अथ संविद्व्यतिकर्मः
तत्र नारदः [१३.१] ।
पाखण्डनैगमादीनां स्थितिः समय उच्यते ।
समयस्यानपाकर्म तद् विवादपदं स्मृतम् ॥
याज्ञवल्क्यः [२.१८५] ।
राजा कृत्वा पुरे स्थानं ब्राह्मणान् न्यस्य तत्र तु ।
त्रैविद्यान् वृत्तिमद् ब्रूयात् स्वधर्मः पाल्यताम् इति ॥
बृहस्पतिः [१७.२–१०] ।
वेदविद्याविदो विप्रान् श्रोत्रियान् अग्निहोत्रिणः ।
आहृत्य स्थापयेत् तत्र तेषां वृत्तिं प्रकल्पयेत् ॥
अनाच्छेद्यकरास् तेभ्यः प्रदद्याद् गृहभूमिकाः ।
मुक्तभाव्याश् च नृपतिर् लेखयित्वा स्वशासने ॥
[४२०]
नित्यं नैमित्तिकं काम्यं शान्तिकं पौष्टिकं तथा ।
पौराणां कर्म कुर्युस् ते संदिग्धे निर्णयं तथा ॥
ग्रामश्रेणिगणानां च सङ्केतः समयक्रिया ।
बाधाकाले तु सा कार्या धर्मकार्ये तथैव च ॥
चाटचौरभये बाधा सर्वसाधारणी स्मृता ।
तत्रोपशमनं कार्यं सर्वैर् नैकेन केनचित् ॥
कोशेन लेख्यक्रियया मध्यस्थैर् वा परस्परम् ।
विश्वासं प्रथमं कृत्वा कुर्युः कार्याण्य् अनन्तरम् ॥
विद्वेशिणो व्यसनिनो जनसंत्रासभीरवः ।
लुब्धातिवृद्धा बालाश् च न कार्याः कार्यचिन्तकाः ॥
शुचयो वेदधर्मज्ञा दक्षा दान्ताः कुलोद्भवाः ।
सर्वकार्यप्रवीणाश् च कर्तव्याश् च महत्तराः ॥
सप्त वा पञ्च वा कार्याः समूहहितवादिनः ।
कर्तव्यं वचनं तेषां ग्रामश्रेणिगणादिभिः ॥
[४२१] “भाव्यम्” राज्ञ आयविशेषः ।
याज्ञवल्क्यः [२.१८८] ।
कर्तव्यं वचनं तेषां समूहहितवदिनाम् ।
यस् तत्र विपरीतः स्यात् स दाप्यः प्रथमं दमम् ॥
कात्यायनः [६७१] ।
युक्तियुक्तं तु यो हन्याद् वक्तुर् यो नावकाशदः ।
अयुक्तं चैव यो ब्रूयाद् दाप्य उत्तमसाहसम् ॥
याज्ञवल्क्यः [२.१९२] ।
श्रेणिनैगमपाखण्डगणानाम् अप्य् अयं विधिः ।
भेदं चैषां नृपो रक्षेत् पूर्ववृत्तिं च पलयेत् ॥
“श्रेणयः” समानकर्मशिल्पोपजीविनः कारवः । “नैगमः” नानापौरसमूहः । “पाखण्डः” प्रव्रज्यावसितः । “गणो” ब्राह्मणसमूहः ।
[४२२] नारदः [१३.२२] ।
पाखण्डनैगमश्रेणिपूगव्रातगणादिषु ।
संरक्षेत् समयं राजा दुर्गे जनपदे तथा ॥
यो धर्मः समयश् चैषाम् उपस्थानविधिश् च यः ।
यश् चैषां वृत्त्युपादानम् अनुमन्येत तत् तथा ॥
“पूगो” वणिगादिसमूहः । “व्रातः” नानायुधधरसमूहः । आदिशब्देनात्र सङ्गगुल्मवर्गा उच्यन्ते ।
कात्यायनः [६६८] ।
समूहानां तु यो धर्मस् तेन धर्मेण ते सदा ।
प्रकुर्युः सर्वकर्माणि स्वधर्मेषु व्यवस्थिताः ॥
याज्ञवल्क्यः [२.१८५] ।
निजधर्माविरोधेन यस् तु सामयिको भवेत् ।
सो ऽपि यत्नेन संरक्ष्यो धर्मो राजकृतश् च यः ॥
[४२३] कात्यायनः [६६९, ६७०] ।
अविरोधेन धर्मस्य निर्गतं राजशासनम् ।
तस्यैवाचरणं पूर्वं कर्तव्यं तु नृपाज्ञया ॥
राज्ञा प्रवर्तितान् धर्मान् यो नरो नानुपालयेत् ।
गर्ह्यः स पापी दण्ड्यश् च लोपयन् राजशासनम् ॥
बृहस्पतिः [१७.११–१४] ।
सभाप्रपादेवगृहतटाकारामसंस्कृतिः ।
तथानाथदरिद्राणां संस्कारो यजनक्रिया ॥
कुल्यायननिरोधश् च कार्यम् अस्माभिर् अंशतः ।
यत्र तल् लिखितं पत्रे धर्म्या सा समयक्रिया ॥
पालनीया समस् तैस् तैर् यः समर्थो विसंवदेत् ।
सर्वस्वहरणं दण्डस् तस्य निर्वासनं पुरात् ॥
तत्र भेदम् उपेक्षां वा यः कश्चित् कुरुते नरः ।
चतुःसुवर्णाः षण्णिष्कास् तस्य दण्डो विधीयते ॥
[४२४] मनुः [८.२१९, २२१] ।
यो ग्रामदेशसङ्घानां कृत्वा सत्येन संविदम् ।
विसंवदेन् नरो लोभात् तं राष्त्राद् विप्रवासयेत् ॥
