अथ निक्षेपः
तत्र नारदः [५.१] ।
स्वं द्रव्यं यत्र विस्रम्भान् निक्षिपत्य् अविशङ्कितः ।
निक्षेपो नाम तत्प्रोक्तं व्य्वहारपदं बुधैः ॥
बृहस्पतिः [११.१३, २] ।
ऋणादानं प्रयोगादिदापनान्तं प्रकीर्तितम् ।
निक्षेपस्याधुना सम्यग् विधानं श्रूयताम् इति ॥
राजचौरादिकभयाद् दायादानां च वञ्चनात् ।
स्थाप्यते ऽन्यगृहे द्रव्यं न्यासस् तत् परिकीर्तितम् ॥
अनाख्यातं व्यवहितम् असंख्यातम् अदर्शितम् ।
मुद्राङ्कितं च यद् द्रव्यं तद् औपनिधिकं स्मृतम् ॥
याज्ञवल्क्यः [२.६५] ।
वानस्थम् अनख्याय हस्ते ऽन्यस्य समर्प्यते ।
द्रव्यं तद् औपनिधिकं प्रतिदेयं तथैव तत् ॥
[३३९] “वासनम्” निक्षेपद्रव्याधारभूतं संपुटादि ।
कात्यायनः [५९२, ६११] ।
क्रयः प्रोषितनिक्षिप्तं बन्धान्वाहितयाचितम् ।
वैश्यवृत्यर्पितं चैव सो ऽर्थस् तूपनिधिः स्मृतः ॥
अनुमार्गेण कार्येषु अमुष्मिन् वचनान् मम ।
दद्यास् त्वम् इति यो दत्तः स इहान्वाधिर् उच्यते ॥
“क्रयो” ऽत्र क्रीतद्रव्यं कुतश्चिन् निमित्ताद् विक्रेतृपार्श्वे स्थितम् । “प्रोषितनिक्षिप्तं” प्रवसता समर्पितम् । “बन्धः” आधिः । “याचितं” मण्डनार्थम् आनीताभरणादि । “वैश्यवृतर्पितम्” वाणिज्यार्थं यन् निक्षिप्तम् । एते सर्वे “उपनिधयः” [उपनिधिद्रव्यवद् द्रष्टव्याः] । “अनुमार्गेण” इति, अस्यार्थः — एकस्मिन् यद् अर्पितं वस्तु, तेन पुरुषान्तरे अमुष्मिन् स्वामिनि त्वं दास्यतीति निक्षिप्तं तद् अन्वाधि इति ।
मनुः [८.१७९] ।
कुलजे वृत्तसम्पन्ने धर्मज्ञे सत्यवादिनि ।
महापक्षे धनिन्य् आर्ये निक्षेपं निक्षिपेद् बुधः ॥
[३४०] “महापक्षे” बहुपरिजने ।
बृहस्पतिः [११.४] ।
स्थानं गृहं गृहस्थत्वं तद्बलं विभवं गुणान् ।
सत्यं शौचं बन्धुजनं परीक्ष्य स्थापयेन् निधिम् ॥
नारदः [५.२] ।
स पुनर् द्विविधः प्रोक्तः साक्षिमान् इतरस् तथा ।
प्रतिदानं तथैवास्य प्रत्ययः स्याद् विपर्यये ॥
“विपर्यये” विसंवादे । “प्रययः” शपथः ।
बृहस्पतिः [११.६–९] ।
ससाक्षिकं रहोदत्तं द्विविधं समुदाहृतम् ।
पुत्रवत्परिपाल्यं तद् विनश्यत्य् अनवेक्षया ॥
ददतो यद् भवेत् पुण्यं हेमरूप्याम्बरादिकम् ।
तत् स्यात् पालयतो न्यासं तथा च शरणागतम् ॥
भर्तृद्रोहे यथा नार्याः पुंसः पुत्रसुहृद्वधे ।
दोषो भवेत् तथा न्यासे भक्षितोपेक्षिते नृणाम् ॥
न्यासद्रव्यं न गृह्णीयात् तन्नाशस् त्व् अयशकरः ।
गृहीतं पालयेद् यत्नात् सकृद्याचितम् अर्पयेत् ॥
[३४१] मनुः [८.१८०, १९५, १८८] ।
यो यथा निक्षिपेद् वस्तु यम् अर्थं यस्य मानवः ।
स तथैव गृहीतव्यो यथा दायस् तथा ग्रहः ॥
