७२ स्त्रीसंग्रहणम्

७२ स्त्रीसंग्रहणम्

अथ स्त्रीसंग्रहणम्

तत्र बृहस्पतिः [२४.१–५] ।

पारुष्यं द्विविधं प्रोक्तं साहसं च द्विलक्षणम् ।
पापमूलं संग्रहणं त्रिप्रकारं निबोधत ॥
बलोपधिकृते द्वे तु तृतीयम् अनुरागजम् ।
तत् पुनस् त्रिविधं प्रोक्तं प्रथमं मध्यम् उत्तमम् ॥
अनिच्छन्त्या यत् क्रियते सुप्तोन्मत्तप्रमत्तया ।
प्रलपन्त्या वा रहसि बलात्कारकृतं तु तत् ॥
छद्मना गृहम् आनीय दत्वा वा मद्यकार्मणम् ।
संयोगः क्रियते यस्यास् तद् उपाधिकृतं विदुः ॥
अन्योन्यचक्षूरागेण दूतीसंप्रेषणेन च ।
कृतं रूपार्थलोभेन ज्ञेयं तद् अनुरागजम् ॥

व्यासः ।

संग्रहस् त्रिविधः प्रोक्तः प्रथमो मध्यमस् तथा ।
उत्तमश् चेति शास्त्रेषु तस्योक्तं लक्षणं पृथक् ॥
अदेशकालसंभाषा अरण्ये च परस्त्रिया ।
अपाङ्गप्रेक्षणं हास्यं पूर्वसंग्रहणं स्मृतम् ॥

[५७८] बृहस्पतिः [२४.६] ।

अपाङ्गप्रेक्षणं हास्यं दूतीसंप्रेषणं तथा ।
स्पर्शो भूषणवस्त्राणां प्रथमः संग्रहः स्मृतः ॥

नारदः [१५.६३] ।

नदीनां संगमे तीर्थेष्व् आरामेषु वनेषु च ।
स्त्रीपुंसौ यत् समेयातां तच् च संग्रहणं स्मृतम् ॥

बृहस्पतिः [२४.१०] ।

प्रेषणं गन्धमाल्यानां फलमद्यान्नवससाम् ।
संभाषणं च रहसि मध्यमं संग्रहं विदुः ॥

व्यासः ।

प्रेषणं गन्धमाल्यानां धूपभूषणवाससाम् ।
प्रलोभनं चान्नपानैर् मध्यमः संग्रहः स्मृतः ॥

बृहस्पतिः [२४.८] ।

एकशय्यासनं क्रीडा चुम्बनालिङ्गनं तथा ।
एतत् संग्रहणं प्रोक्तम् उत्तमं शास्त्रवेदिभिः ॥

[५७९] व्यासः ।

शय्यासने विविक्ते तु परस्परम् उपाश्रयः ।
केशाकेशिग्रहश् चैव ज्ञेय उत्तमसंग्रहः ॥

नारदो मनुश् चाद्ययोः ।

उपकारक्रिया केलिः स्पर्शो भूषणवाससाम् ।
सह शय्यासनं चैव सर्वसंग्रहणं स्मृतम् ॥
स्त्रियं स्पृशेद् अदेशे यः स्पृष्टो वा मर्षयेत् तया ।
परस्परस्यानुमते सर्वं संग्रहणं स्मृतम् ॥

नारदः [१५.३९, ३७] ।

दर्पाद् वा यदि वा मोहाच् छलाघया वा स्वयं वदेत् ।
पूर्वं मयेयं भुक्तेति तच् च संग्रहणं स्मृतम् ॥
पाणौ यश् च निगृह्णीयाद् वेण्यां वस्त्राञ् चले ऽपि वा ।
तिष्ठ तिष्ठेति वा ब्रूयात् सर्वं सम्ग्रहणं स्मृतम् ॥

याज्ञवल्क्यः [२.२८३–८४] ।

पुमान् संग्रहणे ग्राह्यः केशाकेशि परस्त्रिया ।
सद्यो वा कामजैश् चिह्नैः प्रतिपत्तौ द्वयोस् तथा ॥

