१४ मोक्षकाण्डम्

[१]

लक्ष्मीधर

कृत्यकल्पतरु

मोक्षकाण्ड

मङ्गलाचरणम्

वेदान्तोक्तिविवेकवैभवगलद्दुर्वारमायातमः-

	स्वैरोन्मीलदमेयचिन्मयपरब्रह्मैकतानात्मने ।

ते यस्मै स्पृहन्ति लब्धपरमानन्दाः सनन्दादयः

	काण्डे वक्ति चतुर्दशे द्विजवरो मोक्षं स लक्ष्मीधरः ॥

प्रतिज्ञा

मोक्षप्रस्तावना मोक्षस्वरूपविनिरूपणम् ।

वानप्रस्थ्यं तथा वानप्रस्थधर्माः क्रमाद् इह ॥

यत्याश्रमो ऽथ सन्न्यासो यतिधर्मो विरागता ।

तद्धेतुः पल्लवोपेतः कामादिपरिवर्जनम् ॥

इन्द्रियाणां जयस् तत्त्वसृष्टिः शारीरचिन्तनम् ।

विवेकश् च शरीरस्य जीवब्रह्मात्मता तथा ॥

[२] ज्ञानकर्मोपयोगित्वम् आत्मज्ञानस्य हेतवः ।

सपल्लवाश् च योगाद्या मुक्तानां लक्षणं क्रमात् ॥

ध्येयस्वरूपं योगस्य प्रवृत्तेर् लक्षणानि च ।

उपसर्गाः क्रमेणात्र तथा योगविभूतयः ॥

स्थितप्रज्ञस्य चरितं योगभ्रष्टगतिः पुनः ।

अरिष्टानि तथोत्क्रान्तिर् अर्चिरादिपथस् तथा ॥

इति लक्ष्मीधरः श्रीमान् आत्मविद्याविशारदः ।

पर्वाणां मोक्षकाण्डे ऽत्र षड्विशतिम् अजीघटत् ॥

[३]

१ — तत्र मोक्षप्रस्तावना

मार्कण्डेयपुराणे ।

अहम् इत्य् अङ्कुरोत्पन्नो ममेति स्कन्धवान् महान् ।

गृहक्षेत्रादिशाखश् च पुत्रदारादिपल्लवः ॥

धनधान्यमहापत्रो ऽनेककालप्रवर्धितः ।

पुण्यापुण्यप्रसूनश् च सुखासुखमहाफलः ॥

अपवर्गपथव्यापी मूढसम्पर्कसेचनः ।

विधित्साभृङ्गमालाढ्यो हृदि जातो महातरुः ॥

संसाराध्वपरिश्रान्ता ये तच्छायाम् उपाश्रिताः ।

अन्तर्ज्ञानसुखा धीरास् तेषाम् आत्यन्तिकः कुतः ॥

यैस् तु सत्सङ्गपाषाणशितेन स महातरुः ।

छिन्नो विद्याकुठारेण ते गतास् तेन वर्त्मना ॥

प्राप्य ब्रह्मवनं शीतं नीरजस्कम् अकण्टकम् ।

प्राप्नुवन्ति परां प्राज्ञाः निवृत्तिं वृत्तिवर्जिताम् ॥

[४] अपवर्गपथव्यापी मोक्षमार्गावरोधकः ॥

“विधित्सा” लिप्सा । “शितम्” तीक्ष्णीकृतम् । “वृत्तिवर्जिताम्” मनोव्यापाररहिताम् ॥ महाभारते ।

सुखं मोक्षस् तु लोके ऽस्मिन् तत् तु लोको न बुध्यते ।

प्रसक्तः पुत्रदारेषु धनधान्यसमाकुलः ॥

यज्ञैस् तपोभिर् नियमैर् व्रतैश् च 

	दिवं समासाद्य पतन्ति केचित् ।

तस्माद् उपेयं परमं पवित्रं

	शिवं हि मोक्षं परमं वदन्ति ॥

विष्णुपुराणे ।

अनेकजन्मसाहस्रीं संसारपदवीं व्रजन् ।

मोहश्रमं प्रयातो ऽसौ वासनारेणुकुण्ठितः ॥

प्रक्षाल्यते यदा सो ऽस्य रेणुर् ज्ञानोपवारिणा ।

तदा संसारपान्थस्य याति मोहश्रमः शमम् ॥

मोहश्रमे शमं याते स्वस्थान्तःकरणः पुमान् ।

अनन्यातिशयाबाधं परं निर्वाणम् ऋच्छति ॥

[५]

२ — अथ मोक्षस्वरूपम्

तत्र मार्कण्डेयपुराणे ।

ज्ञानपूर्वो वियोगो यो ऽज्ञानेन सह योगिनः ।

सा मुक्तिर् ब्रह्मणा चैक्यम् अनैक्यं प्राकृतैर् गुणैः ॥

“ज्ञानम्” अत्र चरमं ब्रह्मसाक्षात्काररूपम् । ऽअज्ञानेन सह वियोगःऽ अविद्यानिवृत्तिः । “योगी” –

आत्मप्रयत्नसापेक्षा विशिष्टा या मनोगतिः ।

तस्या ब्रह्मणि संयोगो योग इत्य् अभिधीयते ॥

इत्यादिविष्णुपुराणादिप्रतिपादितयोगवान् । ऽसा मुक्तिर् ब्रह्मणा चैक्यम्ऽ इति यो ऽयम् अज्ञानेनाविद्यया सह योगिनो वियोगस् तस्मिन् सति या जीवस्य ब्रह्मस्वरूपेण विभूतिर् अतिशयानन्दायभिव्यक्तिर् इति यावत्, स एव मुक्तिशब्दार्थः । प्राकृतैश् च गुणैर् यद् अनैक्यम् आत्यन्तिको वियोगः सो ऽपि सैव नार्थान्तरम् इत्य् अर्थः ।

[६] तद् उक्तं ब्रह्मपुराणे ।

अज्ञानबन्धभेदस् तु मोक्षो ब्रह्मलयस् त्व् इति ।

प्राकृता गुणाः भगवद्गीतासूक्ताः । तथा ।

सत्वं रजस् तमश् चेति गुणाः प्रकृतिसम्भवाः ।

निबध्नन्ति महाबाहो देहे देहिनम् अव्ययम् ॥ इति ।

विष्णुपुराणे ।

तद्भावभावनापन्नस् ततो ऽसौ परमात्मनः ।

भवत्य् अभेदी भेदश् च तस्याज्ञानकृतो भवेत् ॥

विभेदजनके ज्ञाने नाशम् आत्यन्तिकं गते ।

आत्मनो ब्रह्मणो भेदम् असन्तं कः करिष्यते ॥

“तद्भावभावना” ब्रह्माहम् अस्मीत्य् आत्मचिन्तनम् । दक्षः ।

अत्रात्मव्यतिरेकेण द्वितीयं चेन् न पश्यति ।

ब्रह्मीभूतः स एवेति दक्षपक्ष उदाहृतः ॥

श्रूयते च छान्दोग्योपनिषदि- “परं ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत” इति । अयम् अत्रार्थः — ब्रह्मसाक्षात्कारज्ञान उत्पन्ने अज्ञानस्व्याविद्यापरनामधेयस्य विलयात् तत्कृतभेदप्रत्ययास्तमये सति परं ज्योतिर् ब्रह्मस्वरूपम् उपसम्पद्य भूत्वा ऽस्वेन रूपेणऽ स्वाभाविकेन चिदानन्दादिरूपेण “अभिनिष्पद्यते” अभिव्यक्तो भवतीति । तथा च

[७] वेदान्तसूत्रम्- “सम्पद्याविर्भावः स्वेन शब्दाद्” इति ।

तथा च सांसारिकदुःखजातम् अभिधाय विष्णुपुराणे ।

निरस्तातिशयाह्लादसुखभावैकलक्षणा ।

भेषजं भगवत्प्राप्तिर् एकान्तात्यन्तिकी मता ॥ इति ।

महाभारते ।

निर्वाणं परमं सौख्यं धर्मो ऽसौ पर उच्यते । इति ।

जीवभावात् ऽदुःखान् निवर्ततेऽ इत्य् अभिधाय देवलः ।

स तथा निवृत्तो निर्गुणश् छिन्नबन्धो जन्मजरामरणदुःखविनिर्मुक्तः सुप्तवत् मत्तवत् विषधूमपानवत् सत्त्वादिहीनः तन्मात्रावस्थितः परमसुखम् ऐकान्तिकम् अधिगच्छति ।

इति साङ्ख्यम् । ऽतथा निवृत्तःऽ जीवत्वापादकाविद्योपाधिनिलये सति ब्रह्मीभूतः । निर्गुणादि[अप्दानाऽं तत्तत्कार्यकारणादिविशेषपरत्वेनापौनरुक्त्यम् । जन्मजरामरणदुःख[निर्वृत्तिश् च आत्यन्तकी जन्ममरणदुःख]योर् अत्यन्ताभावो ऽपवर्ग इति पूर्वम् एव देवलेनाभिभानात् । स्वप्नादिदृष्टान्तेन स्वगतदुःखानुभवाभावं दर्शयति

[८] पुनर् देवलः ।

साय्ज्यं सालोक्यं प्रकृतिलयो मोक्षश् चेति चतुर्विधं प्रयोजनम् । तेषाम् ऐश्वर्यावाप्तियुक्त्या हिरण्यगर्भनारायणशिवमहेन्द्रसोमसूर्यस्कन्द-ज्येष्ठोमादेवीप्रभृतीनां देवतानाम् ऐकजल्पं साय्ज्यम् ॥

तत्सालोक्यम् अभ्युदयविशेषत्वाद् अनुपदिष्टम् । पृथिव्यादिषु भूतेष्व् अधिदैवतत्वं तद्भावभावित्वं च प्रकृतिलयो वसुन्धराहुतवहवरुणमारुतसरस्वतीनां पृथिव्यग्न्यम्बुवाय्वाकाशेष्व् आधेयत्वम् अधिदैवतत्वं तद्भावभावित्वं च योगविशेषाच् च भवति । “अपुनर्भवो” मोक्षः । “ज्येष्ठा” अत्र माहेश्वरी शक्तिः । महाभारते ।

यज्ञेन देवान् आप्नोति वैराजं तपसा पुनः ।

सन्न्यासाद् ब्रह्मणः स्थानं वैराग्यात् प्रकृतौ लयम् ॥

ज्ञानात् कैवल्यम् आप्नोति पञ्चैता गतयः स्मृताः ।

“वैराजम्” स्थूलमहाभूतशरीरभोक्तृशक्त्यवच्छिन्नपरमात्मस्वरूपं विराट् । तस्य स्थानम् । ब्रह्म सूक्ष्मं प्राणेन्द्रियावच्छिन्नः परमात्मैव । “प्रकृतिः” सिसृक्षावच्छिन्नः स एव । ब्रह्माण्डपुराणे ।

पुर्यष्टकेन लिङ्गेन प्राणाद्येन स युज्यते ।

तेन बद्धस्य वै बन्धो मोक्षो मुक्तस्य तेन तु ॥

संसारे विनिवृत्ते तु मुक्तो लिङ्गेन मुच्यते ।

स चापि त्रिविधः प्रोक्तो मोक्षो वै तत्त्वदर्शिभिः ॥

[९] पूर्वो वियोगो ऽज्ञानेन द्वितीयो रागसङ्क्षयात् ।

लिङ्गाभावात् तु कैवल्यं कैवल्यात् तु निरञ्जनः ॥

“पुर्यष्टकम्” लिङ्गशरीरम् । मार्कण्डेयपुराणे ।

यथा हि कनकात् लिङ्गम् अपद्रव्यवद् अग्निना ।

दग्धदोषं द्वितीयेन खण्डेनैक्यं व्रजेन् नृप ॥

न विशेषम् अवाप्नोति तद्वद् योगात्मना गतिः ।

निर्दग्धदोषस् तेनैक्यं प्रयाति ब्रह्मणा सह ॥

यदाग्निर् अग्नौ प्रक्षिप्तः समानत्वम् अनुव्रजेत् ।

तदाख्यस् तन्मयो भावो न गृह्येत विशेषतः ॥

परेण ब्रह्मणा तद्वत् प्राप्यैक्यं दग्धकल्मषः ।

योगी याति पृथग्भावं न कदाचिन् महीयते ॥

यथा जलं जलेनैक्यं निक्xइप्तम् उपगच्छति ।

तथात्मा साम्यम् अभ्येति योगिनः परमात्मना ॥

ऽकनकात् खण्डम्ऽ पृथग्भूतम् इति शेषः । “साम्यम्” एकत्वम् । ब्रह्मपुराणे ।

क्षीरात् समुद्धृतं त्व् आज्यं न पुनः क्षीरतां व्रजेत् ।

पृथक्कृतो गुणेभ्यश् च नात्मा भूयो गुणी भवेत् ॥

[१०] क्षीरे क्षीरं जले तोयं पवने पवनो यथा ।

ब्रह्मभावनया योगी याति तन्मयतां तथा ॥

एवं तमयतां योगी ब्रह्मभावनया गतः ।

विहाय शोकमोहौ तु सर्वं ब्रह्मैव पश्यति ॥

यथा स्वप्रभया भाति केवलस्फटिको मणिः ।

पुरुषस्यापि चिद्दीप्त्या चैतन्यं भाति केवलम् ॥

महाभारते ।

यथार्णवगता नद्यो व्यक्तीर् जहति नाम च ।

न च स्वतां नियच्छन्ति तद्वशः सत्त्वसङ्क्षयः ॥

एवं सति कुतः सञ्ज्ञा प्रेत्यभावः पुनर् भवेत् ।

प्रतिसम्मिश्रिते जीवे ऽगृह्यमाणे विशेषतः ॥

परेण परधर्मा च भवत्य् एष समेत्य वै ।

विमुक्तकर्मा शुद्धेन बुद्धेन च सुबुद्धिमान् ॥

विमलात्मा स भवति समेत्य विमलात्मना ।

यदा ह्य् असौ दुःखसुखे जहाति

	मुक्तेस् तदाख्यां गतिम् एत्य् अलिङ्गः ।

श्रुतिप्रमाणागममङ्गलैश् च 

	शेये जरामृत्युभयाद् अतीतः ॥

ऽन च स्वतां नियच्छन्तिऽ स्वरूपम् उदकरूपं न त्यजन्तीत्य् अर्थः । “सत्त्वसङ्क्षयः” जीवस्य सम्यक्क्षयो बन्धविच्छेद इत्य् अर्थः । “प्रेत्यभावो” जन्म । “अलिङ्गः” लिङ्गशरीररहित इत्य् अर्थः ।

[११] तथा ।

संयोज्य तपसात्मानम् ईर्ष्¥आम् उत्सृज्य मोहनीम् ।

त्यक्त्वा कामं च मोहं च ततो ब्रह्मत्वम् अश्नुते ॥

नृसिंहपुराणे ।

तपो हि यः सेवति काननस्थो

	वने महत्सत्त्वसमाधियुक्तः ।

विमुक्तपापो नियतः प्रशान्तः

	स याति दिव्यं पुरुषं पुराणम् ॥

[१२]

३ — अथ वानप्रस्थ्यम्

तत्र महाभारते ।

आश्रमाद् आश्रमं गच्छेद् इत्य् अयं तूदितो विधिः ।

नित्यं हि मृत्युर् आगच्छन् न क्रमं सम्प्रतीक्षते ॥

उत्पाद्य पुत्रान् अनृणांश् च कृत्वा

	वृत्तिं च तेभ्यो ऽनिविधाय किञ्चित् ।

स्थाने कुमारीः प्रतिपाद्य सर्वा

	अरण्यम् आसाद्य मुनिर् बुभूषेत् ॥

यमः ।

द्वितीयम् आयुषो भागम् उषित्वा तु गृहे द्विजः ।

तृतीयम् आयुषो भागं गृहमेधी वने वसेत् ॥

गृहमेधीयदा पश्येद् वलीपलितम् आत्मनः ।

शिथिलत्वं च गात्राणां तदारण्यं समाश्रयेत् ॥

उत्पाद्य धर्मतः पुत्रान् इष्ट्वा पज्ञैश् च शक्तितः ।

दृष्ट्वापत्यस्य चापत्यं ब्राह्मणो ऽरण्यम् आश्रयेत् ॥

शङ्खलिखितौ ।

पुत्रान् उत्पाद्य संस्कृत्य वेदम् अध्याप्य तेभ्यो वृत्तिं विधाय् दारैः संयोज्य गुणवति पुत्रे कुटुम्बम् आवेश्य कृतप्रस्थान**[१३]**लिङ्गो वृत्तिविशेषार्थम् उत्क्रामेत् । क्रमशो यायावराणां वृत्तिम् उपास्य वनम् आश्रयेद् उत्तरायणपूर्वपक्षे ।

मनुः ।

सम्त्यज्य ग्राम्यम् आहारं सर्वं चैव परिच्छदम् ।

पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत् सहैव वा ॥

अग्निहोत्रं समादाय गृह्यं वाग्निपरिच्छदम् ।

ग्रामाद् अरण्यं निष्क्रम्य निवसेन् नियतेन्द्रियः ॥

ऽसर्वं परिच्छदम्ऽ ग्राम्यम् इत्य् अर्थः । “गृह्यम्” स्मार्तम् अग्निम् । “अग्निपरिच्छदम्” स्रुक्स्रुवादिकम् । यमः ।

यज्ञाङ्गान्य् अग्निहोत्रं च धेनू रथपरिच्छदम् ।

समादाय सदारो वा तदारण्यं व्रजेद् द्विजः ॥

पुत्रे ज्येष्ठे गुणवति तत्कुटुम्बं निवेश्य च ।

दारान् निक्षिप्य वा गच्छेन् निर्ममो विजितेन्द्रियः ॥

याज्ञवल्क्यः ।

सुतविन्यस्तपत्नीकस् तया वानुगतो वनम् ।

वानप्रस्थो ब्रह्मचारी साग्निः सौपासनो व्रजेत् ॥

[१४] “ब्रह्मचारी” ऊर्ध्वरेताः । “साग्निः” वैतानागिसहितः । “सौपासनो” गृह्याग्निसहितः ।

छागलेयः ।

पुत्रेषु भार्यां संस्थाप्य वनं गच्छेद् यथाविधि ।

अपत्नीकः समारोप्य ब्राह्मणः प्रव्रजेद् गृहात् ॥

आपस्तम्बः ।

अथ वानप्रस्थः । अत एव ब्रह्मचर्यवान् प्रव्रजति । तस्योपदिशन्त्य् एकाग्निर् अनिकेतः स्याद् अशर्माश्रणो मुनिः । स्वाध्याय एवोत्सृजमानो वाचम् । तस्यारण्यम् आच्छादनं विहितम् । ततो मूलैः फलैः पर्णैस् तृणैर् इति वर्तयंश् चरेत् । अन्ततः प्रवृत्तानि । ततो ऽपो वायुम् आकाशम् इत्य् अभिनिःश्रयेत् । तेषाम् उत्तर उत्तरः संयोगः फलतो विशिष्टः । अथ वानप्रस्थस्यैवानुपूर्व्यम् एक उपदिशन्ति । विद्यां समाप्य दारान् कृत्वाग्नीन् आधाय कर्माण्य् आरभते सोमावरादार्ध्यानि यानि श्रूयन्ते गृहान् कृत्वा सदारः सप्रजः सहाग्निभिः बहिर् ग्रामाद् वसेत् । एको वा शिलोञ्छेन वर्तेत । न चात ऊर्ध्वं प्रतिगृह्णीयात् । अभिषिक्तश् च जुहुयात् । शनैर् अपो ऽभ्युपेयाद् अभिघ्नन्न् अभिमुख आदित्यम् उदकम् उपस्पृशेत् इति सर्वत्रोदकस्पर्शनविधिः ॥

क्षारलवणमधुमांसानि वर्जयेत् । तस्य द्वन्द्वद्रव्याणाम् एक उपदिशन्ति पाकार्थं भोजनार्थं वा असिपरशुदात्रादीनाम् । **[१५]** द्वन्द्वानाम् एकैकम् उपादायेतराणि दत्वारण्यम् अवतिष्ठेत । तस्यारण्येनैवात ऊर्ध्वं होमः वृत्तिः प्रतीक्षाच्छदनं विहितम् । येषु कर्मसु पुरोडाशाश् चरवस् ते कार्याः । सर्वं चोपांशु सह स्वाध्यायेन नारण्यम् अभ्याश्रावयेत् । अग्न्यर्थं शरणम् । आकाशे स्वयम् । अनुपस्तीर्णे शय्यास्थाने । नवे सस्ये प्राप्ते पुराणम् अनुजानीयात् । भूयांसं वा नियमम् अन्विच्छन्न् अन्वहम् एव पात्रेण सायं प्रातर् अन्नम् आहरेत् । ततो मूलैः फलैः पर्णैस् तृणैर् इति वर्तयंश् चरेद् अन्ततः प्रवृत्तानि ततो ऽपो वायुम् आकाशम् इत्य् अभिनिःश्रयेत् । तेषाम् उत्तर उत्तरः संयोगः फलतो विशिष्टः ॥

ऽअत एवऽ ब्रह्मचर्यात् । “एकाग्निः” यदा ब्रह्मचारी वानप्रस्थो भवति तदा लौकिक एको ऽग्निर् आहार्यः । “अनिकेतः” गृहरहितः । “अशर्मा” सुखरहितः । “अशरणः” रक्षकशून्यः । “मुनिर्” मौनी । ऽअन्ततः प्रवृत्तानिऽ आरण्यैर् नीवारादिभिः कियन्तम् अपि कालं नीत्वा ततो मूलादिभिस् तृणपर्यन्तैः कालं यापयेत् । “अन्ततः” तान्य् एव मूलादीनि हिंसां विना वातादिना पतितान्य् आदाय वर्तयंश् चरेत् । “अभिनिःश्रयेत्” भवेत् । “सोमावरार्ध्यानि” सोमयागात् प्राचीनानि दर्शपूर्णमासादीनि । “अभिषिक्तः” स्नातः । “अभिघ्नन्” जलप्राण्यपसारणाय उदकं पाणिना ताडयन् । ऽतस्य द्वन्द्वं द्रव्याणाम्” इति । तस्य वानप्रस्थस्य विहितद्रव्याणां दात्रादीनां युगलम् उपादेयम् इत्य् उपदिशन्ति । “आरण्येन” फलादिद्रव्येण [१६] इति शेषः । “प्रतीक्षा” आतिथ्यम् । ऽसर्वं चोपांशुकर्मकाण्डम्ऽ सर्वम् उपांशु कर्म कर्तव्यम् । ऽनारण्यम् अभ्याश्रावयेत्ऽ इति नाभ्यधिकं मन्त्रादिभिः स्वरैः शरण्यं हविर् आश्रावयेत् । मन्त्रो ऽपि मध्यमाभ्याम् एव ।ऽअग्न्यर्थं शरणम्ऽ गृहं कुर्यात् । नात्मार्थं शय्यासने कुर्याद् इति शेषः । ऽपुराणम् अनुजानीयात्ऽ पुरातनम् अन्नं ब्राह्मणेभ्यो दद्याद् इति शेषः। ऽअन्वहम् एव पात्रेणऽ इत्य् अश्वस्तनवृत्तिर् उच्यते ॥

[१७]

४ — अथ वानप्रस्थधर्माः

तत्र मनुः ।

मुन्यन्नैर् विविधैर् मेध्यैः शाकमूलफलेन वा ।

एतान् एव महायज्ञान् निर्वपेद् विधिपूर्वकम् ॥

वसीत चर्म चीरं वा सायं स्नायात् प्रगे तथा ।

जटाश् च बिभृयान् नित्यं श्मश्रुलोमनखानि च ॥

यद्भक्ष्यः स्यात् ततो दद्याद् बलिं भिक्षां च शक्तितः ।

अम्मूलफलभिक्षाभिर् अर्चयेद् आश्रमागतम् ॥

स्वाध्याये नित्ययुक्तः स्याद् दान्तो मैत्रः समाहितः ।

दाता नित्यम् अनादाता सर्वभूतानुकम्पकः ॥

वैतानिकं च जुहुयाद् अग्निहोत्रं यथाविधि ।

दर्शम् अस्कन्दयन् पर्व पौर्णमासं च योगतः ॥

ऋक्षेष्ट्याग्रयणं चैव चातुर्मास्यानि चाहरेत् ।

उत्तरायणं च क्रमशो दक्षस्यायनम् एव च ॥

वासन्तशारदैर् मेध्यैर् मुन्यन्नैः स्वयम् आहृतैः ।

पुरोडाशांश् चरूंश् चैव निर्वपेत् तु पृथक् पृथक् ॥

[१८] देवताभ्यश् च तद् दत्वा वन्यं मेध्यतरं हविः ।

शेषं समुपभुञ्जीत लवणं च स्वयं कृतम् ॥

स्थलजोदकशाकानि पुष्पमूलफलानि च ।

मेध्यवृक्षोद्भवान्य् अन्यान् स्नेहांश् च फलसम्भवान् ॥

वर्जयेन् मधुमांसानि भौमानि कवकानि च ।

भूस्तृणं सिद्धकं चैव श्लेष्मातकफलानि च ॥

न फालकृष्टम् अश्नीयाद् उत्सृष्टम् अपि केनचित् ।

न यातयामान्य् आर्तो ऽपि पुष्पाणि च फलानि च ॥

“ऋक्षेष्टयो” नक्षत्रेष्टयो “अग्निर् वा अकामयत” इत्यादितैत्तिरीयब्राह्मणोक्ताः । “उत्तरायणम्” “संवत्सरं वसन् विधाय इष्टीर्” इत्यापस्तम्बसूत्रोक्तम् । ऽदक्षस्यायनऽं दाक्षायणयज्ञः । “भौमम्” अत्र वने चराणां गोजिह्विकेति प्रसिद्धम् । “कवकानाम्” द्विजत्वेन निषेधे प्राप्ते पुनर् निषेधो भूस्तृणादीनाम् अपि भक्षणे तत्समप्रायश्चित्तार्थः । यमः ।

अकृष्टोप्तं मूलफलं व्रीहीन् सञ्चित्य चापरान् ।

हविष्यान्नं प्रयच्छेत् तु महासत्त्रेषु पञ्चसु ॥

यस्यै तस्यै तथा सम्यक् हविष्यं कल्पयेत् पृथक् ।

श्रावणेन विधानेन सायं प्रातर् उपस्पृशेत् ।

वेणुश्यामाकनीवारास् तन्तुयोधगवेधुकाः ॥

[१९] फलानाम् उपभुञ्जीत पक्वमांसं च वर्जयेत् ।

मूलं पुष्पं फलं पत्रं दिवा स्थलजतोयजम् ॥

भक्षयेत् स्वयम् आहृत्य कृष्टं च परिवर्जयेत् ।

यतः पत्रम् उपादद्यान् न तत्पुष्पम् उपाहरेत् ॥

यतः पुष्पम् उपादद्यान् न ततः फलम् आहरेत् ।

यतश् च फलम् आदद्यान् न ततः काष्ठम् आहरेत् ॥

यस्य छायाम् उपासीत न ततः किञ्चिद् आहरेत् ।

न द्रुह्येद् दंशमशकं हिमातपसहो भवेत् ॥

शोषयन्न् आत्मनो देहं तपसा सिद्धिम् आप्नुयात् ।

न नक्तं किञ्चिद् अश्नीयाद् उदकं तृषितः पिबेत् ॥

सर्वभूतेषु नियतः संवसेत् सततं द्विजः ॥

छागलेयः ।

शाकमूलफलाहारो जर्त्तिलापुष्पम् एव च ।

नीवारो मांसम् अथ वा आहारो वन्य एव च ॥

वर्षासु फलधान्यानि उत्सृज्य नवसङ्ग्रहम् ।

लवणं च स्वयं कुर्यान् मधुमांसविवर्जितः ॥

अध्यात्मपरसन्तुष्टो जितक्रोधो जितेन्द्रियः ।

रात्रौ ध्यानपरो नित्यं निद्रालस्यं विवर्जयेत् ॥

अत्र मांसं व्याघ्रादिघातोपजातं भक्ष्यं नेतरद् इत्य् उक्तम् । याज्ञवल्क्यः ।

दान्तस् त्रिषवणस्नायी निवृत्तश् च प्रतिग्रहात् ।

स्वाध्यायवान् दानशीलः सर्वसत्त्वहिते रतः ॥

[२०] बृहस्पतिः ।

वसीत चर्म चीरं वा छत्रोपानद्विवर्जितः ॥

सुमन्तुः ।

अग्निकार्यम् अभीषेको भूमिशय्या जटाजिनम् ।

वन्यान्नं वनवासश् च वानप्रस्थस्य कीर्तितम् ॥

वसिष्ठः ।

श्रावणकेणाग्निम् उपसमाधायाहिताग्निः [स्यात्] । वृक्षमूलिक ऊर्ध्वं षड्भ्यो मासेभ्यो ऽनग्निर् अनिकेतनः । दद्याद् देवपितृमनुष्येभ्यः स गच्छेत् स्वर्गम् आनन्त्यम् ॥

“श्रावणकेन” वैखानसं शास्त्रं श्रावणकम् इति भर्तृयज्ञः । तदुक्तविधिनेत्य् अर्थः ।

शरण्यः सर्वभूतानां संविभागरुचिः अमत्सरी परीवादपैशुन्यमृषावादवर्जितः । शुचिर् ग्रामं न प्रविशेत् । अरण्यनिलयः पश्वर्थे पुरोषाशांश् चरुं वा निर्वपेत् । पर्वभागेषु देवान् यथाभागैर् योजयेत् । एकाग्निपरायणः । परैर् उत्सृष्टान्य् आश्रमान्तरितानि नाभ्यवहरेत् । परिपूतां प्रोक्षितां भूमिम् आक्रामेत् । संस्कृतानि मन्त्रैर् अधिश्रयेत् ॥

[२१] बोधायनः ।

वनप्रतिष्ठः सन्तुष्टः चर्मचीराजिनप्रियः ।

देवविप्राग्निकार्येषु युक्तस् तपसि तापसः ॥

कृच्छ्रां वृत्तिम् असंहार्यां सामान्यां मृगपक्षिभिः ।

तद् अहर् जातसम्भावां कषायकटुकाश्रयाम् ॥

परिगृह्य शुभां वृत्तिम् एतां दुर्जनवर्जिताम् ।

वनवासम् उपाश्रित्य ब्राह्मणो नावसीदति ॥

मृगैः सह परिस्पन्दः सवासश् चैव तैः सह ।

तेनैव सदृशी वृत्तिः प्रत्यक्षं स्वर्गलक्षणम् ॥

गौतमः- “न फालकृष्टम् अधितिष्ठेत् ग्रामं च न प्रविशेत्” । देवलः ।

सर्वप्राणिष्व् अनुक्रोशो हृदयतुष्टिर् अपायचिन्तनं सर्वोपभोगवर्जनम् । भूमिशिलातृणसिकताशर्कराणाम् अन्यतमाधिशयनं सदा सत्त्वबोधो धर्मम् आर्जवम् अनर्दनं चेति ।

“अनुक्रोशो” दया । पैठीनसिः ।

वानप्रस्थो ऽरण्यम् अभिव्रज्य ब्राह्मीम् इष्टिं कृत्वा अग्निधूम इत्य् उपस्थाय वन्येन जीवेन् नीवारेङ्गुदबदरशाकभक्ष्यो ऽतिथि**[२२]**पितृदेवताभिर् तर्पणं कुर्वन् नक्तं दिवार्धरात्रत्रिचतुर्थप्रभृतीनि कृत्वा रूक्षो धूम्रः कृशः केशी धमनिसन्ततश् च मृगचर्यया वा चरन् क्षपयेद् इन्द्रियग्रामम् । यायावरीं वा वृत्तिम् उपासीत ।

“ब्राह्मी” ब्रह्मदेवत्या । नक्तं दिवेत्यादिनैतेषु कालेषु भोजनविकल्पः । शक्त्यपेक्षयोच्यत इति बोधायनः ।

अथ वानप्रस्थस्य द्वैविध्यम् । पचमानकाश् चापचमानकाश् च । तत्र पचमानकाः पञ्चविधाः सर्वारण्यकवैतुषिककन्दमूलभक्षाः, फलभक्षाः, शाकभक्षा इति । तत्र सर्वारण्यका नाम द्विविधाः, विविधम् आरण्यम् आश्रयन्तः, इन्द्रावसिक्ताः रेतोवसिक्ताश् चेति । तत्रेन्द्रावसिक्ता नाम बल्लिगुल्मलथावृक्षाणाम् आनयित्वा सायम्प्रातर् अग्निहोत्रं हुत्वा यत्यतिथिप्रभृतिभ्यश् च दत्वा अथेररच् छेषभक्षाः । कन्दमूलफलशाकभक्षाणाम् अप्य् एवम् एव पञ्चैव – अपचमानका उन्मज्जकाः प्रवृत्ताशिनो मुखेनादायिनस् तोयाहारा वायुभक्षाश् चेति । तत्रोन्मज्जका नाम लोहाश्मकरणवर्जं हस्तेनादायिनः प्रवृत्ताशिनः । मुखेनादायिनो मुखेनाददते । तोयाहाराः केवलतोयाहाराः । वायुभक्षा निराहाराश् चेति । वैखानसानां विहिता दशैता दीक्षाः । स्वशास्त्रविधिम् अभ्युपेत्य दण्डश् च मौनं हितश् चाप्रमादः । वैखानसाः सिध्यन्ति निराहाराश् चेति शास्त्रपरिग्रहः सर्वेषां ब्रह्मवैखानसानाम् ॥

हारीतः ।

त्रेतां श्रावणकं वाग्निम् आधाय वल्कलशाणचर्मचीरकुशमुञ्जफलकवासा वानप्रस्थोक्तेन विधिना । वानप्रस्थो [२३] द्विविधो भवति – स्वानुज्ञायिको ऽनुप्रस्थायिकश् चेति । स्वानुज्ञायिकश् चतुर्विधः – एकवृत्तिः सम्प्रक्षालक आत्मवृत्तिर् अहिंसकश् च ।

एकवृत्तिर् दीक्षितो गुरुणानुज्ञातो दिशम् उपनिष्क्रम्य तिक्ताम्ललवणमधुरकटुकषायादीनां वा मूलफलानां यत् प्रथमं पश्येत् तेन षण्मासान् यापयेत् । समाप्ते पुनर् ग्रहणम् । कन्दमूलफलवेणुश्यामाकनीवाराणां मासपर्याप्तम् आहृत्य तदहर् एवोपयुनक्ति ससम्प्रक्षालोदन्तोलूखलिकमृगोपचारीप्रभृतय आत्मवृत्तयो भवन्ति । शीर्णपर्णशैवालगोमयाद्य् अहिंसको ऽनुपस्थापिकश् चतुर्विधो ऽर्धमाससञ्चयी चातुर्मास्यषाण्मास्यसांवत्सराद् इत्य् एकः । एताभिर् वृत्तिभिर् आहृत्य देवपितृमनुष्यार्थान् कुर्वीत शेषं प्राश्नीयात् । ऽश्रावणकं वाग्निम्ऽ इति पत्नीरहितत्वेन त्रेताग्न्यभावे बोद्धव्यम् । वैखानसप्रोक्तेन श्रावणकम् अग्निम् आधायेत्य् अन्वयः ।

मनुः ।

त्यजेद् आश्वयुजे मासि मुन्यन्नं पूर्वसञ्चितम् ।

जीर्णानि चैव वासांसि शाकमूलफलानि च ॥

गौतमः- “नातिसंवत्सरं भुञ्जीत” । विष्णुः- “संवत्सरनिचयी पूर्वनिचयान् आश्वयुज्यां जह्यात्” ।

[२४] मनुः ।

अग्निपक्वाशनो वा स्यात् कालपक्वभुग् एव वा ।

अश्मकुट्टो भवेद् वापि दन्तोलूखलिको ऽपि वा ॥

नक्तं चान्नं समश्नीयात् दिवा वाहृत्य शक्तितः ।

चतुर्थकालिको वा स्यात् स्याद् वा षष्ठाष्टमासतः ॥

चान्द्रायणविधानैर् वा शुक्ले कृष्णे च वर्तयेत् ।

पक्षान्तयोर् वाप्य् अश्नीयात् यवागूं क्वथितां सकृत् ॥

पुष्पमूलफलैर् वापि केवलैर् वर्तयेत् सदा ।

सद्यः प्रक्षालको वा स्यान् माससञ्चयिको ऽपि वा ॥

षण्मासनिचयो वा स्यात् समनिचय एव वा ।

स्वाभाविकैः स्वयं शीर्णैः वैखानसमते स्थितः ॥

भूमौ विपरिवर्तेत तिष्ठेद् वा प्रपदैर् दिनम् ।

स्थानासनाभ्यां विहरेत् सवनेषूपयन्न् अपः ॥

ग्रीष्मे पञ्चतपास् तु स्याद् वर्षास्व् अभ्रावकाशिकः ।

आर्द्रवासास् तु हेमन्ते क्रमशो वर्धयन् तपः ॥

उपस्पृशेत् त्रिषवणं पितॄन् देवांश् च तर्पयेत् ।

तपश् चरंश् चोग्रतरं शोषयेद् देहम् आत्मनः ॥

ऽशुक्ले कृष्णेऽ पक्षे इति शेषः । “प्रपदैः” पादाग्रैः । यमः ।

एकपादेन तिष्ठन्तः केचिद् सूर्यमरीचिपाः ।

पञ्चाग्निधूमपाः केचित् केचिद् अङ्गुष्ठविष्ठिताः ॥

षट्कालनिरताः केचित् केचिद् द्वादशकालिकाः ।

पक्षोपवासिनः केचित् केचिन् मासोपवासिनः ॥

[२५] ऊष्मपाः सोमपाः केचिद् वायुभक्षास् तथापरे ।

शुक्लपक्षे पिबन्त्य् एके यवागूं क्वथितां सकृत् ॥

कृष्णपक्षे पिबन्त्य् अन्ये भुञ्जते ऽन्ये यथागतम् ।

पयः पिबन्ति शुक्ले ऽन्य कृष्णपक्षे च गोशकृत् ॥

एताश् चान्याश् च विविधा दीक्षास् तेषां महात्मनाम् ।

चतुर्थश् चौपनिषधो धर्मः साधारणः स्मृतः ॥

वायुपुराणे ।

वानप्रथाश्रमे ऽप्य् एताश् चतस्रो वृत्तयः स्मृताः ।

सद्यः प्रक्षालकाः केचित् केचिन् मासिकसञ्चयाः ॥

वार्षिकसञ्चयाः केचित् केचिद् द्वादशवार्षिकाः ।

कुर्वन्त्य् अतिथिपूजार्थं यज्ञतन्त्रात्रम् एव च ॥

श्रीरामायणे ।

वैखानसा वालखिल्याः पृश्नयो ऽथ मरीचिपाः ।

मुनयः सलिलाहारा वायुभक्षास् तथैव च ॥

अश्मकुट्टाश् च शतपाः पत्राहाराश् च तापसाः ।

दन्तोलूखलिनश् चैव दण्डकारण्यवासिनः ॥

ऋषयो हि महाभागा ज्वलनार्कसमप्रभाः ।

आकाशनिलयाश् चैव तथा स्थण्डिलशायिनः ॥

तथोदरसना दान्तास् तथैवावस्त्रधारिणः ।

सजपाश् च महात्मानस् तथा पञ्चतपा द्विजाः ॥

चतुर्मास्यकृताहारा निराहारास् तथैव च ।

वृक्षसक्ताग्रपादाश् च ये चरन्ति महत्तपः ॥

अदर्शनेन ये धर्मं चरन्ति नियतव्रताः ।

[२६] एकाङ्गुष्ठेन तिष्ठन्ति ये च भूताविहिंसकाः ॥

सस्यभक्षाः पयोभक्षा निर्दिष्टफलभोजिनः ।

फलाहारे च निरता वायुभक्षास् तथापरे ॥

एते चान्ये च धर्मज्ञा मुनयो धर्मवत्सलाः ।

शरभङ्गाश्रमे वामम् अभिजग्मुः समागताः ॥

याज्ञवल्क्यः ।

श्रौतस्मार्थं फलस्नेहैः कर्म कुर्यात् क्रियास् तथा ।

तथा ।

यः कण्टकैर् वितुदति चन्दनैश् च विलिम्पति ।

अक्रुद्धो ऽपरितुष्टश् च समस् तस्य च तस्य च ॥

शङ्खलिखितौ- “कृष्णाजिनोत्तरीयः” । विष्णुपुराणे ।

चर्मकाशकुशैः कुर्यात् परिधानोत्तरीयके ।

वन्यस्नेहेन गात्राणाम् अभ्यङ्गश् चास्य शस्यते ॥

हारीतः ।

स्थान्वेकपादैक्पार्श्वोर्ध्वावाग्ग्रीष्मतपनवर्षाभ्रावकाशहिमजलशयन-कुशप्रस्तरस्थण्डिलशर्करोलूखलमुसलकीलकशय्याप्रभृतिभिर् आत्मानं क्षपयेत् ।

[२७] अथात्रोदाहरन्ति ।

रक्तमांसमयो देहः शुक्रयोनिसमुद्भवः ।

न ह्य् अनेनैव शक्या वै लोकाः प्राप्तुं कथञ्चन ॥

धनभोगपरित्यागाद् रागलोभविवर्जनात् ।

वैराग्यज्ञानविज्ञानात् तपसा सिद्धिम् आप्नुयात् ॥

कामक्रोधपरित्यागात् स्नेहसङ्गविवर्जनात् ।

संयमाद् इन्द्रियाणां च तपसा सिद्धिम् आप्नुयात् ॥

शौचस्नानादिभिर् मन्त्रैर् जपहोमादिभिस् तथा ।

तपसा सर्वम् आप्नोति दिव्यं देहम् अनुत्तमम् ॥

तपो दानं तपो यज्ञस् तपः सिद्धिः समुन्नतिः ।

नाशक्यं तपसः किञ्चित् तस्माच् छ्रेष्ठतमं तपः ॥

नानापुष्पसमृद्धेषु वनेषु मधुगन्धिषु ।

देवारण्येषु पुण्येषु वानप्रस्थस् तपश् चरेत् ॥

प्राप्यते तपसा लोकः शोध्यते तपसाशुभम् ।

तपसा सर्वम् आप्नोति यत् किञ्चिन् मनसेच्छति ॥

वैखानसविधानज्ञस् तत्त्वात्मा तु व्यवस्थितः ।

सूक्षमात् सूक्ष्मम् अवाप्नोति परं ब्रह्म यद् अव्ययम् ॥

स्थाण्वादिनोर्द्ध्वबाहुर् इत्यन्तेनावस्थानप्रकाराः कथिताः । “ग्रीष्मतपनम्” ग्रीष्मकाले ऽग्निसेवा । शङ्खः ।

कृच्छ्रैर् वापि नयेत् कालं ब्रह्मचर्यं च पालयेत् ।

एवं नीत्वा वने कालं द्विजो ब्रह्माश्रमी भवेत् ॥

[२८] नाग्निशुश्रूषया दान्त्या स्नानेन विविधेन च ।

वानप्रस्थो दिवं याति याति भोजनवर्जनात् ॥

मनुः ।

अग्नीन् आत्मनि वैतानान् समारोप्य यथाविधि ।

अनग्निर् अनिकेतः स्यान् मुनिर् मूलफलाशनः ॥

अप्रयत्नः सुखार्थेषु ब्रह्मचारी धराशयः ।

शरणेष्व् अममश् चैव वृक्षमूलनिकेतनः ॥

तापसेष्व् एव विप्रेषु यात्रिकं भैक्षम् आहरेत् ।

गृहमेधिषु चान्येषु द्विजेषु वनवासिषु ॥

ग्रामाद् आहृत्य वाश्नीयाद् अष्टौ ग्रासान् वने वसन् ।

प्रतिगृह्य पुटेनैव पाणिना शकलेन वा ॥

एताश् चान्याश् च सेवेत दीक्षा विप्रो वने वसन् ।

विविधाश् चौपनिषदीर् आत्मसंसिद्धये श्रुतीः ॥

ऋषिभिः वृत्तयस् त्व् एता गृहस्थैर् एव सेविताः ।

विद्यातपोविवृद्ध्यर्थं शरीरस्य च शुद्धये ॥

अपराजितां चास्थाय व्रजेद् दिशम् अजिह्मगः ।

आ निपाताच् छरीरस्य मुक्तो वार्यनिलाशनः ॥

आसां महर्षिचर्याणां त्यक्त्वान्यतमया तनुम् ।

वीतशोकभयो विप्रो ब्रह्मलोके महीयते ॥

“अपराजिता” ऐशानी । “अजिहमगः” ऋजुगामी ।

[२९] यमः ।

वने तपसि युक्तानां महर्षीणां महात्मनाम् ।

उदीच्यां दिशि दृश्यन्ते विमानानि तपस्विनाम् ॥

स्वर्गताश् च तथैवान्ये क्षत्रिया वनवासिनः ।

पर्णैश् च शाकैर् जलभोजनैश् च

	मूलैश् च कन्दैः फलवायुपुष्पैः ।

एतैश् च युक्ता उपयुज्यमानैर् 

	व्रजेद् द्विजः स्वर्गमितो वनस्थः ॥

इति कृत्यकल्पतरौ वानप्रस्थाश्रमपर्व ॥

[३०]

५ — अथ यत्याश्रमः

तत्र मनुः ।

वनेषु तु विहृत्यैवं तृतीयं भागम् आयुषः ।

चतुर्थम् आयुषो भागं त्यक्त्वा सङ्गान् परिव्रजेत् ॥

आश्रमाद् आश्रमं गत्वा हुतहोमो जितेन्द्रियः ।

भिक्षाबलिपरिश्रान्तः प्रव्रजन् प्रेत्य वर्धते ॥

ऋणानि त्रीण्य् अपाकृत्य मनो मोक्षे निवेशयेत् ।

अनपाकृत्य मोक्षं तु सेवमानो व्रजत्य् अधः ॥

अधीत्य् विधिवद् वेदान् पुरांश् चोत्पाद्य धर्मतः ।

इष्ट्वा च शक्तितो यज्ञैः मनो मोक्षे निवेशयेत् ॥

अनधीत्य द्विजो वेदम् अनुत्पाद्य तथात्मजान् ।

अनिष्ट्वा चैव यज्ञैश् च मोक्षम् इच्छन् व्रत्य् अधः ॥

“विहृत्य” अटित्वा, यथोक्तविधिम् अनुष्ठायेति यावत् । “परिव्रजेत्” सन्न्यासविधिना क्षपयेत् । “भिक्षाबलिपरिश्रान्तः” भिक्षाबलिदानेनायासितः । ऽमोक्षे निवेशयेत्ऽ मोक्षशब्देन प्राधान्यात् प्रव्रज्याश्रमो लक्ष्यते ।

[३१] शङ्खलिखितौ ।

वनवासाद् ऊर्ध्वं शान्तस्य परिणतवयसः कामतः परिव्रज्य तम् एवाग्निम् आत्मन्य् आरोप्य अपगतभयलोभमोहक्रोधशोकद्रोहमदमत्सरः कालं नानुचिन्तयेत् । अनवस्थितत्वान् मनसः श्रद्धा ह्य् अनियता भवति । तस्मान् न श्वः श्व उपासीत । तद् अहर् एव सन्न्यसेत् सर्वारम्भपरिग्रहान् उत्सृज्य ।

महाभारते ।

काषायं पाचयित्वा तु श्रेणिस्थानेषु तु त्रिषु ।

प्रव्रजेच् च् परं स्थानं परिव्रज्याम् अनुत्तमाम् ॥

ऽश्रेणिस्थानेषु च त्रिषुऽ ब्रह्मचर्याद्याश्रमेषु । याज्ञवल्क्यः ।

वनाद् गृहाद् वा कृत्वेष्टिं सर्ववेदसदक्षिणाम् ।

प्राजापत्यां तदन्ते तान् अग्नीन् आरोप्य चात्मनि ॥

अधीतवेदो जपकृत् पुत्रवान् अन्नदो ऽग्निमान् ।

शक्त्या च यज्ञकृन् मोक्षे मनः कुर्यात् तु नान्यथा ॥

वसिष्ठः- “परिव्राजकः सर्वभूताभ्यदक्षिणां दत्वा प्रतिष्ठेत” । तथाप्य् उदाहरन्ति ।

अभयं सर्वभूतेभ्यो दत्वा चरति यो मुनिः ।

तस्यापि सर्वभूतेभ्यो न भयं जातु विद्यते ॥

[३२] अभयं सर्वभूतेभ्यो यस् तु दत्वा निवर्तते ।

हन्ति जातान् अजातांश् च प्रतिगृह्णाति यस्य सः ॥

“निवर्तते” भ्रश्यते पारिव्राज्याद् इति शेषः । मनुः ।

अगाराद् अभिनिष्क्रान्तः पवित्रोपचितो मुनिः ।

समुपोढेषु कामेषु निरपेक्षः परिव्रजेत् ॥

“पवित्रोपचितः” पवित्रैर् मन्त्रजपैर् युक्तः । “समुपोढेषु” उपसंहृतेषु ।

छागलेयः ।

रागादिविषयासङ्गः पुत्रदारशुभाशुभम् ।

लोकयात्राभयं चैव त्यक्तं सन्न्यास उच्यते ॥

नरसिंहपुराणे ।

वेश्मदारसुतक्षेत्रं सन्न्यस्तं येन दुःखदम् ।

वैराग्यज्ञानपूर्वं वै लोके ऽस्मिन् नास्ति तत्समः ॥

यस्यैतानि सुगुप्तानि जिह्वोपस्थोदरं गिरः ।

सन्न्यसेद् अकृतोद्वाहो ब्राह्मणो ब्रह्मचर्यवान् ॥

महाभारते ।

चतुर्विधा भिक्षवस् तु कुटीचकबहूदकौ ।

हंसः परमहंसश् च यो यः पश्चात् स उत्तमः ॥

[३३]

६ — अथ सन्न्यासविधिः

तत्र बौधायनः ।

अथातः सन्न्यासविधिं व्याख्यास्यामः ।

सो ऽत एव ब्रह्मचर्यवान् प्रव्रजतीत्य् एकेषाम् । अथ शालीनयायावराणाम् अनपत्यानाम् । विधुरो वा । प्रजां स्वधर्मे प्रतिष्ठाप्य वा सप्तत्या ऊर्ध्वं सन्न्यासम् उपदिशन्ति । वानप्रस्थस्य वा कर्मविरामे ।

एष नित्या महिमा ब्राह्मणस्य न कर्मणा वर्धते नो कनीयान् । तस्यैवात्मा पदवित्तं विदित्वा न कर्मणा लिप्यते पापकेन इति ।

अपुनर्भवं नयतीति नित्यः । महद् एवं गमयतीति महिमा । केशश्मश्रुलोमनखानि वापयित्वोपकल्पयते । यष्टयः शिक्यं जलपवित्रं कमण्डलुं पात्रम् इति । एतत् समादाय ग्रामान्ते ग्रामसीमान्ते ऽग्न्यागारे वाज्यं पयो दधीति त्रिवृत् प्राश्योपवसेद् अपो वा ।

**[३४]** ॐ भूः सावित्रीं प्रविशामि तत् सवितुर् वरेण्यम् । ॐ भुवः सावित्रीं प्रविशामि भर्गो देवस्य धीमहि । ॐ स्वः सावित्रीं प्रविशामि धियो यो नः प्रचोदयत् [इति । पच्छो ऽर्धर्चशः] ततः समस्तया व्यस्तया चात्मानम् आत्मना आश्रमाद् आश्रमम् उपनीय ब्रह्मपूतो भवति इति विज्ञायते ।

अथाप्य् उदाहरन्ति ।

आश्रमाद् आश्रमं गत्वा कृतहोमो जितेन्द्रियः ।

भिक्षाबलिपरिश्रान्तः पश्चाद् भवति भिक्षुकः ॥ इति । 

स एव भिक्षुर् आनन्त्याय । पुरादित्यस्यास्तमयाद् गार्हपत्यम् उपसमाधायान्वाहार्यपचनम् आहृत्य ज्वलन्तम् आहवनीयम् उद्धृत्य [अन्यथोपसमाधाय] गार्हपत्ये आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा समिद्वत्याहवनीये पूर्णाहुतिं जुहोति [ॐ] स्वाहेति । ब्रह्मान्वाधानम् इत् विज्ञायते ।

अथ सायं हुते ऽग्निहोत्र उत्तरेण गार्हपत्यं तृणाणि संस्तीर्य तेषु द्वन्दं न्यञ्चि पात्राणि सादयित्वा दक्षिणेनाहवनीयं ब्रह्मायतने दर्भान् संसतीर्य तेषु कृष्णाजिनं चान्तर्धायैतां रात्रिं जागर्ति । य एवं विद्वान् ब्रह्मरात्रिम् उपोष्य ब्राह्मणो ऽग्नीन् समारोप्य प्रमीयते स सर्वं पाप्मानं तरति तरति ब्रह्महत्याम् ।

[३५] अथ ब्राह्म मुहूर्त उत्थाय काल एव प्रातर् अग्निहोत्रं जुहोति । अथ पृष्ठ्यां स्तीर्त्वापः प्रणीय वैश्वानरं द्वादशकपालं निर्वपति सा प्रसिद्धेष्टिः सन्तिष्ठते ।

आहवनीय ऽग्निहोत्रद्रव्याणि प्रक्षिप्यामृण्मयान्य् अनायसानि । गार्हपत्ये अरणी भवतं नः समनसाव् इत्य् अनया । अथात्मन्य् अग्नीन् समारोपयति । या ते अग्ने यज्ञिया तनुर् इति त्रिस् त्रिर् एकैकं समाजिघ्रति । अथान्तर्वेदि तिष्ठन् ॐ भूर् भुवः स्वः सन्न्यस्तं मया [सन्न्यस्तं मया संयस्तं मया] इति त्रिर् उपांशूक्त्वा त्रिर् उच्छैः । त्रिषत्या हि देवा इति विज्ञायते । अभयं सर्वभूतेभ्यो मत्त इति चापाम् अञ्जलिं निनयति । अथाप्य् उदाहरन्ति ।

