अथ दण्डपारुष्यम्
तत्र बृहस्पतिः [२१.१] ।
हस्तपाषाणलगुडैर् भस्मकर्दमपांसुभिः ।
आयुधैश् च प्रहरणं दण्डपारुष्यम् उच्यते ॥
व्यासः ।
भस्मादीनां प्रक्षेपणं ताडनं च करादिना ।
आवेष्टनं चांशुकाद्यैर् दण्डपारुष्यम् उच्यते ॥
नारदः [१८.४–६] ।
परगात्रेष्व् अभिद्रोहो हस्तपादायुधादिभिः ।
भस्मादिभिश् चोपघातो दण्डापारुष्यम् उच्यते ॥
तत्रापि दृष्टं त्रैविध्यं मृदुमध्योत्तमक्रमात् ।
अवगूरणनिःसङ्गपीडनाक्षतदर्शनैः ॥
हीनमध्योत्तमानां तु त्रयाणां समतिक्रमात् ।
त्रीण्य् एव साधनान्य् आहुः तत्र कण्टकमोचने ॥
बृहस्पतिः [१९.६–७] ।
भस्मादीनां प्रक्षेपणं ताडनं च करादिना ।
प्रथमं दण्डपारुष्यं दमः कार्यो ऽत्र माषकः ॥
[४८६]
एष दण्डः समेषूक्तः परस्त्रीष्व् अधिकेषु च ।
द्विगुणस् त्रिगुणो ज्ञेयः प्राधान्यापेक्षया बुधैः ॥
याज्ञवल्क्यः [२.२१३–१४] ।
भस्मपङ्करजःस्पर्शे दण्डो दशपणः स्मृतः ।
अमेध्यपार्ष्णिनिष्ठ्यूतस्पर्शने द्विगुणः स्मृतः ॥
समेष्व् एवं परस्त्रीषु द्विगुणस् तूत्तमेषु च ।
हीनेष्व् अर्धदमो मोहमदादिभिर् अदण्डनम् ॥
कात्यायनः [७८४] ।
छर्दिमूत्रपुरीषाद्यैर् आपाद्यः स चतुर्गुणः ।
षड्गुणः कायमध्ये तु मूर्ध्नि त्व् अष्टगुणः स्मृतः ॥
याज्ञवल्क्यः [२.२१७] ।
पादकेशांशुककरोल्लुञ्छनेषु पणान् दश ।
पीडाकर्षांसुकावेष्टपादाध्यासे शतं दमः ॥
पीडा चाकर्षश् चांशुकावेष्टश् च पादाध्यासश् चेति समाहारद्वन्द्वः । एतद् उक्तं भवति । अंशुकेनावेष्ट्य गाढम् आपीड्याकृष्य यः पादेनाध्यास्ते तस्य पणशतं दण्डः ।
कात्यायनः [७८५] ।
उद्गूरणे तु हस्तस्य कार्यो द्वादशको दमः ।
स एव द्विगुणः प्रोक्तः पातनेषु सजातिषु ॥
[४८७] बृहस्पतिः [२१.८] ।
उद्यते ऽश्मशिलाकाष्ठे कर्तव्यः प्रथमो दमः ।
[परस्परं हस्तपादे पञ्चविंशतिकस् तथा ॥ ]
“दण्ड्य” इत्य् अनुवृत्तौ विष्णुः [५.६०–६२, ६४]- “हस्तेनोद्गूरयिता दशकार्षापणान् । पादेन विंशतिम् । काष्ठेन प्रथमसाहसम् । शस्त्रेणोत्तमम्” ।
अधमो यदा शस्त्रेणोत्तमस्योद्गूरणं करोति तदासाव् उत्तमसाहसं दण्ड्य इत्य् अर्थः ।
याज्ञवल्क्यः [२.२१६] ।
उद्गूर्णे हस्तपादे तु दशविंशतिकौ दमौ ।
परस्परस्य सर्वेषां शस्त्रे मध्यमसाहसम् ॥
एतच् च समानजातीयानाम् अवगन्तव्यम् । असमानजातीयानां दण्डान्तरश्रवणात् ।
पणानुवृत्तौ शङ्खलिखितौ- “प्रहारोद्यमे षट्पञ्चाशन् निपातने तद्द्विगुणम्” ।
