अथ कृतनिवृत्तिः
तत्र मनु-विष्णू ।
यस्मिन् यस्मिन् विवादे तु कौटसाक्ष्यं कृतं भवेत् ।
तत् तत् कार्यं निवर्तेत कृतं वाप्य् अकृतं भवेत् ॥
नारदः [१.४३] ।
स्त्रीषु रात्रौ बहिर् ग्रामाद् अन्तर्वेश्मन्य् अरातिषु ।
व्यवहारः कृतो ऽप्य् एषु पुनः कर्तव्यताम् इयात् ॥
मनु-नारदौ [मनु ८.१६४; ना। २.१५] ।
सत्या न भाषा भवति यद्य् अपि स्यात् प्रतिष्ठिता ।
बहिश् चेद् भाष्यते धर्मान् नियताद् व्यावहारिकात् ॥
[२७१] नियता व्यावहारिकधर्मविषया भाषोच्यते । सा प्रतिष्ठितापि लेख्यादिप्रमाणवत्य् अपि न सत्या । तया यो ऽर्थः प्रतिपाद्यते स नानुष्ठेयो यथा ********* [लचुन] कश्चिद् अनेन मम सर्वस्वं दत्तम् इत्यादि ।
मनुः [८.१६५, १३८] ।
योगाधमनविक्रीतं योगदानप्रतिग्रहम् ।
यत्र वाप्य् उपधिं पश्येत् तत् सर्वं विनिवर्तयेत् ॥
बलाद् दत्तं बलाद् भुक्तं बलाद् यच् चापि लेखितम् ।
सर्वान् बलकृतान् अर्थान् अकृतान् मनुर् अब्रवीत् ॥
“योगः” छद्म । तेन यद् बन्धकार्पणादि कृतं तद् राजा निवर्तयेद् इत्य् अर्थः । “उपधिः” छलम् ।
तथा [८.१६३] ।
मत्तोन्मत्तार्ताधधीनैर् बालेन स्थविरेण वा ।
असम्बद्धकृतश् चैव व्यवहारो न सिध्यति ॥
[२७२] “अध्वधीनो” दासः ।
नारदः [४.३९–४२; ४.२९–३०] ।
यद् बालः कुरुते कार्यम् अस्वतन्त्रस् तथैव च ।
अकृतं तद् अपि प्राहुः शास्त्रे शास्त्रविदो जनाः ॥
स्वतन्त्रो ऽपि हि यत् कार्यं कुर्याद् अप्रकृतिं गतः ।
तद् अप्य् अकृतम् एवाहुर् अस्वतन्त्रः स्वहेतुतः ॥
कामक्रोधाभिभूतार्तभयव्यसनपीडिताः ।
रागद्वेषपरीताश् च ज्ञेयास् त्व् अप्रकृतिं गताः ॥
तथा दासकृतं कार्यम् अकृतं परिचक्षते ।
अन्यत्र स्वामिसन्देशान् न दासः प्रभुर् आत्मनः ॥
पुत्रेण च कृतं कार्यं यत्र स्याच् छन्दतः पितुः ।
तद् अप्य् अकृतम् एवाहुर् दासः पुत्रश् च तौ समौ ॥
कार्त्यायनः [४६७] ।
न क्षेत्रगृहदासानां दानाधमनविक्रयः ।
अस्वतन्त्रकृताः सिद्धिं प्राप्नुयुर् नानुवर्णिताः ॥
“नानुवर्णिताः” अननुमताः, स्वतन्त्रेणेति शेषः ।
[२७३] नारदः [२.२६–२७, ४२] ।
स्त्रीकृतान्य् अप्रमाणानि कार्याण्य् आहुर् अनापदि ।
विशेषतो गृहक्षेत्रदानाधमनविक्रये ॥
एतान्य् एव प्रमाणानि भर्ता यद्य् अनुमन्यते ।
पुत्रः पत्युर् अभावे वा राजा वा पतिपुत्रयोः ॥
कुले ज्येष्टस् तथा श्रेष्ठः प्रकृतिस्थश् च यो भवेत् ।
तत्कृतं स्यात् कृतं कार्यं नास्वतन्त्रकृतं कृतम् ॥
[२७४]