[५८०] > नीवीस्तनप्रावरणम् ऊरुकेशावमर्शनम् ।

अदेशकालसंभाषं सहावस्थानम् एव च ॥

सहावस्थानम्’ इत्यादिषु कुर्वाण इति शेषः ।

कात्यायनः ।

यानि कर्माण्य् अभिलषन् पुमान् वै कुरुते क्वचित् ।
आरम्भास् ते तु निर्दिष्टा गर्हिताः कामसाधकाः ॥
दूतोपचारयुक्तश् चेद् अवेलास्थानस्ंस्थितः ।
कण्ठकेशाम्बरग्राही कर्णनासाकरादिषु ॥
एकस्थानासनाहारः संग्रहो नवधा स्मृतः ।
न ग्राह्यो ह्य् अन्यथाकारी ग्राहको दण्डम् अर्हति ॥
गर्भपातो नखानां च दर्शनं गर्भधारणम् ।
धारणं परवस्त्राणाम् अलङ्कारायुधस्य च ॥
एभिश् चिह्नैः सदा ज्ञेया व्यभिचाररताः स्त्रियः ।
गन्धमाल्याम्बरैश् चापि लेख्यसंप्रेषणैस् तथा ॥
ग्राहकं सर्वम् एव स्याद् आरम्भकरणं हि तत् ।
अस्माद् अकार्यसंसर्गाद् ग्रहं संग्रहणं विदुः ॥

[५८१] > कामी तु संस्थितो यत्र आरम्भे कामसाधके ।

तत् तस्माद् ग्रहणं तस्य प्राहुः संग्रहणं यतः ॥

बृहस्पतिः [२४.११] ।

त्रयाणाम् अपि चैतेषां प्रथमो मध्य उत्तमः ।
विनयः कल्पनीयः स्याद् अधिको द्रविणाधिके ॥

मनुः [८.३५८] ।

परस्य पत्न्या पुरुषः संभाषं योजयन् रहः ।
पूर्वम् आक्षारितो दोषैः प्राप्नुयात् पूर्वसाहसम् ॥

पूर्वम् एव “दोषैः’ तत्स्त्रीप्रार्थनादिभिः । “आक्षारितः’ अभिशस्तः ।

आपस्तम्बः [२.२६.१८–१९]- “अबुद्धिपूर्वम् अलंकृतो युवा परदारम् अनुप्रविशन् कुमारीं वा वाचा बाध्यः । बुद्धिपूर्वं तु [दुष्टभावो] दण्ड्यः” ।

मत्स्यपुराणे [२२७.११९–२०, १२५–२६] ।

भिक्षुको ऽप्य् अथ वा नारी यो ऽपि स्यात् तु कुशीलवः ।
प्रविशेत् प्रतिषिद्धस् तु प्राप्नुयाद् द्विशतं दमम् ॥
यस् तु संचारकस् तत्र पुरुषः स तथा भवेत् ।
पारदारिकवद् दण्ड्यो यश् च स्याद् अवकाशदः ॥

मनुः [८.३५५] ।

यस् त्व् अनाक्षारितः पूर्वम् अभिभाषेत कारणात् ।
न दोषं प्राप्नुयात् किंचिन् न हि तस्य व्यतिक्रमः ॥

[५८२] नारदः [१५.६७] ।

नाथवत्या परगृहे संयुक्तस्य स्त्रिया सह ।
दृष्टं संग्रहणं तज्ज्ञैर् नागतायाः स्वयं गृहे ॥

अभिगमनानुवृत्तौ कात्यायनः ।

अतो ऽन्येन प्रकारेण प्रवृत्तौ ग्रहणं भवेत् ।
स्वयम् एवागतायां तु पुंगृहे न तु दोषभाक् ॥

नारद-कात्यायनौ [ना। १५.६१] ।

अदुष्टत्यक्तदारस्य क्लीबस्याक्षमकस्य च ।
स्वेच्छानुपेयुषो दारान् न दोषः साहसे भवेत् ॥

अस्यार्थः — अदुष्टाः प्रदुष्टास् त्यक्ताः स्वदारा येन तस्य । दुष्टान् दारान् [तथा] क्लीबाक्षमयोर् दारान् दाराणाम् एवेच्छयोपगच्छन् न दण्डनीय इति ।

