अथ साहसम्
तत्र नारदः ।
मनुष्यमारणं चौर्यं परदाराभिमर्शनम् ।
पारुष्यम् उभयं चेति साहसं पञ्चधा स्मृतम् ॥
सहसा क्रियते कर्म यत् किंचिद् बलदर्पितैः ।
तत् साहसम् इति प्रोक्तं सहो बलम् इहोच्यते ॥
तस्यैव भेदः स्तेयं स्याद् विशेषस् तत्र दृश्यते ।
आधिः साहसम् आक्रम्य स्तेयम् आधिश् छलेन तु ॥
तत् पुनस् त्रिविधं प्रोक्तं प्रथमं मध्यमं तथा ।
उत्तमं चेति शास्त्रेषु तस्योक्तं लक्षणं पृथक् ॥
फलमूलोदकादीनां क्षेत्रोपकरणस्य च ।
भङ्गाक्षेपावमर्दाद्यैः प्रथमं साहसं स्मृतम् ॥
[५५७] > वासःपश्वन्नपानानां गृहोपकरणस्य च ।
एतेनैव प्रकारेण मध्यमं साहसं स्मृतम् ॥
व्यापादो विशशस्त्राद्यैः परदारप्रधर्षणम् ।
प्राणोपरोधि यच् चान्यद् उक्तम् उत्तमसाहसम् ॥
मनुः [८.३३२] ।
स्यात् साहसं त्व् अन्वयवत् प्रसभं कर्म यत् कृतम् ।
बृहस्पतिः [२३.३; ८–८??] ।
हीनमध्योत्तमत्वेन त्रिविधं तत्प्रकीर्तितम् ।
द्रव्यापेक्षो दमस् तत्र प्रथमो मध्य उत्तमः ॥
क्षेत्रोपकरणं सेतुं पुष्पमूलफलानि च ।
विनाशयन् हरन् दण्ड्यः शताद्यम् अनुरूपतः ॥
पशुवस्त्रान्नपानानि गृहोपकरणं तथा ।
हिंसयन् चोरवद् दाप्यो द्विशताद्यं दमं तथा ॥
स्त्रीपुंसौ हेमरत्नानि देवविप्रधनं तथा ।
कौशेयं चोत्तमद्रव्यम् एषां मूल्यसमो दमः ॥
द्विगुणो वा कल्पनीयः पुरुषापेक्षया नृपैः ।
हन्ता च घातनीयः स्यात् प्रसङ्गविनिवृत्तये ॥
[५५८] साहसानुवृत्तौ नारदः [१७.७–८] ।
तस्य दण्डः क्रियापेक्षः प्रथमस्य शतावरः ।
मध्यमस्य तु शास्त्रज्ञैर् दृष्टः पञ्चशतावरः ॥
वधः सर्वस्वहरणं पुरान् निर्वासनाङ्कने ।
तदङ्गच्छेद इत्य् उक्तो दण्ड उत्तमसाहसः ॥
याज्ञवल्क्यः [२.२३०, २२३] ।
सामान्यद्रव्यप्रसभहरणात् साहसं स्मृतम् ।
तन्मूल्याद् द्विगुणो दण्डो निह्नवे च चतुर्गुणः ॥
अभिघाते तथा भेदे छेदे कुड्यावपातने ।
पणान् दाप्यः पञ्चदश् विंशतिं तद्व्ययं तथा ॥
“सामान्यम्’ नानास्वामिकं “द्रव्यम्’ ।
मनुः [८.२८८–८९] ।
द्रव्याणि हिंस्याद् यो यस्य ज्ञानतो ऽज्ञानतो ऽपि वा ।
स तस्योत्पादयेत् तुष्टिं राज्ञा दण्ड्यश् च तत्समम् ॥
[५५९] > चर्मचार्मिकभाण्डेषु काष्ठलोष्टमयेषु च ।
मूल्यात् पञ्चगुणो दण्डः पुष्पमूलफलेषु च ॥
कात्यायनः [८०७] ।
शतं भङ्गोपमार्दौ वा कुर्याद् द्रव्येषु यो नरः ।
प्राप्नुयात् साहसं पूर्वं द्रव्यभाक् स्वाम्य् उदाहृतः ॥
