६८ वाक्पारुष्यम्

अथ वाक्पारुष्यम्

तत्र नारदः [१८.१] ।

देशजातिकुलादीनाम् आक्रोशन्यङ्गसंज्ञितम् ।
यद् वचः प्रतिकूलार्थं वाक्पारुष्यं तद् उच्यते ॥

“आक्रोशो” निन्दा । तत्र “देशाक्रोशो” यथा गौडं प्रति “कलहप्रिया गौडाः” इति । “जात्याक्रोशो” यथा विप्रं प्रति “नितान्तलोलुपा विप्राः” इति । “कुलाक्रोशो” यथा “क्रूरचरिता वैश्वामित्राः” इति । “आदि“शब्देन विद्यादेर् उपादानम् । “न्यङ्गसंज्ञितम्” अश्लीलम् ।

कात्यायनः [७६८] ।

हुङ्कारं कासनं चैव लोके यच् च विगर्हितम् ।
अनुकुर्याद् अनुब्रूयाद् वाक्पारुष्यं तद् उच्यते ॥

नारदः [१८.२–३] ।

निष्ठुराश्लिलतीव्रत्वाद् तद् अपि त्रिविधं स्मृतम् ।
गौरवानुक्रमाद् अस्य दण्डो युक्तः क्रमाद् गुरुः ॥

[४७२] > साक्षेपं निष्ठुरं ज्ञेयम् अश्लीलं न्यङ्गसंज्ञितम् ।

पतनीयैर् उपक्रोशैस् तीव्रम् आहुर् मनीषिणः ॥

“गौरवानुक्रमात्” अनुक्रमेण गुरुतरत्वात् ।

कात्यायनः [७७०–७२] ।

यत् त्व् असत्संज्ञैर् अङ्गैः परम् आक्षिपति क्वचित् ।
अभूतैर् वाथ भूतैर् वा निष्ठुरा वाक् स्मृता तु सा ॥
न्यङ्गावगूरणं वाचा क्रोधात् तु कुरुते यदा ।
वृत्तदेशकुलानां च अश्लीला सा बुधैः स्मृता ॥
महापातकयोक्त्री च राजद्वेशकरी च या ।
जातिभ्रंशकरी वाथ तीव्रा सा प्रथिता तु वाक् ॥

“न्यङ्गावगूरणम्” निकृष्टाङ्गप्रकाशेन तिरस्करणम् ।

बृहस्पतिः ।

अप्रियोक्तिस् ताडनं च पारुष्यं द्विविधं स्मृतम् ।
एकैकं तु त्रिधा भिन्नं दमश् चोक्तस् त्रिअलक्षणम् ॥
देशग्रामकुलादीनां क्षेपः पापे नियोजनम् ।
द्रव्यं विना तु प्रथमं वाक्पारुष्यं तद् उच्यते ॥

[४७३] > भगिनीमातृसंबन्धम् उपपातकशंसनम् ।

पारुष्यं मध्यमं प्रोक्तं वाचिकं शास्त्रवेदिभिः ॥
अभक्ष्यापेयकथनं महापातकदूषणम् ।
पारुष्यम् उत्तमं प्रोक्तं तीव्रं मर्माभिघट्टनम् ॥

“द्रव्यं विना” इत्य् अत्र द्रव्यशब्दो ऽभिधेयपरः । तेनोच्यमानार्थव्यतिरेकेणैवंविधम् अभिधानं वाक्पारुष्यम् इत्य् अर्थः ।

कात्यायनः [७७३–७४] ।

यो ऽगुणान् कीर्तयेत् क्रोधान् निर्गुणे वा गुणज्ञताम् ।
अन्यसंज्ञानुयोगी च वाग्दुष्टं तं नरं विदुः ॥
दुष्टस्यैव हि यान् दोषान् कीर्तयेत् क्रोधकारणात् ।
अन्यापदेशवादी च वाग्दुष्टं तं नरं विदुः ॥

[४७४] बृहस्पतिः [२०.८] ।

समानयोः समो दण्डो न्यूनस्य द्विगुणस् तु सः ।
उत्तमस्यार्धिकाः प्रोक्तो वाक्पारुष्ये परस्परम् ॥

याज्ञवल्क्यः [२.२०६–०७] ।

अर्धो ऽधमेषु द्विगुणः परस्त्रीषूत्तमेषु च ।
दण्डप्रणयनं कार्यं वर्णजात्युत्तराधरैः ॥
प्रतिलोमापवादेषु द्विगुणत्रिगुणा दमाः ।
वर्णानाम् आनुलोम्येन तस्माद् अर्धार्धहानितः ॥