मनुः [८.३६०–६१] ।

भिक्षुका वन्दिनश् चैव दीक्षिताः कारवस् तथा ।
संभाषणं गृहे स्त्रीभिः कुर्युर् अप्रतिवारिताः ॥>
न भाषणं परस्त्रीभिः प्रतिषिद्धः समाचरेत् ।
निषिद्धो भाषमाणस् तु सुवर्णं दण्डम् अर्हति ॥

[५८३] याज्ञवल्क्यः [२.२८५] ।

स्त्री निषेधे शतं दण्ड्यो द्विशतं तु दमं पुमान् ।
प्रतिषेधे तयोर् दण्डो यथा संग्रहणे तथा ॥

अस्यार्थः — स्त्री पतिपित्रादिभिः संभाषणादिनिषेधे कृते सति प्रवर्तते यदि, तदा पणशतं दण्ड्या । पुरुषः पुनर् एवं निषिद्धे प्रवर्तमानो द्विशतं दण्ड्यः । द्वयोस् तु स्त्रीपुंसयोः प्रतिषिद्धे प्रवर्तमानयोः संभाषणे वर्णानुसारेण यो दण्डः स एव दण्ड इति ।

मनुः [८.३६२–६३] ।

नैष चारणदारेषु विधिर् नात्मोपजीविषु ।
सज्जयन्ति हि ते नारीर् निर्गूढाश् चारयन्ति च ॥
किंचिद् एव तु दाप्यः स्यात् संभाषां ताभिर् आचरन् ।
प्रैष्यासु चैकभक्तासु रहः प्रव्रजितासु च ॥

शङ्खलिखितौ- “सर्वेषां स्वदारनियमः स्वकर्मप्रतिपत्तिश् च धर्मः । येन येनाङ्गेनापराधं कुर्यात् तद् एवास्य छेत्तव्यम् । अष्टसहस्रं वा दण्डः । अन्यत्र ब्राह्मणात् । अदण्ड्यो हि ब्राह्मणः ।

[५८४] मनुः [८.३५२–५३, ३५९] ।

परदाराभिमर्शेषु प्रवृत्तान् नॄन् महीपतिः ।
उद्वेजनकरैर् दण्डैश् चिह्नयित्वा प्रवासयेत् ॥
तत्समुत्थो हि लोकस्य जायते वर्णसंकरः ।
येन मूलहरो ऽधर्मः सर्वनाशाय कल्पते ॥
अब्राह्मणः संग्रहणे प्राणान्तं दण्डम् अर्हति ।
चतुर्णाम् अपि वर्णानां दारा रक्ष्यतमाः स्मृताः ॥

अब्राह्मणः संग्रहणे’ इत्य् अत्र ब्राह्मण्या इति शेषः ।

[५८५]

७२ — (क) अथाभिगमनदण्डाः

तत्र बृहस्पतिः [२४.१३] ।

सहसा कामयेद् यस् तु धनं तस्याखिलं हरेत् ।
उत्कृत्य लिङ्गवृषणौ भ्रामयेद् गर्दभेन तु ॥

आपस्तम्बः [२.२६.१०]- “संनिपाते वृत्ते शिश्नच्छेदनं सवृषणस्य” ।

कात्यायनः [८३०] ।

स्त्रीषु वृत्तोपभोगः स्यात् प्रसह्य पुरुषो यदा ।
वधस् तत्र प्रवर्तेत कार्यातिक्रमणं हि तत् ॥

बृहस्पतिः [२४.१४–१५] ।

छद्मना कामयेद् यस् तु तस्य सर्वहरो दमः ।
अङ्कयित्वा भगाङ्केन पुरान् निर्वासयेत् ततः ॥
दमो ऽन्तिमः समायां तु हीनायाम् अर्धिकस् ततः ।
पुंसः कार्यो ऽधिकायां तु गमने संप्रमापणम् ॥

[५८६] याज्ञवल्क्यः [२.२८६] ।

सजाताव् उत्तमो दण्ड आनुलोम्ये तु मध्यमः ।
प्रातिलोम्ये वधः पुंसो नार्याः कर्णादिकर्तनम् ॥

विष्णुः [५.४०–४३]- “पारजायी सवर्णागमने तूत्तमसाहसं दण्ड्यः । हीनवर्णागमने मध्यमम् । गोगमने च । अन्त्यागमने च वध्यः । उत्तमागमने च” ।

