अथ स्तेयम्
तत्र मनुः [८.३०१–०२] ।
एषो ऽखिलेनाभिहितो दण्डपारुष्यनिर्णयः ।
स्तेयस्याथ प्रवक्ष्यामि विधिं दण्डविनिर्णये ॥
स्यात् साहसं त्व् अन्वयवत् प्रसभं कर्म यत् कृतम् ।
निरन्वयं भवेत् स्तेयं कृत्वापव्ययते च यत् ॥
“अन्वयवत्” रक्षकपुरुषसमक्षम् । “प्रसभम्” बलात्कारेण सान्वयं करणम् इत्य् अर्थः ।
कात्यायनः [७९६] ।
सान्वयस् त्व् अपहारो यः प्रसह्य करणं च यत् ।
साहसं च भवेद् एवं स्तेयम् उक्तं विनिह्नवः ॥
साहसान्तरं नारदः ।
तस्यैव भेदः स्यात् स्तेयं विशेषस् तत्र तूच्यते ।
[५०६] > आधिः साहसम् आक्रम्य स्तेयम् आधिश् छलेन च ॥
तद् अपि त्रिविधं प्रोक्तं द्रव्यापेक्षं मनीषिभिः ।
क्षुद्रमध्योत्तमानां तु द्रव्याणाम् अपकर्षणात् ॥
मृद्भाण्डासनखट्वास्थिदारुचर्मतृणादि यत् ।
शमीधान्यं कृतान्नं न क्षुद्रं द्रव्यम् उदाहृतम् ॥
वासः कौशेयवर्जं च गोवर्जं पशवस् तथा ।
हिरण्यवर्जं लोहं च मद्यं व्रीहियवा अपि ॥
हिरण्यरत्नकौशेयं स्त्रीपुंसो गजवाजिनः ।
देवब्राह्मणराज्ञां च विज्ञेयं द्रव्यम् उत्तमम् ॥
उपायैर् विविधैर् एषां छलयित्वापकर्षणम् ।
सुप्तमत्तप्रमत्तेषु स्तेयम् आहुर् मनीषिणः ॥
[५०७] “आधिः” पीडा, सा यत्रातिक्रम्य क्रियते तत् “साहसम्” । छेलेन त्व् आधिकरणे चौर्यम् ।
इति स्तेयम्
७० — (क) अथ स्तेनाः
तत्र मनुः [९.२५६] ।
द्विविधांस् तस्करान् विद्यात् परद्रव्यापहारिणः ।
प्रकाशांश् चाप्रकाशांश् च चारचक्षुर् महीपतिः ॥
व्यासः ।
प्रकाशाश् चाप्रकाशाश् च तस्करा द्विविधाः स्मृताः ।
सुचिह्नैर् एव विज्ञेयाश् चारैस् तस्करवेदिभिः ॥
बृहस्पतिः [२२.१–३] ।
प्रकाशाश् चाप्रकाशाश् च तस्करा द्विविधा स्मृताः ।
प्रज्ञासामर्थ्यमायाभिः प्रभिन्नास् ते सहस्रधा ॥
नैगमा वैद्यकितवाः सद्योत्कोचकवञ्चकाः ।
दैवोत्पादविदो भद्राः शिल्पज्ञाः प्रतिरूपकाः ॥
[५०८] > अक्रियाकारिणश् चैव मध्यस्थाः कूटसाक्षिणः ।
प्रकाशतस्करा ह्य् एते तथा कुहकजीविनः ॥
नारदः [२१.२–३] ।
प्रकाशवञ्चकास् तत्र कूटमानतुलाश्रिताः ।
उत्कोचकाः सोपधिकाः वञ्चकाः पण्ययोषितः ॥
पर्तिरूपकराश् चैव मङ्गलादेशवृत्तयः ।
इत्य् एवमादयो ज्ञेयाः प्रकाशास् तस्करा भुवि ॥
व्यासः ।
प्रकाशापणसंस्थाश् च नानापण्योपजीविनः ।
प्रकाशवञ्चका ज्ञेया भिषक्प्रभृतयो ऽपरे ॥
“आपणः” पण्यजीवी ।
मनुः [९.२५८–६०] ।
उत्कोचकाः सोपधिकाः कितवा वञ्चकास् तथा ।
मङ्गलादेशवृत्ताश् च भद्राश् चेक्षणिकैः सह ॥
असभ्यकारिणश् चैव महामात्राश् चिकित्सकाः ।
शिल्पोपचारयुक्ताश् च निपुणाः पण्ययोषितः ॥
[५०९] > एवमादीन् विजानीयात् प्रकाशांल् लोककण्टकान् ।
निगूढचारिणश् चान्यान् अनार्यान् आर्यलिङ्गिनः ॥
तथा [९.२५७] ।
प्रच्छन्नवञ्चका ज्ञेया ये स्तेनआटविकादयः ।
नारदः [ना। म्। संहि। प्रकीर्णक, ५६] ।
अप्रकाशास् तु विज्ञेया बहिरभ्यन्तराश्रिताः ।
सुप्तमत्तप्रमत्तांश् च मुष्णन्त्य् आक्रम्य ये नराः ॥
बृहस्पतिः [२२.४] ।
सन्धिच्छिदः पान्थमुषो द्विचतुष्पदहारिणः ।
उत्क्षेपकाः सस्यहरा ज्ञेयाः प्रच्छन्नतस्कराः ॥
व्यासः ।
साधनाङ्गान्विता रात्रौ विचरन्त्य् अविभाविताः ।
अविज्ञातविशेषाश् च ज्ञेयाः प्रच्छन्नवञ्चकाः ॥
[५१०] > उत्क्षेपकः सन्धिभेत्ता पान्थमुट् ग्रन्थिभेदकः ।
स्त्रीपुंगोऽश्वपुशुस्तेयी चौरो नवविधः स्मृतः ॥
“साधनाङ्गान्विताः” स्तेयसाधनखनित्रशस्त्रादियुक्ताः । “अविज्ञातविशेषाः” अविज्ञातप्रवेशाः । “उत्क्षेपकः” इति, अग्रत एव अनवहितस्य दृष्टिवञ्चनेनोत्क्षेपे यो अपहरत्य् असौ उच्यते ।
चौरानन्तरं नारदः ।
तान् विदित्वा तु कुशलैश् चारैस् तत्कर्मवेदिभिः ।
अनुसृत्य तु गृह्णीयाद् गूढप्रणिहितैर् नरैः ॥
चौरानन्तरं मनुः [९.२६१–६२] ।
तान् विदित्वा तु चरितैर् गूढैस् तत्कर्मवेदिभिः ।
चारैश् चानेकसंस्थानैः प्रोत्साह्य वशम् आनयेत् ॥
तेषां दोषम् अभिख्याप्य स्वे स्वे कर्मणि तत्वतः ।
कुर्वीत शासनं राजा सम्यक् सारापराधतः ॥
बृहस्पतिः [२२.५] ।
संसर्गचिह्नलोप्त्रैश् च विज्ञाता राजपूरुषैः ।
प्रदाप्यापहृतं शास्या दमैः शास्त्रप्रचोदितैः ॥
[५११] मनुः ।
न हि दण्डाद् ऋते शक्यः कर्तुं न्यायविनिग्रहः ।
स्तेनानां पापबुद्धीनां निभृतं चरतां क्षितौ ॥
परमं यत्नम् आतिष्ठेत् स्तेनानां निग्रहे नृपः ।
स्तेनानां निग्राहाद् अस्य यशो राष्ट्रं विवर्धते ॥
अभयस्य हि यो दाता स पूज्यः सततं नृपः ।
सत्रं हि वर्धते तस्य सदैवाभयदक्षिणम् ॥
निभयं वा भवेद् यस्य राष्ट्रं बाहुबलाश्रितम् ।
तस्य तद् वर्धते नित्यं सिच्यमान इव द्रुमः ॥
आपस्तम्बः [२.२५.१५]- “क्षेमकृद् राजा यस्य विषये ग्रामे ऽरण्ये वा तस्करभयं न विद्यते” ।
मनुः [७.१४३] ।
विक्रोशन्त्यो यस्य राष्ट्राद् ध्रियन्ते दस्युभिः प्रजाः ।