“अर्धो” पञ्चविंशतेः । ऽपञ्चविंशतिको दमः” इति पूर्वम् उक्तत्वात् । “अधमेषु” आक्षेप्त्रपेक्षया निकृष्टगुणादिषु आक्षिप्तेष्व् आक्षेप्तुर् उत्तमाद् अर्धदण्डो राज्ञा ग्राह्य इत्य् अर्थः । एवम् उत्तरत्रापि । “वर्णाः” क्षत्रविप्रादयः । “जातयो” ऽत्र मूर्धावसिक्तम्लेच्छादयः ।

[४७५] कात्यायन-उशनसौ [७७५] ।

मोहात् प्रमादात् संहर्षात् प्रीत्या चोक्तं मयेति यः ।
नाहम् एवं पुनर् वक्ष्ये दण्डार्धं तस्य कल्पयेत् ॥

याज्ञवल्क्यः [२.२०४] ।

सत्यासतान्यथास्तोत्रैर् न्यूनाङ्गेन्द्रियरोगिणाम् ।
क्षेपं करोति चेद् दण्ड्यः पणान् अर्धत्रयोदश ॥

बृहस्पतिः [२०.५] ।

समजातिगुणानां च वाक्पारुष्यो परस्परम् ।
विनयो ऽभिहितः शास्त्रे पणान् अर्धत्रयोदश ॥

विष्णुः [५.३५–३६]- “समवराक्रोशने द्वादशपणान् दण्ड्यः । हीनवर्णाक्रोशने षट्” ।

मनु-नारदौ [म। ८.२७४; ना। १८.१८] ।

काणं वाप्य् अथ वा खञ्जम् अन्यं वापि तथाविधम् ।
तथ्येनापि ब्रुवन् दाप्यो दण्डं कार्षपणावरम् ॥

विष्णु [५.२७]- “दण्ड्यः काणखञ्जादीनां तथावाद्य् अपि कार्षापणद्वयम्” ।

[४७६] शङ्खलिखितौ- “यथाकालम् उत्तमवर्णाक्षेपे तत्प्रमादो दण्ड्यस् त्रयो वा कार्षपणाः । शुक्तवाक्याभिधाने ऽप्य् एवम् एव” ।

तथा- “सवर्णव्यतिक्रमे द्वादश् कार्षपणाः । यथारूपविशिष्टाक्षेपे ऽविशिष्टस्य चतुर्विंशति । अविशिष्टस्यातिक्रमे विशिष्टस्य ततो ऽर्धम्” ।

मनु-नारदौ [म। ८.२६९; ना। १८.१७] ।

सवर्णे हि द्विजातीनां द्वादशैव व्यतिक्रमे ।
वादेष्व् अवचनीयेषु तद् एव द्विगुणं भवेत् ॥

याज्ञवल्क्यः [२.२०५, २०८–०९] ।

अभिगन्तास्मि भगिनीं मातरं च तवेति ह ।
शपन्तं दापयेद् राजा पञ्चविंशतिकं दमम् ॥

[४७७] > बाहुग्रीवानेत्रसक्थिविनाशे वाचिके दमः ।

शत्यस् ततो ऽर्धिकः पादनासाकर्णकरादिषु ॥
अशक्तस् तु वदन्न् एवं दण्डनीयः पणान् दश ।
तथा शक्तः प्रतिभुवं दाप्यः क्षेमाय तस्य तु ॥

“वाचिके विनाशे” बाहुं छेत्स्यामीत्यादिरूपतः । “शत्यः” शतपरिमितो दण्डः । “पादनासाकर्णकरादिषु विनाशे वाचिके” इत्य् अनुषङ्गः । “अशक्तः” विनाशकरणासमर्थः । “प्रतिभुवं दाप्यः” शतं दण्डयित्वा अशक्तस्य क्षेमार्थं लग्नकं दापयितव्य इत्य् अर्थः ।

“दण्ड्य” इत्य् अनुवृत्तौ विष्णुः [५.३३]- “व्यङ्गतायुक्ते क्षेपे कार्षापणशतम्” ।

मनुः [८.२७५] ।

मातरं पितरं जायां भ्रातरं तनयं गुरुम् ।
आक्षारयन् शतं दाप्यः पन्थानं वाददद् गुरोः ॥

“आक्षारयन्” तिरस्कुर्वाणः ।

“क्रोशत” इत्य् अनुवृत्तौ शङ्खलिखितौ- “तथाधिकृतान् विप्रान् गुरूंश् च निर्भर्त्सनं मुण्डनं ताडनम्, गोमयानुलेपनं खरारोहणं दर्पहरो दण्डो वा” ।

