व्यवस्था । भयाद् द्वौ मध्यमाव् इति भयनिमित्तके कूटसाक्ष्ये द्विगुणं मध्यमसाहसम् इत्य् अर्थः । पूर्वं चतुर्गुणम् इति मनूक्तं प्रथमं साहसं चतुर्गुणं पणसहस्रम् इत्य् अर्थः । त्रिगुणं परम् इति परं मध्यमसाहसं त्रिगुणं पञ्चदशशतानीति यावत् । ब्राह्मणं तु विवासयेन् न तु दण्डयेद् इति तुशब्दार्थः । यस् तु

    पृथक् पृथग् दण्डनीयाः कूटकृत्साक्षिणस् तथा ।


    विवादाद् द्विगुणं दण्डं विवास्यो ब्राह्मणः स्मृतः ॥ 

इति** याज्ञवल्क्येन** (२.८१) द्विगुणो दण्डो ऽभिहितः स लोभादिकारणविशेषापरिज्ञाने वेदितव्यः । यो धनदानादिना साक्षिणः कूटान् करोति स कूटकृत् । एतच् च ब्राह्मणविवासनं महाविषये कौटसाक्ष्ये द्रष्टव्यम् । अल्पविषये तु विषयानुरूपो ऽर्थदण्ड एव ग्राह्यः । न च त्रयाणां वर्णानां धनापहारवधबन्धनक्रिया विवासनाङ्ककरणे ब्राह्मणस्येति शङ्खवचने धनापहारस्य ब्राह्मणव्यतिरिक्तविषयत्वाभिधानं विरुध्यत इति वाच्यं धनशब्देन तत्र सर्वस्वस्य विवक्षितत्वात् । इतरथा

	सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विप्रां बलाद् व्रजन् । [म्ध् ८.३७९]

इत्यादिवाक्यविरोधः । क्वचित् साक्षिणाम् असत्यभाषणम् अभ्यनुजानाति मनुः (८.१०४,१०३) ।

    शूद्रविट्क्षत्रविप्राणां यत्रर्तोक्तौ भवेद् वधः ।


    तत्र वक्तव्यम् अनृतं तद् धि सत्याद् विशिष्यते ॥


    तद् वदन् धर्मतो ऽर्थेषु जानन्न् अप्य् अन्यथा नरः ।


    न स्वर्गाच् च्यवते लोकाद् दैवीं वाचं वदन्ति ताम् ॥

ऋतोक्तौ सत्योक्तौ । यत्र शङ्काभियोगादौ सत्यभाषणे शूद्रादिवधस् तत्रासत्यं भाषणीयम् इत्य् अर्थः । यत्र तु सत्यभाषणे चौरादेर् अतिनिन्दितस्य वधस् तत्रासत्यं न भाषणीयम् इत्य् आह गौतमः “नानृतवचने दोषो ‘स्ति जीवनं **[६२] **चेत् तदधीनं न तु पापीयसो जीवनम्” इति (१३.२४ - २५) । यत्र तु सत्योक्तौ वादिप्रतिवादिनोर् अन्यतरस्य वधः सत्योक्ताव् अपि तत्र न किम् अपि वक्तव्यम् । यदि राजाभिधानम् अन्तरेण न परित्यजति तदा साक्षिभिर् मिथो विरुद्धभाषणाद् असाक्षित्वं कर्तव्यं तस्याप्य् असम्भवे सत्यम् एव वक्तव्यम् । असत्यभाषणे शूद्रादिवधदोषो ऽसत्यभाषणदोषश् चेति दोषद्वयापत्तेः । सत्यभाषणे यो वधदोषस् तस्य तु यथोक्तप्रायश्चित्तं कर्तव्यम् इत्य् उक्तं विज्ञानेश्वराचायैः । द्विजातीनाम् एतद् असत्यभाषणस्य प्रायश्चित्तम् आह याज्ञवल्क्यः (२.८३) ।

    वर्णिनां हि वधो यत्र तत्र साक्ष्य् अनृतं वदेत् ।


    तत्पावनाय निर्वापयश् चरुः सारस्वतो द्विजैः ॥

वर्णिनश् चत्वारो वर्णाः । अनवस्रावितान्तरूष्मपक ओदनश् चरुःसारस्वतः सरस्वतीदैवत्यः । द्विजैर् ब्राह्मणादिभिस् त्रिभिर् वर्णैः । मनुः (८.१०५-१०६) ।

    वाग्दैवत्यैस् तु चरुभिर् यजेरंस् तु सरस्वतीम् ।


    अनृतस्यैनसस् तस्य कुर्वाणा निष्कृतिं पराम् ॥


    कूष्माण्डैर् वापि जुहुयाद् घृतम् अग्नौ यथाविधि ।


    तद् इत्य् ऋचा वा वारुण्या तृचेनाब्दैवतेन वा ॥

जुहुयाद् इति वचनव्यत्ययश् छान्दसः । वारुण्या तद् इत्य् ऋचा तत् त्वायामि ब्रह्मणेत्यृचा (ऋ। १। २४.११) । अब्दैवतेन तृचेन आपो हि ष्ठेत्य् ऋक्त्रयेण (ऋ। १०.९.१-३) । शूद्रस्य प्रायश्चित्तम् आह विष्णुः (८.१६-१७) “तत्पावनाय कूष्माण्डीभिर् जुहुयाच् छूद्रश् चैकाह्निकं गोदशकस्य ग्रासं दद्यात्” इति । एकाह्निकं एकस्मिन्न् अहनि भक्षयितुं पर्याप्तम् ।

इति श्रीकोदण्डपरशुरामेत्यादि व्यवहारविवेकोद्द्योते साक्षिनिरूपणम् ॥४॥

**पोस्सिब्ले रेअदिन्ग् ओफ़् थे देफ़ेच्तिवे तेxत्-

इति श्रीकोदण्डपरशुरामेत्यादिविविधबिरुदावलीविराजमानमानोन्नत-महाराजाधिराजश्रीशक्तिसिंहात्मजमहाराजाधिराजश्रीमदनसिंहदेवविरचिते मदनरत्नप्रदीपे व्यवहारविवेकोद्द्योते साक्षिनिरूपणम् ॥४॥

अथ लेख्यनिरूपणम्

तत्र बृहस्पतिः

    साक्षिणाम् एष निर्दिष्टः संख्यालक्षणनिश्चयः ।


    लिखितस्याधुना वच्मि विधानम् अनुपूर्वशः ॥

[६३] षाण्मासिके ऽपि समये भ्रान्तिः सञ्जायते ततः ।

    धात्राक्षराणि शिष्टानि पत्रारूढान्य् अतः पुरा ॥


    राजलेख्यं स्थानकृतं स्वहस्तलिखितं तथा ।


    लेख्यं तु त्रिविधं प्रोक्तं भिन्नं तद् बहुधा पुनः ॥ इति ।

स्थानकृतं स्थाने ग्रामादौ परहस्तेन लेखितम् । स्थानकृतस्वहस्तलिखितयोर् लौकिकावान्तरभेदत्वम् आश्रित्य द्वैविध्यम् आह वसिष्ठः

	लौकिकं राजकीयं च लेख्यं विद्याद् द्विलक्षणम् । इति ।

लौकिकं जानपदम् इत्य् उच्यते । अत एव संग्रहकारः

	राजकीयं जानपदं लिखितं द्विविधं स्मृतम् । इति ।

लौकिकस्य सप्तविधत्वम् आह बृहस्पतिः

    भागदानक्रयाधानसंविद्दासऋणादिभिः ।


    सप्तधा लौकिकं लेख्यं त्रिविधं राजशासनम् ॥ इति ।

भागो विभागः । आधानं बन्धकम् । संवित् समयः । ऋणादिपत्रं सप्तमम् । तत्रादिशब्देन वक्ष्यमाणविशुद्ध्यादिग्रहणम् । भागपत्रादीनां लक्षणम् आह स एव

    भ्रातरः संविभक्ता ये स्वरुच्या तु परस्परम् ।


    विभागं यत्र कुर्वन्ति भागलेख्यं तद् उच्यते ॥


    भूमिं दत्त्वा तु यत् पत्रं कुर्याच् चन्द्रार्ककालिकम् ।


    अनाच्छेद्यम् अनाहार्यं दानलेख्यं तु तद् विदुः ॥


    गृहक्षेत्रादिकं क्रीत्वा तुल्यमूल्याक्षरान्वितम् ।


    पत्रं कारयते यत् तु क्रयलेख्यं तद् उच्यते ॥


    जङ्गमं स्थावरं बन्धं दत्त्वा लेख्यं करोति यत्


    गोप्यभोग्यक्रियायुक्तम् आधिलेख्यं तद् उच्यते ॥


    ग्रामो देशश् च यत् कुर्यान् मतं लेख्यं परस्परम् ।


    राजाविरोधिं धर्मार्थं संवित्पत्रं वदन्ति तत् ॥


    वस्त्रान्नहीनः कान्तारे लिखितं कुरुते तु यत् ।

[६४] कर्माणि ते करिष्यामि दासपत्रं तद् उच्यते ॥

    धनं वृद्ध्या गृहीत्वा तु स्वयं कुर्याच् च कारयेत् ।


    उद्धारपत्रं तत् प्रोक्तम् ऋणलेख्यं मनीषिभिः ॥

विशुद्धिपत्रम् आह कात्यायनः (२५५) ।

    अभिशापे समुत्तीर्णे प्रायश्चित्ते कृते जनैः ।


    विशुद्धिपत्रकं ज्ञेयं तेभ्यः साक्षिसमन्वितम् ॥ इति ।

सन्धिपत्रम् अप्य् आह स एव (कात् २५६) ।

    उत्तमेषु समस्तेषु अभिशापे समागते ।


    वृत्तानुवादलेख्यं यत् तज् ज्ञेयं सन्धिपत्रकम् ॥

अन्वाधिपत्रम् आह प्रजापतिः

    धनी धनेन तेनैव परम् आधिं नयेद् यदि ।


    कृत्वा तद् आधिलिखितं पूर्वं चास्य समर्पयेत् ॥

पूर्वम् आधिपत्रम् । सीमापत्रम् आह कात्यायनः (२५७) ।

	सीमाविवादे निर्णीते सीमापत्रं विधीयते ।

ऋणनिवर्तने कृते तत्सूचकं पत्रं कार्यम् इत्य् आह याज्ञवल्क्यः (२.९४) ।

	दत्त्वर्णं पाटयेल् लेख्यं शुद्ध्यै वान्यत् तु कारयेत् ।

वाशब्दस्य पाक्षिकत्वबोधनार्थः । तेन यदा ऋणपत्रस्य नाशादिकं भवति तदैतल् लेखनीयम् इत्य् अर्थो लभ्यते । एतच् च लौकिकं स्वकृतम् अन्यकृतं वेति द्विविधम् । स्वकृतं साक्षिलेखकरहितम् । अन्यकृतं सलेखकसाक्षिकम् । ते च देशव्यवहारानुसारेण ग्राह्ये । तथा च नारदः (ऋणादान १३५) ।

    लेख्यं तु द्विविधं प्रोक्तं स्वहस्तान्यकृतं तथा ।


    असाक्षिमत् साक्षिमच् च सिद्धिर् देशस्थितेस् तयोः ॥ इति ।

स्वहस्तलिखितं यदि बलात्कारादिहेतुकं तदा न प्रमाणम् इत्य् आह याज्ञवल्क्यः (२.८९) ।

    विनापि साक्षिभिर् लेख्यं स्वहस्तलिखितं तु यत् ।


    तत् प्रमाणं स्मृतं लेख्यं बलोपधिकृताद् ऋते ॥

[६५] बलं बलात्कारः । उपधिर् लोभक्रोधभयमदादिः । नारदो ऽपि (ऋणादान १३७) ।

    मत्ताभियुक्तस्त्रीबालबलात्कारकृतं च यत् ।


    तद् अप्रमाणं लिखितं भयोपधिकृतं तथा ॥

अन्यकृते विशेषम् आह याज्ञवल्क्यः (२.८४-८५) ।

    यः कश्चिद् अर्थो निष्णातः स्वरुच्याथ परस्परम् ।


    लेख्यं तु साक्षिमत् कार्यं तस्मिन् धनिकपूर्वकम् ॥


    समामासतदर्द्धाहर्नामजातिस्वगोत्रकैः ।


    सब्रह्मचारिकात्मीयपितृनामादिचिह्नितम् ॥

धनिकपूर्वकं धनिकनाम लिखित्वा धारणिकनाम लेख्यम् इत्य् अर्थः । सब्रह्मचारिकं बह्वृचादिशाखाप्रयुक्तं गुणनाम बह्वृचः कठ इत्यादि । वसिष्ठः

    कालं निवेश्य राजानं स्थानं निवसनं तथा ।


    दायकं ग्राहकं चैव पितृनाम्ना च संयुतम् ॥


    जातिं गोत्रं च शाखां च द्रव्यम् आधिं ससंख्यकम् ।


    वृद्धिं ग्राहकहस्तं च विदितार्थौ च साक्षिणौ ॥

स्थानं जनपदः । निवसनं पुरग्रामादिकम् । ग्राहको ऽधमर्णः । ग्राहकहस्तनिवेशनप्रकारम् आह याज्ञवल्क्यः (२.८६) ।

    समाप्ते ऽर्थे ऋणी नाम स्वहस्तेन निवेशयेत् ।


    मतं मे ऽमुकपुत्रस्य यद् अत्रोपरि लेखितम् ॥ इति ।

साक्षिभिर् लेखकेन च स्वहस्तेन स्वनाम लेख्यम् इत्य् आह स एव (य्द्ग् २.८७-८८) ।

    साक्षिणश् च स्वहस्तेन पितृनामकपूर्वकम् ।


    अत्राहम् अमुकः साक्षी लिखेयुर् इति ते समाः ॥


    उभयाभ्यर्थितेनैतन् मयाप्य् अमुकसूनुना ।


    लिखितं ह्य् अमुकेनेति लेखको ऽन्ते ततो लिखेत् ॥

ते समाः संख्यातो गुणतश् च समाः साक्षिण- कर्तव्या इत्य् अर्थः ।

[६६] केचित् त्व् अकारप्रश्लेषेण असमाः विषमसंख्याकाः साक्षिणः कर्तव्या इत्य् आहुः । तत्र यस्मिन् देशे यथाचारस् तथा तत्र पक्षो ग्राह्यः । ऋणिनः साक्षिणश् च लिपिज्ञानाभावे विशेषम् आह नारदः

    अलिपिज्ञ ऋणी यः स्यात् स्वमतं तु स लेखयेत् ।


    साक्षी वा साक्षिणान्येन सर्वसाक्षिसमीपतः ॥ इति ।

अत्र देशकालादिनिवेशनं स्वकृते ऽपि पत्रे कर्तव्यं तदुपकारस्योभयत्रापि समानत्वात् । स्वसंमतिलिखनं तु न कर्तव्यं प्रयोजनाभावात् । बृहस्पतिस् त्रिविधं राजशासनम् इत्य् उक्त्वा राजकीयपत्रस्य त्रीन् भेदान् दर्शयति ।

    दत्त्वा भूम्यादिकं राजा ताम्रपट्टे पटे ऽथ वा ।


    शासनं कारयेद् धर्म्यं स्थानवंश्यादिसंयुतम् ॥


    मातापित्रोर् आत्मनश् च पुण्यायामुकसूनवे ।


    दत्तं मयामुकायाद्य दानं सब्रह्मचारिणे ॥


    चन्द्रार्कसमकालीनं पुत्रपौत्रान्वयानुगम् ।


    अनाच्छेद्यम् अनाहार्यं सर्वभागविवर्जितम् ॥


    दातुः पालयितुः स्वर्गे हर्तुर् नरकम् एव च ।


    षष्टिर् वर्ष(षष्टिवर्ष?)सहस्राणि दानोच्छेदफलं लिखेत् ॥


    ज्ञातं मयेति लिखितं सन्धिविग्रहलेखकैः ।


    समुद्रं वर्षमासादिधनाध्यक्षाक्षरान्वितम् ॥


    एवंविधं राजकृतं शासनं समुदाहृतम् ।


    देशादिकं यस्य राजा लिखितेन प्रयच्छति ॥


    सेवाशौर्यादिना तुष्टः प्रसादलिखितं तु तत् ।


    पूर्वोत्तरक्रियावादनिर्णयान्ते यदा नृपः ॥


    प्रदद्याज् जयिने लेख्यं जयपत्रं तद् उच्यते ॥

सब्रह्मचारिणे अमुकशाखाध्यायिने । सर्वभागविवर्जितं

सकलराजपुरुषांशरहितम् । शासनविषये याज्ञवल्क्यो ऽपि (१.३१८-३२०)

[६७] दत्त्वा भूमिं निबन्धं वा कृत्वा लेख्यं तु कारयेत् ।

    आगामिभद्रनृपतिपरिज्ञानाय पार्थिवः ॥


    पटे वा ताम्रपट्टे वा स्वमुद्रोपरिचिह्नितम् ।


    अभिलेख्यात्मनो वंश्यान् आत्मानं च महीपतिः ॥


    प्रतिग्रहपरीमाणं दानाच्छेदोपवर्णनम् ।


    स्वहस्तकालसम्पन्नं शासनं कारयेत् स्थिरम् ॥

निबन्धः शुल्कस्थानादौ प्रतिपर्णभारादिप्रतिकल्पितम् एतावद् अस्मै दातव्यम् इति शतादिसंख्याप्रतिनियतं पर्णादि । कारयेत् सन्धिविग्रहाधिकारिणेति शेषः । प्रतिग्रहपरीमाणं प्रतिगृह्यते इति प्रतिग्रहो भूम्यादिर् निबन्धश् च तस्य परीमाणम् इयत्ता । दानाच्छेदोपवर्णनं दानस्य दीयमानस्य भूम्यादेर् आच्छेदस्य मर्यादाया उपवर्णनं कथनम् । दानाच्छेदयोर् दानतदपहारयोर् यथाक्रमं स्तुतिनिन्दालिखनम् इति केचित् । सन्धिविग्रहाधिकारिणो लेखकत्वम् आह व्यासः

    राज्ञा तु स्वयम् आदिष्टः सन्धिविग्रहलेखकः ।


    ताम्रपट्टे पदे वापि प्रलिखेद् राजशासनम् ॥


    क्रियाकारकसम्बन्धं समासार्थक्रियान्वितम् ।


    समामासतदर्धाहर्नृपनामोपलक्षितम् ॥


    प्रतिग्रहीतृजात्यादिसगोत्रब्रह्मचारिकम् । इति ।

क्रियाकारकसम्बन्धं क्रियाकारकयोः सम्बन्धो यस्मिंस् तत् तथोक्तम् । एतेन दुरन्वयत्वनिरासः । समासार्थक्रियान्वितं संक्षिप्तार्थोपन्यासरूपया क्रियया समन्वितम् । राज्ञा शासने स्वसंमतं स्वयम् एव लेख्यम् इत्य् अप्य् आह स एव

    संनिवेशं प्रमाणं च स्वहस्तेन लिखेत् स्वयम् ।


    मतं मे ऽमुकपुत्रस्य अमुकस्य महीपतेः ॥

[६८] संनिवेशं प्रमाणं चेति पूर्ववाक्येनान्वयः । एतच् च शासनं साधुशब्दान्वितम् एव कर्तव्यं न त्व् अपशब्दान्वितम् । तथा च संग्रहकारः

    राजस्वहस्तचिह्नेन राजादेशेन संयुतम् ।


    युक्तं राजाभिधानेन मुद्रितं राजमुद्रया ॥


    सुलिप्यनपशब्दोक्तिसंपूर्णावयवाक्षरम् ।


    शासनं राजदत्तं स्यात् सन्धिविग्रहलेखकैः ॥

लिखितम् इति शेषः । अत्र शासने दत्तापहारदोषवर्णनं भाविनृपबोधनार्थम् इत्य् उक्तं व्यासेन

    षष्टिवर्षसहस्राणि दानाच्छेदफलं तथा ।


    आगामिनृपसामन्तबोधनार्थं नृपो लिखेत् ॥

एतच् च शासनं राज्ञा प्रतिग्रहीत्रे समर्पणीयम् । तथा च विष्णुः (३.८२) ।

    पटे वा ताम्रपट्टे वा लिखितं समुद्राङ्कम् आगामिनृपतिपरिज्ञानार्थे 


    दद्यात् इति । 

जयपत्रे विशेषम् आह व्यासः ।

    व्यवहारान् स्वयं दृष्ट्वा श्रुत्वा वा प्राड्विवाकतः ।


    जयपत्रं ततो दद्यात् परिज्ञानाय पार्थिवः ॥


    जङ्गमं स्थावरं येन प्रमाणेनात्मसात्कृतम् ।


    भागाभिशापसन्दिग्धे यः सम्यग् विजयी भवेत् ॥


    तस्य राज्ञा प्रदातव्यं जयपत्रं सुनिश्चितम् ।


    पूर्वोत्तरक्रियापादं प्रमाणं तत्परीक्षणम् ।


    निगदं स्मृतिवाक्यं च यथासभ्यं विनिश्चितम् ॥

क्रियाशब्देनात्र प्रत्याकलितस्य ग्रहणम् । निगदः साक्षिवचनम् । एतच् च राजमुद्राङ्कितं कार्यम् । तथा च वृद्धवसिष्ठः

    यथोपन्यस्तसाध्यार्थसंयुक्तं सोत्तरक्रियम् ।


    सावधारणकं चैव जयपत्रकम् उच्यते ॥


    प्राड्विवाकादिमुद्राङ्कं मुद्रितं राजमुद्रया । इति ।

अस्मिन् पत्रे राज्ञा सभ्यैश् च स्वहस्तेन स्वमतं लेख्यम् इत्य् आह कात्यायनः

[६९] सिद्धेनार्थेन संयोज्यो वादी सत्कारपूर्वकम् ।

    लेख्यं स्वहस्तसंयुक्तं तस्मै दद्यात् तु पार्थिवः ॥


    सभासदश् च ये तत्र स्मृतिशास्त्रविदः स्थिताः ।


    यथा लेख्यविधौ तद्वत् स्वहस्तं तत्र दापयेत् ॥

पश्चात्काराख्यो जयपत्रभेद उक्तः कात्यायनेनइव (२६४ - ६५) ।

    अनेन विधिना लेख्यं पश्चात्कारं विदुर् बुधाः ।


    निरस्ता तु क्रिया यत्र प्रमाणेनैव वादिना ॥


    पश्चात्कारो भवेत् तत्र न सर्वासु विधीयते ।


    अन्यवाद्यादिहीनेभ्य इतरेषां प्रदीयते ॥


    वृत्तानुवादसंसिद्धं तच् च स्याज् जयपत्रकम् । इति ।

यत्र हीनवादी तत्र हीनपत्रं दातव्यं न जयपत्रम् इति विज्ञानेश्वराचार्याःवसिष्ठस् तु राजकीयपत्रस्य लक्षणं दर्शयंस् तस्य चातुर्विध्यम् आह ।

    राज्ञः स्वहस्तसंयुक्तं स्वमुद्राचिह्नितं तथा ।


    राजकीयं स्मृतं लेख्यं सर्वेष्व् अर्थेषु साक्षिमत् ॥


    शासनं प्रथमं ज्ञेयं जयपत्रं तथापरम् ।


    आज्ञाप्रज्ञापनापत्रं राजकीयं चतुर्विधम् ॥ इति ।

आज्ञाप्रज्ञापनापत्रयोः स्वरूपं प्रदर्शितं तेनैव

    सामन्तेष्व् अथ भृत्येषु राष्ट्रपालादिकेषु च ।


    कार्यम् आदिश्यते येन तद् आज्ञापत्रम् उच्यते ॥


    ऋत्विक्पुरोहिताचार्यमान्येष्व् अभ्यर्हितेषु तु ।


    कार्यं निवेद्यते येन पत्रं प्रज्ञापनाय तत् ॥

लेख्यस्य प्रयोजनम् आह मरीचिः

    स्थावरे विक्रयाधाने विभागे दान एव च ।


    लिखितेनाप्नुयात् सिद्धिम् अविसंवादम् एव च ॥


    सिध्यते वाचिको ‘प्य् आधिः स्थावरेषु दशाब्दिकः ।


    प्रतिग्रहे च क्रीते च नालेख्या सिध्यति क्रिया ॥

**[७०] **पूर्वलेख्यस्य कथंचिद् उपहतौ तत्समानार्थं लेख्यान्तरं कर्तव्यम् इत्य् आह याज्ञवल्क्यः (२.९१) ।

    देशान्तरस्थे दुर्लेख्ये नष्टोन्मृष्टे हृते तथा ।


    भिन्ने दग्धे तथा च्छिन्ने लेख्यम् अन्यत् तु कारयेत् ॥

दुर्लेख्यं सन्दिह्यमानलिप्यक्षरम् अवाचकपदयुक्तं वा । कात्यायनः (३८२) ।

    मलैर् यद् भेदितं दग्धं छिद्रितं वीतम् एव च ।


    तद् अन्यत् कारयेल् लेख्यं स्वेदेनोल्लिखितं तथा ॥ इति ।

स्वात्मना लिखितं तथेति कृत्यकल्पतरौ । एतच् च लेख्यान्तरकरणं वादिप्रतिवादिनोः संप्रतिपत्तौ वेदितव्यम् । विप्रतिपत्तौ तु निर्णयप्रकारम् आह नारदः (ऋणादान १४२) ।

    लेख्ये देशान्तरे न्यस्ते शीर्णे दुर्लिखिते हृते ।


    सतस् तत्कालकरणम् असतो द्रष्टृदर्शनम् ॥

विद्यमानस्य देशान्तरस्थस्यानयने कालो दातव्यः । असत्त्वे तु ये द्रष्टारः साक्षिणस् तैर् निर्णयः कर्तव्य इत्य् अर्थः । यदा तु साक्षिणो न सन्ति तदा दिव्येन निर्णयः,

	अलेख्यसाक्षिके दैवीं व्यवहारे विनिर्दिशेत् । 

इति कात्यायनेनाभिधानात् (२२४) । लेख्यस्यावश्यपरीक्ष्यताम् आह कात्यायनः (२६६, ३०८) ।

    राजा क्रियां समाहूय यथान्यायं विचारयेत् ।


    लेख्याचारेण लिखितं साक्ष्याचारेण साक्षिणः ॥


    दर्पणस्थं यथा बिम्बम् असत् सद् इव दृश्यते ।


    तथा लेख्यस्य बिम्बानि कुर्वन्ति कुटिला नराः ॥

बृहस्पतिः

    ज्ञात्वा कालं च देशं च कुशलाः कूटकारकाः ।


    कुर्वन्ति सदृशं लेख्यं तद् यत्नेन विचारयेत् ॥


    स्त्रीबालार्तालिपिज्ञांश् च वञ्चयन्ति स्वबान्धवाः ।


    लेख्यं कृत्वा स्वनामाङ्कं ज्ञेयं युक्त्यागमैस् ततः ॥ इति ।

**[७१] **तत्परीक्षाप्रकारमाह स एव (कात् २८४) ।

    त्रिविधस्यापि लेख्यस्य भ्रान्तिः सञ्जायते यदा ।


    ऋणिसाक्षिलेखकानां हस्तोक्त्या साधयेत् ततः ॥

कात्यायनः (२८५-८६) ।

    अथ पञ्चत्वम् आपन्नो लेखकः सह साक्षिभिः ।


    तत् स्वहस्तादिभिस् तेषां विशुद्धिस् तु न संशयः ॥


    ऋणिस्वहस्तसन्देहे जीवतो वा मृतस्य वा ।


    तत् स्वहस्तकृतैर् अन्यैः पत्रैस् तल्लेख्यनिर्णयः ॥

याज्ञवल्क्यः (२.९२) ।

    सन्दिग्धलेख्यशुद्धिः स्यात् स्वहस्तलिखितादिभिः ।


    युक्तिप्राप्तिक्रियाचिह्नसम्बन्धागमहेतुभिः ॥

एतद्देशकालयोर् अस्येदं द्रव्यं घटत इति युक्त्या प्राप्तिर् युक्तिप्राप्तिःक्रिया तत्साक्ष्युपन्यासः । सम्बन्धः पूर्वम् अपि परस्परविश्वासेन तयोर् दानग्रहणादिसम्बन्धः । आगमः सम्भावितः प्राप्त्युपायः । एत एव हेतवस् तैः । राजशासने निर्णयप्रकारम् आह प्रजापतिः

    कार्यो यत्नेन महता निर्णयो राजशासने ।


    राज्ञां स्वहस्ततो मुद्रालेखकाक्षरदर्शनात् ॥

मुद्रालेखकाक्षरयोर् दर्शनात् स्वहस्ततश्निर्णय इत्य् अर्थः । दुष्टलेख्यानि दर्शयति कात्यायनः (२७३-७४) ।

    साक्षिदोषाद् भवेद् दुष्टं पत्रं वै लेखकस्य च ।


    धनिकस्योपधादोषात् तथा धारणिकस्य च ॥


    दुष्टैर् दुष्टं भवेल् लेख्यं शुद्धैः शुद्धं विनिर्दिशेत् ।


    तत् पत्रम् उपधादुष्टैः साक्षिणो ‘प्य् अपकारकैः (साक्षिलेखककारकैः ?) ।

उपधा दुष्टान्तःकरणता । स एव (कात् २८१, २७०) ।

[७२] धनिकेन स्वहस्तेन लिखितं साक्षिवर्जितम् ।

    भवेत् कूटं न चेत् कर्ता कृतं हीति विभावयेत् ॥


    देशाचारविरुद्धं तु सन्दिग्धं क्रमवर्जितम् ।


    कृतम् अस्वामिना यच् च साध्यहीनं च दुष्यति ॥

न चेद् इत्यादेर् अयम् अर्थः । कर्ता लिखनकर्ता धनिको धारणिकसंप्रतिपत्या मयैतल् लिखितम् इति यदि न विभावयेत् तदा तत् पत्रं कूटं भवेन् न प्रमाणत्वेन निश्चेतव्यम् इत्य् अर्थः । बृहस्पतिः

    मुमूर्षुशत्रुभीतार्तस्त्रीमत्तव्यसनातुरैः ।


    निशोपधिबलात्कारकृते लेख्यं न सिध्यति ॥

स एव

    दूषितो गर्हितः साक्षी यत्रैको विनिवेशितः ।


    कूटलेख्यं तु तत् प्रोक्तं लेखको वापि तद्विधः ॥

कात्यायनः (२७७) ।

    न लेखकेन लिखितं न दृष्टं साक्षिभिस् तथा ।


    एवं प्रत्यर्थिनोक्ते तु कूटलेख्यं प्रकीर्तितम् ॥

प्रतिवादिना लेख्यदोषोद्भावने वादिना तत्पुत्रेण वा दोषोद्धारः कर्तव्यः । तथा च बृहस्पतिः

    उद्धरेल् लेख्यम् आहर्ता तत्पुत्रो भुक्तिम् एव तु ।


    अभियुक्तः प्रमीतस् तु तत्पुत्रो ‘पि तद् उद्धरेत् ॥

यत् तु,

    आहर्ता भुक्तियुक्तो ‘पि लेख्यदोषान् विशोधयेत् ।


    तत्सुतो भुक्तिदोषांस् तु लेख्यदोषांस् तु नाप्नुयात् ॥

इति कात्यायनवचनं (३२३) तदनभियुक्तस्य पितुर् मरणे वेदितव्यम् । दोषानुद्धारे दण्डम् आह कात्यायनः (२९०) ।

    कूटोक्तौ साक्षिणां वाक्याल् लेखकस्य च पत्रकम् ।


    नयेच् छुद्धिं न यः कूटं स दाप्यो दमम् उत्तमम् ॥ इति 

[७३] उत्तमं साहसम् इति शेषः । स्थावरविक्रयादौ वृथा लेख्यं दूषयतः शारीरं दण्डम् आह व्यासः

    स्थावरे विक्रयाधाने लेख्यं कूटं करोति यः ।


    स सम्यग्भावितः कार्यो जिह्वापाण्यङ्घ्रिवर्जितः ॥

सम्यग्भावितः प्रमाणेन सल्लेख्यत्वम् अङ्गीकारितः । एवम् ऋणादानादाव् अपि वृथा लेख्यदूषणे तत्तद्विषयानुरूपो दण्डो द्रष्टव्यः ॥

इति श्रीकोद-

ण्डपरशुरामेति…………………।व्यवहारविवेकोद्द्योते लेख्यनिरूपणम् ॥ ५ ॥

**पोस्सिब्ले रेअदिन्ग् ओफ़् थे देफ़ेच्तिवे तेxत्-

इति श्रीकोदण्डपरशुरामेत्यादिविविधबिरुदावलीविराजमानमानोन्नत-महाराजाधिराजश्रीशक्तिसिंहात्मजमहाराजाधिराजश्रीमदनसिंहदेवविरचिते मदनरत्नप्रदीपे व्यवहारविवेकोद्द्योते लेख्यनिरूपणम् ॥५॥

अथानुमाननिरूपणम् ।

तस्य त्रैविध्यम् आह बृहस्पतिः

    साक्षी द्वादशभेदस् तु लिखितं दशधा स्मृतम् ।


    अनुमानं त्रिधा भिन्नं नवधा दैविकी क्रिया ॥

त्रिधा त्रिप्रकारं भुक्तिर् युक्तिश् चोदनाप्रतिकाल इति, त्रयाणाम् अपि

साध्यार्थानुमापकत्वात् । यद्य् अपि – “लिङ्गोद्देशस् तु युक्तिः स्यात्” - इति वक्ष्यमाणयुक्तिस्वरूपं भुक्तिचोदनाप्रतिकालयोर् अप्य् अस्ति साध्यार्थाव्यभिचारित्वेन लिङ्गत्वस्य तयोर् अपि समानत्वात् तथापि स्मर्तृप्रसिद्धेस् तयोः पृथग्ग्रहणम् ।

तन्त्र सप्त स्थावरागमोपायान् दर्शयन् सागमाया एव भुक्तेः प्रामाण्यम् इत्य् आह बृहस्पतिः

    एतद् विधानम् आख्यातं साक्षिणां लिखितस्य च ।


    सांप्रतं स्थावरप्राप्तेः भुक्तेश् च विधिर् उच्यते ॥


    विद्यया क्रयबन्धेन शौर्यभार्यान्वयागतम् ।


    सपिण्डस्याप्रजस्यांशं स्थावरं सप्तधा स्मृतम् ॥


    यिज्ये (पित्र्य ?) लब्धक्रयाधाने रिक्थशौर्यप्रवेदनात् ।


    प्राप्ते सप्तविधे भोगः सागमः सिद्धिम् आप्नुयात् ॥ इति ।

भुक्तेः स्थावरे आवश्यकत्वसूचनार्थं स्थावरग्रहणम् । तच् च जङ्गमस्याप्य् उपलक्षणम् । तेन प्रतिग्रहादय उभयत्र स्वत्वहेतवः । विद्या प्रतिग्रहप्रकारः । बन्धः आधिः । शौर्यागतं युद्धप्राप्तम् । अन्वयागतम् [७४] वंशप्राप्तम् । सपिण्डस्याप्रजस्यांशः असन्ततिकभ्रात्राद्यंशः । पित्र्यादिना पूर्वोक्तस्य सप्तविधस्यानुवादः । लब्धं प्रतिग्रहादिप्राप्तम् । रिक्थम् असन्ततिकभ्रात्राद्यंशः । प्रवेदनं विवाहः । नारदः (ऋणादान ८५) ।

    आगमेन विशुद्धेन भोगो याति प्रमाणताम् ।


    अविशुद्धागमो भोगः प्रामाण्यं नैव गच्छति ॥

सागमत्ववद् विशेषणान्तरवैशिष्ट्यम् अप्य् आदरणीयम् इत्य् आह व्यासः

    सागमो दीर्घकालश् चाविच्छेदो ऽपरवोज्झितः ।


    प्रत्यर्थिसंनिधानश् च पञ्चाङ्गो भोग इष्यते ॥

अविच्छेदः निरन्तरः अपरवः प्रतिकूलशब्दः । आगमानुपन्यासे भुक्तिमात्रेण न साध्यसिद्धिर् इत्य् आह नारदः (ऋणादान ८६) ।

    सम्भोगं केवलं यस् तु कीर्तयेन् नागमं क्वचित् ।


    भोगच्छलापदेशेन विज्ञेयः स तु तस्करः ॥

एतच् चागमस्मरणयोग्ये काले वेदितव्यम् । तदयोग्ये काले तु पुत्रादीनां भुक्तिमात्रेणापि साध्यसिद्धिर् इत्य् आह स एव (न्स्म्, ऋणादान ८९) ।

    स्मार्ते काले क्रिया भूमेः सागमा भुक्तिर् इष्यते ।


    अस्मार्ते ‘नुगमाभावात् क्रमात् त्रिपुरुषागता ॥

सागमा भुक्तिः क्रियेष्यते इत्य् अन्वयः । स्मार्तः कालः वर्षशतपर्यन्त इत्य् उक्तं विज्ञानेश्वराचायैः । अनुगमाभावात् योग्यानुप-

लब्ध्या आगमाभावनिश्चयस्यासम्भवात् । स्मरणायोग्येपि काले आगमा-

भावस्मरणपरम्परायां सत्यां न भुक्त्या साध्यसिद्धिः । अत एवोक्तं तेनैव (नारद, ऋणादीन ८७) ।

    अनागमं तु यो भुङ्के बहून्य् अब्दशतान्य् अपि ।


    चोरदण्डेन तं पापं दण्डयेत् पृथिवीपतिः ॥

यत् तु,

[७५] अन्यायेनापि यद् भुक्तं पित्रा पूर्वतरैस् त्रिभिः ।

    न तच् छक्यम् अपाहर्तुं क्रमात् त्रिपुरुषागतम् ॥ (न्स्म्, ऋणादान ९१)

इति तस्यैव वचनं तद् अन्यायेनाप्य् आगमम् अन्तरेणापि यत् पित्रा सह पूर्वतरैस् त्रिभिर् भुक्तं तन् नापाकर्तुं शक्यं किं पुनर् आगमाभावनिश्चयस्यासम्भवे इति कैमुतिकन्यायपरतया व्याख्येयं न त्व् आगमाभावे ऽपि भुक्तिः प्रमाणम् इति । यच् च,

    यद् विनागमम् अत्यन्तं भुक्तं पूर्वैस् त्रिभिर् भवेत् ।


    न तच् छक्यम् अपाकर्तुं क्रमात् त्रिपुरुषागतम् ॥ 

इति हारीतवचनं तद् अप्य् अत्यन्तम् उपलभ्यमानम् आगमं विनेति व्याख्यातव्यं न त्व् आगमस्वरूपं विनेति । स्मरणयोग्ये काले ‘भियुक्तः पुत्रादिभिर् अप्य् आगमोद्धारः कर्तव्यः । अत एव कात्यायनः (३२३) ।

    आहर्ता भुक्तियुक्तस् तु लेख्यदोषान् विशोधयेत् ।


    तत्सुतो भुक्तिदोषांस् तु लेख्यदोषांस् तु नाप्नुयात् ॥

यत् तु,

    आगमस् तु कृतो येन सो ऽभियुक्तः समुद्धरेत् ।


    न तत्सुतस् तत्सुतो वा भुक्तिस् तत्र गरीयसी ॥ 

इति पुत्रादीनाम् आगमानुद्धारबोधकं याज्ञवल्क्यवचनं (य्ध् २.२८) तद् आगमानुद्धारे ऽपि न तेषां दण्ड इत्य् एवंपरं न त्व् अर्थसिद्धिर् इति । तथा च हारीतः

    आगमस् तु कृतो येन स दण्ड्यस् तम् अनुद्धरन् ।


    न तत्सुतस् तत्सुतो वा भोग्यहानिस् तयोर् अपि ॥ इति ।

अभियुक्तस्य पित्रादेर् मरणे पुत्रादीनाम् अस्मार्ते ऽपि काले आगमानुद्धारे न साध्यसिद्धिर् इत्य् आह याज्ञवल्क्यः (२.२९) ।

    यो ‘भियुक्तः परेतः स्यात् तस्य रिक्थी तम् उद्धरेत् ।


    न तत्र कारणं भुक्तिर् आगमेन विना कृता ॥

[७६] रिक्थी अंशभागी ।

<span style="text-decoration:underline;">ननु</span>,


    पश्यतो ऽब्रुवतो भूमेर् हानिर् विंशतिवार्षिकी ।


    परेण भुज्यमानाया धनस्य दशवार्षिकी ॥ (य्ध् २.२४)

इति स्वल्पकालोपभोगेनाप्य् अभियोक्तुर् हानिः प्रतीयते भोक्तुश् च साध्यसिद्धिस् तत् कथं दीर्घकालो भोगः (न?) प्रमाणम् इत्य् उक्तम् ।

<span style="text-decoration:underline;">उच्यते</span> । एतद् वचनं पश्यतो ऽप्रतिषेधतस् तावत्कालीनतद्भूम्यादिजन्यफलहानिर् भवतीत्य् एवंपरं, न तु तद्भूम्यादिवस्तुहानिर् अपीति पूर्वोदाहृतानागमं तु यो भुङ्क्ते बहून्यब्दशतान्यपीतिवचनविरोधात् । क्वचिद् एकदेशोपभोगेन समग्रसिद्धिम् आह **बृहस्पतिः** ।


    यद्य् एकशासने ग्रामक्षेत्रारामाश् च लेखिताः ।


    एकदेशोपभोगे ऽपि सर्वे भुक्ता भवन्ति ते ॥

क्वचिदुपभोगे ‘पि न भोक्तुर् अर्थसिद्धिर् इत्य् आह बृहस्पतिः

    भुक्तिस् त्रिपुरुषी सिध्येद् अपरेषां न संशयः ।


    अतिवृत्ते सपिण्डत्वे सकुल्यानां न सिध्यति ॥


    अस्वामिना तु यद् भुक्तं गृहक्षेत्रापणादिकम् ।


    सुहृद्बन्धुसकुल्यस्य न तद् भोगेन हीयते ॥


    विवाह्यश्रोत्रियैर् भुक्तं राजामात्यैस् तथैव च ।


    सुदीर्घेणापि कालेन तेषां सिध्येन् न तद् धनम् ॥

विवाह्यो जामाता । स एव

    अशक्तालसरोगार्तबालभीतप्रवासिनाम् ।


    शासनानूढमन्येन भुक्तं भुक्त्या न हीयते ॥

कात्यायनः (३३०) ।

    न भोगं कल्पयेत् स्त्रीषु देवतायतनेषु च ।


    बालश्रोत्रियवित्ते च प्राप्ते च पितृतः क्रमात् ॥

स एव (कात्। ३१६) ।

[७७] नोपभोगे बलं कार्यम् आहर्त्रा तत्सुतेन वा ।

	पशुस्त्रीपुरुषादीनाम् इति धर्मे व्यवस्थितः ॥

आदिशब्देन जङ्गमान्तस्य ग्रहणम् । मनुः (८.१४६) ।

    संप्रीत्या भुज्यमानानि न नश्यन्ति कदाचन ।


    धेनुर् ऊष्ट्रो वहन्न् अश्वो यश् च दम्यः प्रयुज्यते ॥

दम्यः प्रयुज्यते दमनार्थं यः समर्त्यते । नारदः (ऋणादान ९२) ।

    अन्वाहितं हृतं न्यस्तं बलावष्टब्धयाचिते ।


    अप्रत्यक्षं च यद् भुक्तं षड् एते नागमं विना ॥

अन्वाहितं अन्यस्मै दातुं समर्पितम् । हृतम् अपहृतम् । न्यस्तं निक्षिप्तम् । बलावष्टब्धं राजप्रसादादिबलेन स्थापितम् । याचितं विवाहादाव् अलङ्कारार्थम् आनीतम् । स एव (न्स्म्, ऋणादान ८१) ।

    आधिः सीमा बालधनं निक्षेपोपनिधिस्त्रियः ।


    राजस्वं श्रोत्रियस्वं च नोपभोगेन नश्यति ॥ इति ।

युक्तिस्वरूपम् आह कात्यायनः

	लिङ्गोद्देशस् तु युक्तिः स्याद् दिव्यानीह विषादयः । इति ।

लिङ्गोद्देशो लिङ्गस्याग्निदादित्वाव्यभिचारिण उल्काहस्तत्वादिधर्मस्योद्देशो ज्ञानम् । युक्तिप्रवृत्तेः स्थलं दर्शयति नारदः (ऋणादान १७२-१७५) ।

    असाक्षिप्रत्ययास् त्व् अन्ये बुद्धिवादाः प्रकीर्तिताः ।


    लक्षणान्य् एव साक्षित्वे तेषाम् आहुर् मनीषिणः ॥


    उल्काहस्तो ऽग्निदो ज्ञेयः शस्त्रपाणिश् च घातकः ।


    केशाकेशिगृहीतश् च युगपत्पारदारिकः ॥


    कुद्दालपाणिर् विज्ञेयः सेतुभेत्ता समीपगः ।


    तथा कुठारहस्तश् च वनच्छेत्ता प्रकीर्तितः ॥

[७८] प्रत्यक्षचिहैर् विज्ञेयो दण्डपारुष्यकृन् नरः ।

	असाक्षिप्रत्यया ह्य् एते पारुष्ये तु परीक्षणम् ॥

शङ्खलिखितौ

    केशाकेशिग्रहणात् पारदारिकः उल्काहस्तो ऽग्निदः शस्त्रपाणिर् घातको लोप्त्रहस्तश् चौरः । इति । 

लोप्त्रं चौर्येण प्राप्तं धनम् । बृहस्पतिः

    असाक्षिके चिरकृते पृच्छेद् उत्तरसाक्षिणः ।


    शपथान् वानुयुञ्जीत उपधां वा प्रयोजयेत् ॥

उपधा युक्तिर् इति कृत्यकल्पतरौ । अत्र पक्षे शपथाभ्यनुज्ञानम् अनन्यथासिद्धयुक्त्यभावे ज्ञातव्यम् । अत एवाह नारदः (ऋणादान,२३९ ) ।

	युक्तिष्व् अप्य् असमर्थासु शपथेनैनम् अर्दयेत् ।

अर्दयेत् पीडयेत् । चोदनाप्रतिकालस्य विषयं दर्शयति नारदः (ऋणादान २३५ - २३६ ) ।

    प्रमादाद् धनिनो यत्र न स्याल् लेख्यं न साक्षिणः ।


    अथ वापह्नुते वादी तत्रोक्तस् त्रिविधो विधिः ।


    चोदनाप्रतिकालश् च युक्तिलेशस् तथैव च ।


    तृतीयः शपथः प्रोक्तस् तैर् एनं साधयेत् क्रमात् ॥

चोदनाप्रतिकालः बहुकृत्वो धनं मे देहीति प्रेरणाया अप्रतिकालः अनिराकरणम् । एतम् एवार्थम् अभिप्रेत्याह कात्यायनः (३३६) ।

    अर्थिनैवार्थितो यस् तु विघातं न प्रयोजयेत् ।


    त्रिश्चतुःपञ्चकृत्वो वा परतस् तदृणी भवेत् ॥

नारदो ऽपि (ऋणादान २३७) ।

    अभीक्ष्णं चोद्यमानो यः प्रतिहन्यान् न तद्वचः ।


    त्रिश्चतुःपञ्चकृत्वो वा परतो ऽर्थं स दाप्यते ॥

[७९] परतः तत ऊर्ध्वम् । चोदनाप्रतिकालमात्रेण न साध्यसिद्धिः किं तार्हि युक्त्यन्तरसहकृतेन तेनेत्य् आह नारदः (ऋणादान २३८) ।

    चोदनाप्रतिकालं च युक्तिलेशैस् तम् अन्वियात् ।,


    देशकालार्थसम्बन्धपरिमाणक्रियादिभिः ॥

क्रिया उपन्यासः ।

इति श्रीकोदण्डपरशुरामे ॥ । व्यवहारोद्द्योते अनुमाननिरूपणम् ॥ ६ ॥

**पोस्सिब्ले रेअदिन्ग् ओफ़् थे देफ़ेच्तिवे तेxत्-

इति श्रीकोदण्डपरशुरामेत्यादिविविधबिरुदावलीविराजमानमानोन्नत-महाराजाधिराजश्रीशक्तिसिंहात्मजमहाराजाधिराजश्रीमदनसिंहदेवविरचिते मदनरत्नप्रदीपे व्यवहारविवेकोद्द्योते अनुमाननिरूपणम् ॥६॥

अथ दिव्यनिरूपणम् ।

तत्र सकलदिव्यसाधारणी दिव्यमातृका निरूप्यते । तत्र दिव्यभेदान् आह बृहस्पतिः

    धटो ‘ग्निर् उदकं चैव विषं कोशस्तु पञ्चमः ।


    षष्ठं च तण्डुलाः प्रोक्तं सप्तमस् तप्तमाषकः ॥


    अष्टमं फालम् इत्य् उक्तं नवमं धर्मजं तथा ।


    दिव्यान्य् एतानि सर्वाणि निर्दिष्टानि स्वयम्भुवा ॥

<span style="text-decoration:underline;">ननु</span> सभ्यशरीरस्पर्शादीनां शपथानाम् अपि मानुषप्रमाणापरिच्छेद्यार्थ-परिच्छेदकत्वेन दिव्यत्वात् कथं दिव्यानि नवेत्य् अभिधानम् । ते च शपथा दर्शिता **नारदेन** (ऋणादान २४८) ।


    सभ्यवाहनशस्त्राणि गोबीजकनकानि च ।


    देवतापितृपादांश् च दत्तानि सुकृतानि च ॥


    स्पृशेच् छिरांसि पुत्राणां दाराणां सुहृदां तथा ।


    अभियोगेषु शक्येषु (सर्वेषु ?) कोशपानम् अथापि वा ॥


    इत्य् एते शपथाः प्रोक्ता मनुना स्वल्पकारणे । इति ।

सत्यं तेषां सभ्यस्पर्शादीनां शपथानां कालान्तरभाविनिर्णयनिमित्तत्वाद् अत्र च समनन्तरनिर्णयनिमित्तानां दिव्यत्वेन विवक्षितत्वात् तादृक्त्वं च घटादीनाम् एवेति नानुपपन्नं दिव्यानि नवेत्य् अभिधानम् । कोशस्य शपथत्वे ‘पि घटादिषु पाठो महाभियोगविषयत्वसाम्यात् सावष्टम्भाभियोगविषयत्वसाम्याच् च । घटादीनि महाभियोगे सावष्टम्भाभियोगे च प्रयोज्यानि न शङ्काभियोगे इति नियमार्थम् आह याज्ञवल्क्यः (२.९५-९६) ।

[८०] तुलाग्न्यापो विषं कोशो दिव्यानीह विशुद्धये ।

    महाभियोगेष्व् एतानि शीर्षकस्थे ऽभियोक्तरि ॥


    रुच्या वान्यतरः कुर्याद् इतरो वर्तयेच् छिरः । 

शीर्षकं पराजयनिमित्तको दण्डः तत्र तिष्ठतीति शीर्षकस्थः उक्तरूपदण्डभाग् इत्य् अर्थः । रुच्या इच्छया अन्यतरः अभियुक्ताभियोक्त्रोर् अन्यतरः । इतरः शिरो वर्तयेत् दण्डं स्वीकुर्याद् इत्य् अर्थः । अत्र वाक्ये कोशग्रहणं तस्य सावष्टम्भाभियोगविषयत्वप्राप्त्यर्थं न तु शङ्काभियोगविषयत्वनिवृत्त्यर्थम्,

    अवष्टम्भाभियुक्तानां घटादीनि विनिर्दिशेत् ।


    तण्डुलाश् चैव कोशश् च शङ्कास्व् एतानि योजयेत् ॥ 

इति पितामहेन शङ्काभियोगविषयत्वेन विनियोगविधानात् । अवष्टम्भः शीर्षस्थः । कचिद् धटादीनां शङ्काभियोगविषयत्वम् अप्य् आह एव (य्ध् २.९६) ।

	विनापि शीर्षकात् कुर्यान् नृपद्रोहे ऽथ पातके ।

शीर्षकाद् विनापि पराजयप्रयुक्तदण्डभागिनो ऽभियोक्तुर् अभावे ऽपि । पातके ब्रह्महत्यादौ । कात्यायनो ऽपि (४१२) ।

    पार्थिवैः शङ्कितानां च निर्दिष्टानां च दस्युभिः ।


    आत्मशुद्धिपराणां च दिव्यं देयं शिरो विना ॥

कालिकापुराणे

    परदाराभिशापे च चौर्यागम्यागमेषु च ।


    महापातकशस्ते च स्याद् दिव्यं नृप साहसे ॥


    विप्रतिपत्तौ विवादे ऽवर्णस्य स्थापने कृते ।


    तत्रैव स्थापयेद् दिव्यं शिरः पूर्वं महीपतिः ॥


    परदाराभिमर्षे च बहवो यत्र वादिनः ।


    शिरोहीनं भवेद् दिव्यम् आत्मसंशुद्धिकारणात् ॥

विप्रतिपत्तौ परदारगमनाद्यभियोगरूपायाम् । विवादे ऋणदानादिविषये [८१]अवर्णो ऽपवादः । परदाराभिमर्शे चेति श्रौर्यादीनाम् अप्य् उपलक्षणम् । विष्णुः (९.२२ ) ।

	राजद्रोहे साहसे च विना शीर्षप्रवर्तनात् ।

तण्डुलानां विषयम् आह पितामहः

	चौर्ये तु तण्डुला देया नान्यत्रेति विनिश्चयः ।

अन्यत्र स्त्रीसंग्रहादौ । न तु दत्तापह्नवे । तत्र तदर्धार्धस्य तण्डुला इति वक्ष्यमाणकात्यायनवचनेन (४२०) तण्डुलदिव्यविधानात् । एतत् त्व् अल्पचौर्यशङ्कायां वेदितव्यम् । महाचौर्यशङ्कायां तु,

	चौर्यशङ्काभियुक्तानां तप्तमाषो विधीयते । इति ।

तेनैव तप्तमाषस्य विधानात् । कोशस्य विषयम् आह कात्यायनः (४१५) ।

    शङ्काविश्वाससन्धाने विभागे रिक्थिनां सदा ।


    क्रियासमूहकर्तृत्वे कोशम् एव प्रदापयेत् ॥

क्रियासमूहकर्तृत्वे सम्भूयैकक्रियाकारित्वे । पितामहः

    विस्रम्भे सर्वशङ्कासु सन्धिकार्ये तथैव च ।


    एषु कोशः प्रदातव्यो नित्यं चित्तविशुद्धये ॥ इति ।

द्रव्यादितारतम्यं पर्यालोच्य तदनुरूपं दिव्यं दातव्यम् इत्य् आह बृहस्पतिः

    ऋणादिषु तु कार्येषु विसंवादे परस्परम् ।


    द्रव्यसंख्यान्विता देया पुरुषापेक्षया तथा ॥

दैविकी क्रियेत्य् अनुषङ्गः । आदिशब्देनात्र स्थावरविषयो विवादो ऽपि गृह्यते । यत् तु – “स्थावरेषु विवादेषु दिव्यानि परिवर्जयेत्” - इति वचनं (कात्। २४०) तल् लिखितादिसद्भावे दिव्यं न कारणीयम् इत्य् एवंपरम् ।

<span style="text-decoration:underline;">ननु</span> ऋणादिविवादेष्व् अपि मानुषप्रमाणसद्भावे दिव्यं नाश्रीयत एवेतीदं विशेषवचनं व्यर्थं स्याद् इति चेत्, 

<span style="text-decoration:underline;">उच्यते</span> । ऋणादिविवादेष्व् अर्थिना साक्ष्युपन्यासे कृते प्रतिवादी पराजये दण्डम् अङ्गीकृत्य दिव्यं करिष्यामीति वदेत् तदा सत्स्व् अपि साक्षिषु तेषु दोषशङ्कासम्भवाद् दिव्ये तु दोषशङ्काभावात्,

[८२] तत्र सत्ये स्थितो धर्मो व्यवहारस् तु साक्षिषु ।

	दैवसाध्ये पौरुषेयीं न लेख्यं वा प्रयोजयेत् ॥ इति

नारदवचनां च दिव्यं ग्राह्यं भवति । तद्वत् स्थावरविवादे मानुषप्रमाणसद्भावे प्रतिवादिना दण्डाङ्गीकारपुरःसरं दिव्ये समाश्रिते ‘पि दिव्यं मा ग्राहीत्य् एवमर्थम् इदं वचनं न पुनः कदाचिद् अपि स्थावरविवादे दिव्यं मा ग्राहीत्य् एतदर्थम्, लिखितसामन्ताद्यभावे तद्विवादनिर्णयाभावप्रसङ्गात् । एतद् अस्माभिः प्रागुक्तम् अपि विज्ञानेश्वराचार्यादिभिः स्थापितस्यार्थस्य दार्ढ्यार्थं पुनर् उपन्यस्तम् । दिव्यदाने द्रव्यादितारतम्यपर्यालोचनं कार्यम् इत्य् आह विष्णुर् अपि ( ९.१ - ३ ) ।

    अथ समयक्रिया राजद्रोहसाहसेषु यथाकामं निक्षेपस्तेयेष्व् अर्थं प्रमाणात् (अर्थप्रमाणात् ?) । इति । 

वस्त्रादिविषयविवादे तन्मूलद्रव्यपरिमाणं ग्राह्यम् । द्रव्यप्रमाणतारतम्येन दिव्यविशेषान् आह बृहस्पतिः

    विषं सहस्रे ऽपहृते पादोने च हुताशनः ।


    त्रिभागोने च सलिलम् अर्धे देयो घटः सदा ॥


    चतुःशताभियोगे तु दातव्यस् तप्तमाषकः ।


    त्रिशते तण्डुला देयाः कोशश् चैव तदर्धके ॥


    शते हृते ऽपह्नुते च दातव्यं धर्मशोधनम् ।


    गोचौरस्य प्रदातव्यं सद्यः फालावलेहनम् ॥


    एषा संख्या निकृष्टानां मध्यानां द्विगुणा स्मृता ।


    चतुगुणोत्तमानां च कल्पनीया परीक्षकैः ॥

धर्मशोधनं धर्मजदिव्येन शोधनम् । निकृष्टानां जातिगुणाचारैः । मध्यमत्वम् उत्तर्मत्वं च तैर् एव । यत् तु,

	नासहस्राद् धरेत् फालं न तुलां न विषं तथा ।

इति याज्ञवल्क्यवचनं (य्ध् २। ९९) तन् मध्यमपुरुषविषयम् । सहस्रं पणसहस्रम् इति विज्ञानेश्वराचार्याः । यत् तु,

[८३] सहस्रे तु घटं दद्यात् सहस्रार्धे तथायसम् ।

	अर्धस्यार्धे तु सलिलं तस्यार्धे तु विषं स्मृतम् ॥

इत्य् अल्पाभियोगे ऽपि विषदिव्यविधायकं पितामहवचनं तद् यस्य द्रव्यस्यापहारे पातित्यं भवति तद्विषयम् इति विज्ञानेश्वराचार्याः । दत्तापह्नवे विशेषम् आह कात्यायनः (४१६-४२० ) ।

    दत्तस्याप्नवो यत्र प्रमाणं तत्र कल्पयेत् ।


    स्तेयसाहसयोर् दिव्यं स्वल्पे ऽप्य् अर्थे प्रदापयेत् ॥


    सर्वद्रव्यप्रमाणं तु ज्ञात्वा हेम प्रकल्पयेत् ।


    हेमप्रमाणयुक्तं तु तदा दिव्यं प्रयोजयेत् ॥


    ज्ञात्वा संख्यां सुवर्णानां शतनाशे विषं स्मृतम् ।


    अशीतेस् तु विनाशे वै दद्यान् नैव हुताशनम् ॥


    षष्ठ्या नाशे जलं ज्ञेयं चत्वारिंशति वै धटम् ।


    विंशद्दशविनाशे तु कोशपानं विधीयते ॥


    पञ्चाधिकस्य वा नाशे तदर्धार्धस्य तण्डुलाः ।


    ततो ‘र्धार्धविनाशे तु लौकिक्यश् च क्रियाः स्मृताः ॥

सुवर्णशब्दश् चात्र षोडशमाषाः सुवर्ण इत्य् उक्तपरिमाणवचनः । विंशद्दशविनाशे विंशतेर् विनाशे दशानां विनाशे वा । विंशद्दशविनाशे त्रिंशद्विनाशे इति स्मृतिचन्द्रिकाकारःलौकिक्यः क्रियाः अपह्नवे तवाष्टगुणद्रव्यनाशो भविष्यतीत्य् एवमादिकाः । यत् तु

	शते हृते ऽपह्नुते च दातव्यं धर्मशासनम् ।

इति कार्षापणशतापह्नवे धर्मजदिव्यविधानं तद् निकृष्टपुरुषविषयम् । यस्य द्रव्यस्यापह्नवे महत् पापं तद्विषयं वा द्रष्टव्यम् इति न तेन विरोधः । दिव्ये दण्डे च मनूक्तं परिमाणं ग्राह्यम् इत्य् आह बृहस्पतिः

    संख्या रश्मिरजोमूला मनुना समुदाहृता ।


    कार्षापणान्ता सा दिव्ये नियोज्या विनये तथा ॥

[८४] संख्या परिमाणं रश्मिरजोमूला त्रसरेण्वादिका विनये दण्डे ।

तच् च त्रसरेण्वादिकं परिमाणं प्रतिज्ञापूर्वकं दर्शयति मनुः (८.१३१-१३७) ।

    लोके संव्यवहारार्थं याः संज्ञाः प्रथिता भुवि ।


    ताम्ररूप्यसुवर्णानां ताः प्रवक्ष्याम्य् अशेषतः ॥


    जालान्तरगते भानौ यत् सूक्ष्मं दृश्यते रजः ।


    प्रथमं तत् प्रमाणं तु त्रसरेणुं प्रचक्षते ॥


    त्रसरेणवो ‘ष्टौ विज्ञेया लिक्षैका परिमाणतः ।


    ता राजसर्षपस् तिस्रस् ते त्रयो गौरसर्षपः ॥


    सर्षपाः षड् यवो मध्यस् त्रियवेन तु कृष्णलम् ।


    पञ्चकृष्णलको माषस् ते सुवर्णस् तु षोडश ॥


    पलं सुवर्णाश् चत्वारः पलानि धरणं दश ।


    द्वे कृष्णले समधृते विज्ञेयो रूप्यमाषकः ॥


    ते षोडश स्याद् धरणं पुराणश् चैव राजतः ।


    धरणानि दश ज्ञेयः शतमानस् तु राजतः ॥


    चतुःसौवर्णको निष्को विज्ञेयस् तु प्रमाणतः ।


    कार्षापणस् तु विज्ञेयः कार्षिकस् ताम्रिकः पणः ॥ इति ।

अत्र ताम्ररूप्यसुवर्णानाम् इति ताम्ररूप्यशब्दयोर् अल्पात् (अल्पाच्त्वात् ?) प्राक्प्रयोगो न तु क्रमप्रदर्शनार्थः । पलानि धरणं दशेत्यन्तं सुवर्णपरिमाणाभिधानम् । चतुःसौवर्णिको निष्क इत्यन्तं रूप्यपरिमाणाभिधानम् । अवशिष्टेन ताम्रपरिमाणाभिधानम् । जालान्तरप्रविष्टे सूर्यरश्मौ यत् सूक्ष्मं रजो दृश्यते तत् त्रसरेणुसंज्ञकम् । अष्टौ त्रसरेणवो लिक्षा तिस्रो लिक्षा राजसर्षपः त्रयो राजसर्षपा गौरसर्षपः षड् गौरसर्षपा मध्यमो यवो न स्थूलो न सूक्ष्म इति मध्यमयवस्य परिमाणत्वम् उक्तं विज्ञानेश्वराचार्यैःमनुस्मृतिभाष्ये तु मध्यशब्दः श्लोकपूरणार्थ इत्य् उक्तम् । त्रयो यवाः कृष्णलं पत्र कृष्णलानि माषः षोडश [८५] माषाः सुवर्णः चत्वारः सुवर्णाः पलं दशपलानि धरणं द्वे कृष्णले रूपयस्य

माषः षोडशरूप्यमाषा रजतस्य धरणम् । पुराण इति चास्य संज्ञान्तरम् ।

दश राजतानि धरणानि राजतः शतमानः । अस्य राजतपलसंज्ञापि भवति,

	शतमानं तु दशभिर् धरणैः पलम् एव तु । 

इति याज्ञवल्क्यस्मरणात् (१.३६५) । पूर्वोकसुवर्णचतुष्टयपरिमित एको राजनिष्कः । कार्षिकः कर्षसंमितः ताम्रिकः ताम्रविकारः कार्षापणो विज्ञेयः पण इति च विज्ञेय इत्य् अर्थः । चशब्दो ऽध्याहार्यः । अत एव याज्ञवल्क्येन पण इति संज्ञान्तरं दर्शितम् । बृहस्पतिनापि

    निष्कं सुवर्णाश् चत्वारः कार्षिकस् ताम्रिकः पणः ।


    ताम्रकर्षकृता मुद्रा विज्ञेयः कार्षिकः पणः ॥ इति ।

कर्षः पलचतुर्थांशः, “ते षोडशाक्षः कर्षो ऽस्त्री पलं कर्षचतुष्टयम्” इत्य् अमरसिंहेनाभिधानात् । ते माषाः षोडशाक्षः कर्ष इति वोच्यन्त इत्य् अर्थः । एतेनाक्षकर्षशब्दयोः सुवर्णपरिमाणवचनत्वम् इत्य् अवगम्यते । अथ वा पञ्चसुवर्णपरिमितं पलं,

	पलं सुवर्णाश् चत्वारः पञ्च वापि प्रकीर्तितम् ।

इति याज्ञवल्क्यवचनात् (य्ध् १.३६४) । तस्य चतुथाशो विंशतिमाषाः तत्परिमितः कार्षापणः । अत एव कात्यायनः ।

    माषो विंशतिमो भागो ज्ञेयो कार्षापणस्य तु ।


    काकिणी तु चतुर्भागा माषकस्य पणस्य च ॥ इति ।

ब्राह्मणाद्यधिकारिलेह(भेद ?)व्यवस्थया दिव्यव्यवस्थाम् आह नारदः (ऋणादान ३३४) ।

    ब्राह्मणस्य धटो देयः क्षत्रियस्य हुताशनः ।


    वैश्यस्य सलिलं देयं शूद्रस्य विषम् एव तु ॥

[८६] साधारणः समस्तानां कोशः प्रोक्तो मनीषिभिः ।

	विषं विना ब्राह्मणस्य सर्वेषां वा तुला स्मृता ॥

याज्ञवल्क्यः (२.९८ ) ।

	तुला स्त्रीबालवृद्धान्धपङ्गुब्राह्मणरोगिणाम् ।

यत् तु,

    सव्रतानां भृशार्तानां व्याधितानां तपस्विनाम् ।


    स्त्रीणां वा न भवेद् दिव्यं यदि धर्मस् त्व् अवेक्ष्यते ॥ 

इति नारदवचनं (ऋणादान २५६) तद् अग्न्यम्बुविषयम् इत्य् उक्तं माधवीये विद्यारण्यश्रीचरणैःपितामहः

    सर्वेषाम् एव वर्णानां कोशशुद्धिर् विधीयते ।


    सर्वाण्य् एतानि सर्वेषां ब्राह्मणस्य विषं विना ॥

कात्यायनः (४२३) ।

    गोरक्षकान् वाणिजकांस् तथा कारुकुशीलवान् ।


    प्रेष्यान् वार्धुषिकांश् चैव ग्राहयेच् छूद्रवद् द्विजान् ॥

कालिकापुराणे

	वर्णान्त्यस्य सदा देयं माषकं तप्तहेमजम् ।

वर्णानाम् अन्त्यः प्रत्यन्तस्येति कृत्यकल्पतरुकारःनारदः (ऋणादान २५५, ३१३-३१५ )

    क्लीबान् नरान् सत्त्वहीनान् परितश् चार्दितान् नरान् ।


    बालवृद्धातुरान् स्त्रीश् च परीक्षेत घटे सदा ॥


    स्त्रीणां तु न विषं प्रोक्तं न चापि सलिलं स्मृतम् ।


    घटकोशादिभिस् तासाम् अन्तस्तत्त्वं विचारयेत् ॥


    नार्तानां तोयशुद्धिः स्यान् न विषं पित्तरोगिणाम् ।


    श्वित्र्यन्धकुनखादीनां नाग्निकर्म विधीयते ॥


    न मज्जनीयाः स्त्रीबाला धर्मशास्त्रविचक्षणैः ।


    रोगिणो ये च वृद्धाः स्युः पुमांसो ये च दुर्बलाः ॥

[८७] निरुत्साहान् व्याधिक्लिष्टान् नार्तांस् तोये निमज्जयेत् ।

    सद्यो म्रियन्ते मज्जन्तः स्वल्पप्राणा हि ते स्मृताः ॥


    साहसे ‘प्य् आगतान् एतान् नैव तोये निमज्जयेत् ।


    न चापि हारयेद् अग्निं न विषेण विशोधयेत् ॥

हारीतः

    कुष्ठिनां वर्जयेद् अग्निं सलिलं श्वासकासिनाम् ।


    पित्तश्लेष्मवतां नित्यं विषं च परिवर्जयेत् ॥

विष्णुः ( ९.२९ - ३० ) ।

    न श्लेष्मिकाणां व्याधितानां भीरूणां श्वासकासिनाम् अम्बुसेविनाम् उदकं हेमन्तशिशिरयोश् चेति । 

कात्यायनः (४२४) ।

    न लोहशिल्पिनाम् अग्निः सलिलं नाम्बुसेविनाम् ।


    मन्त्रयोगविदां चैव विषं दद्यात् तु न क्वचित् ॥


    दिव्यं तु वर्जयेन् नित्यमात्रानां दैर्वृणम् ( ? ) ।


    तण्डुलैर् न नियुञ्जीत व्रतिनं मुखरोगिणम् ॥

व्रतिनं पयोव्रतादिनियमस्थम् । पितामहः

    मद्यपस्त्रीव्यसनिनां कितवानां तथैव च ।


    कोशः प्राज्ञैर् न दातव्यो ये च नास्तिकवृत्तयः ॥

नारदः (ऋणादान ३३२) ।

    महापराधे निर्धर्मे कृतघ्ने क्लीबकुत्सिते ।


    नास्तिके दृष्टदोषे च कोशदानं विवर्जयेत् ॥

कात्यायनः (४२७-४३०) ।

    मातापितृद्विजगुरुवृद्धस्त्रीबालघातिनाम् ।


    महापातकयुक्तानां नास्तिकानां विशेषतः ॥


    लिङ्गिनां प्रमदानां च मन्त्रयोगक्रियाविदाम् ।


    वर्णसङ्करजातानां पापाभ्यासप्रवर्तिनाम् ॥


    एतेष्व् एवाभियोगेषु निन्द्येष्व् एव प्रयत्नतः ।


    दिव्यं प्रकल्पयेन् नैव राजा धर्मपरायणः ॥

**[८८] **एतैर् एव नियुक्तानां साधूनां दिव्यम् अर्हति ।

	न सन्ति साधवो यत्र तत्र शोध्यः स्वकैर् नरैः ॥

साधूनां दिव्यम् अर्हति राजा प्रकल्पयितुम् इति शेषः । एतैः प्रतिनिधिद्वारा दिव्यं कारणीयम् इत्य् अमुम् अर्थं द्रढयितुं पुनर् आह स एव (कात् ४३१-३२) ।

    महापातकयुक्तेषु नास्तिकेषु विशेषतः ।


    न देयं तस्य दिव्यं तु पापाभ्यासरतेर् भृगुः ॥


    येषु पापेषु दिव्यानि प्रतिषिद्धानि यत्नतः ।


    तारयेत् सज्जनैस् तानि नाभिशस्तं त्यजेन् नरः ॥

तारयेत् शोधयेत् । अभिशस्तं प्रतिनिधिद्वारा शोधनम् अकारयित्वा न त्यजेद् इत्य् अर्थः । प्रकारान्तरम् आह स एव (कात् ४३३) ।

    अस्पृश्याधमदासानां म्लेच्छानां पापकारिणाम् ।


    प्रातिलोम्यप्रसूतानां निश्चयो न तु राजनि ॥


    तत्प्रसिद्धानि दिव्यानि संशये तेषु निर्दिशेत् ।

एतद् एतैर् नियुक्तानां साधूनाम् अलाभे वेदितव्यम् इत्य् उक्तं स्मृतिचन्द्रिकायाम् । साधूनाम् अप्य् असामर्थ्ये प्रतिनिधिम् अभ्यनुजानाति स एव

    कालदेशविरोधे तु यथायुक्तं प्रकल्पयेत् ।


    अन्येन हारयेद् दिव्यं विधिर् एष विपर्यये ॥

हारयेत् कारयेत् । विपर्यये सामर्थ्याभावे । कालविशेषे दिव्ये विशेषम् आह पितामहः

    चैत्रो मार्गशिरश् चैव वैशाखश् च तथैव च ।


    एते साधारणा मासा दिव्यानाम् अविरोधिनः ॥


    धटः सर्वर्तुकः प्रोक्तो वाति वाते विवर्जयेत् ।


    अग्निः शिशिरहेमन्तवर्षासु परिकीर्तितः ॥


    शरद्ग्रीष्मे तु सलिलं हेमन्तशिशिरे विषम् ।

नारदः

	कोशं तु सर्वदा देयं तुला स्यात् सार्वकालिकी ।

[८९] विष्णुः (९.२५-३० ) ।

    न कुष्ठ्यसमर्थलोहकाराणाम् अग्निर् देयः शरदग्रीष्मयोश् च । न कुष्ठिपैत्तिकब्राह्मणानां विषं देयं प्रावृषि च । न श्लैष्मिकाणां व्याध्यर्दितानां भीरूणां श्वासकासिनाम् अम्बुजीविनाम् उदकं हेमन्तशिशिरयोश् च । इति । 

हेमन्तनिषेधो ऽत्र पौषमासविषय एव न तु मार्गशीर्षविषयो ऽपि । चैत्रो मार्गशिर इति पूर्वोदाहृतपितामहवचने मार्गशीर्षस्य सकलदिव्यसाधारणत्वाभिधानात् । नारदः (ऋणादान २५९) ।

    न शीते तोयशुद्धिः स्यान् नोष्णकाले ऽग्निशोधनम् ।


    न प्रावृषि विषं दद्यात् प्रवाते न तुलां तथा ॥


    नापराह्णे न सन्ध्यायां न मध्याह्ने कदाचन ।

मध्याह्ने दिव्यनिषेधो जलव्यतिरिक्तविषयः । अत एव पितामहः

    पूर्वाह्णे ऽग्निपरीक्षा स्यात् पूर्वाह्णे च धटो भवेत् ।


    मध्याह्ने तु जलं देयं धर्मतत्त्वम् अभीप्सता ॥


    दिवसस्य तु पूर्वाह्णे कोशशुद्धिर् विधीयते ।


    रात्रौ तु पश्चिमे यामे विषं देयं सुशीतलम् ॥ इति ।

यद्य् अपि दिव्ये वारविशेषविधायकं वाक्यं न श्रूयते तथापि शिष्टाचाराद् आदित्यवारे दिव्यानि दातव्यानीत्य् उक्तं विज्ञानेश्वराचायैः । दिव्ये देशविशेषम् आह पितामहः

    प्राङ्मुखो निश्चलः कार्यः शुचौ देशे धटः सदा ।


    इन्द्रस्थाने सभायां वा राजद्वारे चतुष्पथे ॥

धटग्रहणं दिव्यान्तरस्याप्य् उलक्षणम् । इन्द्रस्थानग्रहणं च प्रसिद्धदेवतायतनान्तरस्याप्य् उपलक्षणम् । अत एव दिव्यमात्रम् उपक्रम्याह नारदः ( ऋणादान २६५) ।

	सभाराजकुलद्वारदेवतायतनचत्वरे । इति ।

इन्द्रस्थानादीनां विषयविशेषे व्यवस्थाम् आह कात्यायनः

[९०] इन्द्रस्थाने ऽभिशस्तानां महापातकिनां नृणाम् ।

    नृपद्रोहप्रवृत्तानां राजद्वारे प्रयोजयेत् ॥


    प्रातिलोम्यप्रसूतानां दिव्यं देयं चतुष्पथे ।


    अतो ऽन्येषु तु कार्येषु सभामध्ये विदुर् बुधाः ॥ इति ।

विहितदेशकालाद्यनादरेण दिव्यदाने तथा कृतस्यार्थव्यभिचारिताम् आह नारदः

    अदेशकालदत्तानि बहिर्वासकृतानि च ।


    व्यभिचारं सदार्थेषु कुर्वन्तीह न संशयः ॥

वासो जननिवासः तस्माद् बहिःकृतानि निर्जनप्रदेशकृतानीत्य् अर्थः । एतेन जनसमक्षम् एव दिव्यं कर्तव्यम् इत्य् उक्तम् । अयम् अर्थो दर्शितः पितामहेनापि ।

    प्रत्यक्षं दापयेद् दिव्यं राजा वाधिकृतो ऽपि वा ।


    ब्राह्मणानां श्रुतवतां प्रकृतीनां तथैव च ॥ इति ।

सकलदिव्यसाधारणं विधिम् आह पितामहः

    तत आवाहयेद् देवान् विधिनानेन धर्मवित् ।


    प्राङ्मुखः प्राञ्जलिर् भूत्वा प्राड्विवाकस् ततो वदेत् ॥


    एह्य् एहि भगवन् धर्म अस्मिन् दिव्ये समाविश ।


    सहितो लोकपालैश् च वस्वादित्यमरुद्गणैः ॥


    आवाह्य तु धटे धर्मं पश्चाद् अङ्गानि विन्यसेत् ।

ततो दिव्योपयोगिसामग्रीसम्पादनानन्तरम् । धटग्रहणम् अत्र सर्वेषां दिव्यानाम् उपलक्षणम्, एतेषां देवतावाहनादिधर्माणां सकलदिव्यसाधारणत्वस्य

    इमं मन्त्रविधिं कृत्स्नं सर्वदिव्येषु योजयेत् ।


    आवाहनं च देवानां तथैव परिकल्पयेत् ॥ 

इति तेनैवोक्तत्वात् । मन्त्रस् त्व् आदित्यचन्द्राव् इत्यादिर् अग्रे दर्शयिष्यते । अङ्गदेवताविन्यासप्रकारम् आह स एव

[९१] इन्द्रं पूर्वे तु संस्थाप्य प्रेतेशं दक्षिणे तथा ।

    वरुणं पश्चिमे भागे कुबेरं चोत्तरे तथा ॥


    अग्न्यादिलोकपालांश् च कोणभागेषु विन्यसेत् ।


    इन्द्रः पीतो यमः श्यामो वरुणः स्फटिकप्रभः ।


    कुबेरस् तु सुवर्णाभः अग्निश् चापि सुवर्णभः ॥


    तथैव निरृतिः श्यामो वायुर् धूम्रः प्रशस्यते ।


    ईशानस् तु भवेद् रक्त एवं ध्यायेत् क्रमाद् इमान् ॥


    इन्द्रस्य दक्षिणे पार्श्वे वसून् आवाहयेद् बुधः ।


    धरो ध्रुवस् तथा सोम आपश् चैवानिलो ऽनलः ॥


    प्रत्यूषश् च प्रभासश् च वसवो ऽष्टौ प्रकीर्तिताः ॥


    देवेशेशानयोर् मध्य आदित्यानां तथायनम् ।


    धाता ऽर्यमा च मित्रश् च वरुणो ‘ंशो भगस् तथा ॥


    इन्द्रो विवस्वान् पूषा च पर्जन्यो दशमः स्मृतः ।


    ततस् त्वष्टा ततो विष्णुर् अजघन्यो जघन्यजः ॥


    इत्य् एते द्वादशादित्या नामभिः परिकीर्तिताः ।


    अग्नेः पश्चिमभागे तु रुद्राणाम् अयनं विदुः ॥


    वीरभद्रश् च शम्भुश् च गिरिशश् च महायशाः ।


    अजैकपाद् अहिर्बुध्न्यः पिनाकी चापराजितः ॥


    भुवनाधीश्वरश् चैव कपाली च विशांपतिः ।


    स्थाणुर् भवश् च भगवान् रुद्रास् त्व् एकादश स्मृताः ॥


    प्रेतेशरक्षोमध्ये च मातृस्थानं प्रकल्पयेत् ।


    ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥


    वाराही चैव माहेन्द्री चामुण्डा गणसंयुता


    निरृतेर् उत्तरे भागे गणेशायतनं विदुः ॥


    वरुणस्योत्तरे भागे मरुतां स्थानम् उच्यते ।


    गगनः स्पर्शनो वायुर् अनिलो मारुतस् तथा ॥

[९२] प्राणः प्राणेशजीवौ च मरुतो ऽष्टौ प्रकीर्तिताः ।

    धटस्योत्तरभागे तु दुर्गाम् आवाहयेद् बुधः ॥


    एतासां देवतानां तु स्वनाम्ना पूजनं विदुः ।


    भूषावसानं धर्माय दत्त्वा चार्घ्यादिकं क्रमात् ॥


    अर्घ्यादि पश्चादङ्गानां भूषान्तम् उपकल्पयेत् ।


    गन्धादिकां निवेद्यान्तां परिचर्या प्रकल्पयेत् ॥


    चतुर्दिक्षु तथा होमः कर्तव्यो वेदपारगैः ।


    आज्येन हविषा चैव समिद्भिर् होमसाधनैः ॥


    सावित्र्या प्रणवेनाथ स्वाहान्तेनैव होमयेत् ।

प्रणवादिकां गायत्रीम् उच्चार्य पुनः स्वाहाकारान्तं प्रणवम् उच्चार्य जुहुयाद् इत्य् अर्थः । समिदाज्यचरवः प्रत्येकम् अष्टोत्तरशतवारं होतव्याः,

	अनुक्तसंख्या यत्र स्याच् छतम् अष्टोत्तरं स्मृतम् ।

इति स्मरणात् । होमानन्तरकर्तव्यम् आह स एव

    यम् अर्थम् अभियुक्तः स्याल् लिखित्वा तं तु पत्रके ।


    मत्रेणानेन सहितं तत् कार्यं च शिरोगतम् ॥

मन्त्रश् च ।

	आदित्यचन्द्राव् अनिलो ऽनलश् च 

		द्यौर् भूमिर् आपो हृदयं यमश् च ।

	अहश् च रात्रिश् च उभे च सन्ध्ये 

		धर्मश् च जानाति नरस्य वृत्तम् ॥ इति ।

			( महाभारते आदिपर्वणि ७४.३० ) ।

एतत् सर्वं प्राड्विवाकेनोपवासादिनियमपूर्वकं कर्तव्यम् । तथा च नारदः

    प्राड्विवाकस् ततो विप्रो वेदवेदाङ्गपारगः ।


    श्रुतवृत्तोपसंपन्नः शान्तचित्तो विमत्सरः ॥


    सत्यसन्धः शुचिर् दक्षः सर्वप्राणिहिते रतः ।


    उपोषितश् चार्द्रवासाः कृतदन्तानुधावनः ॥


    सर्वासां देवतानां च पूजां कृत्वा यथाविधि । इति ।

दिव्यकर्तुर् उपवासादिकम् आह याज्ञवल्क्यः (२.९७) ।

[९३] सचैलं स्नातम् आहूय सूर्योदय उपोषितम् ।

	कारयेत् सर्वदिव्यानि नृपब्राह्मणसंनिधौ ॥

पितामहो ‘पि ।

    एकरात्रोपोषिताय त्रिरात्रोपोषिताय वा ।


    नित्यं देयानि दिव्यानि शुचये सार्द्रवाससे । इति ।

तौ त्रिरात्रैकरात्रपक्षौ शक्ताशक्तविषयत्वेन व्यवस्थितौ द्रष्टव्यौ । दिव्यप्रयोगानन्तरं दक्षिणादानम् उक्तेन विधिना दिव्यप्रयोगं कारयितू राज्ञः फलं चाह पितामहः

    सद्भिः परिवृतो राजा शुद्धिम् एतां प्रपूजयेत् ।


    ऋत्विक्पुरोहिताचार्यान् दक्षिणाभिस् तु तोषयेत् ॥


    एवं कारयिता राजा भुक्त्वा भोगान् मनोरमान् ।


    महतीं कीर्तिम् आप्नोति ब्रह्मभूयाय कल्पते ॥

इति श्रीकोदण्डपरशुरामेति ॥॥॥। व्यवहारविवेकोद्द्द्योते दिव्यमातृकानिरूपणम् ॥ ७ ॥

**पोस्सिब्ले रेअदिन्ग् ओफ़् थे देफ़ेच्तिवे तेxत्-

इति श्रीकोदण्डपरशुरामेत्यादिविविधबिरुदावलीविराजमानमानोन्नत-महाराजाधिराजश्रीशक्तिसिंहात्मजमहाराजाधिराजश्रीमदनसिंहदेवविरचिते मदनरत्नप्रदीपे व्यवहारविवेकोद्द्योते दिव्यमातृकानिरूपणम् ॥७॥

अथ धटविधिः

तत्र पितामहः

    विशालाम् उच्छ्रितां शुभ्रां घटशालां तु कारयेत् ।


    यत्रस्थो नोपहन्येत श्वभिश् चाण्डालवायसैः ॥


    कवाटबीजसंयुक्तां परिचारकरक्षिताम् ।


    पानीयादिसमायुक्ताम् अशून्यां कारयेन् नृपः ॥

बीजानि पञ्च व्रीह्यादीनि । धटार्थानि काष्ठान्य् आह नारदः (ऋणादान २६४-२६५) ।

    खादिरं कारयेत् तत्र निर्व्रणं शुक्लवर्जितम् ।


    शांशपं तदभावे वा शालं वा कोटरैर् विना ॥


    अञ्जनं तिन्दुकीसारं तिनिशो रक्तचन्दनः ।

अर्जुनस् तिलकोशोकतिनिशौ रक्तचन्दन इति माधवीये पाठः ।

	एवंविधानि काष्ठानि धटार्थं परिकल्पयेत् ॥

[९४] शांशपं शिंशपावृक्षसम्बन्धि । देविकाशिंशपेति पाणिनिस्मरणात्

(पा। ७.३.१) इकारस्याकारः । एवंविधानि इत्य् अन्यस्याप्य् औदुम्बरादेर् यज्ञियस्य काष्ठस्य ससारस्य ग्रहणम् । अत एव पितामहः

    छित्त्वा तु यज्ञियं वृक्षं यूपवन् मन्त्रपूर्वकम् ।


    प्रणम्य लोकपालेभ्यस् तुला कार्या मनीषिभिः ॥


    मन्त्रः सौम्यो वानस्पत्यश् छेदने जप्य एव च ।

यूपवन् मन्त्रपूर्वकम् इत्यनेन “ओषधे त्रायस्वैनम्” (वाज। सं ४। १) इत्यादिछेदनमत्रप्रयोगादिकम् उक्तम् । वानस्पत्यः “वनस्पते शतवल्शो विरोह” इति मन्त्रः (र्व्। ३ । ८ । ११ ) । सौम्यवानस्पत्ययोः तुल्यार्थास् तु विकल्पेरन् (जै। १२.०.१० ) - इति न्यायाद् विकल्प इति केचित् । समुच्चयद्द्योतकस्य चशब्दस्य व्यस्तस्यापि वानस्पत्य इत्य् अनेनान्वयात् समुच्चय इत्य् अपरे । छेदने कृते इति शेषः । वानस्पत्यस्य छेदनानन्तरं प्रयोगे यूपवद् इत्य् अतिदेशात् सिद्धे ऽपि पुनर्विधानम् औपदेशिकेन सोमदैवत्येनातिदेशिकस्य तस्य बाधशङ्का मा भूद् इत्य् एतदर्थम् । धटनिर्माणप्रकारं तत्प्रमाणं चाह पितामहः

    चतुर्हस्ता तुला कार्या पादौ कार्यौ तथाविधौ ।


    अन्तरं तु तयोर् हस्तौ भवेद् अध्यर्धम् एव वा ॥

पादौ तुलाधारकाक्षनामककाष्ठधारणार्थौ स्तम्भौ । तथाविधौ चतुर्हस्तौ । अन्तरं मध्यं हस्तौ हस्तद्वयं अध्यर्धं सार्धहस्तद्वयम् । अक्षकाष्ठस्य प्रमाणं पादस्तम्भमध्यप्रमाणाभिधानेनैव सूचितम् इति न पृथग् उपन्यस्तम् । तेनान्तरालप्रमाणपर्यालोचनया ततः किंचिदधिकम् अक्षकाष्ठं कर्तव्यम् । अक्षकाष्ठं पादस्तम्भयोर् मस्तकप्रदेशाद् यथा बहिर् न निःसरति तादृक् कार्यम् इति स्मृतिचन्द्रिकाकारः । अत्र पादस्तम्भयोश् चतुर्हस्तत्वाभिधानं निखाततद्भागपरित्यागेन ज्ञातव्यम् । अत एवोक्तं व्यासेन

    हस्तद्वयं निखेयं तु प्रोक्तं मुण्डकयोर् द्वयोः ।


    षड्ढस्तं तु तयोः प्रोक्तं प्रमाणं परिमाणतः ॥ इति ।

[९५] मुण्डकौ पादस्तम्भौ । पितामहेनाप्य् उक्तं ।

    हस्तद्वयं निखेयं तु पादयोर् उभयोर् अपि । इति ।

हस्तप्रमाणं च दर्शितं स्मृत्यन्तरे

    तिर्यग्यवोदराण्य् अष्टाव् ऊर्ध्वा वा व्रीहयस् त्रयः ।


    प्रमाणम् अङ्गुलस्योक्तं वित्तस्तिर् द्वादशाङ्गुलः ॥


    हस्तो वितस्तिद्वितयं दण्डो हस्तचतुष्टयम् ।


    तत्सहस्रद्वयं क्रोशो योजनं तच्चतुष्टयम् ॥ इति ।

हस्तो वितस्तिद्वितयं चतुर्विंशत्यङ्गुलो हस्त इत्य् अर्थः । तुलायां विशेषान्तरम् आह पितामहः

    चतुरस्रा तुला कार्या दृढा ऋज्वी तथैव च ।


    कटकानि च देयानि त्रिषु स्थानेषु यत्नतः ॥

कटकान्य् अयोमयानि । त्रिषु स्थानेषु उपान्तयोर् मध्ये च । कटकग्रहणम् अन्येषाम् अप्य् उपयुक्तानाम् अयोमयानां कीलकादीनाम् उपलक्षणार्थम् । तेनाक्षकाष्ठस्य मध्ये तुलायोजनार्थ आयसः पाशो देयः । एवम् अन्यान्य् अप्य् अपेक्षितान्य् अयोमयानि तत्र तत्र दातव्यानि । पादस्तम्भादीनां स्थौल्यं तु विशेषास्मरणाद् यावती स्थौल्ये कृते दृढता भवति तावत् कार्यं शिष्टाचाराद् वा विशेषो ‘वगन्तव्यः । पादस्तम्भौ पूर्वपश्चिमसंस्थानौ कृत्वोदगायामा तुला कार्या,

	धारयेद् उत्तरे पार्श्वे पुरुषं दक्षिणे शिलाम् । 

इति वक्ष्यमाणनारदवचनात् (ऋणादान २७२) । उदग्दक्षिणसंस्थानौ पादस्तम्भौ कृत्वा प्रागग्रा वा तुला कार्या,

	पश्चिमे तोलयेत् कर्तॄन् अन्यस्मिन् मृत्तिकां शुभाम् । 

इति वक्ष्यमाणपितामहवचनात् । धटाङ्गतया तोरणादिकं विधत्ते पितामहः

    तोरणे तु तथा कार्ये पार्श्वयोर् उभयोर् अपि ।


    धटाद् उच्चतरे स्यातां नित्यं दशभिर् अङ्गुलैः ॥

[९६] अवलम्बौ तु कर्तव्यौ तोरणाभ्याम् अधोमुखौ ।

	मृन्मयौ सूत्रसम्बद्धौ धटमस्तकचुम्बनौ ॥ इति ।

निर्णयौपयिकं प्रथमं धटारोहणम् आह पितामहः

    शिक्यद्वयं समासज्य पार्श्वयोर् उभयोर् अपि ।


    प्रागग्रान् कल्पयेद् दर्भाञ् शिक्ययोर् उभयोर् अपि ॥


    पश्चिमे तोलयेत् कर्तॄन् अन्यस्मिन् मृत्तिकां शुभाम् ।


    इष्टकाभस्मपाषाणकपालास्थिविवर्जिताम् ॥

अत्रेष्टकापाषाणयोर् वर्ज्यत्वाभिधानं मृत्तिकया सह समुच्चयो मा भूद् इत्य् एवमर्थं न तु विकल्पनिवृत्त्यर्थं नारदेन तयोर् अपि विधानात् । नारदः (ऋणादान २७१-७२) ।

    शिक्यद्वयं समासज्य धटकर्कटयोर् दृढम् ।


    एकत्र शिक्ये पुरुषम् अन्यत्र तुलयेच् छिलाम् ॥


    धारयेद् उत्तरे पार्श्वे पुरुषं दक्षिणे शिलाम् ।


    पिटकं पूरयेत् तस्मिन्न् इष्टकापांशुलोष्टकैः ॥

मृत्तिकाशिलेष्टकादीनां विकल्प इति विज्ञानेश्वरादयः । साम्यपर्यालोचनार्थं राज्ञा परीक्षकास् तत्र नियोक्तव्या इत्य् आह पितामहः

    परीक्षका नियोक्तव्यास् तुलामानविशारदाः ।


    वणिजो हेमकाराश् च कांस्यकारास् तथैव च ॥

परीक्षाप्रकारम् आह स एव

    कार्यः परीक्षकैर् नित्यम् अवलम्बसमो धटः ।


    उदकं च प्रदातव्यं धटस्योपरि पण्डितैः ॥


    यस्मिन् न लवते तोयं स विज्ञेयः समो धटः ।

अवलम्बसमः तोरणयोर् लम्बमानौ यौ मृन्मयाव् अवलम्बौ तयोः समः । नारदो ऽपि (ऋणादान २७३) ।

    प्रथमारोहणे ग्राह्यं प्रमाणं निपुणैः सह ।


    तुलाशिरोभ्यां तुल्यं तु तोरणन्यस्तलक्षणम् ॥

**[९७] **तोलनानन्तरकर्तव्यम् आह पितामहः

    तोलयित्वा नरं पूर्वं पश्चात् तम् अवतार्य तु ।


    धटं तु कारयेन् नित्यं पताकाध्वजशोभितम् ॥


    तत आवाहयेद् देवान् विधिनानेन मन्त्रवित् ।


    वादित्रतूर्यनिर्घोषैर् गन्धमाल्यानुलेपनैः ॥

धर्मावाहनप्रभृत्य् अभियुक्तशिरसि पत्रबन्धनान्तं सर्वदिव्यसाधारणं कर्मजातं प्राग् एव प्रपञ्चितम् । धटपूजायां गन्धादिविशेषम् आह नारदः

    रक्तैर् गन्धैश् च माल्यैश् च दध्यपूपाक्षतादिभिः ।


    अर्चयेत् तु धटं पूर्वं ततः शिष्टांस् तु पूजयेत् ॥

शिष्टान् अवशिष्टान् इन्द्रादीन् । पत्रबन्धनानन्तरं प्राड्विवाको धटम् आमन्त्रयेतेत्य् आह पितामहः

	धटम् आमन्त्रयेच् चैव विधिनानेन शास्त्रवित् ।

विधिना मन्त्रेण शास्त्रवित् प्राड्विवाकः । मन्त्रश् च दर्शितस् तेनैव

    त्वं धट ब्रह्मणा सृष्टः परीक्षार्थं दुरात्मनाम् ।


    धकाराद् धर्ममूर्तिस् त्वं टकारात् कुटिलो नृणाम् ॥


    धृतो भावयसे यस्माद् धटस् तेनाभिधीयसे ।


    त्वं वेत्सि सर्वभूतानां पापानि सुकृतानि च ॥


    त्वम् एव देव जानीषे न विदुर् यानि मानवाः ।


    व्यवहाराभिशस्तो ऽयं मानुषः शुद्धिम् इच्छति ॥

शोध्यस्यापि धटामन्त्रणं तन्मन्त्रं चाह याज्ञवल्क्यः (२.१००-१०२) ।

    तुलाधारणविद्वद्भिर् अभियुक्तस् तुलाश्रितः ।


    प्रतिमानसमीभूतो रेखां कृत्वावतारितः ॥


    त्वं तुले सत्यधामासि पुरा देवैर् विनिर्मिता ।


    तत् सत्यं वद कल्याणि संशयान् मां विमोचय ॥

[९८] यद्य् अस्मि पापकृन् मातस् ततो मां त्वम् अधो नय ।

	शुद्धश् चेद् गमयोर्ध्वं मां तुलाम् इत्य् अभिमन्त्रयेत् ॥

तुलाश्रितः तुलाम् आरूढः । प्रतिमानसमीभूतः प्रतिमानेन मृदादिना समीकृतः । भवतिर् अत्र प्रयोजकव्यापारपरः । रेखां कृत्वा तोरणे साम्यचिह्नं कृत्वा । अवतारित इति क्तप्रत्ययदर्शनाद् अवतारणानन्तरम् अभिमन्त्रणम् । ततः प्राड्विवाकः शिरोगतपत्रकं शोध्यं पुनर् धटम् आरोपयेत् । तथा च नारदः (ऋणादान २७६ ) ।

    समयैः परिगृह्याथ पुनर् आरोप्य तं धटे ।


    निवाते वृष्टिरहिते शिरस्य् आरोप्य पत्रकम् ॥

समयैः परिगृह्य तुलाधारकं शपथैर् नियम्य । शपथाश् च विष्णुना दर्शिताः (१०.९ ) ।

    ब्रह्मघ्नो ये स्मृता लोका ये लोकाः कूटसाक्षिणः ।


    तुलाधारस्य ते लोकास् तुलां धारयतो मृषा ॥ इति ।

पुनर् आरोपणसमये ऽभिमन्त्रणम् आह नारदः (ऋणादान २७८-२७९) ।

    त्वं वेत्सि सर्वभूतानां पापानि सुकृतानि च ।


    त्वम् एव देव जानीषे न विदुर् यानि मानवाः ॥


    व्यवहाराभिशस्तो ऽयं मानवस् तोल्यते त्वया ।


    तद् एनं संशयारूढं धर्मतस् त्रातुम् अर्हसि ॥


    देवासुरमनुष्याणां सत्यैस् त्वम् अतिरिच्यसे ।


    सत्यसन्धो ऽसि भगवञ् शुभाशुभविभावने ॥


    आदित्यचन्द्राव् अनिलो ऽनलश् च 


    	द्यौर् भूमिर् आपो हृदयं यमश् च ।


    अहश् च रात्रिश् च उभे च सन्ध्ये 


    		धर्मश् च जानाति नरस्य वृत्तम् ॥ इति ।

पुनरारोपणानन्तरकर्तव्यम् आह पितामहः

    ज्योतिर्विद् ब्राह्मणः श्रेष्ठः कुर्यात् कालपरीक्षणम् ।


    विनाढ्यः पश्च विज्ञेयाः परीक्षाकालकोविदैः ॥

[९९] साक्षिणो ब्राह्मणश्रेष्ठा यथादृष्टार्थवादिनः ।

    ज्ञानिनः शुचयो ऽलुब्धा नियोक्तव्या नृपेण तु ॥


    शंसन्ति साक्षिणः सर्वे शुद्ध्यशुद्धी नृपे तदा ।

दशगुर्वक्षरोच्चारणपरिमितः कालः प्राणः । षट् प्राणाः विनाडिका । तथा च स्मृत्यन्तरं

	दशगुर्वक्षरः प्राणः षट् प्राणाः स्याद् विनाडिका । इति ।

विष्णुधर्मोत्तरे ऽपि ।

    लघ्वक्षरसमा मात्रा निमेषः परिकीर्तितः ।


    अतः सूक्ष्मतरः कालो नोपलभ्यो भृगूत्तम ॥


    द्वौ निमेषौ त्रुटिर् ज्ञेया प्राणो दशत्रुटिः स्मृतः ॥


    विनाडिका तु षट् प्राणास् तत्षष्ट्या नाडिका स्मृता ।


    अहोरात्रं तु तत्षष्ट्या नित्यम् एव प्रकीर्तितम् ॥ इति ।

शुद्ध्यशुद्धिविनिश्चयोपायम् आह नारदः (ऋणादान २८३) ।

    तुलितो यदि वर्धेत विशुद्धः स्यान् न संशयः ।


    समो वा हीयमानो वा न विशुद्धो भवेन् नरः ॥

वर्धेत ऊर्ध्वं गच्छेत् हीयमानः अधो गच्छेत् । व्यासः

    अधोगतिर् न शुध्येत शुध्यत्य् ऊर्ध्वगतिस् तथा ।


    संभो न हि विशुद्धः स्याद् एषा शुद्धिर् उदाहृता ॥

बृहस्पतिः

    घटे ऽभियुक्तस् तुलितो हीनश् चेद् धानिम् आप्नुयात् ।


    तत्समस् तु पुनस् तोल्यो वर्धितो विजयी भवेत् ॥

पुनस् तोल्यः पुनर् देवतावाहनाद्यङ्गसहितं सर्वं कर्म विधाय तोलनीय इत्य् अर्थः । यत् तु कैश्चित् पौरस्त्यैस् तस्मिन्न् एव प्रयोगे पुनस् तोलनम् उक्तं तद् असुन्दरं, साम्यहेतोः कर्मवैगुण्यस्य तादवस्थ्यात् । द्वित्रेष्व् अपि प्रयोगेषु साम्ये कर्म**[१००]**वैगुण्यशङ्काया अनवस्थापत्तिपराहतत्वात् समस्यापि पराजयः । दण्डप्रायश्चित्तयोस् तु हीयमानापेक्षया तस्य स्वल्पत्वम् अभिप्रेत्याह पितामहः

    तुलितो यदि वर्धेत शुद्धो भवति धर्मतः ।


    हीयमानो न शुद्धः स्याद् एकेषां तु समः शुचिः ॥


    अल्पपापः समो ज्ञेयो बहुपापस् तु हीयते ।

एकेषाम् इति ग्रहणं पूजनार्थं न तु स्वमते समस्य शुचित्वद्द्योतनार्थम् अल्पपापस्याप्य् अशुचित्वाद् इति स्मृतिचन्द्रिकाकारः । यत् तु रत्नाकरनिबन्धे एकेषां तु समो शुचिर् इति वचनं अल्पपापः समो ज्ञेय इति वचनात् साम्ये संशयपरम् एवेत्य् उक्तं तद् अयुक्तं, वाक्यानार्जवापतेः । शिक्यादिच्छेदे पुनस् तत् सज्जीकृत्य तोलनीय इत्य् आह कात्यायनः ( ४४० ) ।

    शिक्यच्छेदे तुलाभङ्गे तथा चापि गुणस्य वा ।


    शुद्धेस् तु संशये चैनं परीक्षेत पुनर् नरम् ॥

शुद्धिसंशयहेतवो नारदेन प्रपञ्चिताः ।

    तुलाशिरोभ्याम् उद्भ्रान्तं विचलं न्यस्तलक्षणम् ।


    यदा वायुप्रणुन्नं वा तदा नैकतरं वदेत् ॥

अस्यार्थः । यदा तुलान्तौ तिर्यक् चलितौ यदा च समताज्ञानार्थं न्यस्तं चिह्नम् अपैति यदा च वायुना प्रेरिता तुला ऊर्ध्वम् अधश् च कम्पते तदा जयं पराजयं वा न वदेद् इत्य् अर्थः । व्यासः

    कक्षच्छेदे तुलाभङ्गे धटकर्कटयोस् तथा ।


    रज्जुच्छेदे ऽक्षभङ्गे वा दद्याच् छुद्धिं पुनर् नृपः ॥

कक्ष्यं (क्षं?) शिक्यतलम् । कर्कटौ तुलोपान्तस्थौ शिक्याधाराव् ईषद्वक्रौ कर्कटकशृङ्गसन्निभावायसकीलकौ । अक्षः पादस्तम्भयोर् उपरिनिविष्टस् तुलाधारपट्टः । यत् तु

    कक्षच्छेदे तुलाभङ्गे धटकर्कटयोस् तथा ।


    रज्जुच्छेदे ऽक्षभङ्गे वा तथैवाशुद्धिम् आदिशेत् ॥ 

**[१०१] **इति स्मृत्यन्तरवचनं तद् आकस्मिककक्षच्छेदादिविषयं कात्यायनवचनं तु दृश्यमानकारणकशिक्यच्छेदादिविषयम् इति विज्ञानेश्वराचार्याः

इति श्रीकोदण्डपरशुरामेति॥। व्यवहारविवेकोद्द्योते धटविधिः ॥ ८ ॥

**पोस्सिब्ले रेअदिन्ग् ओफ़् थे देफ़ेच्तिवे तेxत्-

इति श्रीकोदण्डपरशुरामेत्यादिविविधबिरुदावलीविराजमानमानोन्नत-महाराजाधिराजश्रीशक्तिसिंहात्मजमहाराजाधिराजश्रीमदनसिंहदेवविरचिते मदनरत्नप्रदीपे व्यवहारविवेकोद्द्योते धटविधिः ॥८॥

अथाग्निविधिः

तत्र पितामहः

    अग्नेर् विधिं प्रवक्ष्यामि यथावच् छास्त्रचोदितम् ।


    कारयेन् मण्डलान्य् अष्टौ पुरस्तान् नवमं तथा ॥


    आग्नेयं मण्डलं चाद्यं द्वितीयं वारुणं तथा ।


    तृतीयं वायुदैवत्यं चतुर्थं यमदैवतम् ॥


    पञ्चमं त्व् इन्द्रदैवत्यं षष्ठं कौबेरम् उच्यते ।


    सप्तमं सोमदैवत्यम् अष्टमं सर्वदेवतम् ॥


    पुरस्तान् नवमं यत् तु तन् महत्पार्थिवं विदुः ।


    गोमयेन कृतानि स्युर् अद्भिः पर्युक्षितानि च ॥ 

“सावित्रं त्व् अष्टमं तथा नवमं सर्वदैवत्यम् इति दिव्यविदो विदुर्” इति विज्ञानेश्वराचायैः पठितम् । पूर्वोक्ते दिव्यप्रदेशे भूशुद्धिं संपाद्य तत्र प्राड्विवाकः पूर्वोक्तनियमयुक्तो नवमण्डलानि कुर्यात् । तानि च पुरस्तान् नवमम् इत्य् अष्टानां मण्डलानां पूर्वभागे नवममण्डलस्य कर्तव्यताभिधानात् पश्चिमे मण्डले स्थित्वेति वक्ष्यमाणवचनलिङ्गाच् च प्राक्संस्थानि कर्तव्यानि । तानि चाष्टौ क्रमेणाग्न्यादिदैवत्यानि नवमं महत् मण्डलान्तरापेक्षयाधिकपरिमाणम् अपरिमिताङ्गुलं पार्थिवं पृथिवीदैवत्यम् । यद्य् अपि मण्डलानां हविर्वत् तदुद्देशेन त्यज्यमानतया मन्त्रवत् तत्प्रकाशकतया वा नाग्न्यादिदैवत्यत्वं तथाप्य् आग्नेयेत्यादि देवतातद्धितान्तशब्दप्रयोगलक्षणसमाख्याबऌआद् अग्न्यादिपूजास्थानत्वेनाग्न्यादिदैवत्यत्वं द्रष्टव्यम् । यथा पूर्वमीमांसायां प्रैतु होतुश् चमसः ब्रह्मण इत्यादि प्रैषमत्रस्थाया होतुश् चमसो ब्रह्मणश् चमस इत्यादिसमाख्याया बलाद् धोतृब्रह्मादीनां चमसभक्षणं सिद्धान्तितम् । अतस् तेषु मण्डलेष्व् अग्न्यादिदेवतापूजनं कार्यम् । मण्डलपरिमाणम् आह स एव

[१०२] द्वात्रिंशदङ्गुलं प्राहुर् मण्डलान् मण्डलान्तरम् ।

    अष्टभिर् मण्डलैर् एवम् अङ्गुलानां शतद्वयम् ॥


    षट्पञ्चाशत्समधिकं भूमेस् तु परिकल्पना ।

मण्डलान्तरं अन्यन् मण्डलम् । एकैकं सान्तरालं मण्डलं द्वात्रिंशदङ्गुलम् । एवं चाष्टभिर् मण्डलैर् अन्तरालाष्टकसहितैर् अङ्गुलानां षट्पञ्चाशदधिकं शतद्वयं भवति । नवमं तु मण्डलम् अपरिमिताङ्गुलकम् इति न तद् अस्यां गणनायां निविशते । सान्तरालं मण्डलं द्वात्रिंशदङ्गुलं तत्र षोडशाङ्गुलं मण्डलं षोडशाङ्गुलं तदन्तरालम् इत्य् आह याज्ञवल्क्यः (२.१०६) ।

	षोडशाङ्गुलकं ज्ञेयं मण्डलं तावद् अन्तरम् ।

तावत् षोडशाङ्गुलम् । अन्तरं मध्यम् । यदि दिव्यकर्तुः पदं षोडशाङ्गुलाद् अधिकं तदा तत्पदसंमितं मण्डलम् अवशिष्टाङ्गुलम् अन्तरालम् इति द्वात्रिंशदङ्गुलता सान्तरालस्य मण्डलस्य सम्पादनीया । अत एव नारदः (ऋणादान २९९) ।

	मण्डलस्य प्रमाणं तु कुर्यात् तत्पदसंमितम् ।

पितामहो ऽपि ।

    द्वात्रिंशदङ्गुलं प्राहुर् मण्डलान् मण्डलान्तरम् ।


    कर्तुः पदसमं कार्यं मण्डलं तु प्रमाणतः ॥

यत् तु नारदवाक्यं (ऋणादान २८५ - २८६),

    द्वात्रिंशदङ्गुलं प्राहुर् मण्डलान् मण्डलान्तरम् ।


    अष्टाभिर् मण्डलैर् एवम् अङ्गुलानां शतद्वयम् ॥


    चत्वारिंशत् समधिकं भूमेर् अङ्गुलमानतः । इति

तत्र नवमाष्टमयोर् मण्डलयोर् यद् अन्तरालं षोडशाङ्गुलं तस्य गन्तव्यत्वाद् अनन्तर्भावेनाङ्गुलपरिगणनम् इति न विरोधः । यत् तु एतद् एव वाक्यं कल्पतरौ चतुर्विंशतिर् आख्याता भूमेस् तु परिकल्पना इत्य् एवं पठितं तत्र **[१०३] **षोडशाङ्गुलस्य प्रथमस्यावस्थानमण्डलस्यागन्तव्यत्वेन तद् अप्य् अनन्तर्भाव्य गम्यभूमेर् अङ्गुलानां परिगणनम् इति न विरोधः । अङ्गुलप्रमाणं तु धटविधिप्रकरणे दर्शितम् । यत् तु विष्णुवाक्यं (११.२) “षोडशाङ्गुलं तावदन्तरं मण्डलसप्तकं कुर्याद्” इति तद् गन्तव्यमण्डलविषयं ।

