अथ स्त्रीपुंयोगः
तत्र बृहस्पतिः [२५.१] ।
एतत् संग्रहणस्योक्तं विधानं विनयं तथा ।
स्त्रीपुंसवर्तनोपायः श्रूयतां गदतो मम ॥
नारदः [१५.२] ।
विवाहादिविधिः स्त्रीणां यत्र पुंसां च कीर्त्यते ।
स्त्रीपुंसयोग इत्य् एतद् विवादपदम् उच्यते ॥
तत्र विवाहविधिः विवाहकाण्डे वर्णितः \
अथ स्त्रीपुंसधर्माः
तत्र ऽपुरुषस्य स्त्रियां वृत्तिः’ इत्य् अत्र —
मनुः [९.१–२] ।
पुरुषस्य स्त्रियाश् चैव धर्म्ये वर्त्मनि तिष्ठतोः ।
संयोगे विप्रयोगे च दर्मान् वक्ष्यामि शास्वतान् ॥
अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर् दिवानिशम् ।
विषयेषु च सज्जन्त्यः संस्थाप्याश् चात्मनो वशे ॥
[६०२] नारदः [१६.३०] ।
स्वातन्त्र्याद् विप्रणश्यन्ति कुले जाता अपि स्त्रियः ।
अस्वातन्त्र्यम् अतस् तासां प्रजापतिर् अकल्पयत् ॥
मनुः [९.३] ।
पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
पुत्रास् तु स्थविरे भावे न स्त्री स्वातन्त्र्यम् अर्हति ॥
याज्ञवल्क्यः [१.८५] ।
रक्षेत् कन्यां पिता विन्नां पतिः पुत्रास् तु वार्धिके ।
अभावे ज्ञातयस् तेषां स्वातन्त्र्यं न क्वचित् स्त्रियाः ॥
हारीतः- “एकव्रतस्कन्नभावात् परेन्द्रियोपहतत्वाच् च दुष्टाः कुलसङ्करकारुण्यो भवन्ति । जीवति जारजः कुण्डो मृते भर्तरि गोलकः । तस्माद् रेतोपघाताज् जायां रक्षेत् । जायानाशे कुलनाशः । कुलनाशे तन्तुनाशः । तन्तुनाशे देवपितृयज्ञनाशः । धर्मनाशे आत्मनाशः । आत्मनाशे सर्वनाशः” ।
“एकव्रतस्कन्नभावाद्’ इति — एक एव पतिर् इति यो ऽयं व्रतनियमः ततः स्खलनाद् इत्य् अर्थः । “तन्तुः’ पुत्रपौत्रदिसन्ततिः ।
[६०३] मनुः [९.५–७] ।
सूक्ष्मेभ्यो ऽपि प्रसङ्गेभ्यः स्त्रियो रक्ष्याः प्रयत्नतः ।
द्वयोर् हि कुलयोः शोकम् आवहेयुर् अरक्षिताः ॥
इमं हि सर्ववर्णानां पश्यन्तो धर्मम् उत्तमम् ।
यतन्ते रक्षितुं भार्यां भर्तारो दुर्बला अपि ॥
स्वां प्रसूतिं चरित्रं च कुलम् आत्मानम् एव च ।
स्वधर्मं हि प्रयत्नेन जायां रक्षन् हि रक्षति ॥
वर्णसंकरानन्तरं पैठीनसिः- “तस्माद् रक्षेत् भार्यां सर्वतः । मा स्म संकरो भवत्व् इत्य् आह ।
अप्रमत्ता रक्षत तन्तुम् एनं मा वः क्षेत्रे परबीजान्य् अवाप्सुः ।
भार्यां रक्षत कौमारीं बिभ्यतः पररेतसः” ॥
बृहस्पतिः [२५.२] ।
सूक्ष्मेभ्यो ऽपि प्रसङ्गेभ्यो निवार्या स्त्री स्वबन्धुभिः ।
श्वश्र्वादिभिर् गुरुस्त्रीभिः पालनीया दिवानिशम् ॥
नारदः [१६.२८–२९] ।
मृते भर्तर्य् अपुत्रायाः पतिपक्षः प्रभुः स्त्रियाः ।
विनियोगात्मरक्षासु भरणे तु स ईश्वरः ॥
[६०४]
परिक्षीणे पतिकुले निर्मनुष्ये निराश्रये ।
तत्सपिण्डेषु चासत्सु पितृपक्षः प्रभुः स्त्रियाः ॥
पक्षद्वयावसाने तु राजा भर्ता स्मृतः स्त्रियाः ।
स तस्या रक्षणं कुर्यान् निगृह्णीयात् पथश् च्युताम् ॥
मनुः [९.४] ।
काले ऽदाता पिता वाच्यो वाच्यश् चानुपयन् पतिः ।
मृते भर्तरि पुत्रस् तु वाच्यो मातुर् अरक्षिता ॥
बृहस्पतिः [२५.५] ।
अप्रयच्छन् पिता काले पतिश् चानुपयन्न् ऋतौ ।
पुत्रश् चाभक्तदो मातुर् गर्ह्या दण्ड्याश् च धर्मतः ॥
मनुः [९.१४–१५, १७–२१, १६] ।
नैता रूपं परीक्षन्ते नासां वयसि निश्चयः ।
विरूपं रूपवन्तं वा पुमान् इत्य् एव भुञ्जते ॥
पौंश्चल्याच् चलचित्तत्वान् नैस्नेह्याच् च स्वभावतः ।
रक्षिता यत्नतो ऽपीह भर्तृष्व् एता विकुर्वते ॥
शय्यासनम् अलंकारं कामं क्रोधम् अनार्जवम् ।
द्रोहभावं कुचर्यां च स्त्रीभ्यो मनुर् अकल्पयत् ॥
[६०५]
नास्ति स्त्रीणां क्रिया मन्त्रैर् इति धर्म व्यवस्थितः ।
निरिन्द्रिया ह्य् अमन्त्राश् च स्त्रियो ऽनृतम् इति स्थितिः ॥
तथा हि श्रुतयो बह्व्यो निगीता निगमेष्व् अपि ।
स्वालक्षण्यपरीक्षार्थं तासां शृणुत निष्कृतिम् ॥
यन् मे माता प्रलुलुभे विचरन्त्य् अपतिव्रता ।
तन् मे रेतः पिता वृङ्क्ताम् इत्य् अस्यैतन् निदर्शनम् ॥
ध्यायत्य् अनिष्टं यत् किंचित् पाणिग्राहस्य चेतसा ।
तस्यैष व्यभिचारस्य निह्नवः सम्यग् उच्यते ॥
एवं स्वभावं ज्ञात्वासां प्रजापतिनिसर्गजम् ।
परमं यत्नम् आतिष्ठेत् पुरुषो रक्षणं प्रति ॥
[६०६] “निरिन्द्रिया’ निर्वीर्या धैर्यप्रज्ञाबलादिरहिता इत्य् अर्थः । “स्त्रियो ऽनृतम्’ इति प्रायशो ऽनृतवदनशीलत्वाद् उच्यते । “श्रुतयः’ श्रुतिवाक्यानि । “निगमेषु’ वेदेषु । “स्वालक्षण्यम्’ स्वरूपम् । तासाम् इत्यादि — तासां श्रुतीनां मध्ये या निष्कृतिरूपा [मानस]व्यभिचारप्रायश्चित्तभूताः, ताः श्रुतीः “शृणुत’ स्त्रीस्वभावजानार्थम् इत्य् अर्थः । “तन् मे रेतः पिता वृङ्क्ताम्’ इति, तन् मात्रा परपुरुषलोभजनितं पापं पितुः रेतो ऽपनुदतु इति । पितेति षष्ठ्यर्थे प्रथमा । “प्रजापतिनिस्रगजम्’ प्रजापतिर् हिरण्यगर्भः, तदीयम् अनिसर्गे सृष्टिकाले जातम् ।
दक्षः ।
जलौकवत् स्त्रियः सर्वा भूषणाच्छादनाशनैः ।
सुभृताप् कृता नित्यं पुरुषं ह्य् अपकर्षति ॥
जलौका रक्तम् आदत्ते केवलं सा तपस्विनी ।
इतरा तु धनं वित्तं मांसं वीर्यं बलं सुखम् ॥
साशङ्का बालभावे तु यौवने ऽभिमुखी भवेत् ।
तृणवन् मन्यते नारी वृद्धभावे स्वकं पतिम् ॥