अभयं सर्वभूतेभ्यो दत्वा यश् चरते मुनिः ।

न तस्य सर्वभूतेभ्यो भयं चापीह जायते ॥ इति ।

स वाचंयमो ऽभिव्रज्ति ।

यष्टयः शिक्यं जलपवित्रं च कमण्डलुं पात्रम् इत्य् एतत् समादाय, यत्रापस् तत्र गत्वा स्नात्वाप आचम्य **[३६] **सुरभिमत्याब्लिङ्गाभिर् वारुणीभिर् हिरण्यवर्णाभिः पावमानीभिर् इति मार्जयित्वान्तर्जलगतो ऽघमर्षणेन षोडश प्राणायामान् धारयित्वोत्तीर्य वासः पीडयित्वान्यत् प्रयतं वासः परिधाय अप आचम्य ॐ भूर् भुवः स्वर् इति पवित्रम् आदाय तर्पयति —

ॐ भूः तर्पयामि । ॐ भुवस् तर्पयामि । ॐ स्वस् तर्पयामि । ॐ भूर् भुवः स्वर् मर्हर् नम इति देववत् पितृभ्यो ऽञ्जलिम् आदाय तर्पयति । ॐ भूः स्वधा ॐ भुवः स्वधा ॐ स्वः स्वधा ॐ भूर् भुवः स्वः स्वधा ॐ महः स्वधा इति । अथोद् उ त्यं चित्रम् इति द्वाभ्याम् आदित्यम् उपतिष्ठते । ॐ इति ब्रह्म ते ब्रह्म वा एष ज्योतिर् य एष तपत्य् एष वेदो य एष तपति वेद्यम् एवैतद् य एष तर्पयत्य् एवम् एवैष आत्मानं तर्पयति आत्मानं नमस्करोति आत्मा ब्रह्मात्मा ज्योतिः ।

सावित्रीं सहस्रकृत्व आवर्तयेत् शतकृत्वो ऽपरिमितकृत्वो वा । ॐ भूर् भुवः स्वः इति पात्रम् आदायापो गृह्णाति । न चात ऊर्ध्वम् अनुद्धृताभिर् अपरिस्रुताभिर् अपरिपूताभिर् अद्भिर् आचामेत् । न चात ऊर्ध्वं शुक्लं वासो बिभृयात् ।

त्रिदण्डी वा । अथेमानि व्रतानि भवन्ति —

अहिंसा सत्यम् अस्तेयं मैथुनस्य च वर्जनं त्याग इत्य् एव पञ्चैवोपव्रतानि भवन्ति – अक्रोधो गुरुशुश्रूषा अप्रमादः शौचम् आहारगुणाश् चेति । 

[३७] “सन्न्यासविधिम्” चतुर्थाश्रमेतिकर्तव्यताम् । समस्तगर्भाधानादि संस्कारः । अत एव ब्रह्मचर्यवान् अविप्लुतब्रह्मचर्यः । ऽएकेषाऽं दर्शनम् इति शेषः । “विधुरे” मृतभार्ये पुरुषे सन्न्यासम् उपदिशन्ति इत्य् अन्वयः । “कर्मविरामे” कर्मानुष्ठानसामर्थ्योपरमे । “एष” इति ऽयेन सूर्यस् तपतिऽ इति श्रुत्या अभिहितस्यात्मनो व्यपदेशः । ब्राह्मणस्य सम्बन्धीति शेषः । अनेन ब्राह्मणस्य सन्न्यासे ऽधिकार इति दर्शयति । ऽस च नित्य आत्माऽ न कर्मणा वर्धते ऽपुण्येन नो कनीयान्ऽ पापेनेति शेषः । “तस्यैव” “परब्रह्मण” आत्मा स्वरूपं “पदवित्” पद्यते गम्यते ऽनेनेति पदम् अत्र वेदः “उपकल्पयते” सम्भवति । “यष्टयस्” त्रयो वैणवा दण्डाः । “पात्रम्” भिक्षापात्रम् । ऽत्रिवृद् इतिऽसंसृष्टम् आज्यादित्रयम् । “उपवसेत्” पुनर् भोजनं न कुर्यात् । ऽअपो वाऽ इत्य् आज्याद्यभावे विकल्पः । “पच्छः” पादशः “अर्धर्चशः” अर्धर्चेन । समस्तया कृत्स्नया व्यस्तया व्याहृतिरहितया । आत्मानम् आत्मनेत्यादि । ब्रह्मशब्देन सावित्र्य् अत्रोच्यते । “पूतो” विधूतपापो भवत्य् एवेत्य् अर्थः ।

पुनर् आश्रमग्रहणेन सावित्र्यनुप्रवेशाद् ऊर्ध्वं पुनर् आवृत्त्यभाव उच्यते । स एष भिक्षुर् आनन्त्याय कल्पत इति शेषः । "उपसमाधाय" प्रज्वाल्य । आहृत्य भिन्नयोनिपक्षे ऽपि अथ आयतने निधाय समिद्धति (?) । "प्रादेशमात्रीम्" पालाशीं समिधम् आधाय उद्ध्य्त्याहवनीये तृणानि धर्भान् ऽपात्राणि यज्ञायुधानि कृष्णाजिनं चान्तर्धायऽ दर्भेष्व् आस्तीर्य ऽअकाल एवऽ अनुदित एव पृष्ठ्यां स्तीर्त्वागार्हपत्याहवनीययोर् अन्तरा उलपराजिं **[३८]** कृत्वा अमृण्मयाश्ममयानि मृण्मयाश्यमयव्यतिरिक्तानि दीर्धीमयानि (?) गार्हपत्ये ऽरणी प्रक्षिपति इत् शेषः । "सुरभिमत्या" दधिक्रावन इत्य् एतयर्चा । "अब्लिङ्गा" आपोहिष्ट्ःईया । "वारुणी" इमं मे वरुण इत्याद्या हिरण्यवर्णाः शुचयऽ इत्याद्याश् चतस्रः "पावमाण्यः" पावमानः सुवर्जनः इत्य् अनुवाकः । "अघमर्षणम्" इत्य् ऋतं च सत्यं चेति सूक्तम् । "पवित्रम्" जलपवित्रम् । "देववद्" इति प्राचीनावीतित्वप्रतिषेधार्थम् । ॐ इति ब्रह्मेत्यादि

आत्मा ज्योतिर् इत्यन्तं सूक्तम् ओङ्कार इति ।

आदित्योपस्थानान्तरं सावित्रीं सहस्रकृत्व आवर्तयेत् । ॐ भूर् भुवः स्वर् इत्यादेः । यदा यदा यो गृह्णातीति तदा सप्रणवाभिर् व्याहृतिभिर् एवम् आदायापो गृह्णीयाद् इति शेषः । "परिस्रुताभिः" जलपवित्रेणामिलिताभिः । अपरिपूताभिः, निरीक्षणादिना अनिरस्तापद्रव्याभिः । ऽएकदण्डी त्रिदण्डी वेतिऽ केचित् पठन्ति । “सो ऽपपाठः, अधस्तात् दण्डत्रयोपकल्पनस्योक्तत्वात्” इति बोधायनभाष्यकारः । "त्यागः" सङ्गस्येति शेषः ।

[३९] नरसिंहपुराणे ।

एवं वनाश्रमे तिष्ठंस् तपसा दग्धकिल्बिषः ।

चतुर्थम् आश्रमं गच्छेत् सन्न्यासविधिना द्विजः ॥

दिव्यपितृभ्यो देवेभ्यः स्वपितृभ्यश् च यत्नतः ।

दत्वा श्राद्ध ऋषिभ्यश् च मनुजेभ्यस् तथात्मने ॥

इष्टिं वैश्वानरीं कृत्वा प्राजापत्याम् अथापि वा ।

अग्निं स्वात्मनि संस्थाप्य मन्त्रवत् प्रव्रजेत् पुनः ॥

ततः प्रभृति पुत्राद्यैः स्नेहलोभादि वर्जयेत् ।

दद्याच् च भूमाव् उदकं सर्वभूताभ्यङ्करम् ॥

त्रिदण्डं वैणवं सौम्यं सत्वक् च समपर्वकम् ।

वेष्टितं कृष्णगोवालरज्ज्वा च चतुरङ्गुलम् ॥

ग्रन्थिभिर् वा त्रिभिर् युक्तं जलपूतेन चोपरि ।

गृह्णीयाद् दक्षिणे हस्ते मन्त्रेणैव तु मन्त्रवित् ॥

क्षौमं वा कुशसूत्रं वा सूत्रं कार्पासिकं तु वा ।

तैर् एव ग्रन्थितं शिक्यं पद्माकारसमन्वितम् ॥

[४०] षड्भिर् वा पञ्चभिर् युक्तं मुष्टिभिः शिक्यलक्षणम् ।

गृह्णीयान् मन्त्रतो विद्वान् पात्रं वापि कमण्डलुम् ॥

आसनं दारुजं प्रोक्तं समाग्रं वर्तुलं समम् ।

शौचार्थम् आसनार्थं च मुनिभिस् तैर् अनुष्ठितम् ॥

कौपीनाच्छादनं वासः कन्थां शीतनिवारिणीम् ।

पादुके चापि गृह्णीयात् कुर्यान् नान्यस्य सङ्ग्रहम् ॥

एतानि तस्य लिङ्गानि यतेः प्रोक्तानि धर्मतः ।

सङ्गृह्य कृतसन्न्यासो गत्वा तीर्थम् अनुत्तमम् ॥

स्नात्वाप्य् आचम्य विधिवत् जलपूतांशुकेन वै ।

वारिणा तर्पयित्वा तु विधिवत् भास्करं नमेत् ॥

आसीनः प्राङ्मुखो मौनी प्राणायामत्रयं चरेत् ।

गायत्रीं वा यथाशक्ति स्वाध्यायेत् परमं पदम् ॥

दकः ।

सन्न्यस्तम् इति यत् ब्रूयात् प्राणैः कण्ठगतैर् अपि ।

त्रिंशत् परान् त्रिंशद् अपरान् त्रिंशच् च परतः परान् ॥

सद्यः सन्न्यसनाद् एव नरकात् त्रायते पितॄन् ॥

महाभारते ।

एतद् एव हि पर्याप्तं भिक्षोर् एकान्तशीलिनः ।

यन् नास्य कश्चिन् म्रियते म्रियते नास्य कस्यचित् ॥

कृपणं विलपन्न् आर्तो जरयाभिपरिप्लुतः ।

म्रियते रुदतां मध्ये ज्ञातीनां न स पूरुषः ॥

अधिकारिशरीरेण दुष्प्राप्यं प्राप्य यत्नतः ।

नापक्रामति संसाराद् आत्महा स नराधमः ॥

[४१] दक्षः ।

सत्त्वोत्कटाः सुरास् ते ऽपि विषयैस् तु वशीकृताः ।

प्रमादिष्व् अल्पसत्त्वेषु मनुष्येषु तु का कथा ॥

तस्मात् पक्वकषायेन कर्तव्यं दण्डधारणम् ।

इति वस्तु न शनोति विषयैर् एव हीयते ॥

त्रिदण्डव्यपदेशेन जीवन्ति बहवो जनाः ।

यो हि ब्रह्मन जानाति न त्रिदण्डर्हको हि सः ॥

[४२]

७ — अथ यतिधर्मः

साङ्ख्ययोगयोर् भिक्षोर् ब्रह्मलयेच्छाप्राप्तिवचनानन्तरं हारीतः ।

तद् एव तद् अपवर्गम् इच्छन्न् आत्मस्थान् अग्नीन् हुत्वा मनोवाक्कर्मदण्डान् सन्न्यस्य भूतेभ्यो ऽभयं दत्वारण्यं गत्वा न प्रत्येयाद् अनग्निर् अनिकेतो ऽश्वस्तनविधानो मुण्डः कषायवासास् त्रिदण्डकुण्डिकाजलपवनपवित्रसूक्ष्म-जन्तुनिवारणपाणिः मनोवाक्कर्मणां या परपीडाकरत्वेन दण्डरूपता ताम् परित्यज्यात एवाभयदानं भूतेभ्यो निरासार्थम् अरण्यगमनम् ।

तत् एतत् ऽकृत्वा न प्रत्येयात्ऽ । चतुर्थाश्रमं गत्वा पुनर् अर्वाचीनम् आश्रमान्तरं स्वातन्त्र्यं वा नाश्रयणीयम् इत्य् अर्थः । “अनग्निर्” इति पाकार्थ्स्याग्नेः प्रतिषेधः । श्रौतस्मार्ताग्न्यभावस्य सिद्धत्वात् । “कुण्डिका” कमण्डलुः । “पवित्रम्” जलपवनार्थम् वस्त्रखण्डम् । मनुः ।

वाग्दण्डो ऽथ मनोदण्डः कर्मदण्डस् तथैव च ।

यस्यैते नियता बुद्धिर् त्रिदण्डीति स उच्यते ॥

[४३] त्रिदण्ड्म् एतन् निक्षिप्य सर्वभूतेषु मानवः ।

कामक्रोधौ वशे यस्य ततः सिद्धिं नियच्छति ॥

दक्षः ।

नाध्येतव्यं न वस्तव्यं न श्रोतव्यं कदाचन ।

एतैः सर्वैः सुनिष्पन्नो यतिर् भवति नेतरः ॥

मनुः ।

एक एव चरेन् नित्यं सुद्ध्यर्थम् असहायवान् ।

सिद्धिम् एकस्य सम्पश्यन् न जहाति न हीयते ॥

अनग्निर् अनिकेतः स्याद् ग्रामम् अन्नार्थम् आश्रयेत् ।

उपेक्षको ऽसञ्चयिको मुनिर् भावसमन्वितः ॥

कपालं वृक्षमूलानि कुचलम् असहायता ।

समताम् एव सर्वस्मिन्न् एतन् मुक्तस्य लक्षणम् ॥

नाभिनन्देत मरणं नाभिनन्देत जीवितम् ।

कालम् एव प्रतीक्षेत निदेशं भृतको यथा ॥

दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत् ।

सत्यपूतां वदेद् वाणीं मनःपूतं समाचरेत् ॥

अतिवादांस् तितिक्षेत नावमन्येत कञ्चन ।

न चैनं देहम् आश्रित्य वैरं कुर्वीत केनचित् ॥

क्रुध्यन्तं न प्रतिक्रुध्येद् आक्रुष्टः कुशलं वदेत् ।

सप्तद्वारावकीर्णं च न वाचम् अनृतां वदेत् ॥

अध्यात्मरतिर् आसीनो निरपेक्षो निरामिषः ।

[४४] आत्मनैव सहायेन सुखार्थी विचरेद् इह ॥

कॢप्तकेशनखश्मश्रुः दण्डी पात्री कुसुम्भवान् ।

विचरेन् नियतो नित्यं सर्वभूतान्य् अपीडयन् ॥

संरक्षणार्थं तु जन्तूनां रात्राव् अहनि वा सदा ।

शरीरस्यात्यये चैव समीक्ष्य वसुधां चरेत् ॥

ग्रौष्महैमन्तिकान् मासान् अष्टौ प्रायेण पर्यटेत् ।

दयार्थं सर्वभूतानां वर्षास्व् एकत्र संवसेत् ॥

ऽएक एवऽ इत्य् अनेन पूर्वपरिचितस्य परित्याग उच्यते । “असहायवान्” इत्य् अपूर्वस्यापि परित्यागम् आह । ऽसिद्धिम् एकस्यऽ इति एकस्य सर्वसङ्गविरहिणो ममत्वशून्यस्य सिद्धिं पश्यन्न् एक एक विचरेत् । अन्यथा पुत्रादिषु कृतममत्वो न तान् जहाति न च तैर् हीयत इत्य् अर्थः । “सप्तद्वारावकीर्णाम्” इति षडिन्द्रियाणि । बुद्धिः स्पतमी । ऽएतैर् गृहीतेष्व् अर्थेषुऽ वाक् प्रवर्तत इति वचो द्वाराण्य् उच्यन्ते । तेनैतैर् गृहीतान्यविषयां वाचं न वदेत् किं तु मोक्षाश्रयाम् एव वदेद् इत्य् अर्थः । “कुशुम्भ” कमण्डलुः ।

मत्स्यपुराणे ।

अष्टौ मासान् विहरः स्याद् यतीनां नियतात्मनाम् ।

एकत्र चतुरो मासान् वार्षिकान् निवसेत् पुनः ॥

अविमुक्ते प्रविष्टानां विहारो नैव विद्यते ।

न देहो भविता तत्र दृष्टं शास्त्रं पुरातनम् ॥

[४५] मनुः ।

अल्पान्नाभ्यवहारेण रहःस्थानासनेन च ।

ह्रियमाणानि विषयर् इन्दिर्याणि निवर्तयेत् ॥

इन्द्रियाणां निरोधेन रागद्वेषक्षयेण च ।

अहिंसया च भूतानाम् अमृतत्वाय कल्पते ॥

यमः ।

निर्ममो निरहङ्कारो निरपेक्षो निरामिषः ।

य आत्मनासहायेन विचरेत् स सुखी भवत् ॥

शुचिपिप्पलकं चैव त्रिपिष्टपकमण्डलुम् ।

कन्थां पवित्रं पुण्यं च लघुमात्रः परिव्रजेत् ॥

अध्वा सूर्येण निर्दिष्टे कीटवत् पर्यटेत् महीम् ।

एकवासा अवासा च एकदृष्टिर् अलोलुपः ॥

एक एव चरेद् भैक्ष्यं धर्मवान् अविहिंसकः ।

अश्वस्तनविधानं तु सुमतिः सुसमाहितः ॥

शून्यागारे गुहावासी पर्वतेषु नदीषु च ।

ग्रामान्ते वृक्षमूले वा शुचौ देवकुले ऽपि वा ॥

तत्रासीनः प्रसन्नात्मा धारणास् त्रिविधाश् चरेत् ।

पर्यङ्कं दण्डकोणेषु युञ्जीतासौ यथाविधि ॥

नित्यं स्थण्डिलशायी स्याद् अनित्यां वसतिं वसेत् ।

अरण्यनित्यो मुण्डः स्यान् मनसा ज्ञानम् अभ्यसेत् ॥

तथा ।

सायं प्रातर् न तृप्येत न प्रसज्येत भोजने ।

नेन्द्रियार्थेषु सज्जेत कदाचिद् अपि कामतः ॥

[४६] यो वास्य दक्षिणं बाहुं चन्दनेनानुलेपयेत् ।

वामं वाप्य् अस्य यस् तक्षेत् समौ तौ पुरुषौ मतौ ॥

एवम् अस्य भवेद् भावो नित्यम् एव प्रियाप्रिये ।

इष्टे वा यदि वा द्वेष्ये समः सर्वत्र वर्तयेत् ॥

समः साधौ च पापे च शत्रौ मित्रे समो भवेत् ।

शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥

न प्रहृष्यति सम्माने नापमाने च क्रुध्यति ।

रागद्वेषौ समो यस्य स मुनिः सर्वनिःस्पृहः ॥

श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वाघ्राय च यो नरः ।

न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रियः ॥

अरोषतोषः समलोष्टकाञ्चनः

	प्रहीणशोको गतसन्धिविग्रहः ।

व्यपेतनिन्दास्तुतिर् अप्रिया-

	प्रियश् चरत्य् उदासीनवद् एव भिक्षुः ॥

ऽपिप्पलकऽं सीवनसूत्रं ऽत्रिपिष्ट्यऽं त्रिपदिका “लघुमात्रः” अल्पपरिकरः । अध्वा सूर्येण निर्दिष्टस् तस्य भवेद् इति शेषः । दिवा गच्छेद् इति यावत् । “एकवासा” एकपरिधानवासाः । ऽअवासास् तुऽ वासोरहितः, “एक(र)शाटीपरिहितो ऽजिनेन वा” इति वसिष्ठवचनात् । “पर्यङ्कदण्डकोणेष्व्” इति पर्यङ्कः पर्यस्तिकादण्डः, स्तम्भादिः “कोणो” गृहादीनाम् । एतेषु कृतावष्टम्भ इति शेषः । केचित् तु पर्यङ्कदण्डकोणपदाभिधेयासनभेदेषु सत्सु युञ्जीतेति व्याचक्षते । “युञ्जीत” योगं कुर्यात् । ऽअनित्यां वसतिं वसेद्ऽ इत्य् एकत्र न चिरं वसेद् [४७] इत्य् अर्थः । ऽसायं प्रातर् न तृप्येतऽ इत्य् अत्रैव वा हेतुः । ऽप्रसज्येत भोजनेऽ इति तक्षणं शास्त्रेण ।

महाभारते ।

प्रदक्षिणं प्रसत्यं च ग्राममध्येन् वा चरेत् ।

भैक्षचर्याम् अनापन्नो न गच्छेत् पूर्वकेतितः ॥

वानप्रस्थगृहस्थाभ्यां न सङ्गृह्येत् कर्हिचित् । 

येक केनचिद् आच्छन्तो येन केनचिद् आसिनः ॥

यत्र क्वचन शायी च तं देवा ब्राह्मणं विदुः ॥

“प्रदक्षिणम्” इत्यादि प्रकारत्रयं पर्याकुलभिक्षाचरणनिवृत्त्यर्थम् । “अनापन्नः” आपद्रहितः । “केतितो” निमन्त्रितः । शङ्खलिखितौ ।

त्रिदण्डकुण्डी, पक्ष्मपवित्रप्रयोजनापेक्षी, मुण्डः, काषायवासा, भैक्षवृत्तिर् असंविभागरुचिर् अभिशस्तपतितनिन्दितोपकृतवर्जी च, कौपीनमात्रवासा, व्रणमात्रलेपनपरितुष्टः, पक्वकषायः, कालाकाङ्क्षी, सदा युक्त आत्मरतिर् असंविधानशीलः, कुकुककल्कदम्भापवर्जितः, सदा नैकग्रामवासी, सङ्गदोषात् पर्यटनशीलः, सदात्मज्ञानविवेकार्थकुशल ऊर्ध्वं वर्षाभ्यो नैकस्थानवासाभिरतिः, नैकदेशमूत्रपुरीष उद्धृतपरिपूताभिर् अद्भिः कार्यं कुर्यात् । दण्डपवित्राणि द्विपरिधानी कुशचीरवरफलकः वासो शीतप्रवारणम् एकम् ।

“त्रिदण्डकुण्डी” त्रिदण्डकमण्डलुयुक्तः । “पक्ष्मपवित्रप्रयोजनापेक्षी” । पक्षशब्दो ऽत्र गोवालवचनः । [४८] पक्ष्मपवित्रयोर् अर्थः प्रयोजनं पात्रशुद्धिजलपावनादि । “कौपीनमात्रवासाः” गुदप्रदेशमात्राच्छादनवसनः । मात्रशब्दो ऽत्राधिकपरिमाणनिवृत्त्यर्थः । “व्रणमात्रलेपनपरितुष्टः” व्रणशब्दो ऽत्र शरीरपरः । लेपनम् आहारस् तेन शरीरयात्रामात्रेणाहारेण परितुष्टो भवेत् । न रसलालस इत्य् अर्थः । “कालाकाङ्क्षी” जीवितकालप्रतीक्षां कुर्यात् । न तु वैराग्यादिना अविहितोपायेनात्मानं व्यापादयेद् इत्य् अर्थः । “असंविधानः” असञ्चयवान् । “कल्कः” पापम् । “आत्मज्ञानविवेकार्थकुशलः” आत्मविषयज्ञानम् आत्मज्ञानम्, तत्र “विवेको” देहाद्यतिरिक्तस्यात्मतत्त्वस्यावबोधः । तस्मिन्न् एवार्थे कुशलः । “द्विपरिधानी” द्वे परिधाने कौपीनकटिवेष्टनाख्ये यस्य स तथा । “फलकम्” वार्क्षं । “शीतप्रावरणम्” शीतनिवारणार्थम् उपरि वासो धारयेत् ।

पुनः शङ्खलिखितौ ।

शीतोष्णवातवर्षाणि नात्यन्तं परिहरेत् । नात्मनः प्रतीकारं कुर्यात्, न कारयेन् नानुमन्येत ।

“प्रतीकारम्” व्याध्युपद्रवे जात इति शेषः । गौतमः ।

अनिचयो भिक्षुः । ऊर्ध्वरेताः ध्रुवशीलो वर्षासु भिक्षार्थी ग्रामम् इयात् ।

जघन्यम् अनिवृत्तं चरेत् । निवृत्ताशी । वाक्चक्षुःकर्मसंयोगः । कौपीनाच्छादनार्थं वासो बिभृयात् । प्रहीणम् एक निर्णिज्य । नाविप्रयुक्तम् ओषधिवनस्पतीनाम् अङ्गम् [४९] उपाददीत । न द्वितीयाम् अपर्तु रात्रिं ग्रामे वसेत् । मुण्डः शिखी वा । वर्जयेज् जीववधम् । समो भूतेषु । हिंसानुग्रहयोर् अनारम्भी ।

ऽध्रुवशीलो वर्षासुऽ ग्रामाद् ग्रामान्तरं न गच्छेद् इत्य् अर्थः । जघन्यशब्दो ऽत्र गृहस्थभोजनक्रियातः पश्चादर्थे । अनिवृत्तम् इति क्रियाविशेषणम् । तेन भिक्षार्थं गतः सन् प्रत्याख्यातो न पुनस् तस्मिन्न् एव दिवसे प्रत्यावृत्य भिक्षेतेत्य् अर्थः । “निवृत्ताशी” आत्मनः परस्य वा शुभाशंसनरहितः । “प्रहीणम्” परित्यक्तम् । “निर्णिज्य” प्रक्षाल्य “अपर्तुः” वर्षर्तुवर्जः । ऽमुण्डः शिखी वाऽ सर्वमुण्डः शिखावर्जं मुण्डो वा । जटिलत्वनिवृत्त्यर्थो ऽयम् आरम्भः । इति भर्तृयज्ञ-असहाय-मस्करिणः ।

विष्णुः- “निराशीः स्यात् । निर्नमस्कारः” । 

देवलः ।

परिव्राजको दीक्षाप्रभृति सर्वारम्भान् परित्यजेत् । चतुर्मासान्तरं केशश्मश्रूण्य् अपनयेत् । नाधौतः श्मश्रुरोमाणि । विद्याचारकुलवयोवृत्तानि परेभ्यो न कथयेत् ।

“सर्वारम्भान्” गृहादीनाम् इति शेषः । चत्वारो मासा अन्तरं यत्र तत्रेति क्रियाविशेषणम् । “अधौतः” अस्नातः । [५०] पुनर् देवलः ।

स भिक्षुर् अरागानुक्रोशप्रधानः कषायी मुण्डितः त्रिदण्डकमण्डलुपवित्र-पात्रपादुकामनः, कन्थामात्रो, ज्ञानरतिर् आत्महृष्टः, बन्धुभिर् असम्पृक्तो, निरपेक्षः । परातिक्रम, क्षीणविगतपापः, सममृत्काञ्चनः, स्वमात्रास्व् असक्तो (?), मध्यस्थः, तुल्यारिमित्रो, निष्परिग्रहो, ब्रह्मवादी, मङ्गलव्यवहारसंस्कारजीव(ः), शिखारत्नधनधान्यविषयोपभोग-सम्पर्केर्ष्यादर्पमोहमायाहर्षविरोधविस्मयविवादत्रासतर्कतन्द्रश् चेति यतिधर्माः ।

वसिष्ठः ।

मुण्डो ऽममो ऽपरिग्रहः । सप्तागाराण्य्1 असङ्कल्पितानि चरेद् भैक्षं विधूमे सन्नमुसले । एकशाटीपरिहितः । अजिने यो गोप्रलूनैस् तृणैर् अवस्तृतशरीरः । स्थण्डिलशायी । अनित्यां वसतिं वसेत् । ग्रामान्ते देवगृहे शून्यागारे वृक्षमूले वा । मनसा ज्ञानम् अधीयानः न ग्राम्यपशूनां दर्शने विचरेत् । अथाप्य् उदाहरन्ति ।

त्य्पो इन् एदितिओन्- समागाराण्य्

अरण्यनित्यस्य जितेन्द्रियस्य ॥

	सर्वेन्द्रियप्रीतिनिवर्तकस्य ।

अध्यात्मचिन्तागतमानसस्य 

	ध्रुवा ह्य् अनावृत्तिर् उपेक्षकस्य ॥

अव्यक्तलिङ्गो व्यक्ताचारो ऽनुन्मत्त उन्मत्तवेषः । अथाप्य् उदाहरन्ति ।

**[५१] ** न शब्दशास्त्राभिरतस्य मोक्षो

	न चापि लोकग्रहणे रतस्य ।

न भोजनाच्छादनगर्वितस्य 

	न चापि रम्यावसथप्रियस्य ॥

न कुट्यां[^२] नओदके सङ्गो न चैले न त्रिपुष्करे ।

एदितिओन् हस्- क्रुघ्नां

नागारे नासने नान्ने यस्य वै मोक्षवित् तु सः ॥ इति ।

ब्राह्मणकुले यल् लभते तद् भुञ्जीत । सायम्प्रातर् मधुमांसवर्जनम्, न च तृप्येत् । ग्रामे वा वसेत् । अजिह्मो ऽशठो (ऽशरणो) ऽसङ्कुसुकः । नेन्द्रियसङ्गं कुर्वीत केनचित् । उपेक्षकः सर्वभूतानां [हिंसानुग्रहपरिहारेण] पौशुन्यमत्सराभिमानाहङ्काराश्रद्धानार्जवात्मस्तवपरगर्हादम्भ-लोभ[मोहक्रोधासूया]विवर्जनं सर्वाश्रमाणां धर्मिष्ठः यज्ञोपवीत्य् उदकमण्डलुहस्तः शुचिर् ब्राःमणात् वृषलान्नवर्जनं न हीयते ब्रह्मलोकात् ।

ऽगोप्रलूनैस् तृणैर् अवस्तृतशरीरःऽ गोभिश् छिन्नैः तृणैर् आछादितशरीरः । ऽन ग्राम्यपशूनां दर्शने विचरेत्ऽ । यत्र ग्राम्यपशून पस्यति न तत्र नित्यम् आसीत । किं त्व् एकान्तनिरतेन भवितव्यम् इत्य् अर्थः । “अव्यक्तलिङ्गः” न लिङ्गविशेषधारण एव यत्नपर स्यात् । किं तु व्यक्ताचारो भवेत् । शौचादिप्रमादी न स्याद् इत्य् अर्थः । तद् उक्तं महाभारते ।

भूषितो ऽपि चरेद् धर्मं यत्र तत्राश्रमे रतः ।

समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम् ॥ इति ।

[५२] अनुन्मत्त उन्मत्तवेषेण चरेद् इत्य् अन्वयः । लोके पूजापरिहारार्थं चैतत् “त्रिपुष्करे” त्रिदण्ड्याम् इति कश्चित् । भिक्षापात्रधारे काष्ठत्रये चेति रोगाद्यापत्स्व् एकान्नम् अपि भुञ्जीतेत्य् अनुज्ञातम् । “धर्मिष्ठः” धर्म्येषु मध्ये प्रधानतमः । हारीतः ।

ससूर्यचक्षुषोद्धृतपरिपूताभिर् अद्भिः कार्यं कुर्याद् दिवा क्रोशादियोजनान्तं गच्छेत् । शून्यदुर्गवर्जम् क्रोशादियोजनान्तं गच्छेत् ।

क्रोशादिर् वाक् योजनात् परतो न गच्छेद् इत्य् अर्थः । “शून्यम्” प्रान्तरं यदि न स्यात् ।

पुनर् हारीतः ।

केतनं चारियोगं च आशिषं कोपम् एव च ।

वर्जयेच् च समं दद्याद् भावं सर्वत्र सर्वशः ॥

हिंसाप्रवर्तके चैतान् नियोगात् कर्मसम्भवः ।

आशिषः पुण्यविस्रंसः कोपसिद्धिविनाशकः ॥

भिक्षोदकपवित्राद्या आर्जवं भिक्षुसत्क्रिया ।

नरकाय नियोगाद्या उभयोर् अप्य् असत्क्रिया ॥

पूज्यमानः प्रवृत्तेषु वर्द्धते ब्रह्मतेजसा ।

निवृत्तेस् तूपहन्येत समिद्धो ऽग्निर् इवाम्भसा ॥

फलम् अग्नौ हुते यद्वत् प्रवृत्तेस् तद्वद् आददत् ।

भस्मन्य् एव हुते यद्वन् निवृत्तेस् तद्वद् आददत् ॥

तस्माद् भिक्षुः प्रवृत्तेषु आददीताप्य् अहिंसया ।

[५३] “केतनम्” अत्र निमन्त्रणम् । “नियोगः” प्राज्ञानुष्ठानम् । “भिक्षोदकपवित्राद्या” इति “आर्जवम्” इति क्रियाविशेषणम् । तेन भिक्षाद्या ऋजुभावेन शोभना । भिक्षुसत्क्रियेत्य् अर्थः । नरकायेति नियोगाद्या असत्क्रिया, उभयोर् अपि नरकायेत्य् अन्वयः ।

पुनर् हारीतः ।

अहिंसा नाम सर्वभूतेष्व् अनभिद्रोहः । चक्षुर्मनोवाक्शरीरकर्मणां न्यासः । कर्मेन्द्रियबुद्धीन्द्रियाणां संयमः । अहङ्कारकामक्रोध-लोभोपनिवर्तनम् । आशीःप्रतिष्ठासङ्गापरिग्रहो ममत्ववर्जनं कलहवादकुतूहलोपनिवृत्तिः विनयः नित्यं प्रत्याहितत्वं प्राणतत्परता ब्रह्मतद्गतमानसत्वम् । पूर्वापररात्रानुसन्धानम् । प्राणायामसेवनं दिवापर्यटनं न रात्रौ न वर्षासु प्रकीर्णस्थाने न द्रुतावतरणम् । न विक्षोभणं नोत्क्षेपणं सद्भ्यो भैक्ष्यग्रहणं सुविमृष्टभोजनं सममानावमानता समदुःखोपभोगता समलोष्ठाश्मकाञ्चनता जन्तूनां शरीरारूढानां यक्ष्मचामरव्यञ्जनवस्त्रान्तेन नीयमाने नापसर्पकरणम् ।

तस्माद् अचपलगमनासनपरिग्रहेण समदर्शिना भिक्षुणा व्यवहर्तव्यम् आह ।

	अभयं सर्वभूतेभ्यो दत्वा यश् चरते मुनिः ।

	तस्य सर्वेभ्यो भूतेभ्यो न भयं विद्यते क्वचित् ॥

	अमृतमध्ये वसति भयं तस्य न विद्यते ।

	मैत्रश् च सर्वभूतानाम् अहिंसानिरतः शुचिः ॥

[५४] बौधायनः ।

अथ यतोपनिषदम् आचार्या ब्रुवते । [तत्रोदाहरन्ति] । स्थानमौनवीरासन-सवनोपस्पर्शनचतुर्थषष्ठाष्टमकालव्रतौक्तस्य । कणपिण्याकयावक-सक्तुदधिपयोव्रतत्वं चेति । तत्र मौने युक्तस् त्रैविद्यवृद्धैर् आचार्यैर् मुनिभिर् अन्यैर् वाश्रमिभिर् बहुश्रुतैर् दन्तैर् दन्तान् सन्धायान्तर्मुख एव यावद् अर्थं सम्भावयेन् न यन्त्र [यत्र] लोपो भवतीति विज्ञायते । स्नानमौनवीरासनानाम् अन्यतमेन युक्तो न त्रयं सर्वं सन्निपातयेत् । यन्त्रगतश् चेद् यावन्मात्रम् अनुवर्तयेद् आपत्सु न यन्त्रलोपो भवतीति विज्ञायते । स्नानमौनवीरासनरसनोपस्पर्शनचतुर्थषष्ठाष्टमकाल-वृत्तयुक्तस्य ।

अष्टौ तान्य् अव्रतघ्नानि आपो मूलं फलं पयः ।

हविर् ब्राह्मणकाम्या च गुरोर् वचनम् औषधम् ॥ इति ।

सायम्प्रातर् अग्निहोत्रमन्त्रान् जपेत् । वारुणीभिः सायं सन्ध्याम् उपतिष्ठेत मैत्रीभिः प्रातः ।

अनग्निर् अनिकेतः स्याद् अशर्माशरणो मुनिः ।

भिक्षार्थी ग्रामम् अन्विच्छेत् स्वाध्याये वाचम् उत्सृजेद् इति ।

[५५] विज्ञायते च — परिमिता वा ऋचः परिमितापि सामानि परिमितानि यजूंषि । अथैत्स्यैवान्तो नास्ति यद् ब्रह्म तत् प्रतिगृणत आचक्षीत स प्रतिगर इति । एवम् एव आ शरीरविमिक्षाद् वृक्षमूलिको वेदसन्न्यासी । वेद वृक्षस् तस्य मूलं प्रणवः प्रणवात्मकं तत् ध्यायन् प्रणवो ब्रह्म ब्रह्मभूयाय कल्पत इति होवाव प्रजापतिः । सप्तभिर् व्याहृतिभिः ब्रह्मभाजनं प्रक्षालयेत् इति ।

छागलेयः।

अतः परं प्रवक्ष्यामि योगवृत्तिसमाश्रयम् ।

त्यज धर्मान् अधर्मं च उभे सत्यानृते त्यज ॥

अहिंस्रः सर्वभूतानां कर्मणा मनसा गिरा ।

महाभारते ।

त्यज धर्मम् अधर्मं च उभे सत्यानृते त्यज ।

उभे सत्यानृते त्यक्त्वा येन त्यजति तत् त्यज ॥

त्यज धर्मम् असङ्कल्पाद् अधर्मं चाप्य् अहिंसया ।

उभे सत्यानृते बुद्ध्या बुद्धिं परमनिश्चयात् ॥

दक्षः ।

एको भिक्षुर् यथोक्तः स्यात् द्वौ चैव मिथुनं स्मृतम् ।

त्रयो ग्रामाः समाख्याताः ऊर्ध्वं तु नगरायते ॥

[५६] नगरं हि न कर्तव्यं ग्रामो वा मिथुनं तथा ।

एतत् त्रयं हि कुर्वाणो स्वधर्माच् च्यवते यतिः ॥

राजादिवार्ता तेषां तु भिक्षा वार्ता परस्परम् ।

स्नेहपैशून्यमात्सर्यं सन्निकर्षान् न संशयः ॥

लाभपूजानिमित्तं हि व्याख्यानं शिष्यसङ्ग्रहः ।

एते चान्ये च बहवः प्रपञ्चाः कुतपस्विनाम् ॥

स्नानं शौचं तथा भिक्षा नित्यम् एकान्तशीलता ।

भिक्षोश् चत्वारि कर्माणि पञ्चमं नोपपद्यते ॥

तपोजपैः कृशीभूताः व्याधितावसथार्हकाः ।

वृद्धा ग्रहगृहीतार्था ये चान्ये विकलेन्द्रियाः ॥

नीरजाश् च स्ववाचैव भिक्षुर् नावसथार्हकः ॥

ऽपञ्चमं नोपपद्यतऽ इति एतादृशम् उत्कृष्टम् इत्य् अर्थः । संवर्तः ।

अष्टौ भिक्षाः समादाय स मुनिः सप्त पञ्च वा ।

अखिलाः शोधयेत् तास् तु ततो ऽश्नीयाद् द्विजोत्तमः ॥

अरण्ये निर्जने विप्रः पुनर् आसीत भक्तवान् ।

एकाकी संयतो नित्यम् अन्ये वाङ्मूर्तिभिर् युताः ॥

वसिष्ठः- “मुण्डो ऽममो ऽपरिग्रहः । सप्तागाराण्य् असङ्कल्पितानि चरेद् भैक्षम्” ।

यमः ।

चरेन् माधूकरीं वृत्तिं वल्मीकनिचयोपमाम् ।

अक्रोधनप्रहृष्टात्मा तपस् तद् धि सनातनम् ॥

प्राजापत्यसहस्रं च भैक्षं च तुलयाधृतम् ।

प्राजापत्यसहस्राद् धि भ्दिक्षम् एवातिरिच्यते ॥

मनुः ।

एककालं चरेद् भैक्षं न प्रसज्येत विस्तरे ।

भैक्षे प्रसक्तो हि यतिर् विषयेष्व् अभिसज्जति ॥

विधूमे सन्नमुसले व्यङ्गारे भुक्तवर्जने ।

वृत्ते शरावसम्पाते भिक्षां नित्यं यतिश् चरेत् ॥

अलाभे न विषादी स्याद् लाभश् चैनं न हर्षयेत् ।

प्राणयात्रिकमात्रः स्यान् मात्रासङ्गाद् विनिर्गतः ॥

अभिपूजितलाभांस् तु जुगुप्सेतैव सर्वशः ।

अभिपूजितलाभैश् च यतिर् मुक्तो ऽपि बध्यते ॥

तथा ।

न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया ।

नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥

न तापसैर् ब्राह्मणैर् वा वयोभिर् अपि वा श्वभिः ।

आकीर्णं भिक्षुकैर् वान्यैर् अगारम् उपसंव्रजेत् ॥

शङ्खः ।

सप्तागारं चरेद् भिक्षां भिक्षुकं नानुभिक्षयेत् ।

नास्वादयेद् रसनया नाश्नीयात् कस्यचिद् गृहे ॥

[५८] याज्ञवल्क्यः।

अप्रमत्तश् चरेद् भैक्ष्यं सायाह्ने ऽनभिलक्षितः ।

रहिते[^३] भिक्षुकैर् ग्रामे यात्रामात्रम् अलोलुपः ॥

एदितिओन् हस् वहिते

बोधायनः ।

अथ बहिक्षचर्या । ब्राह्मणानां शालीनयायावराणाम् अप्रवृत्ते वैश्वदेवे भिक्षां लिप्सेत । भवत्पूर्वं प्रदोदयात् । गोदोहनमात्रम् आकाङ्क्षेत् । अथ भैक्षचर्याद् उपावृत्तः शुचौ देशे न्यस्य हस्तपादान् प्रक्षाल्याचम्यादित्यसाग्रं निवेदयेत् । उद् उत्यं चित्रम् इति ब्रह्मणे निवेदयति । ब्रह्म जज्ञानम् इति विज्ञायते – आधानात् प्रभृति यजमान एवाग्नयो भवन्ति । तस्य प्राणो गार्हपत्यो ऽपानो ऽन्वाहार्यपचनो व्यान आहवनीय उदानसमानौ सभ्यावसथ्यौ पञ्च वा एते ऽग्नयः । आत्मस्थाः आत्मन्य् एव जुहोति । स एव आतमयज्ञ आत्मनिष्ठ आत्मप्रतिष्ठ आत्मानं क्षेमं नयतीति विज्ञायते । भूतेभ्यो दयापूर्वं संविभज्य शेषम् अद्भिः संसृज्यौषधवत् प्राश्नीयात् । प्राश्याप आचम्य2 ज्योतिष्मत्यादित्यम् [५९] उपतिष्ठेत उद् वयं तमसस् परीति वाङ् म आसन् नसोः प्राण इति जपित्वा ।

एदितिओन्- प्राश्नपापश्चाचम्य

अयाचितम् असङ्कॢप्तम् उपपन्नं यदृच्छया।

आहारमात्रं भुञ्जीत केवलं प्राणयात्रिकम् ॥ इति ।

अथाप्य् उदाहरन्ति ।

अष्टौ ग्रासा मुनेर् भोक्तुं षोडशारण्यवासिनः ।

द्वात्रिंशत् तु गृहस्थानाम् अमितं ब्रह्मचारिणः ॥

भैक्षं वा सर्ववर्णेभ्यः एकान्नं वा द्विजातिषु ।

अपि च सर्ववर्णेभ्यो न त्व् एकान्नं द्विजातिषु ॥

देवलः ।

नित्यं प्रत्य् आदित्ये निवृत्तमुसलोद्यमे प्रशान्तधूमे काले ग्रामं प्रविश्य भैक्षार्थं सर्वतः पर्यटन् अग्रतो युगमात्रम् अवलोक्य सङ्कल्पितानि विवृतद्वाराणि अन्यवचने ऽनासक्तः प्रविशेत् । प्रविष्टः सङ्कल्पप्रणयकुहकचिन्मयविलम्बनपरिहासयाचनाप्रेक्षितादि परिहरेत् । गोदोहनमात्रं स्थित्वा व्रजेत् । भिक्षां लब्ध्वा न प्रहृष्येत् । अलब्ध्वा न क्रुध्येत् । अन्त्यवसायिपरिपन्थिज्ञातीश्वरप्रेतभूतकभिक्षां नोपलभ्यां प्रतिहतां गृह्णीयात् । आत्मनः संस्कृतां परबाधाकरीं वर्जयेत् । मधुमांसकुबीजविरहितां गृहीत्वा तद् भैक्षं एकान्ततो नैव पात्रेणान्येन वा तूष्णीं भूत्वा मात्रया भुञ्जीत ।

[६०] हारीतः ।

मृद्दारुविदलालाबुपर्णपाणिपात्रो वा भिक्षार्थं ग्रामं प्रविशेत् । नोच्छिष्टं दद्यान् नोत्सृजेत् । [न विकुत्सयेत्] नातिमात्रम् अश्नीयात् ।

शङ्खलिखितौ ।

काष्ठालाबुविदलपार्थिवानां एकं भैक्षभाजनम् । न तस्य गोवालरज्ज्वा सोदकं परिघर्षणम् । प्रात्यात्मिकं शौचम् । नात्राचामेन् न भूमौ निक्षिपेत् । नाशुचिः संस्पृशेत् । भुक्त्वाचान्तः पुनर् आचम्य द्रव्याण्य् अभ्युक्षयेद् युक्तं यच् चान्यद् अविरुद्धं स्यात् ।

यमः ।

हिरण्मयानि पात्राणि कषायसमयानि च ।

यतीनाम् अन्यपात्राणि वर्जयेत् तानि भिक्षुकः ॥

सुवर्णरूप्यपात्रेषु ताम्रकांस्यायसे शुचिः ।

भिक्षां दत्वा न धर्मो ऽस्ति गृहीत्वा नरकं व्रजेत् ॥

मनुः ।

अतैजसानि पात्राणि तस्य स्युर् निर्व्रणानि च ।

तेषाम् अद्भिः स्मृतं शौचं चमसानाम् इवाध्वरे ॥

नरसिंहपुराणे ।

स्थित्यर्थम् आत्मनो नित्यं भिक्षाटनम् आचरेत् ।

सायाह्ने काले विप्राणां गृहाणि विचरेन् मुनिः ॥

[६१] उद्घाटयेच् च कवचं दक्षिणेन करेण च ।

पात्रं वामकरे स्थाप्य दक्षिणेनावशेषयेत् ॥

स्याद् अर्था यावद् आप्तेन तावद् भैक्षं समाचरेत् ।

ततो निर्वर्त्य तत् पात्रं संस्थाप्यायम्य संयमी ॥

चतुरङ्गुलैः प्रच्छाद्य ग्रासमात्रं समाहितः ।

सर्वव्यञ्जनसंयुक्तं प्रथक् पात्रे निवेदयेत् ॥

सूर्यादिदेवभूतेभ्यो दत्वान्नं प्रोक्ष्य वारिणा ।

भुञ्जीत पर्णपुटके पात्रे वै वाग्यतो यतिः ॥

वटाश्वत्थार्कपत्रेषु कुम्भीतिन्दुकपर्णयोः ।

कोविदारकरञ्जेषु न भुञ्जीत कदाचन ॥

मलाशाः सर्व उच्यन्ते यतयः कांस्यभोजने ।

कांसिकस्य तु यत् पापं गृहस्थस्य तथैव च ॥

कांस्यभोजी यतिः सर्वं प्राप्नुयात् किल्बिषं तयोः ।

भुक्तपात्रे यतिर् नित्यं क्षालयेन् मन्त्रपूर्वकम् ॥

न दुष्येतास्य तत् पात्रं यज्ञेषु चमसा इव ।

अथाचम्य निरुद्धासुः उपतिष्ठेत भास्करम् ॥

जपध्यानेतिहासेषु दिन्शेष्क़्ं नयेद् बुधः ।

कृतसन्ध्यस् ततो रात्रिं नयेद् देवगृहादिषु ॥

हृत्पुण्डरीकनिलये ध्यात्वात्मानम् अकल्मषम् ।

यतिधर्मरतः शान्तः सर्वभूतसमो वशी ।

प्राप्नोति परमं स्थानं यत् प्राप्य न निवर्तते ॥

याज्ञवल्क्यः ।

अभ्यसन्न् अथ वा वेदं न्यस्तकर्मा वने वसन् ।

अयाचिताशी मितभुक् परां सिद्धिम् अवाप्नुयात् ॥

[६२] तथा ।

ज्ञेयं चारण्यकम् अहं यद् आदित्याद् अवाप्नुयात् ।

योगशास्त्रं च यत् प्रोक्तं ज्ञेयं योगम् अभीप्सता ॥

मनुः ।

अधियज्ञं ब्रह्म जपेद् आधिदैविकम् एव च ।

आध्यात्मिकं च सततं वेदान्ताभिहितं च यत् ॥

इदं शरणम् अज्ञानाम्[^५] इदम् एवं विजानताम् ।

एदितिओन्- अज्ञानाद्

इदम् अन्विच्छतां स्वर्गम् इदम् आनन्त्यम् इच्छताम् ॥

ऽअधियज्ञऽं यज्ञविधायकं ब्राह्मणम् । “आधिदैविकम्” देवताप्रकाशकम् । “आध्यात्मिकम्” अहं मनुर् अभवम् अहं रुद्र इत्यादि मन्त्रविशेषः वेदान्ते इत्य् अभिहितः ।

यमः ।

दशद्वादशविंशाख्या चतुर्विंशतिम् एव वा ।

प्राणायामान् अभ्यसेच् च लघ्वाहारो जितेन्द्रियः ॥

अहोरात्रेण विज्ञानाज् जन्तून् हिंस्याद् यदा मुहिः ।

प्राणायामान् दशाष्टौ वा प्रायश्चित्तम् विधीयते ॥

चाक्षुषे दश कुर्वीत वाच्य विंशतिम् एव च ।

मानसे त्रिशतं कुर्याच् छतं वापि यथाविधि ॥

[६३] मनुः ।

अह्ना रात्र्या च यान् जन्तून् हिनस्त्य् अज्ञानतो यतिः ।

तेषां स्नात्वा विशुद्ध्यर्थं प्राणायामान् षड् आचरेत् ॥

प्राणायामा ब्राह्मणस्य त्रयो ऽपि विधिवत् कृताः ।

व्याहृतिप्रणवैर् युक्ता विज्ञेयं परमं तपः ॥

दह्यन्ते ध्मायमानानां[^६] धातूनां हि यथा मलाः ।

एदितिओन्- ध्यायमानानां

तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् ॥

तथा ।

अवेक्षेत गतीर् नृणां कर्मदोषसमुद्भवाः ।

निरये चैव पतनं यातनाश् च यमक्षये ॥

विप्रयोगं प्रियैश् चैव संयोगं च तथाप्रियैः ।

जरया चाभिभवं व्याधिभिश् चोपपीडनम् ॥

देहाद् उत्क्रमणं चास्मात् पुनर् गर्भे च सम्भवम् ।

योनिकोटिसहस्रेषु सृतीश्[^७] चास्यान्तरात्मनः ॥

एदितिओन्- सूतीश्

अधर्मप्रभवं चैव दुःखयोगं शरीरिणाम् ।

धर्मार्थप्रभवं चैव सुखसंयोगम् अक्षयम् ॥

सूक्ष्मतां चान्ववेक्षेत योगेन परमात्मनः ।

देहेषु च समुत्पत्तिम् उत्तमेष्व् अधमेषु च ॥

महाभारते ।

आहारार्थं कर्म कुर्यात् । निन्द्यं कुर्यात् । आहारं प्राणसन्धारणार्थम् प्राणाधार्यास्तत्त्वजिज्ञासार्थम् । तत्त्वं जिज्ञासं येन भूयान्नभूयः ।

[६४] भूषितो ऽपि चरेद् धर्मं यत्र तत्राश्रमे वसन् ।

समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम् ॥

फलं कतकवृक्षस्य यद्य् अप्य् अम्बु प्रसादकम् ।

न नामग्रहणाद् एव तस्य वारि प्रसीदति ॥

तथा ।

अनेन क्रमयोगेन परिव्रजति यो द्विजः ।

स विधूयेह पाप्मानं परं ब्रह्माधिगच्छति ॥

याज्ञवल्क्यः ।

न्यायार्जितधनस् तत्त्वज्ञाननिष्ठो ऽतिथिप्रियः ।

श्राद्धकृत् सत्यवादी च गृहस्थो ऽपि हि मुच्यते ॥

महाभारते ।

कस्यैषा वाग् भवेत् सत्या मोक्षो नास्ति ग्रहाद् इति ।

अश्रद्धधानैर् अज्ञैः सूक्ष्मदर्शनवर्जितैः ॥

अलसैर् अर्वणैर् अल्पज्ञैस् तप्यमानैः स्वकर्मभिः ।

समस्योपरमो दृष्टः प्रव्रज्यानाम् अपण्डितैः ॥

“समस्य” सर्वस्य । मनुः ।

एष धर्मो ऽनुशिष्टो वै यतीनां नियतात्मनाम् ।

वेदसन्न्यासिकानां तु कर्मयोगं निबोधत ॥

**[६५] **ब्रह्मचारी गृहस्थश् च वानप्रस्थो यतिस् तथा ।

एते गृहस्थप्रभवाश् चत्वारः पृथग् आश्रमाः ॥

सर्वे ऽपि क्रमशस् त्व् एते यथाशास्त्रम् अनुष्ठिताः ।

यथोक्तकारिणं विप्रं नयन्ति परमां गतिम् ॥

सर्वेषाम् अपि चैतेषां वेदस्मृतिविधानतः ।

गृहस्थ उच्यते श्रेष्ठः स त्रीन् एतान् बिभर्ति हि ॥

यथा नदीनदाः सर्वे समुद्रे यान्ति संस्थितिम् ।

तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ॥

चतुर्भिर् अपि चाप्य् एतैर् नित्यम् आश्रमिभिर् द्विजैः ।

दशलक्षणको धर्मः सेवितव्यः प्रयत्नतः ॥

धृतिः क्षमा दमो ऽस्तेयं शौचम् इन्द्रियनिग्रहः ।

ह्रीर् विद्या सत्यम् अक्रोधो दशकं धर्मलक्षणम् ॥

दश लक्षणानि धर्मस्य ये विप्राः समधीयते ।

अधीत्य चानुवर्तन्ते ते यान्ति परमां गतिम् ॥

दशलक्षणकं धर्मम् अनुतिष्ठन् समाहितः ।

वेदान्तान् विधिवच् छ्रुत्वा सन्न्यसेद् अनृणो द्विजः ॥

सन्न्यस्य सर्वकर्माणि कर्मदोषान् अपानुदन् ।

नियतो वेदम् अभ्यसन् पुत्रैश्वर्ये सुखं वसेत् ॥	

एवं सन्न्यस्य कर्माणि स्वकार्यपरमो ऽस्पृहः ।

सन्न्यासेनापहत्यैनः प्राप्नोति परमां गतिम् ॥

इति श्रीभट्टहृदयधारात्मजश्रीलक्ष्मीधरविरचिते

*कृत्यकल्पतरौ मोक्षकाण्डे यतिधर्माः *

[६६]

