६७ सीमाविवादः

अथ सीमाविवादः

तत्र बृहस्पतिः [१९.१] ।

क्रयविक्रयानुशये विधिर् एष उदाहृतः ।
ग्रामक्षेत्रगृहादीनां सीमावादं विबोधत ॥

नारदः [१४.१] ।

सेतुकेदारमर्यादाविकृष्टाकृष्टनिश्चये ।
क्षेत्राधिकारो यत्र स्याद् विवादः क्षेत्रजस् तु सः ॥

अस्यार्थः — सेतुकेदारादिमर्यादादूरत्वसंनिहितत्वनिश्चये कर्तव्ये क्षेत्रविषयो विवादो ऽसौ “क्षेत्रज” उच्यत इति ।

कात्यायनः [७३२] ।

आधिक्यं न्यूनता ह्य् अंशे अस्तिनास्तित्वम् एव च ।
अभोगभुक्तिः सीमा च षड् विवादस्य हेतवः ॥

[४३९] “अभोगभुक्तिः” प्राग् अविद्यमानस्य क्षेत्रादेर् भुक्तिः ।

मनुः [८.२४५] ।

सीमां प्रति समुत्पन्ने विवादे ग्रामयोर् द्वयोः ।
ज्येष्ठे मासि नयेद् एनां संप्रकाशेषु सेतुषु ॥

बृहस्पतिः [१९.२] ।

निवेशकाले कर्तव्यः सीमाविधिविनिश्चयः ।
प्रकाशोपांशुचिह्नैश् च लक्षितः संशयापहः ॥

मनुः [८.२४६–४८] ।

सीमावृक्षांश् च कुर्वीरन् न्यग्रोधाश्वत्थकिंशुकान् ।
शाल्मलीसालतालांश् च क्षीरिणश् चैव पादपान् ॥

[४४०] > गुल्मान् वेणूंश् च विविधान् शमीवल्लीस्थलानि च ।

शरान् कुब्जकगुल्मांश् च तथा सीमा न नश्यति ॥
तडागान्य् उदपानानि सरित्प्रसवणानि च ।
सीमासन्धिषु कार्याणि देवतायतनानि च ॥

बृहस्पतिः [१९.८–९] ।

वापीकूपतडाकानि चैत्यारामसुरालयाः ।
स्थलनिम्ननदीस्त्रोतःशरगुल्माश्मराशयः ॥
प्रकाशचिह्नान्य् एतानि सीमायां कारयेत् सदा ।
निहितानि तथान्यानि यानि भूमिर् न भक्षयेत् ॥

मनुः [८.२४९–५१] ।

उपच्छन्नानि चान्यानि सीमालिङ्गानि कारयेत् ।
सीमाज्ञाने नृणां वीक्ष्य लोके नित्यविपर्ययम् ॥
अश्मनो ऽस्थीनि गोवालांस् तथा भस्मकपालिकाः ।
करीषम् इष्टकाङ्गारांश् छर्करा वालुकाश् च ह ॥

[४४१] > यानि चैवंप्रकाराणि कालाद् भूमिर् न भक्षयेत् ।

तानि सन्धिषु सीमायाम् अप्रकाशानि कारयेत् ॥

बृहस्पतिः [१९.२०–२१] ।

करीषास्थितुषाङ्गारशर्कराश्मकपालिकाः ।
सिकतेष्टकगोवालकार्पासास्थीनि भस्म च ॥
प्रक्षिप्य कुम्भेष्व् एतानि सीमान्तेषु निधापयेत् ।
ततः पौगण्डबालानां प्रयत्नेन प्रदर्शये त्॥
वार्धक्ये च शिशूनां तु दर्शयेयुस् तथैव च ।
एवं परम्पराज्ञाने सीमाभ्रान्तिर् न जायते ॥

मनुः [८.२५२] ।

एतैर् लिङ्गैर् नयेत् सीमां राजा विवदतां नृणाम् ।
पूर्वभुक्त्या च सततम् उदकस्यागमेन च ॥

ऽसमुन्नयेयुः सीमानम्" इत्य् अनुवृत्तौ नारदः [१४.६] ।

निम्नगापहृतोत्सृष्टनष्टचिह्नासु भूमिषु ।
तत्प्रदेशानुमानैश् च प्रमाणैर् लिङ्गदर्शनैः ॥

[४४२] मनुः [८.२५३] ।

यदि संशय एव स्याल् लिङ्गानाम् अपि दर्शने ।
साक्षिप्रत्यय एव स्याद् विवादे सीमनिश्चयः ॥

कात्यायनः [७३३] ।

तस्मिन् भोगः प्रयोक्तव्यः स च साक्षिषु तिष्ठति ।
लेख्यारूढश् चेतरश् च साक्षी मार्गद्वयान्वितः ॥

मनुः [८.२५४–५५, २५८] ।

ग्रामेयककुलानां च समक्षं सीमसाक्षिणः ।
प्रष्टव्याः सीमलिङ्गानि तयोश् चैव विवादिनोः ॥
ते पृष्टास् तु यथा ब्रूयुः समस्ताः सीम्नि निश्चयम् ।
तथा तं च निबध्नीयात् समस्तांश् चैव नामतः ॥
साक्ष्यभावे तु चत्वारो ग्रामाः सीमन्तवासिनः ।
सीमाविनिर्णयं कुर्युः प्रयता राजसंनिधौ ॥