स्वाकाम्ये वर्तमाना सा स्नेहान् न च निवरिता ।
अपथ्या तु भवेत् पश्चाद् यथा व्याधिर् उपेक्षितः ॥
“स्वाकाम्ये’ स्वेच्छायाम् ।
[६०७] मनुः [९.९] ।
यादृशं भजते हि स्त्री सूते ऽपत्यं तथाविधम् ।
तस्मात् प्रजाविशुद्ध्यर्थं स्त्रियो रक्षेत् प्रयत्नतः ॥
शङ्खलिखितौ- “यस्मिन् भावो ऽर्पितः स्त्रीणाम् आर्तवे तादृशं पुत्रं जनयन्ति । यथा नीलवृषेण नीलवत्सप्रभवः । श्वेतेन श्वेत एव जायते । एवं योनिर् एव बलवती । यस्माद् वर्णाः संकीर्यन्ते” ।
रामायणे ।
नैवाङ्गनानां दयितो नापि द्वेष्यो ऽस्ति कश्चन ।
सर्वम् एवावलम्बन्ते लता गहनजा इव ॥
महाभारते ।
कुलीना रूपवत्यश् च नाथवत्यश् च योषितः ।
न मर्यादासु तिष्ठन्ति स दोषः स्त्रीषु नारद ॥
अनर्थित्वान् मनुष्याणां भयात् परिजनस्य च ।
मर्यादायाम् अमर्यादाः स्त्रियस् तिष्ठन्ति भर्तृषु ॥
यौवने वर्तमानानां मृष्टाभरणवाससाम् ।
नारीणां स्वैरवृत्तीनां स्पृहयन्ति कुलस्त्रियः ॥
यदि पुंसां गतिर् ब्रह्मन् कथंचिन् नोपपद्यते ।
अप्य् अन्योन्यं प्रवर्तन्ते न च तिष्ठन्ति भर्तृषु ॥
[६०८] > अलाभात् पुरुषाणां हि भयात् परिजनस्य च ।
वधबन्धबयाच् चैव स्वयं गुप्ता भवन्ति ताः ॥
नाग्निस् तृप्यति काष्ठानां नापगानां महोदधिः ।
नान्तकः सर्वभूतानां न पुंसां वामलोचना ॥
कामानाम् अपि दातारं दातारं मानसान्त्वयोः ।
रक्षितारं न मृष्यन्ति यत्नतस् ताः स्त्रियः सदा ॥
७३ — (क) अथ रक्षाविधिः
तत्र मनुः [९.१०–१२] ।
न कश्चिद् योषितः शक्तः प्रसह्य परिरक्षितुम् ।
एतैर् उपाययोगैस् तु शक्यास् ताः परिरक्षितुम् ॥
अर्थस्य संग्रहे चैनां व्यये चैव नियोजयेत् ।
शौचे धर्मे ऽन्नपक्त्यां च पारिनाह्यस्य चेक्षणे ॥
अरक्षिता गृहे रुद्धाः पुरुषैर् आप्तकारिभिः ।
आत्मानम् आत्मना यास् तु रक्षेयुस् ताः सुरक्षिताः ॥
ऽपारिणाह्यम्’ कुण्डलकटकादि ।
बृहस्पतिः [२५.६] ।
आयव्यये ऽर्थसंस्कारे गृहोपस्कररक्षणे ।
शौचाग्निकार्ये संयोज्या रक्षा स्त्रीणाम् इयं स्मृता ॥
[६०९] मनुः [९.२२–२४, २६–२८, ८] ।
यादृग्गुणेन भर्त्रा स्त्री संयुज्येत यथाविधि ।
तादृग्गुणा सा भवति समुद्रेणेव निम्नगा ॥
अक्षमाला वसिष्ठेन संयुक्ताधमयोनिजा ।
शारङ्गी मन्दपालेन जगामाभ्यर्हणीयताम् ॥
एताशा चान्याश् च लोके ऽस्मिन्न् अपकृष्टप्रसूतयः ।
उत्कर्षं योषितश् चाप्ताः स्वैः स्वैर् भर्तृगुणैः शुभैः ॥
प्रजनार्था महाभागा पूजार्हा गृहदीप्तयः ।
श्रियः स्त्रियश् च गेहेषु न विशेषो ऽस्ति कश्चन ॥
उत्पादनम् अपत्यस्य जातस्य परिपालनम् ।
प्रत्यहं लोकयात्रायाः प्रत्यक्षं स्त्रीनिबन्धनम् ॥
अपत्यं धर्मकार्याणि शुश्रूषा रतिर् उत्तमा ।
दाराधीनस् तथा स्वर्गः पितॄणाम् आत्मनश् च ह ॥
पतिर् भार्यां संप्रविश्य गर्भो भूत्वेह जायते ।
जायायास् तद् धि जायात्वं यद् अस्यां जयते पुनः ॥
[६१०] महाभारते [आनु। ८१.१५] ।
श्रियः एताः स्त्रियो नाम सत्कार्या भूतिम् इच्छता ।
लालिता निगृहीता च स्त्री श्रीर् भवति भारत ॥
मनुः [३.५६–५९] ।
यत्र नार्यस् तु पूज्यन्ते रमन्ते तत्र देवताः ।
यत्रैतास् तु पूज्यन्ते सर्वाश् तत्राफलाः क्रियाः ॥
शोचन्ति जामयो यत्र विनश्यत्य् आशु तत्कुलम् ।
न शोचन्ति तु यत्रैता वर्धते तद् धि सर्वदा ॥
जामयो यानि गेहानि शपन्त्य् अप्रतिपूजिताः ।
तानि कृत्याहतानीव विनश्यन्ति समन्ततः ॥
तस्माद् एताः सदाभ्यर्च्या भूषणाच्छादनाशनैः ।
भूतिकामैर् नरैर् नित्यं सत्कारेणोत्सवेषु च ॥
“जामयः’ कुलस्त्रियः भगिनीस्नुषाद्याः ।
याज्ञवल्क्यः [१.८२] ।
भर्तृभ्रातृपितृज्ञातिश्वश्रूश्वशुरदेवरैः ।
बन्धुभिश् च स्त्रियः पूज्या भूषणाच्छादनाशनैः ॥
तथा [३.७९] ।
दोहसस्याप्रदानेन गर्भो दोषम् अवाप्नुयात् ।
वैरूप्यं मरणं वापि तस्मात् कार्यं प्रियं स्त्रियाः ॥
[६११] मनुः [९.७४, ९५–९६] ।
विधाय वृत्तिं भार्यायाः प्रवसेत् कार्यवान् नरः ।
अवृत्तिकर्षिता हि स्त्री प्रदुष्येत् स्थितिमत्य् अपि ॥
देवदत्तां पतिर् भार्यां विन्दते नेच्छयात्मनः ।
तां साध्वीं बिभृयान् नित्यं देवानां प्रियम् आचरन् ॥
प्रजननार्थं स्त्रियः सृष्टाः सन्तानार्थं च मानवाः ।
तस्मात् साधारणो धर्मः श्रुतौ पत्न्या सहोदितः ॥
“स्थितिमती’ कुलाचारसंपत्तियुक्ता । “प्रजननम्’ गर्भसंग्रहणम् । “सन्तानो’ गर्भाधानम् ।
तथा [९.८५–८७] ।
यदि स्वाः स्वावराश् चैव विन्देरन् योषितो द्विजाः ।
तासां वर्णक्रमेणैव ज्यैष्ठ्यं पूजा च वेश्म च ॥
भर्तुः शरीरशुश्रूषां धर्मकार्यं च नैत्यकम् ।
स्वा चैव कुर्यात् सर्वेषां नान्यजातिः कथंचन ॥
यस् तु तत् कारयेन् मोहात् स्वजात्या स्थितयान्यथा ।
यथा ब्राह्मणचण्डालः पूर्वदृष्टस् तथैव सः ॥
[६१२] याज्ञवल्क्यः [१.८८] ।
सत्याम् अन्यां सवर्णायां धर्मकार्यं न कारयेत् ।
सवर्णासु विधौ धर्मे ज्येष्ठया न विनेतरा ॥
विष्णुः [२७.१–४]- “सवर्णासु बहुषु भार्यासु विद्यमानासु ज्येष्ठयैव सह धर्मकार्यं कुर्यात् । मिश्रासु कनिष्ठयापि समानवर्णया । अभावे त्व् अनन्तरयैवापदि । न त्व् एव च स्विजः शूद्रायाः” “
छन्दोगपरिशिष्टे कात्यायनः ।
