७४ दायविभागः

अथ दायविभागः

तत्र नारदः [२६.२] ।

विभागो ऽर्थस्य पित्र्यस्य पुत्रैर् यत्र प्रकल्प्यते ।
दायभाग इति प्रोक्तं तद् विवादपदं बुधैः ॥

मनुः [९.१०४] ।

ऊर्ध्वं पितुश् च मातुश् च समेत्य भ्रातरः समम् ।
भजेरन् पैतृकं रिक्थम् अनीशास् ते हि जीवतोः ॥

देवलः ।

पितर्य् उपरते पुत्रा विभजेरन् पितुर् धनम् ।
अस्वाम्यं हि भवेद् एषां निर्दोषे पितरि स्थिते ॥

निर्दोषे’ पातित्यदिरहिते ।

[६४९] नारदः [१६.२] ।

पितर्य् ऊर्ध्वं गते पुत्रा विभजेयुर् धनं पितुः ।
मातुर् दुहितरो ऽभावे दुहितॄणां तदन्वयः ॥

शङ्खलिखितौ- “अत ऊर्ध्वं रिक्थभागः । न जीवति पितरि रिक्थं विभजेरन् । यद्य् अपि स्यात् पश्चाद् अधिगतं तैर् अनर्हा एव पुत्राः । अर्थधर्मयोर् अस्वातन्त्र्यात्” ।

यद्य् अपि पश्चाद् अधिगतम्’ पितृधनव्यापारनिरपेक्षैः पुत्रैः पश्चात् समर्थैर् विद्यादिभिर् उपात्तम् ।

मनुः [९.१०५–११०] ।

ज्येष्ठ एव तु गृह्णीयात् पित्र्यं धनम् अशेषतः ।
शेषास् तम् उपजीवेयुर् यथैव पितरं तथा ॥

[६५०]

ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः ।
पितॄणाम् अनृणश् चैव स तस्मात् सर्वम् अर्हति ॥
यस्मिन्न् ऋणं सन्नयति येन चानन्त्यम् अश्नुते ।
स एव धर्मजः पुत्रः कामजान् इतरान् विदुः ॥
पितेव पालयेत् पुत्रान् ज्येष्ठो भ्रातॄन् यवीयसः ।
पुत्रवच् चापि वर्तेरन् ज्येष्ठे भ्रातरि धर्मतः ॥
ज्येष्ठः कुलं वर्धयति विनाशयति वा पुनः ।
ज्येष्ठः पूज्यतमो लोके ज्येष्ठः सद्भिर् अगर्हितः ॥
यो ज्येष्ठो ज्येष्ठवृत्तिः स्यान् मातेव च पितेव च ।
अज्येष्ठवृत्तिर् यस् तु स्यात् स संपूज्यस् तु बन्धुवत् ॥

तथा [९.२१४] ।

न चादत्वा कनिष्ठेभ्यो ज्येष्ठः कुर्वीत यौतुकम् ।

यौतुकम्’ पृथग्भूतं द्रव्यम् गवादि ।

नारदः [१६.५] ।

बिभृयाद् वेच्छतः सर्वान् ज्येष्थो भ्राता यथा पिता ।
भ्राता शक्तः कनिष्ठो वा शक्त्यपेक्षा कुले स्थितिः ॥

[६५१] शङ्खलिखितौ- “कामं वसेयुर् एकतः संहता वृद्धिम् आचक्षीरन्” ।

मनुः [९.१११] ।

एवं सह वसेयुर् वा पृथग् वा धर्मकाम्यया ।
पृथग् विवर्धते धर्मस् तस्माद् धर्म्या पृथक्क्रिया ॥

बृहस्पतिः [व्य। २६.५] ।

एकपाकेन वसतां पितृदेवद्विजार्चनम् ।
एकं भवेद् विभक्तानां तद् एव स्याद् गृहे गृहे ॥

हारीतः- “जीवति पितरि पुत्राणाम् अर्थादानविसर्गाक्षेपेषु न स्वातन्त्र्यम्, कामदाने प्रोषिते चार्तिं गते वा ज्येष्ठ एवार्थांश् चिन्तयेत्” ।

शङ्खलिखितौ- “पितर्य् अशक्ते कुटुम्बव्यवहारं ज्येष्ठः कुर्याद् अनन्तरो वा कार्यज्ञस् तदनुमतेन । न त्व् अकामे पितरि ऋक्थविभागः । वृद्धे विपरीतचेतसि दीर्घरोगिणि वा ज्येष्ठ एव पितृवद् अर्थान् पालयेद् इतरेषाम् । ऋक्थमूलं हि कुटुम्बम् । अस्वतन्त्राः पितृमन्तः । मातर्य् अप्य् एवम् स्थितायाम्” ।

**[६५२] **”अनन्तरः’ अनुजः । “तदनुमतेन’ ज्येष्ठानुमतेन । “अस्वतन्त्राः’ पुत्रा इति सम्बन्धः ।

अथ जीवत्पितृकविभागः

तत्र मनु-विष्णू [मनु ९.२०९; वि। १८.४३] ।

पैतृकात् तु पितृद्रव्यम् अनवाप्यं यद् आप्नुयात् ।
न तत् पुत्रैर् भजेत् सार्धम् अकामः स्वयम् आर्जितम् ॥

अनवाप्यम्’ अशक्त्यादिना पित्रा यद् उपेक्षितं तद् अन्येनाप्तुम् अशक्यम् ।

याज्ञवल्क्यः [२.१२१] ।

भूर् या पितामहोपात्ता निबन्धो द्रव्यम् एव वा ।
तत्र स्यात् सदृशं स्वाम्यं पितुः पुत्रस्य चोभयोः ॥

निबन्धः’ आकरादौ राजादिदत्तं नियतं लभ्यम् ।

बृहस्पतिः [२६.१४, ५८, ५९] ।

द्रव्य पितामहोपात्ते स्थावरे जङ्गमे तथा ।
समम् अंशित्वम् आख्यातं पितुः पुत्रस्य चैव हि ॥
पैतामहं हृतं पित्रा स्वशक्त्या यद् उपार्जितम् ।
विद्याशौर्यादिनावाप्तं तत्र स्वाम्यं पितुः स्मृतम् ॥

[६५३] > प्रदानं स्वेच्छया कुर्याद् भागं चैव ततो धनात् ।

तदभावे तु तनयाः समांशाः परिकीर्तिताः ॥

ऽअथ पुत्रा विभजेरन्’ इत्य् अधिकाक्रे नारदः [१३.३] ।

मातुर् निवृत्ते रजसि प्रत्तासु भगिनीषु च ।
निवृत्ते चापि रमणे पितर्य् उपरतस्पृहे ॥

निवृत्ते रमणे’ रतिशक्तौ निवृत्तायाम् ।

बृहस्पतिः [२६.९] ।

पित्रोर् अभावे भ्रातॄणां विभागः संप्रदर्शितः ।
मातुर् निवृत्ते रजसि जीवतोर् अपि शस्यते ॥

शाङ्खलिखितौ- “जीवति वा पितरि रिक्थविभागो ऽनुमतः । प्रकाशं वा मिथो वा धर्मतः” ।

हारीतः- “जीवन्न् एव वा प्रविभज्य वनम् आश्रयेत् । वृद्धाश्रमं वा गच्छेत् । स्वल्पेन वा संविभज्य भूयिष्ठम् आदाय वसेत । स यद्य् उपदश्येत् पुनस् तेभ्यो गृह्णीयात् । क्षीणांश् च विभजेत्” ।

[६५४]उपदश्येत्’ उपक्षीयेत ।

विष्णुः [१७.१]- “पिता चेत् पुत्राण् विभजेत् तस्य स्वेच्छा स्वयम् उपात्ते ऽर्थे” ।

याज्ञवल्क्यः [२.११४–१५] ।

विभागं चेत् पिता कुर्यात् स्वेच्छया विभजेत् सुतान् ।
ज्येष्ठे वा श्रेष्ठभागेन सर्वे वा स्युः समांशिनः ॥
यदि कुर्यात् समान् अंशान् पत्न्यः कार्याः समांशिकाः ।
न दत्तं स्त्रीधनं यासां भर्त्रा वा श्वशुरेण वा ॥

नारदः [१६.१२] ।

द्वाव् अंशौ प्रतिपद्येत विभजन्न् आत्मनः पिता ।

पित्रधिकारे शङ्खलिखितौ- “स यद्य् एकपुत्रः स्याद् द्वौ भागाव् आत्मनः कुर्याद् द्विपदचतुष्पदेषु रूपम् अधिकम् । वृषभो ज्येष्ठाय । गृहं यवीयसे । अन्यत्र पितुर् अवस्थानात्” ।

बौधायनः [२.३.६–७]- “दशानां चैकम् उद्धरेज् ज्येष्ठः । समम् इतरे विभजेरन्” ।

दशानाम्’ गवाश्वादिरूपाणाम् ।

[६५५] आपस्तम्बः [२.१३.१२; २.१४.१]- “एकधनेन ज्येष्ठं तोषयित्वा । जीवन् पुत्रेभ्यो विभजेत् समं क्लीबम् उनमत्तं पतितं परिहाप्य” ।

एकधनेन’ एकेन धनेन गवादिना ।

मनुः [९.२१५] ।

भ्रातॄणाम् अविभक्तानां यद्य् उत्थानं भवेत् सह ।
न तत्र विषमं भागं पिता दद्यात् कथंचन ॥

नारदः [१६.१५] ।

पित्रैव तु विभक्ता ये समन्यूनाधिकैर् धनैः ।
तेषां स एव धर्मः स्यात् सर्वस्यैव पिता प्रभुः ॥

बृहस्पतिः [व्य। २६.१५] ।

समन्यूनाधिका भागाः पित्रा येषां प्रकल्पिताः ।
तथैव ते पालनीया विनेयास् ते स्युर् अन्यथा ॥

अथ प्रमीतपितृकविभागः

तत्रोद्धारः

तत्र मनुः [९.११२–१४] ।

ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच् च यद् वरम् ।
ततो ऽर्धं मध्यमस्य स्यात् तुरीयं तु यवीयसः ॥

[६५६] > ज्येष्ठश् चैव कनिष्ठश् च संहरेतां यथोदितम् ।

ये ऽन्ये ज्येष्ठकनिष्ठाभ्यां येषां स्यान् मध्यमं धनम् ॥
सर्वेषां धनजातानाम् आददीताग्र्यम् अग्रजः ।
यच् च सातिशयं किंचिद् दशतः प्राप्नुयाद् वरम् ॥

ज्येष्ठस्य विंश उद्धार’ इत्यादि — मध्यमाद् धनाद् विंशतितमो भागो ज्येष्ठस्योद्धृतो अधिको ग्राह्यः स्यात् । अर्धतुरीयभागौ च विंशतितमभागापेक्षयैव । तेन मध्यमाद् धनात् चत्वारिंशत्तमो भागो मध्यमस्योद्धृतो ऽधिको ग्राह्यः । कनिष्ठस्याशीतितम इत्य् उक्तं भवति । गुणवज्ज्येष्ठादिविषयश् चायम् उद्धारः ।

गौतमः [२८.५–८]- “विंशतिभागो ज्येष्ठस्य मिथुनम् उभयतोदद्युक्तो रथो गोवृषः । काणखोरकूटवण्डा मध्यमस्यानेकाश् चेत् । अविर् धान्यायसी गृहम् अनो युक्तं चतुष्पदां चैकैकं यवीयसः । समधेतरत् सर्वम्” ।

कूटः’ शृङ्गविकलः । “वण्डो’ बालाविर् अहितः । “अनः’ शकटम् ।

[६५७] हारीतः- “विभजिष्यमाणे गवां समूहे वृषभम् एकधनं वरिष्ठधनं वा ज्येष्ठाय दद्युः । देवतागृहं च । इतरे निष्क्रम्य कुर्युः । एकस्मिन्न् एव वा दक्षिणं ज्येष्ठायानुपूर्व्यम् इतरेषाम्” ।

एकधनम्’ उत्कृष्टधनम् । “देवताः’ पूज्यविष्ण्वादिप्रतिमाः । “गृहम्’ पैतृकम् । “निष्क्रम्य कुर्युः’ इति, आत्मवासार्थं गृहान्तराणीति शेषः । “एकस्मिन्न् एव’ इत्यादेर् अयम् अर्थः — यदा निष्क्रम्य गृहान्तरकरणासंभवस् तदा “दक्षिणम्’ प्रधानं श्रेष्ठं “ज्येष्ठाय’ ज्येष्ठार्थं भवेद् इत्य् अर्थः ।

आपस्तम्बः [२.१४.७–८]- “देशविशेषे सुवर्णं कृष्णा गावः कृष्णं भौमं ज्येष्ठस्य । रथः पितुः परिभाण्डं च” ।

भौमम्’ भूमौ जातं तिलमाषादि । “परिभाण्डम्’ भोजनपात्रादि ।

बौधायनः [२.२.९]- “असति पितरि चतुर्णां वर्णानां गो’श्वाजावयो ज्येष्ठांशः” ।

देवलः ।

पुत्राणां मध्यमो दायः समानानाम् अपीष्यते ।
ज्येष्ठस्य दशमं भागं न्यायवृत्तस्य निर्दिशेत् ॥

मध्यमो दायः’ मध्यमं धनं विंशतितमो भागः ।

[६५८]

अनेकमातृकभ्रातृविभागः

अथ मनुः [९.१२२–२४] ।

पुत्रः कनिष्ठो ज्येष्ठायां कनिष्ठायां च पूर्वजः ।
कथं तत्र विभागः स्याद् इति चेत् संशयो भवेत् ॥
एकं वृषभम् उद्धारं संहरेत स पूर्वजः ।
ततो ऽपरे ऽज्येष्ठवृषास् तदूनानां स्वमातृतः ॥
ज्येष्ठस् तु जातो ज्येष्ठायां हरेद् वृषभषोडशाः ।
ततः स्वमातृतः शेषा भजेरन्न् इति धारणा ॥

सः’ पूर्वस्यां जातः । “पूर्वजो’ ज्यैष्ठिनेयः कनीयान् उच्यते । “ततो ऽपरे’ इति, ततः श्रेष्ठवृषाद्ये ऽपरे ऽश्रेष्ठवृषास् ते स्वमातृत ऊनानां वयसा ज्येष्ठानां भवन्तीत्य् अर्थः । “वृषभषोडशाः’ वृषभाः षोडश यासां तास् तथा । “शेषा’ गावः ।

[६५९] गौतमः [२८.१४–१६]- “ऋषभो ऽधिको ज्येष्ठस्य । र्षभषोडशा ज्यैष्ठिनेयस्य । समधा वाज्येष्ठिनेयेन यवीयसाम्” ।

समधा’ समप्रकारेण ।

शङ्खलिखितौ- “ऋषभो ऽधिको ज्येष्ठाय । गृहं यवीयसे । अन्यत्र पितुर् अवस्थानात्” ।

बृहस्पतिः [२६.२४–२५] ।

यद्य् एकजाता बहवः समाना जातिसंख्यया ।
सापत्न्यास् तैर् विभक्तव्यं मातृभागेन धर्मतः ॥
सवर्णा भिन्नसंख्या ये पुंभागस् तेषु शस्यते ।

मनुः [९.११५] ।

उद्धारो न दशस्व् अस्ति संपन्नानां स्वकर्मसु ।
यत् किंचिद् एव देयं स्याज् ज्यायसे मानवर्धनम् ॥

दशसु’ गवादिषु इति शेषः ।

[६६०] तथा [९.१२५–२६] ।

सदृशस्त्रीषु जातानां पुत्राणाम् अविशेषतः ।
न मातृतो ज्यैष्ठ्यम् अस्ति जन्मतो ज्यैष्ठ्यम् उच्यते ॥
जन्मज्येष्ठेन चाह्वानं सुब्रह्मण्यास्व् अप् स्मृतम् ।
यमयोश् चैव गर्भेषु जन्मतो ज्येष्ठता स्मृता ॥

सुब्रह्मण्या’ नाम मन्त्रविशेषो ज्योतिष्टोमे छन्दोगैर् गीयते ऽइन्द्र आगच्छ’ इत्यादि ।

देवलः ।

बहिर्वर्णेषु चारित्याद् यमयोः पूर्वजन्मतः ।
यस्य जातस्य यमयोः पश्यन्ति प्रथमं मुखम् ॥
सन्तानः पितरश् चैव तस्मिन् ज्यैष्ठ्यं प्रतिष्ठितम् ।

मनुः [९.२१३] ।

यो ज्येष्ठो विनिकुर्वीत लोभाद् भ्रातॄन् यवीयसः ।
सो ऽज्येष्ठः स्याद् अभागी च नियन्तव्यश् च राजभिः ॥

विनिकुर्वीत’ वञ्चयेत् ।

मनुः [९.११६–१७] ।

एवं समुद्धृतोद्धारे समान् अंशान् प्रकल्पयेत् ।
उद्धारे ऽनुद्धृते त्व् एषाम् इयं स्याद् अंशकल्पना ॥

[६६१] > एकाधिकं हरेज् ज्येष्ठः पुत्रो ऽध्यर्धं ततो ऽनुजः ।

अंशम् अंशं यवीयांस इति धर्मो व्यवस्थितः ॥

गौतमः [२८.९–१३]- “द्व्यंशं वा पूर्वजस्य स्यात् । एकैकम् इतरेषाम् । एकैकं वा धनरूपं काम्यं पूर्वः पूर्वो लभेत । दशतः पशूनाम् । नैकशफद्विपदानाम्” ।

दशतः’ पशूनाम् इति । दशपशून् लभत इत्य् अर्थः ।

वसिष्ठः [१७.४०, ४२–४५]- “अथ भ्रातॄणां दाय[वि]भागः । द्व्यंशं हरेज् ज्येष्ठः । गवाश्वस्य चानुदशमम् । अजावयो गृहं च कनिष्ठस्य । कार्ष्णायसं गृहोपकरणानि च मध्यमस्य” ।

गवाश्वस्य चानुदशमम्’ इति — गवाश्वानां दशानाम् एकैकम् उद्धृत्य ज्येष्ठो गृह्णीयात् इत्य् अर्थः ।

नारदः [१६.१३–१४] ।

ज्येष्ठांशो ऽधिको देयः कनिष्ठावावरः स्मृतः ।
समांशभागाः शेषाः स्युर् अप्रत्ता भगिनी तथा ॥
क्षेत्रजेषु च पुत्रेषु तद्वज् जातेषु धर्मतः ॥

क्षेत्रजेषु धर्मतो जातेषु’ । “तद्वत्’ औरसवद् भागकल्पना कर्तव्येत्य् अर्थः ।

नारदः [१३.३] ।

मातुर् निवृत्ते रजसि प्रत्तासु भगिनीषु च ।
निवृत्ते चापि रमणे पितर्य् उपरतस्पृहे ॥