८ — अथ वैराग्यम्

तत्र महाभारते ।

वैराग्यं पुनर् एतस्य मोक्षस्य परमो विधिः ।

ज्ञानाद् एव च वैराग्यं जायते येन मुच्यते ॥

ऽपरमो विधिःऽ परमं साधनम् । “ज्ञानात्” संसारस्य दुःखमयत्वादिविज्ञानात् ।

अथ वैराग्यहेतवः

तत्र तापसभेदाः

तत्र विष्णुपुराणे ।

आध्यात्मिकादि मैत्रेय ज्ञात्वा तापत्रयं बुधः ।

उत्पन्नज्ञानवैराग्यः प्राप्नोत्य् आत्यन्तिकं लयम् ॥

आध्यात्मिको वै द्विविधः शारीरो मानसस् तथा ।

शारीरो बहुभिर् भेदैः भिद्यते श्रूयतां च सः ॥

शिरोरोगप्रतिश्याय ज्वरशूलभगन्दरैः ।

त्रिद्काशश्वाससफतुच्छर्द्यादिभिर् अनेकधा ॥

तथाक्षिरोगातीसारकुष्ठाद्यामयसञ्ज्ञितैः ।

[६७] भिद्यते देहजस् तापो मानसं श्रोतुम् अर्हसि ॥

कामक्रोधभयद्वेषलोभमोहविषादजः ।

शोकासूयावमानेर्ष्यामात्सर्यादिभवस् तथा ॥

मानसो ऽपि द्विजश्रेष्ठ तापो भवति नैकधा ।

इत्य् एवमादिभिर् दोषैः तापो ह्य् आध्यात्मिकः स्मृतः ॥

मृगपक्षिमनुष्यैश् च पिशाचोरगराक्षसैः ।

सरीसृपाद्यैश् च नृणां जन्यते चाधिभौतिकः ॥

शीतोष्णवातवर्षाम्बुवैद्युतादिसमुद्भवः ।

तापो द्विजवर श्रेष्ठैः कथ्यते चाधिदैविकः ॥

गर्भजन्मजराज्ञानमृत्युनारकजं तथा ।

दुःखं सहस्रशो भेदैर् भिद्यते मुनिसत्तम ॥

सुकुमारतनुर् गर्भे जन्तुर् बहुमलावृते ।

उल्बसंवेष्टितो भग्नपृष्ठग्रीवास्थिसंहतिः ॥

अत्यम्लकटुतीक्ष्णोष्णलवणैर् मातृभोजनैः ।

अतितापिभिर् अत्यर्थं वर्धमानातिवेदनः ॥

प्रसारणाकुञ्चनादौ नाङ्गानां प्रभुर् आत्मनः ।

शकृन्मूत्रमहापङ्कशायी सर्वत्र पीडितः ॥

निरुच्छ्वासः सचैतन्यः स्मरन् जन्मशतान्य् अथ ।

आस्ते गर्भे ऽतिदुःखेन निजकर्मनिबन्धनः ॥

जायमानः पुरीषासृङ्मूत्रशुक्राविलाननः ।

प्राजापत्येन वातेन पीड्यमानास्थिबन्धनः ॥

अधोमुखो वै क्रियते प्रबलैः सूतिमारुतैः ।

[६८] क्लेशान् निष्क्रान्तिम् आप्नोति जठरान् मातुर् आतुरः ॥

मूर्च्छाम् अवाप्य महतीं संस्पृष्टो बाह्यवायुना ।

विज्ञानभ्रंशम् आप्नोति जातश् च मुनिसत्तम ॥

कण्टकैर् एव तुन्नाङ्गः क्रकचैर् इव दारितः ।

पूतिव्रणान् निपतितो धर्ण्यां क्रमिको यथा ॥

कण्डूयने ऽपि चाशक्तः परिवर्ते ऽप्य् अनीश्वरः ।

स्नानपानादिकाहारम् अप्य् आप्नोति परेच्छया ॥

अशुचित्प्रस्तरे सुप्तः कीटदंशादिभिः सदा ।

भक्ष्यमाणो ऽपि नैतेषां समर्थो विनिवारणे ॥

जन्मदुःखान्य् अनेकानि जन्मनो ऽनन्तराणि च ।

बालभावे यद् आप्नोति आधिभौतादिकानि च ॥

“तापत्रयम्” दुःखत्रयम् । “उत्पन्नज्ञानवैराग्यः” उत्पन्ने ज्ञानवैराग्ये यस्य सः तथा । ज्ञानं चात्र ब्रह्मविषयकम् । ऽआत्यन्तिको लयोऽ मोक्षः ।

तथा ।

अज्ञानतमसाच्छन्नो मूढान्तःकरणो नरः ।

न जानाति कुतः को ऽहं क्वाहं गन्ता किमात्मकः ॥

केन वन्धेन बद्धो ऽहं कारणं किम् अकारणम् ।

किं कार्यं किम् अकार्यं वा किं वाच्यं किं च नोच्यते ॥

को ऽधर्मः कश् च वै धर्मः कस्मिन् वर्तेत वा कथम् ।

किं कर्तव्यम् अकर्तव्यं किं वा किं गुणदोषवत् ॥

एवं पशुसमैर् मूढैर् अज्ञानप्रभवं महत् ।

अवाप्यते नरैर् दुःखं शिश्नोदरपरायणैः ॥

[६९] अज्ञानं तामसो भावः कार्यारम्भप्रवृत्तयः ।

अज्ञानिनां प्रवर्तन्ते कर्मलोभाश् च भो द्विज ॥

नरकं कर्मणां लोपे फलम् आहुर् मनीषिणः ।

तस्माद् अज्ञानिनां दुःखम् इह चामुत्र चोत्तमम् ॥

जराजर्जरदेहश् च शिथिलावयवः पुमान् ।

विगलच्छीर्णदशनो बलिस्नायुशिरावृतः ॥

दूरप्रणष्टनयनो व्योमान्तर्गततारकः ।

नासाविवरनिर्यातलोमपुञ्जश् चलद्वपुः ॥

प्रकटीकृतसर्वाङ्गो नतपृष्टास्थिसंहतिः ।

प्रशान्तजठराग्नित्वाद् अल्पाहारो ऽल्पचेष्टितः ॥

कृच्छ्राच् चङ्क्रमणोत्थानशयनासनचेष्टितः ।

मन्दीभवच्छ्रोत्रनेत्रो गलल्लालाविलाननः ॥

अनायत्तैः समस्तैश् च करणैर् मरणोन्मुखः ।

तत्क्षणे ऽप्य् अनुभूतानाम् अस्मर्ताखिलवस्तुनाम् ॥

सकृदुच्चारिते वाक्ये समुद्भूतमहाश्रमः ।

श्वासकाशमहायाससमुद्भूतप्रजागरः ।

अन्येनोत्थाप्यते ऽन्येन तथा संवेश्यते जरी ॥

भृत्यात्मपुत्रदाराणाम् अपमानपराकृतः ।

प्रक्षीणाखिलशौचश् च विहाराहारसस्पृहः ॥

हास्यः परिजनस्यापि निर्विण्णाशेषबान्धवः ।

अनुभूतम् इवान्यस्मिन् जन्मान्य् आत्मविचेष्ठितम् ॥

संस्मरण् यौवने ऽत्यर्थं विश्वसित्यतितापितः ।

एवम् एतानि दुःखानि जरायाम् अनुभूय वै ॥

[७०] मरणे यानि दुःखानि प्राप्नोति शृणु तान्य् अपि ।

श्लथग्रीवाङ्घ्रिपादो ऽथ व्याप्तो वेपथुना नरः ॥

मुहुर् ग्लानीपरवशो मुहुर् ज्ञानलवान्वितः ।

हिरण्यधान्यतनयभार्याभृत्यगृहादिषु ॥

एते कथं भविष्यन्तीत्य् अतीव ममताकुलः ।

मर्मभिद्भिस् तथा रोगैः क्रकचैर् इव दारुणैः ॥

शरैर् इवान्तकस्योग्रैश् छिद्यमानासुबन्धनः ।

विवर्तमानताराक्षिर् हस्तपादं मुहुः क्षिपन् ॥

संशुष्यमाणताल्वोष्ठपुटो घुरघुरायते ।

निरुद्धकण्ठो दोषौघैः उदान्श्वासपीडितः ॥

ततश् च यातनादेहं क्लेशेन प्रैपद्यते ।

एतान्य् अन्यानि चोग्राणि दुःखानि मरणे नृणाम् ॥

“कार्यारम्भप्रवृत्तयो” अत्र निषिद्धकाम्यगोचराः । “कर्मलोपो” नित्यनैमित्तिकाकरणम् ।

देवलः ।

यद् दुःखं म्रियमाणस्य यद् दुःखं मातुराश्ये ।

नान्यत्र ह्य् उपमा लोके जिवताम् अन्तरे तयोः ॥

विष्णुपुराणे ।

गर्भवासादि यावत् तु पुनर्जन्मोपपादनम् ।

समस्तावस्थकं तावद् दुःखम् एव हि देहिनाम् ॥

[७१] क्षुत्तृष्णोपशमं तद्वच् छीताद्युपशमं सुखम् ।

मन्यते बालबुद्धित्वात् दुःखम् एव हि तत् पुनः ॥

अत्यन्तस्तिमिताङ्गानां व्यायामेन सुखैषिणाम् ।

भ्रान्तिज्ञानावृताङ्गानां प्रहारो ऽपि सुखायते ॥

तथा ।

अग्नेः शीतेन तोयस्य तृषा भकस्य च क्षुधा ।

क्रियते सुखकर्तृत्वं तद् धि लोपस्य चेतरैः ॥

तथा ।

नरके यानि दुःखानि पापहेतूद्भवानि वै ।

प्राप्यन्ते नारकैर् विप्र तेषां सङ्ख्या न विद्यते ॥

न केवलं द्विजश्रेष्ठ नरके दुःखपद्धतिः ।

स्वर्गे ऽपि तात भीतस्य क्षयिष्णोर् नास्ति निर्वृतिः ॥

पुनश् च गर्भे भवति जायते च पुनः पुनः ।

गर्भे विलीयते भूयो जायमानो ऽस्तम् एति च ॥

जातमात्रश् च म्रियते बालभावे ऽथ यौवने ।

मध्यमं वा वयः प्राप्य वार्धिके च ध्रुवा मृतिः ॥

यावज् जीवति तावच् च दुःखैर् नानाविधैः प्लुतः ।

तन्तुकारणपक्ष्मौघैर् आस्ते कार्पासबीजवत् ॥

द्रव्यनाशे तथोत्पत्तौ पालने च सदा नृणाम् ।

भवत्य् अनेकदुःखानि तथैवेष्टविपत्तिषु ॥

यद् यत् प्रतीकरं पुंसां वस्तु मैत्रेय जायते ।

तद् एव दुःखवृक्षस्य मूलत्वम् उपगच्छति ॥

[७२] कलत्रमित्रपुत्रात्मगृहक्षेत्रधनादिकैः ।

क्रियते न तथा भूरि सुखं पुंसां तथा सुखम् ॥

इति संसारदुःखार्कतापतापितचेतसाम् ।

विमुक्तिपादपच्छाया मृते कुत्र सुखं नृणाम् ॥

तद् अस्य त्रिविधस्यापि दुःखजातस्य पण्डितैः ।

गर्भजन्मजराद्येषु स्थानेषु प्रभविष्यतः ॥

निरस्तातिशयाह्लादसुखभावैकलक्षणा ।

भेषजं भगवत्प्राप्तिर् एकान्तात्यन्तिकी मता ॥

तस्मात् तत्प्राप्तये यत्नः कर्तव्यः पण्डितैर् नरैः ।

तत्प्राप्तिहेतुर् ज्ञानं च कर्म चोक्तं महामुने ॥

“पक्ष्मौघर्” अंशुसमूहैः निरस्तातिशयाह्लादिसुखभावैकलक्षणा निरतिशयसुखरूपेत्य् अर्थः । “आत्यन्तिकी” सर्वम् अतीत्योच्चैः पदे स्थिता ।

अथानित्यता

तत्र विष्णुः ।

एवम् अस्मिन् निरालम्बे काले सततयायिनि ।

न तत् भूतं प्रपश्यामि स्थितिर् यस्य भवेद् ध्रुवा ॥

गङ्गायाः सिकता धारास् तथा वर्षति वासवे ।

शक्या गणयितुं लोके न व्यतीताः पितामहाः ॥

चतुर्दश विनश्यन्ति कल्पे कल्पे सुरेश्वराः ।

सर्वलोकप्रधानाश् च मनवश् च चतुर्दश ॥

बहूनीन्द्रसहस्राणि दैत्येन्द्रनियुतानि च ।

विनष्टानीह कालेन मनुजेष्व् इह का कथा ॥

[७३] राजर्षयश् च बहवः सर्वैः समुदिता गुणैः ।

देवा ब्रह्मर्षयश् चैव कालेन निधनं गताः ॥

ये समर्था जगत्य् अस्मिन् सृष्टिसंहारकारणाः ।

ते ऽपि कालेन हीयन्ते कालो हि बलवत्तरः ॥

महाभारते ।

अविश्रान्तम् अनाल्म्बं अपाथेयम् अदैशिकम् ।

तमःकान्तारम् अध्वानं कथम् एको गमिश्यसि ॥

यदा विसञ्ज्ञः स्थिरनिश्चलेक्षणः

	प्रयत्नहिक्कः श्व्सनाद्यधिष्ठितः ।

तमो महान् श्वभ्रम् इवोपनीयसे 

	तदा क्व दाराः क्व पुत्राः क्व बान्धवाः ॥

निराधिनो ऽद्य ध्रुवजीवितस्य 

	किं बन्धुभिर् मित्रपरिग्रहैश् च ।

विहाय योगक्षति सर्वम् एव

	क्षणेन गत्वा न निवर्तते च ॥

किं ते धनैः किं तव बन्धुभिर् वा 

	किं ते दारैर् ब्राह्मण यो मरिष्यसि ।

आत्मानम् इच्छंश् च गुहां प्रविष्टं

	पितामहास् ते क्व गताः पिता च ॥

तुल्यजातिवयोरूपान् हृतान् पश्यसि मृत्युना ।

कथं ते नास्ति निर्वेदो लोहो हि हृदयं तव ॥

मस्तकस्थापितं मृत्युं यदि पश्येद् अयं जनः ।

आहारो ऽपि न रोचेत किम् उताकार्यकारिता ॥

न ते पुत्रक निर्वेदो मुमूर्षोर् न भविष्यति ।

[७४] विमूढेन्द्रियवर्गस्य स तु नार्थं करिष्यति ॥

बहुकृत्वो निरुद्योगः जागर्तव्ये प्रतप्तकः ।

विश्रम्भकभयस्थाने हा पुत्रक विहन्यसे ॥

मृत्योर् बिभेषि किं मृत्युर् न स भीतं विमुञ्चति ।

अजातं नैव गृह्णाति कुरु यत्नम् अजन्मनि ॥

महता पुण्यपण्येन क्रीतेयं कायनौस् त्वया ।

पारं क्लेशोदधेर् गन्तुं त्वर यावन् न भिद्यते ॥

एवम् अत्याहिते लोके कालेनोपनिपीडितैः ।

सुमहद्धैर्यम् आस्थाय मनो मोक्षे निवेशयेत् ॥

“अदैशिकम्” मार्गोपदेशरहितम् । “तमःकान्तारम्” तमसा दुर्गम् । “स्थिरनिश्चलेक्षणः” स्थिरो निश्चेष्टो निश्चलेक्षणश् चासौ स तथा । ऽगुहां प्रविष्टम्ऽ दहरविद्योपदिष्टम् ।

अथ विषयनिन्दा

तत्र महाभारते ।

विषयाणां च दौरात्म्याद् इन्द्रियाणां च चापलात् ।

मनसश् चानवस्थानात् सर्वः कृच्छ्रेषु वर्तते ॥

विषयान् प्रत्यनुसरन् प्राप्नोति सुमहद् भयम् ।

श्येनच्छायाम् अनुपतन् कपिञ्चल इवातपे ॥

जन्मान्तरशताभ्यस्ता विषयेषु रतिर् नृणाम् ।

जरद्गौर् इव सस्येषु सा हि दुःखेन वार्यते ॥

[७५] देवलः ।

भुक्तानि यानि तान्य् एष भोक्तव्यानि पुनर् नृभिः ।

इति दृष्टार्थतत्त्वस्य पुनरुक्तम् इदं जगत् ॥

महाभारते ।

इषुप्रपातमात्रं हि स्पर्शयोगे रतिः स्मृता ।

दर्शने रसने घ्राणे श्रवेणे च विशेषतः ॥

ततो ऽस्य जायते तीव्रा वेदना तत्क्षणात्मिका ।

कण्ठनालात् प्रलुठितं स्वाद्वस्वाद्वशनं समम् ॥

आवाद्यस्य हि सर्वस्य जिह्वाग्रे सन्धिविग्रहः ।

दिवसे दिवसे चैव रात्रौ रत्रौ तथा सदा ॥

भोक्तव्यम् इति यत्तन्तो (?) दोषबुद्धिः स उच्यते ।

जिह्वोपस्थनिमित्तं हि पतनं सर्वदेहिनाम् ॥

अहेर् इव गणाद् भीतो मिष्टान्नाच् च विषाद् इव ।

राक्षसीभ्य इव स्त्रीभ्यः स विद्याम् अभिगच्छति ॥

“इषुप्रपात्म्” इत्य् अल्पकालोपलक्षणम् ।

तथा ।

मात्रास्पर्शास् तु कौन्तेय शीतोष्णसुखदुःखदाः ।

आगमापायिनो नित्यास् तांस् तितिक्षस्व भारत ॥

यं हि न व्यथयन्त्य् एते पुरुषं पुरुषर्षभ ।

समदुःखसुखं धीरं सो ऽमृतत्वाय कल्पते ॥

“मात्रास्पर्शाः” विषयसम्बन्धाः ।

[७६] दक्षः ।

विषयासक्तवित्तस् तु कश्चिन् मोक्षं न विन्दति ।

यत्नेन विषयासङ्गं तस्माद् योगी विवर्जयेत् ॥

मार्कण्डेयपुराणे ।

हासो ऽस्थिसन्दर्शनम् अक्षियुग्मम्

	अत्युज्वलं तर्जनम् अङ्गनायाः ।

कुचादि पीनण्ण् पिशितं घनं तत्

	स्थानं रेतः किं नरकं न योषित् ॥

महाभारते ।

यस्य जिह्वा सहस्रं स्याज् जीवेच् च शरदां शतम् ।

अनन्यकर्मा स्त्रीदोषान् अनुक्त्वा निधनं व्रजेत् ॥

अङ्गारसदृशी नारी घृतकुम्भसमः पुमान् ।

ये ऽत्र सक्ता विलीनास् ते ये स्थितास् ते दिवं गताः ॥

न सुप्तेन जयेन् निद्रां न पानेन तृषां जयेत् ।

नेन्धनेन जयेद् अग्निं न कामेन स्त्रियं जयेत् ॥

यान्य् एव मलवाहीनि पूतिछिद्राणि योषिताम् ।

तान्य् एव खलु काम्यानि अहो पुंसां विडम्बना ॥

येषु येषु प्रदेशेष् कायो ऽत्यन्तं जुगुप्सितः ।

तेषु सक्तरतो लोको वैराग्यं केन यास्यति ॥

स्त्री नाम मायाविकृतिः क्रोधमात्सर्यविग्रहम् ।

दूरात् त्यजेद् अनार्यां तां ज्वलनामेध्यवद् बुधः ॥

अथार्थनिन्दा

तत्र महाभारते ।

अर्थानाम् आर्जने दुःखम् आर्जितानां च रक्षणे ।

नाशे दुःखं व्यये दुःखं धिग् अर्थान् शोकवर्धनान् ॥

विमोहयन्ति सम्पत्सु तापयन्ति विपत्तिषु ।

खेदयन्त्य् अर्जने काले कदा भोगाः सुखावहाः ॥

यथा ह्य् आमिषम् आकाशे पक्षिभिः श्वापदैर् भुवि ।

भक्ष्यते सलिले मत्स्यैः तथा सर्वत्र वित्तवान् ॥

राजतः सलिलाद् अग्नेश् चौरतः स्वजनाद् अपि ।

भयम् अर्थवतां नित्यं मृत्योः प्राणभृताम् इव ॥

तथा ।

कार्पण्यदर्पमानौ च भयं वा भ्रमम् एव च ।

अर्थजान् विविदुः प्राज्ञा दोषान् एतांस् तु देहिनः ॥

अर्थलोभेन पुरुषैर् वेषः स्त्रीभिर् इव स्वयम् ।

आत्मा संस्कृत्य संस्क्र्त्य परोपकरणीकृतः ॥

तथा ।

सम्पदः प्रमदाश् चैव तरङ्गोत्सङ्गभङ्गुराः । 

कस् तास्व् अहिफलच्छत्रछायास्व् इव रमेद् बुधः ॥

को हि नाम श्रियं वाञ्छेत् फुल्लां विषलताम् इव ।

सविषस्येव पानस्य वश्यः सव्यसनो मदः ॥

नैषा गुणेषु रमते नैगुण्यान् न निवर्तते ।

उन्मत्ता गौर् इवान्धा श्रीः क्वचिद् एवावतिष्ठते ॥

[७८] अचेष्टमानम् आसीनं श्रीः कञ्चिद् उपतिष्ठते ।

कश्चित् कर्मापि कुर्वन् हि न प्राप्यम् अधिगच्छति ॥

तथा ।

सार्वभौमश् च यो राजा यात्रामात्रपरश् च यः ।

उपभोगस् तयोस् तुल्यः क्लेशधर्मौ तु विस्तरौ ॥

अथ पुत्रदारादिनिन्दा

तत्र महाभारते ।

सञ्चिनोत्य् अशुभं कर्म कलत्रापेक्षया नरः ।

एकः क्लेशान् अवाप्नोति परत्रेह च दुःखितः ॥

पुत्रदारकुटुम्बेषु मग्नाः सीदन्ति जन्तवः ।

सरःपङ्कार्णवे मग्नाः शीर्णा वनगजा इव ॥

पुत्रनाशे ऽर्थनाशे वा ज्ञातिसम्बन्धिनाम् अपि ।

प्राप्यते सुमहद्दुःखं दावाग्निप्रतिमं विभो ॥

तथा ।

मातापितृसहस्राणि पुत्रदारशतानि च ।

अनुभूतानि संसारे कस्य ते कस्य वा वयम् ॥

व्रजमानो यथाध्वानं छायाम् आश्रितस्य विश्रमेत् ।

विश्रम्य च पुनर् गच्छेत् तद्वद् भूतसमागमः ॥

सहजेन विरज्यन्ते पत्ररागेण पादपाः ।

अन्येनान्यस्य विश्लेषः कथन्तु न भविष्यति ॥

नायम् अत्यन्तसंवासः कस्यचित् केनचित् सह ।

अपिस्वेन शरीरेण किम् उतान्यैः पृथग्जनैः ॥

[७९] संयोगा विप्रयोगास् तु जातानां प्राणिनां ध्रुवम् ।

बुद्बुदा इव तोयेषु भवन्ति न भवन्ति च ॥

अलं परिग्रहेणेह दोषवांस् तु परिग्रहः ।

कृमिर् हि कोशकारस् तु बध्यते स्वपरिग्रहात् ॥

यावतः कुरुते बन्धुः सबन्धान् मनसः प्रियान् ।

तावतो ऽस्य निखन्यन्ते हृदये शोकशङ्कवः ॥

मानसं दुःखमूलं हि स्नेह इत्य् उपलक्ष्यते ।

स्नेहाद् विसृज्यते जन्तुः दुःखयोगम् उपैति च ॥

स्नेहमूलानि दुःखानि स्नेहजानि भयानि च ।

लोकहर्षौ तथायासः सर्वं स्नेहात् प्रवर्तते ॥

अथ स्वर्गदूषणम्

तत्र महाभारते ।

स्वर्गकामो यजेतेति श्रूयते सततं श्रुतिः ।

फलं प्रकल्प्यापूर्वं हि ततो यज्ञः पर्वर्तते ॥

अत्रापि च विशेषो ऽस्ति दिवि नीचोच्चमध्यमः ।

न तत्राप्य् अस्ति सन्तोषो दृष्ट्वा दीप्तां परश्रियम् ॥

कृतस्य कर्मणः स्वर्गे भुज्यते कर्तृभिः फलम् ।

न चान्यत् क्रियते कर्म मूलच्छेदेन भुज्यते ॥

सुखव्याप्तमनस्कानां सहस्ताभ्यागतापदाम् ।

सञ्ज्ञामोहश् च पततां रजसा च प्रधर्षणम् ॥

प्रम्लानेषु च माल्येषु ततः पिपतिषोर् भयम् ।

आ ब्रह्मभवनाद् एते दोषा ब्रह्मन् सुदारुणाः ॥

स्वर्गभाजः प्राप्नुवन्ति तस्मात् स्वर्गं न कामयेत् ।

[८०] सुहृज्ज्ञातिसजातीयैर् यथोरु-

	क्षीणे वित्ते त्यज्यते मानवो हि ।

तथा तस्मिन् क्षीणपुण्यं मनुष्यं

	त्यजन्ति सर्वे सेश्वरा देवसङ्घाः ॥

ऽरसजा च प्रधर्षणऽं रजोगुणेनाभिभवः ।

मार्कण्डेयपुराणे ।

स्वर्गे ऽपि दुःखम् अतुलं यद् आरोहणकालतः ।

प्रभृत्य् अहं पतिष्याम् इत्य् एतन् मनसि वर्तते ॥

नरकांश् चापि सम्प्रेक्ष्य महद् दुःखम अवाप्यते ।

एतां गतिम् अहं गन्तेत्य् अहर् निशम् अनिर्वृतः ॥

९ — अथ कामादिवर्जनम्

तत्र महाभारते ।

हृदि कामद्रुमश् चित्ते मोहसञ्चयसम्भवः ।

क्रोधमानमहास्कन्धो विचिकित्सात्वगावृतः ॥

तस्य चाज्ञानम् आधारः प्रमादः परिषेचनम् ।

अभ्यसूयापलाशो हि पूर्वदुष्कृतसारवान् ॥

सम्मोहस्कन्धविटपः शोकशाखाभङ्करः ।

मोहिनीभिः पिपासाभिर् लताभिः परिवेष्टितः ॥

तस्यानुशयमूलस्य मूलम् अभ्युक्षरेद् बलात् ।

त्यागप्रसादतीक्ष्णेन सौम्येन पर्मासिना ॥

“सौम्येन” शान्तिकरेण । हारीतः ।

सङ्कल्पात् कामः सम्भवति । आशयाच् च वर्धते स्नेहान् निबध्नाति स ह इच्छालक्षणो ऽनेकविधः कामो येनाभिभूतः । अतृप्त इव कामानां लोको ह्य् अनेन जन्मसंसारकामावर्ते निमज्जति । स एषो ऽनलः कामः “कामो हि भगवान् वैश्वानर” इति श्रुतिः । तस्यासङ्कल्पो नियमनम् ।

[८२] महाभारते ।

सर्वोपायेन कामस्य क्रोधस्य च विनिग्रहः ।

कार्यः श्रेयोर्थिना तौ हि श्रेयोविघ्नार्थम् उद्यतौ ॥

स्वादुकामुककामानां वैतृष्यं किं न वाञ्छसि ।

मधु पश्यसि दुर्बुद्धे प्रपातं किं न पश्यसि ॥

यद् यत् त्यजति कामानं तत् सुखस्यातिपूर्यते ।

कामानुसारी पुरुषः कामान् (?) अनुविनश्यति ॥

यः कामान् आप्नुयात् सर्वान् यस् चैतान् सकलान् त्यजेत् ।

प्रापणात् सर्वकामानां परित्यागो विशिष्यते ॥

मार्कण्डेयपुराणे ।

कामः सर्वात्मना हेयो हातुं चेत् स न शक्यते ।

मुमुक्षां प्रति कार्यः स स वै तस्यापि भेषजम् ॥

हारीतः ।

क्रोधाग्निनाभिभूतः, स्वेषाम् अप्य् अबहुमतो, नाधिगमनीयो ऽविश्वसनीयश् च भवति । कार्याकार्यवाच्यावाच्यानि न वितर्कयति । हितवादिनो गुरून् अप्य् अतिक्रामत्य् अत्याविष्टः । प्रेतलोकायात्मानं नयति । तत्र घोरां निरयप्रायां यातनाम् अनुभूय क्रूरक्रव्यादासु तिर्यग्योनिषु जायते । तत्र सर्वासां प्रजानां वध्यो भवति । क्रमात् मनुष्यतां प्राप्य सर्वजनविद्विष्टताम् उपैति । क्रोधो हि तमोरूपस् तस्य क्षमा नियमनम् ।

[८३] विष्णुपुराणे ।

मूढानाम् एव भवति क्रोधो ज्ञानवतां कुतः ।

हन्यते तात कः केन यतः सुकृतभुक् पुमान् ॥

महाभारते ।

न पण्डितः क्रुध्यति नाभिषज्जते 

	न चापि संसीदति न परुष्यति ।

ना चातिकृच्छ्रव्यसनेषु शोचति

	स्थितः प्रकृत्या हिमवान् इवाचलः ॥

श्रीरामायणे ।

धन्यास् ते पुरुषव्याघ्र ये बुद्ध्या कोपम् उत्थितम् ।

निरुन्धन्ति महात्मानो दीप्तम् अग्निम् इवाम्भसा ॥

महाभारते ।

अथ केन प्रयुक्तो ऽयं पापं चरति पूरुषः ।

अनिच्छन्न् अपि वार्ष्णेय बलाद् इव नियोजितः ॥

श्रीभगवान् उचाच ।

काम एष क्रोध एष रजोगुणसमुद्भवः ।

महाशनो महापाप्मा विद्ध्य् एनम् इह वैरिणम् ॥

धूमेनाव्रियते वह्निर् यथादर्शो मलेन च ।

यथोल्बेनावृतो गर्भस् तथा तेनेदम् आवृतम् ॥

आवृतं ज्ञानम् एतेन ज्ञानिनो नित्यवैरिणा ।

कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥

[८४] इन्दिर्याणि मनो बुद्धिर् अस्याधिष्ठानम् उच्यते ।

एतैर् विमोहयत्य् एष ज्ञानम् आवृत्य देहिनम् ॥

तस्मात् त्वम् इन्दिर्याण्य् आदौ नियम्य भरतर्षभ ।

पाप्नानं प्रजहि ह्य् एनं ज्ञानविज्ञाननाशनम् ॥

तथा [महाभारते]

एको लोभो महाग्राहो लोभात् पापं प्रजायते ।

ततः पापाद् अधः प्राप्तिस् ततो दुःखं प्रपद्यते ॥

पापानां विध्यधिष्ठानं लोभम् एकं नराधिप ।

लोभात् पापानि कुर्वन्ति सुविद्वांसो ऽपि मानवाः ॥

क्रोधो लोभश् च निन्दा च पौशुन्यं मत्सरस् तथा ।

एवम् एतानि राजेन्द्र लुब्धानाम् अकृतात्मनाम् ॥

असन्तोष्ō ऽसुखायैव लोभाद् इन्द्रियविभ्र्मः ।

ततो ऽस्य नश्यते प्रज्ञा विद्येवाभ्यासवर्जिता ॥

देवलः ।

अथातः पापदोषान् मनोवाक्यशरीरजान् व्याख्यास्यामः । तत्र मोहरागद्वेषमानलोभमदशोकममत्वाहङ्कारभयहर्षमोघवित्ताश् चेति द्वादश् मानसाः ।

तेषां च त्रिविधो मोहसम्भवः सर्वपाप्मनाम् ।

अज्ञानं संशयज्ञानं मिथ्याजानम् इति त्रिकम् ॥

विज्ञानं सर्वविद्यानाम् अर्थानां स्वयम् ऊहनम् ।

दोषैर् अधर्षणं चेति ज्ञानम् अज्ञानम् अन्यथा ॥

अश्रेयःश्रेयसोर् मध्ये भ्रमणं संशयो भवेत् ।

मिथ्याज्ञानम् इति प्राहुर् अहिते हितदर्शनम् ॥

[८५] भवत्य् अधर्माद् अज्ञानम् अविद्यातश् च संशयः ।

उभाभ्याम् अन्यथा ज्ञानं पापिष्ठम् उपजायते ॥

अज्ञानाद् दुःखसम्प्राप्तिः संशयाद् बध्यते पुनः ।

मिथ्याज्ञानत् पतत्य् एव मूढस् तामिस्रयोनिषु ॥

आवृत्ता विषयाः सर्वे दोषैर् दोषैर् यथा तनुः ।

गुणतो हृदि तान् क्र्त्वा रागो रागस्य लक्षणम् ॥

स सन्निकर्षाद् अज्ञानात् सङ्कल्पाद् अभिमानतः ।

सुखाच् च जायते रागो विषयेषु शरीरिणाम् ॥

ज्ञानद्वेषाद् असामर्थ्यात् क्लेशाद् अन्यप्रसङ्गतः ।

वियोगात् कालतः शोकात् धर्माच् च विनिवर्तते ॥

निवर्तते चेद् रगो ऽयं पुंसो द्वेषादिहेतुभिः ।

भूयो ह्य् उत्पद्यते सङ्गात् ज्ञानान् नश्यति केवलम् ॥

अतिप्रसक्तो भोगेषु रागो भवति दोषकृत् ।

परस्त्रीषु परस्वेषु किञ्चित् प्रार्थनयापि च ॥

रोषो ऽमर्षो ऽभ्यसूया च द्रोहो मिथ्या वितर्कितम् ।

दुःखार्हश् चेति दोषज्ञैर् दोषः षोढाभिधीयते ॥

य उष्मा हृदये जन्तोः समुत्तिष्ठति वैकृतः ।

परानिष्टचिकीर्षायां स रोष इति सञ्ज्ञितः ॥

पुराभावसमुत्थेन दोषेणैवाभिदेशितः ।

किञ्चिद्दृष्ट्यैव यो द्वेषस् तद् अमर्षस्य लक्षणम् ॥

परस्य दृष्ट्वा श्रुता वा स्वगुणाभ्यधिकान् गुणान् ।

नाभिनन्दति यो द्वेषात् साभ्यसूयेत्य् उदाहृता ॥

सुहृदाम् अपि यो नित्यम् अर्थान् अप् जिघांसति ।

[८६] असौहृदमतिः पापस् तद् आहुर् द्रोहलक्षणम् ॥

यः साधून् अपदोषांश् च मन्यते दोषकारिणः ।

मिथ्या वितर्कितं चेति तद् आहुर् भावदोषजम् ॥

लोभाद् द्वेषाच् च सङ्कल्पः चिन्तनं पापकर्मणाम् ।

दुःखार्हम् इति विज्ञेयं पुर्वदुष्कृतसम्भवन् ॥

दुःखाद् द्रव्याभिधानाच् च दोषो ऽयं षड्विधो भवेत् ।

ज्ञानात् कालात्ययात् धर्मात् प्रीतेश् च विनिवर्तते ॥

विष्णुपुराणे ।

तापत्रयेणाभिहतं य एतद् अखिलं जगत् ।

तदाशोच्येषु भूतेषु द्वेषं प्राज्ञः करोति कः ॥

अथ भद्राणि भूतानि हीनशक्तिर् अहम्परम् ।

मुदं तथापि कुर्वीत हानिर् द्वेषफलं यतः ॥

सर्वभूतात्मके तात जगन्नाथे जगन्मये ।

परमात्मनि गोविन्दे मित्रामित्रकथा कुतः ॥

देवलः ।

अतत्त्वग्रहणं तापो वेपथुर् ज्ञानसम्प्लवः ।

स्वेदो ऽक्षिरोगः पारुष्यं ग्रामश् च द्वेषदोषजाः ॥

सर्वत्रोत्कृष्टम् आत्मानं सर्वेभ्यो यो निष्ध्यते ।

समान इति विज्ञेयो यथेष्टस्पष्टवाक्क्रियः ॥

परान्नं परभोगांश् च परसामर्थ्यम् एव च ।

दृष्ट्वा श्रुत्वा च या तृष्णा जायते लोभ एव च ॥

[८७] नास्ति तृष्णासमं दुःखं नास्ति त्यागसमं सुखम् ।

तस्मात् तु लोभसञ्जातां तृष्णां विद्वान् परित्यजेत् ॥

प्राप्यापि मेदिनीं कृत्स्नां तृष्णा नास्य प्रशाम्यति ।

विवर्धते हि भूयो ऽपि सा शिखेव विभावसोः ॥

दुःखादित्वात् दुरन्तत्वात् अधर्मत्वाद् अतृप्तितः ।

पश्चाच् छोकावहत्वाच् च क्वचिच् छ्रेयसी तृषा ॥

वृद्धशातातपः ।

कस् तृणां शमयेद् भौमैर् दीर्धैर् उत्तरलङ्घनम् ।

पुरो दीर्घां पदन्यासे छायां सायन्तनीम् इव ॥

विष्णुपुराणे ।

मनोरथानां न समस्तिर् अस्ति

	वर्षाशते नाप्य् अथ वाब्दलक्षैः ।

पूर्णेषु पूर्णेषु पुनर् नवानाम्

	उत्पत्तयः सन्ति मनोरथानाम् ॥

पद्भ्यां गता यौवनीनश् च जाता

	दारैश् च संयोगमिता प्रसूता ।

दृष्टा सुतास् तत्तनयं प्रसूतिं

	दृप्तं पुनर् वाञ्छति मे ऽन्तरात्मा ॥

द्रक्ष्यामि तेषाम् अपि चेत् प्रसूतिं

	मनोरथो मे भविता ततो ऽन्यः ।

पूर्णे ऽपि तत्राप्य् अपरस्य जन्मनः

	निवार्यते केन मनोरथस्य च ॥

[८८] आ मृत्युतो नैव मनोरथानाम्

	अन्तो ऽस्ति विज्ञानम् इदं ममाद्य ।

मनोरथासक्तिपरस्य चित्तं

	न जायते वै परमार्थसञ्ज्ञम् ॥

पूर्णं वर्षसहस्रं मे विषयासक्तचेतसः ।

तथाप्य् अनुदितं तृष्णा मम तेष्व् एव जायते ॥

तस्माद् एतान् अहं त्यक्त्वा ब्रह्मण्य् आधाय मानसम् ।

निर्द्वन्द्वो निर्ममो भूत्वा चरिष्यामि मृगैः सह ॥

महाभारते ।

तृष्णा हिस् सर्वपातिष्ठा नित्योद्वेगकरी मता ।

अधर्मबहुला चैव घोरा पापानुवर्धिनी ॥

आशा हि पुरुषं बाल नालापयति तस्थिषी ।

तस्माद् वैकल्यम् आसाद्य ध्रुवो मृत्युर् न संशयः ॥

आसन्नान् परतो भावान् दर्शयित्वा पदे पदे ।

छागो हरितमुख्येव दूरं नीतो ऽस्मि तृष्णया ॥

यौवनं जरया ग्रस्तम् आरोग्यं व्याधिभिर् हतम् ।

जीवितं मृत्युर् अभ्येति तृष्णैका निरुपद्रवा ॥

जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः ।

जीर्यते जीर्यतः सर्वं तृष्णैका तु न जीर्यते ॥

यथा शृङ्गं तयोः काले वर्धमानेन वर्धते ।

एवं हि तृष्णा वित्तेन वर्धमानेन वर्धते ॥

अकर्तव्येषु साध्वीवत् तृष्णा प्रेरयते नरम् ।

तम् एव सर्वपापेभ्यो लज्जा मातेव रक्षति ॥

अकृतस्यागमो नास्ति कृते नाशो न विद्यते ।

अकस्माद् एव लोको ऽयं तृष्णे दासीकृतस् त्वया ॥

[८९] तृष्णा खनिर् अगाधेयं दुष्पूरा केन पूर्यते ।

या महद्भिर् अपि क्षिप्तैः पूरणिर् एव खन्यते ॥

तथा ।

सुखं निराशः स्वपिति नैराश्यं परमं सुखम् ।

आशां निराशतः कृत्वा सुखं स्वपिति पिङ्गला ॥

सर्वत्र सम्पदस् तत्र सन्तुष्टं यस्य मानसम् ।

उपानद्गूढपादस्य ननु चर्मावृतैव भूः ॥

अन्तो नास्ति पिपासायाः सन्तोषः परमं सुखम् ।

तस्मात् सन्तोषम् एवेह धनम् इच्छन्ति पण्डिताः ॥

यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः (?) ।

नालम् एकस्य तत् सर्वम् इति मत्वा शमं व्रजेत् ॥

ऽनालम् एकस्यऽ इत्य् अलंशब्दः पर्याप्तौ । देवलः ।

कुलबुद्धिवपुर्विद्यावित्तैश्वर्यविभूतिभिः ।

स्वैर् एतैर् बाधते यो ऽन्यं तन् मदस्येह लक्षणम् ॥

देवासुरमनुष्याणाम् उत्सिक्ता मदहेतवः ।

मदेनैव विनेषुस् ते तस्मात् त्याज्यो मदो बुधैः ॥

हर्षोत्सेकावलेपाश् च दम्भो दर्पो ऽथ गर्विता ।

अन्ये च ते द्विधा भावास् ते मदस्य विकल्पजाः ॥

अनिष्टयोगजाद् द्वेषात् स्नेहादिष्टवियोगजान् ।

क्लेशाद् वा हृदि यद् दुःखं स शोक इति पठ्यते ॥

अनित्याः सर्वभावाश् चेच् छोकस् तत्र निरर्थकः ।

अथ वा यदि नित्याः स्युः कुतः शोकः प्रवर्तते ॥

[९०] नैवं हि शोचेत् सत्त्वस्थस् तामसे वापि केवलम् ।

शोकाद् दुःखम् अवाप्नोति समासेनेह रागतः ॥

ऽनैवं हि शोचेद्ऽ इत्य् एवम् उक्तप्रकारेण पर्यालोचयन् न दुःखम् अवाप्नोति इत्य् अर्थः ।

महाभारते ।

यदि मे पश्यतः कालो भूतानि न विदारयेत् ।

स्यान् मे हर्षश् च शोकश् च क्रोधश् चैव शचीयते ॥

भूतानां निधनं दिष्ट्या स्रोतसाम् इव सागरे ।

नैतत् सम्यग् विजानाति न वा मुह्यति वज्रधृक् ॥

नाहं कर्ता न कर्ता त्वं कर्ता यस् तु सदा प्रभुः ।

सो ऽयं पचति मां कालो वृक्षो फलम् इवागतम् ॥

दग्धम् एवानुदहति हतम् एवानुहन्यते ।

नश्यते नष्टम् एवाथ लब्धव्यं लभते नरः ॥

बुद्धिमन्तं कृतप्रज्ञं शुश्रूषुम् अनसूयकम् ।

दान्तं जितेन्द्रियं वापि शोको न स्पृशते नरम् ॥

बुद्धिमन्तं च मूढं च शूरं भीरुं कविं जडम् ।

दुर्बलं बलवन्तं च भाव्यर्थो भजते नरम् ॥

देवलः ।

इदं ममेति यत् स्वाम्यम् आत्मनो ऽर्थेषु मन्यते ।

अजानंस् तदनित्यत्वं ममत्वम् इति तद् विदुः ॥

अहम् इत्य् अभिमानेन यः क्रियासु प्रवर्तते ।

कार्यकारणयुक्तासु तद् अहङ्कारलक्षणम् ॥

[९१] अहङ्कारममत्वाभ्यां बध्यन्ते सर्वदेहिनः ।

संसारविनियोगेषु ताभ्यां मुक्तस्य मुच्यते ॥

मार्कण्डेयपुराणे ।

यस्मिन् यस्मिन् ममत्वेन संवित् पुंसः प्रजायते ।

ततस् ततः समादाय दुःखान्य् एव प्रयच्छति ।

मार्जारभक्षिते दुःखं यादृशं गृहकुक्कुटे ।

न तादृङ् ममताशून्ये कलविङ्के ऽथ मूषिके ॥

महाभारते ।

नात्यक्त्वा सुखम् आप्नोति नात्यक्त्वा विन्दते पदम् ।

नात्यक्त्वा चाभयः शेते त्यक्त्वा सर्वं सुखी भव ॥

हतो देशः पुरं दग्धं प्रधानः कुञ्जरो हतः ।

लोकसाधारणेष्व् एषु मिथ्याज्ञानेन तप्यते ॥

प्रत्यूषपटहो राज्ञः सामान्यः सुखवासिभिः ।

ममेदम् इति यो भावस् तस्य स प्रीतिकारकः ॥

अपि च भवति मैथिलेन गीतं

	नरम् उपाहितम् अग्निनाभिवीक्ष्य ।

मम न खलु तुषो ऽपि दह्यते ऽस्मिन्

	स्वयम् इदम् आह किल सम् भूमिपालः ॥

अनन्तं बत मे वित्तं पश्य मे नास्ति किञ्चन ।

मिथिलायां प्रदीप्तायां न मे किञ्चन दह्यते ॥

[९२] यङ्किर् (?) उवाच ।

आत्मापि चायं न मम सर्वा वा पृथिवी मम ।

यथा मम तथान्येषाम् इति मत्वा न मे व्यथा ॥

एष ब्रह्म प्रविष्टो ऽहं ग्रीष्मे शीतम् इव ह्रदम् ।

शाम्यामि परिनिर्वामि सुखम् आसे च केवलम् ॥

धेनुर् वत्सस्य गोपस्य स्वामिनस् तस्करस्य च ।

पयः पिबति यस् तस्या धेनुस् तस्येति निश्चयः ॥

देवलः ।

अहं ममेति चात्मानं संसारे परिवर्तते ।

नाहं कश्चिन् न मे कश्चिद् इति पश्यन् न बध्यते ॥

विष्णुपुराणे ।

अहं ममेत्य् अविद्येयं व्यवहारस् तथानघ ।

परमार्थस् त्व् असंलाप्यो गोचरे वचसां न सः ॥

तथा ।

अनात्मन्य् आत्मबुद्धिर् या अस्वे स्वम् इति या मतिः ।

अविद्यातरुसम्भूति बीजम् एतत् द्विधा स्थितम् ॥

पञ्चभूतात्मके देहे देही मोहतमोवृतः ।

अहम् एतद् इतीत्य् उच्चैः कुरुते कुमतिर् मतिम् ॥

आकाशवाय्वग्निजलपृथिवीभ्यः पृथक् स्थिते ।

आत्मन्य् आत्ममयं भावं कः करोति कलेवरे ॥

[९३ कलेवरो ऽप्य् अभोग्यं हि गृहक्षेत्रादिकं च कः ।

अदेहे ऽनात्मनि प्राज्ञो ममेदम् इति मंस्यते ॥

इत्थं च पुत्रपौत्रादौ तद्देहोत्थापिते तु कः ।

करोति पण्डितः स्वाम्यम् अनात्मनि कलेवरे ॥

सर्वं देहोपभोगाय कुरुते कर्म मानवः ।

देहं चान्यद् यदा पुंसः तदा बन्धाय तत्परम् ॥

मृण्मयं हि यथा गेहं लिप्यते वै मृदम्भसा ।

पार्थिवो ऽयं तथा देहो मृतं भोलेपनं स्थितिः ॥

पञ्चभूतात्मकैर् भोगैः पञ्चभूतात्मकं वपुः ।

अथाप्य् एते यदि ततः पुंसो गर्वो ऽत्र किङ्कृतः ॥

देवलः ।

आत्मबाधाकरं श्रुत्वा दृष्ट्वा वा प्रत्युपस्थितम् ।

उद्वेगो जायते यस् तु हृदये तद् भयं स्मृतम् ॥

तावद् भयस्य भेतव्यं यावद् भयम् अनागतम् ।

आगतं तु भयं दृष्ट्वा प्रहर्तव्यम् अभीतवत् ॥

भवितव्यं भवत्य् एव नास्ति कर्मव्यतिकृतिः ।

इत्य् एवं दृष्टतत्त्वानां न क्वचिज् जायते भयम् ॥

आत्मनो ऽभ्युदयं दृष्ट्वा परस्य व्यसनानि वा ।

आनन्दो मानसो जातो हर्ष इत्य् अभिधीयते ॥

सर्वद्रव्येष्व् अतीतेषु क्षणिकेषु धनेषु च ।

न हर्षस्यावकाशो ऽस्ति विमृश्य यदि पश्यसि ॥

माध्यस्थ्यम् अपि दोषाय परेषां व्यसनागमे ।

किं पुनर् मूढभावेन प्रमोदः परविद्रवे ॥

यो वृथा चिन्तयेद् अर्थान् मनसा ह्य् अपरस्परान् ।

मोघचिन्तेति ताम् आहुर् धर्मकर्मोपघातिनीम् ॥

[९४] भोगैश्वर्यमदादीनि लोभाद्यः संसरेद् वृथा ।

स मोघविन्तयात्मानं हन्ति बुद्धिं च कर्म च ॥

तस्मात् विदूरगां चिन्तां त्यक्त्वा शोकं च कर्मजम् ।

आरभेत शिवं कर्म ध्रुवं प्राप्तुं च सर्वशः ॥

रागसङ्कल्पजान् ग्रन्थीन् हृदयेषु दृढार्पितान् ।

उच्छिद्येत् तांस् तु मेधावी तत्त्वज्ञानासिनाद्भुतम् ॥

आत्मदोषक्षयोपायम् अनित्यामेध्यतां तनोः ।

हितं च सर्वभूतानां चिन्तयेन् मनसासकृत् ॥

एते मनोभवा दोषा द्वादशाशिवहेतवः ।

मोहादयः समाख्याता देवासुरविमोहनाः ॥

तत्संयोगान् मनोगुप्ते ज्ञानधर्मप्रसङ्गतः ।

त्यागाच् च व्यसनादीनां हानिर् गच्छति मानसम् ॥

अप्रकाशकरो बुद्धिं तमसावृत्य सर्वशः ।

प्रथमं जायते मोहो देहिनां हृदि पाप्मजः ॥

मोहाद् उत्पद्यते रागो रागाद् द्वेषः प्रवर्तते ।

त्रिभिर् एतैर् भवत्य् एव पापं शारीरवाङ्मयम् ॥

तस्मान्(द्?) हरीह सर्वेषु मानसे स्वपिति स्वयम् ।

सर्वान् दोषान् परित्यक्तुं त्रीन् एतान् प्रथमं त्यजेत् ॥

“अपरस्परान्” सातत्येनापरापरान् । महाभारते ।

ध्यायतो विषयान् पुंसः सङ्गस् तेषूपजायते ।

सङ्गात् सञ्जायते कामः कामात् क्रोधो ऽभिजायते ॥

[९५] क्रोधाद् भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः ।

स्मृतिनाशाद् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति ॥

तथा ।

एकः शत्रुर् न द्वितीयो ऽस्ति कश्चिद्

	अज्ञानतुल्यः पुरुषस्य राजन् ।

येनावृतः कुरुते सम्प्रमत्तो

	घोराणि कर्माणि सुदारुणानि ॥

रागो द्वेषः काममोहौ पापानां चैव या क्रिया ।

विचिकित्सा क्रोधमोहौ दम्भो ऽसूया मदस् तथा ॥

ईर्ष्या हिंसा च मात्सर्यं कुत्सा तन्द्रा तथैव च ।

अज्ञानम् एतन् निर्दिष्टं तृष्णा मोहोपसेवनम् ॥

क्षमया क्रोधम् उच्छिन्द्यात् कामं सङ्कल्पवर्जनात् ।

सत्त्वसंसेव्नाद् धीरो निद्राम् उच्छेतुम् अर्हति ॥

अप्रमादाद् भयं भक्षेच्छासं (?) क्षेत्रज्ञसेवनात् ।

ईर्ष्या द्वेषं च कामं च धैर्येण विनिवर्तयेत् ॥

भ्रमं प्रमोहम् आवर्तम् अभ्यासाद् विनिवर्तयेत् ।

निद्रां च प्रतिमां चैव ज्ञानाभ्यासेन तत्त्ववित् ॥

उपद्रवांस् तथा रोगान् हितजीर्णमिताशनात् ।

लोभं मोहं च सन्तोषाद् विषयं तत्त्वदर्शनात् ॥

अनुक्रोशाद् अधर्मं च जयेद् धर्मम् उपेक्षया ।

आयत्या च जयेद् आशां दम्भं सङ्गविवर्जनात् ॥

अनित्यत्वेन च स्नेहं क्षुधं योगेन पण्डितः ।

कारुण्येनात्मनो मानं तृष्णां च परितोषतः ॥

उत्थाय च जयेत् तन्द्राण् वितर्कं निश्चयाज् जयेत् ।

मौनेन बहुभाष्यं च शौर्येण च भयं त्यजेत् ॥

[९६] द्रव्येषु समतीतेषु य गुणास् तान् न चिन्तयेत् ।

तान् अनाद्रियमाणस् तु स्नेहबन्धाद् विमुच्यते ॥

दोषदर्शी भवेत् तत्र यत्र रागः प्रवर्तते ।

अनिष्टवर्धितं पश्येद् यथा क्षिप्रं विवर्धते ॥

दुःखोपघाते शारीरे मानसे वाप्य् उपस्थिताः ।

यस्मिन् न शक्यते कर्तुं यत्नतस् तान् विचिन्तयेत् ॥

भैषज्यम् एतद् दुःखस्य यद् एतन् नानुचिन्तयेत् ।

चिन्तमानं हि नश्येति(?) भूयश् चापि प्रवर्तते ॥

प्रज्ञया मानसं दुःखं हन्याच् छारीरम् औषधैः ।

एतद् विज्ञानसामर्थ्यं निर्बलैः समताम् इयात् ॥

तथा ।

यम् अर्थसिद्धिः परमा न हर्षयेत्

	तथैव काले व्यसनं न मोहयेत् ।

सुखं च दुःखं च तथैव मध्यमं

	निषेवते यः स धुरन्धरो नरः ॥

यां याम् अवस्थां पुरुषो ऽधिगच्छेत्

	तस्यां च मेधापरितप्यमानः ।

एवं प्रवृद्धे प्रणुदेन् मनोजं

	सन्तापम् आयासकरं शरीरे ॥

धृत्वा शिश्नोदरं वक्षे पाणिपादं च चक्षुषा ।

चक्षुःश्रोत्रेषु मनसा मनो वाचं च विद्यया ॥

निद्रा सर्वात्मना त्याज्या स्वप्नदोषान् अवेक्षता ।

स्वप्ने हि रजसा देही तमसा चाभिभूयते ॥

[९७]