	स तम् आदाय सप्तैव मण्डलानि शनैर् व्रजेत् । 

इति याज्ञवल्क्यवचनेन (य्ध् २.१०६) समानार्थं द्रष्टव्यम् । रत्नाकरे तु एतच् च मण्डलसप्तकं मङ्गलाष्टकलङ्घनासामर्थ्ये इत्य् उक्तम् । प्रोक्षितेष्व् एतेषु प्रागग्राः कुशाः प्रसारणीयाः,

    मण्डले मण्डले देयाः कुशाः शास्त्रप्रचोदिताः ।


    विन्यसेच् च ततः कर्ता तेषु नित्यम् इति स्थितिः ॥ 

इति पितामहस्मरणात् । ततः प्राड्विवाकः प्रथममण्डलाद् दक्षिणतो लौकिकाग्निं प्रतिष्ठाप्य शान्त्यर्थम् अष्टोत्तरशतवारम् आज्यं जुहुयात्,

	शान्त्यर्थं जुहुयाद् अग्नौ घृतम् अष्टोत्तरं शतम् । 

इति वचनात् । होमश् चात्र अग्नये पावकाय स्वाहेति मन्त्रेण कार्य इत्य् उक्तं विज्ञानेश्वराचार्यैः । होमानन्तरं तस्मिन्न् एवाग्नाव् अयःपिण्डप्रतापनं लोहकारेण कार्यम् । तथा च नारदः ( ऋणादान २८८ - २८९) ।

    जात्यैव लोहकारो यः कुशलश् चाग्निकर्मणि । 


    दृष्टप्रयोगश् चान्यत्र तेनायो ऽग्नौ प्रतापयेत् ॥


    अग्निवर्णम् अयःपिण्डं सस्फुलिङ्गं सुरक्षितम् ।

चाण्डालादिस्पर्शो यथा न भवति तथा रक्षितम् । अयःपिण्डस्य परिमाणादिकम् आह पितामहः

    अस्रिहीनं समं कृत्वा अष्टाङ्गुलम् अयोमयम् ।


    पिण्डं तु तापयेद् अग्नौ पञ्चाशत्पलिकं समम् ॥

समम् अस्त्रिहीनं सर्वतोश्रिरहितं सर्वतः समवृत्तम् इति यावत् । अष्टाङ्गुलं अष्टाङ्गुलायामम् । पञ्चाशत्पलिकं पञ्चाशत्पलपरिमितम् । पुनः [१०४] समग्रहणं समन्तात् प्रतापयेद् इत्य् एतदर्थम् । कालिकापुराणे त्व् अयःपिण्डस्य द्वादशाङ्गुलायामत्वम् उक्तं ।

    शतार्धपलिकं वृत्तं द्वादशाङ्गुलम् आयतम् ।


    लौहम् आग्नयं ध्मातं देयं राज्ञाभिशापिने ॥ इति ।

अनयोः पक्षयोर् विकल्पः । शङ्खलिखिताभ्याम् अयःपिण्डस्य षोडशपलत्वम् उक्तं ।

    अथ वा सप्ताश्वत्थपत्रान्तरितं षोडशपलम् अग्निवर्णं लोहपिण्डम् अञ्जलिनादाय सप्तमपदमर्यादं गच्छेत् । इति । 

सप्तमपदमर्यादं सप्तमं मण्डलं यावत् । मर्यादाशब्दो ऽत्राभिविधिपरः । अत्रापि विकल्पः । पौरस्त्यनिबन्धे त्व् “इयं षोडशपलसंख्या असामर्थ्ये” इत्य् उतम् । एतच् चायःपिण्डप्रतापनं त्रिः कर्तव्यं तृतीयतापे तप्यन्तम् इति वक्ष्यमाणनारदवचनलिङ्गात् । त्रिः प्रतापनं लोहशुद्ध्यर्थम् । सुतप्तम् अयःपिण्डम् उदके निक्षिप्य पुनः सन्ताप्योदके निक्षिप्य पुनः प्रतापनम् । तृतीयप्रतापनकाले प्राड्विवाको धर्मावाहनाद्यभियुक्तशिरःपत्रबन्धनान्तं प्रागुक्तं सकलदिव्यसाधारणं कर्मजातं कुर्यात् । वह्निपूजायां पुष्पादिविशेषम् आह पितामहः

    तत्र पूजां हुताशस्य कारयेन् मनुजाधिपः ।


    रक्तचन्दनधूपाभ्यां रक्तपुष्पैस् तथैव च ॥

तत्र अयःपिण्डाग्नौ हुताशस्य आवाहितस्य धर्मरूपस्याग्नेः । एतदनन्तरम् अभियुक्तकर्तव्यम् आह हारीतः

    प्राङ्मुखस् तु तत स्तिष्ठेत् प्रसारितकराङ्गुलिः ।


    आर्द्रवासाः शुचिश् चैव शिरस्यारोप्य पत्रकम् ॥

अवस्थानं च प्रथमे मण्डले कर्तव्यम् । तथा च पितामहः

    प्रथमे मण्डले तिष्ठेत् प्राङ्मुखः प्राञ्जलिः शुचिः ।

तत्र स्थितस्य शोध्यस्य करशोधनं कार्यम् इत्य् आह स एव

    लक्षयेयुः क्षतादीनि हस्तयोस् तस्य कारिणः ।

कारिणः कार्यार्थनियुक्ताः पुरुषाः । नारदो ऽपि ।

[१०५] लक्षयेत् तस्य चिह्नानि हस्तयोर् उभयोर् अपि ।

	प्राकृतानि च गूढानि सव्रणान्य् अव्रणानि च ॥

शोधनप्रकारम् आह विष्णुः (११.१०) ।

	करौ विमृदितव्रीही तस्यादाव् एव लक्षयेत् ।

विमृदिता व्रीहयो याभ्यां तौ तथोक्तौ । व्रीहिभिर् विमर्दनं तयोर् यथावस्थितरूपाकलनहेतुः । एवं शोध्यमानयोस् तयोर् व्रणादिचिह्नेषु सत्सु अग्निधारणात् प्राक् स्थितान्य् एतानीति ज्ञानार्थम् अलक्तकादिरसेन तान्य् अङ्कनीयानि । तथा च नारदः (ऋणादान ३०१) ।

    हस्तक्षतेषु सर्वेषु कुर्याद् धंसपदानि तु ।


    तान्य् एव पुनर् आलक्ष्येद् धस्तौ बिन्दुविचित्रितौ ॥

तानि पूर्वकृतानि चिह्नानि । पुनः अग्निधारणानन्तरम् । एतदनन्तरं प्राड्विवाककर्तव्यम् आह याज्ञवल्क्यः (२.१०३) ।

    करौ विमृदितव्रीहेर् लक्षयित्वा ततो न्यसेत् ।


    सप्ताश्वत्थस्य पत्राणि तावत्सूत्रेण वेष्टयेत् ॥

तावत् तावत्कृत्वः सप्तकृत्वः । सूत्रेण वेष्टयेद् इति तावद् इत्यस्य क्रियाविशेषणत्वम् आश्रित्यार्थ उक्तो विज्ञानेश्वराचार्यैः । अस्माकं तु तावतां सूत्राणां समाहारस् तावत्सूत्रं तावत्सूत्रेण सप्तभिः सूत्रैर् वेष्टयेद् इत्य् अयम् अर्थो वचनान्तरसंवादी प्रतिभाति । तावच्छब्दस्य संख्याशब्दत्वात् समाहारे द्विगुः स्त्रीलिङ्गाभावान् न ङीप् त्रिभुवनम् इतिवत् । सप्तकृत्वो वेष्टनं तु वाक्यानुपलम्भे ऽपि शिष्टाचारतो ग्राह्यम् । सप्तभिः शुल्कैः सूत्रैर् अश्वत्थपत्रादिसहितं हस्तद्वयं वेष्टनीयं,

	वेष्टयीत सितैर् हस्तौ सप्तभिः सूत्रतन्तुभिः । 

इति नारदेनाभिधानात् । अश्वत्थपत्रैः सप्तभिर् अपि मिथः समैर् भाव्यं,

	पत्रैर् अञ्जलिम् आपूर्य आश्वत्थैः सप्तभिः समैः । 

इति स्मरणात् । सप्त शमीपत्राण्य् अक्षतान् सप्त दूर्वापत्राणि दध्यक्ताक्षतांश् चाश्वत्थपत्राणाम् उपरि स्थापयेत्,

[१०६] सप्तपिप्पलपत्राणि शमीपत्राण्य् अथाक्षतान् ।

	दूर्वायाः सप्त पत्राणि दध्यक्तांश् चाक्षतान् न्यसेत् ॥ 

इति वचनात् । पुष्पाण्य् अपि तत्र स्थापनीयानीत्य् आह पितामहः

    सप्तपिप्पलपत्राणि अक्षतान् सुमनो दधि ।


    हस्तयोर् निक्षिपेत् तत्र सूत्रेणावेष्टनं तथा ॥

सुमनसः पुष्पाणि । सूत्रेणेति जाताव् एकवचनम् । यत् तु

    अयस्तप्तं तु पाणिभ्यामर्कपत्रैस्तु सप्तभिः ।


    अन्तर्हितं हरन् शुद्धस् त्व् अदग्धः सप्तमे पदे ॥

इत्य् अर्कपत्राणां विधानं तद् अश्वत्थपत्राणाम् अलाभे वेदितव्यम् । अत एवाश्वत्थपत्राणां मुख्यतावगमनाय तानि प्रशंसति पितामहः

    पिप्पलाज् जायते वह्निः पिप्पलो वृक्षराट् स्मृतः ।


    अतस् तस्य तु पत्राणि हस्तयोर् निक्षिपेद् बुधः ॥ इति ।

ततः सम्यक् प्रतप्ते ऽयःपिण्डे प्राड्विवाकस् तत्रस्थम् अग्निं त्वम् अग्ने वेदा इत्यादिमन्त्रेणाभिमन्त्रयेत् । स च मन्त्रो दर्शितः पितामहेन

    त्वम् अग्ने वेदाश् चत्वारस् त्वं च यज्ञेषु हूयसे ।


    त्वं मुखं सर्वदेवानां त्वं मुखं ब्रह्मवादिनाम् ॥


    जठरस्थो हि भूतानां ततो वेत्सि शुभाशुभम् ।


    पापं पुनासि वै यस्मात् तस्मात् पावक उच्यते ॥


    पापेषु दर्शयात्मानम् अर्चिष्मान् भव पावक ।


    अथ वा शुद्धभावेषु शीतो भव हुताशन ॥


    त्वम् अग्ने सर्वभूतानाम् अन्तश् चरसि साक्षिवत् ।


    त्वम् एव देव जानीषे न विदुर् यानि मानवाः ॥


    व्यवहाराभिशस्तो ऽयं मानुषः शुद्धिम् इच्छति ।


    तद् एनं संशयाद् अस्माद् धर्मतस् त्रातुम् अर्हसि ॥

एतदनन्तरं शोध्यो ऽप्य् अग्निं मन्त्रयते । अभिमन्त्रितवतश् च तस्य हस्तयोर् अयःपिण्डं स्थापयेत् । तद् एतद् आह याज्ञवल्क्यः ( २.१०४-१०५) ।

**[१०७] **त्वम् अग्ने सर्वभूतानाम् अन्तश् चरसि पावक ।

    साक्षिवत् पुण्यपापेभ्यो ब्रूहि सत्यं कवे मम ॥


    तस्येत्य् उक्तवतो लोहं पञ्चाशत्पलिकं समम् ।


    अग्निवर्णं न्यसेत् पिण्डं हस्तयोर् उभयोर् अपि ॥

पुण्यपापेभ्य इति ल्यब्लोपे पञ्चमी । पुण्यपापानि पर्यालोच्येत्य् अर्थः ।

ब्रूहि दर्शय । हस्तयोः अश्वत्थपत्रादिसहितयोः सूत्रैर् वेष्टितयोर् हस्तयोर् इत्य् अर्थः । अयःपिण्डस्थापनं राज्ञा प्राड्विवाकेनान्येन वा सन्दंशेन गृहीत्वा कर्तव्यम् । तथा च पितामहः

    ततस् तं समुपादाय राजा धर्मपरायणः ।


    सन्दंशेन नियुक्तो वा हस्तयोस् तस्य निक्षिपेत् ॥

सन्दंशेन तम् उपादायेत्य् अन्वयः । गृहीतायःपिण्डस्य शोध्यस्य कर्तव्यम् आह विष्णुः (११। ५-७) ।

    ततस् तत्राग्निवर्णं लोहपिण्डं पञ्चाशत्पलिकं समं दद्यात् तं समादाय नातिद्रुतं न च विलम्बितं मण्डलेषु पदन्यासं कुर्वन् व्रजेत् । ततः सप्तमं मण्डलम् अतीत्य भूमौ लोहपिण्डं पातयेत् । इति । 

मण्डलेषु द्वितीयादिमण्डलेषु । सप्तममण्डलम् अतीत्य सप्तममण्डलम् अतिक्रम्याष्टमं मण्डलं गत्वेत्य् अर्थः । भूमौ शुष्काभिनवतृणपुञ्जान्वितायां नवममण्डलरूपायां भूमाव् इत्य् अर्थः, वक्ष्यमाणवचनानुरोधात् । नारदो ऽपि (२.२९६ - २९९) ।

    हस्ताभ्यां तं समादाय प्राड्विवाकसमीरितः ।


    स्थित्वैकस्मिंस् ततो ऽन्यानि व्रजेत् सप्त त्व् अजिह्मगः ॥


    असंभ्रान्तः शनैर् गच्छेद् अक्रुद्धः सो ऽनलं प्रति ।


    न पातयेत् ताम् अप्राप्य या भूमिः परिकल्पिता ॥


    न मण्डलम् अतिक्रामेन् न चार्वाक् स्थापयेत् पदम् ।


    मण्डलं चाष्टमं गत्वा ततो ऽग्निं विसृजेन् नरः ॥

एकस्मिन् प्रथमे मण्डले । अग्निं विसृजेत् नवमे मण्डले शेषः । अत एव पितामहः

[१०८] त्वरमाणो न गच्छेत् तु स्वस्थो गच्छेच् छनैः शनैः ।

    न मण्डलम् अतिक्रामेन् नान्तरा स्थापयेत् पदम् ॥


    अष्टमं मण्डलं गत्वा नवमे निक्षिपेद् बुधः ।

नवमे मण्डले नूतनतृणसमन्विते ऽग्निविसर्गः कार्यः,

    मण्डलानि तथा सप्त षोडशाङ्गुलमानतः ।


    तावद् अन्तरतो गच्छेद् गत्वा नवतृणे क्षिपेत् ॥ इति

कालिकापुराणवचनात् । अयःपिण्डविसर्गानन्तरं परीक्षकैर् यत् कार्यं तद् आह नारदः

	तस्यैवं मुक्तपिण्डस्य कुर्यात् करनिरीक्षणम् ।


    पूर्वदृष्टेषु चिह्नेषु ततो ऽन्यत्रापि लक्षयेत् ॥


    मण्डलं रक्तसंकाशं यत्रान्यद् वाग्निसम्भवम् ।


    सो ‘विशुद्धस् तु विज्ञेयो सत्यधर्मव्यवस्थितः ॥


    यदा तु न विभाव्येते दग्धाव् इति करौ तदा ।


    व्रीहीन् अतिप्रयत्नेन सप्तवारांस् तु मर्दयेत् ॥


    मर्दिते यदि नो दग्धः सभ्यैर् एवं विनिश्चितम् ।


    शोध्यः शुद्धः स संस्कृत्य दग्धो दण्ड्यो यथाक्रमम् ॥

ततो ‘न्यत्रापि चिह्नरहितप्रदेशे ‘पि । न विभाव्येते न निश्चीयेते । विष्णुः (११.८) ।

    यो हस्तयोः क्वचिद् दग्धस् तम् अशुद्धं विदुर् बुधाः ।


    न दग्धं (दग्धः ?) सर्वथा यस् तु स विशुद्धो भवेन् नरः ॥

यवानां वा मर्दनं कार्यम् इत्य् आह पितामहः

    ततस् तद्धस्तयोः प्रास्येद् व्रीहीन् वा यदि वा यवान् ।


    निर्विशङ्केन तेषां तु हस्ताभ्यां मर्दने कृते ॥


    निर्विकारे दिनस्यान्ते शुद्धिं तस्य विनिर्दिशेत् ।

[१०९] प्रास्येत् प्रक्षिपेत् । क्वचिन् निर्विकारो यदा हस्त इति पाठः । तस्मिन् पाठे दिनान्तलक्षणकालबोधकाभावात् तदैव शुद्ध्यवधारणम् । न च दिनान्त इति पाठे

	मुक्त्वानिं मृदितव्रीहिर् अद्य (अदग्धः?) शुद्धिम् अवाप्नुयात् 

		(शुद्धिम् आप्नुयात् ? ) ।

इति याज्ञवल्क्यवचनविरोधः (य्ध् २.१०७) । तत्र मुक्त्वेत्य् आनन्तर्यार्थस्य क्त्वाप्रत्ययस्य प्रयोगेण कृतत्रीहिमर्दनयोः करयोर् विकारस्यादर्शने तप्तायःपिण्डविमोकानन्तरम् एव शुद्धिर् अवधारणीयेत्य् अभिधानाद् इति वाच्यं क्त्वाप्रत्ययस्य हि पूर्वकालत्वम् अर्थो न त्व् आनन्तर्यं - समानकर्तृकयोः पूर्वकाले ( पा। ३। ४। २१ ) इति पाणिनिस्मरणाद् धारियोजनयागस्य संस्रावस्रुग्विमोकाभ्यां व्यवधानेन परिधिप्रहरणानन्तर्याभावे ‘पि वेदे प्रहृत्य परिधीञ् जुहोति - इति क्त्वाप्रयोगदर्शनाल् लोके ‘पि गमनस्योपवेशनादि-क्रियान्तरव्यवधानेन भोजन्मनेतयो भावे ‘पि (? भोजनानन्तर्याभावे ‘पि ) भुक्त्वा गच्छतीति प्रयोगदर्शनाच् च । किं च क्त्वाप्रत्ययस्यानन्तर्यार्थत्वे पूर्वमीमांसाधिकरणविरोधः । तत्र हि वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेत - इति वाक्येन विधीयमानो बृहस्पतिसवः किं शरदि वाजपेयेन इति श्रुते प्रधानकाले शरदि प्रधानेन सहैकप्रयोगनिवेशी कर्तव्य उत प्राकृतत्वाद् अतिदेशतः प्राप्ते स्वकाले वसन्ते ऽनुष्ठेय इति संशय्य शरदि वाजपेयेनेत्य् अनेन न करणभूतो वाजपेयः शरदि कर्तव्यतया चोद्यते किं तर्हि वाजपेयकरणक इतिकर्तव्यताविशिष्टो यः प्रयोगफलभावनादिशब्दव्यपदेश्यः पुंव्यापारः फलार्थस् तस्य कालो विधीयते । शरदि वाजपेयेनेति तृतीयान्तेन पदेन फलसामग्रीभूतस्य तस्य निर्देशात् फलार्थत्वाच् चिकीर्षितस्य तस्य तत्कालापेक्षितत्वाच् च । ततश् च तस्य व्यापारस्याङ्गप्रधानव्यासक्तत्वात् प्रधानवद् अङ्गानाम् अपि तत्कालयोगः समान इति वाजपेयवद् बृहस्पतिसवस्यौपदेशिककालेनातिदेशिकः कालो बाध्यते । न चायम् औपदेशिकः कालो बृहस्पतिसवव्यतिरिक्तेष्व् अङ्गेषु सावकाशत्वाद् बृहस्पतिसवे नातिदेशिकं कालं बाधितुं प्रभवतीति वाच्यं, अतिदेशस्यापि कालव्यतिरिक्ताङ्गेषु सावकाशत्वेनेतराङ्गेष्व् इव बृहस्पतिसवे ‘पि निरर्गलतया प्रवर्तमानं कालविधिं **[११०] **सङ्कोचयितुं न सामर्थ्यम् इति वक्तुं सुशकत्वात् । तस्मात् सावकाशत्वस्याप्रयोजकत्वेनौपदेशिकेनातिदेशिकस्य बाधनाद् बृहस्पतिसवः प्रधानेन सह शरदि कर्तव्य इति पूर्वपक्षं कृत्वा सिद्धान्तितम् । सत्यम् औपदेशिकेनातिदेशिकं बाध्यते । इह त्व् औपदेशिकस्य न सम्भवः । तथा हि वाजपेयकरणकः सेतिकर्तव्यताको यः फलभावनारूपः पुंव्यापारः शरदि वाजपेयेनेति कालविधिना शरत्काले कर्तव्यतया चोदितस् तं क्त्वाप्रत्ययेन निर्दिश्य ततः पश्चात्तनत्वेन वाजपेयेनेष्ट्वा बृहस्पतिसवेनेति विधीयमानो बृहस्पतिसवो वाजपेयप्रयोगबहिर्भावान् न तत्कालं भजते । तथा च वाजपेये कृते कर्तव्यो बृहस्पतिसवस् तदनन्तरकालातिक्रमकारणस्यातिदेशकृतस्य वसन्तकाललक्षणाङ्गोपसंहारस्य सत्त्वात् तदुत्तरवसन्तकाले कर्तव्यः । क्त्वा च पूर्वकालतायां स्मर्यते नानन्तर्ये । तन्निष्पन्नम् अपि वाजपेयापूर्वं तदुत्तरवसन्तकाले ऽनुष्ठीयमानेन बृहस्पतिसवेन बलवत् क्रियते इति ॥ केषुचिन् निमित्तेषु पुनर् अग्निधारणं कार्यम् । तथा च कात्यायनः (४४१) ।

    प्रस्खलत्य् अभियुक्तश् चेत् स्थानाद् अन्यत्र दह्यते ।


    न तं दग्धं विदुर् देवास् तस्य भूयो ऽपि दापयेत् ॥

याज्ञवल्क्यः (२.१०७) ।

	अन्तरा पतिते पिण्डे सन्देहे वा पुनर् हरेत् ।

अन्तरा पतिते पिण्डे पुनर्हरणे यदि हस्तयोर् न दाहस् तदा वेदितव्यम् । दाहे त्व् अशुद्धिर् एव । अत एव नारदः (ऋणादान २९८) ।

    यस् त्व् अन्तरा पातयति दग्धश् च न विभाव्यते ।


    पुनस् तं हारयेद् अग्निं स्थितिर् एषा दृढीकृता ॥

इति श्रीकोदण्डपरशुरांमेति व्यवहारविवेकोद्द्द्योते अग्निविधिः ॥ ९ ॥

**पोस्सिब्ले रेअदिन्ग् ओफ़् थे देफ़ेच्तिवे तेxत्-

इति श्रीकोदण्डपरशुरामेत्यादिविविधबिरुदावलीविराजमानमानोन्नत-महाराजाधिराजश्रीशक्तिसिंहात्मजमहाराजाधिराजश्रीमदनसिंहदेवविरचिते मदनरत्नप्रदीपे व्यवहारविवेकोद्द्योते अग्निविधिः ॥९॥

अथ जलविधिः ।

तत्र पितामहः

    तोयस्यातः प्रवक्ष्यामि विधिं धर्म्यं सनातनम् ।


    मण्डलं धूपदीपाभ्यां कारयेत विचक्षणः ॥


    शरान् संपूजयेद् भक्त्या वैणवं च धनुस् तथा ।


    मङ्गलैः पुष्पधूपैश् च ततः कर्म समाचरेत् ॥

[१११] शरान् धूपदीपाभ्यां संपूजयेद् इत्य् अन्वयः । जलसमीपे संस्कृतायां भुवि मण्डलं कृत्वा शरादिकं सम्पूज्य प्रयोगप्रारम्भः कर्तव्य इत्य् अर्थः । धनुषः प्रमाणं लक्ष्यस्थानं च नारदेन दर्शितम् (ऋणादान ३०७) ।

    क्रूरं धनुः सप्तशतं मध्यमं षट्शतं स्मृतम् ।


    मन्दं पञ्चशतं ज्ञेयम् एष ज्ञेयो धनुर्विधिः ॥


    मध्यमेन तु चापेन प्रक्षिपेच् च शरत्रयम् ।


    हस्तानां तु शते सार्धे लक्ष्यं कृत्वा विचक्षणः ॥


    न्यूनाधिके तु दोषः स्यात् क्षिपतः सायकांस् तथा ।

सप्तशतं सप्ताधिकशताङ्गुलम् । एवं षट्शतं पञ्चशतं च । शरा अनायसाग्रा वैणवाश् च कार्याः । तथा च कात्यायनः (४४२) ।

    शरांश् चानायसाग्रांस् तु प्रकुर्वीत विशुद्धये ।


    वेणुकाण्डमयांश् चैव क्षेप्ता तु सुदृढं क्षिपेत् ॥

मण्डलसमीपे तोरणं शोध्यकर्णप्रमाणोच्छ्रितं कार्यम् । तथा च नारदः

    गत्वा तु तज् जलस्थानं तटे तोरणम् उच्छ्रितम् ।


    कुर्वीत कर्णमात्रं तु भूमिभागे समे शुचौ ॥

जले विशेषं दर्शयति पितामहः

    स्थिरे तोये निमज्जेत् तु न ग्राहिणि न चाल्पके ।


    तृणशैवालरहिते जलौकामत्स्यवर्जिते ॥


    देवखातेषु यत् तोयं तस्मिन् कुर्याद् विशोधनम् ।


    आहार्य वर्जयेन् नित्यं शीघ्रवेगनदीषु च ॥

ग्राहिणि ग्राहाख्यजलजन्तुयुक्ते । आहार्यं नद्यादित आहृत्य महति कटाहादौ स्थापितम् । नारदः (ऋणादान ३०५) ।

    नदीषु नातिवेगासु तडागेषु सरःसु च ।


    ह्रदेषु स्थिरतोयेषु कुर्यात् पुंसां निमज्जनम् ॥

[११२] नातिवेगासु अवस्थितिविरोधिवेगरहितासु । तत्र जले प्राड्विवाको वरुणं पूजयेत् । तद् आह नारदः

    गन्धमाल्यैः सुरभिभिर् मधुक्षीरघृतादिभिः ।


    वरुणस्य** प्रकुर्वीत पूजाम् आदौ समाहितः ॥

ततो नाभिमात्रे जले कश्चिद् दृढकायः स्थापनीयः । तथा च नारदः (ऋणादान ३०८) ।

    ब्राह्मणः क्षत्रियो वैश्यो रागद्वेषविवर्जितः ।


    नाभिमात्रे जले स्थाप्यः पुरुषः स्थाणुवद् बली ॥

अनेन पुरुषेण यज्ञियवृक्षोद्भवां धर्मस्थूणाम् अवष्टभ्य प्राङ्मुखेन स्थातव्यं,

	उदके प्राङ्मुखस् तिष्ठेद् धर्मस्थूणां प्रगृह्य च । 

इति वचनात् । ततः प्राड्विवाकः प्रागुक्तक्रमेण धर्मावाहनपूजनादिहोमान्तं कृत्वा शोध्यशिरसि प्रतिज्ञापत्रारोपणं च विधाय जलाभिमन्त्रणं कुर्यात् । तथा च पितामहः

    स्थापयेत् प्रथमं तोये स्तम्भवत् पुरुषं नृपः ।


    आगतं प्राङ्मुखं कृत्वा तोयमध्ये तु कारिणम् ॥


    ततस् त्व् आवाहयेद् देवान् सलिलं चानुमन्त्रयेत् ।

स्तम्भवत् पुरुषं स्तम्भसमन्वितं पुरुषम् । देवावाहनं पूर्वोक्तस्य सकलदिव्यसाधारणस्य प्रतिज्ञापत्रबन्धनान्तस्य कर्मजातस्योपलक्षणम् । सलिलग्रहणं सलिलदेवताभूतस्य वरुणस्याप्य् उपलक्षणम् । जलाभिमत्रणमत्रश् च पितामहेन दर्शितः ।

    तोय त्वं प्राणिनां प्राणः सृष्टेर् आद्यं तु निर्मितम् ।


    शुद्धेस् त्वं कारणं प्रोक्तं द्रव्याणां देहिनां तथा ॥


    अतस् त्वं दर्शयात्मानं शुभाशुभपरीक्षणे ।

विष्णुनापि (१२.७–८) ।

    त्वम् अम्भः सर्वभूतानाम् अन्तश् चरसि साक्षिवत् ।


    त्वम् एवाम्भो विजानीषे न विदुर् यानि मानवाः ॥

[११३] व्यवहाराभिशस्तो ऽयं मानुषस् त्वयि मज्जति ।

	तद् एनं संशयाद् अस्माद् धर्मतस् त्रातुम् अर्हसि ॥

अनयोर् मन्त्रयोस् तुल्यार्थत्वाद् विकल्पः । वरुणाभिमन्त्रणमन्त्रश् च दर्शितो नारदेन (ऋणादान ३१६-३१७) ।

    सत्यासत्यविभागस्य तोयाग्नी स्पष्टकृत्तमौ ।


    अद्भ्यश् चाग्निर् अभूद् यस्मात् तस्मात् तोये विशेषतः ॥


    क्रियते धर्मतत्त्वज्ञैर् दूषितानां विशोधनम् ।


    तस्मात् सत्येन भगवञ् जलेश त्रातुम् अर्हसि ॥

शङ्खलिखिताभ्याम् अपि ।

    सद् असच् च त्वम् एव वरुण उभयोः प्रतिष्ठितस् त्वं त्वयि सत्यं त्व् इदं देव वरुण त्वम् एव तद् ब्रूहि वरेण्य तदादिशस् त्वेति ।

अनयोश् व विकल्पः । ततो ऽभिमन्त्रिते जले प्राड्विवाकः शोध्यं प्रवेशयेत् । तथा च कालिकापुराणे

    पाह्य् एनं वरुण त्वं च अस्माद् एवाभिशापतः ।


    शुद्धश् चेद् अतिकारुण्याद् अभिमत्र्य जले क्षिपेत् ॥

पाह्य् एनम् इत्यादिना अतिकारुण्याद् इत्यन्तेन मन्त्रेणाभिमन्त्र्य जले पुरुषं प्रवेशयेद् इत्य् अर्थः । अयं च मन्त्रो वैकल्पिकः । शोध्यो कृताभिमन्त्रणो जलं प्रविशेद् इत्य् आह याज्ञवल्क्यः (२.१०८) ।

    सत्येन माभिरक्ष त्वं वरुणेत्य् अभिशाप्य कम् ।


    नाभिदध्नोदकस्थस्य गृहीत्वोरू जलं विशेत् ॥

कं उदकं अभिशाप्य सत्येनेत्यादिमन्त्रेणाभिमत्र्य । एतदनन्तरं पूर्वोक्ते लक्ष्यस्थाने शरत्रयं प्रक्षिपेत् । तथा च बृहस्पतिः

	अप्सु प्रवेश्य पुरुषं प्रेषयेत् सायकत्रयम् । इति ।

शरप्रक्षेप्तुर् विशेषम् आह पितामहः

[११४] क्षेप्ता तु क्षत्रियः कार्यस् तद्वृत्तिर् ब्राह्मणो ऽपि वा ।

	अक्रूरहृदयः शान्तः सोपवासस् तथा शुचिः ॥

कालविशेषे देशविशेषे च शरप्रक्षेपं निषेधति स एव

    इषुं न प्रक्षिपेद् विद्वान् मारुते वाति वै भृशम् । 


    विषमे भूप्रदेशे च वृक्षस्थाणुसमाकुले ॥ इति ।

त्रिष्व् अपि शरेषु मुक्तेषु द्वयोर् धावकयोः पुरुषयोर् मध्य एकस्मिन् पुरुषे मध्यमशरपातस्थानं गत्वा तं शरं गृहीत्वा स्थिते अपरस्मिन् धावके पुरुषे तोरणसमीपे स्थिते प्राड्विवाकः कालबोधनार्थं करतालिकायं दद्यात् । तत्र तृतीयस्यां करतालिकायां शोध्यः पुरुषो नाभिदध्नोदकस्थस्य पुरुषस्योरू गृहीत्वा निमज्जेत् । तत्समकाल एव तोरणसमीपस्थितो धावकः पुरुषो धावन् मध्यमशरस्थानं गच्छेत् । तथा च कात्यायनः (४४३) ।

	क्षिप्तेषु मज्जनं कार्यं गमनं समकालिकम् ।

क्षिप्तेषु शरेषु । तोरणसमीपस्थे धावके मध्यमशरपातस्थानं प्राप्ते तदैवेतरो धावकस् ततः स्थानान् मध्यमशरम् आदाय तोरणस्थानं धावन्न् आगच्छेत् । स आगतो यदि शोध्यं न पश्यति जले तस्य सम्यङ् निमग्नत्वात् तर्हि स शुद्धः । यद्य् उन्मग्नस्य तस्य किम् अपि कर्णादिकम् अङ्गं दृश्यते यदि वा स यत्र निमग्नस् ततः स्थानान्तरं गच्छेत् तदा त्व् अशुद्धः । तथा च नारद-पितामहौ (नारद, ऋणादान ३०९ - ३१२) ।

    शरप्रक्षेपणस्थानाद् युवा जवसमन्वितः ।


    गच्छेत् परमया शक्त्या यत्रासौ मध्यमः शरः ॥


    मध्यमं शरम् आदाय पुरुषो ऽन्यस् तथाविधः ।


    प्रत्यागच्छेत् तु वेगेन यतः स पुरुषो गतः ॥


    आगतस् तु शरग्राही न पश्यति यदा जले ।


    अन्तर्जलगतं सम्यक् तदा शुद्धं विनिर्दिशेत् ॥

[११५] अन्यथा न विशुद्धः स्याद् एकाङ्गस्यापि दर्शनात् ।

	स्थानाद् वान्यत्र गमनाद् यस्मिन् पूर्वं निवेशितः ॥

काङ्गस्य्एत्य् एतत् कर्णाद्यभिप्रायेण । अत एव कात्यायनः (४४४) ।

    शिरोमात्रं तु दृश्येत न कर्णौ नापि नासिका ।


    अप्सु प्रवेशने यस्य शुद्धं तम् अपि निर्दिशेत् ॥

मध्यमशरस्य प्रहणं पतनस्थानाद् एव न सर्पणस्थानात् । अत एव पितामहः

    शरस्य पतनं ग्राह्यं सर्पणं परिवर्जयेत् ।


    सर्पन् सर्पञ् शरो याति दूराद् दूरतरं यतः ॥

शरानयनार्थं नियुक्तयोर् धावकयोर् लक्षणम् आह नारदः

    पञ्चाशतो धावकानां यौ स्याताम् अधिको जवे ।


    तौ च तत्र नियोक्तव्यौ शरानयनकारणात् ॥

इति श्रीकोदण्डपरशुरामे व्यवहारविवेकोद्द्योते जलविधिः ॥ १० ॥

**पोस्सिब्ले रेअदिन्ग् ओफ़् थे देफ़ेच्तिवे तेxत्-

इति श्रीकोदण्डपरशुरामेत्यादिविविधबिरुदावलीविराजमानमानोन्नत-महाराजाधिराजश्रीशक्तिसिंहात्मजमहाराजाधिराजश्रीमदनसिंहदेवविरचिते मदनरत्नप्रदीपे व्यवहारविवेकोद्द्योते जलविधिः ॥१०॥

अथ विषविधिः ।

तत्र नारदः ( ऋणादान ३१८-३२०, ३२२, ३२४) ।

    अतः परं प्रवक्ष्यामि विषस्य विधिम् उत्तमम् ।


    यस्मिन् काले यथा देयं यादृशं परिकीर्तितम् ॥


    यावन्मात्रं समुद्दिष्टं धर्मतत्त्वानुवेदिभिः ।


    लोलयित्वेप्सिते काले देयम् एतद् धिमागमे ॥


    नापराह्णे न मध्याह्ने सन्ध्यायां च विवर्जयेत् ।


    शार्ङ्गं हैमवतं शस्तं वर्णगन्धरसान्वितम् ॥


    अकृत्रिमम् असंमूढम् अमन्त्रोपहतं च यत् ।


    वर्षे चतुर्यवा मात्रा ग्रीष्मे पञ्चयवा स्मृता ॥


    हेमन्ते सा सप्तयवा शरद्य् अल्पा ततो ऽपि हि ।

हिमागमे हेमन्तशिशिरयोः । शार्ङ्गं शृङ्गोद्भवम् । हैमवतं **[११६] **हिमालयोद्भवम् । हेमन्ते इति हेमन्तशिशिरयोर् ग्रहणम् । शरदि ततो ऽप्य् अल्पा षड्यवेत्यर्थः । वत्सनाभस्यापि ग्राह्यताम् आह पितामहः

    यवाः सप्त प्रदातव्याः शुचिहेतोर् असंशयम् ।


    शृङ्गिणो वत्सनाभस्य हिमजस्य विषस्य वा ॥

यवाः सप्तेति शीतकालविषयं पूर्वोदाहृतवचनात् । शृङ्गिविषस्य स्वरूपं दर्शयति कात्यायनः (४४६ - ४४७) ।

    अजाशृङ्गनिभं श्यामं सुपीतं शृङ्गसम्भवम् ।


    भङ्गे च शृङ्गवेराभं ख्यातं तच् छार्ङ्गिणं विषम् ॥


    रक्तस्थम् असितं कुर्यात् कठिनं चैव तत्क्षणात् ।


    अनेन विधिना ज्ञेयं विषं दिव्यविशारदैः ॥

भङ्गे छेदने । शृङ्गवेराभं आर्द्रकसंकाशम् । भङ्गे आर्द्रकसङ्काशं सुपीतम् इत्य् अन्वयः । शार्ङ्गिणं शृङ्गिणां सम्बन्धि । इनण्यनपत्ये ( पा। ६.४.१६४ ) - इति प्रकृतिभावान् न टिलोपः । यद् रक्तस्थं तत्क्षणात् रक्तम् असितं कठिनं च कुर्याद् इति सम्बन्धः । वत्सनाभस्वरूपम् अपि दर्शयति स एव (कात् ४४८ - ४४९) ।

    वत्सनाभनिभं पीतं वर्णज्ञानेन निश्चितम् ।


    शुक्तिशृङ्गाकृतिं भङ्गे विद्यात् तद् वत्सनाभकम् ॥


    मधुक्षीरसमायुक्तं स्वच्छं कुर्वीत तत्क्षणात् ।


    बाह्यम् एवं समाख्यातं लक्षणं धर्मसाधकैः ॥

वर्ज्यं विषं दर्शयति नारदः

    भृष्टं च चारितं चैव धूपितं मिश्रितं तथा ।


    कालकूटम् अलाबुं च विषं यत्नेन वर्जयेत् ॥

पितामहो ‘पि ।

[१२७] चारितानि च जीर्णानि कृत्रिमाणि तथैव च ।

	भूमिजातानि सर्वाणि विषाणि परिवर्जयेत् ॥

एतच् च विषं सम्यक् पिष्टं त्रिंशद्गुणेन घृतेन मिश्रितं देयम् । तथा च नारदः

    पूर्वाह्णे शीतले देशे विषं देयं तु देहिनाम् ।


    घृतेन योजितं श्लक्ष्णं पिष्टं त्रिंशद्गुणेन तु ॥

एतच् च विषं पूर्वोक्ते दिव्यप्रदेशे देवद्विजसन्निधौ प्राड्विवेकेन शिवपूजां विधाय तस्य पुरतो विषं स्थापयित्वा धर्मावाहनादि प्रतिज्ञापत्रबन्धनान्तं प्रागुक्तं कर्मकलापं विधाय विषम् अभिमन्त्र्योदङ्मुखेन प्राङ्मुखेन वा दक्षिणाभिमुखाय दातव्यम् । तथा च नारदः

    दद्याद् विषं सोपवासो देवब्राह्मणसंनिधौ ।


    धूपोपहारमन्त्रैश् च पूजयित्वा महेश्वरम् ॥


    द्विजानां संनिधाव् एव दक्षिणाभिमुखे स्थिते ।


    उदङ्मुखः प्राङ्मुखो वा दद्याद् विप्रः समाहितः ॥

अभिमन्त्रणमन्त्रश् च नारदेनोक्तः (ऋणादान ३२५) ।

    विष त्वं ब्रह्मणः पुत्रः सत्यधर्मे व्यवस्थितः ।


    शोधयैनं नरं पापात् सत्येनास्यामृतीभव ॥

विष्णुनापि (१३.६ - ७) ।

    विषत्वाद् विषमत्वाच् च क्रूरत्वात् सर्वदेहिनाम् ।


    त्वम् एव विष जानीषे न विदुर् यानि मानवाः ॥


    व्यवहाराभिशस्तो ऽयं मानुषः शुद्धिम् इच्छति ।


    तद् एनं संशयाद् अस्माद् धर्मतस् त्रातुम् अर्हसि ॥

शोध्यस्याभिमन्त्रणमन्त्रं दर्शयति पितामहः

	दीयमानं करे कृत्वा विषस्य परिशापयेत् ।

[११८] विष त्वं ब्रह्मणा सृष्टं परीक्षार्थं दुरात्मनाम् ।

	पापेषु दर्शयात्मानं शुद्धानाम् अमृतं भव ॥

याज्ञवल्क्यो ‘पि (२.११०) ।

    विष त्वं ब्रह्मणः पुत्रः सत्यधर्मे व्यवस्थितः ।


    त्रायस्वास्माद् अभीशापात् सत्येन भव मे ऽमृतम् ॥ इति ।

एवम् अभिमन्त्र्य तद् भक्षणीयम् इत्य् आह स एव (य्ध् २.१११) ।

	एवम् उक्त्वा विषं शार्ङ्गं भक्षयेद् धिमशैलजम् ।

भक्षितं विषं यदि जीर्णं भवति तदा शुद्धः, अन्यथा त्व् अशुद्धः । तथ च बृहस्पतिः

    विधिदत्तं विषं येन जीर्णं मन्त्रौषधैर् विना ।


    स शुद्धः स्याद् अन्यथा तु दण्ड्यो दाप्यश् च तद् धनम् ॥

याज्ञवल्क्यो ‘पि (२.१११) ।

	यस्य वेगैर् विना जीर्येच् छुद्धिं तस्य विनिर्दिशेत् ।

वेगो नाम धातोर् धात्वन्तरप्राप्तिः,

	धातोर् धात्वन्तरप्राप्तिर् विषवेग इति स्मृतः । 

इति वचनात् । धातवस् त्वगादयः सप्त,

	त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः । 

इति वचनात् । विषवेगाश् च सप्त । तेषां लक्षणानि विषतन्त्रे दर्शितानि ।

    वेगो रोमाञ्चमाद्यो रचयति विषजः स्वेदवक्त्रोपशोषौ


    	तस्योर्ध्वस् तत्परौ द्वौ वपुषि जनयतो वर्णभेदप्रवेपौ ।


    यो वेगः पञ्चमो ऽसौ नयनविवशतां कण्ठभङ्गं च हिक्कां


    	षष्ठो निश्वासमोहौ वितरति च मृतिं सप्तमो भक्षकस्य ॥

दिनान्तपर्यन्तं विषवेगराहित्ये शोध्यस्य शुद्धतेत्य् आह नारदः (ऋणादान ३२६) ।

    छायानिवेशितो रक्ष्यो दिनशेषम् अभोजनः ।


    विषवेगक्रमातीतः शुद्धो ऽसौ मनुर् अब्रवीत् ॥

विष्णुः (१३.५) ।

[११९] विषं वेगक्रमातीतं सुखेन यदि जीर्यते ल्

	विशुद्धं तम् इति ज्ञात्वा दिवसान्ते विसर्जयेत् ॥

पितामहः

    भक्षिते यदि स स्वस्थो मूर्च्छाछर्दिविवर्जितः ।


    निर्विकारो दिनस्यान्ते शुद्धं तम् इति निर्दिशेत् ॥

शोध्यो राज्ञा कंचित् कालं कुहकादिभ्यो रक्षणीयः । तथा च पितामहः

    त्रिरात्रं पञ्चरात्रं वा पुरुषैः स्वैर् अधिष्ठितम् ।


    कुहकादिभयाद् राजा धारयेद् दिव्यकारिणम् ॥


    ओषधीर् मन्त्रयोगांश् च मणीन् अथ विषापहान् ।


    कर्तुः शरीरसंस्थांस् तु गूढोत्पन्नान् परीक्षयेत् ॥

विज्ञानेश्वराचायैस् तु,

    पञ्चतालशतं कालं निर्विकारो यदा भवेत् ।


    तदा भवति संशुद्धस् ततः कुर्याच् चिकित्सितम् ॥ 

इति नारदवाक्यं पठित्वा करतालिकापञ्चशतीपरिमितं कालं यदि निर्विकारस् तर्हि शुद्धः, अनन्तरं तु चिकित्सनीय इत्य् अभिधाय यत् तु दिनान्तलक्षणावधिबोधकं वाक्यं तद् अल्पमात्राविषयम् इत्य् उक्तम् ।

इति श्रीकोदण्डपरशुरामे ॥।" व्यवहार विवेकोद्यते विषविधिः ॥ ११ ॥

**पोस्सिब्ले रेअदिन्ग् ओफ़् थे देफ़ेच्तिवे तेxत्-

श्रीकोदण्डपरशुरामेत्यादिविविधबिरुदावलीविराजमानमानोन्नत-महाराजाधिराजश्रीशक्तिसिंहात्मजमहाराजाधिराजश्रीमदनसिंहदेवविरचिते मदनरत्नप्रदीपे व्यवहारविवेकोद्द्योते विषविधिः ॥११॥

अथ कोशविधिः ।

तत्र नारदः ( ऋणादान ३२७-३२८) ।

    अतः परं प्रवक्ष्यामि कोशस्य विधिम् उत्तमम् ।


    शास्त्रविद्भिर् यथा प्रोक्तं सर्वकालाविरोधिनम् ॥


    पूर्वाह्णे सोपवासस्य स्नातस्यार्द्रपटस्य च ।


    सशूकस्याव्यसनिनः कोशपानं विधीयते ॥


    इच्छतः श्रद्दधानस्य देवब्राह्मणसन्निधौ ।

सशूकस्य असत्येन दिव्यकरणे ऽनिष्टशङ्कायुक्तस्य । कोशपानं उग्रदेवतास्नापनोदकपानम् । देवतास्नानोदकं च प्रसृतित्रयं ज्ञातव्यम् ।

**[१२०] **तथा विष्णुः (१४। २-३) ।

    उग्रान् देवान् समभ्यर्च्य तत्स्नानोदकात् प्रसृतित्रयं पिबेद् इदं मया न कृतम् इति व्याहरन् देवताभिमुखः । इति । 

उग्रा देवाः दुर्गादयः । स्नापनीयदेवतासु विशेषम् आह पितामहः

    भक्तो यो यस्य देवस्य पाययेत् तस्य तज् जलम् ।


    समभावे तु देवानाम् आदित्यस्य तु पाययेत् ॥


    दुर्गायाः पाययेच् चौरान् ये च शस्त्रोपजीविनः ।


    भास्करस्य तु यत् तोयं ब्राह्मणं तन् न पाययेत् ॥

समभावे सर्वासु देवतासु भक्तिसाम्ये । अल्पे ऽपराधे उपदेवतायुधानि स्नापयित्वा तदुदकं पाययेद् इत्य् आह कात्यायनः (४५२) ।

    स्वल्पे ऽपराधे देवानां स्नापयित्वायुधोदकम् ।


    पाय्यो विकारे चाशुद्धो नियम्यः शुचिर् अन्यथा ॥

पाय्यः पाययितव्यः । नियम्यो दण्ड्यः । आयुधग्रहणं ताम्रादिनिर्मितादित्यमण्डलस्याप्य् उपलक्षणम् । अत एव बृहस्पतिः

    यद्भक्तः सो ऽभियुक्तः स्यात् तद्देवायुधमण्डलम् ।


    प्रक्षाल्य पाययेत् तस्माज् जलात् तु प्रसृतित्रयम् ॥

अत्र विशेषम् आह पितामहः

    दुर्गायाः स्नापयेच् छूलम् आदित्यस्य तु मण्डलम् ।


    अन्येषाम् अपि देवानां स्नापयेद् आयुधानि तु ॥

एतच् च स्नापनोदकपायनं कृतोपवासेन प्राड्विवाकेन देवतायतनसमीपे मण्डलं विधाय तत्र शोध्यं स्थापयित्वा गन्धपुष्पादिभिर् देवताम् अभ्यर्च्य स्नापयित्वा तत्स्नानोदकं मण्डले नीत्वा प्रागुक्तधर्मावाहनादिप्रतिज्ञापत्रबन्धनान्तं कृत्वा शोध्यम् असत्येनैतद् दिव्यकरणे ऽनिष्टं संश्राव्य जलविधाव् उक्तेन तोय त्वं प्राणिनां प्राण इत्यादिना मन्त्रेणाभिमन्त्र्य कर्तव्यम् । शोध्यश् च प्रागुक्तेन सत्यानृतविभागस्येत्यादिना मन्त्रेणाभिमन्त्र्य पिबेत् । अत्र नारदः

[१२१] तम् आहूयाभिशस्तं तु मण्डलाभ्यन्तरे स्थितम् ।

	आदित्याभिमुखं कृत्वा पाययेत् प्रसृतित्रयम् ॥

पितामहः

    प्राङ्मुखं कारिणं कृत्वा पाययेत् प्रसृतित्रयम् ।


    पूर्वोक्तेन विधानेन स्नातम् आर्द्राम्बरं शुचिम् ॥

पूर्वोक्तेन सकलदिव्यसाधारणतया प्रागुक्तेन । याज्ञवल्क्यः (२.११२) ।

    देवान् उग्रान् समभ्यर्च्य तत्स्नानोदकम् आहरेत् ।


    संश्राव्य पाययेत् तस्माज् जलात् तु प्रसृतित्रयम् ॥

नारदः

    अर्चयित्वा तु तं देवं प्रक्षाल्य सलिलेन तु ।


    एनश् च श्रावयित्वा तु पाययेत् प्रसृतित्रयम् ॥

एनः पापफलं कुष्ठाद्युद्भवरूपं तच् च दर्शितं तेनैव

    स्वेच्छया यः पिबेत् कोशं क्वचिच् चेद् दूषितो नरः ।


    न संवदेन् नरो लोभाच् छ्वित्री भवति दुर्मतिः ॥


    जानानः कामकारेण कोशं पीत्वा विसंवदेत् ।


    दरिद्रो व्याधितो मूर्खः सप्तजन्मानि जायते ॥ इति ।

सशिरःस्थे ऽभियोगे ऽभियोक्तुः श्राव्यम् अनिष्टं दर्शयति स एव

    बलात् कोशं द्विजो दत्त्वा हितम् इच्छेत चात्मनः ।


    स विनाशी भवेत् तस्य तच् च कार्यं न सिध्यति ॥

कृतकोशपानस्य शोध्यस्य शुद्धिकालावधिम् आह विष्णुः (१४। ४-५) ।

    यस्य पश्येद् द्विसप्ताहात् त्रिसप्ताहाद् अथापि वा ।


    रोगो ऽग्निर् ज्ञातिमरणं राजातङ्कम् अथापि वा ॥

[१२२] तम् अशुद्धं विजानीयात् तथा शुद्धं विपर्यये ।

कात्यायनः (४५६) ।

    अथ दैवविसंवादस् त्रिसप्ताहात् तु दापयेत् ।


    अभियुक्तं प्रयत्नेन तम् अर्थं दण्डम् एव च ॥

दैवविसंवादः दैविकव्याध्युद्भवः । दैविका व्याधयश् च दर्शितास् तेनैव

    ज्वरातिसारविस्फोटाः शूलास्थिपरिपीडनम् ।


    नेत्ररुग्भालरोगश् च तथोन्मादः प्रजायते ॥


    शिरोरुग्भुजभङ्गश् च दैविका व्याधयो नृणाम् ।

पितामहः

    त्रिरात्रात् सप्तरात्राद् वा द्विसप्ताहाद् अथापि वा ।


    वैकृतं यस्य दृश्येत पापकृत् स तु मानवः ॥

शोध्यपुत्रादेर् अप्य् अतिपीडायां पराजय इत्य् आह बृहस्पतिः

    सप्ताहाद् वा द्विसप्ताहाद् यस्यार्तिर् न प्रजायते ।


    पुत्रदारधनानां च स शुद्धः स्यान् न संशयः ॥

एतेषां त्रिरात्रादीनां चतुर्णां पक्षाणाम् अभियोगाल्पत्वमहत्त्वाभ्यां व्यवस्था द्रष्टव्या । अवधिकालाद् ऊर्ध्वं रोगाद्युद्भवे न पराजय इत्य् आह नारदः (ऋणादान ३३१) ।

    ऊर्ध्वं यस्य द्विसप्ताहाद् वैकृतं सुमहद् भवेत् ।


    नाभियोज्यः स विदुषा कृतकालव्यतिक्रमात् ॥

अत्र द्विसप्ताह इत्य् अवधिकालमात्रोपलक्षणम् अन्ते कृतकालव्यतिक्रमाद् इति हेतोर् अभिधानात् । तेनैकविंशतिरात्रस्यावधिकालत्वाश्रयणे चतुर्दशरात्राद् ऊर्ध्वम् अपि वैकृतोत्पत्तौ पराजयः, त्रिरात्रसप्तरात्रपक्षयोश् च चतुर्दशरात्रात् प्राग् अपि वैकृतोत्पत्तौ न पराजय इति सिद्धम् ।

इति श्रीकोदण्डपरशुरामे ॥॥व्यवहारविवेकोद्द्योते कोशविधिः ॥ १२ ॥

**पोस्सिब्ले रेअदिन्ग् ओफ़् थे देफ़ेच्तिवे तेxत्-

श्रीकोदण्डपरशुरामेत्यादिविविधबिरुदावलीविराजमानमानोन्नत-महाराजाधिराजश्रीशक्तिसिंहात्मजमहाराजाधिराजश्रीमदनसिंहदेवविरचिते मदनरत्नप्रदीपे व्यवहारविवेकोद्द्योते कोशविधिः ॥१२॥

अथ तण्डुलविधिः ।

तत्र पितामहः

[१२३] तण्डुलानां प्रवक्ष्यामि विधिं लक्षणचोदितम् ।

    चौर्ये तु तण्डुला देया नान्यत्रेति विनिश्चयः ॥


    तण्डुलान् कारयेच् छुक्लान् शाऌएर् नान्यस्य केनचित् ।


    मृन्मये भाजने कृत्वा आदित्यस्याग्रतः शुचिः ॥


    स्नानोदकेन संमिश्र्य रात्रौ तत्रैव वासयेत् ।


    आवाहनादिपूर्वं तु कृत्वा रात्रौ विधानतः ॥

सोपवासः प्राड्विवाको रात्रौ सूर्यालये धर्मावाहनादिहोमान्तं सकलदिव्यसाधारणं प्रागुक्तं कृत्वा शुक्लाञ् छालितण्डुलान् आदित्यस्नापनोदकेन संमिश्रय प्रातःकालपर्यन्तं तत्रैव स्थापयेद् इत्य् अर्थः । प्रातः प्राड्विवाकेन यत् कर्तव्यं तद् आह स एव

	प्रभाते कारिणे देया आदित्याभिमुखाय तु ।

कारिणे शोध्याय देयास् तण्डुला इत्य् अनुषङ्गः । एतच् छोध्यस्य शिरसि प्रतिज्ञापत्रम् आबध्य कर्तव्यम् । तथा च स एव

    प्राङ्मुखोपोषितं स्नातं शिरोरोपितपत्रकम् ।


    तण्डुलान् भक्षयित्वा तु पत्रे निष्ठीवयेत् ततः ॥


    भूर्जस्यैव तु नान्यस्य अभावे पिप्पलस्य तु । इति ।

भक्षयित्वा भक्षणं कारयित्वा । हेतुमण्णिजन्तस्य भक्षेर् अयं प्रयोगः । शुद्ध्यशुद्धिनिर्णयोपायम् आह बृहस्पतिः

    सोपवासः सूर्यगृहे तण्डुलान् भक्षयेच् छुचिः ।


    शुद्धः स्याच् छुक्लनिष्ठीवे रक्तमिश्रे तु दोषभाक् ॥

कात्यायनो ऽपि (४५३) ।

    देवतास्नानपानीयदिग्धतण्डुलभक्षणे ।


    शुद्धनिष्ठीवनाच् छुद्धो नियम्यो ऽशुचिर् अन्यथा ॥

पितामहः

    शोणितं दृश्यते यस्य हनुस् तालु च शीर्यते ।


    गात्रं च कम्पते यस्य तम् अशुद्धं विनिर्दिशेत् ॥

[१२४]

इति श्रीकोदण्डपरशुरामे ॥॥। व्यवहार विवेकोद्द्योते तण्डुलविधिः ॥ १३ ॥

**पोस्सिब्ले रेअदिन्ग् ओफ़् थे देफ़ेच्तिवे तेxत्-

श्रीकोदण्डपरशुरामेत्यादिविविधबिरुदावलीविराजमानमानोन्नत-महाराजाधिराजश्रीशक्तिसिंहात्मजमहाराजाधिराजश्रीमदनसिंहदेवविरचिते मदनरत्नप्रदीपे व्यवहारविवेकोद्द्योते तण्डुलविधिः ॥११॥

अथ तप्तमाषविधिः ।

तत्र पितामहः

    तप्तमाषस्य वक्ष्यामि विधिम् उद्धरणे शुभम् ।


    कारयेद् आयसं पात्रं ताम्रं वा षोडशाङ्गुलम् ॥


    चतुरङ्गुलखातं तु मृन्मयं वापि मण्डलम् ।


    पूरयेद् घृततैलाभ्यां विंशत्या च पलैस् तु तत् ॥


    सुवर्णमाषकं तस्मिन् सुतप्ते निक्षिपेत् ततः ।


    अङ्गुष्ठाङ्गुलियोगेन तप्तमाषकम् उद्धरेत् ॥

मण्डलं वर्तुलाकारम् । सुवर्णमाषकं कर्षषोडशांशप्रमाणकम् । सुवर्णग्रहणं रूप्यमाषनिवृत्त्यर्थम् । सुवर्णमाषपरिमितं हिरण्यं ताम्रं वा तत्र पिण्डीकृतं निक्षिपेद् इत्य् अर्थः । अङ्गुष्ठाङ्गुलियोगेन अङ्गुष्ठतर्जनीमध्यमाभिर् इत्य् अर्थः । एतच् च तप्तमाषोद्धरणं प्राड्विवाकेन घृततैलयोस् तापे प्रवर्तमाने धर्मावाहनादिप्रतिज्ञापत्रबन्धनान्तं सर्वदिव्यसाधारणं कर्म कृत्वा त्वम् अग्ने वेदाश् चत्वार इत्यादिना प्रागुक्तेन मन्त्रेणाभिमन्त्र्य कारयितव्यम् । शोध्यस् तु त्वम् अग्ने सर्वभूतानाम् इत्यादिना याज्ञवल्क्योक्तेन मत्रेणाभिमत्र्य तप्तमाषम् उद्धरेत् । अत एव बृहस्पतिः

	समुद्धरेत् तैलघृतात् सुतप्तात् तप्तमाषकम् ।

शुद्ध्यशुद्धिनिर्णयोपाय उक्तो बृहस्पति-पितामहाभ्यां

    कराग्रं न धुनेद् यस् तु विस्फोटो ‘स्य न जायते ।


    शुद्धो भवति धर्मेण पितामहवचो यथा ॥

कालिकापुराणेऽ पि ।

    न धुनेद् यः करात्रं तु यस्य रक्तं न जायते ।


    विस्फोटाद्यैस् तथा दोषैः स शुद्धो यस्य चोज्झितम् ॥

रक्तं रक्तवर्णम् । यस्य कराग्रं विस्फोटाद्यैः उज्झितम् इत्य् अन्वयः । इत्य् एकस्तप्तमाषप्रकारः । प्रकारान्तरम् अप्य् आह पितामहः

[१२५] सौवर्णे राजते ताम्रे आयसे मृन्मये पि वा ।

    गव्यं घृतम् उपादाय तद् अग्नौ तापयेच् छुचिः ॥


    सौवर्णीं राजतीं ताम्रीम् आयसीं वा सुशोभिताम् ।


    सलिलेन सकृद् धौतां प्रक्षिपेत् तत्र मुद्रिकाम् ॥


    भ्रमद्वीचितरङ्गाढ्ये अनखस्पर्शगोचरे ।


    परीक्षेतार्द्रपर्णेन चुरुकारं सुघोषकम् ॥


    ततश् चानेन मन्त्रेण सकृत् तद् अभिमत्रयेत् ।


    परं पवित्रम् अमृतं घृत त्वं यज्ञकर्मसु ॥


    दह पावक पापं त्वं हिमशीतं शुचौ भव ।


    उपोषितं ततः स्नातम् आर्द्रवाससमागतम् ॥


    ग्राहयेन् मुद्रिकां तां तु घृतमध्यगतां तथा ।


    प्रदेशिनीं च तस्याथ परीक्षेयुः परीक्षकाः ॥


    यस्य विस्फोटका न स्युः शुद्धो ऽसाव् अन्यथाशुचिः ॥ इति ।

अत्रापि धर्मावाहनादिकं समानम् । शोध्यस्य स एवाग्न्यभिमन्त्रणमन्त्रः प्राड्विवाकस्य त्व् अत्र परं पवित्रम् इत्य् अभिमन्त्रणमन्त्रः । तर्जन्यैवात्र मुद्रिकोद्धरणं प्रदेशिनीं परीक्षेयुर् इति तस्याः परीक्ष्यत्वाभिधानात् ।

इति तप्तमाषविधिः ॥

अथ फालविधिः ।

तत्र बृहस्पतिः

    आयसं द्वादशपलं घटितं फालम् उच्यते ।


    अष्टाङ्गुलं भवेद् दीर्घं चतुरङ्गुलविस्तृतम् ॥


    अग्निवर्णं तु तच् चौरो जिह्वया लेलिहेत् सकृत् ।


    न दग्धश् चेच् छुद्धिम् इयाद् अन्यथा तु स हीयते ॥

अत्रापि प्राड्विवाकः फालस्य तापे प्रवृत्ते धर्मावाहनादिप्रतिज्ञापत्रारोपणान्तं कुर्यात् । प्राड्विवाकस्य त्वम् अग्ने वेदा इत्यादिः प्रागुक्तो ऽभिमन्त्रणमत्रः । शोध्यस्य त्वम् अग्ने सर्वभूतानाम् इत्यादिः प्रागुक्तो ऽभिमन्त्रणमन्त्रः ।

इति फालविधिः ॥

[१२६]

अथ धर्मजविधिः ।

तत्र पितामहः

    अधुना संप्रवक्ष्यामि धर्माधर्मपरीक्षणम् ।


    हन्तॄणां याचमानानां प्रायश्चित्तार्थिनां नृणाम् ॥


    राजतं कारयेद् धर्मम् अधर्मं सीसकायसम् ।


    लिखेद् भूर्जे पटे वापि धर्माधर्मौ सितासितौ ॥


    अभ्युक्ष्य पञ्चगव्येन गन्धमाल्यैः समर्चयेत् ।


    सितपुष्पस् तु धर्मः स्याद् अधर्मो ऽसितपुष्पधृक् ॥


    एवं विधायोपलिप्य पिण्डयोस् तौ निधापयेत् ।


    गोमयेन मृदा वापि पिण्डौ कार्यौ समन्ततः ॥


    मृद्भाण्डके ऽनुपहते स्थाप्यौ चानुपलक्षितौ ।


    उपलिप्ते शुचौ देशे देवब्राह्मणसन्निधौ ॥


    आवाहयेत् ततो देवान् लोकपालांश् च पूर्ववत् ।


    धर्मावाहनपूर्वं तु प्रतिज्ञापत्रकं लिखेत् ॥


    यदि पापविशुद्धो ऽहं धर्मस् त्व् आयातु मे करे ।


    अभियुक्तस् ततश् चैकं प्रगृह्णीताविलम्बितः ॥


    धर्मे गृहीते शुद्धः स्याद् अधर्मे तु स हीयते ।


    एवं समासतः प्रोक्तं धर्माधर्मपरीक्षणम् ॥

हन्तॄणाम् इत्य् अभिधानात् साहसाभियोगे याचमानानाम् इत्य् अर्थाभियोगे प्रायश्चित्तार्थिनाम् इति पातकाभियोगे एतद् दिव्यं भवतीति सूचितम् । सीसकायसं सीसेनायसा च विनिर्मितम् । बृहस्पतिर् अपि ।

    पत्रद्वये लेखनीयौ धर्माधर्मौ सितासितौ ।


    जीवदानादिकैर् मन्त्रैर् गायत्राद्यैश् च सामभिः ॥


    आमन्त्र्य पूजयेद् गन्धैः कुसुमैश् च सितासितैः । -


    अभ्युक्ष्य पञ्चगव्येन मृत्पिण्डान्तरितौ ततः ॥


    समौ कृत्वा नवे कुम्भे स्थाप्यौ चानुपलक्षितौ ।


    ततः कुम्भात् पिण्डम् एकं प्रगृह्णीताविलम्बितः ॥

[१२७] धर्मे गृहीते शुद्धः स्यात् सम्पूज्यश् च परीक्षकैः ।

जीवदानादिकैर् मन्त्रैः मा प्र गामीति (प्र गाम इति ?) सूक्तपठितैः (र्व् १०.५७) ऋङ्मन्त्रैर् अन्यैर् वा प्राणप्रतिष्ठामन्त्रैर् इत्य् अर्थः ।

इति धर्मजविधिः ॥

इति श्रीकोदण्डपरशुरामे ॥ ॥ व्यवहारविवेकोद्द्योते दिव्यनिरूपणम् ।

**पोस्सिब्ले रेअदिन्ग् ओफ़् थे देफ़ेच्तिवे तेxत्-

श्रीकोदण्डपरशुरामेत्यादिविविधबिरुदावलीविराजमानमानोन्नत-महाराजाधिराजश्रीशक्तिसिंहात्मजमहाराजाधिराजश्रीमदनसिंहदेवविरचिते मदनरत्नप्रदीपे व्यवहारविवेकोद्द्योते तण्डुलविधिः ॥१४॥

समाप्तं च क्रियापादनिरूपणम् ॥ १४ ॥

अथ निर्णयपादनिरूपणम् ।

तत्र निर्णयप्रकारान् आह बृहस्पतिः

    धर्मेण व्यवहारेण चरित्रेण नृपाज्ञया ।


    चतुःप्रकारो ऽभिहितः सन्दिग्धे ऽर्थे तु निर्णयः ॥


    एकैको द्विविधः प्रोक्तः क्रियाभेदान् महर्षिभिः ।


    अपराधानुरूपं च दण्डं च परिकल्पयेत् ॥

धर्मनिर्णयस्य द्वौ भेदौ दर्शयति स एव

    सम्यग् विचार्य कार्यं तु युक्त्या संपरिकल्पितम् ।


    परीक्षितं तु शपथैः स ज्ञेयो धर्मनिर्णयः ॥


    प्रतिवादी प्रपद्येत यत्र धर्मः स निर्णयः ।


    दिव्यैर् विशोधितः सम्यग् द्वितीयः समुदाहृतः ॥

प्रतिवादी प्रपद्येतेत्य् अस्य काकाक्षिवद् उभयत्र सम्बन्धः । यत्र प्रतिवादी युक्त्या सम्यग् विचार्य संपरिकल्पितं शपथैः पुत्रशिरःस्पर्शादिभिः परीक्षितं कार्यं प्रपद्येत अङ्गीकुर्यात् स आद्यो धर्मनिर्णयः । दिव्यैर् धटादिभिर् विशोधितः प्रतिवादी यत्र प्रपद्येतद्वितीयो धर्माख्यो निर्णयः समुदाहृत इत्य् अर्थः । व्यवहाराख्यस्य निर्णयस्य द्वौ भेदौ दर्शितो तेनैव

    प्रमाणैर् निश्चयो यस् तु व्यवहारः स उच्यते ।


    वाक्छलानुत्तरत्वेन द्वितीयः परिकीर्तितः ॥

प्रमाणान्य् अत्र साक्षिणो लिखितं च । वाक्छलानुत्तरत्वेन वाक्छलेन अनुत्तरत्वेन च यो निश्चयः स द्वितीयो व्यवहार इत्य् अर्थः । चरित्रनिर्णयस्य द्वौ भेदौ दर्शितौ तेनैव

[१२८] अनुमानेन निर्णीतं चरित्रम् इति कथ्यते ।

	देशस्थित्या द्वितीयं तु शास्त्रविद्भिर् उदाहृतम् ॥

अनुमानेन भुक्तियुक्तिरूपेण यो निर्णयः स चरित्रम् । देशस्थित्या यो निर्णयः स द्वितीयं चरित्रम् इत्य् अर्थः । राजाज्ञानिर्णयस्य द्वौ भेदौ दर्शयति स एव

    प्रमाणसहिताद्यस् तु राजाज्ञा निर्णयः स्मृतः ।


    शास्त्रसभ्यविरोधे च तथान्यः परिकीर्तितः ॥

प्रमाणसहिता राजाज्ञा आद्यो निर्णयः । शास्त्राणां सभ्यानां च परस्परं विरोधे या राजाज्ञा स द्वितीयो राजाज्ञारूपो निर्णय इत्य् अर्थः । धर्मादीनां चतुर्णां निर्णयानां पूर्वमात्रस्योत्तरोत्तरापेक्षया दुर्बलत्वम् इत्य् आह नारदः (मा। १.१० ) ।

    धर्मश् च व्यवहारश् च चरित्रं राजशासनम् ।


    चतुष्पाद् व्यवहारो ऽयम् उत्तरः पूर्वबाधकः ॥

चतुष्पात् चतुःप्रकारः । व्यवहारो ऽत्र निर्णयः । व्यवहारस्य धर्मबाधकताम् आह बृहस्पतिः

    शास्त्रं केवलम् आश्रित्य क्रियते यत्र निर्णयः ।


    व्यवहारः स विज्ञेयो धर्मस् तेनावहीयते ॥

शास्त्रं स्मृतिशास्त्रोक्तं साक्ष्यादिप्रमाणम् । तेन व्यवहारेण अवहीयते बाध्यते । कात्यायनो ऽपि (३९) ।

    युक्तियुक्तं तु कार्यस्य दिव्यं यत्र तु वर्जितम् ।


    धर्मस् तु व्यवहारेण बाध्यते तत्र नान्यथा ॥

चरित्रस्य व्यवहारबाधकताम् आह बृहस्पतिः

    देशस्थित्यानुमानेन नैगमानुमतेन वा ।


    क्रियते निर्णयस् तत्र व्यवहारस् तु बाध्यते ॥

नैगमाः पौरवणिजः । नैगमानुमतेनानुमानेनेति समानाधिकरणे पदे । कात्यायनो ऽपि (४०-४१ ) ।

[१२९] प्रतिलोमप्रसूतेषु तथा दुर्गनिवासिषु ।

    विरुद्धं नियतं प्रहुस् तद्धर्मं न विचालयेत् ॥


    निर्णयं तु यदा कुर्यात् तेन धर्मेण पार्थिवः ।


    व्यवहारश् चरित्रेण तदा तेनैव बाध्यते ॥

तेन धर्मेण देशाचाररूपेण । राजशासनस्य चरित्रबाधकताम् आह बृहस्पतिः

    विहाय चरिताचारं यत्र कुर्यात् पुनर् नृपः ।


    निर्णयं सा तु राजाज्ञा चरित्रं बाध्यते तया ॥

चरिताचारं परम्परागतं देशाचारम् । कात्यायनो ऽपि (४२) ।

    विरुद्धं न्यायतो यत् तु चरित्रं कल्प्यते नृपैः ।


    एवं तत्र निरस्येत चरित्रं तु नृपाज्ञया ॥

नृपैर् यत् तु न्यायविरुद्धं चरित्रं न ग्राह्यम् इत्य् एवं कल्प्यते तत्र नृपाज्ञया चरित्रं निरस्यते बाध्यते इत्य् अर्थः ।

निर्णयानन्तरकर्तव्यम् आह **व्यासः** ।


    जितं तु दण्डयेद् राजा जेतुः पूजां प्रवर्तयेत् ।


    जेतुः प्रवर्तते पूजा गन्धमाल्याम्बरादिना ॥

कात्यायनः (२६२) ।

    सिद्धेनार्थेन संयोज्यो वादी सत्कारपूर्वकम् ।


    लेख्यं स्वहस्तसंयुक्तं तस्मै दद्यात् तु पार्थिवः ॥

सिद्धेनार्थेन साधितधनेन । लेख्यं जयपत्रम् । तत्स्वरूपं लेख्यनिरूपणे दर्शितम् । साधितं धनं तदभिवृद्धिसहितं दापनीयम् । तथा च नारदः

    मध्ये यत् स्थापितं द्रव्यं चलं वा यदि वा स्थिरम् ।


    पश्चात् तत् सोदयं दाप्यं जयिने जयपत्रकम् ॥

मध्ये यत् स्थापितं विवादकाले मध्यस्थस्थापितम् । धनदापने प्रकारम् आह कात्यायनः (४७७-४७८) ।

[१३०] राजा तु स्वामिने विप्रं सान्त्वेनैव प्रदापयेत् ।

    देशाचारेण चान्यांस् तु दुष्टान् सम्पीड्य दापयेत् ॥


    रिक्थिनं सुहृदं वापि छलेनैव प्रदापयेत् ।

न केवलं राज्ञा पराजितः स्वामिने सोदयं धनं दापनीयः किं तु स्वेनापि दण्ड्यः । यदि सपणो विवादस् तदा प्रतिज्ञातः पणो ऽपि तस्माद् ग्राह्यः । तथा च याज्ञवल्क्यः (२.१८) ।

    सपणश् चेद् विवादः स्यात् तत्र हीनं तु दापयेत् ।


    दण्डं च स्वपणं चैव धनिने धनम् एव च ॥

नारदो ऽपि (मा। १.५ ) ।

    विवादे सोत्तरपणे द्वयोर् यस् तत्र हीयते ।


    स पणं स्वकृतं दाप्यो विनयं च पराजये ॥

विनयं दण्डम् । पराजितस्य साधितद्रव्याद्यदाने तल्लग्नकस् तद् धनं दापनीयः । तस्मिन् मृते प्रोषिते वा तत्पुत्रो दापनीयः । तथा च व्यासः

	दानवादप्रतिभुवौ दाप्यौ तत्पुत्रकौ तथा । इति ।

तत्पुत्रकौ दानविवादप्रतिभुवोः पुत्रकौ । दानप्रतिभूस् त्व् अग्रे दर्शयिष्यते । विवादप्रतिभूस् तु प्राग्दर्शितः । दण्डस्य द्वैविध्यम् आह नारदः (परिशिष्ट ५३-५४) ।

    शारीरश् चार्थदण्डश् च दण्डस् तु द्विविधः स्मृतः ।


    शारीरस् ताडनादिस् तु मरणान्तः प्रकीर्तितः ॥


    काकिण्यादिस् त्व् अर्थदण्डः सर्वस्वान्तस् तथैव च ।


    शारीरो दशधा प्रोक्तो ह्य् अर्थदण्डस् त्व् अनेकधा ॥

दशधेति न परिगणन,। अन्येषाम् अपि बन्धनाङ्ककरणादीनां शारीरदण्डानां सत्त्वात् । कांश्चिच् छारीरदण्डान् दर्शयति मनुः (८.१२४-१२५) ।

    दश स्थानानि दण्डस्य मनुः स्वायम्भुवो ऽब्रवीत् ।


    उपस्थ उदरं जिह्वा हस्तौ पादौ च पञ्चमम् ॥

[१३१] चक्षुर् नासा च कर्णौ च धनं देहस् तथैव च । इति ।

उपस्थः स्त्रीपुंसयोश् चिह्नम् । एतेषाम् अगम्यागमनादिविषयाणाम् उपस्थनिग्रहादीनां दण्डानां क्षत्रियादिविषयत्वं न ब्राह्मणविषयत्वं,

	त्रिषु वर्णेषु तानि स्युर् अक्षतो ब्राह्मणो व्रजेत् ।

इति तेनैवाभिधानात् (मनु ८। १२४) । ब्राह्मणस्य तु निर्वासनं दण्ड इत्य् उक्तं तेनैव (मनु ८.३८०) ।

    न जातु ब्राह्मणं हन्यात् सर्वपापेष्व् अवस्थितम् ।


    राष्ट्राद् एनं बहिः कुर्यात् समग्रधनम् अक्षतम् ॥

शङ्खो ‘प्य् आह ।

    त्रयाणां वर्णानां धनापहारवधबन्धक्रिया विवासनाङ्ककरणं ब्राह्मणस्य । इति । 

अत्र क्रिया इत्य् एतत् पृथक् पदम् । गौतमो ऽपि (१२.४३) “न शारीरो ब्राह्मणदण्डः” इति । यत् तु

    चतुर्णाम् अपि वर्णानां प्रायश्चित्तम् अकुर्वताम् ।


    शारीरं धनसंयुक्तं दण्डं धर्म्य प्रकल्पयेत् ॥

इति वचनं तद् अतिदृप्तस्य बहुधनस्योक्तप्रायश्चित्ताननुष्ठायिनो बन्धनरूपः शारीरो दण्डः कार्य इत्य् एतद्विषयं न त्व् अङ्गभङ्गादिविषयं,

	न त्व् अङ्गभेदं विप्रस्य प्रवदन्ति मनीषिणः ।

इति हारीतवचनात् । यत् तु बन्धस्य क्षत्रियादिवर्णत्रयविषयत्वबोधकं प्राग् उक्तं शङ्खवचनं तद् एतदितरब्राह्मणविषयम् । ब्राह्मणस्य मुण्डनादिरूपं दण्डम् आह नारदः (साहस १०) ।

    शिरसो मुण्डनं दण्डस् तस्य निर्वासनं पुरात् ।


    ललाटे चाभिशस्ताङ्कः प्रयाणं गर्दभेन च ॥

तस्य ब्राह्मणस्य । मुण्डनं ब्राह्मणस्य वधप्रतिनिधित्वेनाह मनुः (८.३७९) ।

    मौण्ड्यं प्राणान्तिको दण्डो ब्राह्मणस्य विधीयते ।


    इतरेषां तु वर्णानां दण्डः प्राणान्तिको भवेत् ॥

इदम् एवाभिप्रेत्य् आह बृहस्पतिः

[१३२] महापातकयुक्तो ऽपि न विप्रो वधम् अर्हति ।

	निर्वासनाङ्कनं मौण्ड्यं तस्य कुर्यान् नराधिपः ॥

अङ्कने विशेषम् आह नारदः (मनु ९.२३७, नारद, परिशिष्ट ४४ ) ।

    गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः ।


    स्तेये तु श्वपदः कार्यो ब्रह्महण्य् अशिराः पुमान् ॥

दण्डान्तरम् अप्य् आह याज्ञवल्क्यः (१.३६७) ।

    वाग्दण्डस् त्व् अथ धिग्दण्डो धनदण्डो वधस् तथा ।


    योज्या व्यस्ताः समस्ता वाप्य् अपराधवशाद् इमे ।

वाग्दण्डः परुषवचनरूपः । धिग्दण्डो धिग् इति कुत्सनम् । एतेषां दण्डानां विषयविशेषस् तत्र तत्र द्रष्टव्यः । ऋणादानादिषु व्यवहारपदेषु यो दण्डविशेषः स तत्तन्निरूपणे दर्शयिष्यते । दिव्यसाधनके जयपराजयनिर्णये दण्डविशेषो दर्शितः कात्यायनेन (४५९ - ४६१) ।

    शतार्धं दापयेच् छुद्धम् अशुद्धो दण्डभाग् भवेत् ।


    विषे तोये हुताशे च तुलाकोशे च तण्डुले ॥


    तप्तमाषकदिव्ये च क्रमाद् दण्डं प्रकल्पयेत् ।


    सहस्रं षट्शतं चैव तथा पञ्च शतानि च ॥


    चतुस्त्रिद्व्येकम् एवं च हीनं हीनेषु कल्पयेत् ।

शुद्धस्य शतार्धदापनं भृतित्वेन न तु दण्डत्वेन । अयं दिव्यनिमित्तको दण्डो निह्नवमिथ्याभियोगनिमित्तकेन दण्डेन समुचीयते निमित्तसमुच्चयात् ॥

क्वचित् पुनर्न्यायप्रवृत्तिम् आह **नारदः** (मा १.४३) ।


    स्त्रीषु रात्रौ बहिर्ग्रामाद् अन्तर्वेश्मन्य् अरातिषु ।


    व्यवहारः कृतो ऽप्य् एष पुनः कर्तव्यताम् इयात् ॥

बृहस्पतिः

    पलायनानुत्तरत्वाद् अन्यपक्षाश्रयेण च ।


    हीनस्य गृह्यते वादो न स्ववाक्यजितस्य तु ॥

[१३३] नारदः (मा २.४०) ।

    साक्षिसभ्यावसन्नानां दूषणे दर्शनं पुनः ।


    स्ववाचैव जितानां तु नोक्तः पौनर्भवो विधिः ॥

साक्षिसभ्योक्त्या पराजये तेषु दूषणस्योपन्यासे पुनर्व्यवहारप्रवृत्तिः स्ववाक्येन पराजये तु न सेत्य् अर्थः । प्राङ्निर्णीतस्य पुनर् उद्धरणं द्विगुणदण्डाङ्गीकारेण कार्यम् इत्य् आह नारदः (मा १.६५) ।

    तीरितं चानुशिष्टं च यो मन्येत विधर्मतः ।


    द्विगुणं दण्डम् आस्थाय तत् कार्यं पुनर् उद्धरेत् ॥

तीरितं समापितं निर्णीतम् इति यावत् । अनुशिष्टं साक्षिभिर् उक्तम् । याज्ञवल्क्यः (१.३०५) ।

    दुर्दष्टांस् तु पुनर् दृष्ट्वा व्यवहारान् नृपेण तु ।


    सभ्याः सजयिनो दण्ड्या विवादाद् द्विगुणं दमम् ॥

सजयिनो जयिना सहिताः । कात्यायनः (४९६) ।

    कुलादिभिर् निर्गते ‘पि न सन्तोषं गतस् तु यः ।


    विचारयेत् कृतं राजा कुकृतं पुनर् उद्धरेत् ॥

मनुः (९.२३४) ।

    अमात्या प्राड्विवाको वा ये कुर्युः कार्यम् अन्यथा ।


    तत् स्वयं नृपतिः कुर्यात् तान् सहस्रं तु दण्डयेत् ॥

क्वचित् कृतस्य निवृत्तिम् आह नारदः ( ऋणादान ३९ - ४१,२९ - ३०) ।

    यद् बालः कुरुते कार्यम् अस्वतन्त्रस् तथैव च ।


    अकृतं तद् अपि प्राहुः शास्त्रे शास्त्रविदो जनाः ॥


    स्वतन्त्रो ऽपि हि यः कार्यं कुर्याद् अप्रकृतिं गतः ।


    तद् अप्य् अकृतम् एवाहुर् अस्वतन्त्रत्वहेतुतः ॥


    कामक्रोधाभिभूतार्तभयव्यसनपीडिताः ।


    रागद्वेषपरीताश् च ज्ञेयास् त्व् अप्रकृतिं गताः ॥

[१३४] तथा दासकृतं कार्यम् अकृतं परिचक्षते ।

    अन्यत्र स्वामिसन्देशान् न दासः प्रभुर् आत्मनः ॥


    पुत्रेण च कृतं कार्यं यन् न स्याच् छन्दतः पितुः ।


    तद् अप्य् अकृतम् एवाहुर् दासः पुत्रश् च तत्समौ ॥

अस्वतन्त्रान् आह नारद (ऋणादान ३३-३७) ।

    अस्वतन्त्रः स्मृतः शिष्य आचार्ये तु स्वतन्त्रता ।


    अस्वतन्त्राः स्त्रियः सर्वाः पुत्रा दासाः परिग्रहाः ॥


    गर्भस्थैः सदृशो ज्ञेय आष्टमाद् वत्सराच् छिशुः ।


    बाल आ षोडशाद् वर्षात् पोगण्डश् चेति कीर्त्यते ॥


    परतो व्यवहारज्ञः स्वतन्त्रः पितुर् आ मृतेः ।


    जीवतोर् न स्वतन्त्रः स्याज् जरयापि समन्वितः ॥


    तयोर् अपि पिता श्रेयान् बीजप्राधान्यदर्शनात् ।


    अभावे बीजिनो माता तदभावे तु पूर्वजः ॥

परिग्रहाः परिजनाः । पितुर् इत्य् एकवचनं छान्दसं पित्रोर् इत्य् अर्थः, उत्तरत्र तथाभिधानात् । मृतेः मरणम् आरभ्य । कात्यायनः (४६६) ।

    पितास्वतन्त्रः पितृमान् भ्राता भ्रातृव्य एव वा ।


    कनिष्ठो वा विभक्तस्वो दासः परिकरस् तथा ॥

पितास्वतन्त्रः पितृमान् पितरि जीवति उत्पादितपुत्रो ऽप्य् अस्वतत्र इत्य् अर्थः । अविभक्तस्वः अविभक्तधनः । क्वचिद् अस्वतन्त्रैर् अपि पुत्रादिभिः कृतस्यानिवृत्तिम् आह स एव (काट्। ४६८ - ४७०) ।

    प्रमाणं सर्व एवैते पण्यानां क्रयविक्रये ।


    यदि संव्यवहारं प्राक् कुर्वन्तो ‘प्य् अनुमोदिताः ॥


    क्षेत्रादीनां तथैव स्याद् भ्राता भ्रातृसुतः सुतः ।


    निसृष्टाः कृत्यकरणे गुरुणा परिगच्छता ॥


    निसृष्टार्थस् तु यो यस्मिंस् तस्मिन्न् अर्थे प्रभुश् च सः ।


    तद्भर्ता तत्कृतं कार्यं नान्यथा कर्तुम् अर्हति ॥

[१३५] बृहस्पतिर् अपि ।

    यः स्वामिना नियुक्तस् तु धनायव्ययपालने ।


    कुसीदकृषिवाणिज्ये निसृष्टार्थस् तु स स्मृतः ॥


    प्रमाणं तत्कृतं सर्वं लाभालाभव्ययोदयम् ।


    स्वदेशे वा विदेशे वा स्वामी तन् न विसंवदेत् ॥ इति ।

उक्तप्रकारेण निर्णयं कुर्वतो राज्ञः फलं दर्शयति बृहस्पतिः

    एवं शास्त्रोदितं राजा कुर्यान् निर्णयपालनम् ।


    वितत्येह यशो लोके महेन्द्रसचिवो भवेत् ॥


    साक्षिलेख्यानुमानेन प्रकुर्वन् कार्यनिर्णयम् ।


    वितत्येह यशो राजा ब्रध्नस्याप्नोति विष्टपम् ॥

इति निर्णयपादनिरूपणम्

। इति श्रीकोदण्डपरशुरामे ॥। व्यवहारविवेकोद्द्योते व्यवहारमातृकानिरूपणम् ॥ १५ ॥

**पोस्सिब्ले रेअदिन्ग् ओफ़् थे देफ़ेच्तिवे तेxत्-

श्रीकोदण्डपरशुरामेत्यादिविविधबिरुदावलीविराजमानमानोन्नत-महाराजाधिराजश्रीशक्तिसिंहात्मजमहाराजाधिराजश्रीमदनसिंहदेवविरचिते मदनरत्नप्रदीपे व्यवहारविवेकोद्द्योते व्यवहारमातृकानिरूपणम् ॥१४॥

अथ ऋणादानादीनि व्यवहारपदानि निरूप्यन्ते ।

तत्र प्रथमं तावदृणादानाख्यम् आद्यं व्यवहारपदं निरूप्यते । तस्य स्वरूपं दर्शयति नारदः ( ऋणादान १) ।

    ऋणं देयम् अदेयं च येन यत्र यथा च यत् ।


    दानग्रहणधर्माश् च ऋणादानम् इति स्मृतम् ॥

एतादृशम् ऋणं देयम् एतादृशम् अदेयम् अनेन देयम् अस्मिन् समये देयम् अनेन प्रकारेण देयम् इत्य् अधमर्णसम्बन्धि प्रतिदानविषयकं सर्वम् उत्तमर्णसम्बन्धिनो दानग्रहणधर्माश् च यस्मिन् विवादविषये तदृणादानाख्यं व्यवहारपदम् इत्य् अर्थः । प्रतिदानग्रहणयोर् दानपूर्वकत्वान् नायं पाठक्रमो विवक्षितः । ऋणदानप्रकारम् आह बृहस्पतिः

    परिपूर्णं गृहीत्वाधिं बन्धं वा साधुलग्नकम् ।


    लेख्यारूढं साक्षिमद् वा ऋणं दद्याद् धनी सदा ॥

परिपूर्णं वृद्धिसहितमूलद्रव्यपर्याप्तम् । आधिर् बन्धकम् । तत्र यो [१३६] विशेषः सो ऽग्रे दर्शयिष्यते । बन्धशब्देनात्रोत्तमर्णस्य विश्वासार्थं तदभिमतस्य कस्यचिद् धस्ते ऽधमर्णेन स्थापितं द्रव्यं गृह्यते । अस्मिन्न् अर्थे बन्धशब्दः प्रयुक्तो नारदेन

	निक्षेपो मित्रहस्तस्थो बन्धो विश्वासकः स्मृतः ।

विश्वासहेतुमित्रहस्तस्थो निक्षेपो बन्ध इत्य् अर्थः । लग्नकः प्रतिभूः । तत्र यो विशेषः सो ऽग्रे दर्शयिष्यते । उत्तमर्णः परिपूर्णम् आधिं बन्धं वोत्तमं लग्नकं वा गृहीत्वाधमर्णहस्तलिखितारूढं साक्षियुक्तं वा ऋणं दद्याद् इत्य् अर्थः । ऋणशब्दपर्यायस्य कुसीदशब्दस्यार्थं कथयंस् तद्व्याजेन तत्प्रयोजनं दर्शयति नारदः (ऋणादान।९८) ।

    स्थानलाभनिमित्तं यद् दानग्रहणम् इष्यते ।


    तत् कुसीदम् इति ज्ञेयं तेन वृत्तिः कुसीदिनाम् ॥

स्थानं मूलधनस्यावस्थितिः । लाभो वृद्धिः । तन्निमित्तं तत्प्रयोजनकम् । कुसीदशब्दस्यावयवार्थम् आह बृहस्पतिः

    कुत्सितात् सीदतश् चैव निर्विशङ्कैः प्रगृह्यते ।


    चतुर्गुणं वाष्टगुणं कुसीदाख्यम् अतस् त्व् ऋणम् ॥

कुत्सितात् सीदत इत्य् एते अधमर्णविशेषणे । मतभेदेन वृद्धिप्रकारम् आह स एव

    वृद्धिश् चतुर्विधा प्रोक्ता पञ्चधान्यैः प्रकीर्तिता ।


    षड्विधा मे समाख्याता तत् त्व् अतस् तां निबोध मे ॥

मे मम मते । ताश् च विधा दर्शयति स एव

    कायिका कालिका चैव चक्रवृद्धिर् अतो ऽपरा ।


    कारिता सशिखावृद्धिर् भोगलाभस् तथैव च ॥

आसां स्वरूपं दर्शयति स एव

    कायिका कर्मसंयुक्ता मासग्राह्या तु कालिका ।


    वृद्धेर् वृद्धिश् चक्रवृद्धिः कारिता ऋणिना कृता ॥

[१३७] प्रत्यहं गृह्यते या तु शिखावृद्धिस् तु सा स्मृता ।

	गृहात् तोष(तोषः ?)फलं क्षेत्राद् भोगलाभः प्रकीर्तितः ॥

कायिका कर्मसंयुक्ता भोग्याधितया स्थापितस्य यो दोहनवाहनादिकर्मरूपो भोगस् तत्सहिता या वृद्धिः सा कायिकेत्य् अर्थः । अत एव व्यासः

	दोह्यवाह्यकर्मयुता कायिका समुदाहृता ।

स्मृतिचन्द्रिकायां तु यत्र बन्धकीकृतस्य गवाश्वादेर् दोहनवाहनादिकं कायिकं कर्म वृद्धित्वेन परिकल्पितं तत्र सा वृद्धिः कायिकेत्य् उक्तम् । मासग्राह्या तु कालिका प्रतिमासं ग्राह्यत्वेन परिकल्पिता या वृद्धिः सा कालिकेत्य् अर्थः । अत एव नारदः (ऋणादान १०३) ।

	प्रतिमासं स्रवति या वृद्धिः सा कालिका मता । इति ।

वृद्धेर् अपि प्रतिमासं मूलभावे पुनर् वृद्धिश् चक्रवृद्धिः । अत एव नारदः

	वृद्धेर् अपि पुनर् वृद्धिश् चक्रवृद्धिर् उदाहृता । इति ।

कारिता ऋणिना कृतेति ऋणिनाधमर्णेन स्वेच्छया कृता या वृद्धिः सा कारितेत्य् अर्थः,

	वृद्धिः सा कारिता नाम यर्णिकेन स्वयं कृता । 

इति नारदेनाभिधानात् (ऋणादान १०३ ) । अधमर्णकारितैव वृद्धिर् देया नोत्तमर्णकारितेत्य् आह कात्यायनः (४९८) ।

    ऋणिकेन तु या वृद्धिर् अधिका संप्रकल्पिता ।


    आपत्कालकृता नित्यं दातव्या कारिता तु सा ॥


    अन्यथा कारिता वृद्धिर् न दातव्या कथंचन ।

उत्तमर्णप्रलोभनार्थम् आपत्काले शास्त्रीयवृद्ध्यधिकापि स्वयं परिकल्पिता या वृद्धिः कारिताख्या सा दातव्या । अन्यथा न स्वयं परिकल्पिता किं तर्हि धनिकेनाधिका परिकल्पिता सा न दातव्येत्य् अर्थः । प्रत्यहं गृह्यते इति अधमर्णप्रतिश्रुतदिनसंख्यायुक्त-वृद्धिग्रहणकालोपलक्षणम् । **[१३८] **अत एव कालमात्रनिर्देशः कृतः कात्यायनेन (४९९) ।

	प्रतिकालं ददात्य् एव शिखावृद्धिस् तु सा स्मृता । इति ।

अस्या वृद्धेः शिखासादृश्यम् उक्तं बृहस्पतिनैव

    शिखेव वर्धते नित्यं शिरश्छेदान् निवर्तते ।


    मूले दत्ते तथैवैषा शिखावृद्धिस् तु सा स्मृता ॥

गृहाद् बन्धकीकृताद्यो निवासादिजनितः सन्तोषः क्षेत्राद् यत् सस्यादिफलं सा भोगलाभाख्या वृद्धिर् इति गृहात् तोष इत्य् अस्यार्थः । कल्पतरौ तु,

	गृहात् स्तोमः सदः क्षेत्राद् भोगलाभः प्रकीर्तितः ।

इति पठित्वा, स्तोमो भाटकं सदः सस्यादिफलम् इति व्याख्यातम् । गृहक्षेत्रग्रहणं सर्वस्य स्थावररूपस्य भोग्याधेर् उपलक्षणम्,

    आधिभोगस् त्व् अशेषो यो वृद्धिस् तु परिकल्पितः ।


    प्रयोगे यत्र चैवं स्याद् आधिभोगः स उच्यते ॥ 

इति कात्यायनस्मरणात् (५०१) । यत्र यस्मिन् ऋणादानप्रयोगे स्थावरमात्रसम्बन्धी आधिभोगो वृद्धित्वेन परिकल्पितस् तत्र सा वृद्धिर् आधिभोग इत्य् उच्यते इत्य् अस्यार्थः । वृद्धेः परिमाणम् आह याज्ञवल्क्यः (२.३७) ।

    अशीतिभागो वृद्धिः स्यान् मासि मासि सबन्धके ।


    वर्णक्रमाच् छतं द्वित्रिचतुःपञ्चकम् अन्यथा ॥

सबन्धके प्रयोगे प्रयुक्तद्रव्यस्याशीतितमो भागो वृद्धिः । पणशते प्रयुक्ते सपादः पणः प्रतिमासं वर्धत इत्य् अर्थः । अन्यथा बन्धकराहित्ये । वर्णक्रमात् ब्राह्मणादिवर्णक्रमेण शतं द्वित्रिचतुःपञ्चकं द्वित्रिचतुःपञ्चाधिकं - तद् अस्मिन् वृद्ध्याय लाभशुल्कोपदा दीयते ( पा। ५.१.४७ ) – इति कन् । बन्धकरहिते पणशतप्रयोगे प्रतिमासं ब्राह्मणात् पणद्वयं क्षत्रियात् पणत्रयं वैश्यात् पणचतुष्टयं शूद्रात् पणपञ्चकं ग्राह्यम् इत्य् अर्थः । प्रतिभूसहिते प्रयोगे वृद्धेः परिमाणम् आह व्यासः

[१३९] सबन्धे भाग आशीतः षाष्टो भागः सलग्नके ।

    निराधाने द्विकशतं मासलाभ उदाहृतः ॥

सबन्धे आधिसंहिते । आशीतः अशीतितमः षाष्टः षष्टितमः । लग्नकः प्रतिभूः । आधानग्रहणं प्रतिभुवो ऽप्य् उपलक्षणम् । कल्पतरौ तु साष्टभाग इति पठित्वा सलग्नके अशीतितमो भागः स्वकीयाष्टमभागसहितो मासवृद्धिर् इत्य् उक्तम् । यत् तु,

    अशीतिभागं गृह्णीयान् मासाद् वार्धुषिकः शते ।


    द्विकं शतं वा गृह्णीयात् सतां धर्मम् अनुस्मरन् ॥ 

इति मनुवचने (८.१४० - १४१) द्विकं शतं वेति पक्षान्तराभ्यनुज्ञानं, तद् अबन्धकविषयतया व्यवस्थापनीयं पूर्वोदाहृतवचनात् । क्वचिद् वृद्धेः परिमाणान्तरम् आह याज्ञवल्क्यः (२.३८) ।

	कान्तारगास् तु दशकं सामुद्रा विंशकं शतम् ।

दद्युर् इत्य् उत्तरवाक्यस्थस्यानुषङ्गः । ऋणं गृहीत्वा दुर्गममार्गगन्तारः प्रतिमासं पणशतस्य दशपणान् वृद्धिं दद्युः समुद्रगामिनो विंशतिपणान् दद्युर् इत्य् अर्थः । ब्राह्मणादयः सर्वे ऽधमर्णाः सबन्धके वा प्रयोगे स्वकृतां वृद्धिं सर्वजातीयेषूत्तमर्णेषु दद्युर् इति कारितवृद्ध्यङ्गीकरणलक्षणं पक्षान्तरमाह स एव (य्ध् २.३८ ) ।

	दद्युर् वा स्वकृतां वृद्धिं सर्वे सर्वासु जातिषु । इति ।

गवादीनां पशूनां दासीनां च ऋणत्वेन दत्तानां वृद्धिविशेष उक्तस् तेनैव (य्ध् २.३९) “सन्ततिस् तु पशुस्त्रीणाम्” इति । सम्भवति च गवादीनाम् ऋणत्वेन दानं तत्पोषणाशक्तस्य तत्पुष्टिसन्तत्यर्थिनः ग्रहणं तु क्षीरवाहनसेवाद्यर्थिनः । क्वचिद् अस्वीकृतापि वृद्धिर् दातव्येत्य् आह विष्णुः (६.४० ) ।

    यो गृहीत्वा ऋणं सर्वं श्वो दास्यामीति सामकम् ।


    न दद्याल् लोभतः पश्चात् तदह्ना वृद्धिम् आप्नुयात् ॥

[१४०] श्व इति प्रतिश्रुतस्य प्रतिदानकालावधेर् उपलक्षणम् । समम् एव सामकम् । यो ऽमुकस्मिन् दिने समम् एवाहं त्वदीयं धनं दास्यामीति प्रतिज्ञाय ऋणं गृहीत्वा पश्चाल् लोभाद् विलम्बं कुर्यात् सो ‘वधिदिनम् आरभ्य वृद्धिं दद्याद् इत्य् अर्थः । यदि स्वकार्यं कर्तुं याचित्वा गृहीतम् अप्रतिदायैव कश्चिद् देशान्तरं गच्छेत् तदा संवत्सराद् ऊर्ध्वं तद् धनं वर्धत इत्य् आह कात्यायनः (५०२) ।

    यो याचितकम् आदाय तम् अदत्त्वा दिशं व्रजेत् ।


    ऊर्ध्वं संवत्सरात् तस्य तद् धनं वृद्धिम् आप्नुयात् ॥

इदं त्व् अप्रतियाचितविषयम् । यदि प्रतियाचितो याचितकम् अदत्त्वा देशान्तरं गच्छेत् तदा मासत्रयाद् ऊर्ध्वं तद् धनं वर्धते इत्य् उक्तं तेनैव (कात् ५०३) ।

    कृत्वोद्धारम् अदत्त्वा यो याचितस् तु दिशं व्रजेत् ।


    ऊर्ध्वं मासत्रयात् तस्य तद् धनं वृद्धिम् आप्नुयात् ॥

कृत्वोद्धारं याचितकं गृहीत्वा याचितो ‘प्य् अदत्त्वेत्य् अन्वयः । यदि याचितकम् आदाय प्रतियाचितो ‘पि तत्र स्थितो न ददाति स प्रतियाचनादिनम् आरभ्य तद्धनस्य वृद्धिं दद्याद् इत्य् आह स एव (कात्। ५०४) ।

    स्वदेशे ‘पि स्थितो यस् तु न दद्याद् याचितः क्वचित् ॥


    तं ततो कारितां वृद्धिम् अनिच्छन्तं च दापयेत् ॥

ततः तद् दिनम् आरभ्य । एतत् सर्वं कंचिद् अवधिम् अपरिकल्प्य याच्ञाप्राप्ते वेदितव्यम् । अवधिं स्वीकृत्य तदतिक्रमे तु तद्दिनम् आरभ्य तद्धनस्य वृद्धिर् ज्ञातव्या तदह्ना वृद्धिम् आप्नुयाद् इति न्यायस्य समानत्वात् । विवाहादौ यच् छोभाद्यर्थं मित्रादिभिः प्रीत्या दत्तं तत्स्वेन वृद्धिम् अपरिकल्प्य गृहीतम् अपि मासषट्काद् ऊर्ध्वं वर्धत इत्य् आह नारदः (ऋणादान्। १०८) ।

    न वृद्धिः प्रीतिदत्तानां स्याद् अनाकारिता क्वचित् ।


    अनाकारितम् अप्य् ऊर्ध्वं वत्सरार्धाद् विवर्धते ॥

अनाकारिता अकृता । प्रीतिदत्तस्य प्रतियाचितस्यादाने वृद्धिविशेम् आह कात्यायनः (५०५ ) ।

[१४१] प्रीतिदत्तं न वर्धेत यावन् न प्रतियाचितम् ।

	याच्यमानम् अदत्तं चेद् वर्धते पञ्चकं शतम् ॥

पञ्चकं पञ्चाधिकम् । पणशतस्य पणपञ्चकं प्रतियाचनदिनम् आरभ्य प्रतिमासं वर्धते इत्य् अर्थः । क्रीतस्य वस्तुनो मूल्यम् अदत्त्वा देशान्तरगमने वृद्धिम् आह स एव (कात् ५०७) ।

    पण्यं गृहीत्वा यो मूल्यम् अदत्त्वैव दिशं व्रजेत् ।


    ऋतुत्रयस्योपरिष्टात् तद्द् हनं वृद्धिम् आप्नुयात् ॥

एतच् च विक्रेत्रा यदि न याचितस् तदा ज्ञातव्यम् । याचने त्व् एतस्य वृद्धिशेषनिक्षिप्तद्रव्ययोश् च याचनदिनाद् आरभ्य प्रतिमासं शते पञ्चकं वर्धत इत्याह स एव (कात्। ५०६) ।

    निक्षिप्तं वृद्धिशेषं च क्रयविक्रय एव च ।


    याच्यमानम् अदत्तं चेद् वर्धते पञ्चकं शतम् ॥

अस्याम् अकृतायां वृद्धौ यत्र पञ्चकं शतम् इत्यादिपरिमाणविशेषानुपदेशस् तत्राशीतिभागो वृद्धिः स्याद् इति याज्ञवल्क्योक्तं परिमाणं ग्राह्यम् । अत एव विष्णुः (६.३ - ४) “वृद्धिं दद्युर् अकृताम् अपि वत्सरातिक्रमे यथाभिहिताम्” इति । यथाभिहितां शास्त्रैर् यथोक्तां तथाविधाम् इत्य् अर्थः । क्वचिद् अकृताया वृद्धेर् अपवादम् आह नारदः (मा। २.३६ ) ।

    पण्यमूल्यं भृतिन्यासौ दण्डो यश् च प्रकल्पितः ।


    वृथादानाक्षिकपणा वर्धन्ते नाविवक्षिताः ॥

पण्यमूल्यं क्रीतस्य मूल्यं भृतिर् वेतनं न्यासो निक्षेपः । वृथादानं नटादिभ्यः प्रतिश्रुतम् । आक्षिकपणो द्यूतद्रव्यम् । अविवक्षिताः अप्रतिश्रुतवृद्धिकाः । अत्र पण्यमूल्यस्य वृद्ध्यभावाभिधानं प्रवासप्रतियाचनयोर् अभावे ज्ञातव्यम् । न्यासस्य वृद्धषभावो निक्षिप्तं वृद्धिशेषं चेति पूर्वोदाहृतकात्यायनवचनात् प्रतियाचनाभावे

[१४२] न वृद्धिः स्त्रीधने लाभे न क्षिप्ते च यथास्थिते ।

	सन्दिग्धे प्रातिभाव्ये च यदि न स्यात् स्वयंकृता ॥

इति संवर्तवचनाद् व्यक्त्यन्यथाकरणाभावे च ज्ञातव्यः । लाभो वृद्धि- । सन्दिग्धे प्रातिभाव्ये दातुम् इदम् उचितम् अनुचितं वेति सन्देहविषये ऋण(णि ?)द्रव्यार्पणादौ । अन्यत्रापि क्वचिद् वृद्ध्यभावम् आह व्यासः

    प्रातिभाव्यं भुक्तबन्धम् अगृहीतं च दित्सतः ।


    न वर्धते प्रपन्नस्य दमः शुल्कं प्रतिश्रुतम् ॥

भुक्तबन्ध इति गोप्याधितया स्थापितस्य वस्त्रालङ्कारादेर् उपभोगे वृद्धिर् न भवतीत्य् एतदर्थम् । अत एवोक्तं गौतमेन (१२.२९) “भुक्ताधिर् न वर्धते वस्त्रालङ्कारादिर्” इति । अगृहीतं च दित्सत इति कृतवृद्धेर् अपवादः । दित्सतः प्रतिदातुम् इच्छतो ऽधमर्णाद् वृद्धिलोभादिवशाद् यद्य् उत्तमर्णेन तन् न गृहीतं तदा तस्य कृतापि वृद्धिर् न देयेत्य् अर्थः । तथा च याज्ञवल्क्यः (२.४४ ) ।

    दीयमानं न गृह्णाति प्रयुक्तं यत् स्वकं धनम् ।


    मध्यस्थस्थापितं तत् स्याद् वर्धते न ततः परम् ॥

मध्यस्थस्थापितम् इति विशेषणाद् अधमर्णेन यदि स्वहस्ते स्थाप्येत तदा भवत्य् एव वृद्धिः । दत्तस्य ऋणस्य प्रतिमासं प्रतिवर्षं वा वृद्धिग्रहणं विना चिरम् अवस्थितस्य परमां वृद्धिं द्रव्यभेदेनाह बृहस्पतिः

    हिरण्ये द्विगुणा वृद्धिस् त्रिगुणा वस्त्रकुप्यके ।


    धान्ये चतुर्गुणा प्रोक्ता सदवाह्यलवेषु च ॥


    उक्ता पञ्चगुणा शाके बीजेक्षौ षड्गुणा स्मृता ।


    लवणस्नेहमद्येषु वृद्धिर् अष्टगुणा मता ।


    गुडे मधुनि चैवोक्ता प्रयुक्ते चिरकालिके ॥

कुप्यं त्रपुसीसादिकम् । सदः क्षेत्रफलं पुष्पफलमूलादिकम् ।

[१४३] धान्यस्य क्षेत्रफलत्वे ‘पि पृथङ्निर्देशो गोबलीवर्दन्यायात् । बाह्यो घोटकादिः । लव ऊर्णाचामरादिः । य त्तु

	धान्ये सदलवे वाह्ये नातिक्रामति पञ्चताम् ।

इति मनुवचनं (८.१५१), तत् षाड्गुण्यादिनिषेधपरम् । स्मृतिचन्द्रिकाकारस् तु प्रत्यर्पणसमसमयसमृद्धाधमर्णविषयम् इत्य् आह । अत्र चिरकालशब्देन प्रतिश्रुताया अशीतिभागादिवृद्धेर् यस्मिन् काले द्वैगुण्यादिप्रापकत्वं भवति ततो ऽधिकः कालो गृह्यते । वज्रादिष्व् अपि द्वैगुण्यम् आह वसिष्ठः

    वज्रशुक्तिप्रवालानां हेम्नश् च रजतस्य च ।


    द्विगुणा त्व् इष्यते वृद्धिः कृतकालानुसारिणी ॥

शुक्तिशब्देनात्र मुक्ताफलं लक्ष्यते वज्रसाहचर्यात् । अत एव कात्यायनः (५१०) ।

    मणिमुक्ताप्रवालानां सुवर्णरजतस्य च ।


    तिष्ठते द्विगुणा वृद्धिः फलकैटाविकस्य च ॥

कैटं कीटोद्भवं पट्टसूत्रादि । आविकं कम्बलादि । ताम्रादौ त्रिगुणां वृद्धिम् आह वसिष्ठः

    ताम्रायःकांस्यरीतीनां त्रपुणः सीसकस्य च ।


    त्रिगुणा तिष्ठते वृद्धिः कालाच् चिरकृतस्य तु ॥

रीतिर् आरकूटम् । कार्पासे षड्गुणां वृद्धिम् आह व्यासः

	शाककार्पासबीजेक्षौ षड्गुणा परिकीर्तिता ।

तैलादाव् अष्टगुणां वृद्धिम् आह कात्यायनः (५११) ।

    तैलानां चैव सर्वेषां मद्यानाम् अथ सर्पिषाम् ।


    वृद्धिर् अष्टगुणा ज्ञेया गुडस्य लवणस्य च ॥

व्यासो ऽपि ।

	वदन्त्य् अष्टगुणान् काले मद्यस्नेहरसासवान् ।

स्नेहस् तैलादिः । रसः क्षीरादिः । विष्णुः (६.११-१५) [१४४] “हिरण्यस्य द्विगुणा वृद्धिस् त्रिगुणा वस्त्रस्य धान्यस्य चतुर्गुणा रसस्याष्टगुणा सन्ततिः स्त्रीपशूनाम्” इति । यत् तु “त्रिगुणं धान्यं धान्येनैव रसा व्याख्याताः पुष्पमूलफलानि च तुलाधृतम् अष्टगुणम्” इति वसिष्ठवचने (२.४४-४७ ) धान्यादीनां त्रैगुण्याभिधानं तद् यस्मिन् देशे त्रिगुणम् एव धान्यादिकं देयम् इति स्थितिस् तद्विषयम् । तुलाधृतं शर्करादि । एवम् अन्यान्य् अपि यानि न्यूनाधिकपरमवृद्धिप्रतिपादकानि