“ग्रामेयकः” ग्राम्यः ।

याज्ञवल्क्यः [२.१५२] ।

सामान्ता वा समग्रामाश् चत्वारो ऽष्टौ दशापि च ।
रक्तस्रग्वसनाः सीमां नयेयुः क्षितिधारिणः ॥

[४४३] कात्यायनः ।

तेषाम् अभावे सामन्ता मौलवृद्धोद्धृतादयः ।
स्थावरे षट्प्रकारे ऽपि कार्या नात्र विचारणा ॥
क्षेत्रवास्तुतडागेषु कूपोपवनसेतुषु ।
द्वयोर् विवादे सामन्तैः प्रययः सर्ववस्तुषु ॥
सामन्तभावात् सामन्तैः कुर्यात् क्षेत्रविनिर्णयम् ।
ग्रामसीमासु च तथा तद्वन् नगरदेशयोः ॥
स्वार्थसिद्धौ प्रदुष्टेषु सामन्तेष्व् अर्थगौरवात् ।
तत्संसक्तैस् तु कर्तव्य उद्धारो नात्र संशयः ॥
संसक्तसक्तदुष्टेषु तत्संसक्ताः प्रकीर्तिताः ।
कर्तव्या न प्रदुष्टास् तु राज्ञा धर्मं विजानता ॥
त्यक्त्वा दुष्टांस् तु सामन्तान् अन्यान् मौलादिभिः सह ।
संमिश्र्य कारयेत् सीमाम् एवं धर्मविदो विदुः ॥
सामन्ताः साधनं पूर्वम् अनिष्टोक्तौ गुणान्विताः ।
द्विगुणास् तूत्तरा ज्ञेयास् ततो ऽन्ये त्रिगुणा मताः ॥

“तत्संसक्ताः” सामन्तप्रत्यासन्नाः ।

[४४४] शङ्खलिखितौ- “गृहक्षेत्रयोर् विरोधे सामन्तप्रत्ययः । सामन्तविरोधे [अभिलेख्यप्रत्ययः । अभि]लेख्य विरोधे ग्रामनगरवृद्धश्रेणिप्रत्ययः । ग्रामनगरवृद्धश्रेणिविरोधे दशवर्षानुभुक्तम् अन्यत्र राजविप्रस्वात्” ।

नारदः [१४.२,३] ।

क्षेत्रसीमाविरोधे तु सामन्तेभ्यो विनिश्चयः ।
नगरग्रामगणिनो ये च वृद्धतमा नराः ॥
ग्रामसीमासु च बहिर् ये स्युस् तत्कृषिजीविनः ।
गोपाः शाकुनिका व्याधा ये चान्ये वनगोचराः ॥

मनुः [८.२५९–६०] ।

सामन्तानाम् अभावे तु मौलानां सीमसाक्षिणाम् ।
इमान् अप्य् अनुयुञ्जीत पुरुषान् वनगोचरान् ॥
व्याधांश् छाकुनिकान् गोपान् कैवर्तान् मूलखानकान् ।
व्यालग्राहान् उञ्छवृत्तीन् अन्यांश् च वनगोचरान् ॥

नारदः [१४.४–५] ।

समुन्नयेयुः सीमानं लक्षणैर् उपलिक्षिताम् ।
तुषाङ्गारकपालास्थिकूपैर् आयतनैर् द्रुमैः ॥

[४४५] > अभिज्ञानैश् च वल्मीकैः स्थलनिम्नोन्नतादिभिः ।

केदाराराममार्गैश् च पुराणैः सेतुभिस् तथा ॥

मनुः [८.२६१] ।

ते पृष्टास् तु यथा ब्रूयुः सीमासन्धिषु लक्षणम् ।
तत् तथा स्थापयेद् राजा धर्मेण ग्रामयोर् द्वयोः ॥

बृहस्पतिः [१९.३१] ।

शपथैः शापिताः स्वैः स्वैर् ब्रूयुः सीम्नि विनिश्चयम् ।
दर्शयेयुर् निधानानि तत्प्रमाणम् इति स्थितिः ॥

मनुः [८.२५६] ।

शिरोभिस् ते गृहीत्वोर्वीं स्रग्विणो रक्तवाससः ।
सुकृतैः शापिताः स्वैः स्वैर् नयेयुस् ते समञ्जसम् ॥

नारदः [१४.९–१०] ।

नैकः समुन्नयेत् सीमां नरः प्रत्ययवान् अपि ।
गुरुत्वाद् अस्य कार्यस्य क्रियैषा बहुषु स्थिता ॥
एकश् चेद् उन्नयेत् सीमां सोपवासः समुन्नयेत् ।
रक्तमाल्याम्बरधरः क्षितिम् आरोप्य मूर्धनि ॥

बृहस्पतिः ।

ज्ञातृचिह्नविनाशे ऽपि एको ऽप्य् उभयसंमतः ।
रक्तमाल्याम्बरधरो मृदम् आदाय मूर्धनि ॥

[४४६] > सत्यव्रतः सोपवासः सीमां संदर्शयेन् नरः ।

मनुः [८.२५७, २६३] ।

यथोक्तेन नयन्तस् ते पूयन्ते सत्यसाक्षिणः ।
विपरीतं नयन्तस् तु दाप्याः स्युर् द्विशतं दमम् ॥
सामन्ताश् चेन् मृषा ब्रूयुः सेतौ विवदतां नृणाम् ।
सर्वे ते च पृथग् दण्ड्या राज्ञा मध्यमसाहसम् ॥

