५६ ऋणादानविधिः

अथ ऋणादानविधिः

तत्र बृहस्पतिः [१०.१–२] ।

पदाङ्गसहितस् त्व् एष व्यवहारः प्रकीर्तितः ।
विवादकारणान्य् अस्य पदानि शृणुताधुना ॥
ऋणादानप्रदानानि द्यूताह्वानानित्कानि च ।
क्रमशः संप्रवक्ष्यामि क्रियाभेदांश् च तत्त्वतः ॥

नरदः [४.१, ९८] ।

ऋणं देयम् अदेयं च येन यत्र यथा च यत् ।
दानग्रहणधर्माश् च ऋणादानम् इति स्मृतम् ॥
स्थानलाभनिमित्तं यद् दानग्रहणम् इष्यते ।
तत् कुसीदम् इति ज्ञेयं तेन वृत्तिः कुसीदिनाम् ॥

“स्थनम्” अत्र मूलधनस्थितिः । “लाभः” कलादिप्राप्तिः ।

बृहस्पतिः [१०.६, ५] ।

कुत्सितात् सीदतश् चैव निर्विशङ्कैः प्रगृह्यते ।
चतुर्गुणं वाष्टगुणं कुसीदाख्यम् अतः स्मृतम् ॥

[२७८] > परिपूर्णं गृहीत्वाधिं बन्धं वा साधु लग्नकम् ।

लेख्यारूढं साक्षिमद् वा ऋणं दद्याद् धनी सदा ॥

“कुत्सितात् सीदतश् च” इत्य् अधमर्णविशेषणे ।

नारदः [४.११७] ।

विश्रम्भहेतू द्वाव् अत्र प्रतिभूर् आधिर् एव च ।
लिखितं साक्षिणश् च द्वे प्रमाणव्यक्तिकारके ॥

कात्यायनः [४९७] ।

न स्त्रीभ्यो बालदासेभ्यः प्रयच्छेत् किंचिद् उद्धृतम् ।
दाता न लभते तत् तु तेभ्यो दत्तं च यद् वसु ॥

“उद्धृतम्” उद्धारम् ।

(क) अथ वृद्धिः

तत्र बृहस्पतिः [१०.२८) ।

वसिष्ठवचनप्रोक्तं वृद्धिं वार्धुषिके शृणु ।
पञ्च माषास् तु विंशत्याम् एवं धर्मो न हीयते ॥

“विंशतिर्” अत्र माषाणाम् ।

गौतमः [१२.२६]- “कुसीदवृद्धिर् धर्म्या विंशतिः पञ्चमाषिकी प्रतिमासम्” ।

[२७९] स्मृतिः ।

माषो विंशतिम्भागस् तु पणस्य परिकीर्तितः ।

मनुः [८.१४०] ।

वसिष्ठविहितां वृद्धिं सृजेद् वित्तविवर्धिनीम् ।
अशीतिभागं गृह्णीयान् मासाद् वार्धुषिकः शते ॥

याज्ञवल्क्यः [२.३७] ।

अशीतिभागो वृद्धिः स्यान् मासि मासि सबन्धके ।

बृहस्पतिः [१०.२२] ।

अशीतिभागो वर्धेत लाभो द्विगुणताम् इयात् ।
प्रयुक्तं सप्तभिर् वर्षैस् त्रिभागोनैर् न संआशयः ॥

व्यासः ।

सबन्धे भागे आशीतः साष्टो भागः सलग्नके ।
निराधाने द्विकशतं मासलाभ उदाहृतः ॥

“आशीतः” अशीतितमः । अयम् एव सलग्नके स्वकीयाष्टमभागसहितः साष्टभागः । “निराधाने” बन्धकरहिते ।

[२८०] मनुः [८.१४१] ।

द्विकं शतं वा गृह्णीयात् सतां धर्मम् अनुस्मरन् ।
द्विकं शतं हि गृह्णानो न भवत्य् अर्थकिल्बिषी ॥

हारीतः- “पुराणपञ्चविंशत्यां मासे ऽष्टपणा वृद्धिः । एवं सद्विमासैश् चतुर्भिर् वर्षैः द्विःपर्यागतं संतिष्ठते, एषा धर्मवृद्धिः । नानया धर्माच् च्यवते” ।

“पुराणः” षोडश पणाः । “द्विःपर्यागतम्” द्विगुणीभूतम् । “संतिष्ठते” व्य्वतिष्ठते, न पुनर् विवर्धत इत्य् अर्थः ।

मनुः [८.१४२] ।

द्विकं त्रिकं चतुष्कं च पञ्चकं च शतं समम् ।
मासस्य वृद्धिं गृह्णीयाद् वर्णानाम् अनुपूर्वशः ॥

“द्विकं” द्वौ [पुराणौ मासि] वृद्धिर् दीयते यस्मिन् मूलधने तथा । एवं त्रिकाद्य् अपि । “समम्” मात्रयाप्य् अनधिकम् ।

[२८१] याज्ञवल्क्यः [२.३७] ।

वर्णक्रमाच् छतं द्वित्रिचतुष्पञ्चकम् अन्यथा ।

“अन्यथा” बन्धकं विना ।

विष्णुः [६.१–२]- “अथोत्तमर्णो ऽधमर्णकाद् यथादत्तम् अर्थं गृह्णीयात् । द्विकं त्रिकं चतुष्कं पञ्चकं शतं वर्णानुक्रमेण प्रतिमासम्” ।

गौतमः [१२.२७]- “नातिसांवत्सरीम् एके” ।

मनुः [८.१५३] ।

नातिसांवत्सरीं वृद्धिं न चादृष्टां पुनर् हरेत् ।
चक्रवृद्दिः कालवृद्धिः कारिता कायिका च या ॥

[२८२] “नातिसांवत्सरीम्” इति – मासाद् आरभ्य संवत्सरं यावद् वृद्धिर् नियमनीया । न तु संवत्सराद् ऊर्ध्वम् इति यदि वृद्ध्या दारयसि तद् एव प्रयच्छामीति नियमः कर्तव्यः ।

नारदः [४.१०२] ।

कायिका कालिका चैव कारिता च तथापरा ।
चक्रवृद्धिस् तु शास्त्रेषु। तस्य वृद्दिह्श् चतुर्विधा ॥

बृहस्पतिः [१०.८–९] ।

वृद्दिः चतुर्विधा प्रोक्ता पञ्चधान्यैः प्रकीर्तिता ।
षड्विधान्यैः समाख्याता तत्वतस् तां निबोधत ॥
कायिका कालिका चैव चक्रवृद्दिर् अथापरा ।
कारिता च शिखावृद्धिर् भोगलाभस् तथैव च ॥

व्यासः ।

दोह्यवाह्यकर्मयुता कायिका समुदाहृता ।
कायाविरोधिनी शश्वत् पञपादादि कायिका ॥

[२८३] नारदः [४.१०४अ; १०३अ; १०४आ; १०३आ] ।

कायाविरोधिनी शश्वत् पणार्धाद्या तु कायिका ।
प्रतिमासं स्रवति या वृद्धिः सा कालिका मता ॥
वृद्धेर् अपि पुनर् वृद्धिः चक्रवृद्धिर् उदाहृता ।
वृद्धिः सा कारिता नाम यर्णिकेन सव्यं कृता ॥

“कायाविरोधिनी” मूलधनाविरोधिनी । “शश्वत् पणार्धाद्या तु” प्रतिदिनं देयत्वेन पणतदर्धादिका । प्रथमम् उभाभ्यां या कृता वृद्धिः सा तु “कारिका”

कात्यायनः [४९८] ।

ऋणिकेन तु या वृद्धिर् अधिका संप्रकल्पिता ।
आपत्कालकृता नित्यं दातव्या कारिता तु सा ॥
अन्यथा कारिता वृद्धिर् न दातव्या कथंचन ।

याज्ञवल्क्यः [२.३८] ।

कान्तारगास् तु दशकं सामुद्रा विंशकं शतम् ।
दद्युर् वा स्वकृतां वृद्धिं सर्वे सर्वासु जातिषु ॥

मनुः [८.१५७] ।

समुद्रयानकुशला देशकालार्थदर्शिनः ।
स्थापयन्ति तु यां वृद्धिं सा तत्राधिगमं प्रति ॥

[२८४] “समुद्रयानकुशला” इति वणिङ्मात्रोपलक्षणम् । “देशकालार्थदर्शिनः” अस्मिन् काल इयान् लाभो ऽस्मिन्न् इयान् इति ये पश्यन्ति । “अधिगमो” निश्चयः ।

हारीतः- “पुराणे पणिकं मासम् इत्य् एके । तूले द्विगुणं धान्यं त्रिगुणम् एवं च वर्धते, तथोर्णाकार्पासः संवत्सरेण तृणशलाकं घृतगुडलवणम् अष्टगुणम्” ।

“पणिकं मासम्” गृह्णीयाद् इति शेषः । “तूले द्विगुणं धान्यम्” इति, द्वित्र्यादिभिर् अपि मासैर् धान्यं द्विगुणं ग्राह्यम् । “तूले” नवधान्यागमे । यदा तु तूलागमे न दत्तं तदा त्रिगुणम् एव । “नाधिकं वर्धते” चतुर्गुणतां नो भवतीत्य् अर्थः । “तथा”, धान्यवद् ऊर्णाकार्पासः त्रिगुणम् एव संवत्सरेण वर्धते । यदा तु संवत्सरेण न दीयते तदा त्रिगुणम् एवाष्टगुणं संवत्सरेणेत्य् अर्थः ।

[२८५] नारदः [४.१०५–१०६] ।

ऋणानां सार्वभौमो ऽयं विधिर् वृद्धिकरः स्मृतः ।
देशाचारस्थितिस् त्व् अन्या यत्रर्षम् अवतिष्ठते ॥
द्विगुणं त्रिगुणं चैव तथान्यस्मिंश् चतुर्गुणम् ।
तथाष्टगुणम् अन्यस्मिन् देयं देशे ऽवतिष्ठते ॥

बृहस्पतिः [१०.११, १३ आ]