१० — अथेन्द्रियजयः

मनुः ।

इन्द्रियाणां विचरतां विषयेष्व् अपहारिषु ।

संयमे यत्नम् आतिष्ठेद् विद्वान् यन्तेव वाजिनाम् ॥

इन्द्रियाणां प्रसङ्गेन दोषम् ऋच्छत्य् असंशयः ।

सन्नियम्य तु तान्य् एव ततः सिद्धिं नियच्छति ॥

न जातु कामः कामानाम् उपभोगेन शाम्यति ।

हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥

न तथैतानि शक्यन्ते सन्नियन्तुम् असेवया ।

विषयेषु प्रदुष्टानि यथा ज्ञानेन नित्यशः ॥

श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा धृत्वा च यो नरः ।

न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रियः ॥

इन्द्रियाणां तु सर्वेषां यद्य् एकं क्षर्तीन्द्रियम् ।

तेनास्य क्षरति प्रज्ञा दृतेः पादाद् इवोदकम् ॥

“कामो” अभिलाषः । “कामानाम्” काम्यानाम्, “विषयाणाम्” शब्दादीनाम् । “धृतिः” भस्त्रा ।

[९८] महाभारते ।

न खल्व् अप्य् अरसज्ञस्य् कामः क्वचन जायते ।

श्रवणाद् दर्शनाद् वापि स्पर्शनाद् वापि जायते ॥

न त्वं स्मरसि वारुण्या लावकाणां च पक्षिणाम् ।

ताभ्यां चाप्य् अधिको भक्ष्यो न कश्चिद् इह विद्यते ॥

“अरसज्ञस्य” तज्जन्यसुखानभिज्ञस्य । [च] ।

तथा ।

विषया विनिवर्तन्ते निराहारस्य देहिनः ।

रसवर्जं रसो ऽप्य् अस्य परं दृष्ट्वा निवर्तते ॥

यततो ह्य् अपि कौन्तेय पुरुषस्य विपश्चितः ॥

इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥

तानि सर्वाणि संयम्य युक्त आसीत मत्सरः ।

वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥

रागद्वेषविमुक्तैस् तु विषयान् इन्द्रियैश् चरन् ।

आत्मवश्यैर् विधेयात्मा प्रसादम् अधिगच्छति ॥

प्रसादे सर्वदुःखानां हानिर् अस्योपजायते ।

प्रसन्नचेतसो ह्य् आशु बुद्धिः पर्यवतिष्ठते ॥

[९९] इन्द्रियाणां विचरतां यन् मनो ऽनुविधीयते ।

तद् अस्य हरति प्रज्ञां वायुर् नावम् इवाम्भसि ॥

“रसवर्जम्” इत्य् अत्र रसो राग इति गीताभाष्यम् । ऽपरं दृष्ट्वाऽ परमात्मानं साक्षाद् अवगम्य । विष्णुपुराणे ।

मन एव मनुष्याणां कारणं बन्धमोक्षयोः ।

बन्धस्य व्यसनासङ्गि मुक्तो निर्विषयात्मतः ॥

महाभारते ।

उद्धरेद् आत्मनात्मानं नात्मानम् अवमानयेत् ।

आत्मैव ह्य् आत्मनो बन्धुर् आत्मैव रिपुर् आत्मनः ॥

बन्धुर् आत्मात्मनस् तस्य येनात्मैवात्मना जितः ।

अनात्मनस् तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥

जितात्मनः प्रशान्तस्य परमात्मा समाहितः ।

शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥

[१००]

११ — अथ तत्त्वसृष्टिः

तत्र देवलः ।

तत्र साङ्ख्यानाम् एका मूलप्रकृतिः । सप्त प्रकृतिविकृतयः । महदहङ्कारौ । पञ्च तन्मात्राणि । षोडश् विकाराः । [पञ्च] पञ्चेन्द्रियाणि । अर्थाश् च पञ्चभूतविशेषाश् च त्रयोदश् करणानि । तेषां त्रीण्य् अन्तःकरणानि । दश बहिःकरणानि ।

ऽपञ्च पञ्चेन्द्रियाणिऽ पञ्च बुद्धीन्द्रियाणि पञ्च कर्मेन्द्रियाणि इत्य् एवं दश । “अर्थाः” रूपादयः । “भूतविशेषाः” पृथिव्यादयः ।

तथा ।

अथ मूलप्रकृतिर् अव्यक्तं महान् अहङ्कारः । पञ्च तन्मात्राणीति प्रकृतिविकृतयः । शब्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रं रसनतन्मात्रं गन्धतन्मात्रम् इति । तन्मात्राणि द्विविधानि । इन्दिर्याणि मनो भूतविशेषाश् च विकाराः । चक्षुःश्रोत्रघ्राणजिह्वात्वचो बुद्धीन्द्रियाणि । रूपरसगन्धस्पर्शास् तेषाम् अर्थाः । वाक्पाणिपादपायूपस्थाः कर्मेन्द्रियाणि । [१०१] भाषणं क्रिया गमनम् उत्सर्गः प्रीतिर् इति कर्मेन्द्रियार्थाः । वाव्यग्न्यम्ब्वाकाशपृथिव्यो भूतविशेषाः । दशेन्द्रियाणि बुद्ध्यहङ्कारमनांसि च करणानि । तेषां मनोबुद्ध्यहङ्काराश् चान्तःकरणानि दश् बहिःकरणानि । इन्द्रियाणि च ।

गुणसाम्यलक्षणम् अव्यक्तं प्रधानं प्रकृतिः विधान्म् इत्य् अर्थान्तरम् । अध्यवसायलक्षणो महान् बुद्धिर् मतिर् उपलब्धिर् इत्य् अनर्थान्तरम् । सत्तामात्रलक्षणानि तन्मात्राणि स्वानुग्रहलक्षणानीन्द्रियाण्य् अक्षाणीन्दिर्यान्य् उच्यन्ते । सङ्कल्पलक्षणं मनः । इन्द्रियार्थलक्षणा विषयविशेषा भूतानीत्य् अनर्थान्तरम् इति ।

सर्वपूर्विका प्रकृतिः । प्रकृतेर् महान् उत्पद्यते । महतो ऽहङ्कारः । अहङ्कारात् तन्मात्राणि इन्द्रियाणि च । तन्मात्रेभ्यो विशेषा इत्य् उत्पत्तिक्रमः ।

“गुणसाम्यलक्षणम्” सत्त्वरजस्तमसां साम्यम् अविकृतित्वम् । तद् एव लक्षणं यस्य तत् तथा । “सर्वपूर्विका” सर्वेभ्यः प्रथमा ।

यमः ।

मनो बुद्धिर् अहङ्कारः खानिलाग्निजलानि भूः ।

एताः प्रकृतयस् त्व् अष्टौ विकाराः षोडशापरे ॥

श्रोत्राक्षिरसनघ्राणत्वचः सङ्कल्प एव च ।

शब्दरूपरसस्पर्शगन्धवाक्पाणिपायवः ॥

[१०२] पादाव् उपस्थ इति ते विकाराः षोडशापरे ।

चतुर्विंशकम् इत्य् एतत् ज्ञानम् आहुर् मनीषिणः ॥

पञ्चविंशकम् अव्यक्तं षड्विंशः पुरुषोत्तमः ।

एतज् ज्ञात्वा सुमुच्यन्ते यतयः शान्तबुद्धयः ॥

पञ्चविंशतितत्त्वज्ञो यानि विष्णोः परं पदम् ॥

याज्ञवल्क्यः ।

बुद्धेर् उत्पत्तिर् अव्यक्ता ततो ऽहङ्कारसम्भवः ।

तन्मात्रादीन्य् अहङ्काराद् एकोत्तरगुणानि तु ॥

शब्दः स्पर्शश् च रूपं च रसो गन्धश् च तद्गुणाः ।

यो यस्मान् निःसृतश् चैषां स तस्मिन्न् एव लीयते ॥

“एकोत्तरगुणानि” एकेनैकेन गुणेन उत्तरोत्तरम् अधिकानि आकाशादीनि भूतानि ।

विष्णुपुराणे ।

अव्यक्तं कारणं यत् तत् प्रधानम् ऋषिसत्तमैः ।

प्रोच्यते प्रकृतिः सूक्ष्मा नित्यं सदसदात्मकम् ॥

अव्यक्तं नान्यद् आधारम् अमरम् अजरं ध्रुवम् ।

शब्दस्पर्शविहीनं तद् रूपादिभिर् असंहतम् ॥

त्रिगुणं तज् जगद्योनिर् अनादिप्रभवाव्ययम् ।

तेनाग्रे सर्वम् एवासीद् व्याप्तं वै प्रलयाद् अनु ॥

[१०३] वेदवादविदो विद्वन् नियता ब्रह्मवादिनः ।

पठन्ति चैतम् एवार्थं प्रधानप्रतिपादकम् ॥

नाहो न रात्रिर् न नभो न भूमिर् 

	नासीत् तमो ज्योतिर् अभून् न चान्यत् ।

श्रोत्रादिबुद्ध्याद्युपलभ्यम् एकं

	प्राधानिकं ब्रह्म पुमांस् तद् आसीत् ॥

प्रकृतौ संस्थितं व्यक्तम् अतीतः प्रलये तु यत् ।

तस्मात् प्राकृतसञ्ज्ञो ऽयम् उच्यते प्रतिसञ्चरः ॥

अनादिर् भगवान् कालो नान्तो ऽस्य द्विज विद्यते ।

अत्युच्छिन्नास् ततस् त्व् एते स्वर्गस्थित्यन्तसंयमाः ॥

गुणसाम्ये ततस् तस्मिन् पृथक् पुंसि व्यवस्थिते ।

कालस्वरूपरूपं तत् विष्णोः मैत्रेय वर्तते ॥

ततस् तु तत् परं ब्रह्म परमात्मा जगन्मयः ।

सर्वगः सर्वभूतेशः सर्वात्मा परमेश्वरः ॥

प्रधानं पुरुषं चापि प्रविश्य स्वेच्छया हरिः ।

क्षोभयामास सम्प्राप्तेः सर्गकाले व्ययाव्ययौ ॥

यथा सन्निधिमात्रेण गन्धः क्षोभाय जायते ।

मनसो नोपकर्तृत्वात् तथासौ परमेश्वरः ॥

स एव क्षोभको ब्रह्मन् क्षोभ्यश् च पुरुषो मतः ।

स सङ्कोचविकासाभ्यां प्रधानत्वे ऽपि संस्थितः ॥

विकाराश् च स्वरूपैश् च ब्रह्मरूपादिभिस् तथा ।

[१०४] व्यक्तस्वरूपश् च तथा विष्णुः सर्वेश्वरेश्वरः ॥

गुणसाम्यात् ततस् तस्मात् क्षेत्रज्ञाधिष्ठितान् मुने ।

गुणव्यञ्जनसम्भूतिः सर्गकाले द्विजोत्तम ॥

प्रधानतत्त्वम् उद्भूतं महान्तं तत् समावृणोत् ।

सात्त्विको राजसश् चैव तामसश् च त्रिधा महान् ॥

प्रधानतत्त्वेन समं त्वचा बीजम् इवावृतम् ।

वैकारिकस् तैजसश् च भूतादिश् चैव तामसः ॥

त्रिविधो ऽयम् अहङ्कारो महत् तत्त्वाद् अजायत ।

भूतेन्द्रियाणां हेतुः स त्रिगुणत्वान् महामुने ॥

यथा प्रधानेन महान् महता स तथावृतः ।

भूतादिस् तु विकुर्वाणः सङ्गतात्मा त्रिकं ततः ॥

ससर्ज शब्दतन्मात्राद् आकाशं शब्दलक्षणम् ।

शब्दमात्रम् अथाकाशं भूतादिः समावृणोत् ॥

आकाशस् तु विकुर्वाणः स्पर्शमात्रं ससर्ज ह ।

बलवान् अभवद् वायुस् तस्य स्पर्शो गुणो मतः ॥

आकाशं शब्दतन्मात्रं स्पर्शमात्रं समावृणोत् ।

ततो वायुर् विकारेण रूपमात्रं ससर्ज ह ॥

ज्योतिर् उत्पद्यते वायुस् तद् रूपगुणम् उच्यते ।

स्पर्शमात्रस् ततो वायू रूपमात्रं समावृणोत् ॥

ज्योतिश् चापि विकुर्वाणं रसमात्रं ससर्ज ह ।

सम्भवन्ति ततो ऽम्भांसि तसाधाराणि तानि तु ॥

रसमात्राणि चाम्भांइ रूपमात्रं समावृणोत् ।

विप्रकुर्वाणि चाम्भांइ गन्धमात्रं ससर्जिरे ॥

सङ्घातो जायते यस्मात् तस्य गन्धो गुणो मतः ।

[१०५] तस्मिंस् तस्मिंस् तु तन्मात्रात् तेन तन्मात्रता स्मृता ॥

तन्मात्रान्य् अविशेषाणि अविशेषास् ततो हि ते ।

न शान्ता नापि घोरास् ते न मूढा न विशेषिणः ॥

भूततन्मात्रसञ्ज्ञो ऽयम् अहङ्कारात् तु तामसात् ।

तैजसानीन्द्रियाण्य् आहुर् देवा वैकारिका दश ॥

एकादशं मनश् चात्र देवा वैकारिकास् तथा ।

त्वक् चक्षुर् नासिका जिह्वा श्रोत्रम् अत्र तु पञ्चमम् ॥

शब्दादीनाम् अवाप्त्यर्थं बुद्धियुक्तानि वै द्विजः ।

पायूपस्थौ करौ पादौ वाक् च मैत्रेय पञ्चमी ॥

विसर्गशिल्पगत्युक्ति कर्म तेषां प्रचक्षते ।

आकाशवायुतेजांसि सलिलं पूथिवी तथा ॥

शब्दादिभिर् गुणैर् ब्रह्मन् संयुक्तान्य् उत्तरोत्तरैः ।

शान्ता मूढाश् च घोराश् च विशेषास् तेन ते स्मृताः ॥

नानावीर्याः पृथग्भूतास् ततस् ते संहतिं विना ।

नाश्क्नुवन् प्रजाः स्रष्टुम् असमागम्य कृत्स्नशः ॥

समेत्यान्योन्यसंयोगं परस्परसमाश्रयाः ।

एकसङ्घातलक्ष्याश् च सम्प्राप्यैक्यम् अशेषतः ॥

पुरुषाधिष्ठितत्वाच् च अव्यक्तानुग्रहेण च ।

महदाद्या विशेषान्ताः ह्य् अण्डम् उत्पादयन्ति ते ॥

उत्क्रमेण विरुद्धं च जलबुद्बुदवत् समम् ।

भूतेभ्यो ऽण्डं महाबुद्धे बृहत् तदुदकेशयम् ॥

प्राकृतं ब्रह्मरूपस्य विष्णोः स्थानम् अनुत्तमम् ।

[१०६] तत्राव्यक्तस्वरूपो ऽसौ व्यक्तरूपी जगत्पतिः ॥

विष्णुर् ब्रह्मस्वरूपेण स्वयम् एव व्यवस्थितः ।

मेरुर् उल्बम् अभूत् तस्य जरायुश् च महीधराः ॥

गर्भोदकं समुद्राश् च तस्यासन् सप्त् चात्मनः ।

अद्रिद्वीपसमुद्राश् च सञ्ज्योतिर् लोकसङ्ग्रहः ॥

तस्मिन्न् अण्डे ऽभवद् विप्र सदेवासुरमानवः ।

वारिवह्न्यनिलाकाशैस् ततो भूतादिना बहिः ॥

वृतैर् दशगुणैर् अण्डे भूतादि महता तथा ।

अव्यक्तेनावृतो ब्रह्मन् तैः सर्वैः संहितो महान् ॥

एभिर् आवरणैर् अण्डं सप्तभिः प्राकृतैर् वृतम् ।

नारिकेलफलस्यान्तर् बीजं बाह्यदलैर् इव ॥

जुषन् रजोगुणं तत्र स्वयं विश्वेश्वरो हरिः ।

ब्रह्मा भूत्वा स जगतो विसृष्टौ सम्प्रवर्तते ॥

सृष्टं च पात्य् अनुयुगं यावत् कालविकल्पना ।

सत्त्व्भुग् भगवान् विष्णुर् अप्रमेयपराक्रमः ॥

सर्गस्थित्यन्तकरणाद् ब्रह्मविष्णुशिवात्मिकाम् ।

स्वसञ्ज्ञां याति भगवान् एक एव जनार्दनः ॥

स्रष्टा सृजति चात्मानं विष्णुः पाल्यं च पाति च ।

उपसंहरते चान्ते संहर्ता च स्वयं प्रभुः ॥

पृथिव्यापस् तथा तेजो वायुर् आकाशम् एव च ।

सर्वेन्द्रियान्तःकरणं पुरुषाख्यं हि यज् जगत् ॥

[१०७] स एव सर्वभूतेशो विश्वरूपो यतो ऽव्ययः ।

सर्गादिकं तु तस्यैव भूतस्थम् उपकारकम् ॥

स एव सृज्यः स च सर्गकर्ता

	स एव पालयति च पाल्यते च ।

ब्रह्माद्यवस्थाभिर् अशेषमूर्तिर्

	विष्णुर् वरिष्ठो वरदो वरेण्यः ॥

[तथा] ।

महदादेर् विकारस्य विशेषान्तस्य सङ्क्षये ।

कृष्णोच्छाकारिते तस्मिन् प्रवृत्ते प्रतिसञ्चरे ॥

आपो ग्रसन्ते वै पूर्वं भूमेर् गन्धात्मकं गुणम् ।

आत्तगन्धा ततो भूमिः प्रलयत्वाय कल्पते ॥

प्रनष्टे गन्धतन्मात्रैर् भवत्य् उर्वी जलात्मिका ।

अपाम् अपि गुणो यस् तु ज्योतिषा लीयते तु सः ॥

तथा ।

ज्योतिर्वायौ लयं याति यात्य् आकाशे समीरणः ।

आकाशं चैव भूतादि ग्रसते तं तथा महान् ॥

महान्तम् एभिः सहितं प्रकृतिर् ग्रसते द्विजः ।

गुणसाम्यसमुद्रिक्तम् अन्यूनं च महामुने ॥

[१०८] प्रोच्यते प्रकृतिर् हेतुः प्रधानं कारणं परम् ।

इत्य् एषा प्रकृतिः सर्वा व्यक्ताव्यक्तस्वरूपिणी ॥

व्यक्तस्वरूपम् अव्यक्ते तस्मिन् मैत्रेय लीयते ।

एकः शुद्धो ऽक्षयो नित्यः सर्वव्यापी तथा पुमान् ॥

सो ऽप्य् अंशः सर्वभूतस्य मैत्रेय परमात्मनः ।

न सन्ति यत्र सर्वेशे नामजात्यादिकल्पनाः ॥

सत्तामात्रात्मके ज्ञेये ज्ञानात्मन्य् आत्मनः परे ।

स ब्रह्म तत् परं धाम परमात्मा स चेश्वरः ॥

स विष्णुः सर्वम् एवेदं यतो नावर्तते यतिः ।

प्रकृतिर् या मया ख्याता व्यक्ताव्यक्तस्वरूपिणी ॥

पुरुषश् चाप्य् उभाव् एतौ लीयते परमात्मनि ।

परमात्मा च सर्वेषाम् आधारः परमेश्वरः ॥

विष्णुनाम्ना स वेदेषु वेदान्तषु च गीयते ॥

महाभारते ।

अक्षरो ऽग्रे ततो वायुः वयोर् ज्योतिस् ततो जलम् ।

जलात् प्रसूता जगती जगत्यां जायते जगत् ॥

[१०९]

१२ — अथ शरीरचिन्ता

तत्र देवमनुष्यतिर्यग्नुवृत्तौ देवलः ।

तेषां त्रिविधो मूर्तिविशेषो द्युतिमत्, सुगन्ध्य् अनिष्पाद्यम् अनाविलम् अनिमिषम् अस्वेदम्, क्षुत्पिपासानिद्रालस्यव्र्जितम्, यथेष्टाकृतिबलसन्नहनम् ऊर्जस्वि, निर्मलम्, परमपुष्कलम्, सुकृतनिमित्तम्, देवताशरीरम् । अनित्यम् अशुभम्, सर्वरोगायतनम्, दुःखभाजनम् अनेकबाधम् अस्थिसङ्घातशिरास्नायुनद्धम्, मांसावलिप्तम्, त्वक्प्रतिच्छन्नम्, अन्नरसनानाश्ōणितमेदोमांसमज्जारेतःपित्तानिलश्लेष्मान्त्रगुदबस्तियकृत्-प्लीहक्लेदस्वेदमूत्रपुरीषकृमिपूर्णम्, नवच्छिद्रम्, सन्तताश्रावम्, केशरोम्नखपर्यन्तम्, दुर्गन्धि, नित्यसंस्कार्यम्, जरामरणवशम् इति मानुषशरीरम् । सन्ततोद्विग्नम् असंस्कारम्, विधृतनिष्यदम्, क्षुत्पिपासावशम्, मूढेन्द्रियगोचरम्, दुष्कृतायनम् अज्ञानम् अकर्मण्यम् इति तिर्यग्योनिशरीरम् ।

तथा ।

इच्छा द्वेशः सुखं दुःखं क्षुत्तृष्णा चेष्टितं भयम् ।

उत्पत्तिर् मरणं चेति सामान्यं सर्वदेहिनाम् ॥

[११०] अवश्यं प्राणिनः सर्वे रमन्ते स्वासु योनिषु ।

असत्समाविष्टानां न जातिर् इति निश्चयः ॥

अमेध्यम् अतिगुर्गन्धि निःसारं दुःखभाजनम् ।

अध्रुवं बहुदुःखं च शरीरं गर्भवादिनाम् ॥

विण्मूत्रकृमिसम्पूर्णं रोगायतनम् आतुरम् ।

शरीरं यापयन्तीह सदा स्नानाशनादयः ॥

शय्या च क्रमणं स्थानम् आसनं च यथाक्रमम् ।

स्वजातिं न परित्यक्तुम् इच्छन्ति प्राणिनः क्वचित् ॥

देही देहं परित्यज्य नेन्द्रस्थानम् अपीहते ।

तस्मात् कीटो ऽपि जन्तूनां स्वजात्या रमते भृशम् ॥

“यथेष्टाकृत्बलसन्नहनम्” यथेष्टं जातिसामर्था=यावयवसङ्घाता यत्र तत् तथा ।

अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् ।

चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः ॥

जराशोकसमाविष्टं रोगायतनम् आतुरम् ।

रजस्वलम् अनित्यं च भूतावासम् इमं त्यजेत् ॥

विष्णुपुराणे ।

क्व शरीरम् अशेषाणां श्लेष्मादीनां समा च यः ।

क्व कान्तिशोभासौरभ्यं कमनीयादयो गुणाः ॥

मांसास्थ्यसृग्वसापूयस्नायुविण्मूत्रसंहतौ ।

देहे चेत् प्रीतिमान् मूढो भविता नरके ऽपि सः ॥

[१११] मनुः ।

उद्भिज्जाः स्थावराः सर्वे बीजकाण्डप्ररोहिणः ।

ओषध्यः फलपाकान्ता बहुपुष्पफलोपगाः ॥

अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः ।

पुष्पिणः फलिनश् चैव वृक्षास् तूभयतः स्मृताः ॥

गुच्छगुल्मं च विविधं तथैव तृणजातयः ।

प्रतानाश् चैव वल्यश् च वीरुधः परिकीर्तिताः ॥

तमसा बहुरूपेण वेष्टिताङ् कर्महेतुना ।

अन्तःसञ्ज्ञा भवन्त्य् एते सुखदुःखसमन्विताः ॥

महाभारते ।

जङ्गमानां च सर्वेषां शरीरे पञ्च धातवः ।

प्रत्येकशः प्रभिद्यन्ते यैः शरीरं विचेष्टितम् ॥

त्वङ् मांसं च तथास्थीति मज्जा स्नायुश् च पञ्चमः ।

इत्य् एतद् इह सङ्ख्यातं शरीरं पृथिवीमयम् ॥

तेजो ऽग्निश् च तथा क्रोधश् चक्षुर् ऊष्मा तथैव च ।

अग्निर् जरयते चापि पञ्चाग्नेयाः शरीरिणः ॥

श्रोत्रं घ्राणम् अथास्यं च हृदयं कोष्ठम् एव च ।

आकाशात् प्राणिनाम् एते शरीरे पञ्च धातवः ॥ 

श्लेश्मपित्तम् अथ स्वेदो वसा शोणितम् एव च ।

इत्य् आपः पञ्चधा देहे भवन्ति प्राणिनां सदा ॥

प्राणात् प्राणयते प्राणी व्यानाद् व्यानयते सदा ।

गच्छत्य् अपानो ऽर्वाग् एव समानो हृद्य् अवस्थितः ॥

उदानाद् उच्छ्वसिति च ध्वनिभेदश् च जायते ।

इत्य् एते वायवः पञ्च चेष्टयन्ति च देहिनम् ॥

[११२]

१३ — अथ देहशरीरविवेकः

तत्र शङ्खः ।

पृथिव्य् आपस् तथा तेजो वायुर् आकाशम् एव च ।

पञ्चैतानि विजानीयान् महाभूतानि पण्डितः ॥

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणम् एव च ।

बुद्धीन्द्रियाणि जानीयात् पञ्चैवास्मिन् शरीरके ॥

मनो बुद्धिस् ततश् चात्मा अव्यक्तं च तथैव च ।

इन्द्रियेभ्यः पराण्य् आहुश् चत्वारि कथितानि तु ॥

शब्दं रूपं तथा स्पर्शं रसं गन्धं तथैव च ।

इन्द्रियार्थं विजानीयात् पञ्चैव सततं बुधः ॥

हस्तपादाव् उपस्थं च जिह्वा पायुस् तथैव च ।

कर्मेन्द्रियाणि पञ्चैव नित्यम् अस्मिन् शरीरके ॥

चतुर्विंशतितत्त्वानि एतानि कथितानि तु ।

तथात्मानं तु तं विद्धि पुरुषं पञ्चविंशकम् ॥

वालाग्रशतिमो भागः कल्पितस् तु सहस्रशः ।

तस्यापि शतिमाद् भागाज् जीवः सूक्ष्म उदाहृतः ॥

[११३] विष्णुपुराणे ।

विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथापरा ।

अविद्याकर्मसञ्ज्ञान्या तृतीया शक्तिर् इष्यते ॥

यया क्षेत्रज्ञशक्तिः सा चेष्टिता नृप सर्वगा ।

संसारतापान् अखिलान् अवाप्नोत्य् अनुसन्ततान् ॥

तया तिरोहितत्वाच् च शक्तिः क्षेत्रज्ञसञ्ज्ञिता ।

सर्वभूतेषु भूपाल तारतम्येन लक्ष्यते ॥

ऽविष्णुशक्तिः पराऽ ब्रह्मस्वरूपात् क्षेत्रज्ञाख्या । “अपरा” जीवस्वरूपा मायाविद्याकर्मसञ्ज्ञा ।

मनुः ।

अस्यात्मनः कारयिता तं क्षेत्रज्ञं प्रचक्षते ।

यः करोति तु कर्माणि स भूतात्मोच्यते बुधैः ॥

जीवसञ्ज्ञो ऽन्तरात्मान्यः सहजः सर्वदेहिनाम् ।

येन वेदयते सर्वं सुखं दुःखं च जन्मसु ॥

“अस्यात्मनः” शरीररूपस्य आत्मार्थत्वाद् आत्मशब्दो ऽत्र गौणः । “कारयिता” स्पन्दात्मिकासु चेष्टासु पर्वर्तयिता । स्वप्रयत्नद्वारेण । “भूतात्मा” पृथिव्यादिभूतसङ्घातत्वात् शरीरम् । ऽजीवसञ्ज्ञो ऽन्तरात्मा अन्यःऽ अन्तःकरणं मनो रूपं जीवो ऽन्तरात्मा चायम् एव । “तदर्थत्वात्” तस्य चान्तःकरणत्वात् । [११४] ऽयेन वेदयतेऽ इति करणविभक्त्या निर्देशः । “सहजः” आ मोक्षप्राप्तेस् तत्सम्बन्धात् । महाभारते ।

तत्र यः परमात्मा हि स नित्यं निर्गुणः स्मृतः ।

स हि नारायणो ज्ञेयः सर्वात्मा पुरुषो हि सः ॥

न लिप्यते कर्मफलैः पद्मपत्रम् इवाम्भसा ।

कर्मात्मा त्व् अपरो यो ऽसौ मोक्षबन्धैः स युज्यते ॥

स सप्तदशकेनापि राशिना युज्यते पुनः ॥

“सप्तदशकेन” दशेन्द्रियाणि मनो बुद्धिः प्राणाद्याः पञ्च वायवः इत्य् अनेन गणेन ।

तथा ।

स चेतनं जीवगुणं वदन्ति 

	स चेष्टते च म्रियते च नित्यं ।

ततः परं क्षेत्रविदो वदन्ति 

	प्रावरयद् यो भुवनानि सप्त ॥

तथा च महाभारते ।

तथा च भरद्वाज उवाच –

यद्य् अग्निमारुतौ भूमिः खम् आपश् च शरीरिषु ।

जीवः किं लक्षणस् तत्रेत्य् एतद् आचक्ष्व मे ऽनघ ॥

यदि प्राणायते वायुर् वायुर् एव विचेष्टते ।

श्व्सित्या भाषते चैव तस्माज् जीवो निरर्थकः ॥

[११५] यद्य् उष्मभावम् आग्नेयो ह्य् अग्निना पच्यते यदि ।

अग्निर् जरयते चैव तस्माज् जीवो निरर्थकः ॥

जन्तोः प्रमीयमाणस्य जीवो नैवोपलभ्यते ।

वायुर् एव जहात्य् एनम् उष्मभावश् च नश्यति ॥

यदि वातोपमो जीवः संश्लेषो यदि वायुना ।

वायमण्डलवद् दृश्येद् गच्छेत् सह मरुद्गणैः ॥

ऽवायुमण्डलवद् दृश्येद्ऽ इति वातोपमजीवपक्षे दूषणम् । ऽवायुसंश्लेषो जीवःऽ इत्य् अत्र पक्षे वाय्मण्डलवद् दृश्येद् इति उत्क्रान्तिकालवातसमूहवत् स्पर्शने नोपलभ्यत इत्य् अर्थः । ऽगच्छेत् सह मरुद्गणैर्ऽ इति यां दिशं वायुसमूहाः यान्ति तां दिशं गच्छेत्, न चैवं धर्माधर्मवशेन स्वर्गनरकप्राप्तेः श्रुतिप्रतिपादितत्वात् । तथा –

भृगुर् उवाच –

न पञ्च साधारणम् अत्र किञ्चित्

	शरीरम् एको वहते ऽन्तराआत्मा ।

स वेत्ति गन्धांश् च रसान् श्रुतिश् च 

	स्पर्शं च रूपं च गुणाश् च ये ऽन्ये ॥

पञ्चात्मके पञ्चगुणप्रदर्शी 

	स सर्वगात्रानुगतो ऽन्तरात्मा ।

[११६] स वेत्ति दुःखानि सुखानि चात्र

	तद्विप्रयोगं तु न वेत्ति देहः ॥

ऽन पञ्चसाधारणम् अत्र किञ्चिद्ऽ इति नात्र शरीरे पञ्चभूतेष्व् एकं भूतं साधारणं गन्धाध्यनेकार्थानुसन्धातृ विद्यते । अस्ति चानेकार्थानुसन्धातृ अस्ति चानेकानुसन्धानम् । अस्ति चानेकार्थानुसन्धातृ अस्ति चानेकानुदन्धानम् । अतः एतेभ्यो ऽन्यो ऽन्तरात्मा गन्धादीनाम् अनुसन्धाता विद्यत इत्य् अर्थः । वहते धावति । ऽअन्ये गुणाःऽ सुखादयः ।

याज्ञवल्क्यः ।

महाभूतानि सत्यानि यथात्मापि तथैव हि ।

को ऽन्यं चैकेन नेत्रेण दृष्टम् अन्येन पश्यति ॥

वाचं वा को विजानाति पुनः संश्रुत्य संश्रुतम् ।

अतीतार्थे स्मृतिः कस्य को वा स्वप्नस्य कारकः ॥

जातिरूपवयोवृत्तविद्यादिभिर् अहङ्कृतः ।

शक्तः शब्दादिविषये कर्मणा मनसापि वा ॥

तथा ।

वेदैः शास्त्रैः सविज्ञानैर् जन्मना मरणेन च ।

आर्त्या गत्या तथागत्या सत्येन ह्य् अनृतेन च ॥

श्रेयसा सुखदुःखाभ्यां कर्मभिश् च शुभाशुभैः ।

निमित्तशाकुनज्ञानग्रहसंयोगजैः फलैः ॥

[११७] तारानक्षत्रसञ्चारैर् जाग्रज्जैः स्वप्नजैर् अपि ।

आकाशपवनज्योतिर्जलभूतिमिरैस् तथा ॥

मन्वतरैर् युगप्राप्त्या मन्वन्तरफलैर् अपि ।

वित्तात्मानं वेद्यमानं कारणं जगतस् तथा ॥

अहङ्कारः स्मृतिर् मेधा द्वेषो बुद्धिः सुखं धृतिः ।

इन्द्रियान्तरसञ्चार इच्छा मरणजीविते ॥

स्वर्गः स्वप्नः स्वभावानां प्रेरणं मनसो गतिः ।

निमेषश् चेतनायत्त आदानं पाञ्चभौतिकम् ॥

यत एतानि लिङ्गानि दृश्यन्ते परमात्मनः ।

तस्माद् अस्ति परो देहाद् आत्मा सर्वग ईश्वरः ॥

“एकनेत्रेण” इति एकेन चक्षुरिन्द्रियेण दृष्टं वस्त्व् अपरेण स्पर्शनेन्द्रियेण विजानाति । यो ऽहम् अद्राक्षं सो ऽहं स्पृशामीति “वित्तात्मानम्” आत्मानम् एतैः कारणैर् विजानाति ।

महाभारते ।

यथैव कश्चित् परशुं गृहीत्वा

	धूमं न पश्येज् ज्वलनं च काष्ठे ।

तद्वच् छरीरोदरपाणिपाद-

	च्छन्नं न पश्यन्ति ततो यद् अन्यत् ॥

अन्यत् काष्ठानि यदा विमत्थ्य

	धूमं च पश्येज् ज्वलनं च काष्ठे ।

[११८] तद्वत् सुबुद्धिः स सदिन्द्रियत्वात्

	ध्रुवं परं पश्यति स्वं स्वभावम् ॥

यथात्मनो ऽङ्गं पतितं पृथिव्यां

	स्वप्नान्तरे पश्यन्ति चात्मनो ऽन्यत् ।

श्रोत्रादियुक्तः सुमनाः सुबुद्धिः 

	लिङ्गात् तदा गच्छति लिङ्गम् अन्यत् ॥

यद् इन्द्रियैस् तूपहितान् पुरस्तात्

	प्राणान् गुणान् संस्मरते चिराय ।

तेष्व् इन्द्रियेषु प्रहतेषु पश्चात् स-

	बुद्धिरूपात् परमप्रभावः ॥

यथेन्द्रियार्थान् युगपत् समस्तान्

	नापद्यते कृत्स्नम् अनल्पकाले ।

यथाबलं सञ्चरते स विद्वान्

	तस्मात् स एकः परमः शरीरी ॥

यथा हिमवतः पार्श्वं पृष्ठं चन्द्रसमो यथा ।

न दृष्टपूर्वं मनुनैर् न च तन् नास्ति तावता ॥

तद्वद् भूतेषु भूतात्मा सूक्ष्मो ज्ञानात्मवान् असौ ।

अदृष्टपूर्वश् चक्षुर्भ्यां न चासौ नास्ति तावता ॥

न शरीराश्रितो जीवस् तस्मिन् नष्टे विनश्यति ।

यथा समित्सु दग्धासु न प्रणश्यति पावकः ॥

न जीवनाशो ऽस्ति हि देहनाशे 

	मिथ्यैतद् आहुर् मृत इत्य् अबुद्धाः ।

जीवस् तु देहान्तरगः प्रयाति

	दशार्धतेवास्य शरीरभेदः ॥

[११९] यथार्चिषो ऽग्नेः पवनस्य वेगाः

	मरीचयो ऽर्कस्य नदीषु चापः ।

गच्छन्ति चायान्ति च सन्ततास् तु

	तद्वच् छरीराणि शरीरिणां तु ॥

तथा ।

देहिनो ऽस्मिन् यथा देहे कौमारं यौवनं जरा ।

तथा देहान्तरप्राप्तिर् धीरस् तत्र न मुह्यति ॥

तथा ।

नासतो विद्यते भावो नाभावो विद्यते सतः ।

उभयोर् अपि दृष्टो ऽन्तस् त्व् अनयोस् तत्त्वदर्शिभिः ॥

अविनाशि तु तद्वद् धि येन सर्वम् इदं ततम् ।

विनाशम् अव्ययस्यास्य न कश्चित् कर्तुम् अर्हति ॥

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।

अनाशिनो ऽप्रमेयस्य तस्माद् युध्यस्व भारत ॥

य एनं वेत्ति हन्तारं यश् चैनं मन्यते हतम् ।

उभौ तौ न विजाजीतो नायं हन्ति न हन्यते ॥

न जायते म्रियते वा कदाचिन्

	नायं भूत्वा भविता वा न भूयः ।

अजो नित्यः शाश्वतो ऽयं पुराणो

	न हन्यते हन्यमाने शरीरे ॥

वेदाविनाशिनं नित्यं य एनम् अजम् अव्ययम् ।

कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥

[१२०] वासांसि जीर्णानि यथा विहाय

	नवानि गृह्णाति नरो ऽपराणि ।

तथा शरीराणि विहाय जीर्णान्य्

	अन्यानि संयाति नवानि देही ॥

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।

न चैनं क्लेदयन्त्य् आपो न शोषयति मारुतः ॥

अच्छेद्यो ऽयम् अदायो ऽयम् अक्लेद्यो ऽशोष्य एव च ।

नित्यः सर्वगतः स्थानुर् अचलो ऽयं सनातनः ॥

अव्यक्तो ऽयम् ऽचिन्तियो ऽयम् अविकार्यो ऽयम् उच्यते ॥

मार्कण्डेयपुराणे ।

सा वा मदालसा पुत्रं बालम् उत्तानशायिनम् ।

उल्लापनच्छलेनाह रुदमानम् अविस्मयम् ॥

शुद्धो ऽसि रे तात न ते ऽसि नाम

	कृतं हि तत् कल्पतयाधुनैव ।

पञ्चात्मकं देहम् इदं न ते ऽस्ति

	नैवास्य त्वं रोदिति कस्य हेतोः ॥

न वा भवान् रोदिति विश्वजन्मा

	शब्दो ऽयम् आसाद्य महीसमूहम् ।

विकल्प्यमानो विविधैर् गुणाद्यैर्

	गुणाच् च भौताः सकलेन्द्रियेषु ॥

[१२१] भूतानि भूतैः परिदुर्बलानि

	वृद्धिं समायान्ति यथैव पुंसाम् ।

अन्नाम्बुपानादिभिर् एवम् अस्य

	न ते ऽस्ति वृद्धिर् न च ते ऽस्ति हानिः ॥

त्वं कुञ्चुके शीर्यमाणे निजे ऽस्मिन्

	विमूढभावं सहसा मा व्रजेथाः ।

शुभाशुभैः कर्मभिर् देहम् एतन्

	मदादिमूढैः कञ्चुकस् तेपिनद्धः ॥

तातेति किञ्चित् तनयेति किञ्चित्

	अम्बेति किञ्चिद् दयितेति किञ्चित् ।

ममेति किञ्चिन् न ममेति किञ्चित्

	त्वं भूतसङ्घं बहुधा नयेथाः ॥

तथा ।

यानं क्षितौ यानगतश् च देहो

	देहे ऽपि चान्यः पुरुषो निविष्टः ।

ममत्वमत्या न तथा यथा स्वे

	देहे ऽतिमात्रं बत मूढतैषा ॥

तथा ।

मशकोदुम्बरेषीका मुञ्जमत्स्याम्भसां यथा ।

एकत्वे ऽपि पृथग्भावस् तथा क्षेत्रात्मनो भवेत् ॥

[१२२] ऽएकत्वे “पि” संश्लेषवशेनैकत्वाभिमाने ऽपि ।

महाभारते ।

सत्त्वक्षेत्रज्ञयोर् एवमन्तरं विद्धि सूक्ष्मयोः ।

सृजतेति गुणान् एक एको न सृजते गुणान् ॥

ततो वै हृदयग्रन्थिं बुद्धिचित्तमयं दृढम् ।

विमुच्य सुखम् आसीत विमुक्तश् छिन्नसंशयः ॥

याज्ञवल्क्यः ।

अहङ्कारेण मनसा गत्या कर्मफलेन च ।

शरीरेण च नात्मायं मुक्तपूर्वः कथञ्चन ॥

वर्त्याधारस्नेहयोगाद् यथा दीपस्य् संस्थितिः ।

विक्रियापि च दृष्टैव अकाले प्राणसङ्क्षयः ॥

यदाणुमात्रको भूत्वा बीजस्थस् तु चरिष्नुना ।

समाविशति संसृष्टस् तदा मूर्तिम् विमुञ्चति ॥

ब्रह्माण्डपुराणे ।

ततः प्रयाणकाले हि दोषैर् नैमित्तिकैस् तथा ।

उष्मा प्रकुप्तः काये तीव्रवायुस्मीरितः ॥

शरीरम् उपवृत्याथ कृत्स्नान् दोषान् रुणद्धि वै ।

प्राणस्थानानि निर्भिन्दन् पुनर् मर्माण्य् अतीत्य च ॥

शैत्यात् प्रकुपितो वायुर् ऊर्ध्वं च क्रमते ततः ।

स चायं सर्वभूतानां प्राणस्थानेष्व् अवस्थितः ॥

[१२३] तमसा संवृते ज्ञाने संवृतेषु च कर्मसु ।

स जीवो नाभ्यधिष्टानाच् छक्यते मातरिश्वना ॥

स जीवश् चाव्यमानश् च कर्मभिः स्वैः पराक्रमैः ।

अष्टाङ्गां प्राणवृत्तिं तां सम्यग् व्यावयते पुनः ॥

शरीरं प्रजहत्य् एवं निरुच्छ्वासं ततो भवेत् ।

एवं प्राणैः परित्यक्तो मृत इत्य् अभिधीयते ॥

यथा वलाहकान् व्योम्नि खद्योतं च ततस्तुतः ।

प्रावृट्काले पृथग्त्वेन पश्यन्ति हतचक्षुषः ॥

पश्यन्त्य् एवंविधं जीवं सिद्धा दिव्येन चक्षुषा ॥

महाभारते ।

श्रीभगवान् उवाच ।

ममैवांशो जीवलोके जीवभूतः सनातनः ।

मनः षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥

शरीरं यद् अवाप्नोति यच् चाप्य् उत्क्रामतीश्वरः ।

गृहीत्वैतानि संयाति वायुर् गन्धान् इवाशयात् ॥

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणम् एव च ।

अधिष्ठाय मनश् चायं विषयान् उपसेवते ॥

उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् ।

विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥

तथा ।

पुरुषाधिष्ठिता बुद्धिस् तेषु भावेषु वर्तते ।

कदाचिल् लभते प्रीतिं कदाचिद् अनुशोचति ॥

[१२४] न सुखेन न दुःखेन कदाचिद् अपि वर्तते ।

इन्द्रियाणां स्वकार्येभ्यो श्रमाद् उपरमो यथा ॥

भवतीन्द्रियसन्न्यासाद् अथ स्वपिति वै नरः ।

इन्द्रियाणाम् उपरमात् मनो ऽनुपरतं यथा ॥

सेवते विषयान् एव तद् विन्द्यात् स्वप्नदर्शनम् ॥

ब्रह्माण्डपुराणे ।

अतत्वदर्शनात् तत्त्वं त्रिविधं बध्यते सदा ।

प्राकृतेन च वक्त्रेण तथा वैकारिकेण च ॥

दक्षिणाभिस् तृतीयेन बद्धो ऽत्यन्तं विवर्धते ।

इत्य् एते वै त्रयः प्रोक्ता बन्धा अन्ज्ञानहेतवः ॥

अनित्ये नित्यसञ्ज्ञा च दुःखे च सुखदर्शनम् ।

अस्वे स्वम् इति च ज्ञानम् अशुचौ शुचिनिश्चयः ॥

रागद्वेषविवृद्धिश् च तत् अज्ञानम् उदाहृतम् ॥

देवलः ।

प्रकृतिबन्धो, वैकारिकबन्धो, दक्षिणाबन्ध इति बन्धत्रयी । तत्राव्यक्तादिभिर् अष्टभिर् बन्धः प्रकृतिबन्धः । इन्द्रियैर् इन्द्रियार्थेषु बन्धो वैकारिकबन्धः । इष्टापूर्तादिभिर् बन्धो दक्षिणाबन्धः । तत्र प्रकृतिषु बन्धो देवतानां दक्षिणाभिर् आश्रमिणां वैकारैर् अन्येषां धर्म ऽज्ञानानि च बन्धहेतवः ।

[१२५] महाभारते ।

सत्त्वं रजस् तम इति गुणाः प्रकृतिसम्भवाः ।

निबध्नन्ति महाबाहो देहे देहिनम् अव्ययम् ॥

तत्र सत्त्वं निर्मलत्वात् प्रकाशकम् अनामयम् ।

सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥

रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् ।

तन् निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥

तमस् त्व् अज्ञानजं विद्धि मोहनं सर्वदेहिनाम् ।

प्रमादालस्यनिद्राभिस् तन् निबध्नाति भारत ॥

सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत ।

रजः सत्त्वं तमश् चैव तमः सत्त्वं रजस् तथा ॥

सर्वदारेषु देहे ऽस्मिन् प्रकाश उपजायते ।

ज्ञानं यदा तदा विद्याद् विवृद्धं सत्त्वम् इत्य् उत ॥

लोभः प्रवृत्तिर् आरम्भः कर्मणाम् अश्मः स्पृहा ।

रजस्य् एतानि जायन्ते विवृद्धे भरतर्षभ ॥

अप्रकाशो ऽप्रवृत्तिश् च प्रमादो मोह एव च ।

तमस्य् एतानि जायन्ते विवृद्धे कुरुनन्दन ॥

यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् ।

तदोत्तमविदांल् लोकान् अमलान् प्रतिपद्यते ॥

रजसि प्रलयं गत्वा कर्मसङ्गेषु जायते ।

तथा प्रलीनस् तमसि मूढयोनिषु जायते ॥

[१२६] कर्मणः सुकृतस्याहुः सात्विकं निर्मलं फलम् ।

रजसस् तु फलं दुःखम् अज्ञानं तमसः फलम् ॥

सत्त्वात् सञ्जायते ज्ञानं रजसो लोभ एव च ।

प्रमादमोहौ तमसो भवतो ऽज्ञानम् एव च ॥

ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ।

जघन्यगुणवृत्तिस्थाः अधो गच्छन्ति तामसाः ॥

मनुः ।

 सत्त्वं रजस् तमश् चैव त्रीन् विद्याद् आत्मनो गुणान् ।

यैर् व्याप्येमान् स्थितो भावान् महान् सर्वान् अशेषतः ॥

यो यथैषां गुणो देहे साकल्येनातिरिच्यते ।

स तदा तद्गुणप्रायं तं करोति शरीरिणम् ॥

सत्त्वं ज्ञानं तमो ऽज्ञानं रागद्वेषौ रजः स्मृतम् ।

एतद् व्याप्तिमद् एतेषां सर्वभूताश्रितं वपुः ॥

यच् च दुःखसमायुक्तम् अप्रीतिकरम् आत्मनः ।

तद् रजो प्रतिघं विद्यात् सततं हाति देहिनाम् ॥

यत् तु स्यान् मोहसंयुक्तं स व्यक्तविषयात्मकम् ।

अप्रतर्क्यम् अविज्ञेयं तमस् तद् उपधारयेत् ॥

तत्र यत् प्रीतिसंयुक्तं किञ्चिद् आत्मनि लक्षयेत् ।

प्रशान्तम् इव शुद्धाभं सत्त्वं तद् उपधारयेत् ॥

[१२७] त्रयाणाम् अपि चैतेषां गुणानां यः फलोदयः ।

अग्र्यो मध्यो जघन्यश् च तं प्रवक्ष्याम्य् अशेषतः ॥

वेदाभ्यासस् तपो ज्ञानं शौचम् इन्द्रियनिग्रहः ।

धर्मक्रियात्मचिन्ता च सात्त्विकं गुणलक्षणम् ॥

आरम्भरतिताधैर्यम् असत्कार्यपरिग्रहः ।

विषयोपसेवा चाजस्रं राजसं गुणलक्षणम् ॥

लोभः स्वप्नो ऽधृतिः क्रौर्यं नास्तिक्यं भिन्नवृत्तिता ।

याचिष्णुता प्रमादश् च तामसं गुणलक्षणम् ॥

त्रयाणाम् अपि चैतेषां गुणानां त्रिषु तिष्ठताम् ।

इदं सामासिकं ज्ञेयं क्रमशो गुणलक्षणम् ॥

यत् कर्म कृत्वा कुवंश् च करिष्यंश् चैव लज्जति ।

तं ज्ञेयं विदुषा सर्वं तामसं गुणलक्षणम् ॥

येनास्मिन् कर्मणा लोके ख्यातिं गच्छति पुष्कलाम् ।

न च शोचत्य् असम्पत्तौ तद् विज्ञेयं तु राजसम् ॥

यत् सर्वं नेच्छति ज्ञातुं लज्जते न यद् आचरन् ।

येन तुष्यति चास्यात्मा तत् सत्त्वगुणलक्षणम् ॥

तमसो लक्षणं कामो रजसस् त्व् अर्थ उच्यते ।

सत्त्वस्य लक्षणं धर्मः श्रैष्ठ्यम् एषां यथाक्रमम् ॥

“सत्त्वम्” ज्ञानमित्यादि । “ज्ञानम्” विवेकः । “अज्ञानम्” मोहः । “उभयरूपम्” रजः । रागद्वेषशब्देनोभयकर्मयोगम् उच्यते । सामान्यम् एतद् एषां लक्षणं व्यापि सर्वप्राणिषु । ऽअप्रतर्क्यऽं तर्को ऽनुमानम्, तदगोचरः । सात्त्विकं लक्षणम् इति । [१२८] सत्त्वगुणम् एतल्लक्षणम् इत्य् अर्थः । “आरम्भरतिता” कर्मणां काम्यानां दृष्टार्थानां चारम्भाभिरतित्वम् । “अधर्यम्” स्वल्पे ऽप्य् उपद्रवहेतौ चेतसो ऽसमाश्वासः । “असत्कार्यम्” परिग्रहः । “लोकशास्त्रविरुद्धकर्माचरणम्” स्वल्पे ऽप्य् अपराधे वैरानुबन्धः । “भिन्नवृत्तिता” शीलभ्रंशः । “याचिता” याचनशीलत्वम् ।

महाभारते ।

आयुः सत्त्वबलारोग्यसुखप्रीतिविवर्धनाः ।

रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥

कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः ।

आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥

यातयामं गतरसं पूति पर्युषितं च यत् ।

उच्छिष्टम् अपि चामेध्यं भोजनं तामसप्रियम् ॥

तथा ।

मुक्तसङ्गो ऽनहंवादी धृत्युउत्साहसमन्वितः ।

सिद्ध्यसिद्ध्योर् निर्विकारः कर्ता सात्त्विक उच्यते ॥

रागी कर्मफलप्रेप्सुर् लुब्धो हिंसात्मको ऽशुचिः ।

हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥

अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिको ऽलसः ।

विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥

बुद्धेर् भेदं धृतेश् चैव गुणतस् त्रिविधं शृणु ।

प्रोच्यमानम् अशेषेण पृथक्त्वेन धनञ्जय ॥

[१२९] प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये ।

बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥

यया धर्मम् अधर्मं च कार्यं चाकार्यम् एव च ।

अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी ॥

अधर्मं धर्मम् इति या मन्यते तमसावृता ।

सर्वार्थान् विपरीतांश् च बुद्धिः सा पार्थ तामसी ॥

धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः ।

योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥

यया तु धर्मकामार्थान् धृत्या धारयते ऽर्जुन ।

प्रसङ्गेन फलाकाङ्क्षी घृतिः सा पार्थ राजसी ॥

यया स्वप्नं भयं शोकं विषादं मदम् एव च ।

न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥

सुखं त्व् इदानीं त्रिविधं शृणु मे भरतर्षभ ।

अभ्यासाद् रमते यत्र दुःखान्तं च नियच्छति ॥

यत् तद् अग्रे विषम् इव परिणामे ऽमृतोपमम् ।

तत् सुखं सात्त्विकं प्रोक्तम् आत्मबुद्धिप्रसादजम् ॥

विषयेन्द्रियसंयोगाद् यत् तद् अग्रे ऽमृतोपमम् ।

परिणामे विषम् इव तत् सुखं राजसं स्मृतम् ॥

यद् अग्रे चानुबन्धे च सुखं मोहनम् आत्मनः ।

निद्रालस्यप्रमादोत्थं तत् तामसम् उदाहृतम् ॥

न तद् अस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।

सत्त्वं प्रकृतिजैर् मुक्तं यद् एभिः स्यात् त्रिभिर् गुणैः ॥

[१३०]

