+१२ व्यवहार-काण्डम्

लक्ष्मीधर

कृत्यकल्पतरु

व्यवहारकाण्ड

ॐ नमो भगवते वासुदेवाय ।

ॐ नमः शिवाय ।

नानाशास्त्रवचोविचारचतुरप्रज्ञाबलस्थापित
न्यायादिव्यवहारमार्गविशदास् तास् ताः प्रगल्भा गिरः ।
यस्याकर्ण्य विपश्चितः प्रति(स?)पदं रोमाञ्चम् आतन्वते
काण्डे स व्यवहारम् अत्र तनुते लक्ष्मीधरो द्वादशे ॥

प्रतिज्ञा

प्रथमं तत्र भूपस्य व्यवहारावलोकनम् ।
प्राड्विवाकसभासभ्योपदेशस् तदनन्तरम् ॥

[२]

लक्षणं व्यवहारस्य विचारस्य विधिस् ततः ।
भाषोत्तरं व्याकलिते कथितं दुष्टलक्षणम् ॥
हीनस्य लक्षणं सन्धिः क्रियादानं ततः स्मृतम् ।
क्रियापादस् तद्विषयः साक्षिणो ऽसाक्षिणस् तथा ॥
साक्षिप्रत्युद्धृतिः साक्षिदूषणश्रावणे तथा ।
शपथः साक्षिणो ऽप्य् उक्तिः साक्ष्यस्यैतत् परीक्षणम् ॥
ततो नु कूटसाक्षित्वं साक्षिणां च बलाबलम् ।
निगदश् चेति लिखिते लोकिकं शासनं ततः ॥
पश्चात्कारादि लेख्यस्य परीक्षा तदनन्तरम् ।
तथा दूषितलेख्यस्य परीक्षा च ततो बलम् ॥
लेख्यस्य लेख्यदौर्बल्यं भुक्तिश् च तदनन्तरम् ।
तत्रासिद्धिर् अभोगेन क्रमेण परिकीर्तिताः ॥
अन्योन्यभोगहानिः स्याद् अपवादस् ततः परम् ।
निर्णयश् छिन्नभोगे स्याद् युक्तेश् च परिभाषणम् ॥

[३]

क्रमाद् धटाग्नितोयानां विधयः परिकीर्तिताः ।
विषकोषविधिश् चातस् तण्डुलाणां विधिस् ततः ॥
तप्तमाषस्य फालस्य विधानं धर्मदस्य च ।
शपथान् निश्चयं भेदान् निर्णयानां बलाबलम् ॥
निर्णीतकृत्यं जयिनः प्रतिपत्तिश् च वादिनः ।
पुनर्न्यायविधानं च विनिवृत्तिः कृतस्य च ॥
ततश् च लक्षणं प्रोक्तं स्वतन्त्रपरतन्त्रयोः ।
ऋणादानप्रयोजः स्याद् वृद्धिस् तत्प्रतिषेधनम् ॥
आधिराधेश् च संसिद्धिर् विधिः प्रतिभुवां ततः ।
ऋणस्य चापहर्तारो विधिर् उद्ग्राहणस्य च ॥
निक्षेपस्य विधानं च ततश् चास्वामिविक्रयः ।
संभूय च समुत्थानं तथा दत्ताप्रदानिकम् ॥
ततो भृतिविधानाभ्युपेत्याशुश्रूषणक्रिया ।
वेतनस्यानपाकर्म विवादः स्वामिपालयोः ॥

**[४]> **संविद्व्यतिक्रमः पश्चाद् विक्रीयादानम् एव च ।

क्रीत्वा चानुशयः सीमाविवादः परिकीर्तितः ॥
वाक्पारुष्यं ततो दण्डपारुष्यम् उपवर्णितम् ।
स्तेयं प्रकाशचौराणां दण्डास् तत्र प्रकीर्तिताः ॥
ततो ऽप्रकाशचौराणां दण्डाश् चौरगेवेषणम् ।
स्तेयातिदेशः स्तेयस्य वालाभे हृतदापनम् ॥
स्तेयायापवादस् तदनु साहसप्रक्रमो भवेत् ।
धातकान्वेषणं तत्र निर्वचो ऽप्य् आततायिनः ॥
ततः संग्रहणे पुंस्त्रीदण्डाः कन्याप्रदूषणम् ।
स्याद् बन्धक्यादिगमनं ततः स्त्रीपुंससंगमः ॥
तत्रैव कन्यावरयोर् गुणदोषविनिश्चयः ।
दारानुकल्पस् तदनु कालाः परिणयस्य च ॥
कन्यादातृक्रमो दत्तदाननिर्णीतिर् एव च ।
पतिपत्न्यभिसंबन्धो वाहानां च व्यवस्थितिः ॥
विवाहलक्षणं तेषां गुणदोषनिरूपणम् ।
पुरुषस्य स्त्रियां वृत्तिः स्त्रीणां धर्मश् च कृत्स्नशः ॥
विनियोगविधिश् चासां परपूर्वाविधिस् ततः ।
ततो दायविभागः स्यात् कालस् तत्रैव तस्य च ॥