प्रत्यहं गृह्यते या तु शिखावृद्धिस् तु सा स्मृता ।
शिखेव वर्धते नित्यं शिरश्छेदान् निवर्तते ॥
मूले दत्ते तथैवैषा शिखावृद्धिस् ततः स्मृता ।

कात्यायनः [५०१] ।

आधिभोगस् त्व् अशेषो यो वृद्धिस् तु परिकल्पितः ।
प्रयोगो यत्र चैवं स्याद् आधिभोगः स उच्यते ॥

बृहस्पतिः [१०.१४, १६] ।

गृहात् स्तोमः सदः क्षेत्राद् भोगलाभः प्रकीर्तितः ।
शिखावृद्धिं कायिका च भोगलाभं तथैव च ॥
धनी तावत् समादद्याद् यावन् मूलं न शोधितम् ।

“स्तोमो” भाटकम् । “सदः” सस्यादिफलम् ।

याज्ञवल्क्यः [२.९०] ।

आधिस् तु भुज्यते तावद् यावत् तन् न प्रदीयते ।

[२८६] आधिम् उत्तमर्णो दद्याद् इत्य् अनुवृत्तौ, विष्णुः [६.६–८]- “अन्त्यवृद्धौ प्रविष्टायाम् अपि । न स्थावरम् आधिम् ऋते वचनात्” ।

“ऋते वचनात्” द्विगुणे धने प्रविष्टे तत्र आधिं दास्यामीति यदि पूर्वम् एव नोक्तं भवेद् इत्य् अर्थः ।

मनुः [८.१५२] ।

कृतानुसाराद् अधिका व्यतिरिक्ता न सिध्यति ।
कुसीदपथम् आहुस् तं पञ्चकं सतम् अर्हति ॥

बृहस्पतिः [१०.२१] ।

भोगो यद् द्विगुणाद् ऊर्ध्वं चक्रवृद्धिश् च गृह्यते ।
मूलं च सोदयं पश्चाद् वार्धुष्यं तद् विगर्हितम् ॥

(अ) अथाकृतवृद्धिः

तत्र कात्यायनः [५०] ।

कृत्वोद्धारम् अदत्वा यो याचितस् तु दिशं व्रजेत् ।
ऊर्ध्वं मासत्रयात् तस्य तद् धनं वृद्धिम् आप्नुयात् ॥

[२८७] > पण्यं गृहीत्वा यो मूल्यम् अदत्वैव दिशं व्रजेत् ।

ऋतुत्रयस्योपरिष्टात् तद् धनं वृद्धिम् आप्नुयात् ॥
निक्षेपं वृद्धिशेषं च क्रयं विक्रयम् एव च ।
याच्यमानो न दद्याच् चेद् वर्धते पञ्चकं शतम् ॥
प्रीतिदत्तं न वर्धेत यावन् न प्रतियाचितम् ।
याच्यमानं न दत्तं चेद् वर्धते पञ्चकं शतम् ॥
यो याचितकम् आदाय तद् अदत्वा दिशं व्रजेत् ।
ऋतुत्रयस्योपरिष्टात् तद् धनं वृद्धिम् आप्नुयात् ॥
स्वदेशस्थो ऽपि वा यस् तु न दद्याद् याचितो ऽसकृत् ।
स तत्र कारितां वृद्धिम् अनिच्छन्न् अपि चावहेत् ॥

विष्णुः [६.३]- “वृद्धिं दद्युः सर्वे वर्णा वा स्वप्रतिपन्नाम् । अकृताम् अपि वत्सरातिक्रमेण यथाभिहिताम्” ।

“यथाभिहिताम्” वर्णक्रमेण द्विकत्रिकादिना यतोक्ताम् ।

नारदः [४.२०८, २२०] ।

न वृद्धिः प्रीतिदत्तानां स्याद् अनाकारिता क्वचित् ।
अनाकारितम् अप्य् ऊर्ध्वं वत्सरार्धाद् विवर्धते ॥
एष वृद्धिविधिः प्रोक्तः प्रीतिदत्तस्य धर्मतः ।
वृद्धिस् तु योक्ता धान्यानां वार्धुष्यं तद् उदाहृतम् ॥

“अनाकारितम्” अनुदीरितम् ।

[२८८]

(आ) अथ परमवृद्धिः

तत्र गौतमः [१२.२८]- ऽचिरस्थाने द्वैगुण्यं प्रयोगस्य" ।

कात्यायनः [५१०] ।

मणिमुक्ताप्रवालानां सुवर्णरजतस्य च ।
तिष्ठति द्विगुणा वृद्धिः फालकैटाविकस्य च ॥

“तिष्ठति” चिरतरावस्थाने न वर्धत इत्य् अर्थः ।“कैटम्” कीटभवं त्रसरादि । “आविकम्” कम्बलादि ।

मनुः [८.१५१] ।

कुसीदवृद्धिर् द्वैगुणयं नात्येति सकृद् आहृता ।
धान्ये सदे लवे वाह्ये नातिक्रामति पञ्चताम् ॥

“धान्यम्” व्रीहियवादि । “लवः” ऊर्णाचामरादिः, लूयते “लवः” इति व्युत्पत्या । “वाह्यो” बलीवर्दादिः ।

[२८९] गौतमः [१२-३३]- “कुसीदं पशूपजलोमक्षेत्रसदवाह्येषु नातिपञ्चगुणम्” ।

“पशूपजम्” क्षीरघृतादि । बृहस्पतिः [१०.१७] ।

हिरण्ये द्विगुणा वृद्धिस् त्रिगुणा वस्त्रकुप्यके ।
धान्ये चतुर्गुणा प्रोक्ता सदवाह्यलवेषु च ॥

विष्णुः [६.११–१५]- “हिरण्यस्य परा वृद्धिर् द्विगुना । धान्यस्य त्रिगुणा । वस्त्रस्य चतुर्गुणा । रसस्याष्टगुणा । सन्ततिः स्त्रीपशूनाम्” ।

वसिष्ठः [२.४४–४७]- “द्विगुणं हिरण्यं त्रिगुणं च धान्यम् । धान्येनैव रसा व्याख्याताः । पुष्पमूलफलानि च । तुलाघृतम् अष्टगुणम्” ।

बृहस्पतिः [१०.१८] ।

उक्ता पञ्चगुणा शाके बीजेक्षौ षड्गुणा स्मृता ।
लवणस्नेहमद्येषु वृद्धिर् अष्टगुणा स्मृता ।
गुडे मधुनि चैवोक्ता प्रयुक्ते चिरकालिके ॥

[२९०] कात्यायनः [५११] ।

तैलानां चैव सर्वेषां मद्यानाम् अथ सर्पिषाम् ।
वृद्धिर् अष्टगुणा ज्ञेया गुडस्य लवणस्य च ॥

बृहस्पतिः [१०.२३] ।

तृणकाष्ठेष्टकासूत्रकिण्वपाषाणचर्मणाम् ।
हेतिपुष्पफलानां च वृद्धिस् तु न निवर्तते ॥

“किण्वम्” सुरप्रकृतिद्रव्यविशेषः । “हेतिः” शस्त्रम् ।

विष्णुः [६.१६–१७]- “किण्वकार्पाससूत्रवर्मचर्मायुधेष्टकाङ्गाराणाम् अक्षया । अनुक्तानां द्विगुणा” ।

(ख) अथ वृद्धिनिषेधः

तत्र नारदः [२.३६] ।

पण्यमूल्यं भृतिर् न्यासो दण्डो यच् चाभिहारिकम् ।
वृथादानाक्षिकपणा वर्धन्ते नाविवक्षिताः ॥

[२९१] “आभिहारिकम्” छलादिना गृह्यमाणम् । “आक्षिकपणः” द्यूतनिमित्तं धनम् ।

कात्यायनः [५०८] ।

चर्मसस्यासवद्यूतपण्यमूल्ये च सर्वदा ।
स्त्रीशुल्केषु न वृद्धिः स्यात् प्रातिभाव्यागतेषु च ॥

“सस्यम्” क्षेत्राज् जातं धान्यस्तम्बादि । “आसवम्” मधु ।

संवर्तः ।

न वृद्धिः स्त्रीधने लाभे निक्षेपे च तथा स्थिते ।
संदिग्धे प्रातिभाव्ये च यदि न स्यात् स्वयंकृता ॥

व्यासः ।

प्रातिभाव्यं भुक्तबन्धम् अगृहीतं च दित्सतम् ।
न वर्धते प्रपन्नस्य दमः शुल्कं प्रतिश्रुतम् ॥

याज्ञवल्क्यः [२.४४] ।

दीयमानं न गृह्णाति प्रयुक्तं यः स्वकं धनम् ।
मध्यस्थस्थापितं तत् स्याद् वर्धते न ततः परम् ॥

[२९२]

(ग) अथाधिविधिः

तत्र बृहस्पतिः [१०.३८–३९] ।

आधिर् बन्धः समाख्यातः स च प्रोक्तश् चतुर्विधः ।
जङ्गमः स्थावरश् चैव गोप्यो भोग्यस् तथैव च ॥
यादृच्छिकः सावधिको लेख्यारूढो ऽथ साक्षिमान् ।

“चतुर्विधः” स्वरूपप्रकारकालप्रमाणैः । तत्र स्वरूपम् एव द्विविधं स्थावरजङ्गमभेदन (?) । प्रकारश् च द्विविधो गोप्यबोग्यभेदेन । कालो द्विविधः अवधिनियमानियमाभ्याम् । प्रमाणं द्विविधं लेख्यसाक्षिभेदेन ।

नारदः [४.१२५] ।

उपचारस् तथैवास्य लाभहानिर् विपर्यये ।
प्रमादाद् धनिनस् तद्वद् आधौ विकृतिम् आगते ॥

“उपचारः” रक्षणम् । कर्तव्यम् इति शेषः । “अस्य” आधेः “लाभहानिः” वृद्धिहानिः । “विपर्यये” विनाशे ।

बृहस्पतिः [१०.३९–४०] ।

अशान्तलाभे च ऋणे तथा पूर्णे ऽवधौ धनी ।
यो भुङ्क्ते बन्धकं लोभान् न स लाभो भवेत् पुनः ॥