[४८८] बृहस्पतिः [२१.९–१०] ।
मध्यमः शस्त्रसंधाने संयोज्यः क्रुद्धयोर् द्वयोः ।
कार्यः क्षतानुरूपस् तु लग्ने घाते दमो बुधैः ॥
इष्टकोपलकाष्ठैस् तु ताडने तु द्विमाषकः ।
द्विगुणः शोणितोद्भेदे दण्डः कार्यो मनीषिभिः ॥
विष्णुः [५.६६, ६७]- “[दण्ड्यः] शोणितेन विना दुःखम् उत्पादयिता द्वात्रिंशत् पणान् । सह शोणितेन चतुःषष्टिम्” ।
मनुः [८.२८४] ।
त्वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः ।
मांसभेत्ता तु षण्णिष्कान् प्रवास्यस् त्व् अस्थिभेदकः ॥
बृहस्पतिः [२१.११–१२] ।
त्वग्भेदे प्रथमो दण्डो मांसभेदे तु मध्यमः ।
उत्तमश् चास्थिभेदे तु घातने च प्रमापणम् ॥
कर्णनासाकरच्छेदे दन्तभेदे ऽङ्घ्रिभेदने ।
कर्तव्यो मध्यमो दण्डो द्विगुणः पतितेषु च ॥
कात्यायनः [७८१] ।
कर्णौष्ठघ्राणपादाक्षिजिह्वाशिश्नकरस्य च ।
छेदने चोत्तमो दण्डो भेदने मध्यमो भृगुः ॥
[४८९] याज्ञवल्क्यः [२.२१९–२०] ।
करपाददन्तभङ्गे छेदने कर्णनसयोः ।
मध्यो दण्डो व्रणोद्भेदे मृतकल्पहते तथा ॥
चेष्टाभोजनवाग्रोधे नेत्रादिप्रतिभेदने ।
कन्धराबाहुसक्थ्नां च भङ्गे मध्यमसाहसः ॥
दण्ड इत्य् अन्वर्तमाने विष्णुः [५.७०–७२]- “नेत्रकन्धराबाहुसक्थ्यंसभङ्गे चोत्तमम् । उभयनेत्रभेदिनं राजा यावज्जीवं बन्धनान् न मुञ्चेत् । तादृशम् एव वा कुर्यात् ।
याज्ञवल्क्यः [२.३०८] ।
द्विनेत्रभेदनो राजद्विष्टादेशकृतस् तथा ।
विप्रत्वेन तु शूद्रस्य जीवतो ऽष्टशतो दमः ॥
मनुः [८.२८६] ।
मनुष्याणां पशूनां च दुःखाय प्रहृते सति ।
यथा यथा महद्दुःखं दण्डं कुर्यात् तथा तथा ॥
[४९०] हारीतः- “अधोवर्णानाम् उत्तमवर्णाक्रोशाभिभवाक्षेपेष्व् अष्टौ पुराणाः । ग्रीवाभञ्जनगलस्तनकचवक्त्रग्रहणेषु त्रिंशत् । रोमोत्पाटनतर्जनावगूरणेषु त्रिषष्टिः । शिखाकर्णाङ्गभङ्गच्छेदेषु द्विशतम् । पादताडने ऽनृताभिशंसने तदङ्गच्छेदः । पञ्चशतं वा । आद्येषु पादोनं वा । स्वामित्वाद् आद्यवर्णत्वाच् चोत्तमवर्णानाम् ईशानतमो ब्राह्मणः” ।
याज्ञवल्क्यः [२.२१५] ।
विप्रपीडाकरं छेद्यम् अङ्गम् अब्राह्मणस्य तु ।
उद्गूर्णे प्रथमो दण्डः संस्पर्शे तु तदर्धिकः ॥
“संस्पर्शे” वधोद्यमनार्थं शस्त्रादिसंस्पर्शने ।
नारदः [१८.२५, ३१] ।
येनाङ्गेनावरो वर्णो ब्राह्मणस्यापराध्नुयात् ।
तदङ्गं तस्य छेत्तव्यम् एवं शुद्धिम् अवाप्नुयात् ॥