[५]

ततश् जीवत्पितृकप्रभागादिककल्पनम् ।
प्रमीतपितृकाणां च प्रविभागस् ततः परम् ॥
विभागानर्हकथनं संस्कारो ऽसंस्कृतस्य च ।
विभाज्यम् अविभाज्यं स्त्रीधनकृत्यविभाजने ॥
उपयोगो ऽप्रजानां च स्त्रीणां वित्तस्य कीर्तितः ।
लक्षणं स्त्रीधनस्याथ लुप्तस्य च विभाजनम् ॥
वर्णानां समवाये तु प्रविभागविनिर्णयः ।
विभक्तजविभागश् च प्रविभक्तीयम् एव च ॥
पुत्रान्तरैर् विभागश् च पुत्राणां लक्षणं तथा ।
पुत्रत्वप्रविचारश् च पुत्रत्वस्यातिदेशनम् ॥
निरुक्तादीनि पुत्रस्य प्रोक्ता निन्द्याश् च सूनवः ।
विभागो ऽपुत्रवित्तस्य वनस्थादिधनस्य च ॥
संसृष्टिप्रविभागश् च विभागस्य च निर्णयः ।
प्रविभागस्य कृत्यं च तथा द्यूतसमाह्वयौ ॥
भवेत् ततः क्रियाभेदः प्रकीर्णं कीर्तितं ततः ।
राज्ञो वर्णाश्रमाचाररक्षार्थं पर्वर्तनम् ॥

[६]

हेतवश् च विनिर्दिष्टा दण्डोत्कर्षापकर्षयोः ।
वाग्दण्डदिव्यवस्थार्थं ततः शुल्कविधिस् तथा ॥
विवेकश् च ततो दण्डनयस्य च निरूपितः ।
दण्ड्ōत्कर्षापकर्षादि कृत्यदोषं च भूपतेः ॥
दण्डसंज्ञा मानसंज्ञा नैगमाद्याश्रयास् ततः ।
जातिवर्णानुलोम्येन प्रातिलोम्येन वा पुनः ॥
यत्किंचिल् लक्षलं तेषां येत् धर्मा याश् च वृत्तयः ।
लक्ष्मीधरेण कृतिना निबध्यन्ते यथाक्रमम् ॥

[७]

व्यवहारमातृका

॥ व्यवहारप्रकरणम् ॥

अथ व्यवहारनिरूपणम्

तत्र मनुः ।

व्यवहारान् दिदृक्षुस् तु ब्राह्मणैः सह पार्थिवः ।
मन्त्रैर् मन्त्रिभिः सार्धं विनीतः प्रविशेत् सभाम् ॥
तत्रासीनः स्थितो वापि पाणिम् उद्यम्य दक्षिणम् ।
विनीतवेषाभरणः पश्येत् कार्याणि कार्यिणाम् ॥
प्रत्यहं देशदृष्टैश् च शास्त्रदृष्टैश् च हेतुभिः ।
अष्टादशसु मार्गेषु निबद्धानि पृथक् पृथक् ॥
धर्मासनम् अधिष्ठाय संवीताङ्गः समाहितः ।
प्रणम्य लोकपालेभ्यः कार्यदर्शनम् आरभेत् ॥

[८]

