अथ द्यूतसमाह्वयम्
तत्र नारदः [१९.१] ।
अक्षवध्रशलाकाद्यैर् देवनं जिह्मकारितम् ।
पणक्रीडावयोभिश् च पदं द्यूतसमाह्वयम् ॥
मनुः [९.२२९] ।
अप्राणिभिर् यत् क्रियते तल् लोके द्यूतम् उच्यते ।
प्राणिभिः क्रियते यस् तु स विज्ञेयः समाह्वयः ॥
काकिन्यो वध्रिकाश् चैव शलाकाः सीसम् एव च ।
अक्षाः सबीजाः कुहका द्यूतोपकरणानि षट् ॥
बृहस्पतिः [व्य। २८.१] ।
अन्योन्यं परिगृहीताः पक्षिमेषमृगादयः ।
प्रहरन्ते कृतपणास् तं वदन्ति समाह्वयम् ॥
[७६२] मनुः [९.२२१–२२, २२४, २२७–२८] ।
द्यूतं समाह्वयं चैव राजा राष्ट्राद् विवासयेत् ।
राष्टान्तकरणाव् एतौ द्वौ दोषौ पृथिवीक्षिताम् ॥
प्रकाशम् एतत् तास्कर्यं यद् देवनसमाह्वयौ ।
तयोर् नित्यं प्रतीघाते नृपतिर् यत्नवान् भवेत् ॥
द्यूतं समाह्वयं चैव यः कुर्याद् यश् च कारयेत् ।
तान् सर्वान् घातयेद् राजा शूद्रांश् च द्विजलिङ्गिनः ॥
द्यूतम् एतत् पुराकल्पे दृष्टं वैरकरं महत् ।
तस्माद् द्यूतं न सेवेत हास्यार्थम् अपि बुद्धिमान् ॥
प्रच्छन्नं वा प्रकाशं वा तन् निषेवेत यो नरः ।
तस्य दण्डविकल्पः स्याद् यथेष्टं नृपतेस् तथा ॥
कात्यायनः ।
द्यूतं नैव तु सेवेत क्रोधलोभविवर्धनम् ।
असाधुजननं क्रूरं नराणां द्रव्यनाशनम् ॥
[७६३]
ध्रुवं द्यूतात् कलिर् यस्माद् विषं सर्पमुखाद् इव ।
तस्माद् राजा निवर्तेत विषये व्यसनं हि तत् ॥
वर्तेत चेत् प्रकाशंतु द्वारावस्थिततोर्णम् ।
संमोहार्थम् आर्याणां कारयेत् तत्करप्रदम् ॥
बृहस्पतिः [व्य। २७.१–२] ।
द्यूतं निषिद्धं मनुना सत्यशौचधानपम् ।
तत्प्रवर्तितम् अन्यैश् च राजभागसमन्वितम् ॥
सभिकाधिष्ठितं कार्यं तस्करज्ञापकं हि तत् ।
याज्ञवल्क्यः [२.२०३] ।
द्यूतम् एकमुखं कार्यं तस्करज्ञानकारणात् ।
एष एव विधिर् ज्ञेयः प्राणिद्यूतसमाह्वये ॥
बृहस्पतिः [व्य। २७.३] ।
सभिको ग्राहकस् तस्य दद्याज् जेत्रे नृपाय च ।
[७६४] कात्यायनः ।
सभिकः कारयेद् द्यूतं देयं दद्यात् स्वयं नृपे ।
दशकं तु शते वृद्धिं गृह्णीयाच् च पराजयात् ॥
जेतुर् दद्यात् स्वयं द्रव्यं जितं ग्राह्यं त्रिपक्षकम् ।
सद्यो वा सभिकेनैव कितवात् तु न संशयः ॥
नारदः [१९.२, ८] ।
सभिकः कारयेद् द्यूतं देयं दद्याच् च तत्त्वतः ।
दशकं तु शतं वृद्धिस् ततः स्याद् द्यूतकारिता ॥
अथ वा कितवो राज्ञे दत्वा भागं यथोदितम् ।
प्रकाशं देवनं कुर्याद् एवं दोषो न विद्यते ॥
याज्ञवल्क्यः [२.१९९–२००] ।
ग्लहे शतिकवृद्धेस् तु सभिकः पञ्चकं शतम् ।
गृह्णीयाद् धूर्तकितवाद् इतराद् दशकं शतम् ॥
[७६५] > स सम्यक् पालितो दद्याद् राज्ञे भागं यथाकृतम् ।
जितम् उद्ग्राहयेज् जेत्रे दद्यात् सत्यवचाः क्षमी ॥
नारदः [१९.३] ।
द्विर् अभ्यस्ताः पतन्त्य् अक्षा ग्लहे यस्याक्षदेविनः ।
जयं तस्यापरस्याहुः कितवस्य पराजयम् ॥
कात्यायनः [९३८] ।
एकरूपा द्विरूपा वा द्यूते यस्याक्षदेविनः ।
दृश्यते च जयस् तस्य यस्मिन्न् अक्षा व्यवस्थिताः ॥
