अथ प्रकीर्णकम्
तत्र बृहस्पतिः [व्य। २९.१] ।
एष वादिकृतः प्रोक्तो व्यवहारः समासतः ।
नृपाश्रयं प्रवक्ष्यामि व्यवहारं प्रकीर्णकम् ॥
नारदः [२०.१–४] ।
प्रकीर्णकः पुनर् ज्ञेयो व्यवहारो नृपाश्रयः ।
राज्ञाम् आज्ञाप्रतीघातस् तत्कर्मकरणं तथा ॥
पुरप्रधानसंभेदः प्रकृतीनां तथैव च ।
पाषण्डिनैगमश्रेणिगणधर्मविपर्ययाः ॥
पितापुत्रविवादश् च प्रायश्चित्तव्यतिक्रमः ।
प्रतिग्रहविलोपश् च लोप आश्रमिणाम् अपि ॥
[७७४] > वर्णसंकरदोषश् च तद्वृत्तिर् अहितस् तथा ।
न दृष्टं यच् च पूर्वेषु सर्वं तत् स्यात् प्रकीर्णकम् ॥
कात्यायनः ।
पूर्वोक्ताद् उक्तशेषं स्याद् अधिकारच्युतं च यत् ।
आहृत्य परतन्त्रार्थनिबद्धम् असमञ्जसम् ॥
दृष्टान्तत्वेन शास्त्रान्ते पुनरुक्तक्रियास्थितम् ।
अनेन विधिना यत् तु वाक्यं तत् स्यात् प्रकीर्णकम् ॥
राजधर्मान् स्वधर्मांश् च संदिग्धानां विशेषणम् ।
प्रागुक्ताद् उक्तशेषं च सर्वं तत् स्यात् प्रकीर्णकम् ॥
बृहस्पतिः [व्य। २९.१२–१५] ।
षड्भागकरणं शुल्कं गर्ते देयं तथैव च ।
संग्रमचौरभेदी च परदाराभिमर्शनम् ॥
[७७५] > गोब्राह्मणजिघांसा च सस्यव्याघातकृत् तथा ।
एतान् दशापराधांस् तु नृपतिः स्वयम् अनिवेषेत् ॥
निष्कृतीनाम् अकरणम् आज्ञासेधव्यतिक्रमः ।
वर्णाश्रमविलोपश् च वर्णसंकरलोपनम् ॥
निधिर् निष्फलवित्तं च दरिद्रस्य धनागमः ।
एतांश् चारैः सुविदितान् स्वयं राजा निवारयेत् ॥
अनाम्नातानि कार्याणि क्रियावादाश् च वादिनाम् ।
प्रकृतीनां प्रकोपश् च संकेतश् च परस्परम् ॥
अशास्त्रविहितं यच् च प्रजायां संप्रवर्तते ।
उपायैः सामभेदाद्यैर् एतानि शमयेन् नृपः ॥
वर्णाश्रमव्यवस्थापनम्
याज्ञवल्क्यः [१.३६१] ।
कुलानि जातीः श्रेणीश् च गणान् जानपदान् अपि ।
स्वधर्माच् चलितान् राजा विनीय स्थापयेत् पथि ॥
नारदः [२०.५–६] ।
राजा त्व् अवहितः सर्वान् आश्रमान् परिपालयेत् ।
उपायैः शास्त्रविहितैः चतुर्भिः प्रकृतीस् तथा ॥
यो यो वर्णो ऽवहीयेत् यश् चोद्रेकम् अनुव्रजेत् ।
तं तं दृष्ट्वा स्वतो मार्गात् प्रच्युतं स्थापयेत् पथि ॥
[७७६] शङ्खलिखितौ ।
वर्णाश्रमाणां संस्थानम् आनुपूर्व्यानुपूर्वशः ।
तेषां हेतुर् अवस्थाने राजा सुप्रस्थितो यदि ॥
राजमूलम् इदं राष्ट्रं ब्रह्मक्षत्रपुरोगमम् ।
स्थिते राजनि तद्धर्मे दुराचारान् न कुर्वते ॥
मनुः [९.२७३; ८.४१०; ८.४१८] ।
यश् चापि धर्मसमयात् प्रच्युतो धर्मजीवनः ।
दण्डेनैव समाप्लोषेत् स्वकाद् धर्माद् धि विच्युतम् ।
वाणिज्यं कारयेद् वैश्यं कुसीदं कृषिम् एव च ।