“व्यवहाराह्” अथिप्रत्यर्थिनोर् विवादनिषयान् । “दिदृक्षुः” निर्निनीषुः । “पार्थिवः” पृथिवीपतिः क्षत्रियाद् अन्यो ऽपि । **“मन्त्रज्ञैः” **देशकालाद्युचितकार्यनिरूपणाभिज्ञैः । एतच् च “ब्राह्मणैर्” इति अस्य विशेषणम् । अमन्त्रज्ञा हि ब्राह्मणा देशकालाद्यननुरूपं धर्मम् अपि सहसा (स्रा?) ब्रुवन्तो राज्ञः कंचिद् अनर्थम् आपादयेयुः । “मन्त्रिभिः” बुद्धिसचिवैः । “विनीतः” सहजाचार्येभ्यो विनययुक्तः । “पाणिम् उद्यम्य” उत्तरीयाद् उद्धृत्य, वस्त्रोपसंव्यानं कृत्वेति यावत् । “पश्येत्” निश्चिनुयात् । “कार्याणि” ऋणादानादीनि । “देशदृष्टा हेतवः” देशविशेषव्यवथितानि निर्णयसाधनानि । यथोदीच्यमध्यमानां कन्यां याचमानाय भोजनं यदि दीयते तुभ्यं देयेत्य् अनुक्ते ऽपि प्रतिश्रुता भवतीति । “शास्त्रदृष्टाः” साक्षिप्रभ्र्तयः ।

याज्ञवल्क्यः ।

व्यवहारान् नृपः पश्येद् विद्वद्भिर् ब्राह्मणैः सह ।
धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः ॥

[९] गौतमः- “राजा प्राद्विवाकः” । वादिप्रतिवादिनौ पृच्छतीति प्राड् । ताभ्याम् उक्तः सभ्यैः सह विविच्य वक्तीति विवाकः । कात्यायनः [५५, ५७, ७६] ।

विनीतवेषो नृपतिः सभां गत्वा समाहितः ।
आसीनः प्राङ्मुखो भूत्वा पश्येत् कार्याणि कार्यिणाम् ॥
स तु सभ्यैः स्थिरैर् युक्तः प्रज्ञामूलैर् द्विजोत्तमैः ।
धर्मशास्त्रार्थकुशलैर् अर्थशास्त्रविशारदैः ॥
सप्राड्विवाकः सामात्यः सब्राह्मणपुरोहितः ।
ससभ्यः प्रेक्षको राजा स्वर्गे तिष्थति धर्मतः ॥

नारदः ।

धर्मशास्त्रं पुरस्कृत्य प्राड्विवाकमते स्थितः ।
समाहितमतिः पश्येद् व्यवहारम् अनुक्रमात् ॥

[१०]

सत्प्रतिष्ठः स्मृतो धर्मो धर्ममूलो नराधिपः ।
सह सद्भिर् अतो राजा व्यवहारान् विशोधयेत् ॥

“सत्प्रतिष्ठः” साधुष्व् अवस्थितः । बृहस्पतिः (१.४९–५१) ।

विप्रो धर्मद्रुमस्यादिः स्कन्धशाखे महीपतिः ।
सचिवाः पत्रपुष्पाणि फलं न्यायेन पालनम् ॥
यशोवित्तं फलरसौ भोगावग्रहपूजनम् ।
अजेयत्वं लोकपङ्क्तिः स्वर्गे स्थानं च शाश्वतम् ॥
विदित्वाइतान् न्यायरसान् समो भूत्वा विवादिनाम् ।
त्यक्त्वा लोभादिकं राजा धर्म्यं कुर्याद् विनिर्णयम् ॥

कात्यायनः ।

राजा वृत्तिर् विवादानां स्वयम् एव प्रदर्शनम् ।
शास्त्रदृष्टेन मार्गेण विद्वद्भिः सैव सेव्यते ॥
तस्मान् न्यायेन राष्ट्रं तु सम्यग् यत्नेन पालयेत् ।
तस्माद् अर्थश् च धर्मश् च राज्यं च विपुलं भवेत् ॥

यमः ।

न तु पक्षान्तरं गच्छेद् बिभ्रद् वैवस्वतं व्रतम् ।
[तस्माद् अवहितो राजा] पश्येत् कार्याणि नित्यशः ॥

[११] न तु पक्षान्तरं गच्छेद् इति, न पक्षपातेन कुर्याद् इत्य् अर्थः । मनुः ।

कामक्रोधौ तु संयम्य यथा धर्मेण पश्यति ।
प्रजास् तम् अनुवर्तन्ते समुद्रम् इव सिन्धवः ॥
तस्माद् यम इव स्वामी स्वयं हित्वा प्रियाप्रिये ।
वर्तेत याम्यया वृत्या जितक्रोधो जितेन्द्रियः ॥

कात्यायनः ।

यत्नेनैव विरुद्धं तु शक्तो राजा निवर्तयेत् ।
अशक्तितो न दोषः स्याद् एष धर्मः स्मृतो बुधैः ॥