[२९३] > न्यासवत् परिपाल्यो ऽसौ वृद्धिर् नश्यति हापिते ।

याज्ञवल्क्यः [२.५९] ।

गोप्याधिभोगे नो वृद्धिः सोपकारे च हापिते ।

“सोपकारे” बलीवर्दादौ ताम्रकटाहादौ । “हापिते” व्यवहाराक्षमत्वम् अनुप्रापिते ।

मनुः [८.१४३] ।

न त्व् एवाधौ सोपकारे कौसीदीं वृद्धिम् आप्नुयात् ।

तथा [८.१५०] ।

यः स्वामिनाननुज्ञातम् आधिं भुङ्क्ते ऽविचक्षणः ।
तेनार्धवृद्धिर् मोक्तव्या तस्य भोगस्य निष्कृतिः ॥

तथा [८.१४४] ।

न भोक्तव्यो बलाद् आधिर् भुञ्जानो वृद्धिम् उत्सृजेत् ।
मूल्येन तोषयेच् चैनम् आधिस्तेनो ऽन्यथा भवेत् ॥

ऽअर्धवृद्धिः भोक्तव्या" इति, आधेर् उपभुक्तस्य विकारे ऽसतीति बोद्धव्यम् । विकारे तु सति सकलवृद्धित्याग एवेएत्य् अर्थः ।

[२९४] कात्यायनः [५२५] ।

अकामम् अननुज्ञातम् आधिं यः कर्म कारयेत् ।
भोक्ता कर्मफलं दाप्यो वृद्धिं वा लभते न सः ॥

“अकामम्” आधीकृतं काम्यादिकर्मकरणेच्छारहितम् ।

विष्णुः [६.५–६]- “आध्युपभोगे वृद्ध्यभावः । देवराजोपघाताद् ऋते विनष्टम् आधिम् उत्तमर्णो दद्यात्” ।

नारदः [४.१२६] ।

विनष्टे मूलहानिः स्याद् दैवराजकृता ऋते ।

बृहस्पतिः [१०.४६] ।

भुक्ते चासारतां प्राप्ते मूलहानिः प्रजायते ।
बहुमूल्यं यत्र नष्टम् ऋणिकं तत्र तोषयेत् ॥

व्यासः ।

गृहीतृदोषान् नष्टश् चेद् बन्धो देयाधिको भवेत् ।
ऋणं सलाभं संशोध्य तन्मूल्यं दाप्यते धनी ॥

याज्ञवल्क्यः [२.५९] ।

नष्टो देयो विनष्टश् च दैवराजकृताद् ऋते ।

[२९५] “विनष्टो” अत्र विकृतिं गतः ।

कात्यायनः [५२६] ।

यस् त्व् आधिं कर्म कुर्वाणं वाचा दण्डेन कर्मभिः ।
पीडयेद् भर्त्सयेच् चैव प्राप्नुयात् पूर्वसाहसम् ॥

बृहस्पतिः [१०.४१] ।

दैवराजोपघातेन यत्राधिर् नाशम् आप्नुयात् ।
तत्रान्यं दापयेद् बन्धं सोदयं च ऋणं धनी ॥

नारदः [४.१३०] ।

रक्ष्यमाणो ऽपि यद्य् आधिः कालेनेयाद् असारताम् ।
आधिर् अन्यो ऽथ वा कार्यो देयं वा धनिने धनम् ॥

कात्यायनः [५२४] ।

न चेद् धनिकदोषेण निष्पतेद् वा म्रियेत वा ।
आधिम् अन्यं स कार्यः स्याद् ऋणान् मुच्येत् नर्णिकः ॥

बृहस्पतिः [१०.४२, ६६] ।

बन्धहस्तस्य यद् देयं चित्रेण चरितेन वा ।
अदत्ते ऽर्थे ऽखिले बन्धं नाकामो दाप्येते क्वचित् ॥
धनं मूलीकृतं दत्वा यद् आधिं प्रार्थयेद् ऋणी ।
तदैव तस्य मोक्तव्यस् त्व् अन्यथा दोषभाग् धनी ॥

[२९६] “चित्रम्” लेख्यम् । “चरितम्” साक्ष्यादि ।

याज्ञवल्क्यः [२.६२–६३] ।

उपस्थितस्य मोक्तव्य आधिः स्तेनो ऽन्यथा भवेत् ।
प्रयोजके ऽसति धनं कुले न्यस्याधिम् आप्नुयात् ॥
तत्कालकृतमूल्यो वा तत्र तिष्ठेद् अवृद्धिकः ।

“असति” अविद्यमाने ।

आधिम् उत्तमर्णो दद्याद् इत्य् अनुवृत्तौ विष्णुः [६.७]- “अन्त्यवृद्धौ प्रविष्टायाम् अपि” ।

याज्ञवल्क्यः [२.६४] ।

यदा तु द्विगुणीभूतम् ऋणम् आधौ तदा खलु ।
मोच्य आधिस् तदुत्पन्ने प्रविष्टे द्विगुणे धने ॥

ऽएतदुत्पन्ने द्विगुणे धने प्रविष्टे त्वयाधिर् मोक्तव्या" इत्य् उक्त्वायं चाधिर् दीयते तद्विषयम् इदम् । एवंविध एव लोके क्षयाधिर् इत्य् उच्यते ।

**[२९७] **विष्णुः [६.९]- “गृहीतधनप्रवेशार्थम् एव यत् स्थावरं दत्तं तद् गृहीतधनम् अप्रवेशे दद्यात्” । बृहस्पतिः [१०.६७–६९] ।

क्षेत्रादिकं यदा भुक्तम् उत्पन्नम् अधिकं ततः ।
मूलोदयं प्रविष्टं चेएत् तद् आधिं प्राप्नुयाद् ऋणी ॥
परिभाव्य यदा क्षेत्रं प्रदद्याद् धनिके ऋणी ।
तदा तच् छान्तलाभे ऽर्थे मोक्तव्यम् इति निश्चयः ॥
प्रविष्टे सोदये द्रव्ये प्रदातव्यं पुनर् मम ।
कुसीदादिविधिस् त्व् एष धर्म्यः संपरिकीर्तितः ॥

“शान्तलाभे ऽर्थे” परिसमाप्तलाभे ऽर्थे निमित्तभूते, सवृद्धिकधनप्रवेशो यावद् इत्य् अर्थः ।

याज्ञवल्क्यः [२.५८] ।

आधिः प्रण्श्येद् द्विगुणे धने यदि न मोक्ष्यते ।
काले कालकृते नश्येत् फलभोग्यो न नश्यति ॥

“आधिः प्रणश्येत्” इति, द्विगुणीभूते धने यद्य् आधिर् अधमर्णेन न मोक्ष्यते तदा नश्यति, धनप्रयोक्तुः स्वं भवति । “कालकृतः” कृतकालः । तेन यः कालावधिः कृतस् तस्मिन् प्राप्ते यदि न मोक्ष्यते तदा नश्यतीत्य् अर्थः ।

[२९८] बृहस्पतिः [१०.४९] ।

पूर्णे ऽवधौ शान्तलाभे बन्धस्वामी धनी भवेत् ।
अनिर्गते दशाहे तु ऋणी मोक्षितुम् अर्हति ॥

व्यासः ।

हिरण्ये द्विगुणीभूते पूर्णे काले कृतावधेः।
बन्धकस्य धनी स्वामी द्विसप्ताहं प्रतीक्ष्य तु ॥
अतो ऽन्तरा धनं दत्वा ऋणी बन्धकम् आप्नुयात् ।
फलभोग्यं पूर्णकालं दत्वा द्रव्यं तु सामकम् ॥

समम् एव “सामकम्” फलशून्यमित्य् अर्थः ।

मनुः [८.१४३] ।

न त्व् एवाधौ सोपकारे कौसीदिं वृद्धिम् आप्नुयात् ।
न चाधेः कालसंरोधान् निसर्गो ऽस्ति न विक्रयः ॥

“कालसंरोधः” चिरकालावस्थानम् । “निसर्गः” अन्यथाधिकरणम् । तच् च भोग्याधिविषयम् । “न त्व् एवाधौ सोपकारे” इति तस्यैव प्रकृतत्वात् । ऽआधिः प्रणश्येद् द्विगुणे धने" इति याज्ञवल्क्यवचनं [२.५८] गोप्याधिविषयम् । अतो नानयोर् विरोधः । “न निसर्गो न विक्रयः” इत्य् अत्र उत्तमर्णेन न कर्तव्य इत्य् शेषः ।

[२९९] बृहस्पतिः [१०.७०, ७१, ५०, ८५] ।

यत्राहितं गृहक्षेत्रं भोगे न प्रकर्षान्वितम् ।
तत्रर्णी नाप्नुयाद् बन्धं धनी चैव ऋणं तथा ॥
पूर्णे प्रकर्षे तत्स्वाम्यम् उभयोः परिकीर्तितम् ।
अपूर्णे तु प्रकुर्यातां परस्परमते तौ ॥
गोप्याधिर् द्विगुणाद् ऊर्ध्वं कृतकालस् तथाविधिः ।
शोधयित्वा ऋणिकुले मोक्तव्यः समनन्तरम् ॥
नष्टे मृते वा ऋणिके धनी पत्रं प्रदर्शयेत् ।
तत्कालावधिसंयुक्तं स्थानलेख्यं च कारयेत् ॥

“पर्कर्षो” वृद्धिः ।

याज्ञवल्क्यः [२.६१] ।

चरित्रं बन्धककृतं सवृद्धिं दापयेद् धनम् ।

“चरित्रम्” अग्निहोत्रगङ्गास्नानादि । तद् एव बन्धकीकृत्य यद् गृहीतं तद् वृद्धिसहितं दातव्यम् इत्य् अर्थः ।

[३००] कात्यायनः [५२९] ।

आधाता यत्र न स्यात् तु धनी बन्धं निवेदयेत् ।
राज्ञस् ततः स विख्यातो विक्रेय इति धारणा ॥
सवृद्धिकं गृहीत्वा तु शेषं राजन्य् अथार्पयेत् ।

याज्ञवल्क्यः [२.६३] ।

विना धारणकाद् वापि विक्रीणीत ससाक्षिकम् ।

(घ) अथाधिसिद्धिः

तत्र व्यासः ।

आधिस् तु द्विविधः प्रोक्तो जङ्गमः स्थावरस् तथा ।
सिद्धिर् अस्योभयस्यापि भोगो यद्य् अस्ति नान्यथा ॥

