५९ संभूयसमुत्त्थानम्
अथ संभूयसमुत्त्थानम्
तत्र नारदः [६.१] ।
वणिक्प्रभृतयो यत्र कर्म संभूय कुर्वते ।
तत्संभूयसमुत्थानं व्यवहारपदं स्मृतम् ॥
बृहस्पतिः [१३.३, १] ।
अशक्तालसरोगार्तमन्दभाग्यनिराश्रयैः ।
वाणिज्याद्याः सहैतैस् तु न कर्तव्याः बुधैः क्रियाः ॥
कुलीनदक्षानलसैः प्राज्ञैर् नानृतवादिभिः ।
आयव्ययज्ञैः शुचिभिः शूरैः कुर्यात् सह क्रियाम् ॥
नारदः [६.२] ।
फलहेतोर् उपायेन कर्म संभूय कुर्वताम् ।
आधारभूतः प्रक्षेपस् तेनोत्तिष्ठेयुर् अंशतः ॥
[३५९] बृहस्पतिः [१३.५] ।
समो न्यूनो ऽधिको वांशो येन क्षिप्तस् तथैव च ।
व्ययं दद्यात् कर्म कुर्याल् लाभं गृह्णीत चैव हि ॥
याज्ञवल्क्यः [२.२५९] ।
समवायेन वणिजां लाभार्थं कर्म कुर्वताम् ।
लाभालाभौ यथाद्रव्यं यथा वा संविदा कृतौ ॥
कात्यायनः [६२४] ।
समवेतास् तु ये केचिच् छिल्पिनो वणिजो ऽपि वा ।
अविभज्य पृथग्भूतैः प्राप्तं तत्र समं फलम् ॥
नारदः [६.४] ।
भाण्डपिण्डव्ययोद्धारभारसारान्ववेक्षणे ।
कुर्युस् ते ऽव्यभिचारेण समये स्वे व्यवस्थिताः ॥
“भाण्डम्” विक्रेयद्रव्यम् । “पिण्डम्” पाथेयम् ।
व्यासः ।
समक्षं असमक्षं वावञ्चयन्तः परस्परम् ।
नानापण्यानुसारेण प्रकुर्युर् क्रयविक्रयौ ॥
बृहस्पतिः [१३.६–९] ।
परीक्षकाः साक्षिणश् च त एवोक्ताः परस्परम् ।
संदिग्धे ऽर्थे पञ्चनार्था न चेद् विद्वेषसंयुताः ॥
[३६०] > यः कश्चिद् वञ्चकस् तेषां विज्ञातः क्रयविक्रये ।
शपथैः स विशोध्यः स्यात् सर्ववादेष्व् अयं विधिः ॥
क्षयो हानिर् यदा तत्र दैवराजकृतो भवेत् ।
सर्वेषाम् एव सा प्रोक्ता कल्पनीया यथांशतः ॥
अनिर्दिष्टो वार्यमाणः प्रमादाद् यस् तु नाशयेत् ।
तेनैव तद् भवेद् देयं सर्वेषां समवायिनाम् ॥
नारदः [६.५] ।
प्रमादान् नाशितं दप्यः प्रतिषिद्धं च यद् भवेत् ।
असंदिष्टं च यत् कुर्यात् सर्वैः संभूयकारिभिः ॥
याज्ञवल्क्यः [२.२६०] ।
प्रतिषिद्धम् अनादिष्टं प्रमादाद् यच् च नाशितम् ।
स तद् दद्याद् विप्लवाच् च रक्षिता दशमांशभाक् ॥
बृहस्पतिः [१३.११] ।
राजदैवभयाद् यस् तु स्वशक्त्या परिपालयेत् ।
तस्यांशं दशमं दत्वा गृह्णीयुः स्वांशतो ऽपरे ॥
[३६१] नारदः [६.६] ।
दैवतस्परराजाग्निव्यसने समुपस्थिते ।
यस् तु स्वशक्त्या रक्षेत् तु तस्यांशो दशमः स्मृतः ॥
कात्यायनः [६३१] ।
चौरतः सलिलाद् अग्नेर् द्रव्यं यस् तु समाहरेत् ।
तस्यांशो दशमो दाप्यः सर्वद्रव्येष्व् अयं विधिः ॥
