८१ वर्णानुलोमप्रतिलोमाः

अथ वर्णानुलोमप्रतिलोमाः

तत्र आपस्तम्बः [१.१.४–५]- “चत्वारो वर्णा ब्राह्मणक्षत्रियवैश्यशूद्राः । तेषां पूर्वः पूर्वो जन्मतः श्रेयान्” ।

मनुः [१०.३–४] ।

वैशेष्यात् प्रकृतिश्रैष्ठ्यान् नियमस्य च धारणात् ।
संस्कारस्य विशेषाच् च वर्णानां ब्राह्मणः प्रभुः ॥
ब्राह्मणः क्षत्रियो वैश्यस् त्रयो वर्णा द्विजातयः ।
चतुर्थ एकजातिस् तु शूद्रो नास्ति तु पञ्चमः ॥

बृहस्पतिः ।

विप्रक्षत्रियवैश्याश् च शूद्राश् चान्त्यास् त्रयो द्विजाः ।
प्रतिलोमानुलोमाश् च तैर् युता वर्णसंकराः ॥

देवलः- “चत्वारो वर्णा ब्राह्मणक्षत्रियवैश्यशूद्रा इति । अनुलोमाश् चत्वारः सवर्णाम्बष्ठपारशवोग्रा इति । प्रतिलोकाः षड् आयोगवक्षत्तचण्डालमागधवैदेहकसूता [८१२] इति । अन्तरालाः षट् कुक्कुटपुल्कसवेनकुशीलवबन्दिश्वपाका इति । सर्वेषां लक्षणानि विधानानुपूर्वं व्याक्यास्यामः ।

ब्राह्मण्यां ब्राह्मणाज् जातः संस्कृतो ब्राह्मणो भवेत् ।
एवं क्षत्रियविट्शूद्रा ज्ञेयास् तेभ्यः स्वयोनिजाः ॥
ब्राह्मणात् क्षत्रियायां तु समुत्पन्नः सवर्णकः ।
वैश्यायां ब्राह्मणाज् जातः पुत्रो ऽम्बष्ठ इति स्मृतः ॥
विप्रान् निषादः शूद्रायां जातः पारशवो ऽपि सः ।
वैश्यायां क्षत्रियाज् जातः सवर्णः स च संज्ञया ॥
शूद्रायां क्षत्रियाज् जातं प्राहुर् उग्रम् इति द्विजाः ।
वैश्याच् छूद्रस्य कन्यायां शूद्र एव प्रजायते ॥”

मनुः [१०.६–१०] ।

स्त्रीष्व् अनन्तरजातासु द्विजैर् उत्पादितान् सुतान् ।
सदृशान् एव तान् आहुर् मातृदोषविगर्हितान् ॥
अनन्तरासु जातायां विधिर् एष सनातनः ।
द्व्येकान्तरासु जातानां धर्म्यं विद्याद् इमं विधिम् ॥

[८१३]

ब्राह्मणाद् वैश्यकन्यायाम् अम्बष्थो नाम जायते ।
निषादः शूद्रकन्यायां यः पारशव उच्यते ॥
क्षत्रियाच् छूद्रकन्यायां क्रूताचारविहारवान् ।
क्षत्रशूद्रवपुर् जन्तुर् उग्रो नाम प्रजायते ॥
विप्रस्य त्रिषु वर्णेषु नृपतेर् वर्णयोर् द्वयोः ।
वैस्यस्य वर्णे चैकस्मिन् षड् एते ऽपसदाः स्मृताः ॥

तथा [१०.१४] ।

पुत्रा ये ऽनन्तरस्त्रीजाः क्रमेणोक्ता द्विजन्मनाम् ।
तान् अनन्तरनाम्नस् तु मातृदोषात् प्रचक्षते ॥

याज्ञवल्क्यः [१.९०–९५] ।

सवर्णेभ्यः सवर्णासु जायन्ते हि सजातयः ।
अनिन्द्येषु विवाहेषु पुत्राः सन्तानवर्धनाः ॥
विप्रान् मूर्धावसिक्तो हि क्षत्रियायां विशः स्त्रियाम् ।
जायते ऽम्बष्ठः शूद्रायां निषादः पारशवो ऽपि वा ॥
माहिष्योग्रौ प्रजायेते विट्शूद्राङ्गनयोर् नृपात् ।
शूद्रायां करणो वैश्याद् द्विजेभ्यः क्षत्रिये तथा ॥

[८१४] > अम्बष्ठो ब्राह्मणाच् छूद्र्यां जातः पारशवो ऽपि वा ।

वैश्याशूद्रयोस् तु राजन्यान् माहिष्योग्रौ सुतौ स्मृतौ ॥
वैश्यात् तु करणः शूद्र्यां विन्नास्व् एष विधिः स्मृतः ।

