६५ विक्रीयासंप्रदानम्

६५ विक्रीयासंप्रदानम्

अथ विक्रीयासंप्रदानम्

तत्र नारदः [११.१–५] ।

विक्रीय पण्यं मूल्येन क्रेतुर् यन् न प्रदीयते ।
विक्रीयासंप्रदानं तद् विवादपदम् उच्यते ॥
लोके ऽस्मिन् द्विविधं द्रव्यं स्थावरं जङ्गमं तथा ।
क्रयविक्रयधर्मेषु सर्वं तत् पण्यम् उच्यते ॥
षड्विधस् तस्य विबुधैर् दानादानविधिः स्मृतः ।
गणिमं तुलिमं मेयं क्रियया रूपतः श्रिया ॥
विक्रीय पण्यं मूल्येन क्रेतुर् यो न प्रयच्छति ।
स्थावरस्य क्षयं दाप्यो जङ्गमस्य क्रियाफलम् ॥
अर्धश् चेद् अपचीयेत सोदयं पण्यम् आवहेत् ।
स्थायिनाम् एष नियमो दिग्लाभो दिग्विचारिणाम् ॥

[४३०] “गणिमं” क्रमुकफलादि । “तुलिमम्” कुङ्कुमादि । “मेयम्” शाल्यादि । “क्रियया” वाहनदोहनादिकया । “रूपतः” स्त्र्यादि । “श्रिया” पद्मरागादि । “स्थावरस्य” ग्रामक्षेत्रादेः । “जङ्गमस्य” गवाश्वादेः । “क्षयः” शस्याद्युपघातेनोपक्षयः । “फलं” क्षीरादि ।

विष्णुः [५.१२७–२८]- “गृहीतमूल्यं यः क्रेतुर् नैव दद्यात् तस्यासौ सोदयं दाप्यः । राज्ञा च पणशतं दण्ड्यः” ।

मनुः [८.२२२, २२३, २२८] ।

क्रीत्वा विक्रीय वा किंचिद् यस्येहानुशयो भवेत् ।
सो ऽन्तर्दशाहात् तद् द्रव्यं दद्याच् चैवाददीत वा ॥
परेण तु दशाहस्य नादद्यान् नैव दापयेत् ।
आददानो ददच् चैव राज्ञा दण्ड्यः शतानि षट् ॥

[४३१] > यस्मिन् यस्मिन् कृते कार्ये यस्येहानुशयो भवेत् ।

तम् अनेन विधानेन धर्म्ये पथि निवेशयेत् ॥

कात्यायनः [६८३–८४] ।

क्रीत्वा प्राप्तं न गृह्णीयाद् यो न दद्याद् अदूषितम् ।
स मूल्याद् दशभागं तु दत्वा स्वं द्रव्यम् आप्नुयात् ॥
अप्राप्ते ऽर्थे क्रियाकारे कृते नैव प्रदापयेत् ।
एवं धर्मो दशाहात् तु परतो ऽनुशयो न तु ॥

“क्रियाकारे” साक्षिलेख्यादिके ।

नारदः [११.६] ।

उपहन्येत वा पण्यं दह्येतापह्रियेत वा ।
विक्रेतुर् एव सो ऽनर्थो विक्रीयासंप्रयच्छतः ॥

[४३२] नारदः [११.७] ।

निर्दोषं दर्शयित्वा तु सदोषं यः प्रयच्छति ।
मूल्यं तु द्विगुणं दाप्यो विनयं तावद् एव तु ॥

बृहस्पतिः [१८.३,४] ।

ज्ञात्वा सदोषं यः पण्यं विक्रीणीताविचक्षणः ।
तद् एवं द्विगुणं दाप्यस् तत्समं विनयं तथा ॥
मत्तोन्मत्तेन विक्रीतं हीनमूल्यं तु यद् भवेत् ।
अस्वतन्त्रेण मूढेन त्याज्यं तस्य पुनर् हरेत् ॥

याज्ञवल्क्यः [२.२५७] ।

अन्यहस्तेन विक्रीतं दुष्टं वादुष्टवद् यदि ।
विक्रीयते दमस् तत्र मूल्यात् तु द्विगुणो भवेत् ॥

नारदः [११.८] ।

तथान्यहस्ते विक्रीय यो ऽन्यस्मै तत् प्रयच्छति ।
सो ऽपि तद्द्विगुणं दाप्यो विनयं तावद् एव तु ॥

याज्ञवल्क्यः [२.६१] ।

सत्यंकारकृतं द्रव्यं द्विगुणं प्रतिदापयेत् ।

[४३३] “सत्यंकारः” क्रयविक्रयसत्यापनार्थं यद् द्रव्यं दीयते तद् उच्यते ।

व्यासः ।

सत्यंकारं च यो दत्वा यथाकालं न दृश्यते ।
पण्यं भवेन् निसृष्टं तद्दीयमानम् अगृह्णतः ॥

“निसृष्टं” दत्तम् ।

नारदः [११.९] ।

दीयमानं न गृह्णाति क्रीत्वा पण्यं च यः क्रयी ।
विक्रीणानस् तद् अन्यत्र विक्रेता नापराध्नुयात् ॥

याज्ञवल्क्यः [२.२५५] ।

विक्रीतम् अपि विक्रेयं पूर्वक्रेतर्य् अगृह्णति ।
हानिश् चेत् क्रेतृदोषेण क्रेतुर् एव हि सा भवेत् ॥

नारदः ।

दीयमानं न गृह्णाति क्रीतं पण्यं तु यः क्रयी ।
स एवास्य भवेद् दोषो विक्रेतुर् यो ऽप्रयच्छतः ॥

[४३४] तथा [ना। ११.१०–१२] ।

दत्तमूल्यस्य पण्यस्य विधिर् एष प्रकीर्तितः ।
अदत्ते ऽन्यत्र समयान् न विक्रेतुर् अतिक्रमः ॥
लाभार्थं वणिजां सर्वपण्येषु क्रयविक्रयः ।
स च लाभो ऽर्घम् आसाद्य महान् भवति वा न वा ॥
तस्माद् देशे च काले च वणिग् अर्घं समाश्रयेत् ।
न जैह्मेन प्रवर्तेत श्रेयान् एवं वणिक्पथः ॥

इति महाराजाधिराजश्रीमद्गोविन्दचन्द्रदेवमहासान्धिविग्रहिकेण

भट्टहृदयधरात्मजेन

भट्टश्रीमल्लक्ष्मीधरेण विरचिते कृत्यकल्पतरौ

व्यवहारकाण्दे विक्रीयासंप्रदानम् ॥

[४३५]