मिथो दायः कृतो येन गृहीतो मिथ एव वा ।
मिथ एव प्रदातव्यो यथा दायस् तथा ग्रहः ॥
समुद्रे नाप्नुयात् किंचिद् यदि तस्मान् न संहरेत् ।
“दायो” निक्षेपणम् । “मिथः” अन्योन्यम् एव, असाक्षिकम् इत्य् अर्थः । “समुद्रे” मुद्रासहिते निक्षेपे मूषिकादिनोपद्रुते ऽपि निक्षेपस्य धनस्य धर्ता न किंचिद् दूषणम् आप्नोति, यदि तस्मान् निक्षेपात् प्रतिमुद्राश्रावणादिना नापहरेत् किंचिद् इत्य् अर्थः ।
बृहस्पतिः [११.१०] ।
स्थापितं येन विधिना येन येन यथाविधि ।
तथैव तस्य दातव्यं न देयं प्रत्यनन्तरे ॥
[३४२] “प्रत्यनन्तरे” पुत्रादौ ।
मनुः [८.१८५-८६] ।
निक्षेपोपनिधी नित्यं न देयौ प्रत्यनन्तरे ।
नश्यतो विनिपाते ताव् अनिपाते त्व् अनाशितौ ॥
स्वयम् एव तु यो दद्यान् मृतस्य प्रत्यनन्तरे ।
न स राज्ञा नियोक्तव्यो न निक्षेप्तुश् च बन्धुभिः ॥
“विनिपाते” देशान्तरगमनादौ ।
अथ नारदः [५.९] ।
गृहीतुः सह यो ऽर्थेन नष्टो नष्टः स दायिनः ।
दैवराजकृते तद्वन् न चेत् तज्जिह्मकारितम् ॥
“दायिनः” निक्षिपेतुः । “त्ज्जिह्मकारितम्” निक्षेपग्राहिकौटिल्यकारितम् ।
मनुः [८.१८९] ।
चोरैर् हतं जलेनोष्हम् अग्निना दग्धम् एव च ।
न दद्याद् यदि तस्मात् स न संहरति किंचन ॥
“तस्मात्” निक्षितधनात् । “न संहरति” नापरतीत्य् अर्थः ।
“नाभ्याभवेयुः” (ग्ध् १२.४१] इत्य् अनुवृत्तौ गौतमः [१२.४२]- “निध्यन्वाधियाचितावक्रीताधयो नष्टाः सर्वान् अनिन्दितान् पुरुषापराधेन” ।
“निधिः” निक्षेपः । “अवक्रीतं” भाटकगृहीतं शकटादिः । “सर्वान्” पुत्रपौत्रादीन् रिक्थिनः । “अनिन्दितान् पुरुषापराधेन” [तेन तं पुरुषापराधम् अन्तरेण निध्यादयः प्रनष्टाः, “सर्वान्” पुत्रादीन्] “नान्याभ्याभवेयुः” न ते देया इत्य् अर्थः ।
कात्यायनः [५९९, ६००] ।
ज्ञात्वा द्रव्यवियोगं तु दाता यत्र विनिक्षिपेत् ।
सर्वापायविनाशे ऽपि ग्रहीता नैव दाप्यते ॥
ग्राहकस्य च यद् दोषान् नष्टं तद्ग्राहकस्य तु ।
“द्रव्यवियोगं तु” द्रव्यस्य राष्ट्रे राज्ञः उपप्लवादिना नाशम् । “सर्वापायविनाशे ऽपि” शङ्कितापायाद् अपायान्तरेणापि । “ग्राहकस्य च” इति, ग्राहकदोषाद् यदि नष्टं तद्ग्राहकस्यैव नष्टं न तु निक्षेप्तुः । तेन निक्षेपग्राहिणा न तद् देयम् इत्य् अर्थः ।
[३४४] तथा [५९४] ।
यस्य दोषेण यत् किंचिद् विनश्येत ह्रियेत वा ।
तद् द्रव्यं सोदयं दाप्यो दैवराजकृताद् विना ॥
बृहस्पतिः [११.१२] ।
भेदेनोपेक्षया न्यासं ग्रहीता यदि नाशयेत् ।
याच्यमानो न दद्याद् वा दाप्यस् तत् सोदयं भवेत् ॥
“भेदेनोपेक्षया” स्वद्रव्यपृथक्त्वेनोपेक्षया ।