संपश्यतः सभृत्यश् च मृतः स च न जीवति ॥
[५१२] [तथा] ।
अशासंस् तस्करान् यस् तु बलिं गृह्णाति पार्थिवः ।
तस्य प्रक्षुभ्यते राष्ट्रं स्वर्गाच् च परिहीयते ॥
हारीतः ।
पापास् तु यस्य राष्ट्राद् वै वर्धन्ते दस्यवः सदा ।
तत् पापम् अतिवृद्धं हि राज्ञो मूलं निकृन्तति ॥
[इति कृत्यकल्पतरौ व्यवहारकाण्डे विवादप्रकरणे स्तेनाख्यं पर्व]
७० — (ख) अथ प्रकाशतस्करदण्डाः
तत्र व्यासः ।
तुलामानविशेषेण लेख्येन गणनेन च ।
अर्धस्य वृद्धिह्रासेन मुष्णन्ति वणिजो नरान् ॥
तद्द्रव्यसदृशैर् अन्यैर् हीनमूल्यैर् विमिश्रणम् ।
कुर्वन्त्य् औपाधिकाश् चान्ये पण्यानां परिवर्तने ॥
याज्ञवल्क्यः [२.२४४] ।
मानेन तुलया वापि यो यो ऽंशम् अष्टमं हरेत् ।
दण्डं स दाप्यो द्विशतं वृद्धौ हानौ च कल्पितम् ॥
[५१३] अपहृतद्रव्यस्य “वृद्धौ हानौ च” दण्डस्यापि वृद्धिहानी कल्प्य इत्य् अर्थः ।
कात्यायनः [८१२] ।
तुलामानप्रतीमानप्रतिरूपकलक्षितैः ।
चरन्न् अलक्षितैर् वापि प्राप्नुयात् पूर्वसाहसम् ॥
मनुः [९.२८७, २९१] ।
समैर् हि विषमं यस् तु चरेद् वै मूल्यतो ऽपि वा ।
स प्राप्नुयाद् दमं पूर्वं नरो मध्यमम् एव वा ॥
अबीजविक्रयी यश् च बीजोत्क्रष्टा तथैव च ।
मर्यादाभेदकश् चैव विकृतं प्राप्नुयाद् वधम् ॥
“समैर् विषमम्” इत्यादि — “समैः” सममूल्यदातृभिः सह उत्कृष्टापकृष्टविषमद्रव्यदानेन यो व्यवहरत्य् असौ पूर्वसाहसं प्राप्नोति । समे च द्रव्ये बह्वल्पं च मूल्यम् आददानो मध्यमसाहसम् इत्य् अर्थः । “अबीजविक्रयी” अबीजं बीजत्वेन यो विक्रीणाति । “बीजोत्क्रष्टा” उप्तं बीजम् उत्खननेन यो गृह्णाति ।
[५१४] याज्ञवल्क्यः [२.२४५] ।
भेषज-स्नेह-लवण-गन्ध-धान्य-गुडादिषु ।
पण्येषु हीनं क्षिपतः पणा दण्डस् त्रयोदश ॥
नारदो मनुश् च द्वितीये ।
शुल्कस्थानं वणिक् प्राप्तः शुल्कं दद्याद् यथोचितम् ।
न तद् व्यभिचरेद् राज्ञां बलिर् एष प्रकीर्तितः ॥
शुल्कस्थानं परिहरन्न् अकाले क्रयविक्रयौ ।
मिथ्यावाची च संस्थाने दाप्यो ऽष्टगुणम् अत्ययम् ॥
“अष्टगुणम् अत्ययम्” अपहृतद्रव्यापेक्षयाष्टगुणं दण्डं दाप्य इत्य् अर्थः ।
याज्ञवल्क्यः [२.२६२] ।
मिथ्या वदन् परीमाणं शुल्कस्थानाद् अपाक्रमन् ।
दाप्यस् त्व् अष्टगुणं यश् च स व्याजक्रयविक्रयी ॥
[५१५] विष्णुः [३.३१] ।
शुल्कस्थानाद् अपाक्रामन् सर्वापहारम् आप्नुयात् ।
शङ्खलिखितौ- “कूटतुलामानप्रतिमानव्यवहारे शारीरो ऽङ्गच्छेदो वा” ।
“शारीरः” अत्र मुण्डनादिदण्डः ।
याज्ञवल्क्यः [२.२४०–४१] ।
तुलाशासनमानानां कूटकृन् नाणकस्य च ।
एभिश् च व्यवहर्ता यः स दाप्यो दमम् उत्तमम् ॥
अकूटं कूटं ब्रूते कूटं यश् चाप्य् अकूटकम् ।
स नाणकपरीक्षी तु दाप्य उत्तमसाहसम् ॥
“दण्डसाहसम्” इत्य् अनुवृत्तौ विष्णुः [५.१२२–२६]- “तुलानाणककूटकर्तुश् च । तदकूटकूटवादिनश् च । द्रव्याणां प्रतिरूपविक्रयकस्य च । सम्भूय वणिजां पण्यम् अर्घेणोपरुन्धता । प्रत्येकस्य विक्रीणतां च” ।
[५१६] याज्ञवल्क्यः [२.२४९–५०] ।
संभूय कुर्वताम् अर्घं सबाधं कारुशिल्पिनाम् ।
अर्घस्य हानिं वृद्धिं च साहस्रो दण्ड उच्यते ॥
संभूय वणिजां पण्यम् अनर्घेणोपरुन्धताम् ।
वैक्रीणतां च विहितो दण्ड उत्तमसाहसः ॥
“सबाधम्” पीडाकरम् । “अर्घस्य” राजकृतस्य । “नर्घेणोपरुन्धताम्” देशान्तराद् आगतं पण्यम् उचितमूल्यप्रार्थनेनोपरुन्धताम् । “विक्रीणताम्” अनर्घेण्त्य् अन्वयः ।
मनुः [८.३९९] ।
राज्ञः प्रख्यातभाण्डानि प्रतिषिद्धानि यानि च ।
तानि निर्हरतो लोभात् सर्वहारं हरेन् नृपः ॥
याज्ञवल्क्यः [२.२६१] ।
व्यासिद्धं राजयोग्यं यद् विक्रीतं राजगामि तत् ।
ऽशारीरो ऽङ्गच्छेदो वा दण्डः" इत्य् अनुवृत्तौ, शङ्खलिखितौ- “प्रतिषिद्धभाण्डनिर्हारे” ।
मनुः [८.४०१–०३] ।
आगमं निर्गमं स्थानं तथा वृद्धिक्षयाव् उभौ ।
विचार्य सर्वपण्यानां कारयन् क्रयविक्रयौ ॥
[५१७] > पञ्चरात्रे पञ्चरात्रे पक्षे पक्षे ऽथ वा गतौ ।
कुर्वीत चैषां प्रत्यक्षम् अर्घसंस्थापनं नृपः ॥
तुलामानं प्रतीमानं सर्वं तत् स्यात् सुरक्षितम् ।
षट्सु षट्सु च मासेषु पुनर् एव परीक्षयेत् ॥
शङ्खलिखितौ- “तुलामानप्रतीमानव्यवहारार्घसंस्थापनं देशद्रव्यानुरूपं प्रत्ययितपुरुषाधिष्ठितम्” ।
राज्ञात्र कर्तव्यम् इति शेषः ।
याज्ञवल्क्यः [२.२५३, २५१, २५२] ।
पण्यस्योपरि संस्थाप्य व्ययं पण्यसमुद्भवम् ।
अर्घो ऽनुग्रहकृत् कार्यः क्रेतुर् विक्रेतुर् एव च ॥
राजनि स्थाप्यते यो ऽर्घः प्रत्यहं तेन विक्रयः ।
क्रयो वा निःस्रवस् तस्माद् वणिजो लाभकृत् स्मृतः ॥
स्वदेशपण्ये तु शतं वणिग् गृह्णीत पञ्चकम् ।
दशकं पारदेश्ये तु यः सद्यः क्रयविक्रयी ॥
“निःस्रवः” पण्यविक्रयेण यद् उत्पन्नम् आ मूलधनाद् अधिकं धनम् ।
“राज्ञः” इत्य् अनुवृत्तौ गौतमः [१०.३४]- “पण्यं वणिग्भिर् अर्घापचयेन देयम्” ।