बौधायनः [१.१७.४–६]- “क्षत्रिया वैश्यायां क्षत्रियः । शूद्रायाम् उग्रः । वैश्याच् छूद्रायां रथकारः” ।

उशना- “उत्कर्षापकर्षा वर्णा विज्ञायन्ते । रथकाराम्बष्ठसुतोग्रमागधवेनपुक्कस-क्षत्तकुक्कुटवैदेहवण्डालश्वपाकव्रात्यप्रभृतयः । तत्र सवर्णायाम् एव सवर्णः । ब्राह्मणात् क्षत्रियायां जातो ब्राह्मण एव सः । वैश्यायाम् अम्बष्ठः । शूद्रायां पारशवः । निषाद इत्य् एके । क्षत्रियेण वैश्यायां क्षत्रियः, शूद्रायाम् उग्रः, वैश्येन शूद्रायां वैश्यः” ।

ब्राह्मण व स’ इति, क्षत्रियपूर्वनात् क्षत्रियाद् उत्कृष्टो ब्राह्मणवद् इत्य् अर्थः ।

शङ्खलिखितौ- “तत्र ब्राह्मणात् क्षत्रियायां क्षत्रिय एव जायते । क्षत्रियेण वैश्यायां वैश्य एव । वैश्येन शूद्रायां शूद्रः । ब्राह्मणेन शूद्रायां निषादः पारशवो [८१५] वा जायत आनुलोम्येन विधिना । विपर्यये ब्राह्मण्यां सूतः क्षत्रियेण । क्षत्रियायां मागधो वैश्येन । वैश्यायाम् आयोगवः शूद्रेण । शूद्रेण ब्राह्मण्यां चण्डालो जायते । अम्बष्ठोग्राव् एकान्तरानुलोम्येन । क्षत्तृवैदेहकाव् एकान्तरप्रातिलोम्येन । यस्माद् वर्णाः संकीर्यन्ते तस्मात् प्रतिसंस्कारः” ।

गौतमः {४.१६–२१]- “अनुलोमा अनन्तरैकान्तरद्व्यन्तरासु जाताः सवर्णाम्बष्ठोग्रनिषाददौष्यन्तपारशवाः । प्रतिलोमाः सूतमागधायोगवक्षत्तृवैदेहकचण्डालाः । ब्राह्मण्य् अजीजनत् पुत्रान् वर्णेभ्य आनुपूर्व्याद् ब्राह्मणसूतमागधचण्डालान् । तेभ्य एव क्षत्त्रिया मूर्धावसिक्तक्षत्रियधीवरपुल्कसान् । तेभ्य एव वैश्या भृज्यकण्ठमाहिष्यवैश्यवैदेहकान् । पारशवयवनकरणशूद्रान् शूद्रेत्य् एके” ।

नारदः [१४.१०३–०४] ।

अनन्तरः स्मृतः पुत्रः पुत्र एकान्तरस् तथा ।
द्व्यन्तरश् चानुलोम्येन तथैव प्रतिलोमतः ॥
उग्रः पारशवश् चैव निषादश् चानुलोमतः ।
उत्तमेभ्यस् त्रयस् त्रिभ्यः शूद्रापुत्राः प्रकीर्तिताः ॥
ब्राह्मण्याम् अपि दण्डालसूतवैदेहका अपि ।
अपरेभ्यस् त्रयस् त्रिभ्यो विज्ञेया प्रतिलोमजाः ॥

[८१६]

सवर्णो मागधश् चैव क्षत्ता च क्षत्रियासुतः ।
आनुलोम्येन तत्रैको द्वौ ज्ञेयौ प्रतिलोमजौ ॥
वैश्यापुत्रास् तथाम्बष्ठयवनायोगवा अपि ।
प्रातिलोम्येन तत्रैको द्वौ ज्ञेयाव् अनुलोमजौ ॥
सवर्णो ब्राह्मणीपुत्रः क्षत्रियायाम् अनन्तरः ।
अम्बष्ठोग्रौ तथा पुत्राव् एवं क्षत्रियवैश्ययोः ॥
एकान्तरस् तु दौष्यन्तो वैश्यायां ब्राह्मणात् सुतः ।
शूद्रायां क्षत्रियात् तद्वन् निषादो नाम जायते ॥
शूद्रा पारशवं सूते ब्राह्मणाड् द्व्यन्तरं सुतम् ।
आनुलोम्येन वर्णानां तथैव प्रतिलोमतः ॥
अनन्तरः स्मृतः सूतो ब्राह्मण्यां क्षत्रियात् सुतः ।
मागधायोगवौ तद्वत् सुतौ द्वौ वैश्यशूद्रयोः ॥
ब्राह्मण्य् एकान्तरं सूते वैश्याद् वैदेहकं सुतम् ।
क्षत्तारं क्षत्रिया शूद्रात् पुत्रम् एकान्तरं तथा ॥
द्व्यन्तरः प्रातिलोम्येन पापिष्ठः संकरे सति ।
चण्डालो जायते शूद्राद् ब्राह्मणी यत्र मुह्यति ॥