“सेतौ” सीमायाम् ।

कत्यायनः [७५०, ७४१] ।

बहूनां तु गृहीतानां न सर्वे निर्णयं यदि ।
कुर्युर् भयाद् वा लोभाद् वा दाप्यास् तूत्तमसाहसम् ॥
नाज्ञानेन हि मुच्यन्ते सामन्ता निर्णयं प्रति ।
अज्ञानोक्तौ दण्डयित्वा पुनः सीमां विचारयेत् ॥
कीर्तिते यदि भेदः स्याद् दण्ड्यास् तूत्तमसाहसम् ॥

नारदः ।

शेषाश् चेद् अनृतं ब्रूयुर् नियुक्ता भूमिकर्मणि ।
जघन्यास् ते ऽपि प्रत्येकं विनेयाः पूर्वसाहसम् ॥

[४४७] > गणवृद्धादयस् त्व् अन्ये दण्डं दद्युः पृथक् पृथक् ।

विनेयाः प्रथमेनैव साहसेनानृते स्थिताः ॥

कात्यायनः [७३८, ७३६, ७४३] ।

संसक्तकास् तु सामान्तास् तत्संसक्तास् तथोत्तराः ।
संसक्तसक्तसक्तान्ताः पद्माकाराः प्रकीर्तिताः ॥
ग्रामो ग्रामस्य सामन्तः क्षेत्रं क्षेत्रस्य कीर्तितम् ।
गृहं गृहस्य निर्दिष्टं समन्तात् परिरभ्य च ॥
ये तत्र पूर्वसामन्ताः पश्चाद् देशान्तरं गताः ।
तन्मूलत्वात् तु मौलास् ते ऋषिभिः संप्रकीर्तिताः ॥

ऽग्रामो ग्रामस्य सामन्तः" इति । ग्रामजनो ग्रामजनस्य विवादे सामन्तो न पुनस् तद्ग्रामीण एव तत्र सामन्त इत्य् अर्थः । एवं क्षेत्रम् इत्याद्य् अपि । क्षेत्रगृहशब्दाभ्यां तत्स्वामिनौ लक्ष्येते ।

बृहस्पतिः [१९.३८–३९] ।

तदुतप्न्नाश् च सामन्ता ये ऽन्ये देशान्तरस्थिताः ।
मौलास् ते तु समादिष्टाः प्रष्टव्याः कार्यनिर्णये ॥
अदुष्टास् ते तु यद् ब्रूयुः संदिग्धौ अमवृत्तयः ।
तत्प्रमाणं तु कर्तव्यम् एवं धर्मो न हीयते ॥

[४४८] कात्यायनः [७४४–४५] ।

निष्पाद्यमानं यैर् दृष्टं तत् कार्यं नृगुणान्वितैः ।
वृद्धा वा यदि वावृद्धास् ते वृद्धाः परिकीर्तिताः ॥
उपशवणसंभोगकार्याख्यानोपचिह्निताः ।
उद्धरन्ति ततो यस्माद् उद्धृतास् ते ततः स्मृताः ॥

“उपश्रवणम्” परम्पराप्रसिद्धिः । “संभोगो” भुक्तिः । “कार्याख्यानं” तत्फलकरग्रहणवार्ता ।

नारदः ।

ध्वजिनी सन्धिनी चैव नैधानी भयवर्जिता ।
राजशासननीता च सीमा पञ्चविधा स्मृता ॥

व्यासः ।

निम्नोन्नता च ध्वजिनी नैधानी राजकारिता ।
स्थिरा पञ्चविधा सीमा मत्स्यिनी तु छला स्मृता ॥

[४४९] > ग्रामयोर् उभयोर् यत्र गर्तः सीमाप्रवर्तकः ।

निम्नोपलक्षिता सा तु शास्त्रविद्भिर् उदाहृता ॥
शरकुञ्जकवल्मीका यत्र देवगृहाणि च ।
अश्मकूटाश् च दृश्यन्ते ज्ञेया सा तु समुन्नता ॥
ग्रामयोर् उभयोः सीम्नि वृक्षा यत्र समुन्नताः ।
समुच्छ्रिता ध्वजाकारा द्वजिनी सा प्रकीर्तिता ॥
इष्तकाङ्गारसिकताः शर्करास्थिकपालिकाः ।
निहिता यत्र दृश्यन्ते नैधानी सा प्रकीर्तिता ॥
साक्ष्यभावे द्वयोर् यत्र प्रभुणा परिकल्पिता ।
सामन्तानुमता सीमा ज्ञेया सा राजकारिता ॥

कात्यायनः [७४७] ।

भयवर्जितभूपेन सर्वाभावे स्वयंक्र्ता ।

नारदः [१४.११] ।

यदा तु न स्युर् ज्ञातारः सीमाया न च लक्षणम् ।
तदा राजा द्वयोः सीमाम् उन्नयेद् इष्टतः स्वयम् ॥

व्यासः ।

स्वच्छन्दगा बहुजला झषकूर्मैः समन्विता ।
नित्यप्रवाहिनी यत्र सीमा सा मत्स्यिनी मता ॥