शङ्खलिखितौ- “अनिवेदितप्रवेशे स्त्रीगृहेषु तत्रोत्तमम् उत्तमायाम् । विपर्यये मध्यमसाहसम् । प्रतिलोमैकान्तरावस्कन्दने सर्वस्वं वधो वा । विपर्यये संनिरोधः सर्वस्वं च” ।

अस्यार्थः — अनिवेद्य स्त्रीगृहं प्रविश्य उत्तमां ब्राह्मणादिस्त्रियम् अभिगच्छतो ब्राह्मणस्योत्तमसाहसो दण्डः । “विपर्यये’ तु ब्राह्मणस्य क्षत्रियादिस्त्रीगमने मध्यमसाहसो दण्डः । प्रतिलोमस्य शूद्रादेर् एकान्तरितद्विजातिस्त्रीगमने वधः सर्वस्वापहारसहितो दण्डः । वाशब्दः समुच्चये । ऽआर्यस्त्र्यभिगमने लिङ्गोद्धारः स्वहरणं च । गोप्ता चेद् वधो ऽधिकः’ इति गौतमवचनात् [१२.२–३] । “विपर्यये संनिरोधः’ ब्राह्मणस्यागुप्तपत्नीगमने वैश्यस्य संवत्सरं बन्धनागारे तिरोहितस्य सर्वस्वापहारो दण्डः — ऽवैश्यः सर्वस्वदण्डः स्यात् संवत्सरनिरोधतः’ इति मनुवचनात् [८.३७५] इति ।

[५८७] दर्पाधिकारे मनुः [८.३७२] ।

पुमांसं दाहयेत् पापं शयने तप्त आयसे ।
अभ्यादध्युश् च काष्ठानि तत्र दह्येत पापकृत् ॥

नारदः [१५.७३–७५] ।

माता मातृष्वसा श्वश्रूर् मातुलानी पितृष्वसा ।
पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी स्नुषा ॥
दुहिताचार्यभार्या च सगोत्रा शरणागता ।
राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या ॥
आसाम् अन्यतमां गत्वा गुरुतल्पग उच्यते ।
शिश्नस्योत्कर्तनं तत्र नान्यो दण्डो विधीयते ॥

याज्ञवल्क्यः [३.२३२–३३] ।

पितुः स्वसारं मतुश् च मातुलानीं स्नुषाम् अपि ।
मातुः स्पत्नीं भगिनीम् आचार्यतनयां तथा ॥
आचार्यपत्नीं स्वसुतां गच्छंस् तु गुरुतल्पगः ।
छित्वा लिङ्गं वधस् तस्य सकामायाः स्त्रियास् तथा ॥

[५८८] व्यासः ।

गुप्तायाः संग्रहे दण्डो यथोक्तः समुदाहृतः ।
इच्छन्त्याम् आगतायां तु गच्छतो ऽर्धं दमः स्मृतः ॥

मनुः [८.३७८–७९, ३८२–८३] ।

सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विप्रां बलाद् व्रजन् ।
शतानि पञ्च दण्ड्यः स्याद् इच्छन्त्या सह संगतः ॥
मौण्ड्यं प्राणान्तिको दण्डो ब्राह्मणस्य विधीयते ।
इतरेषां तु वर्णानां दण्डः प्राणान्तिको भवेत् ॥
वैश्यश् चेत् क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो व्रजेत् ।
यो ब्राह्मण्याम् अगुप्तायां तत्समं दण्डम् अर्हतः ॥
सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन् ।
शूद्रायां क्षत्रियविशोः साहस्रो वै भवेद् दमः ॥

आपस्तम्बः [२.२७.८]- “नाश्य आर्यः शूद्रायाम्” ।

आर्यो’ ब्राह्मणादिः, “शूद्रायाम्’ अनन्यपूर्वायां रेतः सिक्त्वा, “नाश्यो’ विषयान् निर्वास्य इत्य् अर्थः ।