[५१८] वसिष्ठः [१९.१४–१६]- “अधिष्ठानान् निर्हारः सार्थानाम् । अर्घमानमूल्यमात्रं नैर्हारिकं स्यात् । महामहयोस् त्व् अनत्ययः स्यात् । अभयं च” ।
विष्णुः [३.२९–३०]- “स्वदेशपण्यात् शुल्कांशं दशमम्। परदेशपण्याच् च विंशतितमम्” ।
“शुल्कांशं दशमम्” दशमम् अंशं गृह्णीयाद् इत्य् अर्थः ।
मनुः [८.३९८] ।
शुल्कस्थानेषु कुशलाः सर्वपण्यविशारदाः ।
कुर्युर् अर्घं यथापण्यं ततो विंशं नृपो हरेत् ॥
“राज्ञ” इत्य् अनुवृत्तौ गौतमः [१०.२–२७]- “विंशतिभागः शुल्कः पण्ये । मूलफलपुष्पौषधमधुमांसतृणेन्धनानां षाष्टः । तद्रक्षणधर्मित्वा । तेषु च नित्ययुक्तः स्यात्” ।
“षाष्टः” षष्टितमो भागः ।
[५१९] बौधायनः [१.१८, १३–१५]- “सामुद्रश् शुल्कः । वरं रूपम् उद्धृत्य दशपणं शतम् । अन्येषाम् अपि सारानुरूपेणानुपहत्य धर्मं प्रकल्पयेत्” ।
“सामुद्रः” समुद्रसम्बन्धी । “वरं रूपम् उद्धृत्य दशपणं शतम्” इति, मुक्ताफलादिषु मध्ये एकं वस्तु पृथक्कृत्वान्यत्र वस्तुनि दशमांशं शुल्कं गृह्णीयाद् इत्य् अर्थः ।
वसिष्ठः [१९.३७]- “शुल्के चापि मानवं श्लोकम् उदाहरन्ति —
न भिन्नकार्षापणम् अस्ति शुल्कं न शिल्पवृत्तौ न शिशौ न दूते ।
न भैक्ष्यलब्धे न कृतावशेषे न श्रोत्रिये प्रव्रजिते न यज्ञे ॥ इति”
“न भिन्नकार्षापणम् अस्ति शुल्कम्” इति —भिन्नो न्यूनः कार्षापणो मूल्यं यस्य वस्तुनस् तत् तथा । तन्निर्मितः शुल्को ऽपि “भिन्नकार्षापणः” । तेन कार्षापणाद् अर्वाग् यस् मूल्यं तत्र शुल्को न ग्राह्य इत्य् अर्थः ।
[५२०] बृहस्पतिः [२२.१०] ।
अज्ञातौषधिमन्त्रस् तु यस्य व्यधेर् अतत्त्ववित् ।
रोगिभ्यो ऽर्थं समादत्ते स दण्ड्यश् चौरवद् भिषक् ॥
याज्ञवल्क्यः [२.२४२] ।
भिषङ् मिथ्याचरन् दाप्यस् तिर्यक्षु प्रथमं दमम् ।
मानुषे मध्यमं राजमानुषेषूत्तमं तथा ॥
विष्णुः [५.१७५–७७]- “उत्तमसाहसं दण्डनीयो भिषङ् मिथ्याचरन्न् उत्तमेषु पुरुषेषु । मध्यमं मध्यमेषु । तिर्यक्षु प्रथमम्” ।
व्यासः ।
कूटाक्षदेविनः पापान् निर्हरेद् द्यूतमण्डलात् ।
कण्ठे ऽक्षमालाम् आसज्य स ह्य् एषां विनयः स्मृतः ॥
बृहस्पतिः [२२.११] ।
ग्लहः प्रकाशः कर्तव्यो निर्वास्याः कूटदेविनः ।
“ग्लहः” द्यूते य पातः क्रियते ।
[५२१] तथा [२२.१२] ।
कूटाक्षदेविनः क्षुद्रा राजभागहराश् च ये ।
गणानां वञ्चकाश् चैव दण्ड्यास् ते कितवाः स्मृताः ॥
याज्ञवल्क्यः [२.२०२] ।
राज्ञा सचिह्नं निर्वास्याः कूटाक्षोपधिदेविनः ।
विष्णुः [५.१३४–३५]- “द्यूते च कूटाक्षदेविनां करच्छेदः । उपधिदेविनां संदंशच्छेदः” । [“संदंशच्छेदः”] अङ्गुष्ठतर्जनीच्छेदः ।
अथ व्यासः ।
न्यायस्थाने ये ऽधिकृता गृहीत्वार्थं विनिर्णयम् ।
कुर्वन्त्य् उत्कोचकास् ते तु राजद्रव्यविनाशकाः ॥
बृहस्पतिः [२२.१४] ।
अन्यायवादिनः सभ्यास् तथैवोत्कोचजीविनः ।
विश्वस्तवञ्चकाश् चैव निर्वास्याः सर्व एव ते ॥
याज्ञवल्क्यः [१.३३९] ।
उत्कोचजीविनो द्रव्यहीनान् कृत्वा विवासयेत् ।
व्यासः ।
स्त्रीपुंसौ वञ्चयन्तीह मङ्गलादेशवृत्तयः ।
गृह्णन्ति छद्मना चार्थम् अनार्याश् चार्यलिङ्गिनः ॥
[५२२] बृहस्पतिः [२२.१५–१६] ।
ज्योतिर्ज्ञानं तथोत्पातम् अविदित्वा तु ये नृणाम् ।
श्रावयन्त्य् अर्थलोभेन विनेयास् ते प्रयत्नतः ॥
दण्डाजिनादिना युक्तम् आत्मानं दर्शयन्ति येत् ।
हिंसन्ति छद्मना नॠणां वध्यास् ते राजपूरुषैः ॥
मनुः [९.२९२] ।
सर्वकण्टकपापिष्ठं हेमकारं तु पार्थिवः ।
प्रवर्तमानम् अन्याये छेदयेल् लवशः क्षुरैः ॥
याज्ञवल्क्यः [२.२९७] ।
कूटस्वर्णव्यवहारी विमांसस्य च विक्रयी ।
अङ्गहीनास् तु कर्तव्या दाप्याश् चोत्तमसाहसम् ॥
तथा [२.२४६–४८] ।
मृच्चर्ममणिसूत्रायःकाष्ठवल्कलवाससाम् ।
अजातौ जातिकरणे विक्रये ऽष्टगुणो दमः ॥
समुद्रपरिवर्तं च सारभाण्डं च कृत्रिमम् ।
आधानं विक्रयं चापि नयतो दण्डकल्पना ॥
[५२३] > भिन्ने पणे तु पञ्चाशत् पणे तु शतम् उच्यते ।
द्विपणे द्विशते दण्डो मूल्यवृद्धौ च वृद्धिमान् ॥
“अङ्गहीनाः” नासाकर्णकरैर् हीनाः । “मृच्चर्म” इत्यादि । मृदादीनाम् अल्पमूल्यापकृष्टजातीनां बहुमूल्यलाभार्थम् उत्कृष्टजातिकरणेन गृहीतमूल्याद् अष्टगुणो दमः । अपकृष्टजातेर् उत्कृष्टजातिकरणं यथा — मृदः मल्लिकामोदसंचरणेन सुगन्धामलकम् इति; मार्जारचर्मणि वर्णोत्कर्षापादनेन व्याघ्रचर्मेति; स्फटिके लौहित्यकरणेन पद्मराग इति; कार्पासिके सूत्रे गुणोत्कर्षाधानेन पट्टसूत्रम् इति; कार्ष्णायसे वर्णोत्कर्षाधानेन [रजतम् इति] । “समुद्रम्” सम्पुटकम् । “सारभाण्डम्” कुङ्कुमकर्पूरमुक्ताफलादि । “भिन्ने पणे” न्यूने पणे ।
बृहस्पतिः [२२.१७–१८] ।
अल्पमूल्यं तु संस्कृत्य नयन्ति बहुमूल्यताम् ।
स्त्रीबालकान् पञ्चयन्ति दण्ड्यास् ते ऽर्थानुरूपतः ॥
