७६ क्रियाभेदः

अथ क्रियाभेदः

तत्र बृहस्पतिः [व्य। १०.५६–५९] ।

विवादो ऽष्टादशोपेतः पूर्वोत्तरविशेषतः ।
व्याख्यातस् त्व् अधुना सम्यक् क्रियाभेदान् निबोधत ॥
पूर्वं कृता क्रिया या तु पालनीया तथैव सा ।
अन्यथा क्रियते यत्र क्रियाभेदस् तदा भवेत् ॥
विहाय करणं पूर्वं धनिको वाधमर्णिकः ।
कुर्यान् न्यूनाधिकं तुल्यं क्रियाभेदः स उच्यते ॥
द्विकेनार्थं समादाय प्रपन्नः पञ्चकं तु यः ।
लाभं तत्र प्रमाणं स्यात् पश्चिमं तद् धि निश्चितम् ॥

याज्ञवल्क्यः [२.२३] ।

सर्वेष्व् एव विवादेषु बलवत्य् उत्तरक्रिया ।
आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा ॥

[७७२] नारदः [४.९७] ।

क्रियार्णादिषु सर्वेषु बलवत्य् उत्तरोत्तरा ।
प्रतिग्रहाधिक्रीतेषु पूर्वा पूर्वा गरीयसी ॥

बृहस्पतिः [व्य। १०.६१–६४] ।

क्रिया बलवती पूर्वा विक्रयाधिप्रतिग्रहे ।
ऋणादिकेषु कार्येषु पश्चिमा तु गरीयसी ॥
उत्तरोत्तरबन्धेन प्राग्बन्धः शिथिलो भवेत् ।
यः पश्चिमः क्रियाकारः स पूर्वाद् बलवत्तरः ॥
न्यासं कृत्वा ततश् चार्थं गृहीत्वाधिं करोति यः ।
विक्रयं वा क्रिया तत्र पश्चिमा बलवत्तरा ॥
कृतं चेद् एकदिवसे विक्र्याधिप्रतिग्रहम् ।
त्रयाणाम् अपि संदेहे कथं तत्र विचारणा ॥
त्रीण्य् एव हि प्रमाणानि विभजेरन् यथांशतः ।
उभौ चार्थानुरूपेण विभागेन प्रतिग्रहः ॥

इति क्रियाभेदः

[७७३]