बृहस्पतिः [१०.५३] ।

न भुङ्क्ते यः स्वम् आधानं न दद्यान् अन् निवेदयेत् ।
प्रमीतसाक्षिऋणिकं तस्य लेख्यम् अपार्थकम् ॥
गृहं वार्यापणं धान्यं पशुस्त्रीवाहनानि च ।
उपेक्षया विनश्यन्ति यान्ति चासारतां तथा ॥

“स्वम् आधानम्” आधिम् ।

याज्ञवल्क्यः [२.६०] ।

आधेः स्वीकरणात् सिद्धिः रक्ष्यमाणो ऽप्य् असारताम् ।

[३०१] कात्यायनः [५१७] ।

आधिम् एकं द्वयोर् यत्र कुर्यात् का प्रतिपद् भवेत् ।
तयोः पूर्वतरं ग्राह्यम् आधाता चौरदण्डभाक् ॥

“प्रतिपत्” व्यवस्था । “पूर्वतरम्” करणम् इति शेषः ।

विष्णुः [५.१८१–८४]- “गोचर्ममात्राधिकां भुवम् अन्यस्याधीकृतां तस्माद् अनिर्मोच्यान्यस्य यः प्रयच्छेत् स वध्यः । ऊनां चेच् छोडशसुवर्णं दण्ड्यः” ।

एको ऽश्नीयाद् यद् उत्पन्नं नरः सांवत्सरं फलम् ।
गोचर्ममात्रा सा क्षोणी स्तोका वा यदि वा बहु ॥
ययोर् निक्षिप्त आधिस् तौ विवदेतां यदा नरौ ।
यस्य भुक्तिः फलं तस्य बलात्कारं विना कृता ॥

यस्य भुक्तिर् बलात्कारं विनेत्य् अर्थः । तस्य सा भूमिर् इति सेषः ।

बृहस्पतिः [१०.४४–४५] ।

क्षेत्रम् एकं द्वयोर् बन्धे दत्तं यत् समकालिकम् ।
येन भुक्तं भवेत् पूर्वं तस्य तत् सिद्धिम् आप्नुयात् ॥
तुल्यकालोपस्थितयोर् द्वयोर् अपि समं भवेत् ।
प्रदाने विक्रये चैव विधिः संपरिकीर्तितः ॥

कात्यायनः [५१८, ५२१, ५२२, ५१९, ५२०]

आधानं विक्रयो दानं साक्षिलेख्यकृतं तथा ।
एकक्रियानिबन्धेन लेख्यं तत्रापहारकम् ॥

[३०२]

यस् तु सर्वस्वम् आदिश्य प्राक् पश्चान् नामचिह्नितम् ।
आदध्यात् तत् कथं न स्याच् चिह्नितं बलवत्तरम् ॥
मर्यादाचिह्नितं क्षेत्रं गृहं वापि यदा भवेत् ।
ग्रामादयश् च लिख्यन्ते तदा सिद्धिम् अवाप्नुयात् ॥
अनिर्दिष्टं च निर्दिष्टम् एकत्र च विसेषितम् ।
विशेषलिखितं ज्याय इति कात्यानयो ऽब्रवीत् ॥
यो विद्यमानं प्रधनम् अनिर्दिष्टस्वरूपकम् ।
आकाशबन्धम् आदध्याद् आदिष्टं नैव तद् भवेत् ॥
यद् यत् तदास्य विद्येत तद् आदिष्टं विनिर्दिशेत् ।

“एकक्रियानिबन्धेन” एकजातीयदानादिक्रियानिमित्तेन । यस् तु सर्वस्वम् इत्यादि । यः प्रथमं सर्वस्वं बन्धकत्वेनोद्दिश्य पश्चाल् लेखनसमये नामविशेषेण लेखयति, तत्रोत्तरकालं विवादे सति, यद् यावन् नामतो लिखितं तत् तावत् प्रमाणम् । नोद्दिष्टमात्रम् इत्य् अर्थः । “प्रधनम्” अत्र प्रकृष्टं धनम् ।

[३०३]

(ङ) अथ प्रतिभूविधिः

तत्र कात्यायनः [११४–११६] ।

न स्वामी न च वै शत्रुः स्वामिनाधिकृतस् तथा ।
निरुद्धो दण्डितश् चैव संशयस्थश् च न क्वचित् ॥
नैव रिक्थी न रिक्तश् च न चैवात्यन्तवासिनः ।
राजकार्यनियुक्ताश् च ये च प्रव्रजिता नराः ॥
नाशक्तो धनिने दातुं दण्डं राज्ञे च तत्समम् ।
नाविज्ञातो गृहीतव्यः प्रतिभूः स्वक्रियां प्रति ॥

याज्ञवल्क्यः [२.५२] ।

भ्रातॄणाम् अथ दम्पत्योः पितुः पुत्रस्य चैव हि ।
प्रातिभाव्यम् ऋणं साक्ष्यम् अविभक्ते न तु स्मृतम् ॥

नारदः [१६.३९] ।

साक्षित्वं प्रातिभाव्यं च दानं ग्रहणम् एव च ।
विभक्ताः भ्रातरः कुर्युर् नाविभक्ताः परस्परम् ॥

[३०४] बृहस्पतिः [१०.७३, ७४, ७८] ।

दर्शने प्रत्यये दाने ऋणिद्रव्यार्पणे तथा ।
चतुष्प्रकारः प्रतिभूः शाश्त्रे दृष्टो मनीषिभिः ॥
आहैको ऽहं दर्शयामि साधुर् एषो ऽपरो ऽब्रवीत् ।
दाताहम् एतद् द्रविणम् अर्पयाम्य् अपरो वदेत् ॥
आद्यौ तु वितथे दाप्यौ तत्कालावेदितंधनम् ।
उत्तरौ च विसंवादे तौ विना तत्सुतौ तथा ॥

याज्ञवल्क्यः [२.५४] ।

दर्शनप्रतिभूर् यत्र मृतः प्रात्ययिको ऽपि वा ।
न तत्पुत्रा ऋणं दद्युः दद्युर् दायाय यः स्थितः ॥

“दद्युर् दानाय यः स्थितः” इति । यो दानप्रतिभूत्वेन स्थितस् तस्य पुत्रा ऋणं दद्युर् इत्य् अर्थः ।

कात्यायनः [५३०, ५३१, ५३३] ।

दानोपस्थानविश्वासविवादशपथाय च ।
लग्नकं दापयेद् एवं यथायोगं विपर्यये ॥
दर्शनप्रतिभूर् यस् तु देशे काले न दर्शयेत् ।
निबन्धम् आवहेत् तत्र दैवराजकृताद् ऋते ॥
काले व्यतीते प्रतिभूर् यदि तं नैव दर्शयेत् ।
निबन्धं दापयेत् तत्र प्रेते चैव विधिः स्म्र्तः ॥

[३०५] > देशकालौ क्रियाकारे यद्य् अल्पम् अपि लङ्घयेत् ।

साधितं प्रतिभूर् दाप्यस् तम् अर्थं साधिते विधिः ॥
पराश्रयम अभव्यं वाप्य् असत्संसर्गम् एव च ।
अपकारक्षमो यश् च द्वेषात् कर्तुमनाः क्वचित् ॥
कारयेत् प्रत्ययायैव तद्भयाल् लग्नकं तु तम् ।
विसंवादे ऽथ शीलस्य दाप्यते प्रतिभूस् तथा ॥

“पराश्रयम्” इत्यादिषु “कर्तुमना” इति सम्बन्धः । “अभव्यम्” विरूपकम् ।

मनुः [८.१६०] ।

दानप्रतिभुवि प्रेते दायादान् अपि दापयेत् ।

कात्यायनः [५३४] ।

गृहीत्वा बन्धकं यत्र दर्शने ऽस्य स्थितो भवेत् ।
विभाव्य वादिना तत्र दाप्यः स्यात् तद् ऋणं सुतः ॥

[३०६] अस्यार्थः — बन्धकं गृहीत्वा दर्शनप्रतिभूर् अभूद् इति विभाव्य यदि वादिना तस्मिन्न् असति तत्सुतस् तद् ऋणं दाप्य इति ।

मनुः [८.१६१६२] ।

अदातरि पुनर् दाता विज्ञातप्रकृताव् ऋणम् ।
पश्चात् प्रतिभुवि प्रेते परीप्सेत् केन हेतुना ॥
निरादिष्टधनश् चेत् तु प्रतिभूः स्याद् अलंधनः ।
स्वधनाद् एव तद् दद्यान् निरादिष्ट इति स्थितिः ॥

“अदातरि” दानप्रतिभुवो ऽन्यस्मिन् प्रतिभुवि । “दाता” उत्तमर्णः । “विज्ञातप्रकृतिः” विज्ञातं प्रातिभाव्ये कारणं बन्धकादिग्रहणं यस्य स तथा । “निरादिष्टधनः” निरादिष्टं धनम् अधमर्णेन ऋणनिस्ताराय यस्मै स तथा । “अलंधनः” पर्याप्तधनः । “निरादिष्टो” ऽत्र निरादिष्टधनस्य पुत्रो लक्षणया, पितरि प्रेते तदृणम् असौ दद्याद् इत्य् अर्थः ।

व्यासः ।

ऋणं पैतामहं पौत्रः प्रातिभाव्यागतं सुतः ।
समं दद्यात् तत्सुतौ तु न दाप्याव् इति निश्चयः ॥

[३०७] “समं” कलारहितम् । “तत्सुतौ” प्रपौत्रपौत्रौ ।

कात्यायनः [५६१] ।

प्रातिभाव्यागतं पौत्रैर् दातव्यं न तु तत् क्वचित् ।
पुत्रेणापि समं देयम् ऋणं सर्वत्र पैतृकम् ॥

“ऋणं” प्रातिभाव्यागतम् इति सम्बन्धः ।

याज्ञवल्क्यः [२.५५] ।

बहवः स्युर् यदि स्वांशैर् दद्युः प्रतिभुवो धनम् ।
एकच्छायाश्रितेष्व् एषु धनिकस्य यथारुचि ॥

