अथ पुनर्न्यायः
तत्र मनुः [९.२३३] ।
तीरितं चानुशिष्टं च यत्र क्वचन यद् भवेत् ।
कृतं तद् धर्मतो विद्यान् न तद् भूयो निवर्तयेत् ॥
“तीरितम्” इति “पारतीरकर्मसमाप्तौ” इत्य् अस्य निष्ठाप्रत्यये रूपम् । तेन निर्णीय समापितम् इत्य् अर्थः । “अनुशिष्टं” साक्षिभिर् उक्तम् । “यत्र क्वचन” ग्रामादिसभायाम् ।
नारदः [१.६५] ।
तीरितं चानुशिष्टं च यो मन्येत विधर्मतः ।
द्विगुणं दण्डम् आस्थाय तत् कार्यं पुनर् उद्धरेत् ॥
तथा [२.४०] ।
साक्षिस्भ्यावसन्नानां दूषणे दर्शनं पुनः ।
स्वचर्यावसितानां तु नोक्तः पौनर्भवो विधिः ॥
“साक्षिसभ्यावसन्नानाम्” साक्षिसभ्यद्वारेण प्राप्तावसादानाम् । “दूषणे” साक्षिषु सभ्येषु चेत्य् अन्वयः । “दर्शनम्” पुनः पुनर् व्यवहारदर्शनं कर्तव्यम् इत्य् अर्थः । “स्वचर्यवसितः” स्वव्यापारेण परस्परविरुद्धभाषणादिना पराजितः ।
[२६८] बृहस्पतिः [९.२२] ।
पलायनानुत्तरत्वाद् अन्यपक्षाश्रयेण च ।
हीनस्य गृह्यते वदो न स्ववाक्यैर् जितस्य तु ॥
बृहस्पति-कात्यायनौ ।
कुलादिभिर् निर्श्चिते ऽपि न संतोषं गतश् च यः ।
विचार्य तत् कृतं राजा कुकृतं पुनर् उद्धरेत् ॥
बृहस्पतिः [९.२४] ।
निश्चित्य बहुभिः सार्धं ब्राह्मणैः शास्त्रपारगैः ।
दण्डयेज् जयिना साकं पूर्वसभ्यांस् तु दोषिणः ॥
याज्ञवल्क्यः [२.३०५] ।
दुर्दृष्टांस् तु पुनर् दृष्ट्वा व्यवहारान् नृपेण तु ।
सभ्याः सजयिनो दण्ड्या विवादाद् द्विगुणं दमम् ॥
[यो मन्येताजितो ऽस्मीति न्यायेनापि पराजितः ।
सभायां तत् पुनर् जित्वा दापयेद् द्विगुणं दमम् ॥]
[२६९] नारदः [२.६६] ।
दुर्दृष्टे व्यवहारे तु सभ्यास् तं दण्डम् अप्नुयुः ।
न हि जातु विना दण्डं कश्चिन् मार्गे ऽवतिष्ठते ॥
मनुः [९.२३४] ।
अमात्याः प्राड्विवाको वा ये कुर्युः कर्यम् अन्यथा ।
तत् स्वयं नृपतिः कुर्यात् तान् सहस्रं च दण्डयेत् ॥
[२७०]