[६६२] बृहस्पतिः [व्य। २६.२१] ।

जन्मविद्यागुणज्येष्ठो द्व्यंशं दायम् अवाप्नुयात् ।
समांशभागिनस् त्व् अन्ये तेषां पितृसमस् तु सः ॥

उशना ।

वर्णानाम् अनुलोमानां विभागो ऽयं प्रकीर्तितः ।
समत्वेनैकजातानां विभागस् तु विधीयते ॥

याज्ञवल्क्यः [२.११७] ।

विभजेरन् सुताः पित्रोर् ऊर्ध्वम् ऋक्थम् ऋणं समम् ।

तथा [२.१२०] ।

सामान्यार्थसमुत्थाने विभागस् तु समः कृतः ।
अनेकपितृकाणां तु पितृतो भागकल्पना ॥

सामान्यार्थसमुत्थाने’ इति । यदा सामान्यस्यार्थस्य कृष्यादिना सम्यग् उत्थाने वर्धनं भवति, तदा समो विभागः । न तत्र बहुतरम् अनेनोपात्तम् इत्य् अपेक्षा कर्तव्य इत्य् अर्थः । “अनेकपितृकाणाम्’ इति । अनेकभ्राफ़ृणां ये पुत्राः तेषां समविषमसंख्याकानाम् अपि पैतामहे धने विभज्यमाने तत्पितॄणां यो ह्य् अंशः स एव तेषाम्, न पुनः प्रत्येकम् अंशकल्पनेत्य् अर्थः ।

बृहस्पतिः [२६.१८] ।

समवेतैस् तु यत् प्राप्तं सर्वे तत्र समांशिनः ।
तत् पुत्राः विषमसमाः पितृभागहराः स्मृताः ॥

[६६३] कात्यायनः [८५५–५६] ।

अविभक्ते निजे प्रेते तत्सुतं रिक्थभागिनम् ।
कुर्वीत जीवनं येन लब्धं नैव पितामहात् ॥
लभेतांशं स पित्र्यं तु पितृव्यात् तस्य वा सुतात् ।
स एवांशस् तु सर्वेषां भ्रातॄणां न्यायतो भवेत् ॥
लभेत तत्सुतो वापि निवृत्तिः परतो भवेत् ॥

देवलः ।

अविभक्तविभक्तानां कुल्यानां वसतां सह ।
भूयो दायविभागः स्याद् आ चतुर्थाद् इति स्थितिः ॥
तावत् कुल्याः सपिण्डाः स्युः पिण्डभेदस् त्व् अनन्तरम् ।
समम् इच्छन्ति पिण्डानां दायार्थस्य् विभाजनम् ॥
विधिर् एष सवर्णानां बहूनां समुदाहृतः ।
एक एव सवर्णः स्याद् दायो ऽत्र न विभज्यते ॥

ऽअविभक्तविभक्तानाम्’ अविभक्तानां विभक्तानां च ।

वसिष्ठः [१७.४०–४१]- “अथ भ्रातॄणां दायविभागः । याश् चानपत्याः स्त्रियस् तासां चापुत्रलाभात्” ।

स्त्रियो’ अत्र भ्रातृभार्याः । “आ पुत्रलाभाद्’ इति — ताश् च यदि संभावितपुत्रलाभास् तदा तासाम् अपि भागो देयः । यदि तु पुत्रो नोत्पद्यते तदासौ भागो भ्रातॄणाम् । तासां तु भरणमात्रम् ।

[६६४] याज्ञवल्क्यः [२.१२३] ।

पितुर् ऊर्ध्वं विभजतां माताप्य् अंशं समं हरेत् ।

पितेत्य् अनुवृत्तौ बृहस्पतिः [२६] ।

तदभावे तु जननी तनयानां समांशिनी ।

तथा ।

समांशा मातरस् तेषां तुरीयांशा च कन्यका ।

तुरीयांशः’ सजातीयस्य भ्रातुर् यावान् अंशस् तदपेक्षया चतुर्थो भागः संस्कारार्थं पितृधने कल्पनीयः । यत् तु विष्णुवचनम् [१८.३४–३५]- “मातरः पुत्रभागानुसारेण भागहारिण्यो अनूढाश् च दुहितरः” इति, तद् अप्य् एतद्वचनानुसारात् दुहितॄणां चतुर्थभागपरम् ।

व्यासः ।

असुतास् तु पितुः पत्न्यः समानांशा प्रकीर्तिताः ।
पितामह्यश् च ताः सर्वा मातृतुल्या प्रकीर्तिताः ॥

अथ बृहस्पतिः [२६.१९] ।

पितृऋक्थहराः पुत्राः सर्व एव यथांशतः ।
विद्याकर्मयुतस् तेषाम् अधिकं लब्धुम् अर्हति ॥
विद्याविज्ञानशौर्यार्थज्ञानदानक्रियासु च ।
यस्येह प्रथिता कीर्तिः पितरस् तेन पुत्रिणः ॥

[६६५] नारदः [१६.३५] ।

कुटुम्बार्थेषु यो युक्तस् तत् कर्यं कुरुते तु यः ।
स भ्रातृभिर् बृहणीयो ग्रासाच्छादनवाहनैः ॥

मनुः [९.२०७] ।

भ्रातॄणां यस् तु नेहेत धनं शक्तः स्वकर्मणा ।
स निर्भाज्यः स्वकाड् अंशात् किंचिद् दत्वोपजीवनम् ॥

आपस्तम्बः [२.१४.१४–१५]- “सर्वे हि धर्मयुक्ता भागिनः । यस् त्व् अधर्मेण द्रव्याणि प्रतिपादयति ज्येष्ठो ऽपि तम् अभागं कुर्वीत” ।

**अथ विभागानर्हाः **

तत्र गौतमः [२८.४१]- “सवर्णापुत्रो ऽप्य् अन्यायवृत्तो न लभेतैकेषाम्” ।

[६६६] मनुः [९.२१४] ।

सर्व एव विकर्मस्था नार्हन्ति भ्रातरो धनम् ।

शङ्खलिखितौ- “अपपात्रितस्य रिक्थपिण्डोदकानि नार्हन्ति भ्रातरो धनम्” ।

बृहस्पतिः [२६.३४–३७] ।

सवर्णाजो ऽप्य् अगुणवान् नार्हः स्यात् पैतृके धने ।
तत्पिण्डदाः श्रोत्रिया ये तेषां तद् अभिधीयते ॥
उत्तमर्णाधमर्णेभ्यः पितरं त्रायते सुतः ।
अतस् तद्विपरीतेन नास्ति तेन प्रयोजनम् ॥
तया गवा किं क्रियते या न धेनुर् न गर्भिणी ।
को ऽर्थस् तेन तु पुत्रेण यो न विद्वान् न धार्मिकः ॥
शास्त्रशौर्यार्थरहितस् तपोज्ञानविवर्जितः ।
आचारहीनः पुत्रस् तु मूत्रोच्चारसमस् तु सः ॥

मनुः [९.२०१–०३] ।

अनंशौ क्लीबपतितौ जात्यन्धबधिरौ तथा ।
उन्मत्तजडमूकास् तु ये च केचिन् निरिन्द्रियाः ॥
सर्वेषाम् अपि तन् न्याय्यं दातुं शक्त्या मनीषिणा ।
ग्रासाच्छादनम् अत्यन्तं पतितो ह्य् अददद् भवेत् ॥

[६६७] > यद्य् अर्थिता तु दारैः स्यात् क्लीबादीनां कथंचन ।

तेषाम् उत्पन्नतन्तूनाम् अपत्यं दायम् अर्हति ॥

निरिन्द्रियाः’ पङ्ग्वादयः । “क्लीबादीनाम्’ इत्य् अतद्गुणसंविज्ञानो बहुव्रीहिः ।

याज्ञवल्क्यः [२.१४०–४२] ।

पतितस् तत्सुतः क्लीबः पङ्गुर् उन्मत्तको जडः ।
अन्धो ऽचिकित्स्यरोगाद्या भर्तव्यास् तु निरंशकाः ॥
औरसाः क्षेत्रजास् तेषां निर्दोषा भागहारिणः ।
सुताश् चैषां प्रभर्तव्या यावद् वै भर्तृसात्कृताः ॥

[६६८] > अपुत्रा योषितश् चैव भर्तव्याः साधुवृत्तयः ।

निर्वास्या व्यभिचारिण्यः प्रतिकूलास् तथैव च ॥

नारदः [१६.२१] ।

पितृद्विट् पततः षण्डो यश् च स्याद् अपपात्रितः ।
औरसा अपि नैते ऽंशं लभेरन् क्षेत्रजाः कुतः ॥

अपपात्रितः’ राजवधादिना दोषेण बान्धवैर् यस्य घटापवर्जनं कृतम् ।

देवलः ।

मृते न पितरि क्लीबकुष्ठ्युन्मत्तजडान्धकाः ।
पतितः पतितापत्यं लिङ्गी दायांशभागिनः ॥
तेषां पतितवर्जेभ्यो भक्तवस्त्रं प्रदीयते ।
तत्पुत्राः पितृदायांशं लभेरन् दोषवर्जिताः ॥

मृते न पितरि’ इति । मृते पितरि क्लीबादयो नांशभागिन इति संबन्धः ।

विष्णुः [१५.३२–३९]- “पतितक्लीबाचिक्त्स्यरोगविकलास् त्व् अभागहारिणः । रिक्थग्राहिभिस् ते भर्तव्याः । तेषां चौरसाः पुत्रा भागहारिणः । न तु पतितस्य । पतनीये कृते [६६९] कर्मण्य् अनन्तरोत्पन्नाः । प्रतिलोमास् तु स्त्रीषु चोत्पन्नाश् चाभागिनः । तत्पुत्राः पैतामहे ऽप्य् अर्थे । अंशग्राहिभिस् ते भरणीयाः” ।

गौतमः [२८.४४–४६]- “जडक्लीबौ भर्तव्यौ । अपत्यं जडस्य भागार्हम् । शूद्रापुत्रवत् प्रतिलोमासु” ।

शूद्रापुत्रवत् प्रतिलोमासु’ इति, शूद्रापुत्रो ऽप्य् अनपत्यशुश्रूषुश् चेल् लभेत वृत्तिम् अन्तेवासिविधिना तत्पुत्रोक्तप्रकारेण । यथा शूद्रापुत्रो जीवनमात्रं लभत एवं प्रतिलोमासुतो ऽपीति ।

कात्यायनः [८६२–६५] ।

अक्रमोढासुतश् चैव सगोत्राद्यश् च जायते ।
प्रव्रज्यावसितश् चैव न रिक्थं तेषु कर्हिचित् ॥
अक्रमोढासुतस् त्व् ऋक्थी सवर्णश् च यदा पितुः ।
असवर्णप्रसूतश् च क्रमोढायां तु यद् भवेत् ॥
प्रतिलोमप्रसूता या तस्याः पुत्रो न रिक्थभाक् ।
ग्रासाच्छादनम् अत्यन्तं देयं तद्बन्धुभिः स्मृतम् ॥
बन्धूनाम् अप्य् अलाभे तु पित्र्यं द्रव्यं तद् आप्नुयात् ।
अपित्र्यं तद् धनं प्राप्तं दापनीया न बान्धवैः ॥

क्रमोडासुतो’ अत्र अक्रमोढायाम् असवर्णायां जातः सो ऽरिक्थी । एवं क्रमोढायां सवर्णेन जातः ऋक्थभाग् इति । “सगोत्राद्यश् च जायते’ इति — [६७०] सगोत्रायां विवाहितायां सगोत्राद्यो जायते ऽसौ [न] ऋक्थभाग् इत्य् अर्थः । “दापनीया न बान्धवैः’ ग्रासाच्छादनम् अपि न दापयितव्या इत्य् अन्वयः ।

अथासंकृतस्ंस्करणम्

तत्र नारदः [१६.३३–३४] ।

येषां च न कृताः पित्रा संस्कारविधयः क्रमात् ।
कर्तव्या भ्रातृभिस् तेषां पैतृकाद् एव तद्धनात् ॥
अविद्यमाने पित्र्ये ऽर्थे स्वांशाद् उद्धृत्य वा पुनः ।
अवश्यकार्याः संस्कारा भ्रातॄणां पूर्वसंस्कृतैः ॥

देवलः ।

कन्याभ्यश् च पितृद्रव्यं देयं वैवाहिकं वसु ।
अपुत्रकस्य कन्या स्वा धर्मजा पुत्रवद् धरेत् ॥

[६७१] याज्ञवल्क्यः [२.१२४] ।

असंस्कृता तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः ।
भगिन्यश् च निजाद् अंशाद् अंशं कृत्वा तुरीयकम् ॥

विष्णुः [१५.३१]- “अनूढायाः कन्यायाः स्ववित्तानुसारेण संस्कारं कुर्यात्” ।

मनुः [९.११८] ।

स्वेभ्यः स्वेभ्यस् तु कन्याभ्यः प्रदद्युर् भ्रातरः पृथक् ।
स्वात् स्वाद् अंशाच् चतुर्भागं पतिताः स्युर् अदित्सवः ॥

कात्यायनः [८५८] ।

कन्यकानां त्व् अदत्तानां चतुर्थो भाग इष्यते ।
पुत्राणां च त्रयो भागाः स्वाम्यं स्वल्पे धने स्मृतम् ॥

शङ्खलिखितौ- “विभज्यमाने दायार्थे कन्यालंकारं वैवाहिकं स्त्रीधनं कन्या लभेत्” ।

बौधायनः [२.३.४४]- “मातुर् अलंकारं दुहितरः सांप्रदायिकं लभेरन्न् अन्यद् वा” ।

[६७२] ऽन दायम् अर्हति स्त्री’ इत्य् अनुवृत्तौ पुनर् बौधायनः- “निरिन्द्रिया अदायाश् च स्त्रियो मता इति श्रुतिः” ।

अथ विभाज्यम्

तत्र कात्यायनः [८४०, ८५०] ।

पैतामहं च पित्र्यं च यच् चान्यत् स्वयम् अर्जितम् ।
दायादानां विभागे तु सर्वम् एतद् विभज्यते ॥
ऋक्थं प्रीतिप्रदत्तं तु दत्वा शेषं विभावयेत् ।
आ चतुर्थात् तु तद् ग्राह्यं क्रमेणैव हि तत्सुतैः ॥

आ चतुर्था’ पुरुषात् ।

नारदः [१६.३२] ।

यच् छिष्टं पितृदायेभ्यो दत्वर्णं पैतृकं च यत् ।
भ्रातृभिस् तद् विभक्तव्यम् ऋणी स्याद् अन्यथा पिता ॥

कात्यायनः [८४६–४९, ८४१–४२] ।

भ्रात्रा पितृव्यमातृभ्यां कुटुम्बार्थम् ऋणं कृतम् ।
विभागकाले दातव्यम् ऋणिभिः सर्वम् एव तु ॥

[६७३] > तद् ऋणं धनेने देयं नान्यथैव प्रदापयेत् ।

भावितं चेत् प्रमाणेन विरोधात् परतो यदा ॥
पित्र्यं पित्र्यर्णसंबद्धम् आत्मीयं चात्मना कृतम् ।
ऋणम् एवंविधं शोध्यं विभागे बन्धुभिः सह ॥
धर्मार्थं प्रीतिदत्तं च यद् ऋणं स्वनियोजितम् ।
तद् दृश्यमानं विभजेन् न दानं पैतृकाद् धनात् ॥
दृश्यमानं विभज्येत गृहं क्षेत्रं चतुष्पदम् ।
गूढद्रव्याभिशङ्कायां प्रत्ययस् त्व् अत्र कीर्तितः ॥
गृहोपस्करवाह्यास् तु दोह्याभरणकर्मिणः ।
दृश्यमाना विभज्यन्ते कोशं गूढे ऽब्रवीद् भृगुः ॥

तद् ऋणं धने देयम्’ इत्यादेर् अर्थः — विभागकाले, “विरोधात्’ परस्परविप्रतिपत्तौ, यन् न दत्तं “तद् ऋणम्’, “परतः’ उत्तरकालम्, यदा देयं भवति तदा “प्रमाणेन चेत् विभावितम्’ भवति ततो देयं नापरत इति । “पित्र्यर्णसंबद्धम्’ पित्र्यर्णपरिशोधनार्थं यत् “कृतं’ आत्मीयं कुटुम्बार्थं परकृतम् अपि “आत्मना कृतम्’ अपि कुटुम्बार्थम् एव । “धर्मार्थं प्रीतिदत्तम्’ इति — स्वयम् असाधारण्येन साधारणधनं “धर्मार्थम्’ दत्तम्, प्रीत्या च यद् दत्तम्, “ऋणं यत्’ स्वयम् उत्तमर्णत्वेनान्यस्मै दत्तं तत् ज्ञायमानं विभक्तव्यम् । यतो ऽविभक्तात् पैतृकाद् धनाद् असादारण्येन दानं नोचितम् इति ।

[६७४] मनुः [९.११९] ।

अजाविकं चैकशफं न जातु विषमं भजेत् ।
अजाविकं तु विषमं ज्येष्ठस्यैव विधीयते ॥

अथाविभाज्यम्

तत्र मनुः [९.२०६] ।

विद्याधनं तु यद्य् अस्य तत् तस्यैव धनं भवेत् ।
मैत्रम् औद्वाहिकं चैव माधुपर्किकम् एव च ॥

माधुपर्किकम्’ मधुपर्ककाले पूज्यतया यल् लब्धम् ।

याज्ञवल्क्यः [२.११९] ।

क्रमाद् अभ्यागतं द्रव्यं हृतम् अभ्युद्धरेत् तु यः ।
दायादेभ्यो न तद् दद्याद् विद्यया लब्धम् एव च ॥

[६७५] व्यासः ।

विद्याप्राप्तं शौर्यधनं यच् च सौदायिकं भवेत् ।
विभागकाले तत् तस्य नान्वेष्टव्यं स्वऋक्थिभिः ॥

सौदायिकम्’ इत्थं कात्यायनेन लक्षितम् [९७१] ।

ऊढया कन्यया वापि पत्युः पितृगृहाद् अपि ।
भ्रातुः सकाशात् पित्रोर् यल् लब्धं सौदायिकं स्मृतम् ॥

गौतमः [२८.३१]- “स्वयम् अर्जितम् अवैद्येभ्यो वैद्यः कामं न दद्यात्” ।

वैद्यो’ विद्वान् ।

कात्यायनः [८७५] ।

नाविद्यानां तु वैद्येन देयं विद्याधनात् क्वचित् ।
समविद्याधिकानां तु देयं वैद्येन तद् धनम् ॥