१४ — अथ जीवब्रह्मात्मभावः

तत्र याज्ञवल्क्यः ।

निश्चरन्ति यथा लोहपिण्डात् तप्तात् स्फुलिङ्गकाः ।

सकाशाद् आत्मनस् तद्वद् आत्मनः प्रभवन्ति हि ॥

तत्रात्मा हि स्वयं किञ्चित् कर्म किञ्चित् स्वभावतः ।

करोति किञ्चिद् अभ्यासाद् धर्माधर्मोभयात्मकम् ॥

निमित्तम् अक्षरः कर्ता बोद्धा ब्रह्म गुणी वशी ।

अजः शरीरग्रहणात् स जात इति कीर्त्यते ॥

सर्गादौ स यथाकाशं वायुर् ज्योतिर् जलं महीम् ।

सृजत्य् एकोत्तरगुणांस् तथादत्ते भवन्न् अपि ॥

आहुत्याप्य् आयते सूर्यः सूराद् वृष्टिर् अथौषधीः ।

तद् अन्नं रसरूपेण शुक्रत्वम् उपगच्छति ॥

स्त्रीपुंसयोस् तु संयोगे विशुद्धे शुक्रशोणिते ।

पञ्च धातून् स्वयं षष्ठ आदत्ते युगपत् प्रभुः ॥

इन्द्रियाणि मनः प्राणो ज्ञानम् आयुः सुखं धृतिः ।

धारणं प्रेरेणं दुःखं इच्छाहङ्कार एव च ॥

प्रयत्न आकृतिर् वर्णः स्वरद्वेषौ भवाभवौ ।

तस्यैतद् आत्मजं सर्वम् अनादेर् आदिम् इच्छतः ॥

**[१३१ **[तथा]

यथा हि भरतो वर्णैर् वर्णयत्य् आत्मनस् तनुम् ।

नानारूपाणि कुरुते तथात्मा कर्मजास् तनूः ॥

[तथा]

आकाशम् एकं हि यथा घटादिषि पृथग् भवेत् ।

तथात्मैको ऽप्य् अनेकश् च जलपात्रेष्व् इवांशुमान् ॥

[तथा]

बुद्धीन्द्रियाणि सर्वाणि मनः कर्मेन्द्रियाणि च ।

अहङ्कारश् च बुद्धिश् च पृथिव्यादीनि चैव हि ॥

अव्यक्त आत्मा क्षेत्रज्ञः क्षेत्रस्यास्य निगद्यते ।

ईश्वरः सर्वभूतानां सद् असत् सद् असच् च यः ॥

ऽआत्मानः प्रभवन्तिऽ शुभाशुभकर्मवशेन स्थूलशरीराभिमानिनो जायन्ते । ऽस्वं किञ्चित् करोतिऽ हिताहितप्राप्तिपरिहारार्थं स्वातन्त्र्येण यावत् करोति । “स्वभावतो” जात्याद्युपाधिवशेन यत् करोति यथोष्ट्रस्य कण्टकाशनशीलताभ्यासवशेन । ऽयत् किञ्चित्ऽ दानाध्ययनादीनि “गुणी” [१३२] शक्तिद्वारेण सत्त्वादिगुणयोगी “वशी” स्वतन्त्रः । ऽपञ्च धातून्ऽ पञ्च भूतानि । “धृतिः” चित्तस्थैर्यम् । “भवः” धनपुत्रादिसम्पत्तिः । तद्विपर्ययश् चाभवः । “भरतो” नटः । “सर्वाणि” शब्दाद्यर्थसहितानि ।

महाभारते ।

इदं शरीरं कौन्तेय क्षेत्रम् इत्य् अभिधीयते ।

एतद् यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥

क्षेत्रज्ञ्क़्ं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।

क्षेत्रक्षेत्रज्ञयोर् ज्ञानं यत् तत् ज्ञानं मतं मम ॥

तथा ।

अनादिमत् परं ब्रह्म न सत् तन्नासद् उच्यते ।

सर्वतः पाणिपादं तत् सर्वतो ऽक्षिशिरोमुखम् ॥

सर्वतः श्रुतिमल्लोके सर्वम् आवृत्य तिष्ठति ।

[तथा]

उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः ।

परमात्मेति चाप्य् उक्तो देहे ऽस्मिन् पुरुषः परः ॥

[तथा]

अनादित्वान् निर्गुणत्वात् परमात्मायम् अव्ययः ।

शरीरस्थो ऽपि कौन्तेय न करोति न लिप्यते ॥

यथा सर्वगतं सौक्ष्म्याद् आकाशं नोपलिप्यते ।

सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥

[१३३] यथा प्रकाशयत्य् एकः कृत्स्नं लोकम् इमम् रविः ।

क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥

तथा ।

एष सर्वेषु भूतेषु गूढात्मा न प्रकाशते ।

दृश्यते त्य् अग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥

तथा ।

आश्चर्यवत् पश्यति कश्चिद् एनम्

	आश्चर्यवद् वदति तथैव चान्यः ।

आश्चर्यवच् चैनम् अन्यः शृणोति

	श्रुत्वाप्य् एनं वेद न चैव कश्चित् ॥

याज्ञवल्क्यः ।

यद्य् एवं स कथं ब्रह्मन् पापयोनिषु जायते ।

ईश्वरः स कथं भावैर् अनिष्टः सम्प्रयुज्यते ॥

करणैर् अन्वितस्यापि पूर्वज्ञानं कथं च नः

वेत्ति सर्वगतां कस्मात् सर्वगो ऽपि न देवनाम् ॥

[तथा]

रजसा तमसा चैव समाविष्टो भ्रमन्न् इह ।

भावैर् अनिष्टैः संयुक्तः संसारं प्रतिपद्यते ॥

[१३४] मलिनो हि यथादर्शो रूपालोकस्य न क्षमः ।

[तथाविपक्वकरण आट्मज्ञानस्य न क्षमः] ॥

कट्वेर्वारौ यथापक्वे मधुरः सन् रसो ऽपि न ।

प्राप्यते ह्य् आत्मनि तथा नापक्वकरणे ज्ञता ॥

सर्वाश्रयान्निजे देहे देही विन्दति वेदनाम् ।

योगी युक्तश् च सर्वासां यो न चाप्नोति वेदनाम् ॥

ऽयद्य् एवं सतिऽ यद्य् आत्मैव जीवभावं भजते, तर्ह्य् असौ पापयोनिषु शूकरादिकासु जायते । ऽयद्य् एवम्ऽ इत्यादिनोकप्रश्नत्रये क्रमेणोत्तरम् आह – ऽरजसा तमसा च्ऽ इत्यादिना । “कट्वेर्वरौ” तिक्तकर्कटिकायाम् । “निजदेहे” स्वकर्मोपार्जितशरीरे । ऽयोगी युक्तश् चऽ इत्यादि यश् च योगी युक्तो भवति सर्वासां वेदनानां वेदिता भवति । न च दुःखोपभोक्तेत्य् अर्थः ।

बर्ह्मपुराणे ।

एक एव परात्मासौ द्विधा भिन्नस् तु दृश्यते ।

भोक्ता भोज्यं च लोके ऽस्मिन् स एव परमेश्वरः ॥

कुर्वन्त्य् अचेतनाः कर्म देहेन्द्रियगुणाः समाः ।

चेतनस् तदधिष्ठाता शान्तात्मा न करोत्य् असौ ॥

चलत्य् अचेतनं शस्त्रं ग्रामके निकटस्थिते ।

देहे च करणग्रामे चेष्ठते तदधिष्ठितः ॥

आदित्ये ऽभ्युदिते लोकः कर्माणि कुरुते रविः ।

न तानि कुरुते नान्यत् कारयत्य् अपि कुत्रचित् ॥

[१३५] किं तु स्वभाव् एवैष नैत्यिकः सूर्यलोकयोः ।

चिन्मात्रः सूर्यवज् ज्ञेयो लोकवत् करणान्य् अपि ॥

चैतन्यबोधितस्यापि ममतामूर्छितस्य च ।

प्रभवे सुखदुःखेषु भावना मनसो भवेत् ॥

द्रष्टृत्वे चात्मकर्तृत्वे भोक्तृत्वे कर्मणाम् अपि ।

उत्तमाधममध्यानां ममाहम् इति मूढवत् ॥

सर्वगो ऽपि शरीरस्थस् तज्ज्ञानम् अनुवर्तते ।

नानाविधानां वर्णानां वर्णं धत्ते सुनिर्मलः ॥

स्फटिको न च ते तस्माद् उत्पन्नास् ते ऽपि नाप्य् असौ ।

रजस्तमोभ्यां तत्त्वस्य यथोपाधिश् च निर्मितः ॥

तस्य भारं विभुर् धत्ते न ते तस्य न तस्य सः ।

चले चलः स्थिरे तिष्ठंस् तोये चन्द्रार्कबिम्बवत् ॥

आत्मा तु करणग्रामे दृश्यते न च तत् तथा ।

अदृश्यो दृश्यताम् एति राहुश् चन्द्रार्कमण्डले ॥

आत्मा सर्वगतो बुद्धौ दृश्यते चापि संस्थितः ।

दर्शने निर्मले लोको निश्चैतन्यैः स्वमाननम् ॥

पश्यत्य् आत्मानम् आत्मायं निर्मलायां धियि त्वयि ।

वर्णाश्रमास् तथा वासः स्वर्गे नरक एव च ॥

पुरुषस्य न सन्त्य् एते परमात्मनः कुत्रचित् ।

दृश्यते च जगद्रूपम् असत्यं सत्यवन् मृषा ॥

तोयवन् मृगतृष्णास् तु तथा मरुमरीचिषु ।

एक एव सूर्यो बहुधा जलाधारेषु दृश्यते ॥

आभाति परमात्मैव सर्वाधारेषु संस्थितः ।

ब्रह्म चैव शरीरेषु बाह्ये चाभ्यन्तरे स्थितम् ॥

आकाशम् इव कुम्भेषु बुद्धिगम्यं न चान्यथा ।

[१३६] एवं सति यया बुद्ध्या देहो ऽहम् इति मन्यते ॥

अनात्मनात्मनो भ्रान्त्या सा स्यात् संसारबन्धना ।

सर्वैर् विकल्पैर् हीनस् तु शुद्धो बुद्धो ऽजरामरः ॥

प्रशान्तो व्योमवद् व्यापी चैतन्यात्मा सकृत् प्रभुः ।

शर्करा गुडखण्डा वा यथैवेक्षुरसोद्भवाः ॥

तथावस्थाग्रभेदाश् च बहुरूपा इहात्मनः ।

प्राणो ऽचिराद् अविज्ञानम् अन्तर्याम्य् अविकारकः ॥

देशकालशरीराग्निं तस्यावस्थाभिधानवत् ।

प्राणाद्यनन्तभेदैश् च स्वम् आत्मानं तु जालवत् ॥

विहृत्य संहरत्य् एष क्रीडमानः स्वयं हरिः ।

अप्राप्तैर् आदिमध्यान्तैर् भ्रमभूतैस् त्रिभिः सदा ॥

जाग्रत्स्वप्नसुषुप्तैश् च छादितं विश्वतेजसम् ।

तुर्यं तु परमात्मानम् अव्यक्तं शाश्वतं पदम् ॥

ज्ञेया जाग्रदवस्था च प्रजागरणजाग्रवत् ।

स्वप्नावस्था च हृद्व्योम्नि सूक्ष्मनाड्या स्थितस्य च ॥

देहेन्द्रियगुणानां च परित्यागः सुषुप्तता ।

 सम्बोधः सर्वभावानां तुर्यं चिन्मात्रम् उच्यते ॥

धूमाभ्रधूलिभिर् व्योम यथा न मलिनीयते ।

प्राकृतैर् अपमृष्टो न विकारैः पुरुषस् तथा ॥

यथैकस्मिन् घटाकाशे मलैर् धूमादिभिश् चिते ।

नान्ये यान्ति मलिनतां दूरस्थाः कुत्रचित् क्वचित् ॥

तथा द्वन्द्वैर् अनेकैश् च जीवे च मलिनीकृते ।

एकस्मिन् नापरे जीवा मलिनाः सन्ति कुत्रचित् ॥

“भोज्यम्” पृथिव्यादिविकारजातम् । “शस्त्रम्” लोहम् । ऽतत्स्वभावानुगं मनःऽ स्वभावानुगः । “धियि” बुद्धौ [१३७] महत्तत्त्वे । “अभिधानवत्” देवदत्तादिनामवत् । “दूरस्थाः” घटाकाशाः ।

तथा ।

एकस्माद् एव चैतन्याज् जाताः क्षेत्रज्ञजातयः ।

लोहाज् ज्वलनसन्दीप्तान् मरीचय इवास्तृताः ॥

विभागत्यागसंयोगजन्ममृत्युसमागमैः ।

वर्जितः सर्वभूतात्मा नभः कुम्भेष्व् अवस्थितः ॥

तत्र सक्तस् तु पुरुषो बध्यते प्रकृतेर् वशात् ।

चौरसंसर्गदोषेण बध्यते शीलवान् इव ॥

तुषारो बुद्बुदः फेनो जलस्य सहजास् त्रयः ।

अग्रेर् धूमस् तथा विष्णोर् मायैषा सहजा सदा ॥

एतां विमोहनिर्व्यक्तां मायां द्वैतस्वरूपिणीम् ।

अद्वैतं भाव्येद् ब्रह्म सकलं निष्फलं सदा ॥

महाभारते ।

श्रीभगवान् उवाच ।

प्रकृतिं पुरुषं चैव विद्ध्य् अनादी उभाव् अपि ।

विकारांश् च गुणांश् चैव विद्धि प्रकृतिसम्भवान् ॥

कार्यकारणकर्तृत्वे हेतुः प्रकृतिर् उच्यते ।

पुरुषः सुखदुःखानां भोक्तृत्वे हेतुर् उच्यते ॥

पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान् ।

कारणं गुणसङ्गो ऽस्य सदसद्योनिजन्मसु ॥

[१३८] प्रकृतिस् तेजोवन्न् अलक्षणा प्रवाहरूपेणानादिः, सर्गः पुनः प्रलयः पुनर् इति संसारस्यानादित्वात् । पुरुषः पर्मात्मांशो ऽनादिर् अभिन्नो ऽपि सन् परमार्थतो न कदाचिद् व्यक्तपूर्वः । “कर्माविद्याभ्याम्” इति, कार्यं शरीरम्, कारणानीन्द्रियाणि, तयोः कर्तृत्वे निर्वर्तकत्वे प्रकृतिः कारणम् । एतेन भोग्यवर्गः सर्वः प्रकृतितो जायत इत्य् उक्तं भवति । “प्रकृतिस्थः” कार्यकारणसङ्घातस्थः । ऽभुङ्क्ते प्रकृतिजान्ऽ प्रकृतितो जातान् सुखदुःखमोहान् भुङ्क्ते । “गुणेषु” कार्यकारणलक्षणेषु “सङ्गो” विपरीतग्रहो ऽहं ममेति प्रत्ययः सदसद्योनिप्राप्तिषु कारणम् इत्य् अर्थः । “सद्योनयो” देवाद्याः, “असद्योनयस्” तिर्यगाद्याः, मध्ययोनयस् तु मनुष्या इति ।

तथा ।

भूमिर् आपो ऽनलो वायुः खं मनो बुद्धिर् एव च ।

अहङ्कार इतीयं मे भिन्ना प्रकृतिर् अष्टधा ॥

अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् ।

जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥

एतद्योनीनि भूतानि सर्वाणीत्य् उपधारय ।

अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा ॥

[१३९] मत्तः परतरं नान्यत् किञ्चिद् अस्ति धनञ्जय ।

मयि सर्वम् इदं प्रोतं सूत्रे मणिगणा इव ॥

ये चैव सात्त्विका भावा राजसास् तामसाश् च ये ।

मत्त एवेति तान् विद्धि न त्व् अहं तेषु ते मयि ॥

त्रिभिर् गुणमयैर् भावैर् एभिः सर्वम् इदं जगत् ।

मोहितं नाभिजानाति माम् एभ्यः परम् अव्ययम् ॥

दैवी ह्य् एषा गुणमयी मम माया दुरत्यया ।

माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते ॥

न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।

माययापहृतज्ञाना आसुरं भावम् आश्रिताः ॥

[तथा]

मया ततम् इदं सर्वं जगद् अव्यक्तमूर्तिना ।

मत्स्थानि सर्वभूतानि न चाहं तेष्व् अवस्थितः ॥

न च मत्स्थानि भूतानि पश्य मे योगम् ऐश्वरम् ।

भूतभृन् न च भूतस्थो ममात्मा भूतभावनः ॥

यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।

तथा सर्वाणि भूतानि मत्स्थानीत्य् उपधारय ॥

सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।

कल्पक्षये पुनस् तानि कल्पादौ विसृजाम्य् अहम् ॥

प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः ।

भूतग्रामम् इमं कृत्स्नम् अवशं प्रकृतेर् वशात् ॥

न च मां तानि कर्माणि निबध्नन्ति धनञ्जय ।

उदासीनवद् आसीनम् असक्तं तेषु कर्मसु ॥

[१४०] मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् ।

हेतुनानेन कौन्तेय जगद् विपरिवर्तते ॥

अवजानन्ति मां मूढा मानुषीं तनुम् आश्रितम् ।

परं भावम् अजानन्तो मम भूतम् महेश्वरम् ॥

मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।

राक्षसीम् आसुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥

महात्मानस् तु मां पार्थ दैवीं प्रकृतिम् आश्रिताः ।

भजन्त्य् अनन्यमनसो ज्ञात्वा भूतादिम् अव्ययम् ॥

[तथा]

अजो ऽपि सन्न् अव्ययात्मा भूतानाम् ईश्वरो ऽपि सन् ।

प्रकृतिं स्वाम् अवष्टभ्य सम्भवाम्य् आत्ममायया ॥

यदा यदा हि धर्मस्य ग्लानिर् भवति भारत ।

अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्य् अहम् ॥

परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।

धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥

“जीवभूताम्” जीवत्वं प्राप्ताम् । भोक्तृत्वेनावस्थितां चेतनाम् । “प्रोतम्” ग्रथितम् ।

विष्णुपुराणे ।

विस्तारः सर्वभूतस्य विष्णोर् विश्वम् इदं जगत् ।

द्रष्टव्यम् आत्मवत् तस्माद् अभेदेन विचक्षणैः ॥

तथा ।

ज्ञानस्वरूपम् अखिलं जगद् एतद् अबुद्धयः ।

अर्थस्वरूपं पश्यन्तो भ्राम्यन्ते मोहसम्प्लवे ॥

[१४१] ज्योतींषि विष्णुर् भुवनानि विष्णुः

	वनानि विष्णुर् गिरयो दिशश् च ।

नद्यः समुद्राश् च स एव सर्वं

	यद् अस्ति यन् नास्ति च विप्रवर्य ॥

ज्ञानस्वरूपो भगवान् यतोऽसाव्

	अशेषमूर्तिर् न च वस्तुभूतः ।

ततो हि शैलाब्धिधरादिभेदान्

	जानीहि विज्ञानविजृम्भितानि ॥

यदा तु शुद्धं निजरूपि सर्वं

	कर्मक्षये ज्ञानम् अपास्तदोषम् ।

तदा हि सङ्कल्पतरोः फलानि

	भवन्ति नो वस्तुषु वस्तुभेदाः ॥

वस्त्व् अस्ति किं कुत्रचिद् आदिमध्य-

	पर्यन्तहीनं सततैकरूपम् ।

यच् चान्यथात्वं द्विज याति भूतो

	न तत् तथा तत्र कुतो हि तत्त्वम् ॥

मही घटत्वं घटतः कपालिकाः

	कपालिका चूर्णरजस् ततो ऽणुः ।

जनैः स्वकर्मस्तिमितात्मनिश्चयैर् 

	आलक्ष्यते ब्रूहि किम् अत्र तत्त्वम् ॥

तस्मान् न विज्ञानम् ऋते ऽस्मिन् किञ्चित्

	क्वचित् कदाचिद् द्विज वस्तुजातम् ।

[१४२] विज्ञानम् एकं निजकर्मभेद-

	विभिन्नवृत्तैर् बहुधाभ्युपेतम् ॥

ज्ञानं विशुद्धं विमलं विशोकम्

	अशेषलोभादि निरस्तसञ्ज्ञम् ।

एकं सद् एकं परमं परेशः

	स वासुदेवो ऽस्ति यतो न किञ्चित् ॥

सद्भाव एवं भवतो मयोक्तो

	ज्ञानं यथा सत्यम् असत्यम् अन्यत् ।

एतत् तु यत् संव्यवहारभूतं

	तत्रापि चोक्तं भुवनाश्रितं ते ॥

यज्ञे पशुर् वह्निर् अशेष ऋत्विक्

	सोमः सुराः स्वर्गमयश् च कामः ।

इत्यादिकर्माश्रितमार्गदृष्टं

	भूरादिभोगाश् च फलानि तेषाम् ॥

यच् चैतत् भुवनगतं मया तवोक्तं

	सर्वत्र व्रजति हि तत्र कर्मवश्यः ।

ज्ञात्वैतद् धुर्वम् अचलं स चैकरूपं

	तत् कुर्याद् विशति हि येन वासुदेवम् ॥

ऽज्ञानस्वरूपऽं ज्ञानं चित्स्वरूपम्, ब्रह्म तदात्मकं जगत् । यथा मृत्स्वरूपो घटः । “अबुद्धयः” अतत्त्वज्ञाः । “अर्थस्वरूपम्” यत् स्वभावं प्रकृत्याद्यर्थोपादनतया तत्स्वरूपम् । [१४३] “मोहसम्प्लवे” मिथ्याज्ञानसागरे । ऽयद् अस्ति यन् नास्ति चऽ इति यद् भावस्वरूपं तत् सर्वं स एवेत्य् अर्थः । ऽन च वस्तुभूतःऽ न यत् पृथिव्यादिभिः भूतः । ऽनो वस्तुषु वस्तुभेदऽ इति न क्रियाकारवस्तुषु पृथिव्यादिषु जातस्वभावेष्व् एव सत्सु वस्तुभेदात् घटादयो भवन्ति । किं तु सङ्कल्पवशेनेत्य् अर्थः ।

तथा च श्रुतिः- “सङ्कल्पाद् एवास्य् पितर उपतिष्ठन्ति” इति । 

व्याख्यातं चेदम् ऽसङ्कल्पाद् एव तु तच्छ्रुतेःऽ इत्य् अत्र वेदान्तसूत्रे । ऽअसत्यम् अन्यद्ऽ इति अन्यद् ब्रह्माद्यतिरिक्तम् असत्यम् अन्यथात्वं भजते विनश्यतीत्य् अर्थः । ऽसद्भाव एवम्ऽ इत्यादिश्लोके कर्मकालस्यानित्यत्वात् ऽज्ञानेन वासुदेवप्राप्तौ यत्नः कर्तव्यः इत्य् उक्तं भवति ।

इति कृत्यकल्पतरौ मोक्षकाण्डे वैराग्यपर्म

[१४४]

१५ — अथ ज्ञानकर्मोपयोगः

तत्र महाभारते ।

मोक्षे हि त्रिविधा निष्ठा दृष्टा पूर्वैर् महर्षिभिः ।

ज्ञाननिष्ठां वदन्त्य् एके मोक्षशास्त्रविदो जनाः ॥

कर्मनिष्ठां वदन्त्य् अन्ये यतयः सूक्ष्मदर्शिनः ।

प्रहायोभयम् अप्य् एतद् ज्ञानं कर्म च केवलम् ॥

तृतीये ऽयं समाख्याता निष्ठा तेन महात्मना ।

तथा ।

शुक उवाच ।

यद् इदं वेदवचनं कुरु कर्म त्यजेति च ।

कां दिशं विद्यया यान्ति कां च गच्छन्ति कर्मणा ॥

एतद् वै श्रोतुम् इच्छामि तद्भावात् प्रब्रवीतु मे ।

एतद् यो ऽन्योन्यवैरूप्ये वर्तते प्रतिकूलतः ॥

इत्य् उक्तः प्रत्युवाचेदं पराशरसुतः सुतम् ।

कर्मविद्यामयाव् एतौ व्याख्यास्यामि सुताक्षरौ ॥

यां दिशं विद्यया यान्ति यां च गच्छन्ति कर्मणा ।

शृणुष्वैकमनाः पुत्र सङ्करं ह्य् एतद् अन्तरम् ॥

कर्मणा बध्यते जन्तुर् विद्यया तु प्रमुच्यते ।

तस्मात् कर्म न कुर्वन्ति यतयः पारदर्शिनः ॥

[१४५] कर्मणा जायते प्रेत्य मूर्तिमान् षोडशात्मकः ।

विद्यया जायते नित्यम् अव्ययो ह्य् अव्ययात्मकः ॥

कर्म त्व् एके प्रशंसन्ति स्वल्पबुद्धितरा नराः ।

तेन ते देहजातानि वशयन्त उपासते ॥

ये तु बुद्धिं परां प्राप्ता धर्मनैपुण्यदर्शिनः ।

न ते कर्म प्रपश्यन्ति कूपं नद्यां पिबन्न् इव ॥

कर्मणः फलम् आप्नोति सुखदुःखे भवाबवौ ।

विद्यया तद् अवाप्नोति यत्र गत्वा न शोचते ॥

यत्र गत्वा न म्रियते यत्र गत्वा न जायते ।

न जीर्यते यत्र गत्वा यत्र गत्वा न वर्धते ॥

“धर्मनैपुण्यदर्शिनः” परमं धृतिसाधनं तारतम्यं विजानन्तः । यथाह मनुः ।

अयं तु परमो धर्मो यद् योगेनात्मदर्शनम् ॥ इति ।

“भवाभवौ” जन्ममरणे । “विद्यया” ब्रह्मज्ञानेन ।

मारकण्डेयपुराणे ।

पुत्र उवाच ।

एवं संसारचक्रे ऽस्मिन् भ्रमता तात सङ्कटे ।

ज्ञानम् एतन् मया प्राप्तं मोक्षसम्प्राप्तिकारणम् ॥

विज्ञायते ऽत्र सर्वो ऽयम् ऋग्यजुःसामसञ्ज्ञितः ।

“ऋग्यजुःसामभिः” बोधितः ।

[१४६] योगियाज्ञवल्क्यः ।

परिज्ञानाद् भवेन् मुक्तिर् एतद् आलस्यलक्षणम् ।

कायक्लेशमयं चैव कर्म नेच्छन्त्य् अपण्डिताः ॥

ज्ञानकर्मसमायोगात् परम् आप्नोति पूरुषम् ।

पृथग्भावे न सिध्येत उभे तस्मात् समाश्रयेत् ॥

ज्ञानं प्रधानं न तु कर्महीनं

	कर्मप्रधानं न तु बुद्धिहीनम् ।

तस्माद् द्वयोर् एव भवेत् तु सिद्धिः

	न ह्य् एकपक्षो विहगः प्रयाति ॥

ऽन सिध्येतऽ न मुच्येत । “उभे” ज्ञानकर्मणी ।

बृहस्पतिः ।

सत्यं यज्ञस् तपो दानम् एतद् धर्मस्य लक्षणम् ।

धर्मात् सुखं च ज्ञानं च ज्ञानान् मोक्षो ऽधिगम्यते ॥

मार्कण्डेयपुराणे ।

उपयोगेन पुण्यानाम् अपुण्यानां च पार्थिव ।

कर्तव्यम् इति नित्यानाम् अकामकरणात् तथा ॥

असञ्चयाद् पूर्वस्य क्षयात् पूर्वार्जितस्य च ।

कर्मणो बन्धम् आप्नोति शरीरं च पुनः पुनः ॥

“अकामकरणात्” काम्यकर्माकरणाद् इत्य् अर्थः ।

मनुः ।

सुखाभ्युदयिकं चैव नैःश्रेयसिकम् एव च ।

[१४७] प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ॥

इह चामुत्र वा काम्यं प्रवृत्तं कर्म कीर्त्यते ।

निष्कामं ज्ञानपूर्वं तु निवृत्तम् उपदिश्यते ॥

प्रवृत्तं कर्म संसेव्य देवानाम् एति सात्मताम् ।

निवृत्तं सेवमानं तु भूतान्य् अत्येति पञ्चमे ॥

सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।

समं पश्यन्न् आत्मयाजी स्वाराज्यम् अधिगच्छति ॥

यथोक्तान्य् अपि कर्माणि परिहाय द्विजोत्तमः ।

आत्मज्ञाने शमे च स्याद् वेदाभ्यासे च यत्नवान् ॥

एतद् द्विजस्य सामग्र्यं ब्राह्मणस्य विशेषतः ।

प्राप्यैतत् कृतकृत्यो हि द्विजो भवति नान्यथा ॥

“सुखाभ्युदयिकम्” इत्य् अत्र सुखस्याभ्युदय उत्पत्तिः फलम् अस्यास्तीति मत्वर्थीयष्टन् । “नैःश्रेयसिकम्” निःश्रेयसं मोक्षः प्रयोजनं यस्य कर्मणस् तत् तथा । ऽप्रवृत्तनिवृत्ते कर्मणीऽयथाक्रमं संसारप्रवृत्तिनिवृत्तिहेतुभूते उच्येते । सात्मतां समानशक्तित्वम् । “स्वाराज्यम्” इति स्वयम् एव राजते प्रकाशत इति स्वराट् ब्रह्म तस्य भावः स्वाराज्यं ब्रह्मभावं प्राप्नोतीत्य् अर्थः ।

महाभारते ।

लोके ऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।

ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥

[१४८] न कर्मणाम् अनारम्भान् नैष्कर्म्यं पुरुषो ऽश्नुते ।

न च सन्न्यसनाद् एव सिद्धिं समधिगच्छति ॥

न हि कश्चित् क्षणम् अपि जातु तिष्ठत्त्य् अकर्मकृत् ।

कार्यते ह्य् अवशः कर्म सर्वः प्रकृतिजैर् गुणैः ॥

कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।

इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते ॥

यस् त्व् इन्द्रियाणि मनसा नियम्यारभते ऽर्जुन ।

कर्मेन्द्रियैः कर्मयोगम् असक्तः स विशिष्यते ॥

नियतं कुरु कर्म त्वं कर्म ज्यायो ह्य् अकर्मणः ।

शरीरयात्रापि च ते न प्रसिद्ध्येद् अकर्मणः ॥

यज्ञार्थान् कर्मणो ऽन्यत्र लोको ऽयं कर्मबन्धनः ।

तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥

ऽलोके “स्मिन्” अपवर्गमार्गाधिकृते । “निष्ठा” स्थितिः । ऽज्ञानयोगेन साङ्ख्यानाम्ऽ सम्यक् ख्यातवन्तः साक्षात्कृतात्मतत्त्वाः साङ्ख्याः, तेषां प्राधान्येन स्थितिर् उक्ता । कर्मापि यथाप्राप्तम् आश्रमविहितं ज्ञानपरिपाकार्थं प्रत्यवायपरिहारार्थं चास्त्य् एव । ऽकर्मयोगेन योगिनाम्ऽ इति सत्त्वयोगवताम् ईश्वराराधनार्थं कर्म कुर्वतां कर्मप्राधान्येन स्थितिः । आत्मसाक्षात्कारविज्ञानोपायत्वात् । तथा चोक्तम् ।

ज्ञानम् उत्पद्यते पुंसां क्षयात् पापस्य कर्मणः ।

यथादर्शतलप्रख्ये पश्येद् आत्मानम् आत्मनि ॥

“आत्मनि” बुद्धाव् इत्य् अर्थः । पापक्षयश् धर्मात् ऽधर्मेण पापम् अपनुदति । तपसा ब्रह्म विजिज्ञासस्वऽ इति श्रुतेः । ज्ञानम् अपि सामान्यरूपम् अस्तीति क्वचित् किञ्चित् प्रधानम् इति विशेषो न समुच्चये ।

[१४९] ज्ञानकर्मसमायोगात् परम् आप्नोति पूरुषम् ।

पृथग्भावेन सिध्येत उभे तस्मात् समाश्रयेत् ॥

इति योगियाज्ञवल्क्यवचनात् । ज्ञानाद् एव केवलान् मुक्तिर् इति सर्वं श्रौतं स्मार्तं कर्म न कर्तव्यं बन्धहेतुत्वाद् इति निराकृतम् । “न कर्मणाम् अनारम्भान् नैष्कर्म्यम्” इत्यादिना नैष्कर्म्यम्, पुण्यापुण्यरहितत्वम्, मोक्षम् इत्य् अर्थः । “सन्न्यसनात्” उत्तमाश्रमग्रहणात् । “असक्तः” फलसङ्गरहितः । ऽयज्ञार्थात् कर्मणो “न्यत्र” इति यज्ञशब्देन यज्ञपुरुष उच्यते । ऽयज्ञो वै विष्णुर्ऽ इति श्रुतेः । तेनेश्वराराधनार्थं कर्म वर्जयित्वान्यत् स्वर्गादिफलार्थं कर्म बन्धाय भवतीत्य् अर्थः ।

तथा च ।

यत् करोषि यद् अश्नासि यज् जुहोषि ददासि यत् ।

यत् तपस्यसि कौन्तेय तत् कुरुष्व मदर्पण्म् ॥

शुभाशुभफलैर् एवं मोक्ष्यसे कर्मबन्धनैः ।

सन्न्यासयोगयुक्तात्मा विमुक्तो माम् उपैष्यसि ॥

ऽयत् करोषिऽ स्नानादि । ऽयद् अश्नासिऽ इत्य् अत्राशनं प्राणाहुतिरूपम् ।

[१५०] तथा ।

कर्मण्य् एवाधिकारस् ते मा फलेषु कदाचन ।

मा कर्मफलहेतुर् भूर् मा ते सङ्गो ऽस्त्व् अकर्मणि ॥

योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।

सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥

दूरेण ह्य् अवरं कर्म बुद्धियोगाद् धनञ्जय ।

बुद्धौ शरणम् अन्विच्छ कृपणाः फलहेतवः ॥

बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।

तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम् ॥

कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।

जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्य् अनामयम् ॥

ऽकर्मण्य् एवऽ इति कर्मण्य् एव आशृअमोचिते तवाधिकारो ऽवश्य्कर्तव्यत्वात्, न तु कर्मफलेषु । मा ते फलेष्व् अधिकार इत्य् एतस्यार्थं स्फुटयति – ऽमा कर्मफलहेतुर् भूःऽ इति । कर्मफलं कामयमानः “कर्महेतुः” कर्मणो ऽनुष्ठाता । ऽमा भूस् त्वम्ऽ इति फलेच्छा त्वया ना कर्तव्येत्य् उक्तं भवति । ऽमा ते सङ्गो ऽस्त्व् अकर्मणिऽ इति न चैवं सति कर्मकरण आसक्तिस् त्वया न कर्तव्या, किं तु कर्तव्यान्य् एव कर्माणीत्य् अर्थः । कथं तर्हि कर्माणि कर्तव्यानि इत्य् आकाङ्क्षायाम् आह “योगस्थः” इत्यादि । यानि नित्यानि कर्माणि सन्ध्यावन्दनादीनि “योगस्थः” फलसङ्गं त्यक्त्वा कर्मफलसिद्ध्यसिद्ध्योः हर्षविषादरहितत्वेन समो भूत्वा कुरु । ईश्वराराधनार्थे च क्रियमाणे कर्मणि नास्ति वैषम्यम् । स एव कर्ता तदात्मकं च कर्मेति [१५१] क्रियमाणं तत्प्राप्तिहेतुत्वं भजत् इत्य् अर्थः । तद् इदं समत्वं योग उच्यते ।

समत्वबुद्धियुक्ताद् अस्मात् कर्मणो दूरेण ज्ञानरहितं कर्म जघन्यम् । ऽबुद्धौ शरणम् अन्विच्छऽ बुद्धिम् आश्रयेत्य् अर्थः । "फलहेतवः" । फलं प्रवृत्तिहेतुर् येषां ते तथा । "बुद्धियुक्तः" इति ईश्वराराधनार्थं कर्मेत्य् अनया बुद्ध्या युक्तः कर्म कुर्वन् । नारब्धे शुभाशुभे कर्मणी जहातीत्य् अर्थः । ऽयोगाय युज्यस्वऽ समत्वयोगाय यतस्व । ऽकर्मसु कौशलम्ऽ इति । इदं यद् ब्रह्मणि समर्पणं कर्मणः फलसङ्कल्परहितता च । "कर्मजम्" इति शुभाशुभकर्मजं ऽफलं त्यक्त्वाऽ जन्मलक्षण्रहिताः सर्वोपद्रवशून्यं विष्णोः स्थानं गच्छन्ति इत्य् अर्थः ।

तथा ।

न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ।

इति मां यो ऽभिजानाति कर्मभिर् न स बध्यते ॥

एवं ज्ञात्वा कृतं कर्म पूर्वैर् अपि मुमिक्षुभिः ।

कुरु कर्मैव तस्मात् त्वं पूर्वैः पूर्वतरं कृतम् ॥

ऽन मां कर्माणिऽ इति, न मां कर्माणि लिम्पन्ति यतो मम कर्मफले स्पृहा नास्ति । एव अन्यो ऽपि यः स्वव्यापारे [२५२] वीतफलतृष्णः “परमेश्वरायेदम्” इति कर्मणि प्रवर्तते सो ऽपि कर्मभिर् न बध्यत इत्य् अर्थः ।

तथा ।

अर्जुन उवाच ।

सन्न्यासं कर्मणा कृष्ण पुनर् योगं च शंससि ।

यच् छ्रेय एतयोर् एकं तन् मे ब्रूहि सुनिश्चितम् ॥

श्रीभगवान् उवाच ।

सन्न्यासः कर्मयोगश् च निःश्रेयसकराव् उभौ ।

तयोस् तु कर्मसम्म्यासात् कर्मयोगो विशिष्यते ॥

ज्ञेयः स नित्यसन्न्यासी यो न द्वेष्टि न काङ्क्षति ।

निर्द्वन्द्वो हि महाबाहो सुखं बन्धात् प्रमुच्यते ॥

साङ्ख्ययोगौ पृथग् बालाः प्रवदन्ति न पण्डिताः ।

एकम् अप्य् आस्थितः सम्यग् उभयोर् विन्दते फलम् ॥

यत् साङ्ख्य प्राप्यते स्थानं अद् योगैर् अपि गम्यते ।

एकं साङ्ख्यं च योगं च यः पश्यति स पायति ॥

सन्न्यासस् तु महाबाहो दुःखम् आप्तुम् अयोगतः ।

योगयुक्तो मुनिर् ब्रह्म न चिरेणाधिगच्छति ॥

योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।

सर्वभूतात्मभूतात्मा कुर्वन्न् अपि न लिप्यते ॥

नैव किञ्चित् करोमीति युक्तो मन्येत तत्त्ववित् ।

[२५३] पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् शव्सन् ॥

प्रलपन् विसृजन् गृह्णन्न् उन्मिष्न् निमिषन्न् अपि ।

इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥

ब्रह्मण्य् आधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।

लिप्यते न स पापेन पद्मपत्रम् इवाम्भसा ॥

कायेन मनसा बुद्ध्या केवलैर् इन्द्रियैर् अपि ।

योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥

युक्तः कर्मफलं त्यक्त्वा शान्तिम् आप्नोति नैष्ठिकीम् ।

अयुक्तः कामकारेण् फले सक्तो निबध्यते ॥

ऽकर्मसन्न्यासात् कर्मयोगो विशिष्यतेऽ इति । कृतानां कर्मणाम् ईश्वरे सन्न्यासो य उक्त्स् तस्माद् ब्रह्मैव कर्तृ कारकान्तरं च कर्म चेति यः कर्मयोगः स विशिष्यते । कथम् । द्वैतविषयो हि सन्न्यासः, कर्मयोगः पुनर् अद्वैतविषयः, साक्षात् सम्यग्दर्शनाश्रय इत्य् अर्थः । “निर्द्वन्द्वो” रागद्वेषादिद्वन्द्वरहितः । “सन्न्यासस्थितिः” सन्न्यासयोगव्यतिरेकेणानुष्ठीयमानो दुःखं प्राप्तुं भवति न तु ब्रह्मसाक्षात्कारायेत्य् अर्थः । ब्रह्म नचिरेणाधिगच्छति ब्रह्माचिरेण साक्षात् करोति । “योगयुक्तः” अद्वैतदर्शने स्थितः । “विशुद्धात्मा” निर्मलीकृतबुद्धिः । “विजितात्मा” जितमनोवृत्तिः । इन्द्रियाणीन्द्रियार्थेष्व् इति । ऽएतेष्व् इन्द्रियार्थेषु इन्द्रियाणि वर्तन्तेऽ मम [१५४] नात्र कर्तृत्वम् इति चित्तं धार्येत् । “योगयुक्तो” मन्येतेत्य् अर्थः । ऽशान्तिम् आप्नोति नैष्ठिकीम्ऽ सुखम् आत्यन्तिक्ं प्राप्नोति ।

तथा ।

अर्जुन उवाच ।

सन्न्यासस्य महाबाहो तत्त्वम् इच्छामि वेदितुम् ।

त्यागस्य च हृषीकेश पृथक् केशिनिषूदन ॥

श्रीभगवान् उवाच ।

काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः ।

सर्वकर्मफलत्यागं प्राहुस् त्यागं विचक्षणाः ॥

त्याज्यं दोषवद् इत्य् एके कर्म प्राहुर् मनीषिणः ।

यज्ञदानतपःकर्म न त्याज्यम् इति चापरे ॥

निश्चयं शृणु मे तत्र त्यागे भरत्सत्तम ।

त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ॥

यज्ञो दानं तपः कर्म न त्याज्यं कार्यम् एव तत् ।

यज्ञो दानं तपश् चैव पावनानि मनीषिणाम् ॥

एतान्य् अपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च ।

कर्तव्यानीति मे पार्थ निश्चितं मतम् उत्तमम् ॥

नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते ।

मोहात् तस्य परित्यागस् तामसः परिकीर्तितः ॥

दुःखम् इत्य् एव यत् कर्म कायक्लेशभयात् त्यजेत् ।

स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥

कार्यम् इत्य् एव यत् कर्म नियतं क्रियते ऽर्जुन ।

सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्विको मतः ॥

[१५५] न द्वेष्ट्य् अकुशलं कर्म कुशले नानुषज्जते ।

त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥

न हि देहभृता शक्यं त्यक्तुं कर्माण्य् अशेषतः ।

यस् तु कर्मफलत्यागी स त्यागीत्य् अभिधीयते ॥

अनिष्टम् इष्टं मिश्रं च त्रिविधं कर्मणः फलम् ।

भवत्य् अत्यागिनां प्रेत्य न तु सन्न्यासिनां क्वचित् ॥

ऽसङ्गं त्यक्त्वा हि कथ्यन्तेऽ पूजादिफलं त्यक्त्वा फलानि चादृष्टार्थानि । “नियतस्य” नित्यनैमित्तिकक्स्य । ऽन देवेष्ट्य् अकुशलम्ऽ इत् दुःखसाधनम् अवमानाक्रोशताडनादि । ऽन द्वेष्टिऽ पूर्वकर्मफलं मया भुज्यत इति मत्वा शाम्यति । “कुशले” सत्कारपूजादिसुखसाधने ।

तथा ।

अनाश्रितः कर्मफलं कार्यं कर्म करोति यः ।

स सन्न्यासी च योगी च न निरग्निर् न चाक्रियः ॥

यं सन्न्यासम् इति प्राहुर् योगं तं विद्धि पाण्डव ।

न ह्य् असन्न्यस्तसङ्कल्पो योगी भवति कश्चन ॥

आरुरुक्षोर् मुनेर् योगं कर्म कारणम् उच्यते ।

तथा ।

यस् त्व् आत्मरतिर् एव स्याद् आत्मतृप्तश् च मानवः ।

आत्मन्य् एव च सन्तुष्टस् तस्य कार्यं न विद्यते ॥

नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।

न चास्य सर्वभूतेषु कश्चिद् अर्थव्यपाश्रयः ॥

[१५६] तस्माद् असक्तः सततं कार्यं कर्म समाचर ।

असक्तो ह्य् आचरन् कर्म परम् आप्नोति पूरुषः ॥

कर्मणैव हि संसिद्धिम् आस्थिता जनकादयः ।

लोकसङ्ग्रहम् एवापि सम्पश्यन् कर्तुम् अर्हसि ॥

यद् यद् आचरति श्रेष्ठस् तत् तद् एवेतरो जनः ।

स यत् प्रमाणं कुरुते लोकस् तद् अनुवर्तते ॥

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।

नानवाप्तम् अवाप्तव्यं वर्त एव च कर्मणि ॥

यदि ह्य् अहं न वर्तेयं जातु कर्मण्य् अतन्द्रितः ।

मम वर्त्वानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥

उत्सीदेयुर् इमे लोका न कुर्यां कर्म चेद् अहम् ।

सङ्करस्य च कर्ता स्याम् उपहन्याम् इमाः प्रजाः ॥

सक्ताः कर्मण्य् अविद्वांसो यथा कुर्वन्ति भारत ।

कुर्याद् विद्वांस् तथासक्तश् चिकीर्षुर् लोकसङ्ग्रहम् ॥

न बुद्धिभेदं जनयेद् अज्ञानां कर्मसङ्गिनाम् ।

जोषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन् ॥

आत्मन्य् एव रतिर् यस्य न विषयेषु स “आत्मरतिः” । आत्मन्य् एव तृप्तो नान्नरसादिना स आत्मतृप्तः । आत्मन्य् एव सन्तुष्टः “आत्मसन्तुष्टः” नार्थलाभेन तस्य काऋयं विद्यते । परं ज्योतिर् उपसम्पन्नस्य लोकव्यवहाराभावात् तस्य कर्तव्यं नास्ति । अधिकारहेत्वभावात् अकृतेन निषिद्धाकरणेन तत्करणनिमित्तप्रत्यवायानुत्पत्तिलक्षणो ऽर्थो नास्ति । “अर्थव्यपाश्रयः” प्रयोजनापेक्षा । यतो लोकव्यवहारानुगतस्य कर्मत्यागानुत्पत्तिः तस्मात् कर्मफलेच्छारहितो ऽवश्यं कर्तव्यं [१५७] कर्म कुर्वित्य् आह तस्माद् असक्त इत्यादिना । “कर्मणैव” न कर्मत्यागेन लोकपरिपालनं । जोषयेत् सेवयेत् ।

तथा ।

मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा ।

निराशीर् निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥

“अध्यात्मचेतसा” ब्रह्मैवेदं सर्वं कार्यकरणजातम् इत्य् अभेददृष्ट्या ।

तथा ।

त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।

कर्मण्य् अभिप्रवृत्तो ऽपि नैव किञ्चित् करोति सः ॥

निराशीर् यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।

शारीरं केवलं कर्म कुर्वन्न् आप्नोति किल्बिषम् ॥

यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः ।

समः सिद्धाव् असिद्धौ च कृत्वापि न निबध्यते ॥

गतसङ्गस्य मुक्तस्य ज्ञानावस्थित्चेतसः ।

यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥

ब्रह्माऋपणं ब्रह्महविर् ब्रह्माग्नौ ब्रह्मणा हुतम् ।

ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥

“निराशीर्” निर्गतफलासङ्गः । “यतचित्तात्मा” संयतात्मा । “कार्यकारणसङ्घातः” । शारीरमात्रं शरीरनिर्वत्यम् । शास्त्रोक्तं कर्म केवलं फलरहितम् । ऽनाप्नोति किल्बिषम्ऽ संसारं नाप्नोतीत्य् अर्थः। मुक्तस्य रागादिद्वेषैर् इति शेषः । [१५८] “यज्ञाय” परमात्मने । “ब्रह्मार्पणम्” स्रुक्स्रुवादि, अर्प्यते अनेनेति व्युत्पत्त्या । “ब्रह्मकर्मसमाधिना” ब्रह्मैव कर्मेति समाधियुक्तेन ।

तथा ।

सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखं वशी ।

नवद्वारे पुरे देही नैव कुर्वन् न कारयन् ॥

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।

न कर्मफलसंयोगं स्वभावस् तु प्रवर्तते ॥

नादत्ते कस्यचित् पापम् न चैव सुकृतं विभुः ।

न कर्मफलसंयोगं स्वभावस् तु प्रवर्तते ॥

नादत्ते कस्यचित् पापं न चैव सुकृतं विभुः ।

अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥

ज्ञानेन तु तद् अज्ञानं येषां नाशितम् आत्मनः ।

तेषाम् आदित्यवज् ज्ञानं प्रकाशयति तत् परम् ॥

तद्बुद्धयस् तदात्मानस् तन्निष्ठास् तत्परायणाः ।

गच्छन्त्य् अपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥

तथा ।

श्रेयान् द्रव्यमयाद् यज्ञात् ज्ञानयज्ञः परन्तप ।

सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥

तद् विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।

उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनः तत्त्वदर्शिनः ॥

यज् ज्ञात्वा न पुनर् होमम् एवं यास्यसि पाण्डव ।

येन भूतान्य् अशेषेण द्रक्ष्यस्यात्मन्य् अथो मयि ॥

अपि चेद् असि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।

सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥

[१५९] यथैधांसि समिद्धो ऽग्निर् भस्मसात्कुरुते ऽर्जुन ।

ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते यथा ॥

न हि ज्ञानेन सदृशं पवित्रम् इह विद्यते ।

तत् स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥

श्रद्धाव्ंल् लभते ज्ञानं तत्परः संयतेन्द्रियः ।

ज्ञानं लब्ध्वापरां शान्तिम् अचिरेणाधिगच्छति ॥

अज्ञश् चाश्रद्दधानश् च संशयात्मा विनश्यति ।

नायं लोको ऽस्ति न परो न सुखं संशयात्मनः ॥

योगसन्न्यस्तकर्माणं ज्ञानसञ्च्छिन्नसंशयम् ।

आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥

तस्माद् अज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः ।

छित्वैनं संशयं योगम् आतिष्ठोत्तिष्ठ भारत ॥

तथा ।

बीजान्य् अग्न्युपदग्धानि न रोहन्ति यथा पुनः ।

ज्ञानदग्धैस् तथा कृत्स्नैर् नात्मा संयुज्यते पुनः ॥

[१६०]

१६ — अथात्मज्ञानहेतवः

याज्ञवल्क्यः ।

वेदार्थवचनं यज्ञो ब्रह्मचर्यं तपो दमः ।

शुद्धोपवासः स्वातन्त्र्यम् आत्मनो ज्ञानहेतवः ॥

ब्रह्मपुराणे ।

अधीत्य वेदांश् च तदीयम् अर्थं

	बुद्ध्या गृहीत्वा च स शब्दविच् च ।

श्रुत्वा च मीमांसकधर्मशास्त्रम्

	आत्मा लभ्यो दुर्लभो ऽयं त्रिलोके ॥

अहिंसयेन्द्रियासङ्गैर् वैदिकैश् चैव कर्मभिः ।

तपसश् चरणैश् चोग्रैः साधयन्तीह तत् पदम् ॥

तपो विद्या च विप्रस्य निःश्रेयसकरं परम् ।

तपसा कल्मषं हन्ति विद्ययामृतम् अश्नुते ॥

महाभारते ।

ज्ञानम् उत्पद्यते पुंसां क्षयात् पापस्य कर्मणः ।

यथादर्शतलप्रख्ये पश्यन्त्य् आत्मानम् आत्मनि ॥

[१६१] मत्स्यपुराणे ।

अयम् एव क्रियायोगो ज्ञानयोगस्य साधकः ।

कर्मयोगं विना ज्ञानं कस्यचिन् नेह विद्यते ॥

याज्ञवल्क्यः ।

आचार्योपासनं वेदशास्त्रस्य च विवेचनम् ।

तत्कर्मणाम् अनुष्ठानं सङ्गः सद्भिः गिरः शुभाः ॥

स्त्र्यालोकारम्भविगमः सर्वभूतात्मदर्शनम् ।

त्यागः परिग्रहाणां च जीर्णकाषायधारणम् ॥

विषयेन्द्रियसंयोगतन्द्रालस्यविवर्जनम् ।

शरीरपरिसङ्ख्यानं प्रवृत्तिष्व् अघदर्शनम् ॥

रजस्तमःक्षयः सत्त्वशुद्धिर् निःस्पृहता दमः ।

एतैर् उपायैः संसिद्धः स तु योग्य् अमृती भवेत् ॥

तत्त्वस्मृतेर् उपस्थानात् सत्त्वयोगात् परिक्षयात् ।

कर्मणां सन्निकर्षाच् च सतां योगः प्रवर्तते ॥

“शरीरपरिसङ्ख्यानम्” शरीराशुद्धित्वास्थिरत्वादिदोषपरत्वेनानुसन्धानम् । “प्रवृत्तिषु” गमनागमनादिकासु सूक्ष्मप्राणिवधादिदोषदर्शनम् । “तत्त्वस्मृतेः” आत्मतत्त्वचिन्तनात् । “उपस्थानात्” अवधारणात् ।

महाभारते ।

श्रीभवगान् उवाच ।

अमानित्वम् अदम्भित्वम् अहिंसा क्षान्तिर् आर्जवम् ।

[१६२] आचार्योपासनं शौचं स्थैर्यम् आत्मविनिग्रहः ॥

इन्द्रियार्थेषु वैराग्यम् अनहङ्कार एव च ।

जन्ममृत्युजराव्याधिदुःखदोषार्थदर्शनम् ॥

असक्तिर् अनभिष्वङ्गः पुत्रदारगृहादिषु ।

नित्यं च समचित्तत्वम् इष्टानिष्टोपपत्तिषु ॥

मयि चानन्ययोगेन भक्तिर् अव्यभिचारिणी ।

विविक्तदेशसेवित्वम् अरतिर् जनसंसदि ॥

अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।

एतज् ज्ञानम् इति प्रोक्तम् अज्ञानं यद् अतो ऽन्यथा ॥

“आत्मविनिग्रहो” मनोवृत्तिनिरोधः । “असक्तिः” वैराग्यम् । “अभिष्वङ्गस्” तत्परता । “तत्त्वज्ञानार्थदर्शनम्” आत्मज्ञानार्थं यच् छास्त्रस्य पर्यालोचनम् । ऽएतज् ज्ञानम्ऽ इदं ज्ञानसाधनम् ।

