७८ तरशुल्कः

अथ तरशुल्कः

तत्र वसिष्थः (१८.१७–२२)- “संयाने दशवाहवाहिनी द्विगुणकारिणी स्यात् । दशपुरुषवती प्रत्येकं प्रपाः स्युः । पुंसां चावरार्धवाहं वहेत् । अध्यर्धा स्त्रियः स्युस् तरो ऽष्टौ माषाः शरमध्याया अशरमध्यायाः पादः कार्षापणस्य । निरुदकस् तरो माष्यः” ।

संयाति समेत्यानेनेति “संयानः’ नदीपरः । तत्र वाहिनी नौः। वाहयन्तीति “वाहाः’ ॥ दश पुरुषाः यत्र सा तथा “दशपुरुषवती’ वाहकाद् अन्ये ऽपि दशपुरुषा यस्याम् आरूढाः । “प्रपाः स्युः’ एवं दशपुरुषाः प्रतिवाहकं प्रकर्षेण पालयितारः स्युः । पुंसाम् एव “अवरार्धं वाहं वहेत्’ सा नौः यावन्तं भारं वहति तदपेक्षया “अवरार्धम्’ अवरं न्यूनम् अर्धं यस्मिन् वाहे तं भारं पुरुषैः पूरयेत् । “अध्यर्धाः स्त्रियः स्युः’ पुरुषापेक्षया अध्यर्धाः स्त्रियः, तासाम् अतिभीरुत्वात् । “तरः’ शुल्कः “माषः,’ कार्षापणविंशतितमो भागः । “शरमध्यायाः’ यस्यां नद्यां धनुष्मता क्षिप्तशरो मध्ये पतति [७८९] तस्याः इत्य् अर्थः । “अशरमध्यायाः पादः’ न मध्यं यस्यां शरेण लक्ष्यते [यां शरो लङ्घयतीर्य् अर्थः] “पादः’ चतुर्थांशः “कार्षापणस्य’ । “निरुदकः’ अल्पोदकः । “माष्यः’ माषः शुल्को यत्र दीयते ।

मनुः [८.४०४–०७] ।

पणं याने तरं दद्यात् पौरुषे ऽर्धपणं तरम् ।
पादं पशुश् च योषिच् च पादार्धं रिक्तकः पुमान् ॥
भाण्डपूर्णानि यानानि तार्यं दाप्यानि सारतः ।
रिक्तभाण्डानि यत् किंचित् पुमांसश् चापरिच्छदाः ॥
दीर्घाध्वनि यथादेशं यथाकालं तरो भवेत् ।
नदीतीरेषु तद् विद्यात् समुद्रे नास्ति लक्षणम् ॥
गर्भिणी तु द्विमासादिस् तथा प्रव्रजितो मुनिः ।
ब्राह्मणा लिङ्गिनश् चैव नादाप्यास् तारिकं तरे ॥

[७९०] वसिष्ठः [१८.२३–२५]- “अकरः श्रोत्रियो राजा पुमान् अनाथः प्रव्रजितो बालवृद्धतरुणप्रजाताः प्राग्गामिकाः कुमार्यो मृतपत्यश् च । बाहुभ्यां तरन् शतगुणं दाप्यः” ।

पुमान् अनाथः’ स्वजनरहितो रोगार्तो वा । “तरुणप्रजाताः’ अचिरप्रसूताः । “प्राग्गामिकाः’ [सततगमनशीलाः] लेखहारकादयः । “मृतपत्यो’ विधवाः ।

विष्णुः [५.१३१]- “तरिकश् च स्थलशुल्कं गृह्णन् दशपणान् दण्ड्यः । ब्रह्मचारिवानप्रस्थभिक्षुगुर्विणीतीर्थानुसारिणां नाविकः शौल्किकः शुल्कम् आददानश् च । तच् च तेषां जह्यात्” ।

आददानश् च’ दण्ड्य इत्य् अनुषङ्गः ।

मनुः [८.४०८–०९] ।

यन् नावि किंचिद् दाशानां विशीर्येतापराधतः ।
तद् दाशैर् एव दातव्यं समागम्य स्वतो ऽंशतः ॥
एष नौयायिनाम् उक्तो व्यवहारविनिर्णयः ।
दाशापराधतस् तोये दैविके नास्ति निग्रहः ॥

[७९१]