नारदः [१६.११] ।

वैद्यो ऽवैद्याय नाकामो दद्याद् अंशं स्वतो धनात् ।
पित्र्यं द्रव्यं समाश्रित्य न चेत् तेन तद् आहृतम् ॥

[६७६] विभजेद् इत्य् अनुवृत्तौ पुनर् नारदः [१६.५–७] ।

शौर्यभार्याधने हित्वा यत् तु विद्याधनं भवेत् ।
त्रीण्य् एतान्य् अविभाज्यानि प्रसादो यश् च पैतृकः ॥
मात्रा च स्वधनं दत्तं यस्मै स्यात् प्रीतिपूर्वकम् ।
तस्याप्य् एषो विधिर् दृष्टो मातापीष्टे यथा पिता ॥

व्यासः ।

पितामहेन यद् दत्तं पित्रा वा प्रीतिपूर्वकम् ।
तस्य तन् नापहर्तव्यं मात्रा दत्तं च यद् भवेत् ॥

याज्ञवल्क्यः [२.११५] ।

पितृद्रव्याविनाशेन यद् अन्यत् स्वयम् अर्जितम् ।
मैत्रम् औद्वाहिकं चैव दायादानां न तद् भवेत् ॥

मनु-विष्णू [मनु ९.२०८; वि १८.४२] ।

अनुपघ्नन् पितृद्रव्यं श्रमेण यद् उपार्जयेत् ।
स्वयम् ईहितलब्धं च नाकामो दातुम् अर्हति ॥

व्यासः ।

अनाश्रित्य पितृद्रव्यं स्वशक्याप्नोति यद् धनम् ।
दायादेभ्यो न तद् दद्याद् विद्यालब्धं च यद् भवेत् ॥

[६७७] कात्यायनः [८६७, ८७०, ८७३, ८७१, ८७२, ८७६, ८७८–८०] ।

परभक्तप्रदानेन प्राप्तविद्यो यदान्यतः
तया प्राप्तं च विधिना विद्याप्राप्तं तद् उच्यते ॥
उपन्यस्ते च यल् लब्धं लब्धं प्राध्ययनाच् च यत् ।
विद्याधनं तु तत् प्राहुः सामान्यं यद् अतो ऽन्यथा ॥
शिष्याद् आर्त्विज्यतः प्रश्नात् संधिग्धप्रश्ननिर्णयात् ।
स्वज्ञान्शंसनाद् वादाल् लब्धं प्राध्ययनाच् च यत् ॥
विद्याधनं तु तत् प्राहुर् विभागे न विभज्यते ।
शिल्पिष्व् अपि हि धर्मो ऽयं मूल्याद् यच् चाधिकं भवेत् ॥
विद्यापणकृतं चैव याज्यतः शिष्यतस् तथा ।
एतद् विद्याधनं प्राहुः सामान्यं यद् अतो ऽन्यथा ॥
परं निरस्य यल् लब्धं विद्यया पणपूर्वकम् ।
विद्याधनंतु तद् विद्यान् न विभाज्यं बृहस्पतिः ॥
विद्याप्रतिज्ञया लब्धं शिष्याद् आप्तं च यद् भवेत् ।
ऋत्विङ्न्यायेन यल् लब्धम् एतद् विद्याधनं भृगुः ॥

[६७८]

आरुह्य संशयं यत्र प्रसभं कर्म कुर्वते ।
तस्मिन् कर्मणि तुष्टेन प्रसादः स्वामिना कृतः ॥
तत्र लब्धं तु यत् किंचित् धनं शौर्येण तद् भवेत् ।
ध्वजाहृतं भवेद् यत् तु विभाज्यं नैव तत् स्म्र्तम् ॥
संग्रामाद् आहृतं यत् तु विद्राव्य द्वषतां बलम् ।
स्वाम्यर्थे जीवितं त्यक्त्वा तद् ध्वजाहृतम् उच्यते ॥
यल् लब्धं लाभकाले तु स्वजात्या कन्यया सह ।
कन्यागतं तु तद् वित्तं शुल्कं वृद्धिकरं स्मृतम् ॥
वैवाहिकं तु तद् विद्याद् भार्यया यत् समाहृतम् ।
धनम् एवंविधं सर्वं विज्ञेयं कर्मसाधकम् ॥

शङ्खलिखितौ- “न वास्तुविभागो नोदपात्रालंकारानुयुक्तस्त्रीवाससाम् अपां प्रचारवर्त्मनां विभागश् चेति प्रजापतिः” ।

मनु-विष्णू [म। ९.२१९; वि। १८.४४] ।

वस्त्रं पत्रम् अलंकारः कृतान्नम् उदकं स्त्रियः ।
योगक्षेमप्रचारं च न विभाज्यं प्रचक्षते ॥

[६७९]वस्त्रम्’ समूल्यम् अङ्गधृतम् । “पत्र’शब्दो ऽत्र लेख्यनिविष्टधनपरः । ऽधनपत्रविशिष्टं तु’ इति कात्यायनवचनानुसारात् । “स्त्रियः’ संयुक्ताः, ऽअविभागः स्त्रीषु संयुक्तासु’ [२८.४८] इति गौतमवचनात् । “योगक्षेमम्’ मन्त्रिपुरोहितादि योगक्षेमहेतुत्वात् । “प्रचारः’ गवादीनां प्रचारणमार्गः ।

व्यासः ।

अविभाज्यं सगोत्राणाम् आ सहस्रकुलाद् अपि ।
याज्यं क्षेत्रं च पात्रं च कृतान्नम् उदकं स्त्रियः ॥

क्षेत्रम्’ वास्तुक्षेत्रम् ।

[६८०] कात्यायनः [८८२–८४] ।

धनं पत्रनिविष्टं तु धर्मार्थं यन् निरूपितम् ।
उदकं चैव दाराश् च निबन्धो यः क्रमागतः ॥
धृतं वस्त्रम् अलंकारो वानुरूपं च यद् भवेत् ।
यथाकालोपयुक्तानि तथा योज्यानि बन्धुभिः ॥
गोप्रचारश् च रथ्या च वस्त्रं यच् चाङ्गयोजितम् ।
प्रयोज्यं न विभज्येत शिल्पार्थं च बृहस्पतिः ॥
देशस्य जातेः सङ्घस्य धर्मो ग्रामस्य यो भृगुः ।
उदितः स्यात् स तेनैव दायधर्मं प्रकल्पयेत् ॥

बृहस्पतिः [२६.४७, ५०, ५१, ३, २, ५२] ।

वस्त्रादयो ऽविभाज्या यैर् उक्तं तैर् न विचारितम् ।
धनं भवेत् समृद्धानां पत्रालंकारसंसृतम् ॥
मध्यस्थितम् अनाजीव्यं दातुं नैकस्य शक्यते ।
युक्त्या विभजनीयं तद् अन्यथानर्थकं भवेत् ॥

[६८१] > विक्रीय वस्त्राभरणम् ऋणम् उद्ग्राह्य लेखितम् ।

कृतान्नं चाकृतान्नेन परिवर्त्य विभज्यते ॥
उद्धृत्य कूपवाप्यम्भस् त्व् अनुसारेण गृह्यते ।
यथाभागानुसारेण सेतुः क्षेत्रे विभज्यते ॥
एकां स्त्रीं कारयेत् कर्म यथांशेन गृहे गृहे ।
बह्व्यः समांशतो देया दासानाम् अप्य् अयं विधिः ॥
योगक्षेमवतो लाभः समत्वेन विभज्यते ।
प्रचारश् च यथांशेन कर्तव्य ऋणिभिः सह ॥

योगक्षेमवतः’ योगक्षेमहेतोः । अत्र च वस्त्रादीनां प्रकारविशेषेण विभाज्यत्वम् उक्तम् । अतो मन्वादीनां वस्त्राद्यविभाज्यत्ववचनानि स्वरूपतो विभाज्यतानिषेधपराणीत्य् अविरोधः ।

कात्यायनः [८७४] ।

कुले विनीतविद्यानां भ्रातॄणां पितृतो ऽपि वा ।
शौर्यप्राप्तं तु यद् वित्तं विभाज्यं तद् बृहस्पतिः ॥

[६८२] अस्यार्थः — [ऽकुले’] स्वकुले पितामहपितृव्यादिभ्यः पितृत एव वा शिक्षितविद्यानां भ्रातॄणां यत् तु विद्याशौर्यप्राप्तं धनं तद्विभागकाले विभक्तव्यम् एवेति ।

नारदः [१६.१०] ।

कुटुम्बं बिभृयाद् भ्रातुर् यो विद्याम् अधिगच्छतः ।
भागं विद्याधनस् तस्मात् स लभेताश्रुतो ऽपि सन् ॥

अश्रुतो’ अत्र अविद्यः ।

मनुः [९.२०४–०५] ।

यत् किंचित् पितरि प्रेते धनं ज्येष्ठो ऽधिगच्छति ।
भागो यवीयसां तत्र यदि विद्यानुपालिनः ॥
अविद्यानां तु सर्वेषाम् ईहातश् चेद् धनं भवेत् ।
समस् तत्र विभागः स्याद् अपित्र्य इति धारणा ॥

यत् किंचिद्’ इत्यादि — पितृद्रव्याविरोधेनापि यतो ज्येष्ठो धनम् अर्जयति तत्र कनिष्ठानाम् अपि विभागो भवति यदि ते विद्याभ्यासरता भवन्ति । “ईहातः’ कृष्यादिचेष्टातः ।

वसिष्ठः [१७.५१]- “येन चैषां स्वयम् उत्पादितं स्यात् तद् द्व्यंशम् आहरेत्” ।

व्यासः ।

साधारणं समाश्रित्य यत् किंचिद् वाहनायुधम् ।
शौर्यादिनाप्नोति धनं भ्रातरस् तत्र भागिनः ॥
तस्य भागद्वयं कार्यं शेषास् तु समभागिनः ।

अथ स्त्रीधनकृत्यम्

तत्र मनुः [९.१९९] ।

न निर्हारं स्त्रियः कुर्युः कुटुम्बाद् बहुमध्यगात् ।
स्वकाद् अपि च वित्ताद् धि स्वस्य भर्तुर् अनाज्ञया ॥

निर्हारम्’ निष्कृष्य हरणम् । “कुटुम्ब’पदेन कुटुम्बधनं तत्साहचर्याद् इहोच्यते । “स्वकात्’ स्वभर्तुर् असाधारणात् ।

मनु-विष्णू [म। ९.२००; वि। १७.२२] ।

पत्यौ जीवति यः स्त्रीभिर् अलंकारो धृतो भवेत् ।
न तं भजेरन् दायादा भजमानाः पतन्ति ते ॥

[६८४] आपस्तम्बः [२.१४.९]- “अलंकारो भार्याया ज्ञातिधनं चेत्य् एके” ।

नारदः [४.२८; ना। म। सं। २.२४] ।

भर्त्रा प्रीतेन यद् दत्तं स्त्रियै तस्मिन् मृते ऽपि तत् ।
सा यथाकामम् अश्नीयात् दद्याद् वा स्थावराद् ऋते ॥

व्यासः ।

द्विसहस्रपणो दायः स्त्रियं देयो धनस्य तु ।
यच् च भर्त्रा धनं दत्तं सा यथाकामम् आप्नुयात् ॥

कात्यायनः [९०१, ९०५–०७, ९२१] ।

ऊढया कन्यया वापि पत्युः पितृगृहे ऽपि वा ।>
भ्रातुः सकाशात् पित्रोर् वा लब्धं सौदायिकं स्मृतम् ॥
सौदायिकं धनं स्त्रीणां प्राप्य स्वातन्त्र्यम् इष्यते ।
यस्मात् तदानृशंस्यार्थं तैर् दत्तं तत्पर्जीवनम् ॥
सौदायिके सदा स्त्रीणां स्वातन्त्र्यं परिकीर्तितम् ।
विक्रये चैव दाने च यथेष्टं स्थावरेष्व् अपि ॥

[६८५]

भर्तृदायं मृते पत्यौ विन्यसेत् स्त्री यथेष्टतः ।
विद्यमाने तु संरक्षेत् क्षपयेत् तत्कुले ऽन्यथा ॥
अपुत्रा शयनं भर्तुः पालयन्ती गुरौ स्थिता ।
भुञ्जीतामरणात् क्षान्ता दायादा ऊर्ध्वम् आप्नुयुः ॥

ऽपत्युर् गृहे’ इति संबन्धः । ऽभ्रातुः पित्रोर् वा’ इत्य् उपलक्षणम्, तेनान्येभ्यो ऽपि । स्वमातापितृकुलेभ्यो यल् लब्धं धनं तत् ऽसौदायिकम्’ । तत्र च ऽस्थावरे’ अपि स्त्रियाः दानादिषु स्वातन्त्र्यम् । भर्तृदत्तेषु तु स्थावरातिरिक्तेष्व् एव यथेष्टं दानादिष्व् अधिकारः ।

राजा ऋक्थं पालयेद् इत्य् अनुवृत्तौ मनुः [८.२८–२९] ।

वशापुत्रासु चैवं स्याद् रक्षणं निष्कुलासु च ।
पतिव्रतासु च स्त्रीषु विधवास्व् आतुरासु च ॥
जीवन्तीनां तु तासां ये तद् धरेयुः स्वबान्धवाः ।
ताञ् छिष्याच् चौरदण्डेन धार्मिकः पृथिवीपतिः ॥

वशा’ वन्ध्या । “अपुत्रा’ मृतपुत्रा । “निष्कुला’ प्रनष्टमातापितृकुला ।

देवलः ।

वृत्तिर् आबहरणं शुल्कं लाभश् च स्त्रीधनं भवेत् ।
भोक्त्री च स्वयम् एवेदं पतिर् नार्हत्य् अनापदि ॥

[६८६] > मृषा मोक्षे च भोगे च स्त्रियै दद्यात् सवृद्धिकाम् ।

पुत्रान् निर्हरणे चापि स्त्रीधनं भोक्तुम् अर्हति ॥

कात्यायनः [९११–१४] ।

न भर्ता नैव च सुतो न पिता भ्रातरो न च ।
आदाने वा विसर्गे वा स्त्रीधने प्रभविष्णवः ॥
यदि ह्य् एकतरस् तेषां स्त्रीधनं हरते बलात् ।
सवृद्धिं प्रतिदाप्यः स्याद् दण्डं चैव समाप्नुयात् ॥
तद् एव यद्य् अनुज्ञाप्य भक्षयेत् प्रीतिपूर्वकम् ।
मूलम् एव स दाप्यः स्याद् यदा स धनवान् भवेत् ॥
व्याधितं व्यसनस्थं च धनिकैश् चोपपीडितम् ।
ज्ञात्वा निसृष्टं यत् प्रीत्या दद्याद् आत्मेच्छया च सः ॥

[६८७] याज्ञवल्क्यः [२.१४७] ।

दुर्भिक्षे धर्मकार्यार्थे व्याधौ संप्रतिरोधके ।
गृहीतं स्त्रीधनं भर्ता न स्त्रियै दातुम् अर्हति ॥

कात्यायनः [९०८–१०] ।

यदि चेत् स द्विभार्यः स्यान् न च तां भजते पुनः ।
प्रीत्या विसृष्टम् अपि चेत् प्रतिदाप्यः स तद् बलात् ॥
ग्रासाच्छादनवासानाम् आच्छेदो यत्र योषितः ।
तत्र स्वम् आददीत स्त्री विभागं रिक्थिनां तथा ॥
लिखितस्येति धर्मो ऽयं प्राप्ते भर्तृकुल वसेत् ।
व्याधिता प्रेतकाले तु गच्छेद् बन्धुकुलं ततः ॥
यज्ञार्थं द्रव्यम् उत्पन्नं तस्माद् द्रव्यं नियोजयेत् ।
स्थानेषु धर्मजुष्टेषु न स्त्रीमूर्खविधर्मिषु ॥

[६८८] > भर्त्रा प्रतिश्रुतं देयम् ऋणवत् स्त्रीधनं सुतैः ।

तिष्ठेद् भर्तृगृहे या तु न सा पितृकुले वसेत् ॥

अथ स्त्रीधनविभागः

तत्र मनुः [९.१९२–९३, १९५] ।

जनन्यां संस्थितायां तु समं सर्वे सहोदराः ।
भजेरन् मातृकं रिक्थं भगिन्यश् च सनाभयः ॥
यास् तासां स्युर् दुहितरस् तासाम् अपि यथार्हतः ।
मातामह्या धनात् किंचित् प्रेदेयं प्रीतिपूर्वकम् ॥
अन्वाधेयं च यद् दत्तं पत्या प्रीतेन चैव यत् ।
पत्यौ जीवति वृत्तायाः प्रजायास् तद् धनं भवेत् ॥

सनाभयो’ अत्र सोदर्याः । “यथार्हतः’ द्रव्यापत्वबहुत्वादियोग्यताद्यनुसारेण । “अन्वाधेयम्’ विवाहोत्तरकालं भर्तृकुले पितृकुले च यल् लब्धं धनम् ।

बृहस्पतिः [२६.३१] ।

स्त्रीधनं स्याद् अपत्यानां दुहिता च तदंशिनी ।
अपुत्रा चेत् समूढा तु लभते मानमात्रकम् ॥

[६८९]] मनुः [९.१३१] ।

मातुस् तु यौतकं यत् स्यात् कुमारीभाग एव सः ।

ऽयौतकम्’ विवाहकाले पित्रादिभिः स्त्रियै यद् दत्तं धनम् ।

गौतमः [२८.२५]- “स्त्रीधनं दुहितॄणाम् अप्रत्तानाम् अप्रतिष्ठितानां च” ।

अप्रतिष्ठिताः’ विवाहिता अपि निर्धनभर्तृका दुर्भगा अनपत्याश् च ।

वसिष्ठः [१७.४६]- “मातुः पारिणाह्यं स्त्रियो विभजेतन्” ।

पारिणाह्यम्’ परिच्छद आदर्शकङ्कणादिः ।

विभजेरन्न् ऊर्ध्वम् इत्य् अनुवृत्तौ याज्ञवल्क्यः [२.११७] ।

मातुर् दुहितरः शेषम् ऋणात् ताभ्य ऋते ऽन्वयः ।

अन्वयः’ तत्पुत्रपौत्रादिः ।

विवाहार्हेष्व् इत्य् अनुवृत्तौ विष्णुः [१७.२०]- “सर्वेष्व् एव प्रसूतानां तद् धनं दुहितृगामि” ।

मनुः [९.१९८] ।

स्त्रियास् तु यद् भवेद् वित्तं पित्रा दत्तं कथंचन ।
ब्राह्मणी तद् धरेत् कन्या तदपत्यस्य वा भवेत् ॥