अग्निशिष्टां हि शुश्रूषां बहुभार्यः सवर्णया ।
कारयेत् तद्वद् बहुत्वं चेज् ज्येष्ठया गर्हिता न चेत् ॥
या वा स्याद् वीरसूरासामाज्ञासंपादिनी च या ।
दक्षा प्रियंवदा शुद्धा ताम् अत्र विनियोजयेत् ॥
दिनक्रमेण वा कर्म यथाज्यैष्ठ्यं स्वशक्तितः ।
विभज्य सह वा कुर्युर् यथाज्ञानम् अशाठ्यवत् ॥
स्त्रीणां सौभाग्यतो ज्यैष्ठ्यं विद्ययैव द्विजन्मनाम् ।
न हि स्वल्पेन तपसा भर्ता तुष्यति योषिताम् ॥
[६१३] > भर्तुर् आदेशवर्तिन्या योषया बहुभिर् व्रतैः ।
अग्निः शुश्रूषितो यत्र सा स्त्री सौभाग्यम् आप्नुयात् ॥
दक्षः ।
प्रथमा धर्मपत्नी तु द्वितीया रतिवर्धिनी ।
दृष्टम् एव फलं तत्र नादृष्टम् उपपद्यते ॥
धर्मपत्नी समाख्याता निर्दोषा यदि सा भवेत् ।
दोषे सति न दोषः स्याद् अन्या कार्या गुनान्विता ॥
ऽशूद्रा’ इत्य् अनुवृत्तौ मनु-विष्णू ।
संतुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव च ।
यस्मिन्न् एतत्कुले नित्यं कल्याणं तत्र वै ध्रुवम् ॥
यदि हि स्त्री न रोचेत पुमांसं न प्रमोदयेत् ।
अप्रमोदात् पुनः पुंसः प्रजनं न प्रवर्तते ॥
स्त्रियां तु रोचमानायां सर्वं तद् रोचते कुलम् ।
तस्याम् अरोचमानायां सर्वम् एव न रोचते ॥
अन्योन्यस्याव्यभीचारो भवेद् आमरणान्तिकः ।
एष धर्मः समासेन ज्ञेयः स्त्रीपुंसयोः परः ॥
[६१४]
तथा नित्यं यतेयातां स्त्रीपुंसौ तु कृतक्रियौ ।
यथा नातिचरेतां तौ वियुक्ताव् इतरेतरम् ॥
याज्ञवल्क्यः [१.७४] ।
यत्रानुकूल्यं दम्पत्योस् त्रिवर्गस् तत्र वर्धते ।
दक्षः ।
गृहवासः सुखार्थो हि पत्नीमूलं च तत्सुखम् ।
सा पत्नी या विजानाति चित्तज्ञा वशवर्तिनी ॥
अनुकूला त्व् अवाग्दुष्टा दक्षा साध्वी प्रजावती ।
एभिर् एव गुणैर् युक्ता श्रीर् एव स्त्री न संशयः ॥
प्रहृष्टमानसा नित्यं स्थानमानविचक्षणा ।
भर्तुः प्रीतिकरी या तु सा भार्या इतरा जरा ॥
व्यासः ।
पूर्वोत्थानपरा दक्षा जघन्यासनशायिनी ।
अवाग्दुष्टानुकूला स्त्री भवेद् वै पुण्यकर्मणः ॥
अथ दक्षः ।
दुःखासिका कलिर् भेदश् छिद्रं पीडा परस्परम् ।
प्रतिकूलकलत्रस्य द्विदारस्य न संशयः ॥
[६१५] मनुः [९.७७–७९] ।
संवत्सरम् उदीक्षेत द्विषन्तीं योषितं पतिः ।
ऊर्ध्वं संवत्सराद् एनां दायं कृत्वा न संवसेत् ॥
अतिक्रामेत् प्रमत्तं या मत्तं रोगार्तम् एव वा ।
सा त्रीन् मासान् परित्याज्या विभूषणपरिच्छदा ॥
उन्मत्तं पतितं क्लीबम् अबीजं पापरोगिणम् ।
न च द्विषन्त्यास् त्यागो ऽस्ति न च दायापवर्तनम् ॥
अथ नारदः [१५.९५] ।
अनुकूलाम् अवाग्दुष्टां दक्षां साध्वीं प्रजावतीम् ।
त्यजन् भार्याम् अवस्थाप्यो राज्ञा दण्डेन भूयसा ॥
ऽचौरवच् छास्य’ इत्य् अनुवृत्तौ विष्णुः [५.१६२–६३]- “निर्दोषं परित्यजन् पत्नीं च” ।
याज्ञवल्क्यः [१.७६] ।
आज्ञासंपादिनीं दक्षां वीरसूं प्रियवादिनीम् ।
त्यजन् दाप्यस् तृतीयांशम् अद्रव्यो भरणं स्त्रियाः ॥
[६१६] देवलः ।
स्वदारांस् त्यजतो मोहान् नरस्यान्यायमोचिनः ।
धर्मवंशपरित्यक्तुर् निष्कृतिर् न विधीयते ॥
कुष्ठिनीं पतितां वन्ध्याम् उन्मत्तां विगतार्तवाम् ।
अदुष्टां लभते त्यक्तुं तीर्तान् न त्व् एव कर्मणः ॥
“अन्यायमोचिनः’ अन्यायेन मोक्तुः । “तीर्ताद्’ योनितः । “कर्मणः’ पापकर्मादितः ।
नारदः [१५.९०, ९२–९४] ।
अन्योन्यं त्यजतोर् आगः (?) स्याद् अन्योन्यविरुद्धयोः ।
स्त्रीपुंसयोर् निगूढाया व्यभिचाराद् ऋते स्त्रियाः ॥
स्त्रीधनभ्र्ष्टसर्वस्वां गर्भविस्रंसिनीं तथा ।
भर्तुश् च वधम् इच्छन्तीं स्त्रियं निर्वासयेद् गृहात् ॥
अनर्थशीलां सततं तथैवाप्रियवादिनीम् ।
पूर्वाशिनी च या भर्तुस् तां स्त्रीं निर्वासयेद् गृहात् ॥
वन्ध्यां स्त्रीजननीं निन्द्यां प्रतिकूलां च सर्वदा ।
कामतो नाभिनन्देत कुर्वन्न् एवं न दोषभाक् ॥
[३१७] “आगः’ पापम् । “निगूढा’ रक्षिता । “स्त्रीधनभ्रष्टसर्वस्वाम्’ स्त्रीधनत्वेन भ्रष्टं भ्रांशितं सर्वस्वं यया सा तथोक्ता । “भ्रष्टम्’ अत्रान्तर्भावितण्यर्थम् ।
यमः ।
ऋतुस्नाता तु या नारी भर्तारं नोपगच्छति ।
तां ग्राममध्ये विख्याप्य भ्रूणघ्नीं तु विवासयेत् ॥
भर्तुः प्रतिनिवेशेन या वृथा गमयेद् ऋतून् ।
तां तु विख्याप्य बन्धूनां भ्रूणघ्नीं तु विवासयेत् ॥
“प्रतिनिवेशेन’ अतिद्वेषेण ।
बौधायनः ।
अशुश्रूषाकरीं वन्ध्यां बन्धकीं परिहिंसकीम् ।
त्यजन्ति पुरुषाः प्राज्ञाः क्षिप्रम् अप्रियवादिनीम् ॥
अप्रजां दशमे वर्षे स्त्रीप्रजां द्वादशे त्यजेत् ।
प्रेतप्रजां पञ्चदशे सद्यस् त्व् अप्रियवादिनीम् ॥
वसिष्ठः [२१.९–१०] ।
व्यवाये तीर्थगमने धर्मेभ्यश् च निवर्तने ।
[६१८] > चतस्रस् तु परित्याज्याः शिष्यगा गुरुगा च या ॥
पतिघ्नी च विशेषेण जुङ्गितोपगता च या ।
याज्ञवल्क्यः [१.७२] ।
व्यभिचाराद् ऋतौ शुद्धिर् गर्भे त्यागो विधीयते ।
गर्भभर्तृवधे तासां तथा महति पातके ॥
हारीतः- “गर्भघ्नीम् अधोवर्णगां शिष्यसुतगामिनीं च । पातव्यसनसंसक्तां च । धनधान्यक्षयकरीं च वर्जयेत्” ।
यमः ।
स्वच्छन्दगा च या नारी तस्यास् त्यागो विधीयते ।
न चैव स्त्रीवधं कुर्यान् न चैवाङ्गविकर्तनम् ॥
स्वच्छन्दव्यभिचारिण्यां विवस्वांस् त्यागम् अब्रवीत् ।
