६२ वेतनस्यानपाक्रिया

अथ वेतनस्यानपाक्रिया

तत्र नारदः [९.१–३] ।

भृतानां वेतनस्योक्तिर् दानाधाधमनविक्रमे ।
वेतनस्यानपाकर्म तद् विवादपदं स्मृतम् ॥
भृताय वेतनं दद्यात् कर्मस्वामी यथाकृतम् ।
आदौ मध्ये ऽवसाने वा कर्मणो यद् विनिश्चितम् ॥
भृताव् अनिश्चितायां तु दशभागम् अवाप्नुयुः ।
लाभगोवीर्यसस्यानां वणिग्गोपकृषीवलाः ॥

“गोवीर्यम्” गवां सारभूतं क्षीरम् इत्य् अर्थः ।

[४०१] याज्ञवल्क्यः [२.१९४–९६] ।

दाप्यस् तु दशमं भागं वाणिज्यपशुसस्यतः ।
अनिश्चित्य भृतिं यस् तु कारयेत् स महीक्षिता ॥
देशं कालं च यो ऽतीयात् कर्म कुर्याच् च यो ऽन्यथा ।
तत्र तु स्वामिनश् छन्दो ऽधिकं देयं कृते ऽधिके ॥
यो यावत् कुरुते कर्म तावत् तस्य तु वेतनम् ।
उभयोर् अप्य् असाध्यं चेत् साध्यं कुर्याद् यथाश्रुतम् ॥

“तत्र” भृतिदाने । “स्वामिनश् छन्दः” इच्छा ।

बृहस्पतिः [१६.१–२] ।

त्रिभागं पञ्चभागं वा गृह्णीयात् सीरवाहकः ।

[४०२] तथा ।

भाक्ताच्छादभ्र्तः सीराद् भागं गृह्णीत पञ्चमम् ।
जातसस्यात् त्रिभागं तु प्रगृह्णीतोपधाभृतः ॥

“उपधा” व्यापारफलम् ।

आपस्तम्बः [२.२८.२–४]- “उद्वसतः कीनाशस्य कर्मन्यासे दण्डताडनम् । तथा पशुपस्य । अवरोधनं चास्य पशूनाम्” ।

वृद्धमनुः [मनुस्मृति, पूर्वार्ध्ं, ८.१५७] ।

समुद्रयानकुशला देशकालार्थदर्शिनः ।
नियच्छेयुर् भृतिं यां तु सा स्यात् प्राग् अकृता यदि ॥

नारदः [९.४] ।

कर्मोपकरणं चैषां क्रियां प्रति यद् अधितम् ।
आप्तभावेन तद् रक्ष्यं न जैह्म्येन कदाचन ॥

[४०३] बृहस्पतिः [१६.३, ५] ।

भृतकस् तु न कुर्वीत स्वामिना शाठ्यम् अन्व् अपि ।
भृतिहानिम् अवाप्नोति ततो वादः प्रवर्तते ॥
गृहीतवेतनः कर्म न करोति यदा भृतः ।
समर्थश् चेद् दमं दाप्यो द्विगुणं तच् च वेतनम् ॥

याज्ञवल्क्यः [२.१९३] ।

गृहीतवेतनः कर्म त्यजन् द्विगुणम् आवहेत् ।
अगृहीते समं दाप्यो भृत्यै रक्ष्य उपस्करः ॥

“भृत्यैः” भृतकैः । “उपस्करः” उपकरणम्, लाङ्गलादीनां योक्त्रादि ।

नारदः [९.५] ।

कर्माकुर्वन् प्रतिश्रुत्य कार्यो दत्वा भृतिं बलात् ।
भृतिं गृहीत्वाकुर्वाणो द्विगुणां भृतिम् आवहेत् ॥

कात्यायनः [६५७] ।

कर्मारम्भं तु यः कृत्वा सिद्धिं नैव तु कारयेत् ।
बलात्कारयितव्यो ऽसाव् अकुर्वन् दण्डम् अर्हति ॥

[४०४] बृहस्पतिः [१६.७] ।

प्रतिश्रुत्य न कुर्याद् यः स कार्यः स्याद् बलाद् अपि ।
स चेन् न कुर्यात् तत् कर्म प्राप्नुयाद् द्विशतं दमम् ॥

मनुः [८.२१५] ।

भृतो ऽनार्तो न कुर्याद् यो दर्पात् कर्म यथोदितम् ।
स दण्ड्यः कृष्णलान्य् अष्टौ न देयं चास्य वेतनम् ॥

[तथा; मनुः ८.२१७, २१६]