[६९०] अस्यार्थः —स्त्रीणाम् अभर्तृकाणाम् अनपत्यानां च पित्रा दत्तं सपत्नीदुहिता ब्राह्मणि या कन्या सा हरेत् तदपत्यं चेति ।

कात्यायनः [९१८, ९१७] ।

दुहितॄणाम् अभावे तु ऋक्थं पुत्रेषु तद् भवेत् ।
बन्धुदत्तं तु बन्धूनाम् अभावे भर्तृगामि तत् ॥
भगिन्यो बान्धवैः सार्धं विभजेरन् सभर्तृकाः ।
स्त्रीधनस्येति धर्मो ऽयं विभागस् तु प्रकल्पितः ॥

अथाप्रजायाः

तत्र मनुः [९.१९६–९७] ।

ब्राह्मदैवार्षगान्धर्वप्राजापत्येषु यद् धनम् ।
अतीतायाम् अप्रजसि भर्तुर् एव तद् इष्यते ॥
यत् त्व् अस्याः स्याद् धनं दत्तं विवाहेष्व् आसुरादिषु ।
अतीतायाम् अप्रजसि मातापित्रोस् तद् इष्यते ॥

[६९१] देवलः ।

सामान्यं पुत्रकन्यानां मृतायां स्त्रीधनं स्त्रियाम् ।
अप्रजायां हरेद् भर्ता माता भ्राता पितापि च ॥

गौतमः [२८.२६–२७]- “भगिनीशुल्कं सोदर्याणाम् ऊर्ध्वंमातुः । पूर्वं चैके” ।

भगिनीशुल्कः’ आसुरादिविवाहोढाया भगिन्याः धनम् । “ऊर्ध्वं मातुः’ मातरि मृतायाम् इत्य् अर्थः ।

याज्ञवल्क्यः [२.१४४] ।

बन्धुदत्तं तथा शुल्कम् अन्वाधेयकम् एव च ।
अप्रजायाम् अतीतायां बान्धवास् तद् अवाप्नुयुः ॥

मनुः [९.१३५] ।

अपुत्रायां मृतायां तु पुत्रिकायां कथंचन ।
धनं तत् पुत्रिकाभर्ता हरेतैवाविचारयन् ॥

पैठीनसिः- “प्रेतायां पुत्रिकायां न भर्ता तद् द्रव्यम् अर्हत्य् अपुत्रायां कुमार्या स्वस्रा वा तद् ग्राह्यम्” ।

[६९२] याज्ञवल्क्यः [२.१४६] ।

दत्वा कन्यां हरन् दण्ड्यो व्ययं दद्याच् च सोदयम् ।
मृतायां सर्वम् आदद्यात् परिशोध्योभयव्ययम् ॥

अस्यार्हः — स्वयम् एव वाचा दत्वा, “हरन्’ कारणम् अन्तरेण कन्याम् अपहरन्, दण्ड्यो भवति । यच् च वरेण दत्तं हिरण्यदिकं तत्र समवृद्धिकं दद्याद् इति कन्यादातुर् उपदेशः । अथ कथंचिद् वाग्दात्ता मृता, तस्यां “मृतायां सर्वम् आदद्यात्’ । यत् पूर्वं दत्तम् उभयोर् अपि व्ययं शोधयित्वा यत् कन्यापित्रा संबन्धिनाम् उपचारार्थं पण्यादिकं दत्तम्, यच् च संबन्धिनां मङ्गलार्थं दत्तम् अङ्गुलीयादिकम्, उभयं परिगणय्यावशिष्टम् आदद्यात्

अर्हतीत्य् अनुवृत्तौ शङ्खः- “स्वयं शुल्कं वोढा” ।

बौधायनः ।

ऋक्थं मृतायाः कन्याया गृह्णीयुः सोदराः स्वयम् ।
तदभावे भवेन् मातुस् तदभावे पितुर् भवेत् ॥

[६९३] बृहस्पतिः [व्य। २६.३२–३३] ।

मातृष्वसा मातुलानी पितृव्यस्त्री पितुः स्वसा ।
श्वश्रूः पूर्वजपत्नी च मातृतुल्याः प्रकीर्तिताः ॥
यद् आसाम् औरसो न स्यात् सुतो दौहित्र एव वा ।
तत्सुतो वा धनं तासां स्वस्रीयाद्याः समाप्नुयुः ॥

अथ स्त्रीधनलक्षणम्

तत्र मनु-कात्यायनौ [म। ९.१९४’ का। ८९४] ।

अध्यग्न्यध्याहवनिकं दत्तं च प्रीतितः स्त्रियै ।
भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्म्र्तम् ॥

नारदः [१६.८] ।

अध्यग्न्यध्याहवनिकं भर्तृदायस् तथैव च ।
भ्रातृदत्तं पितृभ्यां च षड्विधं स्त्रीधनं स्मृतम् ॥

विष्नुः [१७.१८]- “पितृमातृसुतभ्रातृदत्तम् अध्यग्न्युपागतम् आधिवेदनिक्ं बन्धुदत्तं शुल्कम् अन्वाधेयकम् इति स्त्रीधनम्” ।

देवलः ।

वृत्तिर् आभरणं शुल्कं लाभश् च स्त्रीधनं भवेत् ।

[६९४] कात्यायनः [९०४]

प्राप्तं शिल्पैस् तु यद् वित्तं प्रीत्या चैव यद् अन्यतः ।
भर्तुः स्वाम्यं सदा तत्र शेषं तु स्त्रीधनं भवेत् ॥

[का। ८९५–९७]

विवाहकाले यत् स्त्रीभ्यो दीयते क्य् अग्निसंनिधौ ।
तद् अध्यग्निकृतं सद्भिः स्त्रीधनं परिकीर्तितम् ॥
यत् पुनर् लभते नारी नीयमाना हि पैतृकात् ।
अध्याहवनिकं नाम तत् स्त्रीधनम् उदाहृतम् ॥
प्रीत्या प्रदत्तं यत् किंचित् श्वश्र्वा वा श्वशुरेण वा ।
पादवन्दनिकं यत् तल् लावण्यार्जितम् उच्यते ॥

[का। ८९९–९००]

विवाहात् परतो यत् तु लब्धं भर्तृकुलात् स्त्रिया ।
अन्वाधेयं तद् उक्तं तु लब्धं यत् स्वकुलात् तया ॥
ऊर्ध्वं लब्धं तु यत् किंचित् संस्कारात् प्रीतितः स्त्रिया ।
भर्तुः पित्रोः सकाशाद् वा अन्वाधेयं तु तद् भृगुः ॥

[६९५] [का। ८९८]

गृहोपस्करवाह्यानां दोह्याभरणकर्मणाम् ।
मूल्यं लब्धं तु यत् किंचित् शुल्कं तत् परिकीर्तितम् ॥

अथावलुप्तविभागः

तत्र मनुः [९.२१८] ।

ऋणे धने च सर्वस्मिन् प्रविभक्ते यथाविधि ।
पश्चात् दृश्येत यत् किंचित् तत् सर्वं समतां नयेत् ॥

कात्यायनः [८८५–८८] ।

प्रच्छादितं तु यद् येन पुनर् आगत्य यत् समम् ।
भजेरन् भ्रातृभिः सार्धम् अभावे हि पितुः सुताः ॥
अन्योन्यापहृतं द्रव्यं दुर्विभक्तं च यद् भवेत् ।
यथाप्राप्तं विभज्येत समभागेन तद् भृगुः ॥
विभक्तेनैव यत् प्राप्तं धनं तस्यैव तद् भवेत् ।
हृतं नष्टं च यल् लब्धं प्राग् उक्तं च पुनर् भवेत् ॥

[६९६]

बन्धुवर्गहृतं द्रव्यं बलान् नैव प्रदापयेत् ।
बन्धूनाम् अविभक्तानां भोगं नैव प्रवर्तयेत् ॥

बृहस्पतिः [व्य। २६.१४१–४२] ।

साधारणऋणन्यासनिह्नवे छद्मना क्रियाम् ।
पार्श्वहानिकरीं कृत्वा पश्चाच् छेषं प्रदापयेत् ॥
मायाविनो धृतधनाः क्रूरा लुब्धाश् च ये नराः ।
संप्रीत्या साधनीयास् ते स्वार्थहान्या छलेन वा ॥

**अथ नानावर्णसमवायविभागः **

तत्र मनुः [९.१४८–५४] ।

एतद् विभागं विज्ञेयं विभागस्यैकयोनिषु ।
बह्वीषु चैकजातानां नानास्त्रीषु निबोधयेत् ॥
ब्राह्मणस्यानुपूर्वेण चतस्रस् तु यदि स्त्रियः ।
तासां पुत्रेषु जातेषु विभागो ऽयं विधिः स्मृतः ॥

[६९७] > कीनाशो गोवृषो यानम् अलंकाराश् च वेश्म च ।

विप्रस्योद्धारकं देयम् एकांशश् च प्रधानतः ॥
त्र्यंशं दायाद् धरेद् विप्रो द्वाव् अंशौ क्षत्रियासुतः ।
वैश्याजो ऽध्यर्धम् एवांशम् अंशं शूद्रासुतो हरेत् ॥
सर्वं वा रिक्थजातं तु दशधा प्रविभज्य तु ।
धर्म्यं विभागं कुर्वीत विधिनानेन धर्मवित् ॥
चतुरो ऽंशान् हरेद् विप्रस् त्रीन् अंशान् क्षत्रियासुतः ।
वैश्यापुत्रो हरेद् द्व्यंशम् अंशं शूद्रासुतो हरेत् ॥

ऽएकयोनिषु’ एकजातीयासु स्त्रीषु जातानाम् इत्य् अर्थः । ऽनानास्त्रीषु’ नानाजातीयासु स्त्रीषु । ऽएकांशश् च प्रधानतः’ ये ब्राह्मणस्य त्रयो ऽंशास् तत्रैकांशः प्रधानतः सारद्रव्यात् कर्तव्यः ।

नारदः [१६.१४] ।

वर्णावरेष्व् अंशहातिर् ऊढाजातेष्व् अनुक्रमात् ।

[६९८] महाभारते [अनुशासन, ४२.४८–५६] ।

भीष्म उवाच —
क्षत्रियस्यापि भार्ये द्वे विहिते कुरुनन्दन ।
तृतीया वा भवेच् छूद्रा न तु दृष्टान्ततः स्मृता ॥
अष्टधा तु भवेत् कार्यं क्षत्रियस्वं युधिष्ठिर ।
क्षत्रियाया हरेत् पुत्रश् चतुरो ऽंशान् पितुर् धनात् ॥
युद्धौपचारिकं यत् तु पितुर् आसीद् धरेच् च तत् ।
वैश्यापुत्रस् तु भागांस् त्रीन् शूद्रापुत्रस् तथाष्टमम् ॥
सो ऽपि वित्तं हरेत् पित्रोर् नादत्तं हर्तुम् अर्हति ।
एकैव हि भवेद् भार्या वैश्यस्य कुरुनन्दन ॥
द्वितीया वा भवेच् छूद्रा न तु दृष्टान्ततः स्मृता ।
पञ्चधा वा भवेत् कार्यं वैश्यस्वं भरतर्षभ ॥
तयोर् अपत्ययोर् वक्ष्ये विभागं च नराधिप ।
वैश्यापुत्रेण हर्तव्यास् चत्वारो ऽंशाः पितुर् धनात् ॥
पञ्चमस् तु भवेद् भागः शूद्रापुत्राय भारत ।
सो ऽपि दत्तं हरेत् पित्रा नादत्तं हर्तुम् अर्हति ॥

[६९९]दृष्टान्तो’ अत्र वेदः । “युद्धौपचारिकम्’ युद्धोपकरणम् ।

विष्णुः [१८.१–२७]- “ब्राह्मणस्य चतुर्षु वर्णेषु [चेत्] पुत्रा भवेयुस् ते पैतृकम् ऋक्थं दशधा विभजेयुः । तत्र च ब्राह्मणीसुतश् चतुरो ऽंशान् आदद्यात् । क्षत्रियापुत्रस् त्रीन् । द्वाव् अंशौ वैश्यासुतः । सूद्रापुत्रस् त्व् एकम् । अथ चेच् छूद्रापुत्रवर्जं ब्राह्मणस्य पुत्रत्रयं भवेत् तदा नवधा धनं विभजेयुः । वर्णक्रमेण चतुस्त्रिद्विभागीकृतान् अंशान् दद्युः । वैश्यवर्जम् अष्टधा कृत्वा चतुरस् त्रीन् एकं च समादद्युः । क्षत्रियवर्जं सप्तधा कृत्वा चतुरो द्वाव् एकं च । ब्राह्मणवर्जं षड्धा कृत्वा त्रीन् द्वाव् एकं च । क्षत्रियस्य क्षत्रियावैश्याशुद्रापुत्रेष्व् अयम् एव विभागः । अथ ब्राह्मणस्य ब्राह्मणक्षत्रियौ पुत्रौ स्याताम्, तदा सप्तधा कृताद् धनात् ब्राह्मणश् चतुरो ऽंशान् दद्यात् । त्रीन् राजन्यः । अथ ब्राह्मणस्य ब्राह्मणवैश्यौ चेत् पुत्रो स्यातां तदा तद्धनात् षड्धविभक्तान् चतुरो ऽंशान् ब्राह्मणस् एव् आदद्यात् । द्वौ वैश्यः । अथ ब्रह्मणस्य ब्राह्मणशूद्रौ पुत्रौ स्यातां तदा तधनं पञ्चधा [७००] विभजेयाताम् । चतुरो ऽंशान् ब्राह्मणस् त्व् आदद्यात् । एकं शूद्रः । अथ ब्राह्मणस्य क्षत्रियस्य वा क्षत्रियवैश्यौ द्वौ पुत्रौ स्यातां तदा तद्धनं पञ्चधा विभजेयाताम् । त्रीन् अंशान् क्षत्रियस् त्व् आदद्यात् । द्वाव् अंशौ वैश्यः । अथ ब्राह्मणस्य क्षत्रियस्य वा क्षत्रियशूद्रौ पुत्रौ स्यातां तदा तद्धनं चतुर्धा विभजेयाताम् । त्रीन् अंशान् क्षत्रियस् त्व् आदद्यात् । एकं शूद्रः । अथ ब्राह्मणस्य क्षत्रियवैश्ययोर् वा [वैश्यशूद्रौ] पुत्रौ स्यातां तदा तद्धनं त्रिध् विभजेयाताम् । द्वाव् अंशौ वैश्यस् त्व् आदद्यात् । एकं शूद्रः” ।

अथ शङ्खलिखितौ- “अन्यवर्णस्त्रीजातानां दायाद् अर्धार्धहानिर् वर्णक्रमेण” ।

विष्णुः [१८.३८–४०]- “यदि द्वौ ब्राह्मणीपुत्रओ स्याताम् एकः शूद्रापुत्रस् तदा नवधा विभक्तस्यार्थस्य ब्राह्मणीपुत्राव् अष्टौ भागान् आदद्याताम् एकं शूद्रापुत्रः । अथ शूद्रापुत्राव् उभौ स्याताम् एको ब्राःमणीपुत्रस् तदा षड्धा विभक्तस्य धनस्य चतुरो ऽंशान् ब्राह्मणस् त्व् आदद्याद् द्वाव् अंशौ शूद्रापुत्रौ । अनेन क्रमेनान्यत्राप्य् अंशकल्पना भवति” ।

पुनर् विष्णुः [१८.२८–३१]- “अथैकपुत्रा ब्राह्मणस्य [ब्राह्मण]क्षत्रियविश्याः सर्वहराः । क्षत्रियवैश्यौ राजन्यस्य । वैश्यस्य वैश्यः । शूद्रस्य शूद्रः” ।

वसिष्ठः [१७.४७, ५०]- “यदि ब्राह्मणस्य ब्राह्मणीक्षत्रियावैशासु पुत्राः स्युस् तदा त्र्यंशं ब्राह्मण्याः पुत्रो हरेत् । द्वाव् अंशौ राजन्यायाः पुत्रः । समम् इतरे विभजेरन्” ।

[७०१] मनुः [९.१५६–५७] ।

समवर्णासु वा जाताः सर्वे पुत्रा द्विजन्मनाम् ।
उद्धारं ज्यायसे दत्वा भजेरन्न् इतरे समम् ॥
शूद्रस्य तु सवर्णैव नान्या भार्या विधीयते ।
तत्र जाताः समांशाः स्युर् यदि पुत्रशतं भवेत् ॥

बौधायनः [२.३.१२–१३]- “सवर्णापुत्रानन्तरापुत्रयोर् अनन्तरापुत्रश् चेद् गुणवान् स ज्येष्ठांशं हरेत् । गुणवान् अशेषाणां भर्ता भवेत्” ।

बृहस्पतिः [व्य्। २६.१२०] ।

विप्रेण क्षत्रियाजातो जन्मज्येष्ठो गुणान्वितः ।
भवेत् समांशो विप्रेण वैश्याजातस् तथैव च ॥

गौतमः [२८.३६–३९]- “ब्राह्मणस्य राजन्यापुत्रो ज्येष्ठो गुणसम्पन्नस् तुल्यभाक् । ज्येष्ट्ःआंशहीनम् अन्यत् । राजन्यावैश्यापुत्रसमवाये यथा स ब्राह्मणीपुत्रेण । क्षत्रियाच् चेत् तुल्यभाक्” ।

ब्राह्मणीपुत्रेण’ कनीयसेति शेषः । “ज्येष्ठांशहीनम् अन्यत्’ ज्येष्ठस्य उद्धाररूपो विंशतितमो यो ऽंशस् तद्रहितं “अन्यत्’ द्रव्यं समं विभक्तव्यम् इत्य् अर्थः । “यथा स ब्राह्मणीपुत्रेण’ इति — यथा स क्षत्रियापुत्रो ज्येष्ठो ब्राह्मणीपुत्रेण कनीयसा तुल्यांशः । एवं वैश्यापुत्रो ऽपि ब्राह्मणज एव [७०२] क्षत्रियापुत्रेण कनीयसा तुल्यांशः । “क्षत्रियाच् चेत्’ इति, क्षत्रियाच् चेद् राजन्यावैश्यापुत्रौ भवतः, तदापि वैश्यापुत्रो ज्येष्ठः क्षत्रियापुत्रेण कनीयसा तुल्यांश इत्य् अर्थः ।

बृहस्पतिः [व्य। २६.१२१] ।

न प्रतिग्रहभूर् देया क्षत्रियाय सुताय वै ।
यद्य् अप्य् अस्य पिता दद्यान् मृते विप्रासुतो हरेत् ॥