[४५०] मनुः [८.२६५] ।

सीमायाम् अविषह्यायां स्वयं राजैव धर्मवित् ।
प्रदिशेद् भूमिम् एतेषाम् उपकाराद् इति स्थितिः ॥

बृहस्पतिः, व्यासश् च [प्रथमे बृह्। १९.४०] ।

अन्यग्रामात् समाश्रित्य दत्तान्यस्य यदा मही । १
महानद्याथ वा राज्ञा कथं तत्र विचारणा ॥ २
नद्योत्सृष्टा राजदत्ता यस्य तस्यैव सा मही । ३
अन्यथा न भवेल् लाभो नराणां राजदैविकः ॥ ४
क्षयोदयौ जीवनं च दैवराजवशान् नृणाम् । ५
तस्मात् सर्वेषु कार्येषु तत् कृतं न विचालयेत् ॥ ६

[४५१]

ग्रामयोर् उभयोर् यत्र मर्यादा कल्पिता नदी । ७
क्षयोदयेन चाल्पा सा चालयन् दण्डम् अर्हति ॥ ८
कुरुते दानहरणं भाग्याभाग्यवशान् नृणाम् । ९
एकत्र कूलपातं तु भूमेर् अन्यत्र संस्थितम् ॥ १०
नदी तीरे प्रकुरुते तस्य तां न विचालयेत् । ११
क्षेत्रं ससस्यम् उल्लङ्घ्य भूमिश् छिन्ना यदा भवेत् ॥ १२
नदीस्रोतःप्रवाहेण पूर्वस्वामी लभेत ताम् ॥ १३
या राज्ञा क्रोधलोभेन छलन्यायेन वा हृता । १४
प्रदत्तान्यस्य तुष्टेन न सा सिद्धिम् अवाप्नुयात् ॥ १५
प्रमाणरहितां भूमिं भुञ्जानो यस्य या हृता । १६
गुणाधिकाय वा दत्ता तस्य तां न विचालयेत् ॥ १७

[४५२]

६७ (क) — अथतिदेशाः

तत्र कात्यायनः ।

दशग्रामशतग्रामसहस्रग्रामलक्षणात् ।
विषयान् नृपतिः कुर्याच् चिह्नैः सीमाविनिश्चितान् ॥

याज्ञवल्क्यः [२.१५४] ।

आरामायतनग्रामनिपानोद्यानवेश्मसु ।
एष एव विधिर् ज्ञेयो वर्षाम्बुप्रवहादिषु ॥

अयम् एव सामन्तसाक्ष्यादिलक्षणो विधिर् ज्ञातव्यः ।

मनुः [८.२६२] ।

क्षेत्रकूपतडागानाम् आरामस्य गृहस्य च ।
सामन्तप्रत्ययो ज्ञेयः सीमासन्धिविनिर्णयः ॥

कात्यायनः [७४९] ।

क्षेत्रकूपतडागानां केदारारामयोर् अपि ।
गृहप्रासादावसथेष्व् एवं देवगृहेषु च ॥

बृहस्पतिः [१९.४५–४६] ।

निवेशकालाद् आरभ्य गृहवार्यापणादिकम् ।
येन यावद् यथा भुक्तं तस्य तन् नैव चालयेत् ॥

[४५३] > वातायनं प्रणालीश् च तथा निर्यूहवेदिकाः ।

चतुःशालं स्यन्दनिकाः प्राङ्निविष्टा न चालयेत् ॥

“निर्यूहो” द्वारनिर्गतः काष्ठविसेषः । “वेदिका” प्रतोल्यादिदेशे संस्कृतोन्नता भूमिः । “चतुःशालं” चतुर्द्वारगृहम् । “स्यन्दनिका” पटलप्रान्तः ।

कात्यायनः [७५२–५३] ।

मेखलाभ्रमनिष्कासगवाक्षान् नोपरोधयेत् ।
प्रणालीं गृहवास्तुं च पीडयन् दण्डभाग् भवेत् ॥
निवेशसमयाद् ऊर्ध्वं नैते योज्याः कदाचन ।
दृष्टिपातं प्रणालीं च न कुर्यात् परवेश्वसु ॥

“मेखला” कुड्यमूलबन्धः । “भ्रमः” जलनिर्गमः । “निष्कासः” हर्म्यादिभित्तिषु निर्गतं काष्ठादिनिर्मितम् अस्पृष्टभूमिकम् उपवेशस्थानम् । “नोपरोधयेत्” न निरुन्ध्यात् । “गृहवास्तु” वासभूमिः । “दृष्टिपातो” गवाक्षः ।

बृहस्पतिः [१९.४९] ।

वर्चःस्थानं वह्निचयं गर्तोच्छिष्टाम्बुसेचनम् ।
अत्यारात् परकुड्यस्य न कर्तव्यं कदाचन ॥

“अत्यारात्” अतिसमीमे ।

[४५४] कात्यायनः [७५४] ।

विण्मूत्रोदकचक्रं च वहिनिश्वभ्रनिवेशनम् ।
अरत्निद्वयम् उत्सृज्य परकुड्यान् निवेशयेत् ॥

बृहस्पतिः [१९.५१] ।

यान्त्य् आयान्ति जना येन पशवश् चानिवारिताः ।
तद् उच्यते संसरणं न रोद्धव्यं तु केनचित् ॥