नारद-कात्यायनौ यमश् च प्रथमे ।

श्रुतिस्मृतिविरुद्धं च भूतानां अहितं च यत् ।
न तत् प्रवर्तयेद् राजा प्रवृत्तं चेन् निवर्तयेत् ॥
न्यायोपेतं यद् अन्येन राज्ञाज्ञानक्र्तं भवेत् ।
तद् अप्य् आम्नायविहित पुनर्न्याये निवेशयेत् ॥

[१२] नारदः ।

धर्मशास्त्रार्थशास्त्राभ्याम् अविरोधेन मार्गतः ।
समीक्ष्यमाणो निपुणं व्यवहारगतिं नयेत् ॥

राज्ञेत्य् अनुवृत्तौ गौतमः- “तस्य व्यवहारो वेदो धर्मशास्त्रार्थशास्त्रान्य् अङ्गानि उपवेदाः पुराणम्” । “व्यवहारः” व्यवह्रियते अनेन इति व्यवस्थासाधनं वेदादिकम् इत्य् अर्थः । उपवेदादिकम् इत्य् अर्थः । “उपवेदाः” आयुर्वेदधनुर्वेदगान्धर्ववेदार्थशास्त्राणीति चत्वारि । पुनर् गौतमः- ऽन्यायाधिगमे तर्को ऽभ्युपायः । तेनाभ्यूह्य यथास्थानं गमयेत् । विप्रतिपत्तौ त्रैविद्यवृद्धेभ्यः प्रत्यवहृत्य निष्ठां गमयेत् । तथा ह्य् अस्य निःश्रेयसं भवतीति" । “न्यायाधिगमे” न्यायार्थावधारणे । “तर्को” विचारः । “अभ्यूह्य” परिच्छिद्य । “यथास्थानं गमयेत्” यो यस्य धर्माश्रयस् तं तम् एवाश्रयं प्रापयेद् इत्य् अर्थः । [१३] “विप्रतिपत्तौ” विचारतो ऽपि संदेहानिवृत्तौ । “प्रत्यवहृत्य” अवधार्य । “निष्ठां गमयेत्” अवस्थां प्रापयेद् इत्य् अर्थः । याज्ञवल्क्यः ।

स्मृत्योर् विरोधे न्यायस् तु बलवान् व्यवहारतः ।
[अर्थशास्त्रात् तु बलवद् धर्मशास्त्रम् इति स्थितिः] ॥

स्मृत्योर् विरोध इति । धर्मशास्त्रयोः परस्परविरोधे उत्सर्गापवादादिन्यायानुसारेण निर्णेतव्यम् इत्य् अर्थः । यथा ।

अनागमं तु यद् भुक्तं पित्रा पूर्वतरैस् त्रिभिः ।
न तच्छक्यम् अपाहर्तुं क्रमात् त्रिपुरुषागतम् ॥

[१४]

अनागमं तु यो भुङ्क्ते बहून्य् अब्दशतान्य् अपि ।
चौरदण्डेन तं राजा दण्डयेत् पृथिवीपतिः ॥

इत्य् अनयोः स्मृत्योः । बृहस्पतिः [१.११३]

धार्यं मन्वादिकं शास्त्रं नार्थशास्त्रं कथंचन ।
द्वयोर् विरोधे कर्तव्यं धर्मशास्त्रोदितं वचः ॥

नारदः ।

यत्र विप्रतिपत्तिः स्याद् धर्मशास्त्रार्थशास्त्रयोः ।
अर्थशास्त्रोक्तम् उत्सृज्य धर्मशास्त्रोक्तम् आचरेत् ॥
धर्मशास्त्रोविरोधे तु युक्तियुक्तो विधिः स्मृतः ।
व्यवहारो हि बलवान् धर्मस् तेन न हीयते ॥
यात्य् अचौरो ऽपि चौरत्वं चौरश् चायात्य् अचौरताम् ।
अचौरश् चौरतां प्राप्तो माण्डव्यो व्यवहारतः ॥
[सूक्ष्मो हि भवगान् धर्मः परोक्षो दुर्विचारणः ।
अतः प्रत्यक्षमार्गेण व्यवहारगतिं नयेत् ॥]

“युक्तियुक्तः” प्रामाणोपपन्नः । प्रमाणम् अत्र प्रमाणाप्रमाणसाधारणं लोकप्रवृत्तिः । युक्तिं विना व्यवहारमात्रेण धर्मो हीयते । अतः प्रमाणम् अनुसरणीयम् इत्य् अर्थः । “प्रत्यक्षमार्गेण” दृढतरप्रत्यक्षादिप्रमाणद्वारेण ।

