८० दण्डप्रणयनविवेकः

अथ दण्डप्रणयनविवेकः

तत्र मनुः [७.१४–१५, १७–१८] ।

तदर्थं सर्वभूतानां गोप्तारं धर्मम् आत्मजम् ।
ब्रह्मतेजोमयं दण्डम् असृजत् पूर्वम् ईश्वरः ॥
तस्य सर्वाणि भूतानि स्थावराणि चराणि च ।
भयाद् भोगाय कल्पन्ते स्वधर्मान् न चलन्ति च ॥
स राजा पुरुषो दण्डः स नेता शासिता च सः ।
चतुर्णाम् आश्रमाणां च धर्मस्य प्रतिभूः कृतः ॥
दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति ।
दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर् बुधाः ॥

तथा [७.२५] ।

यत्र श्यामो लोहिताक्षो दण्डश् चरति पापहा ।
प्रजास् तत्र विवर्धन्ते नेता चेत् साधु पश्यति ॥

तथा [७.३१, २६, ३०, २७–२९, १९] ।

शुचिना सत्यसन्धेन यथाशास्त्रानुसारिणा ।
दण्डः प्रणयितुं शक्यः सुसहायेन धीमता ॥
तस्याहुः संप्रणेतारं राजानं सत्यवादिनम् ।
समीक्ष्यकारिणं प्राज्ञं धर्मकामार्थकोविदम् ॥
असहायेन मूढेन लुब्धेनाकृतबुद्धिना ।
न शक्तो न्यायतो नेतुम् ऋक्थेषु विषयेषु च ॥

[७९५] > तं राजा प्रणयन् सम्यक् त्रिवर्गेनाभिवर्धते ।

कामात्मविषयः क्षुद्रो दण्डेनैव निहन्यते ॥
दण्डो हि सुमहतेजो दुर्धरश् चाकृतात्मभिः ।
धर्माद् विचलितं हन्ति नृपम् एव सबान्धवम् ॥
ततो दुर्गं च राष्ट्रं च लोकं च सचराचरम् ।
अन्तरिक्षगतांश् चैव यतीन् देवांश् च पीडयेत् ॥
समीक्ष्य सुभृतः सम्यक् सर्वा रञ्जयति प्रजाः ।
असमीक्ष्य प्रणीतस् तु विनाशयति सर्वतः ॥

सुधृतः’ यथार्हं धृतः ।

तथा [७.२०–२१] ।

यदि न प्रणयेद् राजा दण्डं दण्ड्येष्व् अतन्द्रितः ।
शूले मत्स्यान् इवापक्ष्यन् दुर्बलान् बलवत्तराः ॥
अद्यात् काकः पुरोडाशं श्वा च लिह्याद् धविस् तथा ।
स्वाम्यं च न स्यात् कस्मिंश् चित् प्रवर्तेताधरोत्तरम् ॥

अङ्गिराः ।

राजा गुरुर् यमश् चैव शासन् धर्मेण युज्यते ।
कर्ता च मुच्यते पापान् न च पापेन लिप्यते ॥

याज्ञवल्क्यः [१.३५९–६०] ।

यो दण्ड्यान् दण्डयेद् राजा सम्यग् वध्यांश् च घातयेत् ।
इष्टं स्यात् क्रतुभिस् तेन समाप्तवरदक्षिणैः ॥

[७९६] > इति संचिन्त्य नृपतिः क्रतुतुल्ल्यफलं पृथक् ।

व्यवहारान् स्वयं पश्येत् सभ्यैः परिवृतो ऽन्वहम् ॥

तथा [१.३५७] ।

अधर्मदण्डनं लोके धर्मकीर्तिविनाशनम् ।
सम्यक् च दण्डनं राज्ञः स्वर्गकीर्तिजयावहम् ॥

मनुः [८.१२८; ९.२४७] ।

अदण्ड्यं दण्डयन् राजा दण्ड्यं चैवाप्य् अदण्डयन् ।
अयशो महद् आप्नोति नरकं चैव गच्छति ॥
यावान् अवध्यस्य वधे तावान् वध्यस्य मोक्षणे ।
अधर्मो नृपतेर् दृष्टो धर्मस् तु विनियच्छतः ॥

कात्यायनः ।

राजानो मन्त्रिणश् चैव विशेषाद् एनम् अवाप्नुयुः ।
अशासनात् तु पापानां नतानां दण्डधारणात् ॥

नतानाम्’ विनीतानाम्, अदण्ड्यानाम् इति यावत् ।

वसिष्ठः [१९.४०–४३]- “दण्डोत्सर्गे राजैकरात्रम् उपवसेत् । त्रिरात्रं पुरोहितः । कृच्छ्रम् अदण्डने पुरोहितस् त्रिरात्रं राजा च” ।