	वस्त्रधान्यहिरण्यानां चतुस्त्रिद्विगुणा परा ।

इत्य् एवमादीनि याज्ञवल्क्यादिवचनानि (य्ध् २.३९ ) तानि देशविशेषविषयतया योज्यानि । देशस्थितिभेदेन परमवृद्धेर् भेद उक्तो नारदेन (ऋणादान। १०५-१०६) ।

    ऋणानां सार्वभौमो ऽयं विधिर् वृद्धिकरः स्मृतः ।


    देशाचारस्थितिस् त्व् अन्या यत्रर्णम् अवतिष्ठते ॥


    द्विगुणं त्रिगुणं चैव तथान्यस्मिंश् चतुर्गुणम् ।


    तथाष्टगुणम् अन्यस्मिन् देयं देशे ऽवतिष्ठते ॥ इति ।

येषां द्वैगुण्यादिकम् अनाम्नातं तेषां द्वैगुण्यं ज्ञेयम् इत्य् आह विष्णुः (६.१७ ) “अनुक्तानां द्विगुणम्” इति ।

अयं च द्वैगुण्यादिरूपो वृद्ध्युपरमो यदि वृद्धिः पुरुषान्तरे न संक्रामिता न वा मूलीकृता तदा भवतीति ज्ञातव्यम् । तेनाधमर्णो यदि तां वृद्धिम् अहं दास्यामीति पुरुषान्तरम् अङ्गीकारयति स्वयं वा तां मूलत्वेनाङ्गीकरोति उत्तमर्णो वा कस्मिंश्चित् पुरुषे तां वृद्धिम् अधमर्णाङ्गीकारपुरःसरं बन्धकीकृत्य स्वधनं गृह्णाति तदा तद्दिनम् आरभ्य प्रतिदानपर्यन्तं तद्द् हनं वर्धत एव । अत एव **मनुः** (८.१५१) ।

	कुसीदवृद्धिर् द्वैगुण्यं नात्येति सकृद् आहिता ।

कुसीदम् ऋणं तस्य वृद्धिः कुसीदवृद्धिः । द्वैगुण्य्अग्रहणं त्रैगुण्यादीनाम् अप्य् उपलक्षणम् । सकृद् आहिता सकृत् प्रयुक्ता पुरुषान्तरसंक्रमणादिप्रयोगान्तररहितेत्य् अर्थः । केचित् तु सकृद् आहृतेति पठन्ति तन्त्रायम् अर्थः । यदि [१४५] प्रतिमासं प्रतिवर्षं न गृह्यते किं तु सकृद् गृह्यते तदा द्वैगुण्यं नातिक्रामतीति । एतेन सकृद्ग्रहणाभावे द्वैगुण्यम् अतिक्रामतीति सूचितम् । क्वचिद् वृद्ध्युपरमो नास्तीत्याह बृहस्पतिः

    तृणकाष्ठेष्टकासूत्रकिण्वचर्मास्थिवर्मणाम् ।


    हेतिपुष्पफलानां च वृद्धिस् तु न निवर्तते ॥

किण्वं सुरोत्पादनकारणभूतो मलविशेषः । चर्म शरादिनिवारकफलकः । वर्म कवचं । हेतिर् आयुधम् । वसिष्ठः

    दन्तचर्मास्थिशृङ्गाणां मृन्मयानां तथैव च ।


    अक्षया वृद्धिर् एतेषां पुष्पमूलफलस्य च ॥

विष्णुः (६.१६ ) “किण्वकार्पाससूत्रचर्मवर्मायुधेष्टकाङ्गाराणाम क्षया” इति । अत्र यत् पुष्पफलकार्पासानां वृद्ध्युपरमाभावाभिधानं तद् अत्यन्तसमृद्धाधमर्णविषयं देशविशेषविषयं वेति न प्रागुक्तवचनविरोधः । शिखावृद्ध्यादीनाम् अनुपरमम् आह बृहस्पतिः

    शिखावृद्धिं कायिकीं च भोगलाभं तथैव च ।


    धनी तावत् समादद्याद् यावन् मूलं न शोधितम् ॥

न शोधितं न प्रत्यर्पितम् ।

आधेः स्वरूपं तद्भेदं च दर्शयति **बृहस्पतिः** ।


    आधिर् बन्धः समाख्यातः स च प्रोक्तश् चतुर्विधः ।


    जङ्गमः स्थावरश् चैव गोप्यो भोग्यस् तथैव च ॥


    यादृच्छिकः सावधिश् च लेखारूढो ऽथ साक्षिमान् ।

यद्य् अप्य् आधिर् अष्टविधो दर्शितस् तथापि गोप्यभोग्ययादृच्छिकसावधिरूपाणां चतुर्णां भेदानाम् अत्रानेकविधाभ्युपयोगार्थं तात्पर्यातिशयेन कथनं नान्येषाम् इति वक्तुं प्रोक्तश् चतुर्विध इत्य् उक्तम् इति स्मृतिचन्द्रिकायाम् । आगृहीतस्य धनस्योपरि विश्वासार्थम् अधमर्णेनोत्तमर्णे धीयते स्थाप्यते इत्य् आधिःगोप्यो रक्षणीयः । यादृच्छिकः अकृतावधिः । सावधिः अमुकस्मिन् दिने ऋणं प्रत्यर्प्याहम् एनम् आधिं मोचयिष्यामि नो चेत् तवैव **[१४६] **चायम् इत्य् अवधिं कृत्वा स्थापितः । एता मुख्यार्श् चतस्रो विधा दर्शयति नारदः (ऋणादान। १२४-२५)

    अधिक्रियत इत्य् आधिः स विज्ञेयो द्विलक्षणः ।


    कृतकालोपनेयश् च यावद् देयोद्यतस् तथा ॥


    स पुनर् द्विविधः प्रोक्तो गोप्यो भोग्यस् तथैव च ।

अधि उपरि क्रियते स्थाप्यते । कृतकालोपनेयः कृतकाले कल्पिते ऽवधौ उपनेयः स्वसमीपं नेयो ऽधमर्णान् मोचनीय इत्य् अर्थः । यावद्देयोद्यतः यावद् ऋणं तिष्ठति तावत् स्थापितो ऽवधिरहित इत्य् अर्थः । अधेर् गृहीतस्य यथासमयं परिपालनं कर्तव्यम् इतरथा वृद्धिहानिर् मूलहानिर् वा भवतीत्य् आह हारीतः

    बन्धं यथा स्थापितं स्यात् तथैव परिपालयेत् ।


    अन्यथा नश्यते लाभो मूलं वा तद्व्यतिक्रमात् ॥

तद्व्यतिक्रमात् समयव्यतिक्रमात् । अत्र वृद्धिहान्यभिधानं गोप्यतया स्थापितस्याधेर् भोगे वेदितव्यम् । अत एव याज्ञवल्क्यः (२.५९ ) ।

	गोप्याधिभोगे नो वृद्धिः सोपकारे ऽथ हापिते । इति ।

गोप्याघेर् अल्पे ऽपि भोगे महत्य् अपि वृद्धिर् न दातव्या । सोपकारे भोग्याधौ सवृद्धिके हापिते व्यवहारायोग्यतां प्रापिते वृद्धिर् न दातव्येत्य् अर्थः । एतच् च बलात्कारविषयम् । तथा च मनुः (८.१४४) ।

	न भोक्तव्यो बलाद् आधिर् भुञ्जानो वृद्धिम् उत्सृजेत् ।

भोगप्रतिषेधं कुर्वतो ऽधमर्णस्य वचनम् उल्लङ्घ्याधिं भुञ्जानस्यात्यन्तापराधित्वाद् अल्पभोग एव सर्ववृद्धिनाश इत्य् अर्थः । बलात्काराभावे तूक्तं तेनैव (मनु ८.१५०) ।

    यः स्वामिनाननुज्ञातम् आधिं भुङ्क्ते ‘विचक्षणः ।


    तेनार्धवृद्धिर् मोक्तव्या तस्य भोगस्य निष्कृतिः ॥

अर्धग्रहणम् अननुज्ञाताधिभोगानुसारेण कल्पितस्य वृद्धिभागस्योपलक्षणम् । बृहस्पतिवचनं यन् मूलहान्यभिधानं तद् बलात्कारकृतम् अहाभोगविषयम् [१४७] इत्य् उक्तं स्मृतिचन्द्रिकायाम् । आधिविनाशविषयम् इति केचित् । गोप्याधितया स्थापितस्य दास्यादेः कर्मकारणे विशेषान्तरम् आह कात्यायनः (५२५) ।

    अकामम् अननुज्ञातम् आधिं यः कर्म कारयेत् ।


    भोक्ता कर्मफलं दाप्यो वृद्धिं वा न लभेत सः ॥

अकामम् इच्छारहितम् । कर्मफलं वेतनम् । दाप्यः अधमर्णायेति शेषः । एवं गोप्याधितया स्थापिते घोटकादौ तद्भाटकं दापनीयं वृद्धिर् वा त्याजनीया । उभयविधस्याधेर् यो ऽन्यथाभावादिकं प्रापयति तं प्रत्य् आह याज्ञवल्क्यः (२.५९) ।

	नष्टो देयो विनष्टश् चेद् दैवराजकृताद् ऋते ।

नष्टो विकृतिं गतः पूर्ववत् कृत्वा देयः । विनष्टः आत्यन्तिकं नाशं प्राप्तः सो ऽपि मूल्यादिद्वारेण देयः । अग्न्युदकदेशोपप्लवादिदैवकृते राजकृते च विनाशे नैवम् इत्य् अर्थः । विकृतस्यैवाधेः प्रत्यर्पणे लाभहानिम् आह नारदः (ऋणादान। १२५-१२६ ) ।

    उपचारस् तथैवास्य लाभहानिर् विपर्यये ।


    प्रमादाद् धनिनस् तद्वद् आधौ विकृतिम् आगते ॥

अस्य आधेः तथैव समयान् अतिक्रमेणैव्ओपचारो व्यवहारः । तद्विपर्यये वृद्धिहानिः । तद्वद् आधौ धनिनः प्रमादाद् विकृतिम् आगते लाभहानिर् इत्य् अर्थः । उपभोगेन विकृतिं गतस्य तथैवार्पणे मूलनाशम् आह बृहस्पतिः

	भुक्ते त्व् असारतां प्राप्ते मूलहानिः प्रजायते ।

आधेर् विनाशे तन्मूल्यं दातव्यम् इत्य् आह व्यासः

    ग्रहीतृदोषान् नष्टश् चेद् बन्धो हेमादिको भवेत् ।


    ऋणं सलाभं संशोध्य तन्मूल्यं दापयेद् धनी ॥

सलाभम् ऋणं संशोध्य सम्यग् विचार्य विनष्टाधेर् मूल्यं दत्त्वा [१४८] यद्य् ऋणमध्ये किंचिद् अधमर्णे ऽवशिष्टं तदा तद् गृह्णीयाद् इत्य् अर्थः । सवृद्धिकमूलपर्याप्ताधेर् नाशे तद्धानिम् आह नारदः (ऋणादान १२६) ।

	विनष्टे मूलनाशः स्याट् दैवराजकृताद् ऋते ।

हारीतो ऽपि ।

	आधौ नष्टे धनं नष्टं धनिकस्याधिर् एव वा । इति ।

सलाभमूलापेक्षया बहुमूल्यस्याधेर् नाशे सलाभं मूलं दत्त्वावशिष्टं मूल्यम् अपि दद्यात् । तथा च बृहस्पतिः

	बहुमूल्यो यत्र नष्ट ऋणिकं तत्र तोषयेत् ।

मनुर् अपि (८.१४४) ।

	मूल्येन तोषयेच् चैनम् आधिस्तेनो ऽन्यथा भवेत् ।

यो धनिक आधिनाशे ऽपि ऋणपत्रावष्टम्भेनाधमर्णाद् धनं जिघृक्षेत स दण्डनीय इत्य् आह कात्यायनः (५२८) ।

    आधिदृष्टेन (आधिं दुष्ठेन?) लेख्येन भुङ्क्ते यद् ऋणिकाद् धनी ।


    नृपो दमं दापयित्वा आधिलेख्यं तु नाशयेत् ॥

दमं दण्डम् । दैवराजकृते आधिविनाशे वृद्धिसहितम् ऋणम् आध्यन्तरं वाधमर्णो धनिने दद्यात् । तथा च बृहस्पतिः

    दैवराजोपघातेन यत्राधिर् नाशम् आप्नुयात् ।


    तत्राधिं दापयेद् दद्यात् सोदयं वा धनम् ऋणी ॥

राजोपघात्तो ‘त्रोच्छृङ्खलेन राज्ञा कृत उपप्लवो न तु धनिकापराधनिमित्तकः । अत एवोक्तं व्यासेन

	दैवराजोपघाते तु न दोषो धनिनः क्वचित् । इति ।

एवं चोरस्वजनादिनिमित्तकाध्यापचारे ऽपि धनिकदोषाभावे धनम् आध्यन्तरं वा दातव्यम् । अत एव कात्यायनः (५२४) ।

    न चेद् धनिकदोषेण निपतेद् वा म्रियेत वा ।


    आधिम् अन्यं स दाप्यः स्याद् ऋणान् मुच्येत नर्णिकः ॥

[१४९] निपतेत् नश्येत् । म्रियेतेति पश्वाद्यभिप्रायेण । अदाने तस्माद् ऋणान् न मुच्येतेत्य् अर्थः । सम्यग्रक्ष्यमाणस्याप्य् आधेर् असारत्वे जाते धनम् आध्यन्तरं वा दातव्यम् इत्य् आह नारदः (ऋणादान। १३०) ।

    रक्ष्यमाणो ‘पि यद्य् आधिः कालेनेयाद् असारताम् ।


    आधिर् अन्यो ऽथ वा कार्यो देयं वा धनिनो धनम् ॥

असारतां वृद्धिसहितमूलद्रव्यापर्याप्तताम् । याज्ञवल्क्यो ऽपि (२.६०) ।

    आधेः स्वीकरणात् सिद्धी रक्ष्यमाणो ऽप्य् असारताम् ।


    यातश् चेद् अन्य आधेयो धनभाग् वा धनी भवेत् ॥

आधेः स्वीकरणात् उपभोगात् सिद्धिर् न लेख्यमात्रेणेत्य् अर्थः ।

तथा च नारदः (ऋणादान। १३९) ।

    आधिस् तु द्विविधः प्रोक्तो जङ्गमः स्थावरस् तथा ।


    सिद्धिर् अस्योभयस्यापि भोगो यद्य् अस्ति नान्यथा ॥

गोप्याधौ भोगः स्वीकारः, भोग्याधौ फलभोगः । एतच् चाधेर् भोगात् सिद्धिप्रतिपादनं

	आधौ प्रतिग्रहे क्रीते पूर्वां तु बलवत्तरा । (य्ध् २.२३ )

इत्येवमादिवाक्योक्तनिर्णयार्थम् । अत एव द्वयोर् धनिकयोर् दुष्टेनाधमर्णेनैकस्य बन्धकीकरणे भोगवशान् निर्णय इत्य् आह विष्णुः (५.१८४) ।

    ययोर् निक्षिप्त आधिस् तौ विवदेतां यदा नरौ ।


    यस्य भुक्तिर् जयस् तस्य बलात्कारं विना कृता ॥

उभयोर् अपि भुक्तियोगित्वे निर्णयप्रकारम् आह बृहस्पतिः

    क्षेत्रम् एकं द्वयोर् बन्धे दत्तं यत् समकालिकम् ।


    येन भुक्तं भवेत् पूर्वं तस्य तत्सिद्धिम् आप्नुयात् ॥

क्षेत्रग्रहणम् उपलक्षणम् । वसिष्ठो ऽपि ।

    तुल्यकाले निसृष्टानां लेख्यानाम् आधिकर्मणि ।


    येन भुक्तं भवेत् पूर्वं तस्याधिर् बलवत्तरः ।

निसृष्टानां कृतानां लेख्यानां सद्भावे ऽपीति शेषः । उभयोर् अप्य् [१५०] एकस्य क्षेत्रस्य बन्धकीकृत्य निर्देशे तयोश् चोपभोगार्थं युगपत् प्राप्तयोर् विभज्य तद्ग्रहणम् इत्य् आह वसिष्ठः

    यद्य् एकदिवसे तौ तु भोक्तुकामाव् उपागतौ ।


    विभज्याधिः समं तेन भोक्तव्य इति निश्चयः ॥

तेन ताभ्याम् । वचतव्यत्यये सुश्छान्दसः । उभयोर् एकं बन्धकीकुर्वतो ऽधमर्णस्य दण्ड उक्तः कात्यायनेन (५१७) ।

    आधिम् एकं द्वयोर् यस् तु कुर्यात् का प्रतिपद् भवेत् ।


    तयोः पूर्वकृतं ग्राह्यं तत्कर्ता चोरदण्डभाक् ॥

आधिविशेषे दण्डविशेषम् आह विष्णुः (५.१८१-१८२) ।

    गोचर्ममात्राधिकां भुवम् अन्यस्याधीकृताम् अन्यस्य यः प्रयच्छेत् स वध्यः । ऊनां चेत् षोडशसुवर्णं दण्ड्यः । इति । 

गोप्याधिर् मूलधनस्य द्वैगुण्यापत्तिपर्यन्तं यदि न मोच्यते यदि च सावधिर् गोप्याधिर् भोग्याधिश् च कृतावधिकालपर्यन्तं न मोच्यते तदा सो ऽधमर्णस्य नश्यति उत्तमर्णस्य स्वं भवति । निरवधिको भोग्याधिस् तु न कदाचिद् उत्तमर्णस्य स्वं भवतीत्य् आह याज्ञवल्क्यः (२.५८) ।

    आधिः प्रणश्येद् द्विगुणे धने यदि न मोच्यते ।


    काले कालकृतो नश्येत् फलभोग्यो न नश्यति ॥

काले अवधौ प्राप्ते इत्य् अर्थः । कालकृतः कृतावधिकः । “जातिकालसुखादिभ्यः परवचनम्” इति वार्तिककारवचनान् निष्ठान्तस्य परनिपातः । द्विगुणीभावानन्तरम् अवध्यनन्तरं चाधिविमोचने चतुर्दश दिनानि प्रतीक्षा कार्येत्य् आहतुर् व्यास-बृहस्पती

    हिरण्ये द्विगुणीभूते पूर्णे काले कृतावधौ ।


    बन्धकस्य धनी स्वामी द्विसप्ताहं प्रतीक्ष्य तु ॥


    तदन्तरा धनं दत्त्वा ऋणी बन्धम् अवाप्नुयात् ।

[१५१] धनी उत्तमर्णः । तत् तस्मात् कारणात् । अन्तरा दिनचतुर्दशकमध्ये इत्य् अर्थः । यत् तु

    पूर्णावधौ शान्तलाभे बन्धे स्वामी धनी भवेत् ।


    अनिर्गते दशाहे तु ऋणी मोचितुम् अर्हति ॥ 

इति दिनदशकप्रतीक्षाविधायकं बृहस्पतिवचनं तद् वस्त्रादिविषयं व्यास-बृहस्पतिवचनं तु हिरण्यविषयं हिरण्ये द्विगुणीभूते इति तत्राभिधानात् ।

शान्तलाभे त्रैगुण्यादिपरमवृद्ध्या निवृत्तलाभे । अत एव शान्दलाभे इति सामान्येनाभिधानाद् याज्ञवल्क्यवचने द्वैगुण्यग्रहणं त्रैगुण्यादीनाम् अप्य् उपलक्षणम् । तेन यदा गोप्याधिं स्थापयित्वा वस्त्रादिकम् ऋणतया गृह्यते तदा पूर्वोक्तात् त्रैगुण्यादिपरमवृद्धिकालाद् ऊर्ध्वं दिनदशकमध्ये अमोचित आधिर् उत्तमर्णस्य स्वं भवतीति सिध्यति । यत् तु

	न चाधेः कालसंरोधान् निसर्गो ऽस्ति न विक्रयः ।

इति कालसंरोधाच् चिरकालावस्थानाद् आधेर् न निसर्गो न धनिकेनान्यत्राधीकरणं न वा विक्रयणम् इत्य् आधेर् धनिकस्वत्वाभावप्रतिपादकं मनुवचनं (८। १४३) तद् अकृतावधिकभोग्याधिविषयम् । द्वैगुण्याद्यतिक्रमे ऽवध्यतिक्रमे च चतुर्दशाहादिप्रतीक्षणानन्तरम् आधेर् यद् धनिकस्वत्वम् उक्तं तद् धनिकेन यदाधमर्णस् तदसंनिधौ तत्पुत्रादिर् वा तमर्थं ज्ञापयित्वा धनं याच्यते तदा भवति नान्यथा । अत एव व्यासः

    गोप्याधिर् द्विगुणाद् ऊर्ध्वं कृतकालस् तथावधेः ।


    आवेदयित्वार्णिकुले भोक्तव्यस् तदनन्तरम् ॥ इति

यदि मूले परां वृद्धिं प्राप्ते चतुर्दशाहादिप्रतीक्षाकालमध्ये बन्धकमोचनात् प्राग् अधमर्णो म्रियेत देशान्तरगतस्य तस्य जीवनवार्ता न श्रूयेत वा तत्पुत्रादिश् च न स्यात् तदा यत् कर्तव्यं तद् आह बृहस्पतिः

    हिरण्ये द्विगुणीभूते मृते नष्टे ऽधमर्णिके ।


    द्रव्यं तदीयं संगृह्य विक्रीणीत ससाक्षिकम् ॥

[१५२] रक्षेद् वा कृतमूल्यं तु दशाहं जनसंसदि ।

	ऋणानुरूपं परतो गृहीतान्यत् तु वर्जयेत् ॥

हिरण्यग्रहणं वस्त्रादीनाम् अप्य् उपलक्षणम् । द्विगुणीभूते इति त्रैगुण्यादीनाम् अप्य् उपलक्षणम् । नष्टे कुत्रचि गते चिरम् अज्ञाते । द्रव्यं बन्धकीकृतं द्रव्यम् । परतः दशाहाद् ऊर्ध्वम् । अन्यत् तु वर्जयेद् इत्य् अनेनावशिष्टसमर्पणम् ऋणिबान्धवे तदभावे" राजनि कर्तव्यम् इति सूचितम् । अत एव कात्यायनः (५२९) ।

    आधाता यत्र वै न स्याद् धनी बन्धं निवेदयेत् ।


    राज्ञस् ततः स विज्ञातो विक्रेय इति धारणा ॥


    सवृद्धिकं गृहीत्वा तु शेषं राजन्य् अथार्पयेत् ।

क्वचिद् गोप्याधेर् द्वैगुण्याद्यतिक्रमे ‘प्य् अधमर्णस्वत्वं नापैतीत्य् आह याज्ञवल्क्यः (२.६१) ।

    चरित्रबन्धककृतं सवृद्ध्या दापयेद् धनम् ।


    सत्यङ्कारकृतं द्रव्यं द्विगुणं प्रतिदापयेत् ।

चरित्रं शोभनाचारः । तेन यद् बन्धकं तच् चरित्रबन्धकं तेन यद् द्रव्यम् आत्मसात्कृतं पराधीनं वा कृतं तच् चरित्रबन्धककृतम् । अयम् अर्थः । यदि धनिनः शोभनाचारताम् अवगत्याधमर्णेन बहुमूल्यं द्रव्यं बन्धकीकृत्याल्पम् एव द्रव्यं गृहीतं यदि वाधमर्णस्य निर्दोषताम् अवगत्योत्तमर्णेनाल्पमूल्यं बन्धकं गृहीत्वा बहुधनं दत्तं तदा तद् धनं राजा सवृद्धिकं दापयेत् । न त्व् आधिनाश इत्य् अर्थः । अथ वा चरित्रं गङ्गास्नानाग्निहोत्रादिजनितम् अपूर्वं तद् बन्धकीकृत्य गृहीतं चरित्रबन्धककृतम् । सत्यङ्कारकृतं यद् ऋणग्रहणसमये द्विगुणीभूते ‘पि धने मया धनम् एव द्विगुणं दातव्यं न त्व् अयम् आधिस् तवेति परिभाष्य गृहीतं धनम् । चरित्रबन्धकादिस्थले द्वैगुण्याद् ऊर्ध्वम् अधमर्णेन नाधिनाशो भविष्यतीति बुद्ध्या न विलम्बः कार्य इत्याह व्यासः

[१५३] गोप्याधिं द्विगुणाद् ऊर्ध्वं मोचयेद् अधमर्णिकः । इति ।

अत्रैव विषये ऽधमर्णासंनिधाने धनिकेनाधिर् विक्रेतव्य इत्य् आह याज्ञवल्क्यः (२। ६३) ।

	विना धारणकाद् वापि विक्रीणीत ससाक्षिकम् ।

अत्र वाशब्दो व्यवस्थितविकल्पार्थः । यदर्णदानकाले आधिनाशो नेति परिभाषितं तदायं पक्षः । इतरथा आधिः प्रणश्येद् द्विगुण इत्य् आधिनाश इत्य् उक्तं विज्ञानेश्वराचायैः । यदि द्वैगुण्यापत्तिकालाद् अवधिकालाद् वा प्राग् यदा कदाचिद् धनं दत्त्वाधिं मोचयितुम् अधमर्णः समायाति तदा तदैवाधिर् मोक्तव्यो न वृद्धिलोभेन स्थापनीयः । तथा च बृहस्पतिः

    धनं मूलीकृतं दत्त्वा यदाधिं प्रार्थयेद् ऋणी ।


    तदैव तस्य मोक्तव्यस् त्व् अन्यथा दोषभाग् धनी ॥

भोग्याधौ वृद्धिपरिकल्पनरहिते मूलमात्रं दत्वा गोप्याधौ सवृद्धिकं मूलं दत्त्वा यदाधिं प्रार्थयेतेत्य् अर्थः । याज्ञवल्क्यो ‘पि (२.६२) ।

	उपस्थितस्य मोक्तव्य आधिः स्तेनो ऽन्यथा भवेत् ।

धनिकस्यासंनिधाने तदाप्तहस्ते धनं दत्त्वाधिम् अधमर्णो गृह्णीयाद् इत्य् आह स एव (य्ध् २। ६२) ।

	प्रयोजके ऽसति धनं कुले ऽन्यस्याधिम् आप्नुयात् ।

यदि धनिको ऽपि न संनिहित स्तस्याप्तो ऽपि को ऽपि न स्याद् अधमर्णस्य चाग्रिम् अवृद्धिप्रतिरोधायाधिविक्रयेण धनदित्सा भवति तदा तत्कालोचितं यद् आधेर् मूल्यं तत् परिकल्प्य धनिकगृह एव तम् आधिं स्थापयेत् । तथा च न तद्दिनम् आरभ्य तद् धनं वर्धत इत्य् आह स एव (य्ध् २। ६३) ।

	तत्कालकृतमूल्यो वा तत्र तिष्ठेद् अवृद्धिकः ।

तिष्ठेद् आधिर् इति शेषः । तत्र प्रयोक्तृकुले । एतच् चाधिमोचनं यदि भोग्याधिर् गोप्याधिश् चैतावन्तं कालं मया न मोचनीय इत्य् अधमर्णेन [१५४] परिभाष्य स्थापितस् तदावधिकालात् प्राग् लोभेन न कर्तव्यम् । इदम् एवाभिप्रेत्य् आह फलभोग्याधिविषये व्यासः

	फलभोग्यं पूर्णकालं दत्त्वा द्रव्यं तु सामकम् । इति !

ऋणी बन्धम् अवाप्नुयाद् इत्य् अनुषङ्गः । मूलमात्रं दत्त्वा परिभाषितकालम् आपन्नं फलभोग्याधिम् आप्नुयाद् इत्य् अर्थः । फलभोग्यग्रहणम् आध्यन्तरोपलक्षणम् । सामकग्रहणं सवृद्धिकस्याप्य् उपलक्षणम् । क्वचिद् भोग्याधौ विशेषम् आह

बृहस्पतिः

    क्षेत्रादिकं यदा भुक्तम् उत्पन्नम् अधिकं ततः ।


    मूलोदयं प्रविष्टं चेत् तदाधिं प्राप्नुयाद् ऋणी ॥


    परिभाष्य यदा क्षेत्रं प्रदद्याद् धनिके त्व् ऋणी ।


    त्वयैतच् छान्तलभार्थे भोक्तव्यम् इति निश्चयः ॥


    प्रविटे सोदये द्रव्ये प्रदातव्यं त्वया मम ॥ इति ।

अधिकं मूलापेक्षयाधिकं क्षेत्राद्यर्थव्ययद्रव्यम् । ततः तस्मात् क्षेत्रादेः ।

उदयो वृद्धिः । शान्तलाभार्थे परमवृद्धिसहिते मूलद्रव्ये । इयं निमित्ते सप्तमी । परमवृद्धिसहितं क्षेत्राद्यर्थव्ययद्रव्यसहितम् एतन् मूलद्रव्यम् अस्मिन् क्षेत्र उपभोक्तव्यम्, उपभोगेन सवृद्धिके धने प्रविष्टे त्वयैतत् क्षेत्रं मोक्तव्यम् इति परिभाष्य यदा क्षेत्रादिकं बन्धकीकुर्यात् तदा क्षेत्रादिफलभोगेन क्षेत्राद्यर्थव्ययसहिते सवृद्धिके धने प्रविष्टे ऋणी किम् अप्य् अदत्त्वा तम् आधिं प्राप्नुयाद् इत्य् अर्थः । एवंविधस्याधेः करणं (करणे ?) पूर्वगृहीते ऋणे कालक्रमेण परां वृद्धिं प्राप्ते सति तदनन्तरं यः सवृद्धिकमूलोपभोगार्थं क्षेत्रादिर् आधिः क्रियते स क्षेत्राद्यर्थव्ययसहितसवृद्धिकमूलोपभोगानन्तरं धनिकेनाधमर्णाय प्रत्यर्पणीयः । तथा च याज्ञवल्क्यः (२। ६४) ।

    यदा तु द्विगुणीभूतम् ऋणम् आधौ तदा खलु ।


    मोच्य आधिस् तदुत्पन्ने प्रविष्टे द्विगुणे धने ॥

[१५५] तदा आधौ कृते इति शेषः । अयं च क्षयाधिर् इति लोके व्यवहियते ।

**अथ प्रतिभूभेदाः । **

तत्र बृहस्पतिः

    दर्शने प्रत्यये दाने ऋणिद्रव्यार्पणे तथा ।


    चतुःप्रकारः प्रतिभूः शास्त्रे दृष्टो मनीषिभिः ॥

प्रत्ययो विश्वासः । दानं गृहीतद्रव्यदानम् । ऋणिद्रव्यार्पणं ऋणिनो यद् द्रव्यं गृहोपकरणादि तस्यार्पणम् । एतेषां चतुर्णां प्रातिभाव्यस्वीकरणप्रकारम् आह स एव

    आहैको दर्शयामीति साधुर् इत्य् अपरो ऽब्रवीत् ।


    दाताहम् एतद् द्रविणम् अर्पयामीति चापरः ॥

एको दर्शनप्रतिभूर् दर्शनापेक्षायाम् एनं दर्शयिष्यामीत्य् आह । अपरः प्रत्ययप्रतिभूर् एष साधुर् न त्वां प्रतारयिष्यति यतो ऽयं श्रोत्रियस्य पुत्रो ऽस्य सर्वसस्यसम्पन्नो ग्रामो ऽस्ति मत्प्रत्ययेनास्य धनं देहीति ब्रवीति । दानप्रतिभूर् यद्य् अयं न ददाति तदा सवृद्धिकम् ऋणम् अहं दातेति वदति । अपरः ऋणिद्रव्यार्पणप्रतिभूर् यद्य् अयं न ददाति तदाहम् एतदीयगृहोपकरणादिकम् अर्पयिष्यामीति कथयतीत्य् अर्थः । दर्शनप्रतिभूर् धनिकस्य धारणकदर्शनापेक्षायां तं दर्शयेद् इत्य् आह कात्यायनः (५३) ।

	दर्शनप्रतिभूर् यस् तु देशे काले च दर्शयेत् ।

दर्शिते धारणके स प्रातिभाव्यान् मोक्तव्य इत्य् आह स एव (कात् ५३२) ।

	यद्य् असौ दर्शयेत् तत्र मोक्तव्यः प्रतिभूर् भवेत् ।

यो न दर्शयति तेन सवृद्धिकम् ऋणं दातव्यम् इत्य् आह स एव (कात्। ५३५) ।

    यो यस्य प्रतिभूस् तिष्ठेद् दर्शनायेह मानवः ।


    अदर्शयन् स तत् तस्य प्रयच्छेत् स्वधनाद् ऋणम् ॥

एतच् चाधमर्णान्वेषणार्थावधिकालातिक्रमे वेदितव्यम् । अन्वेषणार्थावधिकालश् च प्रतिभुवे दातव्यः । तथा च कात्यायनः (५३२ - ५३३) ।

    नष्टस्यान्वेषणार्थं तु देयं पक्षत्रयं परम् ।


    यद्य् असौ दर्शयेत् तत्र मोक्तव्यः प्रतिभूर् भवेत् ॥

[१५६] काले प्रतीते प्रतिभूर् यदि तं नैव दर्शयेत् ।

	स तम् अर्थं प्रदाप्यः स्यात् प्रेते चैष विधिः स्मृतः ॥

परं परमावधिरूपम् । प्रतीते अन्वेषणार्थं परिकल्पिते देशनैकट्याद्यनुसारेण । दर्शनावधिकालभेदान् आह बृहस्पतिः

    नष्टस्यान्वेषणे कालं दद्यात् प्रतिभुवे धनी ।


    देशानुरूपतः पक्षं मासं सार्धम् अथापि वा ॥

एतच् च दैवराजकृतप्रतिबन्धाभावे वेदितव्यम् । तथा च कात्यायनः (५३१) ।

    दर्शनप्रतिभूर् यस् तं देशे काले न दर्शयेत् ।


    निबन्धम् आवहेत् तत्र दैवराजकृताद् ऋते ॥

निबन्धम् ऋणम् आवहेद् दद्यात् । दैवकृतं दीर्घरोगबन्धुमरणादिकं राजकृतं बन्धनादिकम् । प्रत्ययप्रतिभूर् विश्वासव्यभिचारे ऋणं दद्याद् दानप्रतिभूस् तु धारणकेनर्णानपाकरणे ऋणं दद्यात् । तथा च नारदः (ऋणादान। ११९) ।

    ऋणिष्व् अप्रतिकुर्वत्सु प्रत्यये वाथ हापिते ।


    प्रतिभूस् तद् ऋणं दद्याद् अनुपस्थापयंस् तदा ॥

ऋणिद्रव्यार्पणप्रतिभूर् अपि धारणकेनर्णानपाकरणे देयद्रव्यसमानं तद्गृहोपकरणादिकं दद्यात् । तथा च बृहस्पतिः

    आद्यौ तु वितथे दाप्यौ तत्कालावेदितं धनम् ।


    उत्तरौ तु विसंवादे तौ विना तत्सुतौ तथा ॥

आद्यौ दर्शनप्रत्ययप्रतिभुवौ । वितथे अहम् एनं दर्शयिष्याम्य् असौ साधुर् इत्य् एवंरूपयोः स्वोक्तयोर् वाक्ययोर् असत्यत्वे । उत्तरौ दानर्णिद्रव्यार्पणप्रतिभुवौ । विसंवादे लोभादिना धारणकेनाप्रतिदाने । तौ विना तयोर् दूरदेशगमने मरणे च । अत्र तौ विनेति द्विवचनान्तसर्वनाम्ना संनिहितयोः [१५७] दानर्णिद्रव्यार्पणप्रतिभुवोः परामर्शाद् दर्शनप्रत्ययप्रतिभूसुतैर् न तद् देयम् इति गम्यते । अत्रार्थे याज्ञवल्क्यो ऽपि (२.५३-५४ ) ।

    दर्शनप्रत्यये दाने प्रातिभाव्यं विधीयते ।


    आद्यौ तु वितथे दाप्याव् इतरस्य सुता अपि ॥


    दर्शनप्रतिभूर् यत्र मृतः प्रात्ययिको ऽपि वा ।


    न तत्पुत्रा ऋणं दद्युर् दद्युर् दानाय यः स्थितः ॥

अत्र पूर्वश्लोकार्थ उत्तरश्लोकेन स्पष्टीक्रियत इति न पुनरुक्तिः । तत्पुत्राः तयोः पुत्राः । दानाय यः स्थितः दानप्रतिभूर् यस् तस्य पुत्रा दद्युर् इत्य् अर्थः । प्रतिभुवः पुत्रो मूलमात्रं दद्यान् न वृद्धिम्, पौत्रस् तु मूलम् अपि न दद्यात् । तथा च कात्यायनः (५६१) ।

    प्रातिभाव्यागतं पौत्रैर् दातव्यं न तु तत् क्वचित् ।


    पुत्रेणापि समं देयम् ऋणं सर्वत्र पैतृकम् ।

सर्वत्र प्रातिभाव्यागतम् ऋणम् इत्य् अन्वयः । व्यासो ऽपि ।

    ऋणं पैतामहं पौत्रः प्रातिभाव्यागतं सुतः ।


    समं दद्यात् तत्सुतौ तु न दाप्याव् इति निश्चयः ॥

यत् तु,

    खादको वित्तहीनः स्याल् लग्नको वित्तवान् यदि ।


    मूलं तस्य भवेद् देयं न वृद्धिं दातुम् अर्हति ॥

इति नारदवचनं (ऋणादान। ११६) तद् अपि लग्नको वित्तवान् यदि मृतस् तदा तत्पुत्रेण मूलमात्रं देयं न वृद्धिर् इत्य् एवंपरतया योज्यम् । क्वचिद् दर्शनप्रतिभूपुत्रस्य प्रत्ययप्रतिभूपुत्रस्य च ऋणदातृत्वम् आह कात्यायनः (५३४) ।

    गृहीत्वा बन्धकं यत्र दर्शने ऽस्य स्थितो भवेत् ।


    विना पित्रा धनात् तस्माद् दाप्यः स्यात् तदृणं सुतः ॥

[१५८] दर्शनग्रहणं प्रत्ययस्याप्य् उपलक्षणं समानन्यायत्वात् । दर्शने प्रतिभूत्वेन स्थित इत्य् अर्थः । यत्रानेके प्रतिभुवस् तत्र विशेषम् आह याज्ञवल्क्यः (२.५५) ।

    बहवः स्युर् यदि स्वांशैर् दद्युः प्रतिभुवो धनम् ।


    एकच्छायाश्रितेष्व् एषु धनिकस्य यथारुचि ॥

एकच्छायाश्रितेषु एकस्याधमर्णस्य छायां धनदातृत्वलक्षणं सादृश्यम् आश्रितेषु धारणकवत् प्रत्येकं कृत्स्नद्रव्यदानाय स्थितेष्व् इत्य् अर्थः । धनिकस्य यथारुचि यम् एव धनिको याचते स एव सर्वं दद्याद् इत्य् अर्थः । एकच्छायप्रतिभूपुत्रे विशेषम् आह कात्यायनः (५३८) ।

    एकच्छायाप्रविष्टानां दाप्यो यस् तत्र दृश्यते ।


    प्रोषिते तु तत्सुतः सर्वं पित्रंशं तु मृते तु सः ॥

प्रोषिते देशान्तरं गते । सर्वं सवृद्धिकम् ऋणम् । मृते तु पितुर् अंशं सवृद्धिकं दद्याद् इत्य् अर्थः । स्मृतिचन्द्रिकायां तु वाक्यम् एवं पठितं —

	एकच्छायाश्रिते सर्वं दद्यात् तु प्रोषिते सुतः । 

	मृते पितरि पित्रंशं परणं न बृहस्पतिः ॥ इति (= कात्। ५३७) । 

परणम् अन्येषां प्रतिभुवाम् अंशम् । प्रतिभूभ्यो धनग्रहणे विशेषम् आह बृहस्पतिः

	नात्यन्तं पीडनीयाः स्युर् ऋणं दाप्याः शनैः शनैः ।

प्रतिभुवो दौष्ट्ये यत् कर्तव्यं तद् आह पितामहः

    यो ऽस्यैव प्रतिभूर् भूत्वा मिथ्या चैव तु गच्छति ।


    धनिकस्य धनं दाप्यो राज्ञा दण्डं च तत्समम् ॥


    कुर्याच् चेत् प्रतिभूर् वादम् ऋणिकार्थे ऽर्थिना सह ।


    सोपसर्गस् तदा दण्ड्यो विवादाद् द्विगुणं धनम् ॥

ये प्रातिभाव्ये निषिद्धास् ते प्रत्याकलितनिरूपणे दर्शिताः । प्रतिभुवा धनिकाय यद् दत्तं तद् अधमर्णेन समं दातव्यम् ।

    यस्यार्थे येन यद् दत्तं विधिनाभ्यर्थितेन तु ।


    साक्षिभिर् भावितेनैव प्रतिभूस् तत् समाप्नुयात् ॥ (कात्। ५४०)

[१५९] समाप्नुयात् समम् आप्नुयाद् इत्य् अर्थः । साक्षिभिर् भावितेन साक्षिभिः

साधितेन । एतच् च समदानं धनिकानिर्बद्धेन प्रतिभुवा स्वयं गत्वा दाने वेदितव्यम् । धनिकनिर्बद्धेन दाने त्व् अधमर्णेन तस्मै तद्द्विगुणं दातव्यम् । तथा च नारदः

    यं चार्थं प्रतिभूर् दद्याद् धनिकेनोपपीडितः ।


    ऋणिकस् तं प्रतिभुवे द्विगुणं प्रतिदापयेत् ॥

याज्ञवल्क्यो ऽपि (२.५६) ।

    प्रतिभूर् दापितो यत् तु प्रकाशं धनिनां धनम् ।


    द्विगुणं प्रतिदातव्यम् ऋणिकैस् तस्य तद् भवेत् ॥

प्रकाशं बहूनां पुरतः । दापितो राज्ञा न तु स्वयं गत्वा दत्तवान् इत्य् अर्थः । एतच् च द्विगुणदानं पक्षत्रयाद् ऊर्ध्वं वेदितव्यम् । तथा च बृहस्पति-कात्यायनौ

    प्रातिभाव्यं च यो दद्यात् पीडितः प्रतिभावितः ।


    त्रिपक्षात् परतः सो ऽर्थं द्विगुणं लब्धुम् अर्हति ॥ (कात्। ५३९)

प्रातिभाव्यं प्रातिभाव्यागतं धनम् । प्रतिभावितः प्रतिभूत्वेन कृतः । त्रिपक्षाद् ऊर्ध्वं द्वैगुण्यदानं हिरण्यविषयम् । वस्त्रादीनि तु पूर्वोक्ततत्तत्परमवृद्धिसहितानि दातव्यानि । अत एव प्रतिभूदत्ते परमवृद्धिं दर्शयति याज्ञवल्क्यः (२.५७) ।

    सन्ततिः स्त्रीपशुष्व् एव धान्यं त्रिगुणम् एव च ।


    वस्त्रं चतुर्गुणं प्रोक्तं रसश् चाष्टगुणः स्मृतः ॥ इति ॥

दत्तस्यर्णस्य ग्रहणप्रकारम् आह बृहस्पतिः

    प्रतिपन्नम् ऋणं दाप्यः सामादिभिर् उपक्रमैः ।


    धर्मोपधिबलात्कारैर् गृहसंरोधनेन च ॥

प्रतिपन्नं संप्रतिपन्नम् । दाप्यः दातुम् उन्मुखः कर्तव्यः । उपक्रमैः उपायैः । ते चोपाया विविच्य दर्शिता धर्मोपधीत्यादिना । गृहसंरोधनेन [१६०] आचरिताख्योपायेन । धर्मादीनां चतुर्णाम् उपायानां स्वरूपं दर्शयति स एव

    सुहृत्सम्बन्धिसन्दिष्टैः सामोक्त्यानुगमेन च ।


    प्रायेण वा ऋणी दाप्यो धर्म एष उदाहृतः ॥


    छद्मना याचितं चार्थम् आनीय ऋणिकाद् धनी ।


    अन्वाहितादि संगृह्य दाप्यते यत्र सोपधिः ॥


    बद्ध्वा स्वगृहम् आनीय ताडनाद्यैर् उपक्रमैः ।


    ऋणिको दाप्यते यत्र बलात्कारः स कीर्तितः ॥


    दारपुत्रपशून् बद्ध्वा कृत्वा द्वारोपवेशनम् ।


    यत्रर्णिको दाप्यते ऽर्थं तद् आचरितम् उच्यते ॥

सुहृत्सम्बन्धिसन्दिष्टानि मान्यजनवाक्यानि सामोक्तिः प्रियवाक्यम् । अनुगमो ऽनुसरणम् । प्रायः प्रार्थनाबाहुल्यम् । छद्म उत्सवादिव्याजः । अन्वाहितम् अन्यस्मै दातुम् अर्पितम् । आदिशब्दात् प्रकारान्तरस्यापि ग्रहणम् । येन केनापि प्रकारेणाधमर्णस्य धनं स्वाधीनीकृत्य यत्र स ऋणं दाप्यते स उपधिर् इत्य् अर्थः । धर्मादीनां प्रयोगे नियमम् आह कात्यायनः (५८७-५८८) ।

    राजानं स्वामिनं विप्रं सान्त्वेनैव प्रदापयेत् ।


    रिक्थिनं सुहृदं चापि छलेनैव प्रदापयेत् ॥


    वणिजः कर्षकाश् चैव शिल्पिनश् चाब्रवीद् भृगुः ।


    देशाचारेण दाप्याः स्युर् दुष्टान् संपीड्य दापयेत् ॥

सान्त्वेन साम्ना धर्माख्योपायेन । रिक्थी अत्र बान्धवः । वणिगादयो देशाचारेण दाप्याः स्युर् इत्य् अन्वयः । संपीड्येति बलात्काराचरितयोर् ग्रहणम् । देशाचारं दर्शयति स एव (कात्। ५८०) ।

    धार्यो ‘वरुद्धस् त्व् ऋणिकः प्रकाशं जनसंसदि ।


    यावन् न दद्यात् तद् देयं देशाचारस्थितिर् यथा ॥

यथेत्य् अनेन यस्मिन् देशे धनिकेन स्वयम् एवावरुध्य धार्यते तत्र तथा [१६१] धार्यः, यत्र देशे ऽधमर्णाद् वेतनार्थिना क्रूरेण पुरुषान्तरेणावरुध्य धार्यते तत्र तथा धार्य इति दर्शितम् । अवरोध्यस्य विण्मूत्रशङ्कायां तत्प्रतिरोधो न कार्य इत्य् आह स एव (कात्। ५८१) ।

    विण्मूत्रशङ्का यत्र स्याद् धार्यमाणस्य देहिनः ।


    पृष्ठतो वानुगन्तव्यो निबद्धं वा समुत्सृजेत् ॥

निबद्धम् इति शृङ्खलादिना बद्धम् एव मूत्राद्युत्सर्गार्थं प्रेषयेद् इत्य् अर्थः । अत्र निकृष्टविषयो द्वितीयः पक्षः । अवरुद्धस्य भोजनादिकाले दर्शनप्रतिभुवं गृहीत्वा मोचनम् आह स एव (कात्। ५८२) ।

    स कृतप्रतिभूश् चैव मोक्तव्यः स्याद् दिने दिने ।


    आहारकाले रात्रौ च निबन्धे प्रतिभूः स्थितः ॥

निबन्धे पलायनप्रतिबन्धे । दर्शनप्रतिभुवो ऽभावे ऽधमर्णेन वा तस्यादाने प्रकारद्वयम् आह स एव (कात्। ५८३) ।

    यो दर्शनप्रतिभुवं नाधिगच्छेन् न चाश्रयेत् ।


    स चारके निरोद्धव्यः स्थाप्यो वावेद्य रक्षिणः ॥

चारके कारागृहे । रक्षिणो रक्षकान् । रक्षणे पुरुषान् नियुज्य प्रस्थाप्यो वेत्य् अर्थः । कचिद् एतस्य प्रतिषेधम् आह स एव (कात्। ५८४) ।

	न चारके निरोद्धव्य आर्यः प्रात्ययिकः शुचिः ।

प्रात्ययिकः विश्वास्यः । कथं तर्हि स मोचनीय इत्य् आकाङ्क्षायाम् आह स एव (कात्। ५८४) ।

	सो ‘निबन्धः प्रमोक्तव्यो निबद्धः शपथेन वा ।

अनिबन्धः रक्षकरहितः । अत्रार्यस्यावरोधविषये विशेषाभिधानं यद्य् अपि विप्रादौ धर्माद्युपायस्य नियम उक्तस् तथापि क्वचिद् देशविशेषे विप्रादाव् उपायान्तरप्रयोगो ‘स्तीति सूचनार्थम् । सावधिकम् ऋणम् अवधिप्राप्तौ निरवधिकं द्वैगुण्यादिपरमवृद्धेः प्राप्तौ कार्यविशेषोपनिपातश् चेत् तस्याप्राप्ताव् अप्य् एतैर् उपायैः सवृद्धिकं ग्राह्यम् । अथ वा परमवृद्धिसहितं धनं मूलं कृत्वा **[१६२] **लेख्यान्तरं ग्राह्यम् । अथ वा सवृद्धिकमूलोपभोगयोग्यक्षेत्रादिरूप आधिर् ग्राह्यः । तथा च बृहस्पतिः

    पूर्णावधौ शान्तलाभम् ऋणम् उद्ग्राहयेद् धनी ।


    कारयेद् वा ऋणी लेख्यं चक्रवृद्धिव्यवस्थया ॥


    द्विगुणस्योपरि यदा चक्रवृद्धिः प्रगृह्यते ।


    भोगलाभस् तथा तत्र मूलं स्यात् सोदयम् ऋणम् ॥

शान्तलाभग्रहणम् अशान्तलाभस्याप्य् उपलक्षणम् । द्विगुणस्य्एति त्रैगुण्यादिपरमवृद्धिमात्रोपलक्षणम् । यदा चक्रवृद्धिर् भोग्याधिर् वा गृह्यते तत्र सोदयं मूलम् ऋणं स्याद् इत्य् अर्थः । यदि निर्धनो ऽधमर्णस् तदा ग्रहणप्रकारम् आह नारदः (ऋणादान। १३१) ।

    अथ शक्तिविहीनः स्याद् ऋणी कालविपर्ययात् ।


    शक्त्यपेक्षम् ऋणं दाप्यः काले काले यथोदयम् ॥

यथोदयं यथाधनोत्पत्ति । एतच् चोत्कृष्टजातिविषयम् । तथा च मनुः (८.१७७) ।

    कर्मणापि समं कुर्याद् धनिकस्याधमर्णिकः ।


    समो ऽपकृष्टजातिश् च दद्याच् छ्रेयांस् तु तच्छनैः ॥

यत् तु,

    हीनजातिं परिक्षीणम् ऋणार्थं कर्म कारयेत् ।


    ब्राह्मणस् तु परिक्षीणः शनैर् दाप्यो यथोदयम् ॥

इति याज्ञवल्क्यवचने (२.४३) ब्राह्मणग्रहणं तद् उत्कृष्टजातिविषयम् । यत् तु,

	कर्षकान् क्षत्रविट्शूद्रान् समहीनांस् तु दापयेत् ।

इति कात्यायनवचनं (५८६) तत् तेषां यथोदयं धनदानसामर्थ्ये वेदितव्यम् । उत्कृष्टजातिः शनैर् धनदानासामर्थ्ये ऽपि न कर्म कारयितव्यः,

    धनदानासहं बुद्ध्वा स्वाधीनं कर्म कारयेत् ।


    अशक्तौ बन्धनागारे प्रवेश्यो ब्राह्मणा दृते ॥ इति

[१६३] कात्यायनेन्ऐवाभिधानात् (४७९) । अत्र कर्मकरणाशक्तौ बन्धनागारप्रवेशनाभिधानं सामर्थ्योत्पत्तौ कथंचिद् ऋणप्राप्त्यर्थम् इत्य् उक्तं स्मृतिचन्द्रिकायाम् । एतैर् धर्माद्युपायैः स्वीयं धनं साधयन्न् उत्तमर्णो न राज्ञा निवारणीयः । तथा च विष्णुः (६.१८): “प्रयुक्तम् अर्थं यथाकथंचित् साध्यमानो न राज्ञा वाच्यः स्यात्” इति । यथाकथंचित् स्मृतिदेशाचाराविरुद्धमार्गेण । मनुर् अपि (८.५०) ।

    यः स्वकं साधयेद् अर्थम् उत्तमर्णो ऽधमर्णिकात् ।


    स राज्ञा नाभियोक्तव्यः स्वकं संसाधयन् धनम् ॥

यो ऽधमर्णः संप्रतिपन्नम् अर्थं धर्मादिभिर् उपायैर् याच्यमानो राजानं गत्वा धनिकम् अभियुञ्जीत स राज्ञा दण्डनीयः । तथा च याज्ञवल्क्यः (२.४०) ।

    प्रपन्नं साधयन्न् अर्थं न वाच्यो नृपतेर् भवेत् ।


    साध्यमानो नृपं गच्छन् दण्डं दाप्यश् च तद् धनम् ॥

दण्डद्रव्यस्य परिमाणम् उक्तं विष्णुना (६.१९): “साध्यमानश् चेद् राजानम् अभिगच्छेत् तत्समं दण्ड्यः” इति । तत्समम् ऋणद्रव्यसमम् । यत् तु,

    यः साधयन्तं छन्देन वेदयेद् धनिकं नृपे ।


    स राज्ञर्णचतुर्भागं दाप्यस् तस्य च तद् धनम् ॥ इति

मनूक्तो (८। १७६) दण्डः स दरिद्राधमर्णविषयः । छन्देन स्वेच्छया । यद्य् अधमर्णो विप्रतिपद्येत तदा सभायां साक्ष्याद्युपन्यासेन स्वम् अर्थं साधयित्वा गृह्णीयात् । तथा च बृहस्पतिः

    प्रतिपन्नस्य धर्मो ‘यं व्यपलापी तु संसदि ।


    लेख्येन साक्षिभिर् वापि भावयित्वा प्रदाप्यते ॥

एवं च ।

    धर्मेण व्यवहारेण छलेनाचरितेन च ।


    प्रयुक्तं साधयेद् अर्थं पञ्चमेन बलेन च ॥ इति

मनूक्तो ( ८.४९) व्यवहारलक्षण उपायो विप्रतिपन्नविषय इति **[१६४] **ज्ञातव्यम् । व्यवहारः साक्ष्याद्युपन्यासः । संप्रतिपत्तिरहिते रोधनाद्युपायं निषेधति बृहस्पतिः

    न रोद्धव्यः क्रियावादी सन्दिग्धे ऽर्थे कथंचन ।


    आसेधयंस् त्व् अनासेध्यं दण्ड्यो भवति धर्मतः ॥

रोधनं व्यवहारव्यतिरिक्तोपायस्योपलक्षणम् । क्रियावादिसन्दिग्धपदयोर् अर्थं विवृणोति स एव

    प्रदातव्यं यद् भवति न्यायतस् तद् ददाम्य् अहम् ।


    एवं यत्रर्णिको ब्रूते क्रियावादी स उच्यते ॥


    रूपसंख्यादिलाभेषु यत्र भ्रान्तिर् द्वयोर् भवेत् ।


    देयानादेययोर् वापि सन्दिग्धो ऽर्थः स कीर्तितः ॥

विप्रतिपन्ने ऽर्थे बलात्कारं कुर्वतो दण्डम् अर्थहानिं चाह कात्यायनः (५८९) ।

    पीडयेत् तु धनी यत्र ऋणिकं न्यायवादिनम् ।


    तस्माद् अर्थात् स हीयेत तत्समं चाप्नुयाद् दमम् ॥

बृहस्पतिर् अपि ।

    अनावेद्य तु राज्ञे यः सन्दिग्धे ऽर्थे प्रवर्तते ।


    प्रसह्य स विनेयः स्यात् स चाप्य् अर्थो न सिध्यति ॥

आवेदितेन राज्ञा धनिकसाधितस्याप्य् अर्थस्य र्णिकेनादाने यत् कर्तव्यं तद् आह यमः

    ऋणिकः सधनो यस् तु दौरात्म्यान् न प्रयच्छति ।


    राज्ञा दापयितव्यः स्याद् गृहीत्वा द्विगुणं ततः ॥

द्विगुणग्रहणं वृद्धिसहितमूलोपलक्षणम् । उत्तमर्णेन साक्ष्यादिभिः साधितम् ऋणं दापितवतो राज्ञो ऽधमर्णाद् दण्डग्रहणम् उत्तमर्णाद् भृतिग्रहणं चाह विष्णुः (६। २० - २१) ।

     उत्तमर्णश् चेद् राजानम् इयात् ततस् तद्विभाविते ऽर्थे ऽधमर्णो राज्ञे धनदशभागसमं दण्डं दद्यात् प्राप्तार्थश् चोत्तमर्णो **[१६५]**विंशतितमम् अंशम् । इति ।

तद्विभाविते उत्तमर्णेन साधिते सति । याज्ञवल्क्यो ऽपि (२.४२) ।

    राज्ञाधमर्णिको दाप्यः साधिताद् दशकं शतम् ।


    पञ्चकं च शतं दाप्यः प्राप्तार्थो ‘प्य् उत्तमर्णिकः ॥

अधमर्णात् साधितार्थस्य दशमो यो ‘ंशस् तावद् द्रव्यं दण्डतया गृह्णीयात्, उत्तमर्णात् तु साधितार्थस्य विंशतितमम् अंशं भृतितया गृह्णीयाद् इत्य् अर्थः । यत् तु,

    यो यावन् निह्नुवीतार्थं मिथ्या यावति वा वदेत् ।


    तौ नृपेण ह्य् अधर्मज्ञौ दाप्यौ तद्द्विगुणं दमम् ॥

इति मनुवचनं (८.५९) तद् बहुधनातिदुर्वृत्ताधमर्णोत्तमर्णविषयम् । यावन् निह्नुवीत यावन्तम् अपलपेत् । यावति मिथ्या वदेत् मयैतावद् दतम् इत्य् असत्यं वदेत् ताव् उभाव् अपि तावतो धनस्य द्विगुणं धनं दण्ड्याव् इत्य् अर्थः । यत् तु,

    निह्नवे भावितो दद्याद् धनं राज्ञे च तत्समम् ।


    मिथ्याभियोगी द्विगुणम् अभियोगाद् धनं वहेत् ॥ 

इति याज्ञवल्क्यवचने (२.११) अपलपितुः समदण्डाभिधानं तद् द्विगुणदण्डादानापर्याप्तधनदुर्वृत्ताधमर्णविषयम्, पूर्वोदाहृतवचनविरोधापत्तेः । अभियोगात् अभियुक्तधनात् ।

    मिथ्याभियोगी द्विगुणम् अभियोगाद् धनं वहेत् ।


    कारणे विधिर् एष स्याज् जितस्यैकतरस्य तु ॥


    प्राङ्न्यायवादे च तथा यच् चासत्येन युज्यते । 

इति व्यासवचनविरोधापत्तेश् च । कारणे कारणोत्तरे । असत्येन मिथ्योत्तरेण । प्रत्यवस्कन्दने प्राङ्न्याये मिथ्योत्तरे च वादिप्रतिवादिनोर् मध्ये यस्यैकतरस्य पराजयस् तस्याभियुक्तधनाद् द्विगुणो दण्ड इत्य् अर्थः । यत् तु विज्ञानेश्वराचायैर् मिथ्योत्तरे ऽपह्नोतुः पराजये समो दण्डो मिध्याभियोक्तर् द्विगुणो दण्डः, एवं प्राङ्न्याये प्रत्यवस्कन्दने चार्थिनो ऽपह्न्ववादित्वात् [१६६] प्रत्यर्थिना प्राङ्न्यायकारणसाधने प्रकृतधनसम एव दण्डः, यदि प्रत्यर्थी प्राङ्न्यायकारणे न साधयति तदा स मिध्याभियोग्य् एवेति तस्य द्विगुणो दण्ड इत्य् उक्तं तद् एतद् व्यासवचनविरुद्धत्वान् नादरणीयम् । यत् पुनर् मनुनोक्तं (८.५१),

    अर्थे ऽपव्ययमानं तु कारणेन (करणेन ?) विभावितम् ।


    दापयेद् धनिकस्यार्थं दण्डलेशं च शक्तितः ॥ 

इति, तद् दशमांशदानासमर्थसद्वृत्ताधमर्णविषयम् । अपव्ययमानम् अपलपन्तम् । यस् तु प्रभुत्वाद्यवलेपाद् उत्तमर्णेन याचितस् तदासंप्रतिपद्य राजसभायाम् आनीतः स्वयम् एव संप्रतिपद्यते सो ‘भियुक्तार्थस्य विंशतितमम् अंशं दण्डनीयः । तथा च नारदः (ऋणादान। १३२) ।

    ऋणिकः सधनो यस् तु दौरात्म्यान् न प्रयच्छति ।


    राज्ञा दापयितव्यः स्याद् गृहीत्वांशं तु विंशकम् ॥ 

मनुर् अपि (८। १३९) ।

    ऋणे देये प्रतिज्ञाते पञ्चकं शतम् अर्हति ।


    अपह्नवे तद्द्विगुणं तन् मनोर् अनुशासनम् ॥

अस्यार्थः । यः पूर्वम् अप्रतिपद्य राजसभायामानीतो ऽधमर्ण ऋणं देयतया प्रतिजानीते सत्यम् अस्मै धारयामीति स पञ्चकं शतम् अर्हति दातुम् इति शेषः । यस् तु सभायाम् अप्य् अपह्नुते नाहम् अस्मै धारयामीति पश्चाच् च संप्रतिपद्यते स तद्द्विगुणं प्रतिपादितपञ्चकाद् द्विगुणं दशकं शतं दण्डम् अर्हतीति । बहूनाम् उत्तमर्णानां युगपत् प्राप्तौ येन क्रमेण राज्ञाधमर्णो दापयितव्यस् तम् आह याज्ञवल्क्यः (२.४१) ।

    गृहीतानुक्रमाद् दाप्यो धनिनाम् अधमर्णिकः ।


    दत्त्वा तु ब्राह्मणायैव नृपतेस् तदनन्तरम् ॥

नृपतेः क्षत्रियस्य । समानजातीयेषूत्तमर्णेषु येन क्रमेण धनग्रहणं तेनैव दापनं विजातीयेषु ब्राह्मणादिवर्णक्रमेणेत्य् अर्थः । कात्यायनो ‘पि ।

[१६७] नानर्णसमवाये तु यद् यत् पूर्वकृतं भवेत् ।

	तत् तद् एवाग्रतो देयं राज्ञः स्याच् छ्रोत्रियानु च ॥

श्रोत्रियानु ब्राह्मणानन्तरम् । एकस्मिन् दिने यैर् ऋणं दत्तं तेषाम् उत्तमर्णानां युगपत् प्राप्तौ युगपद् दापनीयं धनाल्पत्वभूयस्त्वयोस् तु तदनुसारेण भागं परिकल्प्य दापनीयम् । तथा च स एव (कात्। ५१३) ।

    एकाहे लिखितं यत्र तत्र कुर्याद् ऋणं समम् ।


    ग्रहणं रक्षणं लाभम् अन्यथा तु यथाक्रमम् ॥

ग्रहणं बन्धकदानं रक्षणं बन्धकपरिपालनं लाभं बन्धकभोगं च समं युगपद् एव कुर्यात् । अन्यथा अहर्भेदे तूक्तक्रमेण कुर्याद् इत्य् अर्थः । नानर्णसमवाये ‘प्य् अधमर्णो यस्योत्तमर्णस्य धनेन यद् वस्तु सम्पादयति तद्विक्रयादिप्राप्तं धनं तस्मा एवर्णापाकरणार्थं दद्यान् न सर्वेभ्यो ‘पि विभज्य । तथा चोक्तं तेनैव (कात्। ५१५) ।

    यस्य द्रव्येण यत् पण्यं साधितं यो विभावयेत् ।


    तद् द्रव्यम् ऋणिकेनैव दातव्यं तस्य नान्यथा ॥

पण्यग्रहणम् उपलक्षणम् । एवकारो भिन्नक्रमः । ऋणिकस्यावश्यकं प्रतिदानकालकर्तव्यम् आह बृहस्पतिः

    याचमानाय दातव्यम् अप्रकालम् ऋणं कृतम् ।


    पूर्णावधौ शान्तलाभम् अभावे तु पितुः सुतैः ॥

अप्रकालम् अदीर्घकालं निरवधिकम् इति यावत् । निरवधिकं याच्ञानन्तरं परमवृद्धौ जातायां च सावधिकम् अवधिपूर्तौ दातव्यम् एव न स्थापनीयम् इत्य् अर्थः । याचनादेः प्राग् अपि सति सम्भवे प्रतिदानं कार्यम् ऋणस्यावश्यापाकरणीयत्वात् । निर्धनस्यर्णप्रतिदानप्रकारम् आह मनुः (८.१५४) ।

    ऋणं दातुम् अशको यः कर्तुम् इच्छेत् पुनः क्रियाम् ।


    स दत्त्वा निर्जितां वृद्धिं करणं परिवर्तयेत् ॥

यो धनाभाववशात् सवृद्धिकम् ऋणं दातुम् अशक्तो दीर्घकालत्वपरिहारेण धनिकमनःसमाधानं कर्तुं लेख्यादिरूपां क्रियां पुनश् चिकीर्षेत् स [१६८] निष्पन्नां वृद्धिं दत्त्वा पुनस् तत्कालादिचिह्नितां क्रियां कुर्याद् इत्य् अर्थः । यस् तु समग्रां वृद्धिम् अपि दातुम् असमर्थस् तं प्रत्य् आह स एव (८। १५५) ।

    अदर्शयित्वा तत्रैव हिरण्यं परिवर्तयेत् ।


    यावती सम्भवेद् वृद्धिस् तावतीं दातुम् अर्हति ॥

हिरण्यम् अदर्शयित्वा निष्पन्नां वृद्धिम् अदत्त्वा । तत्रैव पूर्वकृतलेख्य एव । परिवर्तयेत् तां वृद्धिं मूलत्वेन लिखेत् । तस्यास् तु यावती वृद्धिर् दातुम् अशक्या तावत्य् एव लेख्या न मूलधनवृद्धितुल्येत्य् अर्थः । यस् तु वृद्धौ किंचिद् दातुं शक्तः स तावद् दत्त्वावशिष्टवृद्धिं मूलत्वेन लिखेत् समानन्यायत्वात् । यस् तु ऋणप्रतिदानकाले समग्रं सवृद्धिकं मूलं दातुम् असमर्थस् तं प्रत्य् आह याज्ञवल्क्यः (२.९३) ।

    लेख्यस्य पृष्ठे ऽभिलिखेद् दत्त्वा दत्त्वर्णिको धनम् ।


    धनी चोपगतं दद्यात् स्वहस्तपरिचिह्नितम् ॥

अधमर्णो यथाशक्त्याल्पं (शक्क्त्य ? ) दत्त्वा दत्त्वा एतावत् सवृद्धिकं मया दत्तम् इति मूलपत्रस्य पृष्ठे लिखेत् । अथ वोत्तमर्ण एतावन् मया लब्धम् इति स्वहस्ताक्षरचिह्नितं यथा भवति तथा मूलपत्रे लिखेत् स्वहस्तलिखितम् उपगताख्यं प्रवेशपत्रं वाधमर्णाय दद्याद् इत्य् अर्थः । एतच् च प्रवेशपत्रदानं मूलपत्रासन्निधाने वेदितव्यम् । तथा च विष्णुः (६.२६): “असमप्रदाने लेख्यासन्निधाने वोत्तमर्णः स्वहस्तलिखितं दद्यात्” इति । प्रवेशपत्रादाने दोषम् आह नारदः (ऋणादान। ११४) ।

    गृहीत्वोगतं दद्याद् ऋणिकायोदयं धनी ।


    अददद् याच्यमानस् तु शेषहानिम् अवाप्नुयात् ॥

उदयम् ऋणिकदत्तं धनम् । उदयं गृहीत्वेत्य् अन्वयेः । एतच् च हान्यभिधानं शेषस्य स्वल्पत्वे ज्ञातव्यं बाहुल्ये तूत्तमर्णस्य गृहीतांशवृद्धिदानम् एव । अत एव बृहस्पतिः

[१६९] धर्मादिनोद्ग्राह्य ऋणं यस् तूपरि न लेखयेत् ।

	न चैवोपगतं दद्यात् तस्य तद्वृद्धिम् आप्नुयात् ॥

उद्ग्राह्य गृहीत्वा । ऋणम् असमग्रम् इति शेषः । समग्रर्णप्रतिदानानन्तरं कर्तव्यम् आह याज्ञवल्क्यः (२.९४) ।

	दत्त्वर्णं पाटयेल् लेख्यं शुद्ध्यै चान्यत् तु कारयेत् ।

लेख्यं मूलपत्रम् । शुद्ध्यै ऋणापाकरणख्यापनार्थम् अन्यद् विशुद्धिपत्रं चोत्तमर्णाद् गृह्णीयाद् इत्य् अर्थः । मूलपत्रस्य देशान्तरावस्थानादौ विशुद्धिपत्रस्यापि कथंचिद् असम्भवे पक्षान्तरम् आह नारदः (ऋणादान। ११६) ।

    लेख्यं दद्याद् विशुद्धेर्णे (द्धर्णे ?) तदभावे प्रतिश्रवः ।


    धनिकर्णिकयोर् एवं विशुद्धिः स्यात् परस्परम् ॥

प्रतिश्रवः प्रतिदानं कृतम् इत्य् अस्यार्थस्य साक्षिभिः श्रावणम् । ससाक्षिकर्णप्रतिदानं तु पूर्वसाक्षिसमक्षम् एव कर्तव्यं तेषां कथंचिद् असम्भवे साक्ष्यन्तरसमक्षं वा कर्तव्यम् । तथा च याज्ञवल्क्यः (२.९४) ।

	साक्षिमच् च भवेद् यद् वा तद् दातव्यं ससाक्षिकम् ।

ऋणाप्रतिदाने ऽनिष्टम् आह कात्यायनः (५९१) ।

    उद्धारादिकम् आदाय स्वामिने न ददाति यः ।


    स तस्य दासो भृत्यः स्त्री पशुर् वा जायते गृहे ॥

उद्धारादिकम्इत्यादिशब्देन निक्षेपादिकं गृह्यते । दासः क्रीतः, भृत्यो वैतनिक इति तयोर् भेदः । नारदो ऽपि (ऋणादान। ७-८) ।

    याच्यमानं न दद्याद् यद् ऋणं वापि प्रतिग्रहम् ।


    तद् द्रव्यं वर्धते तावद् यावत् कोटिशतं भवेत् ॥


    ततः कोटिशते पूर्णे वेष्टितस् तेन कर्मणा ।


    अश्वः खरो वृषो दासो भवेज् जन्मनि जन्मनि ॥

प्रतिग्रहः प्रतिश्रुतं धनम् । व्यासो ऽपि ।

    तपस्वी चाग्निहोत्री च ऋणवान् म्रियते यदि ।


    तपश् चैवाग्निहोत्रं च सर्व तद् धनिनो भवेत् ॥

[१७०] अधमर्णस्याभावे तत्पुत्रेण सवृद्धिकम् ऋणं देयम् । तथा च बृहस्पतिः

    याचमानाय दातव्यम् अप्रकालम् ऋणं कृतम् ।


    पूर्णावधौ शान्तलाभम् अभावे च पितुः सुतैः ॥

अस्यार्थः प्राङ् निरूपितः । स एव

    ऋणम् आत्मीयवत् पित्र्यं पुत्रैर् देयं विभावितम् ।


    पैतामहं समं देयं न देयं तत्सुतस्य च ॥

आत्मीयवत् सवृद्धिकम् इत्य् अर्थः । पितृकृतर्णप्रदानस्यावश्यकताम् आह नारदः (ऋणादान ५) ।

    इच्छन्ति पितरः पुत्रान् स्वार्थहेतोर् यतस् ततः ।


    उत्तमर्णाधमर्णाभ्यां माम् अयं मोचयिष्यति ॥


    अतः पुत्रेण जातेन स्वार्थम् उत्सृज्य यत्नतः ।


    ऋणात् पिता मोचनीयो यथा न नरकं व्रजेत् ॥

यतस् ततः येन केनाप्य् उपायेन । उत्तमम् ऋणं “जायमानो वै ब्राह्मणस् त्रिभिर् ऋणवा जायते” इत्यादि तैत्तिरीयश्रुत्य्उक्तं (त्स्। ६.३.१०.५) पितृऋणम् । अधमम् ऋणं वृद्ध्या गृहीतं धनम् । जातेन व्यवहाराभिज्ञतया निष्पन्नेन । कात्यायनो ऽपि ( ५५१-५२ ) ।

    पितॄणां सूनुभिर् जातैर् दानेनैवाधमाद् ऋणात् ।


    विमोक्षस् तु यतस् तस्माद् इच्छन्ति पितरः सुतान् ॥


    नाप्राप्तव्यवहारैस् तु पितर्य् उपरते क्वचित् ।


    काले तु विधिना देयं वसेयुर् नरके ऽन्यथा ॥

प्राप्तव्यवहारैः हेयोपादेयपरिज्ञानविशेषसहितैः षोडशवर्षैर् इत्य् अर्थः । षोडशवर्षस्य व्यवहाराभिज्ञताम् आह नारदः (ऋणादान। ३५-३६) ।

    गर्भस्थैः सदृशो ज्ञेय आष्टमाद् वत्सराच् छिशुः ।


    बाल आ षोडशाद् वर्षात् पोगण्डश् चेति शब्द्यते ॥


    परतो व्यवहारज्ञः स्वतन्त्रः पितुर् आ मृतेः ।

[१७१] मृतपितृकस्य बाल्ये स्वातन्त्र्ये सत्य् अपि नर्णदाने ऽधिकारः किं तु प्राप्तव्यवहारस्यैवेत्य् उक्तं तेनैव

    अप्राप्तव्यवहारः सन् स्वतन्त्रो ऽपि हि नर्णभाक् ।


    स्वातन्त्र्यं हि स्मृतं ज्येष्ठे ज्यैष्ठयं गुणवयः कृतम् ॥

पितुः प्रवासे अचिकित्स्यरोगाद्यभिभवे च पितृकृतर्णप्रतिदानम् आह याज्ञवल्क्यः (२.५० ) ।

    पितरि प्रोषिते प्रेते व्यसनाभिप्लुते ऽपि वा ।


    पुत्रपौत्रैर् ऋणं देयं निह्नवे साक्षिभावितम् ॥

प्रोषिते यत् प्रतिदानं तत् प्रवासाद् आरभ्य विंशतेः संवत्सराणाम् ऊर्ध्वं वेदितव्यम् । तथा च नारदः (ऋणादान। १४) ।

    नार्वाक् संवत्सराद् विंशात् पितरि प्रोषिते सुतः ।


    ऋणं दद्यात् पितृव्ये वा ज्येष्ठे भ्रातर्य् अथापि वा ॥

कात्यायनो ऽपि (५४८) ।

    विद्यमाने ऽपि रोगार्ते स्वदेशात् प्रोषिते तथा ।


    विंशात् संवत्सराद् देयम् ऋणं पितृकृतं तथा ॥

विद्यमाने ऽपि जीवत्य् अपि । विंशात् संवत्सरात् ऊर्ध्वम् इति शेषः । अत एव विष्णुः (६। २७) ।

     धनग्राहिणि प्रेते प्रव्रजिते द्विदशाः समाः प्रोषिते वा तत्पुत्रपौत्रैर् धनं देयं चातः परम् अनीसुभिः । इति । 

प्रव्रजिते संन्यस्ते द्विदशाः समाः विंशतिं वर्षाणि । अस्य प्रोषिते इत्य् अनेन सम्बन्धः । अतः परं विंशतिवर्षाद् ऊर्ध्वम् । अनीप्सुभिश् च देयम् इत्य् अन्वयः । यस्य तु बहवः पुत्रास् ते यदि विभक्तास् तदा स्वांशानुरूपम् ऋणं दद्युः । यद्य् अविभक्तास् तदा तेषां समप्रधानतयावस्थाने सम्भूयसमुत्थानेन दानं गुणप्रधानभावेनावस्थाने यो मुख्यः स दद्यात् । तथा च नारदः (ऋणादान। २) ।

    पितर्य् उपरते पुत्रा ऋणं दद्युर् यथांशतः ।


    विभक्ता अविभक्ता वा यो वा ताम् उद्धरेद् धुरम् ॥

[१७२] पुत्राभावे पौत्रेण रिक्थाग्राहिणा वृद्धिरहितं धनं दातव्यं रिक्थग्रहणे तु सवृद्धिकम् एव दातव्यम् । पुत्रेण रिक्थग्रहणे तदभावे वा सवृद्धिकम् एव देयम् । प्रपौत्रेणे तु रिक्थग्रहणाभावे मूलम् अपि न देयम् “ऋणम् आत्मीयवत् पित्र्यम्” इति पूर्वोदाहृतबृहस्पतिवचनात् । रिक्थग्रहणाभावे ऽपि पुत्रस्यर्णप्रतिदानम् आह कात्यायनः (५५९) ।

    पित्रर्णे विद्यमाने तु न च पुत्रो धनं हरेत् ।


    देयं तद् धनिके द्रव्यं मृते पुत्रस् तु दाप्यते ॥

धनं पितृधनम् । विभक्तः पुत्रो विभागानन्तरं पित्रा कृते ऋणे तिष्ठति तस्मिन् मृते च तद् धनं न गृह्णीयात् । किं तूत्तमर्णाय दद्यात् । यदि किंचित् ततो ‘वशिष्टं भवति तर्हि गृह्णीयात् । पितृधनाभावे रिक्थग्रहणरहितो ऽपि स्वधनं दद्याद् इत्य् अर्थः । अत्र पुत्रग्रहणं पौत्रस्याप्य् उपलक्षणम् । “पुत्रपौत्रैर् ऋऋणं देयम्” इति (य्ध्।२.५०) याज्ञवल्क्येनोभयोः साम्येन ग्रहणात् । पौत्रस्यावृद्धिकदानं तु वाचनिकम् इतरस्यानेन साम्यपाठेन निवृत्तिः । पुत्रेण पितृकृतस्वकीयर्णसमवाये पितृकृतं प्राग् देयं पौत्रेण तु पितृकृतपितामहकृतस्वकृतर्णसमवाये पितामहकृतम् ऋणं प्राग् देयम् । तथा च बृहस्पतिः

    पित्र्यम् एवाग्रतो देयं पश्चाद् आत्मीयम् एव च ।


    तयोः पैतामहं पूर्वं देयम् एव ऋणं सदा ॥

पुत्रपौत्रैर् अदेयम् ऋणं दर्शयति याज्ञवल्क्यः (२.४७) ।

    सुराकामद्यूतकृतं दण्डशुल्कावशिष्टकम् ।


    वृथादानं तथैवेह पुत्रो दद्यान् न पैतृकम् ॥

सुराकामद्यूतकृतं सुरापानस्त्रीव्यसनद्यूतपराजयकृतम् । दण्डशुल्कावशिष्टकं दण्डशुल्कयोर् अवशिष्टम् । वृथादानं धूर्तवन्द्यादिभ्यो यत् प्रतिश्रुतम्,

    धूर्ते वन्दिनि मल्ले च कुवैद्ये कितवे शठे ।


    चाटचारणचोरेषु दत्तं भवति निष्फलम् ॥

**[१७३] **इति वचनात्बृहस्पतिर् अपि ।

    सौराक्षिकं वृथादानं कामक्रोधप्रतिश्रुतम् ।


    प्रातिभाव्यं दण्डशुल्कशेषं पुत्रं न दापयेत् ॥

सौरं सुरापानार्थम् । कामक्रोधप्रतिश्रुतयोः स्वरूपं दर्शितं कात्यायनेन (५६४-५६५) ।

    लिखितं मुक्तकं वापि देयं यत् तु प्रतिश्रुतम् ।


    परपूर्वस्त्रियै तत् तु विद्यात् कामकृतं नृणाम् ॥


    यत्र हिंसां समुत्पाद्य क्रोधाद् द्रव्यं विनाश्य वा ।


    उक्तं तुष्टिकरं यत् तु विद्यात् क्रोधकृतं तु तत् ॥ इति ।

मुक्तकं लेखनरहितम् । प्रातिभाव्यं दर्शनप्रातिभाव्यागतम् । कृत्स्नयोर् अपि दण्डशुल्कयोर् अदेयत्वम् आह्ओशना

    दण्डं वा दण्डशेषं वा शुल्कं तच्छेषम् एव वा ।


    न दातव्यं तु पुत्रेण यच् च न व्यावहारिकम् ॥

व्यावहारिकं ( न व्यावहारिकं ? ) सुरापानादिनिमित्तकम् इत्य् अर्थः ।

बहूनाम् ऋणप्रतिदानाधिकारिणां समवाये क्रमम् आह याज्ञवल्क्यः (२.५१) ।

    रिक्थग्राह ऋणं दाप्यो योषिद्ग्राहस् तथैव च ।


    पुत्रो ऽनन्याश्रितद्रव्यः पुत्रहीनस्य रिक्थिनः ॥

दायविभागक्रमेण प्राप्तं यद् द्रव्यं तद् रिक्थं तद् यो गृह्णाति स रिक्थग्राहः । योषितं परस्त्रियं यो रागादिवशाद् भार्यात्वेनाङ्गीकरोति स योषिद्राहःपुत्रो ऽनन्याश्रितद्रव्यः अन्यम् आश्रितम् अन्याश्रितं, एतादृशं यद् द्रव्यं परकीयं द्रव्यं मातापितृसम्बन्धिद्रव्यम् इति यावत्, पित्रोर् अत्रान्यशब्देन विवक्षणात् । तन्मातापितृद्रव्यं यस्य नास्ति दायग्रहणायोग्यत्वात् स क्लीबादिः पुत्रो ऽनन्याश्रितद्रव्य इत्य् अर्थः । पुत्रहीनस्य **[१७४] **दायग्रहणार्हपुत्रहीनस्य रिक्थिनः । ऋणं रिक्थग्राहो दाप्यस् तदभावे योषिद्ग्राहस् तदभावे दायानर्हः पुत्र इत्य् अर्थः, पाठक्रमस्यात्राश्रितत्वात् । क्लीबादेर् दायग्रहणानर्हत्वम् उक्तं मनुना (९.२०१) ।

    अनंशौ क्लीबपतितौ जात्यन्धबधिरौ तथा ।


    उन्मत्तजडमूकाश् च ये च केचिन् निरिन्द्रियाः ॥

यत् तु विष्णुवचनं (६.२९) “सपुत्रस्य वाप्य् अपुत्रस्य रिक्थग्राही ऋणं दद्यात्” इति, तद् दायानर्हपुत्रस्य सद्भावे ऽप्य् असद्भावे ‘पि वा तदनादरेण “रिक्थग्राह ऋणं दद्याद्” इत्य् एवंपरम् । रिक्थग्राहाभावे योषिद्ग्राहो दापनीय इत्य् अत्रार्थे विष्णुर् अपि (६.३०) “विधनस्य स्त्रीग्राही” इति । विधनस्य रिक्थहारिरहितस्य । बृहस्पतिर् अपि ।

	स्त्रीहारी च तथैव स्याद् अभावे धनहारिणः ।

योषिद्ग्राहाभावे दायभागानर्हः पुत्रो दाप्य इत्य् अत्र नारदो ऽपि (ऋणदान। २३) ।

    धनस्त्रीहारिपुत्राणाम् ऋणभाग् यो धनं हरेत् ।


    पुत्रो ऽसतोः स्त्रीधनिनोः स्त्रीहारी धनिपुत्रयोः ॥

स्त्रीधनिनोः स्त्री च धनं च स्त्रीधने तद्वतोः स्त्रीहारिधनहारिणोर् इत्य् अर्थः । अत्र स्त्रीहारी धनिपुत्रयोर् इति पुत्राभावे योषिद्ग्राहस्य ऋणदायित्वाभिधानं दायार्हपुत्राभावे वेदितव्यम् । सपुत्रस्य चेत्य् अनुवृत्तौ – “विधनस्य स्त्रीहारी” - इति विष्णुनाभिधानात् (६.३०) । “पुत्रो ऽसतोः स्त्रीधनिनोर्” इति स्वोक्तिविरोधापत्तेश् च । दायार्हे पुत्रे सत्य् अपि तस्य यदा दुश्चिकित्स्यरोगाद्युपद्रवेण बाल्येन वा ऋणदानासामर्थ्यं तस्याम् अवस्थायां तत्पितृधनं स्वसमीपे स्थापयति यः पितृव्यादिः स ऋणं दद्यात् तस्याभावे योषिद्ग्राहो दद्याद् इत्य् आह कात्यायनः (५५७, ५७६) ।

    ऋणं तु दापयेत् पुत्रं यदि स्यान् निरुपद्रवः ।


    द्रविणार्हश् च धुर्यश् च नान्यथा दापयेत् सुतम् ॥


    व्यसनाभिप्लुते पुत्रे बाले वा यत् प्रदृश्यते ।


    द्रव्यहृद् दापयेत् तं तु दाप्यते तत्र ?) तस्याभावे पुरन्धिहृत् ॥

**[१७५] **दायभागानर्हस्यापि भूयिष्ठधनवत्त्वे योषिद्ग्राहो न दद्याद् इत्य् आह स एव (कात्। ५७७) ।

    पूर्वं दद्याद् धनग्राहः पुत्रस् तस्माद् अनन्तरम् ।


    योषिद्ग्राहः सुताभावे पुत्रे चात्यन्तनिर्धने ॥

पूर्वं रिक्थग्राहो दद्यात् तदभावे बहुतरधनयुक्तो दायानर्हः पुत्रो दद्यात् । तस्याभावे योषिद्ग्राहो दद्याद् इत्य् अर्थः । कीदृशस्य योषिद्ग्राहस्यर्णदाने ‘धिकार इत्य् अपेक्षायाम् आह नारदः (ऋणदान।२१) ।

    या तु सप्रधनैव स्त्री सापत्या वान्यम् आश्रयेत् ।


    सो ऽस्या दद्याद् ऋणं भर्तुर् उत्सृजेद् वा तथैव ताम् ।

सप्रधना प्रकृष्टधनसहिता । अस्या भर्तुर् ऋणं दद्याद् इत्य् अन्वयः । स एव (न्स्म्, ऋ।२२) ।

    अन्तिमा स्वैरिणीनां या प्रथमा च पुनर्भुवाम् ।


    ऋणं तयोः पतिकृतं दद्याद् यस् ते समश्नुते ॥


    अधनस्याप्य् अपुत्रस्य मृतस्योपैति यः स्त्रियम् ।


    ऋणं वोढुः स भजते तद् एवास्य धनं स्मृतम् ॥

चतसृणां स्वैरिणीनां यान्तिमा तिसृणां पुनर्भुवां या प्रथमा तयोः पत्या कृतम् ऋणं ते यः समश्नुते पतित्वेनोपभुङ्क्ते स दद्याद् इत्य् अर्थः । उपैति पतित्वेनोपभुङ्क्ते । पुनर्भ्वः स्वैरिण्यश् च प्रदर्शितास् तेनैव (नारद, स्त्रीपुंस।४५-५२) ।

    परपूर्वाः स्त्रियस् त्व् अन्याः सप्त प्रोक्ता यथाक्रमम् ।


    पुनर्भूस् त्रिविधा तासां स्वैरिणी तु चतुर्विधा ॥


    कन्यैवाक्षतयोनिर् या पाणिग्रहणदूषिता ।


    पुनर्भूः प्रथमा प्रोक्ता पुनः संस्कारकर्मणा ॥


    देशधर्मानवेक्ष्य स्त्री गुरुभिर् या प्रदीयते ।


    उत्पन्नसाहसान्यस्मै सा द्वितीया प्रकीर्तिता ॥


    असत्सु देवरेषु स्त्री बान्धवैर् या प्रदीयते ।


    सवर्णाय सपिण्डाय सा तृतीया प्रकीर्तिता ॥

[१७६] स्त्री प्रसूताप्रसूताः वा पत्याव् एव तु जीवति ।

    कामात् समाश्रयेद् अन्यं स्वैरिणी प्रथमा तु सा ॥


    कौमारं पतिम् उत्सृज्य या त्व् अन्यं पतिम् आश्रिता ।


    पुनः पत्युर् गृहं यायात् सा द्वितीया प्रकीर्तिता ॥


    मृते भर्तरि तु प्राप्ता देवरादीन् अपास्य या ।


    उपगच्छेत् परं कामात् सा तृतीया प्रकीर्तिता ॥


    प्राप्ता देशाद् धनक्रीता क्षुत्पिपासातुरा च या ।


    तवाहम् इत्य् उपगता सा चतुर्थी प्रकीर्तिता ॥ इति ।

उत्पन्नसाहसा क्षतयोनिः प्रौढेति यावत् । अन्यस्मै देवराय असत्सु देवरेष्व् इत्य् उत्तरत्राभिधानात् । एतच् च योषिद्ग्राहस्य ऋणदानाधिकाराभिधानं विहितनिषिद्धज्ञानवतां शास्त्रोक्तपथानतियायिनां ब्राह्मणादीनां परयोषिद्ग्राहित्वस्यासम्भवे ऽपि पामराणां रागान्धानां च तत्सम्भवत्य् एवेति न निर्विषयम् । अत एव योषिद्ग्राहस्य ऋणदानाधिकारकथनप्रस्तावे शौण्डिकादिग्रहणं करोति कात्यायनः (५६७) ।

    निर्धनैर् अनपत्यैस् तु यत् कृतं शौण्डिकादिभिः ।


    तत्स्त्रीणाम् अपि भोक्ता तु दद्यात् तदृणम् एव हि ॥

शौण्डिकः सुराकारः । आदिशब्दाच् चर्मकारादिग्रहणम् । विज्ञानेश्वराचार्यैस् तु “रिक्थग्राह ऋणं दाप्य” इत्यस्य प्रकारान्तरेण व्याख्यानं कृत्वा व्यवस्थान्तरं कृतम् । तद् यथा ।

    रिक्थग्राही ऋणं दाप्यो योषिद्ग्राहस् तथैव च ।


    पुत्रो ऽनन्याश्रितद्रव्यः पुत्रहीनस्य रिक्थिनः ॥ 

अनन्याश्रितद्रव्यः अन्यम् आश्रितम् अन्याश्रितम् । द्रव्यशब्देनात्र मातापितृसम्बन्धिद्रव्यस्य विवक्षा । अन्याश्रितं मातापितृसम्बन्धिद्रव्यं यस्य सो ऽन्याश्रितद्रव्यो दायानर्ह इति यावत् । तदितरो ऽनन्याश्रितद्रव्यः दायभागार्ह इत्य् अर्थः । पुत्रहीनस्य रिक्थिन ऋणं रिक्थग्राहो दाप्यस् तदभावे योषिद्ग्राहस् तदभावे दायार्हः पुत्रः ।

<span style="text-decoration:underline;">नन्व् एतेषां</span> मेलने ह्य् अयं क्रमः । तद् एव नोपपद्यते,

**[१७७] **न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः । इति (म्ध् ९। १८५) ।

पुत्रे सत्य् अन्यस्य रिक्थग्राहित्वासम्भवात् । योषिद्ग्राहो ‘पि नोपपद्यते,

	न द्वितीयश् च साध्वीनां क्वचिद् भर्तोपदिश्यते । 

इति स्मरणात् (म्ध् ५। १६२) । किं च, ऋणं पुत्रो दाप्य इत्य् अप्य् अयुक्तं “पुत्रपौत्रैर् ऋणं देयम्” इति याज्ञवल्क्येन (२.५०) प्रागेवोक्तत्वात् । अनन्याश्रितद्रव्य इति विशेषणम् अपि व्यर्थं पुत्रे सति मातापितृद्रव्यस्यान्यगामित्वासम्भवात् । सम्भवे ऽपि रिक्थग्राहीत्य् अनेनैव प्राप्ते पुत्रो ऽनन्याश्रितद्रव्य इत्य् अनर्थकम् । पुत्रहीनस्य रिक्थिन इत्य् एतद् अपि व्यर्थं सत्य् अपि पुत्रे रिक्थग्राहिण एव ऋणापाकरणाधिकारित्वस्य “रिक्थग्राही ऋणं दाप्यः” (य्ध् २.५१) इत्य् अनेनाभिधाने कैमुतिकन्यायेनासति पुत्रे तत्सिद्धेः ।

<span style="text-decoration:underline;">अत्राभिधीयते</span> । सत्य् अपि पुत्रे ऽन्यस्य रिक्थग्राहित्वं सम्भवति क्लीबादीनां दायानर्हत्वात् । योषिद्ग्राहित्वम् अपि रागकलुषीकृतचित्तस्यातिक्रान्तनिषेधस्योपपद्यते । ऋणं पुत्रो दाप्य इति पुनरभिधानं योषिद्ग्राहाभावे ऽस्य ऋणदाने ऽधिकारो न तस्मिन् सतीत्य् एवंरूपक्रमार्थम् । अनन्याश्रितद्रव्य इति न व्यर्थं पित्र्यरिक्थाभावे ‘पि बहुषु पुत्रेषु दायग्रहणयोग्यो यस् तस्यैवाधिकारो न दायानर्हस्य क्लीबादेर् इति प्रतिपादनार्थत्वात् । पुत्रहीनस्य रिक्थिन इत्य् एतद् अपि न व्यर्थम् । अत्र पुत्रग्रहणं पौत्रस्याप्य् उपलक्षणम् । पुत्रपौत्ररहितस्य ये समनन्तरं रिक्थग्राहत्वेन दायभागशास्त्रे निरूपिताः प्रपौत्रादयस् ते सर्वे दायभागोक्तक्रमेण ऋणं दाप्या यदि रिक्थं गृह्णन्ति न गृह्णन्ति चेन् न दाप्याः । पुत्रपौत्रौ तु रिक्थग्रहणाभावे ऽपि दाप्याव् इति पुत्रपौत्रापेक्षया प्रपौत्रादीनां वैषम्यप्रतिपादनार्थत्वात् । पुत्रपौत्रापेक्षया प्रपौत्रादीनां वैषम्यं दर्शितं **नारदेना**पि (ऋणादान ४ ) ।


    क्रमाद् अव्याहतं प्राप्तं पुत्रैर् यन् नर्णम् उद्धृतम् ।


    दद्युः पैतामहं पौत्रास् तच् चतुर्थान् निवर्तते ॥ इति ।

अथ वा योषिद्ग्राहाभावे पुत्रो दाप्य इत्य् उक्तं पुत्राभावे योषिद्ग्राहो दाप्य इत्य् एतदर्थं पुत्रहीनस्य रिक्थिन इति । अस्मिन् पक्षे रिक्थशब्देन योषिद् उच्यते “सैव चास्य धनं स्मृतम्” इति स्मरणात् । पुत्रहीनस्य सयोषित्कस्य **[१७८] **ऋणं योषिद्ग्राहो दद्याद् इत्य् अर्थः ।

<span style="text-decoration:underline;">ननु</span> योषिद्राहाभावे पुत्रो दाप्यः पुत्राभावे योषिद्ग्राहो दाप्य इत्य् उभयसद्भावे न कश्चिद् दाप्यः स्यात् । 

<span style="text-decoration:underline;">नैष दोषः</span> । सप्रधनस्त्रीहारिणो ऽन्तिमस्वैरिणीग्राहिणः प्रथमपुनर्भूग्राहिणश् चाभावे पुत्रो दाप्यः पुत्राभावे तु निर्धननिरपत्ययोषिद्राही दाप्य इति व्यवस्थितेः । एतद् एवोक्तं **नारदेन** (ऋणादान। २३) ।


    धनस्त्रीहारिपुत्राणाम् ऋणभाग्यो धनं हरेत् ।


    पुत्रो ऽसतोः स्त्रीधनिनोः स्त्रीहारी धनिपुत्रयोः ॥ इति ।

कस्मिंश्चित् स्त्रीहारिण्य् असति पुत्रो दाप्यः पुत्रे सति ( पुत्रे ऽसति ?) कश्चित् स्त्रीहारी दाप्य इत्य् अर्थः । अथ वा पुत्रहीनस्य रिक्थिन इत्य् अन्यथा व्याख्यातव्यम् । रिक्थग्राह्यादयः क्रमेण ऋणं दाप्या इत्य् उक्तं तत्रोत्तमर्णस्य तत्पुत्रस्य चाभावे कस्य दाप्या इत्य् अपेक्षायाम् इदम् उपतिष्ठते पुत्रहीनस्य रिक्थिन इति । पुत्रहीनस्योत्तमर्णस्य यो रिक्थी रिक्थग्रहणार्हस् तस्य दाप्या इत्यर्थ इति सर्वं समञ्जसम् ।

पितृव्यादिभिः कुटुम्बपोषणार्थं कृतं यद् ऋणं तत् कुटुम्बिना दातव्यम् । तथा च **बृहस्पतिः** ।


    पितृव्यभ्रातृपुत्रस्त्रीदासशिष्यानुजीविभिः ।


    यद् गृहीतं कुटुम्बार्थे गृही दातुम् अर्हति ॥

गृही अत्र कुटुम्बी । अत एव नारदः (ऋणदान। १२) ।

    शिष्यान्तेवासिदासस्त्रीप्रेष्यकृत्यकरैश् च यत् ।


    कुटुम्बहेतोर् उत्क्षिप्तं दातव्यं तत् कुटुम्बिना ॥

शिष्यो ऽत्र वेदविद्यार्थी । अन्तेवासी शिल्पविद्यार्थी । उत्क्षिप्तं उत्थापितं कृतम् इति यावत् । कुटुम्बिनो ‘सन्निधानादिना तदनुज्ञानाभावे ऽपि कुटुम्बार्थं कृतम् ऋणं कुटुम्बिना दातव्यम् इत्य् आह कात्यायनः (५४५) ।

    प्रोषितस्यामतेनापि कुटुम्बार्थम् ऋणं कृतम् ।


    दासस्त्रीमातृशिष्यैर् वा दद्यात् पुत्रेण वा भृगुः ॥

मनुः (८। १६७) ।

[१७९] कुटुम्बार्थे ऽध्यधीनो ऽपि व्यवहारं समाचरेत् ।

	स्वदेशे वा विदेशे वा तं विद्वान् न विचालयेत् ॥

अध्यधीनो दासादिः । अन्यद् अपि कुटुम्बकृतं कुटुम्बिना दातव्यम् ऋणं दर्शयति कात्यायनः (५४२-५४३) ।

    कुटुम्बार्थम् अशक्ते तु गृहीतं व्याधिते तथा ।


    उपप्लवनिमित्तं च विद्याद् आपत्कृतं तु तत् ॥


    कन्यावैवाहिकं चैव प्रेतकार्येषु यत् कृतम् ।


    एतत् सर्वं प्रदातव्यं कुटुम्बेन कृतं प्रभोः ॥

अशक्ते कुटुम्बपोषणासमर्थे कुटुम्बिनीति शेषः । प्रभोः कुटुम्बिनः । एतद्व्यतिरिक्तं पुत्रादिकृतम् ऋणम् अदेयम् इत्य् आह याज्ञवल्क्यः (२.४६) ।

    न योषित्पतिपुत्राभ्यां न पुत्रेण कृतं पिता ।


    दद्याद् ऋते कुटुम्बार्थान् न पतिः स्त्रीकृतं तथा ॥

पुत्रकृतम् अपि किंचिद् देयम् इत्य् आह कात्यायनः (५४४) ।

    ऋणं पुत्रकृतं यत् तन् न देयम् इति धर्मतः ।


    देयं प्रतिश्रुतं यत् स्याद् यच् च स्याद् अनुमोदितम् ॥

प्रतिश्रुतम् अनुज्ञातम् । अनुमोदितम् ऋणकरणानन्तरम् अङ्गीकृतम् । पुत्रेण स्वापदुद्धरणार्थं यत् कृतं तद् अपि देयम् इत्य् आह नारदः (ऋणदान। ११) ।

    पितुर् एव नियोगाद् वा कुटुम्बभरणाय वा ।


    कृतं वा यद् ऋणं कृच्छ्रे दद्यात् पुत्रस्य तत् पिता ॥

अन्यस्यापि पुत्रकृतर्णस्य स्नेहदेयत्वम् आह बृहस्पतिः

    ऋणं पुत्रकृतं पित्रा संशोध्यम् अनुमोदितम् ।


    सुतस्नेहेन वा दद्यान् नान्यथा दातुम् अर्हति ॥

स्नेहेन न धर्मत इत्य् अर्थः । भार्ययाप्य् आपदुद्धरणार्थं यत् कृतं तद् ऋणं देयम् ।

[१८०] न च भार्याकृतम् ऋणं कथंचित् पत्युर् आभवेत् ।

	आपत्कृताद् ऋते पुंसां कुटुम्बार्थो हि विस्तरः ॥ (कात्। ५६९)

आभवेद् देयं भवेद् इत्य् अर्थः । पत्युर् भार्याकृतर्णदाननिषेध आभीरादिव्यतिरिक्तविषयः । तथा च याज्ञवल्क्यः (२.४८) ।

    गोपशौण्डिकशैलूषरजकव्याधयोषिताम् ।


    ऋणं दद्यात् पतिस् तासां यस्माद् वृत्तिस् तदाश्रया ॥

शैलूषो नटः । वृत्तिर् जीवनम् । गोपादिग्रहणं भार्यायत्तजीवनानां तैलिकादीनाम् अप्य् उपलक्षणम् । “न योषित् पतिपुत्राभ्याम्” इत्य् अस्यापवादम् आह कात्यायनः (५४६) ।

    भर्त्रा पुत्रेण वा सार्धं केवलं वात्मना कृतम् ।


    ऋणम् एवंविधं देयं नान्यथा तत्कृतं स्त्रिया ॥

भर्त्रा पुत्रेण सार्धं गृहीतम् ऋणं तयोर् अभावे देयं स्वयं गृहीतं तु तयोर् भावे ऽपि देयम् इत्य् अर्थः । याज्ञवल्क्यो ऽपि (२। ४९) ।

    प्रतिपन्नं स्त्रिया देयं पत्या वा सह यत् कृतम् ।


    स्वयं कृतं वा यद् ऋणं नान्यत् स्त्री दातुम् अर्हति ॥

प्रतिपन्नम् अहं दास्यामीत्य् अङ्गीकृतम् । अप्रतिपन्नम् अपि तद् रिक्थग्रहणे दातव्यम् । तथा च कात्यायनः (५४७) ।

    मर्तुकामेन या भर्त्रा उक्ता देयम् ऋणं त्वया ।


    अप्रपन्नापि सा दाप्या धनं दद्यात् स्थितं स्त्रिया ( -याम् ? ) ॥

मातृकृतमृणं पुत्रेण दातव्यम् । तथा च विष्णुः (६.३५-३६) “पैतृकम् अविभक्तमातृकं च विभक्ताश् च दायानुरूपम् अंशम्” इति । दद्युर् इत्य् अनुषङ्गः । मातुर् दौष्ट्ये ऽपि निर्धनायास् तस्या ऋणं पुत्रेण दातव्यम् इत्य् आह नारदः (ऋणदान। २०) ।

    पुत्रिणी तु समुत्सृज्य पुत्रं स्त्री यान्यम् आश्रयेत् ।


    तस्या ऋणं हरेत् सर्वं निःस्वायाः पुत्र एव तु ॥

[१८१] अन्यं भर्तारम् इति शेषः । तस्या एव सधनत्वे विशेषम् आह कात्यायनः (५७४) ।

    बालपुत्राधिकार्था वा भर्तारं यान्यम् आश्रिता ।


    आश्रितस् तदृणं दद्याद् बालपुत्राविधिः स्मृतः ॥

अविभक्तधनैः कुटुम्बपोषणार्थं यद् ऋणं कृतं तत् तद् दानाधिकारिणि कुटुम्बिन्य् असंनिहिते तद्रिक्थहरैः सर्वैर् दातव्यम् । तथा च याज्ञवल्क्यः (२.४५) ।

    अविभक्तैः कुटुम्बार्थे यद् ऋणं तु कृतं भवेत् ।


    दद्युस् तद् रिक्थिनः प्रेते प्रोषिते वा कुटुम्बिनि ॥

नारदो ऽपि (ऋणदान। ३) ।

    पितृव्येणाविभक्तेन भ्रात्रा वा यद् ऋणं कृतम् ।


    मात्रा वा कुटुम्बार्थे दद्युस् तत् सर्वरिक्थिनः ॥

अविभक्तधनानां सर्वेषाम् अभावे यस् तिष्ठति तेनैव सर्वम् ऋणं दातव्यम् । तथा च विष्णुः (६.३४) “अविभक्तैः कुटुम्बार्थं कृतम् ऋणं यस् तिष्ठेत् स दद्यात्” इति । एतच् च ऋणप्रतिदानम् उत्तमर्णस्याभावे तद्रिक्थग्रहणाधिकारिषु पुत्रादिषु कर्तव्यं तेषाम् अभावे तत्सगोत्रेषु तेषाम् अभावे तद्बन्धुषु मातुलादिषु कर्तव्यम् । तथा च नारदः (ऋणदान। ११२) ।

    ब्राह्मणस्य तु यद् देयं सान्वयस्य न चास्ति सः ।


    निवर्तयेत् सकुल्येषु तदभावे ऽस्य बन्धुषु ॥

ब्राह्मणग्रहणम् उत्तमर्णोपलक्षणम् । अन्वयः पुत्रसन्ततिर् दुहितृसन्ततिश् च । तेषाम् अप्य् अभावे यत् कर्तव्यं तद् आह स एव (न्स्म्, ऋणदान। ११३) ।

    यदा तु न सकुल्याः स्युर् न च सम्बन्धिबान्धवाः ।


    तदा दद्याद् द्विजेभ्यस् तु तेष्व् असत्स्व् अप्सु निक्षिपेत् ॥

प्रजापतिर् अपि ।

    बन्ध्वभावे तु विप्रेभ्यो देयं क्षेप्यं जले ऽपि वा ।


    जले क्षिप्तं तथाग्नौ च धनं स्यात् पारलौकिकम् ॥

[१८२] अग्नौ हुतमिति शेषः । न तु क्षिप्तम् इत्य् अस्यानुषङ्गः । अत एवोकं स्मृतिसंग्रहे

    द्रव्यं यत् त्व् अधमर्णस्थं क्वचिद् ब्राह्मणगं भवेत् ।


    सुतादिब्राह्मणान्तानां रिक्थभाजाम् असम्भवे ॥


    पलाशस्य पलाशेन जुहुयान् मध्यमेन तु ।


    यत् कुसीदम् इति "प्रास्येद् अथ वार्य् एव तद् धनम् ॥ इति ।

मन्त्रस्य होमेनैव सम्बन्धो न जलप्रक्षेपेण गोभिलकात्: “मध्यमपर्णेन जुहुयाद् यत् कुसीदम्” इति गोभिलेन (गोभिलगृह्य ४ ।४ ।२६) होमसम्बन्धेनैव स्मृतत्वात् । अयं विधिर् निक्षेपादिद्रव्ये ‘पि स्वाम्यभावे ज्ञातव्यः समानन्यायत्वात् ।

इति श्रीकोदण्डपरशुरामेति ॥ ॥ व्यवहारविवेकोदूद्द्योते

ऋणादानाख्यव्यवहारपदनिरूपणम् ॥ १६ ॥

**पोस्सिब्ले रेअदिन्ग् ओफ़् थे देफ़ेच्तिवे तेxत्-

श्रीकोदण्डपरशुरामेत्यादिविविधबिरुदावलीविराजमानमानोन्नत-महाराजाधिराजश्रीशक्तिसिंहात्मजमहाराजाधिराजश्रीमदनसिंहदेवविरचिते मदनरत्नप्रदीपे व्यवहारविवेकोद्द्योते ऋणादानाख्यव्यवहारपदनिरूपणम् ॥१६॥

अथ निक्षेपाख्यव्यवहारपदनिरूपणम् ।

तस्य स्वरूपं दर्शयति नारदः (निक्षेप १) ।

    स्वद्रव्यं यत्र विस्रम्भान् निक्षिपत्य् अविशङ्कितः ।


    निक्षेपो नाम तत् प्रोक्तं व्यवहारपदं बुधैः ॥

स्वद्रव्यं विश्वासात् पुरुषान्तरे स्थापितं निक्षेपः । अयम् एवागणितद्रव्यस्थापने उपनिधिर् इत्य् उच्यते । तथा चोक्तं तेनैव

    असंख्यातम् अविज्ञातं समुद्रं यन् निधीयते ।


    तं जानीयाद् उपनिधिं निक्षेपं गणितं विदुः ॥

अविज्ञातशब्दार्थो विवृतो बृहस्पतिना

    अनाख्यातं व्यवहितम् असंख्यातम् अदर्शितम् ।


    मुद्राङ्कितं च यद् दत्तं तद् औपनिधिकं स्मृतम् ॥

व्यवहितं करण्डकादिस्थितम् इत्य् अर्थः । अत एव याज्ञवल्क्यः (२.६५) ।

    वासनस्थम् अविज्ञातं हस्ते ऽन्यस्य यद् अर्प्यते ।


    द्रव्यं तद् औपनिधिकं प्रतिदेयं तथैव तत् ॥

[१८३] वासनं द्रव्याधारभूतं करण्डकादि । हस्तग्रहणम् उपलक्षणम् । अत एवोक्तं नारदेन (निक्षेप ५ ।) ।

	निक्षिप्यते परगृहे तद् औपनिधिकं स्मृतम् ।

अयम् एव ग्राहकस्यासमक्षं समर्पितो न्यास इत्य् उच्यते । अत एव बृहस्पतिः

    राजचौरारातिभयाद् दायादानां च वञ्चनात् ।


    स्थाप्यते ऽन्यगृहे द्रव्यं न्यासः स परिकीर्तितः ॥

एवं च गणितं ग्राहकस्य समक्षं स्थापितं निक्षेपः । अगणितं मुद्राङ्कितं समक्षस्थापितम् उपनिधिः । गृहस्वामिनो ऽसमक्षं गणितम् अगणितं वा तस्मिन्न् आगत एवैतद् दातव्यम् इत्य् उक्त्वान्यस्य तत्पुत्रादेर् हस्ते दत्तं न्यास इत्य् एतेषां भेदः । निक्षेपादेः पुनर् द्वैविध्यम् आह नारदः (निक्षेप ६ ) ।

    स पुनर् द्विविधः प्रोक्तः साक्षिमान् इतरस् तथा ।


    प्रतिदानं तथैवास्य प्रत्ययः स्याद् विपर्यये ॥

विपर्यये विसंवादे । प्रत्ययो दिव्यम् । निक्षेपादिस्थापनप्रकारम् आह मनुः (८। १७९) ।