राजनि प्रहरेद् यस् तु कृतागस्य् अपि दुर्मतिः ।
शूल्यं तम् अग्नौ विपचेद् ब्रह्महत्यासमातिगम् ॥
[४९१] “कृतागसि” कृतापराधे । शूलम् आरोप्य यत् संस्क्रियते तत् “शूल्यम्” ।
मनुः [८.२७९–८०] ।
येन केनचिद् अङ्गेन हिंस्याच् छ्रेयांसम् अन्त्यजः ।
छेत्तव्यं तत् तद् एवास्य तन् मनोर् अनुशासनम् ॥
पाणिम् उद्यम्य दण्डं वा पाणिच्छेदनम् अर्हति ।
पादेन प्रहरेत् कोपात् पदच्छेदनम् अर्हति ॥
मनु-नारदौ [म। ८.२८१–८३] ।
सहासनम् अभिप्रेप्सुर् उत्कृष्टस्यापकृष्टजः ।
कठ्यां कृताङ्को निर्वास्यः स्फिचं वास्य प्रकर्तयेत् ॥
अवनिष्ठीवतो दर्पाद् द्वाव् ओष्ठौ छेदयेन् नृपः ।
अवमूत्रयतो मेढ्रम् अवशर्धयतो गुदम् ॥
केशेषु गृह्णतो हस्तौ छेदयेद् अविचारयन् ।
पदयोर् दाढिकायां च ग्रीवायां वृषणेषु च ॥
“सहासनम् अभिप्रेप्सुः” एकासनोपवेशाभिमतः । ऽएकासनोपवेशी कठ्यां कृताङ्को निर्वास्यः” इति विष्णुवचनात् । “दाढिका” श्मश्रुः ।
[४९२] गौतमः [१२.५]- “आसनशयनवाक्पथिषु समप्रेप्सुर् दण्ड्यः” ।
शूद्रस्येत्य् अनुवर्तमाने आपस्तम्बः [२.२७.१५]- “वाचि पथि शय्यायाम् आसन इति समीभवतो दण्डताडनम्” ।
कात्यायनः [७८६] ।
वाक्पारुष्ये यथैवोक्ताः प्रतिलोमानुलोमतः ।
तथैव दण्डपारुष्ये पात्या दण्डा यथाक्रमम् ॥
विष्णुः [५.७३–७४]- “एवं बहूनां निघ्नतां प्रत्येकश उक्तो दण्डो द्विगुणः । उत्क्रोशन्तम् अनभिधावतां तत्समीपवर्तिनां संसरतां च” ।
याज्ञवल्क्यः [२.२२१] ।
एकं घ्नतां बहूनां तु यथोकाद् द्विगुणो दमः ।
कलहापहृतं देयं दण्डं च द्विगुणं ततः ॥
कात्यायनः [७८८] ।
वाग्दण्डस् ताडनं चैव येषूक्तम् अपरादिषु ।
हृतभग्नं प्रदाप्यास् ते शोध्यं निःस्वैस् तु कर्मणा ॥
कर्मकरणेन “शोध्यं” तद्धनं परिपूरणीयम् इत्य् अर्थः ।
[४९३] बृहस्पतिः [२१.१५] ।
अङ्गावपीडने चैव भेदने छेदने तथा ।
समुत्थानव्ययं दाप्यः कलहाय कृतं च यत् ॥
याज्ञवल्क्यः [२.२२२] ।
दुःखम् उत्पादयेद् यस् तु ससमुत्थानजं व्ययम् ।
दाप्यो दण्डं च यो यस्मिन् कलहे समुदीरितः ॥
मनुः [८.२८७] ।
अङ्गावपीडनायां च प्राणश्ōणितयोस् तथा ।
समुत्थानव्ययं दाप्यः सर्वदण्डम् अथापि वा ॥
“अङ्गावपीडनायां” अङ्गानां करचरणादीनां पीडनायाम् । “प्राणशोणितयोश्” च पीडनायां सत्याम् । “समुत्थानव्ययं” यावत्कालेन समुत्थानसमर्थो भवति तावत्कालेन पथ्यौषध्यादिना यावद् धनव्ययो भवति तम् असौ दापयितव्यः । अथ तस्य यद्य् असौ न व्ययं दातुम् इच्छति तदा यः समुत्थानव्ययो यश् च दण्डः, तत् सर्वं दण्डत्वेन दाप्य इत्य् अर्थः ।
