६१ भृतिविधिः

अथ भृतिविधिः

तत्राभ्युपेत्याशुश्रूषा

बृहस्पतिः [१५.१–३] ।

अदेयादिकम् आख्यातं भृतानाम् उच्यते विधिः ।
अशुश्रूषाभ्युपेत्यैतद् विवादपदम् उच्यते ॥
वेतनस्यानपाकर्म तद् अनु स्वामिपालयोः ।
क्रमशः कथ्यते वादो भृतभेदत्रयं त्व् इदम् ॥

नारदः [८.१–२] ।

अभ्युपेत्य तु शुश्रूषां यस् तां न प्रतिपद्यते ।
अशुश्रूषाभ्युपेत्यैतद् विवादपदम् उच्यते ॥
शुश्रूषकः पञ्चविधः शास्त्रे दृष्टो मनीषिभिः ।
चतुर्विधः कर्मकरः शेषा दासास् त्रिपञ्चकाः ॥

भृत्या इत्य् अनुवृत्तौ बृहस्पतिः [१५.४–५] ।

अनेकधा त्व् अभिहिता जातिकर्मानुरूपतः ।
विद्याविज्ञानकर्मार्थनिमित्तेन चतुर्विधाः ॥
एकैकः पुनर् एतेषां क्रियाभेदात् प्रभिद्यते ।

[३८३] नारदः [८.३–४] ।

शिष्यान्तेवासिभृतकाश् चतुर्थस् त्व् अधिकर्मकृत् ।
एते कर्मकरा ज्ञेया दासास् तु गृहजादयः ॥
सामान्यम् अस्वतन्त्रत्वम् एषाम् आहुर् मनीषिणः ।
जातिकर्मकृतस् तूक्तो विशेषो वृत्तितस् तथा ॥

बृहस्पतिः [१५.६] ।

विद्या त्रयी समाख्याता ऋग्यजुःसामलक्षणा ।
तदर्थं गुरुशुश्रूषां प्रकुर्याच् छास्त्रचोदिताम् ॥

नारदः [८.८] ।

आ विद्याग्रहणाच् छिष्यः शुश्रूषेत् प्रयतो गुरुम् ।
तद्वृत्तिर् गुरुदारेषु गुरुपुत्रे तथैव च ॥

तथा [८.१५] ।

समावृत्तश् च गुरवे प्रदाय गुरुदक्षिणाम् ।
प्रतीयात् स्वगृहान् एषा शिष्यवृत्तिर् उदाहृता ॥

बृहस्पतिः [१५.७] ।

विज्ञानम् उच्यते शिल्पं हेमकुप्यादिसंस्कृतिः ।
नृत्यादिकं च तच् छिक्षन् कुर्यात् कर्म गुरोर् गृहे ॥

[३८४] नारदः [८.१६–१७] ।

स्वं शिल्पम् इच्छन्न् आहर्तुं बान्धवानाम् अनुज्ञया ।
आचार्यस्य वसेद् अन्ते कालं कृत्वा सुनिश्चितम् ॥
आचार्यः शिक्षयेद् एनं स्वगृहे दत्तभोजनम् ।
न चान्यत् कारयेत् कर्म पुत्रवच् चैनम् आचरेत् ॥

कात्यायनः [७१६] ।

यस् तु न ग्राहयेच् छिल्पं कर्माण्य् आख्याति कारयेत् ।
प्राप्नुयात् साहसं पूर्वं तस्माच् छिष्यो निवर्तते ॥

नारदः [७.१८–१९] ।

शिक्षयन्तम् अदुष्तं च यस् त्व् आचार्यं परित्यजेत् ।
बलाद् वासयितव्यः स्याद् वधबन्धौ च सो ऽर्हति ॥
शिक्षितो ऽपि कृतं कालम् अन्तेवासी समापयेत् ।
तत्र कर्म च यत् कुर्याद् आचार्यस्यैव तत् फलम् ॥

“वधो” ऽत्र वेणुदण्डादिना तादनमात्रम् । “बन्धो” बन्धनम् । यन्त्रणम् इति कश्चित् । “कृतं कालम्” व्यवस्थापितं समयम् । “तत् फलम्” कर्मफलं भृतिरूपम् ।

[३७५] तथा [७.२०] ।

गृहीतशिल्पः समये कृत्वाचार्यं प्रदक्षिणम् ।
शक्तितश् चानुमान्यैनम् अन्तेवासी निवर्तते ॥