[४७८] “दण्ड्य” इत्य् अनुवृत्तौ विष्णुः [५.२८]- “गुरून् आक्षारयन् कार्षापणशतम्” ।

बृहस्पतिः [२०.९] ।

क्षिपन् स्वस्रादिकं दद्यात् पञ्चाशत् पणिकं दमम् ।

मनु-नारदौ [म। ८.२६७; ना। १८.१५] ।

शतं ब्राह्मणम् आक्रुश्य क्षत्रियो दण्डम् अर्हति ।
वैश्यो ऽध्यर्धशतं द्वे वा शूद्रस् तु वधम् अर्हति ॥

“दण्ड” इति शेषे हारीतः- “अधोवर्णानाम् उत्तमवर्णाक्रोशाक्षेपाभिभवे ह्य् अष्टौ पुराणाः” ।

शङ्खलिखितौ- “आक्रोशे ब्राह्मणस्य क्षत्रियः शतं दण्ड्यः । शतार्धं वैश्यस्य । पञ्चविंश्तिं शूद्रस्य” ।

मनु-नारदौ [म। ८.२६८] ।

विप्रः पञ्चाशतं दण्ड्यः क्षत्रियस्याभिशंसने ।
वैश्यस्य वार्धपञ्चाशत् शूद्रे द्वादशको दमः ॥

[४७९] बृहस्पतिः [२०.१२–१६] ।

विप्रे शतार्धं दण्डस् तु क्षत्रियस्याभिशंसने ।
विशस् तथार्धपञ्चाशत् शूद्रस्यार्धत्रयोदश ॥
सच्छूद्रस्यायम् उदितो विनयो ऽनपराधिनः ।
गुणहीनस्य पारुष्ये ब्राह्मणो नापराध्नुयात् ॥
वैश्यस् तु क्षत्रियाक्रोशे दण्डनीयः शतं भवेत् ।
तदर्धं क्षत्रियो। वैश्यं क्षिपन् विनयम् अर्हति ॥
शूद्राक्रोशे क्षत्रियस्य पञ्चविंशतिको दमः ।
वैश्यस्य चैतद् द्विगुणं शास्त्रविद्भिर् उदाहृतम् ॥
वैश्यम् आक्षारयन् शूद्रो दाप्यः स्यात् प्रथमं दमम् ।
क्षत्रियं मध्यमं चैव विप्रम् उत्तमसाहसम् ॥

विष्णुः [५.३४]- “मातृयुक्त तूत्तमसाहसम्” ।

“मातृयुक्ते” आक्रोशे “उत्तमसाहसम्” दण्डनीय इत्य् अर्थः ।

“शूद्रस्य” इत्य् अनुवृत्तौ, बृहस्पतिः ।

धर्मोपदेशकर्ता च वेदोदाहरणान्वितः ।
आक्रोशकस् तु विप्राणां जिह्वाच्छेदेन दण्ड्यते ॥

[४८०] गौतमः [१२.१]- “शूद्रो द्विजातीन् अभिसन्धायाभिहत्य च वाग्दण्डपारुष्याभ्याम् अङ्गं मोच्यो येनोपहन्यात्” ।

“अभिसन्धाय” बुद्धिपूर्वं वाचातिक्रम्य । “अभिहत्य” ताडयित्वा बुद्धिपूर्वम् उग्रेण दण्डेन ताडयित्वा । “अङ्गं मोच्यो” तेनाङ्गेन वियोजनीयः ।

आपस्तम्बः [२.२७.१४]- “जिह्वाच्छेदनं शूद्रस्य आर्यं धार्मिकम् आक्रोशतः” ।

पुराणाधिकारे ऽअधमवर्णानाम् उत्तमवर्णस्य” इत्य् अनुवर्तमाने, हारीतः- “अनृताभिशंसने तदङ्गच्छेदः पञ्चशतं वा । आद्येषु पादो न वा । स्वामित्वाद् आदिवर्णत्वाच् चोत्तमानाम्” ।

“आद्येषु” ब्राह्मणादिवर्णेषु । “पादो” अष्टौ पुराणाः पूर्वम् उक्तास् तेषां चतुर्थो भागः । “न वा” पादो दण्ड इत्य् अन्वयः ।

मनु-नारदौ [म। ८.२७०–७२; ना। १८.२२–२४] ।

एकजातिर् द्विजातींस् तु वाचा दारुणया क्षिपन् ।
जिह्वायाः प्राप्नुयाच् छेदं जघन्यप्रभवो हि सः ॥

[४८१] > नामजातिग्रहं त्व् एषाम् अभिद्रोहेण कुर्वतः ।

निखेयो ऽयोमयः शङ्कुर् ज्वलन्न् आस्ये दशाङ्गुलः ॥
धर्मोपदेशं दर्पेण द्विजानाम् अस्य कुर्वतः ।
तप्तम् आसेचयेत् तैलं वक्त्रे श्रोत्रे च पार्थिवः ॥