न बन्धनं न वैरूप्यं वधं स्त्रीणां विवर्जयेत् ॥
[६१९] अथ याज्ञवल्क्यः [१.७०] ।
हृताधिकारां मलिनां पिण्डमात्रोपजीविनीम् ।
परिभूताम् अधःशय्यां वासयेद् द्व्यभिचारिणीम् ॥
नारदः [१५.९१] ।
व्यभिचारे स्त्रियो मौण्ड्यम् अधःशयनम् एव च ।
कदन्नं च कुवासश् च कर्म चावस्करोज्झनम् ॥
७३ — (ख) अथ स्त्रीधर्माः
तत्र मनुः [५.१४७–४९] ।
बालया वा युवत्या वा वृद्धया वापि योषिता ।
न स्वातन्त्र्येण कर्तव्यं किंचित् कार्यं गृहेष्व् अपि ॥
बाल्ये पितुर् वशे तिष्ठेत् पाणिग्राहस्य यौवने ।
पुत्राणां भर्तरि प्रेते न भजेत् सा स्वतन्त्रताम् ॥
पित्रा भर्त्रा सुतैर् वापि नेच्छेद् विरहम् आत्मनः ।
एषां हि विरहेण स्त्री गर्ह्ये कुर्याद् उभे कुले ॥
बृहस्पतिः [२५.९] ।
भर्त्रा पित्रा सुतैर् न स्त्री वियुक्तान्य[गृहे] वसेत् ।
असत्सङ्गे विशेषेण गर्ह्यताम् एति सा ध्रुवम् ॥
याज्ञवल्क्यः [१.८६] ।
पितृमातृसुतभ्रातृश्वश्रूश्वशुरमातुलैः ।
हीना न स्याद् विना भर्त्रा गर्हणीयान्यथा भवेत् ॥
[६२०] मनुः [५.१५०] ।
सदा प्रहृष्टया भाव्यं गृहकार्ये च दक्षया ।
सुसंस्कृतोपस्करया व्यये चामुक्तहस्तया ॥
याज्ञवल्क्यः [१.८३] ।
संयतोपस्करा दक्षा हृष्टा व्ययपराङ्मुखी ।
कुर्याच् छ्वशुरयोः पादवन्दनं भर्तृतत्परा ॥
बृहस्पतिः [२५.१०] ।
पूर्वोत्थानं गुरोर् अर्वाक् भोजनाभ्यञ्जनक्रिया ।
जघन्यासनशायित्वं कर्म स्त्रीणाम् उदाहृतम् ॥
देवलः- “अस्वातन्त्र्यं पतिशुश्रूषा सहधर्मचर्या तत्पूज्यपूजनं तद्द्वेष्यद्वेषणम् अदुष्टभावता नित्यानुकूल्यं तत्कार्यपरत्वम् इति स्त्रीधर्मः” ।
विष्णुः [२५.२–८]- “भर्तुः समानचारित्वम् । [श्वश्रू]श्वशुरगुरुदेवतातिथीनां पूजनम् । सुसंस्कृतोपस्करता । अमुक्तहस्तता । सुगुप्तभाण्डता । मूलक्रियास्व् अनभिरतिः । मङ्गलाचारातत्परता” ।
[६२१] महाभारते ।
यदैव भर्ता जानीयान् मन्त्रमूलपरां स्त्रियम् ।
उद्विजेत तदैवास्याः सर्पाद् वेश्मगताद् इव ॥
पृथिवीं प्रति लक्ष्मीवाक्ये विष्णुः [९९.२१.२२] ।
नारीषु नित्यं शुचित्भूषितासु पतिव्रतासु प्रियवादिनीषु ।
अमुक्तहस्तासु प्रजान्वितासु सुगुप्तबाण्डासु बलिप्रियासु ॥
सुश्लिष्टवेश्मासु जितेन्द्रियासु कलिव्यपेतासु विलोलुपासु ।
धर्मव्यपेक्षासु दयान्वितासु स्थिता सदाहं जगतां विधात्री ॥
शङ्खलिखितौ- “श्वः श्वः पचनभाण्डानाम् अनुलेपनं सुसंमृष्टगृहद्वारोपलेपनं कृतशौचानुकूल्यदध्यक्षतदूराप्रवालपुष्पकृतबलिकर्म श्वश्रूश्वशुराभिवादनानन्तरं गृहावश्यकानि कुर्यात् । न देवभृत्यातिथिभ्यो ऽग्रे ऽश्नीयात् । न भर्तुर् अन्यत्र प्रतीकारौषधात्” ।
“श्वः श्वः पचनभाण्डानाम्’ इति, “पचनभाण्डानां’ स्थाल्यादीनां आगाम्यागामिदिने उपलेपनं कर्तव्यम् इत्य् अर्थः ।
[६२२] ऋष्यशृङ्गः ।
गृहमेधा भवेन् नित्यं भूषणानि च पूजयेत् ।
नित्यस्नानकृतां वेणीम् अर्चयेत् पुण्यवाससा ॥
पूर्वम् एव रहो गच्छेद् यावन् नान्यः प्रबुध्यते ।
देवताराधनं कुर्याद् धूपपुष्पबलिं हरेत् ॥
“गृहमेधा’ गृहकृत्यतत्परा । “भूषणानि च पूजयेत्’ भूषणानि मार्जनादिना संस्कुर्यात् ।
शङ्खलिखितौ- “स्त्री नानुक्ता बहिर् निष्क्रामेत् । नानन्तरीया परिधावेत् । नानुत्सवे गन्धमाल्याभरणानि विकृतानि वासांसि बिभृयात् । न परपुरुषम् अभिभाषेत । अन्यत्र वणिक्प्रव्रजितवृद्धेभ्यः । न नाभिं दर्शयेत् । कुलवधूर् आगुल्फाभ्यां वासः परिदध्यात् । न स्तनौ विवृतौ कुर्यात् । न हसेतानावृतम् । न महाजने” ।
“अनावृतम्’ हस्ताभ्यां मुखम् अनाच्छाद्य ।
व्यासः ।
द्वारोपसेवनं नित्यं गवाक्षेण निरीक्षणम् ।
असत्प्रलापो हास्यं च दूषणं कुलयोषिताम् ॥
मनुः [९.१३] ।
पानं दुर्जनसंसर्गः पत्या च विरहो ऽटनम् ।
[६२३] > स्वप्नो ऽन्यहेगवासश् च नारीसंदूषणानि षट् ॥
बृहस्पतिः [२५.११] ।
पानाटनदिवास्वप्नम् अक्रिया दूषणं स्त्रियः ।
“अक्रिया’ गृहकृत्याननुष्ठानम् ।
शङ्खलिखितौ- “न गणिकाधूर्तचारिणीप्रव्रजितेक्षणिकामायाविनीकुहकशीलाविप्लुताभिः सहैव तिष्ठेत् । संसर्गेण हि चारित्र्यं दुष्येत् । न भर्तुः प्रतिकूलम् आचरेत् । न प्रकीर्णभाण्डभाजनोपस्करद्रव्या नोत्थानखट्वासनपादुका स्यात्” ।
“ईक्षिणिका’ दैवज्ञा ।
हारीतः- “अथ पत्न्याचारम् अनुक्रमिष्यामो गृहं पत्नी न ह्य् अपत्नीकं विद्यात् । तस्मात् पत्नी गृहाचारपरा स्यात् । सुसंसृष्टोत्पादितसंस्कारा (?) सूपलिप्तार्चितवेश्मानि [६२८] पतितानि प्रतिकुर्यात् । अगुप्तं गोपयेत् । अन्यपुरुषेक्षणं दुष्टकथादिभाषणं दुष्टप्रव्रजितस्त्रीसंसर्गं च वर्जयेत् । परगृहरथ्याचत्वरवीथीप्रव्रजितालयांश् च नाभिगच्छेत् । कूपपथस्थानं सन्धिवेलासंचरणं च वर्जयेत् । परशयनासनवस्त्राभरणानि मनसापि नाध्यवस्येद् आ पुनःसंस्कारात् । तथैकपात्र्यं मद्यमांसानि । उच्छिष्टनिर्माल्यं च । अन्यत्र गुरुभर्तृसुतेभ्यः । अनन्यपुरुषलोलुपानर्थान् वर्जयेत् । तथा प्रत्युद्वदनम् आलस्यवैक्लव्यतौल्यादि । नोच्छिष्टा देवागारं प्रविशेत् । नाप्रोक्ष्याविमृश्यापर्यग्निकृत्य श्रापयेत् । नाप्रक्षालितपाणिर् यावकोत्पवनगोरसधाना