[५८९] मनुः [८.३८५, ३७३] ।

अगुप्ते क्षत्रियावैश्ये शूद्रां वा ब्राह्मणो व्रजन् ।
शतानि पञ्च पण्ड्यः स्यात् सहस्रं त्व् अन्त्यजस्त्रियम् ॥
संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो दमः ।
व्रात्यया सह संवास्रे चाण्डाल्या तावद् एव तु ॥

ऽसंवत्सराभिशस्तस्य दुष्टस्य’ इति — संवत्सरम् अनेनोपभुक्ता परस्त्रीति यस्याभिशापः ऽसंवत्सराभिशस्तः’, तस्य संवत्सरम् उपभुक्तायां यो दण्ड उक्तः स द्विगुणः स्याद् इत्य् अर्थः । ऽव्रात्या’ अत्यन्तदुराचारा वधबन्धोपजीविप्रभृतयः सप्तविधाः । ऽव्रात्यप्रतिपादकनिन्दितकर्माचारा निन्दिता’ इत्यादिहारीतवचनानुसारात् ।

याज्ञवल्क्यः [२.२९४] ।

अन्त्याभिगमने त्व् अङ्क्यः कबन्धेन प्रवासयेत् ।
शूद्रस् तथान्त्य एव स्याद् अन्त्यस्यार्यागमे वधः ॥

ऽअङ्क्यः कबन्धेन’ अशिरःस्कन्धनरशरीराकारेणाङ्कयित्वा ।

**[५९०] **बौधायनः [२.३.५३, २.४.१–३]- “शूद्रं कटाग्निना दहेत् । अथाप्य् उदाहरन्ति । अब्राह्मणस्य शारीरो दण्डः ।

अब्राह्मणस्य शारीरो दण्डः संग्रहणे भवेत् ।
सर्वेषाम् एव वर्णानां दारा रक्ष्यतमा धनात् ॥
न तु चारणदारेषु न रङ्गावतरे वधः ।
संसर्जयन्ति ता ह्य् एतान् निगुप्तांश् चालयन्त्य् अपि ॥

शूद्रस्यानुवृत्तौ गौतमः [१२.२–३]- “आर्यस्त्र्यभिगमने लिङ्गोद्धारः सर्वस्वहरणं च । गोप्ता वेद् वधो ऽधिकः” ।

आपस्तम्बः [२.२७.९–१०]- “वधः शूद्र आर्यायाम् । दारं चास्य कर्शयेत्” ।

ऽब्राह्मणी वृषलं सेवेत’ इत्य् अनुवृत्तौ यमः ।

शूद्रं तु घातयेद् राजा शयने तप आयसे ।
दहेत् पापकृतं तत्र काष्ठैः पर्णैस् तृणैस् तथा ॥

मनुः [८.३७४–७७] ।

शूद्रो गुप्तम् अगुप्तं वा दैजातं वर्णम् आवसन् ।
अगुप्तम् अङ्गसर्वस्वी गुप्ते सर्वेण हीयते ॥

[५९१] > वैश्यः सर्वस्वदण्ड्यः स्यात् संवत्सरनिरोधतः ।

सहस्रं क्षत्रियो दण्ड्यो मौण्ड्यं मूत्रेण चार्हति ॥
ब्राह्मणीं यद्य् अगुप्तां तु सेवेयाताम् इति स्थितिः ।
वैश्यं पञ्चशतं कुर्यात् क्षत्रियं तु सहस्रिणम् ॥
उभाव् अपि तु ताव् एव ब्राह्मण्या गुप्तया सह ।
विप्लुतौ शूद्रवद् दण्ड्यौ दग्धव्यौ वा कटाग्निना ॥

ऽद्वैतातं वर्णम् आवसन्’ द्विजातिस्त्रियम् अभिगच्छन्न् इत्य् अर्थः । ऽअगुप्तम्’ अरक्षितम् । ऽअङ्गसर्वस्वी’ अङ्गसर्वस्वसहितः, ऽहीयते’ तेनाङ्गेन येनाङ्गेनापराद्धम्, सर्वस्वेन च हीयत इत्य् अर्थः । रक्षितां तु व्रजन् ऽसर्वेण’ अङ्गेन हीयत इत्य् अर्थः ।