नारदः [१४.१५] ।

अवस्करस्थलश्वभ्रभ्रमस्यन्दनिकादिभिः ।
चतुष्पथसुरस्थानरथ्यामार्गान् न रोधयेत् ॥

“रथ्या” चत्वरः ।

शङ्खलिखितौ- “मार्गक्षेत्रे पथि विसर्गो, राजमार्गे रथपरिवर्थनम्, पूर्वमर्यादास्थापनम्, तोरणगृहरथ्यान्तरेषु त्रिपदम्, देवराजायतनेषु यथेष्टम्” ।

“मार्गक्षेत्रे” मार्गे यत् क्षेत्रं तत्र । “पथि विसर्गो” वर्त्म नावरोद्धव्यम् इत्य् अर्थः । “राजमार्गे रथपरिवर्तनम्” यावता देशेन रथः परिवर्तने तावान् देशो राजमार्गे त्यक्तव्य इत्य् अर्थः । “तोरणगृहरथ्यान्तरेषु त्रिपदम्” तोरणगृहरथ्यासमीपे पदत्रयपरिमितं देशं परित्यजेद् इत्य् अर्थः ।

[४५५] कात्यायनः [६५५–५७] ।

सर्वे जनाः सदा येन प्रयान्ति स चतुष्पथः ।
अनिषिद्धा यथाकालं राजमार्गः स उच्यते ॥
न तत्र रोपयेत् किंचिन् नोपहन्यात् तु केनचित् ।
गुर्वाचार्यनृपादीनां मार्गादानात् तु दण्डभाक् ॥
यस् तत्र सङ्करश्वभ्रान् वृक्षारोपणम् एव च ।
कामात् पुरीषं कुर्याच् च तस्य दण्डस् तु माषकः ॥

“सङ्करो” अवकरः ।

मनुः [९.२८२–८३] ।

समुत्सृजेद् राजमार्गे यस् त्व् अमेध्यम् अनापदि ।
स द्वौ कार्षापणौ दद्याद् अमेध्यं स च शोधयेत् ॥
आपद्गतस् तथा वृद्धो गर्भिणी बाल एव वा ।
परिभाषणम् अर्हन्ति तच् च शोध्यम् इति स्थितिः ॥

“दण्ड्यः” इत्य् अनुवृत्तौ विष्णुः [५.१०५- “पथ्युद्यानोदकसमीपेष्व् अशुच्युत्करादित्यागे पणशतम्” इति ।

कात्यायनः [७५८–५९] ।

तडागोद्यानतीर्थानि [यो ऽमेध्येन विनाशयेत् ।
अमेध्यं शोधयित्वा तु दण्डयेत् पूर्वसाहसम् ॥

[४५६]

दूषयेत् सिद्धतीर्थानि] स्थापितानि महात्मभिः ।
पुराणानि पवित्राणि प्राप्नुयात् पूर्वसाहसम् ॥

मनुः [८.२६४] ।

गृहं तडागम् आरामं क्षेत्रं वा भीषया हरन् ।
शतानि पञ्च दण्ड्यः स्याद् अज्ञानाद् द्विशतो दमः ॥

“भीषया” भयोत्पादनेन ।

वृद्धमनुः ।

स्थापितां चैव मर्यादाम् उभयोर् ग्रामयोस् तथा ।
अतिक्रामन्ति ये पापास् ते दण्ड्या द्विशतं दमम् ॥

याज्ञवल्क्यः [२.१५५] ।

मर्यादायाः प्रभेदे तु सीमातिक्रमेणे तथा ।
क्षेत्रस्य हरणे दण्डा अधमोत्तममध्यमाः ॥

शङ्खलिखितौ- “क्षेत्रमर्यादाभेदे ऽष्टशतम्, सीमाव्यतिक्रमे ऽष्टसहस्रम्, क्षेत्रोदकापहरणे ऽष्टशतम्” ।

विष्णुः [५.१७२]- “सीमाभेत्तारम् उत्तमं साहसं दण्डयित्वा पुनः सीमां कारयेत्” ।

कात्यायनः [७६०–६१] ।

सीमामध्ये तु जातानां वृक्षाणां क्षेत्रयोर् द्वयोः ।
फलं पुष्पं च सामान्यं क्षेत्रस्वामिषु निर्दिशेत् ॥

[४५७] > अन्यक्षेत्रेषु जातानां शाखा यत्रान्यसंस्थिताः ।

स्वामिनं तु विजानीयाद् यत्र क्षेत्रे तु संस्थिताः ॥

इति सप्रक्रियमहासान्धिविग्रहिकभट्टहृदयधरात्मज-

भट्टश्रीमल्लक्ष्मीधरविरचिते कृत्यकल्पतरौ

व्यवहारकाण्दे सीमाविवादाख्यं पर्व ॥

६७ — (ख) अथ सेतुः

तत्र नारदः [१४.१७] ।

परक्षेत्रस्य मध्ये तु सेतुर् न प्रतिषिध्यते ।
महागुणो ऽल्पबाधश् चेद् वृद्धिर् इष्टा क्षये सति ॥

अस्यार्थः — अन्यक्षेत्रे ऽन्येन क्रियमाणः सेतुर् यदि बहूपकारकः क्षेत्रस्वामिनश् चाल्पबाधाकरस् तदा नासौ निवर्त्यः । यतो ऽल्पोपक्षये सत्य् अपि वृद्धिः सस्याद्युपचयलक्षणा सर्वस्येष्टा भवति ।