कात्यायनः [७८७] ।
देहेन्द्रियविनाशे तु यथा दण्डं प्रकल्पयेत् ।
तथा तुष्टिकरं देयं समुत्थानं च पण्डितैः ॥
समुत्थानव्ययं चासौ दद्याद् आ व्रणरोपणम् ॥
[४९४] विष्णुः [५.७५–७६]- “सर्वे च पुरुषपीडाकरास् तदुत्थानव्ययं दद्युः । ग्राम्यपशुपीडाकराश् च” ।
मनुः [८.२९९–३००] ।
भार्या पुत्रश् च दासश् च शिष्यो भ्राता च सोदरः ।
प्राप्तापराधास् ताड्यास् स्यू रज्वा वेणुदलेन वा ॥
पृष्ठतस् तु शरीरस्य नोत्तमाङ्गे कथंचन ।
अतो ऽन्यथा तु प्रहरन् प्राप्तः स्याच् चौरकिल्बिषम् ॥
यमः ।
भार्या पुत्रश् च दासश् च दासी शिष्यश् च पञ्चमः ।
प्राप्तापराधास् ताड्यास् तु रज्वा वेणुदलेन वा ॥
अधस्तात् तु प्रहर्तव्यं नोत्तमाङ्ग कथंचन ।
अतोऽन्यथा प्रवृत्तस् तु यथोक्तं दण्डम् अर्हति ॥
ब्रह्मचारीत्य् अनुवृत्तौ नारदः [८.१३–१४] ।
अनुशास्यः स गुरुणा न चेद् अनुविधीयते ।
अवधेनाथ वा तन्वा रज्वा वेणुदलेन वा ॥
भृशं न ताडयेद् एनं नोत्तमाङ्गे न वक्षसि ।
अनुशास्य च विश्वास्यः शस्यो राज्ञान्यथा गुरुः ॥
“अवधेन” अताडनेन ।
[४९५] गौतमः [२.४९–५१]- “शिष्यशिष्टिर् अवधेन । अशक्तौ रज्जुवेणुविदलाभ्यां तनुभ्याम् । अन्येन घ्नन् राज्ञा शास्यः” ।
शिष्यानुवृत्तौ आपस्तम्बः [१.८.२९]- “अपराधेषु चैनं सततम् उपालभेत । अभित्रास उपवास उदकोपस्पर्शन्म् अदर्शनम् इति दण्डा यथामात्रम् आ निवृत्तेः” इति ।
अपराधानुरूपं दण्डपातनं कर्तव्यम् अपराधनिवृत्तिपर्यन्तम् इत्य् अर्थः ।
नारदः [१८.३२] ।
पुत्रापराधे न पिता नाश्वे न शुनि दण्डभाक् ।
न मर्कटे च तत्स्वामी तेनैव प्रहिता न चेत् ॥
याज्ञवल्क्यः [२.३००] ।
शक्तो ह्य् अमोक्षयन् स्वामी दंष्ट्रिणां शृङ्गिणां तथा ।
प्रथमं साहसं दद्याद् विक्रुष्टे द्विगुणं तथा ॥
“विक्रुष्टे” स्वकीयं शृङ्गिनम् अपसारयेत्य् असकृ आक्रोशे कृते ।
बृहस्पतिः [२१.१६–१७] ।
विविक्ते ताडितो यस् तु हतो ऽदृश्येन वा भवेत् ।
हन्ता तद् आनुमानेन विज्ञेयः शपथेन वा ॥
अन्तर्वेश्मन्य् अरण्ये वा निशायां यत्र ताडितः ।
शोणितं यत्र दृश्येत न पृच्छेत् तत्र साक्षिणः ॥
“अदृश्येन” अदृश्यमानेन घतकेन ।
[४९६] नारद-बृहस्पती [ना। ४.१७६; बृ। २१.१८] ।
कश्चित् कृत्वात्मनश् चिह्नं द्वेषात् परम् अभिद्रवेत् ।