वृद्धमनुः ।

ब्रह्मदायागतां भूमिं हरेयुर् ब्राह्मणीसुताः ।
गृहं द्विजातयः सर्वे यथा क्षेत्रं क्रमागतम् ॥

ब्रह्मदायागताम्’ प्रतिग्रहयाजनादिना लब्धाम् ।

बृहस्पतिः [व्य। २६.१२२] ।

शूद्र्यां द्विजातिभिर् जातो न भूमेर् भागम् अर्हति ।

देवलः [बृ। व्य्। २६.१२३–२४] ।

सजाताव् आप्नुयात् सर्वम् इति धर्मो व्यवस्थितः ॥
निषाद एकपुत्रस् तु विप्रस्वस्य तृतीयभाक् ।
द्वौ सपिण्डः सकुल्यो वा स्वधादाताथ संहरेत् ॥

[७०३]

कुल्याभावे स्वधादाता आचार्यः शिष्य एव वा ।
सर्वास्व् आपत्सु तान् वर्णान् स्वगोत्रान् प्रतिपादयेत् ॥

निषादः’ शूद्रायां ब्राह्मणाज् जातः । “द्वौ’ अंशाव् इति शेषः । “स्वधादाता’ पिण्डदः । “सर्वास्व् आपत्सु’ सर्वेषां सपिण्डादीनाम् अभावे । “तान् वर्णान्’ निषादपितृसवर्णान् ।

विष्णुः [१८.३२–३३]- “द्विजातीनां शूद्रस् त्व् एकः पुत्रो ऽर्धहरः । अपुत्ररिक्थस्य या गतिः सात्रार्धस्य द्वितीयस्य” ।

द्विजातीनां’ ब्राह्मणव्यतिरिक्तानां क्षत्रियवैश्यानां ब्राह्मणजाते शूद्रापुत्रे देवलेन तृतीयांशभागित्वस्योक्तत्वात् ।

[मनुः] [९.१५४–५५] ।

यद्य् अपि स्यात् तु सत्पुत्रो ऽप्य् असत्पुत्रो ऽपि वा भवेत् ।
नाधिकं दशमाद् दद्याच् छूद्रापुत्राय धर्मतः ॥

[७०४]

ब्राह्मणक्षत्रियविशां शूद्रापुत्रो न रिक्थभाक् ।
यद् एवास्य पिता दद्यात् तद् एवास्य धनं भवेत् ॥

यदा पिता प्रसन्नः शूद्रापुत्राय ददाति, तदा दशमम् एवांशं दद्याद् इत्यर्थः ।

बृहस्पतिः [व्य। २६.१२५] ।

अनपत्यस्य शुश्रूषुर् गुणवान् शूद्रयोनिजः ।
लभेताजीवनं शेषं सपिण्डाः समवाप्नुयुः ॥

गौतमः [२८.४०]- “शूद्रापुत्रो ऽप्य् अनपत्यस्य सुश्रूषुश् चेल् लभेत वृत्तिमूलम् अन्तेवासिविधिना” ।

अनूढापुत्रविषयम् एतत्, अपरिगृहीतासु इत्य् अधिकारात् ।

शङ्खलिखितौ- “न शूद्रापुत्रो ऽर्थभागी । यद् एवास्य पिता दद्यात् तद् एवास्य भागः । तस्य गोमिथुनं चापरं वा दद्यात् । कृष्णायसं कृष्णधान्यं तिलवर्जम्” ।

गौतमः [२८.४६]- “शूद्रापुत्रवत् प्रतिलोमासु” ।

मनुः [९.१७९] ।

दास्यां वा दासदास्यां वा यः शूद्रस्य सुतो भवेत् ।
सो ऽनुज्ञातो हरेद् अंशम् इति धर्मो व्यवस्थितः ॥

दासदासी’ परिचारकदासी ।

[७०५] याज्ञवल्क्यः [२.१३३–३४] ।

जातो ऽपि दास्यां शूद्रेण कामतो ऽंशहरो भवेत् ।
मृते पितरि कुर्युस् तं भ्रातरस् त्व् अर्धभागिकम् ॥

अथ विभक्तजविभागः

तत्र मनु-नारदौ [म। ९.२१६; ना। १६.४४] ।

ऊर्ध्वं विभागाज् जातस् तु पित्र्यम् एव धनं हरेत् ।
संसृष्टास् तेन वा ये स्युर् विभजेत स तैः सह ॥

बृहस्पतिः [व्य। १६.५४–५५] ।

पित्रा सह विभक्ता ये सापत्ना वा सहोदराः ।
जघन्यजाश् च ये तेषां पितृभागहरास् तु ते ॥
अनीशः पूर्वजः पित्र्ये भ्रातृभागे विभक्तजः ।

तथा [व्य। २६.५६–५७] ।

पुत्रैः सह विभक्तेन पित्रा यत् स्वयम् अर्जितम् ।
विभक्तजस्य तत् सर्वम् अनीशाः पूर्वजाः स्मृताः ॥

[७०६]

यथा धने तथर्णे ऽपि दानाधानक्रयेषु च ।
परस्परम् अनीशास् ते मुक्त्वा शौचोदकक्रियाः ॥

याज्ञवल्क्यः [२.१२२] ।

विभक्तेषु सुतो जातः सवर्णायां विभागभाक् ।
दृश्याद् वा तद्विभागः स्याद् आयव्ययविशोधितात् ॥

अस्यायम् अर्थः — यो विभागकाले गर्भस्थो न ज्ञातः पश्चाज् जातः स सर्वेभ्यो ऽंशहरेभ्यः सकाशात् स्वांशं तदंशसमं लभेत ।

यद् आह विष्णुः [१७.३]- “पितृविभक्ता विभागानन्तरोत्पन्नस्य भागं दद्युः” इति ।

विभागानन्तरकालं च यस्य गर्भाधानं स पित्र्यम् एवांशं लभते न तु पूर्वजाद् अंशाद् अपि । “अनीशः पूर्वजः पित्र्ये भ्रातृभागे विभक्तजः” इति बृहस्पतिवचनात् [व्य। २६.५५] । पितृविभागकालप्राप्तम् आयव्ययशोधितं यावद् विद्यमानं धनम् उपलभ्यते ततो वा धनात् स्वांशं लभत इति ।

[७०७]

अथ विभक्तागतविभागः

तत्र बृहस्पतिः [व्य।२६.६३–६७, ३९] ।

कृते ऽकृते विभागे वा ऋक्थी यत्र प्रवर्तते ।
सामान्यं चेद् भावयति तत्र भागहरस् तु सः ॥
ऋणं लेख्यं गृहं क्षेत्रं यस्य पैतामहं भवेत् ।
चिरकालप्रोषितो ऽपि भागभागागतस् तु सः ॥
गोत्रसाधारनं त्यक्त्वा यो ऽन्यदेशं समाशारितः ।
तद्वंशस्यागतस्यांशः प्रदातव्यो न संशयः ॥
तृतीयः पञ्चमश् चैव सप्तमो वापि यो भवेत् ।
जन्मनामपरिज्ञाने लभेतांशं क्रमागतम् ॥
यं परम्परया मौलाः सामन्ताः स्वामिनं विदुः ।
तदन्वयस्यागतस्य दातव्या गोत्रजैर् मही ॥
जाता जनिष्यमाणाश् च गर्भस्था ये च मानवाः ।
सर्वे काङ्क्षन्ति तां वृत्तिम् अनाच्छेद्या ततस् तु सा ॥

[७०८]

अथ पुत्रान्तरविभागः

तत्र मनुः [९.१३०] ।

पित्रिकायां कृतायां तु यदि पुत्रो ऽनुजायते ।
समस् तत्र विभागः स्याज् ज्येष्ठता नास्ति हि स्त्रियाः ॥

अनुजायते’ पश्चाद् उत्पद्यते ।

बृहस्पतिः [व्य। २६.७०] ।

एक एवौरसः पुत्रः पित्र्ये स्वामी प्रकीर्तितः ।
तत्तुल्या पुत्रिका प्रोक्ता भर्तव्यास् त्व् अपरे स्मृताः ॥

मनुः [९.१६३] ।

एक एवौरसः पुत्रो पित्र्यस्य वसुनः प्रभुः ।
शेषाणाम् आनृशंस्यार्थं प्रदद्यात् तु प्रजीवनम् ॥

[तथा] [९.१२०–२१] ।

यवीयाञ् ज्येष्ठभार्यायां पुत्रम् उत्पादयेद् यदि ।
समस् तत्र विभागः स्याद् इति धर्मो व्यवस्थितः ॥

[७०९]

उपसर्जनं प्रधानस्य धर्मतो नोपपद्यते ।
पिता प्रधानं प्रजने तस्माद् धर्मेण तं भजेत् ॥

[तथा] [९.१४६] ।

धनं यो बिभृयाद् भ्रातुर् मृतस्य स्त्रियम् एव च ।
सो ऽपत्यं भ्रातुर् उत्पाद्य दद्यात् तस्यैव तद् धनम् ॥

[तथा] [९.१६२] ।

यद्य् एकरिक्थिनौ स्याताम् औरसक्षेत्रजौ सुतौ ।
यद्य् अस्य पैतृकं रिक्थं स तद् गृह्णीत नेतरः ॥

वसुनः’ वित्तस्य । “शेषाणाम्’ क्षेत्रजव्यतिरिक्तानाम् । “उपसर्जनम्’ अत्र उपसर्जनत्वम् । “क्षेत्रजः’ अत्रानियुक्तायाम् उत्पन्नः ।

विष्णुः [१७.२३] ।

अनेकपितृकाणां तु पितृतो ऽंशप्रकल्पना ।
यस्य यत् पैतृकं रिक्थं स तद् गृह्णीत नेतरः ॥

अनेकपितृकाणाम्’ [एकस्यां योषिति] बहुभिः संगतायां जातानाम् ।

[७१०] मनुः [९.१६४–६५] ।

षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात् पितृकाद् धनात् ।
औरसो विभजन् दायं पित्र्यं पञ्चमम् एव वा ॥
औरसक्षेत्रजौ पुत्रौ पितृरिक्थस्य भागिनौ ।
दशापरे तु क्रमशो गोत्ररिक्थांशभागिनः ॥

षष्ठपञ्चमविभागविकल्पो गुणवत्वागुणवत्वेन व्यवस्थितः । “दशापरे’ दत्तकादयः । “क्रमशः’ पूर्वपूर्वाभावे परः परः इत्य् अनेन क्रमेण । “गोत्रविक्थांशभागिनः’ गोत्रभाजः त्रिक्थभाजश् च भवन्तीत्य् अर्थः ।

ऽपुत्रं प्रतिगृहीष्यम्’ इत्य् अनुवृत्तौ वसिष्ठः [१५.९–१०]- “तस्मिंश् चेत् प्रतिगृहीत औरसः पुत्र उत्पद्यते स चतुर्थभागगामी स्यात् । यदि नाभ्युदयिकेषु प्रयुक्तं स्यात्” ।

कात्यायनः [८५७] ।

उत्पन्ने त्व् औरसे पुत्रे तृतीयांशहराः स्मृताः ।
स्वर्णास् त्व् असवर्णास् तु ग्रासाच्छादनभागिनः ॥

[७११] बृहस्पतिः [व्य। २६.७१] ।

क्षेत्रजाद्या सुताश् चान्ये पञ्चषट्सप्तभागिनः ।

हारीतः- “विभजिष्यमाणम् एकविंशं कानीयाय दद्यात् । विंशं पौनर्भवाय । एकोनविंशं द्व्यामुष्यायणाय । अष्टादशं क्षेत्रजाय । सप्तदशं पुत्रिकापुत्राय । इतरान् औरसाय पुत्राय दद्युः” ।

ब्रह्मपुराणे ।

समग्रधनभोक्ता स्याद् औरसो ऽपि जघन्यजः ।
त्रिभागं क्षेत्रजो भुङ्क्ते चतुर्थं पुत्रिकासुतः ॥
कृत्रिमः पञ्चभागं तु षड्भागं गूढसंभवः ।
सप्तांशं चापविद्धस् तु कानीनश् चाष्टमांशकम् ॥
नवभागं सहोढश् च क्रीतो दशमम् अश्नुते ।
पौनर्भवस् तु परतो द्वादशं स्वयम् आगतः ॥
त्रयोदशं स्वभागं तु शूद्रो भुङ्क्ते पितुर् धनात् ।
तद्गोत्रजो वा धर्मिष्ठो ब्रह्मचार्य् अथ वा पुनः ॥

परतः’ दशमात् परम् एकादशमं समश्नुत इत्य् अर्थः ।

[७१२] शङ्खलिखितौ- “षड्दायादेषु विकल्पः । औरसः क्षेत्रजः पित्रिकासुतः पौनर्भवः कानीनो गूढोत्पन्नश् चेति । षड्विधा बन्धुदायादाः । पितृपितामहानाम् एकगोत्रा रिक्थपिण्डोदकसामान्यात् । तेषाम् अर्थं दशभागान् कुर्यात् । द्वौ भागौ पितुर् द्वाव् औरसस्य । त्रीन् क्षेत्रजपुत्रिकासुतयोः । एकैकम् इतरेषाम्” ।

पुनः शङ्खलिखितौ- “ऋषभो ऽधिको ज्येष्ठस्य । तस्याभावे क्षेत्रजपुत्रिकापुत्रसुतयोः । तयोर् अप्य् अभावे त्रयाणाम् इतरेषाम् । तेषाम् अप्य् अभावे षण्णाम् अदायादानाम् । अपविद्धः सहोष्हो दत्तः क्रीतकः शूद्रापुत्रः उपनतश् च स्वयम् इत्य् अदायादाः षड् एव पुत्राः । तेषां सारानुसारतो ऽर्थम् अपेक्ष्य देयम् एतेभ्यः प्रजीवनम्” ।

गौतमः [२५.३३]- “पुत्रा औरस-क्षेत्रज-दत्त-कृत्रिम-गूढोत्पन्नापविद्धा रिक्थभाजः । कानीन-सहोढ-पौनर्भव-पुत्रिकापुत्र-स्वयंदत्त-क्रीता गोत्रभाजश् चतुर्थांशिन औरसाभावे” ।

[७१३]गोत्रभाजः’ गोत्रं भजन्ते पिण्डोदकदानादिक्रियाभिः पुत्रकार्यं कुर्वन्तीति तथोच्यन्ते । एतच् च कानीनादीनां गोत्रभाक्त्ववचनम् औरसादीनाम् ऋक्थभाजाम् एकतरस्यापि सद्भावे ऽंशहरत्वनिषेधार्थम्” ।

औरस-क्षेत्रज-पुत्रिकापुत्र-पौनर्भव-कानीन-गूढोत्पन्नान् अभिधाय वसिष्ठः [१७.२५–२६]- “इत्य् एते दायादा बन्धवास् त्रातारो महतो भयाद् इत्य् आहुः । अथादायादबन्धूनां सहोढ एव प्रथमः” ।

इदं च पौनर्भव-कानीनयोर् अंशहरत्वाभिधानं पितृवर्णपौनर्भवकानीनविषयम् । गौतमीयं चैतयोर् अंशहरत्वनिषेधनम् असवर्णविषयम् ।

उत्पन्ने त्व् औरसे पुत्रे तृतीयांशहराः सुताः ।
सवर्णास्त्व् असवर्णास् तु ग्रासाच्छादनभागिनः ॥

इति कात्यायनवचनात् [८५७] । सहोढ-दत्त-क्रीत-स्वयमुपगतापविद्ध-शूद्रापुत्रान् अभिधाय, औरसादीन् परामृश्य — पुनर् वसिष्ठः [१७.३९]- “यस्य पूर्वेषां षण्णां न कश्चिद् दायादः स्याद् एते तस्य दायं हरेयुः” ।

हारीतः- “षड्बन्धुदायादाः षडबन्धुदायादाः । साध्व्यां स्वयम् उत्पादितः क्षेत्रजः पौनर्भवः कानीनः पुत्रिकापुत्रो गृहे गूढोत्पन्न इति बन्धुदायादाः । दत्तः क्रीतो ऽपविद्धः सहोढः स्वयमुपागतः सहसा दृष्टश् चेत्य् अबन्धुदायादाः” ।

[७१४]साध्व्याम्’ विवाहसंस्कृतायां ऽस्वयमुत्पादितः’ पुत्र औरस इत्य् अर्थः । “सहसा दृष्टः’ यो मातापित्रादिहीनो ऽकस्माद् दृष्टः केनचिद् अप्रेरितेन “मम त्वं पुत्र’ इत्य् उक्तः “तथा’ इति प्रतिपद्यते । “अबन्धुदायादाः’ बन्धुदायान् नाददते ये तथोक्ताः ।

यमः ।

पुत्रास् तु द्वादश् प्रोक्ता मुनिभिस् तत्त्वदर्शिभिः ।
तेषां षड् बन्धुदायादाः षड् अदादादबान्धवाः ॥
द्वयमुत्पादितश् चैको द्वितीयः क्षेत्रजः स्मृतः ।
तृतीयः पुत्रिकापुत्र इति धर्मविदो विदुः ॥
पौनर्भवश् चतुर्थस् तु कानीनश् चैव पञ्चमः ।
गृहे च गूढ उत्पन्नः षड् एते पिण्डदाः सुताः ॥
अपविद्धः सहोडश् च दत्तः कृत्रिम एव च ।
पञ्चमः क्रीतकः पुत्रो यश् चोपनयते स्वयम् ॥
इत्य् एते संकरोत्पन्नः षड् अदायादबान्धवाः ।

[७१५] मनुः [९.१५८–६०] ।

पुत्रान् द्वादश यान् आह मनुः स्वायंभुवो नृणाम् ।
तेषां षड् बन्धुदायादाः षड् अदायादबान्धवाः ॥
औरसः क्षेत्रजश् चैव दत्तः कृत्त्रिम एव च ।
गूढोत्पन्नो ऽपविद्धश् च दायादा बान्धवाश् च षट् ॥
कानीनश् च सहोढश् च क्रीतः पौनर्भवस् तथा ।
स्वयंदत्तश् च शौद्रश् च षड् अदायादबान्धवाः ॥

बौधायनः [२.३.३१–३२] ।

औरसं पुत्रिकापुत्रं क्षेत्रजं दत्तकृत्त्रिमौ ।
गूढजं चापविद्धं च रिक्थभाजः प्रचक्षते ॥
कानीनं च सहोढं च क्रीतं पौनर्भवं तथा ।
स्वयंदत्तं निषादं च गोत्रभाजः प्रचक्षते ॥

औरस-पुत्रिकापुत्र-क्षेत्रज-कानीन-गूढोत्पन्नापविद्ध-सहोढ-पौनर्भव-दत्तक-द्वयमुपागत-कृत्त्रिम-क्रीतान् अभिधाय, देवलः ।