गृह्णीयात् । स्थाल्यपिधानदर्वीः प्रक्षाल्योपकरणानि गुप्ते निधापयेत् । श्वोभूते प्रतिप्रक्षाल्य पचनार्थान् कुर्यात् । गोरसधान्यानि चास्य निर्देशे गृह्णीयात् । शृते प्रक्षाल्योपलिप्य परिमृज्य तैजसानि वेश्मावमार्जनं प्रत्युपलेपनानि कृत्वा वैश्वदेवकाल इति प्रचोदनं स्नानहेतोः । स्नाता शुक्ले वाससी परिधाय पाणिपादं प्रक्षाल्योत्क्रम्याचम्य देवागारं प्रविश्य नमस्कृत्यायतने ऽग्निम् उपसमाधाय समिद्दर्भपुष्पबलिशान्तिपात्राण्य् आहृत्यान्नाद्यम् अभिघार्य यच् चान्यद् आह्निकं स्यात् । हुते देवेभ्यः उद्वाहाग्नौ देवपत्नीभ्यो बलिं हरेद् भर्तृनिर्देशे । कृते देवातिथ्ये यथास्वं गृहिणस् तर्पयित्वा शिष्यान् [६२५] सुहृदः पतिं च तदनुज्ञातावशेषं पत्नी गुप्ते भुक्त्वा प्रतिस्वाभिर् उपस्पृश्य शेषं भाण्डानि निर्णिज्य प्रक्षाल्य च बहिर् उत्तरपूर्वस्यां दिशि वास्तुभूतपशुपतये रुद्राय नम इति निर्णीय । एवं सायं शृतादि । यथार्थं सुविशिष्टेषु नमो भगवते रुद्राय भस्मसदे भस्मना रक्षां करोमीति भस्मनाद्वारम् अपिधाय स्वामिसुतादीन् आत्मानं चालभेत् । यच् चान्यद् रक्ष्यं स्यात् । नाप्रक्षालितपाणिपादा संविशेत् । न नग्ना । नोच्छिष्टा । नानमनीया । नानमस्यभर्तृपादा । नाविदितोत्थाना । पूर्वोत्थायिनी । अनुपस्थायोदकधाना । अनुसरणवेश्मार्चिनी । प्रदक्षिणा । प्रशान्ता । सौम्यार्हिता । भर्तुः प्रियवादिनी । नोपरिष्टात् स्थिता आसीत । नोच्चैर् न वितर्कस्थाने नाभीक्ष्णम् ईक्षेत । परिवृज्य संवाहयित्वा उपासीत । व्यजनेनोष्णे वर्षे घर्माम्भांस्य् अस्य गात्रेभ्यः परिमृज्यात् । शिरसश् चानवस्थितस्य समाधानम् । ग्रामान्तराहृतभारातिक्रान्तम् आयान्तम् उपगच्छेत हृष्टमना अर्घ्येणार्घयेत् । व्रतधारणं देवकार्यं स्नानं वानुज्ञातया कार्यम्” ॥
“कूपपथस्थानम्’ कूपानुयायिवर्त्मावस्थानम् । “ऐकपात्र्यम्’ सहभोजनम् । “गुरवः’ श्वशुरादयः । “लोलुपा’ स्पृहा । “अनर्थः’ निष्प्रयोजनो ऽर्थव्ययः । “प्रत्युद्वदनम्’ प्रतिकूलाभिधानम् । “तौल्यम्’ स्वकुलाध्यनुचितवेषभाषादीति [६२६] जयस्वामी । “अविमृश्य’ केशकीटादिकम् अविचार्य । “यावकः’ पिटकादिः । “उत्पवनम्’ चालनी । “अस्य निर्देशे’ भर्तुर् अनुज्ञाने । “स्नानहेतोः’ पतुर् इति शेषः । “यच् चान्यत्’ इति, अन्यन् मण्डकादि । “आह्निकम्’ तदहर्भोज्यम्, तच् चाभिघार्य भर्तुर् निर्देशे तिष्ठेद् इति शेषः । “शेषम्’ आह्निकशेषं अशिष्टम् अपि । “प्रस्वाभिः’ आत्मार्थोपकल्पिताभिर् अद्भिः । “उपस्पृश्य’ आचम्य । “निर्णिज्य’ अन्नमलापकर्षणं कृत्वा । “शृतादि’ शृते प्रक्षाल्योपलिप्येत्यादि रुद्रबलिपर्यन्तम् । “आलभेत्’ भस्मोपलिप्तेन हस्तेन स्पृशेत् । “अनुपस्थायोदकधाना’ अरिक्तोदकपात्रा । “प्रदक्षिणा’ सोत्साहा । कम् एषा वीक्ष्यत इति यत्र लोकस्य विचारणा भवति तद् “वितर्कस्थानम्’ । “परिमृज्य’ पादयो रजः । “संवाहयित्वा’ अङ्गमर्दनं कृत्वा । “व्यजनेनोष्णे’ व्यजनेन उष्णकाले उपासीत । “अनवस्थितस्य’ आकुलितचेतसः ।
छान्दोग्यपरिशिष्टे कात्यायनः ।
पत्युर् अप्य् अभियोगिन्या शुश्रूष्यो ऽग्निर् विनीतया ।
सौभाग्यवद् अवैधव्यकामया भर्तृभक्तया ॥
[६२७] ऽपत्युर् अप्य् अभियोगिन्या’ पत्युर् अप्य् आधिक्येन सततम् अग्निनाभियुक्तया सत्याग्निः शुश्रूष्यः ।
शङ्खलिखितौ- “न भर्तारं द्विष्याद् यद्य् अप्य् अष्टीवलः स्यात् । पतितो ऽङ्गहीनो व्याधितो वा । पतिर् हि दैवतं स्त्रीणाम् । न व्रतोपवासनियमेज्यादानधर्मो वानुग्राहकः स्त्रीणाम् अन्यत्र पतिशुश्रूषायाः । कामं भर्तुर् अनुज्ञाताया व्रतोपवासनिअमेज्यादीनाम् अभ्यासः स्त्रीधर्मः” ।
पतिठीनसिः- “स्त्रियो गृहदेवताः । तासां न शौचं न व्रतं नोपवासः । पतिशुश्रूषया गच्छन्ति परमां गतिम्” ।
मनुः [५.१५३–५४] ।
अनृताव् ऋतुकाले तु मन्त्रसंस्कारकृत् पतिः ।
सुखस्य नित्यं दातेह परलोके च योषितः ॥
विशीलः कामदृप्तो वा गुणैर् वा परिवर्जितः ।
उपचर्यः स्त्रिया साध्व्या सततं देववत् पतिः ॥
मनु-विष्णू [मनुः ५.१५५; वि। २५.१५] ।
नास्ति स्त्रीणां पृथग् यज्ञो न व्रतं नाप्य् उपोषणम् ।
पतिं शुश्रूषते येन तेन स्वर्गे महीयते ॥
[६२८] विष्णुः [२५.१६] ।
पत्यौ जीवति या योषिद् उपवासव्रतं चरेत् ।
आयुर् हरति सा भर्तुर् नरकं चैव गच्छति ॥
याज्ञवल्क्यः [१.७७] ।
स्त्रीभिर् भतृवचः कार्यम् एष धर्मः परः स्थितः ।
आशुद्धेः संप्रतीक्ष्यो हि महापातकदूषितः ॥
गौतमः [१८.१–३]- “अस्वतन्त्रा धर्मे स्त्री । नातिचरेद् भर्तारम् । वाक्चक्षुह्कर्मसंयुता” ।
हारीतः- “शुच्याचारा भर्तृमनाः साध्वी भवति । एवम् ह्य् आह —
यस्य भार्या वशा साध्वी सततं प्रियवादिनी ।
शुच्याचारा भर्तृमना सा देवी परिकीर्त्यते” ॥
मनुः [५.१५१, १५३] ।
यस्मै दद्यात् पिता त्व् एनां भ्राता वानुमते पितुः ।
तं शुश्रूषेत जीवन्तं संस्थितं न च लङ्घयेत् ॥
पाणिग्राहस्य साध्वी स्त्री जीवतो वा मृतस्य वा ।
पतिलोकम् अभीप्सन्ती नाचरेत् किंचिद् अप्रियम् ॥
“संस्थितम्’ मृतम् ।
[६२९] याज्ञवल्क्यः [१.७५, ८७] ।