तथा [८.३८४] ।

क्षत्रियायाम् अगुप्तायां वैश्ये पञ्चशतो दमः ।
मूत्रेण मौण्ड्यम् इच्छेत् तु क्षत्रियो दण्डम् एव वा ॥

हारीतः- “श्रेयसः शयनशायिनं राजा बध्वा श्वभिः खादयेत् । काष्ठैश् चैनां दाहयेत्” ।

श्रेयसः’ ब्राह्मणादेस् तूत्तमस्य । “शयनशायिनम्’ स्त्रीगामिनम् । “एनाम्’ उत्तमस्त्रियम् ।

गौतमः [२३.१४–१६]- “श्वभिः खादयेद् राजा निहीनवर्णगमने स्त्रियम् प्रकाशम् । पुमांसं घातयेत् । यथोक्तं वा” ।

[४९२] वसिष्ठः [२१.१–५]- “शूद्रश् चेद् ब्राह्मणीम् अभिगच्छेद् वीरणपत्रैर् वेष्टयित्वा शूद्रम् अग्नौ प्रास्येत । ब्राह्मण्याः शिरसि वापनं कृत्वा सर्पिषाभ्युक्ष्य नग्नां खरम् आरोप्य महापथम् अनुव्राजयेत् । पूता भवतीति विज्ञायते । वैश्यश् चेद् ब्राह्मणीम् अभिगच्छेल् लोहितदर्भैर् वेष्टयित्वा वैश्यम् अग्नौ प्रास्येत । ब्राह्मण्याः शिरसि वापनं कृत्वा सर्पिषाभ्युक्ष्य नग्नां खरम् आरोप्य महापथम् अनुव्राजयेत् । पूता भवतीति विज्ञायेत् । राजन्यश् चेद् ब्राह्मणीम् अभिगछेच् छरपत्रैर् वेष्टयित्वा राजन्यम् अग्नौ प्रास्येत । ब्राह्मन्याः शिरसि वपनं कृत्वा सर्पिषाभ्युक्ष्य नग्नां खम आरोप्य महापथम् अनुव्राजयेत् । पूता भवतीति विज्ञायते । एवाम् वैश्यो राजन्यायां मैथुनम् आचरन् । शूद्रस् तु राजन्यवैश्ययोः” ।

अथ यमः ।

वृषलं सेवते या तु ब्राह्मणी मदमोहिता ।
तां श्वभिः खादयेद् राजा संस्थाने वध्यघातिनाम् ॥

[५९३] > वैश्यं वा क्षत्रियं वापि ब्राह्मणी सेवते तु या ।

शिरसो मुण्डनं तस्याः प्रयाणं गर्दभेन तु ॥

ऽसंस्थाने वध्यघातिनाम्,’ वध्यान् ये घातयन्ति चण्डालादयस् तेषां स्थाने ।

बृहस्पतिः [२४.१६–१७] ।

गृहम् आगत्य या नारी प्रलोभ्य स्पर्शनादिना ।
कामयेत् तत्र सा दण्ड्या नरस्यार्धदमः स्मृतः ॥
छिन्ननासौष्ठकर्णां तु परिभ्राम्याप्सु मज्जयेत् ।
खदेयेद् वा सारमेयैः संस्थाने बहुसंस्थिते ॥

ऽबहुसंस्थिते’ बहवः संस्थिता यत्र चत्वरादौ ।

मनुः [८.३७१] ।

भर्तारं लङ्घयेद् या तु स्त्री ज्ञातिगुणदर्पिता ।
तां स्वभिः खादयेद् राजा संस्थाने बहुसंस्थिते ॥

हन्याद् इत्य् अन्वृत्तौ विष्णुः [५.१८]- “स्त्रियम् असक्तभर्तृकां तदतिक्रमणीं च” ।

याज्ञवल्क्यः [३.२३३] ।

लिङ्गं छित्त्वा बधस् तत्र सकामायाः स्त्र्यास् तथा ।

[५९४] बृहस्पतिः [२४.१८–१९] ।

अनिच्छन्ती तु या मुक्ता गुप्तां तां वासेयेद् गृहे ।
मलिनाङ्गीम् अधःशय्यां पिण्डमात्रोपजीविनीम् ॥
कारयेन् निष्कृतिं कृच्छ्रं पराकं वा समे गताम् ।
हीनवर्णोपभुक्ता या त्याज्या बध्याथ वा भवेत् ॥

