६० दत्ताप्रदानिकम्

अथ दत्ताप्रदानिकम्

तत्र नारदः [७.१–३] ।

दत्वा द्रव्यम् असम्यग् यः पुनर् आदातुम् इच्छति ।
दत्ताप्रदानिकं नाम व्यवहारपदं हि तत् ॥
अदेयम् अथ देयं च दत्तं चदत्तम् एव च ।
व्यवहारेषु विज्ञेयो दानमार्गश् चतुर्विधः ॥
तत्रेहाष्टाव् अदेयानि देयम् एकविधं स्मृतम् ।
दत्तं सप्तविधं दद्याद् अदत्तं द्वादशात्मकम् ॥

बृहस्पतिः [१४.२] ।

सामान्यं पुत्रदाराधिसर्वस्वन्यासयाचितम् ।
प्रतिश्रुतं तथान्यस्य न देयम् इति संमतम् ॥

नारदः [७.४–५] ।

अन्वाहितं याचितकम् आधिः सामान्यकं च यत् ।
निक्षेपः पुत्रदारं च सर्वस्वं चान्वये सति ॥

[३७४] > आपत्स्व् अपि हि कष्टासु वर्तमानेन देहिना ।

अदेयान्य् आहुर् आचार्या यच् चान्यस्मै प्रतिश्रुतम् ॥

दक्षः ।

सामान्यं याचितं न्यास आधिर् दाराश् च तद्धनम् ।
अन्वाहितं च निक्षेपः सर्वस्वं चान्वये सति ॥
आपत्स्व् अपि न देयानि नव वस्तूनि पण्डितैः ।
यो ददाति स मूढात्मा प्रायश्चित्तीयते नरः ॥

याज्ञवल्क्यः [२.१७५] ।

स्वकुटुम्बावरोधेन देयं दारसुताद् ऋते ।
नान्वये सति सर्वस्वं यच् चान्यस्मै प्रतिश्रुतम् ॥

कात्यायनः [६३८–३९] ।

विक्रयं चैव दानं च न देयाः स्युर् अनिच्छवः ।
दाराः पुत्राश् च सर्वस्वम् आत्मनैव तु योजयेत् ॥

[३७५] > आपत्काले तु कर्तव्यं दानं विक्रय एव वा ।

अन्यथा न प्रवर्तेत इति शास्त्रविनिश्चयः ॥

वसिष्ठः [१५.१–५]- “शुक्रशोणितसंभवः पुरुषो मातृपितृनिमित्तकः । तस्य प्रदानविक्रयपरित्यागेषु मातापितरौ प्रभवतः । न चैकं पुत्रं दद्यात् प्रतिगृह्णीयाद् वा । स हि संतानाय पूर्वेषाम् । न तु स्त्री पुत्रं दद्यात् प्रतिगृह्णीयाद् वा, अन्यत्रानुज्ञानाद् भर्तुः” ।

बृहस्पतिः [१४.३] ।

कुटुम्बभक्तवसनाद् दयें यद् अतिरिच्यते ।
मध्वास्वादो विषं पश्चाद् दातुर् धर्मो ऽन्यथा भवेत् ॥

कात्यायनः [६४०] ।

सर्वस्वं गृहवर्जं तु कुटुम्बभरणाधिकम् ।
यद् द्रव्यं तत् स्वकं देयम् अदेयं स्याद् अतो ऽन्यथा ॥

बृहस्पतिः [१४.४–६, ८] ।

सप्तागमाद् गृहक्षेत्राद् यद् यत् क्षेत्रं प्रदीयते ।
पित्र्यं वाथ स्वयं प्राप्तं तद् दातव्यं विवक्षितम् ॥
स्वेच्छादेयं स्वयं प्राप्तं बन्धाचारणबन्धकम् ।
वैवाहिके क्रमायाते सर्वदानं न विद्यते ॥

[३७६] > सौदायिकं क्रमायातं शौर्यप्राप्तं च यद् भवेत् ।

स्त्रीज्ञातिस्वाम्यनुज्ञातं दत्तं सिद्धिम् आप्नुयात् ॥
विभक्ता वाविभक्ता वा दायादाः स्थावरे समाः ।
एको ह्य् अनीशः सर्वत्र दानाधमनविक्रये ॥

“सप्तागमात्”

सप्तवित्तागमाः धर्म्या दायो लाभः क्रयो जयः ।
प्रयोगः कर्मयोगश् च सत्प्रतिग्रह एव च ॥

इति मनूक्तेः [१०.११५] सप्तविधशौर्याद्यागमलब्धधनाद् उद्धृत्य तद् धनम् आश्रित्य गृहक्षेत्रादि दातव्यम् । न त्व् अनागमम् इत्य् अर्थः ।

याज्ञवल्क्यः [२.१७६] ।

प्रतिग्रहः प्रकाशः स्यात् स्थावरस्य विशेषतः ।
देयं प्रतिश्रुतं चैव दत्वा नापहरेत् पुनः ॥

[३७७] कात्यायनः [६४२] ।

स्वेच्छया यः प्रतिश्रुत्य ब्राह्मणाय प्रतिग्रहम् ।
न दद्याद् ऋणवद् दाप्यः प्राप्नुयात् पूर्वसाहसम् ॥

मत्स्यपुराणे [२२७.४] ।

प्रतिश्रुत्याप्रदातारं सुवर्णं दण्डयेन् नृपः ।

हारीतः ।

प्रतिश्रुतार्थदाने तु दत्तस्योच्छेदनेन च ।
विविधान् नरकान् याति तिर्यग्योनौ च जायते ॥
वाचा च यत् प्रतिज्ञातं कर्मणा नोपपादितम् ।
ऋणं तद् धर्मसंयुक्तम् इह लोके परत्र च ॥