“एकच्छायाश्रिताः” एकस्य प्रतिभुवः छायां सादृश्यम् आश्रिताः ये प्रतिभुवस् ते तथा । यथा एकप्रतिभूः कृत्स्नं द्रव्यं दद्यात्, एवन् अनेके ऽपि ।

बृहस्पतिः [१०.७६, ८४] ।

नष्टस्यान्वेषणे कालं दद्यात् प्रतिभुवे धनी ।
देशानुरूपतः पक्षं मासं सार्धम् अथापि वा ॥
नात्यन्तं पीडनीयाः स्युर् ऋणं दाप्याः शनैः शनैः ।
स्वसाक्ष्ये न नियोज्याः स्युर् विधिः प्रतिभुवाम् अयम् ॥

“स्वसाक्ष्ये” स्वयम् समक्षदर्शने वा ।

तथा [१०.८२] ।

प्रातिभाव्यं तु यो दद्यात् पीडितः प्रतिभावितः ।
त्रिपक्षात् परतः सो ऽर्थं द्विगुणं लब्धुम् अर्हति ॥

[३०८] याज्ञवल्क्यः [२.५६] ।

प्रतिभूर् दापितो यत् तु प्रकाशं धनिनां धनम् ।
द्विगुणं प्रतिदातव्यम् ऋणिकैस् तस्य तद् भवेत् ॥

कात्यायनः [५४०] ।

यस्यार्थे येन यद् दत्तं विधिनाभ्यर्थितेन तु ।
साक्षिभिर् भावितेनैव प्रतिभूस् तत् समाप्नुयात् ॥

**(च) अथर्णादानविधिः **

तत्र बृहस्पतिः [१०.१०२, १०३, ११३] ।

परहस्ताद् गृहीतं यत् कुसीदविधिना ऋणम् ।
येन यत्र यथा देयम् अदेयं वोच्यते ऽधुना ॥
याचमानाय दातव्यम् अप्रकालकृतं ऋणम् ।
पूर्णावधौ शान्तलाभम् अभावे च पितुः सुतैः ॥

[३०९] > पित्र्यम् एवाग्रतो देयं पश्चाद् आत्मीयम् एव च ।

तयोः पैतामहं पूर्वं देयम् एवम् ऋणं सदा ॥

“प्रकालः” प्रतिनियतः कालो ऽवधिर् इत्य् अर्थः ।

नारदः [४.२] ।

पितर्य् उपरते पुत्रा ऋणं दद्युर् यथांशतः ।
विभक्ता ह्य् अविभक्ता वा यो वा ताम् उद्वहेद् धुरम् ॥

याज्ञवल्क्यः [२.५०] ।

पितरि प्रोषिते प्रेते व्यसनाभिप्लुते ऽपि वा ।
पुत्रपौरैर् ऋणं देयं निह्नवे साक्षिभावितम् ॥

कात्यायनः ।

यद् दृष्टं दत्तशेषं वा देयं पैतामहं तु तत् ।
सदोषं व्याहतं पित्रा नैव देयम् ऋणं क्वचित् ॥
पित्रा दृष्टम् ऋणं यत् तु क्रमायातं पितामहात् ।
निर्दोषं नोद्धृतं पुत्रैर् देयं पौत्रैस् तु तद् भृगुः ॥
पैतामहं तु यत् पुत्रैर् न दत्तं रोगिभिः स्थितैः ।
तस्माद् एवंविधं पौत्रैर् देयं पैतामहं समम् ॥

[३१०] > अनेकार्थाभियोगे ऽपि यावत् संसाधयेद् धनम् ।

साक्षिभिस् तावद् एवासौ लभते साधितं धनम् ॥
पुत्राभावे तु दातव्यम् ऋणं पौत्रेण यत्नतः ।
चतुर्थेन यद् आदत्तं तत् तस्माद् विनिवर्तयेत् ॥

“सदोषम्” द्यूतमद्यादिविनियुक्तम् । “व्याहतम्” नैतद् देयम् इति पित्रा विसंवादितम् । “चतुर्थेन” पुरुषेण “यद् आदत्तं” यद् गृहीतम् “तद् विनिवर्तयेत्” न दद्याद् इत्य् अर्थः ।

बृहस्पतिः [१०.११४] ।

ऋणम् आत्मीयवत् पित्र्यं पुत्रैर् देयं विभावितम् ।
पैतामहं समं देयं न देयं तत्सुतस्य तु ॥

“आत्मीयवत्” सवृद्धिकं देयम् इत्य् अर्थः ।

नारदः [४.४] ।

क्रमाद् अव्याहतं प्राप्तं पुत्रैर् यन् नर्णम् उद्धृतम् ।
देयं पैतामहं पौत्रैस् तच् चतुर्थान् निवर्तयेत् ॥

[३११] याज्ञवल्क्यः [२.९०] ।

ऋणं लेख्यकृतं देयं पुरुषैर् त्रिभिर् एव तु ।
आधिस् तु भुज्यते तावद् यावत् तन् न प्रदापयेत् ॥

“आधिस् तु भुज्यते” इति — आधिं गृहीत्वा यद् ऋणं दत्तं तद् यावन् न दीयते तावद् असाव् आधिर् भुज्यते । न चतुर्थादिपुरुषे तद् ऋणं निवर्तत इत्य् अर्थः ।

विष्णुः [६.२७–२८]- “धनग्राहिणि प्रेते प्रव्रजिते द्विदश समाः प्रवसिते वा तत्पुत्रपौत्रैर् धनं देयम् । नातः परम् अनिच्छुभिः” ।

नारदः [४.२४] ।

नार्वाक् संवत्सराद् विंशात् पितरि प्रोषिते सुतः ।
ऋणं दद्यात् पितृव्ये वा प्रेते भ्रातर्य् अथापि वा ॥

कात्यायनः [५४८–४९] ।

विद्यमाने ऽपि रोगार्ते स्वदेशात् प्रोषिते ऽपि वा ।
विंशात् संवत्सराद् देयम् ऋणं पितृकृतं सुतैः ॥
व्याधितोन्मत्तवृद्धानां तथा दीर्घप्रवासिनाम् ।
ऋणम् एवंविधं पुत्रान् जीवताम् अपि दापयेत् ॥

[३१२] बृहस्पतिः [१०.११०–१२] ।

सांनिध्ये ऽपि पितुः पुत्रैर् ऋणं देयं विभावितम् ।
जात्यन्धपतितोन्मत्तक्षयश्वित्रादिरोगिणः ॥
एकच्छायाकृतं सर्वं दद्यात् तु प्रोषिते सुतः ।
मृते पितरि पित्रंशं परर्णं न कदाचन ॥

नारदः [४.२५] ।

दाप्यः परर्णम् एको ऽपि जीवन्न् अवियुतैः कृतम् ।
मृतेषु तु न तत्पुत्रः परर्णं दातुम् अर्हति ॥

विष्णुः [६.३४–३६]- “अविभक्तैः कृतम् ऋणं यस् तिष्ठेत् स दद्यात् । पैतृकम् अविभक्तानां भ्रातॄणां च । विभक्ताश् च दायानुरूपम् अंशम्” ।

याज्ञवल्क्यः [२.४५] ।

अविभक्तैः कुटुम्बार्थे यद् ऋणं तु कृतं भवेत् ।
दद्युस् तद् रिक्थिनः प्रेते प्रोषिते वा कुटुम्बिनि ॥

नारदः [४.३] ।

पितृव्येणाविभक्तेन ब्रात्रा वा यद् ऋणं कृतम् ।
मात्रा वाथ कुटुम्बार्थे दद्युस् तत् सर्वम् ऋक्थिनः ॥

[३१३] मनुः [८.१६६] ।

ग्रहीता यदि नष्टः स्यात् कुटुम्बे च कृतो व्ययः ।
दातव्यं बान्धवैस् तत् स्यात् प्रविभक्तैर् अपि स्वतः ॥

नारदः [४.३१] ।

अप्राप्तव्यवहारश् च स्वतन्त्रे ऽपि हि नर्णभाक् ।

कात्यायनः [५५२, ५५१] ।

नाप्राप्तव्यवहारैस् तु पितर्य् उपरते क्वचित् ।
कालेन विधिना देयं वसेयुर् नरके ऽन्यथा ॥
पितॄणां सूनुभिर् जातैर् दानेनैवाधमाद् ऋणात् ।
विमोक्षस् तु यतस् तस्माद् इच्छन्ति पितरः सुतम् ॥

नारदः [४.५; वुलगते ५.९] ।

इच्छन्ति पितरः पुत्रान् स्वार्थहेतोर् यतस् ततः ।
उत्तमर्णाधमर्णाभ्यां माम् अयं मोक्षयिष्यति ॥
अतः पुत्रेण जातेन स्वार्थम् उत्सृज्य यत्नतः ।
ऋणात् पिता मोचनीयो यथा न नरकं व्रजेत् ॥
तपस्वी चाग्निहोत्री च ऋणवान् म्रियते यदि ।
तपश् चैवाग्निहोत्रं च तत् सर्वं धनिनां भवेत् ॥

[३१४] “उत्तमर्णानि” उत्तमानां देवऋषिपितॄणाम् ऋणानि । “अधमर्णानि” अधमानां मनुष्याणाम् ऋणानि सुवर्णधान्यादीनि ।

बृहस्प्तिः [१०.१२३] ।

उज्जामादिकम् आदाय स्वामिने न ददाति यः ।
स तस्य दासो भृत्यः स्त्री पशुर् वा जायते गृहे ॥

उज्जामशब्देन ऋणम् उच्यते । आदिशब्देन निक्षेपादिकम् उच्यते ।

मनुः [८.१६७] ।

कुटुम्बार्थे ऽध्यधीनो ऽपि व्यवहारं यम् आचरेत् ।
स्वदेशे वा विदेशे वा तं विद्वान् न विचालयेत् ॥

“अध्यधीनो” दासादिः ।

बृहस्पतिः [१०.१२१] ।

पितृव्यभ्रातृपुत्रस्त्रीदासशिष्यानुजीविभिः ।
यद् गृहीतं कुटुम्बार्थे तद् गृही दातुम् अर्हति ॥