याज्ञवल्क्यः [२.१५६–५७] ।

न निषेध्यो ऽल्पबाधस् तु सेतुः कल्याणकारकः ।
परभूमिं हरन् कूपः स्वल्पक्षेत्रो बहूदकः ॥
स्वामिने यो ऽनिवेद्यैव क्षेत्रे सेतुं प्रवर्तयेत् ।
उत्पन्ने स्वामिने भोगस् तदभावे महीपतेः ॥

[४५८] नारदः [१४.२०–२२] ।

पूर्वप्रवृत्तम् उत्सन्नम् अपृष्ट्वा स्वामिनं तु यः ।
सेतुं प्रवर्तयेत् कश्चिन् न स तत्फलभाग् भवेत् ॥
मृते तु स्वामिनि पुनस् तद्वंश्ये वापि मानवे ।
राजानम् आमन्त्र्य ततः कुर्यात् स्तेउप्रवर्तनम् ॥
अतो ऽन्यथा क्लेशभाक् स्यान् मृगव्याधानुदर्शनात् ।
इषवस् तस्य नश्यन्ति यो विद्धम् अनुविध्यति ॥

“स्वामिनम्” सेतुस्वामिनम् ।

कात्यायनः [७६२–६३] ।

अस्वाम्यनुमतेनैव संस्कारं कुरुते तु यः ।
गृहोद्यानतडागानां संस्कर्ता लभते न तु ॥
देयं स्वामिनि चायाते न निवेद्य नृपे यदि ।
अथावेद्य प्रयुक्तस् तु तत्कृतं लभते व्ययम् ॥

नारदः [१४.१७, १८] ।

सेतुस् तु द्विविधः प्रोक्तः खेयो बन्ध्यस् तथैव च ।
तोयप्रवर्तनात् खेयो बन्ध्यः स्याद् विनिवर्तनात् ॥
नान्तरेणोदकं सस्यं नाशश् चाभ्यधिके सति ।
य एवानुदके दोषः स एवात्युदके भवेत् ॥

इति महासान्धिविग्रहिकसप्रक्रियभट्टहृदयधरात्मज-

भट्टलक्ष्मीधरविरचिते कृत्यकल्पतरौ

विवादकाण्दे सेतुपर्व ॥

[४५९]

६७ (ग) — अथ विकृष्टाकृष्टे

तत्र नारदः [१४.२३–२४] ।

अशक्तप्रेतनष्टेषु क्षेत्रिकेष्व् अनिवारितः ।
क्षेत्रं चेद् विकृषेत् कश्चिद् अश्नुवीत स तत्फलम् ॥
विकृष्यमाणे क्षेत्रे तु क्षेत्रिकः पुनर् आव्रजेत् ।
खिलोपचारं तत् सर्वं दत्वा क्षेत्रम् अवाप्नुयात् ॥

कात्यायनः [७६४] ।

अशक्तितो न दद्याच् चेत् खिलार्थे यः कृतो व्ययः ।
तदष्टभागहीनं तु कर्षकः फलम् आप्नुयात् ॥
वर्षाण्य् अष्टौ स भोक्ता स्यात् परतः स्वामिनस् तु तत् ।

नारदः [१४.२६, २७, ४२, ४३] ।

संवत्सरेणार्धखिलं खिलं स्याद् वत्सरैस् त्रिभिः ।
पञ्चवर्षावसन्नं तु क्षेत्रं स्याद् अटवीसमम् ॥
क्षेत्रं त्रिपुरुषं यत् स्याद् गृहं वा स्यात् क्रमागतम् ।
राजप्रसादाद् अन्यत्र न तद्भोगः परम् नयेत् ॥

[४६०]

गृहं क्षेत्रं च दृष्टे द्वे वासहेतू कुटुम्बिनाम् ।
तस्मात् ते नाक्षिपेद् राजा तद् धि मूलं कुटुम्बिनाम् ॥
वृद्धे जनपदे राज्ञो धर्मः कोशश् च वर्धते ।
हीयते हीयमाने तु वृद्धिहेतुम् अतः श्रयेत् ॥

याज्ञवल्क्यः [२.१५८] ।

फालाहतम् अपि क्षेत्रं यो न कुर्यान् न कारयेत् ।
तं प्रदाप्याकृष्टसदं क्षेत्रम् अन्येन कारयेत् ॥

“अकृष्टसदम्” इति — अकृष्टस्य क्षेत्रस्य “सदम्” सस्यादिफलम्, कृष्टक्षेत्रानुसारेण दापयित्वा इत्य् अर्थः ।

बृहस्पतिः ।

हृहीत्वा वहयेत् काले वापगोपनसंग्रहान् ।
अकुर्वण् स्वामिने दाप्यो मध्यं कृष्टसदं तु यः ॥

“मध्यं कृष्टसदम्” नोत्कृष्टं नापकृष्टं यत् कृष्टक्षेत्रफलं तदनुसारेण दापयितव्यः इत्य् अर्थः