बृहस्पतिः [१५.८–१२] ।

यो भुङ्क्ते परदासीम् तु स ज्ञेयो वनिताभृतः ।
कर्म तत्स्वामिनः कुर्याद् यथान्यो ऽर्थभृतो नरः ॥
बहुधार्थभृतः प्रोक्तस् तथा भागभृतो ऽपरः ।
हीनमध्योत्तमत्वं च सर्वेषाम् एव चोदितम् ॥
दिनमासार्धषण्मासत्रिमासाब्दभृतस् तथा ।
कर्म कुर्यात् प्रतिज्ञातं लभते परिभाषितम् ॥

[३७६] > भृतकस् त्रिविधो ज्ञेय उत्तमो मध्यमो ऽधमः ।

शक्तिभक्त्यनुरूपा स्याद् एषां कर्माश्रया भृतिः ॥
उत्तमस् त्व् आयुधीयो ऽत्र मध्यमस् तु कृषीवलः ।
अधमो भारवाहः स्याद् इत्य् एष त्रिविधो भृतः ॥

बृहस्पतिः [१५.१३–१४] ।

आयुधीयोत्तमस् तेषां मध्यमः सीरवाहकः ।
भारवाहो ऽधमः प्रोक्तस् तथा च गृहकर्मकृत् ॥
द्विप्रकारो भागभृतः कृषिगोजीविनां स्मृतः ।
जातसस्यात् तथा क्षीरात् स लभेत न संशयः ॥

नारदः [८.२३, २५, ८, ५,७] ।

अर्थेष्व् अधिकृतो यः स्यात् कुटुम्बस्य तथोपरि ।
सो ऽधिकर्मकरो ज्ञेयः स च कौटुम्बिकः स्मृतः ॥
शुभकर्मकरा ह्य् एते चत्वारः समुदाहृताः ।
जघन्यकर्मभाजस् तु शेषा दासास् त्रिपञ्चकाः ॥
कर्मापि द्विविधं प्रोक्तम् अशुभं शुभम् एव च ।
अशुभं दासकर्मोक्तं सुभं कर्मभृतः स्मृतम् ॥
गृहद्वाराशुचिस्थानरथ्यावस्करशोधनम् ।
गुह्याङ्गस्पर्शनोच्छिष्टविण्मूत्रग्रहणोज्झनम् ॥

[३८७] > इच्छतः स्वामिनश् चाङ्गैर् उपस्थानम् अथान्ततः ।

अशुभं कर्म विज्ञेयं शुभम् अन्यत् ततः परम् ॥

कात्यायनः [७२०] ।

विण्मूत्रोन्मार्जनं चैव नग्नत्वपरिमर्दनम् ।
प्रायो दासीसुताः कुर्युर् गवादिग्रहणं च यत् ॥

नारदः [८.२६–२९, ३१] ।

गृहजातस् तथा क्रीतो लब्धो दायाद् उपागतः ।
अनाकालभृतस् तद्वद् आहितः स्वामिना च यः ॥

[३८८] > मोक्षितो महतश् चर्णाद् युद्धे प्राप्तः पणे जितः ।

तवाहम् इत्य् उपगतः प्रव्रज्यावसितः कृतः ॥
भक्तदासश् च विज्ञेयस् तथैव वडवाहृतः ।
विक्रेता वात्महण् शास्त्रे दासाः पञ्चदश स्मृताः ॥
तत्र पूर्वश् चतुर्वर्गो दासत्वान् न विमुच्यते ।
प्रसादात् स्वामिनो ऽन्यत्र दास्यम् एषां क्रमागतम् ॥
विक्रीणीते स्वतन्त्रः सन् यत्रात्मानं नराधमः ।
स जघन्यतमस् तेषाम् सो ऽपि दास्यान् न मुच्यते ॥

“अनाकाले भृतः” दुर्भिक्षकाले भृतः ।

[३८९] मार्कण्डेयपुराणे [१८.२१६] चण्डालदास्यं प्राप्तस्य पुत्रशोकार्तस्य हरिश्चन्द्रस्य वाक्यम् ।

चण्डालेनाननुज्ञातः प्रवेक्ष्ये ज्वलनं यदि ।
चण्डालदासतां प्राप्स्ये पुनर् अन्यत्र जन्मनि ॥

मनुः [८.४१४] ।

न स्वामिना निसृष्टो ऽपि शूद्रो दास्यात् प्रमुच्यते ।
निसर्गजं हि तत् तस्य कस् तस्मात् तं व्यपोहति ॥

नारदः [८.३६] ।

राज्ञ एव तु दासः स्यात् प्रव्रज्यावसितो नरः ।
न तस्य प्रतिमोक्षो ऽस्ति न विशुद्धिः कथंचन ॥