मृते जीवति वा पत्यौ या नान्यम् उपगच्छति ।
सेह कीर्तिम् अवाप्नोति मोदते चोमया सह ॥
पतिप्रियहिते युक्ता स्वाचारा विजितेन्द्रिया ।
इह कीर्तिम् अवाप्नोति प्रेत्य चानुत्तमां गतिम् ॥
मनुः [५.१५४, १६५, १६६] ।
दानप्रभृति या तु स्याद् यावद् आयुः पतिव्रता ।
भर्तृलोकं न त्यजन्ति यथा वारुन्धती तथा ॥
पतिं या नाभिचरति मनोवाग्देहसंयता ।
सा भर्तृलोकम् अवाप्नोति सद्भिः साध्वीति चोच्यते ॥
अनेन नारीवृत्तेन मनोवाग्देहसंयता ।
इह कीर्तिम् अवाप्नोति पतिलोकं परत्र च ॥
ऽपतिलोको’ अत्र पत्या सहाधिकारेण यज्ञादिभिर् यो लोक उपार्जितः ।
छान्दोग्यपरिशिष्टे कात्यायनः ।
पतिशुश्रूषयैव स्त्री सर्वान् लोकान् समश्नुते ।
दिवः पुनर् इहायाता सुखानां सावधिर् भवेत् ॥
[६३०] बृहस्पतिः [२५.१२] ।
आर्तार्ते मुदिते हृष्टा प्रोषिते मलिना कृशा ।
मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता ॥
वसिष्ठः [२१.१४] ।
पतिव्रतानां गृहमेधिनीनां सत्यव्रतानां च शुचिव्रतानाम् ।
तासां तु लोकाः पतिभिः समाना गोमायुलोका व्यभिचारिणीनाम् ॥
मनुः [९.३०] ।
व्यभिचारात् तु भर्तुः स्त्री लोके प्राप्नोति निन्द्यताम् ।
शृगालयोनिं प्राप्नोति पापरोगैश् च पीड्यते ॥
छन्दोगपरिशिष्टे कात्यायनः ।
पतिम् उल्लङ्घ्य मोहात् स्त्री कं कं न नरकं व्रजेत् ।
कृच्छ्रान् मानुषतां प्राप्य किं किं दुःखं न पश्यति ॥
शङ्खलिखितौ- “सुरालशुनपलाण्डुगृञ्जनकवकादीन्य् अभक्ष्याणि च वर्जयेत् । आहारमयं शरीरम् । तन्मयत्वाद् ब्राह्मणः संकीर्यते । मातुर् अशितपीताद् धि गर्भः संभवति” ।
मनुः [९.१८४] ।
प्रतिषिद्धा पिबेद् या तु मद्यम् अभ्युदयेष्व् अपि ।
प्रेक्षासमाजे गच्छेद् वा सा दण्ड्या कृष्णलानि षट् ॥
[६३१] वसिष्ठः [२१.११] ।
या ब्राह्मणी स्याद् इह वै सुरापी न तां देवाः पतिलोकं नयन्ति ।
इहैव सा चरति क्षीणपुण्या शुनीभूता गर्दभी सूकरी च ॥
अथ प्रोषितभर्तृकायाः
तत्र मनुः [९.७५] ।
विधाय प्रोषिते वृत्तिं जीवेन् नियमम् आस्थिता ।
प्रोषिते त्व् अविधायैव जीवेच् छिल्पैर् अगर्हितैः ॥
याज्ञवल्क्यः [१.७४] ।
क्रीडाशरीरसंस्कारसमाजोत्स्वदर्शनम् ।
हास्यं परगृहे यानं त्यजेत् प्रोषितभर्तृका ॥
बृहस्पतिः [२५.१३] ।
प्रसाधनं नृत्यगीतसमाजोत्सवदर्शनम् ।
मांसमद्याभियोगं च न कुर्यात् प्रोषिते पतौ ॥
[६३२] विष्णुः [२५.९–११]- “भर्तरि प्रोषिते ऽप्रतिकर्मक्रिया । परगृहेष्व् अनभिगमनम् । द्वारदेशगवाक्षकेष्व् अनवस्थानम्” ।
शङ्खलिखितौ- “सर्वासां प्रोषिते भर्तरि ब्राह्मणी चारित्रं रक्षेत् । इतरासां मातापितराव् अनन्तरं राजन्यो वा । प्रेङ्खाताण्डवविहारचित्रदर्शनाङ्गरागोद्यानविवृतशयनोत्कृष्ट-पानभोजनकन्दुकक्रीडाधूपगन्धमाल्यालंकारदन्तधावनाञ्जनादर्शन-प्रसाधनादीनाम् अस्वतन्त्राणां प्रोषितभर्तृकाणां कुलस्त्रीणाम् अनारम्भः” ।
ऽसर्वासाम्’ इत्यादि, सर्वासां प्रोषितभर्तृकाणां मध्ये ब्राह्मणी आत्मना चारित्रं रक्षेत् । इतरासां तु प्रोषितभर्तॄणां मातापितरौ रक्षेते । अनन्तरं च तयोर् असतो राजन्यो रक्षेत् । एकभर्तृकाणां चैतद् उच्यते । ऽप्रेङ्खा’ दोऌआ ।
हारीतः- “न प्रोषिते त्व् अलंकुर्यात् । न वेणीं प्रमुञ्चेत” ।
अथ मृतभर्तृकायाः
तत्र अङ्गिराः ।
मृते भर्तरि या नारी समारोहेद् धुताशनम् ।
सारुन्धतीसमाचारा स्वर्गे लोके महीयते ॥
त्रिंशत्कोट्यो ऽर्धकोटी च यानि लोमानि मानवे ।
तावन्त्य् अब्दानि सा स्वर्गे भर्तारं यानुगच्छति ॥
[६३३] > व्यालग्राही यथा व्यालं बिलाद् उद्धरते बलात् ।
तद्वद् भर्तारम् आदाय तेनैव सह गच्छति ॥
मातृकं पैतृकं चैव यत्र कन्या प्रदीयते ।
पुनाति त्रिकुलं नारी भर्तारं यानुगच्छति ॥
तत्र सा भर्तृपरमा परा परमलालसा ।
क्रीदते पतिना सार्धं यावद् इन्द्राश् चतुर्दश ॥
ब्रह्मघ्नो वा कृतघ्नो वा मित्रघ्नो वापि यो नरः ।
तं वै पुनाति सा नारी इत्य् आङ्गिरसभाषितम् ॥
साध्वीनाम् एव नारीणाम् अग्निप्रपतनाद् ऋते ।
नान्यो धर्मो ऽत्र विज्ञेयो मृते भर्तरि कर्हिचित् ॥
यावन् नाग्नौ दहेद् देहं मृते पत्यौ पतिव्रता ।
तावन् न मुच्यते नारी स्त्रीशरीरात् कथंचन ॥
सद्वृत्तभावार्पितभर्तृकाणां स्त्रीणां वियोगक्षतकातराणाम् ।
तासां प्रभावस् तमिते गते कं नाग्निप्रवेशाद् अपरो ऽस्ति मार्गः ॥
“सद्वृत्तेति’ । “वृत्तम्’ आचारः । “भावो’ ऽभिप्रायः । तौ शोभनाव् अर्पितौ याभिस् तास् तथा । “वियोगक्षतकातराणां’ वियोग एव “क्षतम्’ प्ररोही व्रणः तत्र कातराणाम् । “प्रभौ’ भर्तरि । “कं’ स्वर्गम् ।
[६३४] व्यासः ।
दयितं यान्यदेशस्थं मृतं श्रुत्वा पतिव्रता ।
समारोहति शीघ्रे ऽग्नौ तस्याः शक्तिं निबोधत ॥
यदि प्रविष्टो नरकं बद्धः पाशैः सुदारुणैः ।
संप्राप्तो यातनास्थानं गृहीतो यमकिंकरैः ॥
तिष्ठते विवशो दीनो वेष्ट्यमानः स्वकर्मभिः ।
व्यालग्राही यथा सर्पं बलाद् गृह्नात्य् अशङ्कितः ॥
तद्वद् भर्तारम् आदाय दिवं याति तपोबलात् ।
तत्र सा भर्तृपरमा स्तूयमानाप्सरोगणैः ॥
क्रीडते पतिना सार्धं यावद् इन्द्राश् चतुर्दश ।
ब्रह्मपुराणे ।
मृते भर्तरि सत्स्त्रीणां न चान्या विद्यते गतिः ।