हेत्वर्थगतिसामर्थ्यैस् तत्र युक्तं परीक्षणम् ॥
याज्ञवल्क्यः [२.२१२] ।
असाक्षिकहते चिह्नैर् युक्तिभिश् चागमेन वा ।
द्रष्टव्यो व्यवहारस् तु कूटचिह्नकृताद् भयात् ॥
कात्यायनः [७७९] ।
हेत्वादिभिर् न पश्येच् चेद् दण्डपारुष्यकारणम् ।
तद् असाक्षिकृतं तत्र दिव्यं वाथ नियोजयेत् ॥
अथ वाग्दण्डपारुष्याधिकारे —
नारदः ।
विधिः पञ्चविधस् तूक्त एतयोर् उभयोर् अपि ।
विशुद्धिर् दण्डभाक्त्वं च तत्र संबध्यते यथा ॥
पारुष्ये सति संरम्भाद् उत्पन्ने क्षुब्धयोर् द्वयोः ।
स मान्यते यः क्षमते दण्डभाग् यो ऽतिवर्तते ॥
[४९७] > पारुष्यदोषावृतयोर् युगपत्संप्रवृत्तयोः ।
विशेषश् चेन् न दृश्येत विनयः स्यात् समस्तयोः ॥
द्वयोर् आपन्नयोस् तुल्यम् अनुबध्नाति यः पुनः ।
स तयोर् दण्डम् आप्नोति पूर्वो वा यदि वोत्तरः ॥
पूर्वम् आक्षारयेद् यस् तु नियतं स्यात् स दोषभाक् ।
पश्चाद् यः सो ऽप्य् असत्कारी पूर्वे तु विनयो गुरुः ॥
“आपन्नयोस् तुल्यम्” इति पारुष्ये तुल्यवृत्तयोर् इत्य् अर्थः ।
कात्यायनः [७८०] ।
आभीषणेन दण्डेन प्रहरेद् यस् तु मानवः ।
पूर्वं वा पीडितो वाथ स दण्ड्यः परिकीर्तितः ॥
बृहस्पतिः [२१.१९, ५] ।
आक्रुष्टस् तु समाक्रोशंस् ताडितः प्रतिताडयन् ।
हत्वाततायिनं चैव नापराधी भवेन् नरः ॥
वाक्पारुष्यादिना नीचो यः सन्तम् अभिलङ्घयेत् ।
स एव ताडयंस् तस्य नान्वेष्टव्यो महीभुजा ॥
[४९८] “स एव” उत्तम एव । “ताडयंस् तस्य” तस्य नीचस्य ताडनं कुर्वन् नृपेण दण्डे “नान्वेष्तव्यः” इत्य् अर्थः ।
नारदः [१८.११–१४] ।
श्वपाकपशुचाण्डालवेश्यासु बकवृत्तिषु ।
हस्तिपव्रात्यदासेषु गुर्वाचार्यातिगेषु च ॥
मर्यादातिक्रमे सद्योघात एवानुशासनम् ।
न च तद् दण्डपारुष्ये दोषम् आहुर् मनीषिणः ॥
यम् एव ह्य् अतिवर्तेरन्न् एते सन्तं जनं नृषु ।
स एव विनयं कुर्यान् न तद्विनयभाङ् नृपः ॥
मला ह्य् एते मनुष्याणां धनम् एषां मलात्मकम् ।
अपि तान् घातयेद् राजा नार्थदण्डेन दण्डयेत् ॥
“सद्योघातः” सद्यस्ताडनम् ।
[४९९] बृहस्पतिः [२१.२०] ।
प्रतिलोमास् तथा चान्त्याः पुरुषाणां मलाः स्मृताः ।
ब्राह्मणातिक्रमे वध्या न दातव्या दमं क्वचित् ॥
कात्यायनः [७८३] ।
अस्पृश्यधूर्तदासानां म्लेच्छानां पापकारिणाम् ।
प्रातिलोम्यप्रसूतानां ताडनं नार्थतो दमः ॥
याज्ञवल्क्यः [२.२२५–२६] ।