[७६६] बृहस्पतिः [व्य। २८.२] ।
द्वन्द्वयुद्धे तु यः कश्चिद् अवसादम् अवाप्नुयात् ।
तत्स्वामिना पणो देयो यस् तत्र परिकल्पितः ॥
नारदः [१९.५] ।
अशुद्धः कितवो नान्यद् आश्रयेद् द्यूतमण्डलम् ।
प्रतिहन्यान् न कितवं दापयन्तं स्वम् इष्टतः ॥
याज्ञवल्क्यः [२.२०१] ।
प्राप्ते नृपतिभागे तु प्रसिद्धे द्यूतमण्डले ।
जितं स सभिके स्थानं दापयेद् अन्यथा न तु ॥
नारदः [१९.७] ।
अनिर्दिष्टस् तु यो राज्ञा द्यूतं कुर्वीत मानवः ।
न स तं प्राप्नुयात् कामं विनयं चैव सो ऽर्हति ॥
परिहासकृतं यच् च यच् चाप्य् अविदितं नृपे ।
तत्राप् नाप्नुयात् कामम् अथ वा नाशम् आप्तयोः ॥
भक्ष्यभोज्यान्नपानानि स्वल्पान्य् अन्यानि कानिचित् ।
प्रीत्या तु सकृद् आजीवेत् प्रसङ्गं तु विवर्जयेत् ॥
[७६७] कात्यायनः ।
प्रसह्य दापयेद् देयं तस्मिन् स्थाने न चान्यथा ।
जितं वै सभिकस् तत्र सभिकप्रत्ययात् क्रिया ॥
अनभिज्ञो जितो मोच्यो ऽभिज्ञो वापि जितो रहः ।
सर्वस्वे ऽपि जिते ऽभिज्ञे न सर्वस्वं प्रदापयेत् ॥
बृहस्पतिः [व्य। २७.६] ।
रहो जितो ऽनभिज्ञश् च कूटाक्षैः कपटेन वा ।
मोच्यो ऽभिज्ञो ऽपि सर्वस्वं जितं सर्वं न दाप्यते ॥
नारदः [१९.६] ।
कूटाक्षदेविनः पापान् निर्हरेद् द्यूतमण्डलात् ।
कण्ठे ऽक्षमालाम् आसज्य स ह्य् एषां विनयः स्मृतः ॥
बृहस्पतिः [व्य। २७.७] ।
कूटाक्षदेविनः क्षुद्रा राजभागहराश् च ये ।
गणनावञ्चकाश् चैव दण्ड्यास् ते कितवाः स्मृताः ॥
“गणनावञ्चकाः’ गणनायां वञ्चकाः ।
[७६८] तथा [व्य। २२.११] ।
ग्लहः प्रकाशः कर्तव्यो निर्वास्याः कूटादेविनः ।
“ग्लहः’ द्यूते पणः ।
याज्ञवल्क्यः [२.२०२] ।
राज्ञा सचिह्नं निर्वास्याः कूटाक्षोपधिदेविनः ।
विष्णुः [५.१३४–३५]- “द्यूते कूटाक्षदेविनां करच्छेदः । उपधिदेविनां संदंशच्छेदः” ।
“संदंशो’ अत्राङ्गुष्ठतर्जनीसंयोगः ।
नारदः [१९.४] ।
कितवेष्व् एव तिष्ठेतन् कितवाः संशयं प्रति ।
त एव तत्र द्रष्टारस् तत्र चैते तु साक्षिणः ॥
कात्यायनः ।
विग्रहे विजये लाभे करणे कूटदेविनाम् ।
प्रमाणं सभिकस् तत्र शुचिश् च सभिको यदि ॥
[७६९] > म्लेच्छश्वपाकधूर्तानां कितवानां तपस्विनाम् ।
तत्कृताचारभेत्तॄणां निश्चयो न तु राजनि ॥
बृहस्पतिः [व्य। २७.९–११] ।
उभयोर् अपि संदिग्धौ कितवास् तु परीक्षकाः ।
यदा विद्वेषिणस् ते तु तदा राजा विचारलेत् ॥
एवं वादिकृतान् वादान् अवेक्षेत् प्रत्यहं नृपः ।
नृपाश्रयास् तथा चान्ये विद्वद्भिर् ब्राह्मणैः सह ॥
मनुः [८.१७८–८०] ।
अनेन विधिना राजा मिथ्या विवदतां नृणाम् ।
साक्षिप्रत्ययसिद्धानि कार्याणि समतां नयेत् ॥
[७७०]
उदितो ऽयं विस्तरेण मिथो विवदमानयोः ।
अष्टादशसु मार्गेषु व्यवहारविनिर्णयः ॥
एवं कार्याणि सर्वाणि कुर्वन् सम्यङ् महीपतिः ।
देशान् अलब्धण् लिप्सेत लब्धांश् च परिपालयेत् ॥
इति श्रीभट्टलक्ष्मीधरविरचित् कृत्यकल्पतरौ
द्यूतसमाह्वयम्
[७७१]