५८ — अथास्वामिविक्रयः
तत्र नारदः [१०.१] ।
निक्षिप्तं वा परद्रव्यं नष्टं लब्ध्वापहृत्य वा ।
विक्रीयते ऽसमक्षं यत् स ज्ञेयो ऽस्वामिविक्रयः ॥
बृहस्पतिः [१२.२] ।
निक्षेपान्वाहितन्यासहृतयाचितबन्धकम् ।
उपांशु येन विक्रीतम् अस्वामी सो ऽभिधीयते ॥
याज्ञवल्क्यः [२.१६९] ।
नष्टापहृतम् आसाद्य हर्तारं ग्राहयेन् नरम् ।
देशकालातिपत्तौ वा गृहीत्वा स्वयम् अर्पयेत् ॥
बृहस्पतिः [१२.६] ।
पूर्वस्वामी तु तद् द्रव्यं यद् आगत्य विचारयेत् ।
तत्र मूलं दर्शनीयं क्रेतुः शुद्धिस् ततो भवेत् ॥
[३५१] “मूलम्” अत्र यस्मात् क्रीतम् असाव् उच्यते ।
कात्यायनः [६१५, ६१७] ।
प्रकाशं वा क्रयं कुर्यान् मूलं वापि समर्पयेत् ।
मूलानयनकालश् च देयो योजनसंख्यया ॥
यदा मूलम् उपन्यस्य पुनर् वादी क्रयं वदेत् ।
आहरेन् मूलम् एवासौ न क्रयेण प्रयोजनम् ॥
“प्रकाशं क्रयं कुर्यात्” क्रयं प्रकाशयेद् इत्य् अर्थः ।
व्यासः ।
मूले समाहृते क्रेता नाभियोज्यः कथंचन ।
मूलेन सह वादस् तु नाष्टिकस्य तदा भवेत् ॥
“नाष्टिकस्य” नष्टधनस्वामिनः ।
बृहस्पतिः [१२.७] ।
विक्रेता दर्शितो यत्र हीयते व्यवहारतः ।
क्रेतृराज्ञोर् मूलदमौ प्रदद्यात् स्वामिने धनम् ॥
मनुः [८.१९७–९९, २०१–०२] ।
विक्रीणीते परस्य स्वं यो ऽस्वामी स्वाम्यसंमतः ।
न तं नयेन साक्ष्यं तु स्तेनम् अस्तेनमानिनम् ॥
[३५२] > अवहार्यो भवेच् चैष सान्वयः षट्छतं दमम् ।
निरन्वयो ऽनपसरः प्राप्तः स्याच् चौरकिल्बिषम् ॥
अनेन विधिना शास्यः कुर्वन्न् अस्वामिविक्रयम् ।
अज्ञानाज् ज्ञानपूर्वं तु चौरवद् दण्डम् अर्हति ॥
विक्रयाद् यो धनं किंचिद् गृह्णीयात् कुलसंनिधौ ।
क्रयेण स विशुद्धस् तु न्यायतो लभते धनम् ॥
अथ मूलम् अनाहार्यं प्रकाशक्रयशोधितम् ।
अदण्ड्यो मुच्यते राज्ञा नाष्टिको लभते धनम् ॥
“न तं नयेत साक्ष्यम्” इति, न तं क्वापि प्रमाणीकुर्याद् इत्य् अर्थः । “अवहार्यः” दण्ड्यः । “सान्वयः” संबन्धी भ्रातृजादिः । “षट्च्छतम्” पणानाम् इति शेषः । “अनपसरः” अपसरत्य् अनेन स्वामिनः सकाशाद् धनम् इति प्रतिग्रहादिर् धनागमोपायो ऽपसरः स न विद्यते यस्य स तथा । एतच् च भागुरि-मेधातिथि-वृत्तिकाराणां मतम् । “विक्रयात्” आपणदेशात् । एतच् च विक्रीयते ऽस्मिन्न् इति व्युत्पत्त्या । “कुलसंनिधौ” व्यवहर्तृसमूहसमक्षम् । “न्यायतः क्रयेण” इति सम्बन्धः । तेन उचितमूल्यक्रयेणेत्य् अर्थः ।
[३५३] कात्यायनः [६१४] ।
नाष्टिकस् तु प्रकुर्वीत तद्धनं ज्ञातृभिः स्वकम् ।
अदत्तत्यक्तविक्रीतं कृत्वा स्वं लभते धनम् ॥
याज्ञवल्क्यः [२.१७१] ।
आगमेनोपभोगेन नष्टं भाव्यम् अतो ऽन्यथा ।
मनु-यमौ [८.१९७] ।
अस्वामिना कृतो यस् तु दायो विक्रय एव वा ।
अकृतः स तु विज्ञेयो व्यवहारे यथास्थितिः ॥
कात्यायनः [६१२] ।
अस्वामिविक्रयं दानम् आधिं च विनिवर्तयेत् ।
“अस्वामिविक्रयम्” अविद्यमानस्वामिविक्रयम् ।
याज्ञवल्क्यः [२.१६८] ।
स्वं लभेतान्यविक्रीतं क्रेतुर् दोषो ऽप्रकाशिते ।
नारदः [१०.२] ।
द्रव्यम् अस्वामिविक्रीतं प्राप्य स्वामी समाप्नुयात् ।
“प्राप्य” उपलभ्य ।
कात्यायनः [६२०] ।