[८१७] देवलः ।

शूद्राद् आयोगक्षत्तृवण्डालाः प्रतिलोमजाः ।
वैश्यायां क्षत्रियायां च ब्राह्मण्यां च यथाक्रमम् ॥
तथैव मागधो वैश्याज् जातो वैदेहको ऽपि च ।
ब्राह्मण्यां क्षत्रियाज् जातः सूतो जात्या स्वकर्मणा ॥

विष्णुः [१६.३–६]- “प्रतिलोमाश् चार्यविगर्हिताः । तत्र वैश्यापुत्रः शूद्रेणायोगवः । पुल्कसमागधौ क्षत्रियापुत्रौ शूद्रवैश्याभ्याम् । चण्डालवैदेहकसूताश् च ब्राह्मणीपुत्राः शूद्रविट्क्षत्रियैः” ।

वसिष्ठः [१८.१–६]- “शूद्रेण ब्राह्मण्याम् उत्पन्नश् चण्डालो भवतीत्य् आहुः । राजन्यायां वैणः । वैश्यायाम् अन्त्यावसायी । वैश्येन ब्राह्मण्याम् उत्पन्नो रामको भवतीत्य् आहुः । राजन्यायां पुल्कसः । राजन्येन ब्राह्मण्याम् उत्पन्नः सूतो भवतीत्य् आहुः” ।

यमः ।

सर्वाश् चण्डालयोनयस् तु चातुर्वर्ण्याद् विनिःसृताः ।
सूतमागधचण्डालश्वपचा उग्रपुल्कसाः ॥
एकयोनय एवाद्यास् त्रयस् तेषाम् अनन्तराः ।
द्वाव् एकयोनिजाव् एव एक एवोत्तरः स्मृतः ॥

[८१८] > क्षत्रियाज् जायते सूतो वैश्याज् जायेत मागधः ।

शूद्राज् जायेत चण्डालो ब्राह्मणी यत्र मुह्यति ॥
क्षत्रियायां तु वैश्येन श्वपचो नाम जायते ।
शूद्रेण जायते चोग्रः क्षत्रिया यत्र् मुह्यति ॥
वैश्यायाम् एव शूद्रेण पुल्कसो नाम जायते ।
बीजयोनिविशिष्टास् ते वर्णेभ्यस् त्व् अधमोत्तमाः ॥

हारीतः- “विपरीता ब्राह्मण्यां क्षत्रियवैश्यशूद्राः सूतमागधमातङ्गान् जनयन्ति । क्षत्रियायां वैश्यशूद्रौ वन्दिनिषादौ जनयतः । वैश्यायां शूद्रः पुल्कसं जनयति” ।

पैटीनसिः- “सूतमागधचण्डालाश् चेति ब्राह्मण्यां मोहाद् अधोवर्णेभ्यः । अम्बष्ठश् चायोगवश् चेति क्षत्रियायाम् । वैश्यायां मागधश् चेति । पुल्कसो वैणो रथकारः श्वपाकः कैवर्तो निषादश् चेति वर्णसंकरा जायन्ते” ।

बौधायनः [१.१६.६–१५]- “शूद्राद् वैश्यायां मागधः क्षत्रियायां क्षत्ता ब्राह्मण्याम् चण्डालः । वैश्यात् क्षत्रियायाम् आयोगवो ब्राह्मण्यां वैदेहकः । क्षत्रियाद् ब्राह्मण्याम् सूतः । तत्राम्बष्ठोग्रसंयोगे भवत्य् अनुलोमः । क्षत्तृवैदेहयोः प्रतिलोमः । उग्राज् जातः [८१९] क्षत्तायां श्वपाकः । वैदेहकाद् अम्बष्ठायां वैणः । निषादाच् छ्रूद्रायां पुल्कसः । शूद्रान् निषाद्यां कुक्कुटः । वर्णसंकराद् उत्पन्नात् व्रात्यान् आहुर् मनीषिण इति” ।