पशूनां रक्षणं चैव शूद्रं दास्यं द्विजन्मनाम् ॥
वैश्यशूद्रौ प्रयत्नेन स्वानि कर्माणि कारयेत् ।
तौ हि च्युतौ स्वकर्मभ्यः क्षोभयेताम् इदं जगत् ॥
यमः ।
यत् किंचित् कुरुते राजा शुभं वा यदि वाशुभम् ।
भृत्यास् तद् अनुकुर्वन्ति नर्तक्यो नर्तनं यथा ॥
तस्मात् पौराणिकान् धर्मान् निपुणैर् मन्त्रिभिः सह ।
प्रशिष्याद् भूपतिः सम्यग् ब्रह्मक्षत्रविवृद्धये ॥
[७७७] गौतमः [८.१–३]- “द्वौ लोके धृतव्रतौ राजा ब्राह्मणश् च बहुश्रुतः । तयोश् चतुर्विधस्य मनुष्यजातस्यान्तःसंज्ञानां चलनपतनसर्पिणाम् आयत्तं जीवनम् । प्रसूतिरक्षणम् असंकरो धर्मः” ।
वसिष्ठः [१.४०–४२]- “त्रयो वर्णा ब्राह्मणस्य् निदेशे वर्तेरन् । ब्राह्मणो धर्मान् प्रब्रूयात् । राजा चानुशिष्यात्” ।
हारीतः- “निग्रहानुग्रहपालनेषु सर्वेषाम् उन्मर्यादिनां मर्यादाभेदिनां परदारपरद्रव्यापहारिणां राजा शास्ता भवत्य् एवेत्य् आह ।
गुरुर् आत्मवतां शास्ता शास्ता राजा दुरात्मनाम् ।
अन्तःप्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥
गुरुभिर् ये न शास्यन्ते राज्ञा वा गूढकिल्बिषाः ।
ते नरा यमदण्डेन शस्ता यान्त्य् अधमां गतिम् ॥
आपस्तम्बः [२.१०.१३–१६; २.११.१]- “शास्त्रैर् अधिगतानाम् इन्द्रियदौर्बल्याद् विपन्नानां शास्ता निर्वेशम् उपदिशेद् यथाकर्म यथोक्तम् । तस्य चेच् छास्त्रम् अतिवर्तेरन् राजानं गमयेत् । [७७८] राजा पुरोहितं धर्मार्थकुशलम् । स ब्राह्मणान् नियुञ्ज्यात् । बलविशेषेण परदास्यवर्जं नियमैर् उपशोधयेत् । इतरेषां वर्णानाम् आ प्राणवियोगात् समवेक्ष्य तेषां कर्माणि राजा दण्डं प्रणयेत्” ।
उशना ।
मोहात् प्रमादात् संहर्षात् प्रीत्या चोक्तं मयेति यः ।
नाहम् एवं पुनर् वक्ष्ये दण्डार्धं तस्य कल्पयेत् ॥
वाक्पारुष्यविषयम् एतत् ।
गौतमः [१२.४८–४९]- “पुरुषशक्त्यपराधानुबन्धविज्ञानाद् दण्डनियोगः । अनुज्ञानं वा वेदवित्समवायवचनात्” ।
वसिष्ठः [१९.६]- “दण्डस् तु देशकालकर्मवर्णवयोविद्यास्थानविशेषैर् हिंसाक्रोशयोः कल्प्यः, आगमाद् दृष्टान्ताच् च” ।
ऽराज्ञा’ इत्य् अनुवृत्तौ, शङ्खः- “दण्डो यथासारापकारं च वयोविद्यावर्णलक्षणगुणानुगः” ।
[७७९] दण्डसृष्ट्यनन्तरं मनुः [७.१६] ।
तं देशकालौ शक्तिं च विद्यां चावेक्ष्य तत्त्वतः ।
यथार्हतः संप्रणयेन् नरेष्व् अन्यायवर्तिषु ॥
याज्ञवल्क्यः [१.३६८] ।
ज्ञात्वापराधं देशं च कालं बलम् अथापि वा ।
वयः कर्म च वित्तं च दण्डं दण्ड्येषु पातयेत् ॥
विष्णुः [५.१९०] ।
आगःसु च यथान्येषु ज्ञात्वा जातिं धनं वयः ।