याज्ञवल्क्यः [२.२६५] ।
जिह्मं त्यजेयुर् निर्लाबम् अशक्तो ऽन्येन कारेयेत् ।
“जिह्मम्” वञ्चकम् । “निर्लाभम्” लाभम् आच्छिद्य । “त्यजेयुः” संभूयकारिणः । “अशक्तः” [असमर्थः] भाण्डपिण्डव्ययाद्यवेक्षणे ।
नारदः [६.४] ।
भाण्डपिण्डव्ययोद्धारभारसारान्ववेक्षणम् ।
कुर्युस् ते ऽव्यभिचारेण समये स्वे व्यवस्थिताः ॥
नारदः [६.७] ।
एकस्य चेत् स्याद् द्व्यसनं दायादो ऽस्य तद् आप्नुयात् ।
अन्यो वासति दायादे शक्तश् चेत् सर्व एव वा ॥
[३६२] तथा [६.१६] ।
कश्चिच् चेत् संचरन् देशान् प्रेयाद् अभ्यागतो वणिक् ।
राजास्य भाण्डं तद् रक्षेद् यावद् दायाददर्शनम् ॥
“व्यसनम्” मरणरूपम् । “अन्यो वा” इत्यादि । “असति दायादे” संभूयकारिणां मध्ये यः “शक्तः” प्रधानीभूतो ऽसौ तद् द्रव्यं गृह्णीयात् । अत “सर्व एव” तुल्यास् तदा सर्व एव तद् द्रव्यं गृह्णीयुर् इत्य् अर्थः ।
बृहस्पतिः [१३.१४, १५] ।
यदा तत्र वणिक् कश्चित् प्रमीयेत् प्रमादतः ।
तस्य भाण्डं दर्शनीयं नियुक्तै राजपूरुषैः ॥
यदा कश्चित् समागच्छेत् तत्र रिक्थहरो नरः ।
स्वाम्यं विभावयेद् अन्यैः स तदा लब्धुम् अर्हति ॥
नारदः [६.१७] ।
दायादे ऽसति बन्धुभ्यो ज्ञातिभ्यो वा तद् अर्पयेत् ।
तद् अभावे सुगुप्तं तद् धारयेद् दशवत्सरान् ॥
बृहस्पतिः [१३.१६, १७] ।
राजाददीत षड्भागं नवमं दशमं तथा ।
शूद्रविट्क्षत्रजातीनां विप्राद् गृह्णीत विंशकम् ॥
त्र्यब्दाद् ऊर्ध्वं तु नागच्छेद् यत्र स्वामी कथंचन ।
तदा गृह्णीत तद् राजा ब्रह्मस्वं ब्राह्मणान् श्रयेत् ॥
[३६३] बौधायनः [१.१८.१६]- “अब्राह्मणस्य प्रणष्टस्वामिकं रिक्थं संवत्सरं परिपाल्य राजा हरेत्” ।
अत्र च प्रणष्टस्वामिकद्रव्ये एकवर्षत्रिवर्षदशवर्षधारणविकल्पानां व्यवस्था तत् परदेशवर्तिदूरतरदूरतमदेशवर्तितदीयपुत्रादिदायादवार्तायां सत्यां नानाविधानेकगमनप्रतिबन्धसंभवे चावगन्तव्यम् ।
नारदः [६.१८, ८] ।
अस्वामिकम् अदायादं दशवर्षस्थितं ततः ।
राजा तद् आत्मसात् कुर्याद् एवं धर्मो न हीयते ॥
ऋत्विजां व्यसने ऽप्य् एवम् अन्यस् तत् कर्म निस्तरेत् ।
लभते दक्षिणाभागं स च तस्मात् प्रकल्पितम् ॥
बृहस्पतिः [१३.१८] ।
एवं क्रियाप्रपन्नानां यदा कश्चिद् विपद्यते ।
तद्बन्धुना क्रिया कार्या सर्वैर् वा सहकारिभिः ॥
“क्रिया” अत्र तस्य कर्तव्यार्त्विज्यादिका ।
शङ्खलिखितौ- “तत्र चेद् अनुप्राप्ते सवने ऋत्विङ् म्रियेत तत्र किं कार्यम् इति जिज्ञासा तस्य सगोत्रो ऽथ शिष्यो वा तत् कार्यम् अनुपूरयेत् । अथ चेद् अबान्धवस् ततो ऽन्यम् ऋत्विजं वृणुयात्” ।