[१५] मनुः ।

यथा नयत्य् असृक्पातैर् मृगस्य मृगयुः पदम् ।
नयेत् तथानुमानेन धर्मस्य नृपतिः पदम् ॥
सत्यं धर्मं (अर्थं) च संपश्येद् आत्मानम् अथ साक्षिणः ।
देशं कालं च रूपं च व्यवहारविधौ स्थितम् ॥

“सत्यं पश्येद्” इति । यद्य् अप्य् अर्थिप्रत्यर्थिनोर् अपि अन्यतरेण प्रगल्भतया परिपूर्णाक्षरं नोक्तम् । तथापि यदि राजा प्रमाणान्तरात् ईदृशो ऽयम् अर्थ इति निश्चिनुयात् तदा तदाश्रयं नोपेक्षत इत्य् अर्थः । “अर्थम्” गोहिरण्यादिधनम् । आत्मानं व्यवहारफलभागिनं पश्येत् । “रूपं” व्यवहारवस्तुस्वरूपम्; तस्य गुरुलघुतां पश्येत् ।

बृहस्पतिः [१.११४, ११६]

केवलं शास्त्रम् आश्रित्य न कर्तव्यो विनिर्णयः ।
युक्तिहीनविचारे तु धर्महानिः प्रजापते ॥
चौरो ऽचौरः साध्वसाधुर् जायते व्यवहारतः ।
युक्तिं विना विचारेण माण्डव्यश् चौरतां गतः ॥

महाभारते ।

अतथ्यान्य् अपि तथ्यानि दर्शयन्ति विचक्षणाः ।
समे निम्नोन्नतानीव चित्रकर्मविदो जनाः ॥

१६]

तस्मान् नित्यं यतेद् राजा व्यवहारेक्षणे स्वयम् ।

नारदः ।

किं तु राजा विशेषेण स्वधर्मम् अभिरक्षता ।
मनुष्यचित्तवैचित्र्यात् परीक्ष्या साध्वसाधुता ॥
असत्याः सत्यसङ्काशाः सत्याश् चासत्यसन्निभाः ।
दृश्यन्ते विविधाकारास् तस्माद् युक्तं परीक्षणम् ॥
तलवद् दृश्यते व्योम खद्योतो हव्यवाड् इव ।
न तलं विद्यते व्योम्नि खद्योते न हुताशनः ॥
तस्मात् प्रत्यक्षदृष्टो ऽपि युक्तम् अर्थः परीक्षितुम् ।
परीक्ष्य ज्ञपयन्न् अर्थान् न धर्मात् परिहीयते ॥
न तु दृष्टं छलं राजा मर्षयेद् धर्मसाधनम् ।
भूतम् एव प्रपद्येत भूतमूला यतः श्रियः ॥
अभूतम् अप्य् अभिहितं प्राप्तकालं परीक्षते ।
प्रमादान् नोच्यते यत् तु तद् भूतम् अपि हीयते ॥

“तलवत्” अधस्तनभागवत् । [१७] याज्ञवल्क्यः ।

छलं निरस्य भूतेन व्यवहारान् नयेन् नृपः ।
भूतम् अप्य् अनुपन्यस्तं हीयते व्यवहारतः ॥

बृहस्पतिः [९.३२] ।

एवं शास्त्रोदितं राजा कुर्वन् निर्णयपालनम् ।
वितत्येह यशो लोके महेन्द्रसचिवो भवेत् ॥

महाभारते ।

अर्थिनाम् उपपन्नानां यस् तु नोपैति दर्शनम् ।
मुखेषु सक्तो नृपतिः स तप्येत नृगो यथा ॥

रामायणे [उत्तरकाण्ड, ५३.६] ।

पौरकार्यं हि यो राजा न करोति सभास्थितः ।
व्यक्तं स नरके घोरे पच्यते नात्र संशयः ॥

मनुः [८.१७४] ।

यस् त्व् अधर्मेण कार्याणि मोहात् कुर्यान् नराधिपः ।

[१८]

अचिरात् तं दुरात्मानं वशे कुर्वन्ति जन्तवः ।

कात्यायनः [४४–४५] ।

अस्वर्ग्या लोकनाशाय परानीकभयावहा ।
आयुर्बीजहरी राज्ञां सति वाक्ये स्वयंकृतिः ॥
तस्माच् छास्त्रानुसारेण राजा कार्याणि साधयेत् ।
वाक्याभावे तु सर्वेषां देशदृष्टेन तन् नयेत् ॥

[१९]