विष्णुः [६.३८, ३९]- “वाक्प्रतिपन्नं कुटुम्बिना देयम् । कस्यचित् कुटुम्बार्थे कृतं वा” ।

कात्यायनः [५४२, ५४३, ५४५] ।

कुटुम्बार्थम् अशक्तेन गृहीतं व्याधितेन वा ।
उपप्लवनिमित्तं च विद्याद् आपत्कृतं तु तत् ॥

[३१५] > कन्यावैवाहिकं चैव प्रेतकार्ये तु यत् कृतम् ।

एतत् सर्वं प्रदातव्यं कुटुम्बेन कृतं प्रभोः ॥
प्रोषितस्यामतेनापि कुटुम्बार्थम् ऋणं कृतम् ।
दासस्त्रीमातृशिष्तैर् वा दाद्यात् पुत्रेण वा भृगुः ॥

नारदः [४.११] ।

पितुर् एव नियोगाद् वा कुटुम्बभरणाय वा ।
कृतं वा यद् ऋणं कृच्छ्रे दद्यात् पुत्रस्य तत् पिता ॥

बृहस्पतिः [१०.१२४] ।

ऋणं पुत्रकृतं पित्रा शोध्यं यद् अनुमोदितम् ।
सुतस्नेहेन वा दद्यान् नान्यथा दातुम् अर्हति ॥

कात्यायनः [५४४] ।

ऋणं पुत्रकृतं पित्रा न देयम् इति धर्मतः ।
देयं प्रतिश्रुतं यत् स्याद् यच् च स्याद् अनुवर्णितम् ॥

मनुः [८.१५९, १६०] ।

प्रातिभाव्यं वृथादानम् आक्षिकं सौरिकं च यत् ।
दण्डशुल्कावशिष्टं च न पुत्रो दातुम् अर्हति ॥
दर्शनप्रातिभाव्ये तु विधिः पूर्वप्रचोदितः ।
दानप्रतिभुवि प्रेते दायादान् अपि दापयेत् ॥

[३१६] बृहस्पतिः [१०.११८] ।

सौराक्षिकं वृथादानं कामक्रोधप्रतिश्रुतम् ।
प्रातिभाव्यं दण्डशुल्कशेषं पुत्रं न दापयेत् ॥

“सौरम्” मद्यनिमित्तम् । “आक्षिकम्” द्यूतनिमित्तम् ।

व्यासः ।

दण्डो वा दण्डशेषो वा शुल्कं तच्छेष एव वा ।
न दातव्यं तु पुत्रेण यच् च न व्यावहारिकम् ॥

“व्यावहारिकम्” व्यवहारार्हपुरुषकृतम् ।

कात्यायनः [५६४–५६५] ।

लिखितं मुक्तकं वापि देयं यत् तु प्रतिश्रुतम् ।
परपूर्वस्त्रियै तत् तु विद्यात् कामकृतम् ऋणम् ॥
यत्र हिंसा समुत्पाद्य क्रोधाद् द्रव्यं विनाश्य वा ।
उक्तं तुष्टिकरं यत् तु विद्यात् क्रोधकृतं तु तत् ॥

“उक्तम्” प्रतिज्ञातम् ।

याज्ञवल्क्यः [२.४६] ।

न योषित् पतिपुत्राभ्यां न पुत्रेण कृतं पिता ।
दद्याद् ऋते कुटुम्बार्थान् न पतिः स्त्रीकृतं तथा ॥

विष्णुः [६.३२]- “न स्त्रीकृतं पतिपुत्रौ” ।

[३१७] कात्यायनः [५७८] ।

देयं भार्याकृतम् ऋणं भर्त्रा पुत्रेण मातृकम् ।
भक्तस्यार्थे कृतं यत् स्याद् अभिधाय गते दिशम् ॥

नारदः [४.१८–१९] ।

न च भार्याकृतम् ऋणं कथंचित् पत्युर् आभवेत् ।
आपत्कृताद् ऋते पुंसः कुटुम्बार्थो हि दुस्तरः ॥
अन्यत्र रजकव्याधगोपशौण्डिकयोषिताम् ।
तेषां तु तत्परा वृत्तिः कुटुम्बं च तदाश्रयम् ॥

“आभवेत्” इति देयं भवेद् इत्य् अर्थः ।

याज्ञवल्क्यः [२.४८] ।

गोपशौण्डिकशौलूषरजकव्याधयोषिताम् ।
ऋणं दद्यात् पतिस् तासां यस्माद् वृत्तिस् तदाश्रया ॥

बृहस्पति-कात्यायनौ ।

शौण्डिकव्याधरजकगोपनाविकयोषिताम् ।
अधिष्ठाता ऋणं दाप्यस् तासां भर्तृक्रियासु तत् ॥

[३१८] “अधिष्ठाता” अत्र पतिर् एव । “भर्तृक्रियासु तत्” यतो भर्तुः कर्तव्येषु प्रयोजनेषु तद् ऋणं जातं तासाम् इत्य् अर्थः ।

याज्ञवल्क्यः [२.४९] ।

प्रतिपन्नं स्त्रिया देयं पत्या वा सह यत् कृतम् ।
स्व्यं कृतं वा यद् ऋणं नान्यत् स्त्री दातुम् अर्हति ॥

कात्यायनः [५४६, ५४९?]

भर्त्रा पुत्रेण वा सार्धं केवलं वात्मना कृतम् ।
ऋणम् एवंविधं देयं नान्यथा तत्कृतं स्त्रिया ॥
भर्तुकामेन या भर्त्रा उक्ता देयम् ऋणं त्वया ।
अप्रपन्नापि सा दाप्या धनं यद्य् आश्रितं स्त्रिया ॥

“तत्कृतम्” पतिपुत्रकृतम् । “धनम्” भर्तृधनम् ।

नारदः [४.१६–१७] ।

न स्त्री पतिकृतं दद्याद् ऋणं पुत्रकृतं तथा ।
अभ्युपेताद् ऋते यद् वा सह पत्या कृतं भवेत् ॥
दद्याद् अपुत्रा विधवा नियुक्ता या मुमूर्षुणा ।
या वा तद्रिक्थम् आदद्याद् यतो रिक्थम् ऋणं ततः ॥

[३१९] विष्णुः [६.२९–३०]- “सपुत्रस्य चाप्य् अपुत्रस्य रिक्थग्राही ऋणं दद्यात् । विधनस्य स्त्रीग्राही” ।

नारदः [४.२४, २२] ।

अन्तिमा स्वैरिणीनां या पुनर्भूः प्रथमा च या ।
ऋणं तयोः पतिकृतं दद्याद् यस् ते समश्नुते ॥
अधनस्य ह्य् अपुत्रस्य मृतस्योपैति यः स्त्रियम् ।
ऋणं वोढुः स भजते तद् एवास्य धनं स्मृतम् ॥

“स्वैरिणीनाम् अन्तिमा” नारदेनोक्ता यथा –

देशधर्मानवेक्ष्य स्त्री गुरुभिर् या प्रदीयते ।
उत्पन्नसाहसान्यस्मै सान्तिमा स्वैरिणी मता ॥ इति ।

“पुनर्भूः प्रथमा” नारदेनोक्ता [१२.४६] यथा –

कन्यैवाक्षतयोनिर् या पाणिग्रहणदूषिता ।
पुनर्भूः प्रथमा प्रोक्ता पुनः संस्कृरकर्मणा ॥ इति ।

अत्र चैतयोर् अन्यस्वैरिण्यापक्षया श्रैष्ठ्यात् तद्ग्राही तत्पतिकृतम् ऋणं दद्याद् इत्य् अर्थः ।

[३२०] कात्यायनः [५६७] ।

निर्धनैर् अनपत्यैस् तु यत् कृतं शौण्डिकादिभिः ।
तत् स्त्रीणाम् उपभोक्ता तु दद्यात् तदृणम् एव हि ॥

नारदः [४.२३] ।

धनस्त्रीहारिपुत्राणाम् ऋणभाग् यो धनं हरेत् ।
पुत्रो ऽसतोः स्त्रीधनिनोः स्त्रीहारी धनिपुत्रयोः ॥

“स्त्रिधनिनोः” स्त्री च धनं च स्त्रीधने तद्वतोः । स्त्रीहारिधनहारिणोर् इत्य् अर्थः । “स्त्रीहारी धनिपुत्रयोर्” इत्य् अत्रासतोर् इत्य् अनुषङ्गः । स्त्रीहारिपुत्रयोस् तु विद्यमानयोर् बाले व्यसनाभिभूते द्रविणानर्हे ऋणदानासमर्थे पुत्रे सति, स्त्रीहारी ऋणं दद्यात् । यदा तु निरुपद्रवो द्रविणार्हो धुर्यश् च पुत्रो भवति तदा स एव ऋणभाक् । न स्त्रीहारीत्य् अर्थः ।

[३२१] तथा च कात्यायनः [५५७, ५७६] ।

ऋणं तु दापयेत् पुत्रं यदि स्यान् निरुपद्रवः ।
द्रविणार्हश् च दुर्यश् च नान्यथा दापयेत् सुतम् ॥
व्यसनाभिप्लुते पुत्रे बालो वा यत्र दृश्यते ।
द्रव्यहृद् दाप्यते तत्र तस्याभावे पुरन्ध्रिहृत् ॥

याज्ञवल्क्यः [२.५१] ।

रिक्थग्राह ऋणं दाप्यो योषिद्ग्राहस् तथैव च ।
पुत्रो ऽनन्याश्रितद्रव्यः पुत्रहीनस्य रिक्थिनः ॥

“रिक्थग्राह ऋणं दाप्यः” इति । अन्यादिसम्बन्धविशेषेण यो यदीयं द्रव्यं गृह्णाति स तत्कृतम् ऋणं राज्ञा दाप्यत इत्य् अर्थः । “पुत्रो ऽनन्याश्रितद्रव्यः” इति । न अन्यस्मिन् संश्रितं मातापित्रोः सम्बन्धि द्रव्यं यस्य स तथा । [३२२] अत्रापि ऋणं दाप्यत इत्य् अर्थः । अत्र च पितृधनग्रहणयोग्यः पुत्रो विवक्षितो, न तु लब्धपितृधनः । तस्य रिक्थग्राह इत्य् अनेनैव गतार्थत्वात् । एतच् चान्धपङ्ग्वादेः पितृधनग्रहणानधिकारिणः पुत्रस्य ऋणापकरणे ऽधिकारो मा भूद् इत्य् एवमर्थम् । “रिक्थिनः” अत्र रिक्थग्रहणयोग्याः पौत्राः ।