[३६४] याज्ञवल्क्यः [२.२६५] ।
जिह्मं त्यजेयुर् निर्लाभम् अशक्तो ऽन्येन कारयेत् ।
अनेन विधिनाख्यात ऋत्विक्कर्षककर्मिणाम् ॥
मनुः [८.२०६–०७] ।
ऋत्विग् यदि वृतो यज्ञे सवकर्म परिहापयेत् ।
तस्य कर्मानुरूपेण देयो ऽंशः सहकर्तृभिः ॥
दक्षिणासु च दत्तासु स्वकर्म परिहापयेत् ।
कृत्स्नम् एव लभेतांशम् अन्येनैव च कारयेत् ॥
मनु-बृहस्पती [म्। ८.२१०; बृ। १३.२०] ।
सर्वेषाम् अर्धिनो मुख्यास् तदर्धेनार्धिनो ऽपरे ।
तृतीयिनस् तृतीयांशाश् चतुर्थांशास् तु पादिनः ॥
“सर्वेषाम्” षोडशानाम् ऋत्विजाम्, या समुदिता दक्षिणा तस्याम् अर्धं गृह्णन्ति “मुख्याः” होतृब्राह्माध्वर्यूद्गातारः । ईषन्न्यूनार्धग्रहणे ऽपि सामीप्येन “अर्धिन” उच्यन्ते । “अपरे” मैत्रावरुणब्राह्मणाच्छंसिप्रतिप्रस्थातृप्रस्तोतारः, ते [३६५] मुख्यऋत्विग्गृहीतदक्षिणार्धग्रहणेनार्धिन उच्यन्ते । ये “तृतीयिनः” अच्छावाकनेष्ट्रग्नीध्रप्रतिहर्तारस् ते मुख्यार्थगृहीतस्य तृतीयम् अंशं लभन्ते । “पादिनः” ग्रावस्तोतृपोतृनेतृसुब्रह्मण्याः । एते मुखर्त्विग्गृहीतस्य चतुर्थम् अंशं लभन्ते ।
मनुः [८.२११, २०८] ।
संभूय स्वानि कर्माणि कुर्वद्भिर् इह मानवैः ।
अनेन क्रमयोगेन कर्तव्यांशप्रकल्पना ॥
यस्य कर्मणि यास् तु स्युर् उक्ताः प्रत्यंशदक्षिणाः ।
स एव ता आददीत भजेरन् सर्व एव वा ॥
[३६५] “प्रत्यंशदक्षिणाः” अंशम् अंशं प्रति ऋत्विग्विशेषसंबन्धेन समाम्नाता दक्षिणाः । ताः किं यस् कर्मणि यत्संबन्धेन समाम्नाताः — यथा अभिषेचनीये ऽहिरण्मयौ प्राकाशाव् अध्वर्यवे ददाति" इति तेनैवाध्वर्युणा गृहीतव्या, उताध्वर्युर् द्वारमात्रम्, सर्वे विभज्य गृह्णीरन्न् इति संशयः ।
मनु-बृहस्पती [म। ८.२०९; बृ। १३.१९] ।
रथं हरेद् अथाध्वर्युर् ब्रह्माधाने च वाजिनम् ।
होता चापि हरेद् अश्वम् उद्गाता चाप्य् अनः क्रये ॥
पूर्वोक्तसंशये ऽयं निर्णयः । केषांचिच् छाशिनाम् आधाने अधवर्यवे रथः आम्नायते, ब्रह्मणे च वेगनान् अश्वः, होत्र चाश्वः, उद्गात्रे सोमक्रये सोमवाहकं “अनः” शकटम् । एवं व्यवस्थायां ददातिर् मुख्यार्थो भवेत् । पुरुषसंयोगश् च नादृष्टार्थः ।
बृहस्पतिः [१३.२१] ।
आगन्तुकाः क्रमायातास् तथा चैव स्वयं कृताः ।
त्रिविधास् ते समाख्याता वर्तितव्यं तथैव तैः ॥