एते द्वादशपुत्रास् तु सन्तत्यर्थम् उदाहृताः ।
आत्मजाः परजाश् चैव लब्धा यादृच्छिकास् तथा ॥
तेषां षड् बन्धुदायादाः पूर्वे ऽन्ये पितुर् एव षट् ।
विशेषश् चापि पुत्राणाम् आनुपूर्व्याद् विशिष्यते ॥
[७१६]
सर्वे ह्य् अनौरसस्यैते पुत्रा दायहराः स्मृताः ।
औरसे पुनर् उत्पन्ने तेषु ज्यैष्ठ्यं न तिष्ठति ॥
तेषां सवर्णा ये पुत्रास् ते तृतीयांशभागिनः ।
हीनास् तम् उपजीवेयुर् ग्रासाच्छादनसंभृताः ॥

औरस-क्षेत्रज-पुत्रिकापुत्र-पौनर्भव-कानीन-गूढोत्पन्न-सहोढ-दत्त-क्रीत-स्वयमुपागतापविद्ध-यत्रक्वचनोत्पादितान् अभिधाय, विष्णुः [१५.२८–३०]- “एतेषां पूर्वः पूर्वः श्रेयान् । स एव दायहरः । स चान्यान् बिभृयात्” ।

औरस-पुत्रिकासुत-क्षेत्रज-कानीन-पौनर्भव-दत्तक-क्रीत-स्वयंदत्त-सहोढापविद्धान् अभिधाय, याज्ञवल्क्यः [२.१३२] ।

पिण्डदो ऽंशहरश् चैषां पूर्वाभावे परः परः ।

नारदः [१६.४५–४७, ४९] ।

औरसः क्षेत्रजश् चैव पुत्रिकापुत्र एव च ।
कानीनश् च सहोढश् च गूढोत्पन्नस् तथैव च ॥
पौनर्भवो ऽपविद्धश् च दत्तः क्रीतः कृतस् तथा ।
स्वयं चोपागतः पुत्रा द्वादशैते प्रकीर्तिताः ॥

[७१७]

तेषां षड् बन्धुदायादाः षड् अदायादबान्धवाः ।
पूर्वः पूर्वः स्मृतः श्रेष्ठो जघन्यो यो य उत्तरः ॥
क्रमाद् एते प्रवर्तन्ते मृते पितरि तद्धने ।
ज्यायसो ज्यायसो ऽभावे जघन्यो यस् तद् आप्नुयात् ॥

मनुः [९.१८५] ।

न भ्रातरो न पितरः पुत्रा ऋक्थहराः स्मृताः ।

तथा [९.१८४] ।

श्रेयसः श्रेयसो ऽलाभे पापीयान् ऋक्थम् अर्हति ।
बहवश् चेत् तु सदृशाः सर्वे ऋक्थस्य भागिनः ॥

शङ्खलिखितौ ।

श्रेयसः श्रेयसो ऽलाभे पापीयान् ऋक्थम् अर्हति ।

बृहस्पतिः [व्य। २६.७२–७३] ।

दत्तो ऽपविद्धः क्रीतश् च कृतः शौद्रस् तथैव च ।
जातिशुद्धाः कर्मशुद्धा मध्यमास् ते सुता मताः ॥
क्षेत्रजो गर्हितः सद्भिस् तथा पौनर्भवः सुतः ।
कानीनश् च सहोढश् च गूढोत्पन्नस् तथैव च ॥

[७१८] हारीतः [बृहस्पति, व्य्। २६.७४–७५] ।

शूद्रापुत्राः स्वयंदत्ता ये चैते क्रीतकाः स्मृताः ।
सर्वे ते गोत्रिणः प्रोक्ताः काण्डपृष्ठा न संशयः ॥
स्वकुलं पृष्ठतः कृत्वा यो वै परकुलं व्रजेत् ।
तेन दुश्चरितेनासौ काण्डपृष्ठो न संशयः ॥

यमः ।

आपद्गतो ऽभ्युपगतो यश् च स्याद् वैष्णवीसुतः ।
सर्वे ते मनुना प्रोक्ता काण्डपृष्ठास् त्रयस् तथा ॥
कुलं काण्डम् इत् ख्यातं यस्मात् पूर्वाणि ते जहुः ।
तत्र ज्येष्थतरो यः स्यात् तं वै काण्डेति निर्दिशेत् ॥
स्वकुलं पृष्ठतः कृत्वा यो वै परकुलं व्रजेत् ।
तेन दुश्चरितेनासौ काण्डपृष्ठ इति स्मृतः ॥

ऽवैष्णवी’ शूद्रा ।

अथ पुत्रलक्षणम्

औरसः

तत्र वसिष्ठः [१७.१२–१३]- “द्वादश इत्य् एव पुत्राः पुत्राणदृष्टाः । स्वयम् उत्पादितः स्वक्षेत्रे संस्कृतायाम् औरसः” ॥।

[७१९] विष्णुः [१५.१–२]- “अथ द्वादश पुत्रा भवन्ति । स्वे क्षेत्रे संस्कृतायाम् उत्पादितः स्वयम् औरसः प्रथमः” ।

मनुः [९.१६६] ।

स्वे क्षेत्रे संस्कृतायां तु स्वयम् उत्पदयेद् धि यम् ।
तम् औरसं विजानीयात् पुत्रं प्राथमकल्पिकम् ॥

देवलः ।

संस्कृतायां च भार्यायां स्वयम् उत्पादितो हि यः ।
औरसो नाम पुत्रः स प्रधानः पितृवंशधृक् ॥

याज्ञवल्क्यः [२.१२८]- “औरसो धर्मपत्नीजः”

आपस्तम्बः [२.१३.१–२]- “सवर्णाम् अपूर्वां शास्त्रविहितां यथर्तु गच्छतः पुत्रास् तेषां कर्मभिः संबन्धः । दायेनाव्यतिक्रमश् चोभयोः” ।

[७२०] बौधायनः [२.३.१४, १६]- “सवर्णायां संस्कृतायां स्वयम् उत्पादितम् औरसं पुत्रम् विद्यात् । अथाप्य् उदाहरन्ति —

अङ्गाद् अङ्गात् संभवति हृदयाद् अभिजायसे ।
आत्मा वै पुत्रनामासि संजीव शरदः शतम्” ॥

शङ्खलिखितौ- “ब्राह्मणस् तु सवर्णायाः पाणिं गृह्णीयात् । तस्यां हि पितामहानां तनवो ऽनुसूयन्ते । पुत्रोपचारेणात्मानम् अनुमन्त्रयते । एवं ह्य् आह —

अङ्गाद् अङ्गात् संभवति हृदयाद् अभिजायसे ।
आत्मा वै पुत्रनामासि संजीव शरदः शतम्” ॥
आधत्त पितरो गर्भं कुमारं पुष्करस्रजम् ।
तथेह पुरुषस्यात्मा तस्मात् त्वम् इह जायसे ।
आत्मा पुत्र इति प्रोक्तः पितुर् मातुर् अनुग्रहात् ।
पुन्नाम्नस् त्रायते यस् तत्पुत्रस् तेनासि संज्ञितः ॥

अथ क्षेत्रजः

तत्रौरसानन्तरं वसिष्ठः [१७.१८]- “तदलाभे नियुक्तायां क्षेत्रजो द्वितीयः” ।

[७२१] विष्णुः [१५.२]- “नियुक्तायां सपिण्डेनोत्तमवर्णेन वोत्पादितः क्षेत्रजो द्वितीयः” ।

मनुः [९.१६७] ।

यस् तल्पजः प्रमीतस्य क्लीबस्य व्याधितस्य वा ।
स्वधर्मेण नियुक्तायां स पुत्रः क्षेत्रजः स्मृतः ॥

याज्ञवल्क्यः [२.१२८] ।

क्षेत्रजः क्षेत्रजातस् तु सगोत्रेणेतरेण वा ।

बौधायनः [२.३.१७–१८]- “मृतस्य प्रसूतो यः क्लीबस्य व्याधितस्य वान्येनानुमतः स्वक्षेत्रे स क्षेत्रजः । स एष द्विपिता द्विगोत्रश् च द्वयोर् अपि स्वधारिक्थभाग् भवति” ।

याज्ञवल्क्यः [२.१२७] ।

अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः ।
उभयोर् अप्य् असौ रिक्थी पिण्डदाता च धर्मतः ॥

[७२२] मनुः [९.५३] ।

क्रियाभ्युपगमाद् एतद् बीजार्थं यत्र दीयते ।
तस्येह भागिनौ दृष्टौ बीजी क्षेत्रिक एव च ॥

नारदः [१५.५८] ।

क्षेत्रिकानुमते बीजं यस्य क्षेत्रे प्रसिच्यते ।
तदपत्यं द्वयोर् एव बीजिक्षेत्रिकयोर् मतम् ॥

शङ्खलिखितौ- “मत्रसंस्कारकर्तुर् अपत्यम् इत्य् आङ्गिरसः । बीजक्षेत्रयोर् अनुमते यद् बीकं प्रकीर्यते तद् द्विधा शस्यम् इत्य् उशना” ।

कात्यायनः [८५९] ।

क्षेत्रिकस्य मतेनापि फलम् उत्पादयेत् तु यः ।
तस्येह भागिनौ तौ तु न फलं हि विनैकतः ॥

[७२३] हारीतः- “जीवति क्षेत्रजम् आहुर् अस्वातन्त्र्यात् । मृते द्व्यामुष्यायणम् अनूप्तबिजत्वात् । नाबीजं क्षेत्रं फलति, नाक्षेत्रं बीजं प्ररोहति, इत्य् उभयदर्शनाद् उभयोर् अपत्यम् इत्य् एके । तेषाम् उत्पादयितुः प्रथमपिण्डो भवति द्वौ पिण्डौ निर्वपेन् निर्वापे । अथ वैकपिण्डे द्वा अनुकीर्तयेत् । द्वितीये पुत्रं तृतीये पौत्रं लेपिनश् च त्रीन् वाचक्षाण आ सप्तमाद् इत्य् अपरे” ।

जीवति’ क्षेतपतौ । तस्यैव पुत्रम् “क्षेत्रजम् आहुः’ । अत्र हेतुः — “अस्वातन्त्र्यात्’ स्त्रियाः । “मृते’ तु क्षेत्रपतौ, ऽअपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता’ इति मनुवचनात् । यद्य् अपि स्त्रिया अस्वातन्त्र्यं तदवस्थं तथापि न क्षेत्रिण एवेति । अत्र हेतुम् आह — “अनूप्तबीजत्वात्’ क्षेत्रिणा । “निर्वापे’ निरुप्यते ऽस्मिन्न् इति “निर्वापः’ पितृयज्ञः । “एकपिण्डे द्वौ’ इति — एकैकस्मिन् पिण्डे द्वौ द्वाव् इति वीप्सावगन्तव्या । यदि द्विपिता स्याद् एकैकस्मिन् पिण्डे द्वौ द्वाव् उपलक्षयेद् इति आपस्तम्बवचनानुसारात् [आप्। श्रौ। १.९.७] । “द्वितीये पुत्रम्’ इत्यादि — द्वितीये पुत्रम् आरभ्येद् इत्य् अर्थः । “लेपिनश् च त्रीन् वाचक्षाणो’ द्वौ द्वाव् अनुकीर्तयेद् इत्य् अर्थः ।

नारदः [१६.२३] ।

द्व्यामुष्यायणका दद्युर् द्वाभ्यां पिण्डोदके पृथक् ।
रिक्थाद् अर्धं समादद्युर् बीजिक्षेत्रिकयोस् तथा ॥

[७२४] बौधायनः [२.३.१९- “अथाप्य् उदाहरन्ति —

द्विपितुः पिण्डदानं स्यात् पिण्डे पिण्डे च नामनी ।
त्रयश् च पिण्डाः षण्णां स्युर् एवं कुर्वन् न मुह्यति ॥ इति”

अथ पुत्रिकापुत्रः

तत्र वसिष्ठः [१७.१५]- “तृतीयः पुत्रिका विज्ञायते । अभ्रातृका [हि] पुंसः पितॄन् अभ्येति प्रतीचीनं गच्छति पुत्रत्वम्” ।

पुंसः’ पत्युः सकाशात् । “प्रतीचीनम्’ प्रत्यावृत्तिम्, पितृकुलाभिमुख्यम् इत्य् अर्थः ।

शङ्खलिखितौ- “पुत्रिका पुत्रवद् इति प्रचेतसः । तस्यापत्यं पुत्रिकासुता मातामहपितामहाभ्यां पिण्डदः ।

पुत्रदौहित्रयोर् लोके न विशेषो ऽस्त्य् अनुग्रहे ।
तस्मात् तु संशयान् नेहोपेयाद् अभ्रातृकां स्त्रियम् ॥

[७२५] याज्ञवल्क्यः [२.१२८] ।

औरसो धर्मपत्नीजस् तत्समः पुत्रिकासुतः ।

विद्याद् इत्य् अनुवृत्तौ बौधायनः [२.३.१५]- “अभ्युपगम्य दुहितरि जातं पुत्रिकापुत्रम् अस्यां दौहित्रम्” ।

अत्रानौरसाभिप्रायेण मनुः [९.१३१–३२] ।

दौहित्र एव तु हरेद् अपुत्रस्याखिलं धनम् ।
दौहित्रो ह्य् अखिलं रिक्थम् अपुत्रस्य पितुर् हरेत् ॥

औरसानुवृत्तौ देवलः ।

तत्तुल्यः पुत्रिकापुत्रो दायदः सो ऽथ वा भवेत् ।
स एव दद्यात् पिण्डं तु पित्रे मातामहाय च ॥
पौत्रदौहित्रयोर् लोके न विशेषो ऽस्तु धर्मतः ।
तयोर् ऽहि मातापितरौ संभूतौ तस्य देहतः ॥
अकृता वा कृता वापि यं विन्देत् सदृशं सुतम् ।
पौत्री मातामहस् तेन दद्यात् पिण्डं हरेद् धनम् ॥

कृताकृतदुहित्रधिकारे बृहस्पतिः [व्य। २६.१३३] ।

यथा पितृधने स्वाम्यं तस्याः सत्स्व् अपि बन्धुषु ।
तथैव तत्सुतो ऽपीष्टे मातृमातामहे धने ॥

[७२६] शङ्खलिखितौ- “स्त्रीधनं च कन्या लभते । तदपत्यस्य धनं कन्याभाग एव” ।

तदपत्यस्य’ तच्छब्देन पुत्रिकामातुः परिग्रहः । तत्सुतस्योत्तरकालं जातस्य अपुत्रकस्यातीतस्य धनम् “कन्याभाग एव’ पुत्रिकाभाग एव । तस्याः सोदरभ्रातृरूपत्वाद् इत्य् अभिप्रायः ।

अथ मनुः [९.१२७–२९] ।

अपुत्रो ऽनेन विधिना सुतां कुर्वीत पुत्रिकाम् ।
यदपत्यं भवेद् अस्यां तन् मम स्यात् स्वधाकरम् ॥
अनेन तु विधानेन पुरा चक्रे ऽथ पुत्रिकाम् ।
विवृद्ध्यर्थं स्ववंशस्य स्वयं दक्षप्रजापतिः ॥
ददौ स दश धर्माय काश्यपाय त्रयोदश ।
सोमाय राज्ञे सत्कृत्य प्रीतात्मा सप्तविंशतिम् ॥

वसिष्ठः [१८.१७] ।

अभ्रातृकां प्रदास्यामि तुभ्यं कन्याम् अलङ्कृताम् ।
अस्यां यो जायते पुत्रः स मे पुत्रो भवेद् इति ॥

[७२७] गौतमः [२८.१८–२०]- “पितोत्सृजेत् पुत्रिकाम् अनपत्यो ऽग्निं प्रजापतिं चेष्ट्वास्मदर्थम् अपत्यम् इति संवाद्य । अभिसन्धिमात्रात् पुत्रिकेत्य् एकेषाम् । तत्संशयान् नोपयच्छेद् अभ्रातृकाम्” ।

जाबालिः ।

पित्रिकायाः प्रदाने तु स्थालीपाकेन धर्मवित् ।
अग्निं प्रजापतिं चेष्ट्वा पुत्रदाने तथैव च ॥

ब्रह्मपुराणे ।

अपुत्रेण च या कन्या मनसा पुत्रवत् कृता ।
राजाग्निबान्धवेभ्यश् च समक्षं वाथ कुत्रचित् ॥
प्राग्गर्भम् अथ वा शुल्कम् उक्त्वा पित्रा वराय वै ।
मृते पितरि वा दत्ता सा विज्ञेया तु पुत्रिका ॥
पित्र्याद् ऋक्थात् समं भागं लभते तादृशी तु सा ।

[७२८] मनुः [९.१४०] ।

मातुः प्रथमतः पिण्डं निर्वपेत् पुत्रिकासुतः ।
द्वितीयं तु पितुस् तस्यास् तृतीयं तु पितुः पितुः ॥

अथ पौनर्भवः

तत्र वसिष्ठ-विष्णू [व। १७.१८; वि। १४.७] । “पौनर्भवश् चतुर्थः” ।

मनुः [९.१७५] ।

या तु पत्या परित्यक्ता विधवा वा स्वेच्छया ।
उत्पादयेत् पुनर् भूत्वा स पौनर्भव उच्यते ॥

याज्ञवल्क्यः [२.१३०] ।

अक्षतायां क्षतायां वा जातः पौनर्भवः सुतः ।

कात्यायनः [८६०] ।

क्लीबं विहाय पतितं या पुनर् लभते पतिम् ।
तस्यां पौनर्भवो जातो व्यक्तम् उत्पादकस्य सः ॥

[७२९]

अथ कानीनः

तत्र वसिष्ठः [१७.२१–२३]- “कानीनः पञ्चमः । या पितृगृहे ऽसंस्कृता कामाद् उत्पादयेत् स कानीनो मातामहस्य पुत्रो भवतीत्य् आहुः । अथाप्य् उदाहरन्ति —

अप्रत्ता दुहिता यस्य सुतं विन्देत तुल्यतः ।
पौत्री मातामहस् तेन दद्यात् पिण्डं हरेद् धनम् ॥ इति ।

नारदः [१६.१८] ।

अज्ञातपितृको यस् तु कानीनो गूढमातृकः ।
मातामहाय दद्यात् स पिण्डं रिक्थं हरेत् ततः ॥

बौधयनः [२.३.२४]- “असंस्कृताम् अनतिसृष्टां याम् उपगच्छेत् तस्यां यो जातः स कानीनः” ।

ब्रह्मपुराणे ।

अदत्तायां तु यो जातः सवर्णेन पितुर् गृहे ।
स कानीनः सुतस् तस्य यस्मै सा दीयते पुनः ॥