याज्ञवल्क्यः [२.२२४] ।
दुःखोत्पादि गृहे द्रव्यं क्षिपन् प्राणहरं तथा ।
षोडशाद्यः पणान् दाप्यो द्वितीयो मध्यमं दमम् ॥
“दुःखोत्पादि’ कण्टकादि । “प्राणहरम्’ सर्पादि ।
दण्ड इत्य् अनुवृत्तौ विष्णुः [५.१०८–१९]- “गृहकुड्याद्युपभेत्ता मध्यमसाहसम् । तच् च योजयेत् । गृहे पीडाकरं द्रव्यं प्रक्षिपन् पणशतम् । साधारण्यापलापी च । प्रेषितस्याप्रदाता च । पितृपुत्राचार्ययाज्यर्त्विजाम् अन्योन्यापतितत्यागी च । न च तान् जह्यात् । [५६०] शूद्रप्रव्रजितानां दैवे पित्र्ये भोजकस्य । अयोग्यकर्मकारी च । समुद्रगृहभेदकश् च । अनियुक्तः शपथकारी । पशूनां पुंस्त्वोपघातकारी च” ।
पुनर् विष्णुः [५.१०४–०५]- “अस्पृश्यैः कामकारेण स्पृश्यं स्पृशन् वध्यः । रजस्वलां शिफाभिस् ताडयेत्” ।
“शिफाभिः’ वृक्षजटाभिः ।
याज्ञवल्क्यः [२.२३२–३७] ।
अर्घ्याक्रोषातिक्रमकृद् भ्रातृभार्याप्रहारकः ।
संदिष्टस्याप्रदाता च समुद्रगृहभेदकः ॥
सामन्तकुलिकादीनाम् अपकारस्य कारकः ।
पञ्चाशत्पणिको दण्ड एषाम् इति विनिश्चयः ॥
स्वच्छन्दविधवागामी विक्रुष्टे नाभिधावकः ।
अकारणे च विक्रोष्टा चाण्डालश् चोत्तमान् स्पृशन् ॥
[५६१] > शूद्रप्रव्रजितानां च दैवे पित्र्ये च भोजकः ।
अयुक्तं शपथं कुर्वन्न् अयोग्यो योग्यकर्मकृत् ॥
वृषक्षुद्रपशूनां च पुंस्त्वस्य प्रतिघातकः ।
साधारणस्यापलापी दासीगर्भविनाशकृत् ॥
पितापुत्रस्वसृभ्रातृदम्पत्याचार्यसिष्यकाः ।
एषाम् अपतितान्योन्यत्यागी च शतदण्डभाक् ॥
मनुः [८.३८९] ।
न माता न पिता न स्त्री न पुत्रस् त्यागम् अर्हति ।
त्यजन्न् अपतितान् एतान् राज्ञा दाप्यः शतानि षट् ॥
शङ्खलिखितौ- “न मातापित्रोर् अन्तरं गच्छेत पुत्रः । कामं मातुर् एवानुयायात् । सा हि धारिणी पोषणी च । न पुत्रः प्रतिमुच्येतान्यत्र सौत्रामणीयागाज् जीवन्नृणान्मातुः । एवम् अत्याज्या माता । तथा पिता । सपिण्डा गुणवन्तः सर्व एवात्याज्याः । यस् त्यजेत् कामाद् अपतितान् स दण्डं प्राप्नुयाद् द्विशतम् । न मातापितराव् अतिक्रमेत् । न गुरुम् । त्रयाणाम् अतिक्रमे ऽङ्गच्छेदः” ।
[५६२] विष्णुः [५.९१–९७]- “येषां देयः पन्थास् तेषाम् अपथदायी कार्षापणपञ्चविंशतिं दण्ड्यः । आसनार्हस्यासनम् अददञ् च । पूर्वार्हम् अपूजयंश् च । प्रातिवेश्यब्राह्मणे निमन्त्रणातिक्रमे च । निमन्त्रयित्वा भोजनादायिनश् च । निमन्त्रितस् तथेत्य् उक्त्वा चाभुञ्जानाः सुवर्णमाषकम् । निकेतयितुश् च द्विगुणम् अन्नम्” ।