तथा ।

नैतादृशं ब्राह्मणस्यास्ति वित्तं

	यथैकता सत्यताममता च ।

शीलस्थितिर् दण्डनिधानम् आर्जवं

	ततस् ततश् चोपरमः क्रियाभ्यः ॥

मार्कण्डेयपुराणे ।

सङ्गः सर्वात्मणा त्याज्यः स वै त्यक्तुं न शक्यते ।

सद्भिः सह स कर्तव्यः सतः सङ्गो हि भेषजम् ॥

[१६३] महाभारते ।

श्रीभगवान् उवाच ।

अभयं सत्त्वसंशुद्धिर् ज्ञानयोगव्यवस्थितिः ।

दानं दमश् च यज्ञश् च स्वाध्यायस् तप आर्जवम् ॥

अहिंसा सत्यम् अक्रोधस् त्यागः शान्तिर् अपैशुनम् ।

दया भूतेष्व् अलोभित्वं मार्दवं क्लीबचापनम् ॥

तेजः क्षमा धृतिः शौचम् अद्रोहो नाभिमानिता ।

भवन्ति सम्पदं दैवीम् अभिजातस्य भारत ॥

दम्भो दर्पो ऽभिमानश् च क्रोधः पारुष्यम् एव च ।

अज्ञानं चाभिजातस्य पार्थ सम्पदम् आसुरीम् ॥

दैवी सम्पद् विमोक्षाय निबन्धायासुरी मता ॥

“तेजः” प्रभुत्वम् ।

तथा ।

ईश्वरः सर्वभूतानां हृद्देशे ऽर्जुन तिष्ठति ।

भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥

तम् एव शरणं गच्छ सर्भावेन भारत ।

तत्प्रसादात् परां शान्तिं स्थानं प्राप्स्यति शाश्वतम् ॥

इति ते ज्ञानम् आख्यातं गुह्याद् गुह्यतमं मया ।

विमृश्यैतद् अशेषेण यथेच्छसि तथा कुरु ॥

सर्वगुह्यतमं भूयः शृणु मे परमं वचः ।

इष्टो ऽसि मे दृढम् इति ततो वक्ष्यामि ते हितम् ॥

१६४] मनसा भव मद्भक्तो मद्याजी मां नमस् कुरु ।

माम् एवैष्यसि सत्यं ते प्रतिजाने प्रियो ऽसि मे ॥

सर्वधर्मान् परित्यज्य माम् एकं शरणं व्रज ।

अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥

ऽसर्वधर्मान् परित्यज्यऽ इति । सर्वधर्मान् परिहाय ममाराधनं कुर्व् इति । भगवदाराधनप्राधान्यप्रतिपादनपरम् इदम् ।

तथा ।

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।

इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥

सच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् ।

कथयन्तश् च मां नित्यं तुष्यन्ति च नमन्ति च ॥

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।

ददामि बुद्धियोगं तं येन माम् उपयान्ति ते ॥

तेषाम् एवानुकम्पार्थम् अहम् अज्ञानजं तमः ।

नाशयाम्य् आत्मभावस्थो ज्ञानदीपेन भास्वता ॥

याज्ञवल्क्यः ।

स ह्य् आश्रमैर् विजिज्ञास्यः समस्तैर् एवम् एव तु ।

द्रष्टव्यस् त्व् अथ मन्तव्यः श्रोतव्यश् च द्विजातिभिः ॥

१६५]

१७ — सपल्लव्योगः

अथ योगः । तत्र देवलः ।

    देवमनुष्ययोः द्विविधः पुरुषार्थो ऽभ्युदयो निःश्रेयसम् इति । तयोर् अभ्युदयः पूर्वोक्तः द्विविधः । निःश्रेयसम् इति साङ्ख्ययोगौ । पञ्चविंशतितत्त्वज्ञानं साङ्ख्यम् । विषयेभ्यो निवृत्यभिप्रेते ऽर्थे मनसो ऽवस्थानं योगः । उभयत्रापवर्गः फलम् ।

विष्णुपुराणे ।

आत्मप्रयत्नसापेक्षा विशिष्टा या मनोगतिः ।

तस्या ब्रह्मणि संयोगो योग इत्य् अभिधीयते ॥

दक्षः ।

वृत्तिहीनं मनः कृत्वा क्षेत्रज्ञं परमात्मनि ।

एकीकृत्य विमुच्येत योगो ऽयं मुख्य उच्यते ॥

विष्णुपुराणे ।

तद् एतत् कथितं राजन्न् अविद्याया मया तव ।

क्लेशानां च क्षयकरं योगाद् अन्यन् न विद्यते ॥

[१६६] योगियाज्ञवल्क्यः ।

सर्वधर्मान् परित्यज्य योगधर्मं समाश्रयेत् ।

सर्वे धर्माः सदोषास् तु पुनरुत्पत्तिकारकाः ॥

नेहातिक्रमनाशो ऽस्ति प्रत्यवायो न विद्यते ।

स्वल्पम् अप्य् अस्य धर्मस्य त्रायते महतो भयात् ॥

“अतिक्रमः” अनारम्भः नाशो ऽत्र नैष्फल्यम् ।

महाभारते ।

यथा वानिमिषाः स्थूला जालं भित्त्वा पुनर् जलम् ।

प्राप्नुवन्ति तथा योगात् तत् पदं वीतकल्मषाः ॥

“अनिमिषाः” मत्स्याः ।

तथैव वागुरां भित्त्वा बलवन्तो यथा मृगाः ।

प्राप्नुयुर् विमलं मार्गं विमुक्ताः सर्वबन्धनैः ॥

लोभजानि तथा राजन् बन्धनानि बलान्विताः ।

भित्त्वा योगात् परं मार्गं गच्छन्ति विमलाः शिवम् ॥

यथा च शकुनाः सूक्ष्माः प्राप्य जाजम् अरिन्दमम् ।

तत्राशक्ता निबध्यन्ते विमुच्यन्ते बलान्विताः ॥

कर्मजैर् बन्धनैर् बद्धास् तद्वद् योगाः परन्तप ।

अबलाश् चैव नश्यन्ति मुच्यन्ते च बलान्विताः ॥

अप्रमत्तो यथा धन्वी लक्ष्यं हन्ति समाहितः ।

[१६७] युक्तः सम्यक् तथा योगी मोक्षं प्राप्नोत्य् असंशयम् ॥

यथा किश्चिद् वनं घोरं बहुसर्पसरीसृपम् ।

श्वभ्रवत् तोयहीनं च दुर्गमं बहुकण्टकम् ॥

अभक्तम् अटवीप्रायं दावदग्धम्हीरुहम् ।

पन्थानं तस्कराकीर्णं क्षेमेणातिपतेन् नरः ॥

योगमार्गं समाश्रित्य यः कश्चिद् भजते द्विजः ।

क्षेमेणोपरमं मार्गं बहुदोषो हि स स्मृतः ॥

तथा ।

अपि वर्णावकृष्टस् तु नारी वाधर्मकाङ्क्षिणी ।

ताव् अप्य् एतेन मार्गेण गच्छेतां परमां गतिम् ॥

तथा ।

नास्ति बुद्धिर् अयुक्तस्य न चायुक्तस्य भावना ।

न चाभावयतः शान्तिर् अशान्तस्य कुतः सुखम् ॥

तथा ।

तपस्विभ्यो ऽधिको योगी ज्ञानिभ्यो ऽपि ततो ऽधिकः ।

कर्मिभ्यश् चाधिको योगी तस्माद् योगी भवार्जुन ॥

योगिनाम् अपि सर्वेषां मद्गतेनान्तरात्मना ।

श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥

अथ योगाङ्गानि

तत्र महाभारते ।

    यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयो ऽष्टाङ्गानि योगस्य ।

**[१६८] **मार्कण्डेयपुराणे ।

प्राग् एवात्मात्मना ज्ञेयो योगिनां स हि दुर्जयः ।

कुर्वीत तज्जये यत्नं तस्योपायं शृणुष्व मे ॥

प्राणायामैर् दहेद् दोषान् धारणाभिश् च किल्बिषम् ।

प्रत्याहारेण संसर्गान् ध्यायेनानीश्वरान् गुणान् ॥

“दोषान्” स्वेदवेपथुप्रभृतीन् । “संसर्गान्” विषयसम्बन्धान् । “अनीश्वरान्” प्राकृतान् ।

देवलः ।

    रागद्वेषमोहाः कषाया उच्यन्ते । तेषां यमनियमलक्षणेन तपसा पञ्चविधेन तत्त्वज्ञानेन चापकर्षणम् । कषायपाचनम् ।

विष्णुपुराणे ।

ब्रह्मचर्यम् अहिंसां च सत्यास्तेयापरिग्रहान् ।

सेवेत योगी निष्कामो योग्यतां सुमना नयन् ॥

स्वाध्यायशौचसन्तोषतपांसि नित्यतात्मवान् ।

कुर्वीत ब्रह्मणि तथा परस्मिन् प्रवणं मनः ॥

एते यमाः सनियमाः पञ्च पञ्च च कीर्तिताः ।

विशिष्टफलदाः काम्या निष्कामानां विमुक्तिदाः ॥

एकं तत्रासनादीनां समास्थाय गुणैः पुनः ।

यमाख्यैर् नियमाख्यैश् च युञ्जीत नियतो यतिः ॥

[१६९] वायुपुराणे ।

पद्मम् ऊर्द्धासनं वापि तथा स्वस्तिकम् आसनम् ।

आस्थाय योगी युञ्जीत कृत्वा तत् प्रवणं मनः ॥

मार्कण्डेयपुराणे ।

प्राणापाननिरोधश् च प्राणायाम उदाहृतः ।

विष्णुपुराणे ।

प्राणाख्यम् अनिलं वश्यम् अभ्यासात् कुरुते हि यः ।

प्राणायामः स विज्ञेयः सबीजो ऽबीज एव च ॥

“सबीजो” मन्त्राद्यालम्बनः ।

बृहस्पतिः ।

बद्ध्वासनं नियम्यासून् स्मृत्वा चर्ष्यादिकं तथा ।

सन्निमीलितदृङ् मौनी प्राणायामं समभ्यसेत् ॥

सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।

त्रिः पठेद् आयतप्राणः प्राणायामः स उच्यते ॥

आदानं बोधम् उत्सर्गं वायोस् तिस्रः समभ्यसेत् ।

ब्रह्माणं केशवं शम्भुं ध्यायन् मुच्येत बन्धनात् ॥

रक्तं पितामहं ध्यायेद् विष्णुं नीलोत्पलप्रभम् ।

श्वेतं त्र्यक्षं हरं चैव संसारार्णवतारणम् ॥

[१७२] अतीतानागतान् अर्थान् विप्रकृष्टांस् तिरोहितान् ।

विजानातीन्दुसूर्यक्षं ग्रहाणां ज्ञानसम्पदम् ॥

तुल्यप्रभावस् तु यदा योगी प्राप्नोति संविदम् ।

तदा संविद् इति ख्याता प्राणायामस्य सा स्थितिः ॥

यान्ति प्रसादं येनास्य मनः पञ्च च धातवः ।

इन्द्रियाणीन्द्रियार्थाश् च स प्रसाद इति स्मृतः ॥

“पञ्चधातवः” पृथिव्यादिपञ्चभूतानि ।

तथा ।

प्राणायामा दश द्वौ च धारणा साभिधीयते ।

द्वे धारणे स्मृतो योगो योगिभिस् तत्त्वदर्शिभिः ॥

तथा वै योगयुक्तस्य योगिनो नियतात्मनः ।

सर्वदोषाः प्रणश्यन्ति स्वस्थश् चैवोपजायते ॥

वीक्षते च परं ब्रह्म प्राकृतांस् तु गुणान् पृथक् ।

व्योमादिपरमाणुश् च तथात्मानम् अकल्मषम् ॥

इत्थं योगी यताहारः प्राणायामपरायणः ।

जितां जितासनो भूमिम् आरोहेत यथा गृहम् ॥

दोषान् मोहं तथा व्याधिम् आक्रान्ता भूर् अनिर्जिता ।

विवर्धयति नारोहेत् तस्माद् भूमिम् अनिर्मितम् ॥

उपायश् चात्र कथितो योगिभिः पर्मर्षिभिः ।

येन व्याध्यादयो दोषा न जायन्ते हि योगिनः ॥

यथा तोयार्थिनस् तोयं पद्मनालादिभिः शनैः ।

आपिबेयुस् तथा योगी पिबेद् वायुं जितश्रमः ॥

**[१७३] **प्राङ् नाब्यम् उदरे चाथ तृतीया च ततोपरि ।

कण्टे मुखे नासिकाग्रे नेत्रभ्रूमध्यमूर्धसु ॥

किञ्चित् परस्यात् (?) तस्मिंस् तु धारणा परमा स्मृता ।

दशैता धारणाः प्राप्य प्राप्नोत्य् अक्षरसाम्यताम् ॥

प्राणानाम् उपसंरोधात् प्राणायाम उदाहृतः ।

धारणेत्य् उच्यते ज्ञेयं धार्यते यन् मनो ऽनया ॥

शब्दादिभ्यो ऽनिवृत्तानि यद् अक्षाणि यतात्मभिः ।

प्रत्याह्रियन्ते योगेन प्रत्याहारस् ततः स्मृतः ॥

“अनिवृत्तानि” स्वविषये संसक्तानि, ऽयोगेन चित्तवृत्तिनिरोधेनऽ, ऽयोगश् चित्तवृत्तिनिरोधःऽ इति पातञ्जले ऽभिधानात् ।

देवलः ।

    अणुत्वाच् चापल्याल् लाघवाद् बलवत्त्वाद् वा योगभ्रष्टस्य मनसः पुनः प्रत्यानीयार्थे योजनं प्रत्याहारः ।

अर्थो ऽत्रात्मा ।

विष्णुपुराणे ।

शब्दादिष्व् अनुरक्तानि निगृह्याणीति योगवित् ।

कुर्याच् चित्तानुकारीणि प्रत्याहारपरायणः ॥

पश्यता परमा तेन जायतेति च नात्मनाम् ।

इन्द्रियाणाम् अवश्यैस् तैर् न योगी योगसाधकः ॥

[१७४] देवलः ।

शरीरेन्द्रियमनोभुद्ध्यात्मनां धरणाद् धारणा ।

हारीतः ।

    मनसो धारणम् अन्तःशरीरे हृदि ललाटे परम्ब्रह्मात्मज्योतिरादित्यहीनभस्सु (?) जलभाजनवन् मनसस् त्व् एकधारणाद् धारणा ।

“अन्तर्देहे” हृदयादौ, बहिर् वापहृतपाप्मादि गुणकपरब्रह्मादौ यन् मनसो धारणं सा धारणा । “जलभाज्जनवत्” इति, यद् भाजनगतं जलं तस्य भाजन एव स्थितिः । एवम् एतेषु सत्सु, गतिर् मनसो ऽवस्थितिर् एकत्र देशविशेषे धारणाज् जायत इति । ऽएवं च देशवन् न चित्तस्यऽ यः साधारण उक्ता स्यात् । तथा च पातञ्जलसूत्रम्- “देशवन् न चित्तस्य धारणा” इति ।

शङ्खः ।

मनःसंयमनं तज्ज्ञैर् धारणेति निगद्यते ।

विष्णुपुराणे ।

प्राणायामेन पवनैः प्रत्याहारेण चेन्द्रियैः ।

वशीकृतं ततः कुर्यात् स्थितं चेतः शुभाश्रये ॥

महाभारते ।

सुस्थेयं क्षुरधारासु निशितासु महामते ।

धारणासु सुयोगस्य दुःस्थेयम् अकृतात्मभिः ॥

[१७५] विपन्ना धारणा यस्मान् नयन्ति न शुभां गतिम् ।

नेत्रहीनं यथा नारं पुरुषाणां तु वै नृप ॥

यस् तु तिष्ठति कौन्तेय धारणासु यथाविधि ।

मरणं जन्मदुःखं च सुखं च परिमुञ्चति ॥

योगकृत्येषु योगानां ध्यानम् एव परं बलम् ।

तथापि द्विविधं ध्यानम् आहुर् वेदविदो जनाः ॥

एकाग्रभावं मनसः प्राणायामास् तथैव च ।

तद्रूपप्रत्ययायैकसन्ततिश् चान्यनिःस्पृहा ॥

तद् ध्यानं प्रथमैर् अङ्गैः षड्भिर् निष्पाद्यते नृप ।

तस्यैव कल्पनाहीनस्वरूपग्रहणं हि यत् ॥

मनसा ध्याननिरताद् यः समाधिः सो ऽभिधीयते ।

अथाहारादिनियमः

तत्र मार्कण्डेयपुराणे ।

भैक्षं यवागू तक्रं वा पयो यावकम् एव वा ।

फलं मूलं विपक्वं वा कणपिण्याकसक्तवः ॥

इत्य् एते वै शुभाहारा योगिनां सिद्धिकारकाः ।

महाभारते ।

कणानां भक्षणो युक्तः पिण्याकस्य च भक्षणे ।

स्नेहानां वर्जने युक्तो योगी बलम् अवाप्नुयात् ॥

भुञ्जानं यावकं भक्ष्यं दीर्घकालम् अरिन्दम ।

एकदासौ विशुद्धात्मा योगी बलम् अवाप्नुयात् ॥

[१७६] पक्षान् मासान् ऋतून् स्थित्वा सञ्चरंश् च ग्रहांस् तथा ।

अपः पीत्वा पयोमिश्राः योगी बलम् अवाप्नुयात् ॥

वायुपुराणे ।

योगिनां चैव सर्वेषां श्रेष्ठं चान्द्रायणं स्मृतम् ।

एकं द्वे त्रीणि चत्वानि शक्तितो वा समाचरेत् ॥

महाभारते ।

मोक्षधर्मेषु नियतो लब्धाहारो जितेन्द्रियः ।

प्राप्नोति ब्रह्मणः स्थानं यत् परं प्रकृतेर् ध्रुवम् ॥

तथा ।

सदुष्करं ब्रह्मचर्य्म् उपायं तत्र मे शृणु ।

सम्प्रवर्तम् उदीर्णं च निगृह्णीयाद् द्विजोत्तमः ॥

योषितां न कथा श्राव्या न निरीक्ष्या निरम्बराः ।

कथञ्चिद् दर्शनाद् आसां दुर्बलान् आविशेद् रजः ॥

रागोत्पत्तौ चरेत् कृच्छ्रम् अह्नस् त्रिः प्रविशेद् अपः ।

मग्नः स्वप्ने च मनसा त्रिर् जपेद् अघमर्षणम् ॥

पाप्मानं त्रिर् दहत्य् एवम् अन्तर्भूतरजोमयम् ।

“दुर्बलान्” अजितेन्द्रियान् । ऽस्वप्ने चऽ स्त्रीविषयानुरागोत्पत्तौ इत्य् अर्थः ।

मार्कण्डेयपुराणे ।

शून्येष्व् एवावकाशेषु वर्नेषु च गुहासु च ।

नित्ययुक्तः सदा योगी ध्यानं सम्यग् उपाक्रमेत् ॥

[१७७] सशब्दे ऽग्निजलाभ्याशे जीर्णे गोष्ठे चतुष्पथे ।

शुष्कपर्णचये नद्यां श्मशाने ससरीसृपे ॥

सभये कूपतीरे वा चैत्यवल्मीकसञ्चये ।

देशेष्व् एतेषु तत्त्वज्ञो योगाभ्यासं विवर्जयेत् ॥

महाभारते ।

विमुक्तः सर्वसङ्गेभ्यो लघ्वाहारो जितेन्द्रियः ।

सपूर्वापररात्रिषु धारयेन् मनसात्मनि ॥

मूत्रोत्सर्गे पुरीषे च भोजने च नराधिप ।

त्रिकालं नाभियुञ्जीत शेषं युञ्जीत तत्परः ॥

मार्कण्डेयपुराणे ।

नाध्मातः क्षुधितः श्रान्तो न च व्याकुलचेतनः ।

युञ्जीत योगं राजेन्द्र योगी सिद्ध्यर्थम् आदृतः ॥

नातिशीते न चोष्णे वा द्वन्वे नाप्य् अनिलात्मके ।

कालेष्व् एतेषु युञ्जीत न योगं ध्यानतत्परः ॥

सत्त्वस्यानुपपत्तौ च देशे काले विवर्जिते ।

नासतो दर्शनं योगे तस्मात् तं परिवर्जयेत् ॥

दोषान् एतान् अनादृत्य मूढत्वाद् यो युनक्ति वै ।

विघ्नाय तस्य ये दोषा जायन्ते तान् निबोध मे ॥

बाधिर्यं जडता लोपः स्मृतेर् मूकत्वम् अन्धता ।

ज्वरश् च जायते सद्यः तद्वद् अज्ञानयोगिनः ॥

१७८]

अथ दोषचिकित्सा

तत्र वायुपुराणे ।

तेषां चिकित्सां वक्ष्यामि दोषाणां च यथाक्रमम् ।

यथा शाम्यन्ति ते दोषाः प्राणायामसमुत्थिताः ॥

स्निग्धां वयागूम् अत्युष्णं भुक्त्वा तत्र तु धारयेत् ।

अनेन क्रमयोगेन वातगुल्मं प्रणश्यति ॥

तदावर्तप्रतीकारम् इदं कुर्याच् चिकित्सितम् ।

सर्वगात्रप्रकम्पेन समारब्धस्य योगिनः ॥

इमां चिकित्सां कुर्वीत यथा सम्पद्यते सुखम् ।

मनसा पर्वतं काये विष्टम्भीकृत्य धारयेत् ॥

उरोघाते रसस्थाने कण्ठदेशे च धारयेत् ।

वचोघाते तथा वाचि बाधिर्ये श्रोत्रयोस् तथा ॥

“समारब्धस्य” क्रान्तस्य । विष्टम्भीकृत्य धारयेत् पर्वतं धारयेत् ।

मार्कण्डेयपुराणे ।

अमानुषं सत्त्वम् अन्तर्योगिनं प्रविशेद् यदि ।

वाय्वग्निधारणाद् एनं देहसंस्थं विनिर्दहेत् ॥

ऽअमानुषं सत्त्वऽं रक्षःपिशाचादि ।

वायुपुराणे ।

कृष्णसर्पोपबाधे तु धारयेत् हृदयोदरे ।

महर्जनस्तपःसत्यं हृदि कृत्वा तु धारयेत् ॥

[१७९] विषस्य तु पलं पीत्वा विशल्यां धारयेत् ततः ।

सर्वतः सनगां पृथ्वीं कृत्वा मनसि धारयेत् ॥

हृदि कृत्वा समुद्रांश् च तथा सर्वाश् च देवताः ।

सहस्रेण घटानां तु युक्तः स्नायीत योगवित् ॥

उदके कण्ठमात्रे तु धारणां मूर्ध्नि धारयेत् ।

प्रतिस्रोतोपविष्टस् तु धारयेत् सर्वगात्रकम् ॥

शीर्णार्कपर्णपुटकैः पिबेद् वल्मीकमृत्तिकाम् ।

चिकित्सितविधिर् ह्य् एष क्रमशो योगिनां हितः ॥

व्याख्यातस् तु समासेन योगदृष्टेन हेतुना ।

अथ योगविधिः

तत्र महाभारते ।

योगी युञ्जीत सततम् आत्मानं रहसि स्थितः ।

एकाकी यतचित्तात्मा निराशीर् अपरिग्रहः ॥

शुचौ देशे प्रतिष्ठाप्य स्थिरम् आसनम् आत्मनः ।

नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥

तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ।

उपविश्यासने युञ्ज्याद् योगम् आत्मविशुद्धये ॥

समं कायशिरोग्रीवं धारयन्न् अचलं स्थिरः ।

सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश् चानवलोकयन् ॥

प्रशान्तात्मा विगतभीः ब्रह्मचारिव्रते स्थितः ।

मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥

[१८०] वायुपुराणे ।

ओङ्कारं प्रथमं कृत्वा चन्द्रसूर्यौ नमस्य च ।

आसनं स्वस्तिकं कृत्वा पद्मम् अर्धासनं तथा ॥

समजानुर् एकजानुर् वा उत्तानस्वस्तिको ऽपि वा ।

समो दृढासनो भूत्वा संहृत्य चरणाव् उभौ ॥

पार्ष्णिभ्यां वृषणौ छाद्य तथा प्रजननं ततः ।

इन्द्रियाणीन्द्रियार्थेभ्यो मनः पञ्च च मारुतान् ॥

निगृह्य समवायेन प्रत्याहारम् उपक्रमेत् ।

यस् तु प्रत्याहरेत् कामान् कूर्मो ऽङ्गानीव सर्वशः ॥

तथात्मरतिर् एकस्थः पश्यत्य् आत्मानम् आत्मना ।

पूरयित्वा समीरं तु सभाह्याभ्यन्तरः शुचिः ॥

आकण्ठनाभियोगेन प्रत्याहारम् उपक्रमेत् ।

याज्ञवल्क्यः ।

ऊरुस्थोत्तानचरणः सव्ये न्यस्येतरं करम् ।

उत्तानं किञ्चिद् उन्नम्य मुखं विष्टभ्य चोरसा ॥

निमीलिताक्षः सत्त्वस्थो दन्तैर् दन्तान् असंस्पृशेत् ।

तालुस्थाचलजिह्वश् च संवृतास्यः सुनिश्चलः ॥

सन्निरुद्धेन्द्रियग्रामो नातिनीचोच्छ्रितासनः ।

द्विगुणं त्रिगुणं वापि प्राणायामम् उपक्रमेत् ॥

“सत्त्वस्थः” कामक्रोधादिरहितः ।

[१८१] देवलः ।

    देवतायतनं शून्यागारगिरिकन्दरनदीपुलिनगुहारण्यानाम् अन्यतमे शुचौ निराबाधे विभक्ते समुपस्तीर्णमानसं कृत्वा, तस्मिन् लघ्वाहारो निरामयः, शुचिः शिरोग्रीवापाणिपादौ च समास्थाप्य, शरीरम् ऋजुं समाधाय, शिश्नवृषणाव् अपीडयन्, यत् किञ्चिद् अपाश्रित्य स्व्स्तिकं भद्रकं मण्डलं वाधिष्ठाय, उदङ्मुखः, प्राङ्मुखो वा, दन्तैर् दन्तान् असंस्पृश्य, अक्षिभ्याम् अव्यक्तम् अनुन्मील्य च, मुखनासिकाभ्यां ऐक्यावसन्नाग्रस्थितदृष्टिः, सर्वेन्द्रियाणि संहृत्योर्ध्वं प्राणान् उद्दीर्य, मनसा तच्चिन्तनं द्यानम् ।

महाभारते ।

नात्यश्नतस् तु योगो ऽस्ति न चैकान्तम् अनश्नतः ।

न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥

युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।

युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥

तथा च देवम् उपशान्तेन दान्तेनैकान्तशीलिना ।

आत्मारामेण वृद्धेन यो ह्य् आत्मा स न संशयः ॥

दक्षः ।

कषायमोहविक्षेपलज्जाशङ्कादिचेतसः ।

व्यापारास् तु समाख्याताः तैर् हीनं वशम् आनेयेत् ॥

कुटुम्बैः पञ्चभिर् ग्रामषष्ठं तत्र महात्मनः ।

देवासुरमनुष्यैर् वा सञ्जेतुं नैव शक्यते ॥

[१८२] बलेन परराष्ट्राणि गृह्णन् शूरस् तु नोच्यते ।

जितेन्द्रियेन्द्रियग्रामः स शूरः कथ्यते बुधैः ॥

महाभारते ।

श्रीभवगान् उवाच ।

सङ्कल्पप्रभवान् कामान् त्यक्त्वा सर्वान् अशेषतः ।

मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥

शनैः शनैर् उपरमेद् बुद्ध्या धृतिगृहीतया ।

आत्मसंस्थं मनः कृत्वा न किञ्चिद् अपि चिन्तयेत् ॥

यतो यतो निश्चरति मनश् चलम् अस्थिरम् ।

ततस् ततो नियम्यैतद् आत्मन्य् एव वशं नयेत् ॥

युञ्जन्न् एवं सदात्मानं योगी विगतकल्मषः ।

सुखेन ब्रह्मनिर्वाणम् अत्यन्तं सुखम् अश्नुते ॥

सर्वभूतस्थम् आत्मानं सर्वभूतानि चात्मनि ।

ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥

यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।

तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥

सर्वभूतस्थितं यो मां भजत्य् एकत्वम् आस्थितः ।

सर्वथा वर्तमानो ऽपि स योगी मयि वर्तते ॥

आत्मौपम्येन सर्वत्र समं पश्यति यो ऽर्जुन ।

सुखं वा यदि वा दुःखं स योगी परमो मतः ॥

[१८३] अर्जुन उवाच ।

यो यो योगस् त्वया प्रोक्तः साम्येन मधुसूदन ।

एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम् ॥

चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् ।

तस्याहं निग्रहं मन्ये वायोर् इव सुदुष्करम् ॥

श्रीभगवान् उवाच ।

असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।

अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥

असंयतात्मा योगो दुष्प्राप इति मे मतिः ।

वश्यात्मना तु यतता शक्यो ऽवाप्तुम् उपायतः ॥

ऽन प्रणश्यामिऽ न तिरो भवामि । ऽसर्वथा वर्तमानो “पि” मयि वा बुद्धिविकारे वा प्रपञ्चे ब्रह्मबुद्ध्या । ऽचेतसा वर्तमानोऽ मय्य् एवासौ वर्तत इत्य् अर्थः

तथा ।

पिण्डीकृत्येन्द्रियग्रामम् आसीनः काष्ठवन् मुनिः ।

शब्दं न विन्देच् छ्रोत्रेण स्पर्शं चापि न वेदयेत् ॥

रूपं न चक्षुषा विन्द्याज् जिह्वया च रसांस् तथा ।

श्रेयांस्य् अपि च सर्वाणि जह्याद् योगेन योगवित् ॥

पञ्चवर्गप्रमाथीनि नेच्छेच् चैतानि वीर्यवान् ।

तमो मनसि संसृज्य पञ्चवर्गविचक्षणः ॥

समादध्यान् मनो भ्रान्तम् इन्द्रियार्थैः सपञ्चभिः ।

निःसंसारि निरालम्बं पञ्चद्वारं चलाचलम् ॥

पूर्वध्यानपथे धीरः सदा दध्यान् मनोन्तरम् ।

इन्द्रियाणि मनश् चैव यदा पिण्डीकरोत्य् अयम् ॥

[१८४] एवं ध्यानपथः पूर्णो मया समनुवर्णितः ।

तस्य तत्पूर्वसंरुद्धम् आत्मषष्ठमनोन्तरम् ॥

स्फुरिष्यति समुद्रान्तं विद्युदम्बुधरो यथा ।

जलबिन्दुर् यथा लोकपर्णस्थः सर्वतश् चलः ॥

एवम् एवास्य तच्चित्तं भवति ध्यानवर्त्मनि ।

समाहितं क्षणं किञ्चित् स्थानवर्त्मनि तिष्ठति ॥

पुनर् वायुपथभ्रान्तं मनो भवति वायुवत् ।

अनिर्वेदो गतक्लेशो गततन्द्री विमत्सरः ॥

समादध्यात् पुनश् चेतो ध्यानेन ध्यानयोगवित् ।

विचारश् च वितर्कश् च विवेकश् चोपजायते ॥

मुनेः समादधानस्य प्रथमं ध्यानम् आत्मनः ।

मनसा क्लिश्यमानस् तु स समाधानकाम्यया ॥

न निर्वेदं मुनिर् गच्छेत् कुर्याद् एवात्मनो हितम् ।

स्वयम् एव मनश् चैकं पञ्चवर्शश् च भारत ॥

पूर्वं ध्यानपथं प्राप्य नित्ययोगेन शाम्यति ।

न तत् पुरुषकारेण न च दैवेन केनचित् ॥

सुखम् एष्यसि तत् तस्य तद् एवं संयतात्मनः ।

सुखेन तेन संयुक्तो वंस्यते ध्यानकर्मणि ॥

“पिण्डीकृत्य” प्रत्याहृत्य ।

दक्षः ।

लोको वशीकृतो यैस् तु यैर् आत्मा च वशीकृतः ।

इन्द्रियार्थान् यतस् तेषां योगं वक्ष्याम्य् अशेषतः ॥

नारण्यसेवनाद् योगो नानेकग्रन्थचिन्तनात् ।

व्रतैर् यज्ञैस् तपोभिर् वा न योगः कस्यचिद् भवेत् ॥

[१८५] न वै पद्मासनाद् योगो न नासाग्रनिरीक्षणात् ।

न वै शास्त्रातिरिक्तेन शौचेन भवति क्वचित् ॥

न मौनमन्त्रकुहकैर् अनेकैः कुसृतैस् तथा ।

लोकयात्राभियुक्तस्य न योगः कस्यचिद् भवेत् ॥

अभियोगात् तथाभ्यासात् तस्मिन्न् एव विनिश्चयात् ।

पुनः पुनर् अनुद्वेगाद् योगः सिध्यति नान्यथा ॥

आत्मचिन्ताविनोदेन शौचक्रीडनकेन च ।

सर्वसत्त्वसमत्वेन योगः सिध्यति नान्यथा ॥

यस् त्व् आत्ममिथुनो नित्यम् आत्मक्रीडस् तथैव च ।

आत्मानन्दश् च सततम् आत्मन्य् एव समाहितः ॥

आत्मन्य् एव च सन्तुष्टः सन्तुष्टो नान्यमानसः ।

आत्मन्य् एव च तृप्तस्य योगः सिध्यति नान्यथा ॥

स्वप्ने ऽपि यो ऽभ्युक्तश् च जाग्रद् एव विशेषतः ।

ईदृक्चेष्टः स्मृतः श्रेष्टो वरिष्ठो ब्रह्मवादिनाम् ॥

याज्ञवल्क्यः ।

अनन्यविषयं कृत्वा मनोबुद्धिस्मृतीन्द्रियम् ।

ध्येय आत्मा स्थितो यो ऽसौ हृदये दीपवत् प्रभुः ॥

यथाविधानेन पठन् सामगायत्र्यम् अव्ययम् ।

सावधानस् तथाभ्यासात् परमात्माधिगच्छति ॥

अपरान्तकम् उल्लोप्यं मद्रकं प्रकरीं तथा ।

आवैणकं सरोबिन्दुम् उत्तरं गीतकानि तु ॥

ऋग्गाथा पाणिका दक्षविहिता ब्रह्मगीतिका ।

[१८६] गेयम् एतत् तदभ्यासकारणान् मोक्षसञ्ज्ञकम् ॥

वीणावादनतत्त्वज्ञः श्रुतिजातिविशारदः ।

तालज्ञश् चाप्रयासेन मोक्षमार्गं नियच्छति ॥

गीतज्ञो यदि गीतेन नाप्नोति परमं पदम् ।

रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते ॥

ऽअपरान्तकम् उल्लोप्यम्ऽ तत्र प्रकर्यो रेणकानि स्वरबिन्दुसहितम् उत्तरं चेति । एतानि प्रकरणाख्यानि सप्तगीतकानि ऋग्गाथाद्याः चतस्रो गीतिकाः । एतद् परान्तकादिगीतजातं परमात्मतया चिन्तितं मोक्षसाधनत्वान् मोक्षसञ्ज्ञकं ज्ञातव्यम् । तदभ्यासस्यैकाग्रताप्रतिपादनद्वारेणौत्सुक्यापत्तिहेतुत्वात् । “श्रूयत” इति । श्रुत्र् द्वाविंशतिधा । सा तु स्वरेषु । तथा हि षड्जमध्यमपञ्चमाः प्रत्येकं चतुः श्रुतयः । ऋषभधैवते प्रत्येकं त्रिश्रुती । गान्धारनिषादौ प्रत्येकं द्विश्रुती । जातयस् तु षड्जातयः शुद्धाः । सङ्करजास् त्व् एकादश । एवम् अष्टादशविधाः । ऽगीतज्ञो यदिऽ इति । गीतिज्ञो यदि कथञ्चिद् विघ्नतो योगस्थः सन् मुच्यते तदा रुद्रानुचरत्वं लभत इत्य् अर्थः ।

[१८७]

१८ — युक्तलक्षणम्

तत्र महाभारते ।

युक्तस्य तु महाराज लक्षणान्य् उपधारयेत् ।

निर्वाते तु यथा दीपो ज्वलेत् स्नेहसमन्वितः ॥

निश्चलोर्द्ध्वशिखस् तद्वद् युक्तम् आहुर् मनीषिणः ।

पाषाण इव मेघोत्थैर् यथा बिन्दुभिर् आहतः ॥

नालं चालयितुं शक्यः तथा युक्तस्य लक्षणम् ।

शङ्खदुन्दुभिनिर्घोषैः विविधैर् गीतवादितैः ॥

क्रियमाणैर् न कम्पेच् च युक्तस्यैतन् निदर्शनम् ।

तैलपूर्णं यथा पात्रं कराभ्यां धारयन्न् अधः ॥

सोपानम् आरुहेद् भीतः तर्ज्यमाणो ऽसिपाणिभिः ।

संयतात्मा भयात् तेषां न पात्राद् बिन्दुम् उत्सृजेत् ॥

तथैवोत्तरमाणस्य एकाग्रमनसस् तथा ।

स्थिरत्वाद् इन्द्रियाणां च निश्चलत्वे तथैव च ॥

एवं युक्तस्य तु मुनेर् लक्षणान्य् उपधारयेत् ।

संयुक्तः पश्यति ब्रह्म यत् तत् परमम् अव्ययम् ॥

महतस् तमसो मध्ये स्थितं ज्वलनसन्निभम् ।

एतेन केवलं याति त्यक्त्वा देहम् असाक्षिकम् ॥

कालेन महता राजन् श्रुतिर् एषा सनातनी ।

तथा ।

स्थिरीकृत्येन्द्रियग्रामं मनसा मिथिलेश्वर ।

मनो बुद्ध्या स्थिरं कृत्वा पाषाण इव निश्चलः ॥

[१८८] स्थाणुवच् चाप्य् अकम्पः स्याद् गिरिवच् चापि निश्चलः ।

बुद्ध्या विधिविधानज्ञास् तदा युक्तं प्रचक्षते ॥

न शृणोति न चाघ्राति न रंस्यति न पश्यति ।

न च स्पर्शं विजानाति न सङ्कल्पयते मनः ॥

न चाभिमन्यते किञ्चिन् न बुद्ध्यति च काष्ठवत् ।

तदा प्रकृतिम् आपन्नं युक्तम् आहुर् मनीषिणः ॥

तथा ।

यदा विनियतं चित्तम् आत्मन्य् एवावतिष्ठति ।

निःस्पृहः सर्वकामेभ्यो युक्त इत्य् उच्यते तदा ॥

यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।

योगिनो यतचित्तस्य युञ्जतो योगम् आत्मनः ॥

यत्रोपरमते चित्तं निरुद्धं योगसेवया ।

यत्र चैवातम्नात्मानं पश्यन्न् आत्मनि तुष्यति ॥

सुखम् आत्यन्तिकं यत् तद् बुद्धिग्राह्यम् अतीन्द्रियम् ।

वेत्ति यत्र न चैवायं स्थितश् चलति तत्त्वतः ॥

यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।

यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते ॥

तं विद्याद् दुःखसंयोगवियोगं योगसञ्ज्ञितम् ।

स निश्चयेन योक्तव्यो योगो निर्विघ्नचेतसा ॥

तथा ।

ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः ।

युक्त इत्य् उच्यते योगी समलोष्टाश्मकाञ्चनः ॥

“कूटस्थो” निर्विकार इत्य् अर्थः ।

[१८९]

१९ — अथ ध्येयस्वरूपम्

विष्णुः ।

    ऊरुस्थोत्तानचरणः सव्ये करे करम् इतरं न्यस्य तालुस्हाचलजिह्वो दन्तैर् दन्तान् संस्पृशन्, स्वं नासिकाग्रं पश्यन्, दिशश् चानवलोकयन्, विगतभीः, प्रसन्नात्मा, चतुर्विंशत्या तत्त्वैर् व्यतीतं चिन्तयेत् ॥ १ ॥ नित्यम् अतीन्द्रियम् अगुणम् । शब्दस्पर्शरूपरसगन्धातीतम्, सर्वस्थम् अतिस्थूलम् ॥ २ ॥ सर्वगम् अतिसूक्ष्मम् ॥ ३ ॥ सर्वतः पाणिपादम्, सर्वतो ऽक्षिशिरोमिखम्, सर्वतः सर्वेन्द्रियशक्तिम् ॥ ४ ॥ एवं द्यायन् ॥ ५ ॥ ध्याननिरतस्य च संवत्सरेण योगाविर्भावो भवति ॥ ६ ॥ अथ निराकारे लक्षबन्धं कर्तुं न शक्नोति तदा पृथिव्यप्तेजोवाय्वाकाशमनोबुद्ध्यात्माव्यक्तपुरुषाणां पूर्वं पूर्वं ध्यात्वा तत्र लब्धलक्षः तत् तत् परित्यज्यापरम् अपरं ध्यायेत् ॥ ७ ॥ एवं पुरुषध्यानम् आरभेत ॥ ८ ॥ अत्राप्य् असमर्थो हृदयपद्मस्याधोमुखस्य मध्ये दीपवत् पुरुषं ध्यायेत् ॥ ९ ॥ तत्राप्य् असमर्थो **[१९०]** भवन्तं वासुदेवं किरीटिनं कुण्डलिनं गदिनम् । श्रीवत्साङ्कं वनमालाविभूषितोरस्कं सौम्यरूपं चतुर्भुजं शङ्खचक्रगदापद्मधरं ध्यायेत् ॥ १० ॥ यद् यद् ध्यायेत् तद् आप्नोति ध्यानगुह्यम् ॥ ११ ॥ तस्मात् सर्वम् एव क्षरं त्यक्त्वाक्षरम् एव ध्यायेत् 


    ॥ १२ ॥ न च पुरुषं विना किञ्चिद् अपि अक्षरं अस्ति ॥ १३ ॥ तं प्राप्य मुक्तो भवति ॥ १४ ॥

पुरम् आक्रम्य सकलं शेते यस्मान् महाप्रभुः ।

तस्मात् पुरुष इत्य् एवं प्रोच्यते तत्त्वचिन्तकैः ॥ १५ ॥

प्राग्रात्रापररात्रेषु योगी नित्यम् अतन्द्रितः ।

ध्यायेत् तु पुरुषं विष्णुं निर्गुणं पञ्चविंशकम् ॥ १६ ॥

सर्वतत्त्वात्मगम्यं च सर्वतत्त्वविवर्जितम् ।

[ सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ]

असक्तं सर्वभृच् चैव निर्गुण्ं गुणभोक्तृ च ॥ १७ ॥

बहिर् अन्तश् च भूतानाम् अचरं चरम् एव च ।

सूक्ष्मत्वात् तद् अविज्ञेयं दूरस्थं चान्तिके च तत् ॥ १८ ॥

अविभक्तं च भूतेन विभक्तम् इव च स्थितम् ।

भूतभव्यभवद्रूपं ग्रसिष्णु प्रभविष्णु च ॥ १९ ॥

ज्योतिषाम् अपि तज् ज्योतिस् तमसः परम् उच्यते ।

ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥ २० ॥

इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः ।

मद्भक्त एतद् विज्ञाय मद्भावायोपपद्यते ॥ २१ ॥

[१९१] नरसिंहपुराणे ।

महेश्वर उवाच ।

ज्ञातामृतं परं गुह्यं रहस्यम् ऋषिसत्तम ।

वक्ष्यामि हृदि दुःखघ्नं सर्वबन्धभयापहम् ॥

तृणादि चतुरास्यान्तं भूतग्रामं चतुर्विधम् ।

चराचरं जगत् सर्वं सुषुप्तं यस्य मायया ॥

तस्य विष्णोः प्रसादेन यदि कश्चित् प्रबुध्यते ।

स निस्तरति संसारं देवानाम् अपि दुस्तरम् ॥

भोगैश्वर्यमदोन्मत्तः तत्त्वज्ञानपराङ्मुखः ।

संसारे सुमहापङ्के जीर्णा गौर् इव मज्जति ॥

यस् त्व् आत्मानं निबध्नाति कर्मभिः कोशकारवत् ।

तस्य भुक्तिं न पश्यामि जन्मकोटिशतैर् अपि ॥

तस्मान् नारद सर्वेशं देवानां देवम् अव्ययम् ।

आरादयेत् सदा सम्यग् ध्यायन् विष्णुं समाहितः ॥

यस् तं विश्वम् अनाद्यन्तम् अजं स्वात्मनि संस्थितम् ।

सर्वज्ञम् अचलं विष्णुं सदा ध्यायन् विमुच्यते ॥

स्वग्राह्यम् अक्षरं नित्यं निर्गुणं तमसः परम् ।

सर्वदृक् शाश्वतं विष्णुं सदा ध्यायन् विमुच्यते ॥

निर्विकल्पं निराभासं निष्प्रपञ्चं निरामयम् ।

वासुदेवं सदा विष्णुं सदा ध्यायन् विमुच्यअते ॥

निरञ्जनपरं शान्तम् अच्युतं भूतभावनम् ।

वेदगर्भं विभुं विष्णुं सदा ध्यायन् विमुच्यते ॥

सर्वभावविनिर्मुक्तम् अप्रमेयम् अलक्षणम् ।

निर्वाणम् अनघं विष्णुं सदा द्यायन् विमुच्यते ॥

[१९२] अमृतं परमानन्दं सर्वपापविवर्जितम् ।

ब्रह्म ज्ञेयं शिवं विष्णुं सदा ध्यायन् विमुच्यते ॥

योगेश्वरं पुराणाख्यं स्वशरीरगुहाशयम् ।

अमात्रम् अव्ययं विष्णुं सदा ध्यायन् विमुच्यते ॥

शुभाशुभविनिर्मुक्तम् ऊर्मिषट्कपरं प्रभुम् ।

तं वेद्यम् अमलं विष्णुं सदा ध्यायन् विमुच्यते ॥

सर्वद्वन्द्वविनिर्मुक्तं सर्वदुःखविवर्जितम् ।

अप्रतर्क्यं सदा विष्णुं सदा ध्यायन् विमुच्यते ॥

अनामगोत्रम् अद्वैतं चतुर्थं परमं पदम् ।

तं सर्वहृद्गतं विष्णुं सदा ध्यायन् विमुच्यते ॥

अरूपं सत्यसङ्कल्पं शुद्धम् आकाशवत् परम् ।

एकाग्रमनसा विष्णुं सदा ध्यायन् विमुच्यते ॥

सर्वात्मकं स्वभावस्थम् आत्मचैतन्यरूपकम् ।

शुभ्रम् एकाक्षरं विष्णुं सदा ध्यायन् विमुच्यते ॥

कालातीतं त्रिकालज्ञं विश्वेशं लोकसाक्षिणम् ।

सर्वस्माद् उत्तरं विष्णुं सदा ध्यायन् विमुच्यते ॥

विष्णौ प्रतिष्ठितं विश्वं विष्णुर् विश्वे प्रतिष्ठितः ।

विश्वेश्वरम् अजं विष्णुं सदा ध्यायन् विमुच्यते ॥

तथा ।

ध्येयः सदा सवितृमण्डलमध्यवर्ती

	नारायणः सरसिजासनसन्निविष्टः ।

केयूरवान् मकरकुण्डलवान् किरीटी

	हारी हिरण्मयवपुर् धृतशङ्खचक्रः ॥

[१९३] शङ्खः ।

हृत्स्थस्य ध्यानयोगेन देवदेवस्य दर्शनम् ।

ध्यानं प्रोक्तं प्रवक्ष्यामि ध्यानयोगम् अतः शुभम् ॥

हृदिस्था देवताः सर्वा हृदि प्राणः प्रतिष्ठितः ।

हृदि ज्योतींषि सूर्यश् च हृदि सर्वं प्रतिष्ठितम् ॥

स्वदेहम् अरणिं कृत्वा प्रणवं तूत्तरारणिम् ।

ध्याननिर्मन्थनाभ्यासाद् विष्णुं पश्येद् धृदि स्थितम् ॥

रविमध्ये स्थितः सोमः सोममध्ये हुताशनः ।

तेजोमध्ये स्थितं सत्त्वं सत्त्वमध्ये स्थितो ऽच्युतः ॥

अणोर् अणीयान् महतो महीयान्

	आत्मा गुहायां निहितो ऽस्य जन्तोः ।

तेजोमयं पश्यति वीतशोको

	धातृप्रसादान् महिमानम् ईशम् ॥

एष देवस् तु मर्त्यानां पटैर् इव विधीयते ।

अज्ञानपटसंवीतैर् इन्द्रियैर् विषयैः श्रुतिः ॥

एष वै पुरुषो विष्णुर् व्यक्ताव्यक्तः सनातनः ।

एष धाता विधाता च प्रधानं निष्कलः शिवः ॥

वेदाहम् एतं पुरुषं महान्तम्

	आदित्यवर्णं तमसः परस्तात् ।

तं वै विदित्वा न बिधेति मृत्योर्

	नान्यः पन्था विद्यते ऽयनाय ॥

[१९४] ब्रह्माण्डपुराणे ।

यस्माद् वादो निवर्तन्ते अप्राप्य मनसा सह ।

अव्यक्तं तत् परोक्षत्वाद् गहनं तु दुरासदम् ॥

भिद्यते हृदयग्रन्थिश् छिद्यन्ते सर्वसंशयाः ।

क्षीयन्ते चास्य कर्माणि दृष्टे तस्मिन् परावरे ॥

याज्ञवल्क्यः ।

ततो ध्येयः स्थितो यो ऽसौ हृदये दीपवत् प्रभुः ।

धारयेत् तत्र चात्मानं धारणा धारयन् बुधः ॥

तथा ।

द्वासप्ततिसहस्राणि हृदयाद् अभिनिःसृताः ।

हिताहिता नाम नाड्यस् तासां मध्ये शशिप्रभम् ॥

मण्डलं तस्य मध्यस्य आत्मा दीप इवाचलः ।

स ज्ञेयस् तं विदित्वेह पुनर् आजायते न तु ॥

नरसिंहपुराणे ।

योगाभ्यासरतस्येह नश्यन्ते पातकानि च ।

तस्माद् योगपरो भूत्वा ध्यायेन् नित्यक्रियान्तरे ॥

प्राणायामेन पवनं प्रत्याहारेण चेन्द्रियम् ।

धारणाभिर् वशीकृत्य पूर्वं दुर्धर्षणं मनः ॥

एकं कारणम् आनन्दं बोधरूपम् अनामयम् ।

सूक्ष्मत् सूक्ष्मतरं ध्यायेत् जगदाधारम् अच्युतम् ॥

[१९५] आत्मानम् अरविन्दस्थं तप्तचामीकरप्रभम् ।

रहस्य् एकान्त आसीनो ध्यायेद् अभिरणाद् अणुम् ॥

यः सर्वप्राणचित्तज्ञो यः सर्वेषां हृदि स्थितः ।

यश् च सर्वावरज्ञेयः सो ऽहम् अस्मीति चिन्तयेत् ॥

आत्मलाभसुखं यावत् तावद् ध्यानम् उदाहृतम् ।

श्रुतिस्मृत्युदितं कर्म तद् ऊर्ध्वं तु समाचरेत् ॥

यथाश्वरथहीनस् तु रथश् चाश्वैर् विना यथा ।

एवं तपो ऽप्य् अविद्यस्य विद्या वाप्य् अतपस्विनः ॥

यथान्नं मधुसंयुक्तं मधु वान्नेन संयुतम् ।

एवं तपश् च विद्या च संयुक्तं भेषजं महत् ॥

उभाभ्याम् एव पक्षाभ्यां यथा खे पततां गतिः ।

तथैव ज्ञानकर्मभ्यां प्राप्यते ब्रह्म शाश्वतम् ॥

विद्यातपोभ्यां सम्पन्नो ब्राह्मणो योगतत्परः ।

देहद्वयं विहायाशु मुक्तो भवति बन्धनात् ॥

न देवयानमार्गेण यावत् प्राप्तं परं पदम् ।

न तावल् लिङ्गदेहस्य विनाशो विद्यते क्वचित् ॥

“नित्यक्रियान्तरे” नित्यानां कर्मणाम् अन्तराले, नित्यकर्मकाल एवेत्य् अर्थः । “आरणैर्” उपनिषद्भिः ।