समे गतां’ सवर्णपुरुषे संगताम् ।

कात्यायनः [४८८–७९] ।

नास्वतन्त्राः स्त्रियो ग्राह्याः पुमांस् तत्रापराध्यति ।
प्रभुणा शासनीयास् ता राजा तु पुरुषं नयेत् ॥
प्रोषितस्वामिका नारी प्रापिता यद्य् अभिग्रहे ।
तावत् सा बन्धने स्थाप्या यावत् प्रत्यागतः प्रभुः ॥

पुरुषं नयेत्’ स्त्रीस्वामिनं पुरुषं प्रापयेद् इत्य् अर्थः ।

मत्स्यपुराणे [२२७.१२७–२९]

बलात् संदूषयेद् यस् तु परभार्यां नरः क्वचित् ।
वधदण्डो भवेत् तस्य नापराधो भवेत् स्त्रियाः ॥
अद्रव्यां मृतपत्नीं तु संगृह्णन् नापराध्नुयात् ।
स तां परिगृहाणस् तु सर्वस्वं दण्डम् अर्हति ॥

कृत्यकल्पतरौ व्यवहारकाण्दे

[अभिगमणदण्डः]

[५९५]

७२ — (ख) अथ कन्यादूषणम्

तत्र मनुः [८.३६४] ।

यो ऽकामां दूषयेत् कन्यां स सद्यो वधम् अर्हति ।
सकामां दूषयंस् तुल्यो न वधं प्राप्नुयान् नरः ॥

मत्स्यपुराणे [२२७.१२४–२५] ।

यो ऽकामां दूषयेत् कन्यां स सद्यो वधम् अर्हति ।
सकामां दूषयानस् तु प्राप्तः परमसाहसम् ॥

ऽसंनिपाते वृत्ते’ इत्य् अनुवृत्तौ आपस्तम्बः [२.२६.२१]- “कुमार्यां तु स्वान्य् आदाय नाश्यः’ ।

मनुः [८.३६६] ।

उत्तमां सेवमानस् तु जघन्यो वधम् अर्हति ।
शुल्कं दद्यात् सेवमानः समाम् इच्छेत् पिता यदि ॥

[५९६] नारदः [१५.७१–७२] ।

कन्यायाम् असकामायां द्व्यङ्गुलस्यावकर्तनम् ।
उत्तमायां वधस् त्व् एव सर्वस्वहरणं तथा ॥
सकामायां तु कन्यायां सवर्णे नास्त्य् अतिकर्मः ।
किं त्व् अलंकृत्य सत्कृत्य स एवैनां समुद्वहेत् ॥

अथ शङ्खलिखितौ- “कन्यायाम् असकामायां द्व्यङ्गुलच्छेदो दण्डश् च । उत्तमायां तु वधो जघन्यस्य । समानायां शुल्कम् आभरणं द्विगुणं च स्त्रीधनं दत्वा प्रतिपद्येत कन्याम्” ।

याज्ञवल्क्यः [२.२८७–८८] ।

अलंकृतां हरन् कन्याम् उत्तमां ह्य् अन्यथाधमम् ।
दण्डं दद्यात् सवर्णासु प्रातिलोम्ये वधः स्मृतः ॥
सकामास्व् अनुलोमासु न दोषस् त्व् अन्यथा दमः ।

[५९७] > दूषणे तु करच्छेद उत्तमायां वधस् तथा ॥

उत्तमम्’ उत्तमसाहसम् । “अधमम्’ अधमसाहसम् ।

मनुः [८.३६७–७०, ६५] ।

अभिषज्य तु यः कन्यां कुर्याद् दर्पेण मानवः ।
तस्याशु कल्प्यते अङ्गुल्यौ दण्डं चार्हति षट्शतम् ॥
सकामां दूषयानस् तु नाङ्गुलीच्छेदम् आप्नुयात् ।
द्विशतं तु दमं दाप्यः प्रसङ्गविनिवृत्तये ॥
कन्यैव कन्यां या कुर्यात् तस्याः स्याद् द्विशतो दमः ।
शुल्कं च त्रिगुणं दद्याच् छिपाश् च प्राप्नुयाद् दश ॥
या तु कन्यां प्रकुर्यात् स्त्री सा सद्यो मौण्ड्यम् अर्हति ।
अङ्गुल्योर् एव वा छेदं खरेणोद्वहनं तथा ॥
कन्यां भजन्तीम् उत्कृष्टं न किंचिद् अपि दापयेत् ।
जघन्यं सेवमानां तु संयतां वासयेद् गृहे ॥

