अथ निधिः
तत्र मनुः [८.३५–३६] ।
ममायम् इति यो ब्रूयान् निधिं सत्येन हेतुतः ।
तस्याददीत षड्भागं राजा द्वादशम् एव च ॥
अनृतं तु वदन् दाप्यः स्ववित्तस्यांशम् अष्टमम् ।
तस्यैव वा निधानस्य संख्ययाल्पीससीं कलाम् ॥
विष्णुः [३.६३–६४]- “स्वनिहिताद् राज्ञे ब्राह्मणवर्जं द्वादशम् अम्शं दद्युः । परनिहितं स्वनिहितम् इति वदन्तस् तत्समं दण्डम् आवहेयुः” ।
नारदः [१०.८] ।
स्वम् अप्य् अर्थं तथा नष्टं लब्ध्वा राज्ञे निवेदयेत् ।
गृह्णीयात् तु ततः शुद्धम् असुद्धं स्यात् त्व् अतो ऽन्यथा ॥
अथ परनिहितम्
तत्र वसिष्ठः [३.१४–१५]- “अप्रज्ञायमानं वित्तं यो ऽधिगच्छेत राजा तद् उद्धरेद् अधिग्रन्त्रे षष्ठम् अंशं प्रदाय । ब्राह्मणश् चेद् अधिगच्छेत् षट्कर्मसु वर्तमानो मा राजा हरेत्” ।
ऽअप्रज्ञायमानम्’ अज्ञायमानस्वामिकम् अस्वामिकं च ।
[७९२] नारदः [१०.६–७] ।
परेण निहितं लब्ध्वा राजन्य् उपहरेन् निधिम् ।
राजगामी निधिः सर्वः सर्वेषां ब्राह्मणाद् ऋते ॥
ब्राह्मणो ऽपि निधिं लब्ध्वा क्षिप्रं राज्ञे निवेदयेत् ।
तेन दत्तं तु भुञ्जीत स्तेनः स्याद् अनिवेदने ॥
याज्ञवल्क्यः [२.३४–३५] ।
राजा लब्ध्वा निधिं दद्याद् द्विजेभ्यो ऽर्धं द्विजः पुनः ।
विद्वान् अशेषम् आदद्यात् स सर्वस्य प्रभुर् यतः ॥
इतरेण निधौ लब्धे राजा षष्ठांशम् आहरेत् ।
अनिवेदितविज्ञातं दाप्यस् तं दण्डम् एव च ॥
विष्णुः [३.५६–६२]- “निधिं लब्ध्वा तदर्धं ब्राह्मणेभ्यो दद्यात् । दत्वा द्वितीयम् अर्धं कोशे प्रवेशयेत् । निधिं लब्ध्वा ब्राह्मणः स्वयम् आदद्यात् । क्षत्रियश् चतुर्थम् अंशं राज्ञे दद्यात्, शेषं चतुर्थम् अंशं ब्राह्मणेभ्यो दद्याद् अर्धम् आदद्यात् । वैश्यश् चतुर्थम् अंशं राज्ञे दद्याद् ब्राह्मणेभ्यो ऽर्धम् अंशं स्वयम् आदद्यात् [७९३]। शूद्रस् त्व् अवाप्तं द्वादशधा विभज्य पञ्चमं राज्ञे दद्यात् । ब्राह्मणेभ्यो ऽंशद्वयम् एव दद्यात् । अवशिष्टं सर्वं स्वयम् आदद्यात् । अनिवेदितविज्ञातस्य सर्वस्वम् अपहरेत्” ।
मनुः [८.३८–३९] ।
यं तु पश्येन् निधिं राजा पुराणं निहितं क्षितौ ।
तस्माद् द्विजेभ्यो दत्वार्धम् अर्धं कोशे निवेशयेत् ॥
निधीनां तु पुराणानां धातूनाम् आकरस्य च ।
रक्षणाद् धर्मभाग् राजा भूमेर् अधिपतिर् हिसः ॥
विष्णुः [३.५५]- “आकरेभ्यः सर्वम् आदद्यात्” ।
वसिष्ठः- “उद्वाहकारिणं त्व् आग्मयेत् कस्य केन सह विवाहो युज्यत इत् वर्णविभागप्रतिष्ठापनाय संप्रदायं रक्षेत् । आकरशुद्धिश् च तदनुरूपकरग्रहणाद्यर्थे जानीयात् । आकराध्पतयो हि प्रायेण मायाविनो भवन्ति” ।
[७९४]