दण्डं प्रकल्पयेद् राजा संमन्त्र्य ब्राह्मणैः सह ॥
पुनर् विष्णुः [३.९१–९४]- “अपराधानुरूपं च दण्डं दण्ड्येषु पातयेत् । सम्यग्दण्डप्रणयनं कुर्यात् । द्वितीये ऽपराधे न स कस्यचित् क्षमेत । स्वधर्मम् अपालयन् नादण्ड्यो नामास्ति राज्ञः” ।
मनुः [८.३३५] ।
पिताचार्यः सुहृन् माता भार्या पुत्रः पुरोहितः ।
नादण्ड्यो नाम राज्ञो ऽस्ति यः स्वधर्मे न तिष्थति ॥
[७८०] याज्ञव्ल्क्यः ।
ऋत्विक्पुरोहितामात्यपुत्रसंबन्धिबान्धवाः ।
धर्माद् चिवलिता दण्ड्या निर्वास्या राजहिंसकाः ॥
शङ्खलिखितौ- “अदण्ड्यौ मातापितरौ स्नातकपुरोहितौ परिव्राजकवानप्रस्थौ जन्मकर्मश्रुतशीलशौचाचारवन्तश् च । एते हि दर्मप्रतिकरा राज्ञः । स्त्रीबालवृद्धास् तपस्विनस् तेभ्यः क्रोधं नियच्छेत्” ।
कात्यायनः ।
आचार्यस्य पितुर् मातुर् बान्धवानां तथैव च ।
एतेषाम् अपराधे तु दण्डो नैव विधीयते ॥
बृहस्पतिः [व्य। ९.१७, ११] ।
गुरून् पुरोहितान् पूज्यान् वाग्दण्डेनैव दण्डयेत् ।
विवादिनो नरांश् चान्यान् दोषिणो ऽर्थेन दण्डयेत् ॥
महापराधयुक्तांश् च वधदण्डेन शासयेत् ।
[७८१] कात्यायनः ।
मित्रादिषु प्रयुञ्जीत वाग्दण्डं धिक् तपस्विनि ।
यथोक्तं तस्य तत् कुर्याद् अनुक्तं साधुकल्पितम् ॥
बृहस्पतिः [व्य। २९.२; ९.१२–१३] ।
वाग्धिग्दण्डं वधं चैव चतुर्धा कल्पितं दमम् ।
पुरुषं दोषविभवं ज्ञात्वा संपरिकल्पयेत् ॥
स्वल्पे ऽपराधे वाग्दण्डं धिग्दण्डं पूर्वसाहसे ।
मध्ये तु रोधनं दण्डं राजद्रोहेषु बन्धनम् ॥
निर्वासनं विरोधे ऽपि कार्यम् आत्महितैषिणा ।
योज्याः समस्ताश् चैकस्य महापातककारिणः ॥
मनुः [८.१२३] ।
वाग्दण्डं प्रथमं कुर्याद् धिग्दण्डं तदनन्तरम् ।
तृतीयं धनदण्डं तु वधदण्डम् अतः परम् ॥
तथा [८.१३०] ।
वधेनापि यदा त्व् एनं निगृहीतुं न शक्नुयात् ।
तदैषु सर्वम् अप्य् एतत् प्रयुञ्जीत चतुष्तयम् ॥
“वधेनापि’ ताडनेनापीत्य् अर्थः ।
[७८२] बृहस्पतिः [१.९१; २९.६, ९] ।
वाग्दण्डश् चैव धिग्दण्डो विप्रायत्ताव् उभौ स्मृतौ ।
अर्थदण्डवधाव् उक्तौ राजायत्ताव् उभाव् अपि ॥
मनुः [८.३१०; ९.२८८; ८.१२४–२५] ।
अधार्मिकं त्रिभिर् न्यायैर् निगृह्णीत प्रयत्नतः ।
निरोधनेन बन्धेन विविधेन वधेन च ॥
बन्धनानि च सर्वाणि वमाङ्गे विनिवेशयेत् ।
दुःखिता यत्र दृश्येरन् विकृताः पापकारिणः ॥
दशस्थानानि दण्डस्य मनुः स्वायंभुवो ऽब्रवीत् ।
त्रिषु वर्णेषु यानि स्यू रक्षतो ब्राह्मणो व्रजेत् ॥
उपस्थम् उदरं जिह्वा हस्तौ पादौ च पञ्चमम् ।
चक्षुर् नासा च कर्णौ च धनं देहस् तथैव च ॥
बृहस्पतिः [व्य। २९.४–५] ।