[७९७]

अथ दण्डोत्कर्षापकर्षादिः

तत्र कात्यायनः ।

सचिह्नम् अपि पापं तु पृच्छेत् पापस्य कारणम् ।
तथा दण्डं नियुञ्जीत दोषम् आरोप्य यत्नतः ॥
प्राणात्यये तु यत्र स्याद् अकार्यकरणं कृतम् ।
दण्डस् तत्र तु नैव स्याद् एष धर्मः स्मृतो भृगुः ॥
सद्वृत्तानां तु सर्वेषाम् अपराधो यदा भवेत् ।
अवशेनैव दैवात् तु दण्डं तत्र न कल्पयेत् ॥
सम्यग्दण्डप्रणेतारो नृपाः पूज्याः सुरैर् अपि ।
आरम्भे प्रथमं दद्यात् प्रवृत्ते मध्यमः स्मृतः ॥
यस यो विहितो दण्डः पर्याप्तस्य स वै भवेत् ।
कल्पितो यस्य यो दण्डस् त्व् अपराधस्य यत्नतः ॥

[७९८] > पणानां ग्रहणं तत् स्यात् तन्मूल्यं वाथ राजनि ।

अपराधेषु नियतम् आहुर् गार्गीयमानवाः ॥
दण्डनीयः स शौथिल्यात् प्रथमं नेति गौतमः ।
अर्थवन्तो यतस् सन्तो यथोक्तान् अपि ते दमान् ॥
दद्युर् नैवोपशाम्येयुस् तस्मात् तत्र विनिश्चयः ।
तस्माद् अव्याहताः पापा येन येन शुभं पुनः ॥
न कुर्युस् तत् तद् एवैषां कर्तव्यम् इति निश्चयः ।
समूहस्थाः प्रवृत्ताश् च पापेषु पुरुषाधमाः ॥
यथोक्तं द्विगुणं दण्डम् एकैकस्य प्रदापयेत् ।

नारदः [२१.५३–५६] ।

शारीरश् चार्थदण्डश् च दण्डस् तु द्विविधः स्मृतः ।
शारीरो द्विविधः प्रोक्तो ह्य् अर्थदण्डो ऽप्य् अनेकधा ॥
काकिण्यादिस् त्व् अर्थदण्डः सर्वस्वान्तस् तथैव च ।
शारीरस् त्व् अवरोधादिर् जीवितान्तकरस् तथा ॥
काकिण्यादिस् तु यो दण्डः स तु माषपरः स्मृतः ।
माषावरार्धो यः प्रोक्तः कार्षापणपरस् तु सः ॥

[७९९] > कार्षापणावराद् यस् तु चतुःकार्षापणोत्तरः ।

द्व्यवरो ऽष्टपणास् त्व् अन्यस् त्र्यवरो द्वादश्ōत्तरः ॥
कार्षापणाद्या ये प्रोक्ताः सर्वे ते स्युश् चतुर्गुणाः ।
एवम् अन्ये ऽपि विज्ञेयाः प्राक् चैते पूर्वसाहसात् ॥

मनुः [८.३३६] ।

कार्षापणं भवेद् दण्डो यत्रान्यः प्राकृतो जनः ।
तत्र राज्ञां भवेद् दण्डः सहस्रम् इति धारणा ॥

तथा [९.१४८] ।

ब्राह्मणान् बाधमानं तु कामाद् अवरवर्णजम् ।
हन्याच् चित्रैर् वधोपयैर् उद्वेगजनकैर् नृपः ॥

कात्यायनः ।

प्रव्रज्यावसितं शूद्रं जपहोमपरं तथा ।
वधेन शसयेत् पापं दाप्यो वा द्विगुणं दमम् ॥

[८००] > अस्पृश्यधूर्तदासानां नराणां पापकारिणाम् ।

प्रातिलोम्यप्रसूतानां ताडनं नार्थतो दमः ॥
परतन्त्रास् तु ये केचिद् दासत्वं ये च संस्थिताः ।
अनाथास् ते तु निर्दिष्टास् तेषां दण्डस् तु तादनम् ॥
ताडनं बन्धनं चैव तथैव च विडम्बनम् ।
एष दण्डो हि दासस्य नार्थदण्डो बृहस्पतिः ॥