[५२४] > हेममुक्ताप्रवालाद्यं कृत्रिमं कुर्वते तु ये ।
क्रेत्रे मूल्यं प्रदाप्यास् ते राज्ञा तद्द्विगुणं दमम् ॥
नारदः ।
लोहानाम् अपि सर्वेषाम् हेतुर् अग्निक्रियाविधौ ।
क्षयः संस्क्रियमाणानां तेषां दृष्टो ऽग्निसंगमात् ॥
सुवर्णेषु क्षयो नास्ति रजते द्विपलं शतम् ।
शतम् अष्टपलम् ज्ञेयं क्षयस् तु त्रपुसीसयोः ॥
ताम्रं पञ्चपलं विद्याद् विकारा ये च मृन्मयाः ।
तद्धातूनाम् अनेकत्वाद् अयसो ऽनियमः क्षये ॥
“क्रियाविधौ” घटनकर्मणि । “तद्विकाराः” कांस्यरीत्यदयः । उक्ताधिकक्षये सुवर्णकारादयो दाप्या दण्ड्याश् च ।
याज्ञवल्क्यः [२.१७८] ।
अग्नौ सुवर्णम् अक्षीणं द्विपलं रजते शतम् ।
अष्टौ तु त्रपुसीसेषु ताम्रे पञ्च दशायसि ॥
मनुः [८.३९७] ।
तन्तुवायो दशपलं दद्याद् एकपलाधिकम् ।
अतो ऽन्यथा वर्तमानो दाप्यो द्वादशकं दमम् ॥
[५२५] याज्ञवल्क्यः [२.१७९] ।
शते दशपला वृद्द्धिर् और्णे कार्पासिके तथा ।
मध्ये पञ्चपला सौत्रे सूक्ष्मे तु त्रिपला मता ॥
नारदः [१२.१३–१४] ।
तान्तवस्य तु संस्कारे क्षयवृद्धी उदाहृते ।
तत्र कार्पासिकोर्णानां वृद्धिर् दशपला शते ॥
स्थूलसूत्रवताम् एषां मध्यानां पञ्चकं शतम् ।
त्रिपलं तु सुसूक्ष्माणाम् अतः क्षय उदाहृतः ॥
त्रिंशांशो रोमबद्धस्य क्षयः कर्मकृतस्य तु ।
कौशेयवल्कलादीं नैव वृद्धिर् न च क्षयः ॥
याज्ञवल्क्यः [२.१८०] ।
कार्मिके रोमबद्धे च त्रिंशद्भागः क्षयो मतः ।
न क्षयो न च वृद्धिः स्यात् कौशेये वल्कलेषु च ॥
“कार्मिकम्” यत्र निष्पन्ने पटादौ रुचकस्वस्तिकादिकं चित्रं सूत्रैः सूच्या क्रियते तद् उच्यते । यत्र प्रावारादौ रोमाणि बध्यन्ते स “रोमबद्धो” नेपालकम्बलादिः ।
[५२६] मनुः [८.३९६] ।
शाल्मले फलके श्लक्ष्णे नेनिज्यान् नेजकः सनैः ।
न च वासांसि वासोभिर् निर्हरेन् न विवासयेत् ॥
याज्ञवल्क्यः [२.२३८, २८१] ।
वसानस् त्रीन् पणान् दाप्यो नेजकस् तु परांशुकम् ।
विक्रयावक्रयाधानयाचितेषु पणान् दश ॥
देशं कालं च भोगं च ज्ञात्वा नष्टे बलाबलम् ।
द्रव्याणां कुशला ब्रूयुर् यत् तद् दाप्यम् असंशयम् ॥
“अवक्रयो” भाटकः ।
नारदः [१२.८–९] ।
मूल्याष्टभागो हीयेत सकृद्धौतस्य वाससः ।
द्विः पादस् त्रिस् त्रिभागस् तु चतुःकृवो ऽर्धम् एव तु ॥
अर्धक्षयात् तु परतः पादशो ऽपचयः क्रमात् ।
यावत् क्षीणदशं वस्त्रं जीर्णस्यानियमः क्षये ॥
बृहस्पतिः [२२.१९–२०] ।
मध्यस्था वञ्चयन्त्य् एकं स्नेहलोभादिना यदा ।
साक्षिणश् चान्यथा ब्रूयुर् दाप्यास् ते द्विगुणं दमम् ॥
[५२७] > मन्त्रौषधिबलात् किंचित् संप्राप्तं दर्शयन्ति ये ।
मूलकर्म च कुर्वन्ति निर्वास्यास् ते महीभुजा ॥
मनुः [९.२२५–२६] ।
कितवान् कुशीलवान् केरान् पाषण्डस्थांश् च मानवान् ।
विकर्मस्थान् शौण्डिकांश् च क्षिप्रं निर्वासयेत् पुरात् ॥
एते राष्ट्रे वर्तमाना राज्ञः प्रच्छन्नतस्कराः ।
विकर्मक्रियया नित्यं बाधन्ते भद्रिकाः प्रजाः ॥
व्यासः ।
नैगमाद्या भूरिधना दण्ड्या दोषानुरूपतः ।
यथा ते नातिवर्तन्ते तिष्ठन्ति समये यथा ॥
[इति प्रकाशतस्करदण्डाः]
७० — (ग) अथाप्रकाशतस्करदण्डाः
तत्र मनुः [९.२७६] ।
सन्धिं कृत्वा तु ये चौर्यं रात्रौ कुर्वन्ति तस्कराः ।
तेषां छित्वा नृपो हस्तौ तीक्ष्णे शूले निवेशयेत् ॥
व्यासः ।
सन्धिच्छेत्तानेकविधं धनं प्राप्नोति वै गृहात् ।
प्रदाप्यः स्वामिने सर्वं तीक्ष्णे शूले निवेषयेत् ॥
[५२८] बृहस्पतिः ।
सन्धिच्छिदो हृतं त्याज्याः शूलम् आरोपयेत् तु तान् ।
तथा पान्थमुषो वृक्षे गले बद्ध्वावलम्बयेत् ॥
नारद-कात्यायनौ ।
स्वदेशघातिनो ये स्युस् तथा मार्गनिरोधिनः ।
तेषां सर्वस्वम् आदाय राजा शूले निवेशयेत् ॥
मनुः [८.३२३] ।
पुरुषाणां कुलीनानां नारीणां च विशेषतः ।
मुख्यानां चैव रत्नानां हरणे वधम् अर्हति ॥
बृहस्पतिः [२२.२२] ।
मनुष्यहारिणो राज्ञा दग्धव्यास् तु कटाग्निना ।
व्यासः ।
स्त्रीहर्ता लोहशयने दग्धव्यो वै कटाग्निना ।
नरहर्ता हस्तपादौ छित्त्वा स्थाप्यश् चतुष्पथे ॥
[५२९] नारदः [२१.२८] ।
पुरुषं हरतो हस्तौ दण्ड उत्तमसाहसः ।
सर्वस्वं हरतो नारीं कन्यां तु हरतो वधः ॥
कात्यायनः ।
सर्वस्वं हरतः स्त्रीं तु कन्याया हरणे वधः ।
वाजिवारणबालानां चाददीत बृहस्पतिः ॥
“आददीत” सर्वस्वम् इति ।
शङ्खलिखितौ- “राजपुत्रापहारेषु सहस्रं शारीरो वा दण्डः । तत्कुलीनेष्व् अर्धम् । स्त्रीपुरुषयोश् च । हस्त्यश्वगोरथवृषयानेषु राजपुत्रापहारवद् दण्डः” ।
तथा- “अजाविके ऽर्धत्रयोदशम् । नकुलबिषालापहरणे त्रयः कार्षापणाः” ।
मनुः [८.३४२] ।
असन्दितानां सन्दाता सन्दितानां च मोक्षकः ।
दासाश्वरथहर्ता च प्राप्ताः स्याच् चौरकिल्बिषम् ॥
“सन्दितानाम्” चरणबद्धानाम् ।
[५३०] नारदः [२१.३३] ।
गोषु ब्राह्मणसंस्थासु [स्थूराया]श् छेदनं भवेत् ।