अभिषज्य’ अभिभूय । “कुर्यात्’ विकुर्यात्, दूषयेद् इति यावत् । “कल्प्ये’ छेद्ये । “शिफा’ अत्र जटारज्वादिप्रहारः ।

[५९८]

७२ — (ग) अथ बन्धक्यभिगमनम्

तत्र यमः ।

परदारे सवर्णासु दण्ड्याः स्युः पञ्च कृष्णलाः ।
असवर्णास्व् आनुलोम्ये दण्डो द्वादशको मतः ॥

व्यासः ।

बहुभिर् भुक्तपूर्वा या गच्छेद् यस् तां नराधमः ।
तस्य वेश्यावद् इच्छन्ति दण्डनं न तु दारवत् ॥

कात्यायनः [८३१] ।

कामार्ता स्वैरिणी या तु स्वयम् एव प्रकामयेत् ।
राजादेशेन भोक्तव्या विख्याप्य जनसंनिधौ ॥

नारदः [१५.७८–७९] ।

स्वैरिण्य् अब्राह्मणी वेश्या दासी निष्कासिनी च या ।
गम्याः स्युर् आनुलोम्येन स्त्रियो न प्रतिलोमतः ॥
आस्व् एव तु भुजिष्यासु दोषः स्यात् परदारवत् ।
गम्या अपि हि नोपेया यतस् ताः सपरिग्रहाः ॥

याज्ञवल्क्यः [२.२९०] ।

अवरुद्धासु दासीषु भुजिष्यासु तथैव च ।
गम्यास्व् अपि पुमान् दाप्यः पञ्चाशत्पणिकं दमम् ॥

[५९९] व्यासः ।

परोपरुद्धागमने पञ्चाशत्पणिको दमः ।
प्रसह्य वेश्यागमने दण्डो दशपणः स्मृतः ॥

याज्ञवल्क्यः [२.२९१] ।

प्रसह्य दास्या गमने दण्डो दशपणः स्मृतः ।
बहूनां यद्य् अकाकामासौ चतुर्विंशतिकः पृथक् ॥

तथा [२.२९३] ।

पशून् गच्छन् शतं दाप्यो हीनां गां चैव मध्यमम् ।

नारदः [१५.७६] ।

पशुयोनाव् अतिक्रामन् विनेयः स दमं शतम् ।
मध्यमं साहसं गोषु तद् एवान्त्यावसायिषु ॥

मत्स्यपुराणे [२२७.१४३–४४] ।

तिर्यग्योनौ तु गोवर्जं मैथुनं यो विषेवते ।
स पणं प्राप्नुयाद् दण्डं तस्याश् च यवसोदकम् ॥

[६००] > सुवर्णं तु भवेद् दण्डो गां व्रजन् मनुजोत्तमः ।

वेश्यागामी द्विजो दण्ड्यो वेश्याशुल्कसमं पणम् ॥

नारदः [१५.७७] ।

अगम्यागामिनः शास्ति दण्डो राज्ञा प्रकीर्तितः ।
प्रायश्चित्तविधानं तु पापानां स्याद् विशोधनम् ॥

मनुः [८.३८६–८७] ।

यस्य स्तेनः पुरे नास्ति नान्यस्त्रीगो न दुष्टवाक् ।
न साहसिकदण्दघ्नौ स राजा शक्रलोकभाक् ॥
एतेषां निग्रहो राज्ञः पञ्चानां विषये स्वके ।
साम्राज्यकृत् सजात्येषु लोके चैव यशस्करः ॥

यमः ।

दुष्टाः साहसिकाश् चण्डाः कितवा वञ्चकास् तथा ।
यस्य राष्ट्रे न सन्तीह स राजा शक्रलोकभाक् ॥

इति स्त्रीसंग्रहपर्व ।

[६०१]