नान्यद् भर्तृवियोगाग्निदाहस्य शमनं क्वचित् ॥
देशान्तरमृते तस्मिन् साध्वी तत्पादुकाद्वयम् ।
निधायोरसि संशुद्धा प्रविशेज् जातवेदसम् ॥
ऋग्वेदवादात् साध्वी स्त्री न भवेद् आत्मघातिनी ।
त्र्यहाशौचे निवृत्ते तु श्राद्धं प्राप्नोति शास्त्रवत् ॥
[६३५] “ऋग्वेदवादात्’ — ऽइमा नारीर् अविधवा’ इत्यादिमन्त्रात् । एवं च सकलवचनपर्यालोचनया ब्राह्मणादिसर्वभार्याणां स्वगतभर्तृगतफलविशेषार्थिनीनां गर्भवतीबालापत्यादि-व्यतिरिक्तानां सहमरणानुमरणयोर् अधिकार इति ।
बृहस्पतिः ।
शरीरार्धं स्मृता नारी पुण्यापुण्यफले समा ।
अन्वारूढा जीवन्ती वा साध्वी भर्तृहिताय सा ॥
विष्नुः [२५.१४]- “मृते भर्तरि ब्रह्मचर्यं तदन्वारोहणं वा” ।
हारीतः- “आहिताग्निश् चेत् प्रमीयेत, औपासनावक्षाणाग्निं परिगृह्य सर्पिराज्ञीभिः [६३६] सूत्रस्वनम् इष्ट्वा नावसेत् । अनाहिताग्निश् चेद् अन्यम् आदद्यात् । जनाग्निं वा परिगृह्य भर्तुः पितुः स्वजनगृहवर्जं जितजिह्वाहस्तपादेन्द्रिया स्वाचारवती दिवारात्रं भर्तारम् अनुशोचन्ती व्रतोपवासैः क्षान्तायुषो ऽन्ते पतिलोकं जयति न भूयः पतिवियोगम् आप्नोतीति । एवं ह्य् आह —
पतिव्रता तु या साध्वी निष्ठां याति प्रभौ मृते ।
सा हित्वा सर्वपापानि पतिलोकम् अवाप्नुयात्” ॥
“अवक्षाणं’ अर्धदग्धदारुम् उल्मुखम् । ऽआयं गौः’ इति तिस्र ऋचः सर्पिराज्ञ्यः । “अन्यम्’ गृह्यम् आधानविधिना गृह्णीयात् । “जनाग्निः’ सभ्यः ।
बृहस्पतिः [२५.१५] ।
व्रतोपवासनिरता ब्रह्मचर्ये व्यवस्थिता ।
दमदानरता नित्यम् अपुत्रापि दिवं व्रजेत् ॥
मनुः [५.१५७–६२] ।
कामं तु क्षपयेद् देहं पुष्पमूलफलैः शुभैः ।
न तु नामापि गृह्णीयात् पत्यौ प्रेते परस्य तु ॥
[६३७] > आसीतामरनात् क्षान्ता नियता ब्रह्मचारिणी ।
यो धर्म एकपत्नीनां कङ्क्षन्ती तम् अनुत्तमम् ॥
अनेकानि सहस्राणि कुमारब्रह्मचारिणाम् ।
दिवं गतानि विप्राणाम् अकृत्वा कुलसंततिम् ॥
मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता ।
स्वर्गं गच्छन्त्य् अपुत्रापि यथा ते ब्रह्मचारिणः ॥
अपत्यलोभाद् या तु स्त्री भर्तारम् अतिवर्तते ।
सेह निन्दाम् अवाप्नोति पतिलोकाच् च हीयते ॥
नान्योत्पन्ना प्रजास्तीह न चाप्य् अन्यपरिग्रहे ।
न द्वितीयश् च साध्वीनां क्वचिद् भर्तोपदिश्यते ॥
[६३८] नियोगानन्तरं यमः ।
यावज्जीवं सदासीत नियता ब्रह्मचारिणी ।
यो धर्म एकपत्नीनां तं धर्मम् अभिकाङ्क्षती ॥
स्त्रियाः श्रुतौ वा शास्त्रे वा प्रव्रज्या न विधीयत् ।
प्रजा हि तस्या स्वो धर्मः सवर्णाद् इति धारणा ॥
अष्टाशीतिसहस्राणि मुनीनाम् ऊर्ध्वरेतसाम् ।
दिवं गतानि विप्राणाम् अकृत्वा कुलसन्ततिम् ॥
तथैव कन्या व्यावृत्ता ब्रह्मचर्ये व्यवस्थिता ।
अपुत्रा प्राप्नुयात् स्वर्गं यथा ते ब्रह्मचारिणः ॥
अपुत्रा जातपुत्रा वा कन्या पतिम् अनुव्रता ।
प्राप्नुयात् स्वर्गम् एवेति मनुः स्वायम्भुवो ऽब्रवीत् ॥
“एकपत्नीनाम्’ एकपतिकानाम् । “कन्या’ अत्र ऊढा ।
कात्यायनः [८३७] ।
अनेकदोषदुष्टे ऽपि मृते भर्तरि वा सदा ।
साध्वाचारा च तिष्ठेत गुरुशुश्रूषणे रता ॥
मृते भर्तरि या साध्वी ब्रह्मचर्ये व्यवस्थिता ।
सारुन्धतीसमाचारा ब्रह्मलोके महीयते ॥
[६३९]
[७३ — [ग] अथ नियोगः
तत्र मनुः [९.५९] ।
देवराद् वा सपिण्डाद् वा स्त्रिया सम्यङ् नियुक्तया ।
प्रजेप्सयाधिगन्तव्या सन्तानस्य परिक्षये ॥
नारदः [१५.८०–८२, ८६–८८] ।
नियुक्ता गुरुभिर् गच्छेद् देवरं पुत्रकाम्यया ।
स च तां प्रतिपद्येत तथैवापुत्रमन्मनः ॥
पुत्रे जाते निवर्तेत विप्लवः स्याद् अतो ऽन्यथा ।
घृतेनाभ्यज्य गात्राणि तैलेनाविकृतेन वा ॥
मुखान् मुखं परिहरन् गात्रैर् गात्राणि चास्पृशन् ।
कुले तदवशेषे च सन्तानार्थं न कामतः ॥
[६४०] > नियुक्तो गुभिर् गच्छेद् भ्रातृभार्यां यवीयसः ।
अविद्यमाने तु गुरौ राज्ञे वाच्यः कुलक्षयः ॥
ततस् तद्वचनाद् गच्छेद् अनुशिष्यात् स्त्रियं च सः ।
पूर्वोक्तेन विधानेन स्नातां पुंसवने शुचिः ॥
सकृद् आ गर्भधानात् तु वृत्ते गर्भे तथैव सा ।
अतो ऽन्यथा वर्तमानः पुमान् स्त्री वापि कामतः ॥
विनेयौ सुभृशं राज्ञा विप्लवः स्याद् अतो ऽन्यथा ।
यमः ।
ऋतौ तु तस्यां स्नातायां वाग्यतस् तामसे निशि ।
स्वश्मश्रुनखरोमाणां गन्धस्पर्शाव् अवेदयन् ॥
एकवासा घृताक्ताङ्गो दुर्गन्धः शोकदुर्मनाः ।
मुखान् मुखं परिहरन् गात्रैर् गात्राणि वास्पृशन् ॥
यतात्मा गर्भम् आदध्याद् वृते गर्भे त्व् अपव्रजेत् ।
जातापत्यां नाधिगच्छेज् जाते पुत्रे तथैव च ॥
[६४१] > सीमन्तोन्नयनादीनि सर्वकर्माणि कारयेत् ।
भ्रातृसन्तानम् इच्छद्भिः पितॄणाम् ऊर्ध्वदेहिनाम् ॥
याज्ञवल्क्यः [१.६८–६९] ।
अपुत्रां गुर्वनुज्ञातो देवरः पुत्रकाम्यया ।
सपिण्डो वा सगोत्रो वा घृताभ्यक्त ऋताव् इयात् ॥
आ गर्भसम्भवाद् गच्छेत् पतितश् चान्यथा भवेत् ।
अनेन विधिना जाताः क्षेत्रजो ऽस्य भवेत् सुतः ॥
देवलः ।
नष्टः प्रव्रजितः क्लीबः पतितो राजकिल्बिषी ।
लोकान्तरगतो वापि परित्याज्यः पतिः स्त्रियाः ॥
मृते भर्तरि जीवे वा स्त्री विन्देतापरं पतिम् ।