दासीं च हरतो मध्यस् तथा पादस्य छेदनम् ॥
“स्थूरा” पार्ष्णेर् उपरिभागः ।
बृहस्पतिः ।
मोहर्तुर् नासिकां छित्त्वा बद्ध्वा चाम्भसि मज्जयेत् ।
मनुः [८.३२५, ३२८] ।
गोषु ब्राह्मणसंस्थासु छुरिकायाश् च भेदने ।
पशूनां चैव हरणे सद्यः कार्यो ऽर्धपादिकः ॥
महापशूनां हरणे शस्त्राणाम् औषधस्य च
कालम् आसाद्य कार्यं च राजा दण्डं प्रकल्पयेत् ॥
याज्ञवल्क्यः [२.२७३] ।
बन्दिग्राहांस् तथा वाजिकुञ्जराणां च हारिणः ।
प्रसह्य घातिनश् चैव शूलम् आरोपयेन् नरान् ॥
मनुः [९.२८०] ।
कोष्ठागारायुधागारदेवतागारभेदिनः ।
हस्त्यश्वरथहर्तॄंश् च हन्याद् एवाविचारयन् ॥
[५३१] “अविचारयन्” अविलम्बयन् ।
विष्णुः [५.७६–७७]- “गोऽश्वखरोष्ट्रगजापहार्य् एककरपादिकः कार्यः । अजापहार्य् एककरश् च” ।
व्यासः ।
अश्वहर्ता हस्तपादौ कटिं छित्त्वा प्रमाप्यते ।
पशुहर्तुश् चार्धपादं तीक्ष्णशस्त्रेण कर्तयेत् ॥
नारदः [२१.२९] ।
महापशून् स्तेनयतो दण्ड उत्तमसाहसम् ।
मध्यमं मध्यमपशून् पूर्वं क्षुद्रपशौ हृते ॥
तथा व्यासः ।
उत्क्षेपकग्रन्थिभेदौ संसंशेन वियोजयेत् ।
याज्ञवल्क्यः [२.२७४] ।
उत्क्षेपकग्रन्थिभेदौ करनासाविःइनकौ ।
कर्यौ द्वितीयापराधे करपादैकहीनकौ ॥
[५३२] मनुः [९.२७७] ।
अङ्गुली ग्रन्थिभेदस्य छेदयेत् प्रथमग्रहे ।
द्वितीये हस्तचरणौ तृतीये वधम् अर्हति ॥
नारदः [२१.३२] ।
प्रथमे ग्रन्थिभेदश् च अङ्गुल्यङ्गुष्ठयोर् वधः ।
द्वितीये नैव तज्ज्ञेयं तृतीये वधम् अर्हति ॥
बृहस्पतिः [२२.२४] ।
दान्यहारी दशगुणं दाप्यस् तु द्विगुणं दमम् ।
मनुः [८.३२०, २४३] ।
धान्यं दशभ्यः कुम्भेभ्यो हरतो ह्य् अधिको वधः ।
शेषे ऽप्य् एकादशगुणं दाप्यस् तस्य च तद् धनम् ॥
क्षेत्रिकस्यात्यये दण्डो भागाद् दशगुणो भवेत् ।
ततो ऽर्धदण्डो भृत्यानाम् अज्ञानात् क्षेत्रिकस्य तु ॥
“शेषे” न्यूते । “क्षेत्रिकस्यात्यये” कृषीवलस्यातिक्रमे भागापहारलक्षणे ।
[५३३] विष्णुः [५.७९–८०]- “धान्यापहार्य् एकादशगुणं दण्ड्यः । सस्यापहारी च” ।
“काष्ठभाण्ड"इत्यादिश्लोकत्रयानन्तरं १९.२१–३१; =प्। ५३६] नारदः [१९,३२] ।
तुलाधर्ममेयानां गणिमानां च सर्वशः ।
एभिस् तूत्कृष्टमूल्यानां मूल्याद् दशगुणो दमः ॥
मनुः [८.३२१–२२] ।
तथा धरिममेयानां शताद् अभ्यधिके वधः ।
सुवर्णरजतादीनाम् उत्तमानां च वाससाम् ॥
पञ्चाशतस् त्व् अभ्यधिके हस्तच्छेदनम् इष्यते ।
शेषे ऽप्य् एकादशगुणं मूल्याद् दण्डं प्रकल्पयेत् ॥
“हरतः” इत्य् अनुवृत्तौ नारदः [२१.२७] ।
सुवर्णरजतादीनाम् उत्तमानां च वाससाम् ।
रत्नानां चैव सर्वेषां शताद् अभ्यधिके वधः ॥
शारीरो ऽङ्गच्छेदो वेति दण्डे शङ्खलिखितौ- “सुवर्णरत्नापहरणे” ।
[५३४] दण्ड इत्य् अनुवृत्तौ विष्णुः [५.८७]- “रत्नापहार्य् उत्तमसाहसम्” ।
मनुः [८.३२३] ।
मुख्यानां चैव रत्नानां हरणे वधम् अर्हति ।
शङ्खलिखितौ- “अष्टशतं सीताद्रव्यापहारे च” ।
मनु-यमौ [८.३३१] ।
परिपूतेषु धान्येषु शाकमूलफलेषु च ।
निरन्वये शतं दण्ड्यः सान्वये ऽर्धशतं दमः ॥
“परिपूतेषु” अपाकृतबुदेषु । “निरन्वये” रक्षकरहिते ।
मनुः [८.३३०] ।
पुष्पेषु हरिते धान्ये गुल्मवल्लीनगेषु च ।
अल्पेष्व् अपरिपूतेषु दण्डः स्यात् पञ्चकृष्णलः ॥
“अल्पेषु अपरिपूतेषु” धान्येषु इति सम्बन्धः ।
[५३५] यमः ।
फलेषु हरिते धान्ये शाकमूलससिग्रुजे ।
अल्पेष्व् अपरिपूतेषु दण्डः स्यात् पञ्चकृष्णलः ॥
व्यासः ।
मध्यहीनद्रव्यहारी पुष्पमूलफलस्य च ।
दाप्यस् तु द्विगुणं दण्डं अथ वा पञ्च कृष्णलान् ॥
गौतमः [१२.१५]- “फलहरितधान्यशाकादाने पञ्च कृष्णलम् अल्पे” ।
दाण्ड इति शेषः ।
मनुः [८.३२६–२९, ३३३] ।
सूत्रकार्पासबिल्वानां गोमयस्य गुडस्य च ।
दध्नः क्षीरस्य तक्रस्य पानीयस्य तृणस्य च ॥
वेणुवैणवभाण्डानां लवणानां तथैव च ।
मृन्मयानां च हरणे मृदो भस्मन एव च ॥
मत्स्यानां पक्षिणां चैव तैलस्य च घृतस्य च ।
मांसस्य मधुनश् चैव यच् चान्यत् पशुसंभवम् ॥
अन्येषाम् एवमादीनां मद्यानाम् ओदनस्य च ।
पक्वान्नानां च सर्वेषां तन्मूल्याद् द्विगुणो दमः ॥
[५३६] > यस् त्व् एतान्य् उपकॢप्तानि द्रव्याणि स्तेनयेन् नरः ।
तं शतं दण्डयेद् राजा यश् चाग्निं चोरयेद् गृहात् ॥
“उपकॢप्तानि” उपयोगयोग्यतां नीतानि ।
विष्णुः [५.८३–८४]- “सूत्रकार्पासगोमयदधिक्षीरतक्रगुडतृणलवणमृद्भस्ममत्स्य-पक्षिघृततैलमांसमधुवैदलवेणुमृन्मयलोहभाण्डानाम् अपहर्ता मूल्यात् त्रिगुणं दण्ड्यः । पक्वान्नानां च” ।
शङ्खलिखितौ- “कृतकाष्ठाश्मकौलालचर्मवेत्रविदलभाण्डेषु मूल्यात् पञ्चगुणः । त्रयो वा कार्षापणाः । एकचक्रापहरणे चत्वारिंशत् । शकटे त्व् अशीतितमः” ।
नारदः [२१.२२–२४] ।
काष्ठभाण्डतृणादीनां मृन्मयानां तथैव च ।
वेणुवैणवभाण्डानां तथा स्नाय्वस्थिचर्मणाम् ॥