“शूद्र” इत्य् अनुवृत्तौ, गौतमः [१२.४]- “अथ [हा]स्य वेदम् उपशृण्वतस् त्रपुजतुभ्यां श्रोत्रपूरणम् उदाहरणे जिह्वाच्छेदो धारणे शरीरभेदः” ।

मनुः [८.२७३] ।

श्रुतं देशं च जातिं च कर्म शारीरम् एव च ।
वितथेन ब्रुवन् दर्पाद् दाप्यः स्याद् द्विशतं दमम् ॥

विष्णुः [५.२६]- “श्रुतदेशजातिकर्मनाम् अन्यथावादी कार्षापणशतद्वयं दण्ड्यः” ।

नारदः [१८.१९] ।

न किल्बिषेणापवदेच् छास्त्रतः कृतपावनम् ।
न राज्ञो धृतदण्डं च दण्डभाक् तद्व्यतिक्रमात् ॥

[४८२] याज्ञवल्क्यः [२.२१०] ।

पतनीयकृते क्षेपे दण्डो मध्यमसाहसः ।
उपपातकयुक्ते तु। दाप्यः प्रथमसाहसम् ॥

मनुः [८.२७६–७७] ।

ब्राह्मणक्षत्रियाभ्यां तु दण्डः कार्यो विजानता ।
ब्राह्मणे साहसः पूर्वः क्षत्रिये त्व् एव मध्यमः ॥
विट्शूद्रयोस् त्व् एवम् एव स्वजातिं प्रति तत्वतः ।
छेदवर्जप्रणयनं दण्डस्येति विनिश्चयः ॥

व्यासः ।

पापोपपापवक्तारो महापातकशंसकः ।
आद्यमध्योत्तमान् दण्डान् दण्ड्यास् ते ते यथाक्रमम् ॥

विष्णुः [५.२९–३२]- “परस्य पतनीये क्षेपे कृते तूत्तमसाहसम् । उपपातकयुक्ते मध्ययम् । त्रैविद्यवृद्धानां क्षेपे जातिपूगानां च । ग्रामदेशयोः प्रथमम्” ।

[४८३] याज्ञवल्क्यः [२.२११] ।

त्रैविद्यनृपदेवानां क्षेप उत्तमसाहसः ।
मध्यमो जातिपूगानां प्रथमो ग्रामदेशयोः ॥

बृहस्पतिः [१०.१७, १९] ।

देशादिकं क्षिपन् दाप्यः पणान् अर्धत्रयोदश ।
पापेन योजयन् दर्पाद् दाप्यः प्रथमसाहसम् ॥
एष दण्डः समाख्यातः पुरुषापेक्षया मया ।
समन्यूनाधिकत्वेन कल्पनीयो मनीषिभिः ॥

नारदः [१८.३०] ।

अवक्रुश्य च राजानं वर्त्मनि स्वे व्यवस्थितम् ।
जिह्वाच्छेदाद् भवेच् छुद्धिः सर्वस्वहरणेन वा ॥

याज्ञवल्क्यः [२.३०२] ।

राज्ञो ऽनिष्टप्रवक्तारं तस्यैवाक्रोशकं तथा ।
तन्मन्त्रस्य च भेत्तारं छित्वा जिह्वां प्रवासयेत् ॥

नारदः [१८.२०] ।

लोके ऽस्मिन् द्वाव् अवक्तव्याव् अवध्यौ च प्रकीर्तितौ ।
ब्राह्मणश् चैव राजा च तौ हीदं बिभ्रतो जगत् ॥

[४८४]

पतितं पतितेत्य् उक्त्वा चौरं चौरेति वा पुनः ।
वचनात् तुल्यदोषः स्यान् मिथ्या द्विर्दोषतां व्रजेत् ॥

कात्यायनः [७७६–७७८] ।

यत्र स्यात् परिहारार्थं पतितस् तेन कीर्तितः ।
वचनात् तत्र न स्यात् तु दोषो यत्र विभावयेत् ॥
अन्यथा तुल्यदोषः स्यान् मिथ्योक्तौ तूत्तमो दमः ।
महता तु प्रयत्नेन वाग्दुष्टं साधयेन् नरम् ॥
अतथ्यं श्रावितं राजा प्रयत्नेन विचारयेत् ।
अनृताख्यानशीलानां जिह्वाच्छेदाद् विशोधनम् ॥

हारीतः- “मिथ्यादूषिणां मेलकानां राजा जिह्वां छिन्द्यात् । दण्डयेद् वा सहस्रम् । कणान् भक्षयेद् अब्दम्” ।

“मेलको” भक्षकः ।

उशना ।

यत्र नोक्तो दमः पूर्वैर् आनन्त्यात् तु महात्मभिः ।
तत्र कार्यं परिज्ञाय कर्तव्यं दण्डधारणम् ॥

कल्पतरौ व्यवहारकाण्डे वाक्पारुष्यम्

[४८५]