मनुः [८.३९२–९३] ।
प्रातिवेश्यानुवेश्यौ च कल्याणे विंशतिद्विजे ।
अर्हाव् अभोजयन् विप्रौ दण्डम् अर्हति माषकम् ॥
श्रोत्रियः श्रोत्रियं साधुं भूतिकृत्येष्व् अभोजयन् ।
तद् अन्नं द्विगुणं दाप्यो हैरण्यं चैव माषकम् ॥
“कल्याणे विंशतिद्विजे’ इति — यत्र कल्याणे विंशतिद्विजा भुञ्जत इति ।
मत्स्यपुराणे [२२७.८] ।
आमन्त्रितो द्विजो यस् तु वर्तमानः प्रतिग्रहे ।
निष्कारणं न गच्छेत् तु स दाप्यो ऽष्टशतं दमम् ॥
[५६३] याज्ञवल्क्यः [२.२६३] ।
तरिकः स्थलजं शुल्कं गृह्णन् दाप्यः पणान् दश ।
ब्राह्मणः प्रातिवेश्यांश् च तद्वद् एवानिमन्त्रयन् ॥
ऽतरिकः’ नद्यादेः संतारणशुल्काधिकृतः ।
विष्णुः [५.१२०–२१]- “पितापुत्रविरोधे तु साक्षिणां दशपणो दण्डः । यस् तयोश् चान्तरे स्यात् तस्योत्तमसाहसम्” ।
याज्ञवल्क्यः [२.२३९] ।
पितापुत्रविरोधे तु साक्षिणां त्रिपणो दमः ।
अन्तरे तु तयोर् यः स्यात् तस्याप्य् अष्टशतो दमः ॥
दण्ड इत्य् अनुवृत्तौ विष्नुः [५.९८–१०३]- “अभक्ष्येण ब्राह्मणं दूषयित्वा षोडश्सुवर्णान् । जात्यपहारिणा शतम् । सुरया वध्यः । क्षत्रियं दूषयितुस् तदर्धम् । वैश्यं दूषयितुस् तदर्धम् अपि । शूद्रं दूषयितुः प्रथमसाहसम्” ।
“अभक्ष्येण’ विष्ठादिन । “जात्यपहारिणा’ अभक्ष्येण लशुनादिना । शूद्रस्याभक्ष्यं पञ्चनखमांसादि ।
[५६४] याज्ञवल्क्यः [२.२९६] ।
द्विजं प्रदूष्यभक्ष्येण दण्ड्य उत्तमसाहसम् ।
क्षत्रियं मध्यमं वैश्यं प्रथमं शूद्रम् अर्धिकम् ॥
मनुः ।
अभक्ष्यम् अथ चापेयं वैश्यादीन् आशयन् द्विजान् ।
जघन्यमध्यमोत्कृष्टान् दण्डान् अर्हेद् यथाक्रमम् ॥
पणाः शूद्रे भवेद् दण्डश् चतुःपञ्चाशद् एव तु ।
ग्रसितारः स्वयं कार्या राज्ञा निर्विषयास् तु ते ॥
विष्णुः [५.१७३]- “जातिभ्रंशकरस्याभक्ष्यस्य भक्षयिता विवास्यः” ।
याज्ञवल्क्यः [२.३०१, ३०३] ।
जारं चोरेत्य् अभिवदन् दाप्यः पञ्चशतं दमम् ।
उपजीव्य धनं मुञ्चंस् तद् एवाष्टगुणीकृतम् ॥
मृताङ्गलग्नविक्रेतुर् गुरोस् ताडयितुस् तथा ।
राजयानासनारोढुर् दण्डो मध्यमसाहसः ॥
[५६५] “जारं चोरेत्य् अभिवदन्’ स्ववंशकलङ्कशङ्कया स्वस्त्रीदोषम् अपह्नुवानो जारं चोरो ऽयं निर्गच्छतीति ब्रुवन् । “उपजीव्य धनं मुञ्चन्’ धनं गृहीत्वा जारं परित्यजन् ।