कात्यायनः [५७१–७३] ।

अमतेनैव पुत्रस्य प्रधना यान्यम् आश्रयेत् ।
पुत्रेणैवापहार्यं तद् धनं दुहितृभिर् विना ॥
ऋणार्थम् आहरेत् तत् तु न सुखार्थं कथंचन ।
अयुक्ते कारेणे यस्मात् पितरौ तु न दापयेत् ॥
या स्वपुत्रं तु जह्यात् स्त्री समर्थम् अपि पुत्रिणी ।
आहृत्य स्त्रीधनं तत्र पित्र्यर्णं श्ōधयेन् मनुः ॥

[३२३] “प्रधना” प्रभूतधना ।

नारदः [४.२०, २१] ।

पुत्रिणी तु समुत्सृज्य पुत्रं स्त्री यान्यम् आश्रयेत् ।
तस्या ऋणं हरेत् सर्वं निःस्वायाः पुत्र एव तु ॥
या तु सप्रधनैव स्त्री सापत्या वान्यम् आश्रयेत् ।
सो ऽस्या दद्याद् ऋणं भर्तुर् उत्सृजेद् वा तथैव ताम् ॥

कात्यायनः [५७४-७५] ।

बालपुत्राधिकार्था च भर्तारं यान्यम् आश्रिता ।
आश्रितस् तदृणं दद्याद् बालपुत्राविधिः स्मृतः ॥
दीर्घप्रवासिनिर्बन्धुजडोन्मत्तार्तलिङ्गिनाम् ।
जीवताम् अपि दातव्यं तत् स्त्रीद्रव्यं समाश्रितैः ॥

[३२४]

(छ) अथोद्ग्राहणविधिः

तत्र मनुः [८.४८–४९] ।

यैर् यैर् उपायैर् अर्थं स्वं प्राप्नुयाद् उत्तमर्णिकः ।
तैस् तैर् उपायैः संगृह्य साधयेद् अधमर्णिकम् ॥
धर्मेण व्यवहारेण छलेनाचरितेन च ।
प्रयुक्तं साधयेद् अर्थं पञ्चमेन बलेन च ॥

बृहस्पतिः [१०.८७] ।

प्रतिपन्नम् ऋणी दाप्यः सामादिभिर् उपक्रमैः ।
दर्मोपधिबलात्कारैर् गृहसंरोधनेन च ॥

कात्यायनः [५८५–८८] ।

पीडनेनोपरोधेन सादयेद् ऋणिकं धनी ।
कर्मणा व्यवहारेण सान्त्वेनादौ विभावितम् ॥
आददीतार्थम् एवं तु व्याजेनाचरितेन च ।
राजानं स्वामिनं विप्रं सान्त्वेनैव प्रदापयेत् ॥
रिक्थिनं सुहृदं चापि छलेनैव प्रदापयेत् ।

[३२५] तथा ।

वणिजः कर्षकाश् चैव शिल्पिनश् चाब्रवीद् भृगुः ।
देशाचारेण दाप्याः स्युर् दुष्टान् संपीड्य दापयेत् ॥

बृहस्पतिः [१०.८८, ९०] ।

सुहृत्सम्बन्धिसंदिष्टैः सामोक्त्यानुगमेन च ।
प्रायेण वा ऋणी दाप्यो धर्म एष उदाहृतः ॥
छद्मना याचितं चार्थम् आनीय ऋणिकाद् धनी ।
अन्वाहितादि वाहृत्य दाप्यते यत्र सोपधिः ॥
बद्ध्वा स्वगृहम् आनीय ताडनाद् यैर् उपक्रमैः ।
ऋणिको दाप्यते यत्र बलात्कारः स कीर्तितः ॥
दारपुत्रपशून् रुद्ध्वा कृत्वा द्वारोपवेशनम् ।
यत्रर्णी दाप्यते ऽर्थं स्वं तद् आचरितम् उच्यते ॥

“सुहृत्संबन्धिसंदिष्टैः” तत्सुहृदां संबन्धिनां संदेशैः ।

कात्यायनः [५८०–८४] ।

धार्यो ऽवरुद्धस् त्व् ऋणिकः प्रकाशं जनसंसदि ।
यावन् न दद्याद् देयं च देशाचारस्थिथिर् यथा ॥
विण्मूत्रशङ्का यस्य स्याद् धार्यमाणस्य देहिनः ।
पृष्ठतो वानुगन्तव्यं निबद्धं वा समुत्सृजेत् ॥
स कृतप्रतिभूश् चैव मोक्तव्यः स्याद् दिने दिने ।
आहारकाले रात्रौ च निबन्धे प्रतिभूः स्थितः ॥

[३२६] > यो दर्शनप्रतिभुवं नाधिगच्छेन् न चाश्रयेत् ।

स चारके निरोद्धव्यः स्थाप्यो वावेद्य रक्षिणः ॥
न चारके निरोद्धव्य आर्यः प्रात्ययिकः शुचिः ।
सो ऽनिबद्धः प्रमोक्तव्यो निबद्धः शपथेन वा ॥

“विण्मूत्रशङ्का” विण्मूत्रवेगसूचनम् । “निबद्धो” नियमितः । “चारके” कारागृहे ।

मनुः [८.१७७] ।

कर्मणापि समं कुर्याद् धनिकस्याधमर्णिकः ।
समो ऽवकृष्टजातिश् च दद्याच् छ्रेयांस् तु तच् छनैः ॥

“कर्मणापि समं कुर्यात्” अधमर्णिकत्वेनोत्तमर्णाद् अधरीभूतम् आत्मानं तावद् धनकार्यकर्मकरणेनापि समं कुर्याद् अधमर्णत्वम् अपनयेद् इत्य् अर्थः । “श्रेयान्” उत्तमजातीयो गुणाधिकश् च ।

बृहस्पतिः [८.१०५] ।

निर्धनं ऋणिकं कर्म गृहम् आनीय कारयेत् ।
शौण्डिकाद्यं ब्राह्मणस् तु दापनीयः शनैः शनैः ॥

[३२७] याज्ञवल्क्यः [२.४३] ।

हीनजातिं परिक्षीणम् ऋणार्थं कर्म कारयेत् ।
ब्राह्मणस् तु परिक्षीणः शनैर् दाप्यो यथोदयम् ॥

“यथोदयम्” यथाद्रव्योत्पत्ति ।

कात्यायनः [४८६] ।

कर्मणा क्षत्रविट्छूद्रान् समहीनांस् तु दापयेत् ।

तथा [५९०] ।

यदि ह्य् आदाव् अनादिष्टम् अशुभं कर्म कारयेत् ।
प्राप्नुयात् साहसं पूर्वम् ऋणान् मुच्येत चर्णिकः ॥

नारदः [४.१२३] ।

अथ शक्तिविहीनः स्याद् ऋणी कालविपर्ययात् ।
शक्त्यपेक्षं ऋणं दाप्यः काले काले यथोदयम् ॥

शक्त्यपेक्षम् ऋणं दातुम् । “कालविपर्ययात्” दुर्भिक्षादेः ।

बृहस्पतिः [१०.९९–१००] ।

पूर्णावधौ शान्तलाभम् ऋणम् उद्ग्राहयेद् धनी ।
कारेयेद् वा ऋणी लेख्यं चक्रवृद्धिव्यवस्थया ॥

[३२८] “शान्तलाभम्” परम् अवृद्धिप्राप्तम् ।

द्विगुणस्योपरि यदा चक्रवृद्धिः प्रगृह्यते ।
भोगलाभस् तथा तद्वन् मूलं स्यात् सोदयम् ऋणम् ॥

कात्यायनः [५०९] ।

ग्राह्यं स्याद् द्विगुणं द्रव्यं प्रयुक्तं धनिना सदा ।
लभेत चेन् न द्विगुणं पुनर् वृद्धिं प्रकल्पयेत् ॥

मनुः [८.१५४–५६] ।

ऋणं दातुम् अशक्तो यः कर्तुम् इच्छेत् पुनः क्रियाम् ।
स दत्वा निर्जितां वृद्धिं करणं परिवर्तयेत् ॥
अदर्शयित्वा तत्रैव हिरण्यं परिवर्तयेत् ।
यावती संभवेद् वृद्धिस् तावतीं दातुम् अर्हति ॥
चक्रवृद्धिं समारूढो देशकालव्यवस्थितः ।
अतिक्रामन् देशकालौ न तत्फलम् अवाप्नुयात् ॥

“ऽनिर्जिताम्” लभ्यत्वेनात्माधीनासंपन्नाम् । “करणं परिवर्तयेत्” अन्यलेख्यसाक्ष्यादि कुर्यात् । “अदर्शयित्वा” हिरण्यं दीयमानम् इति शेषः । तेन धनिने सर्वं सवृद्धिकं हिरण्यम् अदत्वेत्य् अर्थः । तत्रैव पुनः करणं परिवर्तयेत् साक्षिसमक्षम् एतद् ब्रूयात् । एतावन् मूलम् अस्मै धारयामि, एतावती वृद्धिर् इति पत्रे चारोपयेद् इत्य् अर्थः । एतच् च यावद्वृद्धि धनं दातुं शक्नोति तावद् दत्वा करणपरिवर्तनं कार्यम् । “समारूढः” प्रतिपन्नो ऽङ्गीकृतवान् इति यावत् । तत्फलं चक्रवृद्धिः लक्षणम् ।

[३२९] बृहस्पतिः [१०.५१, ५२, ५५] ।

हिरण्ये द्विगुणीभूते मृते नष्टे ऽधमर्णिके ।
द्रव्यं तदीयं संगृह्य विक्रीणीत ससाक्षिकम् ॥
रक्षेद् वा कृतमूल्यं तु दशाहं जनसंसदि ।
ऋणानुरूपं परतो गृह्णीतान्यत् तु वर्जयेत् ॥
स्वधनं च स्थिरीकृत्य गणनाकुशलैर् नरैः ।
तद्बन्धुज्ञातिविदितं प्रगृह्णन् नापराध्नुयात् ॥