पैठीनसिः- “प्रतिलोमाद् अव्यभिचारे सूतमागधायोगवा जायन्ते । शूद्रेणोत्तमासु श्वपाकचण्डालनिषादा जायन्ते । ब्राह्मणेन कृष्णायां पारशवः । पारशव्यां क्षत्ता । क्षत्रियेण क्ष्ष्णायां वन्दी । वैश्येन वैतालः । पारशवेन क्षत्रियायाम् अम्बष्थो वैश्यायां दुन्दलादो ऽम्बष्ठश् चेति । विदेहायां वेनः । वैदेहकवन्दिनिषादाम्बष्ठासु ब्राह्मणेन चूचुकमुद्गुपौल्कसकुक्कुटका जायन्ते । वैश्यायाम् आयोगवः । क्षत्रियेण क्षत्तापुल्कसवेनोग्रेषु दूतप्रेष्यकैवर्तारा जायन्ते । उग्रेणाद्यासु मौञ्जिष्ठसौतपाणिविकला जायन्ते । उग्रायां त्व् आद्यैः पौष्टिकडोम्बभिञ्जशिण्डिका जायन्ते” ।

शङ्खलिखितौ- “क्षत्र्याम् उग्रसंगे श्वपाकः । वैदेहकायाम् अम्बष्ठसंयोगे वेनः । शूद्रायां निषादेन पुल्कसः मागधेन कुक्कुटकः” ।

[८२०] बौधायनः [१.१३.९]- “अम्बष्ठात् प्रथमायां श्वपाकः । उग्राद् द्वितीयायां वेनः । निषादात् तृतीयायां पुल्कसः । विपर्यये कुक्कुटकः” ।

देवलः ।

उग्रान् निषाद्याम् उत्पन्नस् तनयः कुक्कुटो भवेत् ।
ततो निषादाच् छूद्रायां जातो भवति पुल्कसः ॥
वैदेहकेन त्व् अम्बष्ठ्यां जातो वेन इति स्मृतः ।
वैदेहकायाम् अम्बष्ठाद् भवेज् जातः कुशीलवः ॥
क्षत्र्यां तथोग्रजः पुत्रः श्वपाक इति कीर्त्यते ।
अन्तराला भवन्त्य् एवम् एते चान्ये च मिश्रजाः ॥

मनु-विष्णू [म। १०.१५, १८–१९, २५–४०; वि। १६–१७] ।

ब्राह्मणाद् उग्रकन्यायां आवृतो नाम जायते ।
आभीरो ऽम्बष्ठकन्यायाम् आयोगव्यां तु धिग्वणः ॥
जातो निषादाच् छूद्रायां जात्या भवति पुल्कसः ।
शूद्राज् जातो निषाद्यां तु स वै कुक्कुटकः स्मृतः ॥
क्षत्तुर् जातस् तथोग्रायां श्वपाक इति कीर्त्यते ।
वैदेहकेन त्व् अम्बष्ठ्याम् उत्पन्नो वेन उच्यते ॥
संकीर्णयोनयो ये तु प्रतिलोमानुलोमजाः ।
अन्योन्यव्यतिषक्ताश् च तान् प्रवक्ष्याम्य् अशेषतः ॥

[८२१]

सूतो वैदेहकश् चैव चण्डालश् चाधमो नृणाम् ।
मागधः क्षत्रजातिश् च तथायोगव एव च ॥
एते षट् सदृशान् वर्णाञ् जनयन्ति स्वयोनिषु ।
मातृजात्यां प्रसूयन्ते प्रवरासु च योनिषु ॥
तथा त्रयाणां वर्णानां द्वयोर् आत्मास्य जायते ।
आनन्तर्यात् स्वयोन्यां च तथा बाह्येष्व् अपि क्रमः ॥
ते चापि बाह्यान् सुबहूंस् ततो ऽप्य् अधिकदूषितान् ।
परस्परस्य दारेषु जनयन्ति विगर्हितान् ॥
यथैव शूद्रो ब्राह्मण्यां बाह्यं जन्तुं प्रसूयते ।
तथा बाह्यतरं बाह्यश् चातुर्वर्ण्ये प्रसूयते ॥
प्रतिकूलं वर्तमाना बाह्या बाह्यतरान् पुनः ।
हीना हीनान् प्रसूयन्ते वर्णान् पञ्चदशैव तु ॥
प्रसाधनोपचारज्ञम् अदासं दास्यजीवनम् ।
सैरिन्ध्रं वागुरावृत्तिं सूते दस्युर् अयोगवे ॥
मैत्रेयकं तु वैदेहो माधूकं संप्रसूयते ।
नॄन् प्रशंसत्य् अजस्रं यो घण्टाताडो ऽरुणोदये ॥

[८२२]