[१९६] तथा ।

उत्पन्नवैराग्यबलेन योगी

	ध्यायन् परब्रह्म सदा क्रियावान् ।

सत्यात्मकं चित्सुखरूपम् आद्यं

	विहाय देहं पदम् एति विष्णोः ॥

योगियाज्ञवल्क्यः ।

ॐ तत् सद् इति निर्देशो ब्रह्मणस् त्रिविधः स्मृतः ।

ब्राह्मणास् तेन वेदाश् च यज्ञाश् च विहिताः पुरा ॥

तस्माद् ॐ इत्य् उदाहृत्य यज्ञदानतपःक्रियाः ।

प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥

तस्य च मात्रास् तिस्रो व्यक्ताव्यक्ता तथापरा सूक्ष्मा ।

अध्यात्माम् अधिभूताम् अधिदेवीं तां विजानीयात् ।

ओङ्कारप्रणवस् तारः अक्षरः प्रणवः परः ॥

उद्गीथश् च तथादित्यो हंसो नारायणो विभुः ।

पर्यायैश् च तथान्यैश् च शास्त्रेभ्यः सम्प्रतीयते ॥

ओङ्कारसञ्ज्ञं त्रिविधं त्र्यक्षरं च त्रिदैवतम् ।

त्रिब्रह्म च त्र्यवस्थानं त्रिकालं त्रिप्रतिष्ठितम् ॥

सत्यं रजस् तमश् चेति गुणास् तैस् त्रिगुणाः स्मृताः ।

अकारश् चाप्य् उकारश् च मकारश् चाक्षरं त्रयम् ॥

ब्रह्मा विष्णुश् च रुद्रश् च त्रिदैवस्य उदाहृतः ।

अग्निवायुरविभ्यश् च त्रिमात्र इति सञ्ज्ञितः ॥

ऋग्यजुश् च तथा साम त्रिब्रह्म इति कीर्तितः ।

[१९७] भूर्भुवःस्वस्त्र्यवस्थानं हृत्कण्ठतालुकास् तथा ॥

 तुर्ये प्राणे तथादित्ये त्रिषु चैव प्रतिष्ठितः ।

भूतं भव्यं भविष्यच् च त्रिकालस् तेन चोच्यते ॥

अन्तःप्रज्ञो बहिःप्रज्ञो घनप्रज्ञ उदाहृतः ।

गार्हपत्यो दक्षिणाग्निर् आहवनीयः त्रिधात्मकः ॥

शान्तो घोरस् तथा मूढस् त्रिरवस्थ इति स्मृतः ।

स्त्रीपुन्नपुंसकं चैव तत् त्रिलिङ्गम् इति स्मृतम् ॥

त्रिप्रकारं विदित्वा तु ओङ्कारं मुच्यते द्विजः ।

एकैकात्र भवेन् मात्रा बहुधा सा तु वै पुनः ॥

तासां सर्वं वाङ्मयं तु ओतं प्रोतं व्यवस्थितम् ।

प्रथमा तस्याकारेण वाक् सत्त्वं भूर् हुताशनः ॥

विष्णुः ।

स्थूला जाग्रद्वृत्तिर् विज्ञेया योगतत्त्वज्ञैः ।

ब्रह्मान्तरिक्षसञ्ज्ञो मनोर् अजः सोमसञ्ज्ञित उकारः ॥

मात्रा स्वप्नविकल्पा सृष्टिः सञ्ज्ञा द्वितीया स्यात् ।

रौद्री मकारसञ्ज्ञा प्राणाख्या तामसी तृतीया स्यात् ॥

संहरति जगत् कृत्स्नं सा सौषुप्ताख्या महान् निद्रा ।

आद्या परा तु सूक्ष्माशां तार्यावयवालक्ष्म्याः (?) ॥

सौम्या मकारसञ्ज्ञा विज्ञाता काश् च सम्बन्धा (?) ।

अ उ म इति तिस्रो मात्रा मकारश् चार्धमात्रिकः ॥

तिस्रो मात्रा लयं यान्ति अर्धमात्रे न संशयः ।

अर्धमात्रा त्व् अमात्रे सा लयं याति निरामये ॥

अकारे पीड्यमाने तु उकारं प्रतिपद्यते ।

उकारं पीड्यमाने तु मकारं प्रतिपद्यते ॥

[१९८] मकारे पीड्यमाने तु अर्धमात्रा तदा भवेत् ।

जिह्वायां पीड्यमानायां निरालम्बस् तदा भवेत् ॥

एकमात्रं द्विमात्रं वा त्रिमात्रं कृत्स्नम् एव च ।

ह्रस्वं दीर्घं प्लुतं शान्तं शान्तेन मनसोद्भवेत् ॥

समाहितमना भूत्वा तत्त्वध्यानपरायणः ।

ओङ्कारं यस् त्व् अभिध्यायेद् आध्यात्मिक इति स्मृतः ॥

यथा वै शङ्कुना पर्णाः सम्पूर्णा एव सर्वशः ।

एवं सर्वास् तु वै वाचः सन्तृण्णाः प्रणवेन तु ॥

क्लेशकर्मविपाकैस् तु वासनाभिस् तथैव च ।

अपरामृष्टम् एवाह पुरुषं हीश्वरं श्रुतिः ॥

वाच्यस् तस्येश्वरः प्रोक्तो वाचकः प्रणवः स्मृतः ।

वाचकेन तु विज्ञातो वाच्य एव प्रसीदति ॥

तदर्थं प्रणवो जप्यो ध्यातव्यः सततं बुधैः ।

ईश्वरः पुरुषस् तेनोपासितः सम्प्रसीदति ॥

यथा हि गौर् वत्सरुतं निशम्य

	हुङ्कृत्य वत्साभिमुखी प्रयाति ।

ब्रह्मापि तद्वत् प्रणवोपहृतं

	वक्तारम् आगच्छति वाशु वक्त्रे ॥

द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ।

शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥

अन्तःशरीरप्रभवम् उदानप्रेरितं च यत् ।

वागुच्छार्यं श्रोत्रवृत्ति शब्दवृत्तिस् तद् उच्यते ॥

शब्दब्रह्म परं ब्रह्म तस्मिन् क्षीणे यद् अक्षरम् ।

तद् अक्षरं सदा ध्यायेद् यदीच्छेद् योगम् आत्मनि ॥

[१९९] अकारश् चाप्य् उकारश् च मकारो विष्णुर् एव च ।

मात्रार्धत्रययोगाच् च प्रणवः पञ्चलक्षणः ॥

वेदादौ यः स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः ।

तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥

यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।

आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन ॥

प्रणवो धनुः शरो ह्य् आत्मा ब्रह्म तल् लक्ष्यम् उच्यते ।

अप्रमत्तेन वेद्धव्यं शरवत् तन्मयो भवेत् ॥

स्वदेहम् अधरां कृत्वा प्राणम् एवोत्तरारणिम् ।

ध्याननिर्मथनाभ्यासाद् देवं पश्येन् निगूढवत् ॥

कश्चिद् आराध्नाकामो विष्णोर् भक्तिं करोति वै ।

तदाराधनसिद्ध्यर्थं प्रतिमां व्यञ्जिकां तथा ॥

धातुदार्वादिपाषाणैः कृत्वा भावं निवेशयेत् ।

भक्त्या श्रद्धादराभ्यां च तस्य विष्णुः प्रसीदति ॥

ओङ्कारेण तदा ह्य् आत्मोपसितः सम्प्रसीदति ।

एतद् आलेवनं श्रेष्ठम् एतद् आलेवनं परम् ॥

एतद् आलम्बनं ज्ञात्वा ब्रह्मभूयाय कल्पते ॥

अदृष्टविग्रहो देवो भावग्राह्यो मनोमयः ।

तस्योङ्कारः परं नाम तेनाहूतः प्रसीदति ॥

तस्माद् ॐ इति पूर्वं तु कृत्वा युञ्जीत तत्परः ।

जाग्रत्स्वप्नसुषुप्तानि पदान्य् एतानि तस्य तु ॥

[२००] बहिःप्रज्ञस् तथान्तश् च घनप्रज्ञस् त्रिधा भवेत् ।

दक्षिणाक्षिमुखे विष्णोर् मनस्य् अन्तस् तु तेजसः ॥

आकाशे तु हृदि प्राज्ञस् त्रिधा देहे व्यवस्थितः ।

स्थूलं वैश्वानरो नित्यं तेजसो ऽन्तःप्रवृत्तिभिक् ॥

आनन्दभुक् तथा प्राज्ञस् त्रिधा भोगं विजानता ।

स्थूलं तु सर्वतो विश्वं प्रविभक्तं तु तैजसम् ॥

आनन्दं च तथा प्राज्ञं त्रिधा तृप्तिं विजानत ।

त्रिषु धामसु यद् भोज्यं भोक्ता यश् च प्रकीर्तितः ॥

उभयं विन्दते यस् तु स भुञ्जानो न लिप्यते ।

यस् तु शब्दमयोङ्कार उच्चार्यः स्थूल एव सः ॥

अमात्रश् चायम् उच्चार्यः पर ओम्कार उच्यते ।

तिस्रः सार्धास् तथा मात्राः स गृह्णाति यथाक्रमम् ॥

परब्रह्म तद् एवाहुः स्वात्मानं ब्रह्मचिन्तकाः ।

यत् पूर्वं तु समुद्दिष्टम् औकारे ऽग्रे व्यवस्थितम् ।

अक्षरैश् च पदैश् चैतद् अतीतं परमं पदम् ॥

यत् प्राप्य न निवर्तन्ते ओङ्कारपरमाश्रिताः ।

मनस् तत्र समाधाय शरीरं लिङ्गमात्रकम् ॥

सङ्कल्पाध्यवसायं च अभिमानाख्यम् एव च ।

चेतनाधिष्ठितं सूक्ष्मं तथा सूक्ष्मैः सहैव तत् ॥

ओङ्कारं पद्मनालेन हृद्य् उद्धृत्य नियोजयेत् ।

परे व्योम्नि अनन्ताख्ये सर्वसङ्कल्पवर्जिते ॥

तस्मिंस् तावन् निबोद्धव्यो मनश् चोङ्कार एव च ।

निर्मलस् तां गतो यावद् एष योग उदाहृतः ॥

मनो युञ्ज्यात् तथोङ्कारे ओङ्कारं प्रणवे तथा ।

प्रणवं ब्रह्मणि स्थाप्य न किञ्चिद् अपि चिन्तयेत् ॥

[२०१] अप्राणो विमलः शुद्धो निःशब्दो ब्रह्मसञ्ज्ञितः ।

तस्माद् उत्पद्यते प्राणः पुनस् तत्रैव लीयते ॥

प्रणवे नित्ययुक्तस्य न भयं विद्यते क्वचित् ।

मनुः ।

सर्वम् आत्मनि सम्पश्येत् सच् चासच् च समाहितः ।

सर्वम् आत्मनि सम्पश्यन् नाधर्मे कुरुते मनः ॥

आत्मैव देवताः सर्वाः सर्वम् आत्मन्य् अवस्थितम् ।

आत्मा हि जनयत्य् एषां कर्मयोगं शरीरिणाम् ॥

खं सन्निवेशयेत् खेषु चेष्टनस्पर्शने ऽनिलम् ।

पङ्क्तिदृष्ट्योः परं तेजः स्नेहे योगं च मूर्तिषु ॥

मनसीन्दुं दिशः श्रोत्रे पादे विष्णुं बले हरम् ।

वाच्य् अग्निं मित्रम् उत्सर्गे प्रजने च प्रजापतिम् ॥

प्रशासितारम् एतेषाम् अणीयांसम् अणोर् अपि ।

रुक्माभं स्वप्नधीगम्यं विद्यात् तं पुरुषोत्तमम् ॥

एतम् एके वदन्त्य् अग्निम् अमुम् एके प्रजापतिम् ।

इन्द्रम् एके परे प्राणम् अपरे ब्रह्म शाश्वतम् ॥

एष सर्वाणि भूतानि पञ्चभिर् व्याप्य मूर्तिभिः ।

जन्मवृद्धिक्षयैर् नित्यं संसारयति चक्रवत् ॥

एवं यः सर्वभूतेषु पश्यत्य् आत्मानम् आत्मना ।

स सर्वसमताम् एत्य ब्रह्माभ्येति सनातनम् ॥

“कर्मफलसम्बन्धः” सर्वम् आत्मनि सम्पश्येद् इति युक्तम् । तत्र विशेषम् आह- “खं सन्निवेशयेत् खेषु” इति बाह्यम् आकाशं शरीरगतनवछिद्राकाशेन सहैकत्वेन भावयेत् । एवं [२०२] चेष्टास्पर्शकारणभूतेन दैहिकेन वायुना सह बाह्यस्य वायोर् ऐक्यम् । अशितपीतान्नपाकहेतुभूतकोष्ठचाक्षुषतेजोभ्यां सह प्रकृष्टतेजसः आदित्याख्यस्य ऐक्यं शारीराभिर् अद्भिः सह बाह्यानाम् अपाम् ऐक्यम् । मनसा सह चन्द्रस्य श्रोत्रेण सह दशदिशां पादेन्द्रियेण सह विष्णोः वीर्येण सह तस्यैक्यं भावयेत् । एवम् आध्यात्मिकभूम्यादिभिः सहाधिभौतिकाधिदैविकानाम् ऐक्यं भावयित्वा तेषां प्रशासितारं ब्रह्मादिस्तम्बपर्यन्तानां व्यवस्थाकारिणां तथा च “तस्याक्षरस्य शासने गार्गि” इत्यादि ब्राह्मणं परमाणोर् अपि सकाशात् सूक्ष्मतरम् अमूर्तत्वात् सुवर्णवत् शुद्धरूपं उर्मिषट्करहितत्वात् सुषुप्तावस्थाविज्ञानोपमेयस्वरूपं परमात्मानं जानीयात् । यादृक् सुषुप्तावस्थायां प्रत्यस्तमितसुखदुःखविकल्पं क्षेत्रज्ञस्वरूपम् एवं सर्वदा परमात्मनः । एनं परमात्मानम् अग्नित्वेनोपासते याज्ञिकाः ।

<span style="text-decoration:underline;">अन्ये</span> पुनः ऽसर्वत एवात्मानो व्युच्चरन्तिऽ इति स्रष्टृत्वश्रुतेः मन्वाख्यप्रजापतिरूपतयोपासते । <span style="text-decoration:underline;">अपरे</span> पुनर् ऐश्वर्ययोगाद् इन्द्ररूपतयोपासते । <span style="text-decoration:underline;">अपरे</span> पुनर् ऐश्वर्ययोगाद् इन्द्ररूपतयोपासते । <span style="text-decoration:underline;">केचित्</span> “प्राणम् उद्गीथम् उपासीत” इति श्रुतेः प्राणात्मनैनम् उपासते । <span style="text-decoration:underline;">अन्ये</span> पुनः परमात्मतयेति “एष परमात्मा सर्वान् प्राणिनः” पञ्चभिः पृथिव्यादिभिर् भूतैः शरीराम्भकैः (?) परिगृह्य स्वार्जितकर्मापक्षयोत्पत्तिस्थितिविनाशैर् असकृन् नियोजयतीत्य् अर्थः ।

महाभारते ।

इन्द्रियग्रामम् अखिलं मनस्य् अभिनिवेश्य च ।

मनस् तथैवाहङ्कारे प्रतिव्याप्य नराधिप ॥

[२०३] अहङ्कारं तथा बुद्धौ बुद्धिं च प्रकृताव् अपि ।

एवं च परिसङ्ख्याय ततो ध्यायेच् च केवलम् ॥

विरजसम् अमलं नित्यम् अनन्तं शुद्धम् अव्रणम् ।

तस्थुषं परमं तत्त्वम् अभेद्यम् अजरामरम् ॥

शाश्वतं चाव्ययं चैव ईशानं ब्रह्म तत्परम् ।

विष्णुप्राणे ।

आश्रयश् चेतसो ब्रह्म द्विधा तच् च स्वरूपतः ।

भूप मूर्तम् अमूर्तं च परं चापरम् एव च ॥

अक्षीणेषु समस्तेषु विशेषज्ञानकर्मसु ।

विश्वम् एतत् परं त्व् अन्यद् भेदभिन्नं दृशां नृप ॥

प्रत्यस्तमितभेदं यत् सत्तामात्रम् अगोचरम् ।

वचसाम् आत्मसंवेद्यं तज् ज्ञानं ब्रह्मसम्मितम् ॥

तच् च विष्णोः परं रूपम् अरूपस्याद्यम् अक्षयम् ।

विश्वस्वरूपवैरूप्यलक्षणं परमात्मनः ॥

न तद् योगयुजा शक्यं नृप चिन्तयितुं यतः ।

ततः स्थूलं हरे रूपं चिन्तयेद् विश्वगोचरम् ॥

हिरण्यगर्भो भगवान् वासवो ऽथ प्रजापतिः ।

मरुतो वसवो रुद्रा भास्करास् तारका ग्रहाः ॥

गन्धर्वयक्षदैत्याद्याः सकला देवयोनयः ।

मनुष्याः पशवः शैलाः समुद्राः सरितो द्रुमाः ॥

[२०४] भूभृतान्य् अप्य् अशेषाणि भूतानां पञ्चहेतवः ।

प्रधानादिविशेषान्तं चेतनाचेतनात्मकम् ॥

एकपादं द्विपादं च बहुपादम् अपादपम् ।

मूर्तमेत्तत्त्वदो रूपं भावनात्रितयात्मकम् ॥

तच् च सर्वम् इदं विश्वं जगद् एतच् चराचरम् ।

परं ब्रह्म स्वरूपस्य विष्णोः शक्तिसमन्वितम् ॥

एतान्य् अशेषरूपाणि कथितान्य् अस्य पार्थिव ।

यतस् तच्छक्तियोगेन युक्तानि नभसा यथा ॥

द्वितीयं विष्णुरूपस्य योगिध्येयं महामते ।

अमूर्तं ब्रह्मणो रूपं यत् सद् इत्य् उच्यते बुधैः ॥

समस्तविषयाश् चैते नृप यत्र प्रतिष्ठिताः ।

तद् विश्वरूपरूपं वै रूपम् अन्यद् धरेर् मतम् ॥

समस्तशक्तिरूपाणि तत् करोति जनेश्वर ।

देवतिर्यङ्मनुष्यादैः चेष्टावन्ति स्वलीलया ॥

जगताम् उपकाराय न सा कर्मनिमित्तजा ।

चेष्टा तस्याप्रमेयस्य व्यापिन्य् अविहतात्मिका ॥

तद्रूपं विश्वरूपस्य तस्य योगजुषा नृप ।

चिन्त्यम् आत्मविशुद्ध्यर्थं सर्वकल्मषनाशनम् ॥

यथाग्निर् उद्धतशिखः कक्षं दहति सानिलः ।

तथा चित्तस्थितो विष्णुः योगिनां सर्वकिल्बिषम् ॥

[२०५] तस्मात् समस्तशक्तीनाम् आकारे तत्र चेतसः ।

कुर्वीत संस्थितिं सा तु विज्ञेया शुद्धधारणा ॥

शुभाश्रयस्य चित्तस्य सर्वगस्य तथात्मनः ।

त्रिभावभावनातीतो मुक्तये योगिनां नृप ॥

अन्ये तु पुरुषव्याघ्र चेतसो ये व्यपाश्रयाः ।

अशुद्धास् ते समस्तास् तु देवाद्याः कर्मयोनयः ॥

मूर्ते भगवतो रूपे सर्वापाश्रयनिस्पृहे ।

एषा वै धारणा ज्ञेया यच् चित्तं यत्र धारयेत् ॥

तच् च मूर्तं हरेर् रूपं तद् विचिन्त्य नराधिप ।

तच् छ्रूयताम् अनाधारा धारणा तूपपद्यते ॥

प्रसन्नचारुवदनं पद्मपत्रोपमेक्षणम् ।

सुकपोलं सुविस्तीर्णललाटं कनकोज्वलम् ॥

समकर्णान्तविन्यस्तचारुकुण्डलभूषणम् ।

कम्बुग्रीवं सुविस्तीर्णं श्रीवत्साङ्कितवक्षसम् ॥

वलीविभङ्गिनाभग्ननाभिना चोदरेण च ।

प्रलम्बाष्टभुजं विष्णुम् अथ वापि चतुर्भुजम् ॥

समस्थितोरुजङ्घं च सुस्थिरान्ध्रिकराम्बुजम् ।

चिन्तयेद् ब्रह्मरूपं तं पीतनिर्मलवाससम् ॥

किरीटचारुकेयूरकटकादिविभूषितम् ।

शार्ङ्गशङ्खगदाचक्रखड्गाक्षवलयान्वितम् ॥

चिन्तयेत् तन्मयो योगी समाधायात्ममानसम् ।

तावद् यावद् दृढीभूता तत्रैव नृप धारणा ॥

वदतस् तिष्ठतो ऽन्यद् वा स्वेच्छया कर्म कुर्वतः ॥

[२०६] नापयाति यदा चित्तात् सिद्धां मन्येत तां तदा ।

ततः शङ्खगदाचक्रशार्ङ्गादिरहितं बुधः ॥

चिन्तयेद् भगवद्रूपं प्रशान्तं साक्षसूत्रकम् ।

सा यदा धारणा तद्वद् अवस्थानवती तदा ॥

किरीटकेयूरमुखैर् भूषणै रहितं स्मरेत् ।

तद् एकावयवं देवं चतसो हि पुनर् बुधः ॥

कुर्यात् ततो ऽवयविनि प्रणिधानपरो भवेत् ॥

तथा ।

मैत्रेय उवाच ।

भूषणास्त्रस्वरूपस्थं यथैतद् अखिलं जगत् ।

बिभर्ति भगवान् विष्णुः तन् ममाख्यातुम् अर्हसि ॥

पराशर उवाच ।

नमस्कृत्याप्रमेयाय विष्णवे प्रभविष्णवे ।

कथयामि यथाख्यातं वसिष्ठेन ममाभवत् ॥

आत्मानम् अस्य जगतो निर्लेपम् अगुणामलम् ।

विभत्रिकौस्तुभमणिस्वरूपं भगवान् हरिः ॥

श्रीवत्ससंस्थानधरम् अनन्ते च समाश्रितम् ।

प्रधानं बुद्धिर् अप्य् आस्ते गदारूपेण माधवे ॥

भूतादिम् इन्द्रियादिं च द्विधाहङ्कारम् ईश्वरः ।

बिभर्ति शङ्खरूपेण शार्ष्गरूपेण च स्थितम् ॥

बलस्वरूपम् अत्यन्तं जवेनान्तरितानिलम् ।

चक्रस्वरूपं च मनो धत्ते विष्णोः करे स्थितम् ॥

[२०७] पञ्चरूपा तु या माला वैजयन्ती गदाभृतः ।

सा भूतहेतुसङ्घाता भूतमाला च वै द्विज ॥

यानीन्द्रियाण्य् अनेकानि बुद्धिकर्मात्मिकानि वै ।

शवरूपाण्य् अशेषाणि तानि धत्ते जनार्दनः ॥

बिभर्ति यच् चासिवरम् अव्यक्तो ऽत्यन्तनिर्मलम् ।

विद्यामयं तु तद् ज्ञानम् अविद्याकोशसंस्थितम् ॥

इत्थं पुमान् प्रधानं च बुद्ध्यहङ्कारम् एव च ।

भूतादीनि हृषीकेशे मनः सर्वेन्द्रियाणि च ॥

विद्याविद्ये च मैत्रेय सर्वम् एतत् समाश्रितम् ।

अस्त्रभूषणसंस्थानस्वरूपं रूपवर्जितम् ॥

बिभर्ति मायारूपो ऽसौ श्रेयसे प्राणिनां हरिः ।

सविकारं प्रधानं च यत् पुमांश् चाखिलं जगत् ॥

बिभर्ति पुण्डरीकाक्षस् तद् एवं परमेश्वरः ।

या विद्या या तथाविद्या यत् सत्यं चासमव्ययम् ॥

तत् सर्वं सर्वभूतेश मैत्रेय मधुसूदने ।

दक्षः ।

बहिर्मुखानि सर्वाणि कृत्वा चान्तर्मुखानि वै ।

मनसैवेन्द्रियग्रामं स्वात्मना विनियोजयेत् ॥

सर्वभावविनिर्मुक्तं क्षेत्रजं ब्रह्मणि न्यसेत् ।

एतद् ध्यानं च योगं च शेषो ऽन्यो ग्रन्थविस्तरः ॥

चतुर्णां सन्निकर्षेण फलं यत् तद् अशाश्वतम् ।

द्वयोस् तु सन्निकर्षेण शाश्वतं ध्रुवम् अव्ययम् ॥

[२०८] यन् नास्ति सर्वलोकस्य तद् अस्तीति विरुध्यते ।

कथ्यमानं तथान्यस्य हृदये नावतिष्ठते ॥

सुसंवेद्यं हि तद् ब्रह्म कुमारी स्त्री मुखं तथा ।

अयोगी नैव जानाति जात्यन्धो हि यथा घटम् ॥

नित्याभ्यसनशीलस्य सुसंवेद्यं हि तद् भवेत् ।

तत् सूक्ष्मत्वाद् अनिर्देश्यं परं ब्रह्म सनातनम् ॥

“चतुर्णाम्” इति आत्ममनो विषयेन्द्रियाणाम् इति । “द्वयोः” आत्ममनसोः ।

ब्रह्मपुराणे ।

गुणेन्द्रियशरीरैश् च भूततन्मात्रजातिभिः ।

सुखदुःखैर् हं नित्यम् अपरामृष्ट एव हि ॥

चिद्रूपो विमलो व्यापी द्रष्टा श्रोता च सर्वशः ।

घ्राता स्पर्शयिता देही तथा रसयितास्मि च ॥

नित्यं कर्ता न कर्ता च ग्रहीता देहवर्जितः ।

ऐश्वर्ययोगम् एतन् मे स्थितो ऽस्म्य् एकस् त्व् अनेकधा ॥

आकाशं यद् इदं सर्वं व्याप्यम् अस्थाणुजङ्गमम् ।

आत्मैवाहं जगत् सर्वं निष्कलं सकलं हि यते ॥

इति भावनया योगी यदा स्यात् सुदृढीकृतः ।

विमुक्तो देहगहनात् तदा स्यात् परमेश्वरः ॥

शुभे ऽशुभे च सङ्क्षीणे दग्धे जीवे च जन्मनाम् ।

प्रयाति परमाट्मानं तद् विष्णोः परमं पदम् ॥

मोक्षस्य नैव किञ्चित् स्याद् अन्यत्र गमनं क्वचित् ।

स्थानं वा धाम परमं यत्र गच्छन्ति योगिनः ॥

[२०९] अज्ञानं बन्धभेदस् तु मोक्षो ब्रह्मलय्स् त्व् इति ।

त्यक्त्वा सर्वविकल्पांस् तु आत्मस्थं न्श्चलं मनः ॥

कृत्वा शान्तो भवेद् योगी दग्धेन्धन इवानलः ।

अगाधबुद्धिं पृथिवीं विचरेद् गमनाकृतिः ॥

उपगम्य स्वम् आत्मानं नाशोत्पत्तिविवर्जितम् ।

यस्मिन् काले स्वम् आत्मानं योगी जानाति केवलम् ॥

तस्मात् कालात् समारभ्य जिवन्मुक्तो ऽभिधीयते ॥

महाभारते ।

मय्य् आवेश्य मनो ये मां नित्ययुक्ता उपासते ।

श्रद्धया परयोपेतास् ते मे युक्ततमा मताः ॥

ये त्व् अक्षरम् अनिर्देश्यम् अव्यक्तं पर्युपासते ।

सर्वत्रगम् अचिन्त्यं च कूटस्थम् अचलं ध्रुवम् ॥

सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः ।

ते प्राप्नुवन्ति माम् एव सर्वभूतहिते रताः ॥

क्लेशो ऽधिकतरस् तेषाम् अव्यक्तासक्तचेतसाम् ।

अव्यक्ता हि गतिर् दुःखं देहवद्भिर् अवाप्यते ॥

ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्पराः ।

अनन्येनैव योगेन मां ध्यायन्त उपासते ॥

तेषाम् अहं समुद्धर्ता मृत्युसंसारसागरात् ।

भवामि न चिरात् पार्थ मय्य् आवेशितचेतसाम् ॥

मय्य् एव मन आधत्स्व मयि बुद्धिं निवेशय ।

निवसिष्यसि मय्य् एव अत ऊर्ध्वं न संशयः ॥

[२१०] अथ चित्तं समाधातुं न शक्नोति मयि स्थिरम् ।

अभ्यासयोगेन ततो माम् इच्छाप्तुं धनञ्जय ॥

अभ्यासे ऽप्य् असमर्थो ऽसि मत्कर्मपरमो भव ।

मदर्थम् अपि कर्माणि कुर्वन् सिद्धिम् अवाप्स्यसि ॥

अथैतद् अप्य् अशक्तो ऽसि कर्तुं मद्योगम् आश्रितः ।

सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥

श्रेयो हि ज्ञानम् अभ्यासाज् ज्ञानाद् ध्यानं विशिष्यते ।

ध्यानात् कर्मफलत्यागस् त्यागाच् छान्तिर् निरन्तरम् ॥

मार्कण्डेयपुराणे ।

सारभूतम् उपासीत ज्ञानं यत् कर्मसाधनम् ।

ज्ञानानां बहुता ये ऽयं योगविघकरी हि सा ॥

इदं ज्ञेयम् इदं ज्ञेयम् इति यस् तृषितश् चरेत् ।

अपि कल्पसहस्रैस् तु न स ज्ञेयम् अवाप्नुयात् ॥

महाभारते ।

यस्मिन् यस्मिंस् तु विषये यो यो याति विनिश्चयम् ।

स तम् एवाभिजानाति नान्यं भरतसत्तम ॥

[२११]

२० — अथ योगप्रवृत्तिचिह्नानि

तत्र मार्कण्डेयपुराणे ।

अलौल्यम् आरोग्यम् अनिष्ठुरत्वम्

	गन्धः शुभो मूत्रपुरीषम् अल्पम् ।

कान्तिः प्रसादः स्वरसौम्यता च 

	योगप्रवृत्तेः प्रथमं हि चिह्नम् ॥

अनुरागं जनो याति परोक्षे गुणकीर्तनम् ।

न बिध्यति च सत्त्वानि सिद्धेर् लक्षणम् उत्तमम् ॥

शीतोष्णादिभिर् अत्युग्रैर् यस्य बाधा न जायते ।

न भीतिम् एति चान्येभ्यस् तस्य सिद्धिर् उपस्थिता ॥

प्रवृत्तिर् लक्षणाख्याता योगिनो विस्मयात् तथा ।

विज्ञानं विलयं याति तस्माद् गोप्याः प्रवृत्तयः ॥

वायुपुराणे ।

आत्मानं पृथिवीं चैव ज्वलन्तीं यदि पश्यति ।

भूतान्य् आविशते चैव विन्द्यात् सिद्धिम् उपस्थिताम् ॥

[२१२]

२१ — अथ योगोपसर्गाः

तत्र देवलः ।

    [नि?]ष्टाभिभवो निद्राबाधाभयानकोत्पत्तिर् ज्ञानपीडा । भोगातिशयः कोपनैपुण्यम् ऐश्वर्यविशेषो धर्ममहत्वं विद्यास्थानानि यशोदीप्तिर् इति योगिनां दशोपसर्गाः ।

“ज्ञानपीडा” स्मृत्यादिभ्रंशः ।

मार्कण्डेयपुराणे ।

उपसर्गाः प्रवर्तन्ते दृष्टे ऽप्य् आत्मनि योगिनः ।

ये तांश् ते सम्प्रवक्ष्यामि समासेन निबोध मे ॥

काम्याः क्रियास् तथा कामान् मानुषान् अभिवाञ्छति ।

स्त्रियो दानफलं विद्या मायाः कुप्यं धनं दिनम् ॥

देवत्वम् अमरेशत्वं रसायनवयःक्रियाः ।

मरुत्प्रपतनं यज्ञो जलाग्न्याविशनं तथा ॥

श्रद्धानाशकदानानां फलानि नियमास् तथा ।

तपोपवासपूर्वं च देवतेज्या धनानि च ॥

तेभ्यस् तेभ्यश् च कर्मभ्य उपस्पृष्टो ऽभिवाञ्छति ।

चित्तम् इत्थं प्रवर्तन्ते येन योगी निवर्तयेत् ॥

[२१३] ब्रह्मसङ्गि मनः कुर्वन्न् उपसर्गात् प्रमुच्यते ।

उपसर्गैर् जितैर् एभिर् उपसर्गास् ततः पुनः ॥

योगिनः सम्प्रवर्तन्ते सात्त्वराजसतामसाः ।

प्रातिभः श्रावणो देवो भ्रमावर्तौ तथा परौ ॥

पञ्चैते योगिनो योगविघ्नाय कटुकोदयाः ।

वेदान्तशास्त्रकाव्यात्मविद्याः शिल्पान्य् अनेकशः ॥

प्रतिभान्ति यद् अस्येति प्रातिभः स तु योगिनः ।

शब्दार्थान् अखिलान् वेत्ति शब्दं गृह्णाति चैव यत् ॥

योजनानां सहस्रेभ्यः श्रावणः सो ऽभिधीयते ।

अष्टौ यदा तु दृश्यन्ते समन्ताद् देवयोनयः ॥

उपसर्गं तम् अप्य् आहुर् दैवम् उत्तमवद् बुधाः ।

भ्राम्यते यन् निरालम्बं मनो दोषेण योगिनः ॥

समस्ताधारविभ्रंशाद् भ्रमः स परिकीर्तितः ।

आवर्त इव तोयस्य ज्ञानावर्त्तो यदाकुलः ॥

चित्तनाशकृद् आवर्त्त उपसर्गः स उच्यते ।

एतैर् नाशितयोगास् तु सकला देवयोनयः ॥

उपसर्गैर् महाघोरैर् आवर्तन्ते पुनः पुनः ।

प्रवृत्त्यालम्बकं शुक्लं योगी तस्मान् मनोमयम् ॥

चिन्तयेत् परमं ब्रह्म कृत्वा तत्प्रवणं मनः ।

योगयुक्तः सदा योगी लघ्वाहारो जितेन्द्रियः ॥

सूक्ष्मास् तु धारणाः सप्त भूर् आद्या मूर्द्ध्नि धारयेत् ।

धरित्रीं धारयन् योगी यत् सौक्ष्म्यं प्रतिपद्यते ॥

आत्मानं मन्यते चोर्वीं तद् गन्धं च जहाति सः ।

तथैवाप्सु रसं सूक्ष्मं तद्वद् रूपं च तेजसि ॥

स्पर्शं वायौ तथा तद्वद् बिभ्रतस् तस्य धारणा ।

[२१४] व्योम्नः सूक्ष्मप्रवृत्तस्य शब्दं तत्र जहाति च ॥

मनसा सर्वभूतानां मन आविशते यदा ।

मानसीं धारणां बिभ्रन् मनः सौक्ष्म्यं जहाति च ॥

एतद् बुद्धिम् अशेषाणां सत्त्वानाम् एत्य योगवित् ।

परित्यजति सम्प्राप्य बुद्धिसौक्ष्म्यम् अनुत्तमम् ॥

परित्यजति सूक्ष्माणि सप्त त्व् एतानि योगवित् ।

सम्यग् विज्ञाय यो तर्कं [तत्त्वं?] तस्यावृत्तिर् न विद्यते ॥

एतासां धारणानां तु सप्तानां सौक्ष्म्यम् आत्मवान् ।

दृष्ट्वा दृष्ट्वा ततः सिद्धिं त्यक्त्वा त्यक्त्वा परां भजेत् ॥

यस्मिन् यस्मिंश् च कुरुते भूते रागं महीयते ।

तस्मिंस् तस्मिन् समासक्तिं सम्प्राप्य स विनश्यति ॥

तस्माद् विदित्वा सूक्ष्माणि संसक्तानि परं परम् ।

परित्यजति यो योगी स परं प्राप्नुयात् पदम् ॥

एतान्य् एव तु बन्धाय सप्त सूक्ष्माणि पार्थिव ।

भूतादीनां विरागो ऽत्र मद्भावज्ञस्य मुक्तये ॥

गन्धादिषु समासक्तम् इत्य् एतद् अखिलं जगत् ।

पुनरावृत्तये भूप स ब्रह्म स न मानुषम् ॥

सप्तैव धारणा योगी समतीत्य यद् इच्छति ।

तस्मिंस् तस्मिन् लये सूक्ष्मे यातु भूते नरेश्वर ॥

देवानाम् असुराणां च गन्धर्वोरगरक्षसाम् ।

देहेषु लयम् आयाति सङ्गं नाप्नोति च क्वचित् ॥

ऽमानुषाः कामाःऽ सत्त्वादयः । “दारफलम्” पुत्रादिकम् । “विद्या” आध्यात्मिकातिरिक्ताः । “माया” इन्द्रजालादि । [२१५] “कुप्यम्” हेमरूप्यव्यतिरिक्तं कांस्यादि । ऽमरुत् प्रपतनऽं मरुद्गमनम् ।

वायुपुराणे ।

विदित्वा सप्त सूक्ष्माणि षडङ्गे च महेश्वरम् ।

प्रधानं विनियोगज्ञः परं ब्रह्माधिगच्छति ॥

सर्वज्ञता तृप्तिर् अनादिबोधः

	स्वतन्त्रता नित्यम् अलुप्तशक्तिः ।

अनन्तशक्तिं च विभुर् विभुज्ञाः

	षड् आहुर् अङ्गानि महेश्वरस्य ॥

नित्यं ब्रह्मपरो युक्त उपसर्गैः प्रमुच्यते ।

[२१६]

२२ — अथ योगविभूतयः

तत्र देवलः ।

    अणिमा महिमा लघिमा प्राप्तिः प्राकाम्यम् ईशित्वं वशित्वं यत्र कामावसायित्वं चाष्टाव् ऐश्वर्यगुणाः । तेषाम् अणिमा महिमा लघिमास् त्रयः शारीराः । प्राप्त्यादयः पञ्चैन्द्रियाः । तत्र स्वशरीरत्वम् अणिमा अणुभावात् सूक्ष्माण्य् अप्य् आविशति । शरीरमहत्वं महिमा । महत्वात् सर्वशरीराण्य् आवृणोति । शरीराशुगामित्वं लघिमा । तेनातिदूरस्थान् अपि क्षणेनासादयति । विश्वविषयावाप्तिः प्राप्तिः । प्राप्त्या सर्वप्रत्यक्षदर्शी भवति । यथेष्टचारित्वं प्राकाम्यम् । प्राकाम्येन सर्वभोगवरान् आप्नोति । अप्रतिहतैश्वर्यम् ईशित्वम् । ईशित्वेन दैवतान्य् अप्य् अतिशेते । आत्मवश्यता वशित्वम् । वशित्वेनापरिमितायुर् वश्यजजन्मा च भवति । यत्र कामावसायित्वं त्रिविधम् – छायावेशः अवध्यानावेशः अङ्गप्रवेश इति । यत् परस्य छायाप्रवेशमात्रेण चित्तं वशीकरोति स छायावेशः । यद् दूरस्थानाम् अपि अनुध्यानेन चित्ताधिष्ठानम्, सो ऽवध्यानावेशः । यत् सजीवस्योभिस् ते [?] जीवस्य वा शरीरानुप्रवेशनं **[२१७]** सो ऽङ्गप्रवेशः । यत्र कामावसायित्वेन मूर्तद्रव्यं चाधितिष्ठतीति ऐश्वर्यावस्थानं तच् च प्रकृतिपुरुषोत्तर्हेतोर् धर्मतेजोज्ञानविशेषात् । सातिशयेन सम्भूतं चैश्वर्याद् भवतीति । एवम् एतान् ऐश्वर्यगुणान् अधिगम्योद्धूतकल्मषः छिन्नसंशयः प्रत्यक्षदर्शी दर्मपरावरज्ञः कूटस्थः सर्वम् इदम् असद् अनित्यम् इति ज्ञात्वा स्वयम् एव शान्तिम् अधिगच्छतीत्य् ऐश्वर्याव्याप्तिः ।

अल्पकश् च यथा राजन् वह्निः शाम्यति दुर्बलः ।

आक्रान्त इन्धनैः स्थूलैस् तद्वद् योगो हि नु प्रभो ॥

स एव च यथा राजन् बहिर् जातबलः पुमान् ।

समीरणयुतः कृत्स्नं दहेत् क्षिप्रं महीम् इमाम् ॥

न त्व् अजातबलो योगी दीप्ततेजो महाबलः ।

अन्तकाल इवादित्यः कृत्स्नं संशोधयेज् जगत् ॥

दुर्बलश् च यथा राजन् स्रोतसा ह्रियते नरः ।

बलहीनस् तथा योगी विषयैः क्रियते ऽवशः ॥

तद् एव च यथा स्रोतो विष्टम्भयति रावणः ।

तद्वद् योगबलं लब्ध्वआ व्यूहते विषयान् बहून् ॥

[२१८] तथा ।

विशन्ति परशल्यार्थं योगायोगबलान्विताः ।

प्रजापतीन् ऋषीन् देवान् महाभूतानि चेश्वराः ॥

न यमो नान्तकः क्रुद्धो न मृतुर् भीमविक्रमः ।

ईशते नृपते सर्वे योगस्यामिततेजसः ॥

आत्मानं तु सहस्राणि बहूनि भरतर्षभ ।

योगं कुर्याद् बलं प्राप्य तैश् च सर्वैर् महीं चरेत् ॥

प्राप्नुयाद् विषयान् कैश्चित् कैश्चिद् दुःखं तपश् चरेत् ।

सङ्क्षिपेच् च पुनस् तानि सूर्यस् तेजोगणान् इव ॥

याज्ञवल्क्यः ।

अन्तर्धानं स्मृतिः कान्तिः दृष्टिश्रोत्रज्ञता तथा ।

निजं शरीरम् उत्सृज्य परकायप्रवेशनम् ॥

अन्धानां छन्नतां (?) दृष्टिर् योगसिद्धेस् तु लक्षणम् ।

सिद्धे योगे त्यजन् देहम् अमृतत्वाय कल्पते ॥

[२१९]

२३ — अथ स्थितप्रज्ञचरितम्

तत्र महाभारते ।

अर्जुन उवाच ।

स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।

स्थितधीः किं प्रभाषेत किम् आसीत व्रजेत किम् ॥

श्रीभगवान् उवाच ।

प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् ।

आत्मन्य् एवात्मना तुष्टः स्थितप्रज्ञस् तदोच्यते ॥

दुःखेष्व् अनुद्विग्नमनाः सुखेषु विगतस्पृहः ।

वीतराजभयक्रोधः स्थितधीर् मुनिर् उच्यते ॥

यः सर्वत्रानभिस्नेहस् तत् तत् प्राप्य शुभाशुभम् ।

नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥

यदा संहरते चायं कूर्मो ऽङ्गानीव सर्वशः ।

इन्द्रियाणीन्द्रियार्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता ॥

या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।

यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥

[२२०] आपूर्यमाणम् अचलप्रतिष्ठं

	समुद्रम् आपः प्रविशन्ति तद्वत् ।

तद्वत् कामा यं प्रविशन्ति सर्वे

	स शान्तिम् आप्नोति न कामकामी ॥

विहाय कामान् यः सर्वान् पुमांश् चरति निस्पृहः ।

निर्ममो निरहङ्कारः स शान्तिम् अधिगच्छति ॥

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।

स्थित्वास्याम् अन्तकाले ऽपि ब्रह्मनिर्वाणम् ऋच्छति ॥

ऽया निशाऽ इत्यादि निशेव निशा ब्रह्मतत्त्वम् । तत्र हि सर्वबूतानां दर्शनाभावः । तस्यां जागर्ति तद् ब्रह्मस्वरूपम् अनुभवति । “संयमी” योगधायीत्य् अर्थः ।

ऽयस्यां जागर्तिऽ विषयासक्तिलक्षणायां निशायाम् उन्मीलिताक्षाणि भूतानि च यस्यां तस्यां तद्दर्शनवृत्तेर् निरोधाद् इत्य् अर्थः । “अचलप्रतिष्ठम्” इति । अचला प्रतिष्ठा स्थितिर् यस्य तम् अचलम् अप्रतिष्ठम् । आपो यथा प्रविशन्ति विक्रियाम् अनापादयन्त्यस् तथा योगिनः चित्तविक्रियाम् अकुर्वन्तः कामविषया उपतिष्ठन्ति इत्य् अर्थः ।

तथा ।

प्रकाशं च प्रवृत्तिं च मोहम् एव च पाण्डव ।

न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ॥

उदासीनवद् आसीनो गुणैर् यो न विचाल्यते ।

गुणा वर्तन्त इत्य् एवं यो ऽवतिष्ठति नेङ्गते ॥

समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः ।

तुल्यप्रियाप्रियो धीरः तुल्यनिन्दार्थसंस्तुतिः ॥

[२२१] मानापमानयोस् तुल्यस् तुल्यो मित्रारिपक्षयोः ।

सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥

मां च यो ऽव्यभिचारेण भक्तियोगेन सेवते ।

स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते ॥

ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्याव्ययस्य च ।

शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥

प्रकाशस्य धर्मो ज्ञानम् । प्रवृत्ती रजसो धर्मः । मोहस् तु तमसो धर्मः । “सम्प्रवृत्तानि” सुखनिमित्तानीति शेषः । “निवृत्तानि” सुखदुःखनिमित्तानीति शेषः । “नेङ्गते” न चरति ।

तथा ।

यदा भूतपृथग्भावम् एकस्थम् अनुपश्यति ।

तत एव च विस्तारं ब्रह्म सम्पद्यते तथा ॥

[तथा]

विद्याविनयसम्पन्नो ब्राह्मणे गवि हस्तिनि ।

शुनि चैव श्वपाके च पण्डिता समदर्शिनः ॥

इहैव तैर् जितः सर्गो येषां साम्ये स्थितं मनः ।

निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥

न प्रहृष्येत् प्रियं प्राप्य नोद्विजेत् प्राप्य चाप्रियम् ।

स्थिरबुद्धिर् असम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः ॥

बाह्यस्पर्शेष्व् असक्तात्मा विन्दत्य् आत्मनि यत् सुखम् ।

स ब्रह्मयोगयुक्तात्मा सुखम् अक्षय्यम् अश्नुते ॥

[२२२] ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।

आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥

शक्नोतीहैव य सोढुं प्राक् शरीरविमिक्षणात् ।

कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥

यो ऽन्तःसुखो ऽन्तरारामः तथान्तर्ज्योतिर् एव यः ।

स योगी ब्रह्मनिर्वाणं ब्रह्मभूतो ऽधिगच्छति ॥

लभन्ते ब्रह्मनिर्वाणम् ऋषयः क्षीणकल्मषाः ।

छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥

कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ।

अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥

[तथा]

सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु ।

साधुष्व् अपि च पापेषु समबुद्धिर् विशिष्यते ॥

[तथा]

यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।

तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥

सर्वभूतस्थितं यो मां भजत्य् एकत्वम् आस्थितः ।

सर्वथा वर्तमानो ऽपि स योगी मयि वर्तते ॥

आत्मौपम्येन सर्वत्र समं पश्यति यो ऽर्जुन ।

सुखं वा यदि वा दुःखं स योगी परमो मतः ॥

ऽयदा भूतपृथग्भावम्ऽ इति भूतानां पृथग्भावम् एकस्थं प्रलयावस्थायां परमकारणे ऽनुपश्यति तत एव चैकस्मात् [२२३] परमात्मनो विस्तारम् । “तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः” इति सृष्टिप्रलयविद् ब्रह्म सम्पद्यते इत्य् अर्थः । ऽपण्डिताः समदर्शिनःऽ ब्राह्मणादिषु ब्रह्मावस्थितं समदर्शिनो भवन्ति । सर्वभूतेष्व् आकाशवद् ब्रह्मरूपम् अनुगतं पश्यन्तीत्य् अर्थः ।

तथा ।

बहूनां जन्मनाम् अन्ते ज्ञानवान् मां प्रपद्यते ।

वासुदेवः सर्वम् इति स महात्मा सुदुर्लभः ॥

सर्वं वासुदेवम् इतिज्ञास् तेषाम् इत्य् अर्थः ।

तथा ।

चरन्तं ब्राह्मणं कञ्चित् स्वल्पवित्तम् अनामयम् ।

पप्रच्छ राजा प्रह्लादो बुद्धिमान् बुद्धिमत्तरम् ॥

[प्रह्लाद उवाच]

स्वस्थः शक्तो मृदुर् दान्तो निर्विधित्सो ऽनसूयकः ।

सुवाक् प्रगल्भो मेधावी प्राज्ञश् चरसि बालवत् ॥

नैव प्रार्थयसे लाभम् आनीते नानुशोचसि ।

नित्यतृप्त इव ब्रह्मन् अन् किञ्चिद् अभिमन्यसे ॥

स्रोतसा ह्रियमाणासु प्रजासु विमना इव ।

धर्मकामार्थकार्येषु कूट्स्थ इव शिष्यसे ॥

[२२४] नानुतिष्ठसि धर्मार्थौ न कामं वानुवर्तसे ।

इन्द्रियार्थान् अनादृत्य मुक्तश् चरसि साक्षिवत् ॥

का नु प्रज्ञा श्रुतं वापि वृत्तिर् वा का नु ते मुने ।

क्षिप्रम् आचक्ष्व मे ब्रह्मन् श्रेयो यद् इह मन्यसे ॥

[भीष्म उवाच]

अनुयुक्तः स मेधावी लोकधर्मविधानवित् ।

उवाच श्लक्ष्णया वाचा प्रह्लादमनपार्थया [?] ॥

पश्यन् प्रह्लाद भूतानाम् उत्पत्तिम् अनिमित्ततः ।

ह्रासं वृद्धिं विनाशं च न प्रहृष्ये न च व्यथे ॥

[तथा]

दिवि सञ्चरमाणानि ह्रस्वानि च महान्ति च ।

ज्योतींष्य् अपि यथाकालं पतमानानि लक्षये ॥

इति भूतानि सम्पश्यन् अनुषक्तानि मृत्युना ।

सर्वं सामान्य् अतो विद्वान् कृतकृत्यः सुखं स्वपे ॥

सुमहान्तम् अपि ग्रासं ग्रसे लब्धं यदृच्छया ।

शये पुनर् अभुञ्जानो दिवसानि बहून्य् अपि ॥

आशयन्त्य् अपि माम् अन्नं पुनर् बहुगुणं बहु ।

पुनर् अल्पं पुनस्तोकं पुनर् नैवोपपद्यते ॥

कणं कदाचित् खादामि पिण्याकम् अपि च ग्रसे ।

भक्षये शालिमांसानि भक्ष्यांश् चोच्चावचान् बहून् ॥

शये कदाचित् पर्यङ्के भूमाव् अपि पुनः शये ।

प्रासादे वापि शय्या मे कदाचिद् उपपद्यते ॥

[२२५] धारयामि च चीराणि शाणक्षौमाजिनानि च ।

महार्हाण्य् अथ् वासांसि धारयाम्य् अहम् एव च ॥

न सन्निपतितं धर्म्यम् उपभोगं यदृच्छया ।

प्रत्याचक्षे न चाप्य् एनम् अनुरुन्धे सुदुर्लभम् ॥

अचलम् अनिधनं शिवं विशोकं

	शुचिम् अतुलं विदुषां मते निविष्टम् ।

अनभिमतम् असेवितं च मूढैः

	व्रतम् इदम् आजगरं शुचिश् चरामि ॥

अचलितमतिर् अच्युतः स्वधर्मात्

	परिमितसंसरणः परापवर्गः ।

विगतभयकषायलोभमोहो 

	व्रतम् इदम् आजगरं शुचिश् चरामि ॥

अनियतफलभोज्यभक्ष्यपेयं

	विधिपरिणामविभक्तदेशकालम् ।

हृदयसुखम् असेवितं कदर्यैः

	व्रतम् इदम् आजगरं शुचिश् चरामि ॥

इदम् इदम् इति तृष्णयाभिभूतं

	जनम् अनवाप्तधनं विषीदमानम् ।

निपुणम् अनुनिशाम्य तत्त्वबुद्ध्या

	व्रतम् इदम् आजगरं शुचिश् चरामि ॥

बहिविधम् अनुदृश्य चार्थहेतोः

	कृपणम् इहार्यम् अनार्यम् आश्रयन्तम् ।

उपशमरुचिरात्मवान् प्रशान्तो

	व्रतम् इदम् आजगरं शुचिश् चरामि ॥

[२२६] सुखम् असुखम् अलाभम् अर्थलाभं

	रतिम् अरतिं मरणं च जीवितं च ।

विधिनियतम् अवेक्ष्य तत्त्व्तो ऽहं

	व्रतम् इदम् आजगरं शुचिश् चरामि ॥

अपगतभयरागमोहदर्पो 

	धृतिमतिबुद्धिसमन्वितः प्रशान्तः ।

उपगतफलभोगिनो निशाम्य

	व्रतम् इदम् आजगरं शुचिश् चरामि ॥

अनियतशयनासनप्रकृत्या

	यमनियमव्रतशौचसत्ययुक्तः ।

अपगतफलसञ्चयः प्रहृष्टो

	व्रतम् इदम् आजगरं शुचिश् चरामि ॥

अपगतम् असुखार्थम् ईहनार्थैः 

	उपगतबुद्धिर् अवेक्ष्य चात्मसंस्थः ।

तृषितम् अनियतं मनो नियन्तुं

	व्रतम् इदम् आजगरं शुचिश् चरामि ॥

न हृदयम् अनुरुध्यते मनो वा

	प्रियसुखदुर्लभताम् अनित्यतां च ।

तद् उभयम् अपि लक्षयन्न् इवाहं

	व्रतम् इदम् आजगरं शुचिश् चरामि ॥

बहुकथितम् इदं हि बुद्धिमद्भिः

	कविभिर् अतिप्रथयद्भिर् आत्मकीर्तिम् ।

इदम् इदम् इति तत्र तत्र हन्त

	स्वपरमतैर् गहनं प्रतर्कयद्भिः ॥

[२२७] तद् इदम् अनुनिशम्य विप्रपातं

	पृथगभिपन्नम् इहाबुधैर् मनुष्यैः ।

अनवसितम् अनन्तदोषपारं

	नृषु विहरामि विनीतदोषतृष्णः ॥

[भीञ्म उवाच]

अजगरचरितव्रतं महात्मा

	य इह नरो ऽनुचरेद् विनीतरागः ।

अपगतभयमन्युलोभमोहः

	स खलु सुखी विहरेद् इमं विहारम् ॥

[तथा]

युधिष्ठिर उवाच ।

किंशीलः किंसमाचारः किंविद्यः किम्पराक्रमः ।

प्राप्नोति ब्रह्मणः स्थानं यत् परं प्रकृतेर् ध्रुवम् ॥

भीष्म उवाच ।

मोक्षधर्मेषु नियतो लघ्वाहारो जितेन्द्रियः ।

आप्नोति ब्रह्मणः स्थानं यत् परं प्रकृतेर् ध्रुवम् ॥

अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् ।

जैगीषव्यस्य संवादम् असितस्य च भारत ॥

जैगीषव्यं महाप्राज्ञं धर्माणाम् आगतागमम् ।

अक्रुद्ध्यन्तम् अहृष्यन्तम् असितो देवलो ऽब्रवीत् ॥

[२२८] देवल उवाच ।

न प्रीयसे वन्द्यमानो निन्द्यमानो न कुप्यसे ।

का ते प्रज्ञा कुतश् चैषा किं ते तस्याः परायणम् ॥

भीष्म उवाच ।

इति तेनानुयुक्तस् तम् उवाच स महातपाः ।

महद्वाक्यम् असन्दिग्धं पुष्कलार्थपदं शुचि ॥

जैगीषव्य उवाच ।

या गतिर् या परा निष्ठा या शक्तिः पुण्यकर्मणाम् ।

ताम् अहं सम्प्रवक्ष्यामि यन् मां पृच्छसि वै द्विज ॥

निन्दत्सु च समा नित्यं प्रशंसत्सु च देवल ।

निह्नुवन्ति च ये तेषां समयं सुकृतं च यत् ॥

उक्ताश् च न विवक्षन्ति वक्तारम् अहिते हितम् ।

प्रतिहन्तुं च नेच्छन्ति हन्तारं च मनीषिणः ॥

नाप्राप्तान्य् अनुशोचन्ति प्राप्तकाकानि कुर्वते ।

न चातीतानि शोचन्ति नैतानि प्रतिजानते ॥

सम्प्राप्तानां च पूज्यानां कामाद् अर्थेषु देवल ।

यथोपपत्तिं कुर्वन्ति शक्तिमन्तो घृतव्रताः ॥

पक्वविद्या महाप्रज्ञाः जितक्रोधा जितेन्द्रियाः ।

मनसा कर्मणा वाचा नापराध्यन्ति कर्हिचित् ॥

अनीर्षवो न चान्योन्यं विहिंसन्ति कदाचन ।

न च जातूपतप्यन्ते धीराः परसमृद्धिभिः ॥

निन्दाप्रशंसे नात्यर्थं न वदन्ति परस्य च ।

[२२९] न च निन्दाप्रशंसाभ्यां विक्रियन्ते कदाचन ॥

सर्वतश् च प्रशान्ता ये सर्वभूतहिते रताः ।

न कुप्यन्ति न हृष्यन्ति नापराध्यन्ति कस्यचित् ॥

विमुच्य हृदयग्रन्थिं सङ्क्रमन्ते यथासुखम् ।

येषां न बान्धवाः सन्ति ये ऽन्येषां च न बान्धवाः ॥

अमित्राश् च न सन्त्य् एषां ये चामित्रा न कस्यचित् ।

य एवं कुर्वते मर्त्याः सुखं जीवन्ति सर्वदा ॥

धर्मम् एवानुरुध्यन्ते धर्मज्ञा द्विजसत्तमाः ।

ये ह्य् अतो विच्युता मार्गात् ते हृष्यन्त्य् उद्विजन्ति च ॥

आस्थितस् तम् अहं मार्गम् असूयिष्यामि तत् कथम् ।

निन्द्यमानः प्रशस्तो वा हृष्येयं केन हेतुना ॥

यद् यद् इच्छन्ति तत् तस्माद् अधिगच्छन्ति मानवाः ।

न मे निन्दा प्रशंसाभ्यां ह्रासवृद्धी भविष्यतः ॥

अमृतस्येव सन्तृप्येद् अवमानस्य तत्त्ववित् ।

विषस्येवोद्विजेन् नित्यं सम्मानस्य विचक्षणः ॥

अवज्ञातः सुखं शेते इह चामुत्र चोभयोः ।

विमुक्तः सर्वपापेभ्यो यो ऽवमन्ता स बुध्यते ॥

परां गतिं च ये केचित् प्रार्थयन्ति मनीषिणः ।

एतद् ब्रह्म समाश्रित्य सुखम् एधन्ति ते जनाः ॥

सर्वतश् च समाहृत्य क्रतून् सर्वान् जितेन्द्रियः ।

प्राप्नोति ब्रह्मणः स्थानं यत् परं प्रकृतेर् ध्रुवम् ॥

नास्य देवा न गन्धर्वा न पिशाचा न राक्षसाः ।

पदम् अन्ववरोहन्ति प्राप्तस्य परमां गतिम् ॥

[२३०] मार्कण्डेयपुराणे ।

दत्तात्रेय उवाच ।

दुःखापहारम् अद्यैव करोमि तव पार्थिव ।

सत्यं ब्रूहि किमर्थं ते दुःखं च पृथिवीपते ॥

[जड उवाच]