    कुलजे वृत्तसम्पन्ने धर्मज्ञे सत्यवादिनि ।


    महापक्षे धनिन्य् आर्ये निक्षेपं निक्षिपेद् बुधः ॥

महापक्षे बहुतरबन्धुयुक्ते । निक्षेपग्रहणम् उपलक्षणम् । बृहस्पतिः

    स्थानं गृहं गृहस्थं च तद्वर्णं विविधान् गुणान् ।


    सत्यं शौचं बन्धुजनं परीक्ष्य स्थापयेन् निधिम् ॥

निधिर् उपनिधिः । एतद् अप्य् उपलक्षणम् । ग्राहकेण निक्षेपादिकं सम्यग् रक्षणीयम् इत्य् आह बृहस्पतिः

    ससाक्षिकं रहोदत्तं द्विविधं समुदाहृतम् ।


    पुत्रवत् परिपाल्यं तद् विनश्यत्य् अनवेक्षया ॥

रक्षणारक्षणयोः फलदोषौ दर्शितौ तेनैव

    ददतो यद् भवेत् पुण्यं हेमकुप्याम्बरादिकम् ।


    तत् स्यात् पालयतो न्यासं यथैव शरणागतम् ॥

**[१८४] ** भर्तृद्रोहे यथा नार्याः पुंसः पुत्रसुहृद्वधे ।

    दोषो भवेत् तथा न्यासे भक्षितोपेक्षिते नृणाम् ॥


    न्यासद्रव्यं न गृह्णीयात् तन्नाशस् त्व् अयशस्करः ।


    गृहीतं पालयेद् यत्नात् सकृद् याचितम् अर्पयेत् ॥

न्यासग्रहणम् उपलक्षणम् । ग्राहकेण यथा गृहीतं तथैव प्रत्यर्पणीयम् इत्य् आह स एव

    स्थापितं येन विधिना येन यच् च यथाविधम् ।


    तथैव तस्य दातव्यं न देयं प्रत्यनन्तरे ॥

प्रत्यनन्तरः स्थापकव्यतिरिक्तः स्थापितद्रव्यस्वामी तत्पुत्रादिर् इति । स्थापकेनापि यथा स्थापितं तथैव ग्राह्यम् इत्य् आह मनुः (८.१८०) ।

    यो यथा निक्षिपेद् धस्ते यम् अर्थं यस्य मानवः ।


    स तथैव ग्रहीतव्यो यथा दायस् तथा ग्रहः ॥

दायो दानं स्थापनम् इति यावत् । कस्माच्चिद् भयान् निक्षेपादिस्थापने तद्भयावस्थितिकाले न ग्राहकेण प्रतिदातव्यम् इत्य् आह कात्यायनः (६०१) ।

    ग्राह्यस् तूपनिधिः काले कालहीनं तु वर्जयेत् ।


    कालहीनं ददद् दण्डं द्विगुणं च प्रदाप्यते ॥

भयापाये ऽपि याचितं दातव्यं “सकृद् याचितम् अर्पयेद्” इति बृहस्पतिनाभिधानात् । याचितस्यादाने यत् कर्तव्यं तद् आह नारदः

    याच्यमानस् तु यो दातुर् निक्षेपं न प्रयच्छति ।


    दण्ड्यः स राज्ञो भवति नष्टे दाप्यश् च तत्समम् ॥

नष्टे दैवतो राजतो वेति शेषः । याज्ञवल्क्यो ऽपि (२०.६६) ।

	भ्रेषश् चेन् मार्गिते ऽदत्ते दाप्यो दण्डं च तत्समम् । इति ।

मार्गिते याचिते अदत्ते सति यदि भ्रेषो दैवराजादिकृतो नाशो भवति तथापि तद्द्रव्यमूल्यपरिकल्पनेन धनिने ग्राहको दाप्यो राज्ञे च तत्समं दण्डम् इत्य् अर्थः । मनुर् अपि (८.१९१) ।

[१८५] यो निक्षेपं नार्पयति यश् चानिक्षिप्य याचते ।

	ताव् उभौ चौरवच् छास्यौ दाप्यौ वा तत्समं दमम् ॥ इति ।

चौरवच् छास्यौ चोरवद् दण्ड्यौ । उपेक्षातिदोषेण निक्षेपादिनाशे यत् कर्तव्यं तद् आह कात्यायनः (५९४) ।

    यस्य दोषेण यत् किंचिद् विनश्येत म्रियेत वा ।


    तद् द्रव्यं सोदयं दाप्यो दैवराजकृताद् विना ॥

स एव (कात्। ५९६) ।

    न्यासादिकं परद्रव्यं प्रभक्षितम् उपेक्षितम् ।


    अज्ञाननाशितं चैव येन दाप्यः स एव तत् ॥

बृहस्पतिः

    भेदेनोपेक्षया न्यासं ग्रहीता यदि नाशयेत् ।


    याच्यमानो न दद्याद् वा दाप्यं तत् सोदयं भवेत् ॥

अत्र भेदेनोपेक्षय्एति कथनं स्वीयद्रव्येण सहोपेक्षया नाशे न सवृद्धिकदानम् इति बोधनार्थम् । अत एव व्यासः

    भक्षिते सोदयं दाप्यः समं दाप्य उपेक्षिते ।


    किंचिद् ऊनं प्रदाप्यः स्याद् द्रव्यम् अज्ञाननाशितम् ॥

किंचिद् ऊनं चतुर्थांशन्यूनम् इति विज्ञानेश्वराचार्याः । यः स्थापितघनेन भोगादिकं करोति तं प्रत्याह याज्ञवल्क्यः (२.६७) ।

	आजीवन् स्वेच्छया दण्ड्यो दाप्यस् तं चापि सोदयम् ।

आजीवन् भोगवृद्ध्यर्थं प्रयोगादिनोपजीवन् । स्वेच्छया स्वाम्यननुज्ञया । नारदो ऽपि (निक्षेप ८) ।

    यत्रार्थं साधयेत् तेन निक्षेप्तुर् अननुज्ञया ।


    तत्रापि दण्ड्यः स भवेत् तं च सोदयम् आवहेत् ॥

दण्डः साधितद्रव्यानुसारेण । निक्षेपवृद्धिश् च कात्यायनेन (५०६) दर्शिता ।

    निक्षेपं वृद्धिशेषं च क्रयविक्रयम् एव च ।


    याच्यमानं न चेद् दद्याद् वर्धते पञ्चकं शतम् ॥ इति ।

**[१८६] **निक्षेपापहर्तारं प्रत्य् आह विष्णुः (५। १६४): “निक्षेपापहारी वृद्धिसहितं धनं धनिकस्य दाप्यः” । अस्य दण्डम् अप्य् आह मनुः (८.१९२) ।

    निक्षेपस्यापहर्तारं तत्समं दापयेद् दमम् ।


    तथोपनिधिहर्तारं विशेषेणैव पार्थिवः ॥

निक्षेपापह्नवे यत् कर्तव्यं तद् आह व्यासः

    निक्षेपं निह्नुते यस् तु नरो बन्धुबलान्वितः ।


    साक्षिभिर् वार्थदिव्येन विभाव्यं प्रतिदाप्यते ॥

अस्य दण्डम् आह बृहस्पतिः

    गृहीत्वापह्नुते यत्र साक्षिभिः शपथेन वा ।


    विभाव्य दापयेन् न्यासं तत्समं विनयं तथा ॥

ससाक्षिके निक्षेपादौ स्थापकस्य दौष्ट्ये साक्षिभ्यो यथास्थितम् अर्थम् अवगत्य राज्ञा स दण्डनीय इत्य् आह मनुः (८ १९४) ।

    निक्षेपो यः कृतो येन यावांश् च कुलसंनिधौ


    तावान् एव स विज्ञेयो विब्रुवन् दण्डम् अर्हति ॥

कुलं साक्षिवृन्दम् । असाक्षिके तु बृहस्पतिर् आह ।

    रहोदत्ते निधौ यत्र विसंवादः प्रजायते ।


    विभावकं तत्र दिव्यम् उभयोर् अपि च स्मृतम् ॥

उभयोर् मध्ये एकस्येत्य् अर्थः । दैवराजोपघाते ग्राहकस्य न दोष इत्य् आह बृहस्पतिः

    दैवराजोपघातेन यदि तन्नाशम् आप्नुयात् ।


    ग्रहीतृद्रव्यसहितं तत्र दोषो न विद्यते ॥

ग्रहीतृद्रव्यसहितम् इत्य् उपेक्षाद्यभावनिश्चयार्थम् उक्तम् । तेन कथंऽचिन् निक्षेपमात्रस्य नाशे प्रमाणान्तरेणोपेक्षाद्यभावनिश्चये न ग्राहकस्य दोष इत्य् अवसेयम् । याज्ञवल्क्यो ऽपि (२.६६) ।

[१८७] न दाप्यो ‘पहृतं तत् तु राजदैविकतस्करैः ।

दैविकं च किंचिद् दर्शितं मनुना (८.१८९) ।

    चौरैर् हृतं जलेनोढम् अग्निना दग्धम् एव च ।


    न दद्याद् यदि तस्मात् स्वं न संहरति किंचन ॥

१८७

तस्मात् निक्षेपाद् यद्य् अल्पम् अपि धनं न संहरति न गृह्णाति तर्हि न दद्याद् इत्य् अर्थः । यद् यत्र स्थापितस्य राजचौरोपप्लवादिना नाशः सम्भाव्यत इति ज्ञात्वा कश्चित् स्थापयति तदा तत्र स्थापितस्य येन केनापि हेतुना नाशे ग्रहीता न दाप्य इत्य् आह कात्यायनः (५९९) ।

    ज्ञात्वा द्रव्यवियोगं तु दाता यत्र विनिक्षिपेत् ।


    सर्वोपायविनाशे ऽपि ग्रहीता नैव दाप्यते ॥

स्थापयितुर् मरणे प्रत्यनन्तरे पुत्रादौ तद् देयम् । अत एव मनुः (८.१८६) ।

    स्वयम् एव तु यो दद्यान् मृतस्य प्रत्यनन्तरे ।


    न स राज्ञाभियोक्तव्यो न निक्षेप्तुस् तु बन्धुभिः ॥ 

स्वयम् एव याचनम् अन्तरेणेत्य् अर्थः । याचनम् अन्तरेण दानं भयादिकालापाये ज्ञातव्यम् इतरथा दोषापत्तेः । प्रत्यनन्तराणां पुत्रादीनां बहुत्वे तेषां सर्वेषां सन्निधौ दातव्यम् इति सूचनार्थं न निक्षेपतृबन्धुभिर् अभियोक्तव्य इत् युक्तम् । यदि ग्राहकः स्वयम् एव न ददाति तदा प्रत्यनन्तरेण यत्क् आर्यं तद् आह स एव (म्ध् ८.१८७) ।

    अच्छलेनैव चान्विष्येत् तम् अर्थं प्रीतिपूर्वकम् ।


    विचार्य तस्य वा वृत्तं साम्नैव परिसाधयेत् ॥

अन्विष्येत् अवधारयेत् । तत्र तस्य वृत्तं विचार्य साम्नैव वा परिसाधयेद् इत्य् अनेन तस्य दुर्वृत्तत्वे ऋणादानप्रकरणोक्तेन भयदर्शनाद्युपायान्तरेण साधयेद् इति सूचितम् । उक्तं विधिं याचितादिष्व् अतिदिशति याज्ञवल्क्यः (२। ६७) ।

	याचितान्वाहितन्यासनिक्षेपादिष्व् अयं विधिः ।

[१८८] याचितं विवाहादौ शोभार्थम् अन्यस्माद् याचित्वा समानीतं वस्त्रालङ्कारादि । अन्वाहितम् इदम् अमुकेन मयि स्थापितं त्वया तस्मै दातव्यम् इत्य् उक्त्वा ग्राहकेण पुरुषान्तरहस्ते स्थापितम् । यद्य् अपि न्यासनिक्षेपयोर् विधिर् उपदिष्टस् तथापि याज्ञवल्क्येनोपनिधाव् एवोपदिष्टो नान्यत्रेत्य् उचितो ऽतिदेशः । बृहस्पतिर् अपि ।

    अन्वाहिते याचितके शिल्पिन्यासे सबन्धके ।


    एष एवोदितो धर्मस् तथा च शरणागते ॥

शिल्पिन्यासे कुण्डलादिकरणाय स्वर्णकारादिहस्तन्यस्तसुवर्णादौ । नारदो ऽपि (निक्षेप १४) ।

    एष एव विधिर् दृष्टो याचितान्वाहितादिषु ।


    शिल्पिषूपनिधौ न्यासे प्रतिन्यासे तथैव च ॥

शिल्पिषु शिल्पिन्यासे । प्रतिन्यासे मिथः कार्यापेक्षया त्वदीयम् एतन् मया स्थाप्यते मदीयम् एतत् त्वया स्थापनीयम् इति स्थापिते । नारदेन निक्षेप एव विध्युपदेशाद् उपनिधिन्यासयोस् तदतिदेशः । अतिदेशाद् अयाचितस्य शिल्पिन्यासस्य दैवराजकृते नाशे स्वर्णकारादयस् तं न दाप्या इति प्राप्तौ क्वचिद् अपवादम् आह कात्यायनः (६०३) ।

    यश् च संस्क्रियते न्यासो दिवसैः परिनिष्ठितैः ।


    तद् ऊर्ध्वं स्थापयञ् छिल्पी दाप्यो देवाद् गते ऽपि तम् ॥

जीर्णस्य वस्त्रादेर् नैर्मल्याद्यर्थं रजकादिहस्ते समर्पितस्य अवघातादिना नाशे अवघातादेर् नैर्मल्याद्यर्थत्वेन शिल्पिदोषाभावान् न तत्र शिल्पी दाप्यः । नूतनादौ तु शिल्पिन्यासे पटुतरावघातादिना नाशस्य शिल्पिदोषकृतत्वात् तन्मूल्यं दाप्यः । तद् एतद् अभिप्रेत्योक्तं तेनैव (कात्। ६०४) ।

    न्यासदोषाद् विनाशः स्याच् छिल्पिनं तं न दापयेत् ।


    दापयेच् छिल्पिदोषात् तत् संस्कारार्थं यद् अर्पितम् ॥

नेजकहस्ते प्रक्षालनार्थं दत्ते वस्त्रे तेन नाशिते तन्मूल्यं कियद् ग्राह्यम् इत्य् अपेक्षायाम् आह नारदः (क्रीता ८-९) ।

[१८९] मूल्याष्टभागो हीयेत सकृद् धौतस्य वाससः ।

    द्विः पादस् त्रिस् तृतीयांशश् चतुर्धौते ऽर्धम् एव च ॥


    अर्धक्षयात् तु परतः पादांशापचयः क्रमात् ।

सकृद्धौतस्य नाशे ऽष्टमांशन्यूनं तन्मूल्यं ग्राह्यं द्विर्धौते चतुर्थांशन्यूनम् । एवम् उत्तरत्रापि योज्यम् । शिल्पिनः शिल्पिन्यासोपभोगादौ दण्ड्यताम् आह याज्ञवल्क्यः (२.२३८)

    वसानस् त्रीन् पणान् दण्ड्यो नेजकस् तु परांशुकम् ।


    विक्रयावक्रयाधानयाचितेषु पणान् दश ॥

नेजको वस्त्रप्रक्षालकः । अवक्रयः कस्माच्चिद् भाटकं गृहीत्वा तस्योपभोगार्थं कालकॢप्तिं विधाय समर्पणम् । आधानं बन्धकीकरणम् । याचितं स्वसुहृद्भ्यो याचितत्वेन दानम् । रजकेन वस्त्राणां प्रक्षालनं पाषाणे न कार्यं किं तु श्लक्षणे शाल्मले फलके न च तेषां व्यत्यासः कार्यो न च रात्रौ तानि गृहे स्थापनीयानि । तथा च मनुः (८.३९६) ।

    शाल्मले फलके श्लक्षणे निज्याद् वासांसि नेजकः ।


    न च वासांसि वासोभिर् निर्हरेन् न च वासयेत् ।

वस्त्राद्यर्थं कुविन्दादिहस्ते समर्पितं यत् तन्त्वादिकं खण्डपटाद्यवस्थायां नष्टं परिपूर्णदशायां वा कुविन्दादिना समर्प्यमाणं स्वामिना न गृहीतं पश्चान् नष्टं तत्र विषये विशेषम् आह स एव (कात्। ६०५) ।

    स्वल्पेनापि च यत् कर्म नष्टं चेद् भृतकस्य तत् ।


    पर्याप्तं दित्सतस् तस्य विनश्येत् तद् अगृह्णतः ॥

यत् कर्म वस्त्रनिर्माणादि स्वल्पेनापि प्रान्तवानादिनापि विकलं नष्टं चेद् भृतकस्य शिल्पिन एव च तन् नष्टं पुनर् वेतनग्रहणम् अन्तरेणैव वानादिक्रियां कुर्याद् इत्य् अर्थः । यदि स्वामी तन्त्वादिकं नार्पयति तदा पुनर् वानाद्यभावे ऽपि शिल्पिने दत्तां भृतिं स न लभते । पर्याप्तं परिपूर्णं वस्त्रादिकं दित्सतस् तस्य भृतकस्य हस्ताद् दीयमानम् अगृह्णतः स्वामिनस् तत् पर्याप्तं नश्यतीत्य् अर्थः । एवं चात्र भृतको नष्टं न दाप्य इति पर्यवसितो **[१९०] **ऽर्थः । कल्कादिनिर्माणार्थं सुवर्णकारादिहस्ते दत्तानि यानि सुवर्णादीनि तेषु सुवर्णं यत्परिमाणकं दत्तं तत्परिमाणक एव सुवर्णविकारः शिल्पिनो ग्राह्यः । रजतादिविकारास् तु किंचिन्न्यूना ग्राह्याः । कम्बलादयस् तु ऊर्णाद्यपेक्षया किंचिदधिका ग्राह्याः । यद्य् एवं शिल्पी न ददाति तदा राज्ञैव दाप्यो दण्डनीयश् च । तद् एतत् सर्वम् अभिप्रेत्य सुवर्णे साम्यम् इतरत्र वृद्धिक्षययोर् इयत्तां च दर्शयति याज्ञवल्क्यः (२.१७८ - १८०) ।

    अग्नौ सुवर्णम् अक्षीणं रजते द्विपलं शते ।


    अष्टौ त्रपुणि सीसे च ताम्रे पञ्च दशायसि ॥


    शते दशपला वृद्धिर् और्णकार्पाससौत्रिके ।


    मध्ये पञ्चपला वृद्धिः सूक्ष्मे तु त्रिपला मता ॥


    कार्मिके रोमबन्धे च त्रिंशद्भागः क्षयो मतः ।


    न क्षयो न च वृद्धिश् च कौशेये वल्कलेषु च ॥

अग्नौ प्रताप्यमानम् इति शेषः । शतपले रजते प्रताप्यमाने पलद्वयम् । त्रपुणि सीसे च पलाष्टकम् । ताम्रे पलपञ्चकं लोहे पलदशकं क्षीयत इत्य् अर्थः । कांस्यस्य त्रपुताम्रप्रभवत्वात् तदनुसारेण क्षयः कल्पनीय इति पृथङ् नोक्तः । स्थूलेषूर्णाकार्पाससूत्रेषु शतपलेषु दशपलकम् । अनतिसूक्ष्मेषु पञ्चकं सूक्ष्मेषु पलत्रयं वर्धत इत्य् अर्थः । एतद् अप्रक्षालितवस्त्रविषयम् इति विज्ञानेश्वराचार्याःकार्मिकं चित्रेण कर्मणा निर्मितं यत्र निर्मिते पटे स्वस्तिकादिकं चित्रसूत्रैः क्रियते तद् इत्य् अर्थः । यत्र प्रावारादौ रोमाणि बध्यन्ते स रोमबन्धः । अनयोः सूत्रापेक्षया त्रिंशांशस्य क्षय इत्य् अर्थः । याचितकविषये विशेषम् आह स एव (कात्। ६०६) ।

    यदि तत् कार्यम् उद्दिश्य कालं परिनियम्य वा ।


    याचितो ऽर्धकृते तस्मिन्न् अप्राप्ते न तु दाप्यते ॥

यद् दीर्घकालनिष्पाद्यं कार्यं तद् उद्दिश्य संवत्सरपर्यन्तं दीयताम् इत्य् एवं कालं परिनियम्य याचिते कार्यमध्ये परिनियमितकालमध्ये वा [१९१] प्रतियाच्यमानो याचितकं न ददाति यदि तदा सोदयं न दाप्यः किं तु कार्ये कृते परिनियमितकालात्यये याचितकमात्रं दद्याद् इत्य् अर्थः । यदि कार्यानन्तम् उक्तकालात्यये वा न ददाति तदा दैवादिना नाशे तन्मूल्यं दातव्यम् इत्य् आह स एव (कात्। ६०७) ।

    प्राप्तकाले कृते कार्ये न दद्याद् याचितो ऽपि तत् ।


    तस्मिन् नष्टे हृते वापि ग्रहीता मूल्यम् आवहेत् ॥

क्वचित् परिनियतकालमध्ये कार्यमध्ये ऽपि याचितकदानम् आह सः एव (कात्। ६०९) ।

    अथ कार्यविपत्तिस् तु तस्यैव स्वामिनो भवेत् । 


    अप्राप्ते ऽपि स काले तु दाप्यस् त्व् अर्धकृते ऽपि तत् ॥

यदि याचितकाप्रतिदाने तत्स्वामिकार्यनाशस् तदा दद्याद् इत्य् अर्थः । याचितकादाने यत् कर्तव्यं तद् आह स एव (कात्। ६१०) ।

    यो याचितकम् आदाय न दद्यात् प्रतियाचितः ।


    स निगृह्य बलाद् दाप्यो दण्ड्यश् च न ददाति यः ॥

बलान् निगृह्य दाप्यो दानोन्मुखीकर्तव्यः । एवम् अपि यो न ददाति स दण्ड्यश् चेत्य् अर्थः ।

इति श्रीकोदण्डपरशुरामेति ॥॥॥। व्यवहारविवेकोद्द्योते

निक्षेपाख्यव्यवहारपदनिरूपणम् ॥ १७ ॥

**पोस्सिब्ले रेअदिन्ग् ओफ़् थे देफ़ेच्तिवे तेxत्-

श्रीकोदण्डपरशुरामेत्यादिविविधबिरुदावलीविराजमानमानोन्नत-महाराजाधिराजश्रीशक्तिसिंहात्मजमहाराजाधिराजश्रीमदनसिंहदेवविरचिते मदनरत्नप्रदीपे व्यवहारविवेकोद्द्योते निक्षेपाख्यव्यवहारपदनिरूपणम् ॥१७॥

अथास्वामिविक्रयाख्यव्यवहारपदनिरूपणम् ।

तस्य स्वरूपं दर्शयति नारदः ( अस्वामि। १) ।

    निक्षिप्तं वा परद्रव्यं नष्टं लब्ध्वापहृत्य वा ।


    विक्रीयते ऽसमक्षं यत् स ज्ञेयो ऽस्वामिविक्रयः ॥

निक्षिप्तग्रहणं याचितादीनाम् अप्य् उपलक्षणम् । असमक्षं स्वामिन इति शेषः । अत एव व्यासः

    याचितान्वाहितन्यासं हृत्वा वान्यस्य यद् धनम् ।


    विक्रीयते स्वाम्यभावे स ज्ञेयो स्ऽवामिविक्रयः ॥

[१९२] स्वाम्यभावे स्वाम्यसंनिधाने । अत्र विक्रयग्रहणं दानबन्धकयोर् अप्य् उपलक्षणम् । अत एव तयोर् अपि निवर्त्यत्वम् आह कात्यायनः ( ६१२) ।

	अस्वामि विक्रयं दानम् आधिं वा विनिवर्तयेत् ।

अस्वामि इति पृथक्पदम् । अस्वामि स्वामिसंनिधानरहितम् । लिङ्गव्यत्ययश् छान्दसः । अथ वा अस्वामिविक्रयं अस्वामिना कृतं विक्रयम् । अस्मिन्पक्षे दानाध्योर् अपि तत्साहचर्याद् अस्वामिकृतत्वं द्रष्टव्यम् । अत एव यमः

    अस्वामिना कृतो यस् तु दायो विक्रय एव वा ।


    अकृतः स तु विज्ञेयो व्यवहारेषु नित्यशः ॥

दायो दानम् । अस्वामिनं दर्शयति बृहस्पतिः

    निक्षेपान्वाहितन्यासहृतयाचितकबन्धकम् ।


    उपांशु येन विक्रीतम् अस्वामी सो ऽभिधीयते ॥

निक्षेपादिग्रहणं प्रनष्टाधिगतादिरूपस्यापि परद्रव्यस्योपलक्षणम् । अत एव मनुः (८.१९७) ।

	विक्रीणीते परस्य स्वं यो ऽस्वामी स्वाम्यसंमतः । इति ।

उपांशु अप्रकाशम् । एतच् चोपलक्षणम् । यतः प्रकटतया निक्षेपादिकं परद्रव्यं येन विक्रीतं सो ऽप्य् अस्वामी । अस्वामिना विक्रीतं यत्समीपे दृष्टं तत्सकाशात् स्वामिना ग्राह्यम् । तथा च नारदः (अस्वामि। २) ।

	द्रव्यम् अस्वामिविक्रीतं प्राप्य स्वामी तद् आप्नुयात् ।

याज्ञवल्क्यो ऽपि ( २.१६८) ।

    स्वं लभेतान्यविक्रीतं क्रेतुर् दोषो ऽप्रकाशिते ।


    हीनाद् रहो हीनमूल्ये वेलाहीने च तस्करः ॥

अप्रकाशिते गोपिते क्रये क्रेतुर् दोषो भवति । हीनात् तद्धनागमोपायरहितात् क्रये रहसि एकान्ते वा क्रये हीनमूल्ये अल्पमूल्येन वा क्रये वेलाहीने रात्र्यादिकृते वा क्रये क्रेता तस्करवद् दण्ड्य इत्य् अर्थः । [१९३] स्वामिना तद्धनस्य ग्रहणं राजानं ज्ञापयित्वैव कर्तव्यम् इतरथा तस्करप्रच्छादकत्वेन स दण्डय इत्य् आह स एव (य्ध्। २.१७२) ।

    हृतं प्रनष्टं यो द्रव्यं परहस्ताद् अवाप्नुयात् ।


    अनिवेद्य नृपे दण्ड्यः स तु षण्णवतिं पणान् ।

स्वामिना क्रेतुः समीपे स्वद्रव्यसत्त्वम् अवधार्य राजानं ज्ञापयित्वा राजपुरुषैः स ग्राहयितव्यः । राज्ञो राजपुरुषाणां च दूराद् अवस्थितौ तु विज्ञापनकालात् प्राक् पलायनादिशङ्कायां स्वयम् एव गृहीत्वा स समर्पणीय इत्य् आह स एव (य्ध्। २.१६९) ।

    नष्टापहृतम् आसाद्य हर्तारं ग्राहयेन् नरम् ।


    देशकालातिपत्तौ च गृहीत्वा स्वयम् अर्पयेत् ॥

हर्तृशब्देनात्र क्रेता विवक्षित इति विज्ञानेश्वराचार्याः । “क्रेतुर् दोषो ऽप्रकाशित” इत्यादिना याज्ञवल्क्येनोक्तम् अर्थं विष्णुर् अप्य् आह (५.१५९ - १६१) ।

    अज्ञानतः प्रकाशं यः परद्रव्यं क्रीणीयात् तत्रास्यादोषः स्वामी द्रव्यम् अवाप्नुयाद् यद्य् अप्रकाशं हीनमूल्यं वा क्रीणीयात् तदा क्रेता विक्रेता वा चोरवच् छास्यः । इति । 

अज्ञानतः विक्रेतुर् अप्रकाशविक्रयाद्यभावाद् अस्वामित्वम् अज्ञात्वा । अप्रकाशक्रयादौ तु तथाविधविक्रयस्य विक्रेत्रस्वामिबोधकत्वात् तज्ज्ञानम् अस्तीति दुष्टत्वात् क्रेतापि दण्ड्य इत्य् अर्थः । नारदो ‘पि (अस्वामि० २) ।

	प्रकाशतः क्रयः शुद्धः क्रेतुः स्तेयं रहः क्रयात् ।

बृहस्पतिर् अपि ।

    येन क्रीतं तु मूल्येन प्राग् राज्ञे विनिवेदितम् ।


    न तत्र विद्यते दोषः स्तेनः स्याद् उपविक्रयात् ॥

अल्पमूल्येनापि क्रीयमाणं क्रयात् प्राक् प्रकटीकृतं न दोषापादकम् इत्य् अर्थः । उपविक्रयशब्दार्थं स्वयम् एवाह ।

    अन्तर्गृहे बहिर्ग्रामान् निशायाम् असतो जनात् ।


    हीनमूल्यं च यत् क्रीतं ज्ञेयो ऽसाव् उपविक्रयः ॥

[१९४] असतो जनात् चण्डालादिजनात् । असद्ग्रहणं दासादीनाम् उपलक्षणम् । अत एव नारदः (अस्वामि । ३) ।

    अस्वाम्यनुमताद् दासादसतश् च जनाद् रहः ।


    हीनमूल्यम् अवेलायां क्रीणंस् तद्दोषभाग् भवेत् ॥

अस्वाम्यनुमतात् स्वाम्यनुमतिरहितात् । दासग्रहणम् अस्वतन्त्राणां बालादीनाम् उपलक्षणम् । नष्टधनस्वामिना क्रेतारं राजसभां प्रापप्य तद्धने स्वस्वत्वप्रापकं दायप्रतिग्रहादिकं साक्षिभाषणेन साधनीयम् । इतरथा स दण्ड्यः । तथा च कात्यायनः (६१३) ।

	अभियोक्ता धनं कुर्यात् प्रथमं ज्ञातिभिः स्वकम् ।

ज्ञातिभिः साक्षिभूतैर् इति शेषः । स एव (कात्। ६२०) ।

    यदि स्वं नैव कुरुते ज्ञातिभिर् नाष्टिको धनम् ।


    प्रसङ्गविनिवृत्त्यर्थं चौरवद् दण्डम् अर्हति ॥

नाष्टिको नष्टधनस्वामी । प्रसङ्गो स्वत्वसन्देहः । याज्ञवल्क्यो ऽपि (२.१७१) ।

    आगमेनोपभोगेन नष्टं भाव्यम् अतो ऽन्यथा ।


    पञ्चबन्धो दमस् तस्य राज्ञे तेनाविभाविते ॥

पञ्चबन्धः नष्टद्रव्यस्य पञ्चमांशसमानो दण्डः । व्यासो ऽपि ।

    वादी चेन् मार्गितं द्रव्यं साक्षिभिर् न विभावयेत् ।


    दाप्यः स्याद् द्विगुणं दण्डं क्रेता तद् द्रव्यम् अर्हति ॥ इति ।

साक्षिभिर् इत्य् उपादानम् अस्वामिविक्रयविवादे । स्वत्वसाधने प्रमाणान्तरनिवृत्त्यर्थम् । अत्र दण्डभेदो ऽपराधाल्पत्वमहत्त्वानुसारेण व्यवस्थापनीयः । स्वत्वहेतवस् त्व् अनुमाननिरूपणे दर्शिताः । नाष्टिकेन स्वत्वसाधनानन्तरं स्वत्वनिवृत्तिहेतुभूतदानविक्रयाद्यभावो ऽपि साधनीयः । तथा च कात्यायनः (६१४) ।

    नाष्टिकस् तु प्रकुर्वीत तद् धनं ज्ञातिभिः स्वकम् ।


    अदत्तत्यक्तविक्रीतं कृत्वा स्वं लभते धनम् ॥

[१९५] दत्तं कस्मैचित् संप्रदानभूताय विध्युक्तप्रकारेण दत्तम् । त्यक्तं पारितोषिकादिरूपेण दत्तम् । राजपुरुषैर् आनीतेन क्रेत्रा यतः क्रीतं स दर्शनीय इत्य् आह बृहस्पतिः

    पूर्वस्वामी तु तद् द्रव्यं यद् आगत्य विचारयेत् ।


    तत्र मूलं दर्शनीयं क्रेतुः शुद्धिस् ततो भवेत् ॥

मूलं विक्रेता । शुद्धिर् अभियोज्यत्वनिवृत्तिः । अत एव व्यासः

    मूले समाहृते क्रेता नाभियोज्यः कथंचन ।


    मूलेन सह वादस् तु नाष्टिकस्य विधीयते ॥

समाहृते अस्मान् मया क्रीतम् इति निर्दिष्टे । याज्ञवल्क्यो ‘पि (२.१७०) ।

    विक्रेतुर् दर्शनाच् छुद्धिः स्वामी द्रव्यं नृपो दमम् ।


    क्रेता मूल्यम् अवाप्नोति तस्माद् यस् तस्य विक्रयी ॥

अत्र स्वामी द्रव्यम् इत्य् अभिधानं विक्रेता नाष्टिकेन सह यदि विवादं न कुर्याद् यदि वा कृते विवादे पराजयी स्यात् तदा नाष्टिकस्य स्वामित्वम् अवधारितम् इति नाष्टिकादिभ्यो विक्रीतद्रव्यादीनि दातव्यानि नान्यथेति सूचनार्थम् । अत एव बृहस्पतिः

    विक्रेता दर्शितो यत्र हीयते व्यवहारतः ।


    क्रेत्रे राज्ञे मूल्यदण्डौ प्रदद्यात् स्वामिने धनम् ॥

यदि विक्रेता देशान्तरे तिष्ठति तदा तदानयनार्थं मार्गानुरूपः कालो देय इत्य् आह कात्यायनः (६१५) ।

	मूलानयनकालश् च तत्र देयो ऽध्वसंख्यया ।

यदा तु कालविलम्बेनापि न मूलं दर्शयितुं शक्तस् तदा क्रयं साक्षिभिः साधयेत् । तथा चोक्तं तेनैव (कात्। ६१८) ।

    असमाहार्यमूलस् तु क्रयम् एव विशोधयेत् ।


    विशोधिते क्रये राज्ञा वक्तव्यः स न किंचन ॥

क्रये विशोधिते साक्षिभाषणेन प्रकाशिते सति राज्ञा न किंचन वक्तव्यो न दण्ड्य इत्य् अर्थः । यत् तु तेनैव (कात्। ६१३) ।

[१९६] अभियोक्ता धनं कुर्यात् प्रथमं ज्ञातिभिः स्वकम् ।

    पश्चाद् आत्मविशुद्ध्यर्थं क्रयं क्रेता स्वबन्धुभिः ॥ इति

अभियोक्त्रा स्वत्वे साधिते पञ्चात् क्रेत्रा क्रयसाधनं कर्तव्यम् इत्य् उक्तं तदसमाहार्यमूलस् त्व् इत्य् अस्माद् एव वचनान् मूलदर्शनाभावे वेदितव्यम् । क्रेत्रा क्रये साधिते ऽपि क्रीतं द्रव्यं नाष्टिको गृह्णीयात् । तथा च मनुः (८। २०२) ।

    अथ मूलम् अनाहार्य प्रकाशक्रयशोधितम् ।


    अदण्ड्यो मुच्यते राज्ञा नाष्टिको लभते धनम् ॥

अनाहार्य अनानीय । प्रकाशक्रयशोधितं धनं नाष्टिको लभते क्रेता त्व् अदण्ड्यो भूत्वा राज्ञावरोधान् मुच्यत इत्य् अर्थः । यत् तु,

    वणिग्वीथीपरिगतं विज्ञातं राजपूरुषैः ।


    दिवा गृहीतं यत् क्रेत्रा स शुद्धो लभते धनम् ॥ इति

मरीचिवचनं, यच् च,

    विक्रयाद् यो धनं किंचिद् गृह्णीयात् कुलसन्निधौ ।


    क्रयेण स विशुद्धं हि न्यायतो लभते धनम् ॥ 

इति मनुवचनं (८। २०१), तन् नाष्टिकस्वत्वसाधनाभावविषयम् । क्रयसाधनं साक्षिणैव कर्तव्यम् इत्य् आह कात्यायनः (६१६) ।

    प्रकाशं च स्वयं कुर्यात् साधुभिर् ज्ञातिभिः स्वकैः ।


    न तत्रान्या क्रिया प्रोक्ता दैविकी न च मानुषी ॥

क्रेत्रा मूलोपस्थापनक्रयसाधनयोर् अकरणे राज्ञा यत् कर्तव्यं तद् आह स एव (कात्। ६१९) ।

    अनुपस्थापयन् मूलं क्रयं वाप्य् अविशोधयन् ।


    यथाभियोगं धनिने धनं दाप्यो दमं च सः ॥

क्रेता मूलोपस्थापनं प्रतिज्ञाय तद् अकृत्वा क्रयं साधयिष्यामीत्य् अभिधानेन क्रयसाधनम ङ्गीकुर्याद् इत्य् आह स एव (कात्। ६१७) ।

[१९७] यदा मूलम् उपन्यस्य पुनर् वादी क्रयं वदेत् ।

    आहरेन् मूलम् एवासौ न क्रयेण प्रयोजनम् ॥

यदा तु नाष्टिकस्य तु स्फुटस्वत्वसाधकं प्रमाणं नास्ति क्रेतुश् च क्रयसाधकं प्रमाणं नास्ति तदा तयोः साधुत्वाद्यपेक्षया विप्रतिपत्तिविषयं धनं साम्येन न्यूनाधिकभावेन वा विभज्य एतावत् तवैतावत् तवेति निर्णयं कुर्याद् इत्य् आह बृहस्पतिः

    प्रमाणहीनवादे तु पुरुषापेक्षया नृपः ।


    समन्यूनाधिकत्वेन स्वयं कुर्याद् विनिर्णयम् ॥

प्रमाणहीनवादे त्व् इत्य् एतद् अप्य् अस्वामिविक्रयाख्ये विवादे साक्षिव्यतिरिक्तप्रमाणाभावस्य ज्ञापकं दिव्याङ्गीकरणे प्रमाणहीनताया असम्भवात् । क्वचित् सप्रमाणके ऽपि विवादे क्रेतृनाष्टिकयोः साम्येन विभज्य तद्धनस्य ग्रहणम् आह स एव (कात्। ६२१-६२२) ।

    वणिग्वीथीपरिगतं विज्ञातं राजपूरुषैः ।


    अविज्ञाताश्रयात् क्रीतं विक्रेता यत्र वा मृतः ॥

	स्वामी दत्त्वार्धमूल्यं तु प्रगृह्णीत स्वकं धनम् ।

वणिग्वीथीपरिगतं वणिग्वीथ्यां प्राप्तम् । अनेन रहःक्रयाभावो दर्शितः । विज्ञातं राजपूरुषैर् इत्य् अप्रकाशक्रियाभावो दर्शितः । अविज्ञाताश्रयात् अविज्ञातस्थानकात् । यद् रहःक्रयादिरहितं सदविज्ञाताश्रयात् क्रीतं मृतविक्रेतृकं वा तदर्धमूल्यं दत्त्वा ग्राह्यम् इत्य् अर्थः । उभयोर् अर्धहानौ कारणम् आह स एव (कात्। ६२२-२३) ।

    अर्धं द्वयोर् अपि हृतं तत्र स्याद् व्यवहारतः ।


    अविज्ञातक्रयो दोषस् तथा चापरिपालनम् ।


    एतद् द्वयं समाख्यातं द्रव्यहानिकरं बुधैः ॥

हृतं नाशितं व्यवहारतः स्वापराधात् । अविज्ञातक्रयः अविज्ञातस्थानकात् क्रयः । अपरिपालनम् अरक्षणम् उपेक्षेति यावत् । मरीचिर् अपि ।

    अविज्ञातनिवेशत्वाद् यत्र मूल्यं न लभ्यते ।


    हानिस् तत्र समा कल्प्या क्रेतृनाष्टिकयोर् द्वयोः ॥

यथा अस्वामिनो विक्रेतुर् दण्ड्यत्वं तथास्वामिनः स्वाम्यनुमतिम् अन्तरेणोपभोक्तुर् अपि दण्ड्यत्वम् आह नारदः

    उद्दिष्टम् एव भोक्तव्यं स्त्री पशुर् वसुधापि वा ।


    अनर्पितं तु यो भुङ्क्ते भुक्तभोगं प्रदापयेत् ॥


    अनुद्दिष्टं तु यद् द्रव्यं वासःक्षेत्रगृहादिकम् ।


    स्वबलेनैव भुञ्जानश् चौरवद् दण्डम् अर्हति ॥


    अनड्वाहं तथा धेनुं नावं वाह्यं तथैव च ।


    अनिर्दिष्टं तु भुञ्जानो दद्यात् पणचतुष्टयम् ॥


    दासी नौका तथा धुर्यो बन्धकं नोपभुज्यते ।


    उपभोक्ता तु यद् द्रव्यं पण्येनैव विशोधयेत् ॥


    दिवसे द्विपणं दासीं धेनुम् अष्टपणं तथा ।


    त्रयोदश त्व् अनड्वाहम् अश्वं भूमिं च षोडश ॥


    नौकाम् अश्वांश् च धेनुं च लाङ्गलं कार्मिकस्य च ।


    बलात्कारेण यो भुङ्क्ते दाप्यश् चाष्टगुणं दिने ॥


    उलूखले पणार्धं तु मुसलस्य पणद्वयम् ।


    शूर्पस्य च पणार्धं तु जैमिनिर् मुनिर् अब्रवीत् ॥

पण्येन पणसमूहेन । अत्रैको धेनुशब्दो गाम् आचष्टे ऽपरो दोग्ध्रीं महिष्यादिकाम् । कार्मिकस्य कर्मोपजीविनः ॥

यद् अविज्ञातस्वामिकम् अपहृतं नष्टं वा कथंचिद् राजपुरुषैः प्राप्तं राज्ञे समपर्त्यते तत्स्वामी वर्षमध्ये समागतः स्वत्वसाधनं कृत्वा राज्ञः सकाशाद् गृहीयाद् इत्य् आह **याज्ञवल्क्यः** (२.१७३) ।


    शौल्किकैः स्थानपालैर् वा नष्टापहृतम् आहृतम् ।


    अर्वाक् संवत्सरात् स्वामी हरेत परतो नृपः ॥ इति ।

[१९९] यत् तु अब्दत्रयमध्ये समागतः स्वामी गृह्णीयाद् इत्यर्थप्रतिपादकं

    प्रणष्टस्वामिकं द्रव्यं राजा त्र्यब्दं निधापयेत् ।


    अर्वाक् त्र्यब्दाद् धरेत् स्वामी परतो नृपतिर् हरेत् । 

इति मनुवचनं (८.३०) तच् छ्रुतवृत्तसम्पन्नब्राह्मणविषयम् । राजपुरुषापहृतं द्रव्यं राज्ञा यो ऽस्य स्वामी स समागत्य गृह्णात्व् इति बहुजनसमक्षम् उद्घोष्य, स्थापनीयम् इत्य् आह गौतमः (१०.३६-३७): “प्रणष्टस्वामिकम् अधिगम्य राज्ञे प्रब्रूयुर् विख्याप्य संवत्सरं राज्ञा रक्ष्यम्” इति ॥धनस्वामी तद् धनं गृह्णन् राज्ञे रक्षणनिमित्तं भृतित्वेन तृतीयद्वितीयप्रथमवर्षेषु क्रमेण तद्धनाद् द्वादशांशदशांशषडंशान् दद्याद् इत्य् आह मनुः (८.३३) ।

    आददीताथ षड्भागं प्रणष्टाधिगतान् नृपः ।


    दशमं द्वादशं वापि सतां धर्मम् अनुस्मरन् ॥ इति ।

षड्भागः षष्ठो भागः । वृत्तौ संख्याशब्दानां पूरणार्थत्वम् इष्यते इति वचनात् । द्रव्यविशेषस्यापवादम् आह याज्ञवल्क्यः (२.१७४) ।

    पणान् एकशफे दद्याच् चतुरः पञ्च मानुषे ।


    महिषोष्ट्रगवां द्वौ द्वौ पादं पादम् अजाविके ॥

एकशफे अश्वादौ । पादः पणचतुर्थांशः । अजे छागे पादं दद्याद् अवौ मेषे च पादं दद्याद् इत्य् अर्थः ।

इति श्रीकोदण्डपरशुरामेति ॥। व्यवहारविवेकोद्द्योते ऽस्वामिविक्रयाख्यव्यवहारपदनिरूपणम् ॥ १८ ॥

**पोस्सिब्ले रेअदिन्ग् ओफ़् थे देफ़ेच्तिवे तेxत्-

श्रीकोदण्डपरशुरामेत्यादिविविधबिरुदावलीविराजमानमानोन्नत-महाराजाधिराजश्रीशक्तिसिंहात्मजमहाराजाधिराजश्रीमदनसिंहदेवविरचिते मदनरत्नप्रदीपे व्यवहारविवेकोद्द्योते ऽस्वामिविक्रयाख्यव्यवहारपदनिरूपणम् ॥१८॥

अथ सम्भूयसमुत्थानाख्यव्यवहारपदनिरूपणम् ।

तत्र तत्स्वरूपम् आह नारदः (सम्भूय। १) ।

    वणिक्प्रभृतयो यत्र कर्म सम्भूय कुर्वते ।


    तत् सम्भूयसमुत्थानं व्यवहारपदं स्मृतम् ॥

प्रभृतिशब्दाद् ऋत्विक्कर्षकशिल्पिनर्तकचौराणां ग्रहणम् । सह वणिज्यादिकर्मकरणे यादृशा अधिकारिणस् तान् दर्शयति बृहस्पतिः

    कुलीनदक्षानलसैः प्राज्ञैर् नाणकवेदिभिः ।


    आयव्ययज्ञैः शुचिभिः शूरैः कुर्यात् सह क्रियाम् ॥

[२००] क्रियां वाणिज्यक्रतुकृषिशिल्पसङ्गीतस्तेयरूपाम् । नाणकज्ञानवतां वणिज्यायाम् अधिकारः क्रतौ प्राज्ञानां कुलीनानां शुचीनां चाधिकारः कृषौ चायव्ययज्ञानां शिल्पक्रियायां सङ्गीतक्रियायां च प्राज्ञानां स्तेयक्रियायां शूराणाम् अधिकारः । दक्षत्वानलसत्वे सर्वाधिकारिविशेषणे । दक्षानलसग्रहणं सभाग्यव्याध्यपीडितानाम् अप्य् उपलक्षणम् । नाणकवेदिग्रहणं मूलधनवताम् अप्य् उपलक्षणम् । अत एव (वा ?) दक्षालसान् प्रतिषेधता तेन मन्दभाग्यादयो ऽपि प्रतिषिद्धाः ।

    अशक्तालसरोगार्तमन्दभाग्यनिराश्रयाः ।


    वाणिज्याद्याः सहैतैस् तु न कर्तव्या बुधैः क्रियाः ॥

निराश्रयाः मूलधनरहिताः । मूलधनांशानुसारेण लाभादयः परिकल्पनीया इत्य् आह नारदः

    समो ऽतिरिक्तो हीनो वा तत्रांशो यस्य यादृशः ।


    क्षयव्ययौ तथा वृद्धिस् तत्र तस्य तथाविधाः ॥

बृहस्पतिर् अपि ।

    प्रयोगं कुर्वते ये तु हेमधान्यरसादिना ।


    समन्यूनाधिकैर् अंशैर् लाभस् तेषां तथाविधः ॥


    समो न्यूनो ऽधिको वांशो येन क्षिप्तस् तथैव सः ।


    व्ययं दद्यात् कर्म कुर्याल् लाभं गृह्णीत चैव हि ॥

गुणप्रधानभावपर्यालोचनया अस्यैको भागो ऽस्य भागद्वयम् इति यदि सर्वैः समयः कृतस् तदा तदनुसारेण क्षतिलाभौ कल्पनीयाव् इत्य् आह याज्ञवल्क्यः (२। २५९) ।

    समवायेन वणिजां लाभार्थं कर्म कुर्वताम् ।


    लाभालाभौ यथाद्रव्यं यथा वा संविदा कृतौ ॥

सम्भूयकारिभिर् यत् कर्तव्यं तद् आह नारदः (सम्भूय। ४) ।

    भाण्डपिण्डव्ययोद्धारभारसारान्ववेक्षणम् ।


    कुर्युस् ते ऽव्यभिचारेण समये स्वे व्यवस्थिताः ॥

व्यासो ऽपि ।

    समक्षम् असमक्षं वावञ्चयन्तः परस्परम् ।


    नानापण्यानुसारास् ते प्रकुर्युः क्रयविक्रयौ ।


    अगोपयन्तो भाण्डानि दद्युः शुल्कं च ते ऽध्वनि ।


    अन्यथा द्विगुणं दाप्याः शुल्कस्थानाद् बहिः स्थिताः ॥

एकस्यापि सर्वस्यानुमतौ कार्यत्वम् आह बृहस्पतिः

    बहूनां संमतो यस् तु दद्याद् एको धनं नरः ।


    करणं कारयेद् वापि सर्वैर् एव कृतं भवेत् ॥

करणं लेख्यादिकम् । एतेषां मिथो विवादे निर्णयोपायम् आह स एव

    परीक्षकाः साक्षिणश् च त एवोक्ताः परस्परम् ।


    सन्दिग्धे ऽर्थे वञ्चनायां न चेद् विद्वेषसंयुताः ॥

विद्वेषसंयुतत्वे शपथैर् निर्णयः कर्तव्य इत्य् आह स एव

    यः कश्चिद् वञ्चकस् तेषां विज्ञातः क्रयविक्रये ।


    शपथैः सो ऽपि शोध्यः स्यात् सर्ववादे ऽप्य् अयं विधिः ॥

सर्ववादे ऽपि वञ्चनव्यतिरिक्तवादे ऽपि । वञ्चकत्वनिश्चये वञ्चको लाभम् अदत्त्वा दूरीकर्तव्य इत्य् आह याज्ञवल्क्यः (२। २६५) ।

	जिह्मं त्यजेयुर् निर्लाभम् अशक्तो ऽन्येन कारयेत् ।

जिह्मं वञ्चकम् । यस् तु सम्भूयकारिषु भाण्डावेक्षणादि स्वीयं कार्य·कर्तुम् असमर्थः स स्वकार्यम् अन्येन केनचिन् नियुक्तेन पुरुषेण कारयेद् इत्य् अशतो ऽन्येन कारयेद् इत्य् अस्यार्थः । यदि त्व् एतेषु कश्चिद् इतरप्रतिषिद्धकरणेन तदननुज्ञातकरणेन वा अवधानराहित्येन वा किंचिन् नाशयति तदा स तत् पण्यं दद्यात् । यस् तु तेषां मध्ये चोरराजादिकृताद् भयात् पण्यं रक्षति रक्षितस्य पण्यस्य दशमांशं तस्मै दत्त्वावशिष्टं सर्वैर् ग्राह्यम् । तथा च याज्ञवल्क्यः (२.२६०) ।

    प्रतिषिद्धम् अनादिष्टं प्रमादाद् यच् च नाशितम् ।


    स तद् दद्याद् विप्लवाच् च रक्षिता दशमांशभाक् ॥

[२०२] अनादिष्टम् अननुज्ञातम् । बृहस्पतिर् अपि ।

    अनिर्दिष्टो वार्यमाणः प्रमादाद् यश् च नाशयेत् ।


    तेनैव तद् भवेद् देयं सर्वेषां समवायिनाम् ॥


    राजदैवभयाद् यस् तु स्वशक्त्या परिपालयेत् ।


    तस्यांशं दशमं दत्त्वा गृह्णीयुस् ते ‘ंशतो ऽपरम् ॥

यः सम्भूयकारिष्व् अधमर्णादिभ्यः प्रतियाचनादिना साधारणं द्रव्यं साधयत्सु तैः सह न साधयति तस्मै लाभो न देय इत्य् आह बृहस्पतिः

    समवेतैस् तु यद् दत्तं प्रार्थनीयं तथैव तत् ।


    न याचते च यः कश्चिल् लाभात् स परिहीयते ॥

याचनग्रहणं येन यत् कर्म स्वांशानुरूपं कर्तव्यं तस्याप्य् उपलक्षणम् । ततश् च तत्कर्माकरणे ऽपि लाभहानिर् भवतीति ज्ञातव्यम् इत्य् उक्तं स्मृतिचन्द्रिकायाम् । दैवराजकृतायां हानौ सर्वेषाम् अप्य् अंशानुसारेण सा परिकल्पनीया । तथा चोक्तं तेनैव

    क्षयहानिर् यदा तत्र दैवराजकृता भवेत् ।


    सर्वेषाम् एव सा प्रोक्ता कल्पनीया यथांशतः ॥

क्षयहानिः क्षयरूपा हानिः तद्रूपचयार्थो (तदुपचयार्थो ?) यो व्ययस् तद्रूपा । सम्भूयकारिभिर् ऋत्विग्भिर् यत् कर्तव्यं तद् आह मनुः

    ऋत्विजः समवेतास् तु यथा सत्रे निमन्त्रिताः ।


    कुर्युर् यथार्हं तत् कर्म गृह्णीयुर् दक्षिणास् तथा ॥

सत्रशब्देनात्र यज्ञमात्रं गृह्यते न तु बहुयजमानकः सत्राख्यो यागविशेषः । तत्र यजमानानाम् एव होत्रादिकर्मकारित्वेन दक्षिणार्हाणाम् ऋत्विजाम् अभावात् । ऋत्विग्भिर् दक्षिणा विभज्य ग्राह्येत्य् आह स एव (मनु ८.२११) ।

    सम्भूय स्वानि कर्माणि कुर्वद्भिर् इह मानवैः ।


    अनेन क्रमयोगेन कर्तव्यांशप्रकल्पना ॥

स्वानि कर्माणि यजमानव्यतिरिक्तानि हौत्रादीनि कर्माणि । एतत् तत्तदंशपरिकल्पनविधानं तस्य द्वादशशतं दक्षिणेति क्रतुसम्बन्धमात्रेण विहितायां दक्षिणायां न तु ऋत्विग्विशेषसम्बन्धित्वेन विहितायाम् । [२०३] अश्वं दद्यान् निविदां शस्त्रे इत्यादितत्प्रतिपादकश्रुतिविरोधापत्तेः । तेन यद् ऋत्विगुल्लेखेन च दक्षिणा विहिता स एव तां गृह्णीयात् । अत एवोक्तं मनु-बृहस्पतिभ्यां (मनु ८। २०९) ।

    रथं हरेद् अथाध्वर्युर् ब्रह्माधाने च वाजिनम् ।


    होता निविद्वरं चाश्वम् उद्गाता चाप्य् अनः क्रये ॥

निविद्वरं निविच्छंसनलब्धं वरम् । उद्गातृशब्देनात्रोद्गातृगणम् अध्यस्थः सुब्रह्मण्यो गृह्यते । अनः शकटम् । क्रये सोमक्रये । अंशप्रकल्पनाप्रकारम् आहतुर् मनु-बृहस्पती (मनु ८। २१०) ।

    सर्वेषाम् अर्धिनो मुख्यास् तदर्धेनार्धिनो ऽपरे ।


    तृतीयिनस् तृतीयांशाश् चतुर्थांशास् तु पादिनः ॥

सर्वेषां षोडशानाम् ऋत्विजां मध्ये मुख्याः गणस्याग्र्या होतृब्रह्माध्वर्यूगातारो ऽर्धिन उक्तदक्षिणायाः किंचिन् न्यूनम् अर्धं गृह्णीयुः समग्रार्धग्रहणे तु वक्ष्यमाणभागकल्पनाविरोधापत्तेः । अपरे द्वितीया मैत्रावरुणब्राह्मणाच्छंसि-प्रतिप्रस्थातृप्रस्तोतारस् तदर्धे मुख्यभागस्यार्धेनार्धिनो ऽर्धग्राहिणः । तृतीयिनो ऽच्छावाकाग्नीध्रनेष्ट्रप्रतिहर्तारो मुख्यभागतृतीयांशभाजः । पादिनो ऽन्त्या ग्रावस्तोतृपोत्रुन्नेतृसुब्रह्मण्याख्या मुख्यभागस्य चतुर्थांशग्राहिण इत्य् अर्थः । मुख्यानां चतुर्णां परस्परं विभागसाम्येन । एवं द्वितीयानां तृतीयानां चतुर्थानां च । तद् एतत् सर्वम् अभिप्रेत्योक्तं बोधायनकारिकायाम् अपि ।

    पञ्चविंशतिधा कृत्वा वर्गीया दक्षिणाः क्रमात् ।


    द्वादशैवाथ षट्कं च चतस्रस् तिस्र एव च ॥

द्वादशाधिकगोशतरूपाया दक्षिणायाः प्रथमतश् चत्वारो भागाः कर्तव्याः । तत्रैको भागो होतृवर्गस्यापरो ब्रह्मवर्गस्यापरो ऽध्वर्युवर्गस्यापर उद्गातृवर्गस्य । पुनर् एकैकस्य भागस्य पञ्चविंशतिर् भागाः कर्तव्याः । तेष्व् आद्यानां होत्रादीनां द्वादशभागा द्वितीयानां षट् तृतीयानां चत्वारश् चतुर्थानां त्रय इत्य् अर्थः । कात्यायनसूत्रे ‘पि (१०.२.२४ - २५) गोशतं दक्षिणेति **[२०४] **पक्षम् आश्रित्यायम् एव विकल्पनाप्रकार उक्तः — द्वादश द्वादशाद्येभ्यः षट् षट् द्वितीयेभ्यश् चतस्रश् चतस्रश् च तृतीयेभ्यस् तिस्रस् तिस्र इतरेभ्यः - इति । पशुबन्धादौ विषमविभागो नोक्त इति तत्र साम्येन दक्षिणाविभागः समं स्याद् अश्रुतित्वात् - इति न्यायात् (जै। १०.३.५३ ) । यद्य् ऋत्विजा कमैकदेश एव कृतस् तदा सम्भूयकारिभिर् अवशिष्टं कर्मान्येन कारयित्वोभाभ्यां कृतकर्माशानुसारेण दक्षिणा देयेत्य् आह मनुः (८.२०६) ।

    ऋत्विग् यदि वृतो यज्ञे स्वकर्म परिहापयेत् ।


    तस्य कर्मानुरूप्येण देयो ‘ंशः सह कर्तृभिः ॥

यत् तु दक्षिणादानानन्तरम् ऋत्विक्कर्मैकदेशं त्यजति तदावशिष्टं तद्गुणनिविष्टानां मध्ये संनिहितेनान्येन कारयेद् इत्य् आह स एव (मनु ८। २०७) ।

    दक्षिणासु च दत्तासु स्वकर्म परिहापयेत् ।


    कृत्स्नम् एव लभेतांशम् अन्येनैव च कारयेत् ॥

कर्ममध्ये ऋत्विङ्मरणे यत् कर्तव्यं तद् आह नारदः (सम्भूय, ८) ।

    ऋत्विजां व्यसने ‘प्य् एवम् अन्यस् तत्कर्म निस्तरेत् ।


    लभेत दक्षिणाभागं स तस्मात् संप्रकल्पितम् ।

अन्येन तद्गणनिविष्टेषु प्रत्यासन्नेन । यत् तु बृहस्पतिवचनं,

    एवं क्रियाप्रवृत्तानां यदा कश्चिद् विपद्यते ।


    तबन्धुना क्रिया कार्या सर्वैर् वा सहकारिभिः ॥ 

इति, यच् च शङ्खलिखितवचनं

    अथ चेद् अनुप्राप्ते सवने ऋत्विङ् म्रियेत तत्र किं कार्यम् इति जिज्ञासा तस्य सगोत्रो ऽथ शिष्यो वा तत्कार्यम् अनुपूरयेत् अथ चेद् अबान्धवस् ततो ऽन्यम् ऋत्विजं वृणुयात् ।

इति, तद् अवान्तरगणरहित्विक्कर्तृकदर्शपूर्णमासादियागविषयम् इति स्मृतिचन्द्रिकाकारः । न च दर्शपूर्णमासादिषु याज्ञिकप्रयुक्तसवनशब्दार्थाभावाद् अनुप्राप्ते सवने इत्यादिवचनस्य दर्शपूर्णमासादिविषयत्वं नोपपद्यत इति शङ्खयं, दान्तस् त्रिषवणस्नायीति (य्ध्। ३। ४८ वाक्यवद् अत्रापि कालवाचिनः सवनशब्दस्य प्रयुक्तत्वात् । सम्भूयकारिभिः कर्षकैः कृषिः कीदृशैः सम्भूय कर्तव्येत्य् अपेक्षायाम् आह बृहस्पतिः

    वाह्यकर्षकबीजाद्यैः क्षेत्रोपकरणेन च ।


    ये समानास् तु तैः सार्धं कृषिः कार्या विजानता ॥

वाह्या लाङ्गलादिवाहका बलीवर्दाः । आदिशब्देन कृषिसाधनानाम् अन्येषां ग्रहणम् । बलीवर्देषु वर्जनीयान् दर्शयति स एव

    कृशातिवृद्धं क्षुद्रं च रोगिणं प्रपलायिनम् ।


    काणं खञ्जं नादद्याद् वाह्यं प्राज्ञः कृषीवलः ॥

क्षेत्रेष्व् अपि वर्ज्यं दर्शितं तेनैव

    पर्वते नगराभ्यासे तथा राजपथस्य च ।


    ऊषरं मूषकव्याप्तं क्षेत्रं यत्नेन वर्जयेत् ॥

पर्वते पर्वतसमीपे । कल्पतरौ तु विवीते इति पठित्वा विवीतशब्देन यवसाद्यर्थेन रक्षितो भूप्रदेश इति व्याख्यातम् । राजपथस्य समीपे इति शेषः । लाभाद्यंशपरिकल्पनं तु सम्भूयवाणिज्यकारिणां सम्भूयकर्षणकारिणां च समानम् । क्वचिद् अत्रैकस्य हानिम् आह स एव

    वाह्यबीजात्ययाद् यस्य क्षेत्रहानिः प्रजायते ।


    तेनैव सा प्रदातव्या सर्वेषां कृषिजीविनाम् ॥

सम्भूयकारिणाम् इति शेषः । शिल्पिस्वरूपं दर्शयंस् तेषां सम्भूयकारिणां लाभविभागे ‘ंशपरिकल्पनाप्रकारम् आह स एव

    हिरण्यकुप्यसूत्राणां काष्ठपाषाणचर्मणाम् ।


    संस्कर्ता तत्कलाभिज्ञः शिल्पी प्रोक्तो मनीषिभिः ॥


    हेमकारादयो यत्र शिल्पं सम्भूय कुर्वते ।


    कर्मानुरूपं निर्वेशं लभेरंस् ते यथांशतः ॥

निर्वेशो भृतिः । यथांशतः इत्य् अस्यार्थः स्पष्टीकृतः कात्यायनेन (६३२) ।

    शिष्यकाभिज्ञकुशला आचार्यांश् चेति शिल्पिनः ।


    एकद्वित्रिचतुर्भागान् हरेयुस् ते यथोत्तरम् ॥

क्वचिन् मुख्ये भागद्वयम् आह बृहस्पतिः

[२०६] हर्म्यं देवगृहं वापि चार्मिकोपरकराणि च ।

	सम्भूय कुर्वतां तेषां प्रमुखो द्व्यंशम् अर्हति ॥

नर्तकेष्व् अपि मुख्यस्यांशद्वयभागित्वम् अतिदिशन् विशेषान्तरम् अप्य् आह स एव

    नर्तकानाम् एष एव धर्मः सद्भिर् उदाहृतः ।


    तालज्ञो लभते ‘ध्यर्धं गायनास् तु समांशिनः ॥

अध्यर्धम् अर्धाधिकम् एकम् अंशम् । चोराणां सम्भूयकारिणां लाभविभागपरिकल्पनाप्रकारम् आह कात्यायनः (६३३-३४) ।

    परराष्ट्राद् धनं यत् स्याच् चौरैः स्वाम्याज्ञया हृतम् ।


    राज्ञे दशांशम् उद्धृत्य विभजेरन् यथाविधि ॥


    चौराणां मुख्यभूतस् तु चतुरो ऽशांस् ततो हरेत् ।


    शूरो ‘ंशास् त्रीन् समर्थो द्वौ शेषास् त्व् एकैकम् एव च ॥

यत् तु राज्ञे षष्ठो भागो दातव्य इत्य् एतदर्थप्रतिपादकं

    स्वाम्याज्ञया तु यच् चौरैः परदेशात् समाहृतम् ।


    राज्ञे दत्त्वा तु षड्भागं भजेयुस् ते यथांशतः ॥


    चतुरो ‘ंशान् भजेन् मुख्यः शूरस् त्र्यंशम् अवाप्नुयात् ।


    समर्थस् तु हरेद् द्व्यंशं शेषास् त्व् अन्ये समांशिनः ॥ 

इति बृहस्पतिवचनं, तत् प्रबलतरप्रत्यर्थिराजपरिपालितदुर्गमदेशचोरितधनविषयम् । एतेषु चौरेषु कस्यचिच् चौर्यनिमित्ते बन्धने यत् कर्तव्यं तद् आह कात्यायनः (६३५) ।

    तेषां चेत् प्रसृतानां यो ग्रहणं समवाप्नुयात् ।


    तन्मोक्षणार्थं यद् दत्तं वहेयुस् ते यथांशतः ॥

ऋत्विग्व्यतिरिक्तानां सम्भूयकारिणाम् इपतंश ( ? इयमंश ) परिकल्पना समयाभावे वेदितव्या । समयकरणे तु समयानुसारेणैवांशपरिकल्पना । तथा च स एव (कात्। ६३७) ।

[२०७] वणिजां कर्षकाणां च चौराणां शिल्पिनां तथा ।

	अनियम्यांशकर्तॄणां सर्वेषाम् एष निर्णयः ॥

अनियम्य अस्यैको भागो ऽस्य भागद्वयम् इत्य् एवमादिरूपं समयम् अकृत्वेत्य् अर्थः ।

इति श्रीकोदण्डपरशुरामे व्यवहारविवेकोद्द्द्योते

सम्भूयसमुत्थानाख्यव्यवहारपदनिरूपणम् ॥ १९ ॥

**पोस्सिब्ले रेअदिन्ग् ओफ़् थे देफ़ेच्तिवे तेxत्-

श्रीकोदण्डपरशुरामेत्यादिविविधबिरुदावलीविराजमानमानोन्नत-महाराजाधिराजश्रीशक्तिसिंहात्मजमहाराजाधिराजश्रीमदनसिंहदेवविरचिते मदनरत्नप्रदीपे व्यवहारविवेकोद्द्योते सम्भूयसमुत्थानाख्यव्यवहारपदनिरूपणम् ॥१९॥

अथ दत्ताप्रदानाख्यव्यवहारपदनिरूपणम् ।

तत्र तस्य स्वरूपं दर्शयति नारदः (दत्ताप्रदानिक १) ।

    दत्त्वा द्रव्यम् असम्यग् यः पुनर् आदातुम् इच्छति ।


    दत्ताप्रदानिकं नाम व्यवहारपदं हि तत् ॥

असम्यग् अशास्त्रीयमार्गाश्रयणेन । अदेयादिभेदेन दानप्रकारस्य चातुर्विध्यम् आह स एव (नारद, दत्ता। २) ।

    अदेयम् अथ देयं च दत्तं चादत्तम् एव च ।


    व्यवहारे स विज्ञेयो दानमार्गश् चतुर्विधः ॥

अदेयानि दर्शयति नारदः (दत्ता ४ - ५) ।

    अन्वाहितं याचितकम् आधिः साधारणं च यत् ।


    निक्षेपः पुत्रदारं च सर्वस्वं चान्वये सति ॥


    आपत्स्व् अपि हि कष्टासु वर्तमानेन देहिना ।


    अदेयान्य् आहुर् आचार्या यच् चान्यस्मै प्रतिश्रुतम् ॥

साधारणं बहुस्वामिकं रथ्यादिकं न त्व् अविभक्तस्वामिकं सुवर्णादिकं तस्याविभक्तसर्वानुमतौ दातुं शक्यत्वात् । बृहस्पतिर् अपि ।

    सामान्यं पुत्रदारादि सर्वस्वं न्यासयाचितम् ।


    प्रतिश्रुतम् अथान्यस्य न देयं त्व् अष्टधा स्मृतम् ॥

सामान्यं साधारणम् । प्रतिश्रुतं वाचा दत्तम् । अत्र यत् पुत्रस्यादेयत्वम् उक्तं तद् एकपुत्रविषयं तद्दाने सन्ततिविच्छेदापत्तेः । अत एवाह वसिष्ठः (१५ १ - ४) ।

    शुक्रशोणितसम्भवः पुरुषो मातापितृनिमित्तकस् तस्य प्रदानविक्रयपरित्यागेषु मातापितरौ प्रभवतो न त्व् एकं पुत्रं दद्यात् प्रतिगृह्णीयाद् वा स हि सन्तानाय पूर्वेषाम् । इति । 

**[२०८] **पत्यनुज्ञातया देय इत्य् आह स एव (१५। ५ ) “न तु स्त्री पुत्रं दद्यात् प्रतिगृह्णीयाद् वान्यत्रानुज्ञानाद् भर्तुः” इति । स्त्रीधनम् अप्य् अदेयम् इत्य् आह दक्षः (३.१९-२०) ।

    सामान्यं याचितं न्यास आधिर् दाराश् च तद्धनम् ।


    अन्वाहितं च निक्षेपः सर्वस्वं वान्वये सति ॥


    आपत्स्व् अपि न देयानि नव वस्तूनि पण्डितैः ।


    यो ददाति स मूढात्मा प्रायश्चित्तीयते नरः ॥

अदेयदातृप्रतिग्राहिणोर् दण्डम् आह मनुः

    अदेयं यस् तु गृह्णाति यश् चादेयं प्रयच्छति ।


    ताव् उभौ चोरवच् छास्यौ दाप्यौ चोत्तमसाहसम् ॥ इति ।

अदेयग्रहणम् अदत्तस्याप्य् उपलक्षणम् । अत एव नारदः (दत्ता। १२) ।

    गृह्णात्य् अदत्तं यो मोहाद् यश् चादत्तं प्रयच्छति ।


    दण्डनीयाव् उभाव् एतौ धर्मज्ञेन महीक्षिता ॥ इति ।

देयम् आह याज्ञवल्क्यः (२। १७५) ।

	स्वकुटुम्बाविरोधेन देयं दारसुताद् ऋते ।

कुटुम्बाविरोधेन कुटुम्बानुपरोधेन । कुटुम्बभरणावशिष्टं स्वं देयम् इत्य् अर्थः ।

नारदो ऽपि (दत्ता। ६) ।

    कुटुम्बभरणाद् द्रव्यं यत् किंचिद् अतिरिच्यते ।


    तद् देयम् उपहेत्यान्यद् ददद् दोषम् अवाप्नुयात् ॥

अन्यद् उपहत्य भरणीयं कुटुम्बम् उपरुध्य । कुटुम्बस्योपहतिर् भोजनाच्छादनराहित्यनिमित्ता न तु ताम्बूलादिभोगाभावनिमित्ता । अत एव बृहस्पतिः

	कुटुम्बभक्तवसनाद् देयं यद् अतिरिच्यते ।

भक्तं भोजनं वसनम् आच्छादनम् । भक्तवसनाद् यद् अतिरिच्यते तद् देयम् इत्य् अन्वयः । कुटुम्बपर्याप्ते गृहक्षेत्राद्यन्तरे सति गृहक्षेत्रादिकम् अपि देयम् इत्य् आह स एव

[२०९] सप्तागमाद् गृहक्षेत्राद् यद् यत् क्षेत्रं प्रदीयते ।

	पित्र्यं वाथ स्वयंप्राप्तं तद् दातव्यं विवक्षितम् ॥

सप्तागमात् पूर्वोक्तसप्तविधागमयुक्तात् । क्षेत्रग्रहणम् उपलक्षणम् । पित्र्यं वंशपरम्पराप्राप्तम् । स्वयंप्राप्तं स्वयम् अर्जितम् । पित्र्यस्वयंप्राप्तयोर् उपादानं क्रीतादीनाम् अप्य् उपलक्षणम् । पित्र्यं वा स्वयंप्राप्तं वा यद् गृहक्षेत्रादिकं प्रदीयते तत् सप्तागमान्विताद् गृहक्षेत्राद् उद्धृत्य दातव्यम् इति शास्त्रे निरूपितम् इत्य् अर्थः । अत्र सप्तागमाद् गृहक्षेत्राद् इत्य् अभिधानं कुटुम्बपर्याप्ते सागमके गृहक्षेत्राद्यन्तरे सत्य् एव गृहक्षेत्रादिदानं नान्यथेत्य् एवमर्थम् ।

यत् तु

    सर्वस्वं गृहवर्जं तु कुटुम्बभरणादिकम् ।


    यद् द्रव्यं तत् स्वकं देयम् अदेयं स्याद् अतो ऽन्यथा ॥ 

इति कात्यायनवचनं (६४०) तद्गृहाद्यन्तराभावविषयम् । स्वयंप्राप्तादिषु विशेषान्तरम् आह स एव

    स्वेच्छादेयं स्वयंप्राप्तं बन्धाचारेण बन्धकम् ।


    वैवाहिके क्रमायाते सर्वदानं न विद्यते ॥


    सौदायिकं क्रमायातं शौर्यप्राप्तं च यद् भवेत् ।


    स्त्रीज्ञातिस्वाम्यनुज्ञातं दत्तं सिद्धिम् अवाप्नुयात् ॥ इति ।

स्वयंप्राप्तं स्वेच्छादेयं भ्रात्राद्यनुज्ञाम् अन्तरेणापि देयम् । बन्धकं बन्धाचारेणाधिरूपेण देयम् । विवाहप्राप्तं वंशपरम्पराप्राप्तं न समग्रं दातव्यं किं त्व् एकदेशस्यैव तत्र दानम् । सौदायिकं वैवाहिकं यस्याः परिणयने लब्धं तया स्त्रियानुज्ञातम् एव दातव्यम् । वंशपरम्पराप्राप्तम् अविभक्तधनैर् भ्रातृभिर् अनुज्ञातम् एव दातव्यम् । सेवकेन युद्धप्राप्तं स्वामिनानुज्ञातम् एव देयम् इत्य् अस्य वाक्यकदम्बकस्यार्थः । यत् त्व् आधेर् अदेयत्वं प्राग् उक्तं तद् आधिरूपेतररूपेणेति न विरोधः । क्रमागतस्थावरदाने विभक्तधनभ्रात्राद्यनुमतिर् अपेक्षितेत्य् उक्तम् अर्थं हेत्वभिधानेन द्रढयति स एव

[२१०] विभक्ता अविभक्ता वा सपिण्डाः स्थावरे समाः ।

	एको ह्य् अनीशः सर्वत्र दानाधमनविक्रये ॥

आधमनम् आधीकरणम् । विभक्ता अपि स्थावरे समाः किम् उत्आविभक्ता इति कैमुतिकन्यायप्रदर्शनार्थं विभक्तग्रहणं न तु विभक्तानां तत्र स्वामित्वम् अस्तीति प्रतिपादनार्थम्, विभागस्य वैयर्थ्यापत्तेः । स्वार्जितम् अपि स्थावरं दासादिकं च पुत्रेषु प्राप्तव्यवहारेषु तदनुमत्यैव दातव्यम् । तथा च व्यासः

    स्थावरं द्विपदं चैव यद्य् अपि स्वयम् अर्जितम् ।


    असम्भूय सुतान् सर्वान् न दानं न च विक्रयः ॥


    ये जाता ये ऽप्य् अजाताश् च ये च गर्भे व्यवस्थिताः ।


    वृत्तिं च ते ऽभिकाङ्क्षन्ति न दानं न च विक्रयम् ॥

ये जाता ये ऽप्य् अजाता इति श्लोकः पूर्वश्लोकोक्तस्यार्थस्य कैमुतिकन्यायप्रदर्शनेन दृढीकरणार्थः । आपत्काले कुटुम्बपोषणार्थम् आवश्यकपितृश्रद्धाधर्य-कन्याविवाहादिधर्मकार्यार्थं पुत्रभ्रात्राद्यनुमतिरहितो ऽपि क्रमागतस्थावरदानादिकं कुर्यात् । तथा च नारदः

    एको ऽपि स्थावरे कुर्याद् दानाधमनविक्रयम् ।


    आपत्काले कुटुम्बार्थे धर्मार्थे च विशेषतः ॥ इति ।

तुभ्यम् इदं दास्यामीति यद्य् अस्मै प्रतिश्रुतं तत् तस्मा अवश्यं दातव्यम् इत्य् आह याज्ञवल्क्यः (२। १७६) ।

	देयं प्रतिश्रुतं चैव दत्त्वा नापहरेत् पुनः । इति ।

यः प्रतिश्रुतं न प्रयच्छति दत्तं चापहरति तस्य दोषम् आह हारीतः

    प्रतिश्रुतार्थादानेन दत्तस्याच्छेदनेन च ।


    विविधान् नरकान् याति तिर्यग्योनौ च जायते ॥

[२११] वाचैव यत् प्रतिज्ञातं कर्मणा नोपपादितम् ।

	ऋणं तद् धर्मसंयुक्तम् इह लोके परत्र च ॥

प्रतिश्रुतम् अददद् राज्ञा तद् दाप्यो दण्ड्यश् चेत्य् आह कात्यायनः (६४२) ।

    स्वेच्छया यः प्रतिश्रुत्य ब्राह्मणाय प्रतिग्रहम् ।


    न दद्याद् ऋणवद् दाप्यः प्राप्नुयात् पूर्वसाहसम् ॥

मत्स्यपुराणे (२२७.८) तु सुवर्णं दण्ड्य इत्य् उक्तं ।

	प्रतिश्रुत्याप्रदातारं सुवर्णं दण्डयेन् नृपः । इति ।

अनयोर् दण्डयोर् अपराधतारतम्येन व्यवस्था । प्रतिश्रुतम् अपि स्वधर्मपरित्यागिने न देयम् इत्य् आह गौतमः (५। २१): “प्रतिश्रुत्याप्य् अधर्मसंयुक्ताय न दद्यात्” इति । दत्तं सप्तविधम् अदत्तं षोडशविधम् इत्य् आह नारदः (दत्ता। ३) ।

	दत्तं सप्तविधं प्रोक्तम् अदत्तं षोडशात्मकम् ।

तत्र दत्तभेदान् दर्शयति स एव (नारद, दत्ता। ८) ।

    पण्यमूल्यं भृतिस् तुष्ट्या स्नेहात् प्रत्युपकारतः ।


    स्त्रीशुल्कानुग्रहार्थं च दत्तं दानविदो विदुः ॥

पण्यमूल्यं क्रीतद्रव्यस्य मूल्यम् । भृतिर् वेतनम् । तुष्ट्या सपरितोषेण बन्दिप्रभृतिभ्यो दत्तम् इति शेषः । स्नेहात् प्रीत्या दुहित्रादिभ्यो दत्तम् । प्रत्युपकारतः कृतोपकाराय प्रत्युपकारेण दत्तम् । स्त्रीशुल्कं विवाहार्थं कन्याबन्धुभ्यो यद् दत्तम् । अनुग्रहार्थं परोपकारार्थं धर्मार्थं दत्तम् इति यावत् । एतत् सप्तविधं दत्तम् । दानानन्तरम् अनपहर्तव्यम् इत्य् अर्थः । अदत्तानि दर्शितानि तेनैव (नारद, दत्ता ९ - ११) ।

    अदत्तं तु भयक्रोधशोकवेगरुगन्वितैः ।


    तथोत्कोचपरीहासव्यत्यासच्छलयोगतः ॥


    बालमूढास्वतन्त्रार्तमत्तोन्मत्तापवर्जितम् ।


    कर्ता ममायं कर्मेति प्रतिलाभेच्छया च यत् ॥

[२१२] अपात्रे पात्रम् इत्युक्ते कार्ये वाधर्मसंज्ञिते ।

	यद् दत्तं स्याद् अविज्ञानाद् अदत्तम् इति तत् स्मृतम् ॥

रुक् उपतापः । भयादिकृतो य उपतापस् तदन्वितैर् इत्य् अन्वयः । अपवर्जितं दत्तम् । बालादिभिर् अपवर्जितम् इत्य् अन्वयः । भयोपतप्तेन बन्दिग्राहिभ्यो दत्तं क्रोधोपतप्तेन क्रोधविषयभूतानाम् अविभक्तधनानां पुत्रभ्रात्रादीनां व्ययार्थम् इतरेभ्यो दत्तं पुत्रादिवियोगजनितशोकवेगोपतप्तेन दत्तम् । उत्कोचेन राजपुरुषेभ्यो दत्तम् । परीहासेन्ओपहासेन दत्तम् । व्यत्यासेन एकः स्वद्रव्यम् अन्यस्मै ददाति अन्यो ऽपि तस्मै ददातीति दानव्यत्यासेन दत्तम् । छलयोगतः शतदानम् अभिसन्धाय सहस्रम् इति परिभाष्य दत्तम् । प्रच्छन्नतया गूहितुं परप्रतारणार्थं दत्तं वाक्छलेयोगदत्तम् । बालेन अप्राप्तव्यवहारेण दत्तं मूढेन कर्तव्याकर्तव्यविवेकशून्येन दत्तम् । अस्वतन्त्रेण पुत्रदासादिना दत्तम् । आर्तेन रोगाभिभूतेन दत्तम् । मत्तेन धत्तूरादिभक्षणादिना मत्तेन दत्तम् । उन्मत्तेन वातपित्ताद्यतिरेककृतोन्मादग्रस्तेन दत्तम् । अयं मम कर्म करिष्यत्ईति प्रतिलाभेच्छ्या प्रतिलाभम् अकुर्वाणाय दत्तम् । अपात्राय अयोग्याय योग्यो ऽहम् इत्य् उक्तिमात्रेण दत्तम् । यज्ञादि सत्कर्म करिष्यामीत्य् अभिधाय धनं गृहीत्वा द्यूतादिके ऽसत्कर्मणि विनियुञ्जानाय दत्तम् । इत्य् एवं षोडशविधम् अपि प्रत्याहर्तव्यत्वाद् अदत्तं स्मृतम् इत्य् अर्थः । एवंविधानां प्रत्याहर्तव्यम् उक्तं कात्यायनेन (६४७ – ६४९) ।

    कामक्रोधास्वतन्त्रार्तक्लीबोन्मत्तप्रमोहितैः ।


    व्यत्यासपरिहाराय यद् दत्तं तत् पुनर् हरेत् ॥


    या तु कार्यस्य सिध्यर्थम् उत्कोचा स्यात् प्रतिश्रुता ।


    तस्मिन्न् अपि प्रसिद्धे ऽर्थे न देया स्यात् कथंचन ॥


    अथ प्राग् एव दत्ता स्यात् प्रतिदाप्यस् ततो बलात् ।


    दण्डं चैकादशगुणम् आहुर् गार्गीयमानवाः ॥

[२१३] उत्कोचायाः स्वरूपं दर्शितं तेनैव (कात्। ६५०-६५१) ।

    स्तेयसाहसिकोद्वृत्तपारदारिकशंसनात् ।


    दर्शनाद् वृत्तनष्टस्य तथासत्यप्रवर्तनात् ॥


    प्राप्तम् एतैस् तु यत् किञ्चिद् उत्कोचाख्यं तद् उच्यते ।

त्वया मह्यम् इयतो द्रव्यस्यादाने ऽहं त्वत्कृतं स्तेयादिकं प्रकाशयिष्यामीति वृत्तनष्टाय क्रूराय कारागाराधिकारिणे निवेद्य निरोधयिष्यामीति वा कथनेन भयम् उत्पाद्य्आसत्यम् अपि त्वत्कार्यार्थं वक्ष्यामीत्य् अभिधानेन लोभम् उत्पाद्य वा यत् प्राप्तं तद् उत्कोचाख्यम् इत्य् अर्थः । अत्रोत्कोचदातुर् दण्डाभावकथनपूर्वकम् उत्कोचदापकग्रहीत्रोर् दण्डम् आह स एव (कात्। ६५१) ।

	न दाता तत्र दण्ड्यः स्यान् मध्यस्थश् चैव दोषभाक् । इति ।

मध्यस्थः उत्कोचदापकः । काराद् उत्कोचग्राहकश् च । बृहस्पतिर् अपि किञ्चित् प्रत्याहर्तव्यं दर्शयति ।

    प्रतिलाभेच्छ्या दत्तम् अपात्रे पात्रशङ्कया ।


    कार्ये चाधर्मसंयुक्ते स्वामी तत् पुनर् आप्नुयात् ॥

सोपाधिकं यद् दत्तं तद् अपि प्रत्याहर्तव्यम् इत्य् आह मनुः (८। १६५) ।

    योगाधमनविक्रीतं योगदानप्रतिग्रहम् ।


    यस्य वाप्य् उपधिं पश्येत् तत् सर्वं विनिवर्तयेत् ॥

योगः उपाधिः । येनागमिनोपाधिविशेषेणाधिविक्रयदानप्रतिग्रहाः कृतास् तदुपाधिविगमे ते सर्वे ‘पि निवर्तनीया इत्य् अर्थः । आर्तदत्तस्यादत्तत्वं यद् उक्तं तद् धर्मकार्यव्यतिरिक्तविषयं ज्ञातव्यम् । अत एव कात्यायनः (६५४) ।

    स्वस्थेनार्तेन वा दत्तं श्रावितं धर्मकारणात् ।


    अदत्त्वा तु मृते दाप्यस् तत्सुतो नात्र संशयः ॥

**इति कोदण्डपरशुरामे ॥॥॥॥व्यवहारविवेकोद्द्योते **

दत्ताप्रदानाख्यव्यवहारपदनिरूपणम् ॥ २० ॥

**पोस्सिब्ले रेअदिन्ग् ओफ़् थे देफ़ेच्तिवे तेxत्-

श्रीकोदण्डपरशुरामेत्यादिविविधबिरुदावलीविराजमानमानोन्नत-महाराजाधिराजश्रीशक्तिसिंहात्मजमहाराजाधिराजश्रीमदनसिंहदेवविरचिते मदनरत्नप्रदीपे व्यवहारविवेकोद्द्योते दत्ताप्रदानाख्यव्यवहारपदनिरूपणम् ॥२०॥

अथ नारदोक्तस्याभ्युपेत्याशुश्रूषाख्यव्यवहारपदस्य निरूपणम् ।

तत्र तत्स्वरूपं दर्शयति नारदः (अभ्यु। १) ।

    अभ्युपेत्य तु शुश्रूषां यस् तां न प्रतिपद्यते ।


    अशुश्रूषाभ्युपेत्यैतद् विवादपदम् उच्यते ॥

शुश्रूषां आज्ञाकारित्वम् । शुश्रूषकः पञ्चविधः शिष्यो ऽन्तेवासी भृतको ऽधिकर्म्कृद् दास इति । तेषु दासव्यतिरिक्ताश् चत्वारः कर्मकरा इत्य् उच्यन्ते । ते शुभकर्मकृतः । दासा गृहजातादिभेदेन पञ्चदशभेदास् ते त्व् अशुभकर्मकारिणः । तद् एतत् सर्वम् आह स एव (नारद, अभ्यु। २-७) ।

    शुश्रूषकः पञ्चविधः शास्त्रे दृष्टो मनीषिभिः ।


    चतुर्विधः कर्मकरस् तेषां दासास् त्रिपञ्चकाः ॥


    शिष्यान्तेवासिभृतकाश् चतुर्थस् त्व् अधिकर्मकृत् ।


    एते कर्मकरा ज्ञेया दासास् तु गृहजादयः ॥


    सामान्यम् अस्वतन्त्रत्वं तेषाम् आहुर् मनीषिणः ।


    जातिकर्मकृतस् तूक्तो विशेषो वृत्तितस् तथा ॥


    कर्मापि द्विविधं ज्ञेयम् अशुभं शुभम् एव च ।


    अशुभं दासकर्मोक्तं शुभं कर्मकृतां स्मृतम् ॥


    गृहद्वाराशुचिस्थानरथ्यावस्करशोधनम् ।


    गुह्याङ्गस्पर्शनोच्छिष्टविण्मूत्रग्रहणोज्झनम् ॥


    इष्टतः स्वामिनश् चाङ्गैर् उपस्थानम् अथान्ततः ।


    अशुभं कर्म विज्ञेयं शुभम् अन्यद् अतः परम् ॥

तेषाम् इति निर्धारणे षष्ठी । त्रिपञ्चकाः पञ्चदश । शिष्यो वेदविद्यार्थी । अन्तेवासी शिल्पविद्यार्थी । वेतनं गृहीत्वा यः कर्म करोति स भृतकःअधिकर्मकृत् कर्म कुर्वताम् अधिष्ठाता । वृत्तितः जीवनोपायतः । अवस्करः संमार्जितधूलिराशिस्थानम् । शोधनशब्दस्य गृहद्वारादिभिश् चतुर्भिः सम्बन्धः । उज्झनं त्यागः । अन्ततः स्वामिनः इष्टतः स्वाम्याज्ञया मूत्रपुरीषादिस्थले निर्मार्जनार्थम् **अङ्गैर् उपस्थानं [२१५] **हस्ताद्यर्पणम् । शिष्यान्तेवासिदासानां जात्यादिकृतो विशेषो भवति । तत्र शिष्याणां ब्राह्मणक्षत्रियवैश्यान्यतमत्वम् एव तेषाम् एव वेदग्रहणे ऽधिकाराद् इति जातिकृतो विशेषः स्पष्टः । कर्मकृतं तु विशेषं दर्शयति बृहस्पतिः

    विद्या त्रयी समाख्याता ऋग्यजुःसामलक्षणा ।


    तदर्थं गुरुशुश्रूषां प्रकुर्याच् छास्त्रचोदिताम् ॥

नारदो ऽपि (अभ्यु। ८। १५) ।

    आ।विद्याग्रहणाच् छिष्यः शुश्रूषेत् प्रयतो गुरुम् ।


    तद्वृत्तिर् गुरुदारेषु गुरुपुत्रे तथैव च ॥ इति ।


    समावृत्तश् च गुरवे प्रदाय गुरुदक्षिणाम् ।


    प्रतीयात् स्वगृहान् एष शिष्यवृत्तिर् उदाहृता ॥

वृत्तिर् अत्र धर्मः । शिष्याणां कर्मान्तरम् आचारविवेकोद्द्योते निरूपितम् इति नेह प्रपञ्च्यते । वृत्तिकृतं विशेषं दर्शयति मनुः (२.४८-४९) ।

    प्रतिगृह्येप्सितं दण्डम् उपस्थाय च भास्करम् ।


    प्रदक्षिणं परीत्याग्निं चरेद् भैक्षं यथाविधि ॥


    भवत्पूर्वं चरेद् वैक्षम् उपनीतो द्विजोत्तमः ।


    भवन्मध्यं तु राजन्यो वैश्यस् तु भवदुत्तरम् ॥ इति ।

अन्तेवासिनां जातिकर्मकृतं विशेषं दर्शयति बृहस्पतिः

    विज्ञानम् उच्यते शिल्पं हेमकुप्यादिसंस्कृतिः ।


    नृत्यादिकं च तत् प्राप्तुं कुर्यात् कर्म गुरोर् गृहे ॥

आदिशब्देन कुम्भनिर्माणादीनि कुलालादिकर्माणि गृह्यन्ते । कटकमुकुटनिर्माणादिविषयं विज्ञानं शिल्पम् उच्यते तत्प्रात्यर्थं गुरोर् गृहे कटकनिर्माणादिकं कर्म कुर्याद् इत्य् अर्थः । एतेनान्तेवासिनां स्वर्णकारादिजातिकृतः कटकनिर्माणादिकर्मकृतश् च विशेष इत्य् उक्तम् । कर्मकृतं वृत्तिकृतं च विशेषं तेषां दर्शयति नारदः (अभ्यु। १६-१७) ।

[२१६] स्वशिल्पम् इच्छन्न् आहर्तुं बान्धवानाम् अनुज्ञया ।

	आचार्यस्य वसेद् अन्ते कालं कृत्वा सुनिश्चितम् ॥

	आचार्यः शिक्षयेद् एनं स्वगृहे दत्तभोजनम् ।

	न चान्यत् कारयेत् कर्म पुत्रवच् चैनम् आचरेत् ॥

अन्ते समीपे । अन्यत् शिल्पव्यतिरिक्तं कर्म । एतेन कटकादिनिमणकृतफलसमर्पणम् एव तस्य शुश्रूषेति दर्शितम् । स्वगृहे दत्तभोजनम् इति वृत्तिर् दर्शिता । आचार्येण शिल्पशिक्षाव्यतिरिक्तं कर्म यद्य् अन्तेवासी कार्यते तदा दण्डम् आह कात्यायनः (७१३) ।

    यस् तु न ग्राहयेच् छिल्पं कर्माण्य् अन्यानि कारयेत् ।


    प्राप्नुयात् साहसं पूर्वं तस्माच् छिष्यो निवर्तते ॥

शिष्यो ऽत्रान्तेवासी । अन्तेवासिनैतावन्तं कालं त्वद्गृहे शिल्पशिक्षार्थं स्थास्यामीति यावान् कालः परिभाषितस् तावन्तं कालं लब्धविद्येनापि गुरोर् गृहे स्थातव्यम् । तथा च नारदः (अभ्यु। १९) ।

    शिक्षितो ऽपि कृतं कालम् अन्तेवासी समापयेत् ।


    तत्र कर्म च यत् कुर्याद् आचार्यस्यैव तत्फलम् ॥

याज्ञवल्क्यो ‘पि (२.१८४) ।

    कृतशिल्पो ऽपि निवसेत् कृतकालं गुरोर् गृहे ।


    अन्तेवासी गुरुप्राप्तभोजनस् तत्फलप्रदः ॥

अन्तेवासिनो दौःस्थ्ये दण्डम् आह नारदः (अभ्यु। १८) ।

    शिक्षयन्तम् अदुष्टं च यस् त्व् आचार्यं परित्यजेत् ।


    बलाद् वासयितव्यः स्याद् वधबन्धौ च सो ऽर्हति ॥

वासयितव्यः स्थापनीय आचार्यसमीप इति शेषः । वधो ऽत्र ताडनं न मारणं तस्याल्पापराधत्वात् । शिल्पप्राप्त्यनन्तरकर्तव्यम् आह स एव (नारद, अभ्यु। २०) ।

    गृहीतशिल्पः समये कृत्वाचार्यं प्रदक्षिणम् ।


    शक्तितश् चानुमान्यैनम् अन्तेवासी निवर्तते ॥

[२१७] भृतकाधिकर्मकृतोस् तु न जात्यादिकृतो विशेषः । भृतिभेदाद् भृतकभेदान् आह बृहस्पतिः

    यो भुङ्क्ते परदासीं तु स ज्ञेयो वनिताभृतः ।


    कर्म तत्स्वामिनः कुर्याद् यथान्यो ऽर्थभृतो नरः ॥


    बहुधार्थभृतः प्रोक्तस् तथा भागभृतो ऽपरः ।

यः परदास्युपभोगेन तत्स्वामिनः कर्म करोति स वनिताभृतः । यो धनग्रहणेन कर्म करोति सो ऽर्थभृतः । यः परिकल्पितांशग्रहणेन कर्म करोति स भागभृतः । भागभृतस्य द्वैविध्यम् आह स एव

    द्विप्रकारो भागभृतः कृषिगोजीविनां स्मृतः ।


    जातसस्यात् तथा क्षीरात् स लभेत न संशयः ॥

कृषिगोजीविनाम् इति निर्धारणे षष्ठी । कर्षको जातसस्याद् गोपालः क्षीराद् भागं लभेतेत्य् अर्थः । भृतकानाम् उत्तममध्यमाधमभावेन पुनर् द्व्यैविध्यम् आह स एव

    हीनमध्योत्तमत्वं च सर्वेषाम् एव चोदितम् ।


    आयुधी तूत्तमः प्रोक्तो मध्यमस् तु कृषीवलः ॥


    भारवाहो ऽधमः प्रोक्तस् तथा च गृहकर्मकृत् ।

कृषीवलः कर्षकः । एतेषां शक्तिभक्त्यनुसारेण भृतिः परिकल्पनीयेत्य् आह नारदः (अभ्यु। २२) ।

    भृतकस् त्रिविधो ज्ञेय उत्तमो मध्यमो ऽधमः ।


    शक्तिभक्त्यनुरूपा स्याद् एषां कर्माश्रया भृतिः ॥

भृतककर्तव्यम् आह बृहस्पतिः

    दिनमासार्धषण्मासत्रिमासश् च भृतस् तथा ।


    कर्म कुर्यात् प्रतिज्ञातं लभते पारिभाषितम् ॥

एतावन्तं कालम् अहम् एतत् कर्म करिष्यामीति प्रतिज्ञातं कर्म तावन्तं कालं **[२१८] **कुर्यात् । एवं च परिकल्पिते ( तां ?) भृतिं लभत इत्य् अर्थः । अधिकर्मकृतः स्वरूपं दर्शयति नारदः (अभ्यु। २४) ।

    सर्वेष्व् अधिकृतो यः स्यात् कुटुम्बस्य तथोपरि ।


    सो ऽधिकर्मकृतो ज्ञेयः स च कौटुम्बिकः स्मृतः ॥

सर्वेषु भृतकेष्व् अधिकृतो ऽधिष्ठातृत्वेन कृतस् तथा कुटुम्बस्योपरि अधिकृत इत्य् अनुषङ्गः । सर्वभृतकेषु अधिष्ठातृत्वेन नियुक्तो यः सो ऽधिकर्मकृतो ज्ञेयः । कुटुम्बरक्षणाय व्ययकारित्वेन स्थापितो यः स तु कौटुम्बिक इत्य् अर्थः । दासशब्दव्युत्पत्तिप्रदर्शनव्याजेन दासस्वरूपं दर्शयति कात्यायनः (७१५) ।

	स्वतन्त्रस्यात्मनो दानाद् दासत्वं दारवद् **भृगुः** ।

यथा पत्युः सम्भोगार्थं स्वशरीरसमर्पणाद् भार्यायां दारत्वं तथा स्वतन्त्रस्यात्मनो ऽत्यन्तपराधीनीकरणरूपाद् दानाद् दासत्वम् इति भृगुर् आहेत्य् अर्थः । एतेनात्यन्तपराधीनाः शुश्रूषका दासा इति तेषां स्वरूपं दर्शितम् । दासानां जातिकृतविशेषं दर्शयति स एव (कात्। ७१५) ।

	त्रिषु वर्णेषु विज्ञेयं दास्यं विप्रस्य न क्वचित् ।

तेष्व् अपि दासत्वम् आनुलोम्येनैव कर्तव्यम् इत्य् आह स एव (कात्। ७१६) ।

    वर्णानाम् आनुलोम्येन दास्यं न प्रतिलोमतः ।


    राजन्यवैश्यशूद्राणां त्यजतां हि स्वतन्त्रताम् ॥

एतच् च स्वधर्मत्यागिव्यतिरिक्तविषयम् । तथा च नारदः (अभ्यु। ३९) ।

    वर्णानां प्रातिलोम्येन दासत्वं न विधीयते ।


    स्वधर्मत्यागिनो ऽन्यत्र दारवद् दासता मता ॥

एतच् च प्रव्रज्यावसितो हीनवर्णस्यापि दासो भवतीत्य् अभिधानं क्षत्रियवैश्यप्रत्रज्यावसितविषयं न तु ब्राह्मणप्रव्रज्यावसितविषयं तस्य निर्वास्यत्वाभिधानेन दासत्वाभावात् । निर्वास्यत्वं च तस्योक्तं कात्यायनेन (७२१) ।

[२१९] प्रव्रज्यावसिता यत्र त्रयो वर्णा द्विजातयः ।

	निर्वासं कारयेद् विप्रं दासत्वं क्षत्रविड् **भृगुः** ॥

कारयेद् राजेति शेषः । क्षत्रं च विट् च क्षत्रविट् । सर्वो द्वन्द्वो विभाषयैकवद्भवतीति वचनाद् एकवद्भावः । निर्वासनं च श्वपदेनाङ्कयित्वा कर्तव्यम् इत्य् आहतुर् दक्ष-नारदौ

    पारिव्राज्यं गृहीत्वा तु यः स्वधर्मे न तिष्ठति ।


    श्वपदेनाङ्कयित्वा तु राजा शीघ्रं प्रवासयेत् ॥

न चैवं सति,

    राज्ञ एव तु दासः स्यात् प्रव्रज्यावसितो नरः ।


    न तस्य प्रतिमोक्षो ऽस्ति न विशुद्धिः कथंचन ॥

इति नारदेन (अभ्यु। ३५) प्रव्रज्यावसितो राज्ञ एव दासो नान्यस्येत्य् अभिधानात् स्वधर्मत्यागिनो ऽन्यत्रेति यत् तेनैवोक्तं तन्निर्विषयं स्याद् इति वाच्यं, राजशब्देनात्र प्रजापालकस्य ग्रहणात् प्रजापालकत्वं च राजाधिकृते वैश्यादाव् अपि सम्भवाद् यः क्षत्रियः प्रव्रज्यावसितः स हीनवर्णस्यापि प्रजापालस्य वैश्यस्य दासो भवतीति प्रतिपादनार्थत्वात् । दारवद् दासतेति नारदवचनेन यथा सर्वर्णा हीनवर्णा वा भार्या तथा सवर्णो हीनवर्णो वा दासो भवतीति प्रतिपादनात् । ब्राह्मणस्य ब्राह्मणो दासो भवतीति प्राप्तौ तद् अपवदति कात्यायनः (७१७) ।

	सवर्णो ऽपि तु विप्रं तु दासत्वं नैव कारयेत् ।

ब्राह्मणः स्वेच्छयाविष्टो ब्राह्मणसेवां कुर्वन्न् अपि अशुभं कर्म न कुर्याद् इत्य् आह स एव (कात्। ७१९) ।

    शीलाध्ययनसम्पन्ने तदूनं कर्म कामतः ।


    तत्रापि नाशुभं किञ्चित् प्रकुर्वीत द्विजोत्तमः ॥

यस्मात् परोपकारः कर्तव्य इति विधिस् तस्मात् कारणाद् ऊनं हीनम् अपि **[२२०] **भारवहनादिकं कर्म कामतो वेतनादानम् अन्तरेण स्वेच्छया परोपकारार्थं कुर्याद् इति पूर्वार्धस्यार्थः । तत्रापि तेष्व् अपि हीनकर्मसु य् अदशुभं कर्म गृहद्वारशोधनादिकं तन् न कुर्याद् इत्य् अर्थः । अथ वा तदूनम् इत्य् एकं पदं तदूनं श्रुताध्ययनहीनम् । अस्मिन् पक्षे कारयेद् इति पूर्ववाक्यस्थितस्यानुषङ्गः । क्षत्रियवैश्ययोर् दासभावेन प्राप्तयोर् ब्राह्मणस्य स्वामिनो यत् कर्तव्यं तद् आह मनुः (८.४११) ।

    क्षत्रियं चैव वैश्यं च ब्राह्मणो वृत्तिकर्शितौ ।


    बिभृयाद् आनृशंस्येन स्वानि कर्माणि कारयेत् ॥

आनृशंस्येन अक्रौर्येण । वृत्तिकर्शिताव् इत्य् अनेन क्षत्रियवैश्ययोर् वृत्यन्तरासम्भव एव दासत्वाङ्गीकारः कार्यो न तु गतिसम्भव इति सूचितम् । बलाद् दासीकरणे दण्डम् आह स एव (मनु। ८.४१२) ।

    दास्यं तु कारयेल् लोभाद् ब्राह्मणः संस्कृतान् द्विजान् ।


    अनिच्छतः प्राभवत्वाद् (त्याद् ?) राज्ञा दण्ड्यः शतानि षट् ॥

प्राभवत्वात् प्रभुत्वात् । साधारणादिभ्यः स्वार्थे अञ् वक्तव्य इति वचनाद् अञ् । द्विजातिग्रहणेन शूद्रस्य बलाद् दासीकरणे न दण्ड इति दर्शितम् । अत एवोक्तं तेनैव (मनु ८। ४१३) ।

    शूद्रं तु कारयेद् दास्यं क्रीतम् अक्रीतम् एव वा ।


    दास्यायैव हि सृष्टो ऽयं स्वयम् एव स्वयंभुवा ॥

ब्राह्मण्यादिषु दासीकरणे दण्डम् आह कात्यायनः (७२६ - ७२८) ।

    आदद्याद् ब्राह्मणीं यस् तु विक्रीणीयात् तथैव च ।


    राज्ञा तद् अकृतं कार्यं दण्ड्याः स्युः सर्व एव ते ॥


    कामात् तु संश्रितां यस् तु कुर्याद् दासीं कुलस्त्रियम् ।


    संक्रामयेत् तथान्यत्र दण्ड्यस् तच् चाकृतं भवेत् ॥


    बालधात्रीम् अधात्रीं च दासीम् इव भुनक्ति यः ।


    परिचारकपत्नीं वा प्राप्नुयात् पूर्वसाहसम् ॥

[२२१] तत् कार्यम् अकृतं निवर्तनीयम् इत्य् अर्थः । ते राज्ञा दण्ड्याः स्युर् इत्य् अन्वयः । विष्णुः (५। १५१): “यस् तूत्तमं वर्णं दास्ये नियोजयति तस्योत्तमसाहसो दण्डः” । क्वचिद् दासीविक्रयणे दण्डम् आह कात्यायनः (७२९) ।

    विक्रोशमानां यो भक्तां दासीं विक्रेतुम् इच्छति ।


    अनापदिस्थः शक्तः सन् प्राप्नुयाद् द्विशतं दमम् ॥

द्विशतं पणानाम् इति शेषः । भक्ताम् इत्य् अनेन दुष्टाया विक्रयणे न दण्ड इति दर्शितम् । दासभेदान् दर्शयति नारदः (अभ्यु। २६-२८) ।

    गृहजातस् तथा क्रीतो लब्धो दायाद् उपागतः ।


    अनाकालभृतस् तद्वद् आहितः स्वामिना च यः ॥


    मोक्षितो महतञ् चर्णाद् युद्धे प्राप्तः पणे जितः ।


    तवाहम् इत्य् उपगतः प्रव्रज्यावसितः कृतः ॥


    भक्तदासश् च विज्ञेय स्तथैव वडवाहृतः ।


    विक्रेता वात्मनः शास्त्रे दासाः पञ्चदश स्मृताः ॥

गृहजातो गृहदास्यां जातः । क्रीतो मूल्येन पूर्वस्वामिनो गृहीतः ।

लब्धः प्रतिग्रहादिना प्राप्तः । दायाद् उपागतः पित्रादिभ्यः पुत्रादिमी (?)रिक्थत्वेन प्राप्तः । अनाकालभृतो दुर्भिक्षे दासीकरणाय पोषितः । आहितः स्वामिना ऽधमर्णेन बन्धकीकृतः । ऋणान् मोक्षितस् त्व् अस्माद् ऋणाद् यद्य् अहं मुक्तः क्रियेय तदाहं त्वद्दासो भवामीत्य् अभिहितेन येनोत्तमर्णाय धनं दत्त्वा स्वकीयम् ऋणम् अपाकृतं तस्य तदृणमोचनप्रत्युपकारतया स्वत एवाङ्गीकृतदासभावः । युद्धे प्राप्तो रणे विजित्य गृहीतः । पणे जितो यद्य् अस्मिन् विवादे ऽहं त्वया पराजीयेय तदाहं त्वद्दासो भवामीति परिभाष्य यो जितः । तवाहम् इत्य् उपगतः तवाहं दास इति स्वयं संप्रतिपद्यागतः । प्रव्रज्यावसितः प्रव्रज्यातश् च्युतः । कृतः एतावन्तं **[२२२] **कालम् अहं तव दास इत्य् अङ्गीकारितः । भक्तदासो यो भक्षितभक्तमूल्यद्वारेण यावत् ते धनं ददामि तावद् अहं त्वद्दास इत्य् अङ्गीकृत्य प्राप्तः । वडवाहृतः वडवा गृहदासी तया हृतस् तल्लोभेन तां परिणीय तत्स्वाम्यनुमत्यर्थं तद्दासभावं प्राप्तः । आत्मनो विक्रेता यः स्वयम् एव धनार्थम् आत्मानं विक्रीणीते । एवं दासाः पञ्चदशप्रकारा धर्मशास्त्रे स्मृता इत्य् अर्थः ।

तेषु आद्यानां गृहजातादीनां चतुर्णां दासत्वविमोकः स्वाम्यनुग्रहाद् एव भवति न प्रकारान्तरेणेत्य् आह स एव ( नारद, अभ्यु। २९, ३ ) ।

    तत्र पूर्वश् चतुर्वर्गो दासत्वान् न विमुच्यते ।


    प्रसादात् स्वामिनो ऽन्यत्र दास्यम् एषां क्रमागतम् ॥


    विक्रीणीते स्वतन्त्रः सन् य आत्मानं नराधमः ।


    स जघन्यतमस् तेषां सो ऽपि दास्यान् न मुच्यते ॥

स्वामिप्रसादाद् अन्यत्रेति कथनाद् गृहजातादीनां सर्वेषां प्रव्रज्यावसितेतरेषां दासानां स्वामिप्रसादाद् दासत्वविमोको भवतीति दर्शितम् । गृहजातादीनाम् अकालभृतादीनां च सर्वेषां स्वामिप्राणरक्षणाद् दासत्वविमोको भवतीत्याह स एव ( नारद, अभ्यु। ३०) ।

    यो वैषां स्वामिनं कश्चिन् मोचयेत् प्राणसंशयात् ।


    दासत्वात् स विमुच्येत पुत्रभागं लभेत च ॥

एषाम् इति निर्धारणे षष्ठी । एषां पञ्चदशानां दासानां मध्य इत्य् अर्थः । एतत् प्रव्रज्यावसितव्यतिरिक्तविषयम् । तस्य तु न कदाचिद् दासत्वविमोकः । तथा च याज्ञवल्क्यः (२। १८३ ) ।

	प्रज्यावसितो राज्ञो दास आमरणान्तिकम् ।

राज्ञः प्रजापालस्य । अनाकालभृतादीनां प्रव्रज्यावसितात्मविक्रेतृव्यतिरिक्तानां नवानां प्रतिनियतं दासत्वविमोकोपायम् आह नारदः (अभ्यु। ३१-३६ ) ।

    अनाकालभृतो दास्यान् मुच्यते गोयुगं ददत् ।


    आहितो ऽपि धनं दत्त्वा स्वामी यद्य् एनम् उद्धरेत् ॥

[२२३] ऋणं तु सोदयं दत्त्वा ऋणी दास्यात् प्रमुच्यते ।

    तवाहम् इत्य् उपगतो युद्धे प्राप्तः पणे जितः ॥


    प्रतिशीर्षप्रदानेन मुच्येरन्न् अल्पकर्मणा ।


    कृतकालव्यपगमात् कृतो दासो विमुच्यते ॥


    भक्तस्योत्क्षेपणात् सद्यो भक्तदासः प्रमुच्यते ।


    निग्रहाद् वडवायास् तु मुच्यते वडवाभृतः ॥ इति ।

गोयुगं गोद्वयम् । धनं पूर्वगृहीतम् ऋणम् । सोदयम् ऋणं दत्त्वा स्वकीयम् ऋणं येनोत्तमर्णाय यावद्धनं दत्त्वापाकृतं तस्मै तावद्धनं वृद्धिसहितं दत्त्वा ऋणी ऋणदासः । तवाहम् इत्य् उपगतस्य प्रतिशीर्षकदानेन स्वसमानदासान्तरदानेन दासत्वविमोकः । एवं युद्धे प्राप्तस्य पणे जितस्यापि कृतकालव्यपगमात् परिभाषितकालातिक्रमणात् । भक्तस्योत्क्षेपणात् भक्षितमूल्यस्य समर्पणात् । वडवाया निग्रहात् गृहदास्यास् तेन सह सम्भोगस्य निरोधात् । केषांचिद् अदासत्वाद् अनिग्राह्यत्वम् आह याज्ञवल्क्यः (२। १८२) ।