गौतमः [५.२४]- “प्रतिश्रुत्याप्य् अधर्मसंयुक्ताय न दद्यात्” ।

बृहस्पतिः [१४.९] ।

भृतिस् तुष्ट्या पण्यमूल्यं स्त्रीशुल्कम् उपकारिणे ।
श्रद्धानुग्रहसंप्रीत्या दत्तम् अष्टविधं विदुः ॥

दत्तस्य सप्तविधत्वम् अभिधाय विभागे —

[३७८] नारदः [४.७] ।

पण्यमूल्यं भृतिस् तुष्ट्या स्नेहात् प्रत्युपकारतः ।
स्त्रीशुल्कानुग्रहार्थं च दत्तं दानविदो विदुः ॥

“पण्यमूल्यम्” क्रीतमूल्यम् । “भृतिः” वेतनम्, कृतकर्मणे दत्तम् । “तुष्ट्या” बन्दिचारणादिभ्यो दत्तम् ।

दक्षः ।

मातापित्रोर् गुरौ मित्रे विनीते चोपकारिणि ।
दीनानाथविशिष्टेभ्यो दत्तं तु सफलं भवेत् ॥

कात्यायनः [६४५, ६४४, ६४६] ।

भयत्राणाय रक्षार्थं तथा कार्यप्रसाधनात् ।
अनेन विधिना दत्तं विद्यात् प्रत्युपकारिकम् ॥
अविज्ञातोपलब्ध्यर्थं दानं यत्र निरूपितम् ।
उपलब्धिक्रियालब्धं सा भृतिः परिकीर्तिता ॥
प्राणसंशयम् आपन्नं यो माम् उत्तारयेद् इतः ।
सर्वस्वं तस्य दास्यामीत्य् उक्ते ऽपि न तथा भवेत् ॥

नारदः ।

अदत्तं तु भयक्रोधशोकवेगरुगन्वितैः ।
तथोत्कोचपरीहासव्यत्यासच्छलयोगतः ॥

[३७९] > बालमूढस्वतन्त्रैश् च मत्तोन्मत्तापवर्जितैः ।

कर्ता ममायं कर्मेति प्रतिलाभेच्छया तु यत् ॥

कात्यायनः [६४७, ६४९] ।

कामक्रोधास्वतन्त्रार्तक्लीबोन्मत्तप्रमोहितैः ।
व्यत्यासपरिहासाच् च यद् दत्तं तत् पुनर् हरेत् ॥
यदि कार्यस्य सिद्ध्यर्थम् उत्कोचा स्यात् प्रतिश्रुता ।
तस्मिन्न् अपि प्रसिद्धे ऽर्थे न देया स्यात् कथंचन ॥
अथ प्राग् एव दत्ता स्यात् प्रतिदाप्यः स तां बलात् ।
दण्डं चैकादशगुणम् आहुर् गार्गीयमानवाः ॥

बृहस्पतिः [१४.१५–१७] ।

क्रुद्धहृष्टप्रमत्तार्तबालोन्मत्तभयातुरैः ।
मत्तातिवृद्धनिर्धूतैः प्रमूढैः शोकवेगिभिः ॥
नर्मदत्तं तथैतैर् यत् तद् अदत्तं प्रकीर्तितम् ।
प्रतिलाभेच्छया दत्तम् अपात्रे पात्रशङ्कया ॥
कार्ये चाधर्मसंयुक्ते स्वामी तत् पुनर् आप्नुयात् ॥

अमिअ स्रिनिवसन्

[३८०] नारदः [४.११] ।

अपात्रे पात्रम् इत्य् उक्ते कार्ये चाधर्मसंहिते ।
यद् दत्तं स्याद् अविज्ञानाद् अदत्तं तद् अपि स्मृतम् ॥

मनुः [८.२१२-१३] ।

धर्मार्थं येन दत्तं स्यात् कस्मैचिद् याचते धनम् ।
पश्चाच् च न तथा तत् स्यान् न देयं तेन तद् भवेत् ॥
यदि संसाधयेत् तत् तु दर्पाल् लोभेन वा पुनः ।
राज्ञा दाप्यः सुवर्णं स्यात् तस्य स्तेयस्य निष्कृतिः ॥

नारदः [४.१२] ।

गृह्नात्य् अदत्तं यो मोहाद् यश् चादेयं प्रयच्छति ।
दण्डनीयाव् उभाव् एतौ धर्मज्ञेन महीक्षिता ॥

कात्यायनः [६५४, ६५०, ६५१] ।

स्वस्थेनार्तेन वा देयं श्रावितं धर्मकारणात् ।
अदत्वा तु मृते दाप्यस् तत्सुतो नात्र संशयः ॥

[३८१] > स्तेनसाहसिकोद्वृत्तपारजायिकशंसनात् ।

दर्शनाद् वृत्तनष्टस्य तथासत्यप्रवर्तनात् ॥
प्राप्तम् एतैस् तु यत् किंचित् तद् उत्कोचाख्यम् उच्यते ।
न दाता तत्र दण्ड्यः स्यान् मध्यस्थश् चैव दोषभाक् ॥

इति महाराजाधिराजश्रीगोविन्दचन्द्रदेवमहासन्धिविग्रहिकेण

भट्टश्रीहृदयधरात्मजेन

श्रीमल्लक्ष्मीधरेण विरचिते कृत्यकल्पतरौ

व्यवहारकाण्दे दत्ताप्रदानिकम् ॥

[३८२]