[४६१] व्यासः ।

क्षेत्रं गृहीत्वा यः कश्चिन् न कुर्यान् न च कारयेत् ।
स्वामिने स सदं दाप्यो राज्ञा दण्ड्यस् च तत्समम् ॥
चिरावसन्ने दशमं कृष्यमाणे तथाष्टमम् ।
सुसंस्कृते तु षष्ठं स्यात् परिकल्प्य यथास्थिति ॥

[इति कृष्टाकृष्टपर्व]

६७ — (घ) अथ सस्यरक्षा

तत्र याज्ञवल्क्यः [२.१६६] ।

ग्रामेच्छया गोप्रचारो भूमी राजवशेन वा ।

तथा [२.१६७] ।

धनुःशतं परीणाहो ग्रामक्षेत्रान्तरं भवेत् ।
द्वे शते खर्वटस्य स्यान् नगरस्य चतुःशतम् ॥

“खर्वटः” बहुकारुकृषीवलो ग्रामः ।

[४६२] मनुः [८.२३७–३८] ।

धनुःशतं परीहारो ग्रामस्य स्यात् समन्ततः ।
शम्यापातास् त्रयो वापि त्रिगुणो नगरस्य तु ॥
तत्रापरिवृतं धान्यं विहिंस्युः पशवो यदि ।
न तत्र प्रणयेद् दण्डं नृपतिः पशुरक्षिणाम् ॥

नारदः [१४.४०] ।

ग्रामोपान्ते च यत् क्षेत्रं विवीतान्ते महापथे ।
अनावृतं चेत् तन्नाशे न पालस्य व्यतिक्रमः ॥

विष्णुः [५.१४८–४९]- “पथि ग्रामे विवीतान्ते न दोषो ऽनावृते चाल्पकालम्” ।

याज्ञवल्क्यः [२.१६२] ।

पथि ग्रामे विवीतान्ते क्षेत्रे दोषो न विद्यते ।
अकामतः कामचारे चौरवद् दण्डम् अर्हति ।

[४६३]विवीत“शब्देन यवसाद्यर्थं रक्षितो भूप्रदेश उच्यते ।

मनुः [८.२४०] ।

पथि क्षेत्रे परिवृते ग्रामान्तीये ऽथ वा पुनः ।
सपालः शतदण्डार्हो विपालं धारयेत् पशुम् ॥

“ग्रामान्तीये” ग्रामसमीपे क्षेत्रे । “विपालम्” रक्षकशून्यम् ।

नारदः [१४.२८] ।

उत्क्रम्य तु वृतिं यः स्यात् सस्यघातो गवादिभिः ।
पालः शास्यो भवेत् तत्र न चेच् छक्तो निवारेयेत् ।

“वृतिः” आवरणम् ।

उशना ।

गोभिर् विनाशितं धान्यं यो नरः प्रतियाचते ।
पितरस् तस्य नाश्नन्ति नाश्नन्ति च दिवौकसः ॥

नारदः [१४.४१] ।

पथि क्षेत्रे वृतिः कार्या याम् उष्ट्रो नावलोकयेत् ।
न लङ्घयेत् पशुर् नाश्वो न भिन्द्याद् यां तु सूकरः ॥

शङ्खलिखितौ ।

मार्गक्षेत्रे वृतिः कार्या याम् उष्ट्रो नावलोकयेत् ।

[४६४] नाश्वसूकराव् अन्तरं विन्देताम् ।

कात्यायनः [६६६] ।

अजातेष्व् अपि सस्येषु कुर्याद् आवरणं महत् ।
दुःखेन हि निवार्यन्ते लब्धस्वादुरसा मृगाः ॥

इति सस्यरक्षा

६७ — (ङ) अथ सस्यघातदण्डः

तत्र मनुः [८.२४१] ।

क्षेत्रेष्व् अन्येषु तु पशुः सपादं दण्डम् अर्हति ।

“अन्येषु” इति — पथिक्षेत्रग्रामान्तीयेभ्य इत्य् अवगन्तव्यम् ।

शङ्खलिखितौ- “रात्रौ चरन्ती गौः पञ्च माषान् । दिवा त्रीन् । मुहूर्ते माषम् । ग्रासे त्व् अदण्ड्यः” ।

कात्यायनः [६६७] ।

दापयेत् पणपादं गां द्वौ पादौ महिषीं तथा ।
अथाजाविकवत्सानां पादो दण्डः प्रकीर्तितः ॥

[४६५] गौतमः [१२.१९–२२]- “पञ्च माषा गवि । षड् उष्ट्रखरे । अश्वमहिष्योर् दश । अजाविषु द्वौ द्वौ” ।

“दण्डं प्राप्नुयाद्” इत्य् अनुवृत्तौ शङ्खलिखितौ- “सर्वेषाम् एव वत्सो माषम्, अहिषी दश, खरोष्ट्रं षोडश, अजाविकं चतुरः” ।

याज्ञवल्क्यः [२.१५९] ।

माषान् अष्टौ तु महिषी सस्यघतस्य कारिणी ।
दण्डनीया तदर्धं तु गौस् तदर्धम् अजाविकम् ॥

नारदः [१४.२९] ।

समूलसस्यनाशे तु स्वामी सदम् अवाप्नुयात् ।
वधेन गोपो मुच्येत दण्डं स्वामिनि पातयेत् ॥

याज्ञवल्क्यः [२.१६०] ।

भक्षयित्वोपविष्टानां यथोक्ताद् द्विगुणो दमः ।
समम् एषां विवीते ऽपि खरोष्ट्रं महिषीसमम् ॥