[७३०] नारदः [१६.१७] ।

कानीनश् च सहोढश् च गूढायां यश् च जायते ।
तेषां वोढा पिता ज्ञेयस् ते [च भागहरा स्मृताः] ॥

अथ गूढोत्पन्नः

तत्र मनुः [९.१७०] ।

उत्पद्यते गृहे यस्य न च ज्ञायेत कस्य सः ।
स गृहे गूढ उत्पन्नस् तस्य स्याद् यस्य तल्पजः ॥

अथ सहोढः

तत्र विष्णुः [१४.१५–१७]- “सहोढः सप्तमः । गर्भिणी या संस्क्रियते तस्याः पुत्रः । स तु पाणिग्राहस्य” ।

मनुः [९.१७३] ।

या गर्भिणी संस्क्रियते ज्ञाताज्ञातापि वा सती ।
वोढुः स गर्भो भवति सहोढ इति चोच्यते ॥

[७३१]

अथ दत्तकः

तत्र मनुः [९.१६८, १४१–४२] ।

माता पिता वा दद्यातां यम् अद्भिः पुत्रम् आपदि ।
सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्त्रिमः सुत्रः ॥
उपपन्नो गुणैः सर्वैः पुत्रो यस्य तु दत्त्रिमः ।
स हरेतैव तद् रिक्थं संप्राप्तो ऽप्य् अन्यगोत्रतः ॥
गोत्ररिक्थे जनयितुर् न हरेद् दत्त्रिमः सुतः ।
गोत्ररिक्थानुगः पिण्डो व्यपैति ददतः स्वधा ॥

वसिष्ठः [१५.१–८]- “शोणितशुक्रसंभवः पुरुषो मातापितृनिमित्तकः । तस्य प्रदानविक्रयपरित्यागेषु मातापितरौ प्रभवतः । न त्व् एकं पुत्रं दद्यात् प्रतिगृह्णीयाद् वा । स हि सन्तानाय पूर्वेषाम् । न तु स्त्री पुत्रं दद्यात् प्रतिगृह्णीयाद् वा । अन्यत्रानुज्ञानाद् भर्तुः । पुत्रं प्रतिग्रहीष्यन् बन्धून् आहूय राजनि च निवेद्य निवेशनस्य [७३१] मध्ये व्याहृतीः हुत्वादूरेबान्धवम् असन्निकृष्टम् एव प्रतिगृह्णीयात् । संदेहे चोत्पन्ने दूरेबान्धवं शूद्रम् इव अस्थापयेत् । विज्ञायते ह्य् एकेन बहूंस् त्रायत इति” ।

अदूरेबान्धवम्’ सन्निहितमातुलादिकम् । “असन्निकृष्टम् एव’ अविज्ञातगुणदोषम् अपि । अप्यर्थः एवकारः । “संदेहे’ इत्यादि — बान्धवानाम् असन्निधानाज् जातिसंदेहे शूद्रत्वेनाध्यवस्य संस्कारहीनम् एव “स्थापयेत्’ । शूद्रो ऽपि हि किल पुत्रो भवतीत्य् अभिप्रायः ।

अथ क्रीतः

तत्र मनुः [९.१७४] ।

क्रीणीयाद् यस् त्व् अपत्यार्थे मातापित्रोर् यम् अन्तिकात् ।
स क्रीतकः सुतस् तस्य सदृशो ऽसदृशो ऽपि वा ॥

[७३३] बौधायनः [२.३.२६]- “मातापित्रोर् हस्तात् क्रीतो ऽन्यतरस्य वा यो ऽपत्यार्थे गृह्यते स क्रीतकः” ।

अथ स्वयमुपागतः

तत्र मनुः [९.१७७] ।

मातापितृविहीनो यस् त्यक्तो वा स्याद् अकारणात् ।
आत्मानं दर्शयेद् यस्मै स्वयंदत्तस् तु स स्मृतः ॥

अथापविद्धः

तत्र विष्णुः [१५.२४–२६]- “अपविद्धस् त्व् एकादशः । पित्रा मात्रा च परित्यक्तः । स च येन गृहीतः” ।

वसिष्ठः [१७.३६–३७]- “अपविद्धः पञ्चमः । यं मातापितृभ्याम् अपास्तं गृह्णीयात्” ।

[७३४]

अथ कृत्त्रिमः

तत्र मनुः [९.१६९] ।

सदृशं यं प्रकुर्यातां गुणदोषविचक्षणम् ।
पुत्रं पुत्रगुणैर् युक्तं स विज्ञेयस् तु कृत्त्रिमः ॥

अथ शूद्रापुत्रः

[तत्र] विष्णुः [१५.२७]- “यत्र क्वचनोत्पादितश् च द्वादशः” ।

वसिष्ठः [१७.३८]- “शूद्रापुत्र एव [षष्ठो] भवतीत्य् आहुः” ।

मनुः [९.१७७] ।

यं ब्राह्मणस् तु शूद्रायां कामाद् उत्पदेयेत् सुतम् ।
स पारयन्न् एव शवस् तस्मात् पारशवः स्मृतः ॥

बौधायनः [२.३.२९–३०]- “द्विजातिप्रवराच् छूद्रायां जातः कामात् पारशव इति” ।

[७३५] अथ मनुः [९.१८०–८१] ।

क्षेत्रजादीन् सुतान् एतान् एकादश यथोदितान् ।
पुत्रप्रतिनिधीन् आहुः क्रियालोपान् मनीषिभिः ॥
य एते विहिताः पुत्राः प्रसङ्गाद् अन्यबीजजाः ।
यस्य ते बीजतो जातास् तस्य ते नेतरस्य तु ॥

बृहस्पतिः [व्य। २६.७७–७८] ।

पुत्रास् त्रयोदश प्रोक्ता मनुना ये ऽनुपूर्वशः ।
सन्तानकारणं तेषाम् औरसः पुत्रिकासुतः ॥
आज्यं विना यथा तैलं सद्भिः प्रतिनिधिः स्मृतम् ।
तथैकादशपुत्रास् तु पुत्रिकौरसयोर् विना ॥

[७३६] ब्रह्मपुराणे ।

दत्तकश् च स्वयंदत्तः कृत्त्रिमः क्रीत एव च ।
अपविद्धश् च ये पुत्रा भरणीयाः सदैव हि ॥
भिन्नगोत्राः पृथक् पिण्डाः भिन्नवंशकरास् तथा ।
सूतके मृतके वापि त्र्यहाशौचस्य भागिनः ॥
अपि वस्त्रान्नदारॄणां क्षेत्रबीजवतां तथा ।
शूद्रो दासः पारशवो विप्राणां विद्यते क्वचित् ॥
राज्ञां तु शापदग्धानां नित्यं क्षयवतां तथा ।
अथ संग्रामशीलानां कदाचिद् वा भवन्ति ते ॥
औरसो यदि वा पुत्रस् त्व् अथ वा पुत्रिकासुतः ।
विद्यते तत्र तेषां तु विज्ञेयाः क्षेत्रजादयः ॥
एकादश पृथग्गोत्रा वंशमात्रकरास् तु ते ।
श्राद्धादि दासवत् सर्वे तेषां कुर्वन्ति नित्यशः ॥
गूढोत्पन्नश् च कानीनः सहोढः क्षेत्रजस् तथा ।
पौनर्भवश् च वैश्यानां राजदण्डभयाद् अपि ॥
वर्जिताः पञ्च धनिनां शेषाः सर्वे भवन्त्य् अपि ।
शूद्राणां दासवृत्तीनां परपिण्डोपजीविनाम् ॥
परायत्तशरीराणां न क्वचित् पुत्र इत्य् अपि ।
तस्माद् दासाच् च दास्याच् च जायते दास एव हि ॥

[७३६]

अथ पुत्रत्वविचारः

तत्र वसिष्ठः [१८.६]- “क्षेत्रिणः पुत्रो जनयितुः पुत्र इति विवदन्ते” ।

आपस्तम्बः [२.१३.६] ।

अप्रमत्ता रक्षथ तन्तुम् एतं मा वः क्षेत्रे परबीजानि वाप्सुः ।
जनयितुः पुत्रो भवति सांपराये मोधं पिता कुरुते तन्तुम् एनम् ॥ इति ।

मनुः [९.३५–३६] ।

बीजस्य चैव योन्याश् च बीजम् उत्कृष्टम् उच्यते ।
सर्वभूतप्रसूतिर् हि बीजलक्षणलक्षिता ॥
यादृशं तूप्यते बीजं क्षेत्रे कालोपपादितम् ।
तादृग् रोहति तत् तस्मिन् बीजं स्वैर् व्यञ्जनं गुणैः ॥

तथा [९.४१, ४५–४६, ४८–५२, ५४–५५] ।

तत् प्राज्ञेन विनीतेन ज्ञानविज्ञानवेदिना ।
आयुष्कामेन वप्तव्यं न जातु परयोषिति ॥

[७३८]

एतावान् एव पुरुषो यज् जायात्मा प्रजेति च ।
विप्राः प्राहुस् तथा चैव यो भर्ता सा स्मृताङ्गना ॥
न निष्क्रयविसर्गाभ्यां भर्तुर् भार्या विमुच्यते ।
एवं धर्मं विजानीमः प्राक् प्रजापतिनिर्मितम् ॥
यथा यो’श्वोष्ट्रदासीषु त्व् अजाविमहिषीषु च ।
नोत्पादकः प्रजाभागी तथैवान्याङ्गनास्व् अपि ॥
ये ऽक्षेत्रिणो बीजवन्तः परक्षेत्रप्रवापिणः ।
ते वै सस्यस्य जातस्य न लभन्ते फलं क्वचित् ॥
यद्य् अन्यगोषु वृषभो वत्सानां जनयेच् छतम् ।
गोमिनाम् एव ते वत्सा मोघं स्कन्दितम् आर्षभम् ॥
तथैवाक्षेत्रिणो बीजं परक्षेत्रप्रवापिणः ।
कुर्वन्ति क्षेत्रिणाम् अर्थं न बीजी लभते फलम् ॥
फलं त्व् अनभिसंधाय क्षेत्रिणां बीजिनां तथा ।
प्रत्यक्षं क्षेत्रिणाम् अर्थो बीजाद् योनिर् गरीयसी ॥

[७३९]

मोघवाताहृतं बीजं यस्य क्षेत्रे प्ररोहति ।
तज् ज्ञेयं क्षेत्रिकस्यैव न बीजी लभते फलम् ॥
एष धर्मो गवाश्वस्य दास्युष्ट्राजाविकस्य च ।
विहङ्गमहिषीणां च विज्ञेयः प्रसवं प्रति ॥

शङ्खलिखितौ- “क्षेत्रिकस्याविज्ञानेन यद् बीजं प्रकीर्यते तत् क्षेत्रिकस्यैव । न तत्र बीजी भागम् अर्हति” ।

गौतमः [१८.९–१४]- “क्षेत्रियः पारदारिको न विभागम् अर्हति । नातिद्वितीयं जनयितुर् अपत्व्यम् । समयाद् अन्यस्य । जीवतश् च क्षेत्रे । परस्मात् तस्य । द्वयोर् वा । रक्षणात् तु भर्तुर् एव” ।

[७४०]नातिद्वितीयं जनयितुर् अपत्यम्’ इति — “द्वितीयं’ नियोगेन “जनयितुः’ द्वितीयम् अतिक्रम्य तृतीयम् अपत्यं न भवतीत्य् अर्थः । “समयाद् अन्यस्य’ ऽममेदम् अपत्यं भवतु’ इत् सङ्केतात्, “अन्यस्य’ बीजिनो भवति । “जीवतश् च क्षेत्रे — जीवतः प्रजननासमर्थस्य [पत्युः] “क्षेत्रे’ भार्यायाम्, यद् अपत्यं जायते तत् क्षेत्रिण एव ।

शङ्खलिखितौ- “नियतं क्षेत्रिणाम् अपत्यम् इति वेदवादो मातुर् अपत्यम् इत्य् एके” ।

तथा- “वसिष्ठकश्यपयोर् जलगतयोर् उदवासाद् उत्तीर्यैकः प्रजाम् उत्पादयत्य् अविज्ञातो लोकानाम् । एवं तयोर् द्विधा सन्तानः । यस्मात् कुलधर्मपरिग्रहरिक्थपिण्डोदकानि चैकतः कृत्वा परक्षेत्रोत्पन्ना अपि प्रयच्छन्ति” ।

अथ पुत्रादिदेशः

तत्र मनुः [९.१८२–८३] ।

भ्रातॄणाम् एकजातानाम् एकश् चेत् पुत्रवान् भवेत् ।
सर्वे ते तेन पुत्रेण पुत्रिणो मनुर् अब्रवीत् ।
सर्वासाम् एकपत्नीनाम् एका चेत् पुत्रिणी भवेत् ।
सर्वास् तास् तेन पुत्रेण प्राह पुत्रवतीर् मनुः ॥

बृहस्पतिः [व्य। २६.७९–८०] ।

यद्य् एकजाता बहवो भ्रातरस् ते सहोदराः ।
एकस्यापि सुते जाते सर्वे ते पुत्रिणः स्मृताः ॥

[७४१]

बह्वीनाम् एकपत्नीनाम् एष एव विधिः स्मृतः ।
एका चेत् पुत्रिणी तासां सर्वासां पिण्डदस् तु सः ॥

अथ पुत्रनिरुक्तादिः

तत्र मनु-विष्णू [म। ९.१३८; वि। १५.४४] ।

पुन्नाम्नो नरकाद् यस्मात् पितरं त्रायते सुतः ।
तस्मात् पुत्र इति प्रोक्तः स्वयम् एव स्वयंभुवा ॥

हारीतः ।

पुन्नामा निरयः प्रोक्तश् छिन्नतन्तुश् च नैरयः ।
तत्र वै त्रायते यस्मात् तस्मात् पुत्र इति स्मृतः ॥

बृहस्पतिः [व्य। २६.८१–८२] ।

पुंनाम्नो नरकाद् यस्मात् पितरं त्रायते यतः ।
मुखसंदर्शनेनापि तदुत्पत्तौ यतेत सः ॥
पौत्रो ऽथ पुत्रिकापुत्रः स्वर्गप्राप्तिकराव् उभौ ।
रिक्थपिण्डप्रदानेन समौ संपरिकल्पितौ ॥

[७४२] विष्णु-वसिष्ठौ [वि। १५.४५; वस्। १७.१] ।

ऋणम् अस्मिन् सन्नयति अमृतत्वं च विन्दति ।
पिता पुत्रस्य जातस्य पश्येच् चेज् जीवितो मुखम् ॥

शङ्खलिखित-पौठीनसयः ।

यत्र क्वचन जातेन पिता पुत्रेण नन्दति ।
तेन चानृणतां याति पितॄणां पिण्डदेन वै ॥

हारीतः ।

यस्य पुत्रः शुचिर् दक्षः पूर्वे वयसि धार्मिकः ।
नियन्ता चात्मदोषाणां स तारयति पूर्वजान् ॥

शङ्खलिखितौ ।

अग्निहोत्रं त्रयो वेदा यज्ञाश् च शतदक्षिणाः ।
ज्येष्ठपुत्रप्रसूतस्य कलां नार्हन्ति षोडशीम् ॥
पुत्रपौत्रप्रतिष्थस्य बहुपुत्रस्य जीवतः ।
अस्कन्नवेदयज्ञस्य हन्तप्राप्तं त्रिविष्टपम् ॥

शङ्खलिखित-विष्णु-वसिष्ठ-हारीताः ।

पुत्रेण लोकञ् जयति पौत्रेणानन्त्यम् अश्नुते ।
अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम् ॥

[७४३] याज्ञवल्क्यः [१.७८] ।

लोकानन्त्यं दिवः प्राप्तिः पुत्रपौत्रप्रपौत्रकैः ।

वसिष्ठः [१७.२–४]- “अनन्ता पुत्रिणो लोका नापुत्रस्य लोको ऽस्तीति श्रूयते । ऽप्रजाः सन्त्व् अपुत्रिणः’ इत्य् अभिशापः । ऽप्रजाभिर् अग्ने अमृतत्वम् अश्याम्’ इत्य् अपि निगमो भवति” ।

बृहस्पतिः [व्य। २६.८८–९०] ।

अपुत्रेण सुतः कार्यो यादृक् तादृक् प्रयत्नतः ।
पिण्डोदकक्रियाहेतोर् नामसंकीर्तनस्य च ॥
कङ्क्षन्ति पितरः पुत्रान् नरकापातभीरवः ।
गयां यास्यति यः काश्चित् सो ऽस्मान् सन्तारयिष्यति ॥
यथा जलं कुप्लवेन तरन् मज्जति मानवः ।
तथा पिता कुपुत्रैस् तु तमस्य् अन्धे निमज्जति ॥

[७४४]

अथ निन्दितः

तत्र मनुः [९.१४३–४४] ।

अनियुक्तासुतश् चैव पुत्रिण्याप्तश् च देवरात् ।
उभौ तौ नार्हतौ भागं जारजातककामजौ ॥
नियुक्तायाम् अपि पुमान् नार्यां जातो ऽविधानतः ।
नैवार्हः पैतृकं रिक्थं पतितोत्पादितो हि सः ॥

गौतमः [२८.२४]- “देवरवत्याम् अन्यजातम् अभागम्” ।

नारदः [१६.१९–२०] ।

जाता ये त्व् अनियुक्तायाम् एकेन बहुभिस् तथा ।
अरिक्तभागस् ते सर्वे बीजिनाम् एव ते सुताः ॥
दद्युस् ते बीजिनो पिण्डं माता चेच् छुल्कतो हृता ।
अशुल्कोपनतायां च पिण्डदा वोढुर् एव ते ॥

[७४५] मनुः [९.१९१] ।

द्वौ तु यौ विवदेयातां द्वाभ्यां जातौ स्त्रियां धने ।
तयोर् यद्य् अस्य पित्र्यं स्यात् तत् स गृह्णीत नेतरः ॥

अथ अपुत्रधनविभागः

तत्र मनुः [९.१९०] ।

संस्थितस्यानपत्यस्य सगोत्रात् तन्तुम् आहरेत् ।
तत्र यद् ऋक्थजातं स्यात् तत् तस्मै प्रतिपादयेत् ॥

तन्तुम् आहरेत्’ सगोत्रात् पुरुषात् सन्तानम् उत्पादयेद् इत्य् अर्थः ।

वृद्धमनुः ।

अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता ।
पत्न्य् एव दद्यात् तत् पिण्डं कृत्स्नम् अर्थं लभेत च ॥