शङ्खलिखितौ- “अथर्त्विजि वृत्त्ते पश्चाद् अन्यं वृणुयात् । पूर्वाहूतस्यैव दक्षिणा । पश्चाद् आहूतः किंचिल् लभेत । प्रवसेच् चेत् तत्कालं निमित्तं चापेक्ष्य यक्ष्यमाणस् तत्कालम् उदीक्षेत । [३६७] नान्तरा यजेत । स्याद् आत्ययिको वा । तं क्रतुं सम्पादयेत । प्रोष्य प्रत्यागतश् च किंचिल् लभेत । अथ चेत् प्रतिषिद्धः प्रवसेत् कामाद् अनुप्राप्ते सवने ऋत्विक् च्छतं दण्ड्यः । स एव चादुष्टस् तस्य ऋत्विक्कुलोपाध्यायः । एवं व्याधितपतितोन्मत्तप्रहीणप्रध्वस्तेषु संप्रसाधकरणम् ऋत्विक्षु । कामाच् चेद् अपतितं याज्यं त्यजेद् ऋत्विक् प्राप्नुयाद् द्विशतं दमम् । याज्यश् चैव तद् एवाप्नुयात् त्यागे ऋत्विजो ऽपतितस्य । कामं पतितम् अश्रोत्रियं त्यजेद् याज्यं चाभिशस्तम् अदातारम्” ।
“पूर्वाहुतस्यैव दक्षिणा” इति, पूर्वाहूतस्य दायादानां सा दक्षिणा । “कालं निमित्तं चावेक्ष्य” “कालं” पक्षम् आसादिकम्, “निमित्तं” विवाहादिप्रयोजनं बुद्ध्वा । अत्यय एव “आत्ययिकः” । तेन यदि तत्प्रतीक्षणे यज्ञात्ययो बाधः संभाव्येत तदा ऋत्विगन्तरेण तं यज्ञं निष्पादयेद् इत्य् अर्थः । “अनुप्राप्ते सवने” सवनकाल उपस्थिते । “स एव वादुष्टः” तस्य यजमानस्य यः कुलोपाध्यायः स प्रोषितो ऽप्य् अदुष्ट एव । “प्रहीणः” अभिशापादिना त्यक्तः । “प्रध्वस्तः” अतिवृद्धः । “संप्रसादकरणं” ऋत्विगन्तरग्रहणे ऽप्य् अनुज्ञाग्रहणम् ।
[३६८] मनुः [८.३८८] ।
ऋत्विजं यस् त्यजेद् याज्यो याज्यं चर्त्विक् त्यजेद् यदि ।
शक्तं कर्मण्य् अदुष्टं च तयोर् दण्डः शतं शतम् ॥
द्विशतैकशतदण्डयोः कामाकामकृता व्यवस्था ।
नारदः [६.१०, ९, ११] ।
ऋत्विक् च त्रिविधो दृष्टः पूर्वैर् जुष्टः स्वयंकृतः ।
यदृच्छया च यः कुर्याद् आर्त्विज्यं प्रीतिपूर्वकम् ॥
ऋत्विग्याज्यम् अदुष्टं यस् त्यजेद् अनपकारिणम् ।
अदुष्टं चर्त्विजं याज्यो विनेयौ ताव् उभाव् अपि ॥
क्रमायाते ह्य् एष धर्मो मृतेष्व् ऋत्विक्षु च स्वयम् ।
यादृच्छके तु संयाज्ये त्यक्ते नास्त्य् एव किल्बिषम् ॥
बृहस्पतिः [१३.४, २२] ।
प्रयोगं कुर्वते ये तु हेमधान्यरसादिना ।
समन्यूनाधिकैर् अंशैर् लाभस् तेषां तथाविधः ॥
बहूनां संमतो यस् तु दद्याद् एको धनं नरः ।
करणं कारयेद् वापि सर्वैर् एव कृतं भवेत् ॥
[३६९] [“प्रयोगं” लाभार्थम् ] “करणं” लेख्यादि । ]
तथा [१३.२३–२७, २९–३१, २७, ३२–३४ ??] ।
ज्ञातिसम्बन्धिसुहृदाम् ऋणं देयं सबन्धकम् ।
अन्येषां लग्नकोपेतं लेख्यसाक्षियुतं तथा ॥