	बलाद् दासीकृतश् चौरैर् विक्रीतश् चापि मुच्यते ।

अपिशब्दाद् दत्ताधीकृतयोर् ग्रहणम् । बलाद् ये दासीकृताश् चौरैर् अपहृत्य ये विक्रीता दत्ता आधीकृता वा ते मोक्तव्या न तु दासत्वेन स्थापनीया इत्य् अर्थः । लोभाद् दासतया स्थापने राज्ञा ते मोचयितव्यास् तथा च नारदः (अभ्यु। ३८) ।

    चौरापहृतविक्रीता ये च दासीकृता बलात् ।


    राज्ञा मोचयितव्यास् ते दासत्वं तेषु नेष्यते ॥

चौरापहृताश् च ते विक्रीताश् चेति कर्मधारयः । यः कस्यचिद् दासः सन्न् अन्यस्य दासीभवितुम् इच्छति स न ग्राह्य इत्य् अभिप्रेत्योक्तं तेनैव (नारद, अभ्यु। ४०) ।

[२२४] तवाहम् इति चात्मानं यो ऽस्वतन्त्रः प्रयच्छति ।

	न स तं प्राप्नुयात् कामं पूर्वस्वामी लभेत तम् ॥

तं कामं काम्यमानम् इतरदासीभवनम् । तं दासं पूर्वस्वामी गृहीयाद् इत्य् अर्थः । अत्र प्रकरणे दासशब्दस्य लिङ्गस्याविवक्षितत्वाद् एतत् सर्वं दास्याम् अपि योजनीयम् । दासीत्वविमोके प्रकारान्तरम् अप्य् आह कात्यायनः (७२३) ।

    स्वां दासीं यस् तु सङ्गच्छेत् प्रसूता च भवेत् ततः ।


    अवेक्ष्य बीजं कार्या स्याद् अदासी सान्वया तु सा ॥

बीजं स्वकृतगर्भाधानम् । अवेक्ष्य निश्चित्य । ससन्ताना सा दास्यदासीत्वेन कार्या स्याद् इत्य् अर्थः । दासत्वविमोचनप्रकारम् आह नारदः (अभ्यु। ४२-४३) ।

    स्वं दासम् इच्छेद् यः कर्तुम् अदासं प्रीतमानसः ।


    स्कन्धाद् आदाय तस्यासौ भिन्द्यात् कुम्भं सहाम्भसा ॥


    साक्षताभिः सपुष्पाभिर् मूर्धन्य् अद्भिर् अवाकिरेत् ।


    अदास इति चोक्त्वा त्रिः प्राङ्मुखं तम् अथोत्सृजेत् ॥

तत्रापि दासशब्देन दास्या अपि ग्रहणं लिङ्गस्याविवक्षितत्वात् । अनेन प्रकारेण दासत्वविमोके कृते यत् सिध्यति तद् आह स एव

    ततः प्रभृति वक्तव्यः स्वाम्यनुग्रहपालितः ।


    भोज्यान्नो ‘प्य् अप्रतिग्राह्यो भवत्य् अभिमतः सताम् ॥

वक्तव्यः सम्भाषणार्हः । अदास्या अपि दासेन परिणीताया दासीत्वम् आह कात्यायनः (७२५) ।

    दासेनोढा त्व् अदासी या सापि दासीत्वम् आप्नुयात् ।


    यस्माद् भर्ता प्रभुस् तस्याः स्वाम्यधीनः प्रभुर् यतः ॥

दासधनस्यापि तत्स्वामिधनम् उक्तं तेनैव (कात्। ७२४) ।

	दासस्य तु धनं यत् स्यात् स्वामी तस्य प्रभुः स्मृतः । इति ।

इति श्रीकोदण्डपरशुरामे ॥ ॥ व्यवहारविवेकोद्द्योते

अभ्युपेत्याशुश्रूषाव्यवहारपदनिरूपणम् ॥ २१ ॥

**पोस्सिब्ले रेअदिन्ग् ओफ़् थे देफ़ेच्तिवे तेxत्-

श्रीकोदण्डपरशुरामेत्यादिविविधबिरुदावलीविराजमानमानोन्नत-महाराजाधिराजश्रीशक्तिसिंहात्मजमहाराजाधिराजश्रीमदनसिंहदेवविरचिते मदनरत्नप्रदीपे व्यवहारविवेकोद्द्योते अभ्युपेत्याशुश्रूषाव्यवहारपदनिरूपणम् ॥२१॥

[२२५]

अथ वेतनानपाकर्माख्यव्यवहारपदनिरूपणम् ।

तत्र तस्य स्वरूपं दर्शयति नारदः (वेत। १) ।

    भृतानां वेतनस्योक्तो दानादानविधिक्रमः ।


    वेतनस्यानपाकर्म तद् विवादपदं स्मृतम् ॥

दानादानविधिक्रमो यत्र्ओक्त इति सम्बन्धः । वेतनदाने प्रकारम् आह स एव (नारद, वेत। २) ।

    भृताय वेतनं दद्यात् कर्मस्वामी यथाकृतम् ।


    आदौ मध्ये ऽवसाने वा कर्मणो यद् विनिश्चितम् ॥

अयम् अर्थः । कर्मस्वामी कर्मणो योग्यत्वेन लोके यन् निश्चितं वेतनं तद् यथाकृतं परिभाषितम् अनतिक्रम्य आदिमध्यादिकालत्रयान्यतमकाले दद्याद् इति । एतावद् वेतनं दास्यामीति परिभाषाया अभावे यत् कर्तव्यं तद् आह स एव (नारद, वेत। ३) ।

    भृताव् अनिश्चितायां तु दशभागम् अवाप्नुयुः ।


    लाभगोवीर्यसस्यानां वणिग्गोपकृषीवलाः ॥

दशभागं दशमं भागम् । गोवीर्यं पाल्यमानगवादिभवं पयोदध्यादि । कर्मस्वामिना दशमभागस्यादाने राज्ञा स दापनीय इत्य् आह याज्ञवल्क्यः (२। १९४) ।

    दाप्यस् तु दशमं भागं वाणिज्यपशुसस्यतः ।


    अनिश्चित्य भृतिं यस् तु कारयेत् स महीक्षिता ॥

एतच् च सस्यदशमभागदापनम् अल्पायाससाध्यप्रकृष्टक्षेत्रकर्षकविषयम् । तदितरविषये त्व् आह बृहस्पतिः

	त्रिभागं पञ्चभागं वा गृहीयात् सीरवाहकः ।

अनयोः पक्षयोर् व्यवस्थोक्ता तेनैव

    भक्ताच्छादभृतः सीराद् भागं गृह्णीत पञ्चमम् ।


    जातसस्यात् त्रिभागं तु प्रगृह्णीयाद् अथाभृतः ॥

[२२६] भक्ताच्छादभृतः अन्नवस्त्रदानेन पोषितः । अभृत एतदितरः । अथ वा यत्रैतावद् दास्यामीति परिभाषाया अभावस् तत्र मध्यस्था याबतीं भृतिं निरूपयन्ति तावती दातव्या । तथा च वृद्धमनुः

    समुद्रयानकुशला देशकालार्थदर्शिनः ।


    नियच्छेयुर् भृतिं यां तु सा स्यात् प्राग् अकृता यदि ॥

क्वचित् परिभाषायां सत्याम् अपि वेतनस्य न्यूनाधिक्यभावेन दानम् आह याज्ञवल्क्यः (२। १९५) ।

    देशं कालं च यो ऽतीयाल् लाभं कुर्याच् च यो ऽन्यथा ।


    तत्र स्यात् स्वामिनश् छन्दो ऽधिकं देयं कृते ऽधिके ॥

यः स्वाम्यनुज्ञाम् अन्तरेण विक्रयादियोग्यदेशं कालं च दर्पालस्यादिना विक्रयादिकम् अकुर्वन्न् अतिक्रामति लाभं वा बहुतरव्यययुक्ततयाल्पं करोति तस्मिन् भृतिदानं स्वामीच्छानुसारेण न तु समग्रायाः परिभाषिताया भृतेर् दनम् । यस् तु देशकालावस्थित्यभिज्ञतयाधिकं लाभं करोति तस्मै परिभाषिताया अपि भृतेर् अधिकं दातव्यम् इत्य् अर्थः । अनेकनिष्पाद्ये कर्मणि भृतिदानप्रकार उक्तस् तेनैव (य्ध्। २। १९६) ।

    यो यावत् कुरुते कर्म तावत् तस्य तु वेतनम् ।


    उभयोर् अप्य् असाध्यं चेत् साध्ये कुर्याद् यथाश्रुतम् ॥

उभयोर् अपीत्य् अपिशब्दाद् बहूनां ग्रहणम् । यस्मिन् कूपादौ कृते तत्कर्तृणाम् एतावद् दास्यामीति वेतने परिभाषिते द्विबहुभिर् आरब्धं तत् कर्म यदि व्याध्यादिवशात् तैर् न परिसमापितं तदा तेषु यो यावत् कर्म करोति तस्मै तत्कर्मानुसारेण मध्यस्थनिरूपितं वेतनं देयं न तु साम्येन दानं न च परिसमाप्त्यभावाद् अदानम् । यदि तैः परिसमापितं तदा यथापरिभाषितं देयम् । न तु प्रत्येकं कृत्स्नं वेतनं दातव्यं न च कर्मानुसारेण परिकल्प्य दातव्यम् इत्य् अर्थः । यस् तु भृतिं गृहीत्वा शक्तो ऽपि दर्पादिनाङ्गीकृतं कर्म न करोति स गृहीतां भृतिं द्विगुणीकृत्य स्वामिने दद्याद् राज्ञे दण्डं चेत्य् आह बृहस्पतिः

[२२७] गृहीतवेतनः कर्म न करोति यदा भृतः ।

	समर्थश् च दमं दाप्यो द्विगुणं तच् च वेतनम् ॥

याज्ञवल्क्यो ‘पि ( २। १९३) ।

	गृहीतवेतनः कर्म त्यजन् द्विगुणम् आवहेत् ।

अगृहीतवेतनेनाङ्गीकृतस्य कर्मणो ऽकरणे यद् वेतनं परिभाषितं तत्समं धनं स्वामिने दातव्यं न तु राज्ञे दण्डो देय इत्य् अर्थः । एवं च वेतनग्रहणे बृहस्पतिना “गृहीतं तच् च वेतनम्” इति गृहीतस्य वेतनस्य द्विगुणीकृत्य समर्पणाभिधानाद् भृतकस्य स्वापराधकृतं वेतनसमधनदानं वेतनाग्रहणे ऽपि याज्ञवल्क्येनागृहीते समम् इत्य् अभिधानात् परिभाषितवेतनसमधनदानम् । विशेषस् त्व् एकत्र राजदण्डो ऽपरत्र तदभाव इति । अयं स्मृतिचन्द्रिकाकारादीनाम् अभिमतः पक्षः । विज्ञानेश्वराचार्यास् तु वेतनस्य ग्रहणे तद्द्विगुणधनदानं तदग्रहणे तु तत्समधनदानं न तु द्विगुणधनदानम् इत्य् आहुः । अगृहीतवेतनस्य प्रतिश्रुत्य कर्माकरणे भृतिं दत्त्वा बलात् स कर्म कारयितव्य इति पक्षान्तरम् आह नारदः (वेत। ५) ।

    कर्माकुर्वन् प्रतिश्रुत्य कार्यो दत्त्वा भृतिं बलात् ।


    भृतिं गृहीत्वाकुर्वाणो द्विगुणां भृतिम् आप्नुयात् ॥

अत्रैव विषये प्रारम्भानन्तरं बलात्कार्यमाणस्याप्य् अकरणे दण्ड्यत्वम् अप्य् आह कात्यायनः (६५७) ।

    कर्मारम्भं तु यः कृत्वा सिद्धं नैव तु कारयेत् ।


    बलात्कारयितव्यो ऽसाव् अकुर्वन् दण्डम् अर्हति ॥

कियद् द्रव्यं दण्ड्य इत्य् अपेक्षायाम् आह वृद्धमनुः

    प्रतिश्रुत्य न कुर्याद् यः स कार्यः स्याद् बलाद् अपि ।


    स चेन् न कुर्यात् तत् कर्म प्राप्नुयाद् द्विगुणं दमम् ॥

प्रतिश्रुत्य प्रारभ्येत्य् अर्थः, कात्यायनेन प्रारम्भ एव दण्डाभिधानात् । यस् तु मनुना

[२२८] भृतो नार्तो न यः कुर्याद् दर्पात् कर्म यथोदितम् ।

	स दण्ड्यः कृष्णलान् अष्टौ न देयं चास्य वेतनम् ॥

इत्य् अल्पो दण्डो ऽभिहितः, सो ऽर्धन्यूनकर्मकरणे ज्ञातव्यः । किञ्चिन्न्यूनकर्मकरणे तु न दण्डो नापि भृतिलाभः । तथा चोक्तं मनुनइव (८.२१७) ।

    यथोक्तम् आर्तः स्वस्थो वा यस् तत् कर्म न कारयेत् ।


    न तस्य वेतनं देयम् अल्पोनस्यापि कर्मणः ॥

अत्र कारयेद् इत्य् अनेन स्वस्थेनापि पुरुषान्तराङ्गीकृतकर्मकारणे ( करणे ? ) न दोष इति दर्शितम् । आर्तस् तु यदि रोगापगमानन्तरं स्वाङ्गीकृतं कर्म करोति तदा सत्य् अपि विलम्बे तद्दोषाभावात् स भृतिं लभत इत्य् उक्तं तेनैव (मनु ८। २१६ ) ।

    आर्तस् तु कुर्यात् स्वस्थः सन् यथा भाषितम् आदितः ।


    सुदीर्घस्यापि कालस्य स लभेतैव वेतनम् ॥

आदितः आदौ यथा भाषितं यथा प्रतिज्ञातं तथा कुर्याद् इत्य् अर्थः । सुदीर्घस्य कालस्य अत्यये ऽपीति शेषः । यस् त्व् एतावन्तं कालं कर्म करिष्यामीति परिभाष्य तत्कालापूर्ताव् एव कर्म त्यजति तस्य न भृतिलाभः स्वामिदोषात् त्यागे तु यावति काले कर्म कृतं तत्कालानुसारेण परिकल्पितभृतिं लभत इत्य् आह नारदः

    काले ‘पूर्णे त्यजन् कर्म भृतेर् नाशम् अवाप्नुयात् ।


    स्वामिदोषाद् अपक्रामन् यावत्कृतम् अवाप्नुयात् ॥

स्वामिदोषो निष्ठुरभाषणादिः । स्वामिदोषम् अन्तरेण परित्यागे दण्डम् अप्य् आह विष्णुः (५.१५२ - १५३): “भृतकश् चापूर्णे काले त्यजन् सकलम् एव मूल्यं जह्याद् राज्ञे च पणशतं दद्यात्” इति । मूल्यं वेतनम् । अपूर्णे काले स्वामिना भृतकस्य तदपराधम् अन्तरेण त्याजने परिकल्पितं समग्रं वेतनं दण्डश् च देय इत्य् आह विष्णुः [२२९] (५। १५५–५६ ) “स्वामी चेद् भृतकम् अपूर्णे काले जह्यात् तस्य सर्वम् एव मूल्यं दद्यात् पणशतं च राजन्य् अन्यत्र भृतकदोषात्” इति । भृतकदोषात् स्वामिद्रव्यनाशे मूल्यद्वारेण तद् द्रव्यं स्वामिने देयम् इत्य् आह स एव (५। १५४): “तद्दोषेण यद् विनश्येत् तत् स्वामिने देयम् अन्यत्र दैवोपघातात्” । दैवग्रहणं राजकृतस्याप्य् उपलक्षणम् । अत एव नारदः (वेत। ९) ।

    भाण्डं व्यसनम् आगच्छेद् यदि वाहकदोषतः ।


    दाप्यो यत् तत्र नष्टं स्याद् दैवराजकृताद् ऋते ॥

भाण्डं वहनीयं द्रव्यम् । व्यसनं नाशम् । भाण्डग्रहणम् अत्र बलीवर्दादेर् उपलक्षणम् । वाहकग्रहणं कृषीवलादेर् अप्य् उपलक्षणम् । एतच् च प्रमादनाशितविषयम् । दौष्ट्येन स्वामिद्रव्यनाशने तु द्विगुणं दातव्यम् इत्य् आह वृद्धमनुः

    प्रमादान् नाशितं दाप्यः समं द्विर् द्रोहनाशितम् ।


    न तु दाप्यो ऽपहृतं चौरैर् दग्धम् ऊढं जलेन वा ॥

द्विर् दाप्यः द्विगुणं दाप्यः । ऊढं नीतम् । यस् तु भृतको विवाहाद्यर्थसुमुहूर्ते प्रतिष्ठमानस्य भृत्यान्तरसम्पादनकालाभावे स्वाङ्गीकृतकर्माकरणरूपं प्रस्थानविघ्नं करोति स स्वामिने द्विगुणां भृतिं दाप्यः । तथा च याज्ञवल्क्यः (२। १९७ - १९८) ।

    प्रस्थानविघ्नकृच् चैव प्रदाप्यो द्विगुणां भृतिम् ।


    प्रक्रान्ते सप्तमं भागं चतुर्थं पथि संत्यजन् ॥


    भृतिम् अर्धपथे सर्वां प्रदाप्यस् त्याजको ऽपि च ।

प्रक्रान्ते प्रस्थानकर्मणीति शेषः । स्वामी गमनारम्भानन्तरं यदि त्याजयति तदा पूर्वोक्तक्रमेण सप्तमभागादिकं भृत्याय दापनीय इति त्याजको ऽपि चेत्य् अस्यार्थः । स्वामिना त्याजने यच् चतुर्थभागदापनम् उक्तं तद् [२३०] अविक्रीतभाण्डस्वामिविषयं विक्रीतभाण्डस्वामिना तु भृतेर् अर्धं दातव्यम् । अत एवाह वृद्धमनुः

    पथि विक्रीय तद् भाण्डं वणिग्भृत्यं त्यजेद् यदि ।


    अथ तस्यापि देयं स्याद् भुतेर् अर्धं लभेत सः ॥

पथि भाण्डस्य शौल्किकादिभिः प्रतिरोधे राजादिभिर् अपहारे वा कृते स्वामिना यद् दातव्यं तद् आह कात्यायनः (६६१) ।

    यदा च पथि तद् भाण्डम् आसिध्येत ह्रियेत वा ।


    यावान् अध्वा गतस् तेन प्राप्नुयात् तावतीं भृतिम् ॥

स्वामिना पथि व्याधितस्य भृत्यस्य परित्यागे दण्डम् आह स एव (कात्। ६६०) ।

    त्यजेत् पथि सहायं यः श्रान्तं रोगार्तम् एव च ।


    प्राप्नुयात् साहसं पूर्वं ग्रामे त्र्यहम् अपालयन् ॥

स्वाम्यनुज्ञातेन भृत्येनापराधे कृते स्वामिन एव सो ऽपराधो भवतीत्य् आह बृहस्पतिः

    प्रभुणा विनियुक्तः सन् भृतको विदधाति यः ।


    तदर्थम् अशुभं कर्म स्वामी तत्रापराध्नुयात् ॥

कृतकर्मणे भृतकाय स्वामिना वेतनस्यादाने राज्ञा स तद् दाप्य इत्य् आह स एव

    कृते कर्मणि यः स्वामी न दद्याद् वेतनं भृते ।


    राज्ञा दापयितव्यः स्याद् वेतनं चानुरूपतः ॥ इति ।

यो यानादिना भाण्डनयनं कर्तुं मूल्येन परकीयं यानादिकं भाण्डप्रापणाद्यमुककार्यसिद्धिपर्यन्तम् एतन् मदीयम् इति परिक्रीय तत्र न याति स यानस्वामिने परिकल्पितस्य भाटकस्य चतुर्थांशं दाप्यः । यस् तु तन् नीत्वार्धपथे त्यजति तदा सर्वां भृतिं दाप्यः । तथा च नारदः (वेत। ७ ) ।

[२३१] अनयन् भाटयित्वा तु भाण्डवान् यानवाहने ।

	दाप्यो भृतिं चतुर्भागं सर्वाम् अर्धपथे त्यजन् ॥

यानं शकटादि वाहनम् अश्वादि । यस् तु यानादिकं भाटकेन गृहीत्वा भाण्डं वाहनरहितम् एव देशान्तरं नयति भाटकं च न ददाति स भाटकम् अवश्यं दाप्य इत्य् आह वृद्धमनुः

    यो भाटयित्वा शकटं नीत्वा चान्यत्र गच्छति ।


    भाटं न दद्याद् दाप्यः स्याद् अनूढस्यापि भाटकम् ॥

अनूढस्यापि अकृतोपकारस्यापि । यदर्थं भाटकेन यानादिकं परिक्रीतं तत्कार्यसिद्धौ यदि तद्यानादिकं न प्रत्यर्पयति तदा तत्समर्पणपर्यन्तं भाटकं दाप्य इत्य् आह कात्यायनः ( ६६२ - ६६३) ।

    हस्त्यश्वगोखरोष्ट्रादीन् गृहीत्वा भाटकेन यः ।


    नार्पयेत् कृतकृत्यः संस् तावद् दाप्यः सभाटकम् ॥


    गृहवार्यापणादीनि गृहीत्वा भाटकेन यः ।


    स्वामिने नापयेद् यावत् तावद् दाप्यः सभाटकम् ॥

वारिशब्देनात्र जलपात्रं गृह्यते । स्वामिने नार्पयेत् कृतकृत्यः सन्न् इत्य् अनुषङ्गः । भाटकेन गृहीतानां जलपात्रादीनां भङ्गे नाशे च विशेषम् आह नारदः (वेत। २२) ।

    स्तोमवाहीनि भाण्डानि पूर्णकालान्य् उपानयेत् ।


    ग्रहीतुर् आभवेद् भग्नं नष्टं चान्यत्र संप्लवात् ॥

स्तोमवाहीनि भाटकगृहीतानि । तानि पूर्णपरिभाषितभाटककालानि तत्स्वामिनं प्रापयेद् इति पूर्वार्धस्यार्थः । भग्नम् एकदेशेन विकृतं नष्टं कार्त्स्न्येन विकृतम् । संप्लवः परस्परसङ्घर्षः । तद्व्यतिरिक्तप्रकारेण यद् भग्नं नष्टं च तद् भाटकग्रहीतुर् भवति संप्लवेन तु यन् नष्टं भग्नं वा तद् भाटकदात्रा पूर्ववत् कृत्वा मूल्यद्वारेण वा तत्स्वामिने देयम् इत्य् अर्थः । परभूमौ स्वयं गृहं निर्माय भूमिस्वामिने भाटकं दत्त्वा यस् तत्र वसति तं प्रत्य् आह स एव ( नारद, वेत। २० )

[२३२] परभूमौ गृहं कृत्वा स्तोमं दत्त्वा वसेत् तु यः ।

	स तद् गृहीत्वा निर्गच्छेत् तृणकाष्ठेष्टकादिकम् ॥

स्तोमो भाटकम् । यो भाटकम् अदत्त्वा वसति तं प्रत्य् आह स एव (नारद, वेत। २१) ।

    स्तोमाद् विना वसित्वा तु परभूमाव् अनिश्चितः ।


    निर्गच्छंस् तृणकाष्ठानि न गृह्णीयात् कथंचन ॥


    यान्य् एव तृणकाष्ठानि त्व् इष्टका विनिवेशिताः ।


    विनिर्गच्छं स्तु तत् सर्वं भूमिस्वामिनि वेदयेत् ॥

अनिश्चितः निर्गमनसमये तृणकाष्ठादिकं गृहीत्वा गन्तव्यम् इत्य् एवंरूपा वा तथा न गन्तव्यम् इत्य् एवंरूपा वा या परिभाषा तद्रहितः । वेदयेत् निवेदयेत् । परिभाषाकरणे तु यथापरिभाषितं कर्तव्यम् । वेश्यातदुपभोक्तृविषये स एव ( नारद, वेत। १८ ) ।

    पण्यं गृहीत्वा पण्यस्त्री नेच्छन्ती द्विगुणं वहेत् ।


    अनिच्छन् शुल्कदातापि शुल्कहानिम् अवाप्नुयात् ॥

व्याध्यभिभवादिना तु शुल्कदातुः समीपम् अगच्छन्त्या न दोष इत्य् आह बृहस्पतिः

    व्याधिता सश्रमा व्यग्रा राजकार्यपरायणा ।


    आमन्त्रिता च नागच्छेद् अवाच्या वडवा स्मृता ॥

आमन्त्रिता आहूता । वडवा दासी । एतच् च वेश्याया अप्य् उपलक्षणम् । उपभोक्तृविषये विशेषम् आह नारदः ( वेत। १८ - १९ ) ।

    अप्रयच्छंस् तथा शुल्कम् अनुभूय पुमान् स्त्रियम् ।


    अक्रमेण तु सङ्गच्छेद् घातदन्तनखादिभिः ॥


    अयोनौ यः समाक्रामेद् बहुभिर् वापि वासयेत् ।


    शुल्कं सो ऽष्टगुणं दाप्यो विनयं तावद् एव तु ॥

**[२३३] **वेश्याया दत्तशुल्कं परित्यज्य पुरुषान्तरगमने दण्डादिकम् उक्तं मत्स्यपुराणे (२२७। १४५) ।

    गृहीत्वा वेतनं वेश्या लोभाद् अन्यत्र गच्छति ।


    तां दमं दापयेद् दद्याद् इतरस्यापि भाटकम् ॥

इतरस्य दत्तशुल्कस्य । विशेषान्तरम् अप्य् उक्तं तत्रैव ( मत्स्यपुराण

२२७। १४६-१४८ ) ।

    अन्यम् उद्दिश्य यो वेश्यां नयेद् अन्यस्य कारणात् ।


    तस्य दण्डो भवेद् राज्ञः सुवर्णस्य च माषकम् ॥


    नीत्वा भोगं न यो दद्याद् दाप्यो द्विगुणवेतनम् ।


    राज्ञश् च द्विगुणं दण्डं तथा धर्मो न हीयते ॥


    बहूनां व्रजताम् एकां सर्वे तद्द्विगुणं धनम् ।


    तस्यै दद्युः पृथग् राज्ञे दण्डं च द्विगुणं परम् ॥

वेश्याविवादे निर्णायकान् आह नारदः

    वेश्याः प्रधाना यास् तत्र कामुकास् तद्गृहोषिताः ।


    तत्समुत्थेषु कार्येषु निर्णयं संशये विदुः ॥

इति श्रीकोदण्डपरशुरामे ॥ । व्यवहारविवेकोद्द्योते

वेतनानपाकर्माख्यव्यवहारपदनिरूपणम् ॥ २२ ॥

**पोस्सिब्ले रेअदिन्ग् ओफ़् थे देफ़ेच्तिवे तेxत्-

श्रीकोदण्डपरशुरामेत्यादिविविधबिरुदावलीविराजमानमानोन्नत-महाराजाधिराजश्रीशक्तिसिंहात्मजमहाराजाधिराजश्रीमदनसिंहदेवविरचिते मदनरत्नप्रदीपे व्यवहारविवेकोद्द्योते वेतनानपाकर्माख्यव्यवहारपदनिरूपणम् ॥२२॥

अथ संविद्व्यतिक्रमाख्यव्यवहारपदनिरूपणम् ।

तत्र तस्य स्वरूपमाह नारदः (सम। १ ) ।

    पाषण्डनैगमादीनां स्थितिः समय उच्यते ।


    समयस्यानपाकर्म तद् विवादपदं स्मृतम् ॥

पाषण्डाः वैदिकमार्गविरोधिनः क्षपणकादयः । नैगमाः सार्थिका वणिजः । नैगमा वेदप्रामाण्याभ्युपगन्तारः पाशुपतादय इति विज्ञानेश्वराचार्याःआदिशब्देन त्रैविद्यब्राह्मणवृन्दादयः । तेषां स्थितिः पारिभाषिकधर्मवत्तया व्यवस्थापनं समय इत्य् उच्यते । तस्य समयस्य [२३४] यद् अनपाकर्म अव्यतिक्रमः परिपालनरूपः तत् समयस्यानपाकर्म विवादपदं स्मृतम् अक्रियमाणम् इति शेषः । अथ वा अव्यतिक्रमाभिधायिना अनपाकर्मशब्देनात्र विषं भुंक्ष्वेतिवद् विपरीतलक्षणया व्यतिक्रमः प्रतिपाद्यते । तस्य समयस्य यो व्यतिक्रमः स विवादपदम् इत्य् अर्थः । एतदुपयोगिनं कञ्चिद् अर्थं दर्शयति याज्ञवल्क्यः (२। १८५) ।

    राजा कृत्वा पुरे स्थानं ब्राह्मण्यं न्यस्य तत्र तु ।


    त्रैविद्यं वृत्तिमद् ब्रूयात् स्वधर्मः पाल्यताम् इति ॥

ब्राह्मण्यं ब्राह्मणसमूहम् । ब्राह्मणमाणववाडवाद् यत् (पा। ४। २.४२) इति पाणिनिस्मरणाद् यत् । विद्या वेदाः तिसृणां विद्यानां समाहारस् त्रिविद्यं त्रिविधं वेत्तीति त्रैविद्यम् । तद् अधीते तद् वेद (पा। ४.२.५९ ) इत्य् अण् । अत्राणो द्विगुनिमित्तत्वाभावान् न द्विगोर् लुगनपत्ये (पा। ४। १.८८ ) इति लुक् । त्रैविद्यग्रहणम् ऋग्यजुःसामाख्यवेदत्रयसाध्यस्य ज्योतिष्टोमादिप्रयोगस्य वेदत्रयाभिज्ञानाम् अभावे ऽनिर्वाहान् न केवलं बह्वृचा याजुषाः सामगा वा स्थापनीयाः किं तर्ह्य् अवश्यम् एते त्रयो ऽपि ज्योतिष्टोमादिश्रौतकर्मानुष्ठान-निर्वाहाय स्थापनीया इत्य् एवमर्थम् । बृहस्पतिर् अपि ।

    वेदविद्याविदो विप्राञ् श्रोत्रियान् अग्निहोत्रिणः ।


    आहृत्य स्थापयेत्त् अत्र तेषां वृत्तिं प्रकल्पयेत् ॥

वृत्तिपरिकल्पनप्रकारम् आह स एव

    अनाच्छेद्यकरास् तेभ्यः प्रदद्याद् गृहभूमयः ।


    मुक्तभाव्याश् च नृपतिर् लेखयित्वा स्वशासने ॥

अनाच्छेद्यकराः स्वेनाग्राह्यकराः । मुक्तभाव्याः भाव्यो भाविनृपतिभिर् ग्राह्यः करस् तद्रहिताः । स्थापितैर् ब्राह्मणैर् यत् कर्तव्यं तद् आह स एव

    नित्यं नैमित्तिकं काम्यं शान्तिकं पौष्टिकं तथा ।


    पौराणां कर्म कुर्युस् ते सन्दिग्धे निर्णयं तथा ॥

पौराणां पुरवासिनाम् । याज्ञवल्क्यो ऽपि ( २। १८६) ।

**[२३५] ** निजधर्माविरोधेन यस् तु सामयिको भवेत् ।

	सो ऽपि यत्नेन संरक्ष्यो धर्मो राजकृतश् च यः ॥

निजधर्माविरोधेन श्रौतस्मार्तधर्मानुपमर्देन सामयिकः समयप्राप्तो धर्मो गोप्रचारोदकरक्षणाद् एव गृहपालनादिरूपः सो ऽपि यत्नेन परिपालनीयः । तथा स्वधर्मानुपमर्देन यो राज्ञा कृतो धर्मः यावन्तः पान्थाः समायान्ति तावन्तः सर्वे ‘पि भोजनीया इत्य् एवमादिरूपः सो ऽपि परिपालनीयः । यस् तु निजधर्मविरोधी सन्ध्यावन्दनादिकर्मकाले सर्वैर् एव स्वव्यापारपरित्यागेन राजभवनं प्रत्यागन्तव्यं यो नायाति स दण्डनीय इत्येवमादिरूपः स न परिपालनीय इत्य् अर्थः । सामयिकस्य राजकृतस्य च परिपालनं श्रेण्यादिष्व् अतिदिशति याज्ञवल्क्यः (२.१९२ ) ।

    श्रेणिनैगमपाषण्डिगणानाम् अप्य् अयं विधिः ।


    भेदं चैषां नृपो रक्षेत् पूर्वां वृत्तिं च पालयेत् ॥

श्रेणयः एकशिल्पोपजीविनः कुविन्दादयः । गणग्रहणं पूगव्रातयोर् अप्य् उपलक्षणम् । एककर्मोपजीविनां हस्त्यश्वारोहादीनां समूहः पूगः । गणव्रातशब्दौ व्याख्यातौ कात्यायनेन (६७८) ।

    नानायुधधरा व्राता समवेतास् तु कीर्तिताः ।


    कुलानां हि समूहस् तु स गणः परिकीर्तितः ॥

एतेषां श्रेण्यादीनां भेदं धर्मव्यवस्थां नृपो रक्षेत् स पूर्वां पूर्वायातां वृत्तिं च पालयेद् इत्य् अर्थः । समयकरणस्य किञ्चिन् निमित्तं दर्शयति बृहस्पतिः

    ग्रामे श्रेणिगणानां च सङ्केतः समयक्रिया ।


    बाधाकाले तु सा कार्या धर्मकार्ये कथंचन ॥ इति ।

ग्रामादीनां समयकरणम् अन्तरेण यद्य् उपद्रवो दुष्परिहरो धर्मकार्यं वा दुःसाध्यं तदा सङ्केतरूपा समयक्रिया कर्तव्येत्य् अर्थः । एतच् चोपलक्षणम् ।

**[२३६] **तेनैतदभावे ऽपि सर्वेषाम् इच्छातो भवति समयक्रिया । उपद्रवपरिहरणं समयिभिः सर्वैर् मिलित्वा कार्यं न त्व् एकेन । तथा च स एव

    चाटचौरभये बाधाः सर्वसाधारणाः स्मृताः ।


    तत्रोपशमनं कार्यं सर्वैर् नैकेन केनचित् ॥

चाटो वृकः । एतच् चोपलक्षणम् । चाटचौरादिभ्यो भये सति तत्कृता बाधाः सर्वसाधारणाः स्मृता इत्य् अतो यः समयः कृतो ऽवर्षणोपद्रवे प्रतिगृहं प्रतिक्षेत्रं चावग्रहनिवृत्त्यर्थं ग्रहयज्ञादिसिद्धय एतावद् देयम् इत्येवमादिरूपस् तदनुसारेण्ओपशमनं सर्वैः कार्यम् इत्य् अर्थः । धर्मकार्यम् अपि सर्वैः सम्भूय कार्यम् इत्य् आह स एव

    सभाप्रपादेवगृहतटाकारामसंस्कृतिः ।


    तथानाथदरिद्राणां संस्कारो यजनक्रिया ॥


    कुलायननिरोधं च कार्यम् अस्माभिर् अंशतः ।


    यत्रैतल् लिखितं पत्रे धर्म्या सा समयक्रिया ॥


    पालनीया समस्तैस् तैर् यः समर्थो विसंवदेत् ।


    सर्वस्वहरणं दण्डस् तस्य निर्वासनं पुरात् ॥

सभा मण्डपः । आरामः उपवनम् । सभादीनां संस्कृतिस् तेषां जीर्णतायाम् उद्धारः । संस्कार उपनयनादिकः प्रेतदहनादिकश् च । यजनक्रिया सोमयागादिकर्तृभ्यो दानम् । कुलायननिरोधः कुलायने दुर्भिक्षादिपीडितयूथागमने निरोधो दुर्भिक्षाद्यपगमपर्यन्तं तस्य धारणम् । कल्पतरौ तु कुल्यानयनरोधं वेति पाठः । कुल्यानयनरोधं कुल्यायाः प्रवर्तनप्रतिबन्धौ । समुदायिभिर् अन्योन्यं समयानतिक्रमाय विश्वासम् उत्पाद्य सामयिककार्याणि कर्तव्यानीत्य् आह स एव

    कोशेन लेख्यक्रियया मध्यस्थैर् वा परस्परम् ।


    विश्वासं प्रथमं कृत्वा कुर्युः कार्याण्य् अनन्तरम् ॥ इति ।

कोशेन देवतास्नानोदकपानेन । लेख्यक्रियया समयपत्रेण । [२३७] मध्यस्थैः प्रतिभूभिः । राज्ञापि समयः परिपालनीय इत्य् आह नारदः (सम। २।) ।

    पाषण्डनैगमश्रेणिपूगव्रातगणादिषु ।


    संरक्षेत् समयं राजा दुर्गे जनपदे तथा ॥

आदिशब्देन ब्रह्मपुरीनिविष्टमहाजनपरिग्रहः । पाषण्डादिसमयः प्रसिद्धः । दुर्गे तु समयः धान्यादिकं गृहीत्वा देशान्तरं यास्यतो हस्ते न तद् विक्रेयम् इत्यादिकः समयः । जनपदे तु क्वचिद् विक्रेतुः सकाशाच् छुल्कग्रहणं क्वचित् क्रेतुर् इत्यादिकः समयः । पाषण्डादीनां सामयिको धर्मादिर् न निवर्तनीय इति पूर्वोक्तम् अर्थं विवृण्वन्न् आह स एव (नारद, सम। ३) ।

    यो धर्मः कर्म यच् चैषाम् उपस्थानविधिश् च यः ।


    यच् चैषां वृत्त्युपादानम् अनुमन्येत तत् तथा ॥

धर्मश् चैत्यवन्दनादिः । कर्म प्रातः पर्युषितभिक्षाटनादि । उपस्थानविधिः समूहकार्यार्थपटहादिध्वनिश्रवणे सति मण्डपादौ मेलनम् । वृत्त्युपादानं जीवनार्थं तापसवेषग्रहणम् । राज्ञा निवर्तनीयं किञ्चिद् दर्शयति स एव (नार्।,सम। ४) ।

    प्रतिकूलं च यद् राज्ञः प्रकृत्यावमतं च यत् ।


    बाधकं च यद् अर्थानां तत् तेभ्यो विनिवर्तयेत् ॥

यद् राज्ञः प्रतिकूलं शूद्रकर्तृकधर्मविवेचनादिकं यच् च प्रकृत्या स्वभावत एव्आवमतम् अवज्ञातं पाषण्डादिषु ताम्बूलभक्षणादिकं यच् चार्थानां बाधकं धननाशकरं रसवादादिकं तत् तेभ्यो निवर्तयेत् यथा ते न कुर्वन्ति तथा कुर्याद् इत्य् अर्थः । शूद्रकर्तृकधर्मविवेचनस्य प्रतिकूलत्वम् उक्तं स्मृत्यन्तरे

    यस्य राज्ञ स्तु कुरुते शूद्रो धर्मविवेचनम् ।


    तस्य प्रक्षुभ्यते राष्ट्रं बलं कोशश् च नश्यति ॥

यस्य राज्ञो राष्ट्रे इति शेषः । निवर्तनीयान्तरं दर्शयति स एव (नारद, सम। ७) ।

[२३८] दोषवत् करणं यत् स्याद् अनाम्नायप्रकल्पितम् ।

	प्रवृत्तम् अपि तद् राजा श्रेयस्कामो निवर्तयेत् ॥

लोभादिदोषवत्कारणकं श्रुतिस्मृतिविरुद्धं विधवादौ वेश्यात्वादिकं पाषण्डादिभिः प्रकल्पितं तद् बहुकालप्रवृत्तम् अपि राज्ञा निवर्तनीयम् इत्य् अर्थः । कलहादाव् एतेषां युद्धार्थं मिथः सङ्घीभवनम् आयुधधारणम् अन्योन्यम् अर्थहरणादिकं च राज्ञा न सोढव्यम् इत्य् आह स एव (नारद, सम। ५) ।

    मिथः सङ्घातकरणम् अहिते शस्त्रधारणम् ।


    परस्परोपतापं च तेषां राजा न मर्षयेत् ॥

समुदायिभिर् विचित्रबुद्धिभिर् अनेकैर् ऐकमत्येन कार्यनिर्वाहस्य कर्तुम् अशक्यत्वात् तैर् द्वित्राः समुदायकार्यचिन्तकाः कर्तव्यास् तैर् यद् उक्तं तच् च सर्वैः समुदायिभिर् अङ्गीकार्यम् इत्य् आह बृहस्पतिः

    द्वौ त्रयः पञ्च वा कार्याः समूहहितवादिनः ।


    कर्तव्यं वचनं तेषां ग्रामश्रेणिगणादिभिः ॥

कीदृशाः कार्यचिन्तकाः कार्याः कीदृशा नेत्य् अपेक्षायाम् आह स एव

    विद्वेषिणो व्यसनिनः शालीनालसभीरवः ।


    लुब्धातिवृद्धबालाश् च न कार्याः कार्यचिन्तकाः ॥


    शुचयो वेदधर्मज्ञा दक्षा दान्ताः कुलोद्भवाः ।


    सर्वकार्यप्रवीणाश् च कर्तव्याश् च महत्तमाः ॥

शालीनाः अधृष्टाः । कार्यचिन्तकाः समुदायकार्यसाधकबाधकविचारकाः । यः कार्यचिन्तकैर् उक्तं न करोति तद्दण्डम् आह याज्ञवल्क्यः (२। १८८) ।

    कर्तव्यं वचनं सर्वैः समूहहितवादिनः ।


    यस् तत्र विपरीतः स्यात् स दाप्यः प्रथमं दमम् ॥

प्रथमं पूर्वसाहसम् । कार्यचिन्तकोक्तं यदि युक्तिबाधितं तदा न तदतिक्रमे दण्ड इत्य् अभिप्रेत्याह कात्यायनः (६७१) ।

[२३९] युक्तियुक्तं च यो हन्याद् वक्तुर् यो ऽनवकाशदः ।

	अयुक्तं चैव यो ब्रूयात् स दाप्यः पूर्वसाहसम् ॥

अन्यम् अपि दण्ड्यं दर्शयति बृहस्पतिः

    यस् तु साधारणं हिंस्यात् क्षिपेत् त्रैविद्यम् एव वा ।


    सन्धिक्रियां विहन्याच् च स निर्वास्यस् ततः पुरात् ॥

साधारणं समुदायग्राह्यं दण्डादिद्रव्यं हिंस्यात् दण्ड्यादेः साहाय्यकरणान् नाशयेत् । क्षिपेत् तिरस्कुर्यात् । स एव

    अरुन्तुदः सूचकश् च भेदकृत् साहसी तथा ।


    श्रेणिपूगनृपद्विष्टः क्षिप्रं निर्वास्यते ततः ॥

अरुन्तुदो मर्मोद्घाटकः सूचकः पिशुनः । भेदकृत् समुदायिषु वैमत्यकृत् । नारदः (सम । ६ ) ।

    पृथग्गणांस् तु ये भिन्युस् ते विनेया विशेषतः ।


    आवहेयुर् भयं घोरं व्याधिवत् ते ह्य् उपेक्षिताः ॥

गणान् श्रेण्यादिरूपान् समुदायान् । बृहस्पतिः

    तत्र भेदम् उपेक्षां वा यः कश्चित् कुरुते नरः ।


    चतुःसुवर्णं षनिष्कास् तस्य दण्डो विधीयते ॥

सुवर्णचतुष्टयनिष्कषट्कयोः शक्त्यादितारतम्येन व्यवस्था । समुदायिदण्डे समुदायस्यैवाधिकारः । अत एवोक्तं तेनैव

    कुलश्रेणिगणाध्यक्षाः पुरदुर्गनिवासिनः ।


    वाग्धिग्दण्डं परित्यागं प्रकुर्युः पापकारिणाम् ॥


    तैः कृतं यत् स्वधर्मेण निग्रहानुग्रहं नृणाम् ।


    तद् राज्ञाप्य् अनुमन्तव्यं निसृष्टार्था हि ते स्मृताः ॥

वाग्दण्डः पापिष्ठो ‘सीति भाषणम् । धिग्दण्डो धिक् त्वाम् इति भाषणम् । परित्यागो ऽसंव्यवहार्यत्वकरणं निर्वासनं वा । एतच् चार्थदण्डादेर् अप्य् उपलक्षणम् । निग्रहानुग्रहम् इत्यन्ते पुनः सामान्येनाभिधानम् । निसृष्टार्था अनुज्ञातकार्याः । द्वेषादिवशात् समुदायेनैकस्य निग्रहे कृते राज्ञा ते सर्वे दण्डनीया इत्य् आह स एव

[२४०] बाधां कुर्युर् यदैकस्य संभूता द्वेषसंयुताः ।

	राज्ञा तु विनिवार्यास् ते शास्याश् चैवानुबन्धतः ॥

अनुबन्धतः निग्रहतारतम्यानुसारेण । यदि समूहो ऽपराधिनं दण्डयितुम् अशक्तस् तदा राज्ञा स दण्डनीयः । अत एव मनुः ( ८.२१९-२२१ ) ।

    यो ग्रामदेशसङ्घानां कृत्वा सत्येन संविदम् ।


    विसंवदेन् नरो लोभात् तं राजा विप्रवासयेत् ॥


    निगृह्य दापयेद् एनं समयव्यभिचारिणम् ।


    चतुःसुवर्णं षण्निष्कं शतमानं च राजतम् ॥


    एवं दण्डविधिं कुर्याद् धार्मिकः पृथिवीपतिः ।


    ग्रामजातिसमूहेषु समयव्यभिचारिणाम् ॥

एतेषां प्रवासनचतुःसुवर्णषण्निष्कशतमानरूपाणां चतुर्णां दण्डानां जातिविद्यागुणाद्यपेक्षया व्यवस्था कल्पनीया । कार्यचिन्तकानां समूहविरोधे तन्निवर्तनं राज्ञा कार्यम् इत्य् आह बृहस्पतिः

    मुख्यैः सह समूहानां विसंवादो यदा भवेत् ।


    तदा विचारयेद् राजा स्वमार्गे स्थापयेच् च तान् ॥

मुख्यानाम् अपराधविशेषे दण्डविशेषम् आह याज्ञवल्क्यः (२। १८७) ।

    गणद्रव्यं हरेद् यस् तु संविदं लङ्घयेच् च यः ।


    सर्वस्वहरणं कृत्वा तं राष्ट्राद् विप्रवासयेत् ॥

मुख्यदण्डने ऽपि समूहस्यैवाधिकारः समूहस्य तत्रासामर्थ्ये राज्ञः । अत एव कात्यायनः (६७२) ।

    साहसी भेदकारी च गणद्रव्यविनाशकः ।


    उच्छेद्याः सर्व एवैते विख्याप्यैव नृपे **भृगुः** ॥

नृपे विख्याप्य गणेन्ओच्छेद्या इत्य् अर्थः । समूहकार्यार्थम् आगताय मुख्याय राज्ञा समूहपूजार्थं यद् दत्तं तस्य तेन समूहायासमर्पणे दण्डम् आह याज्ञवल्क्यः (२। १८९ - १९०) ।

[२४१] समूहकार्य आयातान् कृतकार्यान् विसर्जयेत् ।

    सदानमानसत्कारैः पूजयित्वा महीपतिः ॥


    समूहकार्यप्रहितो यल् लभेत तद् अर्पयेत् ।


    एकादशगुणं दाप्यो यद्य् असौ नार्पयेत् स्वयम् ॥

यल् लभेत समूहसंमाननार्थम् इति शेषः । राजदत्तं सर्वेषां समुदायिनां साधारणम् अतो यथांशतो विभज्य ग्राह्यं निःस्वादिभ्यो वा देयम् इत्य् आह बृहस्पतिः

    ततो लभ्येत यत् किञ्चित् सर्वेषाम् एव तत्समम् ।


    षाण्मासिकं मासिकं वा विभक्तव्यं यथांशतः ॥


    देयं वा निःस्ववृद्धान्धस्त्रीबालातुररोगिषु ।


    सान्तानिकादिषु तथा धर्म एष सनातनः ॥

षाण्मासिकं एकस्य पुरुषस्यैकस्य कुटुम्बस्य वा मासषट्कनिर्वाहपर्याप्तम् । एवं मासिकम् । एतच् चोपलक्षणम् । अन्यद् अपि किञ्चित् सर्वेषां साधारणं दर्शयति स एव

    यत् तैः प्राप्तं रक्षितं वा गणार्थे वा ऋणं कृतम् ।


    राजप्रसादलब्धं वा सर्वेषाम् एव तत् समम् ॥

यत् तैः मुख्यैः सीमाविवादादाव् अधिकं क्षेत्रारामादिकं धर्माधिकरणन्यायतः प्राप्तं यच् चान्यैर् अपह्रियमाणं रक्षितं गणकार्यार्थं यच् च कृतं यच् च राजप्रीतिलब्धं तत् सर्वसमुदायिनां समं भवतीत्य् अर्थः । गणकार्यार्थं कृतम् अपि किञ्चिद् ऋणं न सर्वेषां साधारणम् इत्य् आह कात्यायनः (६७४ ) ।

    गणम् उद्दिश्य यत् किञ्चित् कृत्वर्णं भक्षितं भवेत् ।


    आत्मार्थं विनियुक्तं वा देयं तैर् एव तद् भवेत् ॥

तैर् मुख्यैः । ये समुदायानुग्रहात् तदन्तर्भावं प्राप्ता ये च समुदायक्षोभादिना ततो बहिर्भावं प्राप्तास् तेषु कश्चिद् विशेषम् आह स एव ( कात्या। ६७५-६७६) ।

[२४२] गणिनां श्रेणिवर्गाणां गताः स्युर् ये ‘पि मध्यताम् ।

    प्राक्तनस्य धनर्णस्य समांशाः सर्व एव ते ॥


    तथैव भोज्यवैभाज्यदानधर्मक्रियासु च ।


    समूहस्थो ‘ंशभागी स्यात् प्रगतस् त्व् अंशभाङ् न तु ॥

इति श्रीकोदण्डपरशुरामेति व्यवहारविवेकोद्द्योते

संविद्व्यतिक्रमाख्यव्यवहारपदनिरूपणम् ॥ २३ ॥

**पोस्सिब्ले रेअदिन्ग् ओफ़् थे देफ़ेच्तिवे तेxत्-

श्रीकोदण्डपरशुरामेत्यादिविविधबिरुदावलीविराजमानमानोन्नत-महाराजाधिराजश्रीशक्तिसिंहात्मजमहाराजाधिराजश्रीमदनसिंहदेवविरचिते मदनरत्नप्रदीपे व्यवहारविवेकोद्द्योते संविद्व्यतिक्रमाख्यव्यवहारपदनिरूपणम् ॥२३॥

अथ क्रीतानुशयाख्यव्यवहारपदनिरूपणम् ।

तत्र तस्य स्वरूपं दर्शयति नारदः ( क्रीता। १)

    क्रीत्वा मूल्येन यः पण्यं क्रेता न बहु मन्यते ।


    क्रीतानुशय इत्य् एतद् विवादपदम् उच्यते ॥

न बहु मन्यते परामर्शपूर्वकम् एतन् न गृहीतम् इति मन्यत इत्य् अर्थः । क्रीतस्य परीक्ष्यताम् आह बृहस्पतिः

    परीक्षेत स्वयं कीर्तम् अन्येषां च प्रदर्शयेत् ।


    परीक्षितं बहुमतं ग्रहीता न पुनस् त्यजेत् ॥

तत्र चर्मादीनां सद्यः परीक्ष्यत्वम् आह व्यासः

    चर्मकाष्ठेष्टकासूत्रधान्यासवरसस्य च ।


    वसुकुप्यहिरण्यानां सद्य एव परीक्षणम् ॥ इति ।

वसुशब्देनात्र रूप्यं गृह्यते । दोह्यादीनां परीक्षाकालभेदान् आह नारदः ( क्रीता ५-६ ) ।

    त्र्यहाद् दोह्यं परीक्षेत पञ्चाहाद् वाह्यम् एव तु ।


    मुक्तावज्रप्रवालानां सप्ताहं स्यात् परीक्षणम् ॥


    द्विपदाम् अर्धमासं तु पुंसां तद्द्विगुणं स्त्रियाः ।


    दशाहः सर्वबीजानाम् एकाहाल् लोहवाससाम् ॥

अत्र त्र्यहादिगणनं क्रयदिनम् आरभ्येति ज्ञातव्यम् । दोह्यं गवादिकम् । वाह्यम् अश्वादिकम् । मुक्तेति रत्नस्याप्य् उपलक्षणम् । द्विपदां [२४३] पुंसां दासानाम् इत्य् अर्थः । तद्विगुणं मासम् इत्य् अर्थः । स्त्रियाः दास्या इत्य् अर्थः । सर्वबीजान्य् अत्र वापनार्थं गृहीतधान्यादीनि विवक्षितानि । भक्षणाद्यर्थं गृहीतानां पूर्वोदाहृतव्यासवचनेन सद्यःपरीक्ष्यत्वाभिधानात् । कात्यायनः

	भूमेर् दशाहो ऽनुशयः क्रेतुर् विक्रेतुर् एव च ।

भूमेर् गृहक्षेत्रादिरूपायाः । अनुशयः परावर्तनकयोग्यः कालः परीक्षाकाल इति यावत् । अस्मिंस् त्र्यहादिरूपे परीक्षाकाले क्रीतस्य दोषदर्शने विक्रेत्रे तत् प्रतिदेयम् । तथा चोक्तं त्र्यहाद् दोह्यम् इत्यादिपरीक्षा कालम् अभिधाय बृहस्पतिना

    अतो ऽर्वाक् पण्यदोषस् तु यदि सञ्जायते क्वचित् ।


    विक्रेतुः प्रतिदेयं तत् क्रेता मूल्यम् अवाप्नुयात् ॥

सञ्जायते ज्ञायत इत्य् अर्थः । परीक्षाकालातिक्रमे तु दोषदर्शने ऽपि न तत् प्रतिदेयम् इत्य् आह कात्यायनः (६८८) ।

    अविज्ञातं तु यत् क्रीतं दुष्टं पश्चाद् विभावितम् ।


    क्रीतं तत् स्वामिने देयं पण्यं काले ऽन्यथा न तु ॥

पश्चाद् दुष्टं विभावितं दोषवत्तया निर्णीतम् इत्य् अर्थः । काले परीक्षाकाले । अत्र्आविज्ञातं तु यत् क्रीतम् इत्य् अनेन क्रयात् प्राग् अपरीक्ष्य यत् क्रीतं तद् एव परीक्षाकाले दोषदर्शने निवर्तनीयं यत् तु परीक्ष्य गृहीतं तन् न निवर्तनीयम् इति दर्शितम् । अत्रार्थे नारदो ऽपि (क्रीता। १६.४ ) ।

    क्रीत्वा नानुशयं कुर्याद् वणिक् पण्यविचक्षणः ।


    क्षयं वृद्धिं विजानीयात् पण्यानाम् आगमं तथा ।


    क्रेता पण्यं परीक्षेत प्राक् स्वयं गुणदोषतः ।


    परीक्ष्याभिमतं क्रीतं विक्रेतुर् न भवेत् पुनः ॥

अनुशयं पश्चात्तापम् । पण्यानाम् अश्वादीनाम् अस्मिन् देशे मूल्यस्य हानिर् अस्मिन् देशे तदाधिक्यम् इति क्षयवृद्धी । एतद्देशसम्भवम् इत्य् आगमं च क्रयात् प्राग् एव विजानीयाद् इत्य् अर्थः । परीक्षाकाल एव दोषदर्शनम् अन्तरेण क्रीतस्य प्रत्यर्पणे विशेषम् आह कात्यायनः (६८६-८७) ।

[२४४] क्रीत्वा वानुशयात् पण्यं त्यजेद् दोषाद् ऋते नरः ।

    अजुष्टम् एव काले तु स मूल्याद् दशमं वदेत् ॥


    क्रीत्वा गच्छन्न् अनुशयं क्रयी हस्तम् उपागते ।


    षड्भागं तस्य मूल्यस्य दत्त्वा क्रीतं त्यजेन् नरः ॥

अजुष्टम् अनुपभुक्तम् । काले परीक्षाकाले । अत्र मूल्यदशमभागदानम् उपभोगाविनश्वरभूम्यादिविषयं षड्भागदानम् उपभोगविनश्वरबीजादिविषयम् इति व्यवस्था । बीजादिव्यतिरिक्तोपभोगविनश्वरवस्तुविषये विशेषम् आह नारदः (क्रीता। २-३) ।

    क्रीत्वा मूल्येन यः पण्यं दुष्क्रीतं मन्यते क्रयी ।


    विक्रेतुः प्रतिदेयं तत् तस्मिन्न् एवाह्न्य् अविक्षतम् ॥


    द्वितीये ऽह्नि ददत् क्रेता मूल्यात् त्रिंशांशम् आवहेत् ।


    द्विगुणं तत् तृतीये ऽह्नि परतः क्रेतुर् एव तत् ॥

अत्र मन्यते इति कथनाद् वस्तुतो दोषाभाव उक्तः । क्रयकाले मूल्यवृद्धिक्षयरूपदोष-दर्शनम् अन्तरेण क्रीतस्य विक्रीतस्य वा प्रत्यर्पणे पुनर्ग्रहणे वा दण्डम् आह याज्ञवल्क्यः (२.२५८) ।

    वृद्धिं क्षयं वा वणिजा पण्यानाम् अविजानता ।


    क्रीत्वा नानुशयः कार्यः कुर्वन् षड्भागदण्डभाक् ॥

वृद्धिं मूल्यवृद्धिम् अविजानता क्रेत्रा एवं मूल्यक्षयम् अविजानता विक्रेत्रेत्य् अर्थः । वणिग्ग्रहणं क्रेतृविक्रेतृमात्रोपलक्षणम् । षड्भागो मूल्यस्य षष्ठो भागः । अत्राविजानतेत्यभिधानात् क्रयोत्तरकालं मूल्यवृद्धिज्ञाने मुल्यक्षयज्ञाने वा यथास्तम् (यथाशास्त्रम् ? ) अनुशयः कार्य इत्य् अवगम्यते । परीक्षाकालातिक्रमणे प्रत्यर्पणे दण्डम् आह मनुः ( ८। २२२-२२३) ।

    क्रीत्वा विक्रीय वा किंचिद् यस्येहानुशयो भवेत् ।


    सो ऽन्तर्दशाहात् तद् द्रव्यं दद्याच् चैवाददीत वा ॥

[२४५] परेण तु दशाहस्य न दद्यान्नापि दापयेत् ।

	आददानो ददच् चैव राज्ञा दण्ड्यः शतानि षट् ॥

अनुशयो ऽत्र दोषदर्शनपूर्वकः पश्चात्तापः । दशाहग्रहणं पूर्वोक्तस्य परीक्षाकालस्योपलक्षणम् । सदोषम् अपि यद्य् उपभोगेन विकारं प्रापितं तर्हि परीक्षाकालमध्ये ऽपि न प्रतिदेयम् । अत एव नारदः ( क्रीता। ७) ।

    परिभुक्तं तु यद् वासः कृष्णरूपं मलीमसम् ।


    सदोषम् अपि तत् क्रीतं विक्रेतुर् न भवेत् पुनः ॥

वासोग्रहणम् उपलक्षणम् । एतत् सर्वम् अपरिभाषितविषयम् । यत्र तु परिभाषणम् अस्ति तत्र तदनुसारेणैव प्रतिदानतदभावादिकं ज्ञातव्यम् ।

इति श्रीकोदण्डपरशुरामे॥॥॥॥व्यवहारविवेकोद्द्योते

क्रीतानुशयाख्यव्यवहारपदनिरूपणम् ॥ २४॥

**पोस्सिब्ले रेअदिन्ग् ओफ़् थे देफ़ेच्तिवे तेxत्-

**श्रीकोदण्डपरशुरामेत्यादिविविधबिरुदावलीविराजमानमानोन्नत-महाराजाधिराजश्रीशक्तिसिंहात्मजमहाराजाधिराजश्रीमदनसिंहदेवविरचिते मदनरत्नप्रदीपे व्यवहारविवेकोद्द्योते **

क्रीतानुशयाख्यव्यवहारपदनिरूपणम् ॥२४॥

अथ विक्रीयासम्प्रदानाख्यं व्यवहारपदनिरूपणम् ।

तत्र तस्य स्वरूपं दर्शयति नारदः (विक्री । १ ) ।

    विक्रीय पण्यं मूल्येन क्रेतुर् यन् न प्रदीयते ।


    विक्रीयासंप्रदानं तद् विवादपदम् उच्यते ॥

विक्रेतव्यप्रकारभेदेन द्वैविध्यं षड्विधत्वं चाह स एव ( नारद, विक्री। २-३ ) ।

    लोके ऽस्मिन् द्विविधं पण्यं जङ्गमं स्थावरं तथा ।


    षड्विधस् तस्य तु बुधैर् दानादानविधिक्रमः ॥


    गणिमं तुलिमं मेयं क्रियया रूपतः श्रिया ।

दानं विक्रयः । आदानं क्रयः । गणयित्वा यस्य क्रयविक्रयौ तद् गणिमम् । एवं तुलिमादिकम् । गणिमम् आम्रफलादिकं तुलिमं कुङ्कुमसुवर्णचन्दनादिकं मेयं व्रीह्यादिकम् । क्रियया वाहनदोहनादिरूपया युक्तम् इति शेषः । रूपतः रूपेण युक्तं वस्तु । श्रिया दीप्त्या समन्वितं पुष्परागादिकम् । [२४६] गृहीतमूल्येन विक्रेत्रा याचमानाय क्रेत्रे विक्रीतस्याप्रदाने यत् कर्तव्यं तद् आह स एव ( नारद, विक्री। ४) ।

    विक्रीय पण्यं मूल्येन क्रेतुर् यो न प्रयच्छति ।


    स्थावरस्य क्षयं दाप्यो जङ्गमस्य क्रियाफलम् ॥

स्थावरं विक्रीतं क्षयसहितं दापनीयः । जङ्गमं तु क्रियाफलेन सहितम् इत्य् अर्थः । क्षयो ऽत्र विक्रयानन्तरं जात उपभोगः । क्रियाफलं दोहनादिक्रियाफलं क्षीरादिकम् । एतच् च विक्रयकालापेक्षयार्पणकाले मूल्याधिक्ये ज्ञातव्यम् । मूल्यहानौ त्व् आह स एव (नारद, विक्री। ५ ) ।

	अर्धश् चेद् अवहीयेत सोदयं पण्यम् आवहेत् ।

कल्पतरौ तु “अर्वाक् चेद् अपचीयेत” इति पाठः । अर्वाक् विक्रीतस्य क्रेतृसमर्पणात् पूर्वम् अपचीयेत हीनमूल्यं भवेत् सोदयं पण्यम् आवहेत् । विक्रयणकाले यावन् मूल्यं गृहीतं तावता मूल्येनार्पणकाले मूल्यह्रासवशाद् यावद् उपचयसहितं लभ्यते तावद् दद्याद् इत्य् अर्थः । यदा तु मूल्यसाम्यं तदा पण्योपचयरूपस्योदयस्यासंभवात्

    निक्षेपं वृद्धिशेषं च क्रय विक्रयम् एव च ।


    याच्यमानम् अदत्तं चेद् वर्धते पञ्चकं शतम् ॥

इति वचनोक्तवृद्धिसहितं पण्यं दाप्यः ( कात्या। ५०६ ) । तथा च याज्ञवल्क्यः (२। २५४) ।

    गृहीतमूल्यं यः पण्यं क्रेतुर् नैव प्रयच्छति ।


    सोदयं तस्य दाप्यो ऽसौ दिग्लाभं वा दिगागते। ॥

यस् तु देशान्तरात् क्रयणार्थम् आगत्य क्रीणाति तस्मै देशान्तरे तत्पण्यविऋये यो लाभस् तेन सहितं तत् पण्यं दापनीय इति दिग्लाभं वा दिग्रागते इत्य् अस्यार्थः । न केवलम् अर्घसाम्य एवैतद् देशान्तरलाभसहितपण्यदापनं किं तर्हि मूल्यस्य वृद्धौ क्षये ऽपि । अत एव नारदः (विक्री। ५) ।

	स्थायिनाम् एष नियमो दिग्लाभं दिग्विचारिणाम् ।

स्थायिनां विक्रेतृदेशस्थायिनाम् । एष नियमः स्थावरस्य क्षयं दाप्य इत्यादिवचनोक्तो नियम इत्य् अर्थः । विक्रेतुर् दण्डम् आह विष्णुः (५। १२६-७): “गृहीतमूल्यं यः पण्यं क्रेतुर् न दद्यात् तत् तस्यासौ सोदयं दाप्यो राज्ञा च पणशतं दण्ड्यः” । एतच् चानुशयरहित-दृप्तविक्रेतृविषयम् । यस् तु विक्रीयानुशयवशान् नार्पयति यश् च क्रीत्वानुशयवशाद् दत्तमूल्यं पण्यं न गृह्णाति तौ प्रत्य् आह कात्यायनः ( ६८३ ) ।

    क्रीत्वा प्राप्तं न गृह्णीयाद् यो न दद्याद् अदूषितम् ।


    स मूल्याद् दशभागं तु दत्त्वा स्वं द्रव्यम् आप्नुयात् ॥


    अप्राप्ते ऽर्थक्रियाकाले कृते नैव प्रदापयेत् ।


    एवं धर्मो दशाहात् तु परतो ऽनुशयो न तु ॥

अदूषितं जलादिनेति शेषः । अर्थक्रियाकालो दोह्यवाह्यादिरूपस्य पण्यस्य दोहनवाहनादिकालः । विक्रेत्रा क्रेतृयाचितेनासमर्पणे तस्य द्रव्यस्य राजदैवाद्युपघाते विक्रेतुर् एव हानिर् न तु क्रेतुर् इत्य् आह नारदः (विक्री। ६) ।

    उपहन्येत वा पण्यं दह्येतापह्रियेत वा ।


    विक्रेतुर् एव सो ऽनर्थो विक्रीयासंप्रयच्छतः ॥

याज्ञवल्क्यो ‘पि (२। २५६) ।

    राजदैवोपघातेन पण्ये दोषम् उपागते ।


    हानिर् विक्रेतुर् एवासौ याचितस्याप्रयच्छतः ॥

अत्र याचितस्येति विशेषणाद् याचनाभावे न विक्रेतुर् हानिः । विक्रेत्रा दीयमानस्य पण्यस्य क्रेत्रानुशयवशाद् अनुपादाने क्रेतुर् एव हानिर् इत्य् आह नारदः (विक्री। ९) ।

    दीयमानं न गृह्णाति क्रीतं पण्यं च यः क्रयी ।


    स एवास्य भवेद् दोषो विक्रेतुर् यो ऽप्रयच्छतः ॥

याज्ञवल्क्यो ‘पि (२। २५५) ।

	हानिश् चेत् क्रेतृदोषेण क्रेतुर् एव हि सा भवेत् ।

[२४८] क्रेतृदोषो दीयमानस्याग्रहणम् । क्रेतुर् हानिर् दन्तस्य मूल्यस्याभाव इत्य् अर्थः । क्रयानन्तरं यत्र क्रेत्रा न याचितं विक्रेत्रा च न समर्पितं जातश् च राजादिकृत उपघातस् तत्रोभयोर् अपि याचनानर्पणशैथिल्येन सापराधत्वसाम्यात् समा हानिः कल्पनीयेत्य् उक्तं स्मृतिचन्द्रिकायां देवणभट्टैः । अनुशयवशाद् दीयमानस्याग्रहणे विक्रीतस्याप्य् अन्यत्र विक्रये विक्रेतुर् नापराध इत्य् आह नारदः (विक्री। ९) ।

    दीयमानं न गृह्णाति क्रीत्वा पण्यं च यः क्रयी ।


    विक्रीणानस् तद् अन्यत्र विक्रेता नापराध्नुयात् ॥

याज्ञवल्क्यो ‘पि ( २। २५५ ) ।

	विक्रीतम् अपि विक्रेयं पूर्वक्रेतर्य् अगृह्णति ।

यो दुष्टवस्त्व् अदुष्टम् इत्य् उक्त्वा विक्रीणीते यो वा क्वचिद् विक्रीतं तत् क्रेत्रनुशयम् अन्तरेणाप्य् अन्यत्र विक्रीणीते तं प्रत्य् आह नारदः (विक्री। ७-८ ) ।

    निर्दोषं दर्शयित्वा तु सदोषं यः प्रयच्छति ।


    मूल्यं तद्द्विगुणं दाप्यो विनयं तावद् एव तु ॥


    तथान्यहस्ते विक्रीय यो ऽन्यस्मै तत् प्रयच्छति ।


    सो ऽपि तद्द्विगुणं दाप्यो विनयं तावद् एव तु ॥

याज्ञवल्क्यो ऽपि ( २। २५७ ) ।

    अन्यहस्ते च विक्रीतं दुष्टं वादुष्टवद् यदि ।


    विक्रीणीते दमस् तत्र मूल्यात् तु द्विगुणो भवेत् ॥

एतद् दुष्टस्यादुष्टत्वेन विक्रये द्विगुणदापनं तावद्दण्डाभिधानं च बुद्धिपूर्वकविक्रयविषयम् । अत एव बृहस्पतिः

    ज्ञात्वा सदोषं यः पण्यं विक्रीणीताविचक्षणः ।


    तद् एव द्विगुणं दाप्यस् तत्समं विनयं तथा ॥

अबुद्धिपूर्वकविक्रये तु परिवर्तनमात्रम् । क्वचिद् अन्यत्रापि क्रयपरावृत्तिम् आह स एव (कात्या। ६९२ )

[२४९] मत्तोन्मत्तेन विक्रीतं हीनमूल्यं भयेन वा ।

	अस्वतन्त्रेण मूढेन त्याज्यं तस्य पुनर् भवेत् ॥

अयं सर्वो ऽपि विधिर् दत्तमूल्ये पण्ये द्रष्टव्यः । यत्र पुनः क्रेत्रा मूल्यम् अदत्त्वा वाङ्मात्रेण क्रयः कृतः क्रयपरावृत्तिर् न कर्तव्येत्य् एवमादिरूपा परिभाषा वा न कृता तत्र प्रवृत्तौ निर्वृत्तौ वा न कश्चिद् दोषः । तथा च नारदः ( विक्री। १० ) ।

    दत्तमूल्यस्य पण्यस्य विधिर् एष प्रकीर्तितः ।


    अदत्ते ऽन्यत्र समयान् न विक्रेतुर् अतिक्रमः ॥

यत्र तु वाङ्मात्रक्रयो ऽयं मा भूद् इत्य् एतदर्थं क्रेत्रा विक्रेतुर् हस्ते किञ्चिद् दीयते तत्र विक्रेतृदोषात् क्रयासिद्धौ विक्रेत्रा क्रेत्रे तद् द्रव्यं द्विगुणं दातव्यम् । तथा च याज्ञवल्क्यः (२.६१) ।

	सत्यङ्कारकृतं द्रव्यं द्विगुणं प्रतिपादयेत् ।

सत्यङ्कारः सत्यापनं कृतस्य क्रयस्य सत्यताकरणम् इति यावत् । “क्लीबे सत्यापनं सत्यङ्कारः सत्याकृतिः स्त्रियाम्” इत्य् अमरसिंहेन्आभिधानात् । सत्यङ्काराय कृतं समर्पितं सत्यङ्कारकृतम् इत्य् अर्थः । क्रेतृदोषात् क्रयासिद्धौ त्व् आह व्यासः

    सत्यङ्कारं च यो दत्त्वा यथाकालं न दृश्यते ।


    पण्यं भवेन् निसृष्टं तद् दीयमानम् अगृह्णतः ॥

निसृष्टं भवेत् उत्सृष्टं भवेद् इत्य् अर्थः । न केवलम् अत्र पण्यमात्रोत्सर्गः किं तु दत्तसत्यङ्कारद्रव्यसहितस्योत्सर्गो ज्ञातव्यः । इतरथा दत्तसत्यङ्कारद्रव्यस्यापि वाङ्मात्रक्रयकर्तृतुल्यत्वेन तस्मै विक्रेतुः सत्यङ्कारद्रव्यग्राहकत्वकृतम् अन्यत्र विक्रयणाद्यपराधनिमित्तकं सत्यङ्कारद्रव्यस्य द्वैगुण्येन प्रतिदानं न स्यात् ॥

इति श्रीकोदण्डपरशुरामे ॥ । व्यवहारविवेकोद्द्योते

विक्रीयासंप्रदानाख्यव्यवहारपदनिरूपणम् ॥ २५ ॥

**पोस्सिब्ले रेअदिन्ग् ओफ़् थे देफ़ेच्तिवे तेxत्-

**श्रीकोदण्डपरशुरामेत्यादिविविधबिरुदावलीविराजमानमानोन्नत-महाराजाधिराजश्रीशक्तिसिंहात्मजमहाराजाधिराजश्रीमदनसिंहदेवविरचिते मदनरत्नप्रदीपे व्यवहारविवेकोद्द्योते **

विक्रीयासंप्रदानाख्यव्यवहारपदनिरूपणम् ॥२५॥

[२५०]

अथ स्वामिपालविवादाख्यव्यवहारपदनिरूपणम् ।

तस्य प्रतिपादनं प्रतिजानीते मनुः (८। २२९ ) ।

    पशुषु स्वामिनां चैव पालानां च व्यतिक्रमे ।


    विवादं संप्रवक्ष्यामि यथावद् धर्मतत्त्वतः ॥

गवादिपशुपालस्य भृतिपरिमाणं दर्शयति नारदः (वेत। १० ) ।

    गवां शताद् वत्सतरी धेनुः स्याद् द्विशते भृतिः ।


    प्रतिसंवत्सरं गोपे सन्दोहश् चाष्टमे ऽहनि ॥

वत्सतरी अतीतवत्सतावस्था द्विवर्षा गौर् इति यावत् । धेनुर् दोग्ध्री सवत्सेति यावत् । सन्दोहः सर्वासां गवां दोहः । गवां शते पाल्यमाने वत्सतरी शतद्वये पाल्यमाने धेनुः गोपालाय भृतित्वेन प्रतिसंवत्सरं देया । अष्टमे ऽहनि सन्दोहश् च देय इत्य् अर्थः । सन्दोहो धेन्वा सह समुच्चीयते न वत्सतर्या । अत एव बृहस्पतिः

	तथा धेनुभृतः क्षीरं लभेताह्न्य् अष्टमे ऽखिलम् ।

धेनुभृतः धेन्वा भृतः द्विशतपालक इत्य् अर्थः । कल्पतरुकारेण धेनुभृतो गोप इति व्याख्यातं तेन तन्मते वत्सतर्यापि सन्दोहस्य समुच्चय इति गम्यते । गोग्रहणं महिष्यादीनाम् अप्य् उपलक्षणम् । एतदनुसारेण न्यूनाधिकसंख्याकगवादिपालने भृतीयत्ता परिकल्पनीया । एतच् च भृतीयत्ताभिधानं परिभाषितभृतिविशेषाभावविषयम् । सति तु परिभाषणे तदनतिक्रमेण देयम् । प्रकारान्तरेण भृतिपरिमाणम् आह मनुः ( ८। २३१ ) ।

    गवां क्षीरभृतो यस् तु स दुह्याद् दशतो वराम् ।


    गोस्वाम्यनुमते भृत्यः सा स्यात् पाले ऽभृते भृतिः ॥

दशतः दशानां दोग्ध्रीणां मध्ये वराम् उत्कृष्टां तत्क्षीरभृतो भृत्यः गोपो दशद्रोग्ध्रीपालनकृत् भृत्यर्थं दुह्यात् । सैषा भृतिः प्राग्द्रव्यान्तरेण्आभृते सति भवति । यस् तु द्रव्यान्तरेण भृतस् तत्र तद् एव भृतिर् इत्य् अर्थः । एतदनुसारेण न्यूनाधिकसंख्याकगवादिपरिपालने भृतिः परिकल्पनीया । स्वामिनः पशुपालस्य प्रतिदिनं यत् कृत्यं तद् आह नारदः (वेत। ११ ) ।

[२५१] उपानयेद् गा गोपालः प्रत्यहं रजनीक्षये ।

	चीर्णाः पीताश् च ता गावः सायाह्ने प्रत्युपानयेत् ॥

चीर्णास् तृणादिकं भक्षितवतीः । पीता पीतवतीर् इत्य् अर्थः । गोग्रहणं पशुमात्रस्योपलक्षणम् । अत एव याज्ञवल्क्यः (२। १६४) ।

	यथार्पितान् पशून् गोपः सायं प्रत्यर्पयेत् तथा ।

यावन्तः प्रातः स्वामिना समर्पितास् तावन्तः पशुपालेन तस्मै प्रत्यर्पणीया इत्य् अर्थः । पशुपालदोषेण गवादेर् मरणादौ तेन स दातव्य इत्य् आह स एव (य्ध् २.१६४ ) ।

	प्रमादमृतनष्टांश् च प्रदाप्यः कृतवेतनः ।

नष्टाः हृताः । प्रमादनाशश् च स्पष्टीकृतो मनुना (८। २३२) ।

    दष्टं नष्टं च कृमिभिः श्वहतं विषमे मृतम् ।


    हीनं पुरुषकारेण प्रदद्यात् पाल एव तु ॥

श्वहतं शुना हतम् । विषमे दुर्गमप्रदेशे । पुरुषकारः पुरुषप्रयत्नः । यत् पुरुषकारेण हीनं सन् नाशादिकं प्राप्तं तद् दातव्यम् इत्य् अर्थः । पुरुषकारश् च दर्शितो बृहस्पतिना

    कृमिचोरव्याघ्रभयाद् दरीश्वभ्राच् च पालयेत् ।


    व्यायच्छेच् छक्तितः क्रोशेत् स्वामिने वा निवेदयेत् ॥

व्यायच्छेत् व्यसननिरासाय प्रयतेतेत्य् अर्थः । पुरुषकाराकरणे दण्ड्यत्वम् अप्य् आह नारदः ( वेत। १२ - १३ ) ।

    स्याच् चेद् गोव्यसनं गोपो व्यायच्छेत् तत्र शक्तितः ।


    अशक्तस् तूर्णम् आगम्य स्वामिने तन् निवेदयेत् ॥


    अव्यायच्छन्न् अविक्रोशन् स्वामिने चानिवेदयन् ।


    वोढुम् अर्हति गोपस् तं विनयं चैव राजनि ॥

तं गवादिकम् । नष्टगवादिदानं च मूल्यद्वारेण ज्ञातव्यम् । अत [२५२] एव विष्णुः (५.१३७-१३८): “दिवा पशूनां वृकाद्युपघाते पाले त्व् अनायति पालकदोषो विनष्टपशुमूल्यं स्वामिने दद्यात्” इति । अनायति अनागच्छति । दण्डे द्रव्यप्रमाणम् आह याज्ञवल्क्यः ( २। १६५ ) ।

    पालदोषविनाशे तु पाले दण्डो विधीयते ।


    अर्धत्रयोदशपणः स्वामिने द्रव्यम् एव च ॥

अर्धत्रयोदशपणः अर्धरहितत्रयोदशपणः सार्धद्वादशपण इत्य् अर्थः । क्तास् तृतीयापूर्वपदाः समानाधिकरणेन समस्यन्त उत्तरपदलोपश् चेति वार्तिककारवचनाद् उत्तरपदलोपी कर्मधारयः । यत् तु कैश्चिद् अर्घाधिकत्रयोदशपणो दण्ड इत्य् उक्तं तद् अनादृत्यं सार्धद्विमात्रादिषु महाभाष्यकारादीनाम् अर्धत्रिमात्रादिशब्दप्रयोगस्य दर्शनात् । क्वचित् पशुपालस्य दोषाभावम् आह मनुः ( ८। २३३) ।

    विघुष्य तु हृतं चौरैर् न पालो दातुम् अर्हति ।


    यदि देशे च काले च स्वामिनः स्वस्य शंसति ॥

विघुष्य शृङ्गकाहलवेण्वादिभिर् घोषं कृत्वा । देशे स्वाम्यवस्थानदेशे काले अपहरणकालाव्यवहितकाले । स एव (मनु ८। २३५-३६ ) ।

    अजाविके तु संरुद्धे वृकैः पाले त्व् अनायति ।


    यां प्रसह्य वृको हन्यात् पाले तत् किल्बिषं भवेत् ॥


    तासां चेद् अवरुद्धानां चरन्तीनां मिथो वने ।


    याम् उत्प्लुत्य वृको हन्यान् न पालस् तत्र किल्बिषी ।

सुगस्थलस्थितानां पशुव्यक्तीनां वृकाद्यपघाते पुरुषप्रयत्नाकरणे पशुपालो दोषवान् इत्य् आद्यश्लोकस्यार्थः । दुर्गमस्थलस्थितानां तूपघाते पुरुषप्रयत्नस्य कर्तुम् अशक्यत्वान् न दोषवान् इति द्वितीयश्लोकस्यार्थः । व्यासो ऽपि ।

	पालग्राहे ग्रामघाते तथा राष्ट्रस्य विभ्रमे ।

	यत् प्रनष्टं हृतं वा स्यान् न पालस् तत्र किल्बिषी ॥

**[२५३] **गृहीतवेतनस्य पशुपालस्य दुर्गमे वने पशूंस् त्यक्त्वोपेक्षया गृहे ऽवस्थाने तु दण्ड उक्तो ब्रह्मपुराणे

    गृहीतमूल्यो गोपालस् तांस् त्यक्त्वा निर्जने वने ।


    ग्रामचारी नृपैर् वध्यः शलाकी च वनेचरः ॥

शलाकी नापित इति व्याख्यातं कल्पतरौ । क्वचित् स्वामिनो ऽपि दण्ड्यत्वम् उक्तं तत्रैव

    गोपालहस्तसक्ता गौस् तद्दोषान् म्रियते यदि ।


    तदा स एव दण्ड्यस् तु शुल्कं दाप्यस् तु गोपतेः ॥


    यदा रोगादिदोषेण म्रियते गौर् गृहे क्वचित् ।


    तदा स गोपतिर् दण्ड्यो दत्त्वा गोपालवेतनम् ॥

रोगादिदोषेण स्वामिनोपेक्षया चिकित्साया अकरणे इति शेषः । गोग्रहणम् अत्र सर्वत्र पशुमात्रस्योपलक्षणं ज्ञातव्यम् । अत एव गोपाले ऽभिहितं विधिं सर्वेषु पशुपालेष्व् अतिदिशति नारदः ( वेत। १७ ) ।

	अनेन सर्वपालानां विवादः समुदाहृतः । इति ।

दैवात् पशूनां मरणे तत्पालस्य निर्दोषत्वोपायम् आह स एव ( वेत। १७ ) ।

	मृतेषु च विशुद्धिः स्याद् वालशृङ्गादिदर्शनात् ।

मृतेषु च हिरिति (बहिरिति ?) शेषः । आदिशब्देन कर्णादीनाम् उपसंग्रहः । अत एव मनुः ( ८। २३४ ) ।

    कर्णौ चर्म च वालांश् च बस्ति स्नायुं च रोचनाम् ।


    पशुस्वामिषु दद्यात् तु मृतेष्व् अङ्काभिदर्शने ॥

क्वचिद् “अङ्कादि दर्शयेद्” इति पाठः । अङ्कः शृङ्गकर्णादिरूपं चिह्नम् । आद्इशब्देन साक्षिणाम् उपादानम् । मृतेषु पशुषु अङ्कादिकं स्वामिने दर्शयेद् रोचनादिकं सप्रयोजनं तत् तस्मै दद्याच् चेत्य् अर्थः । ग्रामादिषु गवादिप्रचरणार्थम् अकृष्टः कश्चिद् भागः परिकल्पनीय इत्य् आह याज्ञवल्क्यः ( २। १६६ ) ।

	ग्रामेच्छया गोप्रचारो भूमिराजवशेन वा ।

[२५४] ग्रामेच्छया ग्रामीणजनेच्छया भूमिवशेन भूम्यल्पत्वमहत्त्वापेक्षया । राजवशेन राजेच्छया वा गोप्रचारो गवादीनां गमनागमनसौकर्यार्थ परिकल्पनीय इत्य् अर्थः । गवां स्थानासनसौकर्यार्थं ग्रामम् अभितो ऽपरं स्थानम् अकृष्टं क्षेत्रग्रामान्तरालरूपं कल्पनीयम् इत्य् आह स एव (य्ध्। २.१६७) ।

    धनुःशतं परीणाहो ग्रामक्षेत्रान्तरं भवेत् ।


    द्विशतं खर्वटस्य स्यान् नगरस्य चतुःशतम् ॥

परीणाहशब्देनात्र सर्वासु दिक्ष्व् अनुप्तसस्यं स्थलं गृह्यते । एतादृशं धनुःशतपरिमितं ग्रामक्षेत्रयोर् अन्तरं कार्यम् । खर्वटस्य शतद्वयपरिमितं नगरस्य शतचतुष्टयपरिमितम् इत्य् अर्थः । खर्वटो ऽनेककारुकृषीवलयुक्तो ग्रामः । प्रचुरकण्टकसन्तानो ग्रामः खर्वट इति केचित् । परिहारदेशसंनिहितक्षेत्रानावरणे गवादिभिः क्षेत्रोपघाते पशुरक्षिणाम् अदण्ड्यत्वाभिधानात् क्षेत्रं कण्टकादिभिर् आवृतं कर्तव्यम् । अत एव मनुः ( ८.२३७, २३८ ) ।

    धनुःशतं परीहारो ग्रामस्य स्यात् समन्ततः ।


    तत्रापरिवृतं धान्यं विहिंस्युः पशवो यदि ।


    न तत्र प्रणयेद् दण्डं नृपतिः पशुरक्षिणाम् ॥

परीहारः अनुप्तप्रदेशः । एतेनावृतक्षेत्रोपघाते पशुरक्षिणां दण्ड इत्य् उक्तं भवति । आवरणं च निबिडं सस्योत्पत्तेः प्राग् एव कर्तव्यम् । तथा च कात्यायनः (६६६ ) ।

    अजातेष्व् एव सस्येषु कुर्याद् आवरणं महत् ।


    दुःखेन विनिवार्यन्ते लब्धस्वादुरसा मृगाः ॥

मृगग्रहणम् उपलक्षणम् । नारदः ( सीमा। ४१ ) ।

    पथि क्षेत्रे वृतिः कार्या याम् उष्ट्रो नावलोकयेत् ।


    न लङ्घयेत् पशुर् न श्वा न भिन्द्याद् यां च शूकरः ॥

वृतिर् आवरणम् । पथि क्षेत्रे मार्गसंनिहिते क्षेत्रे । एतद् **[२५५] **ग्रामादिसमीपवर्तिक्षेत्रस्याप्य् उपलक्षणम् । आवरणे कथंचित् स्थितं छिद्रं पुनः कण्टकादिना पूरणीयम् । तथा च मनुः ( ८। २३९ ) ।

    वृतिं च तत्र कुर्वीत याम् उष्ट्रो नावलोकयेत् ।


    छिद्रं वा पूरयेत् सर्वं श्वसूकरमुखानुगम् ॥ इति ।

कृतम् आवरणम् अप्य् अतिक्रम्य पशुभिः सस्यनाशे कृते यत् कर्तव्यं तद् आह स एव (मनु ८। २४० ) ।

    पथि क्षेत्रे परिवृते ग्रामान्तीये ऽथ वा पुनः ।


    सपालः शतदण्डार्हो विपालं वारयेत् पशुम् ॥

ग्रामान्तीये ग्रामसमीपवर्तिनि । सपालः पशुः पणशतदण्डार्हस् तत्पशुपालः शतं दण्डनीय इत्य् अर्थः । विपालः पशुर् लकुटादिना ताडयित्वा कर्णादिषु गृहीत्वा वा निवारणीय इत्य् अर्थः । अत एव कात्यायनः ( ६६४ ) ।

    क्षेत्रारामविवीतेषु गृहेषु पशुवाटिषु ।


    ग्रहणं तत्प्रविष्टानां ताडनं च बृहस्पतिः ॥

विवीतशब्देनान्यपरिगृहीतस् तृणकाष्ठप्रदेशो गृह्यते । पशुवाटिषु गोष्ठादिषु । ग्रहणं वत्सादिविषयम् । ताडनं स्थूलवृषभादिविषयम् । ताडनं च निवारणार्थाद् अधिकं न कर्तव्यम् । अत एवोक्तं तेनैव (कात्या। ६६५) ।

    अधमोत्तममध्यानां पशूनां चैव ताडने ।


    स्वामी तु विवदेद् यत्र दण्डं तत्र प्रकल्पयेत् ॥

यत्रान्याय्ये ताडने स्वामी विवदेत तत्र राजा ताडयितारं दण्डयेद् इत्य् अर्थः । सपालेन विपालेन च पशुना सस्याद्युपघाते कृते पशुस्वामिना क्षेत्रस्वामिने पशुभक्षितसस्यादिमूल्यं दातव्यम् । तथा चाग्रे वक्ष्यते । आवरणातिक्रमेण पशुना सस्यनाशे कृते पशुपालस्य यो दण्ड उक्तः स तेन पशावनिवार्यमाणे वेदितव्यः । तथा च नारदः ( सीमा। २८) ।

[२५६] उत्क्रम्य तु वृतिं यः स्यात् सस्यघातो गवादिभिः ।

	पालः शास्यो भवेत् तत्र न चेच् छक्तो निवारयेत् ॥

आवरणाभावेनापरिहार्ये सस्योपघाते ऽपि न पालकस्य दण्डस् तत्रापरिवृतं धान्यम् इति पूर्वोदाहृतमनुवचनात् (मनु ८। २३८ ) । अमुम् अर्थं नारदो ‘प्य् आह ( सीमा। ४० ) ।

    ग्रामोपान्ते च यत् क्षेत्रं विवीतान्ते महापथे ।


    अनावृतं चेत् तन्नाशे न पालस्य व्यतिक्रमः ॥

पालस्य तं नाशम् अजानानस्येति विशेषः । अत एव याज्ञवल्क्यः ( २.१६२ ) ।

    पथि ग्रामविवीतान्ते क्षेत्रे दोषो न विद्यते ।


    अकामतः कामचारे चोरवद् दण्डम् अर्हति ॥ इति ।

पथि ग्रामविवीतान्ते मार्गादिप्रत्यासन्ने । एतच् चादीर्घकालप्रचारविषयम् । दीर्घकालप्रचारे ऽजानानस्यापि पशुरक्षणे सावधानत्वाभावेनापराधित्वाद् भवत्य् एव दण्डः । अत एव विष्णुः (५.१४६,१४८ ): “पथि ग्रामविवीतान्ते न दोषो ऽल्पकालम्” इति । अमतिपूर्वके ऽल्पकालप्रचारे यथा न पशुपालस्य दण्डस् तथा सपालस्य विपालस्य च पशोः स्वामिना न सस्यादिमूल्यं दातव्यम् । तस्यापि प्रचारस्यापरिहार्यतया दोषाभावात् । यत् तु,

	सर्वत्र तु सदो देयः क्षेत्रिकस्येति धारणा ।

इति मनुवचनं ( ८.२४१ ), तद् एतद्व्यतिरिक्तविषयम् । सर्वत्र सपाले च विपाले च पशौ । सदः क्षेत्रफलम् । अनावृतक्षेत्रेषु यत्र दोषाभाव उक्तस् तद्वयतिरिक्तविषये दण्डम् आह मनुः ( ८.२४१ ) ।

	क्षेत्रेष्व् अन्येषु तु पशुः सपादं पणम् अर्हति ।

अन्येषु “पथि क्षेत्रे परिवृते” इति पूर्वोक्तावृतमार्गादिप्रत्यासन्नक्षेत्रव्यतिरिक्तेषु । पालकस्वामिनोर् दण्ड्यत्वे वक्तव्ये पशोर् दण्ड्यत्वाभिधानं पशुबहुत्वे प्रतिपशूक्तदण्डप्राप्त्यर्थम् । पशुशब्देनात्र पालकः स्वामी वा **[२५७] **गृह्यते । तत्र सपाले पशौ पालको दण्ड्यः, अपाले तु स्वामीति व्यवस्था । अत एव गौतमः (१२.१६ - १७ ): “पशुपीडने स्वामिदोषः पालसंयुक्ते तु तस्मिन्” इति । नारदो ऽपि ( सीमा। ३५ ) ।

    नष्टा या पालदोषेण गौः क्षेत्रं तु विनाशयेत् ।


    न तत्र स्वामिनो दण्डः पालस् तद्दण्डम् अर्हति ॥

पालकस्याभावे भावे वा क्षेत्रफलदानं तु स्वामिन एव । तथा च स एव (नारद, सीमा।३८ ) ।

    गोभिस् तु भक्षितं सस्यं यो नरः प्रतियाचते ।


    सामन्तानुमतं देयं धान्यं यत् तत्र वापितम् ॥

यत् तु सपाले ऽपि पशौ स्वामिनो दण्ड्यत्वप्रतिपादकं,

    सस्यान् निवारयेद् गास् तु चीर्णे दोषो द्वयोर् भवेत् ।


    स्वामी सददमं दाप्यः पालस् ताडनम् अर्हति ॥

इति बृहस्पतिवचनं, सदश् च दमश् च सददमं, यच् च

	यावत् सस्यं विनश्येत् तु तावत् स्यात् क्षेत्रिणः फलम् ।

	गोपस् ताड्यश् च गोमी तु पूर्वोक्तं दण्डम् अर्हति ॥

इति य्आज्ञवल्क्यवचनं ( २। १६१ ), तावत् क्षेत्रिणः फलं गोमिना दातव्यं स्याद् इति शेषः । गोमी पशुस्वामी । तद् एतद् वचनद्वयम् अपि समूलसस्यनाशविषयम् । तथा च नारदः ( वेत। २९ )

    समूलसस्यनाशे तु तत्स्वामी प्राप्नुयात् सदम् ।


    वधेन गोपो मुच्येत दण्डं स्वामिनि पातयेत् ॥

तत्स्वामी सस्यस्वामी । सदं प्राप्नुयात् पशुस्वामिन इति शेषः । वधो ऽत्र कशादिना ताडनम् । पूर्वोक्तम् इति परामृष्टपशुविशेषविषयो दण्डो दर्शितो याज्ञवल्क्येनइव ( २। १५९ - १६० ) ।

    माषान् अष्टौ तु महिषी सस्यघातस्य कारिणी ।


    दण्डनीया तदर्धं तु गौस् तदर्धम् अजाविके ॥

[२५८] भक्षयित्वोपविष्टानां यथोक्ताद् द्विगुणो दमः ।

	समम् एषां विवीते ऽपि खरोष्ट्रं महिषीसमम् ॥

महिष्याः स्वामी अष्टौ माषान् दण्ड्यो गोस्वामी तु चतुरश् छागस्वामी तु द्वौ मेषस्वामी तु द्वौ । एषां पशूनाम् अनिवारितानां भक्षयित्वा तत्रैव शयितानां स्वामी यथोक्ताद् दण्डाद् द्विगुणं दण्डं ग्राह्यः । विवीतस्थतृणाद्युपघाते ऽपि सस्योदघातवद् दण्डनीयाः । खरस्वाम्य् उष्ट्रस्वामी च महिषीस्वामिवद् दण्डनीयः । पशुस्वामिनो दण्डे वक्तव्ये महिषीत्यादिपदोपादानं मानवपशुशब्दोपादानवत् प्रतिपशु दण्डो ग्राह्य इत्य् एवमर्थम् । सवत्सानां महिष्यादीनां भक्षयित्वोपविष्टानां स्वामी चतुर्गुणं दण्डं दद्यात्,

	वसतां द्विगुणः प्रोक्तः सवत्सानां चतुर्गुणः ।

इति वचनात् । अत्रापराधानुसारेण दण्डस्योचितत्वात् ताम्रिक एव माषो ग्राह्यो न तु सौवर्णो राजतो वेत्य् उक्तं स्मृतिचन्द्रिकायाम् । माषः कर्षपरिमितस्य कार्षापणस्य षोडशो भागः । अयम् एव पलस्य पञ्चसुवर्णपरिमितत्वपक्षे पलचतुर्थांशस्य विंशतिमाषात्मकस्य कार्षापणस्य,

	माषो विंशतिमो भागः पणस्य परिकीर्तितः ।

इति नारदेन्ओक्तो (परिशिष्ट ५८ ) विंशो भागो ऽपि भवति । एतेनोभयथाप्य् अर्थभेदाभावाद् यत् कैश्चिद् उक्तं

    संख्या रश्मिरजोमूला **मनुना** समुदाहृता ।


    कार्षापणान्ता सा दिव्ये नियोज्या विनये तथा ॥

इति बृहस्पतिवचनविरोधान् नारदोक्तो विंशो भागो नाश्रयणीयः किं तु मनूक्तः षोडशो भाग एवाश्रयणीय इति तद् अपास्तम् । यस् तु “सपादं पणम् अर्हति” इति मनूक्तो ( ८। २४१ ) दण्डः स बुद्धिपूर्वकविषयः, याज्ञवल्क्य्ओक्तो दण्डस् त्व् अबुद्धिपूर्वकविषय इति न विरोधः । यत् तु पालस्य दण्ड्यत्वप्रतिपादकं विष्णुवचनं (५। १४० - १४१ ) “महिषी चेत् सस्यावघातं कुर्यात् पालस् त्व् अष्टौ माषान् दण्ड्यो ऽपालायां स्वामी” **[२५९] **इति तद् अपि समूलसस्योपघातविषयम् अन्यतरदण्डस्याल्पापराध एवोचितत्वात् । यत् तु स्मृत्यन्तरं

    पणस्य पादौ द्वौ गां तु द्विगुणं महिषीं तथा ।


    तथाजाविकवत्सानां पादो दण्डः प्रकीर्तितः ॥

इति तद् भक्षयित्वोपविष्टा ये गवादयस् तद्विषयम् । यत् तु

    माषं गां दापयेद् दण्डं द्वौ माषौ महिषीं तथा ।


    तथाजाविकवत्सानां दण्डः स्याद् अर्धमाषकः ॥

इति नारदवचनं ( सीमा। ३१ ) तन् मुहूर्तमात्रभक्षणविषयम् । अत एवोक्तं शङ्खलिखिताभ्यां “रात्रौ चरन्ती गौः पञ्च माषान् दिवा त्रीन् मुहूर्ते माषं ग्रासे त्व् अदण्डः” इति । ग्रासे कवलमात्रभक्षणे । अत्र याज्ञवल्क्योक्तदण्डापेक्षया पञ्च त्रीन् इति न्यूनाधिकदण्डाभिधानम् अपराधतारतम्यानुसारेण व्यवस्थापनीयम् । एतद् अपुरःस्थितपालकविषयम्, प्रत्यक्षचारकाणां तु “चौरदण्डः स्मृतो बुधैः” इति नारदवचनात् । पशुविषये क्वचिद् दण्ड्यत्वम् आह नारदः ( सीमा। ३६-३७ ) ।

    राजग्रहगृहीतो वा वज्राशनिहतो ऽपि वा ।


    अथ सर्पेण वा दष्टो वृक्षाद् वा पतितो भवेत् ॥


    व्याघ्रादिभिर् हतो वापि व्याधिभिर् वाप्य् उपद्रुतः ।


    न तत्र दोषः पालस्य न च दोषो ऽस्ति गोमिनाम् ॥

याज्ञवल्क्यः (२। १६३ ) ।

    महोक्षोत्सृष्टपशवः सूतिकागन्तुकादयः ।


    पालो येषां न ते मोच्या दैवराजपरिप्लुताः ॥

महोक्षो दृप्तो वृषभः । उत्सृष्टपशवः वृषोत्सर्गादिविधानेन देवतोत्सर्गेण त्यक्ताः । सूतिका प्रसूता अनिर्दशाहा । आगन्तुकः **[२६०] **स्वयूथात् परिभ्रष्टः सन्देशान्तरात् समागतः । आदिशब्दाद् हस्त्यादीनां ग्रहणम् । येषां पालको नास्ति ते ऽपि दैवराजोपहताः सस्यादिनाशकारिणो न दण्ड्या इत्य् अर्थः । मनुः (८.२४२ ) ।

    अनिर्दशाहां गां सूतां वृषं देवपशूंस् तथा ।


    सपालान् वा विपालान् वा अदण्ड्यान् **मनुर्** अब्रवीत् ॥

देवपशवः देवालयेषु देवोपभोगार्थं स्थापिताः पशवः । नारदः ( सीमा। ३० ) ।

    गौः प्रसूता दशाहं तु महोक्षा वाजिकुञ्जराः ।


    निवार्याः स्युः प्रयत्नेन तेषां स्वामी न दण्डभाक् ॥

स्वामिग्रहणम् अत्र पालस्याप्य् उपलक्षणम् । वाजिशब्देनात्र प्रजारक्षणार्थं स्थापिता राजकीया अश्वा गृह्यन्ते । अत एव्ओशना

    अदण्ड्या हस्तिनो ऽश्वाश् च प्रजापाला हि ते स्मृताः ।


    अदण्ड्याः काणकूटाश् च वृषाश् च कृतलक्षणाः ॥


    अदण्ड्यागन्तुका गौश् च सूतिका चाभिसारिणी ॥ इति ।

कूटाः एकशृङ्गाः । कृतलक्षणाः प्रतप्तायसेन कृतचिह्नाः । अभिसारिणी स्वयूथात् प्रच्युता पुनः स्वयूथाभिगामिनी । यत् तु,

    महिषी चेत् सस्यनाशं कुर्यात् पालकस् त्व् अष्टौ माषान् दण्ड्यो ऽपालकायाः स्वामी अश्वस् तूष्ट्रो गर्दभो वा गौश् चेत् तदर्धं तदर्धम् अजाविकं चेद् भक्षयित्वोपविष्टेषु द्विगुणम् ।

इत्य् अश्वानां दण्ड्यत्वप्रतिपादकं विष्णुवचनं (५ । १४०-१४५), तद् वणिगादिभिर् विक्रयाद्यर्थं स्थापिता ये अश्वास् तद्विषयम् । शङ्खलिखितौ: “अश्वतरगजवाजिनश् चादण्ड्या अवश्यं च शनैर् अपवार्याः” । उत्सवे श्राद्धदिने च सर्वासाम् अपि गवाम् अदण्ड्यत्वम् आह्ओशना

	अदण्ड्याश् चोत्सवे गावः श्राद्धकाले तथैव च ।

श्राद्धकालादौ गोभिर् उपभुक्तम् अतिशयेन श्रेयस्करं भवतीत्य् अभिप्रेत्याह व्यासः

[२६१] आक्रम्य च द्विजैर् भुक्तं परिक्षीणैश् च बान्धवैः ।

    गोभिश् च नरशार्दूल वाजपेयाद् विशिष्यते ॥

श्राद्धकालादौ गोभिर् भक्षितं यदि तत्स्वामी याचते तदा दोषम् आह्ओशना

    गोभिर् विनाशितं धान्यं यो नरः प्रतियाचते ।


    पितरस् तस्य नाश्नन्ति नाश्नन्ति त्रिदिवौकसः ॥

एतद् व्यवहारपदम् उपसंहरति मनुः ( ८। २४४ ) ।

    एतद् विधानम् आतिष्ठेद् धार्मिकः पृथिवीपतिः ।


    स्वामिनां च पशूनां च पालानां च व्यतिक्रमे ।

इति श्रीकोदण्डपरशुरामे॥। व्यवहारविवेकोद्द्योते

स्वामिपालविवादाख्यव्यवहारपदनिरूपणम् ॥२६॥

**पोस्सिब्ले रेअदिन्ग् ओफ़् थे देफ़ेच्तिवे तेxत्-

**श्रीकोदण्डपरशुरामेत्यादिविविधबिरुदावलीविराजमानमानोन्नत-महाराजाधिराजश्रीशक्तिसिंहात्मजमहाराजाधिराजश्रीमदनसिंहदेवविरचिते मदनरत्नप्रदीपे व्यवहारविवेकोद्द्योते **

स्वामिपालविवादाख्यव्यवहारपदनिरूपणम् ॥२६॥

अथ सीमाविवादाख्यव्यवहारपदनिरूपणम् ।

तत्र मन्वाद्युक्तसीमाशब्दस्योपलक्षणत्वम् अभिप्रेत्य क्षेत्रजो विवाद इत्य् उद्दिश्य तत्स्वरूपं दर्शितं नारदेन ( सीमा। १ ) ।

    सेतुकेदारमर्यादा विकृष्टाकृष्टनिश्चयः ।


    क्षेत्राधिकारो यत्र स्याद् विवादः क्षेत्रजस् तु सः ॥

सेतुर् जलप्रवाहबन्धः । केदारं क्षेत्रं तन्मर्यादा सीमा विकृष्टो लाङ्गलप्रर्हतो देशः । अकृष्टस् तद्रहितः खिल इति यावत् । एतेषां निश्चयो यत्र विवादे स्यात् स क्षेत्राधिकारः क्षेत्रविषयको **विवादः क्षेत्रज **इत्य् उच्यत इत्य् अर्थः । अयं च विवादः षट्प्रकारो भवतीत्य् आह कात्यायनः ( ७३२ ) ।

    आधिक्यं न्यूनता वांशे अस्तिनास्तित्वम् एव च ।


    अभोगभुक्तिः सीमा च षड् विवादस्य हेतवः ॥

ममेतोऽधिका भूर् अस्तीत्युक्ते नेति विवाद आधिक्यविवादः । एतावती भूस् तव नेत्य् उक्ते ममैतावतीति यो विवादः स न्यूनताविवादः । अत्र [२६२] ममांशो ऽस्तीत्य् उक्ते नेति यो विवादः सो ऽस्तित्वविवादः । अत्र तवांशो नास्तीत्य् उक्ते विद्यत इत्य् एवंविधो विवादो नास्तित्वविवादः । मामिका भूस् त्वया प्राग् अभुक्तेवेदानीं भुज्यत इत्य् उक्ते प्राग् अपि मयेयं भूर् भुक्तेत्य् एवंविधो विवादो भोगभुक्तिविवादः । इयं मर्यादा मामिकाया भुव इत्य् उक्ते नेति विवादः सीमाविवादः । इति षड्विधो विवाद इत्य् अर्थः । सीमा चतुर्विधा देशसीमा ग्रामसीमा क्षेत्रसीमा गृहसीमा चेति । तस्याश् चतुर्विधाया अपि यथासम्भवं पञ्चविधत्वम् आह नारदः

    ध्वजिनी मत्स्यिनी चैव नैधानी भयवर्जिता ।


    राजशासननीता च सीमा पञ्चविधा स्मृता ॥

ध्वजिनी वृक्षादिचिह्नयुता । मत्स्यिनी जलचिह्नयुक्ता । नैधानी निखाततुषाङ्गारादि लक्षिता । भयवर्जिता वादिप्रतिवादिनोर् मिथः संप्रतिपत्त्या कृता । राजशासननीता सीमालिङ्गानां सीमापरिज्ञातॄणाम् अभावे राज्ञा कृता । ध्वजिन्यादीनां स्वरूपं सीमाया भेदान्तरं च दर्शितं व्यासेन

    निम्नोन्नता च ध्वजिनी नैधानी राजकारिता ।


    स्थिरा पञ्चविधा सीमा मत्स्यिनी तु चला स्मृता ॥


    ग्रामयोर् उभयोर् यत्र गर्तः सीमाप्रवर्तकः ।


    निम्नोपलक्षिता सा तु शास्त्रविद्भिर् उदाहृता ॥


    शरकुब्जकवल्मीका यत्र देवगृहाणि च ।


    अश्मकूटाश् च दृश्यन्ते ज्ञेया सा तु समुन्नता ॥


    ग्रामयोर् उभयोः सीम्नि वृक्षा यत्र समुन्नताः ।


    समुच्छ्रिता ध्वजाकारा ध्वजिनी सा प्रकीर्तिता ॥


    इष्टकाङ्गारसिकता शर्करास्थिकपालिकाः ।


    निहिता यत्र दृश्यन्ते नैधानी सा प्रकीर्तिता ॥

[२६३] साक्ष्यभावे द्वयोर् यत्र प्रभुणा परिकल्पिता ।

    सामन्तानुमता सीमा ज्ञेया सा राजकारिता ॥


    स्वच्छन्दगा बहुजला झषकूर्मसमन्विता ।


    नित्यप्रवाहिणी या स्यात् सीमा सा मत्स्यिनी मता ॥

सीमालिङ्गानि ग्रामादिप्रवेशकाले कर्तव्यानीत्य् आह बृहस्पतिः

    निवेशकाले कर्तव्यः सीमाबन्धविनिश्चयः ।


    प्रकाशोपांशुचिह्नैश् च लक्षितः संशयापहः ॥

बध्यते ऽयम् इति बन्धः सीमायां बन्धः सीमाबन्धः । विनिश्चीयते ‘नेनेति विनिश्चयः सीमाबन्धश् चासौ विनिश्चयश् च सीमाबन्धविनिश्चयः प्रकटगुप्तचिह्नसहितः सीमानिर्णयहेतुः स्थलगुडकः सीमायां कर्तव्य इत्य् अर्थः । प्रकाशगुप्तचिह्नानि दर्शयति स एव

    वापीकूपतडागानि चैत्यारामसुरालयाः ।


    स्थलनिम्ननदीस्रोतःशरगुल्मनगादयः ॥


    प्रकाशचिह्नान्य् एतानि सीमायां कारयेत् सदा ।


    अश्मानो ऽस्थीनि गोवालास् तथा भस्मकपालिकाः ॥


    करीषम् इष्टकाङ्गाराः शर्करा वालुकास् तथा ।


    यानि चैवंप्रकाराणि कालाद् भूमिर् न भक्षयेत् ॥


    तानि सन्धिषु सीमाया अप्रकाशानि कारयेत् ।

चैत्यम् इष्टकादिभिर् विरचितं चत्वरादिकम् । स्थलम् उन्नतो भूप्रदेशः । निम्नं परिखा । नगा अश्वत्थादयो वृक्षाः ।

    सीमावृक्षांस् तु कुर्वीत न्यग्रोधाश्वत्थकिंशुकान् ।


    शाल्मलीशालतालांश् च क्षीरिणश् चैव पादपान् ॥


    गुल्मान् वेणूंश् च विविधाञ् शमीवल्लीस्थलानि च ।

इति मनुस्मरणात् (८। २४६ - २४७ ) । आदिशब्देन मार्गादीनां ग्रहणम् । अस्थीनि पश्वाद्यस्थीनि । गुप्तचिह्नानां स्थापनप्रकारम् आह स एव