निषादो मार्गवं सूते दासं नौकर्मजीविनम् ।
कैवर्तम् इति यं प्राहुर् आर्यावर्तनिवासिनः ॥
मृतवस्त्रभृत्स्व् अनार्यासु गर्हितान्नाशनासु च ।
भवन्त्य् आयोगवीष्व् एते जातिहीनाः पृथक् त्रयः ॥
कारावरो निषादात् तु चर्मकारः प्रसूयते ।
वैदेहकाद् अन्ध्रमेदौ बहिर्ग्रामप्रतिशयौ ॥
चण्डालात् पाण्डुसोपाकस् त्वक्सारव्यवहारवान् ।
आहिण्डिको निषादेन वैदेह्याम् एव जायते ॥
चण्डालेन तु सोपाको मूलव्यसनवृत्तिमान् ।
पुल्कस्यां जायते पापः सदा सज्जनगर्हितः ॥
निषादस्त्री तु चण्डालात् पुत्रम् अन्त्यावसायिनम् ।
श्मशानगोचरं सुते बाह्यानाम् अपि गर्हितम् ॥
संकरे जातयस् त्व् एताः पितृमातृप्रदर्शिताः ।
प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः ॥

नारदः [१४.१०५] ।

सूताद्याः प्रतिलोमास् तु ये जाताः प्रतिलोमतः ।
ससंस्काराश् च पाकाद्यास् तेषां त्रिःसप्तको गणः ॥

[८२३] शङ्खलिखितौ- [क्षत्रियवैश्यानुलोमान्तरोत्पन्नो यो रथकारस् तस्येज्यादानोपनयनसंस्कारक्रिया अश्वप्रतिष्ठारथसूत्रवास्तुविद्याध्ययनवृत्तिता च] ।

वसिष्ठः- “क्षत्रियवैश्यानुलोमान्तरजातो रथकार इत्य् एके । तस्याध्ययनेज्याधानोपनयनसंस्काराश् चाप्रतिषिद्धाः । रथसूत्रवास्तुविद्याध्ययनकर्मवृत्तिश् चेति” ।

याज्ञवल्क्यः [१.९५] ।

माहिष्येण करण्यां तु रथकारः प्रजायते ।

यमः ।

मर्यादाया विलोपेन जायते वर्णसंकरः ।
भ्रष्टवंशास् तु पतिता भ्रष्टाचारा भवन्ति ते ॥

पुनर् यमः ।

प्रातिलोम्यानुलोम्येन गुणदोषान् निबोधत ।
आनुलोम्येन वर्णत्वं प्रातिलोम्येन पातकम् ॥

मनुः [१०.६६–७२] ।

अनार्यायां समुत्पन्नो ब्राह्मणात् तु यदृच्छया ।
ब्राह्मण्याम् अप्य् अनार्यात् तु श्रेयस्त्वं क्वेति चेद् भवेत् ॥

[८२४]

जातो नार्याम् अनार्यायाम् आर्याद् आर्यो भवेद् गुणैः ।
जातो ऽप्य् अनार्याद् आर्यायाम् अनार्य इति निश्चयः ॥
उभाव् अपि त्व् असंस्कार्याव् इति धर्मो व्यवस्थितः ।
वैगुण्याज् जन्मतः पूर्व उत्तरः प्रतिलोमतः ॥
सुबीजं त्व् एव सुक्षेत्रे जातं संपद्यते यथा ।
तथार्याज् जात् आर्यायां सर्वं संस्कारम् अर्हति ॥
बीजम् एके प्रशंसन्ति क्षेत्रम् एके मनीषिणः ।
बीजक्षेत्रे तथैवान्ये तत्रेयं तु व्यवस्थितिः ॥
अक्षेत्रे बीजम् उत्सृष्टम् अन्तरैव विनश्यति ।
अजीजकम् अपि क्षेत्रं केवलं स्थण्डिलं भवेत् ॥
यस्माद् बीजप्रभावेण तिर्यग्जा ऋषयो ऽभवन् ।
पूजिताश् च प्रशस्ताश् च तस्माद् बीजं विशिष्यते ॥

तथा [१०.४१–४२] ।

स्वजातिजानन्तरजाः षऋसुता द्विजधर्मिणः ।
शूद्राणां तु सधर्माणः सर्वे ऽपध्वंसजाः स्मृताः ॥
तपोबीजप्रभावैश् च ते गच्छन्ति युगे युगे ।
उत्कर्षं चापकर्षं च मनुष्येष्व् इह जन्मतः ॥

[८२५] तथा [१०.६४–६५] ।

शूद्रायां ब्राह्मणाज् जातः श्रेयसा चेत् प्रजायते ।
अश्रेयान् श्रेयसीं जातिं गच्छत्य् आसप्तमाद् युगात् ॥
शूद्रो ब्राह्मण्यम् अभ्येति ब्राह्मणश् चैव शूद्रताम् ।
क्षत्रियाज् जातम् एवं तु विद्याद् वैश्यात् तथैव च ॥