स्वेच्छादेयं हिरण्यं तु रसधान्यं तु सावधि ।
देशस्थित्या प्रदातव्यं गृहीतव्यं तथैव तत् ॥
समवेतैस् तु यद् दत्तं प्रार्थनीयं तथैव तत् ।
न याचते च यः कश्चिल् लाबात् स परिहीयते ॥
प्रयोगः पूर्वम् आख्यातः समासेनोदितो ऽधुना ।
श्रूयतां कर्षकादीनां विधानम् इदम् उच्यते ॥
बाह्यकर्षकबीजाद्यैः क्षेत्रापकरणेन च ।
ये समानास् तु तैः सार्धं कृषिः कार्या विजानता ॥
विवीतनगराभ्यासे तथा राजपथस्य च ।
ऊषरं मूषिकव्याप्तं क्षेत्रं यत्नेन वर्जयेत् ॥
[३७०] > गर्तानूपम् सुसेकं च समन्तात् क्षेत्रसंयुतम् ।
प्रकृष्टं च कृतं काले वापयन् फलम् अश्नुते ॥
कृशातिवृद्धं कुद्रं च रोगिणं प्रपलायिनम् ।
काणं खञ्जरं च नादद्याद् वाह्यं प्राज्ञः कृषीवलः ॥
वाह्यबीजात्ययाद् यस्य क्षेत्रहानिः प्रजायते ।
तेनैव सा प्रदातव्या सर्वेषां कृषिजीविनाम् ॥
एष धर्मः समाख्यातः कीनाशानां सनातनः ।
हिरण्यरूप्यसूराणां काष्टपाषाणचर्मणाम् ॥
संस्कर्ता च कलाभिज्ञः शिल्पी चोक्तो मनीषिभिः ।
हेमकारादयो यत्र शिल्पं सम्भूय कुर्वते ॥
कर्मानुरूपं निर्वेशं लभेरंस् तु यथांशतः ।
“विवीत“शब्देन यवसाध्यर्थं रक्षितो भूप्रदेश उच्यते । “कीनाशाः” कृषीवलाः । “निर्वेशो” अत्र भृतिः ।
[३७१] कात्यायनः [६३२] ।
शिक्षकाभिज्ञकुशला आचार्याश् चेति शिल्पिनः ।
एकद्वित्रिचतुर्भागात् वहेयुस् ते यथोत्तरम् ॥
बृहस्पतिः [१३.३६–३९] ।
हर्म्यं देवगृहं वापि धार्मिकोपस्कराणि च ।
संभूय कुर्वतां चैषां प्रमुखो द्व्यंशम् अर्हति ॥
नर्तकानाम् एष एव सद्भिर् उदाहृतः ।
तालज्ञो लभते ऽध्यर्धं गायनास् तु समांशिनः ॥
स्वाम्याज्ञया तु यच् चोरैः परदेशात् समाहृतम् ।
राज्ञे दत्वा तु षड्भागं भजेयुस् ते यथांशतः ॥
चतुरो ऽंशान् तथा मुख्यः शूरस् त्र्यंशम् अवाप्नुयात् ।
समर्थस् तु हरेद् द्व्यंशं शेषास् त्व् अन्ये समांशिनः ॥
कात्यायनः [६३३–३५, ६३७] ।
परराष्ट्राद् धनं यत् स्याच् चोरैः स्वाम्याज्ञया हृतम् ।
राज्ञे दशांशम् आहृत्य विभजेरन् यथाविधि ॥
[३७२] > चोराणां मुख्यभूतस् तु चतुरो ऽंशांस् ततो हरेत् ।
शूरो ऽंशांस् त्रीन् समर्थो द्वौ शिष्टास् त्व् एकैकम् एव च ॥
तेषां च प्रसृतानां यो ग्रहणं समवाप्नुयात् ।
तन्मोक्षणार्थं यद् दत्तं तस्य कार्या समक्रिया ॥
वणिजां कर्षकाणां च चोराणां शिल्पिनां तथा ।
अनियम्यांशकर्तॄणां सर्वेषाम् एष निर्णयः ॥
इति व्यवहारकाण्डे कृत्यकल्पतरौ सम्भूयसमुत्थानम् ।
[३७३]