[४६६] नारदः [१४.३१, ३४] ।

गावः पादं प्रदण्ड्याः स्युर् महिष्यो द्विगुणं ततः ।
अजाविके सवत्से तु माषो दण्डः परः स्मृतः ॥
सन्नानां द्विगुणो दण्डो वसतां च चतुर्गुणः ।
प्रत्यक्षचारकाणां तु चौरदण्डः स्मृतो बुधैः ॥

विष्णुः [५.१४०–४५]- “महिषी चेत् सस्यनाशं कुर्यात् पालकस् त्व् अष्टौ माषान् दण्ड्यः । अपालकायाः स्वामी । अश्वस् तूष्ट्रो गर्दभो वा । गोश् चेत् तदर्धम् । तदर्धम् अजाविकं चेत् । भक्षयित्वोपविष्टेषु द्विगुणम्” ।

“अश्वस् तूष्ट्रो गर्दभो वा” सस्यनाशं कुर्याद् इत्य् अन्वयः ।

नारदः [१४.३५] ।

नष्टा या पालदोषेण गौः क्षेत्रं तु विनाशयेत् ।
न तत्र स्वामिनो दोषः पालस् ताडनम् अर्हति ॥

बृहस्पतिः [१६.१७] ।

सस्यान् निवारयेद् गास् तु चीर्णे दोषो द्वयोर् भवेत् ।
स्वामी सददमं दाप्यः पालस् ताडनम् अर्हति ॥

[४६७] “सददमम्” भक्षितक्षेत्रे फलानुरूपं दमम् ।

याज्ञवल्क्यः [२.१६१] ।

यावत् सस्यं विनश्येत् तु तावत् स्यात् क्षेत्रिणां फलम् ।
गोपस् ताड्यश् च गोमी तु पूर्वोक्तं दण्डम् अर्हति ॥

“गोमी” गोस्वामी ।

विष्णुः [५.१४६]- “सर्वत्र स्वामिने विनष्तसस्यमूल्यं च” ।

नारदः [१४.३८-३९] ।

गोभिस् तु भक्षितं सस्यं यो नरः प्रतियाचते ।
सामन्तानुमतं देयं धान्यं यत् तत्र वापितम् ॥
गवत्रं गोमिना देयं धान्यं वै कर्षकाय च ।
एवं हि विनयः प्रोक्तो गवां सस्यावमर्दने ॥

“गवत्रम्” यवसम् ।

इति सस्यघातकपर्म ।

[४६८]

६७ — (च्) अथादण्ड्याः

“तत्र पाल” इत्य् अन्वर्तमाने नरदः [१४.३६, ३७] ।

राजग्राहगृहीतो वा वज्राशनिहतो ऽपि वा ।
अथ सर्पेण वा दष्टो वृक्षाद् वा पतितो भवेत् ॥
व्याघादिभिर् हतो वापि व्याधिभिर् वाप्य् उपद्रुतः ।
न तत्र दोषः पालस्य न च दोषो ऽस्ति गोमिनाम् ॥

याज्ञवल्क्यः [२.१६३] ।

महोक्षोत्सृष्टपशवः सूत्कागन्तुकादयः ।
पालो येषां न ते मोच्या दैवराजपरिप्लुताः ॥

मनुः [८.२४२] ।

अनिर्दशाहां गां सूतां वृषान् देवपशूंस् तथा ।
सपालान् वा विपालान् वा न दण्ड्यान् मनुर् अब्रवीत् ॥

शङ्खः- “छागवृषभा अनिर्दशाहा गावः सस्यापराधे न दण्डम् आप्नुयुः” ।

[४६९] नारदः [१४.३०] ।

गौः प्रसूता दशाहं तु महोक्षो वाजिकुञ्जराः ।
निवार्याः स्युः प्रयत्नेन तेषां स्वामी न दण्डभाक् ॥

उशना ।

अदण्ड्या हस्तिनो ऽश्वाश् च प्रजापाला हि ते स्मृताः ।
अदण्ड्याः काणकूटाश् च वृषश् च कृतलक्षणः ॥
अदण्ड्यागन्तुका गौश् च सूतिका चाभिसारिणी ।
अदण्ड्याश् चोत्सवे गावः श्राद्धकाले तथैव च ॥

शङ्खलिखितौ- “क्षुद्रपशवः सर्वथानिवार्याः । अश्वतरगजवाजिनश् चादण्ड्याः । अवश्याश् च शनैर् अपवार्याः” ।

कात्यायनः [६६५, ६६४] ।

अधमोत्तममध्यानां पशूनां चैव ताडने ।
स्वामी तु विवदेद् यत्र तत्र दण्डं प्रकल्पयेत् ॥

[४७०] > क्षेत्रारामविवीतेषु गृहेषु पशुकादिषु ।

गर्हणं तत्प्रविष्टानां ताडनं च बृहस्पतिः ॥

[इत्य् अदण्ड्यपर्व]

इति महाराजाधिराजश्रीमद्गोविन्द्चन्द्रदेवमहासान्धिविग्रहिक-

**भट्टहृदयधरात्मजभट्टश्रीलक्ष्मीधरविरचिते **

कृत्यकल्पतरौ व्यवहारकाण्दे सीमाविवादह् ॥

[४७१]