मनुः [९.२९०, २८६] ।
अभिचारेषु सर्वेषु कर्तव्यो द्विशतो दमः ।
मूलकर्मणि चानाप्तैः कृत्यासु विविधासु च ॥
अदूषितानां द्रव्याणां दूषणे भेदने तथा ।
मणीनाम् अवबाधेषु दण्डः प्रथमसाहसः ॥
तथा [१०.९६] ।
यो लोभाद् अधमो जात्या जीवेद् उत्कृष्टकर्मभिः ।
तं राजा निर्धनं कृत्वा क्षिप्रम् एव प्रवासयेत् ॥
याज्ञवल्क्यः [२.३०४] ।
विप्रत्वेन तु शूद्रस्य जीवतो ऽष्टशतो दमः ॥
मनुः [९.२८५] ।
संक्रमध्वजयष्टीनां प्रतिमानां च भेदकः \
प्रतिकुर्याच् च तत् सर्वं पञ्च दद्याच् छतानि च ॥
[५६६] कात्यायनः ।
हरेद् भिन्द्याद् दहेद् वापि देवानां प्रतिमां यदि ।
तद्गृहं चैव यो भिन्द्यात् प्राप्नुयात् पूर्वसाहसम्
विष्णुः [५.१७४]- “अभक्ष्यस्याविक्रेयस्य विक्रयी देवप्रतिमाभेदकश् चोत्तमसाहसं दण्डनीयः” ।
नारदः [४.६७] ।
अविक्रेयाणि विक्रीणान् ब्राह्मणः प्रच्युतः पथः ।
मार्गे पुनर् अवस्थाप्यो राज्ञा दण्डेन भूयसा ॥
शङ्खलिखितौ- “प्रतिमारामकूपसङ्क्रमध्वजसेतुनिपानद्विजायतनभङ्गेषु तत्समुपस्थानं प्रतिसंस्कारो ऽष्टशतं दमं च” ।
मनुः [९.२८१, २७९] ।
यस् तु पूर्वनिविष्टस्य तडागस्योदकं हरेत् ।
आगमं चाप्य् अपां भिन्द्यात् स दाप्यः पूर्वसाहसम् ॥
तडागभेदकं हन्याद् अप्सु शुद्धवधेन वा ।
तद् वापि प्रतिसंस्कुर्याद् दद्याच् चोत्तमसाहसम् ॥
हन्याद् इत्य् अनुवृत्तौ विष्णुः [५.१५]- “सेतुभेदकृतश् च” ।
ऽशारीरो ऽङ्गच्छेदो वा’ इति दण्डः ।
शङ्खलिखितौ- “वापीतडागोदपानभेदमार्गरसद्रव्यदूषणे । अदासीदाससंप्रदानकरणे” ।
[५६७] याज्ञवल्क्यः [२.२७९] ।
विषाग्निदां स्त्रियं चैव पुरुषघ्नीम् अगर्भिणीम् ।
सेतुभेदकरं वाप्सु शिलां बद्ध्वा प्रवेशयेत् ॥
“विषाग्निदाम्’ पतिगुरुनिजापत्यप्रमापणीं विकर्णकरनासोष्ठीं कृत्वा गोभिः प्रमापयेत् । “पुरुषघ्नीम् अगर्भिणीम्’ पुरुषमारिणीम् या स्त्री भवेत् सा यदि गर्भरहिता भवति तदा तां जले प्रवेशयेन् नान्यथा ।
यमः ।
उल्काग्निदायकाश् चौराः घातकाश् चोपघातकाः ।
स्वशरीरेण दण्ड्याः स्युर् मनुर् आह प्रजापतिः ॥
याज्ञावल्क्यः [२.२८२] ।
क्षेत्रवेश्मग्रामवनविवीतखलदाहकाः ।
राजपत्न्यभिगामी च दग्धव्यास् तु कटाग्निना ॥
कात्यायनः [८०९] ।
प्राकारं भेदयेद् यस् तु पातयेच् छातयेत् तथा ।
बध्नीयाद् अम्भसो मार्गं प्राप्नुयात् पूर्वसाहसम् ॥