शाकानाम् आर्द्रमूलानां हरणे फलपुष्पयोः ।
गोरसेक्षुविकाराणां तथा लवणतैलयोः ॥
पक्वान्नानां कृतान्नानां मद्यानाम् ओदनस्य च ।
सर्वेषाम् अल्पमूल्यानां मूल्यात् पञ्चगुणो दमः ॥
[५३७] व्यासः ।
अल्पधान्यापहरणे क्षीरे तद्विकृतौ तथा ।
स्वामिने तत्समं दाप्यो दण्डं वा द्विगुणं नृपे ॥
मनुः [८.३१९] ।
यस् तु रज्जुं घटं कूपाद् धरेद् भिन्द्याच् च यः प्रपाम् ।
स दण्डं प्राप्नुयान् माषं तच् च तस्मिन् समाहरेत् ॥
दण्द इत्य् अनुवृत्तौ विष्णुः [५.८८]- “अनुक्तद्रव्याणाम् अपहर्ता मूल्यसमम्” ।
याज्ञवल्क्यः [२.२७५] ।
क्षुद्रमध्यमहाद्रव्यहरणे सारतो दमः ।
देशकालवपुःशक्ति संचिन्त्यं दण्डकर्मणि ॥
नारदः [१७.२१] ।
साहसेषु य एवोक्तस् त्रिषु दण्डो मनीषिभिः ।
स एव दण्डः स्तेये ऽपि द्रव्येषु त्रिष्व् अनुक्रमात् ॥
कात्यायनः [८२२] ।
येन येन परद्रोहं करोत्य् अङ्गेन तस्करः ।
छिन्द्यात् तत् तन् नृपस् तस्य न करोति तथा पुनः ॥
[५३८] नारदः [२१.३४] ।
येन येन यथाङ्गेन स्तेनो नृषु विचेष्टते ।
तत् तद् एवास्य छेत्तव्यं तन् मनोर् अनुशासनम् ॥
बृहस्पतिः [२२.२५] ।
तृणं वा यदि वा काष्ठं पुष्पं वा यदि वा फलम् ।
अनापृच्छ्य तु गृह्णानो हस्तच्छेदनम् अर्हति ॥
शङ्खलिखितौ- “ब्राह्मणो ब्राह्मणस्य समिदाज्येध्माग्निकाष्ठतृणोलपपुष्पफलमूलान्य् अपहरन् बलाद् अविज्ञातो वा हस्तच्छेदम् आप्नुयात् । कुशकरकागिनोत्रद्रव्याण्य् [५३९] अपहरतः प्रत्यक्षतो ऽङ्गच्छेदः स्यात् । अप्रत्यक्षं यदा विदितोयं किल्बिषीति ब्राह्मणः खरयानम् आप्नुयात् । मूत्रमौण्ड्यम् इतरेषाम् खरयानम् एव तु” ।
चौर्याधिकारे गौतमः [१२.४३–४५]- “न शारीरो ब्राह्मणदण्डः । कर्मवियोगविख्यापनविवासनाङ्ककरणानि । अवृत्तौ प्रायश्चित्ती सः” ।
“शारीरः” ताडनाङ्गच्छेदादिरूपः । कस् तर्हि दण्ड इत्य् आह — कर्मवियोगेत्यादि । “कर्मविरोगः” तेन सह सर्वक्रियानारम्भः । “विख्यापनम्” डिण्डिमकेन परिभ्रमणं स्तेयलक्षणप्रकाशनार्थम् । “विवासनम्” देशान् निष्कासनम् । “अङ्ककरणम्” श्वपदेनाङ्कनम् । “अवृत्तौ प्रायश्चित्ती सः”, अन्येन प्रकारेण जीवनासम्भवे यदि स्तेयं करोति तदास्य प्रायश्चित्तमात्रं भवति न दण्ड इत्य् अर्थः ।
[५४०] आपस्तम्बः [२.२७.१६–१७]- “पुरुषवधे स्तेये भूम्यादान इति स्वान्य् आदाय वध्यः । चक्षुर्निरोधश् चैतेषु ब्राह्मणस्य” ।
“स्वानि” वस्तूनि ।
बृहस्पतिः [२२.२६] ।
वृत्तस्वाध्यायवान् स्तेयी बन्धने क्लिश्यते चिरम् ।
स्वामिने तद् धनं दाप्यः प्रायश्चित्तं च कार्यते ॥
याज्ञवल्क्यः [२.२७०] ।
चौरं प्रदाप्यापहृतं घातयेद् विविधैर् वधैः ।
सचिह्नं ब्राह्मणं कृत्वा स्वराष्ट्राद् विप्रवासयेत् ॥
विष्णुः [५.८९–९०]- “[स्तेनाः] सर्व एवापहृतं धनिकस्य दाप्याः । ततस् तेषाम् अभिहितदण्डप्रयोगः” ।
[५४१] नारदः [२१.६] ।
न त्व् अहोढान्विताश् चोरा वध्या राज्ञा ह्य् अनागमाः ।
सहोढान् सोपकरणान् क्षिप्रं राजा प्रमापयेत् ॥
“होढश्” चोरलिङ्गं लोप्त्रादिः ।
वृद्धः ।
अन्यायोपात्तवित्तत्वाद् धनम् एषां मलात्मकम् ।
अतस् तान् घातयेद् राजा नार्थदण्डेन दण्डयेत् ॥
कात्यायनः [८२३–२६] ।
मानवाः सद्य एवाहुः सहोढानां प्रवासनम् ।
गौतमानाम् अनिष्टं तत् प्राणच्छेदाद् विगर्हितम् ॥
सहोढम् असहोढं वा तत्त्वागमितसाहसम् ।
प्रगृह्य चिह्नम् आवेद्य सर्वस्वैर् विप्रयोजयेत् ॥
[५४२]
अयःसन्दानगुप्तास् तु मन्दभक्ता बलान्विताः ।
कुर्युः कर्माणि नृपतेर् आ मृत्योर् इति कौशिकः ॥
परदेशाद् धृतं द्रव्यं वैदेश्येन यदा भवेत् ।
गृहीत्वा तस्य तद् द्रव्यम् अदण्डं तम् विसर्जयेत् ॥
“तत्त्वागमितसाहसः” तत्त्वेन ज्ञापितं साहसं यस्य स तथा । “अयःसन्दानगुप्ताः” निगडबद्धाः । ये “बलान्विताः” ते निगडबद्धा अल्पभक्ता सन्तः यावदायुर् नृपतेः कर्माणि कुर्युर् इति योजना ।
वसिष्ठः [१९.३८–३९]- “स्तेनो ऽनुप्रवेशान् न दुष्यति । शस्त्रधारी सहोढो व्रणसंपन्नश् च व्यपदिष्टस् त्व् एकेषाम्” ।
अस्यार्थः — नानुप्रवेशमात्रेण स्तेनो भवति । किं तु शस्त्रधारणनिमित्तम् अन्तरेण शस्त्रधारी सहोढः कृतव्रणश् च दुष्यतीति ।
[५४३]
७० — (घ) अथ चोरान्वेषणम्
तत्र नारदः [१७.१८; २१.८–११] ।
सहोढग्रहणात् स्तेयं होष्हे ऽसत्य् उपभोगतः ।
शङ्खा त्व् असज्जनैकार्थ्याद् अनायव्ययतस् तथा ॥
सहोढान् विमृशेच् चौरान् गृहीतपरिशङ्कया ।
नयोपधाभिश् चित्राभिर् ब्रूयुस् तथ्यं यथा हि ते ॥
देशं ग्रामं दिशं नाम जातिं वासं प्रतिश्रयम् ।
कृतकार्यसहायाश् च प्रष्टव्याः स्युर् निगृह्य ते ॥
वर्णस्वराकारभेदात् ससन्दिग्धनिवेदितात् ।
अदेशकालदृष्टत्वान् निवासस्य विशोधनात् ॥
असद्व्ययात् पूर्वचौर्याद् असत्संसर्गकारणात् ।
लेशैर् अप्य् अनुगन्तव्या न होढेनैव केवलम् ॥ [५४४]