निगृह्य दापयेच् चैनं समयव्यभिचारिणम् ।
चतुःसुवर्णान् षण्णिष्कांश् छतमानं च राजतम् ॥
एवं दण्डविधिं कुर्याद् धार्मिकः पृथिवीपतिः ।
ग्रामजातिसमूहेषु समयव्यभिचारिणाम् ॥
ऽशतमानं च" विंशत्यधिकरक्तिका शतत्रयेण संपद्यते ।
नारदः [१३.६] ।
पृथग्गणांश् च ये भिन्द्युस् ते विनेया विशेषतः ।
आवहेयुर् भयं घोरं व्याधिवत् ते ह्य् उपेक्षिताः ॥
याज्ञवल्क्यः [२.१८७] ।
गणद्रव्यं हरेद् यस् तु संविदं लङ्घयेच् च यः ।
सर्वस्वहरणं कृत्वा तं राष्ट्राद् विप्रवासयेत् ॥
[४२५] कात्यायनः [६७२] ।
साहसी भेदकारी च गणद्रव्यविनाशकः ।
उच्छेद्याः सर्व एवैते विख्याप्यैवं नृपैर् भृगुः ॥
बृहस्पतिः [१७.१५–२०] ।
यस् तु साधारणं हिंस्यात् क्षिपेत् त्रैविद्यम् एव च ।
संवित्क्रियां विहन्याच् च स निर्वास्यस् ततः पुरात् ॥
अरुन्तुदः सूचकश् च भेदकृत् साहसी तथा ।
श्रेणीपूगनृपद्विष्टः क्षिप्रं निर्वास्यते ततः ॥
कुलश्रेणिगणाध्यक्षाः पुरदुर्गनिवासिनः ।
वाग्दिग्दमं परित्यागं प्रकुर्युः पापकर्मणाम् ॥
तैः कृतं यत् स्वधर्मेण निग्रहानुग्रहं नृणाम् ।
तद् राज्ञाप्य् अनुमन्तव्यं निसृष्टार्था हि ते स्मृताः ॥
बाधां कुर्युर् यदैकस्य संभूता द्वेषसंयुताः ।
राज्ञा तु विनिवार्यास् ते शास्याश् चैवानुबन्धिनः ॥
मुख्यैः सह समूहानां विसंवादो यदा भवेत् ।
तदा विचारयेद् राजा स्वमार्गे स्थापयेच् च तान् ॥
[४२६] नारदः [१३.५] ।
मिथः सङ्घातकरणम् अहेतौ(?) शस्त्रचारणम् ।
परस्परोपघातं च तेषां राजा न मर्षयेत् ॥
कात्यायनः [६७३] ।
एकपात्रे ऽथ पङ्क्त्यां वा संभोक्ता येन यो भवेत् ।
अकुर्वन् स तथा दण्ड्यस् तस्य दोषम् अदर्शयन् ॥
बृहस्पतिः [१७.२२] ।
संभूयैकमतिं कृत्वा राजभाव्यं हरन्ति ये ।
ते तदष्टगुणं दाप्या वणिजश् च पलायिनः ॥
नारदः [१३.४, ७] ।
प्रतिकूलं च यद् राज्ञः प्रकृत्यवमतं च यत् ।
बाधकं च यद् अर्थानां तत् तेभ्यो विनिवर्तयेत् ॥
दोषवत् करणं यत् स्याद् अनाम्नायप्रकल्पितम् ।
प्रवृत्तम् अपि तद् राजा श्रेयस्कामो निवर्तयेत् ॥
[४२७] “दोषवत्करणं” दुष्टा क्रिया । “अनाम्नायप्रकल्पितं” पारम्पर्यसिद्धं यन् न भवति ।
याज्ञवल्क्यः [२.१८९–९०] ।
समूहकार्य आयातान् कृतकार्यान् विसर्जयेत् ।
स दानमानसत्कारैः पूजयित्वा महीपतिः ॥
समूहकार्यप्रहितो यल् लभेत् तत् तद् अर्पयेत् ।
एकादशगुणं दाप्यो यद्य् असौ नार्पयेत् स्वयम् ॥
बृहस्पतिः [१७.१३–१५] ।
ततो लभेत यत् किंचित् सर्वेषाम् एव तत् समम् ।
षाण्मासिकं मासिकं वा विभक्तव्यं यथांशतः ॥
देयं वा निःस्ववृद्धान्धस्त्रीबालातुररोगिषु ।
सांतानिकादिषु तथा धर्म एष सनातनः ॥
यत् तैः प्राप्तं रक्षितं वा गणार्थे वाप्य् ऋणं कृतम् ।
राजप्रसादलब्धं च सर्वेषाम् एव तत् समम् ॥
[४२८] कात्यायनः [६७४–७६] ।
गणम् उद्दिश्य यैः किंचित् कृत्वर्णं भक्षितं भवेत् ।
आत्मार्थं विनियुक्तं वा देयं तैर् एव तद् भवेत् ॥
गणानां श्रेणिवर्गाणां गताः स्युर् ये ऽपि मध्यताम् ।
प्राक्तनस्य धनर्णस्य समांशाः सर्व एव ते ॥
तथैव भोज्यवैभाज्यदानधर्मक्रियासु च ।
समूहस्थो ऽंशभागी स्यात् प्रगतस् त्व् अंशभाग् न तु ॥
इति महाराजाधिराजश्रीमद्गोविन्दचन्द्रदेवमहासन्धिविग्रहिकेण
भट्टहृदयधरात्मजेन
भट्टश्रीलक्ष्मीधरेण विरचिते कृत्यकल्पतरौ
व्यवहारकाण्दे संविद्व्यतिक्रमपर्व ॥
[४२९]