हस्ताङ्घ्रिलिङ्गनयनं जिह्वा कर्णौ च नासिका ।
ग्रीवा पादार्धसंदंशललाटौष्ठगुदं कटिः ॥
स्थानान्य् एतानि दण्डस्य निर्दिष्टानि चतुर्दश ।
ललाटाङ्को ब्राह्मणस्य नान्यो दण्डो विधीयते ॥
यमः ।
सर्वेषाम् एव वर्णानाम् अन्योन्यस्यापराधिनाम् ।
शारीरं धनसंयुक्तं दण्डं धर्म्यं प्रकल्पयेत् ॥
[७८३] > जगत् सर्वम् इदं हन्याद् ब्राह्मणस्य न तत्समम् ।
तस्मात् तस्य वधं राजा मनसापि न चिन्तयेत् ॥
अवध्यान् ब्राह्मणान् आहुः सर्वपापेष्व् अवस्थितान् ।
यद् यद् विप्रेषु कुशलं न तद् राजा समाचरेत् ॥
हारीतः ।
न त्व् अङ्गभेदं विप्रस्य प्रवदन्ति मनीषिणः ।
तपसा चेज्यया चैव ब्राह्मणः पूयते सदा ॥
मनुः [८.३८०–८१] ।
न जातु ब्राह्मणं हन्यात् सर्वपापेष्व् अवस्थितम् ।
राष्ट्राद् एनं बहिः कुर्यात् समग्रधनम् अक्षतम् ॥
न ब्राह्मणवधाद् भूयान् अधर्मो भुवि विद्यते ।
तस्माद् अस्य वधं राजा मनसापि न चिन्तयेत् ॥
गौतमः [८.४–१२]- “स एव बहुश्रुतो भवति । लोकवेदवेदाङ्गवित् । वाकोवाक्येतिहासपुराणकुशलः । तदपेक्षस् तद्वृत्तिः । चत्वारिंशता संस्कारैः संस्कृतः । त्रिषु कर्मस्व् अभिरतः । षट्सु वा । सामयाचारिकेष्व् अभिविनीतः । षड्भिः परिहार्यो राज्ञा अवध्यश् चाबन्ध्यश् चादण्ड्यश् चाबहिष्कार्यश् चापरिवाद्यश् चापरिहार्यश् चेति” ।
“त्रिषु’ दानाध्ययनयागेषु । “षट्सु’ [अनु]प्रवचनयाजनप्रतिग्रहाध्ययनादिषु ।
[७८४] वसिष्ठः [१.४५–४६]- “ब्राह्मणो वेदम् आद्यं करोति । ब्राह्मण आपद् उद्धरति । तस्माद् ब्राह्मणो ऽनाद्यः सोमो राजा भवतीति ह प्रेत्य चाभ्युदयिकम् इतीह विज्ञायते” ।
शङ्खलिखितौ- “सर्वत्र त्रयाणां वर्णानां धनहारकारावधबन्धाः क्रियासु चोपरोधो महत्स्व् अपि पातकेषु विवासो ऽङ्ककरणं ब्राह्मणस्य प्रायश्चित्तानि वा शोधनम् । अपीड्यो हि ब्राह्मणः” ।
बृहस्पतिः [व्य। ९.१०] ।
महापातकयुक्तो ऽपि न विप्रो वधम् अर्हति ।
निर्वासनाङ्कने मौण्ड्यं तस्य कुर्यान् नराधिपः ॥
मनुः [९.२३५–४२] ।
ब्रह्महा च सुरापश् च तस्करो गुरुतल्पगः ।
एते सर्वे पृथग् ज्ञेया महापातकिनो नराः ॥
चतुर्णाम् अपि चैतेषां प्रायश्चित्तम् अकुर्वताम् ।
शारीरं धनसंयुक्तं धर्म्यं दण्डं प्रकल्पयेत् ॥
गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः ।
स्तेये तु श्वपदं कार्यं ब्रह्महण्य् अशिराः पुमान् ॥
असंभोज्या असंयाज्या असंपाठ्याविवाहिनः ।
चरेयुः पृथिवीं दीनाः सर्वधर्मबहिष्कृताः ॥
[७८५] > ज्ञातिसंबन्धिभिस् त्व् एते त्यक्तव्याः कृतलक्षणाः ।
निर्दया निर्नमस्कारास् तन् मनोर् अनुशासनम् ॥