[३९०] कात्यायनः [७२१] ।

प्रव्रज्यावसितः यत्र त्रयो वर्णा द्विजातयः ।
निर्वासं कारयेद् विप्रं दासत्वं क्षत्रविण् नृपः ॥

दक्षः [७.३३] ।

पारिव्राज्यं गृहीत्वा तु यः स्वधर्मे न तिष्ठति ।
श्वपदेनाङ्कयित्वा तं राजा शीघ्रं प्रवासयेत् ॥

(अ) अथ दास्यविमोक्षः

तत्र नारदः [८.४०, ३०–३४, ३६] ।

तवाहम् इति चात्मानं यो ऽस्वतन्त्रः प्रयच्छति ।
न स तं प्राप्नुयात् कामं पूर्वस्वामी लभेत तम् ॥

[३९१]

चौरापहृतविक्रीता ये च दासीकृता बलात् ।
राज्ञा मोचयितव्यास् ते दासत्वं तेषु नेष्यते ॥
यश् चैषां स्वामिनं कश्चिन् मोचयेत् प्राणसंशयात् ।
दासत्वात् स विमुच्येत पुत्रभागं लभेत च ॥
अनाकाले भृतो दास्यान् मुच्यते गोयुगं ददत् ।
भक्षितं चापि यद् दुर्गे न तच् छुध्यति कर्मणा ॥
आहितो ऽपि धनं दत्वा स्वामी यद्य् एनम् उद्धरेत् ।
अथोपगमयेद् एनं सो ऽपि क्रीताद् अनन्तरः ॥
ऋणं तु सोदयं दत्वा ऋणी दास्यात् प्रमुच्यते ।
कृतकालव्युपरमात् कृतको ऽपि विमुच्यते ॥
तवाहम् इत्य् उपगतो युद्धे प्राप्तः पणे जितः ।
प्रतिशीर्षप्रदानेन मुच्यते तुल्यकर्मणा ॥
भक्तस्योपेक्षणात् सद्यो भक्तदासः प्रमुच्यते ।
निग्रहाद् वडवायां च मुच्यते वडवाभृतः ॥

“अस्वतन्त्रः” अस्वामिकः । “दुर्गे” दुर्भिक्षे । “उपगमयेत्” इत्यादि (?) । यस्मिन्न् आहितो दासस् तम् एव यदि ग्राहयेन् न मोचयेत् तदा तस्यासौ “क्रीतानन्तरः” [३९२] क्रीताद् अवशिष्टः संपद्यत इत्य् अर्थः । “प्रतिशीर्षप्रदानेन” तुल्यदासदानेनेत्य् अर्थः । “निग्रहात्” आच्छादनात् । “वडवा” दासी ।

याज्ञवल्क्यः [२.१८२] ।

बलाद् दासीकृतश् चौरैर् विक्रीतश् चापि मुच्यते ।
स्वामिप्राणप्रदो भक्तत्यागात् तन्निष्क्रयाद् अपि ॥

कात्यायनः [७२३] ।

स्वदासीं यस् तु संगच्छेत् प्रसूता च भवेत् ततः ।
अवेक्ष्य बीजं कार्या स्याद् अदासी सान्वया तु सा ॥

[३९३] नारदः [८.४२, ४३, ४१] ।

स्वं दासम् इच्छेद् यः कर्तुम् अदासं प्रीतमानसः ।
स्कन्धाद् आदाय तस्यासौ भिन्द्यात् कुम्भं सहाम्भसा ॥
साक्षाताभिः सपुष्पाभिर् मूर्धन्यद्भिर् अवाकिरन् ।
अदास इति चोक्त्वा त्रिः प्राङ्मुखं तम् अथोत्सृजेत् ॥
ततः प्रभ्र्ति वक्तव्यः स्वाम्यनुग्रहपालितः ।
भोज्यान्नश् च प्रतिग्राह्यो भवत्य् अभिमतः सताम् ॥
अधनास् त्रय एवोक्ता भार्या दासस् तथा सुतः ।
यत् ते समधिगच्छन्ति यस्यैते तस्य तद् धनम् ॥

“समधिगच्छन्ति” समार्जयन्ति ।

देवलः ।

पितर्य् उपरते पुत्रा विभजेयुर् धनं पितुः ।
अस्वाम्यं हि भवेत् तेषां निर्दोषे पितरि स्थिते ॥
पत्यौ जीवति नारीणां दासानां स्वामिनि स्थिते ।
तद्वन् नियतम् अस्वाम्यं सर्वार्थेष्व् अब्रवीन् मनुः ॥