बौधायनः [१.१६.१३–१४]- “निषादेन निषाद्याम् आ पञ्चमाज् जातो ऽपहन्ति शूद्रताम् । तम् उपनयेत् षष्ठं याजयेत् सप्तमो ऽविकृतो [भवति] । जीवसंजीवकर इत्य् एषां सज्ञाः क्रमेण निपतन्ति” ।

याज्ञवल्क्यः [१.९६] ।

जात्युत्कर्षो युगे ज्ञेयः पञ्चमे सप्तमे ऽपि वा ।
व्यत्यये कर्मणां साम्यं पूर्ववच् चाधरोत्तरम् ॥

[८२६] आपस्तम्बः [२.११.१०–११]- “धर्मचर्यया जघन्यो वर्णः पूर्वं पूर्वं वर्णम् आपद्यते जातिपरिवृत्तौ । अधर्मचर्यया पूर्वो वर्णो जघन्यं वर्णम् आपद्यते वर्णम् आपद्यते जातिपरिवृत्तौ” ।

मनुः [१०.७३] ।

अनार्यम् आर्यकर्माणम् आर्यं चानार्यकर्मिणम् ।
संप्रधार्याब्रवीद् धाता न समौ नासमाव् इति ॥

तथा [१०.२०–२३] ।

द्विजातयः सवर्णासु जनयन्त्य् अव्रतांस् तु यान् ।
तान् सावित्रीपरिभ्रष्टान् व्रात्यान् इति विनिर्दिशेत् ॥
व्रात्यात् तु जायते विप्रात् पापात्मा भृज्जकण्टकः ।
आवन्त्यवाटधानौ च पुष्पधः शैख एव च ॥
झल्लो मल्लश् च राजन्याद् व्रात्याल् लिच्छविर् एव च ।
नटश् च करणश् चैव खसो द्रविष एव च ॥
वैश्यात् तु जायते व्रात्यात् सुधन्वाचार्य एव च ।
कारुषश् च विजन्मा च मैत्रः सात्वत एव च ॥

[८२७] देवलः ।

व्रतहीना असंस्काराः सवर्णास्व् अपि ये पुनः ।
उत्पादिता भवेयुस् ते व्रात्या इव बहिष्कृताः ॥

शङ्खलिखितौ- “त्रिषु वर्णेष्व् असंस्कृतप्रसूतः स्यात् कालाभिज्ञातः पतितसावित्रीको ब्राह्मणः” ।

यमः ।

यस् तु प्रव्रजिताज् जातः प्रव्रज्यावसितश् च यः ।
ताव् उभौ ब्रह्मचण्डालाव् आह वैवस्वतो यमः ॥
आरूढपैताज् जातो ह्य् आरूढपतितश् च यः ।
द्वाव् एतौ ब्रह्मचण्डालौ मनुः स्वायम्भुवो ऽब्रवीत् ॥
यस् तु प्रव्रतिजापुत्रो ब्राह्मण्यां चैव शूद्रजः ।
द्वाव् एतौ ब्रह्मचण्डालौ मनुः स्वायम्भुवो ऽब्रवीत् ॥

अङ्गिराः ।

यस् तु प्रव्रजितापुत्रो ब्राह्मण्यां यश् च शूद्रजः ।
ताव् उभौ विद्धि चण्डालौ सगोत्राद्यश् च जायते ॥

[८२८] मनुः [१०.४३–४४] ।

शनकैस् तु क्रियालोकाद् इमाः क्षत्रियजातयः ।
वृषलत्वं गता लोके ब्राह्मणादर्शनेन च ॥
पौण्ड्रकाश् चौढ्रद्रविडा काम्बोजा यवनाः शकाः ।
पारदाः पल्लवाश् चीनाः किराता दरदाः खशाः ॥

तथा [१०.५७–६१] ।

वर्णापेतम् अविज्ञातं नरं कलुषयोनिजम् ।
आर्यरूपम् इवानार्यं कर्मभिः स्वैर् विभावयेत् ॥
अनार्यता निष्ठुरता क्रूरता निष्क्रियात्मता ।
पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम् ॥
पितुर् वा भजते शीलं मातुर् वोभयम् एव वा ।
न कथंचन कुर्योनिः प्रकृतिं स्वां नियच्छति ॥
कुले मुख्ये ऽपि जातस्य यस्य स्याद् योनिसंकरः ।
संश्रयत्य् एव तच्छीलं नरो ऽल्पम् अपि वा बहु ॥
यत्र त्व् एते परिध्वंसाज् जायन्ते वर्णदूषकाः ।
राष्ट्रीयैः सह तद् राष्ट्रं क्षिप्रम् एव विनश्यति ॥