[७४६] बृहस्पतिः [व्य। २६.९२–९५, ९७–९८, १०५] ।

आम्नाये स्मृतितन्त्रे च लोकाचारे च सूरिभिः ।
शरीरार्धं स्मृता जाया पुण्यापुण्यफले समा ॥
यस्य नोपरता भार्या देहार्धं तस्य जीवति ।
जीवत्य् अर्धशरीरे ऽर्थं कथम् अन्यः समाप्नुयात् ॥
सकुल्यैर् विद्यमानैस् तु पितृभ्रातृसनाभिभिः ।
असुतस्य प्रमीतस्य पत्नी तद्भागहारिणी ॥
पूर्वप्रमीताग्निहोत्रं मृते भर्तरि तद्धनम् ।
विन्देत् पतिव्रता नारी धर्म एष सनातनः ॥
जङ्गमं स्थावरं हैमं कुप्यधान्यरसाम्बरम् ।
आदाय दापयेच् छ्राद्धं मासषाण्मासिकादिकम् ॥
पितृव्यगुरुदौहित्रान् भर्तुः स्वस्रीयमातुलान् ।
पूजयेत् कव्यपूर्ताभ्यां वृद्धान्धान् अतिथीन् स्त्रियः ॥
तत्सपिण्डा बान्धवाश् च ये ऽन्ये स्युः परिपन्थिनः ।
हिंस्युर् धनानि तान् राजा चौरदण्डेन शासयेत् ॥

[७४७] अथ नारदः [१६.५०] ।

पुत्राभावे तु दुहिता तुल्यसन्तानदर्शनात् ।
पुत्रश् च दुहिता चोभौ पितुः सन्तानकारकौ ॥

तथा (?) । [मनु ९.१३०]

यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा ।
तस्याम् आत्मनि तिष्ठन्त्यां कथम् अन्यो धनं हरेत् ॥

बृहस्पतिः [व्य। २६.१३२] ।

सदृशी सदृशेनोढा साध्वी शुश्रूषणे रता ।
कृताकृता वापुत्रस्य पितुर् धनहरी तु सा ॥

ऽकृता’ पुत्रिकात्वेन स्थापिता ।

तथा [व्य। २६.१३५] ।

भार्यासुतविहीनस्य तनयस्य मृतस्य च ।
माता ऋक्थहरी ज्ञेया भ्राता वा तदनुज्ञया ॥

[७४८] मनुः [९.२१७] ।

अनपत्यस्य पुत्रस्य माता दायादम् आप्नुयात् ।
मातर्य् अपि च वृत्तायां पितुर् माता हरेद् धनम् ॥

गौतमः [२७.२८]- “असंसृष्टिविभागः । प्रेतानां ज्येष्ठस्य” ।

मनुः [९.१८५–८७] ।

पिता हरेद् अपुत्रस्य रिक्थं भ्रातर एव वा ।
त्रयाणाम् उदकं कार्यं त्रिषु पिण्डः प्रवर्तते ॥
चतुर्थः संप्रदातैषां पञ्चमो नोपपद्यते ।
अत ऊर्ध्वं सकुल्यः स्याद् आचार्यः शिष्य एव वा ॥

पैठीनसिः- “अपुत्रस्य स्वर्यातस्य भ्रातृगामि द्रव्यम् । तदभावे मातापितरौ लभेताम् । पत्नी वाज्येष्ठा सगोत्रशिष्यसब्रह्मचारिणः” ।

यच् च ऽअपुत्रधनं पत्न्यभिगामि’ इत्यादि विष्णुवचनेन [१७.४] भ्रातृसद्भावे ऽप्य् अपुत्रधनस्य पत्न्यभिगामित्वं प्रतिपादितम्, तत् ऽअपुत्रा [७४९] शयनं भर्तुः’ इत्यादि वृद्धमनुवाक्यपर्यालोचनया भर्तृशयनपरिपालनश्राद्धकरणादिगुणोपेता या पत्नी तद्विषयम् । या चैवंविधा न भवति तस्यां विद्यमानायाम् अप् भ्रातृगाम्य् एव तद् धनम् । यच् च —

भरणं चास्य कुर्वीरन् स्त्रीणाम् आजीवनक्षयात् ।
रक्षन्ति शय्यां भर्तुश् चेद् आच्छिद्युर् इतरासु तत् ॥

इति भरणमात्रं शङ्खेनोक्तम् । तद्वैधव्यव्ररहिताव्यभिचारिणीमात्रविषयम् । यश् च याज्ञवल्क्येन (२.१३५) ऽपितरौ भ्रातरस् तथा’ इति भ्रातृसद्भावे पित्रोर् एवाधिकार उक्तः; सः पितृपितामहाद्युपार्जितधनविषयः । यच् च पितृद्र्व्याविरोधेनोपार्जितं तत् पित्रोः सद्भावे ऽपि भ्रातॄणाम् एव ।

देवलः ।

ततो दायम् अपुत्रस्य विभजेरन् सहोदराः ।
कुल्या दुहितरो वापि ध्रियमाणः पितापि वा ॥
सवर्णा भ्रातरो माता भार्या वेति यथाक्रमम् ।
तेषाम् अभावे गृह्णीयुः कुल्यानां सहवासिनः ॥

[७५०] याज्ञवल्क्यः [२.१३५–३६] ।

पत्नी दुहितरश् चैव पितरौ भ्रातरस् तथा ।
तत्सुतो गोत्रजो बन्धुः शिष्यः सब्रह्मचारिणः ॥
एषाम् अभावे पूर्वस्य धनभाग् उत्तरोत्तरः ।
स्वर्यातस्य ह्य् अपुत्रस्य सर्ववर्णेष्व् अयं विधिः ॥

विष्णुः (१९.४–१३)- “अपुत्रस्य धनं पत्न्यभिगामि । तदभावे दुहितृगामि । तदभावे मातृगामि । तदभावे पितृगामि । तदभावे भ्रातृगामि । तदभावे भ्रातृपुत्रगामि । तदभावे बन्धुगामि । तदभावे सकुल्यगामि । तदभावे सहाध्यायिगामि । तदभावे ब्राह्मणधनवअर्जं राजगामि” ।

दुहितृदौहित्रानन्तरं बृहस्पतिः [व्य। २६.१३४] ।

तदभावे भ्रातरस् तु भ्रातृपुत्राः सनाभयः ।
सकुल्या बान्धवाः शिष्याः श्रोत्रियाश् च धनार्हकाः ॥
मृत ऽनपत्यो ऽभार्यश् चेद् अभ्रातृपितृमातृकः ।
सर्वे सपिण्डास् तद् दायं विभजेरन् यथांशतः ॥

[७५१]

समुत्पन्ना धनाद् अर्धं तदर्धं स्थापयेत् पृथक् ।
मासषाण्मासिकश्राद्धे वार्षिकं च प्रयत्नतः ॥
बहवो ज्ञातयो यत्र सकुल्या बान्धवास् तथा ।
यो ह्य् आसन्नतरस् तेषां सो ऽनपत्यधनं हरेत् ॥

बौधायनः [१.११.१५–१२]- “प्रपितामहः पितामहः पिता स्वयं सोदर्या भ्रातरः सवर्णायाः पुत्रपौत्राः प्रपौत्रास् तान् अविभक्तदायादान् सपिण्डान् आचक्षते । विभक्तादायादान् अपि सकुल्यान् आचक्षते । असत्स्व् अङ्गजेषु तद्गामी ह्य् अर्थो भवति । सपिण्डाभावे सकुल्यः । तदभावे पिताचार्यो ऽन्तेवासी ऋत्विग् वा हरेत् । तदभावे राजा” ।

नारदः [१६.५१–५२] ।

अभावे दुहितॄणां च सकुल्या बान्धवास् तथा ।
ततः सजात्याः सर्वेषाम् अभावे राजगामि तत् ॥
अन्यत्र ब्राह्मणात् किं तु राजा धर्मपरायणः ।
तत् स्त्रीणां जीवनं दद्याद् एष दायविधिः स्मृतः ॥

देवलः ।

सर्वत्र दायकं राजा हरेद् ब्रह्मस्ववर्जितम् ।
अदापयं ब्रह्मस्वं श्रोत्रियभ्यः प्रदापयेत् ॥

[७५२] बौधायनः [१.११.१४] ।

ब्रह्मस्वं पुत्रपौत्रघ्नं हन्याद् एकाकिनं विषम् ।
[न विषं विषम् इत्य् आहुर् ब्रह्मस्वं विषम् उच्यते] ॥
तस्माद् राजा ब्राह्मणस्वं नददीत कथंचन ।
परमं ह्य् एतद् विषं यद् ब्राह्मणस्वम् इति ॥

बृहस्पतिः [व्य। २६.११९] ।

ये ऽपुत्राः क्षत्रविट्शूद्राः पत्नीभ्रातृविवर्जिताः ।
तेषां धनं हरेद् राजा सर्वस्याधिपतिर् हि यः ॥

शङ्खलिखितौ- “परिषद्गामि वा श्रोत्रियद्रव्यं न राजगामि । न हार्यं राज्ञा देवब्राह्मणसंस्थितम् । न निक्षेपोपनिधिक्रमागतम् । न बालस्त्रीधनानि । एवं ह्य् आह —

न हार्यं स्त्रीधनं राज्ञा तथा बालधनानि च ।
नार्याः षडागमं वित्तं बालानां पैतृकं धनम् ॥”

मनुः [८.२७] ।

बालदायागतं रिक्थं तावद् राजा तु पालयेत् ।
यावत् स स्यात् समावृत्तो यावद् वातीतशैशवः ॥

[७५३] विष्णुः [३.६५]- “बालानाथस्त्रीधनानि च राजा परिपालयेत्” ।

शङ्खलिखितौ- “रक्षेद् राजा बालानां धनान्य् अप्राप्तव्यवहाराणां श्रोत्रियविईरपत्नीनाम् । प्रहीणस्वामिकानि राजगामीनि भवन्ति” ।

पुत्राधिकारे बौधायनः [२.३.३७]- “तेषाम् अप्राप्तव्यवहाराणाम् अंशान् सोपचयान् सुगुप्तान् निदध्याद् आ व्यवहारप्रापणात्” ।

कात्यायनः [८४५] ।

प्रोषितस्य च यो भागो रक्षेयुः सर्व एव तम् ।
बालपुत्रे मृते रिक्थं रक्ष्यं तत्स्वं तु बन्धुभिः ॥
पोगन्डाः परतस् तं तु विभजेरन् यथांशतः ।

बालपुत्रे’ बालः पुत्रः यस्य तस्मिन् । “पोगण्डो’ अतिबालः व्यवहारानभिज्ञः ।

विष्णुः [१५.४०]- “यश् चार्थहरः स पिण्डदायी” ।

स्मृतिः- “यो धनम् आददीत स तस्मै श्राद्धं कुर्यात् । पिण्डं च त्रिपुरुषं दद्यात्” इति ।

[७५४] बृद्धशातातपो बृहस्पतिश् च [व्य। २६.१३९] ।

भ्राता वा भ्रातृपुत्रो वा सपिण्डः शिष्य एव वा ।
सह पिण्डक्रियां कृत्वा कुर्याद् अभ्युदयं ततः ॥

वसिष्ठः [विष्णु १५.३१]- “पुत्रः पितृवित्तालाभे ऽपि पिण्डं दद्यात्” ।

अथ विष्णुः [१७.१५]- “वानप्रस्थधनम् आचार्यो गृह्णीयाच् छिष्यो वा” ।

याज्ञवल्क्यः [२.१३७] ।

वानप्रस्थयतिब्रह्मचारिणाम् ऋक्थभागिनः ।
क्रेमेनाचार्यसच्छिष्यधर्मभ्रात्रेकतीर्थिनः ॥

अथ संसृष्टिविभागः

तत्र मनुः [९.२१०–१२] ।

विभक्तः सह जीवन्तो विभजेरन् पुनर् यदि ।
समस् तत्र विभागः स्याज् ज्यैष्ठ्यं तत्र न विद्यते ॥
येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः ।
म्रियेतान्यतरो वापि तस्य भागो न लुप्यते ॥

[७५५]

सोदर्या विभजेरंस् तं समेत्य सहिताः समम् ।
भ्रातरो ये च संसृष्टा भागिन्यश् च सनाभयः ॥

बृहस्पतिः [व्य। २६.१०६] ।

संसृष्टौ यौ पुनः प्रीत्या तौ परस्परभागिनौ ।

तथा [व्य। २६.१०६–०८, ११२] ।

विभक्ता भ्रातरो ये च संप्रीत्यैकत्र संस्थिताः ।
पुनर् विभागकरणे ज्यैष्ठ्यं तेषां न विद्यते ॥
यदा कश्चित् प्रमीयेत प्रव्रजेद् वा कथंचन ।
न लुप्यते तस्य भागः सोदरस्य विधीयते ॥
या तस्य भगिनी सा तु ततो ऽंशं लब्धुम् अर्हति ।
अनपत्यस्य धर्मो ऽयम् अभार्यापितृकस्य च ॥
संसृष्टानां तु यः कश्चिद् विद्याशौर्यादिनाधिकम् ।
प्राप्नोति तस्य दातव्यो द्व्यंशः शेषाः समांशिनः ॥

नारदः [१६.२४] ।

संसृष्टानां तु यो भागस् तेषाम् एव स इष्यते ।
अतो ऽन्यथांशभाजस् तु निर्बीजेष्व् इतरान् इयात् ॥

[७५६]अतो ऽन्यथा’ संसृष्टिनाम् अभावे । “निर्बीजेषु’ सन्तानरहितेषु । “इतरान्’ अंशहरान् । “इयात्’ गच्छेत् ।

शङ्खः ।

भ्रातॄणाम् अप्रजाः प्रेयात् कश्चित् चेत् प्रव्रजेत् वा ।
विभजेरन् धनं तस्य शेषास् तु स्त्रीधनं विना ॥
भरणं चास्य कुर्वीरन् स्त्रीणाम् आ जीवितक्षयात् ।
रक्षन्ति शय्यां भर्तुश् चेद् आच्छिन्द्युर् इतरासु तत् ॥
या तस्य दुहिता तस्याः पित्रंशो भरणे मतः ।
आ संस्काराद् धरेद् भागं परतो बिभृयात् पतिः ॥

इतरासु’ शय्याम् अरक्षन्तीषु । “आ संस्कारात्’ विवाहम् अभिव्याप्य तावतं भागं हरेद् यावता विवाहस्य निष्पत्तिर् इत्य् अर्थः ।

याज्ञवल्क्यः [२.१३८] ।

संसृष्टिनस् तु संसृष्टी सोदरस्य तु सोदरः ।
दद्याच् चापहरेच् चांशं जातस्य च मृतस्य च ॥

[७५७] अनन्तरं याज्ञवल्क्यः [२.१३९] ।

अन्योदर्यस् तु संसृष्टी नायोदर्यधनं हरेत् ।
असंसृष्ट्य् अपि वादद्यात् संसृष्टो नान्यमातृजः ॥

संसृष्टो’ अत्र एकोदरसम्बद्धः सोदरो ऽभिप्रेतः ।

कात्यायनः [९३२] ।

संसृष्टानां तु संसृष्टा पृथक्स्थानां पृथक्स्थिताः ।
अभावे ऽर्थहरा ज्ञेया निर्बीजान्योन्यभागिनः ॥

अभावे’ स्त्रीपुत्रादीनाम् अर्थहराणाम् अभावे ।

बृहस्पतिः [व्य। २६.११३] ।

विभक्तो यः पुनः पित्रा भ्रात्रा वैकत्र संस्थितः ।
पितृव्येनाथ वा प्रीत्या स तु संसृष्ट उच्यते ॥

[७५८]

अथ विभागनिश्चयः

तत्र नारदः [१६.३६–४०] ।

विभागधर्मसंदेहे दायादानां विनिर्णयः ।
ज्ञातिभिर् भागलेख्येन पृथक्कार्यप्रवर्तनात् ॥
भ्रातॄणाम् अविभक्तानाम् एको धर्म प्रवर्तते ।
विभागे सति धर्मो ऽपि भवेत् तेषां पृथक् पृथक् ॥
दानग्रहणपश्वन्नगृहक्षेत्रपरिग्रहाः ।
विभक्तानां पृथग् ज्ञेयाः पाकधर्मागमव्ययाः ॥
साक्षित्वं प्रातिभाव्यं च दानं ग्रहणम् एव च ।
विभक्ता भ्रातरः कुर्युर् नाविभक्ताः परस्परम् ॥
येषाम् एताः क्रिया लोके प्रवर्तन्ते स्वरिक्थतः ।
विभक्तान् अवगच्छेयुर् लेख्यम् अप्य् अन्तरेण तान् ॥

याज्ञवल्क्यः [२.१४९] ।

विभागनिह्नवे ज्ञातिबन्धुसाक्ष्यभिलेखितैः ।
विभागभावना ज्ञेया गृहक्षेत्रैश् च यौतकैः ॥

[७५९] तथा [२.५२] ।

भ्रातॄणाम् अथ दम्पत्योः पितुः पुत्रस्य चैव हि ।
प्रातिभाव्यम् ऋणं साक्ष्यम् अविभक्ते न तु स्मृतम् ॥

यौतकैः’ पृथाभूतैः ।

बृहस्पतिः [व्य। २६.१४७] ।

पृथग् आयव्ययधनाः कुसीदश् च परस्परम् ।
वणिक्पथं च ये कुर्युर् विभक्तास् ते न संशयः ॥

अथ विभ्क्तकृत्यम्

तत्र नारदः ।

यद्य् एकजाता बहवः पृथग्धर्माः पृथक्क्रियाः ।
पृथक्कर्मगुणोपेता न चेत् कार्येषु संमताः ॥

[७६०]

स्वभागान् यदि दद्युस् ते विक्रीणीयुर् अथापि वा ।
कुर्युर् यथेष्टं तत् सर्वम् ईशास् ते स्वधनस्य वै ॥

बृहस्पतिः [व्य। २६]

येनांशो यादृश्ō भुक्तस् तस्य तन् न विचालयेत् ।

तथा [व्य। २६] ।

स्वेच्छाकृतविभागो यः पुनर् एव विसंवदेत् ।
स राज्ञांशे स्वके स्थाप्यः शासनीयो ऽनुबन्धकृत् ॥

तथा [व्य २६] ।

विभक्ता ह्य् अविभक्ता वा दायादा स्थावरे समाः ।
एको ह्य् अनीशः सर्वत्र दानाधमनविक्रये ॥

इति महाराजाधिराजश्रीगोविन्द्चन्द्रदेवमहासान्धिविग्रहिकेण

**भट्टश्रीहृदयधरात्मजेन भट्टश्रीलक्ष्मीधरेण विरचिते **

कृत्यकल्पतरौ व्यवहारकाण्डे दायविभागः ॥

[७६१]