दुःखिते शोणितोत्पादे शाखाङ्गच्छेदने तथा ।
दण्डः क्षुद्रपशूनां तु द्विपणाद् द्विगुणः क्रमात् ॥
लिङ्गस्य छेदने मृत्यौ मधयमो मूल्यम् एव च ।
महापशूनाम् एतेषु स्थानेषु द्विगुणो दमः ॥
“शाखा” अत्र शृङ्गादिका । “अङ्गम्” चरणादि । “द्विगुणः” पणद्वयाद् आरभ्य यथाक्रमं द्विगुणो दण्ड इत्य् अर्थः ।
ऽकार्षापणशतं दण्ड" इत्य् अनुवृत्तौ विष्णुः [५.११९]- “पशूनां पुंस्त्वोपघातकारी” ।
पुनर् विष्णुः [५.४८–५४]- “गजाश्वोष्ट्रगोघाती ह्य् एककरपादः कार्यः । विमांसविक्रयी च । ग्राम्यपशुघाती च कार्षापणशतं दण्ड्यः । पशुस्वामिने च तन्मूल्यं दद्यात् । [५००] आरण्यपशुघाती पञ्चाशत् कार्षापणान् । पक्षिघाती मत्स्यघाती च दशकार्षापणान् । कीटोपघाती कार्षापणम्” ।
“विमांसम्” श्वसृगालादिमांसम् ।
कात्यायनः [७९०] ।
त्रिपणो द्वादशपणो वधे तु मृगपक्षिणाम् ।
सर्पमार्जारनकुलश्वसूकरवधे नृणाम् ॥
मनुः ।
गोकुमारीदेवपशून् उक्षाणं वृषभं तथा ।
वाहयन् साहसं पूर्वं प्राप्नुयाद् उत्तमं वधे ॥
श्ववृषाधिकारे बृहस्पतिः [२१.२१] ।
श्रान्तान् क्षुधार्तांस् तृषितान् अकाले वाहयेत यः ।
स गोघ्नो निष्कृतिं कार्यो दाप्यो वा प्रथमं दमम् ॥
कात्यायनः [७८९] ।
श्रान्तांस् तृषार्तान् क्षिधितान् अकाले वाहयेन् नरः ।
खरगोमहिषोष्ट्रादीन् प्राप्नुयात् पूर्वसाहसम् ॥
[५०१] मनुः [८.२९०–९२] ।
यानस्य चैव यन्तुश् च यानस्वामिनि एव च ।
दशातिवर्तनान्य् आहुः शेषे दण्डो विधीयते ॥
छिन्ननास्ये भिन्नयुगे तिर्यक्प्रतिमुखागते ।
अक्षभङ्गे च यानस्य चक्रभङ्गे तथैव च ॥
छेदने चैव यन्त्राणां योक्त्ररश्म्योस् तथैव च ।
आक्रन्दे चाप्य् अपैहीति न दण्डं मनुर् अब्रवीत् ॥
“यन्तुः” सारथेः । “अतिवर्तनानि” छिन्ननासादीनि, दण्डम् अतिक्रम्य वर्तत इत्य् व्युत्पत्या ।
याज्ञवल्क्यः [२.२९८] ।
चतुष्पादकृते दोषो नापैहीति प्रभाषतः ।
काष्ठलोष्टेष्टपाषाणबाहुयुग्यकृतस् तथा ॥
काष्ठलोष्टपाषाणबाहुभिर् अभ्यासकारणे यः परोपघाताद् दण्डार्हतालक्षणो दोष आपद्यते ऽसौ प्रथमत एवापैहीति भाषमाणस्य न भवतीत्य् आर्थः ।
[५०२] तथा [२.२९९] ।
छिन्ननास्येन यानेन तथा भग्नयुगादिना ।
पश्चाच् चैवापसरतां हिंसने स्वाम्य् अदोषभाक् ॥
मनुः [८.२९३–९८] ।
यत्रापवर्तते युग्यं वैगुण्यात् प्राजकस्य तु ।
तत्र स्वामी भवेद् दण्ड्यो हिंसायां द्विशतो दमः ॥
प्राजकश् च भवेद् आप्तः प्राजको दण्डम् अर्हति ।