यदि स्वं नैव कुरुते ज्ञातृभिर् नाष्टिको धनम् ।
प्रसङ्गविनिवृत्त्यर्थं चौरवद् दण्डम् अर्हति ॥
[३५४] याज्ञवल्क्यः [२.१७१] ।
आगमेनोपभोगेन नष्टं भाव्यम् अतो ऽन्यथा ।
पञ्चबन्धो दमस् तत्र राज्ञे तेनाविभाविते ॥
“अतो ऽन्यथा” नाष्टिकेनाविभाविते । “पञ्चबन्धः” पञ्चमो ऽंशः । “तत्र” नष्टद्रव्य ।
कात्यायनः [६१३, ६१८, ६१६] ।
अभियोक्ता धनं कुर्यात् प्रथमं ज्ञातृभिः स्वकम् ।
पश्चाद् आत्मविशुद्ध्यर्थं क्रयं क्रेता स्वबन्धुभिः ॥
असमाहार्यमूलस् तु क्रयम् एव विशोधयेत् ।
विशोधिते क्रये राज्ञा वक्तव्यः स न किंचन ॥
प्रकाशं च क्रयं कुर्यात् साधुभिर् ज्ञातिभिः स्वकैः ।
न तत्रान्या क्रिया प्रोक्ता दैविकी न च मानुषी ॥
विष्णुः [५.१६४]- “अज्ञानतः प्रकाशं यः परद्रव्यं क्रीणीयात् तस्य न दोषः । क्रेता मूल्यम् अवाप्नोति । स्वामी द्रव्यम् अवाप्नुयात्” ।
[३५५] नारदः [१०.२] ।
प्रकाशक्रयतः शुद्धिः क्रेतुः स्तेयं रहःक्रयात् ।
बृहस्पतिः [१२.३,४] ।
येन क्रीतं तु मूल्येन प्राग् अध्यक्षनिवेदितम् ।
न तत्र विद्यते दोषः स्तेनः स्याद् उपधिक्रयात् ॥
अन्तर्गृहे बहिर् ग्रामान् निश्य् उपांश्व् असतो जनात् ।
हीनमूल्यं च यत् क्रीतं ज्ञेयो ऽसाव् उपधिक्रयः ॥
नारदः [७.३] ।
अस्वाम्यनुमताद् दासाद् असतश् च जनाद् रहः ।
हीनमूल्यम् अवेलायां क्रीणंस् तद्दोषभाग् भवेत् ॥
याज्ञवल्क्यः [२.१६८] ।
स्वं लभेतान्यविक्रीतं क्रेतुर् दोषो ऽप्रकाशिते ।
हीनाद् रहो हीनमूल्ये वेलाहीने च तस्करः ॥
विष्णुः [५.१६६]- “यद्य् अप्रकाशं हीनमूल्यं च क्रीणीयात् तदा क्रेता विक्रेता च चौरवच् छस्यौ” ।
[३५६] कात्यायनः [६१९] ।
अनुपस्थापयन् मूलं क्रयं वाप्य् अविशोधयन् ।
यथाभियोगं धनिने धनं दाप्यो दमं च सः ॥
नारदः [१०.४] ।
न गूहेतागमं क्रेता शुद्धिस् तस्य तदागतात् ।
विपर्यये तुल्यदोषः सर्वं तद्दण्डम् अर्हति ॥
बृहस्पतिः [१२.९] ।
प्रमाणहीनवादे तु पुरुषापेक्षया नृपः ।
समन्यूनाधिकत्वेन स्वयं कुर्याद् विनिर्णयम् ॥
निक्षेपोक्तप्रकारेण गूढचारप्रयोगं कृत्वा पुरुषाणां धर्माधर्मयोः समन्यूनाधिकभावं निश्चित्य स्वयम् एव राजा निर्णयेद् इत्य् अर्थः ।
तथा [१२.१०–१२] ।
वणिग्वीथीपरिगतं विज्ञातं राजपूरुषैः ।
अविज्ञाताश्रयात् क्रीतं विक्रेता यत्र वा मृतः ॥
स्वामी दत्वार्धमूलं तु प्रगृह्णीत स्वकं धनम् ।
अर्धं द्वयोर् अपि हृतं तत्र स्यात् द्व्यवहारतः ॥
अविज्ञातक्रयो दोषस् तथा चापरिपालनम् ।
एतद् द्वयं समाख्यातं द्रव्यहानिकरं बुद्धैः ॥
[३५७] मरीचिः ।
वणिग्वीथीपरिगतं विज्ञातं राजपूरुषैः ।
दिवा गृहीतं यत् क्रेता स शुद्धो लभते धनम् ॥
अविज्ञातनिवेशत्वाद् यत्र मूल्यं न लभ्यते ।
हानिस् तत्र समा कल्प्या क्रेतृनाष्टिकयोर् द्वयोः ॥
याज्ञव्ल्क्यः [२.१७२] ।
हृतं प्रणष्टं यद् द्रव्यं परहस्ता अवाप्नुयात् ।
अनिवेद्य नृपे दण्ड्यः स तु षण्णवतिं पणान् ॥
“हृतं प्रणष्टं” वा चौरादिहस्तस्थं “द्रव्यं” मदीयम् अनेनापहृतम् इति नृपस्यानिवेद्यैव यो गृह्णाति “स दण्ड्यः” तस्करप्रच्छादकत्वेन दुष्टत्वात् ।
व्यवहारकाण्डे कृत्यकपतराव् अस्वामिविक्रयः ।
[३५८]