मनुः [९.२८९, २७५, २७२] ।
प्राकारस्यावभेत्तारं परिखाणां च पूरकम् ।
द्वाराणां चैव भेत्तारं क्षिप्रम् एव प्रमापयेत् ॥
[५६८] > राज्ञः कोशापहर्तॄंश् च प्रतिकूलेष्व् अवस्थितान् ।
घातयेद् विविधैर् दण्डैर् अरीणां चोपजापकान् ॥
राष्ट्रेषु रक्षाधिकृताः परस्वादायिनः शठाः ।
भृत्या भवन्ति प्रायेण तेभ्यो रक्षेद् इमाः प्रजाः ॥
तथा [७.१२४] ।
ये कार्येभ्यो ऽर्थम् एवं हि गृह्णीयुः पापचेतसः ।
तेषां सर्वस्वम् आदाय राजा कुर्यात् प्रवासनम् ॥
तथा [९.२३१] ।
ये नियुक्तास् तु कार्येषु हन्युः कार्याणि कार्यिणाम् ।
धनोष्मणा पच्यमानास् तान् निःस्वान् कार्येन् नृपः ॥
याज्ञवल्क्यः [१.३३८–३९] ।
ये राष्ट्राधिकृतास् तेषां चारैर् ज्ञात्वा विचेष्टितम् ।
साधून् संमानयेद् राजा विपरीतांस् तु घातयेत् ॥
उत्कोचजीविनो द्रव्यहीनान् कृत्वा विवासयेत् ।
सदानमानसत्कारान् श्रोत्रियान् वासयेत् सदा ॥
[५६९] तथा [२.२४३] ।
अबध्यं यस् तु बध्नाति बध्यं यश् च प्रमुञ्चति ।
अप्राप्तव्यवहारं च स दाप्यो दमम् उत्तमम् ॥
विष्णुः [५.१९५] ।
दण्ड्यम् उन्मोचयन् दण्ड्याद् द्विगुणं दण्डम् आवहेत् ।
नियुक्तश् चाप्य् अदण्ड्यानां दण्डकारी नराधमः ॥
कात्यायनः [९५५–५६] ।
राजक्रीडासु ये शक्ता राजवृत्त्युपजीविनः ।
अप्रियस्य तु यो वक्ता वधं तेषां प्रकल्पयेत् ॥
प्रतिरूपस्य कर्तारं प्रेक्षणाः प्रकराश् च ये ।
राजार्थमोषकाश् चैव प्राप्नुयुर् विविधं वधम् ॥
हन्याद् इत्य् अनुवृत्तौ विष्णुः [५.१८]- “ये चाकुलीना राष्ट्रम् अभिकामयेयुः” ।
[५७०] याज्ञवल्क्यः [२.२९५] ।
ऊनं वाप्य् अधिकं वापि लिखेद् वा राजशासनम् ।
पारदारिकचौरं वा मुञ्चतो दण्ड उत्तमः ॥
शङ्खलिखितौ- “कूटशासनप्रयोगे राजशासनप्रतिषेधे कूटतुलामानप्रतिमानव्यवहारे शारीरो ऽङ्गच्छेदो वा” ।
कात्यायनः [९५४] ।
प्रमाणेन तु कूटेन मुद्रया वापि कूटया ।
कार्यं तु साधयेद् यो वै स दाप्यो दण्डम् उत्तमम् ॥
मनुः [९.२३२] ।
कूटशासनकर्तॄंश् च प्रकृतीनां च दूषकान् ।
स्त्रीबालब्राह्मणघ्नांश् च हन्याद् द्विट्सेविनस् तथा ॥
विष्णुः [३.३३–३५, ३७]- “स्वाम्यमात्यदुर्गकोशदण्डराष्ट्रमित्राणि प्रकृतयः । तद्दूषकांश् च हन्यात् । स्वराष्ट्रपरराष्ट्रयोश् च चारचक्षुः स्यात् । दुष्टांश् च हन्यात्” ॥