नारदः [५.७–८] ।
याच्यमानस् तु यो दातुर् निक्षेपं न प्रयच्छति ।
दण्ड्यः स राज्ञो भवति नष्टे दाप्यस् तु तत्समम् ॥
यत्रार्थं साधयेत् तेन निक्षेप्तुर् अननुज्ञया ।
तत्रापि दण्ड्यः स भवेत् तं च सोदयम् आवहेत् ॥
बृहस्पतिः [११.१३] ।
न्यासद्रव्येण यः कश्चित् साधयेत् कार्यम् आत्मनः ।
दण्ड्यः स राज्ञो भवति दाप्यस् तच् चापि सोदयम् ॥
व्यासः [कात्यायनः ५९७] ।
भक्षितं सोदयं दाप्यः समं दाप्य उपेक्षितम् ।
किंचिद् ऊनं प्रदाप्यः स्याद् द्रव्यम् अज्ञाननाशितम् ॥
[३४५] मनुः [८.१९१–९३] ।
यो निक्षेपं नार्पयति यस् त्व् अनिक्षिप्य याचते ।
ताव् उभौ चोरवच् छास्यौ दाप्यौ तौ तत्समं दमम् ॥
निक्षेपस्यापहर्तारं तत्समं दापयेद् दमम् ।
यथोपनिधिहर्तारम् अविशेषेण पार्थिवः ॥
उपधाभिस् तु यः कश्चित् परद्रव्यं हरेन् नरः ।
ससहायः स हन्तव्यः प्रकाशं विविधरि वधैः ॥
मत्स्यपुराणे ।
यो निक्षिप्तं नार्पयति यस् त्व् अनिक्षिप्य याचते ।
ताव् उभौ चोरवच् छास्यौ दाप्यौ वा द्विगुणं दमम् ॥
कात्यायनः [६०१] ।
ग्राह्यस् तूपनिधिः काले कालहीनं तु वर्जयेत् ।
कालहीने ददद् दण्डं द्विगुणश् च प्रदाप्यते ॥
“ग्राह्यः” निक्षेपकारिणा इति शेषः । “काले” निरत्ययसमये । “उपनिधिः” इत्य् अत्र “बन्धान्वाहितयाचितादिः” कात्यायनोक्तः । “कालहीनं” निरत्ययकालहीनम् उपनिधिम् । “वर्जयेत्” न गृह्णीयात् । एवंविधे ऽपि काले निक्षेपहर्ता प्रत्यर्पयन् दण्ड्य इत्य् अर्थः ।
[३४६] बृहस्पतिः [११.१४] ।
गृहीत्वा निह्नुते यत्र साक्षिभिः शपथेन वा ।
विभाव्य दापयेन् न्यासं तत्समं विनयं तथा ॥
मनुः [८.१९४, १८७, १८१–८४, १९६] ।
निक्षेपो यः कृतो येन यावांश् च कुलसंनिधौ ।
तावान् एव स विज्ञेयो विब्रुवन् दण्डम् अर्हति ॥
अच्छलेनैव चान्विच्छेत् तम् अर्थं प्रीतिपूर्वकम् ।
विचार्य तस्य वा वृत्तं साम्नैव प्रैशोधयेत् ॥
यो निक्षेपं याचमानो निक्षेप्तुर् न प्रयच्छति ।
स याच्यः प्राड्विवाकेन तन्निक्षेप्तुर् असंनिधौ ॥
साक्ष्यभावे प्रणिधिभिर् वयोरूपसमन्वितैः ।
अपदेशैश् च संन्यस्य हिरण्यं तत्र सारतः ॥
[३४७] > स यदि प्रतिपद्येत यथान्यस्तं यथाकृतम् ।
न तत्र विद्यते किंचिद् यत् परैर् अभियुज्यते ॥
तेषां न दद्याद् यदि तु तद् धिरण्यं यथाविधि ।
द्वयं निगृह्य दाप्यः स्याद् इति धर्मस्य धारणा ॥
निक्षिप्तस्य धनस्यैवं प्रीत्योपनिहितस्य च ।
राजा विनिर्णयं कुर्याद् अक्षिण्वन् न्यासधारिणम् ॥