[२६४] करीषास्थितुषाङ्गारशर्कराश्मकपालिकाः ।

    सिकतेष्टकगोवालकार्पासास्थीनि भस्म च ॥


    प्रक्षिप्य कुम्भेष्व् एतानि सीमान्तेषु निधापयेत् ।

कार्पासास्थिईनि कार्पासबीजानि । एतानि लिङ्गानि विवेकोद्गमयुक्ता बाला वृद्धैर् ज्ञापनीया इत्याह स एव

    ततः पोगण्डबालानां प्रयत्नेन प्रदर्शयेत् ।


    वार्द्धके च शिशूनां ते दर्शयेयुस् तथैव च ॥


    एवं परम्पराज्ञाने सीमाभ्रान्तिर् न जायते ।

प्रदर्शयेत् इति छान्दसं बहुत्वे एकवचनम् । एतेषां सीमालिङ्गानां कथंचिद् अभावे निर्णयोपायम् आह नारदः ( सीमा। ६ ) ।

    निम्नगापहृतोत्सृष्टनष्टचिह्नासु भूमिषु ।


    तत्प्रदेशानुमानैश् च प्रमाणैर् भोगदर्शनैः ॥

निम्नगाया नद्या अपहृतेन अपहरणेन उत्सृष्टानि स्वस्थानात् प्रच्युतानि नष्टानि वा चिह्नानि यासां तास् तथोक्ताः । प्रमाणैः साक्षिसामन्तादिभिः । सत्स्व् अपि लिङ्गेषु तत्राविश्वासे सीमाविवाद उक्तैर् लिङ्गैस् तन्निर्णयो राज्ञा कार्य इत्य् आह मनुः ( ८। २५२ ) ।

	एतैर् लिङ्गैर् नयेत् सीमां राजा विवदमानयोः ।

सत्स्व् अपि लिङ्गेषु तत्र विप्रतिपत्तौ तेषाम् अभावे च साक्षिवशान् निर्णयः । तथा च स एव (मनु ८। २५३ ) ।

    यदि संशय एव स्याल् लिङ्गानाम् अपि दर्शने ।


    साक्षिप्रत्यय एव स्यात् सीमावादविनिर्णयः ॥

साक्षिप्रत्ययः साक्षिहेतुकः । अपिशब्दः लिङ्गाभावपक्षपरिग्रहार्थः । ते साक्षिणः सीमालिङ्गविषयाः सीमाविषया वा । सीमासाक्षिषु विशेषम् आह बृहस्पतिः

[२६५] आगमं च प्रमाणं च भोगं कालं च नाम च ।

	भूभागलक्षणं चैव ये विदुस् ते ऽत्र साक्षिणः ॥

प्रमाणम् इयत्ता । उभयेषाम् अपि साक्षिणाम् अभावे सामन्तवशान् निर्णयः । तथा च मनुः (८। २५८ ) ।

    साक्ष्यभावे तु चत्वारो ग्रामसीमान्तवासिनः ।


    सीमाविनिर्णयं कुर्युः प्रयता राजसंनिधौ ॥

याज्ञवल्क्यो ऽपि (२.१५२ ) ।

	सामन्ता वा समग्रामाश् चत्वारो ऽष्टौ दशापि वा ।

समग्रामाश् चत्वारो ऽष्टाव् इत्यादिप्रकारेण समसंख्याकाः सामन्ताः प्रत्यासन्नग्रामक्षेत्राद्युपभोक्तारः । तथा च कात्यायनः (७३६) ।

    ग्रामो ग्रामस्य सामन्तः क्षेत्रं क्षेत्रस्य कीर्तितम् ।


    गृहं गृहस्य निर्दिष्टं समन्तात् परिरभ्य हि ॥

ग्रामस्य समन्ताच् चतसृषु दिक्षु परिरभ्य सम्बध्य स्थितो ग्रामः सामन्तः । एवं क्षेत्रादाव् अपि । सामन्तानां प्रकटदोषयुक्तत्वे सामन्तसामन्तवशान् निर्णयः कार्य इत्य् आह स एव (कात्। ७३९ )

    स्वार्थसिद्धौ प्रदुष्टेषु सामन्तेष्व् अर्थगौरवात् ।


    तत्संसक्तैस् तु कर्तव्य उद्धारो नात्र संशयः ॥

एतेषाम् अपि प्रकटदोषयुक्तत्वे तत्सामन्तवशान् निर्णय इत्य् आह स एव (कात्। ७४० ) ।

	संसक्तसक्तदोषेषु तत्संसक्ताः प्रकीर्तिताः ।

यदा त्व् एतेषाम् अपि प्रकटा दुष्टता तदा मौलादिवशान् निर्णय इत्य् आह स एव (कात्। ७४०, ७४२) ।

    कर्तव्या न प्रदुष्टास् तु राज्ञा धर्मं विजानता ।


    त्यक्त्वा दुष्टांस् तु सामन्तान् अन्यान् मौलादिभिः सह ॥


    संमिश्रय कारयेत् सीमाम् एवं धर्मविदो विदुः ।

[२६६] अन्यान् सामन्त-तत्सामन्त-तत्सामन्तव्यतिरिक्तान् सीमालिङ्गाभिज्ञान् नागरादीन् इत्य् अर्थः । मौलादिभिः मौलवृद्धोद्धृतैः । संमिश्रय मेलयित्वा । नागरादयश् च दर्शिता नारदेन ( सीमा। २ ) ।

	नागरा ग्रामगणिनो ये च वृद्धतमा नराः ।

मौलादीनां स्वरूपं दर्शितं कात्यायनेन ( ७४३-७४५ ) ।

    ये तत्र पूर्वे सामन्ताः पश्चाद् देशान्तरं गताः ।


    तन्मूलत्वात् तु ते मौला ऋषिभिः परिकीर्तिताः ॥


    निष्पाद्यमानं यैर् दृष्टं तत् कार्यं नृगुणान्वितैः ।


    वृद्धा वा यदि वावृद्धास् ते वृद्धाः परिकीर्तिताः ॥


    उपश्रवणसंभोगकार्याख्यानोपचिन्तकाः ।


    उद्धरन्ति ततो यस्माद् उद्धृतास् ते ततः स्मृताः ॥

नृगुणान्वितैः पुरुषगुणान्वितैः । ये परम्परया कार्यज्ञातारस् ते उद्धृता इति भावः । यदा तु सामन्ता न प्रकटदोषयुक्ताः प्रतिवादिना तु· कश्चिद् दोष उच्यते तदा विशेष उक्तस् तेनैव (कात्। ७४६ ) ।

    सामन्ताः साधनं पूर्वम् अनिष्टोक्तौ गुणान्विताः ।


    द्विगुणास् तूत्तरा ज्ञेयास् ततो ऽन्ये त्रिगुणा मताः ॥

अनिष्टोक्तौ प्रतिवादिना दोषाभिधाने तत्सामन्तास् ततो द्विगुणा ग्राह्याः । तेष्व् अपि दोषाभिधाने तत्सामन्तास् तद्द्विगुणा ग्राह्याः । तत्रापि तथात्वे मौलवृद्धादयः सामन्तत्रिगुणा ग्राह्या इत्य् अर्थः । यदा साक्ष्यादीनाम् एतेषाम् अभावस् तदा त्व् आह मनुः (८। २५९-२६० ) ।

    सामन्तानाम् अभावे तु मौलानां सीमसाक्षिणाम् ।


    इमान् अप्य् अनुयुञ्जीत पुरुषान् वनगोचरान् ॥


    व्याधाञ् शाकुनिकान् गोपान् कैवर्तान् मूलखानकान् ।


    व्यालग्राहान् उञ्छवृत्तीन् अन्यांश् च वनगोचरान् ॥

**[२६७] **एतच् च वनगोचराणां ग्रहणं सीमासंनिहितप्रदेशकर्षकाणाम् अभावे ज्ञेयम् । अत एव नारदः ( सीमा। ३ ) ।

    ग्रामसीमासु च बहिर् ये स्युस् तत्कृषिजीविनः ।


    गोपाः शाकुनिका व्याधा ये चान्ये वनगोचराः ॥ इति ।

पाठक्रमो ऽत्र विवक्षित इत्य् आह स्मृतिचन्द्रिकाकारः । एते सामन्तादयः सर्वत्र स्थावरविवादे सेत्वादिविवादे च निर्णायकाः । तथा च कात्यायनः ( ७३७, ७३४, ७३५ ) ।

    तेषाम् अभावे सामन्ता मौलवृद्धोद्धृतादयः ।


    स्थावरे षट्प्रकारे ‘पि नात्र कार्या विचारणा ॥


    क्षेत्रवास्तुतडागेषु कूपोपवनसेतुषु ।


    समन्तभावात् सामन्तैः कुर्याद् अत्र विनिर्णयम् ॥


    ग्रामसीमासु च तथा तद्वन् नगरदेशयोः ।

तेषां साक्षिणाम् । बृहस्पतिर् अपि ।

सर्वत्र स्थावरे वादे विधिर् एष प्रकीर्तितः ।

याज्ञवल्क्यो ऽपि ( २। १५४ ) ।

    आरामायतनग्रामनिपानोद्यानवेश्मसु ।


    एष एव विधिर् ज्ञेयो वर्षाम्बुप्रवाहादिषु ॥

आयतनं निवेशनं पलालादिस्थापनार्थं कृतः प्रदेशः । निपानं पानीयस्थानं कूपादिकम् । वर्षाम्बुप्रवहः वृष्ट्युद्भूतजलप्रवाहः । पुनर् आह कात्यायनः ( ७४९) ।

    क्षेत्रकूपतटाकानां केदारारामयोर् अपि ।


    गृहप्रसादावसथेष्व् एवं देवगृहेषु च ॥

केदारः क्षुद्रसेतुयुक्तः क्षेत्रविशेषः गोबलीवर्दन्यायात् पृथङ्निर्देशः । प्रसादो ऽत्र प्रासादः । राज्ञा साक्षिसामन्तादयो ग्रामीणानां [२६८] वादिप्रतिवादिनोश् च समक्षं प्रष्टव्यास् तैर् उक्तं च पत्रे लेखनीयम् इत्य् आह मनुः ( ८.२५४-५५ ) ।

    ग्रामेयककुलानां तु समक्षं सीमसाक्षिणः ।


    प्रष्टव्याः सीमलिङ्गानि तयोश् चैव विवादिनोः ॥


    ते पृष्टास् तु यथा ब्रूयुः समस्ताः सीम्नि निर्णयम् ।


    तथा तं च निबध्नीयात् समस्तांस् तांश्च नामतः ॥

सीमलिङ्गानीति सीमालिङ्गसाक्ष्यभिप्रायेण । सीमासाक्षिणस् तु सीमां ब्रूयुः । “सत्येन शापयेद् विप्रम्” (मनु ८। ११३ ) इत्यादि साक्षिप्रकरणोक्तशपथैः शापितास् ते साक्ष्यादयो ब्रूयुर् इत्य् आह बृहस्पतिः

    शपथैः शापिताः स्वैः स्वैः ब्रूयुः सीमाविनिर्णयम् ।


    दर्शयेयुश् च लिङ्गानि तत् प्रमाणम् इति स्थितिः ॥

ये साक्षिसामन्तादयः सीमालिङ्गानि दर्शयितुं न शक्नुवन्ति सीमामात्रं जानन्ति ते कथं ब्रूयुर् इत्य् अपेक्षायाम् आह मनुः (८। २५६ ) ।

    शिरोभिस् ते गृहीत्वोर्वीं स्रग्विणो रक्तवाससः ।


    सुकृतैः शापिताः स्वैः स्वैर् नयेयुस् तां समञ्जसम् ॥

उर्वीं मृदम् । सीमां क्रममाणा इति शेषः । नयेयुः निर्णयं कुर्युः । समञ्जसं सम्यग् यथा भवति तथा । स्रग् अपि रक्तैव धारणीया यथाह याज्ञवल्क्यः (२। १५२ ) ।

    सामन्ता वा समग्रामाश् चत्वारो ऽष्टौ दशापि वा ।


    रक्तस्रग्वसनाः सीमां नयेयुः क्षितिधारिणः ॥

समग्रामा इत्यभिधानाद् एकस्य निवृत्तिः सूचिता तां स्पष्टयति नारदः ( सीमा। ९ ) ।

    नैकः समुन्नयेत् सीमां नरः प्रत्ययवान् अपि ।


    गुरुत्वाद् अस्य कार्यस्य क्रियैषा बहुषु स्थिता ॥

उभयसंमतेनैकेनापि सीमानिर्णयः कार्यः । तथा च बृहस्पतिः

	ज्ञातृचिह्नैर् विना साधुर् एको ‘प्य् उभयसंमतः ।

[२६९] रक्तमाल्याम्बरधरो मृदम् आदाय मूर्धनि ॥

	सत्यव्रतः सोपवासः सीमान्तं दर्शयेन् नरः ॥

ज्ञातृचिहैर् विना सीमाया ज्ञातॄणां लिङ्गानां वाभावे । नारदो ऽपि ( सीमा। १० ) ।

    एकश् चेद् उन्नयेत् सीमां सोपवासः समुन्नयेत् ।


    रक्तमाल्याम्बरधरः क्षितिम् आरोप्य मूर्धनि ॥

साक्षिसामन्तादीनां सीमाक्रमणदिनाद् आरभ्य पक्षत्रयपर्यन्तं रोगादिरूपदैविकराजिकोपघाताभावे निर्णयो न तु सीमाक्रमणानन्तरम् एव च । अत एव कात्यायनः ( ७५१ ) ।

    सीमाचङ्क्रमणे कोशे पादस्पर्शे तथैव च ।


    त्रिपक्षपक्षसप्ताहं दैवराजिकम् इष्यते ॥

यथाक्रमम् इति शेषः । यदा पक्षत्रयाभ्यन्तरे साक्षिणां रोगादिदैविकराजिकोपद्रवदर्शनेन प्रकारान्तरेण वासत्यवादित्वनिश्चयस् तदा दण्डम् आह मनुः (८.२५७ ) ।

    यथोक्तेन नयन्तस् ते पूयन्ते सत्यसाक्षिणः ।


    विपरीतं नयन्तस् तु दाप्याः स्युर् द्विशतं दमम् ॥

यथोक्तेन “शिरोभिस् ते गृहीत्वोर्वीम्” इत्यादिनोक्तप्रकारेण । नयन्तो निर्णयं कुर्वन्तः याथातथ्येनेति शेषः । द्विशतं पणशतद्वयम् । पणशतद्वयं दण्डं प्रत्येकं दाप्या इत्य् अर्थः । सामन्तानाम् अनृतवादित्वे दण्डम् आह नारदः ( सीमा। ७ ) ।

    अथ चेद् अनृतं ब्रूयुः सामन्ताः सीमनिर्णये ।


    सर्वे पृथक् पृथक् दण्ड्या राज्ञा मध्यमसाहसम् ॥

सामन्तव्यतिरिक्तानां तत्संसक्तादीनाम् अनृतवादित्वे दण्डम् आह स एव

	शेषाश् चेद् अनृतं ब्रूयुर् नियुक्ता भूमिकर्मणि ।

[२७०] प्रत्येकं तु जघन्यास् ते विनेयाः पूर्वसाहसम् ॥

    मौलवृद्धादयश् चान्ये दण्डनीयाः पृथक् पृथक् ।


    विनेयाः प्रथमेनैव साहसेनानृते स्थिताः ॥

( नारद, सीमा ८)

आदिशब्देनोद्धृतगणादीनां ग्रहणम् । दण्डनीयाः अनृतवादित्वेन दण्डयितुम् अर्हाः मौलवृद्धादयः पृथक पृथक् प्रथमेन साहसेन विनेया दण्ड्या इत्य् अर्थः । अत्र साक्ष्यपेक्षया सामन्तादीनां दण्डाधिक्यं वाचनिकम् इति न को ऽपि दोषः शङ्कनीयः । अथ वा मनूक्तसाक्षिशब्दस्य सत्यार्थाभिज्ञत्वपरत्वम् आश्रित्य मनुवचनं गोपालादिवनेचरविषयत्वेन योजनीयम् । कूटसाक्षिणां सर्वस्वापहारः कार्य इति विष्णुवचनं (५.१७५ ) सामान्यविषयतया श्रूयमाणम् अपि दण्डगौरवाद् अत्र भूमिवादविषये योजनीयः ( योजनीयम् ? ) । साक्ष्यादीनां निर्णयार्थम् आनीतानाम् अनुक्तौ भेदेनोक्तौ च दण्डम् आह कात्यायनः (७५०, ७४१) ।

    बहूनां तु गृहीतानां न सर्वे निर्णयं यदि ।


    कुर्युर् भयाद् वा लोभाद् वा दाप्यास् तूत्तमसाहसम् ॥


    सीमाज्ञान्न ( अज्ञानेन ? ) हि मुच्यन्ते सामन्ता निर्णयं प्रति ।


    अज्ञानोत्तौ दण्डयित्वा पुनः सीमां विचारयेत् ॥


    कीर्तिते यदि भेदः स्याद् दण्ड्यास् तूत्तमसाहसम् ।

सामन्तग्रहणम् उपलक्षणम् । साक्ष्यादीनां सर्वेषाम् अज्ञानोक्तौ भेदोक्तौ च पुनर् विचारणं लेख्यप्रमाणेन कर्तव्यम् । अत एव शङ्खलिखितौ: “सामन्तविरोधे लेख्यप्रत्ययः” इति । सीमाचिह्नानां तत्परिज्ञातॄणां चाभावे राजा स्वेच्छया निर्णयं कुर्याद् इत्य् आह नारदः ( सीमा। ११ ) ।

    यदा तु न स्युर् ज्ञातारः सीमाया न च लक्षणम् ।


    तदा राजा द्वयोः सीमाम् उन्नयेद् इष्टतः स्वयम् ॥

[२७१] याज्ञवल्क्यो ऽपि ( २.१५३ ) ।

	अभावे ज्ञातृचिह्नानां राजा सीम्नः प्रवर्तिता ।

प्रवर्तिता प्रवर्तयिता । प्रयोजकव्यापारवृत्तिर् अत्र वृत्तिधातुः (वृतु-

धातुः १ ) । यदि विप्रतिपत्तिविषयीभूता भूमिर् एकस्य ग्रामक्षेत्रादेर् अत्यन्तोपकारी तदा सा सकला भूमिर् यत्रोपकारातिशयस् तत्रैव राज्ञा योजनीया न तूभयत्र । तथा च मनुः (८.२६५)

    सीमायाम् अविषह्यायां स्वयं राजा च धर्मवित् ।


    प्रदिशेद् भूमिम् एकेषाम् उपकाराद् इति स्थितिः ॥

अविषह्यायां ज्ञातृचिह्नरहितायाम् । सीमानिर्णयो निर्णयान्तरवद् आवेदनानन्तरम् एव न राज्ञा कर्तव्यः किं तु यदा सेतुप्रभृतीनि सीमालिङ्गानि व्यवधायकाभावात् स्फुटं दृश्यन्ते तदा कर्तव्य इत्य् आह स एव ( मनु ८। २४५ )

    सीमां प्रति समुत्पन्ने विवादे ग्रामयोर् द्वयोः ।


    ज्येष्ठे मासि नयेत् सीमां सुप्रकाशेषु सेतुषु ॥

ज्येष्ठे मासीत्य् उपलक्षणम् । यत्रास्या नद्या दक्षिणपार्श्ववर्तिनी भूमिर् अमुकस्य ग्रामस्य वामपार्श्ववर्तिन्य् अमुकस्येत्य् एवं ग्रामादीनां सीमात्वेन परिकल्पिता नदी कदाचिद् ग्रामान्तरसम्बन्धिनीं भूमिं भित्त्वा प्रवहन्ती पूर्वं दक्षिणपार्श्वस्थितां कांचिद् भूमिं वामपार्श्वनिविष्टां करोति तथा यत्र राज्ञैकग्रामसम्बन्धिनी भूमिर् अपरत्र योज्यते तत्र कथं निर्णय इति संशये तथा यद्ग्रामपार्श्वे भूमिः स्थापिता राज्ञा च यत्र ग्रामे योजिता तस्यैव सा भूमिर् इति निर्णयं सोपपत्तिकम् आह बृहस्पतिः

    अन्यग्रामात् समाहृत्य दत्तान्यस्य यदा मही ।


    महानद्याथवा राज्ञा कथं तत्र विचारणा ॥


    नद्द्योत्सृष्टा राजदत्ता यस्य तस्यैव सा मही ।


    अन्यथा न भवेल् लाभो नराणां राजदैविकः ॥


    क्षयोदयौ जीवनं च दैवराजवशान् नृणाम् ।


    तस्मात् सर्वेषु कार्येषु तत्कृतं न विचालयेत् ॥

दैवशब्दस्य भाग्यवाचित्वान् नदीकृतम् अपि दैवकृतं भवतीत्य् आह स एव

    ग्रामयोर् उभयोर् यत्र मर्यादा कल्पिता नदी ।


    कुरुते दानहरणं भाग्याभाग्यवशान् नृणाम् ॥


    एकत्र कूलपातं तु भूमेर् अन्यत्र संस्थितिम् ।


    नदीतीरे प्रकुरुते तस्य तां न विचालयेत् ॥

तस्य नदीवशात् प्राप्तभूमिकस्य । तां प्राप्तां भूमिम् । न विचालयेत् नान्यथा कुर्यात् पूर्वस्वामी नावच्छिन्द्याद् इत्य् अर्थः । पूर्वस्वामिना कृतसस्यावापाया भूमेर् नद्द्योत्सर्गे तु तेषाम् उप्तसस्यानां फलं पूर्वस्वामिना ग्राह्यम् । तथा च स एव

    क्षेत्रं ससस्यम् उल्लङ्घ्य भूमिश् छन्ना यदा भवेत् ।


    नदीस्रोतःप्रवाहेण पूर्वस्वामी लभेत ताम् ॥

तां ससस्यां भूमिम् । उप्तसस्यफललाभपर्यन्तम् एतत् । तत्फललाभानन्तरं तु न पूर्वस्वामी तां भूमिं लभेतेत्य् अवगन्तव्यम् । पूर्वोदाहृतवचनबलेन तथा तात्पर्यस्यावगमात् । राजदत्तां पूर्वस्वामी न विचालयेत् – इति सामान्येनोक्तं तत्र काचिद् राजदत्ता विचालनीया काचिन् नेति विशेषशोधनं करोति स एव

    या राज्ञा क्रोधलोभेन छलन्यायेन वा हृता ।


    प्रदत्तान्य् अस्य दुष्टेन न सा सिद्धिम् अवाप्नुयात् ॥


    प्रमाणरहितां भूमिं भुञ्जतो यस्य या हृता ।


    गुणाधिकाय वै दत्ता तस्य तां न विचालयेत् ॥

प्रमाणरहितां स्वत्वहेतुप्रतिग्रहादिप्रमाणरहिताम् । गृहादिषु प्रवेशकालाद् आरभ्य वर्तमाना या प्राचीना व्यवस्था सा प्रतिवेशिकादिभिस् तथैव परिपालनीया नान्यथा कर्तव्येत्य् आह स एव

	निवेशकालाद् आरभ्य गृहवार्यापणादिकम् ।

[२७३] येन यावद् यथा भुक्तं तस्य तन् न विचालयेत् ॥

येन स्वामिना यावत् प्रचारभूम्यादियुक्तं यथा येन पूर्वादिदिगभिमुखद्वारादि-युक्तत्वादिरूपेणोपभुक्तं तत् तस्य स्वामिनः सकाशान् न विचालयेद् इत्य् अर्थः । अत्र निवेशकालाद् आरभ्येत्यभिधानान् मध्ये कृताया व्यवस्थाया निवर्त्यत्वं दर्शितम् । निवेशकालाद् आरभ्य स्थितानि गवाक्षादिकानि प्रातिवेशिकाद्यनिष्टकारीण्य् अपि न निवर्तनीयानीत्य् उक्तं तेनैव

    वातायनं प्रणालीं च तथा निर्यूहवेदिकाः ।


    चतुःशालस्यन्दनिकां प्राङ्निविष्टां न चालयेत् ॥

वातायनं गवाक्षः । प्रणाली पापाणादिनिर्मितजलनिर्गमोपायः । निर्यूहो गृहकोणेति स्मृतिचन्द्रिकायां निर्यूहो द्वारनिर्गतः काष्ठवशेष इति कृत्यकल्पतरौवेदिका रथ्यादिप्रदेशे संस्कृतोन्नता भूमिः । चतुर्णां शालानां समाहारः चतुःशालं तस्मात् स्यन्दनिका वृष्टिजलनिपातः । चतुःशालपदं तृणगृहस्योपलक्षणम् । कात्यायनो ऽपि (७५२) ।

    मेखलाभ्रमनिष्कासगवाक्षान् नोपरोधयेत् ।


    प्रणाली गृहवास्तुं च पीडयन् दण्डभाग् भवेत् ॥

मेखला भित्तिमूलबन्धः । भ्रमो जलनिर्गमः । निष्कासो हर्म्यादिविनिर्गतकाष्ठादिनिर्मितम् अस्पृष्टभूमिकम् उपवेशनस्थानम् । गृहवास्तुर् निवासभूमिः । प्राग् अविद्यमानाः परानिष्टकारिण एते न कर्तव्या इत्य् आह स एव ( कात्। ७५३) ।

    निवेशसमयाद् ऊर्ध्वं नैते योज्याः कदाचन ।


    दृष्टिपातं प्रणालीं च न कुर्यात् परवेश्मसु ॥

दृष्टिपातो गवाक्षः । परवेश्मसु परवेश्माभिमुख्येन । परकुड्यसमीपे पुरीषोत्सर्गादिकं न कर्तव्यम् इत्य् आह बृहस्पतिः

    वर्चःस्थानं वह्निचयं गर्तोच्छिष्टाम्बुसेचनम् ।


    अत्यारात् परकुड्यस्य न कर्तव्यं कथंचन ।

वर्चःस्थानं मलोत्सर्गस्थानम् । अत्याराद् अतिसमीपे । अरत्निद्वयपरिमिते प्रदेशे इत्य् अर्थः । अत एव कात्यायनः ( ७५४ ) ।

    विण्मूत्रोदकसेकं च वह्निश्वभ्रनिवेशनम् ।


    अरत्निद्वयम् उत्सृज्य परकुड्यान् निवेशयेत् ॥

सम्यक् अनिवारितं सरन्त्य् अस्मिन्न् इति संसरणशब्दार्थकथनपूर्वकं तस्यानिरोद्धव्यत्वम् आह बृहस्पतिः

    यान्त्य् आयान्ति जना येन पशवश् चानिवारिताः ।


    तद् उच्यते संसरणं न रोद्धव्यं तु केनचित् ॥

चतुष्पथादीनाम् अप्य् अनवरोद्धव्यताम् आह नारदः ( क्षेत्रजवि। १५ ) ।

    अवस्करस्थलश्वभ्रभ्रमस्यन्दनिकादिभिः ।


    चतुष्पथसुरस्थानराजमार्गान् न रोधयेत् ॥

चतुष्पथराजमार्गयोः स्वरूपं दर्शितं कात्यायनेन ( ७५५ ) ।

    सर्वे जनाः सदा येन प्रयान्ति स चतुष्पथः ।


    अनिषिद्धा यथाकालं राजमार्गः स उच्यते ॥

अनिषिद्धा इत्य् अस्य पूर्वेणान्वयः । यत्राकाले राजकीयैर् गमनं प्रतिषिध्यते स राजमार्ग इत्य् अर्थः । यस्य क्षेत्रस्य मध्ये समीपे वा सर्वदा मार्गो ‘स्ति तत्र तन्निरोधो न कर्तव्यः । तथा च शङ्खलिखितौ: “मार्गक्षेत्रे पथि विसर्गं राजमार्गे रथस्य परिवर्तनम्” इति । पथो विसर्गः पथि विसर्गः । राजमार्गे यावता प्रदेशेन रथः परिवर्तते तावत्प्रदेशस् त्यक्तव्य इत्य् अर्थः । संसरणाद्यवरोधकारिणो दण्डम् आह बृहस्पतिः

    यस् तत्र सङ्करं श्वभ्रं वृक्षारोपणम् एव वा ।


    कामात् पुरीषं कुर्याच् च तस्य दण्डस् तु माषकः ॥

सङ्करः शकटादिसंकीर्णता । वृक्षग्रहणं लतादीनाम् अप्य् उपलक्षणम् । माषो ऽत्र ताम्रिको ग्राह्यो ऽपराधानुसारेण दण्डस्य परिकल्पयितुम् उचितत्वात् । राजमार्गे पुरीषोत्सर्गे ऽधिकं दण्डम् आह मनुः (९.२८२ ) ।

**[२७५] **समुत्सृजेद् राजमार्गे यस् त्व् अमेध्यम् अनापदि ।

	स द्वौ कार्षापणौ दद्याद् अमेध्यं चाशु शोधयेत् ॥

आपन्नादिषु वाग्दण्ड एवेत्य् उक्तं तेनैव (मनु ९। २८३ ) ।

    आपद्गतस् तथा वृद्धो गर्भिणी बाल एव च ।


    परिभाषणम् अर्हन्ति तच् च शोध्यम् इति स्थितिः ॥

परिभाषणं निष्ठुरभाषणम् । तडागादाव् अत्यधिकं दण्डम् आह कात्यायनः (७५८) ।

    तडागोद्यानतीर्थानि यो ऽमेध्येन विनाशयेत् ।


    अमेध्यं शोधयित्वा तु दण्डयेत् पूर्वसाहसम् ॥

मलिनवस्त्रक्षालनादिना यस् तीर्थानि दूषयति सो ऽप्य् एवम् एव दण्ड्य इत्य् आह स एव (कात्। ७५९)।

    दूषयेत् सिद्धतीर्थानि स्थापितानि महात्मभिः ।


    पुण्यानि पावनीयानि प्राप्नुयात् पूर्वसाहसम् ॥

मर्यादाभेदनादिषु दण्डम् आह याज्ञवल्क्यः (२। १५५ ) ।

    मर्यादायाः प्रभेदे तु सीमातिक्रमणे तथा ।


    क्षेत्रस्य हरणे दण्डा अधमोत्तममध्यमाः ॥

मर्यादायाः भेदने सीमालिङ्गविनाशने पूर्वसाहसो दण्डः । सीमातिक्रमे सीमाम् अतिक्रम्य कर्षणे उत्तमसाहसः क्षेत्रस्यापहरणे मध्यमसाहस इत्य् अर्थः । यत् तु “सीमाभेत्तारम् उत्तमसाहसं दण्डयित्वा पुनः सीमां कारयेत्” इति विष्णुवचनं (५। १७२ ) तत्र सीमाभेत्ता सीमाम् अतिलङ्घय कर्षकः पुनः सीमाकरणं पुनस् तत्र कर्षणस्याकरणम् इत्य् एवं व्याख्येयम् । ततश् च न पूर्ववाक्येन विरोधः । एतच् चोत्तमसाहसाभिधानम् अर्धसीमातिक्रमे वेदितव्यम् । कृत्स्नसीमातिक्रमे तु दण्डविशेष उक्तः शङ्खलिखिताभ्यां “सीमाव्यतिक्रमे त्व् अष्टसहस्रम्” इति । अल्पसीमातिक्रमे ऽल्पं दण्डम् आह वृद्धमनुः

[२७६] स्थापिताश् चैव मर्यादा उभयोर् ग्रामयोः सदा ।

	अतिक्रामन्ति ये पापास् ते दण्ड्या द्विशतं दमम् ॥

याज्ञवल्क्येन सीमालिङ्गनाशे यो दण्ड उक्तः सो ऽल्पदण्डत्वाद् गृहसीमालिङ्गविनाशे ज्ञातव्यः । क्षेत्रसीमालिङ्गनाशे त्व् अधिको दण्ड उक्तः शङ्खलिखिताभ्यां “क्षेत्रमर्यादाभेदे ऽष्टशतम्” इति । ग्रामादिसीमालिङ्गनाशने त्व् इतो ऽप्य् अधिको दण्ड ऊह्यः । याज्ञवल्क्येन यः क्षेत्रापहरणे मध्यमसाहसो ऽभिहितः स बलात्कारेणापहरणे वेदितव्यः । प्रकारान्तरेण त्व् अपहरणे दण्ड उक्तो मनुना ( ८। २६४ ) ।

    गृहं तटाकम् आरामं क्षेत्रं वा भीषया हरन् ।


    शतानि पञ्च दण्ड्यः स्याद् अज्ञानाद् द्विशतो दमः ॥

यत् तु “क्षेत्रोदकापहरणे ऽष्टशतम्” इति शङ्खलिखितवचनं तद् बलात्कारेण सोदकशालेयादिक्षेत्रहरणे वेदितव्यम् । अपह्रियमाणक्षेत्रादिबाहुल्ये तु तदनुसारेणाधिको दण्ड ऊहनीयः । सीमावृक्षाणाम् उभयसाधारणत्वान् नैकेनैव तत्फलादिकं ग्राह्यम् इत्य् आह कात्यायनः ( ७६० ) ।

    सीमामध्ये तु जातानां वृक्षाणां क्षेत्रयोर् द्वयोः ।


    फलं पुष्पं च सामान्यं क्षेत्रस्वामिषु निर्दिशेत् ॥

क्षेत्रयोः स्वामिषु क्षेत्रस्वामिषु । एतेनैकस्यैतद्वृक्षसम्बन्धिसकलफलादिग्रहणे तदनुसारेण दण्डो ग्राह्य इति सूचितम् । यद्य् एकस्वामिकायां भूमौ वृक्षादिर् उत्पन्नः, अपरस्वामिकाया भूमेर् उपरि शाखाः प्रसृतास् तत्र कस् तद्वृक्षादिस्वामीत्य् अपेक्षायाम् आह स एव ( काव्या। ७६१ ) ।

    अन्यक्षेत्रे तु जातानां शाखा यत्रान्यसंस्थिताः ।


    स्वामिनं तं विजानीयाद् यस्य क्षेत्रे तु संश्रिताः ॥

संश्रिताः आश्रिताः प्ररूढा इति यावत् । परक्षेत्रे सेतुकूपादिप्रवर्तनं तत्स्वाम्याद्यनुज्ञालाभपूर्वकं कर्तव्यम् इत्य् आह याज्ञवल्क्यः (२.१५७ )

[२७७] स्वामिने यो निवेद्यैव क्षेत्रे सेतुं प्रवर्तयेत् ।

	उत्पन्ने स्वामिनो भोगस् तदभावे महीपतेः ॥

तदभावे स्वामिनस् तद्वंश्यस्य वाभावे । यः स्वामिनं तद्वंश्यं तदभावे राजानं वा अनङ्गीकार्य परक्षेत्रे सेतुं करोति न स सेत्वाद्युत्पन्नफलभागी किं तु स्वाम्यादयः फलभाजः । अतस् तदनुमतिं गृहीत्वा सेत्वादि कर्तव्यम् इत्य् अर्थः । स्वक्षेत्रे परेण क्रियमाणं सेतुकूपादिकं न प्रतिषेद्धव्यम् इत्य् आह स एव ( या। २। १५६ )

    न निषेध्यो ऽल्पबाधस् तु सेतुः कल्याणकारकः ।


    परभूमिं हरन् कूपः स्वल्पक्षेत्रो बहूदकः ॥

अल्पबाधः अल्पपीडाकरः । कल्याणकारकः बहूपकारकरः । स्वल्पक्षेत्रः स्वल्पक्षेत्रवर्ती । आभ्यां विशेषणाभ्यां यः सेतुः क्षेत्रमध्यवर्तितया बहुपीडाकरो नद्यादिसंनिहितक्षेत्रवर्तितयाल्पोपकारको वा तदा निषेद्धव्य इति दर्शितम् । नारदो ऽपि (क्षेत्रजवि। १७ ) ।

    परक्षेत्रस्य मध्ये तु सेतुर् न प्रतिषिध्यते ।


    महागुणो ऽल्पदोषश् चेद् वृद्धिर् इष्टा क्षये सति ॥

क्षये अल्पक्षेत्रक्षये सत्य् अपि वृद्धिर् यतद्वष्टा ( ? यत इष्टा ) अतो महागुणः स्वक्षेत्रे ‘प्य् उपकारकरः अल्पदोषश् चेत् तदा न निषेद्धव्य इत्य् अर्थः । जीर्णानां परकीयानां सेत्वादीनाम् उद्धारो ‘पि तत्स्वाम्याद्यनुज्ञां गृहीत्वा कार्यः । तथा च नारदः ( सीमा। २०-२२ ) ।

    पूर्वप्रवृत्तम् उत्सृष्टम् अदृष्ट्वा स्वामिनं तु यः ।


    सेतुं प्रवर्तयेद् यस् तु न स तत्फलभाग् भवेत् ॥


    मृते तत्स्वामिनि पुनस् तद्वंश्ये चापि मानवे ।


    राजानम् आमन्त्र्य ततः कुर्यात् सेतुप्रवर्तनम् ॥


    अतो ऽन्यथा क्लेशभाक् स्याद् मृगव्याधनिदर्शनात् ॥

मृगव्याधदृष्टान्तः स्पष्टीकृतस् तेनैव (नारद, क्षेत्रजवि। २२ ) ।

[२७८] इषवस् तस्य नश्यन्ति यो विद्धम् अनुविध्यति ।

तस्य मृगव्याधस्य । कात्यायनो ऽपि ( ७६२-७६३ ) ।

    अस्वाम्यनुमतेनैव संस्कारं कुरुते तु यः ।


    गृहोद्यानतटाकानां संस्कर्ता लभते न तु ॥


    देयं स्वामिनि चायाते न निवेद्य नृपे यदि ।


    अथावेद्य प्रयुक्तस् तु तद्गतं लभते व्ययम् ॥

नृपे अनावेद्य कृतं तटाकादिसंस्कारार्थं व्ययं तत्स्वामिनि ग्रामान्तराद् आगते तेन देयम् अपि न लभते नृपे निवेद्य संस्करणे तदर्थं व्ययं लभते फलं तु स्वाम्यनुमत्यलाभे न लभत इत्य् अर्थः । सेतोर् द्वैविध्यम् आह नारदः ( क्षेत्रजवि। १८ ) ।

    सेतुस् तु द्विविधो ज्ञेयः खेयो बन्ध्यस् तथैव च ।


    तोयप्रवर्तनात् खेयो बन्ध्यः स्याद् विनिवर्तनात् ॥

प्रवर्तनं निर्गमनं निवर्तनं निरोधः । क्षेत्रस्थिताधिकोदकनिर्गमनार्थं खात्वा यः क्रियते स खेयः । आगतोदकधारणार्थं मृदादिभिर् निरोद्धव्यो जलप्रवाहो बन्ध्य इत्य् अर्थः । तयोः प्रयोजनम् आह स एव ( नारद, क्षेत्रजवि। १९ ) ।

    नान्तरेणोदकं सस्यं नाशश् चात्युदके सति ।


    य एवानुदके दोषः स एवात्युदके भवेत् ॥

यः क्षेत्रे ऽस्मिन् कर्षणादिकं क्षेत्रफलोत्पन्नानुकूलं सर्वं व्यापारं करिष्यामीति तत्स्वामिनः पुरतो ऽभ्युपगम्य कर्षणमात्रं करोति न बीजावापादिकं स तत्क्षेत्रफलं राज्ञा क्षेत्रस्वामिने दापनीयस् तत्क्षेत्रं चान्यस्मै कर्षकाय देयम् । तथा च याज्ञवल्क्यः (२.१५८ ) ।

    फालाहतम् अपि क्षेत्रं यो न कुर्यान् न कारयेत् ।


    तं प्रदाप्याकृष्टसदं क्षेत्रम् अन्येन कारयेत् ॥

फालाहतं फालेन विदारितं कृष्टम् इति यावत् । अकृष्टसदं कर्षणम् [२७९] अभ्युपगम्य अकृष्टस्य तत्स्वामिने देयं यत्फलं तद् इत्य् अर्थः । प्रदाप्य दापयित्वा । यस् तु कर्षणादिकं प्रतिज्ञाय कर्षणम् अप्य् अकुर्वन् समग्रं फलोत्पत्तिकालम् अतिवाहयति स क्षेत्रफलसमं दण्डम् अपि राज्ञे दद्यात् । तथा च व्यास-बृहस्पती

    क्षेत्रं गृहीत्वा यः कश्चिन् न कुर्यान् न च कारयेत् ।


    स्वामिने स सर्दं दाप्यो राज्ञे दण्डं च तत्समम् ॥

स्वामिना ग्राह्यं क्षेत्रफलं कियद् इत्य् अपेक्षायाम् आह बृहस्पतिः

    चिरावसन्ने दशमं कृष्यमाणे तथाष्टमम् ।


    सुसंस्कृते तु षष्ठं स्यात् परिकल्प्य यथास्थिति ॥

चिरावसन्ने चिरकालम् अकृष्टे क्षेत्रे कर्षणं करिष्यामीति प्रतिज्ञायोपेक्षिते यथास्थिति क्षेत्रस्थित्यनुसारेण सामन्तैर् एतावद् अत्रोत्पत्तुम् अर्हम् इति परिकल्प्य क्षेत्रस्वामिने तस्य दशमं भागं कृष्यमाणे अल्पकालम् अकृष्टे ऽष्टमं सुसंस्कृते षष्ठं दाध्य इत्य् अर्थः । यस् तु क्षेत्रस्वामिनः सामर्थ्याभावादिनार्धखिलाद्यवस्थां प्राप्ते क्षेत्रे स्वयम् एव स्वाम्यनिवारितः कर्षणादिकं करोति स न क्षेत्रस्वामिने फलं दापनीयः किं तु स्वयम् एव तत्फलं गृह्णीयाद् इत्य् आह नारदः ( क्षेत्रजवि० २३ ) ।

    अशक्तप्रेतनष्टेषु क्षेत्रिकेष्व् अनिवारितः ।


    क्षेत्रं चेद् विकृषेत् कश्चिद् अश्नुवीत स तत्फलम् ॥

प्रेताः मृताः । नष्टाः क्व गता इति चिरम् अज्ञाताः । क्षेत्रिकाः क्षेत्रस्वामिनः । क्षेत्रस्वामिना तेन तत्पुत्रादिना वा समागतेनैवंविधाय कर्षकाय खिलभञ्जनार्थं व्ययं दत्त्वैव स्वक्षेत्रं ग्राह्यम् इत्य् आह स एव ( नारद, क्षेत्रजवि। २४ ) ।

    विकृष्यमाणे क्षेत्रे तु क्षेत्रिकः पुनर् आव्रजेत् ।


    खिलोपचारं तत् सर्वं दत्त्वा क्षेत्रम् अवाप्नुयात् ॥

**[२८०] **क्षेत्रस्यार्धखिलाद्यवस्था कदा भवतीत्य् आह स एव ( नारद, क्षेत्रजवि। २६ ) ।

    संवत्सरेणार्धखिलं खिलं स्याद् वत्सरैस् त्रिभिः ।


    पञ्चवर्षावसन्नं तु क्षेत्रं स्याद् अटवीसमम् ॥

संवत्सरेण कर्षणरहितम् अर्धखिलं वर्षत्रये कर्षणरहितं खिलं वर्षपञ्चके कर्षणरहितम् अटवीसमम् इत्य् अर्थः । क्षेत्रस्वामिनः क्षेत्रभेजनार्थं (भंजनार्थं ?) व्ययदानासामर्थ्ये कर्षकेण वर्षाष्टकं क्षेत्रफलस्याष्टमो भागः स्वामिने देयः । अवशिष्टं सर्वं फलं स्वयम् एव ग्राह्यम् । वर्षाष्टकानन्तरं च क्षेत्रं तत्स्वामिने देयम् । तथा च कात्यायनः ( ७६४ ) ।

    अशक्तितो न दद्याच् चेत् खिलार्थे यः कृतो व्ययः ।


    तदष्टभागहीनं तु कर्षकः फलम् आप्नुयात् ॥


    वर्षाण्य् अष्टौ स भोक्ता स्यात् परतः स्वामिने तु तत् ॥

इति श्रीकोदण्डपरशुरामेतिऽव्यवहारविवेकोद्द्योते

सीमाविवादाख्यव्यवहारपदनिरूपणम् ॥ २७ ॥

**पोस्सिब्ले रेअदिन्ग् ओफ़् थे देफ़ेच्तिवे तेxत्-

**श्रीकोदण्डपरशुरामेत्यादिविविधबिरुदावलीविराजमानमानोन्नत-महाराजाधिराजश्रीशक्तिसिंहात्मजमहाराजाधिराजश्रीमदनसिंहदेवविरचिते मदनरत्नप्रदीपे व्यवहारविवेकोद्द्योते **

सीमाविवादाख्यव्यवहारपदनिरूपणम् ॥२७॥

अथ वाक्पारुषाख्यव्यवहारपदनिरूपणम् ।

तत्र तत्स्वरूपं दर्शयति नारदः ( पारुष्य १ ) ।

    देशजातिकुलादीनाम् आक्रोशन्यङ्गसंयुतम् ।


    यद् वचः प्रतिकूलार्थं वाक्पारुष्यं तद् उच्यते ॥

आक्रोशः आक्षेपो भर्त्सनम् इति यावत् । न्यङ्गम् अवद्यम् । तस्य त्रैविध्यम् आह स एव (नारद, पारुष्य २ ) ।

    निष्ठुराश्लीलतीव्रात् तद् अपि त्रिविधं स्मृतम् ।


    गौरवानुक्रमात् तस्य दण्डो ऽपि स्यात् क्रमाद् गुरुः ॥

निष्ठुरादीनां स्वरूपं दर्शितं तेनैव ( नारद, पारुष्य ० ३ ) ।

    साक्षेपं निष्ठुरं ज्ञेयम् अश्लीलं न्यङ्गसंयुतम् ।


    पतनीयैर् उपाक्रोशे तीव्रम् आहुर् मनीषिणः ॥

विङ्मूर्खं जाल्मम् इत्यादि साक्षेपं भाषणं निष्ठुरं, न्यङ्गसंयुतम् अवयं **[२८१] **भगिन्यादिगमनसंयुतम् अश्लीलम्पतनीयैः सुरापानादिभिः उपाकोशस् तीव्रं वाक्पारुष्यम् इत्य् अर्थः । बृहस्पतिस् त्व् अस्य प्रथमादींस् त्रीन् भेदान् आह ।

    देशग्रामकुलादीनां क्षेपः पापेन योजनम् ।


    द्रव्यं विना तु प्रथमं वाक्पारुष्यं तद् उच्यते ॥


    भगिनीमातृसम्बन्ध उपपातकशंसनम् ।


    पारुष्यं मध्यमं प्रोक्तं वाचिकं शात्रवेदिभिः ॥


    अभक्ष्यापेयकथनं महापातकदूषणम् ।


    पारुष्यम् उत्तमं प्रोक्तं तीव्रं मर्माभिघट्टनम् ॥ इति ।

द्रव्यं विना द्रव्यवैशिष्ट्यं विना । अभिघट्टनम् उद्घाटनम् । समजातीयानां समानगुणानां वाक्पारुष्ये दण्डम् आह स एव

    समजातिगुणानां तु वाक्पारुष्ये परस्परम् ।


    विनयो ऽभिहितः शास्त्रे पणा अर्धत्रयोदश ॥

अर्धत्रयोदशो येषां ते ऽर्धत्रयोदशाः सार्धद्वादशेत्य् अर्थः । जातिभावसाम्ये दण्डम् आह विष्णुः (५। ३५ ): “समवर्णाक्रोशने द्वादशपणान् दण्ड्यः” । परस्परम् इति शेषः । उभयोः पौर्वापर्यादिकृतविशेषापरिज्ञाने सम एव दण्डः । तथा चोक्तं स्मृत्यन्तरे

    पारुष्यदोषावृतयोर् युगपत्संप्रवृत्तयोः ।


    विशेषश् चेन् न दृश्येत विनयः स्यात् समस्तयोः ॥

विशेषदर्शने त्व् अपराधानुसारेण विषमो दण्ड इति भावः । पौर्वापर्यकृते विशेषे विषमदण्डम् आह नारदः ( पारुष्य ९ ) ।

    पूर्वम् आक्षारयेद् यस् तु नियतं स्यात् स दोषभाक् ।


    पश्चाद् यः सो ‘प्य् असत्कारी पूर्वे तु विनयो गुरुः ॥

गुरुर् अधिकः । जातिगुणकृते विशेषे दण्डवैषम्यम् आह बृहस्पतिः

    समानयोः समो दण्डो न्यूनस्य द्विगुणस् तु सः ।


    उत्तमस्याधिकः प्रोक्तो वाक्पारुष्ये परस्परम् ॥

**[२८२] **हीनस्योत्तमाक्षेपे द्विगुणः । उत्तमस्य हीनाक्षेपे अर्धपरिमितो दण्ड इत्य् अर्थः । याज्ञवल्क्यः (२.२०६ ) ।

    अर्धो ऽधमेषु द्विगुणः परस्त्रीषूत्तमेषु च ।


    दण्डप्रणयनं कार्यं वर्णजात्युत्तराधरैः ॥

वर्णा ब्राह्मणादयः । जातयो मूर्धावसिक्तादयः । ते च ते उत्तराधराश् च वर्णजात्युत्तराधराः । तैः परस्पराक्षेपे क्रियमाणे दण्डप्रणयनं दण्डस्योहनं ज्ञातव्यम् । उत्तराधरभावम् आलोच्य दण्डः परिकल्पनीय इत्य् अर्थः । तं च दर्शयति मनुः ( ८। २६७-२६८ ) ।

    शतं ब्राह्मणम् आक्रुश्य क्षत्रियो दण्डम् अर्हति ।


    वैश्यो ‘ध्यर्धशतं द्वे वा शूद्रस् तु वधम् अर्हति ॥


    विप्रः पञ्चाशतं दण्ड्यः क्षत्रियस्याभिशंसने ।


    वैश्ये स्याद् अर्धपञ्चाशच् छूद्रे द्वादशको दमः ॥

बृहस्पतिर् अपि ।

    विप्रे शतार्धं दण्डस् तु क्षत्रियस्याभिशंसने ।


    विशस् तथार्धं पञ्चाशच् छूद्रस्यार्धत्रयोदश ॥

सच्छूद्रस्यायम् उदितो विनयो ऽनपराधिनः ।

    गुणहीनस्य पारुष्ये ब्राह्मणो नापराप्नुयात् ॥


    वैश्यस् तु क्षत्रियाक्रोशे दण्डनीयः शतं भवेत् ।


    तदर्धं क्षत्रियो वैश्यं क्षिपन् विनयम् अर्हति ॥ ।


    शूद्राक्रोशे क्षत्रियस्य पञ्चविंशतिको दमः ।


    वैश्यस्य चैतद् द्विगुणं शास्त्रविद्भिर् उदाहृतम् ॥


    वैश्यम् आक्षारयन् शूद्रो दाप्यः स्यात् प्रथमं दमम् ।


    क्षत्रियं मध्यमं चैव विप्रम् उत्तमसाहसम् ॥ इति ।

उत्तमसाहसो ऽत्र जिह्वाच्छेदनरूपो ज्ञातव्यः । अत एवोक्तं तेनैव

    धर्मोपदेशकर्ता च वेदोदाहरणान्वितः ।


    आक्रोशकस् तु विप्राणां जिह्वाच्छेदेन दण्ड्यते ॥

**[२८३] **शूद्र इत्य् अनुषङ्गः । मात्रादीनां पुत्रादिभिर् आक्षेपे दण्डम् आह मनुः (८.२७५)।

    मातरं पितरं जायां भ्रातरं श्वशुरं गुरुम् ।


    आक्षारयन् शतं दाप्यो पन्थानं चाददद् गुरोः ॥

भ्रातरं ज्येष्ठभ्रातरम् । एतच् च सापराधेषु मात्रादिषु निरपराधायां जायायां द्रष्टव्यम् इति विज्ञानेश्वराचार्याः । निष्ठुराक्षेपे दण्डम् आह याज्ञवल्क्यः (२० २०८) ।

    बाहुग्रीवानेत्रसक्थिविनाशे वाचिके दमः ।


    शत्यस् तदर्धिकः पादनासाकर्णकरादिषु ॥

बाह्वादिविनाशे वाचिके करिष्यामीति वाचा प्रतिवादिते शत्यः शतपरिमितो दण्डः पादादिभङ्गं करिष्यामीत्य् आक्षेपे पञ्चाशत्परिमितो दण्ड इत्य् अर्थः । अशक्तस्यैवंवादिनो ऽल्पं दण्डम् आह स एव (य्ध्। २.२०९ ) ।

अशक्तस् तु वदन्न् एवं दण्डनीयः पणान् दश ।

यः समर्थो ऽसमर्थस्य बाह्वादिभङ्गाक्षेपं करोति स राज्ञा शतादिदण्डोत्तरकालम् अशक्तस्य क्षेमार्थं प्रतिभुवं दापनीय इत्य् आह स एव (य्ध्। २। २०९ ) ।

	तथा शक्तः प्रतिभुवं दाप्यः क्षेमाय तस्य तु ॥

अश्लीलाक्षेपे दण्डम् आह स एव ( य्ध्। २। २०५ ) ।

    अभिगन्तास्मि भगिनीं मातरं वा तवेति च ।


    शपन्तं दापयेद् राजा पञ्चविंशतिकं दमम् ॥

त्रैविद्याद्याक्षेपे दण्डम् आह स एव (य्ध्। २.२११ ) ।

	त्रैविद्यनृपदेवानां दण्ड उत्तमसाहसः ।

तीव्राक्षेपे दण्डम् आह स एव (य्ध्। २। २१० ) ।

    पतनीयैः कृते क्षेपे दण्डो मध्यमसाहसः ।


    उपपातकयुक्ते तु दाप्यः प्रथमसाहसम् ॥

पतनीयैः पातित्यहेतुभिर् ब्रह्महत्यादिभिः । उपपातकानि गोवधादीनि । **[२८४] **सत्यदोषाभिधाने ऽपि वाक्पारुष्यदण्डो भवत्य् एव । अत एव नारदः ( पारुष्य २१ ) ।

    पतितं पतितेत्य् उक्त्वा चोरं चौरेति वा पुनः ।


    वचनात् तुल्यदोषः स्यान् मिथ्या द्विर्दोषतां व्रजेत् ॥

मनुर् अपि (८.२७४ ) ।

    काणं वाप्य् अथ वा खञ्जम् अन्यं वापि तथाविधम् ।


    तथ्येनापि ब्रुवन् दाप्यो दण्डं कार्षापणावरम् ॥

अन्यापदेशेन निन्दार्थया स्तुत्या वा पराक्षेपकारी दण्डनीयः । अत एव याज्ञवल्क्यः (२.२०४) ।

    सत्यासत्यान्यथास्तोत्रैर् न्यूनाङ्गेन्द्रियरोगिणाम् ।


    क्षेपं करोति चेद् दण्ड्यः पणान् अर्धत्रयोदशान् ॥

न्यूनाङ्गाः करादिरहिताः । न्यूनेन्द्रिया नेत्रादिरहिताः । रोगिणः कुष्ट्यादयः । अन्यथास्तोत्रं निन्दास्तुतिः । नारदो ऽपि ।

    दुष्टस्यैव तु यो दोषान् कीर्तयेत् क्रोधकारणात् ।


    अन्यापदेशवादी च वाग्दुष्टं तं नरं विदुः ॥

कोधकारणाद् इत्य् अनेन दुष्टपरित्यागार्थदोषकीर्तने न दोष इति सूचितम् । उक्तं चैतत् कात्यायनेन ( ७७६ ) ।

    यत्र स्यात् परिहारार्थं पतितस् तेन ( ? पतितत्वेन ) कीर्तनम् ।


    वचनात् तत्र न स्यात् तु दोषो यत्र विभावयेत् ॥

वचनात् दोषकीर्तनात् । यत्र अभियोगादौ पातित्यादिकं साधयेत् तत्रापि वचनाद् दोषो न स्याद् इति यत्र विभावयेद् इत्य् अस्यार्थ उक्तः स्मृतिचन्द्रिकायाम् । कस्यचिद् वाक्पारुष्यकृतोर्धदण्डम् (?) आह उशना

    मोहात् प्रमादात् सङ्घर्षात् प्रीत्या चोक्तं मयेति यः ।


    नाहम् एवं पुनर् वक्ष्ये दण्डार्धं तस्य कल्पयेत् ॥

वक्ष्ये इत्य् अत्र वक्तीति शेषः ।

इति श्रीकोदण्डपरशुरामेति ॥ । व्यवहारविवेकोद्द्योते

वाक्पारुष्याख्यव्यवहारपदनिरूपणम् ॥ २८ ॥

**पोस्सिब्ले रेअदिन्ग् ओफ़् थे देफ़ेच्तिवे तेxत्-

**श्रीकोदण्डपरशुरामेत्यादिविविधबिरुदावलीविराजमानमानोन्नत-महाराजाधिराजश्रीशक्तिसिंहात्मजमहाराजाधिराजश्रीमदनसिंहदेवविरचिते मदनरत्नप्रदीपे व्यवहारविवेकोद्द्योते **

वाक्पारुष्याख्यव्यवहारपदनिरूपणम् ॥२८॥

अथ दण्डपारुष्याख्यव्यवहारपदनिरूपणम् ।

तत्र तत्स्वरूपं दर्शयति नारदः ( पारुष्य ४ ) ।

    परगात्रेष्व् अभिद्रोहो हस्तपादायुधादिभिः ।


    भस्मादिभिश् चोपघातो दण्डपारुष्यम् उच्यते ॥

परगात्रेषु स्थावरजङ्गमात्मकेषु । आदिशब्दात् पाषाणादिकं गृह्यते । अभिद्रोहो हिंसनम् । भस्मादिभिर् इत्य् आदिशब्देन धूल्यादीनां ग्रहणम् । उपघातो दुःखोत्पादनम् । अस्य त्रैविध्यम् उक्तं तेनैव (नारद, पारुष्य ५) ।

	तस्यापि दृष्टं त्रैविध्यं हीनमध्योत्तमक्रमात् ।

हीनादिरूपत्वं चास्य क्रमेणावगोरणादिरूपत्वाद् धीनादिद्रव्यविषयकत्वाच् चेत्य् आह स एव (नारद, पारुष्य ५-६ ) ।

    अवगोरणनिःशङ्कपातनक्षतदर्शनैः ।


    हीनमध्योत्तमानां तु द्रव्याणां समतिक्रमात् ॥

अवगोरणं ताडनाद्युद्योगः । अस्यान्ये ऽपि केचिद् अवान्तरभेदा दर्शिता व्यासेन

    हस्तादिना प्रक्षिपणं ताडनं च करादिना ।


    आवेष्टनं चांशुकाद्यैर् दण्डपारुष्यम् उच्यते ॥

परिशिष्टकारेणापि

    दुःखं रक्तं व्रणं भङ्गं छेदनं भेदनं तथा ।


    कुर्याद् यः प्राणिनां तद् धि दण्डपारुष्यम् उच्यते ॥

अत्रापि वाक्पारुष्यवद् युगपत्प्रवृत्तयोः समो दण्डः । अयुगपत्प्रवृत्तयोः पूर्वप्रवृत्तस्याधिको दण्डः । यत् तु

    आक्रुष्टस् तु समाक्रोशंस् ताडितः प्रतिताडयन् ।


    हत्वा पराधिनं चैव नापराधी भवेन् नरः ॥ 

इति बृहस्पतिवचनं तत् पूर्वप्रवृत्तसमदण्डत्वं पश्चात्प्रवृत्तस्य नेत्य् एतदर्थं न तु दण्डाभावार्थम् । पारुष्यद्वये ऽपि यः क्षमां करोति स पूज्य इत्य् आह नारदः

**[२८६] **पारुष्ये सति संरम्भाद् उत्पन्ने क्षुब्धयोर् द्वयोः ।

	स मान्यते यः क्षमते दण्डभाग्यो ऽतिवर्तते ॥

दण्डपारुष्यस्वरूपसन्देहे निर्णायकम् आह याज्ञवल्क्यः (२.२१२ ) ।

    असाक्षिकहते चिह्नैर् युक्तिभिश् चागमेन च ।


    द्रष्टव्यो व्यवहारस् तु कूटचिह्नकृतो भयात् ॥

यदा कश्चिद् रहस्य् अहम् अनेन ताडित इति निवेदयति तदा चिह्नैर् व्रणादिस्वरूपगतैर् लिङ्गैः युक्तिभिः कारणपर्यालोचनात्मिकया आगमेन च जनप्रवादेन शब्दाद् दिव्येन वा । कूटचिह्नकरणसम्भावनाभयात् परीक्षा कर्तव्येत्य् अर्थः । क्वचिद् दण्डम् आह मनुः (८। २८४ ) ।

    त्वग्भेदः शतं दण्ड्यो लोहितस्य च दर्शकः ।


    मांसभेत्ता च षण्निष्कान् प्रवास्यस् त्व् अस्थिभेदकः ॥

मांसभेत्ता व्रणकर्ता । कात्यायनः ( ७८१ ) ।

    कर्णोष्ठघ्राणपादाक्षिजिह्वाशिश्नकरस्य च ।


    छेदने चोत्तमो दण्डो भेदने मध्यमो **भृगुः** ॥

याज्ञवल्क्यः (२। २१३-१४ ) ।

    भस्मपङ्करजःस्पर्शे दण्डो दशपणः स्मृतः ।


    अमेध्यपाणिनिष्ठ्यूतस्पर्शने द्विगुणः स्मृतः ॥


    समेष्व् एव परस्त्रीषु द्विगुणस् तूत्तमेषु च ।


    हीनेष्व् अर्धदमो मोहमदादिभिर् अदण्डनम् ॥

अमेध्यानि अश्रुश्लेष्मादीनि । मोहश् चित्तवैकल्यं मदो मद्यपानजन्यो ऽवस्थाविशेषः । आदिशब्देन ग्रहावेशादिकं गृह्यते । पुरीषादिस्पर्शने दण्डविशेषम् आह कात्यायनः ( ७८४ ) ।

    छर्दिमूत्रपुरीषाद्यैर् आपाद्यः स चतुर्गुणः ।


    षड्गुणः कायमध्ये स्यान् मूर्ध्नि त्व् अष्टगुणः स्मृतः ॥

ताडनार्थं हस्तपादाद्युद्योगे दण्डम् आह याज्ञवल्क्यः (२। २१६ ) ।

[२८७] उद्गूर्णे हस्तपादे तु दशविंशतिकौ दमौ ।

	परस्परं तु सर्वेषां शस्त्रे मध्यमसाहसः ॥

परस्परं वधार्थे शस्त्र उद्यते सर्वेषां वर्णानां मध्यमसाहसो दण्ड इत्य् अर्थः । अन्यत्रापि क्वचिद् दण्डम् आह स एव (य्ध्। २। २१७ - २१८ ) ।

    पादकेशांशुककरोल्लुञ्चनेषु पणान् दश ।


    पीडाकर्षांशुकावेष्टपादाभ्यासे शतं दमः ॥


    शोणितेन विना दुःखं कुर्वन् काष्ठादिभिर् नरः ।


    द्वित्रिंशतं पणान् दण्ड्यो द्विगुणो दर्शने ऽसृजः ॥

यो वस्त्रेणावेष्ट्य दृढं संपीड्याकृष्य पादेन घट्टयति स शतं दण्ड्य इति पीडाकर्षेत्यादेर् अर्थः । स एव (य्ध्। २। २१९-२२० ) ।

    करपाददतो भङ्गे भेदने कर्णनासयोः ।


    मध्यो दण्डो व्रणोद्भेदे मृतकल्पहते तथा ॥


    चेष्टाभोजनवाग्रोधे नेत्रादिप्रतिभेदने ।


    कन्धराबाहुसक्थ्नां च भङ्गे मध्यमसाहसः ॥

प्रातिलोम्यापराधे दण्ड उक्तस् तेनैव ( या। २। २१५ ) ।

    विप्रपीडाकरं छेद्यम् अङ्गम् अब्राह्मणस्य तु ।


    उद्गूर्णे प्रथमो दण्डः संस्पर्शे तु तदर्धिकः ॥

अब्राह्मणस्य क्षत्रियादेः । संस्पर्शे शस्त्रादिस्पर्शे । तदर्धिकः प्रथमसाहसार्धदण्ड इत्य् अर्थः । ब्राह्मणवधार्थं शस्त्रोद्यमे प्रथमसाहसाभिधानं शूद्रव्यतिरिक्तविषयम् । तथा च मनुः (८.२७९-२८० ) ।

    येन केनचिद् अङ्गेन हिंस्याच् छ्रेयांसम् अन्त्यजः ।


    छेत्तव्यं तत् तद् एवास्य तन् **मनोर्** अनुशासनम् ॥


    पाणिम् उद्यम्य दण्डं वा पाणिच्छेदनम् अर्हति ।

अत्र श्रेयांसम् इति सामान्येनोपादानात् क्षत्रियवैश्यापकारिणो ऽपि शूद्रस्यायं दण्डः समानन्यायत्वात् । क्षत्रियापकारिणो ऽपि वैश्यस्य [२८८] याज्ञवल्क्योक्तो दण्डः । ये वाक्पारुष्ये प्रातिलोम्यानुलोम्यविषये दण्डा उक्तास् तान् अत्रातिदिशति कात्यायनः (७८६ ) ।

    वाक्पारुष्ये यथैवोक्ताः प्रातिलोम्यानुलोम्यतः ।


    तथैव दण्डपारुष्ये पात्या दण्डा यथाक्रमम् ॥

बहुभिः सम्भूयैकस्य हनने द्विगुणो दण्डो ग्राह्य इत्य् आह विष्णुः (५ ७३ ): “एकं बहूनां निघ्नतां प्रत्येकश उक्तो दण्डो द्विगुणः” । सम्भूय ताडने उच्चैः क्रोशन्तं ताड्यमानम् उपेक्षमाणानां तत्समीपवर्तिनां द्विगुणो दण्ड इत्य् अप्य् आह स एव (५.७४ ): “द्विगुण उत्क्रोशन्तम् अनभिधावतां तत्समीपवर्तिनां संतां ( संसरतां ? ) च” इति । ताडनेन दुःसहव्रणाद्युत्पत्तौ त्व् आह कात्यायनः ( ७८७ ) ।

    देहेन्द्रियविनाशे तु यथादण्डं प्रकल्पयेत् ।


    तथा तुष्टिकरं देयं समुत्थानं च पण्डितैः ॥

तुष्टिकरं दुःसहव्रणतुष्टिकरं धनं दातव्यम् । समुत्थानं समुत्थानव्ययं भिषग्भेषजपथ्याद्यर्थं क्रियमाणं व्ययम् इति यावत् । पण्डितैर् व्रणगौरवानुसारेण कल्पितम् इति शेषः । समुत्थानव्ययदानस्यावधिम् आह स एव (कात्। ७८७ ) ।

	समुत्थानव्ययं चासौ दद्याद् आव्रणविरोपणम् ।

कलहकाले यद् अपहृतं तत् स्वामिने देयम् इत्य् आह बृहस्पतिः

    अङ्गावपीडने चैव भेदने छेदने तथा ।


    समुत्थानव्ययं दाप्यः कलहापहृतं च यत् ॥

समुत्थानव्ययो ग्राम्यपशुपीडने ऽपि देय इत्य् आह विष्णुः (५। ७५-७६ ): “सर्वे पुरुषपीडाकराः समुत्थानव्ययं दाप्या ग्राम्यपशुपीडाकराश् च” इति । पशुपीडायां दण्डम् आह याज्ञवल्क्यः (२.२२५-२६ ) ।

    दुःखे च शोणितोत्पादे शाखाङ्गछेदने तथा ।


    दण्डः क्षुद्रपशूनां तु द्विपणप्रभृतिः क्रमात् ॥

[२८९] लिङ्गस्य छेदने मृत्यौ मध्यमो मूल्यम् एव च ।

	महापशूनाम् एतेषु स्थानेषु द्विगुणो दमः ॥

क्षुद्रपशूनाम् अजाविकानां हरिणादीनाम् । ताडनेन दुःखोत्पादनं रक्तस्रावणम् । शाखाछेदनम् अत्र शृङ्गादिछेदनम् । अङ्गछेदनं करचरणादिच्छेदनम् । एतेषु चतुर्षु यथाक्रमं द्विपणप्रभृतिः द्विपणश् चतुष्पणः षट्पणो ऽष्टपणो दण्डं (? दण्डः) । लिङ्गच्छेदने मारणे च मध्यमसाहसेओ दण्डः पशुस्वामिने तन्मूल्यं दातव्यम् । महापशूनां गोगजवाज्यादीनाम् । एतेषु स्थानेषु दुःखोत्पादनादिषु चतुर्षु निमित्तेषु पूर्वोक्तदण्डाद् द्विगुणो दण्डो ग्राह्य इत्य् अर्थः । स्थावरप्राणिपीडायां दण्डम् आह मनुः ( ८। २८५ ) ।

    वनस्पतीनां सर्वेषाम् उपभोगो यथा यथा ।


    तथा तथा दमः कार्यो हिंसायाम् इति धारणा ॥

वनस्पतिग्रहणं स्थावरप्राणिमात्रोपलक्षणम् । उपभोगो यथा यथेत्य् अनेन येषाम् आम्रादीनां फलम् उपभुज्यते तेषां हिंसायाम् अधिको दण्डो येषां चम्पकादीनां पुष्पम् उपभुज्यते तेषां ततो न्यूनो दण्डो येषां पत्रम् उपभुज्यते तेषां ततो ऽपि न्यूनो दण्ड इति दर्शितम् । तद् एतद् विवृतं विष्णुना (५.५५ - ५९ ):

    फलोपभोगद्रुमच्छेदी तूत्तमसाहसं पुष्पोपभोगच्छेदी मध्यमसाहसं वल्लीगुल्मलताछेदी कार्षापणशतं तृणच्छेद्य् एकं सर्वे च तत्स्वामिनां तदुत्पत्तिम् । इति । 

सर्वे फलोपभोगदुमच्छेद्य्आदयस् तत्वामिनां छिन्नद्रुमादिस्वामिनां तदुत्पत्तिं फलभोगद्रुमाद्युत्पत्तिं पुनः प्रतिरोपितद्रुमादिभोगकालपर्याप्ता ( ? प्तां ) दद्युर् इति शेषः । यद्य् अपि वाक्पारुष्यदण्डपारुष्ययोर् विषयभेदेनान्ये ऽपि दण्डविशेषाः स्मर्तृभिर् उपदिष्टाः सन्ति तथापीदानींतनै राजभिः प्रजाक्षोभप्रसङ्गेन तादृग्दण्डस्य कर्तुम् अशक्यत्वाद् अत्युपयोगाभावेन निरर्थकग्रन्थविस्तरभयान् नात्रास्माभिः सङ्गृहीताः ।

इति श्रीकोदण्डपरशुरामेति ॥ ॥ व्यवहारविवेकोद्द्योते

दण्डपारुष्याख्यव्यवहारपदनिरूपणम् ॥ २९ ॥

**पोस्सिब्ले रेअदिन्ग् ओफ़् थे देफ़ेच्तिवे तेxत्-

**श्रीकोदण्डपरशुरामेत्यादिविविधबिरुदावलीविराजमानमानोन्नत-महाराजाधिराजश्रीशक्तिसिंहात्मजमहाराजाधिराजश्रीमदनसिंहदेवविरचिते मदनरत्नप्रदीपे व्यवहारविवेकोद्द्योते **

दण्डपारुष्याख्यव्यवहारपदनिरूपणम् ॥२९॥

[२९०]

अथ स्तेयाख्यव्यवहारपदनिरूपणम् ॥

तत्र तत्स्वरूपं दर्शयति नारदः ( साहस १४-१७

    मृद्भाण्डासनखट्वास्थिदारुचर्मतृणादि यत् ।


    शमीधान्यं कृतान्नं च क्षुद्रद्रव्यम् उदाहृतम् ॥


    वासः कौशेयवर्जं च गोवर्जं पशवस् तथा ।


    हिरण्यवर्जं लोहं च मध्यं व्रीहियवादि च ॥


    हिरण्यं रत्नकौशेयं स्त्रीपुंगोगजवाजिनः ।


    देवब्राह्मणराज्ञां च विज्ञेयं द्रव्यम् उत्तमम् ॥


    उपायैर् विविधैर् एषां छलयित्वापकर्षणम् ।


    सुप्तमत्तप्रमत्तेभ्यः स्तेयम् आहुर् मनीषिणः ॥

एषां क्षुद्रमध्योत्तमानाम् । छलयित्वापकर्षणं स्वाम्याद्यसमक्षं वञ्चयित्वापहरणं बलात्कारव्यतिरेकेण हरणम् इति यावत् । तत् स्तेयम् आहुः साहसाद् भिन्नं स्तेयम् आहुर् मन्वादय इत्य् अर्थः । बलात्कारकृतम् अपहरणं तु साहसान्तर्गतं स्तेयम् । तथा चोक्तं तेनैव ( नारद, साहस १२ ) ।

    तस्यैव भेदः स्तेयं स्याद् विशेषस् तत्र तूच्यते ।


    आधिः साहसम् आक्रम्य स्तेयम् आधिश् छलेन तु ।

तस्यैव साहसस्यैव आधिः पीडा । आक्रम्य प्रसह्य । धनापहरणद्वारा क्रियमाणः परस्य क्लेशः साहसरूपं स्तेयं छलेन तु क्रियमाण आधिः केवलस्तेयम् इत्य् अर्थः । क्षुद्रमध्योत्तमद्रव्यभेदात् तदपहरणात्मकस्य स्तेयस्य त्रैविध्यम् आह स एव (नारद, साहस १३ ) ।

    तद् अपि त्रिविधं ज्ञेयं द्रव्यापेक्षं मनीषिभिः ।


    क्षुद्रमध्योत्तमानां तु द्रव्याणाम् अपकर्षणात् ॥

तस्कराणां द्वैविध्यम् आह मनुः (९.२५६ ) ।

    द्विविधांस् तस्करान् विद्यात् परद्रव्यापहारिणः ।


    प्रकाशांश् चाप्रकाशांश् च चारचक्षुर् महीपतिः ॥

[२९१] बृहस्पतिर् अपि ।

    प्रकाशाश् चाप्रकाशाश् च तस्करा द्विविधाः स्मृताः ।


    प्रज्ञासामर्थ्यमायाभिः प्रभिन्नास् ते सहस्रधा ॥

प्रकाशतस्करान् दर्शयति स एव

    नैगमा वैद्यकितवाः सभ्योत्कोचकवञ्चकाः ।


    देवोत्पातविदो भद्राः शिल्पज्ञाः प्रतिरूपकाः ॥


    अक्रियाकारिणश् चैव मध्यस्थाः कूटसाक्षिणः ।


    प्रकाशतस्करा ह्य् एते तथा कुहकजीविनः ॥

नारदो ऽपि (परिशिष्ट २-३ ) ।

    प्रकाशवञ्चकास् तत्र कूटमानतुलाश्रिताः ।


    उत्कोचकाः सोपधिका वचकाः पण्ययोषितः ॥


    प्रतिरूपकराश् चैव मङ्गलादेशवृत्तयः ।


    इत्येवमादयो ज्ञेयाः प्रकाशास् तस्करा भुवि ॥

नैगमादिव्याजेन ये परद्रव्यापहर्तारस् ते नैगमाद्याः प्रकाशतस्करा इत्य् अर्थः । एतेषां दण्ड्यत्वम् आह व्यासः

    स्त्रीपुंसौ वञ्चयन्तीह मङ्गलादेशवृत्तयः ।


    गृह्णन्ति छद्मना चार्थम् अनार्यास् त्व् आर्यलिङ्गिनः ॥


    नैगमाद्या भूरिधना दण्ड्या दोषानुरूपतः ।


    यथा ते नातिवर्तन्ते तिष्ठन्ति समये तथा ॥

दोषानुरूपतो दण्ड्या न तु धनानुरूपत इति भावः । केषांचित् प्रकाशतस्कराणां दण्डम् आह बृहस्पतिः

    प्रच्छाद्य दोषं व्यामिश्र्य पुनः संस्कृत्य विक्रयी ।


    पण्यं द्विगुणं दाप्यो वणिग् दण्डं च तत्समम् ॥

[२९२] अज्ञातौषधिमन्त्रस्तु यश्च व्याघेरतत्त्ववित् ।

    रोगिभ्यो ‘र्थं समादत्ते स दण्ड्यश् चोरवद् भिषक् ॥


    कूटाक्षदेविनः क्षुद्रा राजभाव्यहराश् च ये ।


    गणका वञ्चकाश् चैव दण्डयास् ते कितवाः स्मृताः ॥


    अन्यायवादिनः सभ्यास् तथैवोत्कोचजीविनः ।


    विश्वस्तवञ्चकाश् चैव निर्वास्याः सर्व एव ते ॥


    ज्योतिर्ज्ञानं तथोत्पातम् अविदित्वा तु ये नृणाम् ।


    श्रावयन्त्य् अर्थलोभेन विज्ञेयास् ते प्रयत्नतः ॥


    दण्डाजिनादिभिर्य् उक्तम् आत्मानं दर्शयन्ति ये ।


    हिंसन्तश् छद्मना न्रॄणां वध्यास् ते राजपूरुषैः ॥


    स्वल्पमूल्यं तु संस्कृत्य नयन्ति बहुमूल्यताम् ।


    स्त्रीबालकान् वञ्चयन्ति दण्ड्यास् ते ‘र्थानुसारतः ॥


    हेमरत्नप्रवालाद्यान् कृत्रिमान् कुर्वते तु ये ।


    क्रेतुर् मूल्यं प्रदाप्यास् ते राज्ञा तद्विगुणं दमम् ॥


    मध्यस्था वञ्चयन्त्य् एके स्नेहलोभादिना यदा ।


    साक्षिणश् चान्यथा ब्रूयुर् दाप्यास् ते द्विगुणं दमम् ॥

भाव्यं करविशेषः । मनुः (९.२९२ ) ।

    सर्वकण्टकपापिष्ठं हेमकारं तु पार्थिवः ।


    प्रवर्तमानम् अन्याये छेदयेल् लवशः क्षुरैः ॥

विष्णुः (५। १३४ ): “द्यूते च कूटाक्षदेविनां करच्छेदः” इति । अप्रकाशतस्कराणां स्वरूपम् आह व्यासः

    साधनाद्यन्विता रात्रौ विचरन्तो ऽविभाविताः ।


    अविज्ञातनिवासाश् च ज्ञेयाः प्रच्छन्नतस्कराः ॥

रात्राव् इति प्रायिकाभिप्रायम् । दिवाप्य् अटव्यादौ प्रच्छन्नतया विचरतां पान्थमुडादीनां चोराणां सम्भवात् । अप्रकाशतस्कराणां भेदान् आह स एव

[२९३] उत्क्षेपकः सन्धिभेत्ता पान्थमुड् ग्रन्थिभेदकः ।

	स्त्रीपुङ्गोऽश्वपशुस्तेयी चोरो नवविधः स्मृतः ॥

यो धनस्वामिनो ऽनवधानं निश्चित्य समीपं न्यस्तं धनम् उद्धृत्य गृह्णाति स उत्क्षेपकः । यो गृहयोः सन्धाव् अवस्थाय तत्रत्यभित्तिं भिनत्ति स सन्धिभेत्ता । यः कान्तारादौ पान्थानां धनम् अपहरति स पान्थमुट् । यः परिधानादिग्रथितं धनं ग्रहीतुं तद्ग्रन्थिमोचनं करोति स ग्रन्थिभेदकःस्त्रीपुंगोऽश्वपशुस्तेयीति स्तेयशब्दस्य द्वन्द्वान्ते श्रूयमाणस्य प्रत्येकं सम्बन्धस् तेन नवविध इत्य् उक्तम् । उत्क्षेपकादिषु कस्य को दण्ड इत्य् अपेक्षायाम् आह बृहस्पतिः

	उत्क्षेपकस्य संदंशश् छेत्तव्यो राजपूरुषैः ।

संदंशो ऽत्र करः । अत एव याज्ञवल्क्यः ( २, २७४ ) ।

    उत्क्षेपकग्रन्थिभेदौ करसन्दंशहीनकौ ।


    कार्यौ द्वितीयापराधे करपादैकहीनको ॥

सन्दंशो ऽत्र तर्जन्यङ्गुष्ठौ ग्रन्थिमोचने तयोः साधकतमत्वात् । प्रथमापराधे तौ क्रमेण करसन्दंशरहितौ कार्यौ द्वितीयापराधे उभाव् अप्य् एककरपादरहितौ कार्याव् इत्य् अर्थः । मनुः ( ९ २७६ ) ।

    सन्धिं भित्त्वा तु ये चौर्यं रात्रौ कुर्वन्ति तस्कराः ।


    तेषां छित्त्वा नृपो हस्तौ तीक्ष्णे शूले निवेशयेत् ॥

तान् इति शेषः । बृहस्पतिः

	तथा पान्थमुषो वृक्षे गले बद्ध्वावलम्बयेत् ।

पान्थमुषः पथिकलुण्टकान् । मनुः (९। २७७ ) ।

    अङ्गुली ग्रन्थिभेदस्य छेदयेत् प्रथमे ग्रहे ।


    द्वितीये हस्तचरणौ तृतीये वधम् अर्हति ॥

अङ्गुली तर्जन्यङ्गुष्ठौ । नारदः (परिशिष्ट ३२ ) ।

[२९४] प्रथमे ग्रन्थिभेदानाम् अङ्गुल्यङ्गुष्ठयोर् वधः ।

व्यासः

    स्त्रीहर्ता लोहशयने दग्धव्यो वै कटाग्निना ।


    नरहर्ता हस्तपादौ छित्त्वा स्थाप्यश् चतुष्पथे ॥

बृहस्पतिः

	गोहर्तुर् नासिकां छित्त्वा बद्ध्वाम्भसि निमज्जयेत् ।

नारदः (परिशिष्ट २८ ) ।

    सर्वस्वं हरतो नारीं कन्यां तु हरतो वधः ।


    वाजिवारणलोहानां चाददीत **बृहस्पतिः** ॥

सर्वस्वम् इत्य् अनुषङ्गः । व्यासः

	पशुहर्तुस् त्व् अर्धपादं तीक्ष्णशस्त्रेण कर्तयेत् ।

पश्वनुसारेण पशुहर्ता दण्ड्य इत्य् आह नारदः ( परिशिष्ट २९ ) ।

    महापशून् स्तेनयतो दण्डम् उत्तमसाहसम् ।


    मध्यमं मध्यमपशून् पूर्वं क्षुद्रपशून् हृतः ॥

हृत इति षष्ठी । धान्याद्यपहरणे दण्डम् आह मनुः (८। ३२० ) ।

    धान्यं दशभ्यः कुम्भेभ्यो हरतो ऽभ्यधिकं वधः ।


    शेषे ऽप्य् एकादशगुणं दाप्यस् तस्य च तद्धनम् ॥

कुम्भो विंशतिप्रस्थाः । शेषे दशकुम्भाधिकन्यूने । तस्य धान्यस्वामिनः । स एव (मनु। ८। ३२३ ) ।

	मुख्यानां चैव रत्नानां हरणे वधम् अर्हति ।

नारदः (परिशिष्ट २७ )

    सुवर्णरजतादीनाम् उत्तमानां च वाससाम् ।


    रत्नानां चैव सर्वेषां शताद् अभ्यधिके वधः ॥

मनुः ( ८। ३२१-२२ )

	सुवर्णरजतादीनाम् उत्तमानां च वाससाम् ।

[२९५] पञ्चाशतस् त्व् अभ्यधिके हस्तच्छेदनम् इष्यते ।

	शेषे त्व् एकादशगुणं मूल्याद् दण्डं प्रकल्पयेत् ॥

अत्र सुवर्णरजतादीनां संख्या कर्षकृतेत्य् आहुर् वृद्धाः । एवम् अन्ये ऽपि दण्डा मन्वादिशास्त्रेषु द्रष्टव्याः । ग्रन्थविस्तरभयान् नात्र संगृहीताः । अत्राङ्गच्छेदादिर् दण्डो ब्राह्मणव्यतिरिक्तविषयः । अत एव याज्ञवल्क्यः (२.२७०) ।

	सचिह्नं ब्राह्मणं कृत्वा स्वराष्ट्राद् विप्रवासयेत् ।

चिह्नं ललाटे श्वपदाकाराङ्कनम् । एतच् चाङ्कनादिकं प्रायश्चित्तम् अचिकीर्षतो ज्ञातव्यम् । तथा च मनुः (९। २४० ) ।

    प्रायश्चित्तं तु कुर्वाणा पूर्वे वर्णा यथोदितम् ।


    नाङ्क्या राज्ञा ललाटे तु दाप्यास् तूत्तमसाहसम् ॥

ब्राह्मणव्यतिरिक्तेष्व् अप्य् अङ्गच्छेदादय उत्तमसाहसत्वाद् उत्तमद्रव्यापहारविषयाः,

    साहसेषु य एवोक्तस् त्रिषु दण्डो मनीषिभिः ।


    स एव दण्डः स्तेये ऽपि द्रव्येषु त्रिष्व् अनुक्रमात् ॥

इति नारदेनोत्तमसाहसस्योत्तमद्रव्यविषये व्यवस्थापनात् (नारद,

साहस २१ ) । तेन क्षुद्रमध्यद्रव्योत्क्षेपकादीनां तदनुरूपो दण्डो न करच्छेदादिः । चोरदण्डो ऽपहृतधनं तत्स्वामिने दापयित्वा कार्यः । तथा च बृहस्पतिः

	प्रदायापहृतं शास्यो दमैः शास्त्रप्रचोदितैः ।

याज्ञवल्क्यो ‘पि ( २। २७० ) ।

	चोरं प्रदाप्यापहृतं घातयेद् विविधैर् वधैः ।

चोरदण्डस्य चोरज्ञानपूर्वकत्वात् ते कथं ज्ञातव्या इत्य् अपेक्षायाम् आह व्यासः

    प्रकाशाश् चाप्रकाशाश् च तस्करा द्विविधाः स्मृताः ।


    स्वचिह्नैर् एव विज्ञेयाश् चारैस् तस्करवेदिभिः ॥

[२९६] बृहस्पतिः

	संसर्गचिह्नलोप्त्रैर् वा विज्ञातो राजपूरुषैः । इति ।

संसर्गश् चोरादिसंसर्गः । लोपत्रं स्तेयप्राप्तं धनम् । याज्ञवल्क्यो ऽपि ( २। २६६-६८ ) ।

    ग्राहकैर् गृह्यते चोरो लोप्त्रेणाथ पदेन च ।


    पूर्वकर्मापराधी च तथा चाशुद्धवासकः ॥


    अन्ये ऽपि शङ्कया ग्राह्या जातिनामादिनिह्नवैः ।


    द्यूतस्त्रीपानसक्ताश् च शुष्कभिन्नमुखस्वराः ॥


    परद्रव्यगृहाणां च पृच्छका गूढचारिणः ।


    निराया व्ययवन्तश् च विनष्टद्रव्यविक्रयाः ॥

ग्राहकैः राजकीयैः । पूर्वकर्मापराधी प्राक्प्रसिद्धचौर्यः । अशुद्धवासकः अप्रज्ञातनिवासस्थानः । निह्नवो ऽपलापः । शुष्कभिन्नमुखस्वराः कुतस्त्यस् त्वम् असीति चोरग्राहकैः प्रश्ने कृते शुष्कमुखा भिन्नस्वराः । विनष्टद्रव्यविक्रयाः अविज्ञातस्वामिकद्रव्यविक्रेतारः । चोरशङ्कया गृहीतैर् दिव्यादिनात्मावश्यं शोधनीय इत्य् आह स एव (य्ध्। २.२६९ ) ।

    गृहीतः शङ्कया चौर्ये नात्मानं चेद् विशोधयेत् ।


    दापयित्वा हृतं द्रव्यं चौरदण्डेन दण्डयेत् ॥

चोरसाहाय्यकारिणः प्रत्य् आह मनुः (९। २७१ ) ।

    ग्रामेष्व् अपि च ये केचिच् चोराणां भक्तदायकाः ।


    भाण्डावकाशदाश् चैव सर्वांस् तान् अपि घातयेत् ॥

भाण्डं चौर्योपकरणम् । नारदः ( साहस १९ ) ।

    भक्तावकाशदातारः स्तेनानां ये प्रसर्पताम् ।


    शक्ताश् च ये उपेक्षन्ते ते ऽपि तद्दोषभागिनः ॥

[२९७] आह्वायकादेशकरास् तथा चान्तरदापकाः ।

	समदण्डाः स्मृता ह्य् एते ये च प्रच्छादयन्ति तान् ॥

आदेशकराः आज्ञाकारिणः ।

इति श्रीकोदण्डपरशुरामेति ॥ ॥ व्यवहारविवेकोद्द्योते

स्तेयाख्यव्यवहारपदनिरूपणम् ॥ ३० ॥

**पोस्सिब्ले रेअदिन्ग् ओफ़् थे देफ़ेच्तिवे तेxत्-

**श्रीकोदण्डपरशुरामेत्यादिविविधबिरुदावलीविराजमानमानोन्नत-महाराजाधिराजश्रीशक्तिसिंहात्मजमहाराजाधिराजश्रीमदनसिंहदेवविरचिते मदनरत्नप्रदीपे व्यवहारविवेकोद्द्योते **

स्तेयाख्यव्यवहारपदनिरूपणम् ॥३०॥

अथ साहसाख्यव्यवहारपदनिरूपणम् ॥

तत्र तत्स्वरूपं दर्शयति नारदः ( साहस १ ) ।

    सहसा क्रियते कर्म यत् किंचिद् बलदर्पितैः ।


    तत् साहसम् इति प्रोक्तं सहो बलम् इहोच्यते ॥

यत् किंचिन् मनुष्यमारणपरद्रव्यापहरणादिकम् । अत एव बृहस्पतिः

    मनुष्यमारणं चौर्यं परदाराभिमर्शनम् ।


    पारुष्यम् उभयं चेति साहसं स्याच् चतुर्विधम् ॥

उभयं पारुष्यं वाक्पारुष्यदण्डपारुष्ये । तस्य त्रैविध्यम् आह नारदः ( साहस ३-६ )

    तत् पुनस् त्रिविधं ज्ञेयं प्रथमं मध्यमं तथा ।


    उत्तमं चेति शास्त्रेषु तस्योक्तं लक्षणं पृथक् ॥


    फलमूलोदकादीनां क्षेत्रोपकरणस्य च ।


    भङ्गाक्षेपावमर्दाद्यैः प्रथमं साहसं स्मृतम् ॥


    वासःपश्वन्नपानानां गृहोपकरणस्य च ।


    एतेनैव प्रकारेण मध्यमं साहसं स्मृतम् ॥


    व्यापादो विषशस्त्राद्यैः परदाराभिमर्शनम् ।


    प्राणोपरोधि यच् चान्यद् उक्तम् उत्तमसाहसम् ॥

भङ्गः फलादिस्वरूपनाशनम् । आक्षेप आक्रोशो वाचा तिरस्करणम् **[२९८] **इति यावत् । अवमर्दः स्वरूपावशेषेण पीडनम् । एतेनैव प्रकारेण भङ्गाक्षेपादिनोक्तप्रकारेण । मनुष्यमारणाख्यसाहसकारिज्ञानोपायम् आह बृहस्पतिः

    हृतः संदृश्यते यत्र घातकस् तु न दृश्यते ।


    पूर्ववैरानुमानेन ज्ञातव्यः स महीभुजा ॥


    प्रतिवेश्यानुवेश्यौ च तस्य मित्रारिबान्धवाः ।


    प्रष्टव्या राजपुरुषैः सामादिभिर् उपक्रमैः ॥


    विज्ञेयो साधुसंसर्गाच् चिह्नैर् होढेन वा नरैः ।


    एषोदिता घातकानां तस्कराणां च भावना ॥


    गृहीतः शङ्कया यस् तु न तत् कार्यं प्रपद्यते ।


    शपथेनावबोद्धव्यः सर्ववादेष्व् अयं विधिः ॥

चिह्नं रक्तलेपादि । होढो मृतहस्तस्थधनादिकम् । तज्ज्ञानानन्तरं कर्तव्यम् आह याज्ञवल्क्यः (२.२७३ ) ।

    बन्दिग्राहांस् तथा वाजिकुञ्जराणां विहारिणः ।


    प्रसह्य घातिनश् चैव शूलान् आरोपयेन् नरान् ॥

यत् तु बृहस्पतिना,

    प्रकाशघातका ये तु तथा चोपांशुघातकाः ।


    ज्ञात्वा सम्यग् धनं हृत्वा हन्तव्या विविधैर् वधैः ॥ 

इति धनापहरणम् अप्य् उक्तं तद् ब्राह्मणवधकर्तृक्षत्रियादिविषयम् । अत एव बौधायनः (१। १०। २० - २१ ) “क्षत्रियादीनां ब्राह्मणस्य वधे वधः सर्वस्वहरणं च । तेषाम् एव तुल्यावकृष्टवधे यथाबलम् अनुरूपं दण्डं च प्रकल्पयेत्” इति । तेषां क्षत्रियादीनां तुल्यावकृष्टवधे सजातीयहीनजातीयवधे दण्डं शारीरं दण्डम् । बहवो यद्य् एकं हन्युस् तदा ते दोषानुरूपं दण्ड्याः । तथा च बृहस्पतिः

[२९९] एकस्य बहवो यत्र प्रहरन्ति रुषान्विताः ।

    मर्मप्रहारको यस् तु घातकः स उदाहृतः ॥


    मर्मघाती तु यस् तेषां यथोक्तं प्रापयेद् दमम् ।


    आरम्भकृत् सहायश् च दोषभागी तदर्धतः ॥


    क्षतस्याल्पमहत्त्वं च मर्मस्थानं च यत्नतः ।


    सामर्थ्यं चानुबन्धं च ज्ञात्वा चिह्नः प्रसाधयेत् ॥

कात्यायनो ऽपि ( ८३२-८३४) ।

    आरम्भकृत् सहायश् च तथा मार्गानुदेशकः ।


    आश्रयः शस्त्रदाता च भक्तदाता विकर्मिणाम् ॥


    युद्धोपदेशकश् चैव तद्विनाशप्रवर्तकः ।


    उपेक्षाकार्ययुक्तश् च दोषवक्तानुमोदकः ॥


    अनिषेद्धा क्षमो यः स्यात् सर्वे ते कार्यकारिणः ।


    यथाशक्त्यनुरूपं तु दण्डम् एषां प्रकल्पयेत् ॥

ब्राह्मणस्य मनुष्यमारणकर्तृत्वे ‘पि न शारीरो दण्ड इत्य् आह नारदः ( साहस ९-१० ) ।

    अविशेषेण सर्वेषाम् एष दण्डविधिः स्मृतः ।


    वधाद् ऋते ब्राह्मणस्य न वधं ब्राह्मणो ऽर्हति ॥


    शिरसो मुण्डनं दण्डस् तस्य निर्वासनं पुरात् ।


    ललाटे चाभिशस्ताङ्कः प्रयाणं गर्दभेन च ॥

यमो ‘पि ।

    न शारीरो ब्राह्मणस्य दण्डो भवति कस्यचित् ।


    गुप्ते तु बन्धने बद्ध्वा राजा भक्तं प्रदापयेत् ॥

क्वचिन् मनुष्यवधकर्तुर् दोषाभावकथनमुखेन दण्डाभावम् आह मनुः (८।

३४८-४९ ) ।

[३००] शस्त्रं द्विजातिभिर् ग्राह्यं धर्मो यत्रोपरुध्यते ।

    द्विजातीनां च वर्णानां विप्लवे कालकारिते ॥


    आत्मनश् च परित्राणे दक्षिणानां च सङ्गरे ।


    स्त्रीविप्राभ्युपपत्तौ च घ्नन् धर्मेण न दुष्यति ॥

धर्मस् तटाकारामादिरूपो यत्र देशे काले वा भेदनछेदनादिन्ओपरुध्यते तत्र । तथा शूद्रेतरवर्णसङ्करे परदाराक्रमणादिरूपे राजाभावकालकारिते । तथ्आत्मनः परतः प्राणसंशये तथा दक्षिणानां सङ्गरे गोग्रहणनिमित्तके युद्धे । तथा स्त्रीविप्राभ्युपपत्तौ दुर्बलहिंसानिवारणे धर्मार्द्धतो ( धर्माद्धेतोः ? ) घ्नन् न दुष्यति यतः । अतस् तत्र द्विजातिभिः क्षत्रधर्माश्रयणरहितैर् अपि समर्थैः शस्त्रं ग्राह्यम् इत्य् अन्वयः । क्षत्रियस्य प्रजापालनार्थे शस्त्रग्रहणं वचनान्तरेण प्राप्तम् इत्य् अत्र द्विजातिग्रहणं ब्राह्मणवैश्यविषयम् । अत एव बौधायनः (२। २। ८० ) ।

    ब्राह्मणार्थे गवार्थे वा वर्णानां वापि सङ्करे ।


    गृह्णीयातां विप्रविशौ शस्त्रं धर्मव्यतिक्रमे ॥

विष्णुर् अपि- “स्वात्मत्राणे वर्णसंसर्गे वा ब्राह्मणवैश्यौ शस्त्रम् आददीयाताम्” । गौतमो ऽपि (७। २५, २१.१९ ): “प्राणसंशये ऽपि ब्राह्मणो ऽपि शस्त्रम् आददीत दुर्बलहिंसायां च विमोचने शक्तश् चेत्” । यत् तु “परीक्षार्थम् अपि ब्राह्मण आयुधं नाददीत” इत्य् आपस्तम्बवचनं (१। १०। २९। ६ ), यच् च “हास्यार्थम् अपि ब्राह्मण आयुधं नाददीत” इति

बौधायनवचनं तद् धर्मोपरोधादिव्यतिरिक्तविषयम् । आततायिवधे दोषाभावकथनमुखेन दण्डाभावम् आह बृहस्पतिः

	नाततायिवधे हन्ता किल्बिषं प्राप्नुयात् क्वचित् ।

मनुर् अपि ( ८। ३५१ ) ।

    नाततायिवधे दोषो हन्तुर् भवति कश्चन ।


    प्रकाशं वाप्रकाशं वा मन्युस् तं मन्युम् ऋच्छति ॥ इति ।

[३०१] प्रकाशं जनसमक्षम् आभाष्य । अप्रकाशं विषदानादिनेति व्याख्यातं मेधातिथिना । एतच् च गोब्राह्मणव्यतिरिक्तविषयम् । तथा च सुमन्तुः: “नाततायिवधे दोषो ऽन्यत्र गोब्राह्मणवधात्” । कात्यायनो ऽपि ।

    आततायिनि चोत्कृष्टे तपःस्वाध्यायजन्मनः ।


    वधस् तत्र तु नैव स्यात् पापे हीने वधो **भृगुः** ॥

यत् तु,

    गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् ।


    आततायिनम् आयान्तं हन्याद् एवाविचारयन् ॥ 

इति मनुवचनं (८। ३५० ), यच् च

    आततायिनम् आयान्तम् अपि वेदान्तपारगम् ।


    जिघांसन्तं जिघांसीयान् न तेन भ्रूणहा भवेत् ॥ 

इति वसिष्ठवचनं ( ३। १७ ) तद् अत्यन्तावध्यानां गुर्वादीनाम् अप्य् आततायिनां वधे न दोषः किम् उतान्यस्याततायिनो वधे इत्य् एवं कैमुतिकन्यायप्रतिपादनपरम् । अत्र मनुवचने आयान्तम् इत्य् उपलक्षणं तेन कृतापराधो ‘प्य् आततायी हन्तव्य एवेत्य् उक्तं मेधातिथिना “आततायित्वाच् चासौ हन्यते न हि कृतवत आततायित्वम् अपैति” इति ग्रन्थेन । आत्मरक्षणाद्यर्थं मारणेच्छारहितेन निर्वार्यमाणानां ब्राह्मणादीनां कथंचित् प्रमादेन मरणे न निवारयतू राजदण्ड इति विज्ञानेश्वराचार्यकृता व्यवस्था, ।स्मृतिचन्द्रिकाकारास् तु,

    आत्मत्यागः परत्यागात् पापीयान् पातकाद् अपि ।


    पातके निष्कृतिः प्रोक्ता कथम् आत्मघ्ननिष्कृतिः ॥


    आत्मानं बुद्धिसम्पन्नं यो ऽयं सर्वार्थसिद्धिषु ।


    श्रमदुःखमये त्यक्त्वा रौरवे परिपच्यते ॥


    उद्यम्य शस्त्रम् आयान्तं भ्रूणम् अप्य् आततायिनम् ।


    निहत्य भ्रूणहा न स्याद् अहत्वा भ्रूणहा भवेत् ॥

**[३०२] **इति गालववचनात्,

    स्वाध्यायिनं कुले जातं यो हन्याद् आततायिनम् ।


    अहत्वा भ्रूणहा स स्यान् न हत्वा भ्रूणहा भवेत् ॥ 

इति बृहस्पतिवचनाच् चात्मपरित्राणार्थम् आततायिगोब्राह्मणहननम् अवश्यं कर्तव्यम् । “अन्यत्र गोब्राह्मणात्”इति सुमन्तुवचनं “आततायिनि चोत्कृष्टे” इति कात्यायनवचनं चात्मपरित्राणव्यतिरिक्तधर्मोपरोधादिव्यतिरिक्तविषयम् इत्य् आहुर् योजयन्ति चैतद् आत्मपरित्राणव्यतिरिक्तविषयत्वेन बृहस्पतिवचनं ।

    आततायिनम् उत्कृष्टं वृत्तस्वाध्यायसंयुतम् ।


    यो न हन्याद् वधप्राप्तं सो ‘श्वमेधफलं लभेत् ॥ इति ।

आततायिनः के इत्य् अपेक्षायाम् आह वसिष्ठः (३.१६ ) ।

    अग्निदो गरदश् चैव शस्त्रपाणिर् धनापहः ।


    क्षेत्रदारहरश् चैव षड् एते आततायिनः ॥

कात्यायनो ऽपि ( ८०२-८०३ ) ।

    उद्यतासिविषाग्निश् च शापोद्यतकरस् तथा ।


    आथर्वणेन हन्ता च पिशुनश् चैव राजनि ॥


    भार्यातिक्रमकारी च रन्ध्रान्वेषणतत्परः ।


    एवमाद्यान् विजानीयात् सर्व एवाततायिनः ॥

एवमाद्यान् एवंप्रकारान् । स एव (क्। ८०४ ) ।

    अनाक्षारितपूर्वो यस् त्व् अपराधे प्रवर्तते ।


    प्राणद्रव्यापहारी च तं विद्याद् आततायिनम् ।

अनाक्षारितपूर्वः अबाधितपूर्वः । एतेनार्थाद् आक्षारितपूर्वो यो विषदानाद्यपराधे प्रवर्तते स नाततायीति दर्शितम् । पश्वादीनाम् अप्य् आततायिनां वधे न दोष इत्य् उक्तं तेनैव (कात्। ८०५ ) ।

    नखिनां दंष्ट्रिणां चैव शृङ्गिणां चाततायिनाम् ।


    हस्त्यश्वानां तथान्येषां वधे हन्ता न दोषभाक् ॥

**[३०३] **अत्र दोषाभावकथनात् पशुस्वामिने न धनदानं न च राज्ञे दण्डदानम् इत्य् अवगन्तव्यम् । साहसस्तेयस्वरूपम् आह याज्ञवल्क्यः (२.२३० ) ।

	सामान्यद्रव्यप्रसभहरणं साहसं स्मृतम् ।

बहुभिर् जनैः प्रहरादिकालक्रमेण रक्ष्यमाणस्य द्रव्यस्य बलात्कारेण हरणं साहसरूपं स्तेयम् इत्य् अर्थः । तत्र दण्डम् आह याज्ञवल्क्य एव ( २। २३० ) ।

	तन्मूल्याद् द्विगुणं दण्डो निह्नवे तु चतुर्गुणः ।

तन्मूल्यात् अपहृतद्रव्यमूल्यात् । निह्नवे अपलापे । एतद् वस्त्राद्युत्तमद्रव्यहरणे अतिदृप्तसाहसिककृते द्रष्टव्यम् । अत एव बृहस्पतिः

	द्विगुणो वा कल्पनीयः पुरुषापेक्षया नृपैः । इति ।

द्विगुणः अनतिदृप्तसाहसिककृते यो दण्डः स्वेनोक्तस् तद्द्विगुण इत्य् अर्थः । स च यथा ।

    क्षेत्रोपकरणं चैव पुष्पमूलफलानि च । 


    विनाशयन् हरन् दण्ड्यः शताद्यम् अनुरूपतः ॥


    पशुवस्त्रान्नपानानि गृहोपकरणं तथा ।


    हिंसयंश् चोरयन् दाप्यो द्विशताद्यं दमं तथा ॥


    स्त्रीपुंगोहेमरत्नानि देवविप्रधनं तथा ।


    यौषेयं चोत्तमं द्रव्यम् एषां मूल्यसमो दमः ॥


    द्विगुणो वा कल्पनीयः पुरुषापेक्षया नृपैः ।


    हन्ता वा घातनीयः स्यात् प्रसङ्गविनिवृत्तये ॥

यौषेयं स्त्रीसम्बन्धि । हन्ता वा इति वाशब्द एवार्थे । तेन दण्डग्रहणानन्तरं स्तेयप्रकरणोक्तस् तत्तच्छरीरदण्डः कर्तव्य एवेत्य् अर्थः । अत्र विनाशयन् हरन् हिंसयंश् चोरयन् हन्तेति पदैः स्तेनस्य क्रोधलोभकृत**[३०४]**हननसहितस्तेयकारित्वाभिधानेनास्य दण्डस्य साहसस्तेयविषयता स्पष्टीक्रियते । साहसस्तेयस्य क्रोधलोभकृतत्वम् उक्तं तेनैव

	सांप्रतं साहसस्तेयं श्रूयतां क्रोधलोभजम् ।

साहसस्तेयप्रयोजकस्यापि दण्डम् आह याज्ञवल्क्यः (२। २३१ ) ।

    यः साहसं कारयति स दाप्यो द्विगुणं दमम् ।


    यश् चैवम् उक्त्वाहं दाता कारयेत् स चतुर्गुणम् ॥

यस् तु वाङ्मात्रेण साहसं कारयति स साहसकारिणो द्विगुणं दण्डं दाप्यः । यस् तु धनम् अहं दास्यामीत्य् उक्त्वा साहसे प्रेरयति स चतुर्गुणं दाप्य इत्य् अर्थः । स्त्रीसंग्रहणरूपसाहसस्वरूपम् आह बृहस्पतिः

    अनिच्छन्त्या यत् क्रियते सुप्तोन्मत्तप्रमत्तया ।


    प्रलपन्त्या वा रहसि बलात्कारकृतं तु तत् ॥

अनिच्छन्त्या सह यत् परपुरुषेणेति शेषः । अनिच्छन्त्याश् चिह्नानि तस्याः कर्तव्यं राजकर्तव्यं च दर्शयति संवर्तः

    नेच्छन्त्या यानि चिह्नानि बलात्कारकृतानि च ।


    परपुंसः प्रसङ्गेषु नारीणां तानि शृण्वत ॥


    नखदन्तक्षतक्षामा सकचग्रहविक्षता ।


    सद्यो विध्वंसिता नारी बलात्कारेण दूषिता ॥


    उच्चैर् विक्रोशयन्ती च रुदन्ती ( ती ? ) लोकसंनिधौ ।


    तस्य नाम्ना वदन्ती च यथाहं तेन दूषिता ॥


    शोचेद् एवंविधैर् लिङ्गैर् व्रणीकृतपयोधरा ।


    चिह्नालङ्कारकेशैश् च व्याकुलीकृतलोचना ।


    राज्ञा सभ्यैः सभां नीत्वा स्वयम् अन्विष्य तत्क्षणात् ।


    यद् ब्रूयात् सहजं वाक्यं तत् कर्तव्यं प्रयत्नतः ॥


    विवादे साक्षिणाम् अत्र प्रकुर्वीत परिग्रहम् ।


    प्रार्थनाद् अभिशस्तस्य न दिव्यं दातुम् अर्हति ॥

अत्र दण्डम् आह मनुः ( ८। ३७८ ) ।

	सहस्रं ब्राह्मणो दण्ड्यो विप्रां गुप्तां बलाद् व्रजन् ।

गुप्तां स्वनियमेन रक्षिताम् । क्षत्रियादिसवर्णविषये दण्डम् आह बृहस्पतिः

    सहसा कामयेद् यस् तु धनं तस्याखिलं हरेत् ।


    उत्कृत्य लिङ्गं वृषणौ भ्रामयेद् गर्दभेन तु ॥

कामयेत् परस्त्रियं गच्छेत् । अनुलोमजातिषु प्रतिलोमजातिषु च सजातीयपरभार्यागमने ऽयम् एव दण्डः । ब्राह्मणादिषु सर्वेष्व् अपि हीनजातीयागमने त्व् एतदर्धपरिमितो दण्डः । उत्कृष्टजातिगमने त्व् अयं दण्डो मारणसहितः कर्तव्य इत्य् आह स एव

    दमो नेयः समायां तु हीनायाम् अर्धिकस् ततः ।


    पुंसः कार्यो ऽधिकायां तु गमने सप्रमापणम् ॥

दमः सहसा कामयेद् इति वाक्योक्तः । नेयः प्रापणीयः । यत् तु कात्यायनेन ( ८३० )

    स्त्रीषु कृतोपभोगः स्यात् प्रसह्य पुरुषो यदा ।


    वधे तत्र प्रवर्तेत कार्यातिक्रमणं हि तत् ॥ 

इति वधमात्रम् अभिहितं तन् निर्गुणस्य भार्यायाम् उपभुक्तायां द्रष्टव्यम् । अत्र च स्त्रिया अपराधाभावाद् यद्य् अपि दण्डो नोक्तस् तथापि परपुरुषोपभुक्तत्वेनास्याः सपापत्वात् क्वचित् कृतप्रायश्चित्ता संव्यवहार्या क्वचिन् नेत्य् आह स एव

    अनिच्छन्ती तु या भुक्ता गुप्तां तां वासयेद् गृहे ।


    मलिनाक्षीम् अधःशय्यां पिण्डमात्रोपजीविनीम् ॥


    कारयेन् निष्कृतिं कृच्छं पराकं वा समे गताम् ।


    हीनवर्णोपभुक्ता या त्याज्या वध्याथ वा भवेत् ॥

गुप्तां पुनः सम्भोगरहिताम् । वासयेत् विशुद्धिपर्यन्तम् इति शेषः । समे सवर्णे । वाग्दण्डपारुष्याद्यात्मके फलमूलोदकादीनाम् इति वाक्योक्ते प्रथममध्यमोत्तमादिभेदेन त्रिविधे साहसे दण्डम् आह नारदः ( साहस, ७-९ ) ।