पुनर् विष्णुः [५.९–११]- “कूटशासनकृतॄंश् च राजा हन्यात् ।कूटलेख्यकरांश् च । गरदाग्निदप्रसह्यतस्करान् स्त्रीबालपुरुषघातिनश् च” ।
[५७१] याज्ञवल्क्यः [२.२७७] ।
शस्त्रावपाते गर्भस्य घातने चोत्तमो दमः ।
उशना ।
परिक्लेशेन पूर्वः स्याद् भैषज्येन तु मध्यमः ।
प्रहारेण तु गर्भस्य पातने दण्ड उत्तमः ॥
कात्यायनः [७९९] ।
व्यापादने तु तत्कारी वधं चित्रम् अवाप्नुयात् ।
बृहस्पतिः [२३.९–१२] ।
साहसं पञ्चधा प्रोक्तं वधस् तत्राधिकः स्मृतः ।
तत्कारिणो नार्थदमैः शास्याः वध्याः प्रयत्नतः ॥
प्रकाशवधका ये तु तथैवोपांशुघातकाः ।
ज्ञात्वा सम्यग् धनं हृत्वा हन्तव्या विविधैर् वधैः ॥
मित्रप्राप्त्यर्थलोभैर् वा राज्ञा लोकहितैषिणा ।
न मोक्तव्याः प्रयत्नेन सर्वभूतभयावहाः ॥
लोभाद् भयाद् वा यो राजा न हन्यात् पापकारिणः ।
तस्य प्रक्षुभ्यते राष्ट्रं राज्यात् स परिहीयते ॥
[५७२] तथा [२३.१३] ।
बन्धाग्निविषशस्त्रेण परान् यस् तु प्रमापयेत् ।
क्रोधादिना निमित्तेन नरः साहसिकस् तु सः ॥
बौधायनः- “क्षत्रियादीनां ब्राह्मणवधे वधः सर्वस्वहरणं च । तेषाम् एव तुल्यापकृष्टवधे यथाबलम् अनुरूपदण्डं प्रकल्पयेत् । क्षत्रियवधे गोसहस्रं वृषभैकाधिकं राज्ञ उत्सृजेद् वैरनिर्यातनार्थम् । शतं वैश्ये दश् शूद्रे वृषभश् चात्राधिकः । शूद्रवधेन स्त्रीवधो गोवधश् च व्याख्यातः । अन्यत्रात्रेय्या वधात् । धेन्वनडुहोश् च । वधे धेन्वनडुहोर् अन्ते चान्द्रायणं चरेत् । आत्रेय्या वधः क्षत्रियवधेन व्याख्यातः । हंसभासबर्हिणचक्रवाकबलाकाकोलूकमण्डूकडिड्डिक-डेरिकाश्वबभ्रुनकुलादीनां वधे शूद्रवत्” ।
बृहस्पति-कात्यायनौ ।
एकस्य बहवो यत्र प्रहरन्ति रुषान्विताः ।
मर्मप्रहारदो यश् च घातकः स उदाहृतः ॥
[५७३] > मर्मघाती तु यस् तेषां यथोक्तं दापयेद् दमम् ।
आरम्भकृत् सहायश् च दोषभाजस् तदर्धतः ॥
क्षतस्याल्पमहत्वं च मर्मस्थानं च यत्नतः ।
सामर्थ्यं चानुबन्धं च ज्ञात्वा चिह्नैः प्रसाधयेत् ॥
नारदः [१७.९–१०] ।
अविशेषेण सर्वेषाम् एष दण्डविधिः स्मृतः ।
वधाद् ऋते ब्राह्मणस्य न वधं ब्राह्मणो ऽर्हति ॥
शिरसो मुण्डनं दण्डस् तस्य निर्वासनं पुरात् ।
ललाटे चाभिशस्ताङ्कः प्रयाणं गर्दभेन च ॥
साहचौर्ययोर् यमः ।
न शारीरो ब्राह्मणस्य दण्डो भवति कर्हिचित् ।
गुप्ते तु बन्धने बध्वा राजा भक्तं प्रदापयेत् ॥
अथ वा बन्धनं रज्ज्वा कर्म वा कारेयन् नृपः ।