नारदः [१४.११३] ।

रक्षाप्रमादान् नृपतेर् जायते वर्णसंकरः ।
तस्माद् राज्ञा विशेषेण स्त्रियो रक्ष्यास् तु संकरात् ॥

[८२९] शङ्खलिखितौ- “एवं वर्णे भेदः । प्रमादाद् दौर्बल्याच् च राज्ञस् तु किल्बिषं कर्तुर् यद् दापयेत् तेषां प्रतिनियतानि कर्माणि राज्ञा प्रतिपादनीयानि” ।

अथ तेषां कर्माणि

तत्र मनुः [१०.४६–५०] ।

ये द्विजानाम् अपसदा ये चापध्वंसजाः स्मृताः ।
ते निन्दितैर् वर्तयेयुर् द्विजानाम् एव कर्मभिः॥
सूतानाम् अश्वसारथ्यम् अम्बष्ठानां चिकित्सितम् ।
वैदेहकानां स्त्रीकार्यं मागधानां वणिक्पथः ॥
मत्स्यघातो निषादानां त्वष्टिर् आयोगवस्य च ।
मेदान्ध्रचुञ्चुमद्गूनाम् आरण्यपशुहिंसनम् ॥
क्षत्रुग्रपुल्कसानां तु बिलौकोवधबन्धनम् ।
धिग्वणानां चर्मकार्यं वेणानां भाण्डवादनम् ॥
चैत्यद्रुमश्मशानेषु शैलूषोपवनेषु च ।
वसेयुर् एते विज्ञाता वर्तयन्तः स्वकर्मभिः ॥

[८३०]अपध्वंसजाः’ प्रतिलोमजाः । “निन्दितैः’ द्विजानाम् आपद्विहितैर् वाणिज्यादिभिः । ऽद्विजानाम् उपयोगिभिः प्रेष्यकर्मभिर्’ इति मेधातिथिः [ओन् म्ध् १०.४६]।

शङ्खलिखितौ- “सूतानाम् अन्नसंस्कारक्रिया केशश्मश्रुनखलोमवापनस्नपनविलेपान्य् अलंकरणम् अश्वदमनयोग्यासनप्रेक्षणानि कर्माणि । क्षत्तुः प्रतीहारदौत्ये । मागधानां मृदङ्गवेणुवीणावादनवृत्यगीतपुष्पमाणवककर्मसिद्धिकोपस्थानगाथाश्लोकप्रत्यूष-प्रतिबोधनानि कर्माणि । अम्बष्ठानां जातिविशेषात् कायशल्यशलाकारसायनविषोन्मादक्लीब-ज्वरापस्मारकुमारचिकित्साशरीरपोषणादिकर्माणि । वैदेहकानां पत्रच्छेदनसीवन-रञ्जनावनिर्णेजनवापीतटाकोद्यानारामावस्करशोधनानि कर्माणि । उग्राणां कुञ्जरग्रहण-राजच्छत्रधारणपुरतःप्रधावनबन्धनागारसंयमनानि कर्माणि । वेणानां लङ्गनवनकृईडानियुद्धमायाशास्त्रैन्द्रजालप्रस्थापनप्रहरणानि कर्माणि । कुक्कुटानां प्रहरणकरणचक्रतोमरभिण्डिपालपाशासिपरश्वथलगुडलोहजालिकासमरसंधारणादीनि कर्माणि । आयोगवानाम् अवस्करणकुम्भकरणसुवर्णरजतमणिलोहादिशिल्पकरणानि चर्मवृत्तिता चेति । पुल्कसानां नगरवीथीरक्षणजागरणानाथमृतनिर्हरणालेख्यपत्र-च्छेदमालिकत्वम् इति कर्माणि । निषादानां वागुरापाशसंधारणमृगपशुपक्षिमत्स्यदारण-मधुपातनविकर्तनादीनि कर्माणि ।

[८३१] ऽपुष्पमाणवककर्मसिद्धिकोपस्थानम्’ पुष्पमाणवकत्वेन ज्योतिःशास्त्रवित्त्वेन कर्मसिद्ध्युपदेशार्थं राजसमीपोपस्थानम् इति शबरस्वामी ।

विष्णुः [१६.७–१३]- “रङ्गावतरणम् आयोगवानाम् । व्याधता पुल्कसानाम् । स्तुतिक्रिया मागधानाम् । वध्यघातित्वं चण्डालानाम् । स्त्रीरक्षातज्जीवनं च वैदेहकानाम् । अश्वसारथ्यं सूतानाम्” ।