“होढः” लोप्त्रम् । “उपभोगतः असति तु होढे” अपहृतद्रव्यस्यासाधारणस्य प्रकारान्तरेणासंभवत् प्राप्तेः कर्पूरादेर् उपभोगदर्शनेन स्तेयं ज्ञेयम् । “असज्जनैकार्थ्यात्” — “असज्ज्जनैः” द्यूतमद्यपानाद्यासक्तैः सहैककार्यात्वात् । “उपाधिभिः चित्राभिः” उपायैः नानाविधैः ।
याज्ञवल्क्यः [२.२२६–२८] ।
ग्राहकैर् गृह्यते चौरो लोप्त्रेणाथ पदेन वा ।
पूर्वकर्मापराधी च तथा चाशुद्धवासकः ॥
अन्ये ऽपि शङ्कया ग्राह्या नामजात्यादिनिह्नवैः ।
द्यूतस्त्रीपानसक्ताश् च भिन्नशुष्कमुखस्वराः ॥
परद्रव्यगृहाणां च पृच्छका गूढचारिणः ।
निराया व्ययवन्तश् च विनष्टद्रव्यविक्रयाः ॥
“ग्राहकैर् गृह्यते चौरः” इति । ग्राहकैर् चौरो ऽयम् इति निर्दिष्टः सन् गृहीतव्य इत्य् अर्थः । “पदेन” नाशदेशाद् आरभ्य चौरादिपादबिम्बानुसारेण । “अशुद्धवासकः” अविज्ञातवासस्थानः । “विनष्टद्रव्यविक्रयाः” भग्नस्य कुण्डलादेर् विक्रयकारिणः ।
नारदः [१७.२२–२६] ।
गवादिषु प्रणष्टेषु द्रव्येषूपहतेषु च ।
पादेनान्वेषणं कुर्युर् आमूलात् तद्विदो जनाः ॥
[५४५]
ग्रामे व्रजे विवीते वा यत्र तन् निपतत् पदम् ।
वोढव्यं तद् भवेत् तेन न चेत् सो ऽन्यत्र तन् नयेत् ॥
पादे प्रमूढे भग्ने वा विषमत्वाज् जनान्तिके ।
यस् त्व् आसन्नतरो ग्रामो व्रजो वा तत्र पातयेत् ॥
समे ऽध्वनि द्वयोर् यत्र स्तेनप्रायो ऽशुचिर् जनः ।
पूर्वापराधैर् दुष्तो वा संसृष्टो वा दुरात्मभिः ॥
नैवान्तरिक्षान् न दिवो न समुद्रान् न चान्यतः ।
दस्यवः संप्रवर्तन्ते तस्माद् एवं प्रकल्पयेत् ॥
ग्रामेष्व् अन्वेषणं कुर्युश् चण्डालवधकादयः ।
रात्रिसंचारिणो ये च बहिः कुर्युर् बहिश् चराः ॥
“समे ऽध्वनि” तुल्यमार्गे । “द्वयोः” ग्रामयोः । “स्तेनप्रायः” चौरबहुलः ।
मनुः [९.२३४–३६] ।
सभाप्रपापूपशालावेशमद्यान्नविक्रयाः ।
चतुष्पथाश् चैत्यवृक्षाः समाजाः प्रेक्षणानि च ॥
जीर्णोद्यानान्य् अरण्यानि कारुकावेशनानि च ।
शून्यानि चाप्य् अगाराणि वनान्य् उपवनानि च ॥
[५४६] > एवंविधान् नृपो वेशान् गुल्मैः स्थावरजङ्गमैः ।
तस्करप्रतिषेधार्थं चरैश् चाप्य् अनुचारयेत् ॥
“अपूपशाला” कन्दुकगृहम् । “वेशः” वेश्यागृहम् । “कारुकावेशनानि” शिल्पशालाः । “गुल्मैः” पदातिसमूहैः । “स्थावरजङ्गमैः’ एकस्थानस्थितैः प्रचारिभिः ।
नारदः ।
विचित्रैश् चारयेच् चारैश् चौरग्रहणतत्परैः ।
तथा चान्ये प्रणिहिताः श्रद्धेयाश् चित्रवादिनः ॥
चारा ह्य् उत्साहयेयुस् तान् तस्करान् पूर्वतस्कराः ।
अन्नपानमहादानैः समाजोत्सवदर्शनैः ॥
तथा शौर्यापदेशैश् च कुर्युस् तेषां समागमम् ।
यत्र ते नोपसर्पन्ति चारैः प्रणिहितैर् अपि ॥
ते ऽपि स्युः संगृहीतव्याः सपुत्रज्ञातिबान्धवाः ।
यांस् तत्र चौरान् गृह्णीयात् तान् विताड्य निबध्य च ॥
[५४७] > अवघुष्य च सर्वत्र हन्याच् चित्रवधेन तु ।
अचौरा अपि दृश्यन्ते चौरैः सह समागताः ॥
यदृच्छया नैव तु तान् नृपो दण्डेन संस्पृशेत् ।
कात्यायनः [८११] ।
अन्यहस्तात् परिभ्रष्टम् अकामाद् उद्धृतं भुवि ।
चौरेण वा परिक्षिप्तं यत्नाल् लोप्त्रं परीक्षयेत् ॥
नारदः ।
दस्युवृत्ते यदि नरे शङ्का स्यात् तस्करे ’पि वा ।
यदि स्पृश्येत लेशेन कार्यः स्याच् छपथं ततः ॥
“लेशेन’ युक्तिलेशेन मुखशोत्रादिना ।
याज्ञवल्क्यः [२.२६९] ।
गृहीतः शङ्कया चौर्य आत्मानं चेन् न शोधयेत् ।
दापयित्वा हृतं द्रव्यं चौरदण्डेन दण्डयेत् ॥
कात्यायनः [८२१] ।
अचौराहापितं द्रव्यं चौरान्वेषणतत्परैः ।
उपलब्धे लभेरंस् ते द्विगुणं तत्र दापयेत् ॥
[५४८]
७० — (ङ) अथ स्तेनातिदेशाः
तत्र मनुः [९.२७१, २७८] ।
ग्रामेष्व् अपि च ये केचिच् चौराणां भक्ष्यदायकाः ।
भाण्डावकाशदाश् चैव सर्वांस् तान् अभिघातयेत् ॥
अग्निदान् भक्तदांश् चैव तथा शस्त्रावकाशदान् ।
संनिधातॄंश् च मोषस्य हन्याच् चौरान् इवेश्वरः ॥
“मोषस्य’ अपहृतद्रव्यस्य ।
याज्ञवल्क्यः [२.२७६] ।
भक्तावकाशाग्न्युदकमन्त्रोपकरणव्ययान् ।
कृत्वा चौरस्य हन्तुर् वा जानतो दण्ड उत्तमः ॥
“भक्तम्’ अशनम् । “अवकाशो’ निवासस्थानम् । “अग्निः’ शीतापनोदाद्यर्थः । “उदकम्’ तृषितस्य । “मन्त्रः’ चौर्यप्रकारोपदेशः । “उपकरणम्’ चौर्यसाधनम् । “व्ययः’ अपहारार्थं देशान्तरं गच्छतः पाथेयम् ।
नारदः [१७.१९; २१.१४] ।
भक्तावकाशदातारः स्तेनानां ये समर्पताम् ।
[५४९] > शक्ताश् च य उपेक्षन्ते ते ऽपि तद्दोषभागिनः ॥
समदण्डाः स्मृताः सर्वे ये च प्रच्छादयन्ति तान् ।
कात्यायनः [८२७] ।
चौराणां भक्तदा ये स्युस् तथाग्न्युदकदायकाः ।
क्रेतारश् चैव भाण्डानां प्रतिग्रहण एव च ॥
समदण्डाः स्मृता ह्य् एते ये च प्रच्छादयन्ति तान् ॥
हन्याद् इत्य् अनुवृत्तौ विष्णुः [५.१६–१७]- “प्रसह्य तस्कराणां चावकाशभक्तप्रदांश् च । अन्यत्र राजाशक्तेः” ।