मनुः [८.५०] ।

यः स्वयं साधयेद् अर्थम् उत्तमर्णो ऽधमर्णिकात् ।
स राज्ञा नाभियोक्तव्यः स्वकं संसाधयन् धनम् ॥

विष्णुः [६.१८]- “प्रयुक्तम् अर्थं यथा कथंचित् संसाधयन् न राज्ञो वाच्यः स्यात्” ।

“यथा कथंचित्” अवरोधवञ्चनादिना ।

याज्ञवल्क्यः [२.४०] ।

प्रयुक्तं साधयानो ऽर्थं न वाच्यो नृपतेर् भवेत् ।
साध्यमानो नृपं गच्छन् दण्ड्यो दाप्यश् च तद् धनम् ॥

[३३०] विष्णुः- “साध्यमानश् चेद् राजानम् अभिगच्छेत् तत्समं दण्ड्यः” ।

“तत्समम्” साध्यमानर्णसमम् ।

मनुः [८.१७६] ।

यः साधयन्तं छन्देन वेदयेद् धनिकं नृपे ।
स राज्ञा तच्चतुर्भागं दाप्यस् तस्य च तद् धनम् ॥

बृहस्पतिः [१०.९५] ।

प्रतिपन्नस्य धर्मो ऽयं व्यवसायी तु संसदि ।
लेख्येन साक्षिभिर् वापि भावयित्वा प्रदापयेत् ॥

बृहस्पतिः [१०.१०१] ।

अनावेद्य तु राज्ञे यः संदिग्धे ऽर्थे प्रवर्तते ।
प्रसह्य स विनेयः स्यात् स चाप्य् अर्थो न सिध्यति ॥

कात्यायनः [५८९] ।

पीडयेत् तु धनी यत्र ऋणिकं न्यायवादिनम् ।
तस्माद् अर्थात् स हीयेत तत्समं चाप्नुयाद् दमम् ॥

[३३१] बृहस्पतिः [१०.९७–९८] ।

नासेद्धव्यः क्रियावादी संदिग्धे ऽर्थे कथंचन ।
आसेधयंस् त्व् अनासेध्यं दण्ड्यो भवति दर्मतः ॥
प्रदातव्यं यद् भवति न्यायतस् तद् ददाम्य् अहम् ।
एवं यत्रर्णिको ब्रूते क्रियावादी स उच्यते ॥
रूपसंख्यादिलाभेषु यत्र भ्रान्तिर् द्वयोर् भवेत् ।
देयानादेययोर् वापि संदिग्धो ऽर्थः प्रकीर्तितः ॥

मनुः [८.४७] ।

अधमर्णार्थसिद्ध्यर्थम् उत्तमर्णेन चोदितः ।
दापयेद् धनिकस्यार्थम् अधमर्णाद् विभावितम् ॥

तथा [८.५५] ।

अर्थे ऽपव्ययमानं तु करणेन विभावितम् ।
दापयेद् धनिकस्यार्थं दण्डलेशं च शक्तितः ॥

तथा [८.५९] ।

यो यावन् निह्नुवीतार्थं मिथ्या यावति वा वदेत् ।
तौ नृपेण ह्य् अधर्मज्ञौ दाप्यौ तद्द्विगुणं दमम् ॥

[३३२] “अधमर्णार्थसिद्ध्यर्थम्” अधमर्णतो यो लभ्यो ऽर्थः तत्प्राप्त्यर्थम् । “उत्तमर्णेन चोदितः” प्रेरितः, अत्र राजा प्रकृतत्वात् । “विभावितम्” निश्चितम् । “निह्नुवीत” अपलपेत्, अधमर्ण इति सम्बन्धः । “मिथ्या यावति वा वदेत्” उत्तमर्ण इति सम्बन्धः ।

याज्ञवल्क्यः [२.११] ।

निह्नवे भावितो दद्याद् धनं राज्ञे च तत्समम् ।
मिथ्याभियोगी द्विगुणम् अभियोगाद् धनं वहेत् ॥

व्यासः ।

मिथ्याभियोगी द्विगुणम् अभियोगाद् धनं वहेत् ।
कारणे विधिर् एष स्याज् जितस्यैकतरस्य तु ॥
प्राङ्न्यायवादे तु तथा यच् चासत्येन युज्यते ।

“अभियोगात्” अभियुक्तधनात् । “कारणे” प्रत्यवस्कन्दने । “असत्येन” मिथ्योत्तरेण ।

नारदः [१.५५] ।

न च मिथ्याभियुञ्जीत दोषो मिथ्याभियोगिनः ।
यस् तत्र विनयः प्रोक्तः सो ऽभियोक्तारम् आव्रजेत् ॥

[३३३] मनुः [८.१३९] ।

ऋणे देये प्रतिज्ञाते पञ्चकं शतम् अर्हति ।
अपह्नवे तद्द्विगुणं तन् मनोर् अनुशासनम् ॥

यद्य् अर्थं विप्रतिपद्य राजसभायाम् आनीतो ऽधर्मर्णः ऋणं देयतया प्रतिजानीते — ऽसत्यम् अस्यै धारयामि" इति स पञ्चकं शतम् अर्हति, दण्डम् इति शेषः । यस् तु सभायां अप्य् अपह्नुते — ऽनाहम् अस्मै धारयामि" इति, स पञ्चशताद् द्विगुणम्, दशकं [शतं] दण्डम् अर्हति । अनेन संकलनेन विंशतितमो भागो दण्डः संपद्यते । एतच् चाशयदोषव्यतिरेकेण भ्रान्त्यादिना विप्रतिपद्य पश्चात् संप्रतिपद्यते तद्विषयम् । यत् तु ऽयो यावन् निह्नुवीतार्थम्" इत्य् अत्र द्विगुणदमदानं तदाशयदोषेण तथाकरणे ऽवगन्तव्यम् । तत्राधर्मज्ञाव् इत्य् अभिधानात् ।

[३३४] यमः ।

ऋणिकः सधनो यस् तु दौरात्म्यान् न प्रयच्छति ।
राज्ञा दापयितव्यः स्याद् गृहीत्वा द्विगुणं ततः ॥

नारदः [४.१३२] ।

ऋणिकः सधनो यस् तु दौरात्म्यान् न प्रयच्छति ।
राज्ञा दापयितव्यः स्याद् गृहीत्वांशं तु विंशकम् ॥

“विंशकं” विंशतितमम् अंशकम् ।

विष्णुः [६.२०–२२]- “उत्तमर्णश् चेद् राजानम् इयात् तद्विभावतो ऽधमर्णो राज्ञे धनदशभागसमं दण्डं दद्यात् । प्राप्तार्थश् चोत्तमर्णो विंशतितमम् अंशम्” ।

याज्ञवल्क्यः [२.४१–४२] ।

राज्ञाधमर्णिको दाप्यः साधिताद् दशकं शतम् ।
पञ्चकं तु शतं दाप्यः प्राप्तार्थो ऽप्य् उत्तमर्णिकः ॥

[३३५] > गृहीतानुक्रमाद् दाप्यो धनिनाम् अधमर्णिकः ।

दत्वा तु ब्राह्मणायैव नृपतेस् तदनन्तरम् ॥

कात्यायनः [५१४, ५१३, ५१५] ।

नानर्ण्समवाये तु यद् यत् पूर्वकृतं भवेत् ।
तत् तद् एवाग्रतो देयं राज्ञः स्याच् छ्रोत्रियाद् अनु ।
एकाहे लिखितं यच् च तत्र कुर्याद् ऋणं समम् ।
ग्रहणं रक्षणं लाभम् अन्यथा तु यथाक्रमम् ।

“नानर्णसमवाये” नानाऋणसंनिपाते ।

[३३६] याज्ञव्ल्क्यः [२.९३] ।

लेख्यस्य पृष्ठे ऽभिलिखेद् दत्वा दत्वा धनं ऋणी ।
धनी चोपगतं दद्यात् स्वहस्तपरिचिह्नितम् ॥

विष्णुः [६.२६]- “असमग्रदाने लेख्यासंनिधाने चोत्तमर्णः स्वलिखितं दद्यात्” ।

नारदः [४.११४] ।

गृहीत्वोपगतं दद्याद् ऋणिकायोदयं धनी ।
अददद् याच्यमानस् तु शेषहानिम् अवाप्नुयात् ॥

बृहस्पतिः [१०.१३०] ।

धर्मादिनोद्ग्राह्य ऋणं यस् तूपरि न लेखयेत् ।
न चैवोपगतं दद्यात् तद्द्विवृद्धिम् अवाप्नुयात् ॥

[३३७] याज्ञवल्क्यः [२.९४] ।

दत्वर्णं पाटयेल् लेख्यं शुद्ध्यै वान्यत् तु कारयेत् ।
साक्षिमच् च भवेद् यद् वा तद् दातव्यं ससाक्षिकम् ॥

विष्णुः [६.२४–२५]- “ससक्षिकम् आप्तं ससाक्षिकम् एव दद्यात् । लिखितार्थे प्रविष्टे लिखितं पाटयेत्” ।

नारदः [४.११६, ११२, ११३] ।

लेख्यं दद्याद् विशुद्धर्णे तदभावे प्रतिश्रवम् ।
धनिकर्णिकयोर् एवं विशुद्धिः स्यात् परस्परम् ॥
ब्राह्मणस्य तु यद् देयं सान्वयस्य तु नास्ति सः ।
निक्षिपेत् तत्सकुल्येषु तदभावे ऽस्य बन्धुषु ॥
यदा तु न सकुल्याः स्युः न च संबन्धिबान्धवाः ।
तदा दद्याद् द्विजातिभ्यस् तेष्व् असत्स्व् अप्सु निक्षिपेत् ॥

इति भट्ट[श्री]हृदयधरात्मजमहासांधिविग्रहिक-

भट्टश्रीमल्लक्ष्मीधरविरचिते कृत्यकल्पतरौ

व्यवहारकाण्दे ऋणादानादिपर्व

[३३८]