[३०६] तस्य दण्डः क्रियापेक्षः प्रथमस्य शतावरः ।

    मध्यमस्य तु शास्त्रज्ञैर् दृष्टः पञ्चशतावरः ॥


    उत्तमे साहसे दण्डः सहस्रावर इष्यते ।


    वधः सर्वस्वहरणं पुरान् निर्वासनाङ्कने ॥


    तदङ्गच्छेद इत्य् उक्तो दण्ड उत्तमसाहसे ॥

दण्डः क्रियापेक्षः अपराधक्रियापेक्षः कल्पनीय इति शेषः । वाग्दण्डपारुष्यात्मकप्रथमसाहसस्य शतावरो दण्डः कार्षापणशतान् न्यूनो नास्तीत्य् अर्थः । एवं पञ्चशतावरः सहस्रावर इत्य् अत्रापि द्रष्टव्यम् । उत्तमसाहसे य एते दण्डा उक्तास् ते ऽपराधानुसारेण व्यस्ताः समस्ता योजनीयाः । उत्तमसाहसिकस्य दत्तदण्डस्याप्य् असंव्यवहार्यताम् आह स एव ( नारद, साहस ११ ) ।

    स्यातां संव्यवहार्यौ द्वौ धृतदण्डौ तु पूर्वयोः ।


    धृतदण्डो ऽप्य् असंभाष्यो ज्ञेय उत्तमसाहसे ॥

इति श्रीकोदण्डपरशुरामेति॥॥॥।व्यवहारविवेकोद्द्योते

साहसाख्यव्यवहारपदनिरूपणम् ॥ ३१ ॥

**पोस्सिब्ले रेअदिन्ग् ओफ़् थे देफ़ेच्तिवे तेxत्-

**श्रीकोदण्डपरशुरामेत्यादिविविधबिरुदावलीविराजमानमानोन्नत-महाराजाधिराजश्रीशक्तिसिंहात्मजमहाराजाधिराजश्रीमदनसिंहदेवविरचिते मदनरत्नप्रदीपे व्यवहारविवेकोद्द्योते **

साहसाख्यव्यवहारपदनिरूपणम् ॥३१॥

अथ स्त्रीसंग्रहणाख्यव्यवहारपदनिरूपणम् ॥

तत् त्रिविधम् इत्य् आह बृहस्पतिः

    पापमूलं संग्रहणं त्रिप्रकारं निबोधत ।


    बलोपाधिकृते द्वे तु तृतीयम् अनुरागजम् ॥

त्रयाणाम् अपि भेदानां स्वरूपं दर्शितं तेनैव

    अनिच्छन्त्या यत् क्रियते मत्तोन्मत्तप्रमत्तया ।


    प्रलपन्त्या वा रहसि बलात्कारकृतं तु तत् ॥


    छद्मना गृहम् आनीय दत्त्वास्या मदकारणम् ।


    संयोगः क्रियते यत् तु तद् उपाधिकृतं विदुः ॥

[३०७] अन्योन्यचक्षूरागेण दूतीसंप्रेषणेन वा ।

	कृतं रूपार्थलोभेन ज्ञेयं तद् अनुरागजैम् ॥

मदकारणं मादकं धत्तूरबीजादिकम् । तत्र बलात्कारकृतं स्त्रीसंग्रहणं साहसान्तर्भूतत्वात् तत्प्रकरणे ऽधुनैव दर्शितम् । उपाधिकृते दण्डम् आह स एव

    छद्मना कामयेद् यस् तु तस्य सर्वहरो दमः ।


    अङ्कयित्वा भगाङ्केन पुरान् निर्वासयेत् ततः ॥

सर्वहरः सर्वस्वहरः । एतत् सजातीयपरभार्यागमनविषयं हीनजातीयागमने तदर्धभूतः सर्वस्वहरणरूपो दण्डः । उत्कृष्टजातीयागमने तु वधसहितो ऽयं दण्डः । तथा च स एव

    दमो नेयः समायां तु हीनायाम् अर्धिकस् ततः ।


    पुंसः कार्यो ऽधिकायां तु गमने सप्रमापणम् ॥ इति ।

अत्र पुरुषस्यैवापराधो न स्त्रिया इति तस्यैव दण्ड उक्तो न स्त्रियास् तेन साहसस्त्रीसंग्रहणवत् छद्मकृते ऽपि सजातीयोपभुक्तायाः प्रायश्चित्तकरणानन्तरं संव्यवहार्यता हीनोपभुक्तायास् तु नेति ज्ञातव्यम् । अनुरागजसंग्रहणस्य त्रैविध्यम् आह व्यासः

    संग्रहस् त्रिविधो ज्ञेयः प्रथमो मध्यमस् तथा ।


    उत्तमश् चेति शास्त्रेषु तस्योक्तं लक्षणं पृथक् ॥

एतेषां स्वरूपं दर्शयति बृहस्पतिः

    अपाङ्गप्रेक्षणं हास्यं दूतीसंप्रेषणं तथा ।


    स्पर्शो भूषणवस्त्राणां प्रथमः संग्रहः स्मृतः ॥


    प्रेषणं गन्धमाल्यानां फलमद्यान्नवाससाम् ।


    सम्भाषणं च रहसि मध्यमं संग्रहं विदुः ॥


    एकशय्यासनं क्रीडा चुम्बनालिङ्गनं तथा ।


    एतत् संग्रहणं प्रोक्तम् उत्तमं शास्त्रवेदिभिः ॥

[३०८] एतेषु त्रिषु क्रमेण दण्डान् आह स एव

    त्रयाणाम् अपि चैतेषां प्रथमो मध्य उत्तमः ।


    विनयः कल्पनीयः स्याद् अधिको द्रविणाधिके ॥

अधिकः प्रथमसाहसादिभ्यो ऽधिकः । परस्त्रिया सम्भाषणं कुर्वाणस्य दण्डम् आह मनुः ( ८। ३५४ ) ।

    परस्य पत्न्या पुरुषः सम्भाषं योजयेत् सह ।


    पूर्वम् आक्षारितो दोषैः प्राप्नुयात् पूर्वसाहसम् ॥

आक्षारितः अभिशस्तः । दोषैः नानोपभोगवाञ्छादिभिः । यस् तु पापबुद्धिविरहितः कारणान्तरात् सम्भाषते न तस्य दण्ड इत्य् उक्तं तेनैव ( मनु ८। ३५५ )

    यस् त्व् अनाक्षारितः पूर्वम् अभिभाषेत कारणात् ।


    न दोषं प्राप्नुयात् किंचिन् न हि तस्य व्यतिक्रमः ॥

बृहस्पतिना तु सम्भाषणस्य मध्यमसंग्रहत्वम् अभिधाय तत्र मध्यमसाहसो दण्ड उक्तो मनुना तु पूर्वसाहस उक्तः । अनयोर् उत्कृष्टसजातीयसम्भाषणविषयत्वेन व्यवस्था परिकल्पनीया । या पित्रादिभिर् निषिद्धं परपुरुषेण सम्भाषणं करोति सा पणशतं दण्ड्या पुरुषः पित्रादिभिर् निषिद्धं सम्भाषणं कुर्वाणः पणशतद्वयं दण्डनीयः । उभाव् अपि प्रतिषिद्धं परस्परं भाषणादिकं कुर्वाणौ सम्भोगे यो दण्डस् तद्दण्डभाजाव् इत्य् आह याज्ञवल्क्यः (२। २८५ ) ।

    स्त्री निषेधे शतं दण्ड्या द्विशतं तु दमं पुमान् ।


    प्रतिषेधे तयोर् दण्डो यथा संग्रहणे तथा ।

निषिध्यते इति निषेधः । कर्मणि ऽहलश् चऽ (पा। ३.३.१२१) इति घञ् । एतच् चारणादिस्त्रीव्यतिरिक्तविषयम् । तथा च मनुः (८.३६२) ।

    नैष चारणदारेषु विधिर् नात्मोपजीविषु ।


    सज्जयन्ति हि ते नारीर् निगूढाश् चारयन्ति च ॥

[३०९] चारणा नटाः । आत्मोपजीविनः वेशोपजीविनः । एतेषां दारेषु एष विधिः अभिभाषणादिनिमित्तकदण्डविधिः । यत ते नारीः स्वभार्याः सज्जयन्ति पुरुषान्तरे संयोजयन्ति प्रच्छन्नीकृत्य चारयन्ति चेत्य् अर्थः । सम्भोगे दण्डम् आह याज्ञवल्क्यः (२। २८६ ) ।

    सजाताव् उत्तमो दण्ड आनुलोम्ये तु मध्यमः ।


    प्रातिलोम्ये वधः पुंसो नार्याः कर्णादिकर्तनम् ॥

अत्र स्त्रिया अपि दण्डाभिधानाद् अनुरागजसंग्रहणविषयम् एतद् वाक्यम् इत्य् अवगम्यते, बलात्कारकृतोपाधिकृतयोः स्त्रिया अनपराधित्वेन दण्डाभावात् । सजातीयागमने तूत्तमसाहसो दण्डः, हीनजातीयागमने मध्यमसाहसः, उत्कृष्टजातीयागमने गन्तुर् वधस् तस्याः कर्णादिकर्तनम् इत्य् अर्थः । अस्माद् एव प्रातिलोम्येन गमने पुरुषस्य वधं विधाय स्त्रियास् तदर्धतुल्यकर्णादिकर्तनविधानात् सजातीयागमनादौ पुरुषस्य याव् उतममध्यमसाहसौ दण्डाव् उक्तौ तत्र तदर्धं स्त्रिया दण्ड इति सूचितम् । अत एव कात्यायनः ( ४८७ ) ।

    सर्वेषु चापराधेषु पुंसो यो ऽर्थदमः स्मृतः ।


    तदर्धं योषितो दद्युर् वधे पुंसो ऽङ्गकर्तनम् ॥

योषितो ऽपराधकर्त्र्य इति शेषः । यस् तु

	शतानि पञ्च दण्ड्यः स्याद् इच्छन्त्या सह सङ्गतः ।

इति मनुना ( ८। ३७८) ब्राह्मणस्येच्छन्त्या ब्राह्मण्या गमने दण्ड उक्तः स या अरक्षिता अक्षतचरिता तद्गमनविषयः । यश् चानुलोम्येन गमने ऽप्य् एवम् एव दण्ड उक्तः (मनु ८। ३८५ )

    अगुप्ते वैश्यराजन्ये शूद्रां वा ब्राह्मणो व्रजन् ।


    शतानि पञ्च दण्ड्यः स्यात् सहस्रं त्व् अन्त्यजस्त्रियम् ॥ 

इति, स या वैश्यादयो ऽगुप्ता मानसव्यभिचाराद् अरक्षिता गृहे ऽवरुद्धाः प्रसह्य रक्षिता इति यावत् तासां गमने वेदितव्यः । मानसव्यभिचारादरक्षितानां [३१०] गृहे ऽवरोधेन बलाद् रक्षणं कार्यम् इत्य् उक्तं स्त्रीपुंधर्मप्रकरणे तेनैव ( मनु ९। १२ ) ।

	अरक्षिता गृहे रुद्धाः पुरुषैर् आप्तकारिभिः । इति ।

यश् च तेनैव (मनु ८। ३८३ )

	सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन् ।

इति दण्ड उक्तः स गृहव्यापारनियोजनेन मानसव्यभिचाराद् अपि रक्षितायाः क्षत्रियाया वैश्यायाश् च गमने वेदितव्यः । यास् तु न मानसव्यभिचाराद् रक्षिता न च गृहे ऽवरुद्धास् तद्गमने गुप्तागमने यो दण्डस् तदर्धं दण्ड इत्य् आह व्यासः

    गुप्तायां संग्रहे दण्डो यथोक्तः समुदाहृतः ।


    अनिच्छन्त्याम् आगतायां ( इच्छन्त्या मागतायां तु ? ) गच्छतो ‘र्धदमः स्मृतः ॥

प्रातिलोम्येन गमने शूद्रस्य दण्डविशेषम् आह मनुः ( ८। ३७४ ) ।

    शूद्रो गुप्तम् अगुप्तं वा द्वैजातं वर्णम् आवसन् ।


    अगुप्तम् अङ्गसर्वस्वैर् गुप्तं सर्वेण हीयते ॥

शूद्रो ऽगुप्तां द्विजातीनां स्त्रियं गच्छन् लिङ्गच्छेदनसर्वस्वापहारभाग् भवति गुप्तां तु गच्छन् सर्वस्वापहारवधभाग् भवतीत्य् अर्थः । अत एव गौतमः (१२। २-३ ): “आर्यस्त्र्यभिगमने लिङ्गोद्धारः सर्वस्वहरणं च गुप्ता चेद् वधो ऽधिकः” इति । क्षत्रियवैश्ययोर् अगुप्तब्राह्मणीगमने दण्ड उक्तस् तेनैव (मनु ८। ३७६ )

    ब्राह्मणीं तु यदा गुप्तां गच्छेतां वैश्यपार्थिवौ ।


    वैश्यं पञ्चशतं कुर्यात् क्षत्रियं तु सहस्रिणम् ॥

पञ्चशतं पणशतपञ्चकदण्डभाजम् इत्य् अर्थः । एवं सहस्रिणम् इत्य् अत्रापि । गुप्तागमने दण्डम् आह स एव (मनु ८। ३७७ ) ।

    उभाव् अपि हि ताव् एव ब्राह्मण्या गुप्तया सह ।


    विप्लुतौ शूद्रवद् दण्ड्यौ दग्धव्यौ वा कटाग्निना ॥

[३११] शूद्रवद् दण्ड्यौ वधसर्वस्वापहारभाजाव् इत्य् अर्थः । क्षत्रियवैश्ययोः परस्परगुप्तस्त्र्यभिगमने क्रमेण पणसहस्त्रपणसतपञ्चके तयोर् दण्डः । तथा च स एव (मनु ८। ३८२ )

    वैश्यश् चेत् क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो व्रजेत् ।


    यो ब्राह्मण्याम् अगुप्तायां ताव् उभौ दण्डम् अर्हतः ॥

वैश्यस्य प्रातिलोम्ये ऽप्य् अयं दण्डो ऽत्यन्तनिर्गुणभर्तृकस्त्रीविषयः, प्रातिलोम्येन गन्तुस् तस्य महापराधित्वेनाल्पदण्डानर्हत्वात् । अत एव वसिष्ठः (२१.३ - ५ ):

    राजन्यश् चेद् ब्राह्मणीम् अभिगच्छेच् छरपत्रैर् वेष्टयित्वा राजन्यम् अग्नौ प्रास्येद् एवं वैश्यो राजन्यायां मैथुनम् आरब्धः शूद्रस् तु राजन्यवैश्ययोः । इति । 

सजातीयागमने ‘पि क्वचिद् अपराधाधिक्याच् छारीरं दण्डम् आह नारदः (स्त्रीपुंस ७३-७५) ।

    माता मातृष्वसा श्वश्रूर् मातुलानी पितृष्वसा ।


    पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी स्नुषा ॥


    दुहिताचार्यभार्या च सगोत्रा शरणागता ।


    राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या ॥


    आसाम् अन्यतमां गच्छन् गुरुतल्पग उच्यते ।


    शिश्नस्योत्कर्तनात् तत्र नान्यो दण्डो विधीयते ॥

मातृग्रहणं मातृसमानानां मातुः सपत्नीनां ज्येष्ठभ्रातुः पत्नीनां चोपलक्षणम् । स्नुषाग्रहणं तत्समानानां कनिष्ठभ्रातुः पत्नीनाम् अप्य् उपलक्षणम् । नान्यो दण्डो ऽस्मान् न्यून इति शेषः, अधिकदण्डस्य वधसहितस्य लिङ्गच्छेदस्य याज्ञवल्क्येन विधानात् । तद् यथा ( या। ३। २३२-२३३) ।

    पितुः स्वसारं मातुश् च मातुलानीं स्नुषाम् अपि ।


    मातुः सपत्नीं भगिनीम् आचार्यतनयां तथा ॥

[३१२] आचार्यपत्नीं स्वसुतीं गच्छंस् तु गुरुतल्पगः ।

	छिवा लिङ्गं वधस् तस्य सकामायाः स्त्रियस् तथा ॥ इति ।

अयं च दण्डो ब्राह्मणव्यतिरिक्तविषयः, ब्राह्मणवधस्य निषिद्धत्वात् । अत एव ब्राह्मणम् अधिकृत्य बृहस्पतिः

    परदाराभिमर्शे तु प्रवृत्तं तु महीपतिः ।


    उद्वेजनकरैर् दण्डैश् चिह्नयित्वा प्रवासयेत् ॥


    अब्राह्मणः संग्रहणे प्राणान्तं दण्डम् अर्हति ।

शङ्खलिखिताव् अपि ।

    सर्वेषां स्वदारनियमः स्वकर्मप्रतिपत्तिश् च येन येनाङ्गेनापराधं कुर्यात् तत् तद् अस्य च्छेत्तव्यम् अन्यत्र ब्राह्मणाद् अदण्ड्यो हि ब्राह्मणः । इति । 

प्रतिपत्तिः पूज्यतासम्पादक इत्यर्थः । क्वचिद् ब्राह्मण्या वधदण्डम् आह यमः

    वृषलं सेवते या तु ब्राह्मणी मदमोहिता ।


    तां श्वभिः खादयेद् राजा संस्थाने वध्यघातिनाम् ॥


    वैश्यं वा क्षत्रियं वापि ब्राह्मणी सेवते तु या ।


    शिरसो मुण्डनं तस्याः प्रयाणं गर्दभेन तु ॥

वध्यघातिनां चाण्डालादीनां सम्बन्धिनि स्थाने वधस्थान इत्य् अर्थः । मदमोहितेति पदोपादानाद् अत्यन्तासक्ताविषयो दण्ड इति गम्यते । अत्यन्तासक्तिरहितायास् तु न शारीरो दण्डः,

	यत् पुंसः परदारेषु तच् चैनां चारयेद् व्रतम् । (**मनु**। ११.१७६)

इति तस्याः संव्यवहारार्थं प्रायश्चित्तविधानाद् इति स्मृतिचन्द्रिकाकारः । स्त्रीकृते संग्रहणे दण्डम् आह बृहस्पतिः

    गृहम् आगत्य या नारी प्रलोभ्य स्पर्शनादिना ।


    कामयेत् तत्र सा दण्ड्या नरस्यार्धदमः स्मृतः ।

**[३१३] **वचसा स्त्रियं प्रलोभ्य गच्छतः पुरुषस्य यो दण्डस् तं ग्राह्या तद्दण्डार्धं पुरुषो ग्राह्य इत्य् अर्थः । क्वचिद् दास्यादिगमने ऽपि दण्डम् आह याज्ञवल्क्यः ( २.२९० ) ।

    अवरुद्धासु दासीषु भुजिष्यासु तथैव च ।


    गम्यास्व् अपि पुमान् दाप्यः पञ्चाशत्पणिकं दमम् ॥

स्वामिना याः शुश्रूषार्थं गृह एव स्थातव्यम् इत्य् एवं पुरुषान्तरोपभोगतो निरुद्धा अवरुद्धाः पुरुषान्तरेणावरुध्य भुज्यमाना भुजिष्याः या दास्यो भुजिष्या अवरुद्धा वा तासु सर्वपुरुषसाधारणतया गम्यास्व् अपि गच्छन् पञ्चाशत्पणं दण्ड्यः, तासां परगृहीतत्वेन परस्त्रीतुल्यत्वात् । शब्दोपादानात् परगृहीतयोर् वेश्यास्वैरिण्योर् अपि गमने ऽयं दण्ड इति मन्तव्यम् । एतच् च स्पष्टीकृतं नारदेन ( स्त्रीपुंस ० ७८-७९ ) ।

    स्वैरिण्य् अब्राह्मणी वेश्या दासी निष्कासिनी च या ।


    गम्याः स्युर् आनुलोम्येन स्त्रियो न प्रतिलोमतः ।


    आस्व् एव तु भुजिष्यासु दोषः स्यात् परदारवत् ।


    गम्यास्व् अपि हि नोपेयाद् यतस् ताः सपरिग्रहाः ॥

अब्राह्मणीति स्वैरिण्या विशेषणम् । स्वैरिणी स्वतन्त्रा पुंश्चली । निष्कासिनी कुटुम्बान् निर्गता पुंश्चली । भुजिष्यास्व् एवेति सम्बन्धः । व्यासो ‘प्य् आह ।

    परोपरुद्धागमने पञ्चाशत्पणिको दमः ।


    प्रसह्य वेश्यागमने दण्डो दशपणः स्मृतः ॥

प्रसह्य शुल्कदानम् अन्तरेण । अत्र पुरुषान्तरानवरुद्धासु वेश्यादिषु गम्यत्वोक्तिस् तद्गामिनां दण्डो नास्तीत्य् एतावन्मात्रेण न पुनः पापराहित्येन,

	पशुवेश्याभिगमने प्राजापत्यं विधीयते ।

इत्यादिवाक्यैस् तद्गमने प्रायश्चित्तोपदेशात् । अन्त्यजस्त्रीगमने मनूक्तपणसहस्रदण्डानन्तरं प्रायश्चित्तानभिमुखास् त्रयो वर्णा भगाङ्कनं कृत्वा राष्ट्रान्निवस्याः [३१४] शूद्रस् तत्कर्मकारी चाण्डाल एव भवतीत्य् आह याज्ञवल्क्यः ( २। २९४ )

    अन्त्याभिगमने त्व् आङ्क्य कुबन्धेन प्रवासयेत् ।


    शूद्रस् तथान्त्य एव स्याद् अन्त्यस्यार्यागमे वधः ॥

आङ्क्य अङ्कयित्वा । कुबन्धेन कुत्सितबन्धेन भगाकारेण । आर्यागमे उत्कृष्टजातीयागमने । स्त्रीसंग्रहणस्य ज्ञातस्य दण्डनिमित्तत्वात् तन्निश्चयोपायम् आह याज्ञवल्क्यः ( २। २८३ ) ।

    पुमान् संग्रहणे ग्राह्यः केशाकेशि परस्त्रियाः ।


    सद्यो वा कामजैश् चिह्नैः प्रतिपत्तौ द्वयोस् तथा ॥

केशाकेशि त्व् अव्ययत्वाल् लुप्ततृतीयाविभक्तिको निर्देशः परभार्यया सह केशाकेशिक्रीडया अभिनवैर् नखक्षतादिभिश् चिह्नैर् उभयोः संप्रतिपत्त्या वायं संग्रहणवान् इति ज्ञातव्य इत्य् अर्थः । उपायान्तरम् आह स एव (य्ध्। २। २८४ ) ।

    नीवीस्तनप्रावरणसक्थिकेशावमर्शनम् ।


    अदेशकालसम्भाषं सहैकस्थानम् एव च ॥

कुर्वाण इति शेषः । सक्थि ऊरुः । परस्त्रिया स्पृष्टः क्षमते सो ऽपि स्त्रीसंग्रहणे ग्राह्य इत्य् आह मनुः ( ८। ३५८ ) ।

    स्त्रियं स्पृशेद् अदेशे यः स्पृष्टो वा मर्षयेत् तया ।


    परस्परस्यानुमते सर्वं संग्रहणं स्मृतम् ॥

यः पुनर् इयं मया भुक्तेति दर्पादिना वदति सो ऽपि तथाविधत्वेन ग्राह्य इत्य् आह नारदः (स्त्रीपुंस ६९ ) ।

    दर्पाद् वा यदि वा मोहाद् यया (? मोहाच्छ्लाघया) वा स्वयं वदेत् ।


    पूर्वं मयेयं भुक्तेति तच् च संग्रहणं स्मृतम् ॥

इति श्रीकोदण्डपरशुरामेति ॥ ॥ व्यवहारविवेकोद्द्योते

स्त्रीसंग्रहणाख्यव्यवहारपदनिरूपणम् ॥ ३२ ॥

**पोस्सिब्ले रेअदिन्ग् ओफ़् थे देफ़ेच्तिवे तेxत्-

**श्रीकोदण्डपरशुरामेत्यादिविविधबिरुदावलीविराजमानमानोन्नत-महाराजाधिराजश्रीशक्तिसिंहात्मजमहाराजाधिराजश्रीमदनसिंहदेवविरचिते मदनरत्नप्रदीपे व्यवहारविवेकोद्द्योते **

स्त्रीसंग्रहणाख्यव्यवहारपदनिरूपणम् ॥३२॥

[३१५]

अथ स्त्रीपुंयोगाख्यव्यवहारपदनिरूपणम् ।

तत्र तत्स्वरूपं दर्शयति नारदः ( स्त्रीपुंस। १ ) ।

    विवाहादिविधिः स्त्रीणां यत्र पुंसां च कीर्त्यते ।


    स्त्रीपुंसयोगसंज्ञं तद् विवादपदम् उच्यते ॥

विवाहादिविधिर् अस्माभिर् आचारविवेकोद्द्योते प्रपश्चितः । आद्इशब्देनात्र स्त्रीपुंधर्मा गृह्यन्ते । अत एव व्यवहारपदोद्देशकाले स्त्रीपुंधर्मो विभागश् चेत्य् उद्दिश्य प्रतिज्ञापूर्वकं ते निरूपिता मनुना (९.१ ),

    पुरुषस्य स्त्रियाश् चैव धर्म्ये वर्त्मनि तिष्ठतोः ।


    संयोगे विप्रयोगे च धर्मान् वक्ष्यामि शाश्वतान् ॥


    अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर् दिवानिशम् ।


    विषये सज्जमानाश् च संस्थाप्यास् त्व् आत्मनो वशे ॥

इत्यादिना । संयोगे परस्परसंयोजने विप्रयोगे तदभावे । शाश्वतान् अवश्यकरणीयान् । विषये दण्डहेतुभूते चाञ्चल्यादिविषये । स्त्रीणां स्वातत्रये दोषम् आह नारदः ( दायभाग ३० ) ।

    स्वातत्र्याद् विप्रणश्यन्ति कुले जाता अपि स्त्रियः ।


    अस्वातत्र्यम् अतस् तासां प्रजापतिर् अकल्पयत् ॥

कुले सत्कुले । पुरुषेण भार्या व्यभिचाराद् अवश्यं रक्षणीयेत्य् आह हारीतः

    एकव्रतस्कन्नभावात् परेन्द्रियोपहतत्वाच् च दुष्टाः कुलसङ्करकारिण्यो भवन्ति । जीवति जारजः कुण्डो मृते भर्तरि गोलकः । तस्माद् रेतोपघाताज् जायां रक्षेत् । जायानाशे कुलनाशः कुलनाशे तन्तुनाशस् तन्तुनाशे देवपितृयज्ञनाशो देवपितृयज्ञनाशे धर्मनाशो धर्मनाशे आत्मनाशः आत्मनाशे सर्वनाशः । इति । 

एकव्रतस्कन्नभावात् एकभर्तृत्वरूपव्रतस्खलनात् । परेन्द्रियेति परस्मिन् पुंसि इन्द्रियस्य मनसो रागादिना उपहतत्वात् । कुलसङ्करकारिण्यः तज्जातिस्वभावानुगतप्रजोत्पादनेन कुलसाङ्कर्यम् । अत एव शङ्खलिखितौ: “यस्मिन् भावो ऽर्पितः स्त्रीणाम् **[३१३] **आर्तवे तादृशं पुत्रं जनयन्ति” इति । तन्तुः पुत्रपौत्रादिः । परपुरुषवीक्षणादिभ्यो ऽपि रक्षणीया इत्य् आह मनुः (९। ५-६ ) ।

    सूक्ष्मेभ्यो ऽपि प्रसङ्गेभ्यः स्त्रियो रक्ष्या विशेषतः ।


    द्वयोर् हि कुलयोः शोकम् आवहेयुर् अरक्षिताः ॥


    इमं हि सर्ववर्णानां पश्यन्तो धर्मम् उत्तमम् ।


    यतन्ते रक्षितुं भार्या भर्तारो दुर्बला अपि ॥

द्वयोः कुलयोः भर्तृकुलपितृकुलयोः । स्वबान्धवादिभिर् अपि रक्षणीया इत्य् आह बृहस्पतिः

    सूक्ष्मेभ्यो ऽपि प्रसङ्गेभ्यो निवार्या स्त्री स्वबन्धुभिः ।


    श्वश्र्वादिभिः पालनीया गुरुस्त्रीभिर् दिवानिशम् ॥

मनुर् अपि (९.४ ) ।

    काले दाता पिता वाच्यो वाच्यश् चानुपयन् पतिः ।


    मृते भर्तरि पुत्रस् तु वाच्यो मातुर् अरक्षिता ॥

काले कन्यादानयोग्ये काले । वाच्यो निन्द्यः । अनुपयन् अगच्छन् । नारदः ( दायभाग २८ - २९) ।

    मृते भर्तर्य् अपुत्रायाः पतिपक्षः प्रभुः स्त्रियाः ।


    विनियोगात्मरक्षासु भरणेषु स ईश्वरः ॥


    परिक्षीणे पतिकुले निर्मनुष्ये निराश्रये ।


    तत्सपिण्डेषु चासत्सु पितृपक्षः प्रभुः स्त्रियाः ॥


    पक्षद्वयावसाने तु राजा भर्ता स्मृतः स्त्रियाः ।


    स तस्या भरणं कुर्यान् निगृह्णीयात् पथश्च्युताम् ॥

विनियोगः कर्मणि नियोजनम् । भर्ता पोषकः । स्त्रीस्वभावं कंचिद् दर्शयन् स्त्री पुरुषेण लालनीयेत्य् आह दक्षः ( ४.८–१०, २) ।

    जलौकावत् स्त्रियः सर्वा भूषणाच्छादनाशनैः ।


    सुहितापि कृता नित्यं पुरुषं ह्य् अपकर्षति ॥


    जलौका रक्तम् आदत्ते केवलं सा तपस्विनी ।


    इतरा तु धनं वित्तं मांसं वीर्यं बलं सुखम् ॥

[३१७] साशङ्का बालभावे तु यौवने ऽभिमुखी भवेत् ।

    तृणवन् मन्यते नारी वृद्धभावे स्वकं पतिम् ॥


    स्वकाम्ये वर्तमाना सा स्नेहान् न च निवारिता ।


    अपथ्या तु भवेत् पश्चाद् यथा व्याधिर् उपेक्षितः ॥

सुहिता तृप्ता कृतापीत्य् अन्वयः । अपकर्षति सततम् अवज्ञाविषयं करोति । स्वकाम्ये स्वेच्छायाम् । अपथ्या अत्यन्ताहितहेतुभूता । स्त्रीणां कायिकवाचिकदुश्चेष्टातो रक्षणम् अवरोधेनापि कर्तुं शक्यं मानसव्यभिचाराद् रक्षणं तु यद्य् अपि नावरोधेन कर्तुं शक्यं तथापि सततगृहव्यापारनियोजनादिना पुरुषान्तरचेतनावसरराहित्य-सम्पादनोपायेन कर्तव्यम् इत्य् आह मनुः (९.१० - ११ ) ।

    न कश्चिद् योषितः शक्तः प्रसह्य परिरक्षितुम् ।


    अर्थस्य संग्रहे चैनां व्यये चैव नियोजयेत् ॥


    शौचे धर्मे ऽन्नपक्त्यां च पारिणाह्यस्य वेक्षणे ।

व्यये स्वेनोक्ते व्यये । शौचे गृहादिशुद्ध्यर्थे संमार्जनोपलेपनादौ । **धर्मे **अग्निहोत्रादिसत्कर्मौपयिके व्यापारे । पक्त्यां पाकव्यापारे । पारिणाह्यं पीठादिगृहोपकरणम् । ईक्षणं विचारणम् । एवंविधव्यापारासक्तेनान्तःकरणेन सुरक्षिताः साध्व्यः । यास् त्व् आप्तैः पुरुषै रक्षितास् ता न सुरक्षिता इत्य् आह स एव (मनु ९.१२) ।

	अरक्षिता गृहे रुद्धाः पुरुषैर् आप्तकारिभिः ।

आप्ताश् च ते कारिणश् चेत्य् आप्तकारिणः । पत्युर् धर्मनिष्ठत्वम् अपि स्त्रीरक्षणोपाय इति दर्शयितुम् आह स एव ( मनु ९। २२-२३ ) ।

    यादृग्गुणेन भर्त्रा स्त्री संयुज्येत यथाविधि ।


    तादृग्गुणा सा भवति समुद्रेणेव निम्नगा ॥

[३१८] अक्षमाला वसिष्ठेन संयुक्ताधमयोनिजा ।

	शार्ङ्गीं च मन्दपालेन जगामाभ्यर्हणीयताम् ॥

भरणम् अपि भार्याया अवश्यकर्तव्यम् आह स एव ( मनु ९.९५ ) ।

    देवदत्तां पतिर् भार्यां विन्दते नेच्छयात्मनः ।


    तां साध्वीं बिभृयान् नित्यं देवानां प्रियम् आचरन् ॥

आत्मन इच्छया न विन्दते किं तर्हि देवैर् दत्ताम् इत्य् अनेन विवाहलक्षणस्य स्त्रीपुंसयोः सम्बन्धस्य न स्वाधीनत्वं किं तर्हि देवकृतत्वम् इति दर्शितम् । देवदत्तत्वं च स्त्रीणां,

    सोमो ददद् गन्धर्वाय गन्धर्वो ददद् अग्नये ।


    रयिं च पुत्रांश् चादाद् अग्निर् मह्यम् अथो इमाम् ॥

(ऋग्वेद १०.८५.४१ )

इत्यादिभ्यो वेदवाक्येभ्यो ऽवगम्यते । तेन देवैर् दत्ताया अभरणेन दातॄणां देवानां द्रोहश् चापद्यत इत्य् अर्थवादः । दुष्टाया अपि स्त्रियाः कदन्नादिना भरणं कार्यम् इत्य् आह नारदः (स्त्रीपुंस ९१) ।

    व्यभिचारे स्त्रिया मौण्ड्यम् अधःशयनम् एव च ।


    कदन्नं च कुवासश् च कर्म चावस्करोज्झनम् ॥

अवस्करोज्झनं अमेध्यदूरीकरणम् । गर्भिण्यै स्त्रियै तद्वाञ्छितं वस्त्व् अवश्यं दातव्यम् । अत एव याज्ञवल्क्यः ( ३। ७९ ) ।

    दोहदस्याप्रदानेन गर्भो दोषम् अवाप्नुयात् ।


    वैरूप्यं मरणं वापि तस्मात् कार्यं प्रियं स्त्रियाः ॥

ग्रामान्तरं जिगमिषुणा भार्याया भरणार्थम् उपायं विधाय गन्तव्यम् इत्य् आह मनुः (९.७४ ) ।

    विधाय वृत्तिं भार्याया प्रवसेत् कार्यवान् नरः ।


    अवृत्तिकर्शिता हि स्त्री प्रदुष्येत् स्थितिमत्य् अपि ॥

स्थितिमती सन्मार्गस्थिता । अलङ्कारादिकम् अपि यथाशक्ति भार्यायै देयम् इत्य् आह बृहस्पतिः

[३१९] भर्त्रा पत्नी समभ्यर्च्या वस्त्रालङ्कारभोजनैः ।

	उत्सवे च पितृभ्रातृश्वशुराद्यैश् च बन्धुभिः ॥

अदुष्टभार्यायाः परित्यागो न कर्तव्य इत्य् अभिप्रेत्याह देवलः

    स्वदारांस् त्यजतो मोहान् नरस्यान्यायशालिनः ।


    धर्मवंशपरित्यक्तुर् निष्कृतिर् न विधीयते ॥

तस्य दण्डम् आह विष्णुः (५। १६२-१६३ ): “निर्दोषां परित्यज्य पत्नीं च” इति । चोरवच् छास्य इत्य् अनुषङ्गः । निर्दोषां त्यागहेतुभूतदोषरहिताम् । यदि सगुणां परित्यक्तुम् इच्छति तदा त्व् आह नारदः ( स्त्रीपुंस। ९५ )

    अनुकूलाम् अवाग्दुष्टां दक्षां साध्वीं प्रजावतीम् ।


    त्यजन् भार्याम् अवस्थाप्यो राज्ञा दण्डेन धर्मतः ॥

साध्वीं त्यजन् राज्ञा दण्डं गृहीत्वा तस्याम् अवस्थापनीय इत्य् अर्थः । यदि स्थापितो ऽपि न तिष्ठति तदा त्व् आह याज्ञवल्क्यः (१.७६ ) ।

    आज्ञासम्पादिनीं दक्षां वीरसूं प्रियवादिनीम् ।


    त्यजन् दाप्यस् तृतीयांशम् अद्रव्यो भरणं स्त्रियः ॥

तृतीयांशं तद्धनतृतीयांशं राज्ञा भार्याया दाप्यः । अल्पधनस् तु भरणमात्रपर्याप्तं दाप्य इत्य् अर्थः । स्त्रिया पतिर् अवश्यं शुश्रूषणीय इत्य् आह मनुः (५.१५१, १५६ ) ।

    यस्मै दद्यात् पिता कन्यां भ्राता वानुमते पितुः ।


    शुश्रूषयेच् च जीवन्तं संस्थितं च न लङ्घयेत् ॥


    पाणिग्राहस्य साध्वी स्त्री जीवतो वा मृतस्य वा ।


    पतिलोकम् अभीप्सन्ती नाचरेत् किंचिद् अप्रियम् ॥

याज्ञवल्क्यः (१.७७ ) ।

    स्त्रीभिर् भर्तृवचः कार्यम् एष धर्मः परः स्त्रियाः ।


    आ शुद्धेः संप्रतीक्ष्यो हि महापातकदूषितः ॥

निर्गुणो ऽपि पतिः सेव्य इत्य् आह मनुः (५। १५३ - १५४ ) ।

[३२०] अनृताव् ऋतुकाले च मन्त्रसंस्कारकृत् पतिः ।

    सुखस्य नित्यं दतेह परलोके च योषितः ॥


    विशीलः कामवृत्तो वा गुणैर् वा परिवर्जितः ।


    उपचर्यः स्त्रिया साध्व्या सततं देववत् पतिः ॥

श्रौतस्मार्ताग्निपरिचरणम् अपि तयावश्यं कर्तव्यम् इत्य् आह कात्यायनः

    पत्या चाप्य् अवियोगिन्या शुश्रूष्यो ऽग्निर् विधीयते ।


    सौभाग्यवद् अवैधव्यकाम्यया भर्तृभक्तया ॥

कांश्चित् स्त्रीधर्मान् आह विष्णुः (२५.२-१३ ) ।

    भर्तुः समानचारित्वं श्वशुरगुरुदेवतातिथीनां पूजनं सुसंस्कृतोपस्करतामुक्तहस्तता सुगुप्तभाण्डता मूलक्रियास्व् अनभिरुचिर् मङ्गलाचारतत्परता भर्तरि प्रीते ( प्रवसितेऽप्रति ? ) प्रतिकर्मक्रिया परगृहेष्व् अनभिगमनं द्वारदेशे गवाक्षे वानवस्थानं सर्वकर्मस्व् अस्वतन्त्रता बाल्ययौवनवार्धके पितृभर्तृपुत्रपराधीनता । इति । 

ऋष्यशृङ्गो ऽपि ।

    गृहमेधा भवेन् नित्यं भूषणानि च पूजयेत् ।


    नित्यं स्नानकृतां वेणीम् अर्चयेत् पुष्पमालया ॥


    पूर्वम् एव रहो गच्छेद् यावन् नान्यः प्रबुध्यते ।


    देवताराधनं कुर्याद् धूपपुष्पाक्षतादिभिः ॥

गृहमेधा गृहकार्ये सक्ता । भूषणानि पूजयेत् मार्जनादिना संस्कुर्याद् इत्य् अर्थः । स्नानकृतां स्नानेन संस्कृताम् । रहः एकान्तस्थानात् । अन्यः पतिर् इत्य् अर्थः । देवताराधनं द्वारदेवताद्याराधनम् । अन्ये स्त्रीधर्मा आचारविवेकोद्द्योते दर्शिता इति नात्र प्रपञ्चिताः । पतिपत्न्योः परस्परानुरागे श्रेयो ऽभिवृद्धिर् भवतीत्य् आह याज्ञवल्क्यः (१.७४) ।

यत्रानुकूल्यं दम्पत्योस् त्रिवर्गस् तत्र वर्धते ।

त्रिवर्गो धर्मकामार्थाः । मनुर् अपि ( ३.६०, ९.१०१ ) ।

    सन्तुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव च ।


    यस्मिन्न् एव कुले नित्यं कल्याणं तत्र वै ध्रुवम् ॥

[३२१] अन्योन्यस्याव्यभीचारो भवेद् आमरणान्तिकः ।

	एष धर्मः समासेन ज्ञेयः स्त्रीपुंसयोः परः ॥

यद्य् अपि राज्ञः पुरतो वादिप्रतिवादिभावेन स्त्रीपुंसयोर् मिय्त्जो विवादो निषिद्धस् तथापि तयोः स्वधर्मातिक्रमे कथंचिज् ज्ञाते दण्डनादिना तौ स्वधर्मे स्थापनीयाव् इत्य् एतदर्थं व्यवहारपदेषु स्त्रीपुंधर्माभिधानम् ।

इति श्रीकोदण्डपरशुरामेति ॥ ॥ व्यवहारविवेकोद्द्द्योते

स्त्रीपुंयोगाख्यव्यवहारपदनिरूपणम् ॥ ३३ ॥

**पोस्सिब्ले रेअदिन्ग् ओफ़् थे देफ़ेच्तिवे तेxत्-

**श्रीकोदण्डपरशुरामेत्यादिविविधबिरुदावलीविराजमानमानोन्नत-महाराजाधिराजश्रीशक्तिसिंहात्मजमहाराजाधिराजश्रीमदनसिंहदेवविरचिते मदनरत्नप्रदीपे व्यवहारविवेकोद्द्द्योते **

स्त्रीपुंयोगाख्यव्यवहारपदनिरूपणम् ॥३३॥

अथ दायभागाख्यव्यवहारपदनिरूपणम् ॥

तत्र तत्स्वरूपं दर्शयति नारदः ( दायभाग १ ) ।

    विभागो ऽर्थस्य पित्र्यादेः पुत्रैर् यत्र प्रकल्प्यते ।


    दायभाग इति प्रोक्तं व्यवहारपदं बुधैः ॥ 

पित्रोर् इदम् इति पित्र्यम्आदिशब्देन पैतामहादीनां ग्रहणम् । पुत्रग्रहणं पौत्रादीनाम् अप्य् उपलक्षणम् । अनेन यत्र दायस्य भागो निरूप्यते स दायभाग इत्य् अवयवार्थयोगेनायं शब्दो व्यवहारपदे वर्तत इति दर्शितम् । दायो नाम विभागार्हं पित्रादिसम्बन्धि द्रव्यम् । तथा च निघण्टुकारः

	विभक्तव्यं पितृद्रव्यं दायम् आहुर् मनीषिणः ।

स्मृतिसंग्रहकारो ऽपि ।

    पितृद्वारागतं द्रव्यं मातृद्वारागतं च यत् ।


    कथितं दायशब्देन तद्विभागो ऽधुनोच्यते ॥

पितृमातृग्रहणं पितामहादीनाम् अप्य् उपलक्षणम् । अयं च दायो द्विविधः सप्रतिबन्धो ऽप्रतिबन्धश् चेति । यद् द्रव्यं स्वामिनस् तत्पुत्रादेर् अप्य् अभावे स्वं भवति स सप्रतिबन्धो दायो यथा पित्रादीनां पुत्रादिधनम् । यत् पुत्रपौत्रयोः पितृपितामहधनं जन्मन आरभ्य स्वं भवति सो ऽप्रतिबन्धो दायः, तत्र स्वामितत्पुत्रसद्भावस्याप्रतिबन्धकत्वात् । विभागकालम् आह मनुः (९.१०४) ।

    ऊर्ध्वं पितुश् च मातुश् च समेत्य भ्रातरः समम् ।


    भजेरन् पैतृकं रिक्थम् अनीशास् ते हि जीवतोः ॥

पित्रोर् इदं पैतृकम् । यतस् ते पुरा मातापित्रोर् जीवतोस् तद्रव्योपादाने अनीशा अस्वतन्त्रा अतस् तयोर् ऊर्ध्वं तद्धनं समं भजेरन्न् इत्य् अर्थः । अत्र पितुर् ऊर्ध्वम् इति पितृधनविभागकाल उक्तः । मातुर् ऊर्ध्वम् इति मातृधनविभागकाल उक्तः । शब्दस् तु वक्ष्यमाणविभागकालान्तरसमुच्चयार्थः । तेन मातरि जीवन्त्याम् अपि पित्रभावे पितृधनविभागो मात्रभावे सत्य् अपि पितरि मातृधनविभागः कर्तुं योग्यः । अत एव स्मृतिसंग्रहकारः

    पितृद्रव्यविभागः स्याज् जीवन्त्याम् अपि मातरि ।


    न स्वतन्त्रतया स्वाम्यं यस्मान् मातुः पतिं विना ॥


    मातृद्रव्यविभागो ऽपि तथा पितरि जीवति ।


    सत्स्व् अपत्येषु यस्मान् न स्त्रीधनस्य पतिः पतिः ॥

यत् पत्युर् अभावे ऽपि मातुर् यतः स्वातत्र्येण पतिधने न स्वाम्यम् अतस् तस्यां जीवन्त्याम् अपि पितृधनविभागः । यतो ऽपत्येषु तिष्ठत्सु पतिर् भार्याधनस्य न स्वाम्य् अतस् तस्मिन् सत्य् अपि मातृधनविभाग इत्य् अर्थः ॥ यद्य् अपि पैत्र्ये धने पुत्राणां जन्मन आरभ्य स्वामित्वं तथापि व्याधितत्वादिदोषरहिते पितरि जीवति तदिच्छाम् अन्तरेण न पुत्रास् तद्धनविभागार्हाः । तथा शङ्खः

    जीवति पितरि पुत्रा रिक्थं भजेरन् यद्य् अपि स्यात् पश्चाद् अधिगतं तैर् अनर्हा एव पुत्रा अर्थधर्मयोर् अस्वातन्त्र्यात् । इति । 

अर्थोपभोगे यागादिरूपे धर्मे ऽपि पित्रनुज्ञां विना प्रवर्तितुम् अनर्हत्वाद् इत्य् अर्थः । पश्चात् जन्मन इति शेषः । अधिगतं स्वाम्यम् इति शेषः । अर्थेष्व् अस्वातत्र्यं विवृतं हारीतेन: “जीवति पितरि पुत्राणाम् अर्थादानविसर्गाक्षेपेष्व् अस्वातन्त्र्यम्” इति । अर्थादानविसर्गौ द्रव्योपभोगव्ययौ । आक्षेपो ऽपराधादिषु दास्यादीनां भर्त्सनादिकम् । एतेष्व् अस्वातत्र्यं पित्रनुज्ञां विना स्वेच्छया न प्रवर्तितव्यं तैर् इत्य् अर्थः । यत् पुनः

[३२३] पितर्य् उपरते पुत्रा विभजेरन् पितुर् धनम् ।

	अस्वाम्यं हि भवेद् एषां निर्दोषे पितरि स्थिते ॥

इति देवलवचनं तत्रास्वाम्यम् अस्वातन्त्र्यम् इत्य् अर्थो ऽवसेयः सत्य् अपि निर्दोषे पितरि पुत्रपौत्राणां जन्मन आरभ्यैव पितृपितामहधने स्वामित्वस्य लोकसिद्धत्वात्, “उत्पत्त्यैवार्थं स्वामित्वाल् लभत इत्य् आचार्या” इति गौतमेनाभिधानाच् च ।

<span style="text-decoration:underline;">ननु</span> स्वामित्वस्य लोकसिद्धत्वं कथम् उच्यते यावता शास्त्रैकसमधिगम्यत्वं स्वस्वामिभावस्य समर्थितं **संग्रहकारेण** ।


    वर्तते यस्य यद्धस्ते तस्य स्वामी स एव न ।


    अन्यस्वम् अन्यहस्तेषु चौर्याद् यैः किं न दृश्यते ॥


    तस्माच् छास्त्रत एव स्यात् स्वाम्यं नानुभवाद् इति ।


    अस्यापहृतम् एतेन न युक्तं वक्तुम् अन्यथा ॥


    विदितो ऽर्थागमः शास्त्रे यथावर्णं पृथक् पृथक् ।


    न च स्वम् उच्यते तद् यत् स्वेच्छया विनियुज्यते ॥


    विनियोगो ऽस्य सर्वस्य शास्त्रेणैव नियम्यते । इति ।

अस्यार्थः । न हि यत्समीपे यद्धनं दृश्यते तस्य तद्धनं स्वं स च तस्य स्वामीति चौर्यादिलब्धधने ऽपि स्वस्वामिभावप्रसङ्गात् । किं च मम स्वम् अनेनापहृतम् इति व्यवहारो न सङ्गच्छेत, यत्समीपे धनं दृश्यते तस्यैव तत्र स्वामित्वात् । किं च

    स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु ब्राह्मणस्याधिकं लब्धं क्षत्रियस्य विजितं निर्विष्टं वैश्यशूद्रयोः (गौतमधर्मसूत्र १०.३९-४२ ) 

इत्येवमादिषु गौतमादिवाक्येषु रिक्थादिसाधारणस्वत्वहेतूपदेशः प्रतिवर्णं प्रतिनियतप्रतिग्रहादिस्वत्वहेतूपदेशश् च व्यर्थः स्यात् । रिक्थम् अप्रतिबन्धो दायः क्रयः प्रसिद्धः संविभागः सप्रतिबन्धो दायः परिग्रहः प्राग् अन्येनास्वीकृतस्य वनादिसाधारणप्रदेशसम्बन्धिनः काष्ठतृणजलादेः स्वीकारः । अधिगमः निध्यादेः प्राप्तिः । एतेषु स्वत्वनिमित्तेषु सत्सु स्वामी भवति । अत्राप्रतिबन्धो दायो जन्मनैव **[३२४] **स्वत्वहेतुः सप्रतिबन्धदायस् तु प्रतिबन्धापगमे सतीति ज्ञातव्यम् । ब्राह्मणस्य लब्धं प्रतिग्रहादिप्राप्तम् अधिकम् असाधारणम् । क्षत्रियस्य विजितं विजयदण्डादिलब्धम् असाधारणम् । वैश्यशूद्रयोर् निर्विष्टं भृतिरूपेण लब्धम् असाधारणम् । तत्र वैश्यस्य कृषिगोरक्षादिलब्धं निर्विष्टं शूद्रस्य द्विजशुश्रूषादिलब्धम् । अत्र वैश्यशूद्रग्रहणस्योपलक्षणत्वाद् अन्येषाम् अनुलोमजानां प्रतिलोमेजानां च –“सूतानाम् अश्वसारथ्यम्” इत्यादिनोक्तं ( मनु १०.४७) यद् यद् असाधारणं भृतिद्रव्यं तत् सर्वं निर्विष्टशब्देन परिगृह्यते । निःपूर्वस्य विशेर् भृत्यर्थत्वं तु —“निर्वेशो भृतिभोगयोर्” इत्य् अमरसिंहेनाभिधानाद् अवगम्यत इति गौतमवचनस्यार्थः । न च येन यद् यथेष्टं विनियुज्यते स तस्य स्वामी तच् च तस्य स्वं चौर्यादिलब्धं तु न तथेति वाच्यम् । सर्वस्य न्यायोपार्जितस्यापि धनस्य कुटुम्बपोषणादौ विनियोगः शास्त्रेण नियमित इति स्वेच्छानुसारेण विनियोगविषयत्वाभावाद् इति । एतत् संग्रहकारमतं धारेश्वरभट्टेन्आप्य् आश्रितम् । तस्माच् छास्त्रैकसमधिगम्यत्वात् कथं स्वस्वामिभावस्य लोकसिद्धत्वम् इति चेत्,

<span style="text-decoration:underline;">अत्राभिधीयते</span> । शास्त्रार्थज्ञानरहितानां पामराणाम् अपि हि क्रयादिप्राप्ते धने क्रेत्रादिस्वत्वव्यवहारो दृश्यते । न च शास्त्रैकसमधिगम्यत्वे घटते । न च लौकिकत्वे चौर्यादिलब्धस्यापि स्वत्वापत्तिर् इति वाच्यम्, प्रतिग्रहाद्युपायके एव लोके स्वत्वव्यवहारात् । न चैव स्वामी रिक्थेत्यादिशास्त्रानर्थक्यापत्तिः । तस्य व्याकरणशास्त्रवल् लोकसिद्धस्वत्वहेतुनिबन्धनार्थत्वात् । उक्तं चैतन् **नयविवेके** **प्राभाकर**मताम्बुजप्रभाकरेण **भवनाथेन** — “लोकसिद्धं वार्जनं जन्मादि, अत एवानिदंप्रथमलोकधीविषयतया स्थिते निबन्धनार्था स्मृतिर् व्याकरणादिस्मृतिवद्” इति । **अर्जनं** स्वत्वहेतुः । **जन्मादि** पुत्रजन्म पितृपितामहधने स्वत्वहेतुः । **आदि**शब्देन क्रयादीनां ग्रहणम् । **अनिदंप्रथम**त्वम् अनादित्वम् । **व्याकरणादिस्मृतिवद्** इति । यथा व्याकरणशास्त्रे सिद्धा एव शब्दाः **[३२५] **साधुत्वज्ञानार्थम् अनुख्यायन्ते तथेत्य् अर्थः । व्याकरणशास्त्रस्य लोकसिद्धशब्दान्वाख्यापकत्वम् उक्तं **महाभाष्ये** “सदन्वाख्यानाच् छास्त्रस्य” इति । सदन्वाख्यानात् सिद्धशब्दान्वाख्यापकत्वाद् इत्य् अर्थः । न च यथेष्टविनियोज्यत्वं स्वत्वम् इति वयं ब्रूमः । किं तर्हि यथेष्टविनियोगयोग्यत्वम् । तच् च शास्त्रेण कुटुम्बभरणादिविनियोगनियमनेन विनियोगान्तरविषयताम् अलभमानस्याप्य् अर्जितत्वप्रयुक्तम् अस्त्य् एव । यथा कुतश्चिद् धेतोर् अङ्कुरोत्पादनम् अकुर्वतो ऽपि कुशूलादिस्थितस्य बीजस्य बीजत्वप्रयुक्तम् अङ्कुरोत्पादनयोग्यत्वम् । उक्तं च **नयविवेके** – “तच् च तस्य तदर्हं यद् येनार्जितम्” - इति । **तदर्हं** यथेष्टविनियोगार्हम् । **भट्ट**मतानुसारिणि **तन्त्ररत्ने** ऽपि – “यथेष्टविनियोज्यत्वं हि स्वत्वं केवलक्रत्वर्थत्वे ऽन्यत्राविनियोगाद् यथेष्टविनियोगाभाव” इति । **विनियोज्यम्** अत्र विनियोगार्हं – “अर्हे कृत्यतृचश् च” – इति **पाणिनि**स्मरणात् ( पा। ३.३.१६९) । यत् तु कैश्चित् स्वत्वस्य लौकिकत्वं प्रसाध्य तत् प्रयोजनम् उक्तं ब्राह्मणेन यद् असत्प्रतिग्रहेण वाणिज्यादिना वा लब्धं तत् स्वत्वस्य शास्त्रैकसमधिगम्यत्वे


    यद् गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् ।


    तस्योत्सर्गेण शुध्यन्ति जप्येन तपसैव च ॥

इति वचनेन परित्यक्तव्यताभिधानात् स्वम् एव न भवतीति तत्पुत्राणाम् अविभाज्यं स्यात्, स्वत्वस्य लौकिकत्वे तु तादृशम् अपि स्वं भवत्य् एवेति तत्पुत्राणां तद्विभाज्यम् एव प्रायश्चित्तं त्व् अर्जकस्यैव न तत्पुत्रादीनां दायत्वेन तैस् तद्ग्रहणात्, दायस्य च धर्म्यागमत्वेन दोषानापादकत्वात् । धर्म्यागमत्वं तु

    सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः ।


    प्रयोगः कर्मयोगश् च सत्प्रतिग्रह एव वा ॥

इति मनुनाभिधानात् ( मनु १०० ११५ ) । प्रयोगो वृद्ध्यर्थं द्रव्यप्रयोगः । कर्मयोगः आर्त्विज्यादिकरणम् इति । तद् एतन् न सुन्दरम् इव प्रतिभाति । यथा सिद्धशब्दानुशासनार्थे व्याकरणशास्त्रे ये लोकसिद्धाः **[३२६] **शब्दास् ते सर्वे सामान्यतो विशेषतो वानुशिष्टा एवेति यस् तत्र नानुशिष्टो यो वा – “न ङिसम्बुद्ध्योः” ( पा। ८.२.८ ) - इत्येवमादिवाक्यैः सम्बुद्धौ लुप्तनकारो ऽसाधुर् इत्य् एवंरूपेण प्रकारेणासाधुतयोपदिष्टः स लोकसिद्ध एव न भवतीति न प्रयोगार्हस् तथा लोकसिद्धस्य स्वत्वहेतुनिबन्धनार्थे गौतमादिशास्त्रे सर्वो ऽपि स्वत्वहेतुर् उपदिष्ट एवेति यस् तत्र नोपदिष्टो यो वा चौर्यादिवत् स्वत्वासाधकत्वेनोक्तः स लौकिको ऽपि स्वत्वहेतुर् न भवतीत्य् अतो ऽसत्प्रतिग्रहवाणिज्यादिलब्धस्य यदि शास्त्रे स्वत्वं निषिद्धं तर्हि लोके ऽपि चौर्यादिलब्धवत् तत्स्वत्वस्यानङ्गीकर्तव्यत्वात् । तस्माद् यद् गर्हितेनेति वाक्यम् असत्प्रतिग्रहस्वयंकृतकृषिवाणिज्यादीनां स्वत्वहेतुत्वे सत्य् अपि ब्राह्मणस्य

    आपद्गतः संप्रगृह्णन् भुञ्जानो ऽपि यतस् ततः ।


    न लिप्येतैनसा विप्रो ज्वलनार्कसमो हि सः ॥ (य्ध्। ३.४१ )


    कुसीदकृषिवाणिज्यं प्रकुर्वीतास्वयंकृतम् ।


    आपत्काले स्वयं कुर्यान् नैनसा युज्यते द्विजः ॥

इत्येवमादिभिर् याज्ञवल्क्य-बृहस्पत्य्आदिवाक्यैर् आपद्वृत्तित्वेनोक्तानां तेषाम् अनापद्य् आश्रयणे दोषसम्बन्धात् तदुपायलब्धद्रव्यपरित्यागजपतपोरूपं प्रायश्चित्तं विदधाति न तु तदुपायलब्धस्य स्वत्वं निषेधतीत्य् आस्थेयम् । अत एवासत्प्रतिग्रहादिनार्जयितुर् न चोरादिवद् दण्डविशेषः स्मर्यते । एवं चानापद्य् अप्य् असत्प्रतिग्रहादिनार्जितस्य स्वत्वम् अस्त्य् एवेति तत्पुत्राणां तद्विभाज्यम् एव । अर्जयितुर् एव दोषसम्बन्धात् प्रायश्चित्ताचरणं चौर्यादिलब्धस्य तु न तादृक्त्वम् इति न तद्विभाज्यं विभज्य ग्रहणे तत्पुत्रादयो दण्डादिभाज इत्य् अलं प्रसङ्गागतवित्तया ( वार्तया ? ) । “निर्दोषे पितरि स्थिते” इति वचनात् सदोषे पितरि जीवत्य् अपि पुत्राणां न तत्पारतन्त्र्यम् इति भवति तेषां स्वेच्छया विभागकर्तृत्वम् । अत एव नारदः ( दाय। १६ ) ।

    व्याधितः कुपितश् चैव विषयासक्तमानसः ।


    अन्यथाशास्त्रकारी च न विभागे पिता प्रभुः ॥

[३२७] अन्यथाशास्त्रकारी स्मृत्याचारव्यपेतमार्गवर्ती । शङ्खो ऽपि “अकामे पितरि रिक्थविभागो वृद्धे विपरीतचेतसि दीर्घरोगिणि च” इति । अकामे विभागेच्छारहिते वृद्धे कुटुम्बव्यवहाराक्षमे । अशक्तत्वादिदोषयुक्ते पितरि पुत्राणां विभागेच्छाभावे ज्येष्ठस्य स्वातत्र्यम् अनुजानां तु तदधीनतयावस्थानम् । तथा च शङ्खलिखितौ “पितर्य् अशक्ते कुटुम्बस्य व्यवहारं ज्येष्ठः कुर्याद् अनन्तरो वा कार्यज्ञस् तदनुमतेन” इति । अनन्तरः अनुजः । तदनुमतेन ज्येष्ठानुमतेन । हारीतो ऽपि “कामं दीने प्रोषित आर्तिं गते वा ज्येष्ठो ऽथांश् चिन्तयेत्” इति । निर्दोषे पितरि जीवति तस्येच्छया पुत्राणां पैतृकधनविभागो मातरि निवृत्तरजस्कायां तु तदिच्छाभावे ऽपि भवति पुत्राणाम् इच्छया तद्धनविभागः । तथा च गौतमः (२८.१-२ ): “ऊर्ध्वं पितुः पुत्रा रिक्थं विभजेरन् निवृत्ते रजसि मातुर् जीवति पितरि चेच्छति” इति । बृहस्पतिर् अपि ।

    पित्रोर् अभावे भ्रातॄणां विभागः संप्रदर्शितः ।


    मातुर् निवृत्ते रजसि जीवतोर् अपि शस्यते ॥

पितुश् चासति रतिसामर्थ्ये धनस्पृहायां वा गतायां भवति पुत्रेच्छया तद्धनविभागः । तथा च नारदः ( दाय। २ - ३ ) ।

    अत ऊर्ध्वं पितुः पुत्रा विभजेयुर् धनं समम् ।


    मातुर् निवृत्ते रजसि प्रत्तासु भगिनीषु च ॥


    निवृत्ते चापि रमणे पितर्य् उपरतस्पृहे ।

अत्र पुत्रा विभजेयुर् इत्य् अभिधानात् पितुर् इच्छाभावे ऽपि विभाग उक्तः । प्रत्तासु कृतविवाहासु । रमणे रतिसामर्थ्ये । उपरतस्पृहे धनस्पृहानिवृत्तियुक्ते । प्रत्तासु भगिनीषु चेत्य् एतत् काकाक्षिवद् उभयत्र सम्बध्यते । एतेनेदम् उक्तं भवति । मातुर् निवृत्तरजस्कतया पितुर् निवृत्तरतिसामर्थ्यतया तयोर् अपत्योत्पादनयोग्यताभावनिश्चये पितुर् धनस्पृहाभावे भगिनीषु च कृतविवाहासु पुत्राः स्वेच्छया विभागं कुर्युर् इति । केचित् तु मातुर् निवृत्ते रजसीत्यादिकम् उपरतस्पृहे इत्यन्तम् एकं वाक्यम् इत्य् अङ्गीकृत्य रजोनिवृत्त्यादीनां **[३२८] **समुच्चितानां विभागं प्रति निमित्तत्रयम् आहुः । पित्रोर् जीवतोर् भ्रातॄणां सहवासो मुख्य इत्य् आह व्यासः

	भ्रातॄणां जीवतोः पित्रोः सहवासो विधीयते ।

पित्रोर् ऊर्ध्वम् अपि द्रव्योपचयार्थं सहवासं कुर्युर् इत्य् आहतुः शङ्खलिखितौ “कामं सह वसेयुर् एकतः संहता वृद्धिम् आपद्येरन्” इति । नारदो ‘पि ( दाय० ५ ):

    बिभृयाद् वैकतः सर्वाञ् जयेष्ठो भ्राता यथा पिता ।


    भ्राता शक्तः कनिष्ठो वा शक्त्यपेक्षा कुले स्थितिः ॥

पृथग्दैवपित्र्यकर्मकरणाद् धर्मवृद्धिम् अपेक्षमाणा विभजेयुर् इत्य् आहतुर् मनु-प्रजापती ( मनु ९.१११ ) ।

    एवं सह वसेयुर् वा पृथग् वा धर्मकाम्यया ।


    पृथग् विवर्धते धर्मस् तस्माद् धर्म्या पृथक्क्रिया ॥ इति ॥

विभागानन्तरं पृथग् दैवपित्र्यकर्मानुष्ठानम् आह बृहस्पतिः

    एकपाकेन वसतां पितृदेवद्विजार्चनम् ।


    एकं भवेद् विभक्तानां तद् एव स्याद् गृहे गृहे ॥ इति ।

पितुर् इच्छया यो विभागस् तत्प्रकारम् आह आपस्तम्बः (२.६.१४.१ ): “एकधनेन ज्येष्ठं तोषयित्वा जीवन् पुत्रेभ्यो दायं विभजेत् समम्” इति । मध्यकद्रव्याद् उद्धृतेन गवाश्वादिनैकेन वस्तुना ज्येष्ठं पुत्रं परितोष्यावशिष्टं धनं समतयैव विभजेद् इत्य् अर्थः । बौधायनो ‘पि (२। २.२ - ५ ) ।

    मनुः पुत्रेभ्यो दायं व्यभजद् इति समो ‘ंशः सर्वेषाम् अविशेषाद् धनम् एकं चानूद्धरेज् ज्येष्ठस् तस्माज् ज्येष्ठं पुत्रं धनेन निरवसाययन्तीति श्रुतिः । 

अविशेषात् मनुः पुत्रेभ्यो दायं व्यभजद् इति विशेषाश्रवणाद् इत्य् अर्थः । पित्रा पुत्रेभ्यो दायं विभजता स्वयम् अंशद्वयं ग्राह्यम् इत्य् आह नारदः (दाय। १२ ) ।

	द्वाव् अंशौ प्रतिपद्येत विभजन्न् आत्मनः पिता ।

बृहस्पतिर् अपि ।

	जीवद्विभागे पितु ता [पिता तु?] गृह्णीतांशद्वयं स्वयम् । इति ।

**[३२९] **पितुर् अंशद्वयग्रहणम् एकपुत्रविषयम् इत्य् आहेतुः शङ्खलिखितौ: “स यद्य् एकपुत्रः स्याद् द्वौ भागाव् आत्मनः कुर्यात्” इति । एकशब्दो ऽत्र श्रेष्ठवाचीति पारिजातकारः । पुत्रो यदि गुणवत्तया धनार्जनसमर्थस् तदानेन सह विभागे पितांशद्वयं गृह्णीयाद् इति तन्मते ऽस्य वाक्यस्यार्थः । कात्यायनस् तु ( ८३८) पित्रा सर्वेभ्यो ऽपि पुत्रेभ्यः सम एवांशो देयो न तु ज्येष्ठायैकम् उत्कृष्टं वस्तु स्वेनापि सम एवांशो ग्राह्यो न त्व् अंशद्वयम् इत्य् अभिप्रेत्याह ।

    सकलं द्रव्यजातं यद् भागैर् गृह्णन्ति तत् समैः ।


    पितरौ भ्रातरश् चैव विभागो धर्म्य उच्यते ॥ इति ।

तद् एतत् पक्षद्वयम् अपि दर्शयति याज्ञवल्क्यः (२। ११४ ) ।

    विभागं चेत् पिता कुर्याद् इच्छ्या विभजेत् सुतान् ।


    ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिनः ॥

श्रेष्ठभागेन उत्तमवस्तुसहितेन भागेन । अनयोः पक्षयोर् अन्यतरपक्षाश्रयणे पितुर् इच्छैव नियामिकेति पूर्वार्धस्यार्थः । ज्येष्ठाय पित्रोत्कृष्टवस्तूद्धारे ऽनुजैर् अनुशयो न कर्तव्यः समांशदाने ज्येष्ठेनाधिकं मह्यं न दत्तम् इत्य् अनुशयो न कर्तव्य इत्य् आह नारदः ( दाय। १५ ) ।

    पित्रैव तु विभक्ता ये समन्यूनाधिकैर् धनैः ।


    तेषां स एव धर्म्यः स्यात् सर्वस्य हि पिता प्रभुः ॥

यदि पिता शास्त्रोक्तमार्गपरित्यागेन स्वेच्छया विषमं विभागं करोति तदा स निवर्तनीय एवेत्य् अभिप्रेत्याह याज्ञवल्क्यः (२.११६ ) ।

	न्यूनाधिकविभक्तानां धर्म्यः पितृकृतः स्मृतः ।

यदि धर्म्यो धर्मशास्त्रोक्तस् तदा पितृकृतः पित्रा कृत एव न निवर्तनीयः । इतरथा तु निवर्तनीय इत्य् अर्थः । यदा स्वयं समम् एवांशं गृह्णाति ज्येष्ठादिपुत्रेभ्यो ऽपि समांशान् ददाति तदा पत्नीनां स्वस्वपुत्रसमांशभागित्वम् आह स एव (य्ध्। २.११५ ) ।

    यदि कुर्यात् समान् अंशान् पत्न्यः कार्याः समाशिकाः ।


    न दत्तं स्त्रीधनं यासां भर्त्रा वा श्वशुरेण वा ॥

[३३०] पत्न्य इति बहुवचनात् प्रतिपत्नि स्वांशेन समानम् अंशं गृह्णीयान् न तु ताभ्यः पृथक्कृत्यांशो देयः, “जायापत्योर् न विभागो विद्यते” इति (=आप्ध् २.६.१४.१६ ) हारीतवचनविरोधापत्तेः । यदि पुत्रो धनार्जनसमर्थतया स्वांशं न जिघृक्षति तदा किम् अपि तस्मै दत्त्वा तत्पुत्राणां दायग्रहणेच्छा मा भूद् इत्येवमर्थं विभागः कर्तव्य इत्य् आह स एव ( य्ध् २.११६ ) ।

	शक्तस्यानीहमानस्य किञ्चिद् दत्त्वा पृथक्क्रिया ।

जीवति पितरि पुत्रेच्छया यो विभागः स प्रकारान्तराश्रवणात्,

	सकलं द्रव्यजातं यद् भागैर् गृह्णन्ति तत्समम् ।

इति कात्यायनवचनात् ( ८३८) मातुर् निवृत्ते रजसीति वचने समम् इत्यनुषङ्गाच् च समतया कर्तव्यः । मृतपितृकाणां यो विभागः स समतया कार्यः । तथा च याज्ञवल्क्यः (२.११७ ) ।

	विभजेयुः सुताः पित्रोर् ऊर्ध्वं रिक्थम् ऋणं समम् ।

हारीतो ऽपि “समानो मृते पितरि रिक्थविभागः” इति । पैठीनसिर् अपि “पैतृके विभज्यमाने दायाद्ये भ्रातॄणां समो विभागः” इति । यानि तु,

    ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच् च यद् वरम् ।


    ततो ऽर्धं मध्यमस्य स्यात् तुरीयं तु यवीयसः ॥


    उद्धारे ऽनुद्धृते त्व् एषाम् इयं स्याद् अंशकल्पना ।


    एकाधिकं हरेज् ज्येष्ठः पुत्रो ऽध्यर्थं ततो ऽनुजः ॥


    अंशम् अंशं यवीयांस इति धर्मे व्यवस्थितः ।

इत्येवमादीनि विषमविभागप्रतिपादकानि मन्वाद्इवचनानि (९.११२, ११६-११७ ) कलियुगव्यतिरिक्तविषयाणि । अत एव कलौ विषमविभागनिषेध आदिपुराणे

    ऊढायाः पुनरुद्वाहो (हं ?) ज्येष्ठांशं गोवधं तथा ॥


    कलौ पञ्च न कुर्वीत भ्रातृजायां कमण्डलुम् ॥

[३३१] ज्येष्ठांशं जन्मविद्यादिकृतज्यैष्ठ्यनिबन्धनम् अंशम् । स्मृतिसंग्रहे ऽपि

    यथा नियोगधर्मो वा नानूबन्ध्याविधो ऽपि वा ।


    तथोद्धारविभागो ऽपि नैव संप्रति वर्तते ॥ इति ।

संप्रति कलियुगे । पितुर् ऊर्ध्वं विभागे मातुः स्वपुत्रसमांशभागित्वम् आह याज्ञवल्क्यः (२। १२३ ) ।

	पितुर् ऊर्ध्वं विभजतां माताप्य् अंशं समं हरेत् ।

विष्णुर् अपि “मातरः पुत्रभागानुसारिभागहारिण्यः” ( १८.३४ ) । मातुः समांशभागित्वं स्त्रीधनरहिताया वेदितव्यम् । अत एव स्मृत्यन्तरे

	जनन्य् अस्वधना पुत्रैर् विभागे ऽशं समं हरेत् ।

अवधना प्रातिस्विकस्त्रीधनशून्या । स्त्रीधनसहितायास् तु जीवद्विभागे ऽजीवद्विभागे वार्धांशभागित्वम् इति विज्ञानेश्वराचार्याःजननीग्रहणम् अपुत्राणाम् अपि मातृसपत्नीनां पितामहीनां चोपलक्षणम् । अत एव व्यासः

    असुताः स्वपितुः पत्न्यः समानांशाः प्रकीर्तिताः ।


    पितामह्यश् च ताः सर्वा मातृतुल्याः प्रकीर्तिताः ॥

यत् तु कैश्चिन् मात्रादीनां जीवनमात्रोपयुक्तधनभागित्वम् उक्तं कथं तन्मते समशब्दो नानुपपन्न इति विद्वद्भिर् विचारणीयम्, यत् पुनः स्मृतिचन्द्रिकायां समशब्दस्य सार्थकत्वम् उक्तं विभाज्यधनस्य भूयस्त्वे जीवनमात्रोपयोगिधनग्रहणं स्वल्पत्वे तु समांशहरणम् एव न तु जीवनोपयोगवशाद् अधिकहरणम् इत्येवमर्थः समशब्द इति, तद् असुन्दरम्, कदाचिज् जीवनमात्रोपयोगिधनग्रहणविधानं कदाचित् समांशग्रहणविधानम् इति वाक्यभेदापादकविधिवैरूप्यप्रसङ्गात् । न च विभाज्यधनस्वल्पत्वविषये एवास्य विधेः प्रवृत्तिर् इति वाच्यं स्वेच्छया विधिसङ्कोचस्याश्रयितुम् अयुक्तत्वात् । भिन्नमातृकाणां सवर्णानां समसंख्यानां विभागप्रकारम् आह बृहस्पतिः

    यद्य् एकजाता बहवः समाना जातिसंख्यया ।


    सापत्न्यात् तैर् विभक्तव्यं मातृभागेन धर्मतः ॥

[३३२] व्यासो ‘पि ।

    समानजातिसंख्या ये जातास् त्व् एकेन सूनवः ।


    विभिन्नमातृकास् तेषां मातृभागः प्रशस्यते ॥

भिन्नसंख्याकानां सवर्णानां विभागप्रकारम् आह बृहस्पतिः

	सवर्णा भिन्नसंख्या ये पुंभागस् तेषु शस्यते । इति ।

येषां पिता अविभक्त एव मृतस् तैर् बहुभिर् अपि सम्भूय पितृव्यतत्पुत्रादिभिः सह विभागे स्वपितुर् य एको ‘ंशः स एव ग्राह्यः । तथा च याज्ञवल्क्यः (२.१२० ) ।

	अनेकपितृकाणां तु पितृतो भागकल्पना ।

कात्यायनो ऽपि ( ८५५-८५६ ) ।

    अविभक्ते ऽनुजे प्रेते तत्सुतं रिक्थभागिनम् ।


    कुर्वीत जीवनं येन लब्धं नैव पितामहात् ॥


    लभेतांशं स पित्र्यं तु पितृव्यात् तस्य वा सुतात् ।


    स एवांशस् तु सर्वेषां भ्रातॄणां न्यायतो भवेत् ॥


    लभते तत्सुतो वापि निवृत्तिः परतो भवेत् ।

अनुजग्रहणम् अग्रजस्याप्य् उपलक्षणम् । अयम् अर्थः । पौत्रः पितरि मृते पितृव्यादिभ्यः पितामहधने स्वपितुर् यो ‘ंशस् तं गृह्णीयात् । एवं पौत्रपुत्रो ऽपि स्वपितरि मृते प्रपितामहस्यांशं गृह्णीयात् । प्रपौत्रपुत्रस्य तु वृद्धप्रपितामहधने ‘ंशभागित्वं नास्तीति । देवलो ऽपि

    अविभक्तविभक्तानां कुल्यानां वसतां सह ।


    भूयो दायविभागः स्याद् आ चतुर्थाद् इति स्थितिः ॥

अविभक्तेत्य् अत्र षष्ठीबहुवचनस्य लुक् छान्दसः । अविभक्तानाम् एव वा विभक्तानाम् अपि सह वसतां संसृष्टानां वा पुनर् दायविभागः प्रपौत्रपर्यन्तम् एव । चतुर्थपुरुषाद् आरभ्य तु स निवर्तत इत्य् अर्थः । यत् तु

    तृतीयः पञ्चमश् चैव सप्तमो वापि यो भवेत् ।


    जन्मनाम् अपरिज्ञाने लभेतांशं क्रमागतम् ॥ इति ।

[३३३] बृहस्पतिवचनं तद् दूरदुर्गमदेशस्थितप्रपौत्रपुत्रादिविषयं तथा प्रकृत्य पाठात् । आ चतुर्थाद् इत्य् एतत् तु वचनम् एकदेशनिवासिविषयम् इति नानयोर् विरोधः । पौत्रस्य पैतामहधने पित्रा सह कथं विभाग इत्य् अप्रेक्षायाम् आह बृहस्पतिः

    द्रव्ये पितामहोपात्ते स्थावरे जङ्गमे तथा ।


    समम् अंशित्वम् आख्यातं पितुः पुत्रस्य चैव हि ॥

पित्रा सम एवांशो ग्राह्यो न तु स्वार्जितवद् अत्र विषमविभागपक्षाश्रयणेनांशद्वयम् इत्य् अर्थः । याज्ञवल्क्यो ‘पि ( २.१२१ ) ।

    भूर् या पितामहोपात्ता निबन्धो द्रव्यम् एव च ।


    तत्र स्यात् सदृशं स्वाम्यं पितुः पुत्रस्य चैव हि ॥

पितर्य् अनिच्छत्य् अपि पैतामहधनविभागो भवतीत्य् आह व्यासः

    क्रमागते गृहक्षेत्रे पिता पुत्राः समाशिनः ।


    पैतृके न विभागार्हाः सुताः पितुर् अनिच्छतः ॥

क्वचित् पितुर् इच्छ्यैव पैतामहधनविभाग इत्य् आहतुर् मनु-विष्णू ( मनु ९।

२०९, विष्णु १८.४३ ) ।

    पैतृकं तु पिता द्रव्यम् अनवाप्यं यद् आप्नुयात् ।


    न तत् पुत्रैर् भजेत् सार्धम् अकामः स्वयम् अर्जितम् ॥

यत् पैतामहं केनाप्य् अपहृतं पितामहेन वा आप्तुम् अशक्यं पितोद्धरति तत् स्वार्जितम् इव विभागेच्छारहितः पुत्रैः सह न विभजेद् इत्य् अर्थः । बृहस्पतिर् अपि ।

    पैतामहं हृतं पित्रा स्वशक्त्या यद् उपार्जितम् ।


    विद्याशौर्यादिनावाप्तं तत्र स्वाम्यं पितुः स्मृतम् ॥


    प्रदानं स्वेच्छया कुर्याद् भागं चैव ततो धनात् ।


    तदभावे तु तनयाः समांशाः परिकीर्तिताः ॥

असवर्णानां विभागप्रकारम् आह याज्ञवल्क्यः (२.१२५ ) ।

[३३४] चतुस्त्रिद्व्येकभागाः स्युर् वर्णशो ब्राह्मणात्मजाः ।

	क्षत्रियास् त्रिद्व्येकभागा विड्जास् तु द्व्येकभागिनः ॥

ब्राह्मणेन ब्राह्मण्यादिषु चतसृषु स्त्रीषु उत्पादिता ब्राह्मणमूर्धावसिक्ताम्बष्ठपारशवा यथाक्रमं चतुस्त्रिद्व्येकभागाः क्षत्रियेण क्षत्रियादिषु स्त्रीषूत्पादिताः क्षत्रियमाहिष्योग्रास् त्रिद्व्येकभागाः । वैश्येन वैश्याशूद्रयोर् उत्पादितौ वैश्यकरणौ द्व्येकभागाव् इत्य् अर्थः । प्रतिग्रहप्राप्ता भूमिर् मूर्धावसिक्तादिभ्यो न देयेत्य् आह बृहस्पतिः

    न प्रतिग्रहभूर् देया क्षत्रियादिसुताय वै ।


    यद्य् अप्य् एषां पिता दद्यान् मृते विप्रासुतो हरेत् ॥

अत्र प्रतिग्रहेतिविशेषणात् क्रयादिलब्धा मूर्धावसिक्तादीनाम् अपि दायो भवत्य् एव । ब्राह्मणादिभिस् त्रिभिर् वर्णैः शूद्रायाम् उत्पादितः क्रयादिलब्धाम् अपि भुवं लब्धुं नाहः । तथा च देवलः

    शूद्र्यां द्विजातिभिर् जातो न भूमेर् भागम् अर्हति ।


    सजाताव् आप्नुयात् सर्वम् इति धर्मव्यवस्थितिः ॥ इति ।

यच् च

    ब्राह्मणक्षत्रियविशां शूद्रापुत्रो न रिक्थभाक् ।


    यद् एवास्य पिता दद्यात् तद् एवास्य धनं भवेत् ॥

इति मनुवचनं (९.१५५ ) तत् पितृप्रीतिदत्तधनसद्भावविषयम् इति दाक्षिणात्याःपौरस्त्यास् तु निर्गुणापरिणीतशूद्रापुत्रविषयम् इत्य् आहुः । गुणवदपरिणीतशूद्रापुत्रविषये बृहस्पतिः

    अनपत्यस्य शुश्रूषुर् गुणवान् शूद्रयोनिजः ।


    लभेताजीवनं शेषं सपिण्डाः समवाप्नुयुः ॥

अपरिगृहीतास्व् इत्य् अनुवृत्तौ गौतमो ऽपि (२८.३७ ): “शूद्रापुत्रो ऽप्य् अनपत्यस्य शुश्रूषुश् चेल् लभते वृत्तिमूलम् अन्तेवासिविधिना “। वृत्तिमूलं जीवनमूलम् । प्रतिलोमजानाम् अपरिणीतशूद्रापुत्रवज् जीवनोपायमात्रभागित्वम् **[३३५] **आह स एव (२८। ४३ ): “शूद्रापुत्रवत् प्रतिलोमासु” इति । प्रतिलोमासु उत्कृष्टवर्णस्त्रीषु हीनवर्णैर् उत्पादिता अपरिणीतशूद्रापुत्रवद् वृत्तिमूलमात्रभाज इत्य् अर्थः । असवर्णेषु पुत्रेषु गुणवत्त्वनिर्गुणत्वादिकृतो यो विशेषः स

	कन्यानाम् असवर्णानां विवाहश् च द्विजन्मभिः ।

इत्य् आदिपुराणे कलिवर्ज्यप्रकरणे असवर्णापरिणयस्य निषेधात् सांप्रतं मूर्धावसिक्तादीनां प्रचाराभावेन नेह प्रपञ्चितः । समयनिर्णयोयोते कलिवर्ज्यप्रकरणे ऽस्माभिर् उदाहृतेन

	दत्तौरसेतरेषां च पुत्रत्वेन परिग्रहः ।

इति वचनेन कलौ युगे दत्तौरसपुत्रिकापुत्रव्यतिरिक्तानां क्षेत्रजादीनां गौणपुत्राणां निषेधात् सांप्रतं तेषां प्रचाराभावेन तद्विभागविषयो विशेषो नात्र निरूप्यते । तत्र वचने औरसग्रहणं

	औरसो धर्मपत्नीजस् तत्समः पुत्रिकासुतः । (य्ध् २। १२८ )

इति याज्ञवल्क्यादिवाक्येष्व् औरसतुल्यतयोक्तस्य दत्तापेक्षया मुख्यस्य सांप्रतिकलोकव्यवहारपरिगृहीतस्य पुत्रिकापुत्रस्याप्य् उपलक्षणम् । औरसादीनां मुख्यगौणपुत्राणां स्वरूपम् आचारविवेकोद्द्द्योते श्राद्धप्रकरणे निरूपितम् ।

    अभ्रातृकां प्रदास्यामि तुभ्यं कन्याम् अलङ्कृताम् ।


    अस्यां यो जायते पुत्रः स मे पुत्रो भविष्यति ॥

(वसिष्ठधर्मसूत्र १७.१७ )

इति वसिष्ठाद्युक्तप्रकारेण पुत्रिकाकरणानन्तरम् औरस उत्पन्ने कथं भागकल्पनेत्य् अपेक्षायाम् आह मनुः (९.१३४ ) ।

    पुत्रिकायां कृतायां तु यदि पुत्रो ऽनुजायते ।


    समस् तत्र विभागः स्याज् ज्येष्ठता नास्ति हि स्त्रियाः ॥

बृहस्पतिर् अपि ।

[३३६] एक एवौरसः पित्र्ये धने स्वामी प्रकीर्तितः ।

	तत्तुल्या पुत्रिका प्रोक्ता भर्तव्यास् त्व् अपरे सुताः ॥

यानि तु पुत्रिकापुत्रस्य न्यूनभागप्रतिपादकानि,

    समग्रधनभोक्ता स्याद् औरसो ऽपि जघन्यजः ।


    त्रिभागं क्षेत्रजो भुङ्के चतुर्थं पुत्रिकासुतः ॥

इत्यादीनि ब्रह्मपुराणादीनि वचनानि, तान्य् औरसस्यात्यन्तसगुणत्वे पुत्रिकापुत्रस्यासवर्णत्वे ऽत्यन्तनिर्गुणत्वे वा द्रष्टव्यानि । दत्तकस्यौरसाभावे रिक्थहरत्वम् आह मनुः (९। १४१-४२ ) ।

    उपपन्नो गुणैः सर्वैः पुत्रो यस्य तु दत्त्रिमः ।


    स हरेच् चैव तद्रिक्थं संप्राप्तो ऽप्य् अन्यगोत्रतः ॥


    गोत्ररिक्थे जनयितुर् न भजेद् दत्त्रिमः क्वचित् ।


    गोत्ररिक्थानुगः पिण्डो व्यपैति ददतः स्वधा ॥

अपिशब्दात् स्वगोत्रतः । स्वधा तृप्तिहेतुः । दत्तपुत्रप्रतिग्रहानन्तरम् औरस उत्पन्ने दत्तस्य चतुर्थांशभागित्वम् आह वसिष्ठः (१५। ९ ): “तस्मिंश् चेत् प्रतिगृहीत औरस उत्पद्येत चतुर्थभागभागी स्याद् दत्तकः” इति । कात्यायनो ऽपि ( ८५७ ) ।

    उत्पन्ने त्व् औरसे पुत्रे चतुर्थांशहराः सुताः ।


    सवर्णा असवर्णास् तु ग्रासाच्छादनभाजनाः ॥

सवर्णा दत्तकादयः असवर्णाः कानीनादयः । कल्पतरौ तु तृतीयांशहराः सुता इति पठितम् । एतच् च दत्तकस्यौरसापेक्षया सगुणत्वे द्रष्टव्यम् । यत् तु

    एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः ।


    शेषाणाम् आनृशंस्यार्थं प्रदद्यात् तु प्रजीवनम् ॥ (९। १६३ )

इति मनुवचनं तद् औरसप्रशंसापरम् । दत्तकादीनाम् औरसप्रतिकूलत्वे **[३३७] **निर्गुणत्वे च चतुर्थभागनिषेधपरम् इति तु विज्ञानेश्वरयोगिनो मतम् । वसुनः धनस्य । यत् तु

    भ्रात्रॄणाम् एकजातानाम् एकश् चेत् पुत्रवान् भवेत् ।


    सर्वे ते तेन पुत्रेण पुत्रिणो मनुर् अब्रवीत् ॥ (९। १८२ )

इति मनुवचनं तत् पितृव्यस्य पुत्राद्यभावे स्वपितृवद् अवश्यं श्राद्धं कर्तव्यम् इत्य् एतदर्थं न तु तेषां पुत्रत्वप्रतिपादनार्थम् । तथा च सति—

	स्वर्यातस्य ह्य् अपुत्रस्य धनभागुत्तरोत्तरः । 

	पत्नी दुहितरश् चैव पितरौ भ्रातरस् तथा ।

	तत्सुता गोत्रजा बन्धुर् 

इति याज्ञवल्क्यवचने ( २। १३५ - १३६ ) भ्रातुः पुत्रे सत्य् अपुत्रत्वाभिधानं न विरुध्यते । शूद्रधनविभागविषये विशेषम् आह याज्ञवल्क्यः (२। १३३-३४ ) ।

    जातो ऽपि दास्यां शूद्रेण कामतो ‘ंशहरो भवेत् ।


    मृते पितरि कुर्युस् तं भ्रातरस् त्व् अर्धभागिकम् ॥

शूद्रेणापरिणीतायाम् उत्पादितः कामतः पितुर् इच्छयांशभाग् भवति । मृते पितरि यदि परिणीतायाः पुत्राः सन्ति तदा ते भ्रातरो दासीपुत्रं स्वभागापेक्षयार्धभागग्राहकं कुर्युः । यदि परिणीतायाः पुत्रा दुहितरस् तत्पुत्रा वा न स्युस् तदा समग्रं जनयितुर् धनं दासीपुत्रो गृह्णीयात् । यदि दुहितरो दौहित्रा वा स्युस् तदार्धम् एवेत्य् अर्थः । अत्र शूद्रेणेति विशेषाद् द्विजातिभिर् दास्याम् उत्पादितः पितुर् इच्छयाप्य् अंशं न लभते नापि तस्मिन् मृते ऽर्धं नापि पुत्राद्यभावे कृत्स्नम् इति सूचितम् । किं तु शुश्रूषत्वादिगुणयोगित्वे जीवनोपायमात्रं स लभत इति प्राग् एवास्माभिर् दर्शितम् । विभजद्भिः पूर्वसंस्कृतैर् भ्रातृभिर् असंस्कृतानां भ्रातॄणां भगिनीनां च विवाहान्ताः संस्कारा मध्यकधनेन कर्तव्याः । तथा च बृहस्पतिः

    असंस्कृता भ्रातरस् तु ये स्युस् तत्र यवीयसः ।


    संस्कार्याः पूर्वजैस् ते वै पैतृकान् मध्यकाद् धनात् ॥

[३३८] यवीयस इति मुम्दीर्घयोर् अभावश् छान्दसः । भ्रातृग्रहणम् अत्र भागिनीनाम् अप्य् उपलक्षणम् । अत एव व्यासः

    असंस्कृतास् तु ये तत्र पैतृकाद् एव तद्धनात् ।


    संस्कार्या भ्रातृभिर् ज्येष्ठैः कन्यकाश् च यथाविधि ॥

भगिनीविषये विशेषम् आह याज्ञवल्क्यः (२। १२४ ) ।

    असंस्कृतास् तु संस्कार्या भ्रातरः पूर्वसंस्कृतैः ।


    भगिन्यश् च निजाद् अंशाद् दत्त्वांशं तु तुरीयकम् ॥

अत्र निजाद् अंशाद् इति नापादानपञ्चमी किं तर्हि ल्यब्लोपे निजम् अंशम् अपेक्ष्य परिकल्पितं चतुर्थम् अंशम् इति । अयम् अर्थः । यज्जातीया कन्या तज्जातीयस्य पुत्रस्य यो भागस् तच्चतुर्थांशसमानम् अंशं मध्यकद्रव्याद् उद्धृत्य प्रतिभगिनि दत्त्वा ताः संस्कर्तव्या इति । अनेन दुहित्रॄणाम् अपि पितुर् ऊर्ध्वं विभागे ‘ंशभाक्त्वम् इत्य् अवगम्यते । तथा च दर्शयति मनुः (९। ११८ ) ।

    स्वेभ्यो ‘ंशेभ्यस् तु कन्याभ्यः प्रदद्युर् भ्रातरः पृथक् ।


    स्वात् स्वाद् अंशाच् चतुर्भागं पतिताः स्युर् अदित्सवः ॥ इति ।

अयम् अर्थः । ब्राह्मणादयो भ्रातरो ब्राह्मण्यादिभगिनीभ्यश् चतुस्त्रिद्व्येकभागा इत्यादिवाक्यैः स्वजातिविहितेभ्यो ‘ंशेभ्यः स्वात् स्वाद् अंशाच् चतुर्थभागं दद्युर् इति । तद् यथा । यदि कस्यचिद् ब्राह्मण्य् एव पत्नी पुत्रश् चैकः कन्या चैका तत्र पित्र्यं सर्वं द्विधा विभज्य तयोर् एकं भागं पुनश् चतुर्धा विभज्य चतुर्थम् अंशं कन्यायै दत्त्वावशिष्टं सर्वं पुत्रो गृह्णीयात् । यदि द्वौ पुत्रौ एका कन्या पितृधनं त्रेधा विभज्य तेष्व् एकं भागं चतुर्धा विभज्य चतुर्थम् अंशं कन्यायै दत्त्वावशिष्टं पुत्राभ्यां विभज्य ग्राह्यम् । यद्य् एकः पुत्रो द्वे कन्ये तदा सर्वं द्वेधा विभज्य तयोर् एकं चतुर्धा विभज्य तस्य द्वाव् अंशौ द्वाभ्यां दत्त्वावशिष्टं पुत्रेण ग्राह्यम् । यदि ब्राह्मणीपुत्र एकः क्षत्रियापुत्री एका तदा पित्र्यं द्रव्यं सप्तधा विभज्य क्षत्रियापुत्रभागांस् त्रीन् चतुर्धा विभज्य चतुर्थम् अंशं क्षत्रियाकन्यायै दत्त्वावशिष्टं पुत्रो गृह्णीयात् । एवं सर्वत्र योज्यम् । यत् तु कैश्चिद् उक्तं संस्कारमात्रोपयोगि द्रव्यदानम् अत्र विवक्षितं न तु [३३९] चतुर्थांशदानं बहुभ्रातृकाया बहुधनप्रसक्तेर् बहुभागनीकस्य च निर्धनत्वप्रसक्तेर् इति तद् अप्य् उक्तप्रकारेण व्याख्यानात् परिहृतम् । न ह्य् अत्र स्वकीयभागाद् उद्धृत्य चतुर्थांशो देय इत्य् उच्यते । तस्मात् पितुर् ऊर्ध्वं विभागे कन्याप्य् उक्तप्रकारेणांशभागिनी जीवति तु पितरि यद् एवास्यै पिता ददाति तद् एव लभते विशेषवचनाभावाद् इति विज्ञानेश्वर-असहाय-मेधातिथीनां पक्षः । पित्र्यधनाभावे ज्येष्ठैः स्वार्जितद्रव्येणावश्यकाः संस्काराः कर्तव्या इत्य् आह नारदः (दाय ०३३-३४) ।

    येषां तु न कृताः पूर्वं संस्कारविधयः क्रमात् ।


    कर्तव्या भ्रातृभिस् तेषां पैतृकाद् एव तद्धनात् ॥


    अविद्यमाने पित्रर्थे स्वांशाद् उद्धृत्य वा पुनः ।


    अवश्यकार्याः संस्कारा भ्रातॄणां पूर्वसंस्कृतैः ॥

भ्रातृग्रहणं भगिनीनाम् अप्य् उपलक्षणम् । मातरि सपत्न्यां वाविस्पष्टगर्भायां पित्रा ये विभक्तास् तैर् विभागानन्तरम् उत्पन्नाय स्वस्वभागाद् अपकृष्य स्वभागसमो भागो दातव्यः । तथा च विष्णुः (१७.३ ): “पितृविभक्ता विभागानन्तरोत्पन्नस्य विभागं दद्युः” इति । पिता च विभक्तैर् दत्तं तद्भागं गृहीत्वानेन सह वसेत् तस्याप्राप्तव्यवहारत्वेन पालनीयत्वात् । भागदानात् प्राग् एव मृते पितरि विभक्तैर् भागो न देयः किं तु पितृभागम् एव विभक्तजो गृह्णीयात् । तथा च गौतमः ( २८। २७ ): “विभक्तजः पित्र्यम् एव” इति । यस् तु विभागानन्तरं गर्भस्थो भूत्वोत्पन्नः स पित्र्यम् एवांशं गृह्णीयात् । तथा च बृहस्पतिः

    पित्रा सह विभक्ता ये सापत्ना वा सहोदराः ।


    जघन्यजास् तु ये तेषां पितृभागहरास् तु ते ॥

अत्र हेतुर् उक्तस् तेनैव

	अनीशः पूर्वजः पित्र्ये भ्रातुर् भागे विभक्तजः ।

[३४०] अर्थान्तरम् अपि किञ्चिद् आह स एव

    पुत्रैः सह विभक्तेन पित्रा यत् स्वयम् अर्जितम् ।


    विभक्तजस्य तत् सर्वम् अनीशाः पूर्वजाः स्मृताः ॥


    यथा धने तथर्णे च दानाधानक्रयेषु च ।


    परस्परम् अनीशास् ते मुक्त्वाशौचोदकक्रियाम् ॥

पित्रा सह केषांचित् संसृष्टत्वे तेभ्यो विभज्य पित्र्यंशं मृते ऽपि न विभागानन्तरम् उत्पन्नो गृह्णीयात् । तथा च मनुः (९.२१६) ।

    ऊर्ध्वं विभागाज् जातस् तु पित्र्यम् एव हरेद् धनम् ।


    संसृष्टास् तेन वा ये स्युर् विभजेत स तैः सह ॥

पितुर् ऊर्ध्वं मातर्य् अस्पष्टगर्भायां भ्रातृषु विभक्तेषु पश्चाद् उत्पन्नो दृश्यादृश्यरूपाद् विभक्तधनाद् उद्धृतं विभक्तभ्रातृभागसमम् अंशं तेभ्यो लभत इत्य् आह याज्ञवल्क्यः (२। १२२) ।

	विभक्तेषु सुतो जातः सवर्णायां विभागभाक् ।

सवर्णाग्रहणेनासवर्णायां विभागाद् ऊर्ध्वम् उत्पन्नश् चतुस्त्रिद्व्येकभागा इति पूर्वोक्तं स्वांशम् एव लभते न तु विभक्तभ्रातृभागसमं भागम् इति दर्शितम् । अनेनैव न्यायेन जीवद्विभागे ऽपि विभक्तजस्यासवर्णापुत्रस्य न सकलपित्र्यधनभागित्वम् इति ज्ञातव्यम् । अथ वा परिदृश्यमानाद् गृहोपस्करवाह्यदोह्याभरणादिरूपाद् धनाद् उपचयापचयाभ्यां निर्णीते पत्रादिकाद् उद्धृतं भागं लभते न तु गुप्ताद् अपीति । अस्मिन्न् एव विषये पक्षान्तरम् आह स एव (य्ध्। २.१२२) ।

	दृश्याद् वा तद्विभागः स्याद् आयव्ययविशोधितात् ।

अयं पक्षो विभक्तभ्रात्रापेक्षया यो ऽल्पगुणस् तद्विषय इति व्यवस्था कृता हलायुधेन । एवं भ्रातृविभागकाले प्रमीतभ्रात्रन्तरभार्यायाम् अप्रजस्य स्पष्टगर्भायां पश्चाद् उत्पन्नो भ्रातुः पुत्रः स्वपित्र्यंशं तेभ्यो लभते । स्पष्टगर्भायां भ्रातृभार्यायां न प्रसवपर्यन्तं विभागः कार्यः । तथा च वसिष्ठः (१७। ४०-४१): “अथ भ्रातॄणां दायविभागो याश् चानपत्याः स्त्रियस् तासाम् आ **[३४१] **पुत्रलाभात्” इति । आ पुत्रलाभात् प्रतीक्षा कार्येति शेषः । विभागानन्तरम् उत्पन्नेन विभक्तेभ्यो भ्रातृभ्यः पित्रा यत् पूर्वं प्रीत्याभरणादिकं दत्तं न तद् विभागाद् ऊर्ध्वम् उत्पनेन प्रत्याहर्तव्यम् । तथा च याज्ञवल्क्यः ( २। १२३ ) ।

	पितृभ्यां यस्य यद् दत्तं तत् तस्यैव धनं भवेत् ।

एवं विभागात् पूर्वम् अपि प्रीत्यादिदत्ते वेदितव्यम् । यद् धनं भ्रातृतत्पुत्रादिसाधारणम् इदं द्रव्यं ममाप्य् अत्रांशो ऽस्तीति तद्धने स्वांशं तद्विभागे कृते ऽपि विभक्तेभ्य उद्धृत्य स लभते । तथा च बृहस्पतिः

    कृते ‘कृते विभागे वा रिक्थी यत्र प्रवर्तते ।


    सामान्यं चेद् भावयति तत्र भागहरस् तु सः ।

विभागसमये देशान्तरस्थितो भ्रातृतत्पुत्रादिः पश्चाच् चिरेणागतो ऽपि विभक्तेभ्यः स्वांशं लभत इत्य् आह स एव

    ऋणं लेख्यं गृहं क्षेत्रं यस्य पैतामहं भवेत् ।


    चिरकालप्रोषितो ऽपि भागभाग् आगतस् तु सः ॥


    गोत्रसाधारणं त्यक्त्वा यो ऽन्यं देशं समाश्रितः ।


    तद्वंशस्यागतस्यांशः प्रदातव्यो न संशयः ॥


    तृतीयः पञ्चमः षष्ठः सप्तमश् चापि यो भवेत् ।


    जन्मनामपरिज्ञाने लभेतांशं क्रमागतम् ॥


    यं परम्परया मौलाः सामन्ताः स्वामिनं विदुः ।


    तदन्वयस्यागतस्य दातव्या गोत्रजैर् मही ॥ इति ।

विभजनयोग्यं द्रव्यम् आह कात्यायनः ( ८४० ) ।

    पैतामहं च पित्र्यं च यच् चान्यत् स्वयम् अर्जितम् ।


    दायादानां विभागेषु सर्वम् एतद् विभज्यते ॥

स्वयम् अर्जितं पित्राद्यविभक्तद्रव्योपयोगेन स्वयम् अर्जितम् । अन्यथा स्वयम् अर्जितं तु न विभाज्यं पितृद्रव्याविरोधेनेत्यादिवक्ष्यमाणवचनात् । [३४२] एतस्य त्रिविधस्यापि धनस्य विभागो यदि पितामहादिकृतम् ऋणं स्यात् तदा तद् दत्त्वा कर्तव्यः । तथा चाह स एव (कात्। ८५० ) ।

	ऋणं प्रीतिप्रदत्तं तु दत्त्वा शेषं विभाजयेत् ।

तथा ।

	भ्रात्रा पितृव्यमातृभ्यां कुटुम्बार्थम् ऋणं कृतम् ।

	विभागकाले देयं तद् रिक्थिभिः सर्वम् एव तु ॥ (कात्। ८४३)

नारदो ऽपि ( दाय। ३२ ) ।

    यच् छिष्टं पितृदायेभ्यो दत्त्वर्णं पैतृकं च यत् ।


    भ्रातृभिस् तद् विभक्तव्यम् ऋणी स्याद् अन्यथा पिता ॥

एतच् च विभाज्यधनबाहुल्यविषयम् । तदल्पत्वे तु रिक्थवद् ऋणम् अपि सर्वैर् विभज्य ग्राह्यं,

	विभजेरन् सुताः पित्रोर् ऊर्ध्व रिक्थ मृणं समम् ।

इति पूर्वोदाहृतवचनात् (य्ध् २.११७) । विभागकाले यादृशम् ऋणं विचार्य देयं तद् आह स एव (कात्। ८४९ ) ।

    पित्र्यं पित्र्यर्णसम्बद्धम् आत्मीयं वात्मना कृतम् ।


    ऋणम् एवं कृतं शोध्यं विभागे बन्धुभिः सह ॥ इति ॥

पित्र्यर्णसंबद्धं पित्रर्णापाकरणार्थं कृतम् । आत्मीयं स्वकुटुम्बपोषणाद्यावश्यककार्यार्थम् अपरेण कृतम् । आत्मना कृतं स्वकुटुम्बपोषणार्थम् एवेति शेषः । अविभक्तेषु केनचित् सर्वानुमतिम् अन्तरेण यत् साधारणात् पैतृकाद् धनाद् धर्मार्थं प्रीत्या वा ऋणत्वेन वा दत्तं तत् सर्वैर् ज्ञातं दातुः सकाशाद् विभज्य ग्राह्यम् । न हि तस्य साधारणे पित्र्यधने ऽसाधारण्येन दानं युक्तम् इत्य् आह स एव (कात्। ८४८ ) ।

    धर्मार्थं प्रीतिदत्तं च यद् ऋणं स्वेन योजितम् ।


    तद् दृश्यमानं विभजेन् न दानं पैतृकाद् धनात् ॥

सर्वैर् ज्ञायमानस्य गृहक्षेत्रादेर् विभज्य ग्रहणम् । अपरिज्ञायमानं तु यस्मिन् **[३४३] **पुरुषे तद्द्रव्यसम्बन्धशङ्का भवति तं कोशाख्यं दिव्यं कारयित्वा शोधयितव्यम् । तथा च स एव (कात्। ८४१-४२ ) ।

    दृश्यमानं विभज्येत गृहक्षेत्रं चतुष्पदम् ।


    गूढद्रव्याभिशङ्कायां प्रत्ययस् तत्र कीर्तितः ॥


    गृहोपस्करवाह्याश् च दोह्याभरणकर्मिणः ।


    दृश्यमाना विभज्यन्ते कोशं गूढे ऽब्रवीन् मनुः ॥

प्रत्ययो दिव्यम् । गृहोपस्कर उलूखलादिः कर्मिणो दासादयः । अत्र कोशकथनं

    शङ्काविश्वाससन्धाने विभागे रिक्थिनां सदा ।


    क्रियासमूहकर्तृत्वे कोशम् एव प्रदापयेत् ॥

इति दिव्यप्रकरणे स्वेनैव्ओक्तस्य (कात्। ४१५) कोशनियमस्य स्मारणार्थम् । अविभाज्यं दर्शयति मनुः (९। २०६ ) ।

    विद्याधनं तु यद् यस्य तत् तस्यैव धनं भवेत् ।


    मैत्रम् औद्वाहिकं चैव माधुपर्किकम् एव च ॥

मैत्रं मित्राल् लब्धम् । माधुपर्किकं मधुपर्ककाले पूज्यतया लब्धम् । व्यासः

    विद्याप्राप्तं शौर्यधनं यच् च सौदायिकं भवेत् ।


    विभागकाले तत् तस्य नान्वेष्टव्यं स्वरिक्थिभिः ॥

सौदायिकस्वरूपम् उक्तं तेनैव

    ऊढया कन्यया वापि पत्युः पितृगृहाद् अपि ।


    भ्रातुः सकाशात् पित्रोर् वा लब्धं सौदायिकं स्मृतम् ॥ इति ।

एतच् च पित्र्याद्यविभक्तद्रव्यव्ययम् अन्तरेण यदि लब्धं तदा न विभाज्यम् इतरथा विभाज्यम् एव । अत एव याज्ञवल्क्यः (२.११८-९) ।

[३४४] पितृद्रव्याविरोधेन यद् अन्यत् स्वयम् अर्जितम् ।

    मैत्रम् औद्वाहिकं चैव दायादानां न तद् भवेत् ॥


    क्रमाद् अभ्यागतं द्रव्यं धृतम् अभ्युद्धरेत् तु यः ।


    दायादेभ्यो न तद् दद्याद् विद्यया लब्धम् एव च ॥

क्रमाद् अभ्यागतं पितृक्रमागतं द्रव्यम् उद्धरेत् इतरानुमत्येति शेषः । अयं क्रमागतस्य हृतोद्धृतस्य विभज्यत्वप्रतिषेध उद्धर्तृसमांशभागित्वम् इतरेषां नेत्य् एवंपरः । अत एव शङ्खः

    पूर्वनष्टां तु यो भूमिम् एकश् चेद् उद्धरेत् क्रमात् ।


    यथाभागं लभन्ते ऽन्ये दत्त्वांशं तु तुरीयकम् ॥

उद्धृतस्य चतुर्थम् अंशं दत्त्वावशिष्टं यथाभागम् इतरे गृह्णीयुर् इत्य् अर्थः । एतत् सर्वम् अप्य् अविभाज्यं पित्राद्यविभक्तद्रव्यानाश्रयणेनार्जने न त्व् अन्यथेत्य् आह मनुर् अपि ( ९.२०८ ) ।

    अनुपघ्नन् पितृद्रव्यं श्रमेण यद् उपार्जयेत् ।


    दायादेभ्यो न तद् दद्याद् विद्यया लब्धम् एव च ॥

श्रमेण सेवाकृष्यादिना । व्यासो ऽपि ।

    अनाश्रित्य पितृद्रव्यं स्वशक्त्याप्नोति यद् धनम् ।


    दायादेभ्यो न तद् दद्याद् विद्यालब्धं च यद् धनम् ॥

विद्यालब्धस्य स्वरूपं निरूपयति कात्यायनः ( ८६७ ) ।

    परभक्तोपयोगेन विद्या प्राप्तान्यतस् तु या ।


    तया लब्धं धनं यत् तु विद्याप्राप्तं तद् उच्यते ॥

अत्र परान्यशब्दाव् अविभक्तापेक्षया प्रयुक्तौ । विद्याप्राप्तं प्रपञ्चितं तेनैव (कात्। ८६८-८७३ )

    उपन्यस्ते तु यल् लब्धं विद्यया पणपूर्वकम् ।


    विद्याधनं तु तद् विद्याद् विभागे न विभज्यते ॥


    शिष्याद् आर्त्विज्यतः प्रश्नात् सन्दिग्धप्रश्ननिर्णयात् ।


    स्वज्ञानशंसनाद् वादाल् लब्धं प्राध्ययनाच् च यत् ॥

[३४५] विद्याधनं तु तत् प्राहुर् विभागे न विभज्यते ।

    शिल्पिष्व् अपि हि धर्मो ऽयं मूल्याद् यच् चाधिकं भवेत् ॥


    विद्याबलकृतं चैव याज्यतः शिष्यतस् तथा ।


    एतद् विद्याधनं प्राहुः सामान्यं यद् इतो ऽन्यथा ॥


    परं निरस्य यल् लब्धं विद्यया पणपूर्वकम् ।


    विद्याधनं तु तद् विद्यान् न विभाज्यं **बृहस्पतिः** ॥


    विद्याप्रतिज्ञया लब्धं शिष्याद् आप्तं च यद् भवेत् ।


    ऋत्विङ्न्यायेन यल् लब्धम् एतद् विद्याधनं **भृगुः** ॥ इति ।

उपन्यस्ते क्रमजटादिरूपेण सङ्कलय्य पठिते । पणपूर्वकम् उपन्यस्ते इत्य् अन्वयः । शिष्यात् अध्यापनात् । आर्त्विज्यतः हौत्रादिकरणात् । प्रश्नात् दुर्बोधार्थप्रश्नात् । सन्दिग्धप्रश्ननिर्णयात् कठिनप्रश्नोत्तराभिधानात् । स्वज्ञानशंसनात् सभायां स्वज्ञानप्रख्यापनाद् वादजल्पवितण्डादिरूपात् । प्राध्ययनात् प्रकृष्टाध्ययनात् । शिल्पिष्व् अपीत्यादि शिल्पविद्योपजीविष्व् अपि अयं विद्याधनाविभजनरूपो धर्मो ‘स्ति । उचितमूल्याद् यद् अधिकं पुरुषप्रतिष्ठया लभ्यते । विद्याबलकृतं सभापूजादौ यद् विद्याधिक्यवशाल् लब्धम् । याज्यतः दक्षिणाव्यतिरेकेण सत्काररूपेण लब्धम् । विद्याप्रतिज्ञया लब्धं बहुविद्यो ऽहम् अस्मीति प्रतिज्ञया लब्धम् । शिष्यात् आप्तगुरुदक्षिणारूपेण । ऋत्विङ्न्यायेन उपद्रष्टृत्वादिना । कस्यचिद् विद्याधने ऽप्य् अंशभागित्वम् आह नारदः ( दाय। १० ) ।