मनुः [८.१४७] ।

विस्रब्धं ब्राह्मणः शूद्राद् द्रव्योपादानम् आचरेत् ।
न हि तस्यास्ति किंचित् स्वं भर्तृहार्यधनो हि सः ॥

[३९४] कात्यायनः [७२४, ७२५] ।

दासस्य तु धनं यत् स्यात् स्वामी तस्य प्रभुः स्मृतः ।
प्रकाशविक्रयाद् यत् तु तत् स्वामी धनम् अर्हति ॥

[३९५] तथा ।

दासेनोढा च दासी या सापि दासीत्वम् आप्नुयात् ।
यस्माद् भर्ता प्रभुस् तस्याः स्वाम्यधीनः पतिर् यतः ॥

[३९५]

अथ दास्याधिकारिणः

तत्र नारदः [८.३९] ।

वर्णानां प्रातिलोम्येन दासत्वं न विधीयते ।
स्वधर्मत्यागिनो ऽन्यत्र दारवद् दासता मता ॥

कात्यायनः [७१५–१६, ७१९, ७१८] ।

स्वतन्त्रस्यात्मनो दानाद् दासत्वं दारवद् भृगुः ।
त्रिषु वर्णेषु विज्ञेयं दास्यं विप्रस्य न क्वचित् ॥
वर्णानाम् आनुलोम्येन दास्यं न प्रतिलोमतः ।
राजन्यवैश्यशूद्राणां त्यजतां च स्वतन्त्रताम् ॥
समवर्णो ऽपि विप्रं तु दासत्वं नैव कारयेत् ।
शीलाध्ययनसंपन्नस् तदूनं कर्म कामतः ॥
तत्रापि नाशुभं किंचित् प्रकुर्वीत द्विजोत्तमः ।
ब्राह्मणस्य हि दासत्वान् नृपतेजो विहन्यते ॥
क्षत्रविट्शूद्रधर्मस् तु समवर्णं कदाचन ।
कारयेद् दासकर्माणि ब्राह्मणं न बृहस्पतिः ॥

“तदूनं” इत्य् अत्र शीलाधयनन्यूनं ब्राह्मणं शीलाध्ययनसंपन्नो ब्राह्मणः कर्म कारयेद् इति योजना । “कामतः” तदिच्छया । “अशुभं” विण्मूत्रशोधनादि । [३९७] “क्षत्रविट्शूद्रधर्म” इत्यादि, क्षत्रादिधर्मः ब्राह्मणं दासकर्माणि न कारयेद् इति बृहस्पतिर् मन्यत इत्य् अर्थः ।

मनुः [८.४११–१३] ।

क्षत्रियं चैव वैश्यं च ब्राह्मणो वृत्तिकर्षितौ ।
बिभृयाद् आनृशंस्येन स्वानि कार्माणि कारयेत् ॥

[३९८] > दास्यं तु कारयेन् मोहाद् ब्राह्मणः संस्कृतान् द्विजान् ।

अनिच्छतः प्राभवत्वाद् राज्ञा दाप्यः शतानि षट् ॥
शूद्रं तु कारयेद् दास्यं क्रीतम् अक्रीतम् एव वा ।
दायायैव हि सृष्टो ऽसौ स्वयम् एव स्वयंभुवा ॥

“प्राभवत्वात्” प्रभुत्वात् ।

विष्णुः [५.१५१]- “यस् तूत्तमवर्णं दास्ये नियोजयति तस्योत्तमसाहसो दण्डः” ।

कात्यायनः [७२६–२९] ।

आदद्याद् ब्राह्मणीं यस् तु विक्रीणीयात् तथैव च ।
राज्ञे तद् अकृतं कार्यं दण्ड्याः स्युः सर्व एव ते ॥
कामात् तु संश्रितां यश् च दासीं कुर्यात् कुलस्त्रियम् ।
संक्रामयेत् तथान्यत्र दण्ड्यस् तच् चाकृतं भवेत् ॥

[३९९] > बालघात्रीम् अदासीं च दासीम् एव भुनक्ति यः ।

परिचारकपत्नीं वा प्राप्नुयात् पूर्वसाहसम् ॥
विक्रोशमानां यो भक्तां दासीं विक्रेतुमिच्छति ।
अनापदिस्थः शक्तः सन् प्राप्नुयाद् द्विशतं दमम् ॥

इति महाराजाधिराजश्रीगोविन्दचन्द्रदेवमहासन्धिविग्रहिकेण

भट्टहृदयधरात्मजेन

भट्टश्रीलक्ष्मीधरेण विरचिते कृत्यकल्पतरौ

व्यवहारकाण्दे दास्याधिकारपर्व ॥

[४००]