मनुः [८.३४०; ९.२७२, २७४] ।
यो ऽदत्तादायिनो हस्ताल् लप्स्येते ब्राह्मणो धनम् ।
[५५०] > याजनाध्यापनेनापि यथा स्तेनस् तथैव सः ॥
राष्ट्रेषु राष्ट्राधिकृतान् सामन्तांश् चैव चोदितान् ।
उपघातेषु मध्यस्थांश् छिष्यांश् चोरान् इव द्रुवम् ॥
ग्रामघाते हिलाभङ्गे पथि मोषादिदर्शने ।
शक्तितो नाभिधावन्तो निर्वास्याः सपरिच्छदाः ॥
“अदत्तादायिनः’ चौरस्य । राष्ट्र इत्यादि — राष्ट्राधिकृतान् ग्रामवासिनश् च प्रजानां चौरादिभिः उपघातेषु क्रियमाणेषु मध्यस्थान् उपक्षकान् चौरान् इव दण्डयेद् इत्य् अर्थः । “हिलाभङ्गः’ ऽपरक्षेत्रोत्पन्नसस्यनाशनम्’ इति मेधातिथिः । “मोषादिदर्शने’ अपहृतद्रव्यदर्शने ।
[५५१]
अथ वर्णतः स्तेयविशेषः
तत्र मनुः [८.३३७–३८] ।
अष्टापाद्यं हि शूद्रस्य स्तेयो भवति किल्बिषम् ।
षोडशैव तु वैश्यस्य द्वात्रिंशत् क्षत्रियस्य तु ॥
ब्राह्मणस्य चतुःषष्टिः पूर्वं वापि शतं भवेत् ।
द्विगुणा वा चतुःषष्टिस् तद्दोषगुणविद्विषः (?) ॥
कात्यायनः [४८५] ।
येन दोषेण शूद्रस्य दण्डो भवति धर्मतः ।
तेन विट्क्षत्रविप्राणां द्विगुणो द्विगुणो भवेत् ॥
७० — (च) अथ स्तेनालाभे हृतदानम्
तत्र आपस्तम्बः [२.२६.४–८]- “ग्रामेषु नगरेषु चार्यान् शुचीन् सत्यशीलान् प्रजागुप्तये निदध्यात् । तेषां पुरुषास् तथागुणा एव स्युः । सर्वतो योजनं नगरं तस्करेभ्यो रक्ष्यम् । क्रोशो ग्रामेभ्यः । तत्र यन् मुच्यते तैस् तत् प्रतिदाप्यम्” ।
[५५२] कात्यायन-नारदौ [का। ८१३; ना। २१.१८] ।
गृहेषु मुषितं राजा चौरग्राहांस् तु दापयेत् ।
आरक्षकांस् तु दिक्पालान् यदि चौरो न लभ्यते ॥
याज्ञवल्क्यः [२.२७१–७२] ।
घातिते ’पहृते दोषो ग्रामभर्तुर् अनिर्गते ।
विवीतभर्तुस् तु पथि चौरोद्धर्तुर् अवीतके ॥
स्वसीम्नि दद्याद् ग्रामस् तु पदं वा यत्र गच्छति ।
पञ्चग्रामी बहिः कृष्टाद् दशग्राम्य् अथ वा पुनः ॥
ऽचौरोद्धर्तुः’ चौररक्षानियुक्तस्य । ऽअवीतके’ विवीतव्यतिरिक्ते क्षेत्रादौ । ऽबहिः कृष्टात्’ कर्षणप्रदेशाद् अन्यत्र यद् अपहृतं तत् पञ्चग्राममिलिता दद्युः । संनिधानापेक्षया दशग्रामीति विकल्पः ।
नारदः [२१.१६–१७] ।
गोचरे यस्य मुष्येत तेन चौरः प्रयत्नतः ।
मृग्यो दाप्यो ऽन्यथा मोषं पदं यदि न निर्गतम् ॥
निर्गते तु यद् एतस्मान् न चेद् अन्यत्र पातितम् ।
सामन्तान् मार्गपालांश् च दिक्पालांश् चैव दापयेत् ॥
[५५३] कात्यायनः [८१४] ।
ग्रामान्ते तु हृतं द्रव्यं ग्रामाध्यक्षं प्रदापयेत् ।
विवीते स्वामिना देयं चौरोद्धर्त्राविवीतके ॥
विष्णुः [३.६६–६७]- “चौरापहृतं धनम् अवाप्य सर्वम् एव सर्ववर्णेभ्यो दद्यात् । अनवाप्य स्वकोशाद् एव दद्यात्” ।
कात्यायनः [८१५] ।
स्वदेशे यस्य यत् किंचित् हृतं देयं नृपेण तत् ।
गृह्णीयात् तत् स्वयं नष्टं प्राप्तम् अन्विष्य पार्थिवः ॥
नारद-कात्यायनौ [ना। २१.२१; का। ८१६] ।
चौरैर् हृतं प्रयत्नेन स्वरूपं प्रतिपादयेत् ।
तदभावे तु मूल्यं स्याद् अन्यथा किल्बिषी नृपः ॥
कात्यायनः [८१७] ।
लब्धे तु चौरे यदि वा मोषस् तस्मान् न लभ्यते ।
दद्यात् तम् अथ वा चौरं दापयेत् तु यथेष्टतः ॥
[५५४] वृद्धमनुः ।
तस्मिंश् चेद् दाप्यमानानां भवेन् मोषे तु संशयं ।
मुषितः शपथान् दाप्यो बन्धुभिर् वापि शोधयेत् ॥
यस्माद् अपहृताल् लब्धं द्रव्यात् स्वल्पं तु स्वामिना ।
तच्छेषम् आप्नुयात् तस्माद् प्रत्यये स्वामिना कृते ॥
याज्ञवल्क्यः [२.१७३–७४] ।
शौलिकैः स्थानपालैर् वा नष्टापहृतम् आहृतम् ।
अर्धात् तु वत्सरात् स्वामी हरेत परतो नृपः ॥
पणान् एकशफे दद्याच् चतुरः पञ्च मानुषे ।
महिषोष्ट्रगवां द्वौ द्वौ पादं पादम् अजाविके ॥
“एकशफे’ अश्वादौ प्रणष्टाधिगते स्वामी राज्ञे रक्षणनिमित्तं “चतुरः पणान्’ दद्यात् ।
गौतमः [१०.३५–३७]- “प्रणष्टम् अस्वामिकम् अधिगम्य राज्ञे प्रब्रूयुः । विख्याप्य संवत्सरं राज्ञा रक्ष्यम् । ऊर्ध्वम् अधिगन्तुश् चतुर्थं राज्ञः शेषम्” ।
[५५५] मनुः [८.३१–३४] ।
ममेदम् इति यो ब्रूयात् सो ऽनुयोज्यो यथाविधि ।
संवाद्य रूपसंख्यादीन् स्वामी तद् द्रव्यम् अर्हति ॥
अवेदयंस् तु नष्टस्य देशं कालं च तत्त्वतः ।
वर्णं रूपं प्रमाणं च तत्समं दण्डम् अर्हति ॥
आददीताथ षड्भागं प्रणष्टाधिगतान् नृपः ।
दशमं द्वादशं वापि सतां धर्मम् अनुस्मरन् ॥
प्रणष्टाधिततं द्रव्यं तिष्ठेद् युक्तैर् अधिष्ठितम् ।
यांस् तत्र चौरान् गृह्णीयात् तान् राजेभेन घातयेत् ॥
“इभेन’ हस्तिना \
आपस्तम्बः [२.२८.८–१०]- “प्रमादाद् अरण्ये पशून् उत्सृष्टान् ग्रामम् आनीय स्वामिभ्यो विसृजेत् । पुनः प्रमादे सकृद् अवरुध्य । तदूर्ध्वं न सूर्क्षेत्” ।
“न सूर्क्ष्येत्’ नाहरणं कुर्याद् इत्य् अर्थः ।
इति कृत्यकल्पतरौ व्यवहारकाण्डे स्तेयपर्व ।
[५५६]