५५ स्वतन्त्रास्वतन्त्रलक्षणम्
अथ स्वतन्त्रास्वतन्त्रलक्षणम्
तत्र नारदः [४.३१, ३३–३७] ।
स्वातन्त्र्यं तु स्मृतं ज्यैष्ठ्यं ज्यैष्ठ्यं गुणवयःकृतम् ।
तथा ।
स्वतन्त्राः प्रजाः सर्वाः स्वतन्त्रः पृथिवीपतिः ।
अस्वतन्त्रः स्मृतः शिष्य आचार्ये तु स्वतन्त्रता ॥
अस्वतन्त्राः स्त्रियः सर्वाः पुत्रा दासाः परिग्रहाः ।
स्वतन्त्रस् तत्र तु गृही यस्य तत् स्यात् क्रमागतम् ॥
गर्भस्थैः सदृशो ज्ञेयः आष्टमाद् वत्सराच् छिशुः ।
बाल आषोषशाद् वर्षात् पोगण्डश् चेति कीर्त्यते ॥
[२७५] > परतो व्यवहारज्ञः स्वतन्त्रः पितरावृते ।
जीवतोर् न स्वतन्त्रः स्याज् जरयापि समन्वितः ॥
तयोर् अपि पिता श्रेयान् बीजप्राधान्यदर्शनात् ।
अभावे बीजिनो माता तदभावे तु पूर्वजः ॥
कात्यायनः [४६६] ।
पितास्वतन्त्रः पितृमान् भ्राता ब्रातृव्य एव वा ।
कनिष्ठो वाविभक्तस्वो दासः परिकरस् तथा ॥
“पितास्वतन्त्रः” पितृमान् अस्वतन्त्र इत्य् अर्थः । “अविभक्तस्वः” अविभिक्तधनः ।
हारीतः ।
दानार्थे वा धनार्थे वा धर्मार्थे वा विशेषतः ।
आदाने वा विसर्गे वा न स्त्री स्वातन्त्र्यम् अर्हति ॥
नारदः [२.३८] ।
स्वतन्त्राः सर्व एवैते परतन्त्रेषु नित्यशः ।
अनुशिष्टौ विसर्गे च विक्रये चेश्वरा मताः ॥
“एते” पूर्वोक्तराजदयः ।
कात्यायनः [४६८–६९] ।
प्रमाणं सर्व एवैते पण्यानां क्रयविक्रये ।
यदि संव्यवहारं प्राक् कुर्वन्तो ह्य् अनुमोदिताः ॥
क्षेत्रादीनां तथैव स्याद् भ्राता भ्रातृसुतः सुतः ।
निसृष्टाः कृत्यकरणे गुरुणा यदि गच्छता ॥
[२७६] > निसृष्टार्थस् तु यो यस्मिन् तस्मिन्न् अर्थे प्रभुस् तु सः ।
तद् भर्ता तत्कृतं कार्यं नान्यथा कर्तुम् अर्हति ॥
बृहस्पतिः [९.२९, २८] ।
यः स्वामिना नियुक्तस् तु धनायव्ययपालने ।
कुसीदकृषिवाणिज्ये निसृष्टार्थस् तु स स्मृतः ॥
प्रमाणं तत्कृतं सर्वं लाभालाभव्ययोदयम् ।
स्वदेशे वा विदेशे वा स्वामी तन् न विसंवदेत् ॥
कात्यायनः [४७१] ।
सुतस्य सुतदाराणां वशित्वं त्व् अनुशासने ।
विक्रये चैव दाने च वशित्वं न सुते प्रभुः ॥
इति महाराजाधिराजश्रीमद्गोविन्दचन्द्रदेवमहासन्धिव्रहिकेण
भट्टहृदयधरात्मजेन
भट्टश्रीमल्लक्ष्मीधरेण विरचिते कृत्यकल्पतरौ
व्यवहारकाण्दे व्यवहारमातृका
समाप्ता ॥
[२७७]
अथर्णादानादिव्यवहारपदानि