अथ जयीप्रतिपत्तिः
तत्र बृहस्पतिः [९.२१] ।
प्रतिज्ञाभावनाद् वादी प्राड्विवाकादिपूजनात् ।
जयपत्रस्य चादानाज् जयी लोके निगद्यते ॥
कात्यायनः [२६२] ।
सिद्धेनार्थेन संयोज्यो वादी सत्कारपूर्वकम् ।
लेख्यं स्वहस्तसंयुक्तं तस्मै दद्यात् तु पार्थिवः ॥
व्यासः ।
व्यवहारान् स्वयं दृष्ट्वा श्रुत्वा वा प्राड्विवाकतः ।
जयपत्रं ततो दद्यात् परिज्ञानाय पार्थिवः ॥
कात्यायनः [२६४] ।
निरस्तं लिखितं यत् तु तत् तु सद्यो विनाशयेत् ।
पश्चात्कारक्रिया चाथ निरस्येत् तन् न संशयः ॥
निरस्ता तु क्रिया यत्र प्रमाणेनैव वादिना ।
पश्चात्कारो भवेत् तत्र न सर्वासु विधीयते ॥
दासस्त्रीभूगृहारामलेखकानां पराजये ।
एतेष्व् एव यदा देयः पश्चात्कारस् तु पार्थिवैः ॥
“पश्चात्कारो” निर्णयानन्तरजयपत्रादिका क्रिया । “प्रमाणम्” साक्ष्यादि । “एतेष्व् एव” इत्य् उपलक्षणम् ।
[२६७]