“प्रणिधयः” चाराः । “अपदेशैः संन्यस्य हिरण्यम्” इत्यादि, अनृतसंभवान् निक्षेपकारिणं ग्रामगमनराजभयादिकम् उक्त्वातिकुशलचारद्वारेण स्वं सुवर्णादिकं निक्षिप्य कियत्य् अपि काले गते चारैर् एव याचनीय इत्य् अर्थः ।
बृहस्पतिः [११.१५, १८] ।
रहोदत्ते निधौ यत्र विसंवादः प्रजायते ।
विभावकं तत्र द्वियम् उभयोर् अपि च स्मृतम् ॥
अन्वाहिते याचितके शिल्पिन्यासे सबन्धके ।
एष एवोदितो धर्मस् तथा च शरणागते ॥
नारदः [५.१४–१५] ।
एष एव विधिर् दृष्टो याचितान्वाहितादिषु ।
शिल्पिषूपनिधौ न्यासे प्रतिन्यासे तथैव च ॥
[३४८] > प्रतिगृह्णाति यो दण्डं यश् च सप्रधनं नरः ।
तस्याप्य् एष विधिर् दृष्टः षड् एते विधयः समाः ॥
“प्रतिन्यासः” परस्परन्यासः ।
कात्यायनः [६०२] ।
सर्वेषूपनिधिष्व् एते विधयः परिकीर्तिताः ।
तथा ।
यो याचितकम् आदाय न दद्यात् प्रतियाचितः ।
स निगृह्य बलाद् दाप्यो दण्ड्यश् च न ददाति यः ॥
मत्स्यपुराणे [२४२.४] ।
यो हिस् याचितम् आचाय न तद् दद्यात् तथा ध्रुवम् ।
स निगृह्य बलाद् दाप्यो दण्ड्यो वा पूर्वसाहसम् ॥
कात्यायनः [६०६, ६०९, ६०७] ।
यदि तत् कार्यम् उद्दिश्य कालं परिनियम्य वा ।
याचितो ऽर्धकृते तस्मिन्न् अप्राप्ते न तु दापयेत् ॥
अथ कार्यविपत्तिस् तु तस्यैव स्वामिनो भवेत् ।
अप्राप्ते वा स काले तु दाप्यस् त्व् अर्धकृते ऽपि तत् ॥
प्राप्तकाले कृते कार्ये न दद्याद् याचितो ऽपि सन् ।
तस्मिन् नष्टे हृते वापि ग्रहीता मूल्यम् आवहेत् ॥
“तत् कार्यम्” विवाहादिकम् । “अर्धकृते” कार्ये । “अप्राप्ते” काले ।
[३४९] बृहस्पतिः [११.२०] ।
याचितं स्वाम्यम् अनुज्ञातं प्रददन् नापराध्नुयात् ।
“प्रददत्” अन्यस्मा इति शेषः ।
कात्यायनः [६०३, ६०४, ६०४, ५९६] ।
यैस् तु संस्क्रियते न्यासो दिवसैः परिनिष्ठितैः ।
तदूर्ध्वं स्थापयेच् छिल्पी दाप्यो दैवहत् ऽपि तम् ॥
स्वल्पेनापि च यत् कर्म नष्टं चेद् भृतकस्य तत् ।
पर्याप्तं दित्सतस् तस्य विनश्येत् तद् अगृह्णतः ॥
न्यासदोषेण नाशः स्याच् छिल्पिनं तन् न दापयेत् ।
दापयेच् छिल्पिदोषात् तत् संस्कारार्थं यद् अर्पितम् ॥
न्यासादिकं परद्रव्यं प्रभक्षितम् उपेक्षितम् ।
अज्ञाननाशितं चैव येन दाप्यः स एव तत् ॥
“तम्” न्यासम् । “स्वल्पेन” कालेन । “यत् कर्म” कुण्डलादिनिर्माणम् । “भृतकस्य तत्” शिल्पिन एव तन् नष्टम्, न स्वामिनः । नैतत् पुनः कर्तव्यम् । “पर्याप्तम्” निष्पन्नम् । “दित्सतः” शिल्पिनः । “अगृह्णतः” स्वामिनः । “न्यासदोषेण” कुङ्कुमादेः कालवशादिदूषणेन ।
इति भट्टहृदयधरात्मजमहासांधिविग्रहिक-
भट्टश्रीमल्लक्ष्मीधरविरचिते कृत्यकल्पतरौ
व्यवहारकाण्दे निक्षेपविवादपर्व ॥
[३५०]