युग्यस्थाः प्राजके ऽनाप्ते सर्वे दण्ड्याः शतं शतम् ॥
स चेत् तु पथि संरुद्धः पशुभिर् वा रथेन वा ।
प्रमापयेत् प्राणभृतस् तस्य दण्डो ऽविचारतः ॥
मनुष्यमारणे क्षिप्रं चौरवत् किल्बिषं भवेत् ।
प्राणभृत्सु महत्स्व् अर्धं गोगजोष्ट्रहयादिषु ॥
क्षुद्रकाणां पशूनां च हिंसायां द्विशतो दमः ।
पञ्चाशत् तु भवेद् दण्डः शुभेषु मृगपक्षिषु ॥
गर्दभाजाविकानां तु दण्डः स्यात् पञ्चमाषकः ।
माषकस् तु भवेद् दण्डः श्वसूकरनिपातने ॥
[५०३] “प्राजकः” प्रेरकः सारथ्यादिः । “आप्तो” अत्र कुशलः । ऽस चेत् तु" इति स च प्राजकः । पथि पश्वादिभिर् अवरुद्धो ऽपि रथप्रेरणेन तान् प्रमापयति तदा तस्याविचारतो दण्ड इत्य् अर्थः ।
कात्यायनः [७९२] ।
प्रमापणे प्राणभृतां प्रतिरूपं तु दापयेत् ।
तस्यानुरूपमूल्यं वा दाप्य इत्य् अब्रवीन् मनुः ॥
मनुः [८.२८५] ।
वनस्पतीनां सर्वेषाम् उपभोगो यथा यथा ।
तथा तथा दमः कार्यो हिंसायाम् इति धारणा ॥
याज्ञवल्क्यः [२.२२७–२९] ।
प्ररोहिशाखिनां शाखास्कन्धपर्वविदारणे ।
उपजीव्यद्रुमाणां तु विंशतेर् द्विगुणा दमाः ॥
चैत्यश्मशानसीमासु पुण्यस्थाने सुरालये ।
जातद्रुमाणां द्विगुणो दमो वृक्षो ऽथ विश्रुते ॥
गुलम्गुच्छक्षुपलताप्रतानौषधिवीरुधाम् ।
पूर्वस्मृताद् अर्धदण्डः स्थानेषूक्तेषु कृन्तने ॥
“प्ररोहिशाखिनाम्ऽ” वटादीनाम् । “स्कन्धः” यतः शाखाः प्रभवन्ति । “उपजीव्यद्रुमाणाम्” आम्रादीनाम् । ऽविंशतेर् द्विगुणा दमाः" शाखाच्छेदने स्कन्धच्छेदने समूलच्छेदने च यथाक्रमं विंशतिपणाद् दण्डाद् आरभ्य पूर्वस्माद् उत्तरोत्तरो द्विगुणो दम इत्य् आर्थः । “गुमाः” मालत्यादयः । “गुच्छाः” अवल्लीरूपाः [५०४] कुरण्टकादयः । “क्षुपाः” करवीरादयः । “लताः” द्राक्षाप्रभृतयः । “प्रतानाः” काण्डप्ररोहरहिताः सरलयायिन्याः सारिवादयः । “ओषधयः” फलपाकावसानाः शाल्यादयः । “वीरुधः” छिन्ना अपि या विविधं प्ररोहन्ति गुडूच्यादयः ।
“दण्ड” इत्य् अनुवृत्तौ विष्णुः [५.६५–५९]- “फलोपगद्रुमच्छेदी तूत्तमसाहसम् । पुष्पोपगमद्रुमच्छेदी मध्यमम् । वल्लीगुल्मलताच्छेदी कार्षापणम् । तृणच्छेद्य् एकम् । सर्वे च तत्स्वामिनां तदुत्पत्तिम्” । दद्युर् इति शेषः ।
वसिष्ठः [१९.११–१३]- “फलपुष्पोपगान् पादपान् न हिंस्यात् । कर्षणकरणार्थं चोपहन्यात् । गार्हस्थ्यांशे च” ।
इति दण्डपारुष्यम् ।
[५०५]