अथ स्वामिपालविवादः
तत्र मनुः [८.२२९, २३१] ।
पशुषु स्वामिनां चैव पालानां च यथाविधि ।
विवादं संप्रवक्ष्यामि यथावद् धर्मतत्त्वतः ॥
गवां क्षीरभृतो यस् तु स दुह्याद् दशतो वराम् ।
गोस्वाम्यनुमते भृत्यः सा स्यात् पाले ऽभृते भृतिः ॥
“क्षीरभृतः” क्षीरम् एव भृतिर् यस्य स तथा । “दुह्याद् दशतो वराम्” इति । दशसु गोषु मध्ये एकां श्रेष्ठां गां दुह्याद् इत्य् अर्थः । “सा” एकगोदोहनरूपा । “पाले” गोपाले । “अभृते” ग्रासाच्छादनेनेति शेषः ।
नारदः [९.१०] ।
गवां शताद् वत्सतरी धेनुः स्याद् द्विशताद् भृतिः ।
प्रतिसंवत्सरं गोपे संदोहश् चाष्टमे ऽहनि ॥
[४१४] बृहस्पतिः [१६.१४] ।
तथा धेनुभृतः क्षीरं लभेत ह्य् अष्टमे ऽखिलम् ।
“धेनुभृतो” गोपः ।
आपस्तम्बः [२.२८.२–४]- “उद्वसतः कीनाशस्य कर्मन्यासे दण्डेन ताडनम् । तथा पशुपस्य । अवरोधनं चास्य पशूनाम्” ।
नारदः [९.११] ।
उपानयेद् अरण्याय प्रत्यहं रजनीक्षये ।
चीर्णाः पीताश् च ता गोपः सायाह्ने प्रत्युपानयेत् ॥
याज्ञवल्क्यः [२.१६४] ।
यथार्पितान् पशून् गोपः सायं प्रत्यर्पयेत् तथा ।
प्रमादहृतनष्टांश् च प्रदाप्यः कृतवेतनः ॥
[४१५] मनुः [८.२३०] ।
दिवा वक्तव्यता पाले रात्रौ स्वामिनि तद्गृहे ।
योगक्षेमाव् अन्यथा चेत् पालो वक्तव्यताम् इयात् ॥
मनु-नारदौ [मनु ८.२३३; ना। ९.१६] ।
विघुष्य तु हृतं चौरैर् न पालो दण्डम् अर्हति ।
यदि देशे च काले च स्वामिनः स्वस्य शंसति ॥
व्यासः ।
पालग्राहे ग्रामघाते तथा राष्ट्रस्य विभ्रमे ।
यत् प्रनष्टं हृतं वा स्यान् न पालस् तत्र किल्बिषी ॥
बृहस्पतिः [१६.१६] ।
कृमिचौरव्याघ्रभाद् दरीश्वभ्राच् च पालयेत् ।
व्यायच्छेच् छक्तितः क्रोशेत् स्वामिने वा निवेदयेत् ॥
नारदः [९.१२–१३] ।
सा चेद् गौर् व्यसनं गच्छेद् व्यायच्छेत् तत्र शक्तितः ।
अशक्तस् तूर्णम् आगत्य स्वामिने तन् निवेदयेत् ॥
[४१६] > अव्यायच्छन्न् अविक्रोशन् स्वामिने वानिवेदयन् ।
वोढुम् अर्हति गोपस् तां विनयञ् चैव राजनि ॥
मनु-नारदौ [मनु ८.२३२; ना। ९.१४] ।
नष्टं विजग्धं कृमिभिः श्वहतं विषमे मृतम् ।
हीनं पुरुषकारेण प्रदद्याद् गोप एव तु ॥
“श्वहतम्” इत्य् अत्र श्वपदं श्वापदाद्युपलक्षणार्थम् ।
याज्ञवल्क्यः [२.१६५] ।
पालदोषविनाशे तु पाले दण्डो विधीयते ।
अर्धत्रयोदशपणाः स्वामिनो द्रव्यम् एव च ॥
विष्णुः [५.१३७–३९]- “दिवा पशूनां वृकाद्युपघाते पाले त्व् अनापदि पालकदोषः । विनष्टपशुमूल्यं च स्वामिने दद्यात् । अननुज्ञातां दुहन् पञ्चविंशति कार्षापणान्” ॥
ब्रह्मपुराणे ।
गृहीतमूल्यो गोपालस् तास् त्यक्त्वा निर्जने वने ।
ग्रामचारी नृपैर् वध्यः शलाकीव वनेचरः ॥
[४१७] > गोपालहस्ते संस्था गौस् तद्दोषान् म्रियते यदि ।
तदा स एव दण्ड्यस् तु शुल्कं दाप्यस् तु गोपतेः ॥
यदा रोगादिदोषेण म्रियते गौर् गृहे क्वचित् ।
तदा स गोपतिर् दण्ड्यो दत्वा गोपालवेतनम् ॥
“शलाकी” नापितः । “रोगादिदोषेण” स्वामिनः प्रतीकारकरणव्यतिरेकेणेति शेषः ।
मनु-नारदौ ।
अजाविके तु संरुद्धे वृकैः पाले त्व् अनापदि ।
यां प्रसह्य वृको हन्यात् पाले तत् किल्बिषं भवेत् ॥
तासां चैवावरुद्धानां चरन्तीनां मिथो वने ।
याम् उत्प्लुत्य वृहो हन्यात् पालस् तत्र न किल्बिषी ॥
“मिथो” रहसि ।
नारदः [९.१७] ।
अनेन सर्वपालानां विवादः समुदाहृतः ।
मृतेषु च विशुद्धिः स्याद् वालशृङ्गादिदर्शनात् ॥
[४१८] मनुः [८.२३४, २४४] ।
कर्णौ चर्म च वालांश् च बस्ति स्नायुं च रोचनम् ।
पशुस्वामिनि दद्यात् तु मृतेष्व् अङ्कादि दर्शयेत् ॥
एतद् विधानम् आतिष्ठेद् धार्मिकः पृथिवीपतिः ।
स्वामिनां च पशूनां च पालानां च व्यतिक्रमे ॥
इति महाराजाधिराजश्रीगोविन्दचन्द्रदेवमहासन्धिविग्रहिकेण
भट्टहृदयधरात्मजेन
भट्टश्रीलक्ष्मीधरेण विरचिते कृत्यकल्पतरौ
व्यवहारकाण्दे स्वामिपालविवादः ॥
[४१९]