यथोक्तम् आर्तः स्वस्थो वा यस् तत् कर्म न कारयेत् ।
न तस्य वेतनं देयम् अल्पोनस्यापि कर्मणः ॥
आर्तस् तु कुर्यात् स्वस्थः सन् यथाभाषितम् आदितः ।
सुदीर्थस्यापि कालस्य तल् लभेतैव वेतनम् ॥

“अनार्तः” अनापन्नः । “अल्पोनस्य” अल्पावशिष्टस्य ।

[४०५] नारदः [नारदीयम् संहिता ७.७] ।

काले पूर्णे त्यजन् कर्म भृतेर् नाशम् अवाप्नुयात् ।
स्वामिदोषाद् अकरणे यावद् भृतिम् अवाप्नुयात् ॥

विष्नुः [५.१५३–५९]- “भृतकश् चापूर्णे काले भृतिं त्यजन् सकलम् एव मूल्यं जह्यात् । राज्ञे च पणशतं दद्यात् । तद्दोषेण [च] यद् विनश्येत् तत् स्वामिने [देयम्] । अन्यत्र दैवोपघातात् । स्वामी चेद् भृतकर्मपूर्णे काले जह्यात् तस्य सर्वम् एव मूल्यं दद्यात् । पणशतं च राजनि । अन्यत्र भृतकदोषात्” ।

नारदः [९.९] ।

भाण्डं व्यसनम् आगच्छेद् यदि वाहकदोषतः ।
दाप्यो यत् तत्र नष्टं स्याद् दैवराजकृताद् ऋते ॥

वृद्धमनुः ।

प्रमादान् नाशितं दाप्यः समं द्विर्दोहनाशितम् ।
न तु दाप्यो हृतं चौरैर् दग्धम् ऊढं जलेन वा ॥

बृहस्पतिः [१६.९] ।

प्रभुणा विनियुक्तः सन् भृतको विदधाति यत् ।
तदर्थम् अशुभं कर्म स्वामी तत्रापराध्नुयात् ॥

[४०६] “तदर्थम्” स्वाम्यर्थम् । “अशुभं” चौर्यादि । “अपराध्नुयात्” दण्डादिभाग् भवेत् ।

याज्ञवल्क्यः [२.१९७] ।

अराजदैविकं नष्टं भाण्डं दाप्यस् तु वाहकः ।
प्रस्थानविघ्नकृच् चैव दाप्यः स्याद् द्विगुणं भृतिम् ॥

वृद्धमनुः ।

यः कर्मकाले संप्राप्ते न कुर्याद् विघ्नम् आचरेत् ।
उद्धृत्यान्यस् तु कार्यः स्यात् स दाप्यो द्विगुणां भृतिम् ॥

याज्ञवल्क्यः [२.१९८] ।

प्रक्रान्ते सप्तमं भागं चतुर्थं पथि संत्यजन् ।
भृतिम् अर्धपथे सर्वां प्रदाप्यस् त्याजको ऽपि च ॥

मत्स्यपुराणे [२२७.६] ।

मूल्यम् आदाय यो विद्यां शिल्पं वा न प्रयच्छति ।
दण्ड्यः स मूल्यं सकलं धर्मज्ञेन महीक्षिता ॥

[४०७] नारदः [९.८, ७–८?] ।

अनयन् भाटयित्वा तु भाण्डवान् यानवाहने ।
दाप्यो भृतिचतुर्भागं समं धर्मपथे त्यजन् ॥
अनयन् वाहको ऽप्य् एवं भृतिहानिं समाप्नुयात् ।

वृद्धमनुः ।

पथि विक्रीय तद् भाण्डं वणिग् भृत्यम् त्यजेद् यदि ।
अगतस्यापि देयं स्याद् भृतेर् अर्धं लभेत् सः ॥

कात्यायनः [६६१] ।

यथा स पथि तद् भाण्डम् आसिध्येत ह्रियेत वा ।
यावान् अध्वा गतस् तेन तावतीं लभते भृतिम् ॥

“आसिध्येत” अवरुध्येत् ।

नारदः [९.६] ।

भृतिषड्भागम् आभाष्य पथि युग्यभृतं त्यजन् ।
अददत् कारयित्वा तु सोदयां भृतिम् आवहेत् ॥

“भृतिषड्भागम्” इत्यादि — यो भृतकः “आभाष्य” गच्छामीति संप्रतिपद्य पश्चाद् गमनोपक्रमे पथि स्थितं युग्यभृतं त्यजति, असौ उक्तभृतेः षड्भागं दाप्य इत्य् अर्थः ।