शङ्खलिखितौ- “शिल्पिनः कारवः शूद्रास् तेषां व्यभिचारेष्व् अपि शिल्पोपकरणानि रक्षेद् राजा । तुलमानप्रतिमानसमुत्थानि वणिक्पथानाम् । क्षेत्रबीजभक्तगोशकटकर्षणद्रव्याणि कर्षकाणाम् । वाद्यभाण्डालङ्कारवासांसि रङ्गोपजीविनाम् । गृहशयनालङ्कारवासांसि वेश्यानाम् । शस्त्राणि चायुधोपजीविनाम् । सर्वेषां करणद्रव्याणि नाहार्याणि राज्ञा धार्मिकेण । अस्वा हि पुरुषाः पापबहुलाश् चाविधेयाश् च भवन्ति । तेभ्यः पापांशभाग् राजा । तस्मान् नाधनान्नानुपकरणान् कुर्यात् । तन्मूला हि वृत्तिः । वृत्तिमूलो निवासः । तैर् निवसद्भिः स्फीतं राष्ट्रम् इत्य् उच्यते” ।

[८०१] बृहस्पतिः [व्य। ९.१९] ।

वधार्हः सुवर्णशतं दमं दप्यस् तु पूरुषः ।
अङ्गच्छेदार्हकस् त्व् अर्धं संदंशार्हस् तदर्धकम् ॥

कात्यायनः [९६४–६६] ।

सुवर्णशतम् एकं तु वधार्हो दण्डम् अर्हति ।
अङ्गच्छेदे तदर्धं तु विवासे पञ्चविंशतिम् ॥
कुलीनार्यविशिष्टेषु निकृष्टेष्व् अनुसारतः ।
सर्वस्वं वा निगृह्यैतान् पुराच्छीघ्रं प्रवासयेत् ॥
निर्धना बन्धने स्थाप्या वधं नैव प्रवर्तयेत् ।
सर्वेषां पापयुक्तानां विशेषार्थश् च शास्त्रतः ॥

तथा [९६७–६८, ७८१, ९६९] ।

वधाङ्गच्छेदार्हविप्रो निःसङ्गे बन्धने विशेत् ।
तदा कर्मवियुक्तो ऽसौ वृत्तस्थस्य दमो हि सः ॥

[८०२] > कूटसक्ष्य् अपि निर्वास्यो विख्याप्यो ऽसत्प्रतिग्रहि ।

अङ्गच्छेदी वियोज्यः स्यात् स्वधर्मे बन्धनेन तु ॥
कर्णौष्ठघ्राणपादाक्षिजिह्वाशिश्नकरस्य च ।
छेदने चोत्तमं दद्याद् भेदने मध्यमं भृगुः ॥
एतैः समापराधानां तत्राप्य् एवं प्रकल्पयेत् ।
बालवृद्धातुरस्त्रीणां न दण्डस् ताडनं दमः ॥

वधाङ्गच्छेदार्हः’ वर्णान्तराणां येनापराधेन वधो ऽङ्गच्छेदो वा दण्डः, तद् युक्तो विप्रः । “वृत्तस्थस्य’ इति विशेषणेन दुर्वृत्तस्य दण्डान्तरं सूचयति ।

मनुः [९.२२९–३०] ।

क्षत्रविट्शूद्रयोनिस् तु दण्डं दातुम् अशक्नुवन् ।
आनृण्यं कर्मणा गच्छेद् विप्रो दद्याच् छनैः शनैः ॥
स्त्रीबालोन्मत्तवृद्धानां दरिद्राणां च रोगिणाम् ।
शिफाविदलरज्ज्वाद्यैर् विदध्यान् नृपतिर् दमम् ॥

[८०३] कात्यायनः [९७०] ।

स्त्रीधनं दापयेद् दण्डं धार्मिकः पृथिवीपतिः ।
निर्धना प्राप्तदोषा स्त्री ताडनं दण्डम् अर्हति ॥

नारदः [२०.३५–३८] ।

ब्राह्मणस्य परीहारो राज्ञश् चासनम् अग्रतः ।
प्रथमं दर्शनं प्रातः सर्वेभ्यश् चाभिवादनम् ॥
अग्रं नवेभ्यः सस्येभ्यो मार्गदानं च गच्छतः ।
भैक्ष्यहेतोः परागारे प्रवेशश् चानिवारितः ॥
समित्पुष्पकुशाधानेष्व् अस्तेयं स्वपरिग्रहात् ।
अनाक्षेपः परेभ्यश् च संभाषस् तु परस्त्रिया ॥
नदीष्व् अवेतनस् तारः पूर्वम् उत्तारणं तथा ।
तरेष्व् अशुल्कदानं च न चेद् वाणिज्यम् अस्य तत् ॥

[८०४]