प्रायश्चित्तं तु कुर्वाणाः पूर्वे वर्णा यथोदितम् ।
नाङ्क्या राज्ञा ललाटेषु दाप्यास् तूत्तमसाहसम् ॥
आगःसु ब्राह्मणस्यैष् कार्यो मध्यमसाहसः ।
विवास्यो वा भवेद् राष्ट्रात् सद्रव्यः सपरिच्छदः ॥
इतरे कृतवन्तस् तु पापान्य् एतानि धर्मतः ।
सर्वस्वहानिम् अर्हन्ति कामतस् तु प्रवासनम् ॥
“तस्करो’ अत्र सुव्र्णचोरः ।
बौधायनः [१.१८.१८]- “ब्राह्मणस्य भ्रूणहत्यागुरुतल्पगमनस्वर्णस्तेयसुरापानेषु कबन्धभगश्वपदध्वजांस् तप्तेनायसा ललाटे ऽङ्कयित्वा विषयान् निर्वासनम्” ।
नारदः [२१.४३–४५] ।
ब्राह्मणस्यापराधेषु चतुर्ष्व् अङ्को विधीयते ।
गुरुतल्पे सुरापाने स्तेये ब्राह्मणहिंसने ॥
[७८६] > गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः ।
स्तेये तु श्वपदं कृत्वा शिखिपित्तेन पूरयेत् ॥
अशिराः पुरुषः कार्यो ललाटे द्विजघातिनः ।
असंभाष्यस् तु कर्तव्यस् तन् मनोर् अनुशासनम् ॥
यमः ।
ब्राह्मणस्यापराधेषु चतुर्ष्व् एवं विधीयते ।
शिरसो मुण्डनं दण्डं पुरान् निर्वासनं तथा ॥
प्रख्यापनार्थं पापस्य प्रयाणं गर्दभेन तु ।
ललाटे वाङ्ककरणं कुर्याद् राजा यथाविधि ॥
आपस्तम्बः [२.२७.१८–२१]- “नियमातिक्रमिनम् अन्यं वा रहसि बन्धयेत् । आ समापत्तेः । असमापत्तौ नाश्यः । आचार्य ऋत्विक् स्नातको राजेति त्राणं स्युर् अन्यत्र वध्यात्” ।
“नियमातिक्रमिणम्’ विहितस्याकर्तारम् । “अन्यम्’ निषिद्धकारिणं ब्राह्मणम् । “रहसि’ रहस्यस्थाने “बन्धयेद्’ । “आ समाप्तेः’ यावन् न करिष्यामीति संप्रतिपत्तिं कुर्यात् । अन्यथा “नाश्यो’ निर्वास्यः । आचार्यादयो दण्ड्यानां “त्राणं स्युः’ त्रातारो भवेयुः, न कदाचिद् औदासीन्यं भजेयुः ।
यमः ।
स्तेनाः सुरापा ब्रह्मघ्ना गुरुदाराभिगामिनः ।
न सन्ति यस्य राष्ट्रेषु स राजा शक्रलोकभाक् ॥
[७८७] मनुः [९.२४३–४७] ।
नाददीत नृपः साधुर् महापातकिनो धनम् ।
आददानस् तु तल्लोभात् तेनाधर्मेण लिप्यते ॥
अप्सु प्रेवेश्य तद् दण्डं वरुणायोपपादयेत् ।
श्रुतिविद्योपसंपन्ने ब्राह्मणे प्रतिपादयेत् ॥
ईशो दण्डस्य वरुणो राज्ञो दण्डधरो हि सः ।
ईशः सर्वस्य जगतो ब्राह्मणो वेदपारगः ॥
यत्र वर्जयते राजा पापकृद्भ्यो धनागमम् ।
तत्र कालेन जायन्त मानवा दीर्घजीविनः ॥
निष्पद्यन्ते च सस्यानि यथोक्तानि विशांपते ।
बालाश् च न प्रमीयन्ते विकृतिं न च जायते ॥
यमः ।
पतितस्य धनं हृत्वा राजा पर्षदि दापयेत् ।
सर्वस्वं च हरेद् राजा चतुर्थं चावशेषयेत् ।
भृत्येभ्यो ऽन्नं स्मरन् धर्मं प्राजापत्यम् इति श्रुतिः ॥
[७८८]