    कुटुम्बं विभृयाद् भ्रातुर् यो विद्याम् अधिगच्छतः ।


    भागं विद्याधनात् तस्मात् स लभेताश्रुतो ऽपि सन् ॥

अश्रुतो ऽपि अविद्यो ऽपि । येनाविभक्तपित्रादेर् विद्या लब्धा तया धनम् अर्जितं तद् विद्याधनं सर्वैर् विभाज्यम् । तथा च कात्यायनः (८७४) ।

[३४६] कुले विनीतविद्यानां भ्रातॄणां पितृतो ऽपि वा ।

	शौर्यप्राप्तं तु यद् वित्तं विभाज्यं तद् **बृहस्पतिः** ॥

शौर्यप्राप्तं विद्यया शौर्येण वा यत् प्राप्तं तद् धनं विभाज्यम् । तत्राप्य् अर्जकस्यांशद्वयं भवत्य् एव । “येन चैषां स्वयम् उपार्जितं स्यात् स द्वयंशम् एव हरेत्” इति वसिष्ठेनाभिधानात् (१७। ५१) । अविभाज्यविद्याधने ऽप्य् अर्जकेच्छयांशदानम् आह गौतमः (२८.२८ ): “स्वम् अर्जितं वैद्यो ऽवैद्येभ्यः कामं दद्यात्” इति । विद्याशब्देन विद्यास्थानं गृह्यते विद्यां वेत्तीति वैद्यः । अर्जकेच्छाभावे अंशदानाभावम् आह नारदः ( दाय। ११ ) ।

    वैद्यो ‘वैद्याय नाकामो दद्याद् अंशं स्वतो धनात् ।


    पितृद्रव्यं समाश्रित्य न चेत् तेन तद् आहृतम् ॥

अवैद्याय सत्याम् अपीच्छायां न दद्यात् । तथा च कात्यायनः (८७५) ।

    नाविद्यानां तु वैद्येन देयं विद्याधनं क्वचित् ।


    समविद्याधिकानां तु देयं वैद्येन तद् धनम् ॥

अविद्यानां न क्वचिद् देयं सकामेनापि न देयम् इत्य् अर्थः । अयं च निषेधो विद्यारहितानां धनसद्भावे ज्ञातव्यः । धनराहित्ये तु तेभ्यो ऽपीच्छया विद्यावता दातव्यम् । शौर्यप्राप्तादीनाम् अविभाज्यत्वम् आह स एव (कात्। ८७७ ) ।

    शौर्यप्राप्तं विद्यया च स्त्रीधनं चैव यत् स्मृतम् ।


    एतत् सर्वं विभागे तु विभाज्यं नैव रिक्थिभिः ॥

अविभाज्यस्य शौर्यधनस्य स्वरूपं दर्शितं तेनैव (कात्। ८७६ ) ।

    आरुह्य संशयं यत्र प्रसभं कर्म कुर्वते ।


    तस्मिन् कर्मणि तुष्टेन प्रसादः स्वामिना कृतः ॥

[३४७] तत्र लब्धं तु यत् किञ्चिद् धनं शौर्येण तद् भवेत् ॥

अविभान्यान्तरं तत्स्वरूपं चोक्तं तेनैव (कात्। ८७८ ) ।

    ध्वजाहृतं भवेद् यत् तु विभाज्यं नैव तत् स्मृतम् ।


    संग्रामाद् आहृतं यत् तु विद्राव्य द्विषतां बलम् ॥

	स्वाम्यर्थे जीवितं त्यक्त्वा तद् ध्वजाहृतम् उच्यते ।

साधारणपित्र्यादिद्रव्याश्रयणेन शौर्यादिना येन प्राप्तं तत्र तस्यार्जकत्वाद् अंशद्वयभाक्त्वम् इत्य् आह व्यासः

    साधारणं समाहृत्य यत् किंचिद् वाहनादिकम् ।


    शौर्यादिनाप्नोति धनं भ्रातरस् तत्र भागिनः ॥


    तस्य भागद्वयं देयं शेषास् तु समभागिनः ।

अविभाज्यान्तरम् आह बृहस्पतिः

    पितामहपितृभ्यां च दत्तं मात्रापि यद् भवेत् ।


    तस्य तन् नापहर्तव्यं शौर्यभार्याधने तथा ॥

नारदो ऽपि ( दाय। ६-७ ) ।

    शौर्यभार्याधने चोभे यच् च विद्याधनं भवेत् ।


    त्रीण्य् एतान्य् अविभाज्यानि प्रसादो यश् च पैतृकः ॥


    मात्रा च स्वधनं दत्तं यस्मै स्यात् प्रीतिपूर्वकम् ।


    तस्याप्य् एष विधिर् दृष्टो मातापीष्ठे यथा पिता ॥

औद्वाहिकवत् कन्यागतस्याप्य् अविभाज्यत्वम् अभिसन्धाय तयोः स्वरूपम् आह कात्यायनः (८७९-८८० ) ।

    यल् लब्धं लाभकाले तु स्वजात्या कन्यया सह ।


    कन्यागतं तु तद् वित्तं शुद्धं वृद्धिकरं स्मृतम् ॥


    वैवाहिकं तु तद् विद्याद् भार्यया यत् सहागतम् ।


    धनम् एवंविधं सर्वं विज्ञेयं धर्मसाधकम् ॥

अनयोर् अपि साधारणद्रव्याश्रयणेनार्जने पूर्वोदाहृतवचनाद् विभाव्यत्वम् अर्जकस्य चांशद्वयं ज्ञातव्यम् । साधारणद्रव्यानाश्रयणेनापि ज्येष्ठेनाविभक्तेन **[३४८] **पितरि प्रेते यद् अर्जितं तद् यदि कनीयांसो विद्याभ्यासरतास् तदा तेभ्यो ऽपि विभज्य देयम् अर्जकत्वात् स्वेन चांशद्वयं ग्राह्यम् । अत एव मनुः (९.२०४) ।

    यत् किंचित् पितरि प्रेते धनं ज्येष्ठो ऽधिगच्छति ।


    भागो यवीयसां तत्र यदि विद्यानुपालिनः ॥

विचाररहिताः सर्वे ऽपि भ्रातरः कृष्यादिना यदि धनम् अर्जयन्ति तत्र सर्वेषां समो भागो न तु बह्वल्पधनार्जनपर्यालोचनया विषमो भागः कल्प्य इत्य् आह स एव ( मनु। ९.२०५ ) ।

    अविद्यानां तु सर्वेषाम् ईहातश् चेद् धनं भवेत् ।


    समस् तत्र विभागः स्याद् अपित्र्य इति धारणा ॥

ईहातः कृष्यादिचेष्टातः । अपित्र्ये पितृद्रव्याश्रयणाभावे ऽपि । अविभाज्यान्तरम् आह मनुः (९.२१९ ) ।

    वस्त्रं पत्रम् अलङ्कारः कृतान्नम् उदकं स्त्रियः ।


    योगक्षेमं प्रचारं च न विभाज्यं प्रचक्षते ॥

वस्त्रं धृतं वस्त्रं तद् येन धृतं तस्यैव । पित्रा धृतं वस्त्रं तु पितुर् ऊर्ध्वं श्राद्धभोक्त्रे दातव्यम् ।

    वस्त्रालङ्कारशय्यादि पितुर् यद् वाहनादिकम् ।


    गन्धमाल्यैः समभ्यर्च्य श्राद्धभोक्त्रे तद् अर्पयेत् ॥

इति बृहस्पतिवचनात् । नूतनानि तु वस्त्राणि विभाज्यान्य् एव । पत्रं वाहनम् अश्वशिबिकादि । तद् येनारूढ तस्यैव । पित्र्यं तु वस्त्रवद् एव । अथ वा पत्रं पत्रस्थितम् ऋणत्वेन दत्तं धनं, “धनं पत्रनिविष्टम्” इति कात्यायनेनाभिधानात् ( ८८२ ) । अश्वादीनां बाहुल्ये तद्विक्रयोपजीविभिस् तानि विभान्यान्य् एव । अजादीनां वैषम्येण समविभागासम्भवे ज्येष्ठस्याधिकं देयं

    अजाविकं सैकशफं न जातु विषमं भजेत् ।


    अजाविकं सैकशफं ज्येष्ठस्यैव विधीयते ॥

इति मनुनाभिधानात् (९। ११९ ) । अलङ्कारो ऽपि येन धृतः **[३४९] **स तस्यैव । अधृतः साधारणत्वाद् विभाज्यः । कृतान्नं तण्डुलमोदकादि । तद् अप्य् अविभाज्यं यथासंभवं भोक्तव्यम् । उदकं उदकाधारभूतं कूपादिकं । तच् च विषमसंख्याकं पर्यायेणोपभोक्तव्यं न मूल्यद्वारेण विभाज्यम् । स्त्रियश् च दास्यो विषमाः पर्यायेण कर्म कारयितव्याः पित्रावरुद्धास् तु समा अपि अविभाज्याः, “स्त्रीषु च संयुक्तास्व् अविभागः” इति गौतमेनाभिधानात् (२८.४५ ) । योगशब्देनालब्धलाभकारणम् इष्टं क्षेमशब्देन च तडागनिर्माणादिपूर्तकर्म गृह्यते । एतद् द्वयं पितृद्रव्याश्रयणेनार्जितम् अपि न विभाज्यम्,

    क्षेमं पूर्तं योगम् इष्टम् इत्य् आहुस् तत्त्वदर्शिनः ।


    अविभाज्ये तु ते प्रोक्ते शयनासनम् एव च ॥

इति लौगाक्षिणाभिधानात् । योगक्षेमशब्देन मन्त्रिपुरोहितादीनां ग्रहणं तेषां योगक्षेमहेतुत्वाद् इति कल्पतरूकारादयःप्रचारो गृहारामादिषु प्रवेशनिर्गममार्गो गवादीनां प्रचरणमार्गश् च । अविभाज्यान्तरम् आहतुर् व्यास-उशनसौ

    अविभाज्यं सगोत्राणाम् आ सहस्रकुलाद् अपि ।


    याज्यं क्षेत्रं च पत्रं च कृतान्नम् उदकं स्त्रियः ॥ इति ।

याज्यं शिष्यः । शङ्खलिखितौ “न वास्तुविभागो नोदपात्रालङ्कारोपयुक्तवाससाम्” इति । वास्तु गृहम् । अत्र क्षेत्रगृहयोर् अविभाज्यत्वाभिधानम् अत्यल्पे बहुभिर् विभज्य ग्रहीतुम् अयोग्ये एकस्मिन् गृहक्षेत्रादौ वेदितव्यम् । तत् तु तत्परिवर्तनादिद्वारा एकस्मै सर्वैर् दातव्यम् । अथ वा प्रतिग्रहलब्धक्षेत्रादिकं ब्राह्मणीपुत्रेण क्षत्रियापुत्रादिभिः सह न विभाज्यम् इत्य् एवंपरो ऽयं क्षेत्रादेर् विभाज्यत्वनिषेधः ।

    न क्षत्रियभूर् देया क्षत्रियादिसुताय वै ।


    यद्य् अप्य् एषां पिता दद्यान् मृते विप्रासुतो हरेत् ॥

**[३५०] **इति वचनात् । अस्य वस्त्रादिविभागनिषेधस्य धृतवस्त्रादिविषयत्वं न तु सामान्यविषयत्वम् इत्य् अभिप्रेत्य वस्त्रादिविषये संख्यामूल्यादिकृतवैषम्ये विभागप्रकारम् आह बृहस्पतिः

    वस्त्रादयो ऽविभाज्या यैर् उक्तं तैर् न विचारितम् ।


    धनं भवेत् समृद्धानां वस्त्रालङ्कारसंश्रितम् ॥


    मध्यस्थितम् अनाजीव्यं दातुं नैकस्य शक्यते ।


    युक्त्या विभजनीयं तद् अन्यथानर्थकं भवेत् ॥


    विक्रीय वस्त्राभरणम् ऋणम् उद्ग्राह्य लेखितम् ।


    कृतान्नं चाकृतान्नेन परिवर्त्य विभज्यते ॥


    उद्धृत्य कूपवाप्यम्भः स्वानुसारेण भुज्यते ।


    एकां स्त्रीं कारयेत् कर्म यथांशेन गृहे गृहे ॥


    बह्वयः समांशतो देया दासानाम् अप्य् अयं विधिः ॥


    यथाभागानुसारेण सेतुः क्षेत्रं विभज्यते ।


    प्रचारश् च यथांशेन कर्तव्यो रिक्थिभिः सदा ॥ इति ।

न विचारितं विभागनिषेधस्य विशेषविषयत्वं न विविच्योक्तम् इत्य् अर्थः । ऋणम् उद्ग्राह्य लेखितं पत्रस्थम् ऋणम् अधमर्णाद् उद्धृत्य विभाज्यं न तु पत्रस्थम् एवेत्य् अर्थः । कात्यायनो ऽपि ( ८८२-८८४ ) ।

    धनं पत्रनिविष्टं तु धर्मार्थं यन् निरूपितम् ।


    उदकं चैव दाराश् च निबन्धो यः क्रमागतः ॥


    धृतं वस्त्रमलङ्कारो नानुरूपं तु यद् भवेत् ।


    यथाकालोपयुक्तानि तथा योज्यानि बन्धुभिः ॥


    गोप्रचारश्च रथ्या च वत्रं यच्चानयोजितम् ।


    प्रयोज्यं न विभज्येत शिल्पार्थं च बृहस्पतिः ॥

[३५१] धर्मार्थं यन् निरूपितं देवपूजाद्यर्थं सर्वसाधारणत्वेन स्थापितं परादिकं ( ? घण्टादिकम् ) । निबन्धः अत्रैतावद् देयम् इत्यादिरूपेण राजादिभिर् व्यवस्थापितं द्रव्यम् । धृतं वस्त्रम् अत्र बहुमूल्यं विवक्षितम् । नानुरूपं यद् भवेत् यत् साक्षाद् विभक्तुम् अशक्यम् । अङ्गयोजितं वस्त्रम् अत्राबहुमूल्यं विवक्षितम् । प्रयोज्यशब्देन पुस्तकादिकं गृह्यत इति प्राच्याः । पुस्तकादिकं शिल्पार्थं च क्रमान् मूर्खैः शिल्पानभिज्ञैश् च सह न विभाव्यम् इति ज्ञातव्यम् । इतरथा जीवनोपायत्वात् तत् सर्वैर् विभाज्यम् इत्य् अर्थः । विभाग् देशधर्मानुसारेण कर्तव्य इत्य् आह स एव ( ८८४ अ ) ।

    देशस्य जात्या सङ्घस्य धर्मो ग्रामस्य यो **भृगुः** ।


    उदितं स्यात् स तेनैव दायधर्मं प्रकल्पयेत् ॥ इति ।

विभागकाले यत् केनचिद् वञ्चयित्वा स्थापितं विभागानन्तरं ज्ञातं तत् सर्वैः समतया विभज्य ग्राह्यम् । तथा च मनुः (९। २१८ ) ।

    ऋणे धने च सर्वस्मिन् प्रविभक्ते यथाविधि ।


    पश्चाद् दृश्येत यत् किञ्चित् तत् सर्वं समतां नयेत् ॥

याज्ञवल्क्यो ‘पि ( २। १२६ ) ।

    अन्योन्यापहृतं द्रव्यं विभक्ते यत् तु दृश्यते ।


    तत् पुनस् तत्समैर् अंशैर् विभजेरन्न् इति स्थितिः ॥

अपहृतद्रव्यवश्यदशाप्रोक्तमार्गेण ( ? ) विभक्तं यच् च विभागकाले विस्मृतं पश्चात् प्राप्तं तद् अपि साम्येन विभाज्यम् । तथा च कात्यायनः ( ८८५-८८६ ) ।

    प्रच्छादितं तु यद् येन पुनर् आसाद्य तत् समम् ।


    भजेरन् भ्रातृभिः सार्धम् अभावे हि पितुः सुताः ॥


    अन्योन्यापहृतं यच् च दुर्विभक्तं च यद् भवेत् ।


    पश्चात् प्राप्तं विभज्येत समभागेन तद् **भृगुः** ॥

**[३५१] **गविधानं पूर्वं विषमविभागकरणे ऽप्य् अस्मिन् विषये समभाग एवेति नियमनार्थम् । यद् अन्येन केनचिद् धृतं नष्टं वा विभागानन्तरं लब्धं तद् अपि सर्वैर् विभज्य ग्राह्यम् । तथा च स एव (कात् ८८७) ।

    विभक्तेनैव यत् प्राप्तं धनं तस्यैव तद् भवेत् ।


    हृतं नष्टं च यल् लब्धं प्रागुक्तं च पुनर् भवेत् ॥ इति । 

प्रागुक्तं प्रच्छादितं चेत्यादिनोक्तम् । पुनर् भवेद् विभाव्यम् इत्य् अर्थः । अत्र वञ्चितद्रव्यादेर् एव पश्चाद् दृष्टस्य विभागविधानात् पूर्वं विभक्तस्य सर्वस्यापि न पुनर्विभागः ।

    विभागे तु कृते किञ्चित् सामान्यं यत् तु दृश्यते ।


    नासौ विभागो विज्ञेयः कर्तव्यः पुनर् एव हि ॥

इति सकलद्रव्यस्य पुनर्विभागविधायकं मनुवचनं तद् विभक्तद्रव्यस्यायव्यय-करणात् प्राग् एव वञ्चितादिद्रव्यदर्शने ज्ञातव्यम् । इतरथा पूर्वोदाहृतवचनानां वञ्चितादिद्रव्यमात्रविभागविधायकानां नैरर्थक्यापत्तेः । साधारणद्रव्यवञ्चकस्य दण्ड्यताम् आह मनुः (९। २१३ ) ।

    यो ज्येष्ठो विनिकुर्वीत लोभाद् भ्रातृन् यवीयसः ।


    सो ऽज्येष्ठः स्याद् अभागश् च नियन्तव्यश् च राजभिः ॥

ज्येष्ठग्रहणं कनीयसाम् अप्य् उपलक्षणम् । अभाग इति दुष्टत्वप्रतिपादनार्थं न तु सर्वथा न[भा?]गानर्हत्वज्ञापनार्थं पूर्वोदाहृतवचनानुसारात् । विभक्तेषु केनचिद् विभागापलापे कृते तन्निर्णयप्रमाणान्य् आह याज्ञवल्क्यः (२.१४९ ) ।

    विभागनिह्नवे ज्ञातिबन्धुसाक्ष्यभिलेखितैः ।


    विभागभावना ज्ञेया गृहक्षेत्रैश् च यौतकैः ॥

ज्ञातयः पितृवंश्याः । बन्धवो मातृवंश्याः । साक्षिणः प्रागुक्तलक्षणाः । अभिलेखितं विभागपत्रम् । यौतकैः पृथक्कृतैर् गृहक्षेत्रैर् इति विशेषणविशेष्यभावेनान्वयः । नारदो ऽपि ( दाय। ३६) ।

[३५३] विभागधर्मसन्देहे दायादानीं विनिर्णयः ।

	ज्ञातिभिर् भागलेख्येन पृथक्कार्यप्रवर्तनात् ॥

पृथक्कार्यप्रवर्तनात् पृथग्वैश्वदेवादिधर्मकरणात् । पृथग्वैश्वदेवादिधर्मो विभक्तैः कर्तव्य इत्य् आह स एव ( नारद, दाय। ३७ ) ।

    भ्रातॄणाम् अविभक्तानाम् एको धर्मः प्रवर्तते ।


    विभागे सति धर्मो ऽपि भवेत् तेषां पृथक् पृथक् ॥

अन्यान्य् अपि विभागलिङ्गानि दर्शितानि तेनैव ( नारद, दाय। ३८-४० ) ।

    साक्षित्वं प्रातिभाव्यं च दानं ग्रहणम् एव च ।


    विभक्ता भ्रातरः कुर्युर् नाविभक्ताः परस्परम् ॥


    दानग्रहणपश्वन्नगृहक्षेत्रप्रतिग्रहाः ।


    विभक्तानां पृथग् ज्ञेया दानधर्मागमव्ययाः ॥


    येषाम् एताः क्रिया लोके प्रवर्तन्ते स्वरिक्थिषु ।


    विभक्तान् अवगच्छेयुर् लेख्यम् अप्य् अन्तरेण तान् ॥

बृहस्पतिर् अपि ।

    पृथगायव्ययाधानं कुसीदं च परस्परम् ।


    वणिक्पथं च ये कुर्युर् विभक्तास् ते न संशयः ॥

वणिक्पथो वाणिज्यम् । अन्योन्यम् ऋणदानादिकम् अविभक्तानां निषिद्धम् इति विभक्तत्वे तल् लिङ्गम् । निषेधश् च कृतो याज्ञवल्क्येन (२.५२ ) ।

    भ्रात्रॄणाम् अथ दम्पत्योः पितुः पुत्रस्य चैव हि ।


    प्रातिभाव्यम् ऋणं साक्ष्यम् अविभक्ते न तु स्मृतम् ॥ इति ।

एतैर् विभागलिङ्गैर् विभागनिर्णयः साक्ष्यादिप्रमाणाभावे कर्तव्य इत्य् उक्तं बृहस्पतिना

    साहसं स्थावरस्वाम्यं प्राग्विभागं च रिक्थिनाम् ।


    अनुमानेन विज्ञेयं न स्युर् यत्र च साक्षिणः ॥

[३५४] लिङ्गैर् अपि निर्णयस्य कर्तुम् अशक्यत्वे

	युक्तिष्व् अप्य् असमर्थासु शपथैर् एनम् अर्दयेत् ।

इति सामान्यवचनेन प्राप्तं दिव्यं निषेधति वृद्धयाज्ञवल्क्यः

    विभागधर्मसन्देहे बन्धुसाक्ष्यभिलेखितैः ।


    विभागभावना कार्या न भवेद् दैविकी क्रिया ॥ इति ।

कथंचिद् अपि निर्णयस्य कर्तुम् अशक्यत्वे पुनर्विभागः कर्तव्य इत्याह मनुः

    विभागे यत्र सन्देहो दायादानां परस्परम् ।


    पुनर् विभागः कर्तव्यः पृथक्स्थानस्थितैर् अपि ॥

यत्र सन्देहः कथंचिद् अपि नापैतीति शेषः । यत् पुनः

    सकृद् अंशो निपतति सकृत् कन्या प्रदीयते ।


    सकृद् आह ददानीति त्रीण्य् एतानि सकृत् सकृत् ॥

इति तेनैव्ओक्तं (मनु ९.४७ ), तद् युक्तिभिः कथंचिन् निर्णये कर्तुं शक्ये वेदितव्यम् । विभक्तैर् यत् कर्तव्यं तद् आह नारदः (दाय। ४२-४३ ) ।

    यद्य् एकजाता बहवः पृथग्धर्माः पृथक्क्रियाः ।


    पृथक्कर्मगुणोपेता न चेत् कार्येषु संमताः ॥


    स्वभावाद् यदि दद्युस् ते विक्रीणीयुर् अथापि वा ।


    कुर्युर् यथेष्टं तत् सर्वम् ईशास् ते स्वधनस्य वै ॥

अयम् अर्थः । यद्य् एकस्माज् जाता बहवो विभक्तास् तदा पृथग्धर्माः परस्परानुमतिं विना धनसाध्याग्निहोत्रादिधर्मकारिणः स्युः । तथा द्रव्यसाध्यकृष्यादिलौकिककर्मकारिणः स्युः । तथा विभिन्नकुटुम्बभरणादि सर्वं स्वेच्छया कुर्युः । कर्मसाधनगृहोपस्करादिद्रव्ययुक्ताः स्युः । तथा कार्येषु यदि भ्रात्रादयो न संमतास् तदा तान् अनादृत्य कार्यं कुर्युः । तथा ते विभक्ताः स्वभागादान ( स्वभागदान ? ) विक्रयाधानादि सर्वं स्वेच्छया कुर्युः । यस्मात् ते विभक्तत्वात् स्वधने स्वतन्त्राः स्वामिन इति । यत् तु

[३५५] विभक्ता अविभक्ता वा दायादाः स्थावरे समाः ।

	एको ह्य् अनीशः सर्वत्र दानाधमनविक्रये ॥

इति बृहस्पतिवचनं, तत् स्थावरेतरधनं विभज्य गृहीत्वा स्थावरविभागस्य दुष्करतां मन्वानास् तत्फलम् एव फलकाले ये विभज्य गृह्णन्ति तेषां विभक्तत्वे सत्य् अपि स्थावरे स्वातन्त्र्याभावात् परस्परानुमतिम् अन्तरेण तद्दानादिकं न कर्तव्यम् इत्य् एवंपरम् । विज्ञानेश्वरादयस् तु “अविभक्तेषु द्रव्यस्य साधारणत्वाद् एकस्यानीश्वरत्वेन सर्वाभ्यनुज्ञावश्यं कर्तव्या, विभक्तेषु तूत्तरकाले विभक्ताविभक्तसंशयव्युदासेन व्यवहारसौकर्यार्थं सर्वाभ्यनुज्ञा न पुनर् एकस्यानीश्वरत्वेनातो विभक्तानुमतिम् अन्तरेणापि व्यवहारः सिध्यत्य् एवेति” आहुः । विभक्तकृत्यान्तरम् उक्तं बृहस्पतिना

	येनांशो यादृशो भुक्तस् तस्य त न्न विचालयेत् ।

विभक्तानां मध्ये यो ‘ंशातिक्रमं करोति स राज्ञा स्वीये ‘ंशे स्थापनीयः । औद्दण्ड्ये दण्डनीयश् च । तथा च स एव

    स्वेच्छाकृतविभागो यः पुनर् एव विसंवदेत् ।


    स राज्ञांशे स्वके स्थाप्यः शासनीयो ऽनुबन्धकृत् ॥

अनुबन्धो निर्बन्धः । दायभागानर्हान् दर्शयति मनुः (९.२०१ ) ।

    अनंशौ क्लीपतितौ जात्यन्धबधिरौ तथा ।


    उन्मत्तजडमूकाश् च ये च केचिन् निरिन्द्रियाः ॥

उन्मत्तः उन्मादेनाभिभूतः । जडो विकलान्तःकरणो हिताहितज्ञानशून्यः । निरिन्द्रियाः व्याध्यादिना विगतप्राणहस्तपादादीन्द्रियाः श्रौतस्मार्तकर्मानधिकारिणः । याज्ञवल्क्यः (२.१४० ) ।

    क्लीबो ऽथ पतितस् तज्जः पङ्गुर् उन्मत्तको जडः ।


    अन्धो ऽचिकित्स्यरोगाद्या भर्तव्याः स्युर् निरंशकाः ॥

तज्जः पतितोत्पन्नः । अचिकित्स्यरोगाः असाध्यक्षयादिरोगयुक्ताः । विभागानन्तरं कथंचिद् औषधादिना रोगनिर्हरणे भागार्हत्वम् अस्त्य् एव **[३५६] **यथाविभागानन्तरोत्पन्नस्य । आद्यशब्देन पितृद्वेष्यादीनां ग्रहणम् । अत एव नारदः ( दाय। २१-२२ ) ।

    पितृद्विट् पतितः षण्ढो यश् च स्याद् अपपात्रितः ।


    औरसा अपि नैते ‘ंशं लभेरन् क्षेत्रजाः कुतः ॥


    दीर्घतीव्रामयग्रस्ता ये जडोन्मत्तपङ्गवः ।


    भर्तव्याः स्युः कुलस्यैते तत्पुत्रास् त्व् अंशभागिनः ॥

अपपात्रितः राजद्रोहादिना महापराधेन बन्धुभिर् घटापवर्जनविधिना बहिष्कृतः । शङ्खलिखिताव् अपि “अपपात्रिते रिक्थपिण्डोदकानि व्यावर्तते” इति । वसिष्ठो ऽपि ( १७.५२ ) “अनंशास् त्व् आश्रमान्तरगताः” इति । आश्रमान्तराणि नैष्ठिकब्रह्मचार्याश्रमो वनस्थाश्रमो यत्याश्रमश् च । कात्यायनः ( ८६२ ) ।

    अक्रमोढासुतश् चैव सगोत्राद्यश् च जायते ।


    प्रव्रज्यावसितश् चैव न रिक्थं तेषु कर्हिचित् ॥

सगोत्राद्यश् च जायते सगोत्रपरिणेतुः सकाशात् सगोत्रायाम् उत्पन्नः । अक्रमोढासुतस्यापि पितृसवर्णत्वे रिक्थभाक्त्वम् आह स एव (कात्। ८६३) ।

    अक्रमोढासुतस् त्व् ऋक्थी सवर्णश् च यदा पितुः ।


    असवर्णाप्रसूतश् च क्रमोढायां च यो भवेत् ॥

प्रतिलोमोत्पन्नस्य दायानर्हताम् आह स एव (कात्। ८६४ ) ।

    प्रतिलोमप्रसूतायास् तस्याः पुत्रो न रिक्थभाक् ।


    ग्रासाच्छादनम् अत्यन्तं देयं तद्बन्धुभिर् मतम् ॥

गुणवत्सु सत्सु पित्र्यदृष्टादृष्टकार्योपयुक्तगुणरहितस्य पुत्रस्य पित्र्यदायानर्हताम् आह बृहस्पतिः

    सवर्णाजो ऽप्य् अगुणवान् नार्हः स्यात् पैतृके धने ।


    तत्पिण्डदाः श्रोत्रिया ये तेषां तत् तु विधीयते ॥


    उत्तमर्णाधमर्णेभ्यः पितरं त्रायते सुतः ।


    अतस् तु विपरीतेन तेन नास्ति प्रयोजनम् ॥

[३५७] तया गवा किं क्रियते या न धेनुर् न गर्भिणी ।

    को ऽर्थः पुत्रेण जातेन यो न विद्वान् न धार्मिकः ॥


    शास्त्रशौर्यार्थरहितस् तपोविज्ञानवर्जितः ।


    आचारहीनः पुत्रस् तु मूत्रोच्चारसमः स्मृतः ॥

उत्तमर्णं ऋषिदेवपितॄणाम् ऋणम् । अधमर्णं लौकिकम् ऋणम् । मनुर् अपि ( ९.२१४ ) ।

	सर्व एव विकर्मस्था नार्हन्ति भ्रातरो धनम् । इति ।

एते दायानहाः क्लीबादयो रिक्थग्राहिभिर् यावज्जीवं पोषणीयाः “भर्तव्यास् ते निरंशकाः” इति पूर्वोदाहृतयाज्ञवल्क्यवचनात्, अपोषणे

    सर्वेषाम् अपि तु न्याय्यं दातुं शक्त्या मनीषिभिः ।


    ग्रासाच्छादनम् अत्यन्तं पतितो ह्य् अददद् भवेत् ॥

इति मनुना (९-२०२) दोषस्याभिधानाच् च । अत्यन्तं यावज्जीवम् । पतितस्यापोषणीयत्वम् आह देवलः

    मृते पितरि न क्लीबकुष्ठ्युन्मत्तजडान्धकाः ।


    पतितस् तदपत्यं च लिङ्गी दायांशभागिनः ॥


    तेषां पतितवर्जेभ्यो भक्तवस्त्रं प्रदीयते ।

लिङ्गी कपटयत्यादिवेषधारी । पतितग्रहणं पतितापत्यस्याप्य् उपलक्षणम् । अत एव बौधायनः (२.२.४३ - ४६ ) “अतीतव्यवहारान् ग्रासाच्छादनैर् बिभृयुर् अन्धजडक्लीबव्यसनिव्याधितांश् चाकर्मिणः पतिततज्जवर्जम्”इति । अतीतव्यवहाराः मूकादयः । अकर्मिणः धर्मजनकश्रौतस्मार्तकर्मस्व् असमर्थाः । आश्रमगताश् च न भरणीयाः । अत एव वसिष्ठः ( १७.५२ - ५४ ) “अनंशास् त्व् आश्रमान्तरगताः क्लीबोन्मत्तपतिताश् च भरणं क्लीबोन्मत्तानाम्” इति । अत्र कीबोन्मत्तानाम् एव भरणीयत्वाभिधानाद् इतरेषाम् अर्थात् तत्प्रतिषेधः । प्रव्रज्यावसितो ऽप्य् अतिदुष्टत्वात् पतितसमानन्यायत्वेन न पोषणीयः । निरंशकपुत्राणां दायानर्हतापादकक्लीबताद्यभावे पित्र्यभागहरत्वम् आह देवलः

[३५८] तत्पुत्राः पितृदायांशं लभेरन् दोषवर्जिताः ।

याज्ञवल्क्यो ‘पि (२.१४१ ) ।

	औरसाः क्षेत्रजास् तेषां निर्दोषा भागहारिणः ।

विष्णुः (१५.३४-३८ ) “तेषाम् एवौरसाः पुत्रा भागहारिणो न तु पतितस्य पतनीये कर्मणि कृते ऽनन्तरोत्पन्नाः प्रतिलोमासु स्त्रीषूत्पन्नाश् चाभागिनस् तत्पुत्राः पैतामहे ऽप्य् अर्थे” इति । पतितपुत्रवत् प्रव्रज्यावसितपुत्रो ऽपि न भागार्हः । निरंशानां दुहितरो यावद् विवाहं पोषणीयाः संस्कार्याश् च । निर्दोषपुत्ररहिताः सद्वृत्तास् तेषां पत्न्यश् च यावज्जीवं पोषणीयाः । तथा च याज्ञवल्क्यः (२.१४१-१४२ ) ।

    सुताश् चैषां प्रभर्तव्या यावद् वै भर्तृसात्कृताः ॥


    अपुत्रा योषितश् चैषां भर्तव्याः साधुवृत्तयः ।


    निर्वास्या व्यभिचारिण्यः प्रतिकूलास् तथैव च ॥

क्षतवृत्तास् तु गृहाद् बहिर् निष्कासनीया न च भरणीयाः । पोषकप्रातिकूल्यमात्रे तु निष्कासनीया एव पोषणं तु कर्तव्यम् एवेति वृद्धाः । एवम् अपुत्ररिक्थग्राहित्वेन वक्ष्यमाणानां पत्न्यादीनां संसृष्ट्यादीनां च दायानर्हतापादकधर्मयोगित्वे तद्रिक्थभाक्त्वं नेति ज्ञातव्यं याज्ञवल्क्येन पत्नी दुहितरश् चेत्यादिकम् अभिधाय तदपवादत्वेन कीबो ऽथ पतितस् तज्ज इत्य् अभिधानात् ।

भ्रात्रादिभिः सह विभक्तस्यौरसपुत्रिकापुत्रदत्तकतत्पुत्रादिरहितस्य प्रमीतस्य यद् धनं तद्ग्रहणे क्रमम् आह **याज्ञवल्क्यः** (२.१३५-१३६ ) ।


    पत्नी दुहितरश् चैव पितरौ भ्रातरस् तथा ।


    तत्सुता गोत्रजा बन्धुशिष्यसब्रह्मचारिणः ॥


    एषाम् अभावे पूर्वस्य धनभाग् उत्तरोत्तरः ।


    स्वर्यातस्य ह्य् अपुत्रस्य सर्ववर्णेष्व् अयं विधिः ॥

पत्नी धर्म्यविवाहसंस्कृता । दुहितरश् चेत्य् अनुक्तसमुच्चयार्थेन चकारेण **[३५९] **दौहित्राणां ग्रहणम् । तत्सुताः भ्रातुः पुत्राः । गोत्रजाः सपिण्डाः समानोदकाश् च । एषाम् इति निर्धारणे षष्ठी । एतेषु पत्न्यादिषु पूर्वपूर्वस्याभावे उत्तर उत्तरः स्वर्यातविभक्तापुत्रधनं गृह्णाति । अयं विधिः सर्वेष्व् अनुलोमजेषु प्रतिलोमजेषु ब्राह्मणादिवर्णेषु च साधारण इत्य् अर्थः । यद्य् अप्य् अत्र पुत्रशब्दः सकलमुख्यगौणपुत्रसाधारणस् तथापि कलौ क्षेत्रजादीनां निषिद्धत्वेनाभावाद् औरसादिपुत्रत्रय एव पर्यवस्यति । पत्न्याः प्रथमं धनग्राहित्वं बृहस्पतिर् अप्य् आह ।

    **आम्नाये स्मृतितन्त्रे** च लोकाचारे च सूरिभिः ।


    शरीरार्धं स्मृता जाया पुण्यापुण्यफले समा ॥


    यस्य नोपरता भार्या देहार्धं तस्य जीवति ।


    जीवत्य् अर्धे शरीरस्य कथम् अन्यः समाप्नुयात् ॥


    कुल्येषु विद्यमानेषु पितृभ्रातृसनाभिषु ।


    असुतस्य प्रमीतस्य पत्नी तद्भागहारिणी ॥

आम्नाये वेदे, “अर्धो वा एष आत्मनो यत् पत्नी” इत्येवमादौ ( तै। सं। ६।

१.८.५ ) । स्मृतितन्त्रे धर्मशास्त्रे,

	पतत्य् अर्थं शरीरस्य यस्य भार्या सुरां पिबेत् । 

	पतितार्धशरीरस्य निष्कृतिर् न विधीयते ॥ 

		( वध् २१.१५); पराशरस्मृति १०.२६ ) 

इत्येवमादौ । पत्न्याः पतिव्रताया एव धनग्राहकत्वं नान्यस्या इत्य् आह बृहस्पतिः

    अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता ।


    पत्न्य् एव दद्यात् तत्पिण्डं कृत्स्नम् अंशं लभेत च ॥

प्रजापतिर् अपि ।

    पूर्वं मृता त्व् अग्निहोत्रं मृते भर्तरि तद्धनम् ।


    लभेत् पतिव्रता नारी धर्म एष सनातनः ॥

अग्निहोत्रशब्देन अग्न्यादीनि तत्साधनानि गृह्यन्ते । तद्धनं स्थावरजङ्गमात्मकम् । अत एवोक्तं तेनैव

    जङ्गमं स्थावरं हेम कुप्यं धान्यरसाम्बरम् ।


    आदाय दापयेच् छ्राद्धं मासषाण्मासादिकम् ॥

[३६०] पितृव्यगुरुदौहित्राम् भर्तुः स्वस्रीयमातुलान् ।

	पूजयेत् कव्यपूर्ताभ्यां वृद्धांश् चाप्य् अतिथीन् स्त्रियः ॥ इति ।

कुप्यं त्रपुसीसादिकम् । कव्यं पित्रुद्देशेन त्यक्तम् अन्नादिकम् । पूर्तम् अत्र खातादिकर्माङ्गभूतदानादिकम् । यत् तु स्थावरग्रहणनिषेधकं स्मृतिचन्द्रिकायां बार्हस्पत्यत्वेन निबद्धं ।

    यद् विभक्ते धनं किञ्चिद् आध्यादि विविधं स्मृतम् ।


    तज्जाया स्थावरं मुक्त्वा लभेत मृतभर्तृका ॥


    वृत्तस्थापि कृते ऽप्य् अंशे न स्त्री स्थावरम् अर्हति ॥ 

इति वचनं, तद् **विज्ञानेश्वर-कृत्यकल्पतरु-रत्नाकर-पारिजात-हलायुध-**आदिबहुतरनिबन्धेष्व् अबद्धत्वात्, प्रत्युत कल्पतरुप्रभृतिषु “जङ्गमं स्थावरं हेम” इत्येतद्विरुद्धवाक्यस्य बृहस्पतिवचनत्वेन निबन्धनाद् अनादृत्यम् इव प्रतिभाति । यदि कथंचिच् चन्द्रिकाकारप्रामाण्याद् आद्रियेत तदाप्य् अत्र पत्नीशब्दप्रयोगाभावात् “कृत्स्नम् अर्थं लभेत च” इत्यादिपूर्वोदाहृतवचने तु स्थावरजङ्गमात्मक-समग्रधनभाक्त्वप्रतिपादकेषु पत्नीशब्दप्रयोगात् पत्नीव्यतिरिक्तासुरादिविवाह-प्राप्तभार्याविषयत्वेन व्यवस्थापनीयम् । स्मृतिचन्द्रिकाकारस् तु न – “स्त्री स्थावरम् अर्हति” - इति वचनं दुहितृरहितपत्नीविषयं स्थावरभाक्त्वबोधकं “जङ्गमं स्थावरं हेम” इत्यादिवाक्यं तु दुहितृसहितपत्नीविषयम् इति व्यवस्थाम् आह । अस्यां व्यवस्थायां स्वोत्प्रेक्षामात्रम् अन्तरेण किम् अपि निगमनं न पश्यामः । “स्थावरं मुक्त्वा” इत्यभिधानं दायादानुमतिम् अन्तरेण स्थावरविक्रयनिषेधपरम् इति माधवीये विद्यारण्यश्रीचरणाः । यत् तु विभक्तासंसृष्टपतिकानाम् अपि स्त्रीणां जीवनमात्रभाक्त्वविधायकं

    अदायकं राजगामि योषिद्भृत्यौर्ध्वदेहिकम् ।


    अपास्य श्रोत्रियद्रव्यं श्रोत्रियेभ्यस् तद् अर्पयेत् ॥ 

इति कात्यायनवचनं ( ९३१ ), यच् च** **

**[३६१] **अन्यत्र ब्राह्मणात् किंचिद् राजा धर्मपरायणः ।

	तत् स्त्रीणां जीवनं दद्याद् एष दायविधिः स्मृतः ॥ 

इति नारदवचनं ( दाय। ५२ ), तद् द्वयम् अप्य् अवरुद्धस्त्रीविषयं ज्ञातव्यम् । यत् तु पत्न्या दानादाव् अस्वातन्त्र्यबोधकं

    मृते भर्तरि भत्रंशं लभेत कुलपालिका ।


    यावज्जीवं हि न स्वाम्यं दानाधमनविक्रये ॥

इति कात्यायनवचनं ( ९२४ ), तद् दृष्टार्थनटनर्तकदानादौ स्वातन्त्र्यनिषेधपरम् । अदृष्टार्थदाने तदुपयोगिनोर् आधिविक्रययोश् च स्वातत्र्यम् अस्त्य् एव,

    व्रतोपवासनिरता ब्रह्मचर्ये व्यवस्थिता ।


    दमदानरता नित्यम् अपुत्रापि दिवं व्रजेत् ॥

इत्य् अनेनैव (कात्। ९२५ ) नित्यं दानरतत्वस्याभिधानात्, पूर्वोदाहृत-“जङ्गमं स्थावरं हेम”इत्यादिवचनाच् च । यानि तु

    भ्रातॄणाम् अप्रजाः कश्चित् प्रव्रजेत म्रियेत वा ।


    विभजेरन् धनं तस्य शेषास् तु स्त्रीधनं विना ॥


    भरणं चास्य कुर्वीरन् स्त्रीणाम् आ जीवनक्षयात् ।


    रक्षन्ति शय्यां भर्तुश् चेद् आच्छिन्धुर् इतरासु तत् ॥

इत्येवंरूपाणि च नारदाद्इवचनानि ( दाय २५-२६ ), तान्य् अविभक्तभर्तृकस्त्रीविषयाणि संसृष्टभर्तृकस्त्रीविषयाणि वा यथासम्भवं ज्ञातव्यानि तथा प्रस्तुत्य तेषां पाठात् । अविभक्तभर्तृकाः संसृष्टभर्तृकाश् च स्त्रियस् तद्भर्तृधनग्राहिणा पोषणीया इत्य् आह नारदः

    यावत्यो विधवा नार्यो ज्येष्ठेन श्वशुरेण वा ।


    गोत्रजेनापि वान्येन भर्तव्याश्छादनाशनैः ॥

अस्मिन्न् एव विषये पक्षान्तरम् अप्य् आह कात्यायनः ( ९२२ ) ।

    स्वर्याते स्वामिनि स्त्री तु ग्रासाच्छादनभागिनी ।


    अविभक्ते धनांशं तु प्राप्नोत्य् आमरणान्तिकम् ॥

[३६२] अविभक्तग्रहणं संसृष्टस्याप्य् उपलक्षणम् । तुशब्दो ऽत्र वाशब्दार्थो निपातानाम् अनेकार्थत्वात् । स्त्री मरणान्तिकम् अन्नवस्त्रभागिनी भवति । अक्लेशेन जीवनं धनसाध्यं नित्यनैमित्तिकं कर्म स्त्रीभिः कर्तुं योग्यं पूर्वादिकाम्यं कर्म च यावता धनेन सिध्यति स्वभर्तुर् धनात् तावन्तम् अंशं वा प्राप्नोतीत्य् अर्थः । अत्राद्यः पक्षः पत्नीव्यतिरिक्तभार्याविषयः स्त्रीणां जीवनमात्रोपयोगिद्रव्यभागित्वाभिधानात् । द्वितीयः पक्षः पत्नीविषय इति व्यवस्था । पत्न्य् अपि यदि श्वशुरादिषु शुश्रूषां न करोति तदा ग्रासाच्छादनमात्रभागिन्य् एव । तथा च स एव (कात्। ९२३ ) ।

    भोक्तुम् अर्हति कॢप्तांशं गुरुशुश्रूषणे रता ।


    न कुर्याद् यदि शुश्रूषां चैलपिण्डे नियोजयेत् ॥

कॢप्तांशम् आच्छिद्येति शेषः । क्वचिद् अन्यत्रापि क्ल्̥प्तांशापहरणं कर्तव्यम् इत्य् आह स एव (कात्। ९२८ - ९२९ ) ।

    अपकारक्रियायुक्ता निर्लज्जा वार्थनाशिका ।


    व्यभिचाररता या च स्त्री धनं न च सार्हति ॥

व्यभिचारिणीनाम् अशनाच्छादनभाक्त्वम् अपि नेत्य् आह नारदः (दाय। २६) ।

    भरणं चास्य कुर्वीरन् स्त्रीणाम् आ जीवनक्षयात् ।


    रक्षन्ति शय्यां भर्तुश् चेद् आच्छिन्छुर् इतरासु तत् ॥ इति ।

इतरासु व्यभिचारिणीषु । यत् तु व्यभिचारिणीनाम् अप्य् अन्नवस्त्रदानविधायकं

    एवम् एव विधिं कुर्याद् योषित्सु पतितास्व् अपि ।


    वस्त्रान्नम् आसां देयं तु वसेयुश् च गृहान्तिके ॥

इति वचनं तद् भर्तृविषयम् इति वृद्धाः । शङ्कितव्यभिचारा विभक्तासंसृष्टपत्नी जीवनमात्रभागिनी । तथा च हारीतः

    विधवा यौवनस्था चेत् पत्नी भवति कर्कशा ।


    आयुषः क्षपणार्थं तु दातव्यं जीवनं बुधैः ॥ इति ।

कर्कशा क्रूरान्तःकरणा शङ्कितव्यभिचारेति यावत् । तद् एवं वृत्तस्थाया **[३६३] **विभक्तासंसृष्टपत्न्या जङ्गमस्थावरात्मकसकलभर्तृधनभाक्त्वं सिद्धम् । पत्नीनां बहुत्वे सजातीयाः पत्न्यः समं विभज्य गृह्णीयुः । ये पत्न्या भर्तृधनग्रहणे प्रतिबन्धं कुर्वन्ति ते राज्ञा दण्डनीया इत्य् आह प्रजापतिः

    तत्सपिण्डा बान्धवा वा ये तस्याः परिपन्थिनः ।


    हिंस्युर् धनानि तान् राजा चोरदण्डेन दण्डयेत् ॥

हिंस्युः प्रतिबध्नीयुः । पत्न्या अभावे दुहिता पितृधनभागिनीत्य् अस्मिन्न् अर्थे बृहस्पतिः

    अङ्गाद् अङ्गात् सम्भवति पुत्रवद् दुहिता नृणाम् ।


    सदृशी सदृशेनोढा साध्वी शुश्रूषणे रता ॥


    तस्मात् पितृधनं त्व् अन्यः कथं गृह्णीत मानवः ।

अन्यः पुत्रपत्नीव्यतिरिक्तः तस्यां तिष्ठन्त्यां कथं पितृधनं गृह्णीतेत्य् अर्थः । मनुर् अपि ( ९.१३० ) ।

    यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा ।


    तस्याम् आत्मनि तिष्ठन्त्यां कथम् अन्यो धनं हरेत् ॥

नारदो ऽपि ( दाय। ५० ) ।

    पुत्राभावे ऽपि दुहिता तुल्यसन्तानदर्शनात् ।


    पुत्रश् च दुहिता चोभौ पितुः सन्तानकारकौ ॥

पुत्रग्रहणं पत्न्या अप्य् उपलक्षणम् । केचिद् आहुः । दुहितू रिक्थभाक्त्वबोधकान्य् एतानि वचनानि पुत्रिकाविषयाणीति । तद् असत् । “तृतीयः पुत्रः पुत्रिका विज्ञायत” इति वसिष्ठवचनात् ( १७.१५-१६ ) पुत्रकोटिनिविष्टायाः पुत्रिकाया औरसपुत्रवत् सत्याम् अपि पत्न्यां पितृरिक्थहरायाः पत्न्यभावे रिक्थग्राहिताबोधकेषु “पत्नी दुहितरश् च” इत्यादिवचनेषु दुहितृशब्देन ग्रहीतुम् अयुक्तत्वात् । दुहितॄणां बहुत्वे समं विभज्य ताभिर् ग्राह्यम् । यदि काश्चित् परिणीतास् तदा त्व् अपरिणीतयैव ग्राह्यम् । अपरिणीतानां बहुत्वे ताभिर् विभज्य ग्राह्यम् । अत एव कात्यायनः ( ९२६ ) ।

[३६४] पत्नी भर्तुर् धनहरी या स्याद् अव्यभिचारिणी ।

	तदभावे तु दुहिता यद्य् अनूढा भवेत् तदा ॥

सर्वासां परिणीतत्वे ऽपि यदि काश्चित् प्रतिष्ठिताः काश्चिन् निर्धनत्वेनाप्रतिष्ठितास् तदा त्व् अप्रतिष्ठितयैव ग्राह्यम् । निर्धनानां बहुत्वे ताभिर् विभज्य ग्राह्यम् । अत एव गौतमः (२८.२२ ) “स्त्रीधनं दुहितॄणाम् अप्रत्तानाम् अप्रतिष्ठितानां च” इति । स्त्रीधनं मातृधनम् । एतच् च पितृधनस्याप्य् उपलक्षणं समानन्यायत्वात् ।

दुहितुर् अप्य् अभावे दौहित्रो धनग्राही । तथा च **विष्णुः** ।


    अपुत्रपौत्रसन्ताने दौहित्रा धनम् आप्नुयुः ।


    पूर्वेषां तु स्वधाकारे पौत्रा दौहित्रका मताः ॥

दौहित्राभावे पिता धनभाक् । तदभावे माता रिक्थहारिणी । तदभावे भ्रातरः । तदभावे भ्रातुः पुत्रः । तथा बृहद्विष्णुः (१७.४ - ९, ११) ।

    अपुत्रधनं पत्न्यभिगामि तदभावे दौहित्रगामि तदभावे पितृगामि तदभावे मातृगामि तदभावे भ्रातृगामि तदभावे ऽपि भ्रातृपुत्रगामि तदभावे सकुल्यगामि । इति । 

कात्यायनो ऽपि (९२७ ) ।

    अपुत्रस्याथ कुलजा पत्नी दुहितरो ऽपि वा ।


    तदभावे पिता माता भ्राता पुत्राश् च कीर्तिताः ॥

अपिशब्देन दुहितृकोटिनिविष्टस्य दौहित्रस्य ग्रहणम् । पुत्राः भ्रातुः पुत्राः । भ्रातृष्व् अपि सोदरासोदरसमवाये सोदरा एव धनभाजः, तदभावे भिन्नोदराः । अत एव मनुः (९.१८७) ।

	अनन्तरः सपिण्डो यस् तस्य तस्य धनं भवेत् । इति ।

बृहस्पतिर् अपि ।

    बहवो ज्ञातयो यत्र सकुल्या बान्धवास् तथा ।


    यस् त्व् आसन्नतरस् तेषां सो ऽनपत्यधनं हरेत् ॥

ज्ञातयः सपिण्डाः सकुल्याः समानोदकाः बान्धवाः पितृष्वस्त्रीयादयः । **[३६५] **भ्रातॄणाम् अभावे भ्रातुः पुत्रा धनभाजः । तेष्व् अपि सोदरभ्रातुः पुत्राः प्रथमं धनभाजः, तेषाम् अभावे भिन्नोदरभ्रातुः पुत्रा धनभाजः । भ्रातृभ्रातृपुत्रसमवाये भ्रातुः पुत्राणां धनग्रहणे नाधिकारः । यदा त्व् अपुत्रः कश्चिद् भ्राता प्रमीतः अवशिष्टा भ्रातरो यावत् तद्धनं विभज्य गृह्णन्ति तावत् कथंचिद् अन्यस्य भ्रातुर् मरणे तत्पुत्रः पितृव्यधनग्रहणे स्वस्य पितृद्वाराधिकारः प्राप्त इति,

	प्रमीतपितृकाणां तु पितृतो भागकल्पना (य्ध्। २.१२० ) 

इति न्यायेन तद्धनम् अन्यैः पितृव्यैः सह विभज्य गृह्णीयात् । भ्रातुः पुत्राणाम् अप्य् अभावे पितामही धनग्राहिणी,

	मातर्य् अपि च वृत्तायां पितुर् माता धनं हरेत् ।

इति मनुनाभिधानात् (९.२१७) । यद्य् अप्य् अत्र वाक्ये मातुर् अनन्तरं पितामह्य् एव प्रतिभाति तथापि क्रमपरे याज्ञवल्क्यवाक्ये निबद्धक्रमाणां भ्रातृसुतान्तानां मध्ये प्रवेशाभावेन सगोत्रकोटिनिविष्टा पितामही भ्रातुः पुत्राणाम् अनन्तरम् अस्मान् मनुवचनाद् धनग्राहिणीति ज्ञातव्यम् । न चैवं मनुवचनविरोधः । तस्य पितामह्या धनग्रहणाधिकारप्राप्तिमात्रपरस्य क्रमपरत्वाभावात् । पितामह्याश् चाभावे सगोत्रेषु प्रत्यासन्नाः पितामहादयः सपिण्डा गृह्णीयुः । तेष्व् अप्य् अयं क्रमः । आदौ पितामहो धनभाक् । तस्याभावे पितृव्यः । तस्याभावे तत्पुत्रादिः । पितामहसन्तत्यभावे अनेनैव क्रमेण प्रपितामहतत्पुत्रादयो धनभाजः । तेषाम् अप्य् अभावे अनेनैव क्रमेण सपिण्डेषु यः प्रत्यासन्नः स गृह्णीयात् । सपिण्डानाम् अभावे प्रत्यासत्तिकृतेनानेनैव क्रमेण समानोदका धनभाजः । ते च समानोदकाः सपिण्डानाम् उपरितनाः सप्त पुरुषाः पूर्वपुरुषजन्मनाम् अज्ञाने सत्य् अधिका वा । तथा च वृर्द्धमनुः

    सपिण्डता तु पुरुषे सप्तमे विनिवर्तते ।


    समानोदकभावस् तु निवर्तेता चतुर्दशात् ॥


    जन्मनाम्नोः स्मृतेर् एके तत्परं गोत्रम् उच्यते । इति ।

**[३६६] **समानोदुकानाम् अभावे बन्धवी धनभाजः । ते च त्रिविधा आत्मबन्धवः पितृबन्धवो मातृबन्धवश् चेति । तथा चोक्तं स्मृत्यन्तरे

    आत्मपितृष्वसुः पुत्रा आत्ममातृष्वसुः सुताः ।


    आत्ममातुलपुत्राश् च विज्ञेया आत्मबान्धवाः ॥


    पितुः पितृष्वसुः पुत्राः पितुर् मातृष्वसुः सुताः ।


    पितुर् मातुलपुत्राश् च विज्ञेयाः पितृबान्धवाः ॥


    मातुः पितृष्वसुः पुत्रा मातुर् मातृष्वसुः सुताः ।


    मातुर् मातुलपुत्राश् च विज्ञेया मातृबान्धवाः ॥

एतेष्व् अपि प्रथमम् आत्मबन्धवो धनभाजः । तेषाम् अभावे पितृबन्धवस् तेषाम् अभावे मातृबन्धवो धनभाजः,

    बहवो ज्ञातयो यत्र सकुल्या बान्धवास् तथा ।


    यस् त्व् आसन्नतरस् तेषां सो ऽनपत्यधनं हरेत् ॥

इति वचनात्

बन्धूनाम् अभावे आचार्यो धनग्राही । यद्य् अपि क्रमपरे **याज्ञवल्क्य**वाक्ये शिष्यस्येव नाचार्यस्य पृथङ् निर्देशस् तथापि शिष्यग्रहणेन ततो ऽपि प्रधानतमस्याचार्यस्य शिष्यापेक्षया प्रथमं धनभाक्त्वं सूचितम् एवेति न विरोधः । अत एव **चापस्तम्बः** (२.६.१४.२-३ ) “पुत्राभावे प्रत्यासन्नः सपिण्डः तदभावे आचार्य आचार्याभावे ऽन्तेवासी” इति । आचार्याभावे शिष्यो धनभाक् तदभावे सहाध्यायी पूर्वोदाहृत**याज्ञवल्क्य**वचनात् । सब्रह्मचारिणाम् अप्य् अभावे ब्राह्मणधनं श्रोत्रियो गृह्णीयात् । क्षत्रियादिधनं तु राजा गृह्णीयात् । तथा च **गौतमः** (२८। ३९ ) “श्रोत्रिया ब्राह्मणस्यानपत्यस्य रिक्थं भजेरन्” । **विष्णुर्** अपि (१७। १२-१३ ) “तदभावे सहाध्यायिगामि । तदभावे ब्राह्मणधनवर्जं राजगामि” इति । **मनुर्** अपि (९.१८८-८९ ) ।

[३६७] सर्वेषामप्य् अभावे तु ब्राह्मणा रिक्थभागिनः ।

    त्रैविद्याः शुचयो दान्तास् तथा धर्मो न हीयते ॥


    अहार्यं ब्राह्मणधनं राज्ञा नित्यम् इति स्थितिः ।


    इतरेषां च वर्णानां सर्वाभावे हरेन् नृपः ॥

देवलो ‘पि ।

    सर्वत्रादायिकं राजा हरेद् ब्रह्मस्ववर्जितम् ।


    अदायिकं तु ब्रह्मस्वं श्रोत्रियेभ्यः प्रदापयेत् ॥

बृहस्पतिर् अपि ।

    ये ‘पुत्राः क्षत्रविट्शूद्राः पत्नीभ्रातृविवर्जिताः ।


    तेषां धनहरो राजा सर्वस्याधिपतिर् हि सः ॥

रिक्थग्राहिणावश्यं प्रेतश्राद्धादि पित्र्यं कर्म तस्य कर्तव्यम् इत्य् आह विष्णुः (१५.४० ) “यश् चार्थहरः स पिण्डदायी स्मृतः” । यो यद् धनम् आददीत स तस्मै श्राद्धं कुर्यात् पिण्डं च त्रिपुरुषं दद्यात् । श्राद्धशब्देनात्र प्रेतश्राद्धम् उच्यते । वानप्रस्थयतिनैष्ठिकब्रह्मचारिणां धनं न पुत्रपत्न्यादयो गृह्णीयुः । किं तर्ह्य् अन्ये गृह्णीयुः । तथा च पुत्रपत्न्याद्यपवादत्वेन तद्रिक्थग्राहकान् दर्शयति याज्ञवल्क्यः ( २ । १३७ ) ।

    वानप्रस्थयतिब्रह्मचारिणां रिक्थभागिनः ।


    क्रमेणाचार्यसच्छिष्यधर्मभ्रात्रेकतीर्थिनः ॥

ब्रह्मचारिशब्देनात्र नैष्ठिको विवक्षितो यतिसाहचर्यात् । तेनोपकुर्वाणकब्रह्मचारिणो धनं पुत्रपुत्रीदौहित्राभावात् पित्रादय एव पूर्वोक्तक्रमेण गृह्णीयुः । नैष्ठिकब्रह्मचारिणो धनम् आचार्यो गृह्णाति यतेर् धनं सच्छिष्यो गृह्णाति । सच्छब्देनात्राध्यात्मशास्त्रश्रवणतदर्थानुष्ठानक्रमत्वं ( क्षमत्वं ? ) विवक्षितं न तु सद्वृत्तत्वं दुर्वृत्तस्याचार्यादेर् अपि भागानर्हत्वस्य प्रमाणान्तरेणैव प्राप्तत्वात् । वानप्रस्थधनं धर्मभ्रात्रेकतीर्थी लभते । धर्मभ्राता प्रतिपन्नो भ्राता समानाचार्यको वा । एकतीर्थी एकाश्रमी । धर्म भ्राता **[३६८] **चासौ एकतीर्थी च धर्मभ्रात्रेकतीर्थी । एवं क्रमशब्दस्य प्रतिलोमक्रमपरत्वम् आश्रित्य नैष्ठिकब्रह्मचार्यादिधनम् आचार्यादयो गृह्णन्तीत्य् उक्तं विज्ञानेश्वराचायैः । अस्माकं तु “वानप्रस्थधनम् आचार्यो गृह्णीयाच् छिष्यो वा” इति विष्णुवाक्यदर्शनात् (१७। १५-१६ ) क्रमशब्दो ऽनुलोमक्रमपर इति प्रतिभाति । शिष्यस्य वानप्रस्थधनग्राहकत्वं विष्णूक्तम् आचार्याभावे ज्ञातव्यम् । यत् तु “अनंशास् त्व् आश्रमान्तरगताः” इति वसिष्ठवचनं ( १७.५२ ) तद् अन्याश्रमिणो धनं यत्यादिभिर् न ग्राह्यम् इत्येवंपरम्, अन्यथैतद्वचनविरोधापत्तेः । यत् तु “अनिचयो भिक्षुः” इति गौतमेनाभिधानात् (३.१० ) यत्यादीनां धनसम्बन्धाभावेन कथं तद्धनभाक्त्वं शिष्यादीनाम् अभिधीयते । अत्र ब्रूमः ।

    कौपीनाच्छादनार्थं तु वासो ऽपि विभृयाद् यतिः ।


    योगसम्भारभेदांश् च गृह्णीयात् पादुके तथा ॥

इति वचनाद् यतेर् अपि वस्त्रपुस्तकादिद्रव्यसम्बन्धो विद्यत एव ।

    अहो मासस्य षण्णां वा तथा संवत्सरस्य वा ।


    अर्थस्य निचयं कुर्यात् कृतम् आश्वयुजे त्यजेत् ॥

इति वचनात् (य्ध्। ३। ४७ ) वानप्रस्थस्य धनसम्बन्धो ऽस्त्य् एव । नैष्ठिकब्रह्मचारिणो ऽपि शरीरयात्रार्थं वस्त्रादिद्रव्यसम्बन्धो ऽस्त्य् एव । अतः शिष्यादीनां तद्द्द्रव्यभाक्त्वकथनं न विरुध्यते ।

संसृष्टिनां मिथो विभागे ज्यैष्ठ्यादिकृतं भागवैषम्यं न भवतीत्य् आह **मनुः** (९.२१० ) ।


    विभक्ताः सह जीवन्तो विभजेरन् पुनर् यदि ।


    समस् तत्र विभागः स्याज् ज्यैष्ठ्यं तत्र न विद्यते ॥

अत्र समविभागनियमनाद् एव विषमविभागनिराकरणे सिद्धे पुनर् ज्यैष्ठयं तत्र न विद्यते इत्य् अभिधानं ज्यैष्ठयादिकृत एव विषमविभागो न भवति **[३६९] **बह्वल्पधनसंसर्गे तु संसृष्टधनानुसारेण भागवैषम्यं भवतीति ज्ञापनार्थम् । केचित् तु संसर्गसमये यदीयं यावत्संसृष्टं तदनुसारेण संसृष्टद्रव्यस्य य उपचयस् तद्विभागे वैषम्यं परिकल्पनीयम् अस्माज् ज्ञापकात् संसृष्टद्रव्यं तु समत्वेनैव विभाज्यं तस्य तथैव विधानाद् इत्य् आहुस्, तद् असुन्दरम् । संसृष्टद्रव्योपचयांशो वैषम्येण विभाज्यः संसृष्टद्रव्यं तु साम्येनैव तथा विधानाद् इत्य् अत्र विनिगमकादर्शनात् । संसृष्टिषु विद्याशौर्यादिना यो ऽधिकं लभते स तस्मिन् द्रव्ये ‘ंशद्वयभाग् इतरे समांशभाज इत्य् आह बृहस्पतिः

    संसृष्टानां तु यः कश्चिद् विद्याशौर्यादिनाधिकम् ।


    प्राप्नोति तस्य दातव्यो द्वयंशः शेषाः समांशिनः ॥

एतच् च - अर्जकस्य द्वौ भागौ - इत्येतदर्थविधायकवसिष्ठादिवाक्यबलाद् एव (१७.५१) सिद्धौ पितृद्रव्यानुपरोधेनार्जितं यथा न विभाज्यं न तथेदं, किं तर्हि संसृष्टद्रव्यानुपरोधेन यद् अर्जितं तद् अप्य् अनेन प्रकारेण विभाव्यम् इति ज्ञापनार्थम् । संसृष्टं द्रव्यम् एषाम् अस्तीति व्युत्पन्नः संसृष्टिशब्दः । धनसंसर्गश् च पित्रादिभिः सहैव कर्तव्यो नान्यैः सहेत्य् आह बृहस्पतिः

    विभक्तो यः पुनः पित्रा भ्रात्रा वैकत्र संस्थितः ।


    पितृव्येणाथ वा प्रीत्या स तत्संसृष्ट उच्यते ॥ इति ।

संसृष्टिषु मिथो विभागकरणात् प्राथोसुतस्य ( ? ) प्राग् मृतस्य पुत्रपौत्रेषु सुते ( ? ) सत्सु – “प्रमीतपितृकाणां तु पितृतो भागकल्पना” - (य्ध्। २.१२० ) इति न्यायेन संसृष्टिभ्यो विभज्य स्वपित्र्यम् अंशं गृह्णीयुः । यस्य संसृष्टिनो मृतस्य पुत्रपौत्रा न सन्ति तद्रिक्थग्रहणाधिकारित्वेन पूर्वोक्तक्रमेण पत्नीदुहित्रादीनां प्राप्तौ तदपवादतया संसृष्टिन एव तद्रिक्थग्राहित्वं स्वर्यातस्य ह्य् अपुत्रस्येति प्रकृत्य दर्शयति याज्ञवल्क्यः (२.१३८ ) ।

	संसृष्टिनस् तु संसृष्टी सोदरस्य तु सोदरः ।

तुशब्दो ऽत्र पत्नीदुहित्राद्यपवादत्वसूचनार्थः । अपुत्रस्य संसृष्टिनो मृतस्य धनं संसृष्ट्य् एव गृह्णाति न तत्पत्न्यादिर् इति प्रथमपादार्थः । अस्याप्य् अपवादः [३७०] सोदरस्य तु सोदर इति । अत्र संसृष्टिनः संसृष्ट्ईति पदद्वयस्यानुषङ्गः । ततश् चायम् अस्यार्थः । यत्र सोदरो ऽपि संसृष्टी भिन्नोदरो ऽपि संसृष्टी तत्र सोदरसंसृष्टिन एव तद्रिक्थग्राहित्वं न भिन्नोदरसंसृष्टिन इति । संसृष्टद्रव्यविभागकाले संसृष्टिनो मृतस्य पत्न्याम् अविज्ञातगर्भायां पश्चाद् उत्पन्नस्य पुत्रस्य स्वपित्र्यंशभागित्वम् अस्त्य् एवेति सोदरो भिन्नोदरो वा संसृष्टी मृतसंसृष्ट्यंशं तस्मै दद्यात् तद्भावे स्वयं गृह्णीयाद् इत्य् आह स एव (य्ध्। २.१३८) ।

	दद्याच् चापहरेच् चांशं जातस्य च मृतस्य च ।

जातस्य पुत्रस्य तत्पित्रंशं दद्यान् मृतस्य संसृष्टिनः पुत्रपौत्ररहितस्य गृह्णीयाद् इत्य् अर्थः । यत्र भिन्नोदराः संसृष्टिनः सोदरास् त्व् असंसृष्टिनस् तत्र विभज्य धनग्रहणं कारणस्य सोदरत्वस्यैकत्र सद्भावाद् अपरत्र संसृष्टित्वसद्भावात् । तदुभये ऽप्य् अपुत्रपौत्रस्य मृतस्य संसृष्टिनो धनं विभज्य गृहीयुर् इत्य् आह स एव (य्ध्। २.१३९) ।

    अन्योदर्यस् तु संसृष्टी नान्योदर्यो धनं हरेत् ।


    असंसृष्ट्य् अपि चादद्यात् संसृष्टो नान्यमातृजः ॥

असंसृष्टीतिपदस्य काकाक्षिवद् उभयत्र सम्बन्धः । संसृष्ट इत्य् एतद् अप्य् उभयत्र सम्बध्यते । पूर्वत्रसंबद्धस्य संसृष्टशब्दस्य एकोदरसंसृष्टः सोदर इत्य् अर्थः । तत्र च पुंल्लिङ्गम् अविवक्षितम् । इतरत्र संसृष्टः संसृष्टीत्य् अर्थः । अन्यमातृज एवेति एवकारो ऽध्याहार्यः । एवं चास्यायम् अर्थः । अन्योदर्यस् तु संसृष्टी धनं हरेन् न त्व् असंसृष्ट्य् अन्योदर्यो धनं हरेत् । सोदरसंसृष्ट्य् अपि धनं हरेत् संसृष्टो ‘प्य् अन्यमातृज एव न धनं हरेद् इति । एतेनान्वयव्यतिरेकाभ्यामसंसृष्टिनः सोदरा भ्रातरो भगिन्यः संसृष्टिनो भिन्नोदराश् च समं विभज्य गृह्णीयुर् इत्य् उक्तम् । संसृष्टिविभागं प्रक्रम्यामुम् एवार्थं स्पष्टीकृत्य दर्शयति मनुः ( ९.२११-२१२ ) ।

    येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः ।


    म्रियेतान्यतरो वापि तस्य भागो न लुप्यते ॥


    सोदर्या विभजेयुस् तं समेत्य सहिताः समम् ।


    भ्रातरो ये च संसृष्टा भगिन्यश् च सनाभयः ॥

[३७१] हीयेत आश्रमान्तरपरिग्रहेण ब्रह्महत्यादिदोषेण वा स्वांशग्रहणयोग्यो न भवेद् इत्य् अर्थः । न लुप्यते न संसृष्टिभिर् एव ग्राह्यः किं तु पृथग् उद्धरणीयः । तं उद्धृतं भागं सोदर्या असंसृष्टा अपि समेत्य देशान्तरस्थिता अपि ततः समागत्य सहिता मिलिता भिन्नोदराः संसृष्टाः सोदरा भगिन्यश् च समं न्यूनाधिकभावम् अन्तरेण विभज्य गृह्णीयुर् इत्य् अर्थः । अत्र च स्थावरजङ्गमात्मकोभयविधधनसद्भावे स्थावरं द्रव्यम् असंसृष्टाः सोदरा भ्रातरो भगिन्यश् च विभज्य गृह्णीयुः । जङ्गमं गूढद्रव्यं प्रकटद्विपदचतुष्पदादिरूपद्रव्यं च संसृष्टा भिन्नोदरा विभज्य गृह्णीयुर् इति व्यवस्था । तथा च प्रजापतिः

    अन्तर्धनं च यद् द्रव्यं संसृष्टानां तु तद् भवेत् ।


    भूमिं गृहं त्व् असंसृष्टाः प्रगृह्णीयुर् यथांशतः ॥

द्रव्यम् इत्य् अनेन गोबलीवर्दन्यायेन प्रकटद्विपदचतुष्पदादिद्रव्यरूपस्य जङ्गमद्रव्यस्य ग्रहणम् । संसृष्टानां भिन्नोदराणाम् इति शेषः । असंसृष्टाः सोदरा भ्रात्रादय इति शेषः । स्मृतिचन्द्रिकाकारस् तु – अन्योदर्यस् तु संसृष्टी नान्योदर्याद् धनं हरेत् । असंसृष्ट्य् अपि वादद्यात् सोदर्यो नान्यमातृजः ॥ - इति याज्ञवल्क्यवाक्यं पठित्वा केवलस्थावरसद्भावे केवलजङ्गमसद्भावे चास्माद् याज्ञवल्क्यवचनाद् असंसृष्टो ऽपि सोदर एव गृह्णाति न त्व् असंसृष्टसोदरसद्भावे संसृष्ट्य् अपि भिन्नोदरो गृह्णीयात् । स्थावरजङ्गमात्मकोभयविधस्य द्रव्यस्य सद्भावे मनुवचनात् प्रजापत्य्उक्तव्यवस्थया असंसृष्टाः सोदरभ्रात्रादयः संसृष्टा विभिन्नोदराश् च विभज्य गृह्णीयुर् इत्य् आह । अत्र स्मृतिचन्द्रिकाकारमते याज्ञवल्क्यवाक्ये पौनरुक्तयं दुष्परिहरं स्यात् । अन्योदर्यस् तु संसृष्टी नान्योदर्याद् इत्य् अनेनोक्तस्य नान्यमातृज इत्य् अनेन पुनर् अभिधानात् । किं च मनुवचनसंवाद्यर्थलाभे अर्थान्तरकल्पनायां मूलभूतश्रुत्यन्तरकल्पनापत्त्या कल्पनागौरवदोषः प्रादुःष्यात् । यत्र तु सोदरेष्व् अपि केचित् संसृष्टिनः केचिद् असंसृष्टिनस् तत्र धनग्रहणकारणयोः सोदरत्वसंसृष्टत्वयोर् **[३७२] **उभयोर् अपि सद्भावात् संसृष्टिनः सोदरा गृह्णीयुर् न त्व् असंसृष्टिनः सोदराः । अत एव बृहस्पतिः

	संसृष्टौ यौ पुनः प्रीत्या तौ परस्परभागिनौ । इति ।

गौतमो ऽपि (२८.२६): “संसृष्टिनि प्रेते संसृष्टी रिक्थभाक्” इति । संसृष्टिनि प्रेते अपुत्रे इत्य् अनुषङ्गः । तेनायम् अर्थः सिद्धः । मृतस्य संसृष्टिनः पुत्रपौत्ररहितत्वे आसन्नतरेषु पत्न्यादिषु सत्स्व् अपि वचनबलात् तत्संसृष्टी पिता तद् धनं गृह्णाति । एवं पितृव्यभ्रातृपुत्रयोः । संसृष्टिनोः पुत्रपौत्राभावे परस्परं धनग्राहकत्वम् । तथा भ्रातॄणां संसृष्टिनां पुत्रपौत्राभावे मिथो रिक्थग्राहकत्वम् इति । न च पितृसंसृष्टी पुत्र एव सत्य् अप्य् असंसृष्टिनि पुत्रान्तरे पितृधनं संसृष्टित्वाद् गृह्णातीति वाच्यम्, अपुत्रसंसृष्टिमरणस्य धनग्रहणे प्रयोजकत्वात् । तस्य च पितुः सपुत्रत्वेन तत्राभावात् । न च संसृष्टिनस् तु संसृष्टीति याज्ञवल्क्यवाक्ये ऽपुत्रस्येति पदाश्रवणात् संसृष्टिमरणम् एव प्रयोजकम् इति वाच्यं, स्वर्यातस्य ह्य् अपुत्रस्येति वाक्योपात्तस्यापुत्रस्येति पदस्य स्वर्यातस्येति पदवत् संसृष्टिवाक्ये ऽनुषङ्गात् । न च तस्यानुषङ्गो नात्र नाश्रयिष्यत इति वाच्यं सपुत्रपितृव्यादिधनस्यापि संसृष्टिभिर् भ्रातृपुत्रादिभिर् ग्राह्यत्वापत्तेः । किं चैवं पत्न्याद्यधिकारस्यापुत्रविषयत्वात् संसृष्ट्यधिकारस्य सपुत्रविषयत्वाद् भिन्नविषयत्वेनानयोर् उत्सर्गापवादभावो न सम्भवतीत्य् अपवादत्वसूचकस्य संसृष्टिनस् त्व् इति तुशब्दस्य प्रयोगो न सङ्गच्छेत । अतो ऽवश्यम् अपुत्रस्येति विशेषणं तत्राश्रयणीयम् । न च पितृव्यादिसंसृष्टिष्व् अपुत्रस्येति विशेषणं संभवाद् भिचाराद्यसंभवे (? सम्भवे ) व्यभिचारेव ( ? व्यभिचारे च ) स्याद् विशेषणम् अर्थवद् इति न्यायेनाश्रीयते पुत्रसंसृष्टिनः पितुस् तु न तद् विशेषणम् असंभवात् ततश् च संसृष्टिपुत्रस्य धनग्राहकत्वे संसृष्टिपितृमरणं प्रयोजकम् अस्त्य् एवेति संसृष्टिपुत्रेणैव तद् धनं ग्राह्यं नासंसृष्टिना पुत्रेणेति वाच्यं, संसृष्टिपितृव्यादिविषये विशेषणपुरस्कारेण विधेः प्रवृत्तिः संसृष्टिपितृविषये तु नेति पूर्वमीमांसाशास्त्रविरुद्धवाक्यभेदापादकविधिवैषम्यप्रसङ्गात्** [३७३] **। किं च पित्र्यपैतामहद्रव्यार्हत्वे पुत्रपौत्रत्वं प्रयोजकं तच् च सर्वेषाम् अविशिष्टम् इति सर्वैर् अपि संसृष्टिपितुर् अंशो विभज्य ग्राह्यः । न च विभागतः पितृद्रव्यार्हत्वम् अपगतम् इति वाच्यं विभागानन्तरम् अपि धनार्जनसमर्थेनापि स्वधनम् असमर्थेभ्यः पुत्रेभ्यो विभज्य देयं स्वेन चासमर्थेन समर्थेभ्यः पुत्रेभ्यो ग्राह्यम् इत्य् एतदर्थप्रतिपादकेन – “जीवन्न् एव वा विभज्य वनम् आश्रयेद् दद्दा(? वृद्धा )श्रमं वा गच्छेत् स्वल्पेन वा संविभज्य भूयिष्ठम् आदाय वसेत् यद्य् उपदस्येत् पुनस् तेभ्यो गृह्णीयात् क्षीणांश् च विभजेत्”-इति हारीतवचनेन विभागानन्तरम् अपि पुत्राणां पितृद्रव्यार्हत्वापगमो न भवतीति दर्शितत्वात् । न चैवं विभक्तजे सत्य् अपि सर्वेषां पुत्रत्वेन पितृद्रव्यग्राहकता भविष्यतीति शङ्कनीयं,

    अनीशाः पूर्वजाः पित्र्ये भ्रातुर् भागे विभक्तजः ।


    पुत्रैः सह विभक्तेन पित्रा यत् स्वयम् अर्जितम् ॥


    विभक्तजस्य तत् सर्वम् अनीशाः पूर्वजाः स्मृताः ॥


    यथा धने तथर्णे च दानाधानक्रयेषु च ।


    परस्परम् अनीशास् ते मुक्त्वाशौचोदकक्रियाम् ॥

इति बृहस्पतिवचनेन जीवद्विभागानन्तरं गर्भस्थो भूत्वा य उत्पन्नस् तस्यैव सकलपितृद्रव्यग्रहणाधिकारो नान्येषां विभक्तानाम् इति प्रतिपादनात् । न च यथा संसृष्टिसोदरे सत्य् असंसृष्टिसोदराणां संसृष्टिधनानर्हत्वं तथा संसृष्टिपुत्रे सत्य् अन्येषां पुत्राणां न तद्धनभाक्त्वम् इति वाच्यम् । तत्र तु केवलसोदरत्वस्यासंसृष्टिधनग्राहकत्वे ऽप्रयोजकत्वात् संसृष्टित्वसहितस्य सोदरत्वस्य “संसृष्टिनस् तु संसृष्टी सोदरस्य तु सोदर” इति वचनबलेन प्रयोजकत्वावधारणाद् भवतु तथात्वं, पुत्रविषये तु केवलस्य पुत्रत्वस्यैव प्रयोजकत्वात् तस्य च सर्वत्र समानत्वान् न तथात्वम् । संसृष्टिवाक्यस्य तु पूर्वोक्तविधिवैषम्यप्रसङ्गान् न पुत्रविषये प्रवृत्तिर् येन संसृष्टित्वसहितस्य पुत्रत्वस्य संसृष्टिधनग्राहकत्वे **[३७४] **प्रयोजकता स्यात् । तस्मात् संसृष्टिनः पितुर् धनं संसृष्टिभिर् असंसृष्टिभिर् अपि पुत्रैर् ग्राह्यम् इति स्थितम् । संसृष्टिधनग्राहकेण संसृष्टिनः स्त्रियः पोषणीया दुहिता च विवाहपर्यन्तं पोषणीया संस्कर्तव्या च । तथा च संसृष्टिधनं प्रक्रम्याहतुः शङ्ख-नारदौ (नारद, दाय। २५-२७) ।

    भ्रात्रॄणाम् अप्रजाः प्रेयात् कश्चिच् चेत् प्रव्रजेत वा ।


    विभजेरन् धनं तस्य शेषास् तु स्त्रीधनं विना ॥


    भरणं चास्य कुर्वीरन् स्त्रीणाम् आ जीवितक्षयात् ।


    रक्षन्ति शय्यां भर्तुश् चेद् आच्छिन्धुर् इतरासु तत् ॥


    या तस्य दुहिता तस्याः पित्र्यो ‘ंशो भरणे मतः ।


    आ संस्काराद् धरेद् भागं परतो बिभृयात् पतिः ॥ इति ।

इतरासु शय्याम् अरक्षन्तीषु व्यभिचारिणीष्व् इत्य् अर्थः । आ संस्काराद् इत्य् अत्राङभिविधाव् इति विवाहम् अभिव्याप्येत्य् अर्थः । संसृष्ट्यभावे संसृष्टधनम् असंसृष्टो भ्राता तदभावे माता तदभावे पिता तदभावे पत्नी गृह्णीयात् । तथा च शङ्खः: “स्वर्यातस्य ह्य् अपुत्रस्य भ्रातृगामि द्रव्यं तदभावे पितरौ हरेयातां तदभावे ज्येष्ठा पत्नी” इति । यद्य् अप्य् एकशेषात् पितराव् इत्यत्र न क्रमः प्रतीयते तथाप्य् एतत्समानार्थे मातापितराव् इति शब्दे मातृशब्दस्य पूर्वपाठदर्शनाद् अस्त्य् एवात्र पाठक्रमः । ज्येष्ठा संयतत्वादिगुणयुक्ता न तु पूर्वोढा तेन न ध्यमादि( ? मध्यमादि)पत्नीनिवृत्तिः । पत्न्यभावे भगिनी तद्धनं

गृह्णातीत्य् आह बृहस्पतिः

    या तस्य भगिनी सा तु ततो ऽंशं लब्धुम् अर्हति ।


    अनपत्यस्य धर्मो ऽयम् अभार्या पितृकस्य च ॥

शब्दो ऽत्र भ्रातृमात्रभावसमुच्चयार्थः । केचित् तु या तस्य दुहितेति पठित्वा दुहिता गृहीतेत्य् आहुः । दुहिताभगिन्यभावे –

	अनन्तरः सपिण्डाद्यस् तस्य तस्य धनं भवेत् । ( **मनु** ९। १८७ )  

इति पूर्वोक्तक्रमेण संसृष्टिधनं गृह्णीयुर् विशेषाश्रवणात् । **[३७५] **स्त्रीधनभेदान् आह मनुः (९। १९४ ) ।

    अध्यग्न्यध्यावाहनिकं दत्तं च प्रीतिकर्मणि ।


    भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतम् ॥

षड्विधग्रहणं तु (न्यू) नसंख्याव्यवच्छेदार्थं न पुनर् अधिकसंख्याव्यवच्छेदार्थम् । अत एव याज्ञवल्क्येन ( २। १४३ )

    पितृमातृपतिभ्रातृदत्तम् अध्यग्न्युपागतम् ।


    आधिवेदनिकाद्यं च स्त्रीधनं परिकीर्तितम् ॥

इत्य् आद्यपदोपादानं कृतम् । विष्णुर् अपि (१७ १८ ) षड्भ्यो ऽधिकं स्त्रीधनम् आह- “पितृमातृसुतभ्रातृदत्तम् अध्यग्न्युपागतम् आधिवेदनिकं बन्धुदत्तं शुल्कम् अन्वाधेयकम्” इति । अध्यग्यादिस्त्रीधनस्वरूपं विवृतं कात्यायनेन ( ८९५ - ८९९ ) ।

    विवाहकाले यत् स्त्रीभ्यो दीयते ह्य् अग्निसंनिधौ ।


    तद् अध्यग्निकृतं सद्भिः स्त्रीधनं परिकीर्तितम् ॥


    यत् पुनर् लभते नारी नीयमाना पितुर् गृहात् ।


    अध्यावाहनिकं नाम स्त्रीधनं तद् उदाहृतम् ॥


    प्रीत्या दत्तं तु यत् किञ्चित् श्वश्र्वा वा श्वशुरेण वा ।


    पादवन्दनिकं चैव प्रीतिदत्तं तद् उच्यते ॥


    विवाहात् परतो यत् तु लब्धं भर्तृकुलात् स्त्रिया ।


    अन्वाधेयं तु तत् प्रोक्तं यल् लब्धं स्वकुलात् तथा ॥


    गृहोपस्करवाह्यानां दोह्याभरणकर्मणाम् ।


    मूल्यं लब्धं तु यत् किंचिच् छुल्कं तत् परिकीर्तितम् ॥

गृहोपस्करादीनां यन् मूल्यं कन्यार्पणोपाधित्वेन वरादिभ्यः कन्याभरणत्वेन रूपेण लब्धं तच् छुल्कम् । आधिवेदनिकं अधिवेदनकाले पूर्वपरिणीतस्त्रियै दत्तम् । अत एव याज्ञवल्क्यः (२। १४८ ) ।

    अधिविन्नस्त्रियै दद्याद् आधिवेदनिकं समम् ।


    न दत्तं स्त्रीधनं यासां दत्ते त्व् अर्धं प्रकीर्तितम् ॥

**[३७६] **पित्रादिभिर् जीवनार्थं स्त्रीभ्यो धनदाने विशेषम् आह **कात्यायनः **( ९०२ ) ।

    पितृमातृपतिभ्रातृज्ञातिभिः स्त्रीधनं स्त्रियै ।


    यथाशक्त्या द्विसाहस्राद् दातव्यं स्थावराद् ऋते ॥

स्थावरेतरधनं यथाशक्ति कार्षापणसहस्रद्वयपर्यन्तं देयम् इत्य् अर्थः । व्यासो ऽपि ।

	द्विसाहस्रः परो दायः स्त्रियै देयो धनस्य च ।

परो दाय इत्य् अनेन समृद्धेनापीतो ऽधिकं न देयम् इति दर्शितम् । अत एवायं नियमः प्रतिसंवत्सरम् असकृदर्पणे भवतीति गम्यते । तेनानेकवत्सरेषु जीवनार्थं दीयमानम् इतो ऽधिकम् अपि स्थावरम् अपि सत्यां शक्तौ दातव्यम् । यत् त्व् अलङ्कारादिकम् उत्सवादाव् एव धार्यम् इत्याद्युपाधिना दत्तं यच् च दायाद् अवञ्चनार्थं दत्तं तस्यापि स्त्रीधनत्वं नास्तीत्य् आह कात्यायनः (९०३ ) ।

    तत्र सोपाधि यद् दत्तं यच् च योगवशेन वा ।


    पित्रा भ्रात्राथ वा पत्या न तत् स्त्रीधनम् उच्यते ॥ इति ।

स्त्रीभिः शिल्पैर् यत् प्राप्तं यच् च पित्रादिबन्धुव्यतिरिक्तेभ्यः सखादिभ्यः प्रीत्या प्राप्तं तयोर् अपि स्त्रीधनत्वं नास्तीत्य् आह स एव (कात्। ९०४ ) ।

    प्राप्तं शिल्पैस् तु यत् किंचित् प्रीत्या चैव यद् अन्यतः ।


    भर्तुः स्वाम्यं तदा तत्र शेषं तु स्त्रीधनं स्मृतम् ॥

एतेन

    भार्या पुत्रश् च दासश् च निर्धनाः सर्व एव ते ।


    यत् ते समधिगच्छन्ति यस्यैते तस्य तद् धनम् ॥

इति वचनं (मनु ८.४१६) तद् अपि शिल्पादिप्राप्तधनविषयम् एवेत्य् अवसेयम् । स्त्रीणां भर्तुर् अनुमतिम् अन्तरेण स्त्रीधनव्ययादौ स्वातन्त्र्यं नास्तीत्य् आह मनुः ( ९.१९९ ) ।

[३७७] न निर्हारं स्त्रियः कुर्युः कुटुम्बाद् बहुमध्यकात् ॥

	स्वकाद् अपि च वित्ताद् धि स्वस्य भर्तुर् अनाज्ञया ॥

क्वचित् स्त्रीधने स्वातन्त्र्यम् अस्तीत्य् आह कात्यायनः (९०१) ।

    ऊढया कन्यया सार्धं पत्युः पितृगृहे ऽथ वा ।


    भ्रातुः सकाशात् पित्रोर् वा लब्धं सौदायिकं स्मृतम् ॥

कन्यया ऊढया पत्युर् गृहे इत्य् अन्वयः ।

    सौदायिकं धनं प्राप्य स्त्रीणां स्वातन्त्र्यम् इष्यते ।


    यस्मात् तदानृशंस्यार्थं तैर् दत्तम् उपजीवनम् ॥


    सौदायिके सदा स्त्रीणां स्वातन्त्र्यं परिकीर्तितम् ।


    विक्रये चैव दाने च यथेष्टं स्थावरेष्व् अपि ॥ (कात्। ९०५ - ९०६)

भ्रातुः सकाशात् पित्रोर् वेति मातुः पितृवंश्यानां मातृवंश्यानां चोपलक्षणम् । भर्तृदत्ते स्थावराद् अन्यत्र स्वातन्त्र्यम् आह नारदः

    भर्त्रा प्रीतेन यद् दत्तं स्त्रियै तस्मिन् मृते ऽपि तत् ।


    सा यथाकामम् अश्नीयाद् दद्याद् वा स्थावराद् ऋते ॥

भर्तृदत्तस्थावरस्योपभोगमात्रम् एव स्त्रीभिर् मृताविभक्तपतिभिः कर्तव्यं न तु दानादिकम् इत्य् अर्थः । कात्यायनो ऽपि (९२१) ।

    अपुत्रा शयनं भर्तुः पालयन्ती गुरौ स्थिता ।


    भुञ्जीतामरणाच् छान्ता दायादा ऊर्ध्वम् आप्नुयुः ॥

पुरुषाणां कस्मिन्न् अपि स्त्रीधने न स्वातन्त्र्यं तत्स्वाम्याभावाद् इत्य् आह स एव (कात्। ९११-९१३ ) ।

    न भर्ता नैव च सुतो न पिता भ्रातरो न च ।


    आदाने वा विसर्गे वा स्त्रीधने प्रभविष्णवः ॥


    यदि त्व् एकतरो ह्य् एषां स्त्रीधनं भक्षयेद् बलात् ।


    सवृद्धिकं स दाप्यः स्याद् दण्डं चैव समाप्नुयात् ॥

[३७८] तद् एव यद्य् अनुज्ञाप्य भक्षयेत् प्रीतिपूर्वकम् ।

	मूलम् एव स दाप्यः स्याद् यदा स धनवान् भवेत् ॥

देवलो ‘पि भर्तुः स्त्रीधनभोगयोग्यता नास्तीत्य् आह ।

    वृत्तिर् आभरणं शुल्कं लाभश् च स्त्रीधनं भवेत् ।


    भोक्त्री च स्वयम् एवेदं पतिर् नार्हत्यनापदि ॥


    वृथा मोक्षे च भोगे च स्त्रियै दद्यात् सवृद्धिकम् ।


    पुत्रार्तिहरणे वापि स्त्रीधनं भोक्तुम् अर्हति ॥

वृत्तिर् जीवनार्थं पित्रादिभिर् दत्तं धनम् । लाभः गौर् यादि प्रीत्यर्थं कुतश्चिल् लब्धम् । वृथा आपदम् अन्तरेण । मोक्षस् त्यागो दानम् इति यावत् । पुत्रग्रहणं कुटुम्बोपलक्षणम् । आर्तिः पीडा । अत्र पतिर् नार्हत्य् अनापदीत्य् अभिधानात् पत्युर् एवापदि स्त्रीधनभोगार्हता नान्येषाम् इति सूचितम् । दुर्भिक्षादौ पत्या गृहीतं स्त्रीधनम् असति सामर्थ्ये न देयम् इत्य् आह याज्ञवल्क्यः (२। १४७ ) ।

    दुर्भिक्षे धर्मकार्ये च व्याधौ संप्रतिरोधके ।


    गृहीतं स्त्रीधनं भर्ता न स्त्रियै दातुम् अर्हति ॥

धर्मकार्ये आवश्यके इति शेषः । संप्रतिरोधके बन्दिग्रहणादौ ।

भर्त्र आपदि गृहीतं धनं सति सामर्थ्ये स्वेच्छया देयम् इत्य् आह कात्यायनः ( ९१४ ) ।

    व्याधितं व्यसनस्थं च धनिकैर् वोपपीडितम् ।


    ज्ञात्वा निसृष्टं तत् प्रीत्या दद्याद् आत्मेच्छयापि सः ।

निसृष्टं अनुमतं स्त्रियेति शेषः । क्वचित् स्त्रिया व्याध्याद्युपरोधे सति यत् प्रीत्यानुज्ञातं तद् अवश्यं पुरुषो दापनीय इत्य् आह स एव (कात्। ९०८-९०९) ।

    अथ चेत् स द्विभार्यः स्यान् न च तां भजते पुनः ।


    प्रीत्या निसृष्टम् अपि च पतिर् दाप्यश् च तद् बलात् ॥

[३७९] ग्रासाच्छादनवासानाम् आच्छेदौ यत्र योषितः ।

	तत्र स्वम् आददीत स्त्री विभागं रिक्थिनां तथा ॥ इति ।

इदं स्त्रिया दोषराहित्ये वेदितव्यम् । दुष्टा तु न किम् अपि स्त्रीधनम् अर्हतीत्य् आह स एव (कात् ९२८-९२९) ।

    अपकारक्रियायुक्ता निर्मर्यादार्थनाशिका ।


    व्यभिचाररता या च स्त्रीधनं न च सार्हति ॥

अपकारक्रियायुक्ता सदा भर्तुः प्रतिकूलाचरणे तत्परा । दुष्टाया स्त्रीधनानर्हत्वे यज्ञादौ लहापिवित्वाभाव ( ? ) हेतुम् आह स एव ।

    यज्ञार्थं द्रव्यम् उत्पन्नं तस्माद् द्रव्यं नियोजयेत् ।


    स्थानेषु धर्मयुक्तेषु न स्त्रीमूर्खविधर्मिषु ॥

पत्या प्रतिदास्यामीति प्रतिश्रुत्य यद् गृहीतं स्त्रीधनं तत् पुत्रैर् ऋणवत्ताभ्यो देयम् । तथा च स एव (कात्। ९१६ ) ।

	भर्त्रा प्रतिश्रुतं देयम् ऋणवत् स्त्रीधनं सुतैः । इति ।

पुत्रादीनां स्त्रीधनग्रहणे दण्ड्यत्वं दोषसम्बन्धं चाह मनुः ( ८.२९, ९। २०० ) ।

    जीवन्तीनां तु तासां ये तद् धरेयुः स्वबान्धवाः ।


    ताञ् शिष्याच् चौरदण्डेन धार्मिकः पृथिवीपतिः ॥


    पत्यौ जीवति यः स्त्रीभिर् अलङ्कारो धृतो भवेत् ।


    न तं भजेरन् दायादा भजमानाः पतन्ति ते ॥ इति ।

धृतः उत्सवादाव् एव धार्य इत्याद्युपधिम् अन्तरेण दायादवञ्चनादिहेतुं च विना धृत इत्य् अर्थः ॥

मृतायाः स्त्रिया धनं पुत्रैर् दुहितृभिश् च साम्येन विभज्य ग्राह्यम् । तथा च **मनुः** (९। १९२ ) ।


    जनन्यां संस्थितायां तु समं सर्वे सहोदराः ।


    भजेरन् मातृकं रिक्थं भगिन्यश् च सनाभयः ॥

**[३८०] **एतच् चान्वाधेयभर्तृप्रीतिदत्तधनविषयम् । अत एवोक्तं तेनैव (मनु

९। १९५ ) ।

    अन्वाधेयं च यद् दतं पत्या प्रीतेन चैव यत् ।


    पत्यौ जीवति वृत्तायाः प्रजायास् तद् धनं भवेत् ॥

प्रजायाः स्त्रीपुंसरूपायाः सन्ततेर् इत्य् अर्थः । एतद् विविधधनविषये परिणीतापरिणीतपुत्रीसमवाये विशेषम् आह बृहस्पतिः

    स्त्रीधनं स्याद् अपत्यानां दुहिता च तदंशिनी ।


    अप्रत्ता चेत् समूढा तु लभते मानमात्रकम् ॥

अपत्यानां पुत्राणाम् । तदंशिनी पुत्रसमांशिनी । समूढा त्व् इत्यादि परिणीता तु मानानुसारेण किम् अपि लभते न तु पुत्रसमांशम् इत्य् अर्थः । अप्रत्तानाम् अभावे प्रत्ताभिर् अविधवाभिर् भ्रातृभिः सह विभज्य ग्राह्यम् इत्य् आह कात्यायनः (९१७ ) ।

	भगिन्यो बान्धवैः सार्धं विभजेरन् सभर्तृकाः ।

एतद्धनविभागकाले दौहित्रीभ्यो ऽपि तस्माद् उद्धृत्य किञ्चिद् देयम् । तथा च मनुः (९। १९३) ।

    यास् त्व् आसां स्युर् दुहितरस् तासाम् अपि यथार्हतः ।


    मातामह्या धनात् किंचित् प्रदेयं प्रीतिपूर्वकम् ॥ इति ।

यौतकाख्यं मातृधनम् अप्रत्तानाम् एव दुहितृणाम् अप्रत्ताभिर् एव दुहितृभिर् ग्राह्यं न पुत्रैर् न वा प्रत्ताभिः । तथा च स एव ( मनु ९। १३१ ) ।

	मातुस् तु यौतकं यत् स्यात् कुमारीभाग एव सः ॥

यौतकं विवाहादिकाल एकत्रासन उपविष्टाभ्यां लब्धम् अत एवोक्तं निघण्टुकारैर् युतयोर् यौतकम् इति ।

अन्वाधेयभर्तृप्रीतिदत्ताभ्याम् अन्यद् अध्यग्न्यादिस्त्रीधनं दुहितर एव गृह्णीयुः । तासु च प्रत्ताप्रत्तासमवाये सत्य् अप्रत्ता एव गृह्णीयुस् तासाम् अभावे प्रत्तास्व् अप्य् अनपत्यत्वेन निर्धनत्वेन या अप्रतिष्ठितास् ता एव गृह्णीयुः । अत **[३८१] **एव **गौतमः** ( २८.२२ ): “स्त्रीधनं दुहितॄणाम् अप्रत्तानाम् अप्रतिष्ठितानां च” इति । दुहितॄणाम् अभावे बहुतरस्त्र्यवयवत्वाद् दौहित्र्यो गृह्णीयुः । तासाम् अप्य् अभावे दौहित्रा गृह्णीयुः । तथा च **नारद-कात्यायन-याज्ञवल्क्याः** (य्ध्। २। ११७, नारद, दाय। २ ) ।

	मातुर् दुहितरः शेषम् ऋणात् ताभ्य ऋते ऽन्वयः ।

अन्वयः सन्ततिः । सा च संनिधानाद् दुहितुर् इत्य् अवगम्यते । ऋणाच् छेषम् इत्य् अभिधानान् मातुर् ऋणसद्भावे ऋणन्यूनम् ऋणसमं च पुत्रपौत्रैर् ऋणं देयम् इति याज्ञवल्क्यवचनात् ( २.५० ) मातृकृतर्णापाकरणाधिकारिभिः पुत्रपौत्रैर् ग्राह्यम् । यद्य् ऋणाधिकम् अस्ति तदर्णदानानन्तरम् अवशिष्टं दुहित्रादिभिर् ग्रह्यम् । ऋणाभावे तु सर्वम् एव ग्राह्यम् इत्य् अवगम्यते । नारदो ऽपि (दाय। २) ।

	मातुर् दुहितरो ऽभावे दुहितॄणां तदन्वयः ।

भिन्नमातृकाणां दौहित्रीणां दौहित्राणां च मातृद्वारांशप्रतिकल्पना कार्या, “प्रतिमातृ वा स्वस्ववर्गे” इति गौतमेनाभिधानात् । (२८ । १५ ) । दुहितृदौहित्रीदौहित्राणाम् अभावे पुत्रा गृह्णीयुः,

	विभजेरन् सुताः पित्रोर् ऊर्ध्वं रिक्थम् ऋणं समम् ।

इति याज्ञवल्क्यवचनात् (२.११७ ),

	दुहितॄणाम् अभावे तु रिक्थं पुत्रेषु तद् धनम् ।

इति कात्यायनवचनाच् च । पुत्राणाम् अभावे पुत्रपौत्रैर् ऋणं देयम् इति वचनात् पितामह्यृणापाकरणे ऽधिकारिणः पौत्रास् तद्धनभाजः । अनपत्यस्त्रिया धनम् उत्तमजातीयसजातीयस्य (?) पत्नीदुहिता गृह्णीयात् तदभावे तदपत्यं गृह्णीयात् । तथा च मनुः (९.१९८ ) ।

    स्त्रियास् तु यद् भवेद् वित्तं पित्रा दत्तं कथंचन ।


    ब्राह्मणी तद् धरेत् कन्या तदपत्यस्य वा भवेत् ॥

ब्राह्मणीग्रहणं हीनजाती( ति ? )व्यतिरिक्तकन्योपलक्षणम् । ब्राह्मादिविवाहसंस्कृतानपत्यतदपत्यरहितस्त्रीधनं भर्ता गृह्णीयाद् इत्य् आह मनुः (९.१९६ ) ।

[३८२] ब्राह्मदेवार्षगान्धर्वप्राजाप्रत्येषु यद् धनम् ।

	अतीतायाम् अप्रजसि भर्तुर् एव तद् इष्यते ॥

आसुरादिविवाहप्राप्तायास् तु धनं मातापितृगामि । तथा च स एव (मनु ९। १९७)

    यत् त्व् अस्यै स्याद् धनं दत्तं विवाहेष्व् आसुरादिषु ।


    अतीतायाम प्रजसि मातापित्रोस् तद् इष्यते ॥

अनपत्यमातृष्वस्रादिधनं पुत्रतुल्या भागिनेयादयो गृह्णीयुर् इत्य् आह बृहस्पतिः

    मातृष्वसा मातुलानी पितृव्यस्त्री पितृष्वसा ।


    श्वश्रूः पूर्वजपत्नी च मातृतुल्याः प्रकीर्तिताः ॥


    यदासाम् औरसो न स्या त्सुतो दौहित्र एव वा ।


    तत् सुतो वा धनं तासां स्वस्त्रीयाद्याः समाप्नुयुः ॥

यद् धनं दत्तम् इति विवाहकालप्राप्तधनस्योपादानम् आधिवेदनिकादिस्त्रीधनान्तरस्याप्य् उपलक्षणम् । अत एवाह याज्ञवल्क्यः (२.१४३) ।

    आधिवेदनिकाद्यं च स्त्रीधनं परिकीर्तितम् ।


    अतीतायाम् अप्रजसि बान्धवास् तद् अवाप्नुयुः । (य्ध् २.१४४)

इति सामान्येनाभिधाय व्यवस्थाम् आह ।

    अप्रजस्त्रीधनं भर्तुर् ब्राह्मादिषु चतुर्ष्व् अपि ।


    दुहितॄणां प्रसूता चेच् छेषेषु पितृगामि तत् ॥ (य्ध्। २.१४५ )

चतुर्षु इत्य् उपलक्षणम् । गान्धर्वविवाहे ऽपि भर्तुः स्त्रीधनग्राहकत्वस्य मनुनाभिधानात् (९। १९६ ) । आसुरादिविवाहेषु पितृव्यादिबन्धुलिन्नं (दत्तं ? ) तैर् एव ग्राह्यं तेषाम् अभावे भर्त्रेत्य् आह कात्यायनः (९१८) ।

	बन्धुदत्तं तु बन्धूनाम् अभावे पुत्रगामि ( भर्तृगामि ? ) तत् । इति ।

शुल्काख्यं स्त्रीधनं सोदरा एव गृह्णीयुः । तदभावे माता गृह्णातीत्य् आह गौतमः (२८। २३) “भगिनीशुल्कं सोदर्याणाम् [३८३] ऊर्ध्वं मातुः” इति । यत् तु “स्वं च शुल्कं वोढा” इति शङ्खवचनं, तद् विवाहात् प्राङ् मृतायां द्रष्टव्यम् । अत एव याज्ञवल्क्यः (२.१४६ ) ।

	मृतायां दत्तम् आदद्यात् परिशोध्योभयव्ययम् । इति ।

यत् तु कन्यायै मातामहादिभिर् दत्तं कटकादिकं तत् सोदरा भ्रातरो गृह्णीयुर् इत्य् आह बौधायनः

    रिक्थं मृतायाः कन्याया गृह्णीयुः सोदराः समम् । 


    तदभावे भवेन् मातुस् तदभावे पितुर् भवेत् ॥

अनपत्यपुत्रिकाधनं सोदरेण ग्राह्यं न तु भर्त्रेत्य् आह पैठीनसिः: “प्रेतायां पुत्रिकायां न भर्ता द्रव्यम् अर्हत्य् अपुत्रायां कुमार्यां च भ्रात्रा तद् ग्राह्यम्” इति । यत् तु

    अपुत्रायां मृतायां तु पुत्रिकायां कथंचन ।


    धनं तत् पुत्रिकाभर्ता हरेतैवाविचारयन् ॥

इति मनुवचनं (मनु ९। १३५ ), तत् पश्चादुत्पन्नस्यौरसस्य भ्रातुर् अभावे ज्ञातव्यम् ।

इति श्रीकोदण्डपरशुरामेति ॥ । व्यवहारविवेकोद्द्द्योते

दायभागव्यवहारपदनिरूपणम् ॥ ३४ ॥

**पोस्सिब्ले रेअदिन्ग् ओफ़् थे देफ़ेच्तिवे तेxत्-

**श्रीकोदण्डपरशुरामेत्यादिविविधबिरुदावलीविराजमानमानोन्नत-महाराजाधिराजश्रीशक्तिसिंहात्मजमहाराजाधिराजश्रीमदनसिंहदेवविरचिते मदनरत्नप्रदीपे व्यवहारविवेकोद्द्द्योते **

दायभागव्यवहारपदनिरूपणम् ॥३४॥

अथ द्यूतसमाह्वयाख्यव्यवहारपदनिरूपणम् ।

तत्र तत्स्वरूपं दर्शयति नारदः (द्यूत। १ ) ।

    अक्षवध्रशलाकाद्यैर् देवनं जिह्मकारितम् ।


    पणक्रीडा वयोभिश् च पदं द्यूतसमाह्वयम् ॥

अक्षाः पाशाः । वध्रश् चर्ममयी पट्टिका । ( शलाकाः ) दन्तादिकृता दीर्घचतुरस्रा देवनविशेषाः । आद्यशब्देन कपर्दिकादीनां ग्रहणम् । एतैः पणपूर्वकं जिह्मकारितं द्यूतं वयोभिः कुक्कुटादिभिः पक्षिभिः पणपूर्वकं कृतं देवनं समाह्वयाख्यम् इत्य् अर्थः । वयोग्रहणं प्राणिमात्रोपलक्षणम् । बृहस्पतिः

    अन्योन्यपरिगृहीताः पक्षिमेषवृषादयः ।


    प्रहरन्ते कृतपणास् तं वदन्ति समाह्वयम् ॥

आद्इशब्देन मल्लादीनां ग्रहणम् । मनुर् अपि (९.२२३ ) ।

[३८४] अप्राणिभिर् यत् क्रियते तल् लोके द्यूतम् उच्यते ।

	प्राणिभिः क्रियते यत् तु स विज्ञेयः समाह्वयः ॥

द्यूतसमाहयौ राज्ञा निवर्तनीयाव् इत्य् आह स एव ( मनु ९। २२१,

२२२, २२७-२२८ ) ।

    द्यूतं समाह्वयं चैव राजा राष्ट्रे निवारयेत् ।


    राष्ट्रान्तकरणाव् एतौ द्वौ दोषौ पृथिवीभृताम् ॥


    प्रकाशम् एतत् तास्कर्यं यद् देवनसमाह्वयौ ।


    तयोर् नित्यं प्रतीघाते नृपतिर् यत्नवान् भवेत् ॥


    द्यूतम् एतत् पुराकल्पे दृष्टं वैरकरं महत् ।


    तस्माद् द्यूतं न सेवेत हास्यार्थम् अपि बुद्धिमान् ॥


    प्रच्छन्नं वा प्रकाशं वा तन् निषेवेत यो नरः ।


    तस्य दण्डविकल्पः स्याद् यथेष्टं नृपतेस् तथा ॥

दण्डविकल्पो दण्डविनिर्णयः । इष्टम् इच्छा भावे क्तः । याज्ञवल्क्यः (२। २०३ ) तस्करज्ञानार्थं राज्ञा स्वपुरुषस्य पुरतो द्यूतसमाह्वयौ प्रवर्तनीयाव् इत्य् आह ।

    द्यूतम् एकमुखं कार्यं तस्करज्ञानकारणात् ।


    एष एव विधिर् ज्ञेयः प्राणिद्यूते समाह्वये ॥

मवम्य (?) निवर्तनीयं यदि कथंचिच् चौरज्ञानार्थं कार्यते तदा तोरणादिप्रकाशचिह्नयुक्तस्थले कारयितव्यम् इत्य् आह कात्यायनः ( ९३३ - ९३५ ) ।

    द्यूतं नैव तु सेवेत क्रोधलोभविवर्धनम् ।


    असाधुजननं क्रूरं नराणां द्रव्यनाशनम् ॥


    ध्रुवं द्यूतात् कलिर् यस्माद् विषं सर्पमुखाद् इव ।


    तस्माद् राजा निवर्तेत विषये व्यसनं हि तत् ॥


    (वर्तेत चेत् प्रकाशं तु) द्वारावस्थिततोरणम् ।


    असंमोहार्थम् आर्याणां कार(येत् तत् करप्रदम् ॥