कस्य त्वं कस्य वा दुःखं तत्त्वम् एवं विचार्यताम् ।

अङ्गानीमानि देहस्य सर्वाङ्गानि च चिन्तय ॥

इत्युक्तश् चिन्तयामास स राजा तेन धीमता ।

त्रिविधस्यापि दुःखस्य स्थानम् आत्मानम् एव च ॥

स विमृश्य चिरं राजा पुनः पुनर् उदारधीः ।

आत्मानम् आत्मना वीरः प्रहस्येदम् उवाच ह ॥

नाहम् उर्वी न सलिलं न ज्योतिर् अनिलो न च ।

नाकाशं किं तु शारीरं न मे ऽद्य सुखम् इष्यते ॥

तथा च ममतात्यक्ते विशेषेणोपलभ्यते ।

[२३१] मनस्य् अवस्थितं दुःखं सुखं वा मनसा श्रितम् ॥

यतस् ततो न मे दुःखं सुखं वा न ह्य् अहं मनः ।

नाहङ्कारो न च मनो बुद्धिर् नाहं यतस् ततः ॥

अन्तःकरणजं दुःखं पारक्यं मम तत् कथम् ।

नाहं शरीरं न मनो यतो ऽहं

	पृथक् शरीरान् मनसस् तथाहम् ।

तत् सन्तु चेतस्य् अथ वापि देहे

	सुखानि दुःखानि च किं ममात्र ॥

न यस्य हस्तादिकम् अप्य् अशेषं

	न मांसम् अस्थीनि सिरादिभागः ।

कस् तस्य नागाश्वरथादिकोशैः

	स्वल्पो ऽपि सम्बन्ध इहास्ति पुंसः ॥

तस्मान् न मे ऽरिर् न च मे ऽस्ति दुःखं

	न मे सुखं नापि पुरं न कोशः ।

न चाशव्नागादिबलं न तस्य 

	नान्यस्य वा कस्य मया विनास्ति ॥

यथा घटीकुम्भमण्डलुस्थम्

	आकाशम् एकं बहुधा विभाति \
तथा सुबाहुः स च काशिपो ऽहं

	मन्ये च देहेषु शरीरभेदैः ॥

[२३२] विष्णुपुराणे ।

राजोवाच ।

किं श्रान्तो ऽस्य् अल्पम् अध्वानं त्वयोढा शिबिका मम ।

किं मया स सहो न त्वं पीवान् असि न्रीक्ष्यसे ॥

ब्राह्मण उवाच ।

नाहं पीवा न वै वोढा शिबिका भवतो मया ।

न श्रान्तो ऽस्मि न चायासः सोढव्यो ऽसि महीपते ॥

राजोवाच ।

प्रत्यक्षं दृश्यसे पीवा नाद्यापि शिबिका त्वयि ।

श्रमश् च भारोद्वहने भवत्य् एव हि देहिनाम् ॥

ब्राह्मण उवाच ।

प्रत्यक्षं भवता भूप यद् दृष्टं मम तद् वद ।

बलवान् अबलश् चेति वाच्यं पश्चाद् विशेषणम् ॥

त्वयोढा शिबिका चेति त्वय्य् अद्यापि च संस्थिता ।

मिथ्यैतद् अत्र तु भवान् शृणोतु वचनं मम ॥

भूमौ वदयुगस्यास्था जङ्घे पादद्वये स्थिते ।

ऊरू जङ्घाद्वयावस्थे तदाधारं तथोदरम् ॥

वक्षःस्थलं तथा बाहू स्कन्धौ चोदरसंस्थितौ ।

सकन्धाश्रिते ऽयं शिबिका मम भारो ऽत्र किं कृतः ॥

[२३३] शिबिकायां स्थितं चेदं वपौस् त्वदुपलक्षितम् ।

तत्र त्वम् अहम् अप्य् अत्र प्रोच्यते चेदम् अन्यथा ॥

अहं त्वं च तथान्ये च भूतैर् ऊह्यामहे वयम् ।

गुणप्रवाहपतितो भूतवर्गे ऽपि यात्य् अयम् ॥

कर्मवश्या गुणाश् चैते सत्त्वाद्याः पृथिवीपते ।

अविद्यासञ्चितं कर्म तच् चाशेषेषु जन्तुषु ॥

यदा नोपचयस् तस्य न चैवापचयो नृप ।

तदा पीवानसीतीत्थं कया युक्त्या त्वयेरितम् ॥

भूपाद्दजङ्घाकट्यूरुजठरादिषु संस्थिते ।

शिबिकेयं यदा स्कन्धे तदा भावसमस् त्वया ॥

तथान्यजन्तुभिर् भूप शिबिकोत्था न केवलम् ।

शैलद्रुमगृहस्थो ऽपि पृथिवीसम्भवो ऽपि वा ॥

यदा पुंसः पृथग्भावः कारणैः प्राकृतैर् नृप ।

सोढव्यस् तु तदायासः कतरो नृपते मया ॥

यद्द्रव्या शिबिका चेयं तद्द्रव्यो भूतसङ्ग्रहः ।

भावितो मे ऽखिलस्यास्य ममत्वेनोपबृंहितः ॥

पराशर उवाच ।

एवम् उक्त्वाभवन् मौनी स वहन् शिबिकां द्विजः ।

सो ऽपि राजावतीर्योर्व्यां तत्पादौ जगृहे त्वरन् ॥

[२३४] राजोवाच ।

भो भो विसृज्य शिबिकां प्रसादं कुरु मे द्विज ।

कथ्यतां को भवान् अत्र जाल्मरूपधरः स्थितः ॥

यो भवान् यन् निमित्तं च यद् आगमनकारणम् ।

तत् सर्वं कथ्यतां विद्वान् मह्यं शुश्रूषवे तथा ॥

ब्राह्मण उवाच ।

श्रूयतां को ऽहम् इत्य् एतद् वक्तुं कुञ्चिन् न शक्यते ।

उपभोगनिमित्तं च सर्वत्रागमनक्रिया ॥

सुखदुःखोपभोगौ तु तौ देहाद्युपपादकौ ।

धर्माधर्मोद्भवौ भोक्तुं जन्तुर् देहादिम् ऋच्छति ॥

सर्वस्यैव हि भूपाल जन्तोः सर्वत्र कारणम् ।

धर्माधर्मौ यतस् तस्मात् कारणं पृच्छ्यते कुतः ॥

राजोवाच ।

धर्माधर्मौ न दन्देहः सर्वकार्येषु कारणम् ।

उपभोगनिमित्तं च देहदेशान्तरागमः ॥

यद् एतद् भवता प्रोक्तं को ऽहम् इत्य् एतद् आत्मनः ।

वक्तुं न शक्यते श्रोतुं तन् ममेच्छा प्रवर्तते ॥

यो ऽस्ति सो ऽहम् इति ब्रह्मन् कथं वक्तुं न शक्यते ।

आत्मन्य् एष न दोषाय शब्दो ऽहम् इति यो द्विज ॥

ब्राह्मण उवाच ।

शब्दो ऽहम् इति दोषाय नात्मन्य् एव तथैव तत् ।

[२३५] अनात्मन्य् आत्मविज्ञानं शब्दो वा भ्रान्तिलक्षणः ॥

जिह्वा ब्रवीत्य् अहम् इति दन्तोष्ठौ तालुकं नृप ।

एतेनाहं यतः सर्वे वाङ्निष्पादनहेतवः ॥

किं हेतुभिर् वदत्य् एषा वाग् एवाहम् इति स्वयम् ।

तथापि वाङ् नाहम् एतद् वक्तुम् इत्थं युज्यते ॥

पिण्डः पृथग् यतः पुंसः शिरःपाण्यादिलक्षणः ।

ततो ऽहम् इति कुत्रैतां सञ्ज्ञां राजन् करोम्य् अहम् ॥

यद्य् अन्यो ऽस्ति परः को ऽपि मत्तः पार्थिवसत्तम ।

यदेशो ऽहम् अयं चान्यो वक्तुम् एवम् अपीष्यते ॥

यदा समस्तदेहेषु पुमान् एको व्यवस्थितः ।

तदा हि को भवान् को ऽहम् इत्य् एतद् विफलं वचः ॥

त्वं राजा शिबिका चेयं वयं बाह्याः पुरःसराः ।

अयं च भवतो लोको न सदेतन् नृपोच्यते ॥

वृक्षाद् दारु ततश् चेयं शिबिका त्वदधिष्ठिता ।

क्व वृक्षसञ्ज्ञा याता स्याद् दारुसञ्ज्ञाथवा नृप ॥

वृक्षारूढो महाराजो नायं वदति ते जनः ।

न च दारुणि तिष्ठन्तं ब्रवीति शिबिकागतम् ॥

शिबिका दारुसङ्घातो रचनास्थितिसंस्थितः ।

अन्विष्यतां नृपश्रेष्ठ तद्भेदे शिबिका त्वया ॥

एवं छत्रशलाकानां पृथग्भावो विमृश्यताम् ।

क्व यातं छत्रम् इत्य् एष न्यायस् त्वयि तथा मयि ॥

[२३६] पुमांस्त्री गौर् अजो वाजी कुञ्जरो विहगस् तरुः ।

देहेषु लोके सञ्ज्ञेयं विज्ञेया कर्महेतुषु ॥

पुमान् न देवो न नरो न पशुर् न च पादपः ।

शरीराकृतिभेदास् तु भूपैते कर्मयोनयः ॥

वस्तु राजेति यल् लोके यच् च सत्सङ्कल्पमात्रकम् ॥

यत् तु कालान्तरेणापि नान्यसञ्ज्ञाम् उपैति वै ।

परिणामादिसम्भूतं तद् वस्तु नृप तच् च किम् ॥

त्वं राजा सर्वलोकस्य पितुः पुत्रो रिपोरिपुः ।

पत्न्याः पतिः पिता सूनोः कं त्वां भूप वदाम्य् अहम् ॥

त्वं किम् एतच् छिरः किं तु शिरस् तव ततोदरम् ।

किम् उ पादादिकं त्वं वै न वैतत् किं महीपते ॥

समस्तावयवेभ्यस् त्वं पृथग्भूतो व्यवस्थितः ।

को ऽहि त्वं चेति निपुणो भूत्वा चिन्तय पार्थिव ॥

एवं व्यवस्थितो ऽतत्वे मयाहम् इति भावितम् ।

पृथक्करणनिष्पाद्यं शक्यते नृप ते कथम् ॥

ऽतदुपलक्षितस् त्वयात्मनाहं त्वया गृहीतः । तत्र त्वम्ऽ इति । तत्र त्वम् अहम् अत्रेत्य् अन्यथोच्यते । यतो नावयोर् वाच्यवाचकभावो ऽस्तीति भावः । “गुणप्रवाहः” गुणपरिणामस्रोतः । “शुद्धः” केवलो वस्त्वन्तरसंसर्गशून्यो ऽसञ्ज्ञीत्य् अर्थः । “अक्षरो” अविनाशी । “शान्तो” रागद्वेषरहितः । “निर्गुणो” गुणातितः । ऽप्रकृतेः परःऽ अचेतनाद् अत्यन्तविलक्षणः । ऽभूपालेत्यादि । यद्य् अन्येन ध्रियमाणे भावे परस्यापि भारो भवेत्, **[२३७] **तदा मदुपलक्षितस्कन्धाश्रिते भर्तव्ये तवापि भारः स्याद् इति भावः । तथान्यजन्तुभिर् भारः सम इत्य् अन्वयः । न केवलं शिबिकोत्थः भारः समः । किं तु शैलभारो ऽपि समः । “जाल्मः” असमीक्ष्यकारी यन्निमित्तम् इत्य् आगमनहेतुविषयः । ऽकिम् आगमनकारणम्ऽ इति उद्देश्यप्रश्नः ।ऽऽशब्दो “हम्” इति दोषायेत्यादि । “अहम्” इति शब्दो ऽयम् आत्मनि स्वप्रयोक्तरि वर्तमानो न दोषाय भवति । किं तु अनात्मन्य् आत्मविज्ञानं भ्रमः । तथात्मशब्दस्याप्य् अनात्मनि प्रयोगो भ्रान्तिलक्षण इत्य् अर्थः । ऽएते जिह्वादयःऽ शब्दाभिव्यक्तिहेतवो नाहं कर्तृकत्वाद् अशरीरत्वात् (?) अशरीर्त्वाच् चाहम् इति शब्दविज्ञानयोर् अन्यदानयनम् इत्य् अर्थः ।

तथा ।

परमार्थस् तु भूपाल सङ्क्षेपात् श्रूयतां मम ।

एको व्यापी समः शुद्धो निर्गुणः प्रकृतेः परः ॥

जन्मबुद्ध्यादिरहित आत्मा सर्वगतो ऽव्ययः ।

परज्ञानमयो ऽसद्भिः नामजात्यादिभिर् विभुः ॥

न योगवान् न युक्तो ऽभून् नैव पार्थिव योक्ष्यते ।

तस्यात्मपरहेतुषु सतो ऽप्य् एकतमं हि तत् ॥

विज्ञानं परमार्हो ऽसौ द्वैततो ऽतत्त्वदर्शिनः ।

वेणुरन्ध्रविभेदश् च यथा षड्जादिसञ्ज्ञितः ॥

अभेदव्यापिनो वायोस् तथा तस्य महात्मनः ।

[२३८] तथा ।

श्रूयतां नृपशार्दूल यद् गीतम् ऋभुणा पुरा ।

प्रतिबोधं जनयता निदाघस्य महात्मनः ॥

ऋभुर् नामाभवत् पुत्रो ब्रह्मणः परमेष्ठिनः ।

विज्ञाततत्त्वसद्भावो निसर्गाद् एव भूपते ॥

तस्य शिष्यो निदाघो ऽभूत् पुलस्त्यतनयः पुरा ।

प्रादाद् अशेषविज्ञानं स तस्मै परया मुदा ॥

अवाप्तज्ञानतत्त्वस्य न तस्याद्वैतवासना ।

स ऋभुस् तर्कयामास निदाघस्य नरेश्वरः ॥

देविकायास् तटे वीर नगरं नाम वै पुरम् ।

समृद्धम् अतिरम्यं च पुलस्त्येन निवेशितम् ॥

रम्योपवनपर्यन्ते स तस्मिन् पार्थिवोत्तम ।

निदाघनामा योगज्ञ ऋभुशिष्यो ऽवसत् पुरा ॥

दिव्यवर्षसहस्रे तु समतीते ऽस्य तत् पुरम् ।

जगाम स ऋभुः शिष्यं निदाघम् अवलोककः ॥

स तस्य वैश्वदेवान्ते द्वारालोकनगोचरे ।

स्थितस् तेन गृहीतार्घो निजवेश्म प्रवेशितः ॥

प्रक्षालिताङ्घ्रिपद्मं च कृतासनपरिग्रहम् ।

उवाच स द्विजश्रेष्ठो भुज्यताम् इति सादरम् ॥

ऋभुर् उवाच ।

भो विप्रवर्य भोक्तव्यं यद् अत्र भवतो गृहे ।

तत् कथ्यतां कदन्नेषु नः प्रीतिः सततं मम ॥ 

निगाध उवाच ।

सक्तुयावकवाद्यानाम् अपूपानां च मे गृहे ।

यद् रोचते द्विजश्रेष्ठ तद् भक्षय यथेच्छया ॥

ऋभुर् उवाच ।

कदन्नानि द्विजैतानि मिष्टम् अन्नं प्रयच्छ मे ।

संयावपायसादीनि द्राक्षाफाणितवन्ति च ॥

निगाध उवाच ।

हे हे शालिनि मद्गृहे यत् किञ्चिद् अतिशोभनम् ।

भक्ष्योपसाधनं मिष्टं तेनास्यान्नं प्रसाधय ॥

इत्य् उक्ता तेन सा पत्नी मिष्टम् अन्नं द्विजस्य तत् ।

प्रसाधितवती तस्य भर्तुर् वचनगौरवात् ॥

तं भुक्तवन्तम् इच्छातो मिष्टम् अन्नं महामुनिम् ।

निदाघः प्राह भूपाल प्रश्रयावनतः स्थितः ॥

अपि ते परमा तृप्तिर् उत्पन्ना तुष्टिर् एव च ।

अपि ते मानसं स्वस्थम् आहारेण कृतं द्विज ॥

क्वनिवासो भवान् विप्र क्व वा गन्तुं समुद्यतः ।

आगम्यते वा भवता यतस् तच् च द्विजोच्यताम् ॥

ऋभुर् उवाच ।

क्षुद् यस्य तस्य भुक्तान्ने तृप्तिर् ब्राह्मण जायते ।

न मे क्षुन्नाभवत् तृप्तिः कस्मान् मां द्विज पृच्छसि ॥

[२४०] वह्निना पार्थिवे धातौ क्षयिते क्षुत्समुद्भवः ।

भवत्य् अम्भसि च क्षीणे नृणां तृप्तिर् न जायते ॥

क्षुत्तृष्णे देहधर्माख्ये न ममैते यतो द्विज ।

ततः क्षुत्सम्भवाभावात् तृप्तिर् अस्त्य् एव मे सदा ॥

मनसः सुथिता तुष्टिश् चित्तधर्मो न मे द्विज ।

चेतसो ये तु तत्प्रश्न पुमान् एभिर् न युज्यते ॥

क्व निवासस् तवेत्य् उक्तं क्व गन्तासि च यः त्वया ।

कुतश् चागम्यते ह्य् अत्र त्रितये ऽपि निबोध मे ॥

पुमान् सर्वगतो व्यापी आकाशवद् अयं यतः ।

कुतः कुत्र क्व गन्तासि ते तद् अप्य् अर्थवत् कथम् ॥

नाहं गन्ता न वागन्ता नैकदेशनिकेतनम् ।

त्वं चान्ये च न च त्वं तं नान्ये ऽन्ये वाहम् अप्य् अहम् ॥

मिष्टान्नम् इष्टम् इत्य् एषा जिज्ञासा मे कृता तव ।

किं वक्ष्यसीति तत्रापि श्रूयतां द्विजसत्तम ॥

किम् अस्वाद्व् अथ वा मिष्टं भुञ्जतो ऽन्नं द्विजोत्तम ।

मिष्टम् एव यदामिष्टं तद् एवोद्वेगकारणम् ॥

अमृष्टं जायते मृष्टं मृष्टाद् उद्विजते जनः ।

आदिमध्यावसानेषु कुम् अत्र रुचिकारणम् ॥

मृन्मयं हि गृहं यद्वन् मृदा लिप्तं स्थिरं भवेत् ।

पार्थिवो ऽयं यदा देहः पार्थिवैः परमाणुभिः ॥

यवगोधूममुद्गादि घृतं तैलं पयो दधि ।

गुडः फलादीनि तथा पार्थिवाः परमाणवः ॥

[२४१] तद् एतद् भवता ज्ञात्वा मिष्टामिष्टविचारि यत् ।

तन्मना समतालम्बी कार्यं साम्यं हि मुक्तये ॥

इत्याकर्ण्य वचस् तस्य परमार्थान्वितं नृप ।

प्रणिपत्य महाभागो निदाघो वाक्यम् अब्रवीत् ॥

प्रसीद मद्धितार्थाय कथ्यतां कस् त्वम् आगतः ।

नष्टो मोहः समाकर्ण्य वचांस्य् एतानि वै द्विज ॥

ऋभुर् उवाच ।

ऋभुर् अस्मि तवाचार्यः प्रज्ञादानाय ते द्विज ।

इहागतो ऽहं यास्यामि परमार्थस् तवोदितः ॥

एकम् एवम् इदं ब्रह्मन्नभेदि सकलं जगत् ।

वासुदेवाभिधानस्य स्वरूपं परमात्मनः ॥

तथेत्य् उक्तो निदाघेन प्रणिपातपुरःसरम् ।

पूजितः परया भक्त्या इच्छातः प्रययौ ऋभुः ॥

पुनर् वर्षसहस्रे तु समतीते नरेश्वर ।

निदाघज्ञानदानाय तद् एव नगरं ययौ ॥

नगरस्य बहिः सो ऽथ निदाधं ददृशे मुनिम् ।

महाबलपरीवारे पुरं विशति पार्थिवे ॥

दूरे स्थितं महाभागं जनसम्मर्दवर्जकम् ।

क्षुत्क्षामकण्ठम् आयान्तम् अरण्यात् ससमित्कुशम् ॥

दृष्ट्वा निदाघं स ऋभुर् उपअगम्याभिवाद्य च ।

उवाच कस्माद् एकान्ते स्थीयते भवता द्विज ॥

निदाघ उवाच ।

भो विप्र जनसम्मर्दो महान् एष नरेश्वरे ।

प्रविविक्षौ पुरं रम्यं तेनात्र स्थीयते मया ॥

[२४२] ऋभुर् उवाच ।

नराधिपो ऽत्र कतमः कतमश् चेतरो जनः ।

कथ्यतां मे द्विजश्रेष्ठ त्वम् अभिज्ञो मतो मम ॥

निदाघ उवाच ।

यो ऽयं गजेन्द्रम् उन्मत्तम् अद्रिशृङ्गम् इवोच्छ्रितम् ।

अधिरूढो नृपेन्द्रो ऽयं परलोकस् तथेतरः ॥

ऋभुर् उवाच ।

एतौ हि गजराजानौ युगपद् दर्शितौ मम ।

भवता न विशेषेण पृथक् चिह्नोपलक्षितौ ॥

तत् कथ्यतां महाभाग विशेषो भवतानयोः ।

ज्ञातुम् इच्छाम्य् अहं को ऽत्र गजः को वा नराधिपः ॥

निदाघ उवाच ।

गजो यो ऽयम् अजो ब्रह्मन्न् उपर्य् अस्यैष भूपतिः ।

वाह्यवाहकसम्बन्धं को न जानाति वै द्विज ॥

ऋभुर् उवाच ।

जानाम्य् अहं यथा ब्रह्मन् तथा माम् अवबोधय ।

अधःशब्दनिगद्यं किं किं चोर्ध्वम् अभिधीयअते ॥

ब्राह्मण उवाच ।

इत्य् उक्तः सहसारुह्य निदाघः प्राह तम् ऋभुम् ।

श्रूयतां कथयाम्य् एष यन् मां त्वं परिपृच्छसि ॥

उपर्य् अहं यथा राजा त्वम् अधः कुञ्जरस् तथा ।

अवबोधाय ते ब्रह्मन् दृष्टान्तो दर्शितो मया ॥

[२४३] ऋभुर् उवाच ।

त्वं राजवद् द्विजश्रेष्ठ स्थितो ऽहं गजवद् यति ।

तद् एव त्वं समाचक्ष्व कतरस् त्वम् अहं तथा ॥

ब्राह्मण उवाच ।

इत्य् उक्तः सत्वरस् तस्य प्रगृह्य चरणाव् उभौ ।

निदाघः प्राह भगवान् आचार्यस् त्वं ऋभुर् ध्रुवम् ॥

नान्यस्याद्वैतसंस्कारसंस्कृतं मानसं तथा ।

यथाचार्यस्य तेन त्वां मन्ये प्राप्तम् अहं गुरुम् ॥

ऋभुर् उवाच ।

तवोपदेशदानाय पूर्वशुश्रूषयादृतः ।

गुरुस् ते ऽहम् ऋभुर् नाम निदाघ समुपागतः ॥

तद् एतद् उपतिष्ठन्ते सङ्क्षेपेण महामते ।

परमार्थसारभूतं यत् तद् अद्वैतम् अशेषतः ॥

ब्राह्मण उवाच ।

एवम् उक्त्वा ययौ विद्वान् निदाघं स ऋभुर् गुरुः ।

निदाधो ऽप्य् उपदेशेन तेनाद्वैतपरो ऽभवत् ।

सर्वभूतान्य् अभेदेन ददृशे स तदात्मनः ॥

तथा

परब्रह्मपरो मुक्तिम् अवाप परमां द्विजः ।

तथा त्वम् अपि धर्मज्ञ तुल्यात्मरिपुबान्धवः ॥

भव सर्वगतं जानन्न् आत्मानम् अवनीयते ।

सितनीलादिभेदेन यथैकं दृश्यते नभः ॥

भ्रान्तदृष्टिभिर् आत्मापि तथैकस्मिन् पृथक् पृथक् ।

[२४४] एकः समस्तं यद् इहास्ति किञ्चित्

	तद् अच्युतो नास्त्य् अपरं ततो ऽन्यत् ।

सो ऽहं स च त्वं स च सर्वम् एतद्

	आत्मस्वरूपं त्यज भेदमोहम् ॥

तथा प्रह्लादचरित ।

प्रह्लाद उवाच ।

ममोपदिष्टं सकलं गुरुणा नात्र संशयः ।

गृहीतं च मया किं तु न सद् एतन् मतं मम ॥

साम चोपप्रदानं च भेददण्डौ तथापरौ ।

उपायाः कथिता ह्य् एते मित्रादीनां च साधने ॥

तद् अहं च न पश्यामि मित्रादींस् तात मा क्रुधः ।

साध्याभावे महाबाहो साधनैः किं प्रयोजनम् ॥

सर्वभूतात्मके तात जगन्नाथे जगन्न्मये ।

परमात्मनि गोविन्दे मित्रामित्रकथा कुतः ॥

त्वय्य् अस्ति भगवान् विष्णुर् मयि चान्यत्र चास्ति सः ।

यतस् ततो ऽयं मित्रं मे शत्रुर् वेति पृथक् कुतः ॥

तद् एभिर् अलम् अत्यर्थं दुस्तरे तूक्तिविस्तरे ।

अविद्यान्तर्गतैर् यत्नः कर्तव्यस् तात शोभने ॥

विद्या बुद्धिर् अविद्यायाम् अज्ञानात् तात जायते ।

बालो ऽग्निं किं न खद्योतम् असुरेश्वर मन्यते ॥

तत् कर्म यन् न बन्धाय सा विद्या या विमुक्तये ।

आयासायापरं कर्म विद्यान्या शिल्पनैपुणम् ॥

[२४५] तद् एतद् अवगम्याहम् असारं सारम् उत्तमम् ।

निशामय महाभाग प्रणिपत्य ब्रवीमि ते ॥

न चिन्तयति को राज्यं को धनं नाभिवाञ्छति ।

तथापि भाव्यम् एवैतद् उभयं प्राप्यते नरैः ॥

सर्व एव महाभाग महत्त्वं प्रति सोद्यमः ।

तथापि पुंसां भाग्यानि नोद्यमा भूतिहेतवः ॥

जनानाम् अविवेकानाम् अशृण्वानाम् अपि प्रभो ।

भाग्यभोगानि राज्यानि सन्त्य् अनीतमताम् अपि ॥

तस्माद् यतेत धर्माय यदीच्छेन् महतीं श्रियम् ।

यतितव्यं ममत्वेन निर्वाणम् अपि चेच्छता ॥

देवा मनुष्याः पशवः पक्षिवृक्षसरीसृपाः ।

रूपम् एतद् अनन्तस्य विष्णोर् भिन्नम् इव स्थितम् ॥

एतद् विजानता सर्वं जगत्स्थावरजङ्गमम् ।

द्रष्टव्यम् आत्मवद् विष्णुर् यतो ऽयं विश्वरूपधृक् ॥

एवं ज्ञाते स भगवान् अनादिः परमेश्वरः ।

प्रसीदति ततस् तत्र प्रसन्ने क्लेशसङ्क्षयः ॥

[२४६]

२४ — अथ योगभ्रष्टगतिः

तत्र महाभारते ।

अर्जुन उवाच ।

अयतिः श्रद्धयोपेतो योगाच् चलितमानसः ।

अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥

कच्चिन् नोभयविभ्रष्टश् छिन्नाभ्रम् इव नश्यति ।

अप्रतिष्ठो महाबाहो विमूढो ब्रमणः पथि ॥

एतन् मे संशयं कृष्ण छेत्तुम् अर्हस्य् अशेषतः ।

त्वदन्यः संशयस्यास्य छेत्ता न ह्य् उपपद्यते ॥

श्रीभगवान् उवाच ।

पार्थ नैवेह नामुत्र विनाशस् तस्य विद्यते ।

न हि कल्याणकृत् कश्चिद् दुर्गतिं तात गच्छति ॥

प्राप्य पुण्यकृतां लोकान् उषित्वा शाश्वतीः समाः ।

शुचीनां श्रीमतां गेहे योगभ्रष्टो ऽभिजायते ॥

अथ वा योगिनाम् एव कुले भवति श्रीमताम् ।

एतद् धि दुर्लभतरं लोके जन्मे यदीदृशम् ॥

[२४७] तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् ।

यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥

पूर्वाभ्यासेन तेनैव ह्रियते ह्य् अवशो ऽपि सः ।

जिज्ञासुर् अपि योगस्य शब्दब्रह्मातिवर्तते ॥

प्रसन्नाद् यतमानस् तु योगी संशुद्धकिल्बिषः ।

अनेकजन्मसंसिद्धस् ततो याति परां गतिम् ॥

विष्णुपुराणे ।

योगयुक् प्रथमं योगी युञ्जानस् त्व् अभिजायते ।

विनिष्पन्नसमाधिस् तु परं ब्रह्मोपलब्धिमान् ॥

यद्य् अन्तरायदोषेण मुच्यते नरमानसम् ।

जन्मान्तरैर् अभ्यसतो मुक्तिः पूर्वैव जायते ॥

विनिष्पन्नसमाधिस् तु मुक्तिं तत्रैव जन्मनि ।

प्राप्नोति योगी योगाग्निदग्धकर्मचयो ऽचिरात् ॥

[२४८]

२५ — अथारिष्टानि

तत्र देवलः ।

अथारिष्टं प्रवक्ष्यामि यथावद् योगकर्मणि ।

यथोक्तम् ऋषिभिः पूर्वम् आयुर् विज्ञानम् आदितः ॥

अरुन्धतीं ध्रुवं चैव सोमच्छायां महापथम् ।

यो न पश्येन् न जीवेत् स द्विज संवत्सरात् परम् ॥

रुक्मशाखान् द्रुमान् दृष्ट्वा गन्धर्वनगराणि च ।

पश्येत् प्रेतान् पिशाचांश् च दश मासान् स जीवति ॥

सदा मूत्रं पुरीषं वा सुवर्णरजतप्रभम् ।

प्रत्यक्षं यदि वा स्वप्ने नव मासान् स जीवति ॥

अकस्माद् वा भवेत् स्थूलो यो ऽकस्माद् वा भवेत् कृशः ।

प्रकृते विकृतो यो वै सो ऽष्ट मासांस् तु जीवति ॥

पांशुस्थं कर्दमे वापि यस्य खण्डं पदं भवेत् ।

अग्रतः पृष्ठतो वापि सप्त मासान् स जीवति ॥

[२४९] काकः कपोतो गृध्रो वा विलीनो यस्य मूर्धनि ।

क्रव्यादाः पक्षिणश् चैव षण्मासान् स तु जीवति ॥

मृदिते वायुवर्षेण पांसुवर्षेण वा पुनः ।

छायां वा विकृतां पश्येत् पञ्च मासान् स जीवति ॥

अभेद्यां विद्युतं पश्येत् दक्षिणां दिशम् आश्रिताम् ।

मासान् स चतुरो जीवेद् योगी तत्र न संशयः ॥

रक्तगन्धाम्बरः स्रग्वी गच्छेद् वा दक्षिणामुखः ।

खरोष्ट्रम् अपि चारोहेत् त्रीन् मासान् नातिजीवति ॥

जले चेन्द्रधनुर् वापि यदि पश्येन् नरो ऽहनि ।

मासद्वयेन म्रियते नास्ति तत्र विचारणा ॥

यस्य वै स्नातमात्रस्य उरू पादौ च शुष्यतः ।

अप्सु वा यदि वादर्शे छायां पश्यति नात्मनः ॥

छायां वा विकृतां पश्येन् मासम् एकं स जीवति ।

मस्तके वा भवेद् धूमो ऽर्धमासं स तु जीवति ॥

शवगन्धं भवेद् गात्रं दन्तसादो ऽपि यस्य च ।

दृष्ट्वात्मानं मृतं स्वप्ने द्वादशाहं स जीवति ॥

यस्य कृष्णौ करौ जिह्वा पद्माभासं च वै मुखम् ।

गण्डे च पिटका रक्ताः स जीवेच् चतुरो दिनान् ॥

मारुतो यस्य गात्रेषु परं मर्माणि कृन्तति ।

जीवेत् त्र्यहं तु विप्रः सन् सन्देहश् च ततो भवेत् ॥

अद्भिः स्पृष्टो न हृष्येत सो ऽहनी द्वे च जीवति ।

[२५०] घोषं न शृणुयात् कर्णे ज्योतिर् नेत्रे न पश्यति ।

सद्योजीवः स वै विप्रः शुभकर्माणि कारयेत् ॥

वायुपुराणे ।

ऋक्षवानरयुक्तेन रथेनाशां तु दक्षिणाम् ।

गायन्न् अथ व्रजेत् स्वप्ने विद्यान् मृत्युम् उपस्थितम् ॥

कृष्णाम्बरधरा श्यामा गायन्ती वाप्य् अथाङ्गना ।

यं नयेद् दक्षिणाम् आशां स्वप्ने सो ऽपि न जीवति ॥

छिद्रं वासश् च कृष्णं च स्वप्ने यो बिधृयान् नरः ।

नग्नं वा श्रमणं दृष्ट्वा विद्यान् मृत्युम् उपस्थितम् ॥

“श्रमणः” क्षपणकः ।

आमस्तकतलाद्यस् तु निमग्नः पङ्कसागरे ।

दृष्ट्वा तु तादृशं स्वप्ने सद्य एव न जीवति ॥

भस्माङ्गारांश् च केशांश् च नदीं शुष्कां भुजङ्गमान् ।

पश्येद् यो दशरात्रं तु न च जीवति तादृशः ॥

कृष्णैश् च विकटैश् चैव पुरुषैर् उद्यतायुधैः ।

पाषाणैस् ताड्यते स्वप्ने यः स सद्यो न जीवति ॥

सूर्योदये प्रत्युषसि प्रत्यक्षं यस्य वै शिवाः ।

क्रोशन्त्य् अभिमुखाभ्येति स गतायुर् भवेन् नरः ॥

यस्य वै भुक्तमात्रस्य हृदयं बाध्यते क्षुधा ।

जायति दन्तवर्षं च तं गतायुषम् आदिशेत् ॥

भूयोभूयस् त्रसेद् यस् तु रात्रौ वा यदि वा दिवा ।

[२५१] दीपगन्धं च नावैति विद्यान् मृत्युम् उपस्थितम् ॥

रात्रौ चित्राम्बरं पश्येद् दिवा नक्षत्रमण्डलम् ।

परनेत्रेषु चात्मानं न पश्येन् न स जीवति ॥

नेत्रम् एकं स्रवेद् यस्य कर्णौ नासा च भ्रम्यते ।

नासा च वक्रा भवति स ज्ञेयो गतजीवितः ॥

यस्य कृष्णा खरा जिह्वा पद्माभासं च वै सुखम् ।

गण्डयोः पिटके रक्ते तस्य मृत्युर् उपास्थितः ॥

मार्कण्डेयपुराणे ।

यस्य गर्ते पतितस्य स्वप्ने भावो विधीयत् [निधीयते] ।

न चोत्तिष्ठति वै श्वभ्रात् तदन्तं तस्य जीवितम् ॥

ऊर्द्ध्वा च दृष्टिर् न च सम्प्रतिष्ठा

	रक्ता पुनः सम्परिवर्तमाना ।

मुखस्य चोष्मा सुषिरा च नाभिः 

	शंसन्ति पुंसाम् अपरं शरीरम् ॥

स्वप्ने ऽग्निं प्रविशेद् यस् तु न च निष्क्रमते पुनः ।

जलप्रवेशाद् अपि वा तदन्तं तस्य जीवितम् ॥

स्ववस्त्रम् अमलं शुक्लं रक्तं पश्येत् तथासितम् ।

यः पुमान् मृत्युम् आसन्नं तस्यापि हि विनिर्दिशेत् ॥

स्वभाववैपरीत्यं च प्रकृतेस् तु विपर्ययः ।

कथयन्ति मनुष्याणां तदासन्नौ यमान्तकौ ॥

येषां विनीतः सततं ये ऽस्य पूज्यतमाः स्मृताः ।

तान् एव चावजानाति तान् एव च विनिन्दति ॥

[२५२] देवता नार्चते वृद्धान् गुरून् विप्रांश् च निन्दति ।

मातापित्रोर् असत्कारं जामातॄणां करोति च ॥

योगिनां ज्ञान्विदुषाम् अन्येषां च महात्मनाम् ।

प्राप्ते तु काले पुरुषस् तद् विज्ञेयो विचक्षणैः ॥

ब्रह्मपुराणे ।

यदा च कृष्णाम्बरपीतवर्णं

	ब्रह्मद्वारे कृकलासं प्रपश्येत् ।

तदा तच्छरीरं प्रजहाति बालं

	च त्व नाथे रभया दरण्ये (?) ॥

सूर्योदये चास्तमये विशायां

	चन्द्रछायां मस्तकेप्यवोतस्तु ।

आत्मछायां बाहुदण्डौ प्रसार्य 

	दृष्ट्वा कबन्धं प्रजहाति देहम् ॥

पश्यंश् च तां दक्षिणबाहुहीनां

	विसर्जयेद् भ्रातरम् अग्रभूतम् ।

पश्यंस् तु तां वामभुजोज्झितां च

	पुत्रौ दारांश् चाथ विवर्जयेत् ॥

अरुन्धतीं न पश्यन्ति दृष्टपूर्वां कथञ्चन ।

तथैव ध्रुवम् इत्य् आहुः पूर्णेन्दुं दीपम् एव च ॥

[२५३] खण्डपादं दक्षिणतस् ते हि संवत्सरायुषः ।

परचक्षुषि चात्मानं ये न पश्यन्ति पार्थिव ॥

आत्मछायाकृतिं चैव ते ऽपि संवत्सरायुषः ।

अतिद्युतिर् अतिप्रज्ञाप्रज्ञा वाद्युतिस् तथा ॥

प्रकृतेर् विक्रियापत्तिः षण्मासान् मृत्युलक्षणम् ।

दैवतान्य् अवजानाति ब्राह्मणैश् च विरुध्यते ॥

कृष्णश्यावच्छविच्छायः षण्मासान् मृत्युलक्षणम् ।

शीर्णनाभिर् यथाचक्रं छिद्रं सोमे प्रपश्यति ॥

तथैव च सहस्रांशुं सप्तरात्रेण मृत्युभाक् ।

कर्णनासाविचलनं दन्तस्पृष्टिर् विरागिता ॥

सञ्ज्ञालोपो विरूष्मत्वं सद्योमृत्युनिर्दर्शनम् ।

अकस्माच् च स्फुरेद् यस्य वामम् अक्षि नराधिप ॥

मूर्ध्नश् चोत्पद्यते धूमः सद्योमृत्युनिदर्शनम् ।

एतावन्ति स्वनिष्टानि विदित्वा नर आत्मवान् ॥

निशिरात्मनि (?) आत्मानं योजयेत् परमात्मनि ।

प्रतीक्षमाणः तत्कालं यत्कारं प्रति तद् भवेत् ॥

यथास्य नेष्टं मरणं स्थातुम् इच्छेद् इमां क्रियाम् ।

सर्वगन्धान् रसांश् चैव धारयेत् तु समाहितः ॥

तथा मृत्युम् उपादाय तत्परेणान्तरात्मना ।

आधाय धारणां चैव विदित्वा मनुजर्षभ ॥

[२५४] जपेत मृत्युयोगेन योगिना परमात्मना ।

गच्छेत् प्राप्य क्षयं कृष्णम् अजन्म शिवम् अव्ययम् ।

शाश्वतं स्थानम् अचलं दुष्प्राप्यम् अकृतात्मभिः ॥

तथा ।

आपन्ने तूत्तरां काष्ठां सूर्ये यो निधनं व्रजेत् ।

नक्षत्रे च मुहूर्ते च पुण्ये राजन् स पुण्यकृत् ॥

[२५५]

२६ — अथोत्क्रान्तिः

तत्र देवलः ।

त्यक्त्वा भयं विषादं च शुचिर् भूत्वा समाहितः ।

प्राचीं वा यदि वोदीचीं दिशं निष्क्रम्य वै द्विजः ॥

प्रागुदक्प्रवणे देशे समे निःस्थावरे शुचौ ।

द्विजस् तेनैव विधिना सोपदेशो धुतप्लवः ॥

शतम् अष्टशतं वापि धारणां मूर्ध्नि धारयेत् ।

“निःस्थावरे” वृक्षादिरहिते ।

खिन्नस्य धारणाभिस् तु वायुर् ऊर्ध्वं ततो व्रजेत् ॥

त्यकोङ्कारमयो योगी अक्षरस्थक्षरी भवेत् ।

एवं निर्वाणम् आप्नोति योगी योगपरायणः ॥

दृष्टारिष्टो यतिश्रेष्ठो योगी ध्यानपरो भवेत् ।

त्यक्त्वा कलेवरं ध्यायन् परं याति महेश्वरम् ॥

एकान्तात्यन्तकं साङ्ख्यं परं ब्रह्म सनातनम् ।

जन्ममृत्युजराव्याधिभयासङ्गविवर्जितम् ॥

देवैर् मुनिगणैर् वापि दुर्गमं दुरतिक्रमम् ।

उपगच्छति तत्त्वज्ञो योगी तद्गतमानसः ॥

[२५६] मार्कण्डेयपुराणे ।

दृष्ट्वारिष्टं ततो योगी त्यक्त्वा मरणजं भयम् ।

तत्स्वभावं तदालोक्य काले यावद् उपागते ॥

तस्य भागे तथैवाहो योगं युञ्जीत योगवित् ।

पूर्वाह्ने चापराह्णे वा मध्याह्ने वा दिने दिने ॥

यत्र वा रजनीभागे तद् अरिष्टं निरीक्षितम् ।

तत्रैव तावद् युञ्जीत यावत् प्राप्तं हि तद् दिनम् ॥

ततस् त्यक्त्वा भयं सर्वं जित्वा तं कालम् आत्मवान् ।

तत्रैवावसथे स्थित्वा यत्र वा स्थैर्यम् आत्मनः ॥

योगी युञ्जीत निर्जित्य त्रीन् गुणान् परमात्मनि ।

तन्मनाश् चात्मना भूत्वा चित्तवृत्तिं त्यजेद् बुधः ॥

ततः परमनिर्वाणम् अतीन्द्रियम् अगोचरम् ।

यद् बुद्धेर् यन् न चाख्यातुं शक्यते तत् समश्नुते ॥

महाभारते ।

भगवान् उवाच ।

अन्तकाले च माम् एव स्मरन् मुक्त्वा कलेवरम् ।

यः प्रयाति स सद्भावं याति नास्त्य् अत्र संशयः ॥

यं यं वापि स्मरन् भावं त्यजत्य् अन्ते कलेवरम् ।

तं तम् एवैति कौन्तेय सदा तद्भावभावितः ॥

तस्मात् सर्वेषु कालेषु माम् अनुस्मर बुध्य च ।

[२५७] मय्य् अर्पितमनोबुद्धिर् माम् एवैष्यस्य् असंशयः ॥

अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ।

परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥

कविं पुराणम् अनुशासितारं

	अणोर् अणीयांसम् अनुस्मरेद् यः ।

सर्वस्य धातारम् अचिन्त्यरूपं

	आदित्यवर्णं तमसः परस्तात् ॥

प्रयाणकाले मनसाचलेन

	भक्त्या युक्तो योगबलेन चैव ।

भ्रुवोर् मध्ये प्राणम् आवेश्य सम्यक्

	स तं परं पुरुषम् उपैति दिव्यम् ॥

यद् अक्षरं वेदविदो वदन्ति

	विशन्ति यद् यतयो वीतरागाः ।

यद् इच्छन्तो ब्रह्मचर्यं चरन्ति

	तत् ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥

सर्वद्वाराणि संयम्य मनो हृदि निरुध्य् च ।

मूर्ध्न्य् आधायात्मनः प्राणम् आस्थितो योगधारणाम्॥

ॐ इत्य् एकाक्षरं ब्रह्म व्याहरन् माम् अनुस्मरन् ।

यः प्रयाति त्यजन् देहं स याति परमां गतिम् ॥

अनन्यचेताः सततं यो मां स्मरति नित्यशः ।

तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥

माम् उपेत्य पुनर् जन्म दुःखालयम् अशाश्वतम् ।

नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥

[२५८] मनुः ।

नदीकूलं यथा वृक्षो वृक्षं वा शकुनिर् यथा ।

तथा त्यजन्न् इमं देहं कृच्छ्राद् ग्राहात् प्रमुच्यते ॥

प्रियेषु स्वेषु सुकृतम् अप्रियेषु च दुष्कृतम् ।

विसृज्य ध्यानयोगेन ब्रह्माभ्येति सनातनम् ॥

महाभारते ।

विमुच्यमानः पापेभ्यो वनेभ्य इव चन्द्रमाः ।

विरजाः कालम् आकाङ्क्षन् धीरो धैर्येण सिध्यति ॥

अथार्चिरादिमार्गः

तत्र याज्ञवल्क्यः ।

अनन्ता रश्मयस् तस्य दीपवद् यः स्थितो हृदि ।

सितासिताः कद्रुनीलाः कपिलाः पीतलोहिताः ॥

ऊर्ध्वम् एकः स्थितस् तेषां यो भित्त्वा सूर्यमण्डलम् ।

ब्रह्मलोकम् अतिक्रम्य तेन याति परां गतिम् ॥

यद् अस्यान्यद् रश्मिशतम् ऊर्ध्वम् एव व्यवस्थितम् ।

तेन देवशरीराणि स धामानि प्रपद्यते ॥

येनैकरूपाश् चाधस्ताद् रश्मयो ऽस्य मृदुप्रभाः ।

इह कर्मोपभोगाय तैः संसरति सो ऽवशः ॥

[२५९] महाभारते ।

पद्भ्याम् उत्क्रममाणस्य वैष्णवं स्थानम् उच्यते ।

जङ्घाभ्यां तु वसून् देवान् आप्नुयाद् इति नः श्रुतम् ॥

जानुभ्यां तु महाभागान् सर्वसाध्यान् अवाप्नुयात् ।

पृथिवीं जघनेनाथ ऊरुभ्यां च प्रजापतिम् ॥

पार्श्वाभ्यां मरुतो देवान् नागाद् यातीन्दुम् एव च ।

बाहुभ्याम् इन्द्रम् इत्य् आहुर् उरसा रुद्रम् एव च ॥

धारयात्तम् ऋषिं देव(ं?) नित्यम् आप्नोत्य् अनुत्तमम् ।

विश्वान् देवान् मुखेनाथ विश्वान् श्रोत्रेण चाप्नुयात् ॥

घ्राणेन [चैव तान् सर्वा]न् नेत्राभ्यां सूर्यम् एव च ।

भ्रूभ्यां चाप्य् अश्विनौ देवौ ललाटेन पितॄन् अथ ॥

ब्रह्माणम् आप्नोति विभुं मूर्ध्ना देवाग्रजं तथा ॥

याज्ञवल्क्यः ।

स ह्य् आश्रमैर् विजिज्ञास्यः समस्तैर् एवम् एव तु ।

द्रष्टव्यस् त्व् अथ मन्तव्यः श्रोतव्यश् च द्विजातिभिः ॥

य एवम् एनं विन्दन्ति ये चारण्यकम् आश्रिताः ।

उपासते द्विजाः सत्यं श्रद्धया परया युताः ॥

क्रमात् ते सम्भवन्त्य् अर्चिर् अहः शुक्लं तथोत्तरम् ।

अयनं देवलोकं च सवितारं सवैद्युतम् ॥

तत्रस्थान् पुरुषो ऽभ्येत्य मानसो ब्रह्मलौकिकान् ।

करोति पुनरावृत्तिस् तेषाम् इह न विद्यते ॥

[२६०] यज्ञेन तपसा दानैर् ये हि स्वर्गजितो नराः ।

धूमं रात्रिं कृष्णपक्षं दक्षिणायनम् एव च ॥

पितृलोकं चन्द्रमसं वायुं वृष्टिं जलं महीम् ।

क्रमात् ते सम्भवन्तीह पुनर् एव व्रजन्ति च ॥

एतद् यो न विजाजाति मार्गद्वितयम् आत्मनः ।

दन्दशूकः पतङ्गो वा भवेत् कीटो ऽथ वा कृमिः ॥

सकलाश्रमिभिः असौ परमात्मा नानाप्रकारं जिज्ञासितव्यः । तम् एव प्रकारम् आह – “द्रष्टव्यो” अपरोक्षी कर्तव्यः । तद् उपायम् आह ऽश्रोतव्यो मन्तव्यऽ इति । “श्रोतव्यो” वेदान्तश्रवणेन निर्णेतव्यः । “मन्तव्यो” युक्तिभिर् विचारयितव्यः । ततो ऽसौ ध्यानेनापरोक्षी भवति । ये द्विजातयः श्रद्धातिशययुक्ता आरण्यकं निर्जनप्रदेशम् आश्रिताः “एवम्” उक्तेन मार्गेण “एनम्” आत्मानं सत्यं ब्रह्मोपासते “विन्दन्ति” लभन्ते प्राप्नुवन्ति । ब्रह्मप्राप्तिमार्गं देवयानम् आह – ऽक्रमात् ते सम्भवन्तिऽ इति । ते विदितात्मानः “क्रमात्” अग्न्याद्यभिमानिदेवतास्थानेषु मुक्तिमार्गभूतेषु । विप्रा पिताः परमं पदम् आप्नुवन्ति । “अर्चिर्” वह्निः । “अहर्” दिनम् । “शुक्लः” शुक्लपक्षः । “उत्तरम्” उत्तरायणम् । “देवलोकम्” सुरसद्म । “सविता” सूर्यः । तेजः तान् एवङ्क्रमाद् अर्चिरादिस्थानगतान् मानसः “पुरुषो” ब्रह्मलौकिकान् करोति ब्रह्मैव लोको ब्रह्मलोकः तं गमयति । परमात्मनैकी भवति । पितृयानम् आह “यज्ञेन” इत्यादि । ऽये पुनर्ऽ इति तैर् यज्ञदानतपोभिः सर्वर्गफलभोक्तारः ते क्रमात् [२६१] धूमादिपदार्थाभिमानिनीर् देवताः प्राप्य पुनर् एव वायुवृष्टिजलभूमीः प्राप्य व्रीह्याद्यनुरूपेण शुकत्वम् अवाप्य संसारिणो योनिं व्रजन्ति । “दन्दशूकः” सर्पादिः ।

महाभारते ।

यत्र काले त्व् अनावृत्तिम् आवृत्तिं चैव योगिनः ।

प्रयाता यान्ति तं कालं वक्ष्यामि बरतर्षभ ॥

अग्निर् ज्योतिर् अहः शुक्लः षण्मासा उत्तरायणम् ।

तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥

धूमो रात्रिस् तथा कृष्णः षण्मासा दक्षिणायनम् ।

तत्र चान्द्रमसं ज्योतिर् योगी प्राप्य निवर्तते ॥

शुक्लकृष्णे गती ह्य् एते जगतः शाश्वते मते ।

एकया यात्य् अनावृत्तिम् अन्ययावर्तते पुनः ॥

नैते सृती पार्थ जानन् योगी मुह्यति कश्चन ।

तस्मात् सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥

वेदेषु यज्ञेषु तपःसु चैव 

	दानेषु यत् पुण्यफलं प्रदिष्टम् ।

अत्येति तत् सर्वम् इदं विदित्वा

	योगी परं स्थानम् उपैति चाद्यम् ॥

ऽअग्निर् ज्योतिर्ऽ इति अर्चिर्देवता लक्ष्यते ।

[२६२] तथा च श्रुतिः ।

अर्चिषो ऽहः अह्न आपूर्यमाणपक्ष इति ।

अहरादिपदैश् तदभिमानिन्यो देवता लक्ष्यन्ते ॥

तथा ।

सर्वभूतात्मभूतस्य सम्यग्भूतानि पश्यतः ।

देवापि मार्गे मुह्यन्ति स्वपदस्य पदैषिणः ॥

यथागतिर् न दृश्येत तथैवास्य महात्मनः ॥

इति महाराजाधिराज-श्रीमद्गोविन्दचन्द्रमहासन्धिविग्रहिकेण

श्रीहृदयधरात्मजेन श्रीलक्ष्मीधरेण विरचिते

कृत्यकल्पतरौ मोक्षकाण्डं समाप्तम् ।

नोतेस्