अथ ब्राह्मणस्य् परीहारः

तत्र शङ्खलिखितौ- “इन्धनोदकाग्निकाष्ठतृणोपलपुष्पमूलफलपर्णादानेष्व् अग्रापचयम्, दैवतीर्थाभिगमनम्, गृहकोष्ठप्रवेशनम्, पथि शस्त्रधारणम्, असंबद्धम् आसनम्, प्रस्तुतेष्व् अनिवारणम्, असद्वासश् चेति, शिलोञ्छपदयोर् धान्यराशिग्रहणम्, अग्रोत्सर्गप्रसववृद्धिकर्षापणशुल्कनदीतरेष्व् अनुपरोधनम्, परस्त्रीसंभाषणम्, राजस्त्रीदर्शनम्, राज्ञा समासनम्, व्यतिक्रमणं च कोपात् सर्वम् अर्हति ब्राह्मणः” ।

अथ नगरपरीहारः

तत्र शङ्खलिखितौ- “न वैष्टिकं जाङ्घिकं क्षेत्रद्रव्यापहरणं पुष्पमूलप्रचयनं स्वयमर्जितप्रवेशनं निष्क्रमणप्रवेशनेष्व् अनिवेदनं स्कन्धवाह्येषु शुल्को गणसमयश्रेणिपूगचरणव्यवहारनिष्ठा [८०५] स्वामिनः परिज्ञातारो ऽन्यत्र राजाभिद्रोहात् नगरनिवासिनां विप्रेतराणाम् अपि परिग्रहा अनपराधाः” ।

बृहस्पतिः [व्य। ९.२५] ।

साक्षिलेख्यानुमानेन सम्यग् दिव्येन वा जितः ।
यो न दद्याद् देयम् अर्थं स निर्वास्यस् ततः पुरात् ॥

[बृह्। प्राय। ८४]

विषोद्बन्धनशस्त्रेण यस् त्व् आत्मानं प्रमापयेत् ।
मृतो ऽमेध्येन लेप्तव्यो नान्यं संस्कारम् अर्हति ॥

अङ्गिराः ।

आत्मानं घातयेद् यस् तु रज्ज्वादिभिर् उपक्रमैः ।
मृते ऽमेध्येन लेप्तव्यो जीवेच् चेद् द्विगुणो दमः ॥

[८०६] याज्ञवल्क्यः [२.३०७] ।

राज्ञान्यायेन यो दण्डो गृहीतो वरुणाय तम् ।
निवेद्य दद्याद् विप्रेभ्यः स्वयं त्रिंशद्गुणीकृतम् ॥

कात्यायनः [९७१–७३] ।

अन्यायोपार्जितं न्यस्तं कोशे कोशं निवेशयेत् ।
कार्यार्थे कार्यनाशः स्याद् बुद्धिमान् नोपपातयेत् ॥
दत्वा धनं तद् विप्रेभ्यः सर्वं दण्डसमुत्थितम् ।
पुत्रे राज्यं समासज्य कुर्वीत प्रायणं वने ॥
एवं वरेत् सदा युक्तो राजधर्मेषु पार्थिवः ।
हितेष् चैव लोकस्य सर्वान् भृत्यान् नियोजयेत् ॥

अथ दण्डसंज्ञ

तत्र शङ्खलिखितौ- “चतुर्विंशतिर् एकनवतिः प्रथमसाहसः, द्विशतं पञ्चशतं चैव मध्यमसाहसः, षट्शतं सहस्रं चोत्तमः । यथासारापकारं सर्वेषाम् आनुपूर्वेण” ।

नारदः [२१.३०–३१] ।

चतुर्विंशावरः पूर्वः परः षण्णवतिर् भवेत् ।
शतानि पञ्च च तु परो मध्यमो द्विशतावरः ॥

[८०७]

सहस्रस् तूत्तमो ज्ञेयः स तु पञ्चशतावरः ।
त्रिविधः साहसेष्व् एवं दण्ड उक्तः स्वयंभुवा ॥

अत्र मनुः [८.१३८] ।

पणानां द्वे शते सार्धे पथमः साहसः स्मृतः ।
मध्यमः पञ्च विज्ञेयः सहस्रं त्व् एव चोत्तमः ॥