हारीतः- “तेषां वृत्तीर् वक्ष्यामः अश्वरथसूतत्वं सूताय । मृदङ्गवादोपजीवनं मागधाय । श्मशानमृतपरिच्छदोपजीवनं चण्डालाय । नटयितर्यनुवादित्वं वन्दिने । पोतवाहोपजीवनं निषादाय । तूर्यवादवीथीरङ्गवास्तुप्रक्षालनं पुलकसाय” ।

यमः ।

सूतानाम् अश्वसारथ्यं मागधानां चिकित्सितम् ।
चण्डालानां वध्यघातश् चुञ्चुपानां च वेतनम् ॥
आघोषणं च मद्गूनां पुल्कसानां च संतरम् ।

[८३२] मनुः [१०.५१–५२, ५०, ५३–५६] ।

चण्डालश्वचपानां तु बहिर्ग्रामात् प्रतिश्रयः ।
अपपात्राश् च कर्तव्या धनम् एषां श्वगर्दभम् ॥
वासांसि मृतचैलानि भिन्नभाण्डेषु भोजनम् ।
कार्ष्णायसम् अलङ्कारः परिव्रज्या च नित्यशः ॥
चैत्यद्रुमश्मशानेषु वनेषूपवनेषु च ।
वसेयुर् एते विज्ञाता वर्तयन्तः स्वकर्मभिः ॥
न तैः समयम् अन्विच्छेत् पुरुषो धर्मम् आचरन् ।
व्यवहारो मिथस् तेषां विवाहः सदृशैः सह ॥
अन्नम् एषां पराधीनं देयं स्याद् भिन्नभाजने ।
रात्रौ न विचरेयुस् ते ग्रामेषु नगरेषु च ॥
दिवा चरेयुः कार्यार्थं चिह्निता राजशासनैः ।
अबान्धवं शवं चैव निर्हरेयुर् इति स्थित्ः ॥
वध्यांश् च हन्युः सततं यथाशास्त्रं मृपाज्ञया ।
वध्यवासांसि गृह्णीयुः शय्याद्याभरणानि च ॥

यमः ।

कार्ष्णायसम् अलंकारस् तत्पात्रेषु च भोजनम् ।
बहिर्ग्रामनिवासश् च धनम् एषां च गर्दभः ॥

[८३३] शङ्खलिखितौ- “चण्डालानाम् एकान्तवासः श्मशानसंरक्षणं श्वकुलपरिधावनं वध्यघातित्वम् इति कर्माणि । श्वपचानां चैवम् । दस्युम्लेच्छगणानां च कृतशस्त्रोपजीवनम् इति कर्माणि । नार्यः सजातीयाः सर्वेषां श्रेयस्यः स्युर् इति” ।

विष्णुः [१६.१४–१६]- “चण्डालानां बहिर्ग्रामनिवसनं मृतचैलधारणम् इति विशेषः । समानजातिभिर् वासः सर्वेषाम् । स्वपितृवित्तानुहरणं च” ।

देवलः ।

तत्र जात्यन्तरालानां प्रतिलोमानुलोमयोः ।
स्वे स्वे च योनिसंबन्धांस् तान् संपादयेत् पृथक् ॥
तथैव चतुरो वर्णान् स्वे स्वे धर्मे नियोजयेत् ।
राज्ञो भूतिर् यशस् तुष्टिर् धर्मश् च परिवर्धते ॥

मनुः [१०.६२–६३] ।

ब्राह्मणार्थे गवार्थे च देहत्यागो ऽनुपस्कृतः ।
स्त्रीबालाभ्युपपत्तौ च बाह्यानां सिद्धिकारणम् ॥

[८३४]

अहिंसा सत्यम् अस्तेयं शौचम् इन्द्रियनिग्रहः ।
एतं सामासिकं धर्मं चतुर्वर्ण्ये ऽब्रवीन् मनु ॥

देवलः- “स्वजातिजीवनं सर्वप्रमाणतितिक्षा व्यवहारपरप्रमाणं स्वभृत्यपोषणम् अकर्मपरिवर्जनम् इत्या (?) चण्डालधर्मः” ।

इति व्यवहारकाण्डे वर्णानुलोमप्रतिलोमलक्षणवृत्तिधर्माः ॥

इति महाराजाधिराजश्रीमद्गोविन्द्चन्द्रदेवमहासान्धिविग्रहिक-

**भट्टहृदयधरात्मजभट्टश्रीलक्ष्मीधरेण विरचिते **

कृत्यकल्पतरौ व्यवहारकाण्डं समाप्तम् ॥