अथ क्रीत्वानुशयः
तत्र नारदः [१२.१–३] ।
क्रीत्वा मूल्येन यः पण्यं क्रीतं न बहु मन्यते ।
क्रीतानुशय इत्य् एतद् विवादपदम् उच्यते ॥
क्रीत्वा मूल्येन यः पण्यं दुष्क्रीतं मन्यते क्रयी ।
विक्रेतुः प्रतिदेयं तत् तस्मिन्न् एवाह्न्य् अविक्षतम् ॥
द्वितीये ऽह्नि ददत् क्रेता मूल्यं त्रिंशांशम् आवहेत् ।
द्विगुणं तु तृतीये ऽह्नि परतः क्रेतुर् एव तत् ॥
कात्यायनः [६८६, ६८७] ।
क्रीत्वा त्व् अनुशयात् पण्यं त्यजेद् दोह्यादि यो नरः ।
अदुष्तम् एव काले तु मूल्याद् दशमं वहेत् ॥
क्रीत्वा गच्छन्न् अनुशयं क्रयी हस्तम् उपागते ।
षड्भागं तत्र मूल्यस्य दत्वा क्रीतं त्यजेद् भृगुः ॥
[४३६] याज्ञवल्क्यः [२.२५८] ।
क्षयं वृद्धिश् च वणिजा पण्याणाम् अविजानता ।
क्रीत्वा नानुशयः कार्यः कुर्वन् षड्भागदण्डभाक् ॥
नारदः [१२.१६, १२, ८] ।
क्रीत्वा नानुसयं कुर्याद् वणिक् पण्यविचक्षणः ।
क्षयं वृद्धिं च जानीयात् पण्यानां यस्य यादृशी ॥
क्रेता पण्यं परीक्षेत प्राक् स्वयं गुणदोषतः ।
परीक्ष्याभिमतं क्रीतं विक्रेतुर् न भवेत् पुनः ॥
बृहस्पतिः [१८.९] ।
परीक्षेत स्वयं पण्यम् अन्येषां च पर्दर्शयेत् ।
परीक्षितं बहुमतं गृहीत्वा न पुनस् त्यजेत् ॥
व्यासः ।
चर्मकाष्ठेष्टकासूत्रधान्यासवरसस्य च ।
वस्त्रकुप्यहिरण्यानां सद्य एव परीक्षणम् ॥
नारदः [१२.५,६] ।
त्र्यहाद् दोह्यं परीक्षेत पञ्चाहाद् वाह्यम् एव तु ।
मुक्तावज्रप्रवालानां सप्ताहं स्यात् परीक्षणम् ॥
[४३७] > द्विपदाम् अर्धमासं तु पुंसां तद्द्विगुणं स्त्रियः ।
दशाहः सर्वबीजानाम् एकाहो लोहवाससाम् ॥
नारदोक्तक्रमेण परीक्षाकालम् अभिधाय —
बृहस्पतिः [१८.७] ।
अतो ऽर्वाक् पण्यदोषस् तु यदि संजायते क्वचित् ।
विक्रेतुः प्रतिदेयं तत् क्रेता मूल्यम् अवाप्नुयात् ॥
कात्यायनः [६८८] ।
अविज्ञातं तु यत् क्रीतं दुष्टं पश्चाद् विभावितम् ।
क्रीतं तत् स्वामिने देयं पण्यं काले ऽन्यथा न तु ॥
मनुः [८.२०३] ।
नान्यद् अन्येन संसृष्टं रूपं विक्रयम् अर्हति ।
न सावद्यं न च न्यूनं न दूरे न तिरोहितम् ॥
नारदः [१२.७] ।
परिभुक्तं तु यद् वासः क्लिष्टरूपं मलीमसम् ।
सदोषं अपि तत् क्रीतं विक्रेतुर् न भवेत् पुनः ॥
इति महाराजाधिराजश्रीगोविन्दचन्द्रदेवमहासन्धिविग्रहिकेण
भट्टहृदयधरात्मजेन
भट्टश्रीमल्लक्ष्मीधरेण विरचिते कृत्यकल्पतरौ
व्यवहारकाण्दे क्रीत्वानुशयः ॥
[४३८]