सन्तत्यनाशार्थतया न स्वातन्त्र्येण योषितः ॥
नारदः [१५-९८–१०२] ।
अष्टौ वर्षाण्य् उदीक्षेत ब्राह्मणी प्रोषितं पतिम् ।
अप्रसूता तु चत्वारि परतो ऽन्यं समाचरेत् ॥
[६४२] > क्षत्रिया षट्समास् तिष्ठेद् अप्रसूता समात्रयम् ।
वैश्या प्रसूता चत्वारि द्वे समे त्व् अप्रसूतिका ॥
न शूद्रायाः स्मृतः कालो न च धर्मव्यतिक्रमः ।
विशेषतो ऽप्रसूतायाः संवत्सरपरा स्थितिः ॥
अप्रवृत्तौ स्मृतः काल एष प्रोषितयोषिताम् ।
जीवति श्रूयमाणे च स्याद् एष द्विगुणो विधिः ॥
प्रजाप्रवृत्तौ नारीणां वृत्तिर् एषा प्रजापतेः ।
अतो ऽन्यगमने स्त्रीणां एष दोषो न विद्यते ॥
अथ देवरसपिण्डाधिकारे मनुः [९.६४–६७] ।
नान्यस्मिन् विधवा नारी नियोक्तव्या द्विजातिभिः ।
अन्यस्मिन् हि नियुञ्जाना धर्मं हन्युः सनातनम् ॥
नोद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्यते क्वचित् ।
न विवाहविधाव् उक्तं विधवावेदनं पुनः ॥
अयं द्विजैर् हि विद्वद्भिः पशुधर्मो विगर्हितः ।
मनुष्याणाम् अपि प्रोक्तो वेने राज्यं प्रशासति ॥
स महीम् अखिलां भुञ्जन् राजर्षिप्रवरः पुरा ।
वर्णानां संकरं चक्रे कामोपहतचेतसः ॥
[६४३] > तदा प्रभृति यो मोहात् प्रमीतपतिकां स्त्रियम् ।
नियोजयत्य् अपत्यार्थं तं विगर्हन्ति साधवः ॥
मृतपत्यधिकारे वसिष्ठः [१७.६४–६६]- “स्याच् चेन् नियोगिनोः । रिक्थलोभान् नास्ति नियोगः । प्रायश्चित्तं वाप्य् उपदिश्य नियुञ्ज्याद् इत्य् एके” ।
कात्यायनः ।
नियोगात् पावनं कुर्याद् यथोक्तं तद्विशुद्धये ।
द्विजस्य स्त्रीषु धर्मो ऽयं शूद्रस्यैके सदाश्रयः ॥
बृहस्पतिः [संस्कार २६७–६९] ।
उक्तो नियोगो मनुना निषिद्धः स्वयम् एव तु ।
युगह्रासाद् अशक्यो ऽयं कर्तुं मर्त्यैर् विधानतः ॥
तपोज्ञानसमायुक्ताः कृते त्रेतायुगे नराः ।
द्वापरे च कलौ नॄणां शक्तिहानिर् विनिर्मिता ॥
[६४४] > अनेकधा कृताः पुत्रा ऋषिभिर् ये पुरातनैः ।
न शक्यते ऽधुना कर्तुं शक्तिहीनैर् इदन्तनैः ॥
७३ — (घ) अथ परपूर्वाः
तत्र नारदः [१५.४५–५३] ।
परपूर्वाः स्त्रियस् त्व् अन्याः सप्त प्रोक्ता यथाक्रमम् ।
पुनर्भूस् त्रिविधा तासां स्वैरिणी च चतुर्विधा ॥
कन्यैवाक्षतयोनिर् या पाणिग्रहणदूषिता ।
पुनर्भूः प्रथमा प्रोक्ता पुनः संस्कारकर्मणा ॥
कौमारं पतिम् उत्सृज्य या त्व् अन्यं पुरुषं श्रिता ।
पुनः पत्युर् गृहम् इयात् सा द्वितीया प्रकीर्तिता ॥
असत्सु देवरेषु स्त्री बान्धवैर् वा प्रदीयते ।
सवर्णाय सपिण्डाय सा तृतीया प्रकीर्तिता ॥
[६४५] > स्त्री प्रसूताप्रसूता वा पत्यौ चैव च जीवति ।
कामात् समाश्रयेद् अन्यं स्वैरिणी प्रथमा तु सा ॥
मृते भर्तरि या तु स्त्री देवरादीन् अपास्य तु ।
कामतस् तु भजेद् एनं द्वितीया सा प्रकीर्तिता ॥
देशापहृतविक्रीता क्षुत्तृष्णाव्यसनार्दिता ।
तवाहम् इत्य् उपगता सा तृतीया प्रकीर्तिता ॥
देशधर्मान् अवेक्ष्य स्त्री गुरुभिर् या प्रदीयते ।
उत्पन्नसाहसान्यस्मै सान्तिमा स्वैरिणी स्मृता ॥
पुनर्भुवां विधिस् त्व् एष स्वैरिणीनां प्रकीर्तितः ।
पूर्वा पूर्वा जघन्यासां श्रेयसी तूत्तरोत्तरा ॥
मनुः ।
पतिं हित्वा निकृष्टं स्वम् उत्कृष्टं या निषेवते ।
निन्द्यैव लोके भवति परपूर्वेति चोच्यते ॥
[६४६] ऽतिस्रः पुनर्भ्वश् चतस्रः स्वैरिण्यः’ इत्य् अभिधाय शङ्खलिखितौ- “तत्र पूर्वा पूर्वा जघन्याः । तासाम् अपत्यानाम् ऋक्थपिण्डोदकयज्ञेषु यो विकल्पः स मतुर् एव गुणवत्तया व्याख्यातः” ।
याज्ञवल्क्यः [१.६७] ।
अक्षता च क्षता चैव पुनर्भूः संस्कृता पुनः ।
स्वैरिणी या पतिं हित्वा सवर्णं कामतः श्रयेत् ॥
हारीतः ।
स्वैरिणी च पुनर्भूश् च रेतोधाः कामचारिणी ।
सर्वभक्ष्या च विज्ञेयाः पञ्चैता शूद्रयोनयः ॥
एतासां यान्य् अपत्यानि उत्पद्यन्ते कदाचन ।
न तान् पङ्क्तिषु युञ्जीत न ते पङ्क्त्यर्हकाः स्मृताः ॥
“रेतोधाः’ कुण्डमाता । “कामचारिणी’ चतुर्भ्य ऊर्ध्वम् अन्यपुरुषगामिनी । “सर्वभक्ष्या’ सुरापी ।
कात्यायनः ।
सुखार्थं या प्रवृत्ता स्त्री न भर्तुः सुतकाम्यया ।
पुत्रं तु जनयेद् एव निन्द्या पापा तु सा स्मृता ॥
भर्तृगोत्रं समुत्सृज्य नारी यद्य् अन्यम् आश्रिता ।
निन्द्यैव सा स्मृता लोके परपूर्वेति चोच्यते ॥
[६४७] > परपूर्वाश्रिता यत्र तत्र स्यान् नाशितः प्रभुः ।
क्रमाद् ऋते तु धर्मो ऽयं लब्धा वा स्वामिनो भवेत् ॥
निरोद्धव्या च ताड्या च परपूर्वापराधतः ।
अक्षमां वानवेक्षन्तीं ताडयन् दण्डम् अर्हति ॥
चौरहस्तान् नदीवेगाद् दुर्भिक्षाद् देशविप्लवात् ।
निस्तार्य वासकान्ताराल् लब्ध्वा त्यक्त्वा क्रमागता ॥
आसां भोगे न दोषः स्याद् इति शास्त्रविनिश्चयः ।
स्वामिदत्तां तु गृह्णीयाद् एषा चेन् न ततो ऽन्यथा ॥
दीयमानाम् अथात्मानं या नारी नानुमोदते ।
न सा देया न च ग्राह्या विधिर् एष् स्मृतो भृगुः ॥
न चोत्तमां न चाकामां तथा पुत्रवतीं न च ।
ईदृशीं त्व् अनुरूपेण निष्क्रयेण प्रमीलयेत् ॥
इति महाराजाधिराजश्रीमद्गोविन्द्चन्द्रदेवमहासान्धिविग्रहिकेण
**भट्टश्रीहृदयधरात्मजेन भट्टश्रीमल्लक्ष्मीधरेण विरचिते **
कृत्यकल्पतरौ व्यवहारकाण्डे स्त्रीपुंयोगपर्व ॥
[६४८]