याज्ञवल्क्यः [१.३६६] ।

साशीतिपणसाहस्रो दण्ड उत्तमसाहसः ।
तदर्धं मध्यमः प्रोक्तस् तदर्धम् अधमः स्मृतः ॥

अथ मानसंज्ञा

तत्र मनुः [८.१३१–३७] ।

लोकसंव्यवहारार्थं याः संज्ञाः प्रथिता भुवि ।
ताम्ररौप्यसुवर्णानां ताः प्रवक्ष्याम्य् अशेषतः ॥
जालान्तरगते भानौ यत् सूक्ष्मं दृश्यते रजः ।
प्रथमं तत् प्रमाणानां त्रसरेणुं प्रचक्षते ॥
त्रसरेणवो ऽष्टौ विज्ञेया लिक्षैका च प्रमाणतः ।
ता राजसर्षपस् तिस्रस् ते तु द्वे गौरसर्षपः ॥

[८०८]

सर्षपाः षड् यवो मध्यः त्रियवं त्व् एककृष्णलम् ।
पञ्चकृष्णलको माषस् ते सुवर्णं तु षोदश ॥
पलं सुवर्णाश् चत्वारः पलानि धरणं दश ।
द्वे कृष्णले समधृते विज्ञेयो रौप्यमाषकः ॥
ते षोडश् स्याद् धरणं पुराणश् चैव राजतः ।
कार्षापणस् तु विज्ञेयस् तास् तिस्रः कार्षिकः पणः ॥
धरणानि दश ज्ञेयः शतमानं तु राजतः ।
चतुःसुवर्णिको निष्को विज्ञेयस् तु प्रमाणतः ॥

याज्ञवल्क्यः [१.३६४] ।

प्लं सुवर्णाश् चत्वारः पञ्च वापि प्रकीर्तितम् ।

माषाधिकारे विष्णुः [४.८–९]- “तद्द्वादशम् अक्षार्धम् । अक्षार्धम् एव चतुर्माषकं सुवर्णः” । बृहस्पतिः [व्य। ८.८, १०] ।

लोके संव्यवहारार्थं संज्ञेयं कथिता भुवि ।
ताम्रकर्षकृता मुद्रा विज्ञेयः कार्षिकः पणः ॥
स एव चन्द्रिका प्रोक्ता नाश् चतस्रस् तु धानकाः ।
ता द्वादश् सुवर्णस् तु दीनाराख्यः स एव हि ॥
[८०९] नारदः [२१.५८–६०] ।

माषो विंशतिभागस् तु ज्ञेयः कार्षापणस्य तु ।
काकिनी तु चतुर्भागो माषस्य च पणस्य च ॥
पञ्चनद्याः प्रदेशे तु संज्ञेयं व्यावहारिकी ।
कार्षापण्प्रमाणं तु तन्निबद्धम् इहैव वा ॥
कार्षापणो ऽब्धिका ज्ञेया तास् चतस्रस् तु धानकः ।
ते द्वादश सुवर्णस् तु दीनारश् चित्रकः स्मृतः ॥

तथा [२१.५७] ।

कार्षापणो दक्षिणस्यां दिशि रौप्यः प्रवर्तते ।
पणैर् निबद्धः पूर्वस्यां षोडशैव पणाः स तु ॥

कात्यायनः [४९१–९२] ।

माषः पादो द्विपादो वा दण्डो यत्र प्रकल्पितः ।
अनिर्दिष्टं तु सौवर्णं माषकं तत्र कल्पयेत् ॥
यत्रोक्तो माषको दण्डो राजानं तत्र निर्दिशेत् ।
कृष्णलैश् चोक्तम् एव स्याद् उक्तं दण्डविनिश्चये ॥

[८१०]

अथ नैगमादिसंज्ञा

तत्र कात्यायनः [६७८–८२] ।

नानापौरसमूहस् तु नैगमस् तु प्रकीर्तितः ।
नानायुधधरव्राताः समवेताः प्रकीर्तिताः ॥
समूहो वणिगादीनां पूगः संपरिकीर्तितः ।
ब्राह्मणानां समूहस् तु गण इत्य् उच्यते बुधैः ॥
प्रव्रज्यावसिता ये तु पाषण्डाः परिकीर्तिताः ।
शिल्पोपजीविनो ये तु शिल्पिनः परिकीर्तिताः ॥
आर्हतसौगतानां तु समूहः सङ्ग उच्यते ।
चाण्डालश्वपचादीनां समूहो गुल्म संज्ञितः ॥
गणपाषण्डपूगाश् व्राताश् च श्रेणयस् तथा ।
समूहस्थाश् च ये चान्ये वर्गाख्यास् ते बृहस्पतिः ॥
चातुर्वर्ण्यस्य या सूतिरसजात्यादिसंभवा ।
तस्या धर्माः समुद्दिष्टा जातिः सा परिकीर्तिता ॥

इति श्रीलक्ष्मीधरकृते कृत्यकल्पतरौ

व्यवहारकाण्डे प्रकीर्णकम्

[८११]