[४०८] बृहस्पतिः [१६.११] ।

कृते कर्मणि यः स्वामी न दद्याद् वेतनं भृतेः ।
राज्ञा दापयितव्यः स्याद् विनयं चानुरूपतः ॥

कात्यायनः [६६०] ।

त्यजेत् पथि सहायं यः श्रान्तं रोगार्तम् एव वा ।
प्राप्नुयात् साहसं पूर्वं ग्रामे त्र्यहम् अपालयन् ॥

६२ — (अ) अथ पण्यस्त्रीविधिः

तत्र नारदः [९.१९, पूर्वार्धम्] ।

शुल्कं गृहीत्वा पण्यस्त्री नेच्छन्ती द्विगुणं वहेत् ।
अनिच्छन् शुल्कदातापि शुल्कहानिम् अवाप्नुयात् ॥

स्मृतिः [बृहस्पतिः १६.१३] ।

व्याधिता सश्रमा व्यग्रा राजकार्यपरायणा ।
आमन्त्रिता च नागच्छेद् अवाच्या वडवा स्मृता ॥

[४०९] मत्स्यपुराणे [२२७.१४५] ।

गृहीत्वा वेतनं वेश्या लोभाद् अन्यत्र गच्छति ।
भाटं न दद्याद् दाप्या स्याद् अनूढस्यापि भाटतम् ॥

नारदः [९.१८ उत्तरार्धः, १९] ।

अप्रयच्छंस् तथा शुल्कम् अनुभूय पुमान् स्त्रियम् ।
अक्रमेण तु संगच्छन् घातदन्तनखादिभिः ॥
अयोनौ यः समाक्रामेद् बहुभिर् वापि वासयेत् ।
शुल्कं सो ऽष्टगुणं दाप्यो विनयं तावद् एव तु ॥

मत्स्यपुराणे [२२७.१४६–४८] ।

अन्यम् उद्दिश्य यो वेश्यां नयेद् अन्यस्य कारणात् ।
तस्य दण्डो भवेद् राज्ञः सुवर्णस्य च माषकम् ॥

[४१०] > नीत्वा भोगं न यो दद्याद् दाप्यो द्विगुणवेतनम् ।

राज्ञश् च द्विगुणं दण्डं तथा धर्मो न हीयते ॥
बहूनां व्रज्ताम् एकां सर्वे ते द्विगुणं दमम् ।
तस्यै दद्युः पृथग् राज्ञे दण्डं च द्विगुणं परम् ॥

नारदः ।

वेश्याः प्रधाना यास् तत्र कामुकास् तद्गृहोषिताः ।
तत्समुत्थेषु कर्येषु निर्णयं संशये विदुः ॥

[इति पण्यस्त्रीविधिपर्व]

६२ — (आ) अथ ग्रहादिभाटकविधिः

नारदः ।

परभूमौ गृहं कृत्वा स्तोमं दत्वा वसेत् तु यः ।
स तद् गृहीत्वा निर्गच्छेत् तृणकाष्ठेष्टकादिकम् ॥
स्तोमाद् विना ह्य् उषित्वा तु परभूमाव् अनिश्चितः ।
निर्गच्छंस् तृणकाष्ठानि न गृह्णीयात् कथंचन ॥
नान्येन तृणकाष्ठानि त्व् इष्टका विनिवेशिताः ।
विनिर्गच्छंस् तु तत् सर्वं भूस्वामिनि निवेशयेत् ॥

व्यासः ।

स्नेहेन तु चिरं भुक्त्वा मन्दिरं कुरुते तु यः ।
निर्गच्छतस् तस्य दारु दत्तस्तोमस्य नान्यथा ॥

कात्यायनः [६६३, ६६२] ।

गृहवार्यापणादीनि गृहीत्वा भाटकेन यः ।
स्वामिने नार्पयेद् यावत् तावद् दाप्यः स भाटकम् ॥

[४१२]

हस्त्यश्वगोखरोष्ट्रादीन् गृहीत्वा भाटकेन यः ।
नार्पयेत् कृतकृत्यः सन् तावद् दाप्यः स भाटकम् ॥

वृद्धमनुः ।

यो भाटयित्वा शकटं नीत्वा चान्यत्र गच्छति ।
भाटं न दद्याद् दाप्यः स्याद् अनूढस्यापि भाटकम् ॥

नारदः [९.२२] ।

स्तोमवाहीनि भाण्डानि पूर्णकालान्य् उपानयेत् ।
ग्रहीतुर् आभवेद् भग्नं नष्टं चान्यत्र संप्लवात् ॥

इति कल्पतरौ वेतनानपक्रिया ।

[४१३]