मासार्धमासं कुर्वीत कार्यं विज्ञाय तत्त्वतः ॥
यथापराधं विप्रं तु विकर्माण्य् अपि कारयेत् ।
राजदुष्टानि भाषेत दण्डो निर्विषयः स्मृतः ॥
अवध्या ब्राह्मणा गावो लोके ऽस्मिन् वैदिकी श्रुतिः ।
“दण्डो विर्विषयः’ इति । विषयोद्देशान् निष्क्रान्तः कार्यः स एव दण्ड इत्य् अर्थः ।
याज्ञवल्क्यः [२.२३१] ।
यः साहसं कारयति स दाप्यो द्विगुणं दमम् ।
यश् चैवम् उक्त्वाहं दाता कारयेत् स चतुर्गुणम् ॥
[५७४] “अहं दाता’ इति । ऽअहं तुभ्यं धनं दास्यामि त्वं कुरु’ इत्य् अभिधाय, यः कारयति स चतुर्गुणं दण्ड्य इत्य् अर्थः ।
कात्यायनः [८३२–३४] ।
आरम्भकृत् सहायश् च तथा मार्गानुदेशकः ।
आश्रयः शस्त्रदाता च भक्तदाता विकर्मिणाम् ॥
युद्धोपदेशकश् चैव तद्विनाशप्रदर्शकः ।
उपेक्षको ऽनियुक्तश् च दोषवक्तानुमोदकः ॥
अनिषेद्धा क्षमो यः स्यात् सर्वे तत्कार्यकारिणः ।
यथाशक्त्यनुरूपं तु दण्डम् एषां प्रकल्पयेत् ॥
“तद्विनाशप्रदर्शकः’ तद्विनाशोपायोपदेशकः । “अनियुक्तश् च दोषवक्ता’ अनियुक्तो राज्ञानियुक्तो यो दोषं वदति ।
नारदः [४.२४५–४६] ।
अयुक्तं साहसं कृत्वा प्रत्यासत्तिं भजेत यः ।
ब्रूयात् स्वयं वा सदसि तस्यापि विनयः स्मृतः ॥
गूहमानस् तु दौःशील्याद् यदि पापः स जीवति ।
सभ्याश् चास्य न तुष्यन्ति तीव्रो दण्डश् च पात्यते ॥
[५७५]
७१ — (क) अथ घातकान्वेषणम्
तत्र याज्ञवल्क्यः [२.२८०–८१] ।
अविज्ञातहतस्याशु कलहं सुतबान्धवाः ।
प्रष्टव्या योषितश् चास्य परपुंसि रताः पृथक् ॥
स्त्रीद्रव्यवृत्तिकामो वा केन वायं गतः सह ।
तत्प्रदेशसमासन्नं पृच्छेद् वापि जनं शनैः ॥
बृहस्पतिः [२३.२१, २३–२५] ।
हतः संदृश्यते यत्र घातकस् तु न दृश्यते ।
पूर्ववैरानुमानेन ज्ञातव्यः स महीभुजा ॥
प्रातिवेश्यान्वेश्यौ च तस्य मित्रारिबान्धवाः ।
प्रष्टव्या राजपुरुषैः सामादिभिर् उपक्रमैः ॥
विज्ञेयो ऽसाधुसंसर्गाच् चिह्नैर् होढेन वा नरैः ।
एषोदिता घातकानां तस्कराणां च भावना ॥
गृहीतः शङ्कया यस् तु न तत् कार्यं प्रपद्यते ।
शपथैः स विशोद्धव्यः सर्ववादेष्व् अयं विधिः ॥
व्यासः ।
ज्ञात्वा तु घातकं सम्यक् ससहायं सबान्धवम् ।
हन्याच् चित्रैर् वधोपायैर् उद्वेजनकरैर् नृपः ॥
[५७६] बृहस्पतिः [२३.२६] ।
दिव्यैर् विशुद्धो मोच्यः स्याद् अशुद्धो वधम् अर्हति ।
निग्रहानुग्रहाद् राज्ञः कीर्तिर् धर्मश् च वर्धते ॥
इति साहसपर्व
[५७७]